१०।१
श्री-भगवान् उवाच
भूय एव महाबाहो शृणु मे परमं वचः ।
यत् ते ऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥
श्रीधरः :
उक्ताः सङ्क्षेपतः पूर्वं सप्तमादौ विभूतयः ।
दशमे ता वितन्यन्ते सर्वत्रेश्वर-दृष्टये ॥
एवं तावत् सप्तमादिभिर् अध्यायैर् भजनीयं परमेश्वर-तत्त्वं निरूपितम् । तद्-विभूतयश् च सप्तमे रसो ऽहम् अप्सु कौन्तेय [गीता ७।८] इत्य् आदिना सङ्क्षेपतो दर्शिताः । अष्टमे च अधियज्ञो ऽहम् एवात्र [गीता ८।४] इत्य् आदिना । नवमे च अहं क्रतुर् अहं यज्ञ [गीता ९।१६] इत्य् आदिना । इदानीं ता एव विभूतीः प्रपञ्चयिष्यन् स्व-भक्तेश् चावश्य-करणीयत्वं वर्णयिष्यन् भगवान् उवाच भूय एवेति । महान्तौ युद्धादि-स्वधर्मानुष्ठाने महत्-परिचर्यायां वा कुशलौ बाहू यस्य तथा हे महाबाहो ! भूय एव पुनर् अपि मे वचः शृणु । कथम्भूतम् ? परमं परमात्म-निष्ठम् । मद्-वचनामृतेनैव प्रीतिं प्रापुन्वते ते तुभ्यं हित-काम्यया हितेच्छया यद् अहं वक्ष्यामि ॥१॥
मधुसूदनः : एवं सप्तमाष्टम-नवमैस् तत्-पदार्थस्य भगवतस् तत्त्वं सोपाधिकं निरुपाधिकं च दर्शितम् । तस्य च विभूतयः सोपाधिकस्य ध्याने निरुपाधिकस्य ज्ञाने चोपाय-भूता रसो ऽहम् अप्सु कौन्तेय [गीता ७।८] इत्य् आदिना सप्तमे, अहं क्रतुर् अहं यज्ञ [गीता ९।१६] इत्य् आदिना नवमे च सङ्क्षेपेणोक्ताः । अथेदानीं तासां विस्तरो वक्तव्यो भगवतो ध्यानाय तत्त्वम् अपि दुर्विज्णियत्वात् पुनस् तस्य वक्तव्यं ज्ञानायेति दशमो ऽध्याय आरभ्यते । तत्र प्रथमम् अर्जुनं प्रोत्साहयितुम् भूय एवेति । भूय एव पुनर् अपि हे महाबाहो शृणु मे मम परमं प्रकृष्टं वचः । यत् ते तुभ्यं प्रीयमाणाय मद्-वचनाद् अमृत-पानाद् इव प्रीतम् अनुभवते वक्ष्याम्य् अहं परमाप्तस् तव हित-काम्ययेष्ट-प्राप्तीच्छया ॥१॥
विश्वनाथः :
ऐश्वरं ज्ञापयित्वोचे भक्तिं यत् सप्तमादिषु ।
स-रहस्यं तद् एवोक्तं दशमे स-विभूतिकम् ॥
आराध्यत्व-ज्ञान-कारणम् ऐश्वर्यं यद् एव पूर्वत्र सप्तमादिषूक्तम् । तद् एव स-विशेषं भक्ति-मताम् आनन्दार्थं प्रपञ्चयिष्यन् परोक्ष-वादा ऋषयः परोक्षं च मम प्रियम् [भ्प् ११।२१।३५] इति न्यायेन किञ्चिद् दुर्बोधतयैवाह भूय इति । पुनर् अपि राज-विद्या-राज-गुह्यम् इदम् उच्यते इत्य् अर्थः । हे महाबाहो ! इति यथा बाहु-बलः सर्वाधिक्येन त्वया प्रकाशितम्, तथैवैतद् बुद्ध्या बुद्धि-बलम् अपि सवार्धिक्येन प्रकाशयितव्यम् इति भावः । शृण्व् इति शृण्वन्तम् अपि तं वक्ष्यमाणे ऽर्थे सम्यग् अवधारणार्थम् । परमं पूर्वोक्ताद् अप्य् उत्कृष्टम् । ते त्वाम् अतिविस्मितीकर्तुं क्रियार्थोपपदस्य च [पाण् २।३।१४] इति चतुर्थी । यतः प्रीयमाणाय प्रेमवते ॥१॥
बलदेवः :
सप्तमादौ निजैश्वर्यं भक्ति-हेतुं यद् ईरितम् ।
विभूति-कथनेनात्र दशमे तत् प्रपुष्यते ॥
पूर्व-पूर्वत्र स्वैश्वर्य-निरूपण-सम्भिन्ना सपरिकरा स्व-भक्तिर् उपदिष्टा । इदानीं तस्या उत्पत्तये विवृद्धये च स्वासाधरणीः प्राक् सङ्क्षिप्योक्ताः स्व-विभूति-विस्तरेण वर्णयिष्यन् भगवान् उवाच भूय इति । हे महाबाहो ! भूय एव पुनर् अपि मे परमं वचः शृणु । शृण्वन्तं प्रति शृण्व् इत्य् उक्तिर् उपदेश्ये ऽर्थे समवधानाय । परमं श्रीमत् मद्-दिव्य-विभूति-विषयकं यद् वचस् ते तुभ्यम् अहं हित-काम्यया वक्ष्यामि । क्रियार्थोपपद इत्य् आदि सूत्राच् चतुर्थी । विज्ञम् अपि त्वां विस्मितं कर्तुम् इत्य् अर्थः । हित-काम्यया मद्-भक्त्य्-उत्पत्ति-तद्-वृद्धि-रूप-त्वत्-कल्याण-वाञ्छा । ते कीदृशायेत्य् आह प्रीयमाणायेति पीयूष-पानाद् इव मद्-वाक्यात् प्रीतिं विन्दते ॥१॥
१०।२
न मे विदुः सुर-गणाः प्रभवं न महर्षयः
अहम् आदिर् हि देवानां महर्षीणां च सर्वशः ॥२॥
श्रीधरः : उक्तस्यापि पुनर् वचने दुर्ज्ञेयत्वं हेतुम् आह न मे विदुर् इति । मे मम प्रकृष्टं भवं जन्म-रहितस्यापि नाना-विभूतिभिर् आविर्भावं सुर-गणा अपि महर्षयो ऽपि भृग्व्-आदयो न जानन्ति । तत्र हेतुः – अहं हि सर्व-देवानां महर्षीणां चादिः कारणम् । सर्वशः सर्वैः प्रकारैः उत्पादकत्वेन बुद्ध्य्-आदि-प्रवर्तकत्वेन च । अतो मद्-अनुग्रहं विना मां के ऽपि न जानन्तीत्य् अर्थः ॥२॥
मधुसूदनः : प्राग्-बहुधोक्तम् एव किम् अर्थं पुनर् वक्ष्यसीत्य् अत आह न मे विदुर् इति । प्रभवं प्रभावं प्रभु-शक्त्य्-अतिशयं प्रभवनम् उत्पत्तिम् अनेक-विभूतिभिर् आविर्भावं वा सुर-गणा इन्द्रादयो महर्षयश् च भृग्व्-आदयः सर्वज्ञा अपि न मे विदुः । तेषां तद्-अज्ञाने हेतुम् आह अहं हि यस्मात् सर्वेषां देवानां महर्षीणां च सर्वशः सर्वैः प्रकारैर् उत्पादकत्वेन बुद्ध्यादि-प्रवर्तकत्वेन च निमित्तत्वेनोपादानत्वेन चेति वादिः कारणात् । अतो मद्-विकारास् ते मत्-प्रभावं न जानन्तीत्य् अर्थः ॥२॥
विश्वनाथः : एतच् च केवलं मद्-अनुग्रहातिशयेनैव वेद्यं नान्यथेत्य् आह न मे इति । मम प्रभवं प्रकृष्टं सर्वं विलक्षणं भवं देवक्यां जन्म देव-गणा न जानन्ति, ते विषयाविष्टत्वान् न जानन्तु । ऋषयस् तु जानीयुस् तत्राह न महर्षयो ऽपि । तत्र हेतुः अहम् आदिः कारणं सर्वशः सर्वैर् एव प्रकारैः । न हि पितुर् जन्म-तत्त्वं पुत्रा जानन्तीति भावः । न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवा [गीता १०।१४] इत्य् अग्रिमानुवादाद् अत्र प्रभव-शब्दस्यान्यार्थता न कल्प्या ॥२॥
बलदेवः : एतच् च मद्-भक्तानुकम्पां विना दुर्विज्ञानम् इति भाववान् आह न मे इति । सुर-गणा ब्रह्मादयो महर्षयश् च सनकादयः मे प्रभवं प्रभुत्वेन भवम् अनादि-दिव्य-स्वरूप-गुण-विभूति-मत्तयावर्तनम् इति यावत् न विदुर् न जानन्ति । कुत इत्य् आह अहम् आदिर् इति । यद् अहं तेषाम् आदिः पूर्व-कारणं सर्वशः सर्वैः प्रकारैर् उत्पादकतया बुद्ध्य्-आदि-दातृतया चेत्य् अर्थः । देवत्वादिकम् ऐश्वर्यादिकं च मयैव तेभ्यस् तत्-तद्-आराधन-तुष्टेन दत्त-मतः स्व-पूर्व-सिद्धं मां मद्-ऐश्वर्यं च ते न विदुः । श्रुतिश् चैवम् आह -
को अद्धा वेद क इह प्रावोचत्
कुत आ जाता कुत इयं विसृष्टिः ।
अर्वाग्-देवा अस्य विसर्जनाय
अथा को वेद यत आबभूव [र्व् ८।७।१७, तैत्त्।ब्र्। २।८।९।७६] इति,
नैतद् देवा आप्नुवन् पूर्वम् अर्शत् इति चैवम् आद्या ॥२॥
१०।३
यो माम् अजम् अनादिं च वेत्ति लोकमहेश्वरम्
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥३॥
श्रीधरः : एवम्भूतात्म-ज्ञाने फलम् आह यो माम् इति । सर्व-कारणत्वाद् एव न विद्यत आदिः कारणं यस्य तम् अनादिम् । अतएवाजं जन्म-शून्यं लोकानां महेश्वरं च मां यो वेत्ति स मनुष्येष्व् असम्मूढः सम्मोह-रहितः सन् सर्व-पापैः प्रमुच्यते ॥३॥
मधुसूदनः : महाफलत्वाच् च कश्चिद् एव भगवतः प्रभावं वेत्तीत्य् आह यो माम् इति । सर्व-कारणत्वान् न विद्यत आदिः कारणं यस्य तम् अनादिम् अनादित्वाद् अजं जन्म-शून्यं लोकानां महान्तम् ईश्वरं च मां यो वेत्ति स मर्त्येषु मध्ये ऽसम्मूढः सम्मोह-वर्जितः सर्वैः पापैर् मति-पूर्व-कृतैर् अपि प्रमुच्यते प्रकर्षेण कारणोच्छेदात् तत्-संस्काराभाव-रूपेण मुच्यते मुक्तो भवति ॥३॥
विश्वनाथः : ननु पर-ब्रह्मणः सर्व-देश-कालापरिच्छिन्नस्य तवैतद् देहस्यैव जन्म देवा ऋषयश् च जानन्त्य् एव । तत्र स्व-तर्जन्या स्व-वक्षः स्पृष्ट्वाह यो माम् इति । यो माम् अजं वेत्ति । किं परमेष्ठिनं न अनादिं सत्यं तर्हि अनादित्वाद् अजम् अजन्यं पर्मात्मानं त्वां वेत्त्य् एव तत्राह चेति । अजम् अजन्यं वसुदेव-जन्यं च माम् अनादिम् एव यो वेत्ति इत्य् अर्थः । माम् इति पदेन वसुदेव-जन्यत्वं बुध्यते जन्म कर्म च मे दिव्यम् [गीता ४।९] इति मद्-उक्तेः । मम जन्मवत्त्वं परमात्मत्वात् सदैवाजत्वं च इत्य् उभयम् अपि मे परमं सत्यं अचिन्त्य-शक्ति-सिद्धम् एव । यद् उक्तं अजो ऽपि सन्न् अव्ययात्माअ᳡ सम्भवामि [गीता ४।६] इति । तथा चोद्धव-वाक्यं कर्माण्य् अनीहस्य भवो ऽभवस्य ते इत्य् आद्य्-अनन्तरं खिद्यति धीर् विदाम् इह [भ्प् ३।४।१६] इति । अत्र श्री-भागवतामृत-कारिका च-
तत् तन् न वास्तवं चेत् स्याद् विदां बुद्धि-भ्रमस् तदा ।
न स्याद् एवेत्य् अतो ऽचिन्त्या शक्तिर् लीलासु कारणम् ॥ [ल्भाग् १।५।११९]
तस्माद् यथा मम बाल्ये दामोदरत्व-लीलायाम् एकदैव किङ्किण्या बन्धनात् परिच्छिन्नत्वं दाम्ना स्वाबन्धाद् अपरिच्छिन्नत्वं चातर्क्यम् एव तथैव ममाजत्व-जन्मवत्त्वे चातर्क्ये एव । दुर्बोधम् ऐश्वर्यं चाह लोक-महेश्वरं तव सारथिम् अपि सर्वेषां लोकानां महान्तम् ईश्वरं यो वेद स एव मर्त्येषु मध्ये असम्मूढः । सर्व-पापैर् भक्ति-विरोधिभिः । यस् तु अजत्वानादित्व-सर्वेश्वरत्वान्य् एव वास्तवानि स्युर् जन्मवत्त्वादीनि तु अनुकरण-मात्र-सिद्धानीति व्याचष्टे । स सम्मूढ एव सर्व-पापैर् न प्रमुच्यत इत्य् अर्थः ॥३॥
बलदेवः : इदं तादृश-मद्-विषयकं ज्ञानं कस्यचिद् एव भवतीति भावेनाह यो माम् इति । मर्त्येषु यतमानेष्व् अपि सहस्रेषु मध्ये यो यादृच्छिक-मत्तत्ववित् सत्-प्रसङ्गी कश्चिज् जनो माम् अनादिम् अजं लोक-महेश्वरं च वेत्ति । सो ऽसम्मूढः सर्व-पापैः प्रमुच्यत इति सम्बन्धः । अत्र अजम् इत्य् अनेन प्रधानाद् अचिद्-वर्गात् संसारि-वर्गाच् च भेदः । आद्यस्य स्व-परिणामेनान्तस्य देह-जन्मना च जन्मित्वात् । अनादिम् इत्य् अनेन विशेसिते तु मुक्त-चिद्-वर्गाच् च भेदस् तस्याजत्वम् आदिम-देव-देह-सम्बन्धेन जन्मित्वस्य पूर्व-वृत्तित्वात् लोक-महेश्वरम् इत्य् अनेन नित्य-मुक्त-चिद्-वर्गात् प्रकृति-कालाभ्यां च भेदस् तेषाम् अनाद्य्-अजत्वे सत्य् अपि लोक-महेश्वरत्वाभावात् । पुनर् अनादिम इत्य् अनेन विशेषिते विधि-रुद्रादिभ्यां च भेदस् तयोर् लोक-महेश्वरतायाः सादित्वात् सर्वैश्वरेणैव तयोः
सेत्य् अन्यत्र विस्तरः । इत्थं च सर्वदा हेय-सम्बन्धाभावान् नित्य-सिद्ध-सार्वैश्वर्याच् च सर्वेतर-विलक्षणं यो वेत्ति, स मद्-भक्त्य्-उत्पत्ति-प्रतीपैर् निखिलैः कर्मभिर् विमुक्तो मद्-भक्तिं विन्दति । असम्मूढो ऽन्य-सजातीयतया मज्-ज्ञानं सअमोहस् तेन विवर्जितः । न च देवक्यां जातस्य ते कथम् अजत्वं तस्याम् अजत्वम् अविहायैव जातत्वात् ॥३॥
१०।४-५
बुद्धिर् ज्ञानम् असम्मोहः क्षमा सत्यं दमः शमः
सुखं दुःखं भवो ऽभावो भयं चाभयम् एव च ॥४॥
अहिंसा समता तुष्टिस् तपो दानं यशो ऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥५॥
श्रीधरः : लोक-महेश्वरताम् एव स्फुटयति बुद्धिर् इति त्रिभिः । बुद्धिः सारासार-विवेक-नैपुण्यम् । ज्ञानम् आत्म-विषयम् । असम्मोहो व्याकुलत्वाभावः । क्षमा सहिष्णुत्वम् । सत्यं यथार्थ-भाषणम् । दमो बाह्येन्द्रिय-संयमः । शमो ऽन्तःकरण-संयमः । सुखं मनो ऽनुकूल-संवेदनीयम् । दुःखं च तद्-विपरीतम् । भव उद्भवः । अभावस् तद्-विपरीतम् । भयं त्रासः । अभयं तद्-विपरीतम् । अस्य श्लोकस्य मत्त एव भवतीत्य् उत्तरेणान्वयः ॥४॥
किं च अहिंसेति । अहिंसा पर-पीडानिविऋत्तिः । समता राग-द्वेषादि-राहित्यम् । तुष्टिर् दैव-लब्धेन सन्तोषः । तपः शास्त्रीयादि-वक्ष्यमाणम् । दानं न्यायार्जितस्य धनादेः पात्रे ऽर्पणम् । यशः सत्-कीर्तिः । अयशो दुष्कीर्तिः । एते बुद्धिर् ज्ञानम् इत्य् आदयस् तद्-विपरीताश् चाबुद्ध्य्-आदयो नाना-विधा भावाः प्राणिनां मत्तो मत्-सकाशाद् एव भवन्ति ॥५॥
मधुसूदनः : आत्मनो लोक-महेश्वरत्वं प्रपञ्चयति बुद्धिर् इति द्वाभ्याम् । बुद्धिर् अन्तःकरणस्य सूक्मार्थ-विवेक-सामर्थय्म् । ज्ञानम् आत्मानात्म-सर्व-पदार्थावबोधः । असम्मोहः प्रत्युत्पन्नेषु बोधव्येषु कर्तव्येषु व्याकुलतया विवेकेन प्रवृत्तिः । क्षमाक्रुष्टस्य ताडितस्य वा निर्विकार-चित्तता । सत्यं प्रमाणेनावबुद्धस्यार्थस्य तथैव भाषणम् । दमो बाह्येन्द्रियाणां स्व-विषयेभ्यो निवृत्तिः । शमो ऽन्तःकरणस्य शमता । सुखं धर्मासाधारण-कारणकम् अनुकूल-वेदनीयम् । दुःखम् अधर्मासाधारण-कारणकं प्रतिकूल-वेदनीयम् । भव उत्पत्तिः । भावः सत्ता । अभावो ऽसत्तेति वा । भयं च त्रासस् तद्-विपरीतम् अभयम् । एव च एकश् च-कार उक्त-समुच्चयार्थः । अपरो ऽनुक्ताबुद्ध्य्-अज्ञानादि-समुच्चयार्थः । एवेत्य् एते सर्व-लोक-प्रसिद्धा
एवेत्य् अर्थः । मत्त एव भवतीत्य् उत्तरेणान्वयः ॥४॥
अहिंसा प्राणिनां पीडाया निविऋत्तिः । समता चित्तस्य राग-द्वेषादि-रहितावस्था । तुष्टिर् भोग्येष्व् एतावतालम् इति बुद्धिः । तपः शास्त्रीय-मार्गेण कायेन्द्रिय-शोषणम् । दानं देशे काले श्रद्धया यथा-शक्त्य्-अर्थानां सत्-पात्रे समर्पणम् । यशो धर्म-निमित्ता लोक-श्लाघा-रूपा प्रसिद्धिः । अयशस् त्व् अधर्म-निमित्ता लोक-निन्दा-रूपा प्रसिद्धिः । एते बुद्ध्य्-आदयो भावाः कार्य-विशेषाः स-कारणकाः पृथग्-विधा धर्माधर्मादि-साधन-वैचित्र्येण नाना-विधा भूतानां सर्वेषां प्राणिनां मत्तः परमेश्वराद् एव भवन्ति नान्यस्मात् तस्मात् किं वाच्यं मम लोक-महेश्वरत्वम् इत्य् अर्थः ॥५॥
विश्वनाथः : न च शास्त्र-ज्ञाः स्व-बुद्ध्य्-आदिभिर् मत्तत्वं ज्ञातुं शक्नुवन्ति, यतो बुद्ध्य्-आदीनां सत्त्वादिवन्-माया-गुण-जन्यत्वान् मत्त एव जातानाम् अपि गुणातीते मयि नास्ति स्वतः प्रवेशयोग्यतेत्य् आह बुद्धिः सूक्ष्मार्थ-निश्चय-सामर्थ्यम् । ज्ञानम् आत्मानात्म-विवेकः । असम्मोहो वैयग्र्याभावः । एते त्रयो भावा मत्-तत्त्व-ज्ञान-हेतुत्वेन सम्भाव्यमाना इव, न तु हेतवः । प्रसङ्गाद् अन्यान् अपि भावान् लोकेषु दृष्टान् न स्वत एवोद्भूतान् आह क्षमा सहिष्णुत्वम् । सत्यं यथार्थ-भाषणम् । दमो बाह्येन्द्रिय-निग्रहः । शमो ऽन्तरिन्द्रिय-निग्रहः । एते सात्त्विकाः । सुखं सात्त्विकम् । दुःखं तामसम् । भवाभावौ जन्म-मृत्यु-दुःख-विशेषौ, भयं तामसम् अभयं ज्ञानोत्थं सात्त्विकम् । राजसाद्य्-उत्थं राजसम् । समतात्मौपम्येन
सर्वत्र सुख-दुःखादि-दर्शनम् अहिंसा समते सात्त्विक्यौ । तुष्टिः सन्तुष्टिः । सा निरुपाधिः सात्त्विकी । सोपाधिस् तु राजसी । तपो-दाने ऽपि सोपाधि-निरुपादित्वाभ्यां सात्त्विक-राजसे, यशो ऽयशस्य् अपि तथा । मत्त इति एते मन्-मायातो भवन्तो ऽपि शक्ति-शक्तिमतोर् ऐक्यात् मत्त एव ॥४-५॥
बलदेवः : अथात्मनः सर्वादित्वं सर्वेश्वरत्वं च प्रपञ्चयति बुद्धिर् इति द्वाभ्याम् । बुद्धिः सूक्ष्मार्थ-विवेचन-सामर्थ्यम् । ज्ञानम् चिद्-अचिद्-वस्तु-विवेचनम् । असम्मोहो व्यग्रत्वाभावः । क्षमा सहिष्णुता । सत्यं यथा-दृष्टार्थ-विषयं पर-हित-भाषणम् । दमो ऽनर्थ-विषयाच् छोकादेर् नियमनम् । शमस् तस्मान् मनसः । सुखं आनुकूल्येन वेद्यम् । दुःखं तु प्रातिकूल्येन वेद्यम् । भवो जन्म । अभावो मृत्युः । भयम् आगामि-दुःख-कारण-वीक्षणाद् वित्रासः सन् निवृत्तिः । अभयम् अहिंसा परपीडनाजनकता । समता राग-द्वेष-शून्यता । तुष्टिः अदृष्ट-लब्धेन सन्तोषः । तपः वेदोक्त-काय-क्लेशः । दानं स्वभोग्यस्य सत्-पात्रे ऽर्पणम् । यशः साद्गुण्य-ख्यातिः । तद्-विपरीतं अयशः एवम् आदयो भावा भूतानां
देव-मानवादीनां मत्तो मत्-सङ्कल्पाद् एव भवन्तीत्य् अहम् एव तेषां हेतुर् इत्य् अर्थः । पृथग्-विधा भिन्न-लक्षणा ॥४-५॥
१०।६
महर्षयः सप्त पूर्वे चत्वारो मनवस् तथा
मानसा जाता येषां लोक इमाः प्रजाः ॥६॥
श्रीधरः : किं च महर्षय इति । सप्त महर्षयो भृग्व्-आदयः सप्त ब्रह्माण इत्य् एते पुराणे निश्चयं गताः [म्भ् १२।२०१।५] इत्य् आदि पुराण-प्रसिद्धाः । तेभ्यो ऽपि पूर्वे अन्ये चत्वारो महर्षयः सनकादयः । तथा मनवः स्वायम्भुवादयः । मद्-भावा मदीयो भावः प्रभावो येषु ते । हिरण्यगर्भात्मनो ममैव मनसः सङ्कल्प-मात्राज् जाताः । प्रभावम् एवाह येषाम् इति । येषां भृग्व्-आदीनां सनकादीनां मनूनां चेमा ब्राह्मणाद्या लोके वर्धमाना यथायथं पुत्र-पौत्रादि-रूपाः शिष-प्रशिष्यादि-रूपाश् च प्रजा जाताः प्रवर्तन्ते ॥६॥
मधुसूदनः : इतश् चैतद् एवम् महर्षय इति । महर्षयो वेद-तद्-अर्थ-द्रष्टारः सर्वज्ञा विद्या-सम्प्रदाय-प्रवर्तका भृग्व्-आद्याः सप्त पूर्वे सर्गाद्य-कालाविर्भूताः । तथा च पुराणे -
भृगुं मरीचिम् अत्रिं च पुलस्त्यं पुलहं क्रतुम् ।
वसिष्ठं च महातेजाः सो ऽसृजन् मनसा सुतान् ।
सप्त ब्रह्मण इत्य् एते पुराणे निश्चयं गताः ॥ इति ।[*एन्द्नोते] [म्भ् १२।२०१।४-५]
तथा चत्वारो मनवः सावर्णा इति प्रसिद्धाः । अथवा महर्षयः सप्त भृग्व्-आद्याः । तेभ्यो ऽपि पूर्वे प्रथमाश् चत्वारः सनकाद्या महर्षयः । मनवस् तथा स्वायम्भुवादयश् चतुर्दश मयि परमेश्वरे भावो भावना येषां ते मद्-भावा मच्-चिन्तन-परा मद्-भावनावशाद् आवीरिभूत-मदीय-ज्ञानैश्वर्य-शक्तय इत्य् अर्थः । मानसा मनसः सङ्कल्पाद् एवोत्पन्ना न तु योनिजाः । अतो विशुद्ध-जन्मत्वेन सर्व-प्राणि-श्रेष्ठा मत्त एव हिरण्यगर्भात्मनो जाताः सर्गाद्य-काले प्रादुर्भूताः । येषां महर्षीणां सप्तानां भृग्व्-आदीनां चतूर्णां च सनकादीनां मनूनां च चतुर्दशानाम् अस्मिन् लोके जन्मना च विद्यया च सन्तति-भूता इमा ब्राह्मणाद्याः सर्वाः प्रजाः ॥६॥
विश्वनाथः : बुद्धि-ज्ञानासम्मोहान् स्व-तत्त्व-ज्ञाने ऽसमर्थानुक्त्वा तत्त्वतो ऽपि तत्रासमर्थान् आह महर्षयः सप्त मरीच्य्-आदयस् तेभ्यो ऽपि पूर्वे ऽन्ये चत्वारः सनकादयो मनवश् चतुर्दश स्वायम्भुवादयो मत्त एव हिरण्यगर्भात्मनः सकाशाद् भवो जन्म येषां मरीच्य्-आदीनां सनकादीनां चेमा ब्राह्मणाद्या लोके वर्तमानाः प्रजाः पुत्र-पौत्रादि-रूपाः शिष्य-प्रशिष्य-रूपाश् च ॥६॥
बलदेवः : इतश् चैतद् एवम् इत्य् आह महर्षय इति । सप्त भृग्व्-आदयस् तेभ्यो ऽपि पूर्वे प्रथमाश् चत्वारः सनकादय एकादशैते महर्षयस् तथा मनवश् चतुर्दश स्वायम्भुवादय एवं पञ्चविंशतिर् एते मानसा हिरण्यगर्भात्मनो मम मनः-प्रभृत्येभ्यो जाता मद्-भावा मच्-चिन्तन-परास् तत्-प्रभावेनोपलब्ध-मज्-ज्ञानैश्वर्य-शक्तय इत्य् अर्थः । येषां भृग्व्-आदीनां पञ्चविंशतेर् इमा ब्राह्मण-क्षत्रियादयः प्रजा जन्मना विद्यया च सन्तति-रूपा भवन्ति ॥६॥
१०।७
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सो ऽविकम्पेन योगेन युज्यते नात्र संशयः ॥७॥
श्रीधरः : यथोक्त-विभूत्य्-आदि-तत्त्व-ज्ञानस्य फलम् आह एताम् इति । एतां भृग्व्-आदि-लक्षणां मम विभूतिम् । योगं चैश्वर्य-लक्षणम् । तत्त्वतो यो वेत्ति, सो ऽविकल्पेन निःसंशयेन योगेन सम्यग्-दर्शनेन युक्तो भवति नास्त्य् अत्र संशयः ॥७॥
मधुसूदनः : एवं सोपाधिकस्य भगवतः प्रभावम् उक्त्वा तज्-ज्ञान-फलम् आह एताम् इति । एतां प्राग् उक्तां बुद्ध्य्-आदि-महर्ष्य्-आदि-रूपां विभूतिं विविध-भावं तत्-तद्-रूपेणावस्थितिं योगं च तत्-तद्-अर्थ-निर्माण-सामर्थ्यं परमैश्वर्यम् इति यावत् । मम यो वेत्ति तत्त्वतो यथावत् सो ऽविकम्पेनाप्रचलितेन योगेन सम्यग्-ज्ञान-स्थैर्य-लक्षणेन समाधिना युज्यते नात्र संशयः प्रतिबन्धः कश्चित् ॥७॥
विश्वनाथः : किन्तु भक्त्याहम् एकया ग्राह्यः [भ्प् ११।१४।११] इति मद्-उक्तेर् मद्-अनन्य-भक्त एव मत्-प्रसादान् मद्-वाचि दृढम् आस्तिक्यं दधानो मत्-तत्त्वं वेत्तीत्य् आह एतां सङ्क्षेपेणैव वक्ष्यमाणां विभूतिं योगं भक्ति-योगं च यस् तत्त्वतो वेत्ति । मत्-प्रभोः श्री-कृष्णस्य वाक्यत्वाद् इदम् एव परमं तत्त्वम् इति दृढतरास्तिक्यवान् एव यो वेत्ति सः । अविकल्पेन निश्चलेन योगेन मत्-तत्त्व-ज्ञान-लक्षणेन युज्यते युक्तो भवेद् अत्र नास्ति को ऽपि सन्देहः ॥७॥
बलदेवः : उक्तार्थ-ज्ञान-फलम् आह एताम् इति । एतां विधि-रुद्रादि-देवता-सनकादि-महर्षि-स्वायम्भुवादि-मनु-प्रमुखः कृत्स्न्-प्रपञ्चो मद्-अधीन-स्थिति-प्रवृत्ति-ज्ञानैश्वर्य-शक्तिको भवतीत्य् एवं पारमैश्वर्य-लक्षणां विभूतिम् । योगम् अनाद्य्-अजत्वादिभिः कल्याण-गुण-रत्नैर् मम सम्बन्धं च यो वेत्ति सर्वेश्वरेण सर्वज्ञेन वासुदेवेनोपदिष्टम् इदं तात्त्विकं भवतीति दृढ-विश्वासेन यो गृह्णाति स अविकल्पेन स्थिरेण योगेन मद्-भक्ति-लक्षणेन युज्यते सम्पन्नो भवति । एतादृशतया मज्-ज्ञानं मद्-भक्तेर् उत्पादकं विवर्धकं चेति भावः ॥७॥
१०।८
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
मत्वा भजन्ते मां बुधा भाव-समन्विताः ॥८॥
श्रीधरः : यथा च विभूति-योगयोर् ज्ञानेन सम्यग्-ज्ञानावाप्तिस् तद् दर्शयति अहम् इत्य् आदि-चतुर्भिः । अहं सर्वस्य जगतः प्रभवो भृग्व्-आदि-मन्व्-आदि-रूप-विभूति-द्वारेणोत्पत्ति-हेतुः । मत्त एव च सर्वस्य बुद्धिर् ज्ञानम् असम्मोह इत्य् आदि सर्वं प्रवर्तत इति । एवं मत्वावबुध्य बुधा विवेकिनो भाव-समन्विताः प्रीति-युक्ता मां भजन्ते ॥८॥
मधुसूदनः : यादृशेन विभूति-योगयोर् ज्ञानेनाविकम्प-योग-प्राप्तिस् तद् दर्शयति अहम् इत्य् आदि-चतुर्भिः । अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्ति-कारणम् उपादानं निमित्तं च स्थिति-नाशादि च सर्वं सत्त एव प्रवर्तते भवति । मयैवान्तर्यामिणा सर्वज्ञेन सर्व-शक्तिना प्रेर्यमाणं स्व-स्व-मर्यादाम् अनतिक्रम्य सर्वं जगत् प्रवर्तते चेष्टत इति वा । इत्य् एवं मत्वा बुधा विवेकेनावगत-तत्त्व-भावेन परमार्थ-तत्त्व-ग्रहणअ-रूपेण प्रेम्णा समन्विताः सन्तो मां भजन्ते ॥८॥
विश्वनाथः : तत्र महैश्वर्य-लक्षणां विभूतिम् आह अहं सर्वस्य प्राकृताप्राकृत-वस्तु-मात्रस्य प्रभवः उत्पत्ति-प्रादुर्भावयोर् हेतुः । मत्त एवान्तर्यामि-स्वरूपात् सर्वं जगत् प्रवर्तते चेस्टते । तथा मत्त एव नारदाद्य्-अवतरात्मकात् सर्वं भक्ति-ज्ञान-तपः-कर्मादिकं साधनं तत् तत् साध्यं च प्रवृत्तं भवति । ऐकान्तिक-भक्ति-लक्षणं योगम् आह इति मत्वा आस्तिक्यतो ज्ञानेन निश्चित्य इत्य् अर्थः । भावो दास्य-सख्यादिस् तद्-युक्ताः ॥८॥
बलदेवः : अथ चतुःश्लोक्या परमैकान्तिनां भक्तिं ब्रुवन् तस्या जनकं पोषकं चात्म-याथात्म्यं तावद् आह अहम् इति । स्वयं भगवान् कृष्णो ऽहं सर्वस्यास्य विधि-रुद्र-प्रमुखस्य प्रपञ्चस्य प्रभवो हेतुः । एवम् एवाथर्वसु पठ्यते - यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च गापयति स्म कृष्णः [ग्तु १।२२] इति । अथ पुरुषो ह वै नारायणो ऽकामयत प्रजाः सृजये इत्य् उपक्रम्य नारायणाद् ब्रह्मा जायते नारायणात् प्रजापतिः प्रजायते नारायणाद् इन्द्रो जायते नारायणाद् अष्टौ वसवो जायन्ते नारायणाद् एकादश रुद्रा जायन्ते नारायणाद् द्वादशादित्याः इत्य् आदि । एष नारायणः कृष्णो बोध्यः ब्रह्मण्यो देवकी-पुत्रः इत्य् आद्य्-उत्तर-पाठात् । तद् आहुः - एको वै नारायण आसीन् न ब्रह्मा न ईशानो नापो नागी
समौ नेमे द्याव्-आपृथिवी न नक्षत्राणि न सूर्यः स एकाकी न रमते तस्य ध्यानान्तःस्थस्य यत्र छान्दोगैः क्रियमाणाष्टकादि-सञ्ज्ञका स्तुति-स्तोमः स्तोमम् उच्यते इत्य् आद्य् उपक्रम्य प्रधानादि-सृष्टिम् अभिधायाथ पुनर् एव नारायणः सो ऽन्यत् कामो मनसा ध्यायत तस्य ध्यानातःस्थस्य तल्-ललाटात्त्रक्ष्यः शूलपाणिः पुरुषो ऽजायत बिभ्रच् छ्रियं सत्यं ब्रह्मचर्यं तपो-वैराग्यम् इति । तत्र चतुर्-मुखो जायते इत्य् आदि च । ऋक्षु च यं कामये तं तम् उग्रं कृष्णोमि तं ब्रह्माणं तम् ऋषिं तं सुमेधसम् इत्य् आदि । मोक्ष-धर्मे च -
प्रजापतिं च रुद्रं चाप्य् अहम् एव सृजामि वै ।
तौ हि मां विजानीतो मम माया-विमोहितौ ॥ इति ।
वाराहे च -
नारायणः परो देवस् तस्माज् जातश् चतुर्मुखः ।
तस्माद् रुद्रो ऽभवद् देवः स च सर्वज्ञतां गतः ॥ इति ।
मद्-अन्य-निखिल-नियन्ता चाहम् इत्य् उक्तम् । इति मत्वा ममेदृशत्वं सद्-गुरु-मुखान् निश्चित्य भावेन प्रेम्णा समन्विताः सन्तो बुधा मां भजन्ते ॥८॥
१०।९
मच्-चित्ता मद्-गत-प्राणा बोधयन्तः परस्परम् ।
कथयन्तश् च मां नित्यं तुष्यन्ति च रमन्ति च ॥९॥
श्रीधरः : प्रीति-पूर्वकं भजनम् आह मच्-चित्ता इति । मय्य् एव चित्तं येषां ते मच्-चित्ताः । माम् एव गताः प्राप्ताः प्राणा इन्द्रियाणि येषां ते मद्-गत-प्राणाः । मद्-अर्पित-जीवना इति वा । एवम्भूतास् ते बुधा अन्योन्यं मां न्यायोपेतैः श्रुत्य्-आदि-प्रमाणैर् बोधयन्तो बुद्ध्या च मां कथयन्तः सङ्कीर्तयन्तः सन्तस् ते नित्यं तुष्यन्त्य् अनुमोदनेन तुष्टिं यान्ति । रमन्ति च निर्वृतिं यान्ति ॥९॥
मधुसूदनः : प्रेम-पूर्वकं भजनम् एव विवृणोति मच्-चित्ता इति । मयि भगवति चित्तं येषां ते मच्-चित्ताः । तथा मद्-गता मां प्राप्ताः प्राणाश् चक्षुर्-आदयो येषां ते मद्-गत-प्राणाः मद्-भजन-निमित्त-चक्षुर्-आदि-व्यापारा मय्य् उपसंहृत-सर्व-करणा वा । अथवा मद्-गत-प्राणा मद्-भजनार्थ-जीवना मद्-भजनातिरिक्त-प्रयोजन-शून्य-जीवना इति यावत् । विद्वद्-गोष्ठीषु परस्परम् अन्योन्यं श्रुतिभिर् युक्तिभिश् च माम् एव बोधयन्तस् तत्त्व-बुभुत्सु-कथया ज्ञापयन्तः । तथा स्व-शिष्येभ्यश् च माम् एव कथयन्त उपदिशन्तश् च । मयि चित्तार्पणं तथा बाह्य-करणार्पणं तथा जीवनार्पणम् एवं समानाम् अन्योन्यं मद्-बोधनं स्व-न्यूनेभ्यश् च मद्-उपदेशनम् इत्य् एवं रूपं यन् मद्-भजनं तेनैव तुष्यन्ति च । एतावतैव लब्ध-सर्वाथा
वयम् अलम् अन्येन लब्धव्येनेत्य् एवं-प्रत्यय-रूपं सन्तोषं प्राप्नुवन्ति च । तेन सन्तोषेण रमन्ति च रअन्ते च प्रिय-सङ्गमेनेवोत्तमं सुखम् अनुभवन्ति च । तद् उक्तं पतञ्जलिना सन्तोषाद् अनुत्तमः सुख-लाभः [य्स् २।४२] इति । उक्तं च पुराणे -
यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् ।
तृष्णा-क्षय-सुखायैते नार्हतः षोडशीं कलाम् ॥ इति ॥
तृष्णा-क्षयः सन्तोषः ॥९॥
विश्वनाथः : एतादृशा अनन्य-भक्ता एव मत्-प्रसादाल् लब्ध-बुद्धि-योगः पूर्वोक्त-लक्षणं दुर्बोधम् अपि मत्-तत्त्व-ज्ञानं प्राप्नुवन्तीत्य् आह मच्-चित्ता मद्-रूप-नाम-गुण-लीला-माधुर्यास्वादेष्व् एव लुब्ध-मनसो, मद्-गत-प्राणा मां विना प्राणान् धर्तुम् असमर्था अन्न-गत-प्राणा नरा इतिवत् । बोधयन्तः भक्ति-स्वरूप-प्रकारादिकं सौहार्देन ज्ञापयन्तः । मां महा-मधुर-रूप-गुण-लीला-महोदधिं कथयन्तो मद्-रूपादि-व्याख्यानेनोत्-कीर्तनादिकं कुर्वन्त इत्य् एवं सर्व-भक्तिष्व् अतिश्रैष्ठ्यात् स्मरण-श्रवण-कीर्तनान्य् उक्तानि । तुष्यन्ति च रमन्ति चेति भक्त्यैव सन्तोषश् च रमणं चेति रहस्यम् । यद् वा साधन-दशायाम् अपि भाग्य-वशात् भजने निर्विघ्ने सम्पद्यमाने सति तुष्यन्ति । तदैव भावि-स्वीय-साध्य-दशाम् अनुस्मृत्य रमन्ति च मनसा
स्व-प्रभुणा सह रमन्ति चेति रागानुगा भक्तिर् द्योतिता ॥९॥
बलदेवः : भक्तिः प्रकारम् आह मच्-चित्ता इति । मच्-चित्ता मत्-स्मृति-परा मद्-गत-प्राणा मां विना प्राणान् धर्तुम् अक्षमा मीना विनाम्भः । परस्परं मद्-रूप-गुण-लावण्यादि बोधयन्तस् तथा मां स्व-भक्त-वात्सल्य-नीरधिम् अतिविचित्र-चरितं कथयन्तश् चेत्य् एवं स्मरण-श्रवण-कीर्तन-लक्षणैर् भजनैः सुधापानैर् इव तुष्यन्ति । तथैव तेष्व् एव रमन्ते च युवति-स्मित-कटाक्षान्य् उक्तानि । तुष्यन्ति च रमन्ति चेति भक्त्यैव सन्तोषश् च रमणं चेति रहस्यम् । यद् वा साधन-दशायाम् अपि भाग्य-वशात् भजने निर्विघ्ने सम्पद्यमाने सति तुष्यन्ति । तदैव भावि-स्वीय-साध्य-दशाम् अनुस्मृत्य रमन्ति च मनसा स्व-प्रभुणा सह रमन्ति चेति रागानुगा भक्तिर् द्योतिता ॥९॥
१०।१०
तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् ।
ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ॥१०॥
श्रीधरः : एवम्भूतानां च सम्यग्-ज्ञानम् अहं ददामीत्य् आह तेषाम् इति । एवं सतत-युक्तानां मय्य् आसक्त-चित्तानां प्रीति-पूर्वकं भजतां तेषां तं बुद्धि-रूपं योगम् उपायं ददामि । तम् इति कम् ? येनोपायेन ते मद्-भक्ता मां प्राप्नुवन्ति ॥१०॥
मधुसूदनः : ये यथोक्तेन प्रकारेण भजन्ते मां तेषाम् इति । सततं सर्वदा युक्तानां भगवत्य् एकाग्र-बुद्धीनाम् । अतएव लाभ-पूजा-ख्यात्य्-आद्य् अनभिसन्धाय प्रीति-पूर्वकम् एव भजतां सेवमानानां तेषाम् अविकम्पेन योगेनेति यः प्राग् उक्तस् तं बुद्धि-योगं मत्तत्व-विषयं सम्यग्-दर्शनं ददामि उत्पादयामि । येन बुद्धि-योगेन माम् ईश्वरम् आत्मत्वेनोपयान्ति ये मच्-चित्तत्वादि-प्रकारैर् मां भजन्ते ते ॥१०॥
विश्वनाथः : ननु तुष्यन्ति च रमन्ति च इति त्वद्-उक्त्या त्वद्-भक्तानां भक्त्यैव परमानन्दो गुणातीत इत्य् अवगतम्, किन्तु तेषां त्वत्-साक्षात्-प्राप्तौ कः प्रकारः ? स च कुतः सकाशात् तैर् अवगन्तव्य इत्य् अपेक्षायाम् आह तेषाम् इति । सतत-युक्तानां नित्यम् एव मत्-संयोगाकाङ्क्षणां तं बुद्धि-योगं ददामि तेषां हृद्-वृत्तिष्व् अहम् एव उद्भावयामीति । स बुद्धि-योगः स्वतो ऽन्यस्माच् च कुतश्चिद् अप्य् अधिगन्तुम् अशक्यः किन्तु मद्-एक-देयस् तद्-एक-ग्राह्य इति भावः । माम् उपयान्ति माम् उपलभन्ते साक्षान् मन्-निकटं प्राप्नुवन्ति ॥१०॥
बलदेवः : ननु स्वरूपेण गुणैर् विभूतिभिश् चानन्तं त्वां कथं गुरूपदेश-मात्रेण ते ग्रहीतुं क्षमेरन्न् इति चेत् तत्राह तेषाम् इति । सतत-युक्तानां नित्यं मद्-योगं वाञ्छतां प्रीति-पूर्वकं मम याथात्म्य-ज्ञानजेन रुचि-भरेण भजतां तं बुद्धि-योगं स्व-भक्ति-रसिको ददाम्य् अर्पयामि । येन ते माम् उपयान्ति तद्-बुद्धिं तथाहम् उद्भावयामि यथानन्त-गुण-विभूतिं माम् गृहीत्वोपास्य च प्राप्नुवन्ति ॥१०॥
१०।११
तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः ।
नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥११॥
श्रीधरः : बुद्धि-योगं दत्त्वा च तस्यानुभव-पर्यन्तं तम् आविष्कृत्याविद्या-कृतं संसारं नाशयामीत्य् आह तेषाम् इति । तेषाम् अनुकम्पार्थम् अनुग्रहार्थम् एवाज्ञानाज् जातं तमः संसाराख्यं नाशयामि । कुत्र स्थितः सन् केन वा साधनेन तमो नाशयसि ? अत आह आत्म-भाव-स्थो बुद्धि-वृत्तौ स्थितः सन् । भास्वता विस्फुरता ज्ञान-लक्षणेन दीपेन नाशयामि ॥११॥
मधुसूदनः : दीयमानस्य बुद्धि-योगस्यात्म-प्राप्तौ फलं मध्य-वर्तिनं व्यापारम् आह तेषाम् इति । तेषाम् एव कथं श्रेयः स्याद् इत्य् अनुग्रहार्थम् आत्म-भावस्य आत्माकारान्तः-करण-वृत्तौ विषयत्वेन स्थितो ऽहं स्व-प्रकाश-चैतन्यानन्दाद्वय-लक्षण आत्मा तेनैव मद्-विषयान्तःकरण-परिणाम-रूपेण ज्ञान-दीपेन दीप-सदृशेन ज्ञानेन भास्वता चिद्-आभास-युक्तेनाप्रतिबद्धेन अज्ञान-जम् अज्ञानोपादानकं तमो मिथ्या-प्रत्यय-लक्षणं स्व-विषयावरणम् अन्धकारं तद्-उपादानाज्ञान-नाशेन नाशयामि सर्व-भ्रमोपादानस्याज्ञानस्य ज्ञान-निवर्त्यत्वाद् उपादान-नाश-निवर्त्यत्वाच् चोपादेयस्य ।
यथा दीपेनान्धकारे निवर्तनीये दीपोत्पत्तिम् अन्तरेण न कर्मणो ऽभ्यासस्य वापेक्षा विद्यमानस्यैवअ च वस्तुनो ऽभिव्यक्तिस् ततो नानुत्पन्नस्य कस्यचिद् उत्पत्तिस् तथा ज्ञानेनाज्ञाने निवर्तनीये न ज्ञानोत्पत्तिम् अन्तरेणान्यस्य कर्मणो ऽभ्यासस्य वापेक्षा विद्यमानस्यैव च ब्रह्म-भावस्य मोक्षस्याभिव्यक्तिस् ततो नानुत्पन्नस्योत्पत्तिर् येन क्षयित्वं कर्मादि-सापेक्षत्वं वा भवेद् इति रूपकालङ्कारेण सूचितो ऽर्थः । भास्वतेत्य् अनेन तीव्र-पवनादेर् इवासम्भावनादेः प्रतिबन्धकस्याभावः सूचितः । ज्ञानस्य च दीप-साधर्म्यं स्व-विषयावरण-निवर्तकत्वं स्व-व्यवहारे सजातीय-परानपेक्षत्वं स्वोत्पत्त्य्-अतिरिक्त-सहकार्य्-अनपेक्षत्वम् इत्य् आदि रूपक-बीजं द्रष्टव्यम् ॥११॥
विश्वनाथः : ननु च विद्यादि-वृत्तिं विना कथं त्वद्-अधिगमः ? तस्मात् तैर् अपि तद्-अर्थं यतनीयम् एव ? तत्र नहि नहीत्य् आह तेषाम् एव न त्व् अन्येषां योगिनाम् अनुकपार्थं मद्-अनुकम्पा येन प्रकारेण स्यात् तद्-अर्थम् इत्य् अर्थः । तैर् मद्-अनुकम्पा-प्राप्तौ कापि चिन्ता न कार्या यतस् तेषां मद्-अनुकम्पा-प्राप्त्य्-अर्थम् अहम् एव यतमानो वर्त एवेति भावः । आत्म-भावस्थस् तेषां बुद्धि-वृत्तऔ स्थितः । ज्ञानं मद्-एक-प्रकाश्यत्वान् न सात्त्विकं निर्गुणत्वे ऽपि भक्त्य्-उत्थ-ज्ञानतो ऽपि विलक्षणं यत् तद् एव दीपस् तेन । अहम् एव नाशयामीति तैः कथं तद्-अर्थं प्रयतनीयम् ? तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहं [गीता ९।२२] इति मद्-उक्तेस् तेषां व्यवहारिकः पारमार्थिकश् च सर्वो ऽपि भारो मया वोढम् अङ्गीकृत एवेति भावः ।
श्रीमद्-गीता सर्व-सार-भूता भूतापताप-हृत् ।
चतुः-श्लोकीयम् आख्याता ख्याता सर्व-निशर्म-कृत् ॥११॥
बलदेवः : ननु चिरन्तनस्याविद्या-तिमिरस्य सत्त्वात् तेषां हृदि कथं तत्-प्रकाशः स्याद् इति चेत् तत्राह तेषाम् एवेति । तेषाम् एव मां विना प्राणान् धर्तुम् असमर्थानां मद्-एकान्तिनाम् एव, न तु स-निष्ठानाम् अनुकम्पार्थं मत्-कृपा-पात्रत्वार्थम् । अहम् एवात्म-भावस्थो ऽरविन्द-कोषे भृङ्ग इव तद्-भावे स्थितो दिव्य-स्वरूप-गुणांस् तत्र प्रकाशयंस् तद्-विषयक-ज्ञान-रूपेण भास्वता दीपेन ज्ञान-विरोध्य्-अनादि-कर्म-रूपाज्ञान-जं मद्-अन्य-विषय-स्पृहा-रूपं तमो नाशयामि । तेषाम् एकान्त-भावेन प्रसादितो ऽहं योग-क्षेमवद् बुद्धि-वृत्तेर् उद्भावनं तद्-वर्ति-तमो-विनाशं च करोमीति तत्-सर्व-निर्वाह-भारो ममैवेति न तैः कुत्राप्य् अर्थे प्रयतितव्यम् इत्य् उक्तम् ।
नवमादि-द्वये गीता-गर्भे ऽस्मिन् यत् प्रकीर्तितम् ।
तद् एव गीता-शास्त्रार्थ-सारं बोध्यं विचक्षणैः ॥११॥
१०।१२-१३
अर्जुन उवाच
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यम् आदिदेवम् अजं विभुम् ॥१२॥
आहुस् त्वाम् ऋषयः सर्वे देवर्षिर् नारदस् तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१३॥
श्रीधरः :सङ्क्षेपेणोक्तां विभूतिं विस्तरेण जिज्ञासुः भगवन्तं स्तुवन्न् अर्जुन उवाच परं ब्रह्मेति सप्तभिः । परं धाम चाश्रयः । परमं च पवित्रं च भवान् एव । कुत इति ? अत आह यतः शाश्वतं नित्यं पुरुषम् । तथा दिव्यं द्योतनात्मकं स्वयं प्रकाशम् । आदिश् चासौ देवश् चेति तम् । देवानाम् आदि-भूतम् इत्य् अर्थः । तथाजम् अजन्मानम् । विभुं च व्यापकम् । त्वाम् एवाहुः । के त इति ? आह आहुर् इति । ऋषयो भृग्व्-आदयः सर्वे । देवर्षिश् च नारदः । असितश् च देवलश् च व्यासश् च स्वयं त्वम् एव च साक्षान् मे मह्यं ब्रवीषि ॥१२-१३॥
मधुसूदनः : एवं भगवतो विभूतिं योगं च श्रुत्वा परमोत्कण्ठितो ऽर्जुन उवाच परं ब्रह्मेति सप्तभिः । परं ब्रह्म परं धाम आश्रयः प्रकाशो वा । परमं पवित्रं पावनं च भवान् एव । यतः पुरुषम् परमात्मानं शाश्वतं सदैक-रूपं दिवि परमे व्योम्नि स्व-स्वरूपे भवं दिव्यं स्व-प्रपञ्चातीतम् आदिं च सर्व-कारणं देवं च द्योतनात्मकं स्व-प्रकाशम् आदि-देवम् अत एवाजं विभुं सर्व-गतं त्वाम् आहुर् इति सम्बन्धः ॥१२॥
आहुः कथयन्ति त्वाम् अनन्त-महिमानम् ऋषयस् तत्त्व-ज्ञान-निष्ठाः सर्वे भृगु-वशिष्ठादयः । तथा देवर्षि-नारदो ऽसितो देवलश् च धौम्यस्य ज्येष्ठो भ्राता । व्यासश् च भगवान् कृष्ण-द्वैपायनः । एते ऽपि त्वां पूर्वोक्त-विशेषणं मे मह्यम् आहुः साक्षात् किम् अन्यैर् वक्तृभिः स्वयम् एव त्वं च मह्यं ब्रवीषि । अत्र ऋषित्वे ऽपि साक्षाद्-वक्तॄणां नारदादीनाम् अतिविशिष्टत्वात् पृथग्-ग्रहणम् ॥१३॥
विश्वनाथः : सङ्क्षेपेणोक्तम् अर्थं विस्तरेण श्रोतुम् इच्छन् स्तुति-पूर्वकम् आह परम् इति । परं सर्वोत्कृष्टं धाम श्यामसुन्दरं वपुर् एव परं ब्रह्म । गृह-देहत्विट्-प्रभावा धामानि इत्य् अमरः । तद् धामैव भवान् भवति । जीवस्येव तव देह-देहि-विभागो नास्तीति भावः । धाम कीदृशम् ? परं पवित्रं द्रष्टॄणाम् अविद्या-मालिन्य-हरम् अतएव ऋषयो ऽपि त्वां शाश्वतं पुरुषम् आहुः पुरुषाकारस्यास्य नित्यत्वं वदन्ति ॥१२-१३॥
बलदेवः : सङ्क्षेपेण श्रुतां विभूतिं विस्तरेण श्रोतुम् इच्छन्न् अर्जुन उवाच परम् इति । भवान् एव सत्यं ज्ञानम् अनन्तं ब्रह्म इति श्रूयमाणं परं ब्रह्म । भवान् एव तस्मिन्न् एवाश्रिताः सर्वे तद् उ नात्येति कश्चन इति श्रूयमाणं परं धाम निखिलाश्रय-भूतं वस्तु । भवान् एव परमं पवित्रं ज्ञात्वा देवं मुच्यते सर्व-पापैः सर्वं पाप्मानं तरति नैनं पाप्मा तरति इत्य् आदि श्रूयमाणं स्मर्तुर् अखिल-पाप-हरं वस्तु इत्य् अहं वेद्मि । तथा सर्वे तद्-अनुकम्पिता ऋषयस् तेषु प्रधान-भूता नारदादयश् च तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं भजेत् तं यजेत् [ग्तु १।४८] इति । ॐ तत् सत् इति जन्म-जराभ्यां भिन्नः स्थाणुर् अयम् अच्छेद्यो ऽयं [ग्तु २।२२] इति श्रुत्य्-अर्थ-विदस् त्वां दिव्यं पुरुषम् आदिदेवम् अजं विभुम् आहुस् [गीता
१०।१२] तत्-कथा-संवादेषु पुराणेष्व् इतिहासेषु च स्वयं च व्रवीषीति अजो ऽपि सन्न् अव्ययात्मा [गीता ४।६] इति यो माम् अजम् अनादिं च [गीता १०।३] इति अहं सर्वस्य प्रभवः [गीता १०।८] इत्य् आदिभिः ॥१२-१३॥
१०।१४
सर्वम् एतद् ऋतं मन्ये यन् मां वदसि केशव ।
न हि ते भगवन् व्यक्तिं विदुर् देवा न दानवाः ॥१४॥
श्रीधरः : अतो ममेदानीं त्वदीयैश्वर्यो ऽसम्भावना निवृत्तेत्य् आह सर्वम् एतद् इति । एतद्-भावेन परं ब्रह्मेत्य् आदि सर्वम् अप्य् ऋतं सत्यं मन्ये । यन् मां प्रति त्वं कथयसि न मे विदुः सुर-गणा इत्य् आदि । तद् अपि सत्यम् एव मन्य इत्य् आह न हीति । हे भगवन् तव व्यक्तिं देवा न विदुः । अस्मद्-अनुग्रहार्थम् इयम् अभिव्यक्तिर् इति न जानन्ति । दानवाश् चास्मिन् निग्रहार्थम् इति न विदुर् एवेति ॥१४॥
मधुसूदनः : सर्वम् एतद् उक्तम् ऋषिभिश् च त्वया च तद्-ऋतं सत्यम् एवाहं मन्ये यन् मां प्रति वदसि केशव । नहि त्वद्-वचसि मम कुत्राप्य् अप्रामाण्य-शङ्का । तच् च सर्वज्ञत्वात् त्वं जानासीति केशौ ब्रह्म-रुद्रौ सर्वेशाव् अप्य् अनुकम्प्यया वात्यवगच्छतीति व्युत्पत्तिम् आश्रित्य निरतिशयैश्वर्य-प्रतिपादकेन केशव-पदेन सूचितम् । अतो यद् उक्तं न मे विदुः सुर-गणाः प्रभवं न महर्षयः [गीता १०।२] इत्य् आदि तत् तथैव । हि यस्मात् । हे भगवन् समग्रैश्वर्यादि-सम्पन्न ते तव व्यक्तिं प्रभावं ज्ञानातिशय-शालिनो ऽपि देवा न विदुर् नापि दानवा न महर्षय इत्य् अपि द्रष्टव्यम् ॥१४॥
विश्वनाथः : नात्र मम को ऽप्य् अविश्वास इत्य् आह सर्वम् इति । किं च ते ऋषयः परं ब्रह्म-धामानं त्वाम् अजम् आहुर् एव । न तु ते व्यक्तिं जन्म विदुः । पर-ब्रह्म-स्वरूपस्य तवाजत्वं जन्मवत्त्वं च किं प्रकारम् इति तु न विदुर् इत्य् अर्थः । अतएव न मे विदुः सुरगणाः प्रभवं न महर्षयः [गीता १०।२] इति यत् त्वयोक्तं तं सर्वम् ऋतं सत्यम् एव मन्ये । हे केशव ! को ब्रह्मा ईशो रुद्रश् च ताव् अपि वयसे स्वतत्त्वाज्ञानेन बध्नासि, किं पुनः देव-दानवाद्यास् त्वां न विदन्तीति वाच्यम् इति भावः ॥१४॥
बलदेवः : सर्वम् इति । एतत् सर्वम् अहम् ऋतं सत्यम् एव । न तु प्रशंसा-मात्रं मन्ये । हे केशवेति । केशौ विधि-रुद्रौ वयसे स्व-तत्त्वापरिज्ञानेन निबध्नासि प्रजापतिं च रुद्रं च इत्य् आदि त्वद्-उक्तः । हे सर्वेश्वर ! हे भगवन् ! निरवधिकातिशय-षड्-ऐश्वर्य-निधे ! ते व्यक्तिं पर-ब्रह्मत्वादि-गुणां श्री-मूर्तिं देव-दानवाश् च न विदुर् यत् ते ऽन्य-स्वजातीयत्व-बुद्ध्या त्वाम् अवजानन्ति द्रुह्यन्ति चेति भावः ॥१४॥
१०।१५
स्वयम् एवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूत-भावन भूतेश देव-देव जगत्-पते ॥१५॥
श्रीधरः : किं तर्हि ? स्वयम् इति । स्वयम् एव त्वम् आत्मानं वेत्थ जानासि नान्यः । तद् अप्य् आत्मना स्वेनैव वेत्थ । न साधनान्तरेण । अत्यादरेण बहुधा सम्बोधयति हे पुरुषोत्तम ! पुरुषोत्तमत्वे हेतु-गर्भाणि विशेषणानि सम्बोधनानि । हे भूत-भावन भूतोत्पादक । भूतानाम् ईश नियन्तः । देवानाम् आदित्यादीनां देव प्रकाशक । जगत्-पते विश्व-पालक ॥१५॥
मधुसूदनः : यतस् त्वं तेषां सर्वेषाम् आदिर् अशक्य-ज्ञानश् चातः स्वयम् इति । स्वयम् एवान्योन्यपदेशादिकम् अन्तरेणैव त्वम् एवात्माना स्वरूपेणात्मानं निरुपाधिकं सोपाधिकं च । निरुपाधिकं प्रत्यक्त्वेनाविषयतया सोपाधिकं च निरतिशय-ज्ञानैश्वर्यादि-शक्तिमत्त्वेन वेत्थ जानासि नान्यः कश्चित् । अन्यैर् ज्ञातुम् अशक्यम् अहं कथं जानीयाम् इत्य् आशङ्काम् अपनुदन् प्रेमौत्कण्ठ्येन बहुधा सम्बोधयति हे पुरुषोत्तम त्वद्-अपेक्षया सर्वे ऽपि पुरुषा अपकृष्टा एव । अतस् तेषाम् अशक्यं सर्वोत्तमस्य तव शक्यम् एवेत्य् अभिप्रायः । पुरुषोत्तमत्वम् एव विवृणोति पुनश् चतुर्भिः सम्बोधनैः । भूतानि सर्वाणि भावयत्य् उत्पादयतीति हे भूत-भावन सर्व-भूत-पितः । पितापि कश्चिन् नेष्टस् तत्राह हे भूतेश सर्व-भूत-नियन्तः । नियन्तापि
कश्चिन् नाराध्यस् तत्राह हे देव-देव देवानां सर्वाराध्यानाम् अप्य् आराध्यः । आराध्यो ऽपि कश्चिन् न पालयितृत्वेन पतिस् तत्राह हे जगत्-पते हिताहितोपदेशक-वेद-प्रणतृत्वेन सर्वस्य जगतः पालयितः । एतादृश-सर्व-विशेषण-विशिष्टस् त्वं सर्वेषां पिता सर्वेषां गुरुः सर्वेषां राजातः सर्वैः प्रकारैः सर्वेषाम् आराध्य इति किं वाच्यं पुरुषोत्तमस् त्वं तवेति भावः ॥१५॥
विश्वनाथः : तस्मात् त्वं स्वयम् एवात्मानं वेत्थ इति एव-कारेण तवार्जत्व-जन्मवत्त्वादीनां दुर्घटानाम् अपि वास्तवत्वम् एव त्वद्-भक्तो वेत्ति तच् च केन प्रकारेणेति तु सो ऽपि न वेत्तीत्य् अर्थः । तद् अप्य् आत्मना स्वेनैव वेत्थ न साधनान्तरेण । अतएव त्वं पुरुषेषु महत्-स्रष्टादिष्व् अपि मध्य उत्तमः । न केवलम् उत्तम एव, यतो भूत-भावनः । भूता भूत-भावन-रूपा ये तद्-आदयः परमेष्ठ्य्-अन्तास् तेषाम् ईशः । न केवलम् ईश एव, यतो देवैस् तैर् एव देवः क्रीडा यस्येति त्वत्-क्रीडोपकार-भूता एव ते इत्य् अर्थः । तद् अप्य् अपारकारुण्य-वशाद् जगद्-वर्तिना मन् मादृशानाम् अपि त्वम् एव पतिर् भवसि इति चतूर्णां सम्बोधन-पदानाम् अर्थः । यद् वा पुरुषोत्तमत्वम् एव विवृणोति हे भूत-भावन सर्व-भूत-पितः ! पितापि कश्चिन् नेष्टे ? तत्राह हे भूतेश
! भूतेशो ऽपि कश्चिन् नाराध्यस् तत्राह हे देवदेव ! देवाराध्यो ऽपि कश्चिन् न पालयतीति तत्राह हे जगत्-पते ॥१५॥
बलदेवः : स्वयम् एव त्वम् आत्माना स्वेनैव ज्ञानेनात्मानं संवेत्थ इदम् इत्थम् इति जानासि । ये देवेषु दानवेषु च त्वद्-भक्तास् ते तादृशीं त्वन्-मूर्तिं वस्तु-भूतां जानन्त्य् एव तस्यास् तथात्वे कथं तां न जानन्तीत्य् एव-कारात् । हे पुरुषोत्तम सर्व-पुरुषेश्वर ! पुरुषोत्तमस् त्वं विवृण्वन् सम्बोधयति हे भूत-भावन ! सर्व-प्राणि-जनक ! भूत-भावनो ऽपि कश्चिन् नेष्टो, तत्राह हे भूतेश ! सर्व-प्राणि-नियन्तः ! भूतेशो ऽपि कश्चिन् न पूज्यस् तत्राह हे देवदेव ! सर्वाराध्यानाम् अपि देवानाम् आराध्य ! देवदेवो ऽपि कश्चिन् न रक्षकस् तत्राह हे जगत्-पते ! हिताहितोपदेशेन जीविकार्पणेन च विश्व-पालक ! ईदृशस्य ते तत्त्वं सुसिद्धम् इति ॥१५॥
१०।१६
वक्तुम् अर्हस्य् अशेषेण दिव्या ह्य् आत्मविभूतयः
याभिर् विभूतिभिर् लोकान् इमांस् त्वं व्याप्य तिष्ठसि ॥१६॥
श्रीधरः : यस्मात् तवाभिव्यक्तिं त्वम् एव वेत्सि न देवादयः । तस्मात् वक्तुम् इति । या आत्मनस् तव दिव्या अत्यद्भुता विभूतयस् ता सर्वा वक्तुं त्वम् एवार्हसि योग्यो ऽसि । याभिर् इति विभूतीनां विशेषणं स्पष्टार्थम् ॥१६॥
मधुसूदनः : यस्माद् अन्येषां सर्वेषां ज्ञातुम् अशक्या अवश्यं ज्ञातव्याश् च तव विभूतयस् तस्मात् वक्तुम् इति । याभिर् विभूतिभिर् इमान् सर्वान् लोकान् व्याप्य त्वं तिष्ठसि तास् तवासाधारणा विभूतयो दिव्या असर्वज्ञैर् ज्ञातुम् अशक्या हि यस्मात् तस्मात् सर्वज्ञस् त्वम् एव ता अशेषेण वक्तुम् अर्हसि ॥१६॥
विश्वनाथः : तव तत्त्वं दुर्गमं तव विभूतिष्व् एव मम जिज्ञासा जायत इति द्योतयन्न् आह वक्तुम् इति । दिव्या उत्कृष्टा या आत्म-विभूतयस् तावद् वक्तुम् अर्हसीत्य् अन्वयः । नन्व् अशेषेण मद्-विभूतयः सर्वा वक्तुम् अशक्या एव तत्राह याभिर् इति ॥१६॥
बलदेवः : त्वत्-स्वरूप-याथात्म्यं खलु कथं तथा दुर्गमेवातस् त्वद्-विभूतिष्व् एव मज्-जिज्ञासोपजायत इति सूचयन्न् आह वक्तुम् इति । दिव्या उत्कृष्टास् तद्-असाधारणीयात्मनो विभूतीर् अशेषेण वक्तुम् अर्हसि द्वितीयार्थे प्रथमा । याभिर् विशिष्टस् त्वम् इमान् लोकान् व्याप्य नियम्य तिष्ठसि ॥१६॥
१०।१७
कथं विद्याम् अहं योगिंस् त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्यो ऽसि भगवन् मया ॥१७॥
श्रीधरः : कथन-प्रयोजनं दर्शयन् प्रार्थयते कथम् इति द्वाभ्याम् । हे योगिन् कथं कैर् विभूति-भेदैः सदा परिचिन्तयन्न् अहं त्वां विद्यां जानीयाम् ? विभूति-भेदेन चिन्त्यो ऽपि त्वं केषु केषु पदार्थेषु मया चिन्तनीयो ऽसि ? ॥१७॥
मधुसूदनः : किं प्रयोजनं तत्-कथनस्य तद् आह कथम् इति द्वाभ्याम् । योगो निरतिशयैश्वर्यादि-शक्तिः सो ऽस्यास्तीति हे योगिन् निरतिशैश्वर्यादि-शक्ति-शालिन्न् अहम् अतिस्थूलमतिस् त्वां देवादिभिर् अपि ज्ञातुम् अशक्यं कथं विद्यां जानीयां सदा परिचिन्तयन् सर्वदा ध्यायन् । ननु मद्-विभूतिषु मां ध्यायन् ज्ञास्यसि तत्राह केषु केषु च भावेषु चेतनाचेतनात्मकेषु वस्तुषु त्वद्-विभूति-भूतेषु मया चिन्त्यो ऽसि हे भगवन् ॥१७॥
विश्वनाथः : योगो योग-माया-शक्तिर् वर्तते यस्य हे योगिन् वनमालीतिवत् । त्वाम् अहं कथं परिचिन्तयन् सन् त्वां सदा विद्यां जानीयाम् ? भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः [भ्प् ११।१४।११] इति त्वद्-उक्तेः । तथा केषु भावेषु पदार्थेषु त्वं चिन्त्यः त्वच्-चिन्तन-भक्तिर् मया कर्तव्येत्य् अर्थः ॥१७॥
बलदेवः : ननु किमर्थं तत्-कथन्ं तत्राह कथम् इति । योगो योग-माया-शक्तिर् अस्त्य् अस्येति हे योगिन् ! त्वां सदा परिचिन्तयन् संस्मरन्न् अहं कल्याणानन्त-गुण-योगिनं कथं विद्यां जानीयाम् ? केषु केषु च भावेषु पदार्थेषु प्रकाशमानस् त्वं मया चिन्त्यो ध्येयो ऽसि ? तद् एतद् उभयं वद । तच् च विभूत्य्-उद्देशेनैव सेत्स्यतीति ताम् उपदिशेत्य् अर्थः ॥१७॥
१०।१८
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर् हि शृण्वतो नास्ति मे ऽमृतम् ॥१८॥
श्रीधरः : तद् एवं बहिर्मुखो ऽपि चित्ते तत्र तत्र विभूति-भेदेन त्वच्-चिन्तैव यथा भवेत् तथा विस्तरेण कथयत्य् आह विस्तरेणेति । आत्मनस् तव योगं सर्वज्ञत्व-सर्व-शक्तित्वादि-लक्षणं योगैश्वर्यं विभूतिं च विस्तरेण पुनः कथय । हि यतस् तव वाक्यम् अमृत-रूपं शृण्वतो मम तृप्तिर् अलं बुद्धिर् नास्ति ॥१८॥
मधुसूदनः : अतः विस्तरेणेति । आत्मनस् तव योगं सर्वज्ञत्व-सर्व-शक्तित्वादि-लक्षणम् ऐश्वर्यातिशयं विभूतिं च ध्यानालम्बनं विस्तरेण सङ्क्षेपेण सप्तमे नवमे चोक्तम् अपि भूयः कथय सर्वैर् जनैर् अभ्युदय-निःश्रेयस-प्रयोजनं याच्यस इति । हे जनार्दन ! अतो ममापि याच्ञा त्वय्य् उचितैव । उक्तस्य पुनः कथनं कुतो याचसे तत्राह तृप्तिर् अलं-प्रत्ययेनेच्छा-विच्छित्तिर् नास्ति हि यस्माच् छृण्वतः श्रवणेन पिबतस् त्वद्-वाक्यम् अमृतम् अमृतवत् पदे पदे स्वादु स्वादु । अत्र त्वद्-वाक्यम् इत्य् अनुक्तेर् अपह्नुत्य्-अतिशयोक्ति-रूपक-सङ्करो ऽयं माधुर्यातिशयानुभवेनोत्कण्ठातिशयं व्यनक्ति ॥१८॥
विश्वनाथः : नन अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते [गीता १०।८] इत्य् अनेनैव सर्वे पदार्था मद्-विभूतयो मद्-उक्ता एव विभूतयस् तथा इति मत्वा भजन्ते माम् इति भक्ति-योगश् चोक्त एव । तत्राह विस्तरेणेति । हे जनार्दनेति मादृश-जनानां त्वम् एव हितोपदेश-माधुर्येण लोभम् उत्पाद्यार्दयसे याचयसीति वयं किं कुर्म इति भावः । त्वद्-उपदेश-रूपम् अमृतं शृण्वतः श्रुति-रसनया स्वादयतः ॥१८॥
बलदेवः : ननु पूर्व-पूर्वत्र अजो ऽपि सन्न् [गीता ४।६] इत्य् आदिनाजत्वादि-कल्याण-गुण-योगो रसो ऽहम् [गीता ७।८] इत्य् आदिना विभूतयश् चासकृत् कथिताः, किं पुनः पृच्छसीति चेत् तत्राह विस्तरेणेति । स्फुटार्थं पद्यम् । जनार्दनेति प्राग्वत् । त्वद्-वाक्यम् अमृतं शृण्वतः श्रोत्र-रसनयास्वादयतो मम तृप्तिर् नास्ति । अत्र त्वद्-वाक्यम् इत्य् अनुक्तेर् अपह्नुतिः । प्रथमातिशयोक्तिर् वा तयोः सङ्करो वालङ्कारः ॥१८॥
१०।१९
श्री-भगवान् उवाच
हन्त ते कथयिष्यामि दिव्या ह्य् आत्म-विभूतयः ।
प्राधान्यतः कुरु-श्रेष्ठ नास्त्य् अन्तो विस्तरस्य मे ॥१९॥
श्रीधरः : एवं प्रार्थितः सन् भगवान् उवाच हन्तेति । हन्तेत्य् अनुकम्प्य सम्बोधनम् । दिव्या या मद्-विभूतयस् ताः प्राधान्येन ते तुभ्यं कथयिष्यामि यतो ऽवान्तरस्य विभूति-विस्तरस्य मदीयस्यान्तो नास्ति । अतः प्रधान-भूताः कतिचिद् वर्णयिष्यामि ॥१९॥
मधुसूदनः : अत्रोत्तरम् । हन्तेत्य् अनुमतौ । यत् त्वया प्रार्थितं तत् करिष्यामि मा व्याकुलो भूर् इत्य् अर्जुनं समाश्वास्य तद् एव कर्तुम् आरभते । कथयिष्यामि प्राधान्यतस् ता विभूतीर् या दिव्या हि प्रसिद्धा आत्मनो ममासाधारणा विभूतयो हे कुरु-श्रेष्ठ ! विस्तरेण तु कथनम् अशक्यम्, यतो नास्त्य् अन्त्यो विस्तरस्य मे विभूतीनाम् । अतः प्रधान-भूताः काश्चिद् एव विभूतीर् वक्ष्यामीत्य् अर्थः ॥१९॥
विश्वनाथः : हन्तेत्य् अनुकम्पायां प्राधान्यतः प्राधान्येन यतस् तासां विस्तरस्यान्तो नास्ति । विभूतयो विभूतीर् दिव्या उत्तमा एव न तु तृणेष्टकाद्याः । अत्र विभूति-शब्देन प्राकृताप्राकृत-वस्तून्य् एवोच्यते तानि सर्वाण्य् एव भगवच्-छक्ति-समुद्भूतत्वाद् भगवद्-रूपेणैव तारतम्येन ध्येयत्वेनाभिमतानि ज्ञेयानि ॥१९॥
बलदेवः : एवं पृष्टः श्री-भगवान् उवाच हन्तेति । हन्तेत्य् अनुकम्पार्थकम् । दिव्या उत्कृष्टाः, न तु तृणेष्टकाद्याः । विभूतय इति प्राग्वत् । प्राधान्यतः प्राधान्येन यतस् तासां विस्तरस्यान्तो नास्ति । इह विभूति-शब्देन नियामकत्व-रूपाण्य् ऐश्वर्याणि बोध्यानि विभूतिर् भूतिर् ऐश्वर्यम् इत्य् अमर-कोषात् । प्राकृताप्राकृतानि च वस्तूनि भूतित्वेन वर्ण्यानि । तानि सर्वाणि सर्वेश-शक्ति-व्यङ्गत्वात् सर्वेशात्म्नआ तारतम्येन भाव्यानि । मतानि यानि साक्षाद् ईश्वर-रूपाणि तत्त्वेनोक्तानि । तानि तु तेन रूपेण भावनार्थान्य् एव, न त्व् अन्यवत् तच्-छक्त्य्-एकदेश-रूपाणीति बोध्यं सङ्गतेर् इति ॥१९॥
१०।२०
अहम् आत्मा गुडाकेश सर्व-भूताशय-स्थितः ।
अहम् आदिश् च मध्यं च भूतानाम् अन्त एव च ॥२०॥
श्रीधरः : तत्र प्रथमम् ऐश्वरं रूपं कथयति हे गुडाकेश ! सर्वेषां भूतानाम् आशयेष्व् अन्तःकरणेषु सर्वज्ञत्वादि-गुणैर् नियन्तृत्वेनावस्थितः परमात्माहम् । आदिर् जन्म । मध्यं स्थितिः । अन्तः संहारः । सर्व-भूतानां जन्मादि-हेतुश् च अहम् एवेत्य् अर्थः ॥२०॥
मधुसूदनः : तत्र प्रथमं तावन् मुख्यं चिन्तनीयं शृणु अहम् इति । सर्व-भूतानाम् आशये हृद्-देशे ऽन्तर्यामि-रूपेण प्रत्यग्-आत्म-रूपेण च स्थित आत्मा चैतन्यानन्द-घनस् त्वयाहं वासुदेव एवेति ध्येयः । हे गुडाकेश ! जितनिद्रेति ध्याम-सामर्थ्यं सूचयति । एवं ध्यानासामर्थ्ये तु वक्ष्यमाणानि ध्यानानि कार्याणि । तत्राप्य् आदौ ध्येयम् आह - अहम् एवादिश् चोत्पत्तिर् भूतानां प्राणिनां चेतनत्वेन लोके व्यवह्रियमाणानां मध्यं च स्थितिर् अन्तश् च नाशः सर्व-चेतन-वर्गाणाम् उत्पत्ति-स्थित-नाश-रूपेण तत्-कारण-रूपेण चाहम् एव ध्येय इत्य् अर्थः ॥२०॥
विश्वनाथः : अत्र प्रथमं माम् एवैकांशेन सर्व-विभूति-कारणं त्वं भावयेत्य् आह अहम् इति । आत्मा प्रकृत्य्-अन्तर्यामी महत्-स्रष्टा पुरुषः परमात्मा । हे गुडाकेश जित-निद्र इति ध्यान-सामर्थ्यं सूचयति ! सर्व-भूतो यो वैराजस् तस्याशये स्थित इति समष्टि-विराड् अन्तर्यामी । तथा सर्वेषां भूतानाम् आशये स्थित इति व्यष्टि-विराड् अन्तर्यामी च । भूतानां आदिर् जन्म मध्यं स्थितिर् अन्तः संहारः । तत्-तद्-धेतुर् अहम् इत्य् अर्थः ॥२०॥
बलदेवः : तत्र तावन् माम् एव त्वं महत्-स्रष्टादि-त्रि-रूपेण स्वांशेन निखिल-विभूति-हेतुं विचिन्तयेत्य् आशयेनाह अहम् आत्मेति । हे गुडाकेशेति विजित-निद्रस्य तद्-विचिन्तन-क्षमत्वं व्यज्यते । आत्मा विभूति-विज्ञानानन्दो महत्-स्रष्टादि-त्रि-रूपः परमात्माहम् अस्मच्-छब्दार्थः सर्व-भूताशय-स्थितस् त्वया विचिन्त्यः । सर्व-भूता प्रधानादि-पृथिव्य्-अन्त-तत्त्व-रूपा या मूल-प्रकृतिस् तस्या आशये ऽन्तः-करणोदशय-रूपेणाहम् एव प्रकृत्य्-अन्तर्यामी स्थितः । तथा सर्व-भूतः सर्व-जीवाभिमानी यो वैराजस् तस्याशये गर्भोदशय-रूपेणाहम् एव समष्टि-विराड्-अन्तर्यामी स्थितः । सर्वेषां भूतानाम् जीवानाम् आशये क्षीरोद-शय-रूपेणाहम् एव व्यष्टि-विराड् अन्तर्यामी स्थित इति तानि त्रीणि रूपाणि मद्-विभूतित्वेन त्वया विन्चिन्त्यानीत्य् अर्थः
। सुबालोपनिषदि प्रकृत्य्-आदि-सर्व-भूतान्तर्यामी सर्व-शेषी च नारायणः पठ्यते । सात्वत-तन्त्रे त्रयः पुरुषावताराः स्मृताः -
विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।
एकं तु महतः स्रष्टृ द्वितीयं तन्तु-संस्थितम् ।
तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥ इति ।
ते च वासुदेवस्य कृष्णस्यावताराः -
यः कारणार्णव-जले भजति स्म योग-
निद्राम् इत्य् आदिका ब्रह्म-संहिता-पद्य-त्रयात् । (५।४७)
भूतानाम् आदिर् उत्पत्तिर् मध्यं पालनम् अन्तश् च संहारस् तत्-तद्-धेतुर् अहम् एवोक्त-पुरुष-लक्ष्यस् त्वया भाव्यः ॥२०॥
१०।२१
आदित्यानाम् अहं विष्णुर् ज्योतिषां रविर् अंशुमान् ।
मरीचिर् मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥२१॥
श्रीधरः : इदानीं विभूतीः कथयति आदित्यानाम् इत्य् आदिना यावद्-अध्याय-समाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर् नामादित्यो ऽहम् । ज्योतिषां प्रकाशकानां मध्ये ऽंशुमान् विश्व-व्यापि-रश्मि-युक्तो रविः सूर्यो ऽहम् । मरुतां देव-विशेषाणां मध्ये मरीचि-नामाहम् अस्मि । यद् वा सप्त मरुद्-गणा वायवः । तेषां मध्य इति । ते च अवहः प्रवहो विवहः परावह उद्वहः संवह परिवह इति स्पत मरुद्-गणाः । नक्षत्राणां मध्ये चन्द्रो ऽहम् ॥२१॥
मधुसूदनः : एतद्-अशक्तेन बाह्यानि ध्यानानि कार्याणीत्य् आह यावद्-अध्याय-समाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर् विस्णु-नामादित्यो ऽहम् वामनावतारो वा । ज्योतिषां प्रकाशकानां मध्ये ऽहं रविर् ंशुमान् विश्व-व्यापी प्रकाशकः । मरुतां सप्त-सप्तकानां मध्ये मरीचि-नामाहम् नक्षत्राणाम् अधिपतिर् अहं शशी चन्द्रमाः । निर्धारणे षष्ठी । अत्र प्रायेण निर्धारणे षष्ठी । क्वचित् सम्बन्धे ऽपि यथा भूतानाम् अस्मि चेतनेत्य् आदौ । वामन-रामादयश् चावताराः सर्वैश्वर्य-शालिनो ऽप्य् अनेन रूपेण ध्यान-विवक्षया विभूतिषु पठ्यन्ते । वृष्णीनां वासुदेवो ऽस्मीति तेन रूपेण ध्यान-विवक्षया सवस्यापि स्व-विभूति-मध्ये पाठवत् । अतः परं च प्रायेणायम् अध्यायः स्पष्टार्थ
इति क्वचित् क्वचिद् व्याख्यास्यामः ॥२१॥
विश्वनाथः : अथ निर्धारण-षष्ठ्या क्वचित् सम्बन्ध-षष्ठ्या च विभुतीर् आह यावद्-अध्याय-समाप्तिः । आदित्यानां द्वादशानां मध्ये विष्णुर् अहम् इति तन्-नामा सूर्यो मद्-विभूतिर् इत्य् अर्थः । एवं सर्वत्र प्रकाशकानां ज्योतिषां मध्ये अंशुमान् महा-किरण-माली रविर् अहम् । मरीचिः पवन-विशेषः ॥२१॥
बलदेवः : आदित्यानां द्वादशानां मध्ये विष्णुर् वामनो ऽहम् । ज्योतिषां प्रकाशानां मध्ये ऽंशुमान् विश्व-व्यापि-रश्मी रविर् अहम् । मरुताम् ऊन-पञ्चाशत्-सङ्ख्यकानां मध्ये मरीचिर् अहम् । नक्षत्राणाम् अधिपतिः शशी सुधा-वर्षी चन्द्रो ऽहम् । अत्र निर्धारणे षष्ठी प्रायेण क्वचित् सम्बन्धे ऽपीति बोध्यम् ॥२१॥
१०।२२
वेदानां सामवेदो ऽस्मि देवानाम् अस्मि वासवः ।
इन्द्रियाणां मनश् चास्मि भूतानाम् अस्मि चेतना ॥२२॥
श्रीधरः : वेदानाम् इति । वासव इन्द्रः । भूतानां चेतना ज्ञान-शक्तिर् अहम् अस्मि ॥२२॥
मधुसूदनः : चतूर्णां वेदानां मध्ये गान-माधुर्येणातिरमणीयः सामवेदो ऽहम् अस्मि । वासव इन्द्रः सर्व-देवाधिपतिः । इन्द्रियाणाम् एकादशानां प्रवर्तकं मनः । भूतानां सर्व-प्राणि-सम्बन्धिनां परिणामानां मध्ये चिद्-अभिव्यञ्जिका बुद्धेर् वृत्तिश् चेतनाहम् अस्मि ॥२२॥
विश्वनाथः : वासव इन्द्रः । भूतानां सम्बन्धिनी चेतना ज्ञान-शक्तिः ॥२२॥
बलदेवः : वेदानां मध्ये गीत-माधुर्येणोत्कर्षात् सामवेदो ऽहम् । देवानां मध्ये वासवस् तेषां राजा इन्द्रो ऽहम् । इन्द्रियाणां मध्ये दुर्जयं तेषां प्रवर्तकं च मनो ऽहम् । भूतानां सम्बन्धिनी चेतना ज्ञान-शक्तिर् अहम् ॥२२॥
१०।२३
रुद्राणां शङ्करश् चास्मि वित्तेशो यक्ष-रक्षसाम् ।
वसूनां पावकश् चास्मि मेरुः शिखरिणाम् अहम् ॥२३॥
श्रीधरः : रुद्राणाम् इति । रक्षसाम् अपि क्रूरत्वादि-साम्याद् यक्षैः सहैकीकृत्य निर्देशः । तेषां मध्ये वित्तेशः कुवेरो ऽस्मि । पावको ऽग्निः । शिखरिणां शिखरताम् उच्छ्रितानां मध्ये मेरुः ॥२३॥
मधुसूदनः : रुद्राणाम् एकादशानां मध्ये शङ्करः । वित्तेशो धनाध्यक्षः कुबेरो यक्ष-रक्षसां यक्षानां राक्षसानां च । वसूनाम् अष्टानां पावको ऽस्मि । मेरुः सुमेरुः शिखरिणाम् शिखरवताम् अत्युच्छ्रितानां पर्वतानाम् ॥२३॥
विश्वनाथः : वित्तेशः कुवेरः ॥२३॥
बलदेवः : रुद्राणाम् एकादशानां मध्ये शङ्कराख्यो रुद्रो ऽहम् । यक्ष-रक्षसाम् आधिपो वित्तेशः कुवेरो ऽहम् । वसूनाम् अष्टानां मध्ये पावको ऽग्निर् अहम् । शिखरिणाम् अत्युच्छ्रितानां मध्ये मेरुः स्वर्णाचलो ऽहम् ॥२३॥
१०।२४
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनाम् अहं स्कन्दः सरसाम् अस्मि सागरः ॥२४॥
श्रीधरः : पुरोधसाम् इति । पुरोधसां मध्ये देव-पुरोहितत्वान् मुख्यं बृहस्पतिम् मां विद्धि । सेनानीनां मध्ये देव-सेनापतिः स्कन्दो ऽहम् अस्मि । सरसाम् स्थिर-जलाशयानां मध्ये समुद्रो ऽस्मि ॥२४॥
मधुसूदनः : इन्द्रस्य सर्व-राज-श्रेष्ठत्वात् तत्-पुरोधसं बृहस्पतिं सर्वेषां पुरोधसां राज-पुरोहितानां मध्ये मुख्यं श्रेष्ठं माम् एव हे पार्थ विद्धि जानीहि । सेनानीनाम् सेनापतीनां मध्ये देव-सेनापतिः स्कन्दो गुहो ऽहम् अस्मि । सरसाम् देव-खात-जलाशयानां मध्ये सागरः सगर-पुत्रैः खातो जलाशयो ऽहम् अस्मि ॥२४॥
विश्वनाथः : सेनानीनाम् इत्य् आर्षम् । स्कन्धः कार्तिकेयः ॥२४॥
बलदेवः : इन्द्रस्य सर्व-राज-मुख्यत्वात् तत्-पुरोहितं बृहस्पतिं सर्व-पतिं राज-पुरोहितानां मुख्यं मां विद्धीति सो ऽहम् इत्य् अर्थः । सेनानीनाम् इति नुडागमनस् त्व् आर्षः । सर्व-राज-सेनानां मध्ये स्कन्दः कार्त्तिकेयो ऽहम् । सरसाम् स्थिर-जलानां मध्ये सागरो ऽहम् ॥२४॥
१०।२५
महर्षीणां भृगुर् अहं गिराम् अस्म्य् एकम् अक्षरम् ।
यज्ञानां जप-यज्ञो ऽस्मि स्थावराणां हिमालयः ॥२५॥
श्रीधरः : महर्षीणाम् इति । गिरां वाचां पदात्मिकानां मध्ये एकम् अक्षरम् ओङ्काराख्यं पदम् अस्मि । यज्ञानां श्रौत-स्मार्तानां मध्ये जप-रूप-यज्ञो ऽहम् ॥२५॥
मधुसूदनः : महर्षीणां सप्त-ब्रह्मणां मध्ये भृगुर् अतितेजस्वित्वाद् अहम् । गिरां वाचां पद-लक्षणानां मध्य एकम् अक्षरम् पदम् ओङ्कारो ऽहम् अस्मि । यज्ञानां मध्ये जप-यज्ञो हिंसादि-दोष-शून्यत्वेनात्यन्त-शोधको ऽहम् अस्मि । स्थावराणां स्थितिमतां मध्ये हिमालयो ऽहं । शिखरवतां मध्ये हि मेरुर् अहम् इत्य् उक्तम् अतः स्थावरत्वेन शिखरत्वेन चार्थ-भेदाव् अदोषः ॥२५॥
विश्वनाथः : एकम् अक्षरं प्रणवः ॥२५॥
बलदेवः : महर्षीणां ब्रह्म-पुत्राणां मध्ये ऽतितेजस्वी भृगुर् अहम् । गिरां पद-लक्षणानां वाचां मध्ये एकम् अक्षरम् प्रणवो ऽहम् अस्मि । यज्ञानां मध्ये जप- यज्ञो ऽस्मि । तस्याहिंसात्मकत्वेनोत्कृष्टत्वात् स्थावराणां स्थितिमतां मध्ये हिमाचलो ऽहं । अत्युच्चत्वेनातिस्थैर्येण चार्थ-भेदान् मेरु-हिमालययोर् विभूत्योर् भेदः ॥२५॥
अश्वत्थः सर्व-वृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥२६॥
श्रीधरः : अश्वत्थ इति । देवा एव सन्तो ये मन्त्र-दर्शनेन ऋषित्वं प्राप्तास् तेषां मध्ये नारदो ऽस्मि । सिद्धानाम् उत्पत्तितः एव अधिगत-परमार्थ-तत्त्वानां मध्ये कपिलाख्यो मुनिर् अस्मि ॥२६॥
मधुसूदनः : सर्वएषां वृक्षाणां वनस्पतीनाम् अन्येषां च । देवा एव सन्तो ये मन्त्र-दर्शित्वेन ऋषित्वं प्राप्तास् ते देवर्षयस् तेषां मध्ये नारदो ऽहम् अस्मि । गन्धर्वाणां गान-धर्मणां देव-गायकानां मध्ये चित्ररथो ऽहम् अस्मि । सिद्धानां जन्मनैव विना प्रयत्नं धर्म-ज्ञान-वैराग्यैश्वर्यातिशयं प्राप्तानाम् अधिगत-परमार्थानां मध्ये कपिलो मुनिर् अहम् ॥२६॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : पूज्यत्वेन सर्व-वृक्षाणां मध्ये श्रेष्ठो ऽश्वत्थो ऽहं देवर्षीणां मध्ये परम-भक्तत्वेनोत्कृष्टो नारदो ऽहम् । गन्धर्वाणां मध्ये ऽतिगायकत्वेनोत्कृष्टत्वाच् चित्ररथो ऽहम् । सिद्धानां स्वाभाविकाणिमादिमतां कपिलः कार्दमिर् मुनिर् अहम् ॥२६॥
१०।२७
उच्चैःश्रवसम् अश्वानां विद्धि माम् अमृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥२७॥
श्रीधरः : उच्चैःश्रवसम् इति । अमृतार्थं क्षीरोदधि-मन्थनाद् उद्भूतम् उच्चैःश्रवसम् नामाश्वं मद्-विभूतिं विद्धि । अमृतोद्भवम् इत्य् एतद् ऐरावते ऽपि सम्बध्यते । नराधिपं राजानं मां मद्-विभूतिं विद्धि ॥२७॥
मधुसूदनः : अश्वानां मध्य उच्चैःश्रवसम् अमृत-मथनोद्भवम् अश्वं मां विद्धि । ऐरावतं गजम् अमृत-मथनोद्भवम् गजेन्द्राणां मध्ये मां विद्धि । नराणां च मध्ये नराधिपं राजानं मां विद्धीत्य् अनुषज्यते ॥२७॥
विश्वनाथः : अमृतोद्भवम् अमृत-मथनोद्भूतम् ॥२७॥
बलदेवः : अश्वानां मध्ये उच्चैःश्रवसम् । गजेन्द्राणां मध्ये ऐरावतं च मां विद्धि । अमृतोद्भवम् अमृतार्थकात् क्षीराब्धि-मथनाज् जातम् इति द्वयोर् विशेषणम् । नराधिपं राजानं असह्य-तेजसं धर्मिष्ठम् ॥२७॥
१०।२८
आयुधानाम् अहं वज्रं धेनूनाम् अस्मि कामधुक् ।
प्रजनश् चास्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः ॥२८॥
श्रीधरः : आयुधानाम् इति । आयुधानां मध्ये वज्रम् अस्मि । कामान् दोग्धीति काम-धुक् । प्रजनः प्रजोत्पत्ति-हेतुः कन्दर्पः कामो ऽस्मि । न केवलं सम्भोग-मात्र-प्रधानः कामो मद्-विभूतिर् अशास्त्रीयत्वात् । सर्पाणाम् सविधानां राजा वासुकिर् अस्मि ॥२८॥
मधुसूदनः : आयुधानां अस्त्राणां मध्ये वज्रं दधीचेर् अस्थ्-सम्भवम् अस्त्रम् अहम् अस्मि । धेनूनां दोग्ध्रीणां मध्ये कामं दोग्धीति काम-धुक् । समुद्र-मथनोद्भवा वसिष्ठस्य काम-धेनुर् अहम् अस्मि । कामानां मध्ये प्रजनः प्रजनयिता पुत्रोत्पत्त्य्-अर्थो यः कन्दर्पः कामः सो ऽहम् अस्मि । च-कारस् त्व् अर्थो रति-मात्र-हेतु-काम-व्यावृत्त्य्-अर्थः । सर्पाश् च नागाश् च जाति-भेदाद् भिद्यन्ते । तत्र सर्पाणाम् मध्ये तेषां राजा वासुकिर् अहम् अस्मि ॥२८॥
विश्वनाथः : काम-धुक् काम-धेनुः । कन्दर्पानां मध्ये प्रजनः प्रजोत्पत्ति-हेतुः कन्दर्पो ऽहम् ॥२८॥
बलदेवः : आयुधानां मध्ये वज्रं पविर् अहम् । काम-धुक् वाञ्छित-पूरयित्री काम-धेनुर् अहम् । प्रजनः सन्तानोत्पादकः कन्दर्पः कामो ऽहम् । रति-सुख-मात्र-हेतुः स नाहम् इति च-शब्दात् । सर्पाणाम् एक-शिरसां मध्ये वासुकिर् अहम् ॥२८॥
१०।२९
अनन्तश् चास्मि नागानां वरुणो यादसाम् अहम् ।
पितॄणाम् अर्यमा चास्मि यमः संयमताम् अहम् ॥२९॥
श्रीधरः : अनन्त इति । नागानां निर्विषाणां राजानन्तः शेषो ऽहम् । यादसाम् जल-चराणां राजा वरुणो ऽहम् । पितॄणाम् राजार्यमास्मि । संयमताम् नियमनं कुर्वतां मध्ये यमो ऽस्मि ॥२९॥
मधुसूदनः : नागानां जाति-भेदानां मध्ये तेषां राजानन्तश् च शेषाख्यो ऽहम् अस्मि । यादसाम् जल-चराणां मध्ये तेषां राजा वरुणो ऽहम् अस्मि । पितॄणाम् मध्ये ऽर्यमा नाम पितृ-राजश् चाहम् अस्मि । संयमताम् संयमं धर्माधर्म-फल-दानेनानुग्रहं निग्रहं च कुर्वतां मध्ये यमो ऽहम् स्मि ॥२९॥
विश्वनाथः : यादसाम् जल-चराणां । संयमताम् दण्डयताम् ॥२९॥
बलदेवः : नागानाम् अनेक-शिरसां मध्ये ऽनन्तः शेषो ऽहम् । यादसाम् जल-जन्तूनाम् अधिपो वरुणो ऽहम् । पितॄणाम् राजार्यमाख्यः पितृ-देवो ऽहम् । संयमताम् दण्डयतां मध्ये न्याय-दण्ड-कृत् यमो ऽहं छादेशाभाव आर्षः ॥२९॥
१०।३०
प्रह्लादश् चास्मि दैत्यानां कालः कलयताम् अहम् ।
मृगाणां च मृगेन्द्रो ऽहं वैनतेयश् च पक्षिणाम् ॥३०॥
श्रीधरः : प्रह्लाद इति । कलयतां वशीकुर्वतां गणयतां वा मध्ये कालो ऽहम् अस्मि । मृगेन्द्रः सिंहः । पक्षिणां मध्ये वैनतेयो गरुडो ऽस्मि ॥३०॥
मधुसूदनः : दैत्यानां दिति-वंश्यानां मध्ये प्रकर्षेण ह्लादयत्य् आनन्दयति परम-सात्त्विकत्वेन सर्वान् इति प्रह्लादश् चास्मि । कलयतां सङ्ख्यानं गणनं कुर्वतां मध्ये कालो ऽहम् । मृगेन्द्रः सिंहो मृगाणां पशूनां मध्ये ऽहम् । वैनतेयश् च पक्षिणां विनता-पुत्रो गरुडः ॥३०॥
विश्वनाथः : कलयतां वशीकुर्वताम् । मृगेन्द्रः सिंहः । वैनतेयो गरुडः ॥३०॥
बलदेवः : दैत्यानां दिति-वंश्यानां मध्ये तेषाम् अधिपतिर् भगवन्-निष्ठातिशयाद् वरीयान् प्रह्लादो ऽहम् । कलयतां वशीकुर्वतां मध्ये कालो ऽहम् । मृगाणां पशूनां मध्ये ऽतिविक्रमेणोत्कृष्टो मृगेन्द्रः सिंहो ऽहम् । पक्षिणां मध्ये विष्णु-रथत्वेनातिश्रेष्ठो वैनतेयो गरुडो ऽहम् ॥३०॥
१०।३१
पवनः पवताम् अस्मि रामः शस्त्रभृताम् अहम् ।
झषाणां मकरश् चास्मि स्रोतसाम् अस्मि जाह्नवी ॥३१॥
श्रीधरः : पवन इति । पवतां पावयितॄणां वेगवतां वा मध्ये वायुर् अहम् अस्मि । शस्त्र-भृताम् वीराणां रामो दाशरथिः । यद् वा रामः परशुरामः । झषाणां मत्स्यानां मध्ये मकरो नाम मत्स्य-जाति-विशेषो ऽहम् । स्रोतसां प्रवाहोदकानां मध्ये भागीरथी ॥३१॥
मधुसूदनः : पवतां पावयितॄणां वेगवतां वा मध्ये पवनो वायुर् अहम् अस्मि । शस्त्रभृताम् शस्त्र-धारिणां युद्ध-कुशलानां मध्ये रामो दाशरथिर् अखिल-राक्षस-कुल-क्षय-करः परम-वीरो ऽहम् अस्मि । साक्षात्-स्वरूपस्याप्य् अनेन रूपेण चिन्तनार्थं वृष्णीनां वासुदेवो ऽस्मीतिवद् अत्र पाठ इति प्राग् उक्तम् । झषाणां मत्स्यानां मध्ये मकरो नाम तज्-जाति-विशेषः । स्रोतसाम् वेगेन चलज्-जलानां नदीनां मध्ये सर्व-नदी-श्रेष्ठा जाह्नवी गङ्गाहम् अस्मि ॥३१॥
विश्वनाथः : पवतां वेगवतां पवित्रीकुर्वतां वा मध्ये रामः परशुरामस् तस्यावेशावतारत्वाद् आवेशानां च जीव-विशेषत्वाद् युक्तम् एव विभूतित्वम् । तथा च भागवतामृत-धृत-पाद्म-वाक्यम्-
एतत् ते कथितं देवि जामदग्नेर् महात्मनः ।
शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥ [ल्भाग् १।४।३९]
आविष्टो भार्गवे चाभूत् इति च ।
आवेशावतार-लक्षणं च तत्रैव भागवतामृते यथा-
ज्ञान-शक्त्य्-आदि-कलया यत्राविष्टो जनार्दनः ।
त आवेशा निगद्यन्ते जीवा एव महत्तमाः ॥ [ल्भाग् १।१।१८] इति ।
झषाणां मत्स्यानां मकरो मत्स्य-जाति-विशेषः । स्रोतसाम् स्रोतस्वतीनाम् ॥३१॥
बलदेवः : पवतां पावनानां वेगवतां च मध्ये पवनो वायुर् अहम् । रामः परशुरामः । झषाणां मत्स्यानां मध्ये मकरस् तज्-जाति-विशेषो ऽहम् । स्रोतसाम् प्रवहज्-जलानां मध्ये जाह्नवी गङ्गाहम् ॥३१॥
१०।३२
सर्गाणाम् आदिर् अन्तश् च मध्यं चैवाहम् अर्जुन ।
अध्यात्म-विद्या विद्यानां वादः प्रवदताम् अहम् ॥३२॥
श्रीधरः : सर्गाणाम् इति । सृज्यन्त इति सर्गा आकाशादयः । तेषाम् आदिवन्तश् च मध्यं चैवाहम् । अहम् आदिश् च मध्यं चेत्य् अत्र सृष्ट्य्-आदि-कर्तृत्वं पारमैश्वर्यम् उक्तम् । अत्र तूत्पत्ति-स्थिति-प्रलया मद्-विभूतित्वेन ध्येया इत्य् उच्यते इति विशेषः । अध्यात्म-विद्यात्म-विद्या । प्रवदतां वादिनां सम्बन्धिन्यो वाद-जल्प-वितण्डाख्यास् तिस्रः कथाः प्रसिद्धाः । तासां मध्ये वादो ऽहम् । यत्र द्वाभ्याम् अपि प्रमाणतस् तर्कतश् च स्वपक्षः स्थाप्यते पर-पक्षश् च च्छल-जाति-निग्रह-स्थानैस् तत्-पक्षं दूषयति न तु स्व-पक्षं स्थापयति, सा वितण्डा नाम कथा । तत्र जल्प-वितण्डे विजिगीषमाणयोर् वादिनोः शक्ति-परीक्षा-मात्र-फले । वादस् तु वीत-रागयोः शिष्याचार्ययोर् अन्ययोर् वा तत्त्व-निरूपण-फलः । अतो ऽसौ श्रेष्ठत्वान् मद्-विभूतिर्
इत्य् अर्थः ॥३२॥
मधुसूदनः : सर्गाणाम् अचेतन-सृष्टीनाम् आदिर् अन्तश् च मध्यं चोत्पत्ति-स्थिति-लया अहम् एव । हे अर्जुन । भूतानां जीवाविष्टानां चेतनत्वेन प्रसिद्धानाम् एवादिर् अन्तश् च मध्यं चेत्य् उक्तम् उपक्रमे, इह त्व् अचेतन-सर्गाणाम् इति न पौनरुक्त्यम् । विद्यानां मध्ये ऽध्यात्म-विद्या मोक्ष-हेतुर् आत्म-तत्त्व-विद्याहम् । प्रवदतां प्रवदत्-सम्बन्धिनां कथा-भेदानां वाद-जल्प-वितण्डात्मकानां मध्ये वादो ऽहम् । भूतानाम् अस्मि चेतनेत्य् अत्र यथा भूत-शब्देन तत्-सम्बन्धिनः परिणामा लक्षितास् तथेह प्रवदच्-छब्देन तत्-सम्बन्धिनः कथा-भेदा लक्ष्यन्ते । अतो निर्धारणोपपत्तिः । यथा श्रुते तूभयत्रापि सम्बन्धे षष्ठी । तत्र तत्त्व-बुभुत्स्वोर् वीतरागयोः स-ब्रह्मचारिणोर् गुरु-शिष्ययोर् वा प्रमाणेन तर्केण च साधन-दूषणात्मा स-पक्ष-प्रतिपक्ष-परिग्रहस्
तत्त्व-निर्णय-पर्यन्तो वादः । तद् उक्तं प्रमाण-तर्क-साधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्ष-प्रतिपक्ष-परिग्रहो वादः इति । वाद-फलसय तत्त्व-निर्णयस्य दुर्दुरूढ-वादि-निराकरणेन संरक्षणार्थं विजिगीषु-कथे जल्प-वितण्डे जय-परायज-मात्र-पर्यन्ते । तद् उक्तम् तत्त्वाध्यवसाय-संरक्षणार्थं जल्प-वितण्डे बीज-प्ररोह-संरक्षणार्थं कण्टक-शाखा-प्रावरणवत् [न्यायद् ४।२।४७] इति । छल-जाति-निग्रह-स्थानैः पर-पक्षो दूष्यत इति जल्पे वितण्डायां च समानम् । तत्र वितण्डायाम् एकेन स्व-पक्षः स्थाप्यत एव, अन्येन च स दूष्यत एव । जल्पे तूभाभ्याम् अपि स्व-पक्षः स्थाप्यत उभाभ्याम् अपि पर-पक्षो दूष्यत इति विशेषः । तद् उक्तं यथोक्तोपपन्न-च्छल-जाति-निग्रह-स्थान-साधनोपलम्भो जल्पः स
प्रतिपक्ष-स्थापना-हीनो वितण्डा इति । अतो वितण्डा-द्वय-शरीरत्वाज् जल्पो नाम नैका कथा, किन्तु शक्त्य्-अतिशय-ज्ञानार्थं समय-बन्ध-मात्रेण प्रवर्तत इति खण्डन-काराः । तत्त्वाध्य्वसाय-पर्यवसायित्वेन तु वादस्य श्रेष्ठत्वम् उक्तम् एव ॥३२॥
विश्वनाथः : सृज्यन्त इति सर्गा आकाशादयस् तेषाम् आदिः सृष्टिर् अन्तः संहारः । मध्यं पालनं चेति सृष्टि-स्थिति-प्रलया मद्-विभूतित्वेन ध्येया इत्य् अर्थः । अहम् आदिश् च मध्यं चेत्य् अत्र सृष्ट्य्-आदि-कर्ता परमेश्वर एवोक्तः । विद्यानां ज्ञानानां मध्ये अहम् आत्म-विद्या आत्म-ज्ञानम् । प्रवदतां स्व-पक्षं स्थापन-पर-पक्ष-दूषणादि-रूप-जल्प-वितण्डादि-कुर्वतां वादस् तत्त्व-निर्णयः प्रवृत्ति-सिद्धान्ते यः सो ऽहम् ॥३२॥
बलदेवः : सर्गाणां महद्-आदीनां जड-सृष्टीनाम् आदिर् अन्तो मध्यं चाहम् इति तेषां सर्ग-संहार-पालनानि मद्-विभूतितया भाव्यानीत्य् अर्थः । अहम् आदिश् च इत्य् आदौ मत्-स्वांश-चेतनानां भूतानां सर्गादि-हेतुर् मद्-विभूतिर् इत्य् उक्तमतो न पुनः पुनर्-उक्तिः ।
अङ्गानि वेदाश् चत्वारो मीमांसा न्याय-विस्तरः ।
धर्म-शास्त्रं पुराणं च विद्या ह्य् एताश् चतुर्दश ॥
इत्य् उक्तानां विद्यानां मध्ये ऽध्यात्म-विद्या सपरिकर-परमात्म-निर्णेत्री चतुर्लक्षणी वेदान्त-विद्याहम् एवेत्य् अर्थः । प्रवदतां सम्बन्धी यो वादः सो ऽहम् । तेषां खलु वाद-जल्प-वितण्डास् तिस्रः कथाः प्रसिद्धाः । तत्रोभय-साधनवती विजिगीषु-कथा जल्पः । यत्रोभाभ्यां प्रमाणेन तर्केन्ण स्व-पक्षः स्थाप्यते छल-जाति-निग्रह-स्थानैः पर-पक्षो दूष्यते स्व-पक्ष-स्थापन-हना पर-पक्ष-दूषणावसाना कथा वितण्डा । एते प्रवदतोर् विजिगीष्वोः शक्ति-मात्र-परीक्षके निष्फले तत्त्व-बुभुत्सु-कथा वादः । स च तत्त्व-निर्णय-फलकत्वेनोत्कृष्टत्वान् मद्-विभूतिर् इति ॥३२॥
१०।३३
अक्षराणाम् अकारो ऽस्मि द्वन्द्वः सामासिकस्य च ।
अहम् एवाक्षयः कालो धाताहं विश्वतोमुखः ॥३३॥
श्रीधरः : अक्षराणाम् इति । अक्षराणां वर्णानां मध्ये अकारो ऽस्मि । तस्य सर्व-वाङ्मयत्वेन श्रेष्ठत्वात् । तथा च श्रुतिः अकारो वै सर्वा वाक् सैषा स्पर्शोषम्भिर् व्यज्यमाना बह्वी नाना-रूपा भवति [ऐ।आ। १।३।६] इति । सामासिकस्य समास-समूहस्य मध्ये द्वन्द्वः राम-कृष्णाव् इत्य्-आदि-सामासो ऽस्मि । उभय-पद-प्रधानत्वेन श्रेष्ठत्वात् । अक्षयः प्रवाह-रूपः कालो ऽहम् एव । कालः कलयताम् अहम् इत्य् अत्रायुर् गणनात्मकः संवत्सर-शताद्य्-आयुः स्वरूपः काल उक्तः । स च तस्मिन्न् आयुषि क्षीणे सति क्षीयते । अत्र तु प्रवाहात्मको ऽक्षयः काल उच्यते इति विशेषः । कर्म-फल-विधातॄणां मध्ये विश्वतोमुखो धाता । सर्व-कर्म-फल-विधाताहं इत्य् अर्थः ॥३३॥
मधुसूदनः : अक्षराणां सर्वेषां वर्णानां मध्ये ऽकारो ऽहम् अस्मि । अ-कारो वै सर्वा वाक् [ऐ।आ। १।३।६] इति श्रुतेस् तस्य श्रेष्ठत्वं प्रसिद्धम् । द्वन्द्वः समास उभय-पदार्थ-प्रधानः सामासिकस्य समास-समूहस्य मध्ये ऽहम् अस्मि । पूर्व-पदार्थ-प्रधानो ऽव्ययीभाव उत्तर-पदार्थ-प्रधानस् तत्पुरुषो ऽन्यपदार्थ-प्रधानो बहुव्रीहिर् इति तेषाम् उभय-पदार्थ-साम्याभावेनापकृष्टत्वात् । क्षयि-कालाभिमान्य् अक्षयः कालः ज्ञः काल-कालो गुणी सर्व-विद्यः इत्य् आदि-श्रुति-प्रसिद्धो ऽहम् एव । कालः कलयताम् अहम् इत्य् अत्र तु क्षयी काल उक्त इति भेदः । कर्म-फल-विधातॄणां मध्ये विश्वतोमुखः सर्वतो मुखो धाता सर्व-कर्म-फल-दातेश्वरो ऽहम् इत्य् अर्थः ॥३३॥
विश्वनाथः : सामासिकस्य समास-समूहस्य मध्ये द्वन्द्वः उभय-पदार्थ-प्रधानत्वेन तस्य समासेषु श्रैष्ठ्यात् । अक्षयः कालः संहर्तॄणां मध्ये महाकालो रुद्रो विश्वतोमुखश् चतुर्भ्यो ऽहं धाता स्रष्टॄणां मध्ये ब्रह्मा ॥३३॥
बलदेवः : अक्षराणां वर्णानां मध्ये ऽहम् अ-कारो ऽस्मि । अ-कारो वै सर्वा वाक् [ऐ।आ। १।३।६] इति श्रुतिश् च । सामासिकस्य समास-समूहस्य मध्ये द्वन्द्वो ऽहम् । अव्ययीभाव-तत्पुरुष-बहुव्रीहिषूभय-पदार्थ-प्रधानता-विरहिषु मध्ये तस्योभय-पदार्थ-प्रधानतयोत्कृष्ट्तत्वात् । संहर्तॄणां मध्ये ऽक्षयः । कालः सङ्कर्षण-मुखोत्थः कालाग्निर् अहम् । स्रष्टॄणां मध्ये विश्वतोमुखश् चतुर्-वक्त्रो धाता विधिर् अहम् ॥३३॥
१०।३४
मृत्युः सर्वहरश् चाहम् उद्भवश् च भविष्यताम् ।
कीर्तिः श्रीर् वाक् च नारीणां स्मृतिर् मेधा धृतिः क्षमा ॥३४॥
श्रीधरः : मृत्युर् इति । संहारकानां मध्ये सर्वहरो मृत्युर् अहम् । भविष्यतां भावि-कल्याणानां प्राणिनाम् उद्भवो ऽभुदयो ऽहम् । नारीणां मध्ये कीर्त्य्-आद्याः स्पत-देवता-रूपाः स्त्रियो ऽहम् । यासाम् आभास-मात्र-योगेन प्राणिनः श्लाघ्या भवन्ति ताः कीर्त्य्-आद्याः स्त्रियो मद्-विभूतयः ॥३४॥
मधुसूदनः : संहार-कारिणां मध्ये सर्व-हरः सर्व-संहार-कारी मृत्युर् अहम् । भविष्यतां भावि-कल्याणानां य उद्भव उत्कर्षः स चाहम् एव । नारीणां मध्ये कीर्तिः श्रीर् वाक् स्मृतिर् मेधा धृतिः क्षमेति च सप्त धर्म-पत्न्यो ऽहम् एव । तत्र कीर्तिर् धार्मिकत्व-निमित्ता प्रशस्तत्वेन नाना-दिग्-देशीय-लोक-ज्ञान-विषयता-रूपा ख्यातिः । श्रीर् धर्मार्थ-काम-सम्पत् शरीर-शोभा वा कान्तिर् वा । वाक् सरस्वती सर्वस्यार्थस्य प्रकाशिका संस्कृता वाणी । च-कारान् मूर्त्यादयो ऽपि धर्म-पत्न्यो गृह्यन्ते । स्मृतिश् चिरानुभूतार्थ-स्मरण-शक्तिः । अनेइक-ग्रन्थार्थ-धारणा-शक्तिर् मेधा । धृतिर् अवसादे ऽपि शरीरेन्द्रिय-सङ्घातोत्तम्भन-शक्तिः । उच्छृङ्खल-प्रवृत्ति-कारणेन चापल-प्राप्तौ तन्-निवर्तन-शक्तिर् वा । क्षमा हर्ष-विषादयोर्
अविकृत-चित्तता । यासाम् आभास-मात्र-सम्बन्धेनापि जनः सर्व-लोकादरणीयो भवति तासां सर्व-स्त्रीषूत्तमत्वम् अतिप्रसिद्धम् एव ॥३४॥
विश्वनाथः : प्रातिक्षणिकानां मृत्यूनां मध्ये सर्वहरः सर्व-स्मृति-हरो मृत्युर् अहं यद् उक्तं मृत्युर् अत्यन्त-विस्मृतिः इति । भविष्यतां भाविनां प्राणि-विकाराणां मध्ये उद्भवः प्रथम-विकारो जग्माहम् । नारीणां मध्ये कीर्तिः ख्यातिः । श्रीः कान्तिः वाक् संस्मृता वाणीति तिस्रस् तथा स्मृत्य्-आदयश् चतस्रः च-कारात् मूर्त्यादयश् चान्या धर्म-पत्न्यश् चाहम् ॥३४॥
बलदेवः : प्रातिक्षणिकानां मृत्यूनां मध्ये सर्व-स्मृति-हरो मृत्युर् अहम् । भविष्यतां भाविनां प्राणि-विकाराणाम् उद्भवो जन्माख्यः प्रथम-विकारो ऽहम् । नारीणां मध्ये कीर्त्य्-आदयः सप्त मद्-विभूतयः । दैवता ह्य् एताः । यासाम् आभासेनापि नराः श्लाघ्या भवन्ति । तत्र कीर्तिर् धार्मिकत्वादि-साद्गुण्य-ख्यातिः । श्रीस् त्रि-वर्ग-सम्पत् काय-द्युतिर् वा । वाक् सर्वार्थ-व्यञ्जका संस्कृत-भाषा । स्मृतिर् अनुभूतार्थ-स्मरण-शक्तिः । मेधा बहु-शास्त्रार्थावधारण-शक्तिः । धृतिश् चापल्य-प्राप्तौ तन्-निवर्तन-शक्तिः । क्षमा हर्षे विषादे च प्राप्ते निर्विकार-चित्तता ॥३४॥
१०।३५
बृहत्-साम तथा साम्नां गायत्री छन्दसाम् अहम् ।
मासानां मार्गशीर्षो ऽहम् ऋतूनां कुसुमाकरः ॥३५॥
श्रीधरः : बृहत्-सामेति । त्वाम् इद्धि हवामहे [र्व् ६।४६।१] इत्य् अस्याम् ऋचि गीयमानं बृहत्-साम । तेन चेन्द्रं सर्वेश्वरत्वेन स्थूयत इति श्रैष्ठ्यम् । छन्द-विशिष्टानां मन्त्राणां मध्ये गायत्री मन्त्रो ऽहम् । द्विजत्वापादकत्वेन सोमाहरणे च श्रेष्ठत्वात् । कुसुमाकरो वसन्तः ॥३५॥
मधुसूदनः : वेदानां सामवेदो ऽस्मीत्य् उक्तं तत्रायम् अन्यो विशेषः साम्नाम् ऋग्-अक्षरारूढानां गीति-विशेषाणां मध्ये त्वाम् इद्धि हवामह [र्व् ६।४६।१] इत्य् अस्याम् ऋचि गीति-विशेषो बृहत्-साम । तच् चातिरात्रे पृष्ठ-स्तोत्रं सर्वेश्वरत्वेनेन्द्र-स्तुति-रूपम् अन्यतः श्रेष्ठत्वाद् अहम् । छन्दसां नियताक्षर-पादत्व-रूप-च्छन्दो-विशिष्टानाम् ऋचां मध्ये द्विजातेर् द्वितीय-जन्म-हेतुत्वेन प्रातः-सवनादि-सवन-त्रय-व्यापित्वेन तिर्ष्टुभ्-जगतीभ्यां सोमाहरणार्थं गताभ्यां सोमो न लब्धो ऽक्षराणि च हारितानि जगत्या त्रीणि त्रिष्टुभैकम् इति चत्वारि तैर् अक्षरैः सह सोमस्याहरणेन च सर्व-श्रेष्ठा गायत्र्य्-ऋग् अहम् । चतुर्-अक्षराणि ह वा अग्रे छन्दांस्य् आसुततो जगती सोमम् अच्छात्पत् सा त्रीण्य् अक्षराणि हित्वा जगाम् ततस्
त्रिष्टुप् सोमम् अच्छापतत् सैकम् अक्षरं हित्वापतत् ततो गायत्री सोमम् अच्छापतत् सा तानि चाक्षराणि हरन्त्य् आगच्छत् सोमं च तस्माद् अष्टाक्षरा गायत्री इत्य् उपक्रम्य तदाहुर् गायत्राणि वै सर्वाणि सवनानि गायत्री ह्य् एवैतद् उपसृजमानैः इति शतपथ-श्रुतेः । गायत्री वा इदं सर्वं भूतम् इत्य्-आदि-छान्दोग्य-श्रुतेश् च ।
मासानां द्वादशानां मध्ये ऽभिनिवशालि-वास्तूक-शाकादि-शाली शीर्तातप-शून्यत्वेन च सुख-हेतुर् मार्गशीर्षो ऽहम् । ऋतूनां षण्णां मध्ये कुसुमाकरः सर्व-सुगन्धि-कुसुमानाम् आकरो ऽतिरमणीयो वसन्तः । वसन्ते ब्राह्मणम् उपनयीत । वसन्ते ब्राह्मणो ऽग्नीनाद् अधीत । वसन्ते वसन्ते ज्योतिषा यजेत । तद् वै वसन्त एवाभ्यारभेत । वसन्तो वै ब्राहमस्य र्तुः । इत्य् आदि-शास्त्र-प्रसिद्धो ऽहम् अस्मि ॥३५॥
विश्वनाथः : वेदानां सामवेदो ऽस्मीत्य् उक्तम् । तत्र साम्नाम् अपि मध्ये बृहत्-साम त्वाम् इद्धि हवामहे [र्व् ६।४६।१] इत्य् अस्याम् ऋचि विगीयमानं बृहत्-साम । छन्दसां मध्ये गायत्री नाम छन्दः । कुसुमाकरो वसन्तः ॥३५॥
बलदेवः : वेदानां सामवेदो ऽस्मीत्य् उक्तं प्राक् । तत्रान्यं विशेषम् आह बृहद् इति । साम्नाम् ऋग्-अक्षर-रूढानां गीति-विशेषाणां मध्ये त्वाम् इद्धि हवामहे [र्व् ६।४६।१] इत्य् अस्याम् ऋचि गीतिं विशेषो बृहत्-साम तच् चातिरात्रे पृष्ठ-स्तोत्रं सर्वेश्वरत्वेन्द्र-स्तुति-रूपम् अन्य-सामोत्कृष्टत्वाद् अहम् । छन्दसां नियताक्षर-पादत्व-रूप-च्छन्दो-विशिष्टानाम् ऋचां मध्ये गायत्री ऋग् अहं द्विजातेर् द्वितीय-जन्म-हेतुत्वेन तस्याः श्रैष्ठ्यात् । गायत्री वा इदं सर्वं भूतं यद् इदं किं च इति ब्रह्मावतारत्व-श्रवणाच् च । मार्गशीर्षो ऽहम् इत्य् अभिनव-धानाय्दि-सम्पत्त्या तस्यान्येभ्यः श्रैष्ठ्यात् । कुसुमाकरो वसन्तो ऽहम् इति शीतातपाभावेन विविध-सुगन्धि-पुष्पमयत्वेन मद्-उत्सव-हेतुत्वेन च तस्यान्येभ्यः श्रैष्ठ्यात् ॥३५॥
१०।३६
द्यूतं छलयताम् अस्मि तेजस् तेजस्विनाम् अहम् ।
जयो ऽस्मि व्यवसायो ऽस्मि सत्त्वं सत्त्ववताम् अहम् ॥३६॥
श्रीधरः : द्यूतम् इति । छलयतां अन्योन्य-वञ्चन-पराणां सम्बन्धि द्यूतम् अस्मि । तेजस्विनाम् प्रभाववतां तेजः प्रभावो ऽस्मि । जेतॄणां जयो ऽस्मि । व्यवसायिनाम् उद्यमवतां व्यवसाय उद्यमो ऽस्मि । सत्त्ववतां सात्त्विकानां सत्त्वम् अहम् ॥३६॥
मधुसूदनः : छलयतां छलस्य पर-वञ्चनस्य कर्तॄणां सम्बन्धि द्यूतम् अक्ष-देवनादि-लक्षणं सर्वस्वापहारकारणम् अहम् अस्मि । तेजस्विनाम् अत्युग्र-प्रभाववतां सम्बन्धि तेजो ऽप्रतिहताज्ञत्वम् अहम् अस्मि । जेतॄणां पराजितापेक्षयोत्कर्ष-लक्षणो जयो ऽस्मि । व्यवसायिनां व्यवसायः फलाव्यभिचार्य्-उद्यमो ऽहम् अस्मि । सत्त्ववतां सात्त्विकानां धर्म-ज्ञान-वैराग्यैश्वर्य-लक्षणं सत्त्व-कार्यम् एवात्र सत्त्वम् अहम् ॥३६॥
विश्वनाथः : छलयताम् अन्यो ऽन्य-वञ्चन-पराणां सम्बन्धि द्यूतम् अस्मि । जेतॄणां जयो ऽस्मि । व्यवसायिनाम् उद्यमवतां व्यवसायो ऽस्मि । सत्त्ववताम् बलवतां सत्त्वं बलम् अस्मि ॥३६॥
बलदेवः : छलतां मिथो वञ्चनां कुर्वतां सम्बन्धि द्यूतं सर्वस्व-हरम् अक्षदेवनाद्य् अहम् । तेजस्विनाम् प्रभावतां सम्बन्धि तेजः प्रभावो ऽहम् । अस्मि । जेतॄणां पराजितापेक्षयोत्कर्ष-लक्षणो जयो ऽस्मि । जेतॄणां सम्बन्धि जयो ऽहम् । व्यवसायिनाम् उद्यमिनां सम्बन्धी व्यवसायः । फलवान् उद्यमो ऽहम् । सत्त्ववताम् बलिनां सम्बन्धी सत्त्वं बलम् अहम् ॥३६॥
१०।३७
वृष्णीनां वासुदेवो ऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनाम् अप्य् अहं व्यासः कवीनाम् उशना कविः ॥३७॥
श्रीधरः : वृष्णीनाम् इति । वासुदेवो यो ऽहं त्वाम् उपदिशामि । धनञ्जयस् त्वम् एव यद् विभूतिः । मुनीनां वेदार्थ-मनन-शीलानां वेद-व्यासो ऽहम् । कवीनां क्रान्त-दर्शिनाम् उशना नाम कविः शुक्रः ॥३७॥
मधुसूदनः : साक्षाद् ईश्वरस्यापि विभूति-मध्ये पाठस् तेन रूपेण चिन्तनार्थ इति प्राग् एवोक्तम् । वृष्णीनां मध्ये वासुदेवो वसुदेव-पुत्रत्वेन प्रसिद्धस् त्वद्-उपदेष्टायम् अहम् । तथा पाण्डवानां मध्ये धनञ्जयस् त्वम् एवाहम् । मुनीनां मनन-शीलानाम् अपि मध्ये वेद-व्यासो ऽहम् । कवीनां क्रान्त-दर्शिनां सूक्ष्मार्थ-विवेकिनां मध्ये उशना कविर् इति ख्यातः शुक्रो ऽहम्॥३७॥
विश्वनाथः : वृष्णीनां मध्ये वासुदेवो वसुदेवो मत्-पिता मद्-विभूतिः । प्रज्ञादित्वात् स्वार्थिको ऽण् [पाण् ५।४।३८] वृष्णीनाम् अहम् एवास्मि इत्य् अनुक्तेर् अस्यान्यार्थता नेष्टा ॥३७॥
बलदेवः : वृष्णीनां मध्ये वासुदेवो वसुदेव-पुत्रः सङ्कर्षणो ऽहम् । न च वासुदेवः कृष्णो ऽहम् इति व्याख्येयं तस्य स्वयंरूपस्य विभूतित्वायोगात् । महत्-स्रष्टादीनां वामन-कपिलादीनां च साक्षाद् ईश्वरत्वे ऽपि विभूतित्वेनोक्तिः स्वांशावतारत्वात् तेन रूपेण चिन्त्यत्व-विवक्षया वा युज्यते । स्वांशत्वं चानभिव्यञ्जित-सर्व-शक्तित्वं बोध्यम् । पाण्डवानां मध्ये धनञ्जयस् त्वम् अहम् अस्मि । नावतारत्वेनान्येभ्यः श्रैष्ठ्यात् । मुनीनां देवार्थ-मनन-पराणां मध्ये व्यासो बादरायणो ऽहम् । मद्-अवतारत्वेन तस्यान्येभ्यः श्रैष्ठ्यात् । कवीनां सूक्ष्मार्थ-विवेचकानां मध्ये उशनाः शुक्रो ऽहम् । यः कविर् इति ख्यातः ॥३७॥
१०।३८
दण्डो दमयताम् अस्मि नीतिर् अस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवताम् अहम् ॥३८॥
श्रीधरः : दण्ड इति । दमयतां दमन-कर्तॄणां सम्बन्धी दण्डो ऽस्मि । येनासंयता अपि संयता भवन्ति स दण्डो मद्-विभूतिः । जेतुम् इच्छतां सम्बन्धिनी सामाद् अप्य् उपाय-रूपा नीतिर् अस्मि । गुह्यानां गोप्यानां गोपन-हेतु-मौनम् अवचनम् अहम् अस्मि । न हि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । ज्ञानवतां तत्त्व-ज्ञानिनां यज् ज्ञानम् तद् अहम् अस्मि ॥३८॥
मधुसूदनः : दमयताम् अदान्तान् उत्पथान् पथि प्रवर्तयताम् उत्पथ-प्रवृत्तौ निग्रह-हेतुर् दण्डो ऽहम् अस्मि । जिगीषतां जेतुम् इच्छतां नीतिर् न्यायो जयोपायस्य प्रकाशको ऽहम् अस्मि । गुह्यानां गोप्यानां गोपन-हेतुर् मौनं वाचं-यमत्वम् अहम् अस्मि । नहि तूष्णीं स्थितस्याभिप्रायो ज्ञायते । गुह्यानां गोप्यानां मध्ये स-सन्न्यास-श्रवण-मनन-पूर्वकम् आत्मनो निदिध्यासन-लक्षणं मौनं वाहम् अस्मि । ज्ञानवतां ज्ञानिनां यच्-छ्रवण-मनन-निदिध्यासन-परिपाक-प्रभवम् अद्वितीयात्म-साक्षात्कार-रूपं सर्वाज्ञान-विरोधि ज्ञानं तद् अहम् अस्मि ॥३८॥
विश्वनाथः : दमन-कर्तॄणां सम्बन्धी दण्डो ऽहम् ॥३८॥
बलदेवः : दमयतां दण्ड-कर्तॄणां सम्बन्धी दण्डो ऽहम् । येनोत्पथगाः सत्-पथे चरन्ति स दण्डो मद्-विभूतिर् इत्य् अर्थः । जिगीषतां जेतुम् इच्छतां सम्बन्धिनी नीतिर् न्यायो ऽहम् । गुह्यानां श्रवणादिभ्यां तस्य श्रैष्ठ्यात् । ज्ञानवतां परावरत्-तत्त्व-विदां सम्बन्धी तत्-तद्-विषयक-ज्ञानम् अहम् ॥३८॥
१०।३९
यच् चापि सर्व-भूतानां बीजं तद् अहम् अर्जुन ।
न तद् अस्ति विना यत् स्यान् मया भूतं चराचरम् ॥३९॥
श्रीधरः : यच् चापीति । यद् अपि च सर्व-भूतानां बीजं प्ररोह-कारणं तद् अहम् । तत्र हेतुः -मया विना यत् स्याद् भवेत् तच् चरम् अचरं वा भूतं नास्त्य् एवेति ॥३९॥
मधुसूदनः : यद् अपि च सर्व-भूतानां प्ररोह-कारणं बीजं तन्-मायोपाधिकं चैतन्यम् अहम् एव । हे अर्जुन ! मया विना यत् स्याद् भवे चरम् अचरं वा भूतं वस्तु तन् नास्त्य् एव यतः सर्वं मत्-कार्यम् एवेत्य् अर्थः ॥३९॥
विश्वनाथः : बीजं प्ररोहकारणं यत् तद् अहम् अस्मि । तत्र हेतुः – मया विना यत् स्यात् चरम् अचरं वा तन् नैवास्ति मिथ्यैवेत्य् अर्थः ॥३९॥
बलदेवः : यच् च सर्व-भूतानां बीजं प्ररोह-कारणं तद् अप्य् अहम् । तत्र हेतुः - न तद् इति । मया सर्व-शक्तिमतां परेशेन विना यच् चरम् अचरं च भूतं तत्त्वं स्यात् तन् नास्ति मृषैवेत्य् अर्थः ॥३९॥
१०।४०
नान्तो ऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर् विस्तरो मया ॥४०॥
श्रीधरः : प्रकरणार्थम् उपसंहरति नान्तो ऽस्तीति । अनन्तत्वाद् विभूतीनां ताः साकल्येन वक्तुं न शक्यते । एष तु विभूति-विस्तर उद्देशत सङ्क्षेपतः प्रोक्तः ॥४०॥
मधुसूदनः : प्रकरणार्थम् उपसंहरन् विभूतिं सङ्क्षिपति नान्तो ऽस्तीति । हे परन्तप परेषां शत्रूणां काम-क्रोध्य-लोभादीनां ताप-जनक ! मम दिव्यानां विभूतीनाम् अन्त इयत्ता नास्ति । अतः सर्वज्ञेनापि सा न शक्यते ज्ञातुं वक्तुं वा सन्-मात्र-विषयत्वात् सर्वज्ञतायाः । एष तु त्वां प्रत्युद्देशत एक-देशेन प्रोक्तो विभूतेर् विस्तरो विस्तारो मया ॥४०॥
विश्वनाथः : प्रकरणम् उपसंहरति नान्तो ऽस्तीति एष तु विस्तरो बाहुल्यम् उद्देशतो नाम-मात्रत एव कृतः ॥४०॥
बलदेवः : प्रकरणम् उपसंहरति नान्तो ऽस्तीति । विस्तरो विस्तार उद्देशत एक-देशत एक-देशेन प्रोक्तः ॥४०॥
१०।४१
यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा ।
तत् तद् एवावगच्छ त्वं मम तेजो ऽंशसम्भवम् ॥४१॥
श्रीधरः : पुनश् च साकङ्क्षं प्रति कथञ्चित् साकल्येन कथयति यद् यद् इति । विभूतिमद् ऐश्वर्य-युक्तम् । श्रीमत् सम्पत्ति-युक्तम् । ऊर्जितं केनापि प्रभाव-बलादिना गुणेनातिशयितम् । यद् यत् सत्त्वं वस्तु-मात्रं भवेत्, तत् तद् एव मम तेजसः प्रभावस्यांशेन सम्भूतं जानीहि ॥४१॥
मधुसूदनः : अनुक्ता अपि भगवतो विभूतीः सङ्ग्रहीतुम् उपलक्षणम् इदम् उच्यते यद् यद् इति । यद् यत् सत्त्वं प्राणि-विभूतिमद् ऐश्वर्य-युक्तम्, तथा श्रीमत् श्रीर् लक्ष्मीः सम्पत्, शोभा, कान्तिर् वा तया युक्तम् । तयोर्जितं बलाद्य्-अतिशयेन युक्तं तत् तद् एव मम तेजसः शक्तेर् अंशेन सम्भूतं त्वम् अवगच्छ जानीहि ॥४१॥
विश्वनाथः : अनुक्ता अपि त्रैकालिकीर् विभूतीः सङ्ग्रहीतुम् आह यद् यद् इति । विभूतिमद् ऐश्वर्य-युक्तम् । श्रीमत् सम्पत्ति-युक्तम् ऊर्जितं बल-प्रभावाद्य्-अधिकं सत्त्वं वस्तु-मात्रम् ॥४१॥
बलदेवः : अनुक्ता विभूतीः सङ्ग्रहीतुम् आह यद् यद् इति । विभूतिमद् ऐश्वर्य-युक्तम् । श्रीमत् सौन्दर्येण सम्पत्त्या वा युक्तम् ऊर्जितं बलेन युक्तं वा यद् यत् सत्त्वं वस्तु भवति, तत् तद् एव मम तेजो ऽंशेन शक्ति-लेशेन सम्भवं सिद्धम् अवगच्छ प्रतीहीति स्वायत्तत्व-स्वव्याप्यत्वाभ्यां सर्वे ऽभेद-निर्देशा नीता वामनादीनां तन्-निर्देशास् तु सङ्गमिताः सन्ति ॥४१॥
१०।४२
अथ वा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् ॥४२॥
श्रीधरः : अथवा किम् एतेन परिच्छिन्न-विभूति-दर्शनेन ? सर्वत्र मद्-दृष्टिम् एव कुर्व् इत्य् आह अथवेति । बहुना पृथक्-ज्ञातेन किं तव कार्यम् ? यस्माद् इदं सर्वं जगद् एकांशेनैक-देश-मात्रेण विष्टभ्य धृत्वा व्याप्येति वा अहम् एव स्थितः । मद्-व्यतिरिक्तं किञ्चिद् अस्ति पादो ऽस्य विश्वा भूतानि त्रिपादयामृतं दिवि [र्व् ८।४।१७।३] इति श्रुतेः । तस्मात् किम् अनेन परिच्छिन्न-दर्शनेन सर्वत्र मद्-दृष्टिम् एव कुर्व् इत्य् अभिप्रायः ॥४२॥
इन्द्रिय-द्वारतश् चित्ते बहिर् धावति सत्य् अपि ।
ईश-दृष्टि-विधानाय विभूतिर् दशमे ऽब्रवीत् ॥
इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
विभूति-योगो नाम दशमो ऽध्यायः ॥
॥१०॥
मधुसूदनः : एवम् अवयवशो विभूतिम् उक्त्वा साकल्येन ताम् आह अथवेति । अथवेति पक्षान्तरे । बहुनैतेन सावशेषेण ज्ञातेन किं तव स्यात् । हे अर्जुन ! इदं कृत्स्नं सर्वं जगद् एकांशेनैकदेश-मात्रेण विष्टभ्य विधृत्य व्याप्य वाहम् एव स्थितो न मद्-व्यतिरिक्तं किञ्चिद् अस्ति पादो ऽस्य विश्वा भूतानि त्रिपादयामृतं दिवि इति श्रुतेः । तस्मात् किम् अनेन परिच्छिन्न-दर्शनेन सर्वत्र मद्-दृष्टिम् एव कुर्व् इत्य् अभिप्रायः ॥४२॥
कुर्वन्ति के ऽपि कृतिनः क्वचिद् अप्य् अनन्ते
स्वान्तं विधाय विष्यान्तर-शान्तिम् एव ।
त्वत्-पाद-पद्म-विगलन्-मकरन्द-बिन्दुम्
आस्वाद्य माद्यति मुहुर् मधुभिन् मनो मे ॥
इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् अधिकारि-भेदेन विभूति-योगो नाम दशमो ऽध्यायः
॥१०॥
विश्वनाथः : बहुना पृथक्-पृथग्-ज्ञातेन किं फलं समुदितम् एव जानीहीत्य् आह विष्टभ्येति । एकांशेनैकेनैवांशेन प्रकृत्य्-अन्तर्यामिना पुरुष-रूपेणैवेदं सृष्टं जगद् विष्टभ्याधिष्ठानत्वाद् विधृत्याधिष्ठातृत्वाद् अधिष्ठाय । नियन्तृत्वान् नियम्य व्यापकत्वाद् व्याप्य कारणत्वात् सृष्ट्वा स्थितो ऽस्मि ॥४२॥
विश्वं श्री-कृष्ण एवातः सेवस् तद्-दत्तया धिया ।
स एवास्वाद्य-माधुर्य इत्य् अध्यायार्थ ईरितः ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतासु दशमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥१०॥
बलदेवः : एवम् अवयवशो विभूतीर् अपवर्ण्य साम्सत्येन ताः प्राह अथवेति । बहुना पृथक्-पृथग्-उपदिश्यमानेन विभूति-विषयकेण ज्ञानेन तव किं प्रयोजनम् । हे अर्जुन ! चिद्-अचिद्-आत्मकं हर-विरिञ्चि-प्रमुखं कृत्स्नं जगद् अहम् एकेनैव प्रकृत्याद्य्-अन्तर्यामिणा पुरुषाख्येनांशेन विष्टभ्य स्रष्टृत्वात् स्रष्टा धारकत्वाद् धृत्वा व्यापकत्वाद् व्याप्य पालकत्वात् पालयित्वा च स्थितो ऽस्मीति सर्जनादीनि मद्-विभूतयो मद्-व्याप्तेषु सर्वेष्व् ऐश्वर्यादि-सर्वाणि वस्तूनि मद्-विभूतितया बोध्यानीति ॥४२॥
यच् छक्ति-लेशात् सूर्याद्या भवन्त्य् अत्युग्र-तेजसः ।
यद्-अंशेन धृतं विश्वं स कृष्णो दशमे ऽर्चयेत् ॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये दशमो ऽध्यायः
॥१०॥
[*एन्द्नोते] मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वसिष्ठश् च महाभागः सदृशा वै स्वयम्भुवा ॥ सप्त ब्रह्माण इत्य् एष पुराणे निश्चयो गतः ॥ [म्भ् १२।२०१।४-५ (ओर् १२।३३५।२८-२९]