९।१
श्री-भगवान् उवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्य् अनसूयवे ।
ज्ञानं विज्ञान-सहितं यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥१॥
श्रीधरः -
परेशः प्राप्यते शुद्ध-भक्त्येति स्थितम् अष्टमे ।
नवमे तु तद्-ऐश्वर्यम् अत्याश्चर्यं प्रपञ्च्यते ॥
एवं तावत् सप्तमाष्टमयोः स्वीयं पारमेश्वरं तत्त्वं भक्त्यैव सुलभं नान्यथा इत्य् उक्त्वा इदानीम् अचिन्त्यं स्वकीयम् ऐश्वर्यं भक्तेश् चासाधारणं प्रभावऽअप्रपञ्चयिष्यन् भगवान् उवाच इदम् इति । विशेषेण ज्ञायते ऽनेनेति विज्ञानम् उपासनम् । तत्-सहितं ज्ञानम् ईश्वर-विषयम् । इदं त्व् अनुसूयवे पुनः पुनः स्व-माहात्म्यम् एवोपदिशतीत्य् एवं परम-कारुणिके मयि दोष-दृष्टि-रहिताय । तुभ्यं वक्ष्यामि । तु-शब्दो वैशिष्ट्ये ॥१॥
मधुसूदनः - पूर्वाध्याये मूर्धन्य् अनाडी-द्वारकेण हृदय-कण्ठ-भ्रू-मध्यादि-धारणा-सहितेन सर्वेन्द्रिय-द्वार-संयम-गुणकेन योगेन स्वेच्छयोत्क्रान्त-प्राणस्यार्चिर्-आदि-मार्गेण ब्रह्म-लोकं प्रयातस्य तत्र सम्यग्-ज्ञानोदयेन कल्पान्ते पर-ब्रह्म-प्राप्ति-लक्षणा क्रम-मुक्तिर् व्याख्याता । तत्र चानेनैव प्रकारेण मुक्तिर् लभ्यते नानयथेत्य् आशङ्क्य- अनन्य-चेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः इत्य् आदिना भगवत्-तत्त्व-विज्ञानात् साक्षान् मोक्ष-प्राप्तिर् अभिहिता । तत्र चानन्या भक्तिर् असाधारणो हेतुर् इत्य् उक्तं पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया इति । तत्र पूर्वोक्त-योग-धारणा-पूर्व-प्राणोत्क्रमणार्चिर्-आदि-मार्ग-गमन-काल-विलम्बादि-क्लेशम् अन्तरेणैव साक्षान् मोक्ष-प्राप्तये भगवत्-तत्त्वस्य तद्-भक्तेश्
च विस्तरेण ज्ञापनाय नवमो ऽध्याय आरभ्यते । अष्टमे ध्येय-ब्रह्म-निरूपणेन तद्-ध्यान-निष्ठस्य गतिर् उक्ता । नवमे तु ज्ञेय-ब्रह्म-निरूपणेन ज्ञान-निष्ठस्य गतिर् उच्यत इति सङ्क्षेपः । तत्र वक्ष्यमाण-ज्ञान-स्तुत्य्-अर्थास् त्रीन् श्लोकान् ।
इदं प्राग् बहुधोक्तम् अग्रे च वक्ष्यमाणम् अधुनोच्यमानं ज्ञानं शब्द-प्रमाणकं ब्रह्म-तत्त्व-विषयकं ते तुभ्यं प्रवक्ष्यामि । तु-शब्दः पूर्वाध्यायोक्ताद् ध्यानाज् ज्ञानस्य वैलक्षण्यम् आह । इदम् एव सम्यग्-ज्ञानं साक्षान् मोक्ष-प्राप्ति-साधनं न तु ध्यानं तस्याज्ञानानिवर्तकत्वात् । तत् त्व् अन्तःकरण-शुद्धि-द्वारेदम् एव ज्ञानं सम्पाद्य क्रमेण मोक्षं जनयतीत्य् उक्तम् ।
कीदृशं ज्ञानं गुह्यतमं गोपनीयतमम् अतिरहस्यत्वात् । यतो विज्ञान-सहितं ब्रह्मानुभव-पर्यन्तम् । ईदृशम् अतिरहस्यम् अप्य् अहं शिष्य-गुणाधिक्याद् वक्ष्यामि तुभ्यम् अनसूयवे । असूया गुणेषु दोष-दृष्टिस् तद्-आविष्करणादि-फला । सर्वदायम् आत्मैश्वर्य-ख्यापनेनात्मानं प्रशंसति मत्-पुरस्ताद् इत्य् एवं रूपा तद्-रहिताय । अनेनार्जुअव-संयमाव् अपि शिष्य-गुणौ व्याख्यातौ । पुनः कीदृशं ज्ञानं यज् ज्ञात्वा प्राप्य मोक्ष्यसे सद्य एव संसार-बन्धनाद् अशुभात् सर्व-दुःख-हेतोः ॥१॥
विश्वनाथः —
आराध्यत्वे प्रभोर् दासैर् ऐश्वर्यं यद् अपेक्षितम् ।
तत् शुद्ध-भक्तेर् उत्कर्षश् चोच्यते नवमे स्फुटम् ॥
कर्म-ज्ञान-योगादिभ्यः सकाशात् भक्तेर् एवे उत्कर्षः । सा च भक्तिः प्रधानीभूता केवला चेति सप्तमाष्टमयोर् उक्तम् । तत्रापि केवलाया अतिप्रबलाया ज्ञानवद् अन्तःकरण-शुद्ध्य्-आद्य्-अनपेक्षिन्या भक्तेः स्पष्टतया एव सर्वोत्कर्षः । तस्याम् अपेक्षितम् ऐश्वर्यं च वक्तुं नवमो ऽध्याय आरभ्यते । सर्व-शास्त्र-सार-भूतस्य गीता-शास्त्रस्यापि मध्यम् अध्याय-षट्कम् एव सारम् । तस्यापि मध्यमौ नवम-दशमाव् एव साराव् इत्य् अतो ऽत्र निरूपयिष्यमाणम् अर्थं स्तौति इदं त्व् इति त्रिभिः ।
द्वितीय-तृतीयाध्यायादिषु यद् उक्तं मोक्षोपयोगि-ज्ञानं गुह्यम् । सप्तमाष्टमयोर् मत्-प्राप्त्य्-उपयोगि-ज्ञानं ज्ञायते ऽनेन भगवत्-तत्त्वम् इति ज्ञानं भक्ति-तत्त्वं गुह्यतरम् । अत्र तु केवल-शुद्ध-भक्ति-लक्षणं ज्ञानं गुह्यतमं प्रकर्षेणैव तुभ्यं वक्ष्यामि । अत्र तु ज्ञान-शब्देन भक्तिर् अवश्यं व्याख्येया, न तु प्रथम-षट्कोक्तं प्रसिद्धं ज्ञानम् । पर-श्लोके ऽव्ययम् अनश्वरम् इति विशेषण-दानाद् गुणातीतत्व-लाभाद् गुणातीता भक्तिर् एव । न तु ज्ञानम्, तस्य सात्त्विकत्वात् । अश्रद्दधानाः पुरुषा धर्मस्यास्य इत्य् अग्रिम-श्लोके धर्म-शब्देनापि भक्तिर् एवोच्यते । अनसूयवे ऽमत्सरायेत्य् अन्यो ऽपीदम् अमत्सरायैवोपदिशेद् इति विधिर् व्यञ्जितः । विज्ञान-सहितं मद्-अपरोक्षानुभव-पर्यन्तम् इत्य् अर्थः । अशुभात् संसाराद् भक्ति-प्रतिबन्धकाद् अन्तरायाद्
वा ॥१॥
बलदेवः -
भक्त्य्-उद्दीप्ति-करं स्वस्य पारमैश्वर्यम् अद्भुतम् ।
स्व-भक्तेश् च महोत्कर्षं नवमे हरिर् ऊचिवान् ॥
विज्ञानानन्द-घनो ऽसङ्ख्येय-कल्याण-गुण-रत्नालयः सर्वेश्वरो ऽहं शुद्ध-भक्ति-सुलभ इति सप्तमादिभ्याम् अभिधायेदानीं भक्तेर् उद्दीपकं निजैश्वर्यं तस्याः प्रभावऽअचाभिधास्यन्न् आदौ तां स्तौति इदम् इति त्रिभिः । इदं ज्ञानं मत्-कीर्तनादि-लक्षण-भक्ति-रूपम् । परत्र धर्मस्यास्य इत्य् उक्तेः । कीर्तनादेश् चिच्-छक्ति-वृत्तित्वात् । ज्ञायते ऽनेन इति निरुक्तेश् च । तत् किल गुह्यतमम् । द्वितीयादाव् उपदिष्टं मद्-ऐश्वर्य-ज्ञानं गुह्यतरम् इत्य् अर्थः । नवमादाव् उपदेश्यं तु केवल-भक्ति-लक्षणम् इदं ज्ञानं गुह्यतमम् इत्य् अर्थः । तच् च विज्ञान-सहितं मद्-अनुभवावसानं ते वक्ष्यामि । कीदृशायेत्य् आह अनसूयव इति । मद्-गुणेषु दोषारोप-रहिताय दुर्गमस्य स्व-रहस्यस्यानुकम्पयोपदेष्टरि मयि निजैश्वर्य-प्रख्यापनेनात्मानं प्रशंससीति
दोष-दृष्टि-शून्यायेत्य् अर्थः । तेनान्यो ऽप्य् एतद् अनसूयं प्रति ब्रूयाद् इति दर्शितम् । यज् ज्ञात्वा त्वम् अशुभात् संसारान् मोक्ष्यसे ॥१॥
९।२
राज-विद्या राज-गुह्यं पवित्रम् इदम् उत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ॥२॥
श्रीधरः - किं च राजविद्येति । इदं ज्ञानं राज-विद्या विद्यानां राजा । राज-गुह्यं गुह्यानां च राजा । विद्यासु गोप्येषु च अतिरहस्यं श्रेष्ठम् इत्य् अर्थः । राज-दन्तादित्वाद् उपसर्जनस्य परत्वम् । राज्ञां विद्या राज्ञां गुह्यम् इति वा । उत्तमं पवित्रम् इदम् अत्यन्त-पावनम् । ज्ञानिनां प्रत्यक्षावगमं च । प्रत्यक्षः स्पष्टो ऽवगमो ऽवबोधो यस्य तत् प्रत्यक्षावगमम् । दृष्ट-फलम् इत्य् अर्थः । धर्म्यं धर्माद् अनपेतम् । वेदोक्त-सर्व-धर्म-फलत्वात् । कर्तुं च सुसुखं कर्तुं शक्यम् इत्य् अर्थः । अव्ययं चाक्षय-फलत्वात् ॥२॥
मधुसूदनः - पुनस् तदाभिमुख्याय तज्-ज्ञानं स्तौति राजेति । राज-विद्या सर्वासां विद्यानां राजा सर्वाविद्यानाशकत्वात् । विद्यान्तरस्याविद्यैक-देश-विरोधित्वात् । तथा राज-गुह्यं सर्वेषां गुह्यानां राजा । अनेक-जन्म-कृत-सुकृत-साध्यत्वेन बहुभिर् अज्ञातत्वात् । राज-दन्तादित्वाद् उपसर्जनस्य पर-निपातः । पवित्रम् इदम् उत्तमं प्रायश्चित्तैर् हि किञ्चिद् एकम् एव पापं निवर्त्यते । निवृत्तं च तत्-स्व-कारणे सूक्ष्म-रूपेण तिष्ठत्य् एव । यतः पुनस् तत्-पापम् उपचिनोति पुरुषः । इदं त्व् अनेक-जन्म-सहस्र-सञ्चितानां सर्वेषाम् अपि पापानां स्थूल-सूक्ष्मावस्थानां तत्-कारणस्य चाज्ञानस्य च सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनम् इदम् एव ।
न चातीन्द्रिये धर्म इवात्र कस्यचित् सन्देहः स्वरूपतः फलतश् च प्रत्यक्षताद् इत्य् आह प्रत्यक्षावगमम् अवगम्यते,नेनेत्य् अवगमो मानम् अवगम्यते प्राप्यत इत्य् अवगमः फलं प्रत्यक्षावगमो मानम् अस्मिन्न् इति स्वरूपतः साक्षि-प्रत्यक्षत्वम् । प्रत्यक्षो ऽवगमो ऽस्येति फलतः साक्षि-प्रत्यक्षत्वम् । मयेदं विदित्वम् अतो नष्टम् इदानीम् अत्र ममाज्ञानम् इति हि सार्वलौकिकः साक्ष्य्-अनुभवः ।
एवं लोकानुभव-सिद्धत्वे ऽपि तज्-ज्ञानं धर्म्यं धर्माद् अनपेतम् अनेक-जन्म-सञ्चित-निष्काम-धर्म-फलम् । तर्हि दुःसम्पादं स्यान् नेत्य् आह । सुसुखं कर्तुं गुरूपदर्शित-विचार-सहकृतेन वेदान्त-वाक्येन सुखेन कर्तुं शक्यं न देश-कालादि-व्यवधानम् अपेक्षते प्रमाण-वस्तु-परतन्त्रत्वाज् ज्ञानस्य । एवम् अनायास-साध्यत्वे स्वल्प-फलत्वं स्याद् अत्यायास-साध्यानाम् एव कर्मणां महा-फलत्व-दर्शनाद् इति नेत्य् आह अव्ययम् । एवम् अनायास-साध्यस्याप्य् अस्य फलतो व्यह्तो नास्तीत्य् अव्ययम् अक्षय-फलम् इत्य् अर्थः । कर्मणा त्व् अतिमहताम् अपि क्षयि-फलत्वम् एव यो वा एतद् अक्षरं गार्ग्य् अविदित्वास्मिल् लोके जुहोति यजते तपस् तप्यते बहूनि वर्ष-सहस्राण्य् अन्तवद् एवास्य तद् भवति इति [बउ ३।७।१०] श्रुतेः । तस्मात् सर्वोत्कृष्टत्वाच् छ्रद्धेयम् एवात्म-ज्ञानम् ॥२॥
विश्वनाथः — किं च । इदं ज्ञानं राज-विद्या विद्या उपासना विविधा एव भक्तयः तासां राजा । राज-दन्तादित्वाद् पर-निपातः । गुह्यानां राजेति भक्ति-मात्रम् एवातिगुह्यं तस्य बहुविधस्यापि राजा इति अतिगुह्यतमम् । पवित्रम् इदम् इति सर्व-पाप-प्रायश्चित्तत्वात् त्वं पदार्तह्-ज्ञानाच् च सकाशाद् अपि पावित्र्य-करम् । अनेक-जन्म-सहस्र-सञ्चितानां सर्वेषाम् अपि पापानां स्थूल-सूक्ष्मावस्थानां तत्-कारणस्य चाज्ञानस्य च सद्य एवोच्छेदकम् । अतः सर्वोत्तमं पावनम् इदम् एव इति मधुसूदन सरस्वतीपादाः । प्रत्यक्ष एवावगमो ऽनुभवो यस्य तत् ।
भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एक-कालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ [भ्प् ११।२।४२]
इत्य् एकादशोकेत्ः प्रतिपदम् एव भजनानुरूप-भगवद्-अनुभव-लाभात् । धर्म्यं धर्माद् अनपेतं सर्व-धर्माकरणे ऽपि सर्व-धर्म-सिद्धेः -
यथा तरोर् मूल-निषेचनेन
तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः ।
प्राणोपहाराच् च यथेन्द्रियाणां
तथैव सर्वार्हणम् अच्युतेज्या ॥ [भ्प् ४।३१।१४] इति नारदोक्तेः ।
कर्तुं सुसुखम् इति कर्म-ज्ञानादाव् इव नात्र को ऽपि कार-वाङ्-मानस-क्लेशातिशयः श्रवण-कीर्तनादि-भक्तेः श्रोत्रादीन्द्रिय-व्यापार-मात्रत्वात् । अव्ययं कर्म-ज्ञानादिवन् न नश्वरं निर्गुणत्वात् ॥२॥
बलदेवः - राज-विद्येति । विद्यानां शाण्डिल्य-वैश्वानर-दहरादि-शब्द-पूर्वाणां राजा राज-विद्या । गुह्यानां जीवात्म-याथात्म्यादि-रहस्यानां राजा राज-गुह्यम् इदं भक्ति-रूपं ज्ञानम् । राज-दन्तादित्वाद् उपसर्जनस्य पर-निपातः । तथात्वे प्रतिपादयितुं विशिनष्टि - उत्तमं पवित्रं लिङ्ग-देह-पर्यन्त-सर्व-पाप-प्रशमनात् । यद् उक्तं पाद्मे-
अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् ।
क्रमेणैव प्रलीयन्ते विष्णु-भक्ति-रतात्मनाम् ॥ इति ।
क्रमो ऽत्र पर्ण-शतक-वेधवद् बोध्यः । प्रत्यक्षावगमम् अवगम्यत इत्य् अवगमो विषयः । स यस्मिन् प्रत्यक्षे ऽस्ति श्रवणादिके ऽभ्यस्त्यमाने तस्मिंस् तद्-विषयः पुरुषोत्तमो ऽहम् आविर्भवामि । एवम् आह सूत्रकारः - प्रकाशश् च कर्मण्य् अभ्यासात् इति । धर्म्यं धर्माद् अनपेतं गुरु-शुश्रूषादि-धर्मैर् नित्यं पुष्यमाणम् । श्रुतिश् च आचार्यवान् पुरुषो वेद इत्य् आद्या ।
कर्तुं सुसुखं सुख-साध्यम् । श्रोत्रादि-व्यापार-मात्रत्वात् तुलसी-पात्राम्बु-चुलुक-मात्रोपकरणत्वाच् च । अव्ययम् अविनाशि-मोक्षे ऽपि तस्यानुवृत्तेः । एवं वक्ष्यति भक्त्या माम् अभिजानाति इत्य् आदिना । कर्म-योगादिकं तु नेदृशम् अतो ऽस्य राज-विद्यात्वम् । तत्राहुः राज्ञां विद्या, राज्ञां गुह्यम् इति राज्ञाम् इवोदार-चेतसां कारुणिकानाम् इव दिवम् अपि तुच्छीकुर्वताम् इयः विद्या न तु शीघ्रं पुत्रादि-लिप्सया देवान् अभ्यर्चतां दीन-चेतसां कर्मिणाम् । राजानो हि महारत्नादि-सम्पद् अप्य् अनिह्नुवानाः स्व-मन्त्रं यथातियत्नान् निह्नूयते तथान्यां विद्याम् अनिह्नुवाना मद्-भक्ता एताम् अतियत्नान् निह्नुवीरन्न् इति । समानम् अन्यत् ॥२॥
९।३
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्यु-संसार-वर्त्मनि ॥३॥
श्रीधरः - नन्व् एवम् अस्यातिसुकरत्वे के नाम संसारिणः स्युः । तत्राह अश्रद्दधाना इति । अस्य भक्ति-सहित-ज्ञान-लक्षणस्य । धर्मस्येति कर्मणि षष्ठी । इमं धर्मम् अश्रद्दधाना आस्तिक्येनास्वीकुर्वन्त उपायान्तरैर् मत्-प्राप्तये कृत-प्रयत्ना अपि माम् अप्राप्य मृत्यु-युक्ते संसार-वर्त्मनि निमित्ते निवर्तन्ते । मृत्यु-व्याप्ते संसार-मार्गे परिभ्रमन्तीत्य् अर्थः ॥३॥
मधुसूदनः - एवम् अस्य सुकरत्वे सर्वोत्कृष्टत्वे च सर्वे ऽपि कुतो ऽत्र न प्रवर्तन्ते, तथा च न को ऽपि संसारी स्याद् इत्य् अत आह अश्रद्दधाना इति । अस्यात्म-ज्ञानाख्यस्य धर्मस्य स्वरूपे साधने फले च शास्त्र-प्रतिपादिते ऽपि अश्रद्दधाना वेद-विरोधि-कुहेतु-दर्शन-दूषितान्तःकरणतया प्रामाण्यम् अमन्यमानाः पाप-कारिणो ऽसुर-सम्पदम् आरूढाः स्व-मति-कल्पितेनोपायेन कथञ्चिद् यतमाना अपि शास्त्र-विहितोपायाभावाद् अप्राप्य मां मत्-प्राप्ति-साधनम् अप्य् अलब्ध्वा निवर्तन्ते निश्चयेन वर्तन्ते । क्व मृत्यु-युक्ते संसार-वर्त्मनि सर्वदा जनन-मरण-प्रबन्धेन नारकि-तिर्यग्-आदि-योनिष्व् एव भ्रमन्तीत्य् अर्थः ॥३॥
विश्वनाथः — नन्व् एवम् अस्यातिसुख-करत्वे सति को नाम संसारी स्यात् । तत्राह अश्रद्दधाना इति । अस्येति कर्मणि षष्ठी आर्षी । इमं धर्मम् अश्रद्दधानाः शास्त्र-वाक्यैः प्रतिपादितं भक्तेः सर्वोत्कर्षं स्तुत्य्-अर्थ-वादम् एव मन्यमाना आस्तिक्येन न स्वीकुर्वन्ति ये, त उपायान्तरैर् मत्-प्राप्तये कृत-प्रयत्ना अपि माम् अप्राप्य मृत्यु-व्याप्ते संसार-वर्त्मनि नितराम् अतिशयेन वर्तन्ते ॥३॥
बलदेवः – नन्व् एवं सुकरे धर्मे स्थिते न को ऽपि संसारेद् इति चेत् तत्राह अश्रद्दधाना इति । धर्मस्येति कर्मणि षष्ठी । इमं मद्-भक्ति-लक्षणं धर्मम् श्रुत्य्-आदि-प्रसिद्ध-प्रभावम् अप्य् अश्रद्दधाना दृढ-विश्वासेन तम् अगृह्णतः स्तुति-मात्रम् एवैतद् इति ये मन्यन्ते, ते मत्-प्राप्तये साधनान्तराण्य् अनुतिष्ठन्तो ऽपि भक्त्य्-अवहेलनान् माम् अप्राप्य मृत्यु-युक्ते संसार-वर्त्मनि नितराम् वर्तन्ते ॥३॥
९।४
मया ततम् इदं सर्वं जगद् अव्यक्त-मूर्तिना ।
मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥४॥
श्रीधरः - तद् एवं वक्तव्यतया प्रस्तुतस्य ज्ञानस्य स्तुत्या श्रोतारम् अभिमुखीकृत्य तद् एव ज्ञानं कथयति मयेति द्वाभ्याम् । अव्यक्ता ऽतीन्द्रिया मूर्तिः स्वरूपं यस्य । तादृशेन मया कारण-भूतेन सर्वम् इदं जगत् ततं व्याप्तम् । तत् सृष्ट्वा तद् एवानुप्राविशत् इत्य् आदि श्रुतेः । अतएव कारण-भूते मयि तिष्ठन्तीति मत्-स्थानि सर्वाणि भूतानि चराचराणि । एवम् अपि घटादिषु कार्येषु मृत्तिकेव तेषु भूतेषु नाहम् अवस्थितः । आकाशवद् असङ्गत्वात् ॥४॥
मधुसूदनः - तद् एवं वक्तव्यतया प्रतिज्ञातस्य ज्ञानस्य विधि-मुखेनेतर-निषेध-मुखेन च स्तुत्याभिमुखीकृतम् अर्जुनं प्रति तद् एवाह द्वाभ्याम् मयेति । इदं जगत् सर्वं भूत-भौतिक-तत्-कारण-रूपं दृश्य-जातं मद्-अज्ञान-कल्पितं मायाधिष्ठानेन परमार्थ-सता सद्-रूपेण स्फुरण-रूपेण च ततं व्याप्तं रज्जु-खण्डेनेव तद्-अज्ञान-कल्पितं सर्प-धारादि । त्वया वासुदेवेन परिच्छिन्नेन सर्वं जगत् कथं व्याप्तं प्रत्यक्ष-विरोधाद् इति नेत्य् आह अव्यक्ता सर्व-करणागोचरीभूता स्व-प्रकाशाद्वय-चैतन्य-सद्-आनन्द-रूपा मूर्तिर् यस्य तेन मया व्याप्तम् इदं सर्वं न त्व् अनेन देहेनेत्य् अर्थः । अत एव सन्तीव स्फुरन्तीव मद्-रूपेण स्थितानि मत्-स्थानि सर्व-भूतानि स्थावराणि जङ्गमानि च । परमार्थतस् तु न च नैवाहं तेषु कल्पितेषु भूतेस्व्
अवस्थितः कल्पिताकल्पितयोः सम्बन्धायोगात् । अतएवोक्तं यत्र यद् अध्यस्तं तत्-कृतेन गुणेन दोषेण वाणु-मात्रेणापि न स सम्बध्यत इति ॥४॥
विश्वनाथः — यद् दास्य-भक्ताव् एतन्-मात्रं मद्-ऐश्वर्य-ज्ञानं मद्-भक्तैर् अपेक्षितव्यम् इत्य् आह सप्तभिः । अव्यक्ता ऽतीन्द्रिया मूर्तिः स्वरूपं यस्य तेन मया कारण-भूतेन सर्वम् इदं जगत् ततं व्याप्तम् । अतएव मत्-स्थानि मयि कारण-भूते पूर्ण-चैतन्य-स्वरूपे स्थितानि सर्वाणि भूतानि चराचराणि सन्ति । एवम् अपि घटादिषु स्व-कार्येषु मृगादिवत्तेषु भूतेषु नाहम् अवस्थितो ऽसङ्गत्वात् ॥४॥
बलदेवः - अथ स्व-भक्त्य्-उद्दीपकम् अद्भुत-स्वैश्वर्यम् आह मयेति । अव्यक्ता इन्द्रियाग्राह्या मूर्तिः स्वरूपं यस्य तेन मया सर्वम् इदं जगत् ततं धर्तुं नियन्तुं च व्याप्तम् । अतएव सर्वाणि चराचराणि भूतानि व्यापके धारके नियामके च मयि स्थितानि भवन्तीति तेषां स्थितिस् तद्-अधीना नेत्य् अर्थः । इह निखिल-जगद्-अन्तर्यामिणा स्वांशेनान्तः प्रविश्य नियच्छामि दधामि चेत्य् उक्तम् । आह चैवं श्रुतिः यः पृथिव्यां तिष्ठत् इत्य् आदिना । इहापि वक्ष्यति विष्टभ्याहम् इदं कृत्स्नम् इत्य् आदि ॥४॥
९।५
न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ।
भूत-भृन् न च भूत-स्थो ममात्मा भूत-भावनः ॥५॥
श्रीधरः - किं च न चेति । न च मयि स्थितानि भूतानि । असङ्गत्वाद् एव मम । ननु तर्हि व्यापकत्वम् आश्रयत्वं च पूर्वोक्तं विरुद्धम् इत्य् आशङ्क्याह पश्येति । मे मम ऐश्वर्यम् असाधारणं योगं युक्तिम् अघटन-घटना-चातुर्यं पश्य । मदीय-योग-माया-वैभवस्याविर्तर्क्यत्वान् न किञ्चिद् विरुद्धम् इत्य् अर्थः । अन्यद् अप्य् आश्चर्यं पश्येत्य् आह भूतेति । भूतानि बिभर्ति धारयतीति भूत-भृत् । भूतानि भावयति पालयतीति भूत-भावनः । एवं भूतो ऽपि ममात्मा परं स्वरूपं भूतस्थो न भवतीति । अयं भावः - यथा देहं बिभ्रत् पालयंश् च जीवो ऽहङ्कारेण तत्-संश्लिष्टस् तिष्ठत्य् एवम् अहं भूतानि धारयन् पालयन्न् अपि तेषु न तिष्ठामि । निरहङ्कारत्वाद् इति ॥५॥
मधुसूदनः - अतएव न चेति । दिविष्ठ इवादित्ये कल्पितानि जल-चलनादीनि मयि कल्पितानि भूतानि परमार्थतो मयि न सन्ति । त्वम् अर्जुनः प्राकृतीं मनुष्य-बुद्धिं हित्वा पश्य पर्यालोचय मे योगं प्रभावम् ऐश्वरम् अघटन-घटना-चातुर्यं मायाविन इव ममावलोकयेत्य् अर्थः । नाहं कस्यचिद् आधेयो नापि कअस्यचिद् आधारस् तथाप्य् अहं सर्वेषु भूतेषु मयि च सर्वाणि भूतानीति महतीयं माया । यतो भूतानि सर्वाणि कार्याण्य् उपादानतया बिभर्ति धारयति पोषयतीति च भूत-भृत् । भूतानि सर्वाणि कर्तृतयोत्पादयतीति भूत-भावनः । एवम् अभिन्न-निमित्तोपादान-भूतो ऽपि ममात्मा मम पर्मआर्थ-स्वरूप-भूतः सच्-चिद्-आनन्द-घनो ऽसङ्गाद्वितीय-स्वरूपत्वाच् च भूतस्थः परमार्थतो न भूत-सम्बन्धी स्वप्न-दृग् इव न परमार्थतः स्व-कल्पित-सम्बन्धीत्य्
अर्थः । ममात्मेति राहोः शिर इतिवत् कल्पनया षष्ठी ॥५॥
विश्वनाथः — तत एव मयि स्थितान्य् अपि भूतानि न मत्-स्थानि ममासङ्गत्वाद् एवेति भावः । ननु तर्हि तव जगद्-व्यापकत्वम् जगद्-आश्रयत्वं च पूर्वोक्तं विरुद्धम् इत्य् आह पश्य मे योगम् ऐश्वरम् असाधारणं योगैश्वर्यम् अघटित-घटना-चातुर्य-मयम् । अन्यद् अप्य् आश्चर्यं पश्येत्य् आह भूतानि बिभर्ति धारयतीति भूत-भृत् । भूतानि भावयति पालयतीति भूत-भावनः । एवं भूतो ऽपि ममात्मा भूत-स्थो न भवतीति ममेति भगवति देह-देहि-विभागाभावात् । राहोः शिरः इतिवद् अभेदे ऽपि षष्ठी । अयं भावः - यथा जीवो देहं दधत् पालयन्न् अपि तस्मिन् आसक्त्या देह-स्थ एव भवति, एवम् अहं भूतानि दधत् पालयन्न् अपि मायिक-सर्व-भूत-शरीरो ऽपि न तत्रस्थो निःसङ्गत्वाद् इति ॥५॥
बलदेवः - नन्व् अतिगुरुं भारं वहतस् ते महान् खेदः स्याद् इति चेत् तत्राह न चेति । घटादाव् उदकादीनीव भार-भूतानि चभूतानि संसृष्टानि मयि न सन्ति । तर्हि मत्-स्थानि सअर्व-भूतानीत्य्-उक्ति-विरुद्धेतेति मयि न सन्ति । तर्हि मत्-स्थानि सर्व-भूतानीत्य्-उक्तिर् विरुद्धेतेति चेत् तत्रह पश्येति । ममैश्वरं मद्-असाधारणं योगं पश्य जानीहि युज्यते ऽनेन दुर्घटेषु कार्येषु इति निरुक्तेर् योगो ऽविचिन्त्य-शक्ति-वपुः सत्य-सङ्कल्पता-लक्षणो धरमस् तम् इत्य् अर्थः । एतद् एव विस्फुटयति भूत-भृद् इति भूत-भृत् भूतानां धारकः पालकश् चाहं भूतस्थो भूत-सम्पृक्तो नैव भवामि । यतो माम् आत्मा मन एव भूत-भावनः सत्य-सङ्कल्पता -लक्षणेनैश्वरेण योगेनैवाहं भूतानां धारणं पालनं च करोमि, न तु स्व-मूर्ति-व्यापारेणेत्य् अर्थः
। श्रुतिश् चैवम् आह - एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रम् असौ विधृतौ तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्याव् आपृथिव्यौ विधृते तिष्ठतः [बउ ३।७।९] इत्य् आदिना । यद्यपि स्वरूपान् न मनो भिन्नम्, तथापि सत्ता सतीत्य् आदिवद् विशेषाद् वास्तवं भेद-कार्यम् आदायैव तथोक्तं बोध्यम् ॥५॥
९।६
यथाकाश-स्थितो नित्यं वायुः सर्वत्र-गो महान् ।
तथा सर्वाणि भूतानि मत्-स्थानीत्य् उपधारय ॥६॥
श्रीधरः - असंश्लिष्टयोर् अप्य् आधाराधेय-भावं दृष्टान्तेनाह ययेति । अवकाशं विनावस्थानानुपपत्तेर् नित्यम् आकाशे स्थितो वायुः सर्वत्र-गो ऽपि महान् अपि नाकाशेन संश्लिष्यते । निरवयवत्वेन संश्लेषायोगात् । तथा सर्वाणि भूतानि मयि स्थितानीति जानीहि ॥६॥
मधुसूदनः - असंश्लिष्टयोर् अप्य् आधाराधेय-भावं दृष्टान्तेनाह यथेति । यथैवासङ्ग-स्वभाव आकाशे स्थितो नित्यं सर्वदोत्पत्ति-स्थिति-संहार-कालेषु वातीति वायुः सर्वदा चलन-स्वभावः । अतएव सर्वत्र गच्छतीति सर्वत्र-गः । महान् परिमाणतः । एतादृशो ऽपि न न कदाप्य् आकाशेन सह संसृज्यते । तथैवासङ्ग-स्वभावे मयि संश्लेषम् अन्तरेणैव सर्वाणि भूतान्य् आकाशादीनि महान्ति सर्वत्रगानि च स्थितानि नापि स्थितानीत्य् उपधारय विमृश्यावधारय ॥६॥
विश्वनाथः — असङ्गे मयि भूतानि स्थितान्य् अपि न स्थितानि, तेष्व् अप्य् अहं स्थितो ऽपि न स्थित इत्य् अत्र दृष्टान्तम् आह यथेति । यथैवासङ्ग-स्वभावे आकाशे नित्यं वातीति वायुः सर्वदा चलन-स्वभावः । अतएव सर्वत्र गच्छतीति सर्वत्र-गो महान् परिमाणतः यथा स्वाकाशस्य असङ्गत्वात् तत्र स्थितो ऽपि न स्थितः । आकाशो ऽपि वायौ स्थितो ऽपि न स्थितो ऽसङ्गत्वाद् एव तथैवासङ्ग-स्वभावे मयि सर्वाणि भूतानि आकाशादीनि महान्ति सर्वत्रगानि स्थितानि नापि स्थितानीत्य् उपधारय विमृश्य निश्चिनु । ननु तर्हि पश्य मे योगम् ऐश्वरम् इति भगवद्-उक्तं योगैश्वर्यस्यातर्क्यत्वं कथं सिद्धम् अभूत् ? दृष्टान्त-लाभात् । उच्यते - आकाशस्य जडत्वा एवासङ्गत्वम् । चेतनस्य त्व् असङ्गत्वं जगद्-अधिष्ठानाधिष्ठातृत्वे परमेश्वरं विना नान्यत्रास्तीत्य् अतर्क्यत्वं सिद्धम्
एव । तद् अप्य् आकाश-दृष्टान्तो लोक-बुद्धि-प्रवेशार्थ एव ज्ञेयः ॥६॥
बलदेवः - चराचराणां सर्वेषां भूतानां मत्-सङ्कल्पायत्ता स्थितिर् वृत्तिश् चेत्य् अत्र दृष्टान्तम् आह यथेति । यथा निरालम्बे महत्य् आकाशे निरालम्बो महान् वायुः स्थितः सर्वत्र गच्छति । तस्य तस्य च निरालम्बतया स्थितिर् मत्-सङ्कल्पाद् एव प्रवृत्तिश् चेत्य् अन्तर्यामि-ब्राह्मणात् यद् भीषा वातः पवते इति श्रुत्य्-अन्तराच् चोपधारयेति, तथा सर्वाणि स्थिर-चराणि भूतानि मत्-स्थानि तैर् अन्सन्तुष्टे मयि स्थितानि मयैव सङ्कल्प-मात्रेण धृतानि नित्यमितानि चेत्य् उपधारय । अन्यथा आकाशादीनि विभ्रंशेरन्न् इति ॥६॥
९।७
सर्व-भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्प-क्षये पुनस् तानि कल्पादौ विसृजाम्य् अहम् ॥७॥
श्रीधरः - तद् एवम् असङ्गस्यैव योगमायया स्थिति-हेतुत्वम् उक्तम् । तयैव सृष्टि-प्रयल-हेतुत्वं चाह सर्वेति । कल्प-क्षये प्रलय-काले सर्वाणि भूतानि प्रकृतिं यान्ति । त्रिगुणात्मिकायां मायायां लीयन्ते । पुनः कल्पादौ सृष्टि-काले तानि विसृजामि विशेषेण सृजामि ॥७॥
मधुसूदनः - एवम् उत्पत्ति-काले स्थिति-काले च कल्पितेन प्रपञ्चेनासङ्गस्यात्मनो ऽसंश्लेषम् उक्त्वा प्रलये ऽपि तम् आह सर्वेतेइ । सर्वाणि भूतानि कल्प-क्षये प्रलय-काले मामिकां मच्-छक्तित्वेन कल्पितां प्रकृतिं त्रिगुणात्मिकां मायां स्व-कारण-भूतां यान्ति तत्रैव सूक्ष्म-रूपेण लीयन्त इत्य् अर्थः । हे कौन्तेयेत्य् उक्तार्थम् । पुनस् तानि कल्पादौ सर्ग-काले विसृजामि प्रकृताव् अविभागापन्नानि व्यनज्मि अहं सर्वज्ञः सर्व-शक्तिर् ईश्वरः ॥७॥
विश्वनाथः — नन्व् अधुना दृश्यमान्य् एतानि भूतानि त्वयि स्थितानीत्य् अवगम्यते । महा-प्रलये क्व यास्यन्तीत्य् अपेक्षायाम् आह सर्वेति । मामिकां मदीयां मम त्रिगुणात्मिकायां माया-शक्तौ लीयन्त इत्य् अर्थः । पुनः कल्प-क्षये प्रलयान्ते सृष्टि-काले तानि विशेषेण सृजामि ॥७॥
बलदेवः - स्व-सङ्कल्पाद् एव भूतानां स्थितिर् उक्ता । अथ तस्माद् एव तेषां सर्ग-प्रलयाव् आह सर्वेति । हे कौन्तेय ! कल्प-क्षये चतुर्मुखावसान-काले सर्वाणि भूतानि मत्-सङ्कल्पाद् एव मामिकां प्रकृतिं यानित् । प्रकृति-शक्तिके मयि विलीयन्ते कल्पादौ पुनस् तान्य् अहम् एव बहु स्याम् इति सङ्कल्प-मात्रेण वैविध्येन सृजामि ॥७॥
९।८
प्रकृतिं स्वाम् अवष्टभ्य विसृजामि पुनः पुनः ।
भूत-ग्रामम् इमं कृत्स्नम् अवशं प्रकृतेर् वशात् ॥८॥
श्रीधरः - नन्व् असङ्गो निर्विकारश् च त्वं कथं सृजसीत्य् अपेक्षायाम् आह - प्रकृतिम् इति । स्वां स्वीयां स्वाधीनां प्रकृतिम् अवष्टभ्याधिष्ठाय । प्रलये लीनं सन्तं चतुर्विधम् इमं सर्वं भूत-ग्रामं कर्मादि-परवशं पुनः पुनर् विविधं सृजामि । विशेषेण सृजामि इति वा । कथम् ? प्रकृतेर् वशात् प्राचीन-कर्म-निमित्त-तत्-तत्-स्वभाव-वशात् ॥८॥
मधुसूदनः - किं-निमित्ता परमेश्वर-स्थेयं सृष्टिर् न तावत् स्व-भोगार्था तस्य सर्व-साक्षि-भूत-चैतन्य-मात्रस्य भोक्तृत्वाभावात् तथात्वे वा संसारित्वेनेश्वरत्व-व्याघातात् । नाप्य् अन्यो भोक्ता यद् अर्थेयं सृष्टिः । चेतनान्तराभावात् । ईश्वरस्यैव सर्वत्र जीव-रूपेण स्थितत्वात् । अचेतनस्य चाभोक्तृत्वात् । अतएव नापवर्गार्थापि सृष्टिः । बन्धाभावाद् अपवर्ग-विरोधित्वाच् चेत्य् आद्य्-अनुपपत्तिः सृष्टेर् माया-मयत्वं साधयन्ती नास्माकं प्रतिकूलेति न परिहर्तव्येत्य् अभिप्रेत्य मायामयत्वान् मिथ्यात्वं प्रपञ्चस्य वक्तुम् आरभते त्रिभिः प्रकृतिम् इति ।
प्रकृतिं मायाख्याम् अनिर्वचनीयां स्वां स्वस्मिन् कल्पिताम् अवष्टभ्य स्वसत्ता-स्फूर्तिभ्यां दृढीकृत्य तस्याः प्रकृतेर् मायाया वशाद् अविद्यास्मिता-राग-द्वेषाभिनिवेश-कारणावरण-विक्षेपात्मक-शक्ति-प्रभावाज् जायमानम् इमं सर्व-प्रमाण-सन्निधापितं भूत-ग्रामम् आकाशादि-भूत-समुदायम् अहं मायावीव पुनः पुनर् विसृजामि विविधं सृजामि कल्पना-मात्रेण स्वप्न-दृग् इव च स्वप्न-प्रपञ्चम् ॥८॥
विश्वनाथः — नन्व् असङ्गो निर्विकारश् च त्वं कथं सृजसीत्य् अपेक्षायाम् आह - प्रकृतिम् इति । स्वां स्वीयाम् अवष्टभ्याधिष्ठाय प्रकृतेर् वशात् स्वीय-स्वभाव-वशात् प्राचीन-कर्म-निमित्ताद् इति यावत् । अवशं कर्मादि-परतन्त्रम् ॥८॥
बलदेवः – प्रकृतिम् इति । स्वाम् आत्मीयां त्रि-गुणां प्रकृतिम् अवष्टभ्याधिष्ठाय सङ्कल्प-मात्रेण महद्-आद्यान् मना परिणमय्येमं चतुर्विधम् भूत-ग्रामं विसृजामि पुनः पुनः काले काले । कीदृशम् इत्य् आह प्रकृतेः प्राचीन-कर्म-वासनाया वशात् प्रभावाद् अवशं परतन्त्रं तथा चाचिन्त्य-शक्तेर् असङ्ग-स्वभावस्य मम सङ्कल्प-मात्रेण तत् तत् कुर्वतो न तत्-संसर्ग-गन्धो न च को ऽपि खेद-लेश इति ॥८॥
९।९
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवद् आसीनम् असक्तं तेषु कर्मसु ॥९॥
श्रीधरः - नन्व् एवं नाना-विधानि कर्माणि कुर्वतस् तव जीववद्-बन्धः कथं न स्याद् इति ? अत आह न च माम् इति । तानि विश्व-सृष्ट्य्-आदीनि कर्माणि मां न निबध्नन्ति । कर्मासक्तिर् हि बद्ध-हेतुः सा चाप्त-कामत्वान् मम नास्ति । अत उदासीनत्वानुपपत्तेर् उदासीनवत् स्थितम् इत्य् उक्तम् ॥९॥
मधुसूदनः - अतः न चेति । न च नैव सृष्टि-स्थिति-प्रलयाख्यानि तानि मायाविनेव स्वप्न-दृशेव च मया क्रियमाणानि मां निबन्ध्नन्ति अनुग्रह-निग्रहाभ्यां न सुकृत-दुष्कृत-भागिनं कुर्वन्ति मिथ्या-भूतत्वात् । हे धनञ्जय युधिष्ठिर-राजसूयार्थं सर्वान् राज्ञो जित्वा धनम् आहृतवान् इति महान् प्रभावः सूचितः प्रोत्साहनार्थम् ।
तानि कर्माणि कुतो न बध्नन्ति तत्राह उदासीनवद् आसीनम् । यथा कश्चिद् उपेक्षको द्वयोर् विवदमानयोर् जय-पराजयासंसर्गी तत्-कृत-हर्ष-विषादाभ्याम् असंसृष्टो निर्विकार आस्ते तद्वन् निर्विकारतयासीनम् । द्वयोर् विवदमानयोर् इहाभावाद् उपेक्षकत्व-मात्र-साधर्म्येण वति-प्रत्ययः । अतएव निर्विकारत्वात् तेषु सृष्ट्य्-आदि-कर्मस्व् असक्तम् अहं करोमीत्य् अभिमान-लक्षेण सङ्गेन रहितं मां न निबद्नन्ति कर्माणीति युक्तम् एव । अन्यस्यापि हि कर्तृत्वाभावे फल-सङ्गाभावे च कर्माणि न बन्ध-कारणानीत्य् उक्तम् अनेन । तद्-उभय-सत्त्वे तु कोश-कार इव कर्मभिर् बध्यते मूढ इत्य् अभिप्रायः ॥९॥
विश्वनाथः — नन्व् एवं च नाना-कर्माणि कुर्वतस् तव जीववद्-बन्धः कथं न स्याद् ? अत आह न चेति । तानि सृष्ट्य्-आदीनि । कर्मासक्तिर् हि बद्ध-हेतुः सा चाप्त-कामत्वान् मम नास्ति । उदासीनवद् इति । अन्य उदासीनो यथा विवदमानानां दुःख-शोकादि-संसृष्टो न भवति तथैवाहम् इत्य् अर्थः ॥९॥
बलदेवः – ननु विषमाणि सृष्टि-पोआलन-लक्षणानि वैषम्यादिना त्वां बध्नीयुर् इति चेत् तत्राह न चेति । तानि विषम-सृष्ट्य्-आदीनि कर्माणि न मयि वैषम्यादि-प्रसञ्जयन्ति । तत्र हेतु-गर्भ-विशेषणम् उदासीनवद् इति । जीवानां देव-मानव-तिर्यग्-आदि-भावे तत्-तद्-अभ्युदय-तारतम्ये च तेषां पूर्वार्जितानि कर्माण्य् एव कारणानि । अहं तु तेषु विषमेषु कर्मस्व् औदाईन्येन स्थितो ऽसक्त इति न मयि वैषम्यादि-दोष-गन्धः । एवम् आह सूत्रकारः वैषम्य-नैर्घृण्ये न [व्स्। २।१।३५] इत्य् आदिना । उदासीनत्वे कर्तृत्वं न सिद्ध्येद् अत उक्तम् उदासीनवद् इति ॥९॥
९।१०
मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् ।
हेतुनानेन कौन्तेय जगद् विपरिवर्तते ॥१०॥
श्रीधरः - तद् एवोपपादयति मयेति । मयाध्यक्षेणाधिष्ठात्रा निमित्त-भूतेन प्रकृतिः स-चराचरं विश्वं सूयते जनयति । अनेन मद्-अधिष्ठानेन हेतुनेदं जगद् विपरिवर्तते पुनः पुनर् जायते । सन्निधि-मात्रेणाधिष्ठातृत्वात् कर्तृत्वम् उदासीनत्वं चाविरुद्धम् इति भावः ॥१०॥
मधुसूदनः - भूत-ग्रामम् इमं विसृजाम्य् उदासीनवद् आसीनम् इति च परस्पर-विरुद्धम् इति शङ्का-परिहारार्थं पुनर् मायामयत्वम् एव प्रकटयति मयेति । मया सर्वतो-दृशि-मात्र-स्वरूपेणाविक्रियेणाध्यक्षेण नियन्त्रा भासकेनावभासिता प्रकृतिस् त्रिगुणात्मिका सत्त्वासत्त्वादिभिर् अनिर्वाच्या माया सूयत उत्पादयति स-चराचरं जगन् मायाविनाधिष्ठितेव माया कल्पित-गज-तुरगादिकम् । न त्व् अहं स्व-कार्य-मायाभासनम् अन्तरेण करोमि व्यापारान्तरम् । हेतुना निमित्तेनानेनाध्यक्षत्वेन हे कौन्तेय ! जगत् स-चराचरं विपरिवर्तते विविधं परिवर्तते जन्मादि-विनाशान्तं दित्य्-आदेर् इव कर्तृत्वाभावाद् उदासीनवद् आसीनम् इत्य् उक्तम् इति न विरोधः । तद् उक्तम् -
अस्य द्वैतेन्द्र-जालस्य यद् उपादान-कारणम् ।
अज्ञानं तद् उपाश्रित्य ब्रह्म कारणम् उच्यते ॥ इति ।
श्रुति-स्मृति-वादाश् चात्रार्थे सहस्रश उदाहार्याः ॥१०॥
विश्वनाथः — ननु सृष्ट्य्-आदि-कर्तुस् तवेदम् औदासीन्यं न प्रत्येमीत्य् अत आह मयेति । अध्यक्षेण मया निमित्त-भूतेन प्रकृतिः स-चराचरं जगत् सूयते । प्रकृतिर् एव जगत् जनयति । ममात्राध्यक्षता-मात्रम् । यथा कस्यचिद् अम्बरीषादेर् इव भूपतेः प्रकृतिभिर् एव राज्य-कृत्यं निर्वाह्यते । अत्रोदासीनस्य भूपतेः सत्ता-मात्रम् इति यथा तस्य राज-सिंहासने सत्ता-मात्रेण विना प्रकृतिभिः किम् अपि न शक्यते कर्तुम् । तथैव ममाधिष्ठान-लक्षणम् अध्यक्षत्वं विना प्रकृतिर् अपि जडा किम् अपि कर्तुं न शक्नोतीति भावः । अनेन मद्-अधिष्ठानेन हेतुनेदं जगत् विपरिवर्तते पुनः पुनर् जायते ॥१०॥
बलदेवः - तत् प्रतिपादयति मयेति । सत्य-सङ्कल्पेन प्रकृत्य्-अध्यक्षेण मया सर्वेश्वरेण जीव-पूर्व-पूर्व-कर्मानुगुणतया वीक्षिता प्रकृतिः स-चराचरं जगत् सूयते जनयति । विषम-गुणा सती अनेन जीव-पूर्व-कर्मानुगुणेन मद्-वीक्षणेन हेतुना तज् जगद् विपरिवर्तते पुनः पुनर् उद्भवति । हे कौन्तेय । श्रुतिश् चैवम् आह-
विकार-जननीम् अज्ञाम् अष्ट-रूपाम् अजां ध्रुवाम् ।
ध्यायते ऽध्यासिता तेन तन्यते प्रेरिता पुनः ।
सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् ॥
इति सन्निधि-मात्रेणाधिष्ठातृत्वात् कर्तृत्वम् उदासनिं च न विरुद्धम् । यथा सन्निधि-मात्रेणगन्धः क्षोभाय जायते इत्य् आदि स्मरणाच् चैतद् एवं मद्-अधिष्ठातृ-मात्रं खलु प्रेकृतेर् अपेक्ष्यम् । मद्-विना किम् अपि कर्तुं न सा प्रभवेत् न ह्य् असति राज्ञः सिंहासनाधिष्ठातृत्वे तद्-अमात्याः कार्ये प्रभवः ॥१०॥
९।११
अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
परं भावम् अजानन्तो मम भूत-महेश्वरम् ॥११॥
श्रीधरः - नन्व् एवम्भूतं परमेश्वरं त्वां किम् इति केचिन् नाद्रियन्ते ? तत्राह अवजानन्तीति द्वाभ्याम् । सर्व-भूत-महेश्वर-रूपं मदीयं परं भावं तत्त्वम् अजानन्तो मूढा मूर्खा माम् अवजानन्ति माम् अवमन्यन्ते । अवज्ञाने हेतुः शुद्ध-सत्त्व-मयीम् अपि तनुं भक्तेच्छा-वशान् मनुष्याकाराम् आश्रितवन्तम् इति ॥११॥
मधुसूदनः - एवं नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावं सर्व-जन्तूनाम् आत्मानम् आनन्द-घनम् अनन्तम् अपि सन्तम् अवजानन्तीति । अवजानन्ति मां साक्षाद् ईश्वरो ऽयम् इति नाद्रियन्ते निन्दन्ति वा मूढा अविवेकिनो जनाः । तेषाम् अवज्ञा-हेतुं भ्रमं सूचयति मानुषीं तनुम् आश्रितं मनुष्यतया प्रतीयमानां मूर्तिम् आत्मेच्छया भक्तानुग्रहार्थं गृहीतवन्तं मनुष्यतया प्रतीयमानेन देहेन व्यवहरन्तम् इति यावत् । ततश् च मनुष्यो ऽयम् इति भ्रान्त्याच्छादितान्तःकरणा मम परं भावं प्रकृष्टं पआरमर्थिकं तत्त्वं सर्व-भूतानां महान्तर्म् ईश्वरम् अजानन्तो यन् नाद्रियन्ते निन्दन्ति वा तद्-अनुरूपम् एव मूढत्वस्य ॥११॥
विश्वनाथः — ननु च सत्यम् अनन्त-कोटि-ब्रह्माण्ड-व्यापी सच्चिद्-आनन्द-विग्रहः कारणार्णव-शायी महा-पुरुषः स्व-प्रकृत्या जगत् सृजतीति यः प्रसिद्धः । स एव हि भवान् । किन्तु वसुदेव-सूनोस् तवेयं मानुषी तनुर् इत्य् एतद्-अंशेनैव केचित् तव निकर्षं वदन्तीत्य् अत आह अवजानन्तीति । मम मानुष्यास् तनोर् अस्या परं भावं कारणार्णव-शायि-महा-पुरुषादिभ्यो ऽप्य् उत्कृष्टं स्वरूपम् अजानन्त एव ते । कीदृशम् ? भूतं सत्यं यद् ब्रह्म तच् च तन् महेश्वरं चेति । तन् महेश्वर-पदं सत्यान्तर-व्यावर्तकम् अत्र ज्ञेयम् युक्ते क्ष्मादावृते भूतम् इति अमरः ।
तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-भावनासीनं सततं स-मरुद्-गणो ऽहं परमया स्तुत्या तोषयामि इति (ग्तु १।३३) श्रुतेः ।[*एन्द्नोते]
नराकृति पर-ब्रह्म इति स्मृतेश् च ।
ममास्या मानुष्यास् तनोः सच्चिद्-आनन्द-मयत्वं मद्-अभिज्ण-भक्तैर् उच्यत एव, तथा सर्व-ब्रह्माण्ड-व्यापित्वं च बाल्ये यन्-मात्रा श्री-यशोदया दृष्टम् एव । यद् वा मानुषीं तनुम् एव विशिनष्टि परम् उत्कृष्टं भावं सत्तां विशुद्धं सत्त्वं सच्चिदानन्द-स्वरूपम् इत्य् अर्थः । भावः सत्ता स्वभावाभिप्रायः इत्य् अमरः । परं भावम् अपि विशिनष्टि मम भूत-महेश्वरं मम सृज्यानि भूतानि ये ब्रह्माद्यास् तेषाम् अपि महान्तम् ईश्वरम् । तस्मात् जीवस्येव मम परमेश्वरस्य तनुर् न भिन्ना । तनुर् एवाहम् । अहम् एव तनुः साक्षाद् ब्रह्मैव शाब्दं ब्रह्म दधद् वपुः [भ्प् ३।२१।८] इति मद्-अभिज्ञ-शुकोक्तेर् इति भवादृशैस् तु विश्वस्यताम् इति भावः ॥११॥
बलदेवः - नन्व् ईदृश-महिमानं त्वां किम् इति केचिन् नाद्रियन्ते ? तत्राह अवजानन्तीति । भूत-महेश्वरं निखिल-जगद्-एक-स्वामिनं सत्य-सङ्कल्पं सर्वज्ञं महा-कारुणिकं च मां मूढास् ते ऽवजानन्ति । अत्र प्रकारं दर्शयन् विशिनष्टि मानुषीम् इति मानुष-सन्निवेशिनीं मानुष-चेष्टा-बहुलां तनुं श्री-मूर्तिम् आश्रितं तादात्म्य-सम्बन्धेन नित्यं प्राप्तं माम् इतर-राज-कुमार-तुल्यः कश्चिद् उग्र-पुण्यो मनुष्यो ऽयम् इति बुद्ध्यावमन्यन्त इत्य् अर्थः । मानुषी तनुः खलु पाञ्चभौतिक्येन न च भगवत्-तनुस् तादृक् सच्-चिद्-आनन्द-रूपाय कृष्णाय इति, तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् इति श्रवणात् । तथात्वे तद्-अवज्ञातॄणां मौढ्यान्ध्य-योगाद् ब्रह्मादि-वन्द्यत्वायोगाच् च ।
एवं बुद्धिस् तेषां कुतो यया ते मूढा भण्यन्ते ? तत्राह परम् इति । परम् असाधारणं भावं स्वभावम् अजानन्तः मानुषाकृतेस् तस्य ज्ञानान्न्दात्मत्व-सर्वेशत्व-मोक्षदत्वादि-स्वभावानभिज्ञानाद् इत्य् अर्थः । एवं च सति तनुम् आश्रितम् इत्य् उक्ति-विशेष-विभातं भेद-कार्यम् आदाय बोध्या । यत् तु वसुदेव-सूनोर् द्वारकाधिपतेः सूतिका-गृहाविर्भूतम् एव स्वरूपं नैजं चतुर्भुजत्वात् ततो व्रजं गच्छतः स्वरूपं तु मानुषं द्विभुजत्वाद् अत उक्तम् बभूव प्राकृतः शिशुः इतिवत् । अस्ति तन्-निरवधानम् मानुषीं तनुम् आश्रितम् इति तद्-उक्तेः । तेनैव रूपेण चतुर्-भुजेन इति पार्थ-वाक्याच् च तस्मान् मानुष्य-सन्निवेशित्वम् एव तत्-तनोर् मनुष्यत्वम् इत्य् उक्तम् यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति इति श्री-वैष्णवे । गूढं
परं ब्रह्म मनुष्य-लिङ्गम् इति श्री-भागवते च । मनुष्य-चेष्टा-प्राच्युर्याच् च तस्यास् तत्त्वम् । यथा मनुष्यो ऽपि राजा देववत् सिंहवच् च विचेष्टनान् नृ-देवो नृ-सिंहश् च व्यपदिश्यते ।
तस्माद् द्विभुजश् चतुर्भुजश् च स मनुष्य-भावेनोक्त-हेतु-द्वयाद् व्यपदिश्यः । न खलु भुज-भूम्ना परेशत्वम् । कार्तवीर्यादौ व्यभिचारात् । विभु-चैतन्यत्वं जगज् जन्मादि-हेतुत्वं वा परशत्वम् । तच् च द्विभुजे तस्मिन्न् अस्त्य् एव तच् छ्रुतं न च द्विभुजत्वं सादि -
सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।
द्वि-भुजं मौन-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥ [ग्तु १।९]
इति तस्यानादि-सिद्धत्व-श्रवणात् प्राकृतः शिशुर् इत्य् अत्र प्रकृत्या स्वरूपेणैव व्यक्तः शिशुर् इत्य् एवार्थः । तस्माद् वैदूर्य-मणौ नाना-रूपाणि इव तस्मिन् द्विभुजत्वादीनि युगपत् सिद्धान्य् एव यथारुच्य्-उपास्यानीति शान्तोदितत्व-नित्योदितत्व-कल्पना दूरोत्सारिता ॥११॥
९।१२
मोघाशा मोघ-कर्माणो मोघ-ज्ञाना विचेतसः ।
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१२॥
श्रीधरः - किं च मोघाशा इति । मत्तो ऽन्यद् देवतान्तरं क्षिप्रं फलं दास्यतीत्य् एवं भूता मोघा निष्फलैवाशा येषां ते । अतएव मद्-विमुखत्वान् मोघानि निष्फलानि कर्माणि येषां ते । मोघम् एव नाना-कुतर्काश्रितं शास्त्र-ज्ञानं येषां ते । अतएव विचेतसो विक्षिप्त-चित्ताः । सर्वत्र हेतुः राक्षसीं तामसीं हिंसादि-प्रचुराम् आसुरीं च राजसीं काम-दर्पादि-बहुलां मोहिनीं बुद्धि-भ्रंश-करीं प्रकृतिं स्वभावं श्रिता आश्रिताः सन्तः । माम् अवजानन्तीति पूर्वेणान्वयः ॥१२॥
मधुसूदनः - ते च भगवद्-अवज्ञान-निन्दन-जनित-महा-दुरित-प्रतिबद्ध-बुद्धयो निरन्तरं निरय-निवासार्हा एव मोघाशा इति । ईश्वरम् अन्तरेण कर्माण्य् एव नः फलं दास्यन्तीत्य् एवंरूपा मोघा निष्फलैवाशा फल-प्रार्थना येषां ते । अतएवेश्वर-विमुखत्वान् मोघानि श्रम-मात्र-रूपाण्य् अग्निहोत्रादीनि कर्माणि येषां ते । तथा मोघम् ईश्वराप्रतिपादक-कुतर्क-शास्त्र-जनितं ज्ञानं येषां ते । कुत एवं यतो विचेतसो भगवद्-अवज्ञान-जनित-दुरित-प्रतिबद्ध-विवेक-विज्ञाताः । किं च ते भगवद्-अवज्ञान-वशाद् राक्षसीं तामसीम् अविहित-हिंसा-हेतु-द्वेष-प्रधानाम् आसुरीं च राजसीं शास्त्रानभ्यनुज्ञात-विषय-भोग-हेतु-राग-प्रधानां च मोहिनीं शास्त्रीय-ज्ञान-भ्रंश-हेतुं प्रकृतिं स्वभावम् आश्रिता एव भवन्ति । ततश्
च - त्रिविधं नरकस्येदं द्वारं नाशनम् आत्मनः । कामः क्रोधस् तथा लोभः इत्य् उक्त-नरक-द्वार-भागितया नरक-यातनाम् एव ते सततम् अनुभवन्तीत्य् अर्थः ॥१२॥
विश्वनाथः — ननु ये मानुषीं माया-मयीं तनुम् आश्रितो ऽयम् ईश्वर इति मत्वा त्वाम् अवजानन्ति । तेषां का गतिस् तत्राह मोघाशा इति । यदि भक्ता अपि स्युस् तद् अपि मोघाशा भवन्ति । मत्-सालोक्यादिम् अभिवाञ्छितं न प्राप्नुवन्ति । यदि ते कर्मिणस् तदा मोघ-कर्माणः कर्म-फलं स्वर्गादिकं न लभन्ते । यदि ते ज्ञानिनस् तर्हि मोघ-ज्ञाना ज्ञान-फलं मोक्षं न विदन्ति । तर्हि ते किं प्रापुन्वन्तीत्य् अत आह राक्षसीम् इति । ते राक्षसीं प्रकृतिं राक्षसानां स्वभावं श्रिताः प्राप्ता भवन्तीत्य् अर्थः ॥१२॥
बलदेवः – ननु पाञ्चभौतिक-मानुष-तनुम् आनुग्र-पुण्यः पुरु-तेजाः को ऽप्य् अयम् इति भावेन त्वाम् अवजानतां का गतिः स्यात् तत्राह मोघेति । यदि ते ईश्वर-भक्ता अपि स्युस् तद् अपि मोघाशा निष्फल-मोक्ष-वाञ्छाः स्युः । यदि ते ऽग्नि-होत्रादि-कर्म-निष्ठास् तदा मोघ-कर्माणः परिश्रम-रूपाग्निहोत्रादिकाः स्युः । यदि ते ज्ञानाय वेदान्तादि-शास्त्र-परिशीलनस् तदा मोघ-ज्ञाना निष्फल-तद्-बोधाः स्युः । एवं कुतः ? यतस् ते विचेतसः । नित्य-सिद्ध-मनुष्य-सन्निवेशि-साक्षात्-पर-ब्रह्म-मद्-अवज्ञा-जनित-पाप-प्रतिबद्ध-विवेक-ज्ञाना इत्य् अर्थः । अतएवम् उक्तं बृहद्-वैष्णवे-
यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः ।
स सर्वस्माद् बहिष्कार्यः श्रौत-स्मार्त् अ-विधानतः ।
मुखं तस्यावलोक्यापि स-चेलं स्नानम् आचरेत् ॥ इति ।
तर्हि ते किं फलं लभन्ते ? तत्राह राक्षसीं हिंसादि-प्रचुराम् तामसीम् आसुरीं काम-गर्वादि-प्रचुरां राजसीं मोहिनीं विवेक-विलोपिन्ं प्रकृतिं स्वभावं श्रिता नरके निवासार्हास् तिष्ठन्ति ॥१२॥
९।१३
महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः ।
भजन्त्य् अनन्य-मनसो ज्ञात्वा भूतादिम् अव्ययम् ॥१३॥
श्रीधरः - के तर्हि त्वाम् आराधयन्तीति । अत आह - महात्मान इति । महात्मानः कामाद्य्-अनभिभूत-चित्ताः । अतएव मध्-व्यतिरेकेन नास्त्य् अन्यस्मिन् मनो येषाम् । ते तु भूतादिं जगत्-कारणम् अव्ययं च मां ज्ञात्वा भजन्ति ॥१३॥
मधुसूदनः - भगवद्-विमुखानां फल-कामनायास् तत्-प्रयुक्तस्य नित्य-नैमित्तिक-काम्य-कर्मानुष्ठानस्य तत्-प्रयुक्तस्य शास्त्रीय-ज्ञानस्य च वैयर्थ्यात् पारलौकिक-फल-तत्-साधन-शून्यास् ते । नाप्य् ऐहलौकिकं किञ्चित् फलम् अस्ति तेषां विवेक-विज्ञान-शून्यतया विचेतसो हि ते । अतः सर्व-पुरुषार्थ-बाह्याः शोच्या एव सर्वेषां ते वराका इत्य् उक्तम् । अधुना के सर्व-पुरुषार्थ-भाजो ऽशोच्या ये भगवद्-एक-शरणा इत्युच्यते महात्मान इति ।
महान् अनेक-जन्म-कृत-सुकृतैः संस्कृतः क्षुद्र-कामाद्य्-अनभिभूत आत्मान्तःकरणं येषां ते ऽअतएव अभयं सत्त्व-संशुद्धिः इत्य् आदि-वक्ष्यमाणां दैवीं सात्त्विकीं प्रकृतिम् आश्रिताः । अतएवान्यस्मिन् मद्-व्यतिरिक्ते नास्ति मनो येषां ते भूतादिं सर्व-जगत्-कारणम् अव्ययम् अविनाशिनं च माम् ईश्वरं ज्ञात्वा भजन्ति सेवन्ते ॥१३॥
विश्वनाथ - तस्माद् ये महात्मानो यादृच्छिक-मद्-भक्त-कृपया महात्मत्वं प्राप्तास् ते तु मानुषा अपि दैवीं प्रकृतिं देवानां स्वभावं प्राप्ताः सत्तो मां मानुषाकारम् एव भजन्ते । न विद्यते ऽन्यत्र ज्ञान-कर्माण्य् अकामनादौ मनो येषां ते । मां भूतादिं मया ततम् इदं सर्वं इत्य् आदि मद्-ऐश्वर्य-ज्ञानेन भूतानां ब्रह्मादि-स्तम्ब-पर्यन्तानां कारणम् । अव्ययं सच्चिदानन्द-विग्रहत्वाद् अनश्वरं ज्ञात्वेति ममाव्ययत्वे मद्-भक्तैर् एतावन्-मात्रं मज्-ज्ञानम् अपेक्षितव्यम् । इयम् एव त्वं पदार्थ-ज्ञान-कर्माद्य्-अनपेक्षा भक्तिर् अनन्या सर्व-श्रेष्ठा राज-विद्या राज-गुह्यम् इति द्रष्टव्यम् ॥१३॥
बलदेवः - तर्हि के त्वाम् आदिर्यन्ते ? तत्राह महात्मान इति । ये नराकृति-पर-ब्रह्म-मत्-तत्त्ववित् सत्-प्रसङ्गेन तादृश-मन्-निष्ठया विस्तीर्णागाध-मनसो मदीये ऽपि सहस्र-शीर्षाद्य्-आकारे ऽरुचयस् ते मनुष्या अपि दैवीं प्रकृतिम् आश्रिताः सन्तो नराकृतिं मां मध्य-भूतादि-विधि-रुद्रादि-सर्व-कारणम् अव्ययं नित्यं च ज्ञात्वा निश्चित्य भजन्ति सेवन्ते । अनन्य-मनसो नराकार एव मयि निखात-चित्ताः ॥१३॥
९।१४
सततं कीर्तयन्तो मां यतन्तश् च दृढव्रताः ।
नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥
श्रीधरः - तेषां भजन-प्रकारम् आह सततम् इति द्वाभ्याम् । सततं सर्वदा स्तोत्र-मन्त्रादिभिः कीर्तयन्तः केचिन् माम् उपासते सेवन्ते । दृढानि व्रतानि नियमा येषां तादृशाः सन्तः । यतन्तश् च ईश्वर-पूजादिषु इन्दिर्योपसंहारादिषु प्रयत्नं कुर्वन्तः । केचिद् भक्त्या नमस्यन्तः प्रणमन्तश् च । अन्ये नित्य-युक्ता अनवरतम् अवहिता सेवन्ते । भक्त्येति नित्य-युक्ता इति च कीर्तनादिष्व् अपि द्रष्टव्यम् ॥१४॥
मधुसूदनः - ते केन प्रकारेण भजन्तीत्य् उच्यते द्वाभ्याम् सततम् इति । सततं सर्वदा ब्रह्म-निष्ठं गुरुम् उपसृत्य वेदान्त-वाक्य-विचारेण गुरूपसदनेतर-काले च प्रणव-जपोपनिषद्-आवर्तनादिभिर् मां सर्वोपनिषत्-प्रतिपाद्यं ब्रह्म-स्वरूपं कीर्तयन्तो वेदान्त-शास्त्राध्ययन-रूप-श्रवण-व्यापार-विषयीकुर्वन्त इति यावत् । तथ दृढ-व्रता दृढानि प्रतिपक्षैश् चालयितुम् अशक्यानि अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहादीनि व्रतानि येषां ते शम-दमादि-साधन-सम्पन्ना इति यावत् । तथा चोक्तं पतञ्जलिना अहिंसास्तयास्तेय-ब्रह्मचर्यापरिग्रहा यमाः [य्स् २।३०] ते त्य् जाति-देश-काल-समयानवच्छिन्नाः सार्वभौमा महा-व्रतम् [य्स् २।३१] इति । जात्या ब्राह्मणत्वादिकया देशेन तीर्त्यादिना कालेन चतुर्दश्यादिना समयेन यज्ञाद्य्-अन्यत्वेनानवच्छिन्ना अहिंसादयः
सार्वभौमाः क्षिप्त-मूढ-विक्षिप्त-भूमिष्व् अपि भाव्यमानाः कस्याम् अपि जातौ कस्मिन्न् अपि देशे कस्मिन्न् अपि काले यज्ञादि-प्रयोजने ऽपि हिंसां न करिष्यामीत्य् एवं-रूपेण किञ्चिद् अप्य् अपर्युदस्य सामान्येन प्रवृत्ता एते महा-व्रतम् इत्य् उच्यन्ते इत्य् अर्थः ।
तथा नमस्यन्तश् च मां काय-वाङ्-मनोभिर् नमस्कुर्वन्तश् च मां भगवन्तं वासुदेवं सकल-कल्याण-गुण-निधानम् इष्ट-देवता-रूपेण गुरु-रूपेण च स्थितम् । च-कारात्-
श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् ।
अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ [भ्प् ७।५।२३]
इति वन्दन-सहचरितं श्रवणाद्य् अपि बोधव्यम् । अर्चनं पाद-सेवनम् इत्य् अपि गुरु-रूपे तस्मिन् सुकरम् एव ।
अत्र माम् इति पुनर् वचनं स-गुण-रूप-परामर्शार्थम् । अन्यथा वैयर्थ्य-प्रसङ्गात् । तथा भक्त्या मद्-विषयेण परेण प्रेम्णा नित्य-युक्ताः सर्वदा संयुक्ताः एतेन सर्व-साधन-पौष्कल्यं प्रतिबन्धकाभावश् च दर्शितः ।
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतु ६।२३]
पतञ्जलिना चोक्तं ततः प्रत्यक्-चेतनाधिगमो ऽप्य् अन्तरायाभावश् च [य्स् १।२९] इति । तत ईश्वर-प्रणिधानात् प्रत्यक्-चेतनस्य त्वं-पोअद-लक्ष्यस्याधिगमः साक्षात्कारो भवति । अन्तरायाणां विघ्नानां चाभावो भवतीति सूत्रस्यार्थः ।
तद् एवं शम-दमादि-साधन-सम्पन्ना वेदान्त-श्रवण-मनन-परायणाः परमेश्वरे परम-गुरौ प्रेम्णा नमस्कारादिना च विगत-विघ्नाः परिपूर्ण-सर्व-साधनाः सन्तो माम् उपासते विजातीय-प्रत्ययानन्तरितेन सजातीय-प्रत्यय-प्रवाहेण श्रवण-मननोत्तर-भाविना सततं चिन्तयन्ति महात्मानः । अनेन निदिध्यासनं चरम-साधनं दर्शितम् । एतादृश-साधन-पौष्कल्ये सति यद् वेदान्त-वाक्यजम् अखण्ड-गोचरं साक्षात्कार-रूपम् अहं ब्रह्मास्मीति ज्ञानं तत्-सर्व-शङ्का-कलङ्कास्पष्टं सर्व-साधन-फल-भूतं स्वोत्पत्ति-मात्रेण दीप इव तमः सकलम् अज्ञानं तत्-कार्यं च नाशयतीति निरपेक्षम् एव साक्षान्-मोक्ष-हेतुर् न तु भूमि-जय-क्रमेण भ्रू-मध्ये प्राण-प्रवेशनं मूर्धन्यया नाड्या प्राणोत्क्रमणम् अर्चिर्-आदि-मार्गेण
ब्रह्म-लोक-गमनं तद्-भोगान्त-काल-विलम्बं वा प्रतीक्षते । अतो यत्-प्राक्-प्रतिज्ञातम् इदं तु ते गुह्यतमं प्रवक्ष्याम्य् उअनसूयवे ज्ञानम् इति तद् एतद् उक्तम् । फलं चास्याशुभान् मोक्षणं प्राग् उक्तम् एवेतीह पुनर् नोक्तम् । एवम् अत्रायं गम्भीरो भगवतो ऽभिप्रायः । उत्तानार्थ्यस् तु प्रकट एव ॥१४॥
विश्वनाथः - भजन्तीत्य् उक्तम् । तद्-भजनम् एव किम् इत्य् अत आह सततं सदेति नात्र कर्म-योग इव काल-देश-पात्र-शुद्धाद्य्-अपेक्षा कर्तव्येत्य् अर्थः ।
न देश-नियमस् तत्र न काल-नियमस् तथ ।
नोच्छिष्ठादौ निषेधो ऽ स्ति श्री-हरेर् नाम्नि लुब्धक ॥ इति स्मृतेः ।
यतन्तो यतमानः । यथा कुटुम्ब-पालनार्थं दीना गृहस्था धनिक-द्वारादौ धनार्थं यतन्ते, तथैव मद्-भक्ताः कीर्तनादि-भक्ति-प्राप्त्य्-अर्थं भक्त-सभादौ यतन्ते। प्राप्य च भक्तिम् अधीयमानम् शास्त्रम् पठत इव पुनः पुनर् अभ्यस्यन्ति च । एतावन्ति नाम-ग्रहणानि, एतावत्यः प्रणतयः, एतावत्यः परिचर्याश् चावश्य-कर्तव्या इत्य् एवं दृढानि व्रतानि नियमा येषां ते। यद् वा, दृढान्य् अपतितान्य् एकादश्य्-आदि-व्रतानि नियमा येषां ते।। नमस्यन्तश् च च-कारः श्रवण-पाद-सेवनाद्य्-अनुक्त-सर्व-भक्ति-सङ्ग्रहार्थः । नित्य-युक्ता भाविनं मन्-नित्य-संयोगम् आकाङ्क्षन्त आशंसायां भूतवच् चेति वर्तमाने ऽपि भूत-कालिकः क्त-प्रत्ययः । अत्र मां कीर्तयन्त एव माम् उपासत इति मत्-कीर्तनादिकम् एव मद्-उपासनम् इति वाक्यार्थः । अतो
माम् इति न पौन्रुक्त्यम् आशङ्कनीयम् ॥१४॥
बलदेवः - भक्ति-प्रकारम् आह सततम् इति द्वयेन । सततं सर्वदा देश-कालादि-विशुद्धि-नैरपेक्षेण मां कीर्तयन्तः सुधा-मधुराणि मम कल्याण-गुण-कर्मानुबन्धीनि गोविन्द-गोवर्धनोद्धरणादीनि नामान्य् उच्चैर् उच्चारयन्तो माम् उपासते । नमस्यन्तश्च् अ मद्-अर्चना-निकेतेषु गत्वा धूलि-पङ्काप्तेषु भू-तलेषु दण्डवत्-प्रणिपतन्तो भक्त्या प्रीति-भरेण । कीर्तयन्तो माम् उपासत इति मत्-कीर्तनादिकम् एव मद्-उपासनम् इति वाक्यार्थः । अतो माम् इति न पौनरुक्त्यम् । च-शब्दो ऽनुक्तानां श्रवणार्चन-वन्दनादीनां समुच्चायकः । यतन्तः समानाशयैः साधुभिः सार्धं मत्-स्वरूप-गुणादि-याथात्म्य-निर्णयाय यतमानाः । दृढ-व्रता दृढान्य् अस्खलितान्य् एकादशी-जन्माष्टम्य्-उपोषणादीनि व्रतानि येषां ते । नित्य-युक्ता भाविनं
मन्-नित्य-संयोगं वाञ्छन्तः आशंसायां भूतवच् च [पाण् ३।३।१३२] इति सूत्राद् वर्तमाने ऽपि भूत-कालिक-क्त-प्रत्ययः ॥१४॥
९।१५
ज्ञान-यज्ञेन चाप्य् अन्ये यजन्तो माम् उपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतो-मुखम् ॥१५॥
श्रीधरः - किं च ज्ञानेति । वासुदेवः सर्वम् इत्य् एवं सर्वात्मत्व-दर्शनं ज्ञानम् । तद् एव यज्ञः । तेन ज्ञान-यज्ञेन मां यजन्तं पूजयन्तो ऽन्ये ऽप्य् उपासते । तत्रापि केचिद् एकत्वेनाभेद-भावनया । केचित् पृथक्त्वेन पृथग्-भावनया दासो ऽहम् इति । केचित् तु विश्वतो-मुखं सर्वात्मकं मां बहुधा ब्रह्म-रुद्रादि-रूपेणोपासते ॥१५॥
मधुसूदनः - इदानीं ये एवम् उक्त-श्रवण-मनन-निदिध्यासनासमर्थास् ते ऽपि विविधा उत्तमा मध्यमा मन्दाश् चेति सर्वे ऽपि स्वानुरूप्येण माम् उपासत इत्य् आह ज्ञान-यज्ञेनेति । अन्ये पूर्वोक्त-साधनानुष्ठानासमर्था ज्ञान-यज्ञेन त्वं वा अहम् अस्मि भगवो देवते अहं वै त्वम् असि इत्य् आदि-श्रुत्य्-उक्तम् अहङ्ग्रहोपासनं ज्ञानं स एव परमेश्वर-यजन-रूपत्वाद् यज्ञस् तेन । च-कार एवार्थे । अपि-शब्दः साधनान्तर-त्यागार्थः । केचित् साधनान्तर-निस्पृहाः सन्त उपास्योपासकाभेद-चिन्ता-रूपेण ज्ञान-यज्ञेनैकत्वेन भेद-व्यावृत्त्या माम् एवोपासते चिन्तयन्त्य् उत्तमाः । अन्ये तु केचिन् मध्यमाः पृथक्त्वेनोपास्योपासकयोर् भेदेन आदित्यो ब्रह्मेत्य् आदेशः [छाउ ३।१९।१] इत्य् आदि-श्रुत्य्-उक्तेन प्रतीकोपासन-रूपेण ज्ञान-यज्ञेन माम् एवोपासते । अन्ये त्व् अहङ्ग्रहोपासने
प्रतीकोपासने वासमर्थाः केचिन् मन्दा काञ्चिद् अन्यां देवतां चोपासीनाः कानिचित् कर्माणि वा कुर्वाणा बहुधा तैस् तैर् बहुभिः प्रकारैर् विश्व-रूपं सर्वात्मानं माम एवोपासते । तेन तेन ज्ञान-यज्ञेनेति उत्तरोत्तराणां क्रमेण पूर्व-पूर्व-भूमि-लाभः ॥१५॥
विश्वनाथः — तद् एवम् अत्राध्याये पूर्वाध्याये चानन्य-भक्त एव महात्म-शब्द-वाच्य आर्तादि-सर्व-भक्तेभ्यो न्यूनाः । अहङ्ग्रहोपासकाः प्रतीकोपासका विश्वरूपोपासकास् तान् दर्शयति ज्ञान-यज्ञेनेति । अन्ये न महात्मनः पूर्वोक्त-साधनानुष्ठानासमर्थः इत्य् अर्थः । ज्ञान-यज्ञेन त्वं वा अहम् अस्मि भगवो देवता अहं वै त्वम् असि इत्य् आदि श्रुत्य्-उक्तम् अहङ्ग्रहोपासनं ज्ञानम् । स एव परमेश्वर-यजन-रूपत्वाद् यज्ञस् तेन । च-कार एवार्थे । अपि शब्दः साधनान्तर-त्यागार्थः । एकत्वेन उपास्योपासकयोर् अभेद-चिन्तन-रूपेण । ततो ऽपि न्यूना अन्ये पृथक्त्वेन भेद-चिन्तन-रूपेण आदित्यो ब्रह्मेत्य्-आदेशः [छाउ ३।१९।१] इत्य् आदि श्रुत्य्-उक्तेन प्रतीकोपासनेन ज्ञान-यज्ञेन । अन्ये ततो ऽपि मन्दा बहुधा बहुभिः प्रकारैर् विश्वतोमुखं विश्व-रूपं सर्वात्मानं
माम एवोपासते इति मधुसूदन-सरस्वती-पादानां व्याख्या ।
अत्र नादेवो देवम् अर्चयेत् इति तान्त्रिक-दृष्ट्या गोपालो ऽहम् इति भावनावत्त्वे या गोपालोपासना सा अहङ्ग्रहोपासना । तथा यः परमेश्वरो विष्णुः स हि सूर्य एष नान्यः । स हि इन्द्र एव नान्यः । स हि सोम एव नान्यः इत्य् एवं भेदेनैकस्या एव भगवद्-विभूतेर् या उपासना सा प्रतीकोपासना । विष्णुः सर्व इति समस्त-विभूत्य्-उपासना विश्वरूपोपासनेति ज्ञान-यज्ञस्य त्रैविध्यम् । यद् वा एकत्वेन पृथक्त्वेन इत्य् एक एव अहङ्ग्रहोपासना गोपालो ऽहं गोपालस्य दासो ऽहम् इत्य् उभय-भावना-मयी समुद्र-गामिनी नदीव समुद्र-भिन्नो ऽभिन्ना चेति । तदा च ज्ञान-यज्ञस्य त्रैविध्यम् ॥१५॥
बलदेवः – एवं केवल-स्वरूप-निष्ठान् कीर्तनादि-शुद्ध-भक्ति-प्रधानान् महात्म-शब्दितान् अभिधाय गुणी-भूत-तत्-कीर्तनादि-ज्ञान-प्रधानान् भक्तान् आह ज्ञानेति । पूर्वतो ऽन्ये केचन भक्ताः पूर्वोक्तेन कीर्तनादि-ज्ञान-यज्ञेन च यजन्तो माम् उपासते । तत्र प्रकारम् आह बहुधा बहु-प्रकारेण पृथक्त्वेन प्रपञ्चाकारेण प्रधान-महद्-आद्यात्मना विश्वतोमुखम् इन्द्रादि-दैवतात्मना चावस्थितं माम् एकत्वेनोपासते । अयम् अत्र निष्कर्षः - सूक्ष्म-चिद्-अचिच्-छक्तिमान् सत्य-सङ्कल्पः कृष्णो बहु स्याम् इति स्वीयेन सङ्कल्पेन स्थूल-चिद्-अचिच्-छक्तिमान् एक एव ब्रह्मादि-स्तम्बान्त-विचित्र-जगद्-रूपतयावतिष्ठत इत्य् अनुसन्धिना तादृशस्य मम कीर्तनादिना च माम् उपासत इति ॥१५॥
९।१६-१९
अहं क्रतुर् अहं यज्ञः स्वधाहम् अहम् औषधम्
मन्त्रो ऽहम् अहम् एवाज्यम् अहम् अग्निर् अहं हुतम् ॥१६॥
पिताहम् अस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रम् ओङ्कार ऋक् साम यजुर् एव च ॥१७॥
गतिर् भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजम् अव्ययम् ॥१८॥
तपाम्य् अहम् अहं वर्षं निगृह्णाम्य् उत्सृजामि च ।
अमृतं चैव मृत्युश् च सद् असच् चाहम् अर्जुन ॥१९॥
श्रीधरः - सर्वात्मतां प्रपञ्चयति अहं क्रतुर् इति चतुर्भिः । क्रतुः श्रौतो ऽग्निष्टोमादिः । यज्ञः स्मार्तः पञ्च-महा-यज्ञादिः । स्वधा पित्र्य्-अर्थं श्राद्धादिः । औषधम् औषधि-प्रभवम् अन्नम् । भेषजं वा । मन्त्रो याज्य-पुरोधो-वाक्यादिः । आज्यं होमादि-साधनम् । अग्निर् आहवनीयादिः । हुतं होमः । एतत् सर्वम् अहम् एव ॥१६॥
किं च पितेति । धाता कर्म-फल-विधाता । वेद्यं ज्ञेयं वस्तु । पवित्रं शोधकम् । प्रायश्चित्तात्मकं वा । ओङ्कारः प्रणवः । ऋग्-आदयो वेदाश् चाहम् एव । स्पष्टम् अन्यत् ॥१७॥
किं च गतिर् इति । गम्यत इति गतिः फलम् । भर्ता पोषण-कर्ता । प्रभुर् नियन्ता । साक्षी शुभाशुभ-द्रष्टा । निवासो भोग-स्थानम् । शरणं रक्षकः । सुहृद् धित-कर्ता । प्रकर्षेण भवत्य् अनेनेति प्रभवः स्रष्टा । प्रलीयते ऽनेनेति प्रलयः संहर्ता । तिष्ठत्य् अस्मिन्न् इति स्थानम् आधारः । निधीयते ऽस्मिन्न् इति निधानं लय-स्थानम् । बीजं कारणम् । तथाप्य् अव्ययम् अविनाशि । न तु ब्रीह्य्-आदि-बीजवन् नश्वरम् इत्य् अर्थः ॥१८॥
किं च तपाम्य् अहम् इति । आदित्यात्मना स्थित्वा निदाघ-काले तपामि जगतस् तापं करोमि । वृष्टि-समये च वर्षम् उत्सृजामि विमुञ्चामि । कदाचित् तु वर्षं निगृह्णाम्य् आकर्षामि । अमृतं जीवनं मृत्युश् च नाशः । सत् स्थूलं दृश्यम् । असच् च सूक्ष्म-दृश्यम् । एतं सर्वम् अहम् एवेति । एवं मत्वा माम् एव बहुधोपासत इति पूर्वेनैवान्वयः ॥१९॥
मधुसूदनः - यदि बहुधोपासते तर्हि कथं त्वाम् एवेत्य् आशङ्क्यात्मनो विश्वरूपत्वं प्रपञ्चयति चतुर्भिः अहम् इति । सर्वस्व-रूपो ऽहम् इति वक्तव्ये तत् तद् एक-देश-कथनम् अवयुत्यानुवादेन वैश्वानरे द्वादशक-पाले ऽष्टाकपालत्वादि-कथनवत् । क्रतुः श्रौतो ऽग्निष्टोमादिः । यज्ञाः स्मार्तो वैश्वदेवादिर् महा-यज्ञत्वेन श्रुति-स्मृति-प्रसिद्धः । स्वधा ऽन्नं पितृभ्यो दीयमानम् । औषधम् औषधि-प्रभवम् अन्नं सर्वैः प्राणिभिर् भुज्यमानं भेषजं वा । मन्त्रो याज्यापुरोनुवाक्यादिर् येनोद्दिश्य हविर् दीयते देवेभ्यः । आज्यं घृतं सर्व-हविर् उपलक्षणम् इदम् । अग्निर् आहवनीयादिर् हविष्प्रक्षेपाधिकरणम् । हुतं हवनं हविष्प्रक्षेपः एतत् सर्वम् अहं परमेश्वर एव । एतद् एकैक-ज्ञानम् अपि भगवद्-उपासनम् इति कथयितुं प्रत्येकम् अहं-शब्दः
। क्रिया-कारक-फल-जातं किम् अपि भगवद् अतिरिक्तं नास्तीति सौमायार्थः ॥१६॥
किं च । अस्य जगतः सर्वस्य प्राणि-जातस्य पिता जनयिता । माता जनयित्री । धाता पोषयिता तत्-तत्-कर्म-फल-विधाता वा । पितामहः पितुः पिता । वेद्यं वेदयितव्यं वस्तु । पूयते ऽनेनेति पवित्रं पावनं शुद्धि-हेतुर् गङ्गा-स्नान-गायत्री-जपादि । वेदितव्ये ब्रह्मणि वेदन-साधनम् ओङ्कारः । नियताक्षर-पादा ऋक् । गीति-विशिष्टा सैव साम । साम-पदं तु गीति-मात्रस्यैवाभिधायकम् इत्य् अन्यत् । गीति-रहितम् अनियताक्षरं यजुः । एतत् त्रिविधं मन्त्र-जातं कर्मोपयोगि । च-काराद् अथर्वाङ्गिरसो ऽपि गृह्यन्ते । एव-कारो ऽहम् एवेत्य् अवधारणार्थः ॥१७॥
किं च गतिर् इति । गम्यत इति गतिः कर्म-फलम् ।
ब्रह्मा विश्व-सृजो धर्मो महान् अव्यक्तम् एव च ।
उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः ॥ इत्य् [मनु १२।५०] एवं मन्वाद्य्-उक्तम् ।
भर्ता पोष्टा सुख-साधनस्यैव दाता । प्रभुः स्वामी मदीयो ऽयम् इति स्वीकर्ता । साक्षी सर्व-प्राणिनां शुभाशुभ-द्रष्टा । निवसन्त्य् अस्मिन्न् इति निवासो भोग-स्थानम् । शीर्यते दुःखम् अस्मिन्न् इति शरणं प्रपन्नानाम् आर्ति-हृत् । सुहृत् प्रत्युपकारानपेक्षः सन्नुपकारी । प्रभव उत्पत्तिः । प्रलयो विनाशः । स्थानं स्थित्ः । यद् वा प्रकर्षेण भवन्त्य् अनेनेति प्रभवः स्रष्टा । प्रकर्षेण लीयन्ते ऽनेनेति प्रलयः संहर्ता । तिष्ठन्त्य् अस्मिन्न् इति स्थानम् आधारः । निधीयते निक्षिप्यते तत्-काल-भोग्यतया कालान्तरोपभोग्यं वस्त्व् अस्मिन्न् इति निधानं सूक्ष्म-रूप-सर्व-वस्त्व्-अधिकरणं प्रलय-स्थानम् इति यावत् । शङ्ख-पद्मादि-निधिर् वा । बीजम् उत्पत्ति-कारणम् । अव्ययम् अविनाशि न तु ब्रीह्य्-आदिवद् विनश्वरम् । तेनानाद्य्-अनन्तं यत् कारणं तद् अप्य्
अहम् एवेति पूर्वेणैव सम्बन्धः ॥१८॥
किं च तपाम्य् अहम् इति । तपाम्य् अहम् आदित्यः सन् । ततश् च ताप-वशाद् अहं वर्षं पूर्व-वृष्टि-रूपं रसं पृथिव्या निगृह्णाम्य् आकर्षामि कैश्चिद् रश्मिभिर् अष्टसु मासेषु । पुनस् तम् एव निगृहीतं रसं चतुर्षु मासेषु कैश्चिद् रश्मिभिर् उत्सृजामि च वृष्टि-रूपेण प्रक्षिपामि च भूमौ । अमृतं च देवानां सर्व-प्राणिनां जीवनं वा । एव-कारस्याहम् इत्य् अनेन सम्बन्धः । मृत्युश् च मर्त्यानां सर्व-प्राणिनां विनाशो वा । सत् यत् सम्बन्धितया यद् विद्यते तत् तत्र सत् । असच् च यत्-सम्बन्धितया यच् च विद्यते तत् तत्रासत् । एतं सर्वम् अहम् एव हे ऽर्जुन । तस्मात् सर्वात्मानं मां विदित्वा स्व-स्वाधिकारानुसारेण बहुभिः प्रकारैर् माम् एवोपासत इत्य् उपपन्नम् ॥१९॥
विश्वनाथः — बहुधोपासते कथं त्वाम् एवेत्य् आशङ्क्यात्मनो विश्वरूपत्वं प्रपञ्चयति चतुर्भिः । क्रतुः श्रौतो ऽग्निष्टोमादिः यज्ञः स्मार्तो वैश्वदेवादिः । औषधम् औषधि-प्रभवम् अन्नम् । पिता व्यष्टि-समष्टि-सर्व-जगद्-उत्पादनात् । माता जगतो ऽस्य स्वकुक्षि-मध्य एव धारणात् । धाता जगतो ऽस्य पोषणात् । पितामहः जगत् स्रष्टुः ब्रह्मणो ऽपि जनकत्वात् । वेद्यं ज्ञेयं वस्तु । पवित्रं शोधकं वस्तु । गतिः फलम् । भर्ता पतिः । प्रभुर् नियन्ता । साक्षी शुभाशुभ-द्रष्टा । निवास आस्पदम् । शरणं विपद्भ्यस् त्राता । सुहृन् निरुपाधि-हित-कारी । प्रभवाद्याः सृष्टि-संहार-स्थितयः क्रियाश् चाहम् । निधानं निधिः पद्म-शङ्खादिः । बीजं कारणम् । अव्ययम् अविनाशि न तु ब्रीह्य्-आदिवन् नश्वरम् ॥१६-१८॥
आदित्यो भूत्वा निदाघे तपामि प्रावृषि वर्षम् उत्सृजामि । कदाचिच् चैव ग्रह-रूपेण वर्षं निगृह्णामि च । अमृतं मोक्षं मृत्युः संसारः । सद् असत् स्थूल-सूक्ष्मः । एतत् सर्वम् अहम् एवेति मत्वा विश्वतोमुखं माम् उपासत इति पूर्वेनान्वयः ॥१९॥
बलदेवः - अहम् एव जग-रूपतयावस्थित इत्य् एतत् प्रदर्शयति अहम् इति चतुर्भिः । क्रतुर् ज्योतिष्टोमादिः श्रौतो, यज्ञो वैश्वदेवादिः स्मार्तः । स्वधा पित्र्-अर्थे श्राद्धादिः । औषधम् भेषजम् औषधि-प्रभवम् अन्नं वा । मन्त्रो याज्यापुरो नु वाक्यादिर् येनोद्दिश्य हविर् देवेभ्यो दीयते । आज्यं घृत-होमादि-साधनम् । अग्निर् होमादि-कारणम् आहवनीयादिः । हुतं होमो हविः-प्रक्षेपः । एतत् सर्वात्मनाहम् एवास्थितः । पिताहम् इति । अस्य स्थिर-चरस्य जगतस् तत्र तत्र पितृत्वेन मातृत्वेन पितामहत्वेन चाहम् एव स्थितः । धाता धारकत्वेन पोषकत्वेन च तत्र तत्र स्थितो राजादिश् चाहम् एव चिद्-अचिच्-छक्तिमतस् तद्-अन्तर्यामिणो मत् तेषाम् अनतिरेकात् वेद्यं ज्ञेयं वस्तु पवित्रं शुद्धिकरं गङ्गादि-वारि । ज्ञेये ब्रह्मणि ज्ञान-हेतुर् ओङ्कारः सर्व-वेद-बीज-भूतः । ऋग्-आदिस्
त्रिविधो वेदश् च-शब्दाद् अथर्व च ग्राह्यम् । तेषु नियताक्षरः पादा ऋक्, सैव गीति-विशिष्टा साम, साम-पदं तु गीतिमात्रस्यैव वाचकम् इत्य् अन्यत् । गीति-शून्यम् अमिताक्षरं यजुः । एतत् त्रिविधं कर्मोपयोगि-मन्त्र-जातम् अहम् एवेत्य् अर्थः ।
गतिः साध्य-साधन-भूता गम्यत इयम् अनया च इति निरुक्तेः । भर्ता पतिः । प्रभुर् नियन्ता । साक्षी शुभाशुभ-द्रष्टा । निवासो भोग-स्थानं निवसत्य् अत्र इति निरुक्तेः । शरणं प्रपन्नार्ति-हृत शीर्ष्यते दुःखम् अस्मिन् इति निरुक्तेः । सुहृन् निमित्त-हित-कृत् । प्रभवाद्याः स्वर्ग-प्रलय-स्थितयः क्रियाः । निधानं निधिर् महा-पद्मादिर् नव-विधः । बीजं कारणम् अव्ययम् अविनाशि । न तु ब्रीह्य्-आदिवद् विनाशि ।
तपामीति । सूर्य-रूपेणाहम् एव निदाघे जगत् तपामि । प्रावृषि वर्षम् जलं विसृजामि मेघ-रूपेण वर्षं निगृह्णामि आकर्षामि । अमृतं मोक्षं । मृत्युः संसारः । सत् स्थूलं । असत् सूक्ष्मम् । एतत् सर्वम् अहम् एव तथा चैवं बहुविध-नाम-रूपावस्थ-निखिल-जगद्-रूपतया स्थित एक एव शक्तिमान् वासुदेव इत्य् एकत्वानुसन्धिना ज्ञान-यज्ञेन चैके यजन्तो माम् उपासते ॥१६-१९॥
९।२०
त्रैविद्या मां सोमपाः पूत-पापा
यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते ।
ते पुण्यम् आसाद्य सुरेन्द्र-लोकम्
अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥२०॥
श्रीधरः - तद् एवम् अवजानन्ति मां मूढा इत्य् आदि श्लोक-द्वयेन क्षिप्र-फलाशया देवतान्तरं यजन्तो मां नाद्रियन्त इत्य् अभक्ता दर्शिताः । महात्मानस् तु मां पार्थेत्य् आदिना च मद्-भक्ता उक्ताः । तत्रैकत्वेन पृथक्त्वेन वा ये परमेश्वरं न भजन्ति तेषां जन्म-मृत्यु-प्रवाहो दुर्वार इत्य् आह त्रैविद्या इति द्वाभ्याम् । ऋग् यजुः साम लक्षणास् तिस्रो विद्यायेषां ते त्रिविद्याः । त्रिविद्या एव त्रैविद्याः । स्वार्थे तद्-धितः । त्रिस्रो विद्या अधीयते जानन्ति वा । त्रैविद्या वेद-त्रयोक्त-कर्म-पराः इत्य् अर्थः । वेद-त्रय-विहित-यज्ञैर् माम् इष्ट्वा ममैव रूपं देवतानतरम् इत्य् अजानन्तो ऽपि वस्तुत इन्द्रादि-रूपेण माम् एवेष्ट्वा सम्पूज्य । यज्ञ-शेषं सोमं पिबन्तीति सोमपाः । तेनैव पूत-पापाः शोधित-कल्मषाः सन्तः स्वर्गतिं स्वर्गं प्रति गतिं
ये प्रार्थयन्ते ते पुण्य-फल-रूपं सुरेन्द्र-लोकं स्वर्गम् आसाद्य प्राप्य । दिवि स्वर्गे । दिव्यानुत्तमान् देवानां भोगान् । अश्नन्ति भुञ्जते ॥२०॥
मधुसूदनः - एवम् एकत्वेन पृथक्त्वेन बहुधा चेति त्रिविधा अपि निष्कामाः सन्तो भगवन्तम् उपासीनाः सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेण क्रमेण मुच्यन्ते । ये तु सकामाः सन्तो न केनापि प्रकारेण भगवन्तम् उपासते किन्तु स्व-स्व-काम-साधनानि काम्यान्य् एव कर्माण्य् अनुतिष्ठन्ति ते सत्त्व-शोधकाभावेन ज्ञान-साधनम् अनधिरूणाः पुनः पुनर् जन्म-मरण-प्रबन्धेन सर्वदा संसार-दुःखम् एवानुभवन्तीत्य् आह त्रैविद्येति द्वाभ्याम् ।
ऋग्-वेद-यजुर्-वेद-साम-वेद-लक्षणा हौत्राध्वर्य-वौद्गात्र-प्रतिपत्ति-हेतवस् तिस्रो विद्या येषां ते त्रि-विद्यास् त्रि-विद्या एव स्वार्थिक-तद्-धितेन त्रैविद्यास् तिस्रो विद्या विदन्तीत् वा वेद-त्रय-विदो याज्ञिका यज्ञैर् अग्निष्टोमादिभिः क्रमेण सवन-त्रये वसु-रुद्राद् इत्य् अरूपिणं माम् ईश्वरम् इष्ट्वा तद्-रूपेण माम् अजानन्तो ऽपि वस्तु-वृत्तेन पूजयित्वाभिषुत्य हुत्वा च सोमं पिबन्तीति सोमपाः सन्तस् तेनैव सोम-पानेन पूत-पापा निरस्त-स्वर्ग-भोग-प्रतिबन्धक-पापाः सकामतया स्वर्-गतिं प्रार्थयन्ते न तु सत्त्व-शुद्धि-ज्ञानोत्पत्त्य्-आदि । ते दिवि स्वर्गे लोके पुण्यं पुण्य-फलं सर्वोत्कृष्टं सुरेन्द्र-लोकं शत-क्रतोः स्थानम् आसाद्य दिव्यान् मनुष्यैर् अलभ्यान् देव-भोगान् देव-देहोपभोग्यान् कामान् अश्नन्ति भुञ्जते ॥२०॥
विश्वनाथः — एवं त्रिविधोपासनावन्तो ऽपि भक्ता एव माम् एव परमेश्वरं जानन्तो मुच्यन्ते । ये तु कर्मिणस् ते न मुच्यन्त एवेत्य् आह द्वाभ्यां त्रैविद्या इति । ऋग्-यजुः-साम-लक्षणास् तिस्रो विद्या अधीयन्ते जानन्ति वा त्रैविद्या वेद-त्रयोक्त-कर्म-परा इत्य् अर्थः । यज्ञैर् माम् इष्ट्वेन्द्रादयो ममैव रूपाणि इत्य् अजानन्तो ऽपि वस्तुत इन्द्रादि-रूपेण माम् एवेष्ट्वा यज्ञ-शेषं सोमं पिबन्तीति सोमपास् ते पुण्यं प्राप्य ॥२०॥
बलदेवः - एवं स्वभक्तानां वृत्तम् अभिधाय तेषाम् एव विशेषं बोधयितुं स्व-विमुखानां वृत्तिम् आह त्रैविद्या इति द्वाभ्याम् । तिसॄणां विद्यानां समाहारस् त्रिविद्यं । तद् ये ऽधीयन्ते विदन्ति च ते त्रैविद्याः । तद् अधीते तद् वेद इति सूत्राद् अण् । ऋग्-यजुः-सामोक्त-कर्म-परा इत्य् अर्थः । त्रयी-विहितैर् ज्योतिष्टोमादिभिर् यज्ञैर् माम् इष्ट्वेन्द्रादयो ममैव रूपाण्य् अविद्वन्तो ऽपि वस्तुतस् तत्-तद्-रूपेणावस्थितं माम् एवारध्येत्य् अर्थः । सोमपा यज्ञ-शेषं सोमं पिबन्तः । पूत-पापा विनष्ट्-स्वर्गादि-प्राप्ति-विरोध-कल्मषाः सन्तो ये स्वर्गतिं प्रार्थयन्ते ते पुण्यम् इत्य् आदि विस्फुटार्थः । मयैव दत्तम् इति शेषः ॥२०॥
९।२१
ते तं भुक्त्वा स्वर्ग-लोकं विशालं
क्षीणे पुण्ये मर्त्य-लोकं विशन्ति ।
एवं त्रयी-धर्मम् अनुप्रपन्ना
गतागतं काम-कामा लभन्ते ॥२१॥
श्रीधरः - ततश् च ते तम् इति । ते स्वर्ग-कामास् तं प्रार्थितं विपुलं स्वर्ग-लोकं तत्-सुखं भुक्त्वा भोग-प्रापके पुण्ये क्षीणे सति मर्त्य-लोकं विशन्ति । पुनर् अप्य् एवम् एव वेद-त्रय-विहितं धर्मम् अनुगताः काम-कामा भोगान् कामयमाना गतागतं यातायातं लभन्ते ॥२१॥
मधुसूदनः - ततः किम् अनिष्टम् इति तदाह ते तम् इति । ते सकामास् तं काम्येन पुण्येन प्राप्तं विशालं विस्तीर्णं स्वर्ग-लोकं भुक्त्वा तद्-भोग-जनके पुण्ये क्षीणे सति तद्-देह-नाशात् पुनर् देह-ग्रहणाय मर्त्य-लोकं विशन्ति पुनर् गर्भ-वासादि-यातना अनुभवन्तीत्य् अर्थः । पुनः पुनर् एवम् उक्त-प्रकारेण । हिः प्रसिद्ध्य्-अर्थः । त्रैधर्म्यं हौत्राध्वर्यवौद्गात्र-धर्म-त्रयाह ज्योतिर्ष्टोमादिकं काम्यं कर्म । त्रयी-धर्मम् इति पाठे ऽपि त्रय्या वेद-त्रयेण प्रतिपादितं धर्मम् इति स एवार्थः । अनुपपन्ना अनादौ संसारे पूर्व-प्रतिपत्त्य्-अपेक्षयानु-शब्दः । पूर्व-प्रतिपत्त्य्-अनन्तरं मनुष्य-लोकम् आगत्य पुनः प्रतिपन्नाः । काम-कामा दिव्यान् भोगान् कामयमाना एवं गतागतं लभन्ते कर्म कृत्वा स्वर्गं यान्ति तत आगत्य पुनः कर्म कुर्वन्तीत्य्
एवं गर्भ-वासादि-यातना-प्रवाहस् तेषाम् अनिशम् अनुवर्तत इत्य् अभिप्रायः ॥२१॥
विश्वनाथः — गतागतं पुनः पुनर् मृत्यु-जन्मनी ॥२१॥
बलदेवः - ततश् च ते तम् इति ते स्वर्ग-प्रार्थकाः प्रार्थितं तं स्वर्ग-लोकं भुक्त्वा तत्-प्रापके पुण्ये क्षीणे सति मर्त्य-लोकं विशन्ति पञ्चाग्नि-विद्योक्त-रीत्या भुवि ब्राह्मणादि-जन्मानि लभन्ते पुनर् अप्य् एवम् एव त्रयी-विहितं धर्मम् अनुतिष्ठन्तः काम-कामाः स्वर्ग-भोगेच्छवो गतागतं लभन्ते संसरन्तीत्य् अर्थः ॥२१॥
९।२२
अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥२२॥
श्रीधरः - मद्-भक्तास् तु मत्-प्रसादेन कृतार्था भवन्तीत्य् आह अनन्याः इति । अनन्या नास्ति मद्-व्यतिरेकेणान्यत् कामयं येषां ते । तथाभूता ये जना मां चिन्तयन्तः सेवन्ते तेषां नित्याभियुक्तानां सर्वदा मद्-एक-निष्ठानां योगं धनादि-लाभं क्षेमं च तत्-पालनं मोक्षं वा । तैर् अप्रार्थितम् अप्य् अहम् एव वहामि प्रापयामि ॥२२॥
मधुसूदनः - निष्कामाः सम्यग्-दर्शिनस् तु अनन्या इति । अन्यो भेद-दृष्टि-विषयो न विद्यते यषां ते ऽनन्याः सर्वाद्वैत-दर्शिनः सर्व-भोग-निःस्पृहाः । अहम् एव भगवान् वासुदेवः सर्वात्मा न मद्-व्यतिरिक्तं किञ्चिद् अस्तीति ज्ञात्वा तम् एव प्रत्यञ्चं सदा चिन्तयन्तो मां नारायणम् आतत्वेन ये जनाः साधन-चतुष्टय-सम्पन्नाः सन्न्यासिनः परि सर्वतो ऽनवच्छिन्नतया पश्यन्ति ते मद्-अनन्यतया कृतकृत्या एवेति शेषः ।
अद्वैत-दर्शन-निष्ठानाम् अत्यन्त-निष्कामानां तेषां स्वयम् अप्रयतमानां कथं योग-क्षेमौ स्याताम् इत्य् अत आह तेषां नित्याभियुक्तानां नित्यम् अनवरतम् आदरेण ध्याने व्यापृतानां देह-यात्रा-मात्रार्थम् अप्य् अप्रयतमानानां योगं च क्षेमं च । अलब्धस्य लाभं लब्धस्य परिरक्षणं च शरीर-स्थित्य्-अर्थं योग-क्षेमम् अकामयमानानाम् अपि वहामि प्रापयाम्य् अहं सर्वेश्वरः ।
तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते ।
प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥ [गीता ७।१७] इति ह्य् उक्तम् ।
यद्यपि सर्वेषाम् अपि योग-क्षेमं वहति भागवांस् तथाप्य् अन्येषां प्रयत्नम् उत्पाद्य तद्-द्वारा वहति ज्ञानिनां तु तद्-अर्थं प्रयत्नम् उत्पाद्य वहतीति विशेषः ॥२२॥
विश्वनाथः — मद्-अनन्य-भक्तानां सुखं तु न कर्म-प्राप्यं किन्तु मद्-दत्तम् एवेत्य् आह अनन्या इति । नित्यम् एव सदैवाभियुक्तानां पण्डितानाम् इति तद् अन्ये नित्यम् अपण्डिता इति भावः । यद् वा नित्य-संयोग-स्पृहावतां योगो धनादि-लाभः क्षेमं तत्-पालनं च तैर् तैर् अनपेक्षितम् अप्य् अहम् एव वहाम्य् अत्र करोमीत्य् अप्रयुज्य वहामीति प्रयोगात् तेषां शरीर-पोषण-भारो मयैवोह्यते यथा स्वकलत्र-पुत्रादि-पोषण-भारो गृहस्थेनेति भावः । न च अन्येषाम् इव तेषाम् अपि योग-क्षेमं कर्म-प्राप्यम् एवेत्य् अत आत्मारामस्य सर्वेतोदासीनस्य परमेश्वरस्य तव किं तद्-वहनेनेति वाच्यम् । भक्तिर् अस्य भजनं तद् इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् । इति श्रुतेर् मद्-अन्य-भक्तानां निष्कामत्वेन नैष्कर्म्यात् तेषु दृष्टं
सुखं मद्-दत्तम् एव । तत्र मम सर्वत्रोदासीनस्यापि स्व-भक्त-वात्सल्यम् एव हेतुर् ज्ञेयः । न चैवं त्वयि स्वेष्ट-देवे स्व-निर्वाह-भारं ददानास् ते भक्ताः प्रेम-शून्या इति वाच्यम् । तैर् मयि स्व-भारस्य सर्वथैवानर्पणात् मयैव स्वेच्छया ग्रहणात् । न च सङ्कल्प-मात्रेण विश्व-सृष्ट्य्-आदि कर्तुं ममायं भारो ज्ञेयः । यद् वा भक्त-जनासक्तस्य मम स्व-भोग्य-कान्ताभार-वहनम् इव तदीय-योग-क्षेम-वहनम् अतिसुख-प्रदम् इति ॥२२॥
बलदेवः - अथ स्व-भक्तानां विशेषअ निरूपयति अनन्या इति । ये जना अनन्या मद्-एक-प्रयोजना मां चिन्तयन्तो ध्यायन्तः परितः कल्याण-गुण-रत्नाश्रयतया विचित्राद्भुत-लीला-पीयूषाश्रयतया दिव्य-विह्बूत्य्-आश्रयतया चोपासते भजन्ति तेषां नित्यं सर्वदैव मय्य् अभियुक्तानां विस्मृत-देह-यात्राणाम् अहम् एव योग-क्षेमम् अन्नाद्य्-आहरणं तत्-संरक्षणं च वहामि । अत्र करोमीत्य् अनुक्त्वा वहामीत्य् उक्तिस् तु तत्-पोषण-भारो मयैव वोढव्यो गृहस्थस्येव कुटुम्ब-पोषण-भार इति व्यनक्ति । एवम् आह सूत्रकारः स्वामिनः फल-श्रुतेर् इत्य् आत्रेयः [व्स् ३।४।४४] इति । अत्राहुः तेषां नित्यं मया सार्धम् अभियोगं वाञ्छतां योगं मत्-प्राप्ति-लक्षणं क्षेमं च मत्तो ऽपुनर्-आवृत्ति-लक्षणम् अहम् एव वहामि । तेषां मत्-प्रापण-भारो ममैव
। न त्व् अर्चिर्-आदेर् देव-गणस्येति । एवम् एवाभिधास्यति द्वादशे - ये तु सर्वाणि कर्माणि इत्य् आदि-द्वयेन । सूत्रकारो ऽप्य् एवम् आह विशेषं च दर्शयति [व्स् ४।३।१६] इति ॥२२॥
९।२३
ये ऽप्य् अन्य-देवता-भक्ता यजन्ते श्रद्धयान्विताः ।
ते ऽपि माम् एव कौन्तेय यजन्त्य् अविधि-पूर्वकम् ॥२३॥
श्रीधरः - ननु च त्वद्-व्यतिरेकेण वस्तुतो देवतान्तरस्याभावादिन्द्रादि-सेविनो ऽपि त्वद्-भक्ता एवेति कथं ते गतागतं लभेरन् ? तत्राह ये ऽपीति । श्रद्धयोपेता भक्ताः सन्तो ये जना अन्य-देवता इन्द्रादि-रूपा यजन्ते ते ऽपि माम् एव यजन्तीति सत्यं किन्तु अविधि-पूर्वकम् । मोक्ष-प्रापकं विधिं विना यजन्ति । अतस् ते पुनर् आवर्तन्ते ॥२३॥
मधुसूदनः - नन्व् अन्या अपि देवतास् त्वम् एव त्वद्-व्यतिरिक्तस्य वस्त्व्-अन्तरस्याभावात् । तथा च देवतान्तर-भक्ता अपि त्वाम् एव भजन्त इति न को ऽपि विशेषः स्यात् । तेन गतागतं काम-कामा वसु-रुद्रादित्यादि-भक्ता लभन्ते । अनन्याश् चिन्तयन्तो मां तु कृत-कृत्या इति कथम् उक्तं तत्राह ये ऽपीति । यथा मद्-भक्ता माम् एव यजन्ति तथा ये ऽन्य-देवतानां वस्व्-आदीनां भक्ता यजन्ते ज्योतिष्टोमादिभिः श्रद्धयास्तिक्य-बुद्ध्या ऽन्विताः । ते ऽपि मद्-भक्ता इव हे कौन्तेय तत्-तद्-देवता-रूपेण स्थितं माम् एव यजन्ति पूजयन्ति । अविधि-पूर्वकम् अविधिर् अज्ञानं तत्-पूर्वकं सर्वात्मत्वेन माम् अज्ञात्वा मद्-भिन्नत्वेन वस्त्व्-आदीन् कलपयित्वा यजन्तीत्य् अर्थः ॥२३॥
विश्वनाथः — ननु च ज्ञान-यज्ञेन चाप्य् अन्ये इत्य् अनेन त्वया स्वस्यैवोपासना त्रिविधोक्ता । तत्र बहुधा विश्वतो-मुखम् इति तृतीयाया उपासनाया ज्ञापनार्थम् । अहं क्रतुर् अहं यज्ञः इत्य् आदि स्वस्य विश्व-रूपत्वं दर्शितं । अतः कर्म-योगेन कर्माङ्ग-भूतेन्द्रादि-याजकास् तथा प्राधान्येनैव देवतान्तर-भक्ता अपि त्वद्-भक्ता एव । कथं तर्हि ते न मुच्यन्ते ? यद् उक्तं त्वया गतागतं काम-कामा लभन्ते इति । अन्तवत् तु फलं तेषाम् इति च । तत्राह ये ऽपीति सत्यं माम् एव यजन्तीति । किन्त्व् अविधि-पूर्वकम् मत्-प्रापकं विधिं विनैव यजन्त्य् अतः पुनर् आवर्तन्ते ॥२३॥
बलदेवः - नन्व् इन्द्रादि-याजिनो ऽपि वस्तुतस् त्वद्-याजिन एव तेषां कुतो गतागतम् इति चेत् तत्राह ये ऽपीति । ये जना अन्य-देवता-भक्ताः केवलेष्व् इन्द्रादिषु भक्तिमन्तः श्रद्धया अतएव फल-प्रदा इति दृढ-विश्वासेनोपेताः सन्तो यजन्ते यज्ञैस् तान् अर्चयन्ति । ते ऽपि माम् एव यजन्ति इति सत्यम् एतत् । किन्त्व् अविधि-पूर्वकं ते यजन्ति येन विधिना गतागत-निवर्तका मत्-प्राप्तिः स्यात् तं विधिं विनैव । अतस् तत् ते लभन्ते ॥२३॥
९।२४
अहं हि सर्व-यज्ञानां भोक्ता च प्रभुर् एव च ।
न तु माम् अभिजानन्ति तत्त्वेनातश् च्यवन्ति ते ॥२४॥
श्रीधरः - एतद् एव विवृणोति अहम् इति । सर्वेषां यज्ञानां तत्-तद्-देवता-रूपेणाहम् एव भोक्ता । प्रभुश् च स्वामी । फल-दाता चाप्य् अहम् एवेत्य् अर्थः । एवम्भूतं मां ते तत्त्वेन यथावन् नाभिजानन्ति । अतश् च्यवन्ति प्रच्यवन्ते पुनर् आवर्तन्ते । ये तु सर्व-देवतासु माम् एवातर्यामिनं पश्यन्तो यजन्ति ते तु नावर्तन्ते ॥२४॥
मधुसूदनः - अविधि-पूर्वकत्वं विवृण्वन् फल-प्रच्युतिम् अमीषाम् आह अहम् हीति । अहं भगवान् वासुदेव एव सर्वेषां यज्ञानां श्रौतानां स्मार्तानां च तत्-तद्-देवता-रूपेण भोक्ता च स्वेनान्तर्यामि-रूपेणाधियज्ञत्वात् प्रभुश् च फल-दाता चेति प्रसिद्धम् एतत् । देवतान्तर-याजिनस् तु माम् ईदृशं तत्त्वेन भोक्तृत्वेन प्रभुत्वेन च भगवान् वासुदेव एव वस्त्व्-आदि-रूपेण यज्ञानां भोक्ता स्वेन रूपेण च फल-दाता न तद्-अन्यो ऽस्ति कश्चिद् आराध्य इत्य् एवं-रूपेण न जानन्ति । अतो मत्-स्वरूपापरिज्ञानान् महतायासेनेष्ट्वापि मय्य् अनर्पित-कर्माणस् तत्-तद्-देव-लोकं धूमादि-मार्गेण गत्वा तद्-भोगान्ते च्यवन्ति प्रच्यवन्ते तद्-भोग-जनक-कर्म-क्षयात् तद्-देहादि-वियुक्ताः पुनर् देह-ग्रहणाय मनुष्य-लोकं प्रत्यावर्तन्ते । ये तु तत्-तद्-देवतासु भगवन्तम्
एव सर्वान्तर्यामिणं पश्यन्तो यजन्ते ते भगवद्-अर्पित-कर्माणस् तद्-विद्या-सहित-कर्म-वशाद् अर्चिर्-आदि-मार्गेण ब्रह्म-लोकं गत्वा तत्रोत्पन्न-सम्यग्-दर्शनास् तद्-भोगान्ते मुच्यन्त इति विवेकः ॥२४॥
विश्वनाथः — अविधि-पूर्वकत्वं एवाह अहम् इति । देवतान्तर-रूपेणाहम् एव भोक्ता प्रभुः स्वामी फल-दाता चाहम् एवति । मां तु तत्त्वेन न जानन्ति । यथा सूर्यस्याहम् उपासकः । सूर्य एव मयि प्रसीदतु । सूर्य एव मद्-अभीष्टं फलं ददातु । सूर्य एव परमेश्वर इति तेषां बुद्धिः । न तु परमेश्वरो नारायण एव सूर्यः । स एव तादृश-श्रद्धोत्पादकः । स एव मह्यं सूर्योपासना-फल-प्रदः । इति बुद्धि-रतस् तत्त्वतो मद्-अभिज्ञानाभावात् ते च्यवन्ते । भगवान् नारायण एव सूर्यादि-रूपेणाराध्यते इति भावनया विश्वतो-मुखं माम् उपासीनास् तु मुच्यन्त एव । तस्मान् मद्-विभूतिषु सूर्यादिषु पूजा मद्-विभूति-ज्ञान-पूर्विकैव कर्तव्या । न त्व् अन्यथा इति द्योतितम् ॥२४॥
बलदेवः - अविधि-पूर्वकतां दर्शयति अहं हीति । अहम् एवेन्द्रादि-रूपेण सर्वेषां यज्ञानां भोक्ता प्रभुः स्वामी पालकः फलदश् चेत्य् एवं तत्त्वेन मां नाभिजानन्ति । अतस् ते च्यवन्ति संसरन्ति ॥२४॥
९।२५
यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनो ऽपि माम् ॥२५॥
श्रीधरः - तद् एवोपपादयति यान्तीति । देवेष्व् इन्द्रादिषु व्रतं नियमो येषां ते अन्तवन्तो देवान् यान्ति । अतः पुनर् आवर्तन्ते । पितॄषु व्रतं येषां श्राद्धादि-क्रिया-पराणां ते पितॄन् यान्ति । भूतेषु विनारकमातृपणादिषु इज्या पूजा येषां ते भूतेज्या भूतानि यान्ति । मां यष्टुं शीलं येषां ते मद्-याजिनः । ते माम् एवाक्षयं परमानन्द-स्वरूपं यान्ति ॥२५॥
मधुसूदनः - देवतान्तर-याजिनाम् अनावृत्ति-फलाभावे ऽपि तत्-तद्-देवतायाम् आनुरूप-क्षुद्र-फलावाप्तिर् ध्रुवेति वदन् भगवद्-याजिनां तेभ्यो वैलक्षण्यम् आह यान्तीति । अविधि-पूर्वक-याजिनो हि त्रिविधा अन्तःकरणोपाधि-गुण-त्रय-भेदात् । तत्र सात्त्विका देव-व्रताः । देवा वसु-रुद्रादित्यादयस् तत्-सम्बन्धि-व्रतं बल्य्-उपहार-प्रदक्षिण-प्रह्वी-भावादि-रूपं पूजनं येषां ते तान् एव देवान् यान्ति तं यथा यथोपासते तद् एव भवति इति श्रुतेः । राजसास् तु पितृ-व्रताः श्राद्धादि-क्रियाभिर् अग्निष्व् आत्तादीनां पितॄणाम् आराधकास् तान् एव पितॄन् यान्ति । तथा तामसा भूतेज्या यक्ष-रक्षो-विनायक-मातृ-गणादीनां भूतानां पूजकास् तान्य् एव भूतानि यान्ति । अत्र देव-पितृ-भूत-शब्दानां तत्-सम्बन्धि-लक्षणयोष्ट्र-मुख-न्यायेन समासः
। मध्यम-पद-लोपि-समासानङ्गीकारान् प्रकृति-विकृति-भावाभावेन च तादर्थ्य-चतुर्थी-समासायोगात् । अन्ते च पूजावाचीज्याशब्द-प्रयोगात् पूर्व-पर्याय-द्वये ऽपि व्रत-शब्दः पूजा-पर एव ।
एवं देवतान्तराराधनस्य तत्-तद्-देवता-रूपत्वम् अन्तवत् फलम् उक्त्वा भगवद्-आराधनस्य भगवद्-रूपत्वम् अनन्तं फलम् आह मां भगवन्तं यष्टुं पूजयितुं शीलं येषां ते मद्-याजिनः सर्वासु देवतासु भगवद्-भाव-दर्शिनो भगवद्-आराधन-परायणा मां भगवन्तम् एव यान्ति । समाने ऽप्य् आयासे भगवन्तम् अनतर्यामिणम् अनन्त-फल-दम् अनाराध्य देवतान्तरम् आराध्यान्तवत्-फलं यान्तीत्य् अहो दुर्दैव-वैभवम् अज्ञानाम् इत्य् अभिप्रायः ॥२५॥
विश्वनाथः — ननु च तत्-तद्-देवता-पूजा-पद्धतौ यो यो विधिर् उक्तस् तेनैव विधिना सा सा देवता पूज्यत एव । यथा विष्णु-पूजा-पद्धतौ य एव विधिस् तेनैव वैष्णवा विष्णुं पूजयन्ति । अतो देवतान्तर-भक्तानां को दोष इति चेत् सत्यम् । तर्हि तां तां देवतां तद्-भक्ताः प्राप्नुवन्त्य् एव इत्य् अयं न्याय एव इत्य् आह यान्तीति । तेन तत्-तद्-देवतानाम् अपि नश्वरत्वात् तत्-तद्-देवता-भक्ताः कथम् अनश्वरो भवन्तु ? अहं त्व् अनश्वरो नित्यो मद्-भक्ता अप्य् अनश्वराः इति ते नित्या एवेति द्योतितम् । भवान् एकः शिष्यते शेष-सञ्ज्ञः [भ्प् १०।३।२५] इति । एको नारायण एवासीन् न ब्रह्मा न च शङ्करः इति । परार्धान्ते सो ऽबुध्यत गोप-रूपो मे पुरस्ताद् आविर्बभूव [ग्तु १।२५] इति । न च्यवन्ते च मद्-भक्ता महति प्रलये ऽपि [स्कन्दप् काशी-खण्डे] इत्य् आदि श्रुति-स्मृतिभ्यः ॥२५॥
बलदेवः - वस्तुतो मम तत् तद् देवतादि-रूपतया स्थितत्वे ऽपि तद्-रूपतया मज्-ज्ञानाभावाद् एव तेमां नाप्नुवन्तीत्य् आह यान्तीति । अत्राद्य्-अपअर्याये व्रत-शब्दः पूजाभिधायी परत्रेज्या-शब्दात् । देव-व्रता देव-पूजकाः सात्त्विक-दर्श-पौर्णमास्य्-आदि-कर्मभिर् इन्द्रादीन् यजन्तस् तान् एव यान्ति । पितृ-व्रता राजसाः श्राद्धादि-कर्मभिः पितॄन् यजन्तस् तान् एव यान्ति । भूतेज्यास् तामसास् तत्-तद्-बलिभिर् यक्ष-रक्षो-विनायकान् पूजयन्तस् तान्य् एव भूतानि यान्ति । मद्-याजिनस् तु निर्गुणाः सुलभैर् द्रव्यैर् माम् अर्चयन्तो माम् एव यान्ति । अपिर् अवधारणे । अयम् अर्थः - इन्द्रादीनां वयम् उपासकास् त एवास्माकम् ईश्वराः पूजाभिः प्रसीदन्तः फलान्य् अभीषा̆तानि दद्युर् इति मद्-अन्य-देव-सेवकानां भावना । सर्व-शक्तिः सर्वेश्वरो वासुदेवस् तद्-देवतादि-रूपेणावस्थितो
ऽस्मत्-स्वामी सुलभोपचारैः कर्मभिर् आराधितः सर्वाण्य् अस्मद्-अभीष्टानि दद्याद् इति मत्-सेवकानां भावना । ततश् च समानान्य् एव कर्माण्य् अनुतिष्ठन्तो ऽपि देवादि-सेविनो मद्-भावना-वैमुख्यात् तान् निजेष्टान् एवाचिरायुषो ऽल्प-विभूतीन् आसाद्य तैः सह परिमितान् भोगान् भुक्त्वा तद्-विनाशे विनश्यन्ति । मत्-सेविनस् तु माम् अनादि-निधनं सत्य-सङ्कल्पम् अनन्त-विभूतिं विज्ञानानन्द-मयं भक्त-वत्सलं सर्वेश्वरं प्राप्य मत्तः पुनर् न निवर्तन्ते । मया साकम् अनन्तानि सुखानि अनुभवन्ते मद्-धाम्नि दिव्ये विलसन्तीति ॥२५॥
९।२६
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥२६॥
श्रीधरः - तद् एवं स्व-भक्तानाम् अक्षय-फलम् उक्तम् । अनायासत्वं च स्व-भक्तेर् दर्शयति पत्रम् इति । पत्र-पुष्पादि-मात्रम् अपि मह्यं भक्त्या प्रीत्या यः प्रयच्छति तस्य् अप्रयतात्मनः शुद्ध-चित्तस्य निष्काम-भक्तस्य तत्-पत्र-पुष्पादिकं भक्त्या तेन उपहृतं समर्पितम् अहम् अश्नामि । न हि महा-विभूति-पतेः परमेश्वरस्य मम क्षुद्र-देवतानाम् इव बहु-वित्त-साध्य-योगादिभिः परितोषः स्यात् । किन्तु भक्ति-मात्रेण । अतो भक्तेन समर्पितं यत् किञ्चित् पत्रादि-मात्रम् अपि तद्-अनुग्रहार्थम् एवाश्नामीति भावः ॥२६॥
मधुसूदनः - तद् एवं देवतान्तराणि परित्यज्यानन्त-फलत्वाद् भगवत एवाराधनं कर्तव्यम् अतिसुकरत्वाच् चेत्य् आह पत्रम् इति । पत्रं पुष्पं फलं तोयम् अन्यद् वानायास-लभ्यं यत् किञ्चिद् वस्तु यः कश्चिद् अपि नरो मे मह्यम् अनन्त-महा-विभूति-पतये परमेश्वराय भक्त्या न वासुदेवात् परम् अस्ति किञ्चित् इति बुद्धि-पूर्विकया प्रीत्या प्रच्छतीश्वराय भृत्यवद् उपकल्पयति मत्-स्वत्वाना आस्पद-द्रव्याभावात् सर्वस्यापि जगतो मयैवार्जितत्वात् । अतो मदीयम् एव सर्वं मह्यम् अर्पयति जनः । तस्य प्रीत्या प्रयच्छतः प्रयतात्मनः शुद्ध-बुद्धेस् तत्-पत्र-पुष्पादि-तुच्छम् अपि वस्तु अहं सर्वेश्वरो ऽश्नामि अशनवत् प्रीत्या स्वीकृत्य तृप्यामि । अत्र वाचस्यात्यन्त-तिरस्काराद् अशन-लक्षितेन स्वीकार-विशेषेण प्रीत्य्-अतिशय-हेतुत्वं व्यज्यते । न ह वै देवा अश्नन्ति न पिबन्त्य् एतद् एवामृतं
दृष्ट्वा तृप्यन्ति इति श्रुतेः ।
कस्मात् तुच्छम् अपि तद् अश्नासि ? यस्माद् भक्त्य्-उपहृतं भक्त्या प्रीत्या समर्पितं तेन प्रीत्या समर्पणं मत्-स्वीकार-निमित्तम् इत्य् अर्थः । अत्र भक्त्या प्रयच्छतीत्य् उक्त्वा पुनर् भक्त्य्-उपहृतम् इति वदन्न् अभक्तस्य ब्राह्मणत्व-तपस्वित्वादि मत्-स्वीकार-निमित्तं न भवतीति परिसङ्ख्यां सूचयति । श्रीदाम-ब्राह्मणानीत-तण्डुल-कण-भक्षणवत् प्रीति-विशेष-प्रतिबद्ध-भक्ष्याभक्ष्य-विज्ञानो बाल इव मात्राद्य्-अर्पितं पत्र-पुष्पादि भक्तार्पितं साक्षाद् एव भक्षयामीति वा । तेन भक्तिर् एव मत्-परितोष-निमित्तं न तु देवतान्तरवद् बल्य्-उपहारादि बहु-वित्त-व्ययायास-साध्यं किञ्चिद् इति देवतान्तरम् अपहाय माम् एव भजेतेत्य् अभिप्रायः ॥२६॥
विश्वनाथः — वरं देवान्तर-भक्तावायासाधिक्यं न तु मद्-भक्ताव् इत्य् आह पत्रम् इति । अत्र भक्त्येति करणम् । तृतीयायां भक्त्य्-उपहृतम् इति पौनरुक्तं स्यात् । अतः सहार्थे तृतीया । भक्त्या सहितो मद्-भक्ता इत्य् अर्थः । तेन मद्-भक्त-भिन्नो जनस् तात्कालिक्या भक्त्या यत् प्रयच्छति तत् तेनोपहृतम् अपि पत्र-पुष्पादिकं नैवाश्नामीति द्योतितम् । ततश् च मद्-भक्त एव पत्रादिकं यद् ददाति तत् तस्याहम् अश्नामि यथोचितम् उपयुञ्जे । कीदृशम् ? भक्त्योपहृतम् । न तु कस्यचिद् अनुरोधादिना दत्तम् इत्य् अर्थः । किं च मद्-भक्तस्याप्य् अपवित्र-शरीरत्वे सति नाश्नामीत्य् आह प्रयतात्मनः शुद्ध-शरीरस्येति रजःस्वलादयो व्यावृत्ताः । यद् वा प्रयतात्मनः शुद्धान्तःकरणस्य मद्-भक्तं विना नान्यः शुद्धान्तःकरण इति । धौतात्मा पुरुषः कृष्ण-पाद-मूलं
न मुञ्चति [भ्प् २।८।५] इति परीक्षिद्-उक्तेर् मत्-पाद-सेवा-त्यागासामार्थ्यम् एव शुद्ध-चित्तत्व-चिह्नम् । अतः क्वचित् काम-क्रोधादि-सत्त्वे ऽपि उत्खात-दंष्ट्रोरग-दंशवत् तस्याकिञ्चित्-करत्वं ज्ञेयम् ॥२६॥
बलदेवः - एवम् अक्षयानन्त-फलत्वान् मद्-भक्तिः कार्येत्य् उक्त्वा सुख-साध्यत्वाच् च सा कार्येत्य् आह पत्रम् इति । पत्रं वा पुष्पं वान्यद् वा । यत् सुलभं वस्तु यो भक्त्या प्रीति-भरेण मे सर्वेश्वराय प्रयच्छति, तस्य भक्त्य्-उपहृतं प्रीत्य्-अर्पितं तत्-तद्-अनन्त-विभूतिः पूर्ण-कामो ऽप्य् अहम् अश्नामि यथोचितम् उपभुञ्जे । तत्-प्रीत्य्-उदित-क्षुत्-तृष्णः सन् तद्-भक्त्यावेशात् तत् सर्वम् अद्मीति वा । तस्य कीदृशस्येत्य् आह प्रयतात्मनो विशुद्ध-मनसो निष्कामस्येत्य् अर्थः । तथी᳡अ च निष्कामेण मद्-अनुरक्तेनार्पितं तद् अश्नामि । तद्-विपरीतेनार्पितं तु नाश्नामीत्य् उक्तम् । भक्त्या इत्य् उक्त्वापि पुनर् भक्त्य्-उपहृतम् इत्य् उक्तिर् भक्तिर् एव मत्-तोषिका । न तु दिव्जत्व-तपस्वित्वाद् इति सूचयति । इह सततम् अनन्यः पत्रम् इत्य् आदिभिस् त्रिभिर् उक्ता कीर्तनादि-रूप-विशुद्ध-भक्तिर् अर्पितैव क्रियेत, न
तु कृत्वार्पितेति ।
इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा ।
क्रियेत भगवत्य् अद्धा तन् मन्ये ऽधीतम् उत्तमम् [भ्प् ७।५।१९]
इति प्रह्लाद-वाक्यात् । अतस् तथात्र नोक्तेः ॥२६॥
९।२७
यत् करोषि यद् अश्नासि यज् जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत् कुरुष्व मद्-अर्पणम् ॥२७॥
श्रीधरः - न च पत्र-पुष्पादिकम् अपि यज्ञार्थ-पशु-सोमादि-द्रव्यवन् मद्-अर्थम् एवोद्यमैर् आपाद्य समर्पणीयम् । किं तर्हि ? यत् करोषीति स्वभावतः शास्त्रतो वा यत् किञ्चित् कर्म करोषि । तथा यद् अश्नासि । यज् जुहोषि । यद् ददासि । यत् तपस्यसि तपः करोषि । तत् सर्वं मय्य् अर्पितं यथा भवत्य् एवं कुरुष्व ॥२७॥
मधुसूदनः - कीदृशं ते भजनं तद् आह यत् करोषीति । यत् करोषि शास्त्राद् ऋते ऽपि रागात् प्राप्तं गमनादि यद् अश्नासि स्वयं तृप्त्य्-अर्थं कर्म-सिद्ध्य्-अर्थं वा । तथा यज् जुहोषि शास्त्र-बलान् नित्यम् अग्निहोत्रादि-होमं निर्वर्तयसि । श्रौत-स्मार्त-सर्व-होमोपलक्षणम् एतत् । तथा यद् ददासि अतिथि-ब्राह्मणादिभ्यो ऽन्न-हिरण्यादि । तथा यत् तपस्यसि प्रतिसंवत्सरम् अज्ञात-प्रामादिक-पाप-निवृत्तये चान्द्रायणादि चरसि उच्छृङ्खल-प्रवृत्ति-निरासाय शरीरेन्द्रिय-सङ्घातं संयमयसीति वा । एतच् च सर्वेषां नित्य-नैमित्तिक-कर्मणाम् उपलक्षणम् । तेन यत् तव प्राणि-स्वभाव-वशाद् विनापि शास्त्रम् अवश्यम्भावि गमनाशनादि, यच् च शास्त्र-वशाद् अवश्यम्भावि होम-दानादि हे कौन्तेय तत् सर्वं लौकिकं वैदिकं च कर्मान्येनैव निमित्तेन क्रियमाणं मद्-अर्पणं
मय्य् अर्पितं यथा स्यात् तथा कुरुष्व । आत्मनेपदेन समर्पक-निष्ठम् एव समर्पण-फलं न तु मयि किञ्चिद् इति दर्शयति । अवश्यम्भाविनां कर्मणां मयि परम-गुरौ समर्पणम् एव मद्-भजनं न तु तद्-अर्थं पृथग्-व्यापारः कश्चित् कर्तव्य इत्य् अभिप्रायः ॥२७॥
विश्वनाथः — ननु च आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी इत्य् आरभ्य एतावतीषु त्वद्-उक्तासु भक्तिषु मध्ये खल्व् अहं कां भक्तिं करवै ? इत्य् अपेक्षायां भो अर्जुन साम्प्रतं तावत् तव कर्म-ज्ञानादीनां त्यक्तुम् अशक्यत्वात् सर्वोत्कृष्टायां केवलायाम् अनन्य-भक्तौ नाधिकारो नापि निकृष्टायां सकाम-भक्तौ । तस्मात् त्वं निष्कामां कर्म-ज्ञान-मिश्रां प्रधानी-भूताम् एव भक्तिं कुर्व् इत्य् आह यत् करोषीति द्वाभ्याम् । लौकिकं वैदिकं वा यत् कर्म त्वं करोषि । यद् अश्नासि व्यवहारतो भोजन-पानादिकं यत् करोषि तत् तपस्यसि तपः करोषि तत् सर्वं मय्य् एवापणं यस्य तद् यथा स्यात् तथा कुरु । न चायं निष्काम-कर्म-य्योग एव, न तु भक्ति-योग इति वाच्यम् । निष्काम-कर्मिभिः शास्त्र-विहितं कर्मैव भगवत्य् अर्प्यते, न तु व्यवहारिकं किम्
अपि कृतम् । तथैव सर्वत्र दृष्टेः । भक्तैस् तु स्वात्म-मनः-प्राणेन्द्रिय-व्यापार-मात्रम् एव स्वेष्ट-देवे भगवत्य् अर्प्यते । यद् उक्तं भक्ति-प्रकरण एव -
कायेन वाचा मनसेन्द्रियैर् वा
बुद्ध्यात्मना वानुसृत-स्वभावात् ।
करोति यद् यत् सकलं परस्मै
नारायणायेति समर्पयेत् तम् ॥ [भ्प् ११।२।३४] इति ।
ननु च जुहोषीति हवनम् इदम् अर्चन-भक्त्य्-अङ्ग-भूतं विष्णूद्देशयकम् एव । तपस्यसीति । तपो ऽप्य् एतद् एकादश्य्-आदि-व्रत-रूपम् एव । अत इयम् अनन्यैव भक्तिः किम् इति नोच्यते ? सत्यम् अनन्या भक्तिर् हि कृत्वापि न भगवत्य् अर्प्यते, किन्तु भगवत्य् अर्पितैव ज्ञायते । यद् उक्तं श्री-प्रह्लादेन - श्रवणं कीर्तनं विष्णोः स्मरणम् इत्य् अत्र इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा क्रियेत [भ्प् ७।५।१८-१९] इत्य् अस्य व्याख्या च श्री-स्वामि-चरणानां भगवति विष्णौ भक्तिः क्रियते, सा चार्पितैवअ सती यदि क्रियेत, न तु कृता सती पश्चाद् अर्प्यते इत्य् अतः पद्यम् इदं न केवलायां पर्यवसेद् इति ॥२७॥
बलदेवः - सततम् इत्य् आदिभिर् निरपेक्षाणां भक्तिर् मया त्वां प्रत्य् उक्ता । त्वया तु परिनिष्ठितेन कीर्तनादिकां भक्तिं कुर्वतापि लोक-सङ्ग्रहाय निखिल-कर्मार्पणान् ममापि भक्तिः कार्येति भावेनाह् यद् इति । यत् त्वं देह-यात्रा-साधकं लौकिकं कर्म करोषि, यच् च देह-धारणार्थम् अन्नादिकम् अश्नासि, तथा यज् जुहोषि वैदिकम् अग्निहोत्रादि-होमम् अनुतिष्ठसि, यच् च सत्-पात्रेभ्यो ऽन्न-हिरण्यादिकं ददासि, प्रत्यब्दम् अज्ञात-दुरित-क्षतये चान्द्रायणाद्य् आचरसि, तत् सर्वं मद्-अर्पणं यथा स्यात् तथा कुरुष्व । तेन मन्-निमित्तस्यास्य लोकस्य सङ्क्ग्रहात् त्वयि मत्-प्रसादो भूयान् भावीति । न चेयं सर्व-कर्मार्पण-रूय्पा भक्तिः स-निष्ठानाम् इति वाच्यम्, तैर् वैदिकानाम् एव तत्रार्प्यमाणात् । किन्तु परिनिष्ठितानाम् एवेयम् । तैर् यत् करोषि इत्य् आदि स्वामि-निर्देशेन
सर्व-कर्मणां तत्रार्पणात् । ते हि स्वामिनो लोक-सङ्ग्रहं प्रयासम् अपनिनीषवस् तथा तान्य् आचरन्तस् तं प्रसादयन्तीति ॥२७॥
९।२८
शुभाशुभ-फलैर् एवं मोक्ष्यसे कर्म-बन्धनैः ।
सन्न्यास-योग-युक्तात्मा विमुक्तो माम् उपैष्यसि ॥२८॥
श्रीधरः - एवं च यत् फलं प्राप्स्यसि तत् शृणु शुभाशुभेति । एवं कुर्वन् कर्म-बन्धनैः कर्म-निमित्तैर् इष्टानिष्ट-फलैर्मुक्तो भविष्यसि कर्मणां मयि समर्पितत्वेन तव तत्-फल-सम्बन्धानुपपत्तेः । तैश् च विमुक्तः सन् । सन्न्यास-योग-युक्तात्मा सन्न्यासः कर्मणां मद्-अर्पणम् । स एव योगः । तेन युक्त आत्मा चित्तं यस्य । तथाभूतस् त्वं मां प्राप्स्यसि ॥२८॥
मधुसूदनः - एतादृशस्य भजनस्य फलम् आह शुभाशुभेति । एवम् अनायास-सिद्धे ऽपि सर्व-कर्म-समर्पण-रूपे मद्-भजने सति शुभाशुभे इष्टानिष्ठे फले येषां तैः कर्म-बन्धनैर् बन्ध-रूपैः कर्मभिर् मोक्ष्यसे मयि समर्पितअत्वात् तव तत्-सम्बन्धानुपपत्तेः कर्मभिस् तत्-फलैश् च न संस्रक्ष्यसे । ततश् च सन्न्यास-योग-युक्तात्मा सन्न्यासः सर्व-कर्मणां भगवति समर्पणं स एव योग इव चित्त-शोधकत्वाद् योगस् तेन युक्तः शोधित आत्मान्तःकरणं यस्य स त्वं त्यक्त-सर्व-कर्मा वा कर्म-बन्धनैर् जीवन्न् एव विमुक्तः सन् सम्यग्-दर्शनेनाज्ञानावरण-निवृत्त्या माम् उपैष्यसि साक्षात्-करिष्यस्य् अहं ब्रह्मास्मीति । ततः प्रारब्ध-कर्म-क्षयात् पतिते ऽस्मिन् शरीरे विदेह-कैवल्य-रूपं माम् उपैष्यसि । इदानीम् अपि मद्-रूपः सन् सर्वोपाधि-निवृत्त्या
मायिक-भेद-व्यवहार-विषयो न भविष्यसीत्य् अर्थः ॥२८॥
विश्वनाथः — शुभाशुभ-फलैर् अनन्तैः कर्म-रूपैर् बन्धनैर् विमोक्ष्यसे । भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् [ग्तु १।१४] इति श्रुतेः । सन्न्यासः कर्म-फल-त्यागः स एव योगस् तेन युक्त आत्मा मनो यस्य सः । न केवलं मुक्त एव भविष्यस्य् अपि तु विमुक्तो मुक्तेष्व् अपि विशिष्टः सन् माम् उपैष्यसि साक्षात् परिचरितुं मन्-निकटम् एष्यसि -
मुक्तानाम् अपि सिद्धानां नारायण-परायणः
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भ्प् ६।१४।५] इति स्मृतेः ।
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भ्प् ५।६।१८] इति शुकोक्तेः ।
मुक्तेः सकाशाद् अपि साक्षान् मत्-प्रेम-सेवाया उत्कर्षो ऽयम् एवेति भावः ॥२८॥
बलदेवः -ईदृश-भक्तेः फलम् आह शुभेति । एवं मन्-निदेश-कृतायां सर्व-कर्मार्पण-लक्षणायां भक्तौ सत्यां कर्म-रूपैर् बन्धनैस् त्वं मोक्ष्यसे । कीदृशैर् इत्य् आह शुभेतीष्टानिष्ट-फलैस् तत्-प्राप्ति-प्रतीपैः प्राचीनैर् इत्य् अर्थः । कीदृशस् त्वम् इत्य् आह सन्न्यासेति मयि कर्मार्पणं सन्न्यासः । स एव चित्त-विशोधकत्वाद् योगस् तद्-युक्त आत्मा मनो यस्य सः । न केवलं मुक्त एव कर्मभिर् भविष्यस्य् अपि तु विमुक्तः सन् माम् उपैष्यसि । मुक्तेषु विशिष्टः सन् मां साक्षात् सेवितुं मद्-अन्तिकं प्राप्स्यसि ॥२८॥
९।२९
समो ऽहं सर्वभूतेषु न मे द्वेष्यो ऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य् अहम् ॥२९॥
श्रीधरः - यदि भक्तेभ्य एव मोक्षं ददासि नाभक्तेभ्यस् तर्हि तवापि किं राद-द्वेषादि-कृतं वैषम्यम् अस्ति ? नेत्य् आह समो ऽहम् इति । समो ऽहं सर्वेष्व् अपि भूतेषु । अतो मे मम प्रियश् च द्वेष्यश् च नास्त्य् एव । एवं सत्य् अपि ये मां भजन्ति ते भक्ता मयि वर्तन्ते । अहम् अपि तेष्व् अनुग्राहकतया वर्ते । अयं भावः - यथा अग्नेः स्वलेवकेष्व् एव तमः-शीतादि-दुःखम् अपाकुर्वतो ऽपि न वैषम्यम् । यथा वा कल्प-वृक्षस्य । तथैव भक्त-पक्ष-पातिनो ऽपि मम वैषम्यं नास्त्य् एव । किन्तु मद्-भक्तेर् एवायं महिमेति ॥२९॥
मधुसूदनः - यदि भक्तान् एवानुगृह्णासि नाभक्तान् । ततो राग-द्वेषवत्त्वेन कथं परमेश्वरः स्या इति नेत्य् आह समो ऽहम् इति । सर्वेषु प्राणिषु समस् तुल्यो ऽहं सद्-रूपेण स्फुरण-रूपेणानन्द-रूपेण च स्वाभाविकेनौपाधिकेन चान्तर्यामित्वेन । अतो नमम द्वेष-विषयः प्रीति-विषयो वा कश्चिद् अस्ति सावित्रस्येव गगन-मण्डल-व्यापिनः प्रकाशास्य । तर्हि कथं भक्ताभक्तयोः फल-वैषम्यं तत्राह ये भजन्ति तु ये तु भजन्ति सेवन्ते मां सर्व-कर्म-समर्पण-रूपया भक्त्या । अभक्तापेक्षया भक्तानां विशेष-द्योतनार्थस् तु-शब्दः । को ऽसौ ? मयि ते ये मद्-अर्पितैर् निष्कामैः कर्मभिः शोधितान्तःकरणास् ते निरस्त-समस्त-रजस्-तमो-मलस्य सत्त्वोद्रेकेणातिस्वच्छस्यान्तःकरणस्य सदा मद्-आकारा वृत्तिम् उपैन्पन्-मानेनोत्पादयन्तो मयि वर्तन्ते । अहम्
अप्य् अतिस्वच्छायां तदीय-चित्त-वृत्तौ प्रतिबिम्बितस् तेषु वर्ते । च-कारो ऽवधारणार्थस् त एव मयि तेष्व् एवाहम् इति ।
स्वच्छस्य हि द्रव्यस्यायम् एव स्वभावो येन सम्बध्यते तद्-आकारं गृह्णातीति । स्वच्छ-द्रव्य-सम्बद्धस्य च वस्तुन एष एव स्वभावो यत् तत्र प्रतिफलतीति । तथास्वच्छ-द्रव्यस्याप्य् एष एव स्वभावो यत् स्व-सम्बद्धस्याकारं न गृह्णातीति । अस्वच्छ-द्रव्य-सम्बद्धस्य च वस्तुन एष एव स्वभावो यत् तत्र न प्रतिफलतीति । यथा हि सर्वत्र विद्यमानो ऽपि सावित्रः प्रकाशः स्वच्छे दर्पणादाव् एवाभिव्यज्यते न त्व् अस्वच्छे घटादौ । तावता न दर्पणे रज्यति न वा द्वेष्टि घटम् । एवं सर्वत्र समो ऽपि स्वच्छे भक्त-चित्ते ऽभिव्यज्यमानो ऽस्वच्छे चाभक्ति-चित्ते ऽनभिव्यज्य-मानो ऽहं न रज्यामि कुत्रचित् । न वा द्वेष्मि कञ्चित् । सामग्री-मर्यादया जायमानस्य कारय्सापर्यनुयोज्यत्वात् । वह्निवत् कल्प-तरुवच् चावैषम्यं व्याख्येयम् ॥२९॥
विश्वनाथ - ननु भक्तान् एव विमुक्तीकृत्य स्वं प्रापयसि । न त्व् अभक्तान् इति चेत् तर्हि तवापि किं राग-द्वेषादि-कृतं वैषम्यम् अस्ति ? नेत्य् आह समो ऽहम् इति । ते भक्ता मयि वर्तन्ते ऽहम् अपि तेषु वर्त इति व्याख्याने भगवत्य् एव सर्व-जगद् वर्तत एव । भगवान् अपि सर्व-जगत्सु वर्तत एवेति नास्ति विशेषः । तस्मात् ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४।११] इति न्यायेन । मयि ते आसक्ता भक्ता वर्तन्ते यथा तथाहमपि तेष्व् आसक्त इति व्याख्येयम् । अत्र कल्प-वृक्षादि-दृष्टान्तस् त्व् एकांशेनैव ज्ञेयः । न हि कल्प-वृक्ष-फलाकाङ्क्षया तद् आश्रिता आसज्जन्ति । नापि कल्प-वृक्षः स्वाश्रितेष्व् आसक्तः । नापि स आश्रितस्य वैरिणो द्वेष्टि । भगवांस् तु स्वभक्त-वैरिणं स्वहस्तेनैव हिनस्ति । यद् उक्तं प्रह्रादाय यदा द्रुह्येद् धनिष्ये ऽपि वरोर्जितम् [भ्प् ७।४।२८] इति केचित्
तु तु-कारस्य भिन्नोपक्रमार्थत्वम् आख्याय भक्त-वात्सल्य-लक्षणं तु वैषम्यं मयि विद्यत एवेति तच् च भगवतो भूषणम्, न तु दूषणम् इति व्याचक्षते । तथा हि भगवतो भक्त-वात्सल्यम् एव प्रसिद्धम् । न तु ज्ञानि-वात्सल्यं योगि-वात्सल्यं वा, यथा ह्य् अन्यो जनः स्व-दासेष्व् एव वत्सलो नान्य-दासेषु, तथैव भगवान् अपि स्व-भक्तेष्व् एव वत्सलो न रुद्र-भक्तेषु नापि देवी-भक्तेष्व् इति ॥२९॥
बलदेवः – ननु भक्तान् एव विमोच्यान्तिकं नयसि । नाभक्तान् इति तवापि किं सर्वेश्वरस्य राग-द्वेष-कृतं वैषम्यम् अस्ति ? तत्राह समो ऽहम् इति । देव-मनुष्य-तिर्यक्-स्थावरादिषु जात्याकृति-स्वभावैर् विषमेषु सर्वेषु भूतेषु तत्-तत्-कर्मानुगुण्येन सृष्टि-पालन-कृत् सर्वेश्वरो ऽहंसमः पर्जन्य इव नाना-विधेषु तत्-तद्-बीजेषु, न तेषु मे को ऽपि द्वेष्यः प्रियो वेत्य् अर्थः । भक्तानाम् अभक्तेभ्यो विशेसं बोधयितुम् इह तु-शब्दः । ये तु मां भजन्ति श्रवणादि-भक्तिभिर् अनुकूलयन्ति, ते भक्त्यानुरक्त्या मयि वर्तन्ते । तेष्व् अहं च सर्वेश्वरो ऽपि भक्त्या वर्ते, मणि-सुवर्ण-न्यायेन भगवतो ऽपि भक्तेषु भक्तिर् अस्ति । बह्गवान् भक्त-भक्तिमान् इत्य् आदि श्री-शुक-वाक्याद् इति प्रेम्णा मिथो वर्तन-विशेषो दर्शितः । अन्यथा त्व् अविशेषापत्तिः । तस्य प्रतिज्ञा त्व् ईदृश्य्
एवावगम्यते ये यथा माम् इत्य् आदिना । कल्प-द्रुम-दृष्टान्तो ऽप्य् अत्रांशिक एव । तत्र मिथः प्रीत्य-अप्रतीतेः पक्षपाताप्रतीतेश् च । तथा च सर्वत्राविषमे ऽपि मयि स्वाश्रित-वात्सल्य-लक्षणं वैषम्यम् अस्तीत्य् उक्तम् । एवम् आह सूत्रकारः उपपद्यते चाभ्युपलभ्यते च [व्स् २।१।३७] इति ।
ननु भक्तेर् अपि कर्मत्वानुसारेण तेषु तद्-वात्सल्यान् न तल्-लक्षणे तद् इति । चेन् मैवम् एतत् । स्वरूप-शक्ति-वृत्तेर् भक्तेः कर्मान्यत्वात् । श्रुतिश् च सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [ग्तु २।७८] इति । न च स्वरूप-प्रयुक्तत्वाद् दूषणम् एतद् इति वाच्यम् । गुण-श्रेष्ठत्वेन स्तूयमानत्वात् ॥२९॥
९।३०
अपि चेत् सुदुराचारो भजते माम् अनन्य-भाक् ।
साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥३०॥
श्रीधर: अपि च मद्-भक्तेर् एवायम् अवितर्क्यं प्रभाव इति दर्शयन्न् आह अपि चेद् इति । अत्यन्तं दुराचारो ऽपि नरो यद्यप् अपृथक्त्वेन पृथग्-देवतापि वासुदेव एवेति बुद्ध्या देवतान्तर-भक्तिम् अकुर्वन् माम् एव परमेश्वरं भजते तर्हि साधुः श्रेष्ठ एव स मन्तव्यः । यतो ऽसौ सम्यग्-व्यवसितः परमेश्वर-भजनेनैव कृतार्थो भविष्यामीति शोभनम् अध्यवसायं कृतवान् ॥३०॥
मधुसूदनः -किं च मद्-भक्तेर् एवायं महिमा यत् समे ऽपि वैषम्यम् आपादयति शृणु तन्-महिमानम् अपि चेद् इति । यः कश्चित् सुदुराचारो ऽपि चेद् अजामिलादिर् इवानन्य-भाक् सन् मां भजते कुतश्चिद् भाग्योदयात् सेवते स प्राग् असाधुर् अपि साधुर् एव मन्तव्यः । हि यस्मात् सम्यग्-व्यवसितः साधु-निश्चयवान् सः ॥३०॥
विश्वनाथ : स्व-भक्तेष्व् आसक्तिर् मम स्वाभाविक्य् एव भवति, सा दुराचारे ऽपि भक्ते नापयाति । तम् अप्य् उत्कृष्टम् एव करोमीत्य् आह अपि चेद् इति । सुदुराचारः पर-हिंसा पर-दार-पर-द्रव्यादि-ग्रहण-परायणे ऽपि मां भजते चेत्, कीदृग्-भजनवान् इत्य् अत आह, अनन्य-भाक् मत्तो ऽन्य-देवतान्तरम् । मद्-भक्तेर् अन्यत् कर्म-ज्ञानादिकम्, मत्-कामनातो ऽन्यां राज्यादि-कामनां न भजते, स साधुः ।
नन्व् एतादृशे कदाचारे दृष्टे सति, कथं साधुत्वम् ? तत्राह, मन्तव्यो मननीयः । साधुत्वेनैव स ज्ञेय इति यावत् । मन्तव्यम् इति विधि-वाक्यम् अन्यथा प्रत्यवायः स्यात् । अत्र मद्-आज्ञैव प्रमाणम् इति भावः ।
ननु त्वां भजते इत्य् एतद्-अंशेन साधुः पर-दारादि-ग्रहणांशेनासाधुश् च स मन्तव्यस् तत्राह एवेति । सर्वेणाप्य् अंशेन साधुर् एव मन्तव्यः । कदापि तस्यासाधुत्वं न द्रष्टव्यम् इति भावः । सम्यग् व्यवसितं निश्चयो यस्य सः । दुस्त्यजेन स्व-पापेन नरकं तिर्यग्-योनिर् वा यामि ऐकान्तिकं श्री-कृष्ण-भजनं तु नैव जिहासामीति स शोभनम् अध्यवसायं कृतवान् इत्य् अर्थः ॥३०॥
बलदेवः - मम शुद्ध-भक्ति-वश्यता-लक्षणः स्वभावो दुस्त्यज एव । यद् अहं जुगुप्सित-कर्मण्य् अपि भक्ते ऽनुरज्यंस् तम् उत्कर्षयामीति पूर्वार्थं पुष्णन्न् आह अपि चेद् इति । अनन्य-भाक् जनश् चेत् सुदुराचारो ऽतिविगर्हित-कर्मापि सन् मां भजते मत्-कीर्तनादिभिर् मां सेवते तद् अपि स साधुर् एव मन्तव्यः । मत्तो ऽन्यां देवतां न भज्त्य् आश्रयतीति मद्-एकान्ती माम् एव स्वामिनं परम-पुमर्थं च जानन्न् इत्य् अर्थः । उभयथा वर्तमानो ऽपि साधुत्वेन स पूज्य इति बोधयितुम् एव-कारः । तस्य तथात्वे मनने मन्तव्य इति स्व-निदेश-रूपो विधिश् च दर्शितः । इतरथा प्रत्यवायाद् इति भावः । उभयथापि वर्तमानस्य साधुत्वम् एवेत्य् अत्रोक्तं हेतुं पुष्णन्न् आह सम्यग् इति । यद् असौ सम्यग्-व्यवसितो मद्-एकान्त-निष्ठा-रूप-श्रेष्ठ-निश्चयवान् इत्य् अर्थः । एवम् उक्तं नारसिंहे-
भगवति च हराव् अनन्य-चेता
भृशम् अलिनो ऽपि विराजते मनुष्यः ।
न हि शश-कलुष-च्छविः कदाचित्
तिमिर-पराभवताम् उपैति चन्द्रः ॥ इति ॥३०॥
९।३१
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥३१॥
श्रीधरः - ननु कथं समीचीनाध्यवसाय-मात्रेण साधुर् मन्तव्यः ? तत्राह क्षिप्रम् इति । सुदुराचारो ऽपि मां भजन् शीघ्रं धर्म-चित्तो भवति । ततश् च शश्वच्-छान्तिं चित्तोपप्लवोपरम-रूपां परमेश्वर-निष्ठां नितरां गच्छति प्राप्नोति । कुतर्क-कर्कश-वादिनो नैतात्मन्येरन्न् इति शङ्काकुलम् अर्जुनं प्रोत्साहयति हे कौन्तेय पटहादि-महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे परमेश्वरस्य भक्तः सुदुराचारो ऽपि न प्रणश्यति । अपि तु कृतार्थ एव भवतीति । ततश् च ते तं प्रौढि-विजृम्भ-विध्वंसित-कुतर्काः सन्तो निःसंशयं त्वाम् एव गुरुत्वेनाश्रयेरन् ॥३१॥
मधुसूदनः - अस्माद् एव सम्यग्-व्यवसायात् स हित्वा दुराचारतां क्षिप्रम् इति । चिर-कालम् अधर्मात्मापि मद्-भजन-महिम्ना क्षिप्रं शीघ्रम् एव भवति धर्मात्मा धर्मानुगत्-चित्तो दुराचारत्वं झटित्य् एव त्यक्त्वा सद्-आचारो भवतीत्य् अर्थः । किं च शश्वन् नित्यं शान्तिं विषय-भोगस्पृहा-निवृत्तिं निगच्छति नितरां प्राप्नोत्य् अतिनिर्वेदात् ।
कश्चित् त्वद्-भक्तः प्राग् अभ्यस्तं दुराचारत्वम् अत्यजन् न भवेद् अपि धर्मात्मा । तथा च स नश्येद् एवेति नेत्य् आह भक्तानुकम्पापरवशतया कुपित इव भगवान् । नैतद् आश्चर्यं मन्वीथा हे कौन्तेय निश्चितम् एवेदृशं मद्-भक्तेर् माहात्म्यम् । अतो विप्रतिपन्नानां पुरस्ताद् अपि त्वं प्रतिजानीहि सावज्ञं स-गर्वं च प्रतिज्ञां कुरु । न मे वासुदेवस्य भत्को ऽतिदुराचारो ऽपि प्राण-सङ्कटम् आपन्नो ऽपि सुदुर्लभम् अयोग्यः सन् प्रार्तहय्मानो ऽपि अतिमूढो ऽशरणो ऽपि न प्रणश्यति किं तु कृतार्थ एव भवतीति । दृष्टान्ताश् चाजामिल-प्रह्लाद-ध्रुव-गजेन्द्रादयः प्रसिद्धा एव । शास्त्रं च न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् इति ॥३१॥
विश्वनाथः — ननु तादृशस्याधर्मिणः कथं भजनं त्वं गृह्णासि ? काम-क्रोधादि-दूषितान्तःकरणेन निवेदितम् अन्न-पानादिकं कथम् अश्नासीत्य् अत आह क्षिप्रं शीघ्रम् एव स धर्मात्मा भवति । अत्र क्षिप्रं भावी स धर्मात्मा शश्वच्-छान्तिं गमिष्यतीति अप्रयुज्य भवति गच्छतीति वर्तमान-प्रयोगात् अधर्म-करणानन्तरम् एव माम् अनुस्मृत्य कृतानुतापः क्षिप्रम् एव धर्मात्मा भवति । हन्त हन्त मत्-तुल्यः को ऽपि भक्त-लोकं कलङ्कयन्न् अधमो नास्ति । तद् विद्याम् इति शश्वत् पुनः पुनर् अपि शान्तिं निर्वेदं नितरां गच्छति । यद् वा कियतः समयाद् अनन्तरं तस्य भावि धर्मात्मत्वं तदानीम् अपि सूक्ष्म-रूपेण वर्तत एवं तन् मनसि भक्तेः प्रेवेशात् यथा पीते महौषधि सति तदानीं किय-काल-पर्यन्तं नश्यद्-अवस्थो ज्वर-दाहो
विष-दाहो वा वर्तमानो ऽपि न गण्यत इति ध्वनिः ।
ततश् च तस्य भक्तस्य दुराचारत्व-गमकाः काम-क्रोधाद्या उत्खात-दंष्ट्रोरग-दंशवद् अकिञ्चित्करा एव ज्ञेया इति अनुध्वनिः । अतएव शश्वत् सर्वदैव शान्तिं काम-क्रोधाद्य्-उपशमं नितरां गच्छत्य् अतिशयेन प्राप्नोतीति दुराचारत्व-दशायाम् अपि स शुद्धान्तःकरण एव उच्यत इति भावः ।
ननु यदि स धर्मात्मा स्यात् तदा नास्ति को ऽपि विवादः । किन्तु कश्चिद् दुराचार-भक्तो मरण-पर्यन्तम् अपि दुराचारत्वं न जहाति, तस्य का वार्ता इत्य् अतो भक्त-वत्सलो भगवान् स-प्रौढि स-कोपम् इवाह कौन्तेयेति । मम भक्तो न प्रणश्यति । तद् अपि प्राण-नाशे अधःपातं न याति । कुतर्क-कर्कश-वादिनो नैतन् मन्येरन्न् इति शोक-शङ्का-व्याकुलम् अर्जुनं प्रोत्साहयति हे कौन्तेय पटहकाहलादि-महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे मम परमेश्वरस्य भक्तो दुराचारो ऽपि न प्रणेश्येत्य् अपि तु कृतार्थ एव भवति । ततश् च ते तं प्रौढि-विजृम्भित-विध्वंसित-कुतर्काः सन्तो निःसंशयं त्वाम् एव गुरुत्वेनाश्रयेरन् इति स्वामि-चरणाः ।
ननु कथं भगवान् स्वयम् अप्रतिज्ञाय प्रतिज्ञातुम् अर्जुनम् एवातिदिदेश । यथैवाग्रे माम् एवैष्यसि सत्यं ते प्रतिजाने प्रियो ऽसि मे इति वक्ष्यते । तथैवात्रापि कौन्तेय प्रतिजाने ऽहं न मे भक्तः प्रणश्यति इति कथं नोक्तम् ? उच्यते - भगवता तदानीम् एव विचारितं भक्त-वत्सलेन मया स्व-भक्तापकर्ष-लेशम् अप्य् असहिष्णुना स्व-प्रतिज्ञां खण्डयित्वापि स्वाप-कर्षम् अङ्गीकृत्यापि भक्त-प्रतिज्ञैव रक्षिता बहुत्र । यथा तत्रैव भीष्म-युद्धे स्व-प्रतिज्ञाम् अप्य् अपाकृत्य भीष्म-प्रतिज्ञैव रक्षिष्यते, बहिर्मुखा वादिनो वैतण्डिका मत्-प्रतिज्ञां श्रुत्वा हसिष्यन्ति अर्जुन-प्रतिज्ञा तु पाषाण-रेखैवेति ते प्रतियन्ति । अतो ऽर्जुनम् एव प्रतिज्ञां कारयामीति । अत्र एतादृश-दुराचारस्यापि अनन्य-भक्ति-श्रवणाद् अनन्य-भक्ताभिधायक-वाक्येषु सर्वत्र न विद्यते
ऽन्यत्-स्त्री-पुत्राद्यासक्ति-विधर्म-शोक-मोह-काम-क्रोधादिकं यत्रेति कुपण्डित-व्याख्या न ग्राह्येति ॥३१॥
बलदेवः – इति । सुदुराचारो ऽपि मां भजन् शीघ्रं धर्म-चित्तो भवति । ततश् च शश्वच्- छान्तिं चित्तोपप्लवोपरम-रूपां परमेश्वर-निष्ठां नितरां गच्छति प्राप्नोति । कुतर्क-कर्कश-वादिनो नैतात्मन्येरन्न् इति शङ्काकुलम् अर्जुनं प्रोत्साहयति हे कौन्तेय पटहादि-महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु । कथम् ? मे परमेश्वरस्य भक्तः सुदुराचारो ऽपि न प्रणश्यति । अपि तु कृतार्थ एव भवतीति । ततश् च ते त्वत् प्रौढि-विजृम्भ-विध्वंसित-कुतर्काः सन्तो निःसंशयं त्वाम् एव गुरुत्वेनाश्रयेरन् ॥३१॥
९।३२
मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् ॥३२॥
श्रीधरः - स्वाचार-भ्रष्टं मद्-भक्तिः पवित्रीकरोतीति किम् अत्र चित्रम् ? यतो मद्-भक्तिर् दुष्कुलान् अप्य् अनधिकारिणो ऽपि संसारान् मोचयतीत्य् आह मां हीति । ये ऽपि पाप-योनयः स्युर् निकृष्ट-जन्मानो ऽन्त्यजादयो भवेयुः । ये ऽपि वैश्याः केवलं कृष्यादि-निरताः । स्त्रियः शूद्राश् चाप्य् अध्ययनादि-रहिताः । ते ऽपि मां व्यापाश्रित्य संसेव्य परां गतिं यान्ति । हि निश्चितम् ॥३२॥
मधुसूदनः - एवम् आगन्तुक-दोषेण दुष्टानां भगवद्-भक्ति-प्रभावान् निस्तारम् उक्त्वा स्वाभाविक-दोषेण दुष्टानाम् अपि तम् आह मां हीति । हि निश्चितं हे पार्थ मां व्यपाश्चित्य शरणम् आगत्य ये ऽपि स्युः पाप-योनयो ऽन्त्यजास् तिर्यञ्चो वा जाति-दोषेण दुष्टाः । तथी᳡अ वेदाध्ययनादि-शून्यतया निकृष्टाः स्त्रियो वैश्याः कृष्यादि-मात्र-रताः । तथा शूद्रा जातितो ऽध्ययनाद्य्-अभावेन च परम-गत्य्-अयोग्यास् ते ऽपि यान्ति परां गतिम् । अपि-शब्दात् प्राग्-उक्त-दुराचारा अपि ॥३२॥
विश्वनाथः — एवं कर्मणा दुराचाराणाम् आगन्तुकान् दोषान् मद्-भक्तिर् न गणयति इति किं चित्रम् ? यतो जात्यैव दुराचाराणां स्वाभाविकान् अपि दोषान् मद्-भक्तिर् न गणयतीत्य् आह माम् इति । पाप-योनयो ऽन्त्यजा म्लेच्छा अपि । यद् उक्तम्-
किरात-हूणान्ध्र-पुलिन्द-पुल्कशा
आभीर-शुम्भा यवनाः खसादयः ।
ये ऽन्ये च पापा यद्-अपाश्रयाश्रयाः
शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [भ्प् २।४।१८] इति ।
अहो बत श्व-पचो ऽतो गरीयान्
यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् ।
तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या
ब्रह्मानूचुर् नाम गृणन्ति ये ते ॥ [भ्प् ३।३३।६-७]
किं पुनः स्त्री-वैश्याद्या अशुद्ध्य्-अलीकादिमन्तः ॥३२॥
बलदेवः - महा-घोष-पूर्वकं विवदमानानां सभां गत्वा बाहुम् उत्क्षिप्य निःशङ्कं प्रतिजानीहि प्रतिज्ञां कुरु सर्वेश्वरो ऽहं मद्-एकान्तिनां आगन्तुक-दोषान् विधुनोमीति किं चित्रम् ? यद् अतिपापिनो ऽपि मद्-भक्त-प्रसङ्गाद् विधूताविद्या विमुच्यन्त इत्य् आह मांहीति । ये पाप-योनयो ऽन्त्यजाः सहज-दुराचाराः स्युस् ते ऽपि मद्-भक्त-प्रसङ्गेन मां सर्वेशं वसुदेव-सुतं व्यपाश्रित्य शरणम् आगत्य परां योगि-दुर्लभां गतिं मत्-प्राप्तिं यान्ति हि निश्चितम् एतत् । एवम् आह श्रीमान् शुकः-
किरात-हूणान्ध्र-पुलिन्द-पुल्कशा
आभीर-शुम्भा यवनाः खसादयः ।
ये ऽन्ये च पापा यद्-अपाश्रयाश्रयाः
शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ [भ्प् २।४।१८] इति ।
अत्रास्य लोकस्यानित्यत्वं कण्ठतो ब्रुवन् हरिर् मिथ्यात्वं तस्य निरासात् ॥३२॥
९।३३
किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ।
अनित्यम् असुखं लोकम् इमं प्राप्य भजस्व माम् ॥३३॥
श्रीधरः - यदैवं तदा सत्-कुलाः सद्-आचाराश् च मद्-भक्ताः परां गतिं यान्ति इति किं वक्तव्यम् इत्य् आह किं पुनर् इति । पुण्याः सुकृतिनो ब्राह्मणाः । तथा राजानश् च त ऋषयश् च क्षत्रियाः । एवं भूताः परां गतिं यान्तीति किं पुनर् वक्तव्यम् इत्य् अर्थः । अतस् त्वम् इमं राजर्षि-रूपं देहं प्राप्य लब्ध्वा मां भजस्व । किञ्चानित्यम् अध्रुवम् असुखं सुख-रहितं चेमं मर्त्य-लोकं प्राप्य अनित्यत्वाद् विलम्बम् अकुर्वन् असुखत्वाच् च सुखार्थम् उद्यमं हित्वा माम् एव भजस्वेत्य् अर्थः ॥३३॥
मधुसूदनः - एवं चेत् पुण्याः सदाचारा उत्तम-योनयश् च ब्राह्मणास् तथा राजर्षयः सूक्ष्म-वस्तु-विवेकिनः क्षत्रिया मम भक्ताः परां गतिं यान्तीति किं पुनर् वाच्यम् अत्र कस्यचिद् अपि सन्देहाभावाद् इत्य् अर्थः । यतो मद्-भक्तेर् ईदृशो महिमातो महता प्रत्नेनेमं लोकं सर्व-पुरुषार्थ-साधन-योग्यम् अतिदुर्लभं च मौष्य-देहम् अनित्यम् आशु-विनाशिनम् असुखं गर्भ-वासाद्य्-अनेक-दुःख-बहुलं लब्ध्वा यावद् अयं न नश्यति तावद् अतिशीघ्रम् एव भजस्व मां शरणम् आश्रयस्व । अनित्यत्वाद् औखत्वाच् चास्य विलम्बं सुखार्थम् उद्यमं च मा कार्षीस् त्वं च राजर्षिर् अतो मद्-भजनेनात्मानं सफलं कुरु । अन्यथा ह्य् एतादृशं जन्म निष्फलम् एव ते स्याद् इत्य् अर्थः ॥३३॥
विश्वनाथः — ततो ऽपि किं पुनर् ब्राह्मणाः पुण्याः सत्-कुलाः सदाचाराश् च ये भक्ताः । तस्मात् त्वं मां भजस्व ॥३३॥
बलदेवः - किम् इति । यद्य् एवं तर्हि ब्राह्मणा राजर्षयः क्षत्रियाश् च सत्-कुलाः पुण्याः सद्-आचारिणो भक्ताः सन्तः परां गतिं यान्तीति किं पुनर् वाच्यम् ? नास्त्य् अत्र संशय-लेशो ऽपि । तस्मात् त्वम् अपि राजर्षिर् इमं लोकं प्राप्य मां भजस्व अनित्यं नश्वरम् असुखम् ईषत् सुखं विनाशिन्य् अल्प-सुखे ऽस्मिन् लोके राज्य-स्पृहां विहाय नित्यम् अनन्तानन्दं माम् उपास्य प्राप्नुहीति त्वरात्र व्यज्यते । अत्रास्य लोकस्यानित्यत्वं कण्ठतो ब्रुवन् हरिर् मिथ्यात्वं तस्य निरासात् ॥३३॥
९।३४
मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु ।
माम् एवैष्यसि युक्त्वैवम् आत्मानं मत्-परायणः ॥३४॥
श्रीधरः - भजन-प्रकारं दश्रयन्न् उपसंहरति मन्-मना इति । मय्य् एव मनो यस्य स मन्-मनाः तादृशस् त्वं भव । तथा ममैव भक्तः सेवको भव । मद्-याजी मत्-पूजन-शीलो भव । माम् एव च नमस्कुरु । एवम् एभिः प्रकारैर् मत्-परायणः सन्न् आत्मानं मनो मयि युक्त्वा समाधाय माम् एव परमानन्द-रूपम् एष्यसि प्राप्स्यसि ॥३४॥
निजम् ऐश्वर्यम् आश्चर्यं भक्तेश् चाद्भुत-वैभवम् ।
नवमे राज-गुह्याख्ये कृपयावोचद् अच्युतः ॥
इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः
॥९॥
मधुसूदनः - भजन-प्रकारं दर्शयन्न् उपसंहरति मन्-मना भवेति । राज-भक्तस्यापि राज-भृत्यस्य पुत्रादौ मनस् तथा स तन्-मना अपि न तद्-भक्त इत्य् अत उक्तं मन्-मना भव मद्-भक्त इति । तथा मद्-याजी मत्-पूजन-शीलो मां नमस्कुरु मनो-वाक्-कायैः । एवम् एभिः प्रकारैर् मत्-परायणो मद्-एक-शरणः सन्न् आत्मानम् अन्तःकरणं युक्त्वा मयि समाधाय माम् एव परमानन्द-घनं स्व-प्रकाशं सर्वोपद्रव-शून्यम् अभयम् एष्यसि प्राप्स्यसि ॥३४॥
श्री-गोविन्द-पदारविन्द-मकरन्दास्वाद-शुद्धाशयाः
संसाराम्बुधिम् उत्तरन्ति सहसा पश्यन्ति पूर्णं महः ।
वेदान्तैर् अवधारयन्ति परमं श्रेयस् त्यजन्ति भ्रमं
द्वैतं स्वप्न-समं विदन्ति विमलां विन्दन्ति चानन्दताम् ॥
इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् अधिकारि-भेदेन राज-विद्या-राज-गुह्य-योगो नाम नवमो ऽध्यायः
॥९॥
विश्वनाथः — भजन-प्रकारं दर्शयन्न् उपसंहरति मन्-मना इति । एवम् आत्मानं मनो देहं च युक्त्वा मयि नियोज्य ॥३४॥
पात्रापात्र-विचारित्वं स्व-स्पर्शात् सर्व-शोधनम् ।
भक्तेर् एवात्रैतद् अस्याः राज-गुह्यत्वम् ईक्ष्यते ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतासु नवमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥
॥९॥
बलदेवः - अथ परिनिष्ठितस्यार्जुनस्याभीष्टां शुद्धां भक्तिम् उपदिशन्न् उपसंहरति मन्-मना इति । राज-भक्तो ऽपि राज-भृत्यः पत्न्यादि-मनास् तथा स तन्-मना अपि न तद्-भक्तो भवति । त्वं तु तद्-विलक्षण-भावेन मन्-मना मद्-भक्तो भव । मयि नीलोत्पल-श्यामलत्वादि-गुणवति वसुदेव-सूनौ स्व-स्वामित्व-स्व-पुमर्थत्व-बुद्ध्यानवच्छिन्न-मधु-धारावत् सततं मनो यस्य सः । तथा मद्-याजी तादृशस्यातिमात्र-प्रियस्य ममार्चने निरतो भव । तादृशं माम् अतिप्रेम्णा नमस्कुरु दण्डवत् प्रणम । एवम् आत्मानं मनो देहं च युक्ता मयि निवेद्य मत्-परायणो मद्-एकाश्रयः सन् माम् उपैष्यसि । एषा भक्तिर् अर्पितैव क्रियेतेति बोध्यम् ॥३४॥
पात्रापात्र-धिया शून्या स्पर्शात् सर्वाघ-नाशिनी ।
गङ्गेव भक्तिर् एवेति राज-गुह्यम् इह स्मृता ॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये नवमो ऽध्यायः
॥९॥
[*एन्द्नोते] तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् पञ्च-पदं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणो ऽहं परमया स्तुत्या तोषयामि ।