८।१
अर्जुन उवाच
किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥१॥
श्रीधरः -
ब्रह्म-कर्माधिभूतादि विदुः कृष्णैक-चेतसः ।
इत्य् उक्तं ब्रह्म-कर्मादि स्पष्टम् अष्टम उच्यते ॥
पूर्वाध्यायान्ते भगवतोपक्षिप्तानां ब्रह्माध्यात्मादि-सप्तानां पदर्थानां तत्त्वं जिज्ञासुर् अर्जुन उवाच किं तद् ब्रह्मेति द्वाभ्याम् । स्पष्टो ऽर्थः ॥१॥
मधुसूदनः - पूर्वाध्यायान्ते ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् इत्य् आदिना सार्ध-श्लोकेन सप्त-पदार्था ज्ञेयत्वेन भगवता सूत्रितास् तेषां वृत्ति-स्थानीयो ऽयम् अष्टमो ऽध्याय आरभ्यते । तत्र सूत्रितानि सप्त-वस्तूनि विशेषतो बुभुत्समानः श्लोकाभ्याम् । तज्-ज्ञेयत्वेनोक्तं ब्रह्म किं सोपाधिकं निरुपाधिकं वा । एवम् आत्मानं देहम् अधिकृत्य तस्मिन्न् अधिष्ठाने तिष्ठतीत्य् अध्यात्मं किं श्रोत्रादिकरण-ग्रामो वा प्रत्यक्-चैतन्यं वा । तथा कर्म चाखिलम् इत्य् अत्र किं कर्म यज्ञ-रूपम् अन्यद् वा विज्ञान्तं यज्ञं तनुते कर्माणि तनुते ऽपि च इति श्रुतौ द्वैविध्य-श्रवणात् ।
तव मम च समत्वात् कथं त्वं मां पृच्छसीति शङ्काम् अपनुदन् सर्व-पुरुषेभ्य उत्तमस्य सर्वज्ञस्य तव न किञ्चिद् अज्ञेयम् इति सम्बोधनेन सूचयति हे पुरुषोत्तमेति । अधिभूतं च किं प्रोक्तं पृथिव्यादिभूतम् अधिकृत्य यत् किञ्चित् कार्यम् अधिभूत-पदेन विवक्षितं किं वा समस्तम् एव कार्य-जातम् । च-कारः सर्वेषां प्रश्नानां समुच्चयार्थः । अधिदैवं किम् उच्यते देवता-विषयम् अनुध्यानं वा सर्वदैवतेष्व् आदिय्त-मण्डलादिष्व् अनुस्यूतं चैतन्यं वा ॥१॥
विश्वनाथः —
पार्थ-प्रश्नोत्तरं योगं मिश्रां भक्तिं प्रसङ्गतः ।
शुद्धां च भक्तिं प्रोवाच द्वे गती अपि चास्टमे ॥
पूर्वाध्यायान्ते ब्रह्मादि-सप्त-पदार्थानां ज्ञानं भगवतोक्तम् । अत्र तेषां तत्त्वं जिज्ञासुः पृच्छति द्वाभ्याम् । अत्र देहे को ऽधियज्ञो यज्ञाधिष्ठाता, स चास्मिन् देहे कथं ज्ञेय इत्य् उत्तरस्यानुसङ्गी ॥१-२॥
बलदेवः -
उत्कान् पृष्टः क्रमाद् व्याख्यद् ब्रह्मादीन् हरिर् अष्टमे ।
योग-मिश्रां च शुद्धां च भक्ति-मार्ग-द्वयं तथा ॥
पूर्वाध्यायान्ते मुमुक्षाणां ज्ञेयतयोद्दिष्टान् ब्रह्मादीन् सप्तार्थान् विबोद्धुम् अर्जुनः पृच्छति । किं तद् ब्रह्मेति किं परमात्म-चैतन्यं वा । किं जीवात्म-चैतन्यं वा तद् ब्रह्मेत्य् अर्थः । किम् अध्यात्मम् इति आत्मानं देहम् अधिकृत्येति निरुक्तेः । श्रोत्रादीन्द्रिय-वृन्दं वा सूक्ष्म-भूत-वृन्दं वा तद् इति । आवयोस् तौल्यात् किम् इति मां पृच्छसीति शङ्कां निवर्तयितुं सम्बोधनं हे पुरुषोत्तमेति । परेशत्वात् तव सर्वं सुविदितं न तु मेमेति भावः । अधिभूतं च किम् इति भूतान्य् अधिकृत्येति निरुक्तेर् घट्यादि-कार्यं वा स्थूल-शरीरं वा तद् इति । अधिदैवं किम् इति देवता-विषयकम् अनुध्यानं वा समष्टिर् विराट् वा तद् इति ॥१॥
८।२
अधियज्ञः कथं को ऽत्र देहे ऽस्मिन् मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयो ऽसि नियतात्मभिः ॥२॥
श्रीधरः - किं च - अधियज्ञ इति । अत्र देहे योउ यज्ञो निवर्तते तस्मिन् को ऽधियज्ञो ऽधिष्ठाता । प्रयोजकः फल-दाता च क इत्य् अर्थः । स्वरूपं पृष्ट्वाधिष्ठान-प्रकारं पृच्छति - कथं केन प्रकारेणासाव् अस्मिन् देहे स्थितो यज्ञम् अधितिष्ठन्तीत्य् अर्थः । यज्ञ-ग्रहणं सर्व-कर्मणाम् उपलक्षणार्थम् । अन्त-काले च नियत-चित्तैः पुरुषैः कथं केनोपायेन ज्ञेयो ऽसि ॥२॥
मधुसूदनः - अधियज्ञो यज्ञम् अधिगतो देवतात्मा वा पर-ब्रह्म वा । स च कथं केन प्रकारेण चिन्तनीयः । किं तादात्म्येन किं वात्यन्ताभेदेन । सर्वथापि स किम् अस्मिन् देहे वर्तते ततो बहिर् वा । देहे चेत् स को ऽत्र बुद्ध्यादिस् तद्-व्यतिरिक्तो वा । अधियज्ञः कथं को ऽत्रेति न प्रश्न-द्वयम् । किन्तु सप्रकार एक एव प्रश्न इति द्रष्टव्यम् । परम-कारुणिकत्वाद् आयासेनापि सर्वोपद्रव-निवारकस्य भगवतो ऽनायासेन मत्-सनेहोपद्रव-निवारणम् ईषत्करम् उचितम् एवेति सूचयन् सम्बोधयति हे मधुसूदनेति ।
प्रयाण-काले च सर्व-करण-ग्राम-वैयाग्र्याच् चित्त-समाधानानुपपत्तेः कथं केन प्रकारेण नियतात्मभिः समाहित-चित्तैर्ज्ञेयो ऽसीत्य् उक्त-शङ्का-सूचनार्थश् चकारः । एतत् सर्वं सर्वज्ञत्वात् परम-कारुणिकत्वाच् च शरणागतं मां प्रति कथयेत्य् अभिप्रायः ॥२॥
विश्वनाथः — नोथिन्ग्।
बलदेवः - अधियज्ञः क इति यज्ञम् अधिगत इन्द्रादिर् वा विष्णुर् वा स इति । कथम् इति तस्याधियज्ञ-भावः कथम् इत्य् अर्थः । एतत् सर्वं मत्-सन्देह-निवारणं तवेषत्करम् इति बोधयितुं सम्बोधनं - हे मधुसूदनेति । प्रयाणेति तदा सर्वेन्द्रिय-व्यग्रतया चित्त-समाधानास्मभवाद् इति भावः ॥२॥
८।३
श्रीभगवान् उवाच–
अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्मम् उच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥३॥
श्रीधरः - प्रश्न-क्रमेणैवोत्तरं श्री-भगवान् उवाच अक्षरम् इति त्रिभिः । न क्षरति न चलतीत्य् अक्षरम् । ननु जीवो ऽप्य् अक्षरः । परमं यद् अक्षरं जगतो मूल-कारणं तद् ब्रहम् । एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्तीति श्रुतेः । स्वस्यैव ब्रह्मण एवांशतया जीव-रूपेण भवनं स्वभावः । स एवात्मानं देहम् अधिकृत्य भोक्तृत्वेन वर्तमानो ऽध्यात्म-शब्देनोच्यते इत्य् अर्थः । भूतानां जरायुजादीनां भाव उत्पत्तिः । उद्भवश् च उत्कृष्टत्वेन भवनम् उद्भवः ।
अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजा ॥
इति क्रमेण वृद्धिः । तौ भूत-भावोद्भवौ करोति यो विसर्गो देवतोद्देशेन द्रव्य-त्याग-रूपो यज्ञः । सर्व-कर्मणाम् उपलक्षणम् एतत् स च कर्म-शब्द-वाच्यः ॥३॥
मधुसूदनः - एवं सप्तानां प्रश्नानां क्रमेणोत्तरं त्रिभिः श्लोकैः । प्रश्न-क्रमेण हि निर्णये प्रष्टुर् अभीष्ट-सिद्धिर् अनायासेन स्यादित्य् अभिप्रायवान् भगवान् अत्र श्लोके प्रश्न-त्रयं क्रमेण निर्धारितवान् । एवं द्वितीय-श्लोके ऽपि प्रश्न-त्रयं तृतीय-श्लोके त्व् एकम् इति विभागः । निरुपाधिकम् एव ब्रह्मात्र विवक्षितं ब्रह्म-शब्देन न तु सोपाधिकम् इति प्रथम-प्रश्नस्योत्तरम् आह - अक्षरं न क्षरतीत्य् अविनाशि अश्नुते वा सर्वम् इति सर्व-व्यापकम् । एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अनणु इत्य् आद्य् उपक्रम्य एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्या-चन्द्रमसौ विधृतौ तिष्ठतः नान्यद् अतो ऽस्ति द्रष्टृ श्रुतिर् इत्यादि मध्ये परामृश्य एतस्मिन् तु खल्व् अक्षरए गार्ग्य् आकाश ओतश् च प्रोतश् च इत्य् उपसंहृतं श्रुत्या ।
सर्वोपाधि-शून्यं सर्वस्य प्रशासितृ, अव्याकृताकाशान्तस्य कृत्स्नस्य प्रपञ्चस्य धारयितृ । अस्मिंश् च शरीरेन्द्रिय-सङ्घाते विज्ञातृ । निरुपाधिकं चैतन्यं तद् इह ब्रह्मेति विवक्षितम् । एतद् एव विवृणोति परमम् इति । परमं स्व-प्रकाश-परमानन्द-रूपं प्रशासनस्य कृत्स्न-जड-वर्ग-धारणस्य च लिङ्गस्य तत्रैवोपपत्तेः । अक्षरम् अम्बरान्त-धृतेः (व्स् १।३।१०) इति न्यायात् ।
न त्व् इहाक्षर-शब्दस्य वर्ण-मात्रे रूढत्वाच् छ्रुति-लिङ्गाधिकरण-न्याय-मूलकेन रूढिर् योगम् अपहरति इति न्यायेन रथकार-शब्देन जाति-विशेषवत्-प्रणवाख्यम् अक्षरम् एव ग्राह्यं तत्रोक्त-लिङ्ग-सम्भवात् । ॐ इत्य् एकाक्षरं ब्रह्मेति च परेण विशेषणात् आनअर्थक्य-प्रतिहतानां विपरीतं बलाबलम् इति न्यायात् । वर्षासु रथकार आदधीत इत्य् अत्र तु जाति-विशेषे नास्त्य् असम्भव इति विशेषः । अनन्यथा-सिद्धेन तु लिङ्गेन श्रुतेर् बाधः आकाशस् तल्-लिङ्गात् इत्य् आदौ विवृतः । एतावांस् त्व् इह विशेषः । अनन्यथा-सिद्धेन लिङ्गेन श्रुतेर् बाधे यत्र योगः सम्भवति तत्र स एव गृह्यते मुख्यत्वात् । यथाज्यैः स्तुवते पृष्टैः स्तुवत इत्य् आदौ । यथा चात्रैवाक्षर-शब्दे । यत्र तु योगो ऽपि न सम्भवति तत्र गौणी वृत्तिर् यथाकाश-प्राणादि-शब्देषु । आकाश-शब्दस्यापि
ब्रह्मणि आ समन्तात् काशत इति योगः सम्भवतीति चेत् । स एव गृह्यताम् इति पञ्चपादीकृतः । तथा च परामर्षं सूत्रं प्रसिद्धेश् च (व्स् १।३।१७) इति । कृतम् अत्र विस्तरेण ।
तद् एवं किं तद् ब्रह्मेति निर्णीतम् । अधुना किम् अध्यात्मम् इति निर्णीयते । यद् अक्षरं ब्रह्मेत्य् उक्तं तस्यैव स्वभावः स्वो भावः स्वरूपं प्रत्यक्-चैतन्यं न तु स्वस्य भाव इति षष्ठी-समासः । लक्षणाप्रसङ्गात्, षष्ठी-तत्पुरुष-बाधेन कर्म-धारय-परिग्रहस्य श्रुत-पदार्थान्वयेन विषाद-स्थपत्य्-अधिकरण-सिद्धत्वात् । तस्मान् न ब्रह्मणः सम्बन्धि किन्तु ब्रह्म-स्वरूपम् एव । आत्मानं देहम् अधिकृत्य भोक्तृतया वर्तमानम् अध्यात्मम् उच्यते ऽध्यात्म-शब्देनाभिधीयते न करण-ग्राम इत्य् अर्थः ।
याग-दान-होमात्मकं वैदिकं कर्मैवात्र कर्म-शब्देन विविक्षितम् इति तृतीय-प्रश्नोत्तरम् आह भूतानां भवन-धर्मकाणां सर्वेषां स्थावर-जङ्गमानां भावम् उत्पत्तिम् उद्भवं वृद्धिं च करोति यो विसर्गस् त्यागस्त-तच्-छास्त्र-विहितो याग-दान-होमात्मकः स इह कर्म-सञ्ज्ञितः । कर्म-शब्देनोक्त इति यावत् । तत्र देवतोद्देशेन द्रव्य-त्यागो याग उत्तिष्ठद् धोमो वषट्-कार-प्रयोगान्तः । स एवोपविष्ट-होमः स्वाहा-कार-प्रयोगान्त आसेचन-पर्यन्तो होमः । पर-स्वत्वापत्ति-पर्यन्तः स्वत्व-त्यागो दानम् । सर्वत्र च त्यागांशो ऽनुगतः । तस्य च भा̆त-भावोद्भव-करत्वम्-
अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ इति स्मृतेः ।
ते वा एते आहुती हुते उत्क्रामतः इत्य् आदि श्रुतेश् च ॥३॥
विश्वनाथः — उत्तरम् आह अक्षरम् इति । न क्षरतीति अक्षरं नित्यं यत् परमं तद् ब्रह्म– एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्तीति श्रुतेः । स्वभावः स्वात्मानं देहाध्यास-वशाद् भावयति जनयतीति स्वभावः जीवः । यद् वा स्वं भावयति परमात्मानं प्रापयतीति स्वभावः शुद्ध-जीवो ऽध्यात्मम् उच्यते । अध्यात्म-शब्द-वाच्य इत्य् अर्थः । भूतैर् एव भावानां मनुष्यादि-देहानाम् उद्भवं करोतीति स विसर्गो जीवस्य संसारः कर्म-जन्यत्वात् कर्म-सञ्ज्ञः । कर्म-शब्देन जीवस्य संसार उच्यत इत्य् अर्थः ॥३॥
बलदेवः - एवं पृष्टो भगवान् क्रमेण सप्तानाम् उत्तरम् आह अक्षरम् इति । न क्षरतीति निर्क्तेर् अक्षरं यत् परमं देहादि-विविक्तं जीवात्म-चैतन्यं तन् मया ब्रह्मेत्य् उच्यते । तस्याक्षर-शब्दत्वं ब्रह्म-शब्दत्वं च-अव्यक्तम् अक्षरे लीयते ऽक्षरं तमसि लीयते तम एकीभवति परस्मिन्न् इति विज्ञानं ब्रह्म चेद् वेद इति श्रुतेः ।
स्वभाव इति । स्वस्य जीवात्मनः सम्बन्धी यो भावो भूत-सूक्ष्म-तद्-वासना-लक्षण-पदार्थः । पञ्चाग्नि-विद्यायां पठितस् तद्-आत्मनि सम्बध्यमानत्वान् मयाध्यात्मम् उच्यते ।
भूतेति तेषां सूक्ष्माणां भूतानां स्थूलैस् तैः सम्पृक्तानां भावो मनुष्यादि-लक्षणस् तद्-उद्भव-करस् तद्-उत्पादको यो विसर्गः स कर्म सञ्ज्ञितः । ज्योतिष्टोमादि-कर्मणा स्वर्गम् आसाद्य तस्मिन् देव-देहेन तत्-कर्मोपभुज्य-भाण्ड-सङ्क्रान्त-घृत-शेषवद्-भोगोर्वरितो यः कर्म-शेषो भुवि मनुष्यादि-देह-लाभाय विसृष्टस् तन् मया कर्मोच्यते । छान्दोग्ये द्यु-पर्जन्य-पृथिवी-पुरुष-योषित्सु पञ्चस्व् अग्निषु श्रद्धा-सोम-वृष्ट्य्-अन्न-रेतांसि क्रमात् पञ्चाहुतयः पठ्यन्ते । तत्रायम् अर्थः - वैदिको जीव इह लोके ऽस्मयानि दध्य्-आदीनि श्रद्धया जुहोति । ता दध्य्-आदिमय्यः पञ्चीकृतत्वात् पञ्च-भूत-रूपा आपः श्रद्धया हुतत्वात् श्रद्धाख्याहुति-स्वरूपेण तस्मिन् जीवे सम्बद्धास् तिष्ठन्ति । अथ तस्मिन् मृते तद्-इन्द्रियाधिष्ठातारो
देवास् ता द्युलोकाग्नौ जुह्वति । तद्वन्तं जीवं दिवं नयन्तीत्य् अर्थः । हुतास्ताः सोम-राजाख्य-दिव्य-देहतया परिणमन्ते तेन देहेन स तत्र कर्म-फलानि भुङ्क्ते । तद्-भोगावसाने ऽस्मयो जीववान् देहैस् तैर् देवैः पर्जन्याग्नौ हुतो वृष्टिर् भवति । वृष्टि-भूतास् ताः सजीवाः पृथिव्य्-अग्नौ तैर् हुता ब्रीह्य्-आद्य्-अन्न-भावं लभन्ते । अन्न-भूताः सजीवास् ताः पुरुषाग्नौ हुता रेतो-भावं भजन्ते । रेतो-भूताः स-जीवास् ता योषिद्-अग्नौ तैर् हुता गर्भात्मना स्थिता मनुष्य-भावं प्रयान्तीति तद्-भाव-हेतुर् अनुशय-शब्द-वाच्यः कर्म-शेषः कर्मेति । एवम् एवोक्तं सूत्रकृता तद्-अन्तर-प्रतिपत्तौ इत्य् आदिभिः ॥३॥
८।४
अधिभूतं क्षरो भावः पुरुषश् चाधिदैवतम् ।
अधियज्ञो ऽहम् एवात्र देहे देहभृतां वर ॥४॥
श्रीधरः - किं च अधिभूतम् इति । क्षरो विनश्वरो भावो देहादि-पदार्थः । भूतं प्राणि-मात्रम् अधिकृत्य भवतीत्य् अधिभूतम् उच्यते । पुरुषो वैराजः सूर्य-मण्डल-मध्यवर्ती स्वांश-भूत-सर्व-देवतानाम् अधिपतिर् अधिदैवतम् उच्यते । अधिदैवतम् अधिष्ठात्री देवता ।
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ इति श्रुतेः ।
अत्रास्मिन् देहे ऽन्तर्यामित्वेन स्थितो ऽहम् एवाधियज्ञो यज्ञादि-कर्म-प्रवर्तकस् तत्-फल-दाता च । कथम् इत्य् अस्याप्य् उत्तरम् अनेनैवोक्तं भ्रष्टव्यम् । अन्तर्यामिणो ऽसङ्गत्वादिभिर् गुणैर् जीव-वैलक्षण्येन देहान्तर्वर्तित्वस्य प्रसिद्धत्वात् । तथा च श्रुतिः-
द्वा सुपर्णा सयुजा सखाया
समानं वृक्षं परिषस्वजाते ।
तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्
अनश्नन्न् अन्यो ऽभिचाकशीति ॥ [मुण्डु ७।१।१]
देह-भृतां मध्ये श्रेष्ठेति सम्बोधयंस् त्वम् अप्य् एवम्भूतम् अन्तर्यामिणं पराधीन-स्व-प्रवृत्ति-निवृत्त्य्-अन्वय-व्यतिरेकाभ्यां बोद्धुम् अर्हसीति सूचयति ॥४॥
मधुसूदनः - सम्प्रत्य् अग्रिम-प्रश्न-त्रयस्योत्तरम् आह अधिभूतम् इति । क्षरतीति क्षरो विनाशी भावो यत् किञ्चिज् जनिमद् वस्तु भूतं प्राणि-जातम् अधिकृत्य भवतीत्य् अधिभूतम् इत्य् उच्यते । पुरुषो हिरण्यगर्भः समष्टि-लिङ्गात्मा व्यष्टि-सर्व-करणानुग्राहकः आत्मैवेदम् अग्र आसीत् पुरुषविधः इत्य् उपक्रम्य स यत् पूर्वो ऽस्मात् सर्वस्व्मात् सर्वान् पाप्मन औषत्तस्मात् पुरुषः इत्य् आदि-श्रुत्या प्रतिपादितः । च-कारात्-
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥
इत्य् आदि-स्मृत्या च प्रतिपादितः । अधिदैवतं दैवतान्य् आदित्यादीन् अधिकृत्य चक्षुर्-आदि-करणान्य् अनुगृह्णातीति । तथोच्यते अधियज्ञः सर्व-यज्ञाधिष्ठाता सर्व-यज्ञ-फल-दायकश् च । सर्व-यज्ञाभिमानिनी विष्ण्व्-आख्या देवता यज्ञो वै विष्णुः इति श्रुतेः । स च विष्णुर् अधियज्ञो ऽहं वासुदेव एव न मद्-भिन्नः कश्चित् । अतएव पर-ब्रह्मणः सकाशाद् अत्यन्ताभेदेनैव प्रतिपत्तव्य इति कथम् इति व्याख्यातम् । स चात्रास्मिन् मनुष्य-देहे यज्ञ-रूपेण वर्तते बुद्ध्यादि-व्यतिरिक्तो विष्णु-रूपत्वात् । एतेन स किम् अस्मिन् देहे ततो बहिर् वा देहे चेत् को ऽत्र बुद्ध्यादिस् तद् व्यतिरिक्तो वेति सन्देहो निरस्तः । मनुष्य-देहे च यज्ञस्यावस्थानं यज्ञस्य मनुष्य-देह-निर्वर्त्यत्वात् । पुरुषो वै यज्ञः पुरुषस् तेन यज्ञो यद् एनं पुरुषस् तनुते इत्य् आदि श्रुतेः ।
हे देह-भृतां वर सर्व-प्राणिनां श्रेष्ठेति सम्बोधयन् प्रतिक्षणं मत्-सम्भाषणात् कृतकृत्यस् त्वम् एतद्-बोध-योग्यो ऽसीति प्रोत्साहयत्य् अर्जुनं भगवान् । अर्जुनस्य सर्व-प्राणि-श्रेष्ठत्वं भगवद्-अनुग्रहातिशय-भाजनत्वात् प्रसिद्धम् एव ॥४॥
विश्वनाथः — क्षरो नश्वरो भावः पदार्थो घट-पटादिर् अधिभूतम् अधिभूत-शब्द-वाच्यः पुरुषः समष्टि-विराड्-अधिदैवत-शब्द-वाच्यः । अधिकृत्य वर्तमानानि सूर्यादि-दैवतानि यत्र इति तन्-निरुक्तेः । अत्र देहे ऽधियज्ञो यज्ञादि-कर्म-प्रवर्तको ऽन्तर्याम्य् अहं मद्-अंशकत्वाद् अहम् एवेत्य् एव-कारेण कथं ज्ञेय इत्य् अस्योत्तरम् अन्तर्यामित्वे ऽहम् एव मद्-अभिन्नत्वे नैव ज्ञेयो न तु अध्यात्मादिर् इवे मद्-भिन्नत्वेनेत्य् अर्थः । देहे देह-भृतां वरेति त्वं तु साक्षान् मत्-सखत्वात् सर्व-श्रेष्ठ एव भवसीति भावः ॥४॥
बलदेवः - अधीति । क्षरः प्रतिक्षण-परिणामी भावः स्थूलो देहः स मयाधिभूतम् इत् उच्यते । भूतं प्राणिनम् अधिकृत्य भवतीति व्युत्पत्तेः । पुरुषः समष्टि-विराट् स मयाधिदैवम् इत्य् उच्यते अधिकृत्य वर्तमानान्य् आदित्यादीनि दैवतान्य् अत्रेति व्युत्पत्तेः । अत्र देहे ऽधियज्ञो यज्ञम् अधिकृत्य वर्तत इति व्युत्पत्तेस् तत्-प्रवर्तकस् तत्-फल-प्रदश् चाहम् एव । प्रत्याख्येयानि तु स्वयम् एवोह्यानि । एव-कारेण स्वस्मात् तस्य भेदो निराकृतः । अनेन कथम् इत्य् अस्याप्य् उत्तरम् उक्तं प्रादेश-मात्र-वपुस्त्वेनान्तर्-नियमयन्न् अहं यज्ञादि-प्रवर्तक इत्य् अर्थः । तथा च मद्-अर्चा-सेवनाद् एतान् ब्रह्मादीन् सप्तार्थान् स्वरूपतो ऽ श्रमेण विन्दतीति । तत्र ब्रह्माधियज्ञौ प्राप्यतयाध्यात्मादीनि तु हेयतयेति ॥४॥
८।५
अन्त-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्य् अत्र संशयः ॥५॥
श्रीधरः - प्रयाण-काले च ज्ञायो ऽसीत्य् अनेन पृष्टम् अन्त-काले ज्ञानोपायं तत्-फलं च दर्शयति अन्त-काल इति । माम् एवोक्त-लक्षणम् अन्तर्यामि-रूपं परमेश्वरं स्मरन् देहं त्यक्त्वा यः प्रकर्षेणार्चिर्-आदि-मार्गेणोत्तरायण-पथा याति स मद्-भावं मद्-रूपतां याति । अत्र संशयो नास्ति । स्मरणं ज्ञानोपायः । मद्-भावापत्तिश् च फलम् इत्य् अर्थः ॥५॥
मधुसूदनः - इदानीं प्रयाण-काले च कथं ज्ञेयो ऽसीति सप्तमस्य प्रश्नस्योत्तरम् आह अन्त-काले चेति । माम् एव भगवन्तं वासुदेवम् अधियज्ञं स-गुणं निर्गुणं वा परमम् अक्षरं ब्रह्म न त्व् अध्यात्मादिकं स्मरन् सदा चिन्तयंस् तत्-संस्कार-पाटवात् समस्त-करण-ग्राम-वैयग्र्यवत्य् अन्त-काले ऽपि स्मरन् कलेवरं मुक्त्वा शरीरे ऽहं-ममाभिमानं त्यक्त्वा प्राण-वियोग-काले यः प्रयाति स-गुण-ध्यान-पक्षे ऽग्निज्योतिर्-अहः-शुक्ल इत्य् आदि-वच्यमाणेन देव-यान-मार्गेण पितृ-यान-मार्गात् प्रकर्षेण याति स उपासको मद्-भावं मद्-रूपतां निर्गुण-ब्रह्म-भावं हिरण्य-गर्भ-लोक-भोगान्ते याति प्राप्नोति । निर्गुण-ब्रह्म-स्मरण-पक्षे तु कलेवरं त्यक्त्वा प्रयातीति लोक-दृष्ट्य्-अभिप्रायं न तस्य प्राणा उत्क्रामन्त्य् अत्रैव समवनीयन्ते इति श्रुतेस्
तस्य प्राणोत्क्रमणाभावेन गत्य्-अभावात् । स मद्-भावं साक्षाद् एव याति ब्रह्मैव सन् ब्रह्माप्य् एति (बउ ४।४।६) इति श्रुतेः । नास्त्य् अत्र देह-व्यतिरिक्त आत्मनि मद्-भाव-प्राप्तौ वा संशयः । आत्मा देहाद्य्-अतिरिक्तो न वा, देह-व्यतिरेके ऽपि ईश्वराद् भिन्नो न वेति सन्देहो न विद्यते छिद्यन्ते सर्व-संशयाः (मुण्डु २।२।८) इति श्रुतेः । अत्र च कलेवरं मुक्त्वा प्रयातीति देहाद् भिन्नत्वं मद्-भावं यातीति चेश्वराद् अभिन्नत्वं जीवस्योक्तम् इति द्रष्टव्यम् ॥५॥
विश्वनाथः — प्रयाण-काले कथं ज्ञेयो ऽसीत्य् अस्योत्तरम् आह-अन्त-काले चेति । माम् एव स्मरन्न् इति मत्-स्मरणम् एव मज्-ज्ञानम् । न तु घट-पटादिर् इवाहं केनापि तत्त्वतो ज्ञातुं शक्य इति भावः । स्मरण-रूप-ज्ञानस्य प्रकारस् तु चतुर्दश-श्लोके वक्ष्यते ॥५॥
बलदेवः – प्रयाण-काले कथं ज्ञेयो ऽसीत्य् अस्योत्तरम् आह-अन्तेति । अत्र स्मरणात्मकेन ज्ञानेन ज्ञेयो भवन्-मद्-भावोपलम्भनं च तत् फलं प्रयच्छामीत्य् उक्तम् । तत्र मद्-भावं मत्-स्वभावम् इत्य् अर्थः । यथाहम् अपहत-पाप्मत्वादि-गुणाष्टक-विशिष्ट-स्वभावस् तादृशः स मत्-स्मर्ता भवतीति ॥५॥
८।६
यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् ।
तं तम् एवैति कौन्तेय सदा तद्भावभावितः ॥६॥
श्रीधरः - न केवलं मां स्मरन् मद्-भावं प्राप्नोतीति नियमः । किं तर्हि? यं यम् इति । यं यं भावं देवतान्तरं वान्यम् अपि वान्त-काले स्मरन् देहं त्यजति तं तम् एव स्मर्यमाणं भावं प्राप्नोति । अन्त-काले भाव-विशेष-स्मरणे हेतुः । सदा तद्-भाव-भावित इति सर्वदा तस्य भावो भावना अनुचिन्तनम् । तेन भावितो वासित-चित्तः ॥६॥
मधुसूदनः - अन्त-काले भगवन्तम् अनुध्यायतो भगवत्-प्राप्तिर् नियतेति वदितुम् अन्यद् अपि यत्किञ्चिद् अपि यत् किञ्चित् तत्-काले ध्यायतो देहं त्यजतस् तत्-प्राप्तिर् अवश्यम्भाविनीति दर्शयति यं यम् इति । न केवलं मां स्मरन् मद्-भावं यातीति नियमः किं तर्हि यं यं चापि भावं देवता-विशेषं च-काराद् अन्यद् अपि यत् किञ्चिद् वा स्मरंश् चिन्तयन्न् अन्ते प्राण-वियोग-काले कलेवरं त्यजति स तं तम् एव स्मर्यमाणं भावम् एव नान्यम् एति प्राप्नोति । हे कौन्तेयेति पितृ-ष्वसृ-पुत्रत्वेन स्नेहातिशयं सूचयति । तेन चावश्यानुग्राह्यत्वं तेन च प्रतारणाशङ्का-शून्यत्वम् इति ।
अन्त-काले स्मरणोद्यमासम्भवे ऽपि पूर्वाभ्यास-जनिता वासनैव स्मृति-हेतुर् इत्य् आह - सदा सर्वदा तस्मिन् देवता-विशेषादौ भावो भावना वासना तद्-भावः स भावितः सम्पादितो येन स तथा भावित-तद्-भाव इत्य् अर्थः । आधिताग्न्य्-आदेर् आकृति-गणत्वाद् भावित-पदस्य पर-निपातः । तद्-भावेन तच्-चिन्तनेन भावितो वासित-चित्त इति वा ॥६॥
विश्वनाथः — माम् एव स्मरन् मां प्राप्नोतीतिवन् मद्-अन्यम् अपि स्मरन् मद्-अन्यम् एव प्राप्नोतीत्य् आह यं यम् इति । तस्य भावेन भावनेनानुचिन्तनेन भावितो वासितस् तन्-मयी-भूतः ॥६॥
बलदेवः - न च मत्-स्मर्तेइव मद्-भावं यातीति नियमः । किन्त्व् अन्य-स्मर्ताप्य् अन्य-भावं यातीत्य् आह यं यम् इति । भावं पदार्थम् । तं तम् एव भाव-देह-त्यागोत्तरम् एवैति । यथा भरतो देहान्ते मृगं चिन्तयन् मृगो ऽभूत् । अन्तिम-स्मृतिश् च पूर्व-स्मृति-विषयैव भवतीत्य् आह सदेति । तद्-भाव-भावितस् तत्-स्मृति-वासित-चित्तः ॥६॥
८।७
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च ।
मय्य् अर्पितमनोबुद्धिर् माम् एवैष्यस्य् असंशयः ॥७॥
श्रीधरः - यस्मात् पूर्व-वासनैवान्त-काले स्मृति-हेतुः, न तु तदा विवशस्य स्मरणोद्यमो सम्भवति तस्माद् इति । तस्मात् सर्वदा माम् अनुस्मर चिन्तय । सततं स्मरणं च चित्त-शुद्धिं विना न भवति । अतो युध्य च युध्यस्व । चित्त-शुद्ध्य्-अर्थं युद्धादिकं स्वधर्मम् अनुतिष्ठेत्य् अर्थः । एवं मय्य् अर्पितं मनः सङ्कल्पात्मकं बुद्धिश् च व्यवसायात्मिकायेन त्वया स त्वं मामे व प्राप्स्यसि । असंशयः संशयो ऽत्र नास्ति ॥७॥
मधुसूदनः - यस्माद् एवं पूर्व-स्मरणाभ्यास-जनितान्त्या भावनैव तदानीं परवशस्य देहान्तर-प्राप्तौ कारणं तस्माद् इति । तस्मान् मद्-विषयकान्त्य-भावनोत्पत्त्य्-अर्थं सर्वेषु कालेषु पूर्वम् एवादरेण मां सगुणम् ईश्वरम् अनुस्मर चिन्तय । यद्य् अन्तःकरणाशुद्धि-वशान् न शक्नोषि सततम् अनुस्मर्तुं ततो ऽन्तःकरण-शुद्धये युध्य च । अन्तःकरण-शुद्ध्य्-अर्थं युद्धादिकं स्वधर्मं कुरु । युध्येति युध्यस्वेत्य् अर्थः । एवं च नित्य-नैमित्तिक-कर्मानुष्ठानेनाशुद्धि-क्षयान् मयि भगवति वासुदेवे ऽर्पिते सङ्कल्पाध्यवसाय-लक्षणे मनो-बुद्धी येन त्वया स त्वम् ईदृशः सर्वदा मच्-चिन्तन-परः सन् माम् एवैष्यसि प्राप्स्यसि । असंशयो नात्र संशयो विद्यते । इदं च सगुण-ब्रह्म-चिन्तनम् उपासकानाम् उक्तं तेषाम् अन्त्य-भावना-सापेक्षत्वात्
। निर्गुण-ब्रह्म-ज्ञानिनां तु ज्ञान-सम-कालम् एवाज्ञान-निवृत्ति-लक्षणाया मुक्तेः सिद्धत्वान् नास्त्य् अन्त्य-भावनापेक्षेति द्रष्टव्यम् ॥७॥
विश्वनाथः — मनः सङ्कल्पकात्मकम् । बुद्धिर् व्यवसायात्मिका ॥७॥
बलदेवः - यस्मात् पूर्व-स्मृतिर् एवान्तिम-स्मृति-हेतुस् तस्मात् त्वं सर्वेषु कालेषु प्रतिक्षणं माम् अनुस्मर युध्यस्व च लोक-सङ्ग्रहाय युद्धादीनि स्वोचितानि कर्माणि कुरु । एवं मय्य् अर्पितमनोबुद्धिस् त्वं माम् एवैष्यसि, न त्व् अन्यद् इय् अत्र सन्देहस् ते माभूत् ॥७॥
८।८
अभ्यास-योग-युक्तेन चेतसा नान्य-गामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८॥
श्रीधरः - सन्तत-स्मरणस्य चाभ्यासो ऽन्तरङ्ग-साधनम् इति दर्शयन्न् आह अभ्यास-योगेनेति । अभ्यासः सजातीय-प्रत्यय-प्रवाहः । स एव योग उपायः । तेन युक्तेनैकाग्रेण । अतएव नान्यं विषयं गन्तुं शीलं यस्य । तेन चेतसा । दिव्यं द्योतनात्मकं परमं पुरुषं परमेश्वरम् अनुचिन्तयन् हे पार्थ तम् एव यातीति ॥८॥
मधुसूदनः - तद् एवं सप्तानाम् अपि प्रश्नानाम् उत्तरम् उक्त्वा प्रयाण-काले भगवद्-अनुस्मरणस्य भगवत्-प्राप्ति-लक्षणं फलं विवरीतुम् आरभते अभ्यासेति । अभ्यासः सजातीय-प्रत्यय-प्रवाहो मयि विजातीय-प्रत्ययानन्तरितः षष्ठे प्राग् व्याख्यातः । स एव योगः समाधिस् तेन युक्तं तत्रैव व्यापृतम् आत्माकार-वृत्ति-शून्यं यच् चेतस् तेन चेतसाभ्यास-पाटवेन नान्य-गामिना नान्यत्र विषयान्तरे निरोध-प्रयत्नं विनापि गन्तुं शीलम् अस्येति तेन परमं निरतिशयं पुरुषं पूर्णं दिव्यं दिवि द्योतनात्मन्य् आदित्ये भवं यश् चासाव् आदित्ये इति श्रुतेः । याति गच्छति । हे पार्थ । अनुचिन्तयन् शास्त्राचार्योपदेशम् अनुध्यायन् ॥८॥
विश्वनाथः — तस्मात् स्मरणाभ्यासिन एवान्त-काले स्वत एव मत्-स्मरणं भवति । तेन च मां प्राप्नोतीत्य् अतश् चेतसो मत्-स्मरणम् एव परमो योग इत्य् आह अभ्यास-योग इति । अभ्यासो मत्-स्मरणस्य पुनः पुनर् आवृत्तिर् एव योगस् तद्-युक्तेन चेतसा, अतएव नान्यं विषयं गन्तुं शीलं यस्य तेन । स्मरणाभ्यासेन चित्तस्य स्वभाव-विजयो ऽपि भवतीति भावः ॥८॥
बलदेवः - सार्वदिकी स्मृतिर् एवान्तिम-स्मृतिकरीत्य् एवं द्रढयति अभ्यासेन्ति । अभ्यासः स्मरणावृत्तिर् एव योगस् तद्-युक्तेनातएवानन्य-गामिना । ततो ऽन्यत्राचलता तद् एकाग्रेण चेतसा दिव्यं पुरुषं परमं स-श्रीकं नारायणं वासुदेवम् अनुचिन्तयन् तम् एव कीट-भृङ्ग-न्यायेन तत्-तुलाः सन् याति लभते ॥८॥
८।९
कविं पुराणम् अनुशासितारम्
अणोर् अणीयांसम् अनुस्मरेद् यः ।
सर्वस्य धातारम् अचिन्त्य-रूपम्
आदित्य-वर्णं तमसः परस्तात् ॥९॥
श्रीधरः - पुनर् अप्य् अनुचिन्तनीयं पुरुषं विशिनष्टि कविम् इति द्वाभ्याम् । कविं सर्वज्ञं सर्व-विद्या-निर्मातारं पुराणं मनादि-सिद्धम् । अनुशासितारं नियन्तारम् । अणोः सूक्ष्माद् अप्य् अणीयांसं अतिसूक्ष्मम् आकाश-काल-दिग्भ्यो ऽप्य् अतिसूक्ष्मतरम् । सर्वस्य धातारं पोषकम् । अपरिमित-महिमत्वाद् अचिन्त्य-रूपं मलीमसयोर् मनो-बुद्ध्योर् अगोचरम् । वेदाहम् एतं पुरुषं महान्तम् आदित्य-वर्णं तमसः परस्तात् इति श्रुतेः ॥९॥
मधुसूदनः - पुनर् अपि तम् एवानुचिन्तयितव्यं गन्तव्यं च पुरुषं विशिनष्टि कविम् इति । कविं क्रान्त-दर्शिनं तेनातीतानागताद्य्-अशेष-वस्तु-दर्शित्वेन सर्वज्ञम् । पुराणं चिरन्तनं सर्व-कारणत्वाद् अनादिम् इति यावत् । अनुशासितारं सर्वस्य जगतो नियन्तारम् । अणोर् अणीयांसं सूक्षाद् अप्य् आकाशादेः सूक्ष्मतरं तद्-उपादानत्वात् । सर्वस्य कर्म-फल-जातस्य धातारं विचित्रतया प्राणिभ्यो विभक्तारं फलम् अत उपपत्तेः इति न्यायात् । न चिन्तयितुं शक्यम् अपरिमितम् अहिमत्वेन रूपं यस्य तम् । आदित्यस्येव सकल-जगद्-अवभासको वर्णः प्रकाशो यस्य तं सर्वस्य जगतो ऽवभासकम् इति यावत् । अतएव तमसः परस्तात् तमसो मोहान्धकाराद् अज्ञान-लक्षणात् परस्तात् प्रकाश-रूपत्वेन तमो-विरोधिनम् इति यावत् । अनुस्मरेच् चिन्तयेद् यः कश्चिद् अपि स तं यातीति पूर्वेणैव
सम्बन्धः । स तं परं पुरुषम् उपैति दिव्यम् इति परेण वा सम्बन्धः ॥९॥
विश्वनाथः — योगाभ्यासं विना मनसो विषय-ग्रामान् निवृत्तिर् दुर्घटा । यच् च विना सातत्येन भगवत्-स्मरणम् अपि दुर्घटम् इति युक्तम् । केनचित् योगाभ्यासेन सहितैव भक्तिः क्रियत इति तां योग-मिश्रां भक्तिम् आह कविम् इति पञ्चभिः । कविं सर्वज्ञं सर्वज्ञो ऽप्य् अन्यः सनकादिः सार्वकालिको न भवत्य् अत आह पुराणम् अनादिं सर्वज्ञो ऽनादिर् अप्य् अन्तर्यामी स भक्त्य्-उपदेष्टा न भवत्य् अत आह अनुशासितारम् । कृपया स्वभक्ति-शिक्षकं कृष्ण-रामादि-स्वरूपम् इत्य् अर्थः । तादृश-कृपालुर् अपि सुदुर्विज्ञेय-तत्त्व एव इत्य् आह अणोः सकाशाद् अप्य् अणीयांसम् । तर्हि स किं जीव इव परमाणु-प्रमाणस् तत्राह सर्वस्य धातारं सर्व-वस्तु-मात्र-धारकत्वेन सर्व-व्यापकत्वात् परं महा-परिमाणम् अपीत्य् अर्थः । अतएवाचिन्त्य-रूपम् । पुरुष-विधत्वेन
मध्यम-परिमाणम् अपि तस्यानन्य-प्रकाश्यत्वम् आह आदित्य-वर्णम् आदित्यवत् स्व-पर-प्रकाशको वर्णः स्वरूपं यस्य । तथा तमसः प्रकृतेः परस्तात् वर्तमानं माया-शक्तिमन्तम् अपि मायातीत-स्वरूपम् इत्य् अर्थः ॥९॥
बलदेवः - योगाद् ऋते चेतसो ऽनन्य-गामिता दुष्करेति योग-मिश्रां भक्तिम् आह कविम् इत्य् आदिभिः पञ्चभिः । कविं सर्वज्ञं । अनुशासितारम् रघुनाथादि-रूपेण हितोपदेष्टारम् । अणोर् अणीयांसं तेन चाणुम् अपि जीवम् अन्तः प्रविशतीति सिद्धम् । आह चैवं श्रुतिः अन्तः प्रविष्टः शास्ता जनानाम् इति । अणीयसो ऽपि तस्य व्याप्तिम् आह सर्वस्येति । कृत्स्नस्य जगतो धातारं धारकम् ।
ननु कथम् एवं सङ्गच्छते तत्राह अचिन्त्य-रूपं अवितर्क्य-स्वरूपं एकम् एव ब्रह्म पुरुष-विधत्वेन मध्यम-परिमाणम् अणोर् अणीयांसम् इत्य् उक्तेः । परमाणु-परिमाणं सर्वस्य धातारम् इत्य् उक्तेः । परं महा-परिमाणं चेति । नात्र युक्तेर् अवकाशः । स्व-परकाशताम् आह आदित्येति सूर्यवत् स्व-पर-प्रकाशकम् इत्य् अर्थः । माया-गन्धास्पर्शम् आह तमस इति । तमसो मायायाः परस्तात् स्थितं । मायिनम् अपि मायातीतम् इत्य् अर्थः । एतादृशं पुरुषं यो ऽनुक्षणं स्मरेत् स तं परं पुरुषम् उपैति इति परेणान्वयः ॥९॥
८।१०
प्रयाण-काले मनसाचलेन
भक्त्या युक्तो योग-बलेन चैव ।
भ्रुवोर् मध्ये प्राणम् आवेश्य सम्यक्
स तं परं पुरुषम् उपैति दिव्यम् ॥१०॥
श्रीधरः - प्रयाण-काल इति । स-प्रपञ्च-प्रकृतिं भित्त्वा यस् तिष्ठाति । एवम्भूतं पुरुषम् अन्त-काले भक्ति-युक्तो निश्चलेन विक्षेप-रहितेन मनसा यो ऽनुस्मरेत् । मनो-नैश्चल्ये हेतुः । योग-बलेन सम्यक् सुषुम्णा मार्गेण भ्रुवोर् मध्ये प्राणम् आवेश्येति । स तं परं पुरुषं परमात्म-स्वरूपं दिव्यं द्योतनात्मकं प्राप्नोति ॥१०॥
मधुसूदनः - कदा तद्-अनुस्मरणे प्रत्रातिरेको ऽभ्यवर्तते तद् आह प्रयानेति । प्रयाण-काले ऽन्त-काले ऽचलेनैकाग्रेण मनसा तं पुरुषं यो ऽनुस्मरेद् इत्य् अनुवर्तते । कीदृशः भक्त्या परमेश्वर-विषयेण परमेण प्रेम्णा युक्तः । योगस्य समाधेर् बलेन तज्-जनित-संस्कार-समूहेन व्युत्थान-संस्कार-विरोधिना च युक्तः । एवं प्रथमं हृदय-पुण्डरीके वशीकृत्य तत ऊर्ध्व-गामिन्या सुषुम्णया नाड्या गुरूपदिष्ट-मार्गेण भूमि-जय-क्रमेण भ्रुवोर् मध्ये आज्ञा-चक्रे प्राणम् आवेश्य स्थापयित्वा सम्यग् अप्रमत्तो ब्रह्म-रन्ध्राद् उत्क्राम्य स एवम् उपासकस् तं कविं पुराणम् अनुशासितारम् इत्य्-आदि-लक्षणं परं पुरुषं दिव्यं द्योतनात्मकम् उपैति प्रतिपद्यते ॥१०॥
विश्वनाथः — प्रयाण-काले ऽन्त-काले ऽचलेन निश्चलेन मनसा या सतत-स्मरण-मयी भक्तिस् तया युक्तः । कथं मनसो नैश्चल्यम् । अत आह योगस्य योगाभ्यासस्य बलेन । योग-प्रकारं दर्शयति भ्रुवोर् मध्ये आज्ञा-चक्रे ॥१०॥
बलदेवः – यो जनो भक्त्या परमात्म-प्रेम्णा योग-बलेन समाधि-जनित-संस्कार-निचयेन च युक्तः प्रयाण-काले मरण-समये ऽचलेनैकाग्रेण मनसा तं पुरुषम् अनुस्मरेत् । योग-प्रकारम् आह भ्रुवोर् इति । भ्रुवोर् मध्ये आज्ञा-चक्रे प्राणम् आवेश्य संस्थाप्य सम्यक् सावधानः सन् स तं पुरुषम् उपैति ॥१०॥
८।११
यद् अक्षरं वेदविदो वदन्ति
विशन्ति यद् यतयो वीतरागाः ।
यद् इच्छन्तो ब्रह्मचर्यं चरन्ति
तत् ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥११॥
श्रीधरः - केवलाद् अभ्यास-योगाद् अपि प्रणवा̆भ्यासम् अन्तरङ्गं विधित्सुः प्रतिजानीते-यद् अक्षरम् इति । यद् अक्षरं वेदार्थज्ञा वदन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इति श्रुतेः । वीतो रागो येभ्यस् ते वीत-रागाः । यतयः प्रयत्नवन्तो यद् विशन्ति । यच् च ज्ञातुम् इच्छन्तो गुरुकुले ब्रह्मचर्यं चरन्ति । तत् ते तुभ्यं पदं पद्यते गम्यत इति पदं प्राप्यम् । सङ्ग्रहेण सङ्क्षेपेण प्रवक्ष्ये । तत्-प्राप्त्य्-उपायं कथयिष्यामीत्य् अर्थः ॥११॥
मधुसूदनः - इदानीं येन केनचिद् अभिधानेन ध्यान-काले भगवद्-अनुस्मरणे प्राप्ते-
सर्वे वेदा यत्पदमामनन्ति
तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं सङ्ग्रहेण ब्रवीम्य् ॐ इत्य् एतत् ॥ (कठउ १।२।१५)
इत्य् आदि-श्रुति-प्रतिपादितत्वेन प्रणवेनैवाभिधानेन तद्-अनुस्मरणं कर्तव्यं नान्येन मन्त्रादिनेति नियन्तुम् उपक्रमते यद् अक्षरम् इति । यद् अक्षरम् अविनाशि ओङ्काराख्यं ब्रह्म वेद-विदो वदन्ति एतद् वै तद् अक्षरं गार्गि ब्राह्मणा अभिवदन्त्य् अस्थूलम् अण्व् अह्रस्वम् अदीर्घम् इत्य् आदि-वचनैः सर्व-विशेष-निवर्तनेन प्रतिपादयन्ति । प्रमाण-कुशलैर् एव प्रतिपन्नं किं तु मुक्तोपसृप्यतया तैर् अप्य् अनुभूतम् इत्य् आह-विशन्ति स्वरूपतया सम्यग्-दर्शनेन यद् अक्षरं यतयो यत्न-शीलाः सन्न्यासिनो वीत-रागा निःस्पृहाः । न केवलं सिद्धैर् अनुभूतं साधकानाम् अपि सर्वो ऽपि प्रयासस् तद्-अर्थ इत्य् आह यद्-इच्छन्तो ज्ञातुं नैष्ठिका ब्रह्मचारिणो ब्रह्मचर्यं गुरुकुल-वासादि-तपश् चरन्ति यावज्-जीवं तद् अक्षराख्यं पदं पदनीयं ते तुभ्यं सङ्ग्रहेण सङ्क्षेपेणाहं
प्रवक्ष्ये प्रकर्षेण कथयिष्यामि यथा तव बोधो भवति तथा । अतस् तद् अक्षरं कथं मया ज्ञेयम् इत्य् आकुलो मा भूर् इत्य् अभिप्रायः ।
अत्र च परस्य ब्रह्मणो वाचक-रूपेण प्रतिमावत्-प्रतीक-रूपेण च यः पुनर् एतं त्रिमात्रेणोम् इत्य् अनेऐवाक्षरेण परं पुरुषम् अभिध्यायीत स तम् अधिगच्छति इत्य् आदि-वचनैर् मन्द-मध्यम-बुद्धीनां क्रम-मुक्ति-फलकम् उपासनम् उक्तं तद् एवेहापि विवक्षितं भगवता । अतो योग-धारणा-सहितम् ओङ्कारोपासनं तत् फलं स्व-स्वरूपं ततो ऽपुनर्-आवृत्तिस् तन्-मार्गश् चेत्य् अर्थ-जातम् उच्यते यावद् अध्याय-समाप्ति ॥११॥
विश्वनाथः — ननु भ्रुवोर् मध्ये प्राणम् आवेश्य इत्य् एतावन् मात्रोक्त्या योगो न ज्ञायते, तस्मात् तत्र योगे प्रकारः कः, किं जप्यम्, किं वा ध्येयम्, किं वा प्राप्यम् इत्य् अपि सङ्क्षेपेण ब्रूहीत्य् अपेक्षायाम् आह यद् इति त्रिभिः । यद् एवाक्षरम् ॐ इत्य् एकाक्षर-वाच्यं ब्रह्म यतयो विशन्ति तत् पदं पद्यते गम्यत इति पदं प्राप्यम् । सम्यक्तया गृहय्ते ऽनेनेति सङ्ग्रहस् तद्-उपायस् तेन सह प्रवक्ष्ये शृणु ॥११॥
बलदेवः – ननु भ्रुवोर् मध्ये प्राणम् आवेश्यैतावता योगो नावगम्यते, तस्मात् तस्य प्रकारं तत्र जप्यं प्राप्यं ब्रूहीत्य् अपेक्षायाम् आह यद् अक्षरम् इति त्रिभिः । एकम् एव ब्रह्म अक्षरम् ॐ इति वाचकं वदन्ति । वीत-रागा विनष्टाविद्या यतयो यद् ब्रह्म तद्-वाच्य-भूतं विज्ञानैक-रसं विशन्ति प्राप्नुवन्ति । तद्-उभय-र्”पं ब्रह्म ज्ञातुम् इच्छन्तो नैष्ठिका गुरुकुल-वसादि-लक्षणं ब्रह्मचर्यं चरन्ति । तत् पदं प्राप्यं सङ्ग्रहेणोपायेन सह प्रवक्ष्ये वक्ष्यामि यथानायसेन त्वं तद्-विद्यां प्राप्नुयाः । सम्यग् गृह्यते तत्त्वम् अनेन इति निरुक्तेः सङ्ग्रह उपायः ॥११॥
८।१२-१३
सर्व-द्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्य् आधायात्मनः प्राणम् आस्थितो योग-धारणाम् ॥१२॥
ॐ इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥१३॥
श्रीधरः - प्रतिज्ञातम् उपायं साङ्गम् आह द्वाभ्यां सर्वेति । सर्वाणि इन्द्रिय-द्वाराणि संयम्य प्रत्याहृत्य । चक्षुर्-आदिभिः बाह्य-विषय-ग्रहणं अकुर्वन् इत्य् अर्थः । मनश् च हृदि निरुध्य । बाह्य-विषय-स्मरणम् अकुर्वन् इत्य् अर्थः । मूर्ध्नि भ्रुवोर् मध्ये प्राणम् आधाय योगस्य धारणां स्थैर्यम् आस्थितः आश्रितवान् सन् ॥१२॥
ॐ इति । ॐ इत्य् एकं यद् अक्षरं तद् एव ब्रह्म-वाचकत्वाद् वा प्रतिमादिवद् ब्रह्म-प्रतीकत्वाद् वा ब्रह्म । तद्-व्याहरन् उच्चारयंस् तद्-वाच्यं च माम् अनुस्मरन्न् एव देहं त्यजन् यः प्रकर्षेण याति अर्चिरादि-मार्गेण स परमां श्रेष्ठां गतिं मद्-गतिं याति प्राप्नोति ॥१३॥
मधुसूदनः - तत्र प्रवक्ष्य इति प्रतिज्ञातम् अर्थं सोपकरणम् आहअ द्वाभ्याम् सर्व-द्वाराणीति । सर्वाणीन्द्रिय-द्वाराणि संयम्य स्व-स्व-विषयेभ्यः प्रत्याहृत्य विषय-दोष-दर्शनाभ्यासात् तद्-विमुखताम् आपादितैः श्रोत्रादिभिः शब्दादि-विषय-ग्रहणम् अकुर्वन् । बाहेय्न्द्रिय-निरोधे ऽपि मनसः प्रचारः स्याद् इत्य् अत आह मनो हृदि निरुध्य च, अभ्यास-वैराग्याभ्यां षष्ठे व्याख्याताभ्यां हृदय-देशे मनो निरुध्य निर्वृत्तिकताम् आपाद्य च, अन्तर् अपि विषय-चिन्ताम् अकुर्वन्न् इत्य् अर्थः । एवं बहिर् अन्तर् उपलब्धि-द्वाराणि सर्वाणि सन्निरुध्य क्रिया-द्वारं प्राणम् अपि सर्वतो निगृह्य भूमि-जय-क्रमेण मूर्ध्न्य् आधाय भ्रुवोर् मध्ये तद्-उपरि च गुरूपदिष्ट-मार्गेणावेश्यात्मनो योग-धारणाम् आत्म-विषय-समाधि-रूपां धारणाम्
आस्थितः । आत्मन इति देवता-दिव्य-वृत्त्य्-अर्थम् ॥१२॥
ॐ इत्य् एकम् अक्षरं ब्रह्म-वाचकत्वात् प्रतिमा-बद्ध-ब्रह्म-प्रतीकत्वाद् वा ब्रह्म व्याहरन्न् उच्चरन् । ॐ इति व्याहरन्न् इत्य् एतावतैव निर्वाह एकाक्षरम् इत्य् अनायास-कथनेन स्तुत्य्-अर्थम् । ॐ इति व्याहरन्न् एकाक्षरम् एकम् अद्वितीयम् अक्षरम् अविनाशि सर्व-व्यापकं ब्रह्म माम् ॐ इत्य् अस्यार्थं स्मरन्न् इति वा । तेन प्रणवं जपंस् तद्-अभिधेय-भूतं च मां चिन्तयन् मूर्धन्यया नाड्या देहं त्यजन्यः प्रयाति स याति देव-यान-मार्गेण ब्रह्म-लोकं गत्वा तद्-भोगान्ते परमां प्रकृष्टां गतिं मद्-रूपाम् ।
अत्र पतञ्जलिना तीव्र-संवेगानाम् आसन्नः (य्स् १।२१) समाधि-लाभः इत्य् उक्त्वा ईश्वर-प्रणिधानाद् वा (१।२३) इत्य् उक्तम् । प्रणिधानं च व्याख्यातं तस्य वाचकः प्रणवः (१।२७), तज्-जपस् तद्-अर्थ-भावनम् (१।२८) इति । समाधि-सिद्धिर् ईश्वर-प्रणिधानात् (२।४५) इति च । इह तु साक्षाद् एव ततः परम-गति-लाभ इत्य् उक्तम् । तस्माद् अविरोधयोम् इत्य् एकाक्षरं ब्रह्म व्याहरन् माम् अनुस्मरन्न् आत्मनो योग-धारणाम् आस्थित इति व्याख्येयम् । विचित्र-फलत्वोपपत्तेर् वा न निरोध्यः ॥१३॥
विश्वनाथः — उक्तम् अर्थं वदन् योगे प्रकारम् आह सर्वाणि चक्षुर्-आदीन्द्रिय-द्वाराणि संयम्य बाह्य-विषयेभ्यः प्रत्याहृत्य मनश् च हृद्य् एव निरुध्य विषयान्तरेष्व् असङ्कल्प्य मूर्ध्नि भ्रुवोर् मध्ये एव प्राणम् आधाय योग-धारणाम् आनख-शिख-मन्-मूर्ति-भावनाम् आश्रितः सन् ॐ इत्य् एकाक्षरं ब्रह्म-स्वरूपं व्याहरन् उच्चारयन् तद्-वाच्यं माम् अनुस्मरन्न् अनुध्यायन् परमां गतिं मत्-सालोक्यम् ॥१२-१३॥
बलदेवः - योग-प्रकारम् आह सर्वेति । सर्वाणि बहिर् ज्ञान-द्वाराणि श्रोत्रादीनि संयम्य शब्दादिभ्यो विषयेभ्यः प्रत्याहृत्य दोष-दर्शनाभ्यासेन तद्-विमुखैस् तैस् तान् गृह्णन् श्रोत्रादि-संयमे ऽपि मनः प्रचरेद् इत्य् अत आह हृदि स्थिते मयि अन्तर्-ज्ञान-द्वारं मनो निरुध्य निवेश्य मनसापि तान् स्मरन् । अथ क्रिया-द्वारं प्राणं च मूर्ध्नाधायादौ हृत्-पद्मे वशीकृत्य तस्माद् ऊर्ध्व-गतया सुषुम्णया गुरूपदिष्ट-वर्त्मना भूमि-जय-क्रमेण भ्रुवोर् मध्ये तद्-उपरि ब्रह्म-रन्ध्रे च संस्थाप्य आत्मनो मम योग-धारणाम् आआद-शिखं मद्-भावनम् आस्थितः कुर्वन् ।
ॐ इति वाचकं ब्रह्म तत्र व्याहरन् अन्तर् उच्चारयन् तत् स्तौति एकाक्षरम् इति एकं प्रधानं च तद्-अक्षरम् अविनाशि चेति तथा तद् वाच्यं मां पर्मात्मानम् अनुस्मरन् ध्यायन् यो देहं त्यजन् प्रयाति स परमां गतिं मत्-सालोक्यतां याति ॥१२-१३॥
८।१४
अनन्य-चेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्य-युक्तस्य योगिनः ॥१४॥
श्रीधरः - एवं चान्त-काले धारणया मत्-प्राप्तिर् नित्याभ्यासवत एव भवति । नान्यस्येति पूर्वोक्तम् एवानुस्मारयति अनन्येति । नास्त्य् अन्यस्मिंश् चेतो यस्य । तथाभूतः सन् । यो मां सततं निरन्तरं नित्यशः प्रतिदिनं स्मरति । तस्य नित्य-युक्तस्य समाहितस्याहं सुखेन लभ्यो ऽस्मि नान्यस्य ॥१४॥
मधुसूदनः - य एवं वायु-निरोध-वैधुर्येण प्राणम् आवेश्य मूर्धन्यया नाड्या देहं त्यक्तुं स्वेच्छया न शक्नोति किं तु कर्म-क्षयेणैव परवशो देहं त्यजति तस्य किं स्याद् इति तद् आह अनन्य-चेता इति । न विद्यते मद्-अन्य-विषये चेतो यस्य सो ऽनन्य-चेताः सततं निरन्तरं नित्यशो यावज्-जीवं यो मां स्मरति तस्य स्व-वशतया वा देहं त्यजतो ऽपि नित्य-युक्तस्य सतत-समाहित-चित्तस्य योगिनः सुलभः सुखेन लभ्यो ऽहं परमेश्वर इतरेषाम् अतिदुर्लभो ऽपि हे पार्थ तवाहम् अतिसुलभो मा भैषीर् इत्य् अभिप्रायः ।
अत्र तस्येति षष्ठ्।-शेषे सम्बन्ध-सामान्ये । कर्तरि न लोकेत्य् आदिना निषेधात् । अत्र चानन्य-चेतस्त्वेन सत्-कारो ऽत्यादरम् । सततम् इति नैरन्तर्यं नित्यश इति दीर्घ-कालत्वं स्मरणस्योक्तम् । तेन स तु दीर्घ-काल-नैरन्तर्य-सत्कारासेवितो दृढ-भूमिः (य्स् १।१४) इति पातञ्जलं मतम् अनुसृतं भवति । तत्र स इत्य् अभ्यास उक्तो ऽपि स्मरण-पर्यवसायी । तेन यावज्-जीवं प्रतिक्षणं विक्षेपान्तर-शून्यतया भगवद्-अनुचिन्तनम् एव परम-गति-हेतुर् मूर्धन्यया नाड्या तु स्वेच्छया प्राणोत्क्रमणं भवतु न वेति नातीवाग्रहः ॥१४॥
विश्वनाथः — तद् एवम् आर्तः इत्य् आदिना कर्म-मिश्राम्, जअरा-मरण-मोक्षाय इत्य् अनेनापि कर्म-मिश्राम्, कविं पुराणं इत्य् आदिभिर् योग-मिश्रां च सपरिकरां प्रधानीभूतां भक्तिम् उक्त्वा सर्व-श्रेष्ठां निर्गुणां केवलां भक्तिम् आह-अनन्य-चेता इति । न विद्यते ऽन्यस्मिन् कर्मणि ज्ञान-योगे वानुष्ठेयत्वेन । तथा देवतान्तरे वाराध्यत्वेन । तथा स्वर्गापर्गादाव् अपि प्राप्यत्वेन चेतो यस्य । सततं सदेति काल-देश-पात्र-शुद्ध्य्-आद्य्-अनपेक्षतयैव नित्यशः प्रतिदिनम् एव यो मां स्मरति, यस्य तेन भक्तेनाहं सुलभः सुखेन लभ्यः । योग-ज्ञानाभ्यासादि-दुःख-मिश्रणाभावाद् इति भावः । नित्य-युक्तस्य नित्य-मद्-योगाकाङ्क्षिण आशंसायां भूतवच् चेति भाविन्य् अपि योग आशांसिते क्त-प्रत्ययः । योगिनो भक्ति-योगवतः । यद् वा योग-सम्बन्धो दास्य-सख्यादिस्
तद्वतः ॥१४॥
बलदेवः - एवं मोक्ष-मात्र-काङ्क्षिणां योग-मिश्रां भक्तिम् उपदिश्य स्व-ज्ञानिनां स्वम् एवाकाङ्क्षताम् एक-भक्तिर् इत्य् उक्तां शुद्धां भक्तिं उपदिशति अनन्येति । यो जनो ऽनन्य-चेता न मत्तो ऽन्यस्मिन् कर्म-योगादिके साधने स्वर्ग-मोक्षादिके साध्ये वा चेतो यस्य स मद्-एकाभिलाषवान् सततं सर्वदा देश-कालादि-विशुद्धि-नैरपेक्षेण नित्यशः प्रत्यहं मां यशोदा-स्तनन्धयं नृसिंह-रघुनाथादि-रूपेण बहुधाविर्भूतं सर्वेश्वरम् अतिमात्र-प्रियं स्मरत्य् अर्चन-जपादिष्व् अनुसन्धत्ते तस्याहं तत्-प्रीतिज्ञः सुलभः सुखेन लभ्यः कर्मानुष्ठान-योगाभ्यासादि-दुःख-सम्पर्काभावात् । तस्येति सम्बन्ध-सामान्ये षष्ठी, न लोकाव्यय इत्य् आदिना कर्तरि तस्याः प्रतिषेधात् । तादृशस्य तस्य वियोगम् असहिष्णुर् अहम् एव तम् आत्मानं
दर्शयामि तत्-साधन-परिपाकं तत्-प्रतिकूल-निरासं च कुर्वन् । श्रुतिश् चैवम् आह - यम् एवैष वृनुते तेन लभ्यस् तस्यैष आत्मा विविऋणुते तनूं स्वाम् इति । स्वयं च वक्ष्यति - ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते इत्य् आदिना । कीदृशस्येत्य् आह नित्येति । सर्वदा मद्-योगं वाञ्छतः आशंसायां भूतवच् च इति सूत्राद् आशांसिते योगे भविष्यत्य् अपि क्त-प्रत्ययः । योगिनो मद्-दास्य-सख्यादि-सम्बन्धवतः ॥१४॥
८।१५
माम् उपेत्य पुनर् जन्म दुःखालयम् अशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥१५॥
श्रीधरः - यद्य् एवं त्वं सुलभो ऽसि ततः किं ? अत आह माम् इति । उक्त-लक्षणा महात्मानो मद्-भक्ता मां प्राप्य पुनर् दुःखाश्रयम् अन्तियं च जन्म न प्राप्नुवन्ति । यतस् ते परमां सम्यक् सिद्धिं मोक्षम् एव प्राप्ताः । पुनर् जन्मनो दुःखानां चालयं स्थानं ते माम् उपेत्य न प्राप्नुवन्तीति वा ॥१५॥
मधुसूदनः - भगवन्तं प्राप्ताः पुनर् आवर्तन्ते न वेति सन्देहे नावर्तन्त इत्य् आह माम् इति । माम् ईश्वरं प्राप्य पुनर् जन्म मनुष्यादि-देह-सम्बन्धं कीदृशं दुःखालयं गर्भ-वास-योनि-द्वार-निर्गमनाद्य्-अनेक-दुःख-स्थानम् । अशाश्वतम् अस्थिरं दृष्ट-नष्ट-प्रायं नाप्नुवन्ति पुनर् नावर्तन्त इत्य् अर्थः । यतो महात्म्नानो रजस्-तमो-मल-रहितान्तः-करणा शुद्ध-सत्त्वाः समुत्पन्न-सम्यग्-दर्शना मल्-लोक-भोगान्ते परमां सर्वोत्कृष्टां संसिद्धिं मुक्तिं गतास् ते । अत्र मां प्राप्य सिद्धिं गता इति वदतोपासकानां क्रम-मुक्तिर् दर्शिता ॥१५॥
विश्वनाथः — त्वां प्राप्तवतस् तस्य किं स्याद् इत्य् आह माम् इति । दुःखालयं दुःख-पूर्णम् । अशाश्वतम् अनित्यं च जन्म नाप्नुवन्ति किन्तु सुख-पूर्णं जन्म मज्-जन्म-तुल्यं प्राप्नुवन्ति । शाश्वतस् तु ध्रुवो नित्यः सदाननः सनातनः इत्य् अमरः । यदा वसुदेव-गृहे सुख-पूर्णं नित्य-भूतम् अप्राकृतं मज्-जन्म भवेत् तद् एव तेषां मद्-भक्तानाम् अपि मन्-नित्य-सङ्गिनां जन्म स्यान् नान्यदा इति भावः । परमाम् इति अन्ये भक्ताः संसिद्धिं प्राप्नुवन्ति अनन्य-चेतसस् तु परमां संसिद्धिं मल्-लीला-परिकरताम् इत्य् अर्थः । तेनोक्त-लक्षणेभ्यः सर्व-भक्तेभ्यो दृश्य-श्रैष्ठ्यं द्योतितम् ॥१५॥
बलदेवः – तां लब्धवतः किं फलं स्याद् इत्य् अपेक्षायाम् आह माम् इति । माम् उक्त-लक्षणम् उपेत्य प्राप्य पुनः प्रपञ्चे जन्म नाप्नुवन्ति नावर्तन्त इत्य् अर्थः । कीदृशं जन्मेत्य् आह दुःखालयं गर्भ-वासादि-बहु-क्लेश-पूर्णम् । अशाश्वतम् अनित्यं दृष्ट-नष्ट-प्रायम् शाश्वतस् तु ध्रुवो नित्यः इत्य् अमरः । यतस् ते परमां सर्वोत्कृष्टां संसिद्धिं गतिं माम् एव गता लब्धवन्तः अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् इति वक्ष्यति । कीदृशास् ते महात्मानो ऽत्युदार-म्ननसः विज्ञानानन्द-निधिं भक्त-प्रसादाभिमुखं भक्तायत्त-सर्वस्वं मां विनान्यत् सार्ष्ट्यादिकम् अगणयन्तो मदे-एक-जीवातवो भवन्त्य् अतस् ते माम् एव संसिद्धिं गताः । अत्रानन्य-चेतसो ऽस्य स्वैकान्तिनः स्व-निष्ठेभ्यः स्व-भक्तेभ्यः श्रैष्ठ्यं
उच्यते ॥१५॥
८।१६
आ ब्रह्म-भुवनाल् लोकाः पुनर्-आवर्तिनो ऽर्जुन ।
माम् उपेत्य तु कौन्तेय पुनर्-जन्म न विद्यते ॥१६॥
श्रीधरः - सर्व एव जीवा महा-सुकृतिनो ऽपि जायन्ते । मद्-भक्तास् तु तद्वन् न जायन्त इत्य् आह आ-ब्रह्मेति । ब्रह्मणो भुवनं सत्य-लोकः तम् अभिव्याप्य ॥१६॥
मधुसूदनः - भगवन्तम् उपागतानां सम्यग्-दर्शिनाम् अपुनर्-आवृत्तौ कथितायां ततो विमुखानाम् असम्यग्-दर्शिनां पुनर्-आवृत्तिर् अर्थ-सिद्धेत्य् आह आब्रह्मेति । आब्रह्म-भुवनात् भवन्त्य् अत्र भूतानीति भुवनं लोकः । अभिविधाव् आ-कारः । ब्रह्म-लोकेन सह सर्वे ऽपि लोका मद्-विमुखानाम् असम्यग्-दर्शिनां भोग-भूतयः पुनर्-आवर्तिनः पुनर्-आवर्तन-शीलाः । ब्रह्म-भवनाद् इति पाठे भवनं वास-स्थानम् इति स एवार्थः । हे ऽर्जुन स्वतः-प्रसिद्ध-महा-पुरुष ।
किं तद्वद् एव त्वां प्राप्तानाम् अपि पुनर् आवृत्तिर् नेत्य् आह माम् ईश्वरम् एकम् उपेत्य तु । तुर् लोकान्तर-वैलक्षण्य-द्योतनार्थो ऽवधारणार्थो वा । माम् एव प्राप्य निर्वृत्तानां हे कौन्तेय मातृतो ऽपि प्रसिद्ध-महानुभाव पुनर्-जन्म न विद्यते पुनर्-आवृत्तिर् नास्तीत्य् अर्थः । अत्रार्जुन कौन्तेयेति सम्बोधन-द्वयेन स्वरूपतः कारणतश् च शुद्धिर् ज्ञान-सम्पत्तये सूचिता ।
अत्रेयं व्यवस्था । ये क्रम-मुक्ति-फलाभिरुपासनाभिर् ब्रह्म-लोकं प्राप्तास् तेषाम् एव तत्रोत्पन्न-सम्यग्-दर्शनानां ब्रह्मणा सह मोक्षः । ये तु पञ्चाग्नि-विद्यादिभिर् अतत्-क्रतवो ऽपि तत्र गतास् तेषाम् अवश्यम्भावि पुनर्-जन्म । अतएव क्रम-मुक्त्य्-अभिप्रायेण ब्रह्म-लोकम् अभिसम्पद्यते न च पुनर् आवर्तते, अनावृत्तिः शब्दात् इति श्रुति-सूत्रयोर् उपपत्तिः । इतरत्र तेषाम् इह न पुनर् आवृत्तिः इमं मानवम् आवर्तं नावर्तन्ते इतीहेमम् इति च विशेषणाद् गमनाधिकरण-कल्पाद् अन्यत्र पुनर् आवृत्तिः प्रतीयते ॥१६॥
विश्वनाथः — सर्व एव जीवा महा-सुकृतिनो ऽपि जायन्ते मद्-भक्तास् तु तवन् न जायन्त इत्य् आह आब्रह्मेति । ब्रह्मणो भुवनं सत्य-लोकस् तम् अभिव्याप्य ॥१६॥
बलदेवः - मद्-विमुखास् तु कर्म-विशेषैः स्वर्गादि-लोकान् प्राप्ता अपि तेभ्यः पतन्तीत्य् आह आब्रह्मेति । अभिविधावाकारः ब्रह्म भुवनं व्याप्येत्य् अर्थः । ब्रह्म-लोकेन सह सर्वे स्वर्गादयो लोकास् तत्-तद्-वर्तिनो जीवास् तत्-तत्-कर्म-क्षये सति पुनर् आवर्तिनो भूमौ पुनर् जन्म लभन्ते । माम् उपेत्येति पुनः कथनं दृढीकरणार्थम् । अत्रेदं बोध्यं पञ्चाग्नि-विद्यया महाहव-मरणादिना ये ब्रह्म-लोकं गतास् तेषां भोगान्ते पातः स्यात् । ये तु स-निष्ठाः परेश-भक्ताः स्वर्गादि-लोकान् क्रमेणानुभवन्तस् तत्र गतास् तेषां तु न तस्मात् पातः । किन्तु तल्-लोक-विनाशे तत्-पतिना सह परेश-लोक-प्राप्तिर् एव -
ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ इति स्मरणाद् इति ॥१६॥
८।१७
सहस्र-युग-पर्यन्तम् अहर् यद् ब्रह्मणो विदुः ।
रात्रिं युग-सहस्रान्तां ते ऽहोरात्र-विदो जनाः ॥१७॥
श्रीधरः - ननु च तपस्विनो दान-शीला वीत-रागास् तितिक्षवः । त्रैलोक्य-सोपरि-स्थानं लभन्ते लोक-वर्जितम् । इत्य् आदि पुराण-वाक्यैस् त्रैलोक्यस्य सकाशान् महर्लोकादीनाम् उत्कृष्टत्वं गम्यते । विनाशित्वे च सर्वेषाम् अवशिष्टे कथम् असौ विशेषः स्याद् इत्य् आशङ्क्य बह्व्-अल्प-काल-स्थायित्व-निमित्तो ऽसौ विशेष इत्य् आशयेन स्व-मानेन शत-वर्षायुषो ब्रह्मणो ऽहन्य् अहनि त्रिलोक्य उत्पत्तिः निशि निशि च प्रलयो भवतीति दर्शयिष्यन् ब्रह्मणो ऽहोरात्रयोः प्रमाणम् आह सहस्रेति ।
सहस्रं युगानि पर्यन्तो ऽवसानं य्स्य तद् ब्रह्मणो यद् अहस् तद् ये विदुः युग-सहस्रम् अन्तो यस्यास् तां रात्रिं च योग-बलेन ये विदुस् त एव सर्वज्ञा जना अहो-रात्र-विदः । येषां तु केवलं चन्द्रादित्य-गत्यैव ज्ञानं ते तथाहोरात्र-विदो न भवन्ति । अल्प-दर्शित्वात् । युग-शब्देन अत्र चतुर्युगम् अभिप्रेतं चतुर्युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते इति विष्णु-पुराणोक्तेः । ब्रह्मण इति च महर्-लोकादि-वासिनाम् उपलक्षणार्थम् । तत्रायं काल-गणना-प्रकारः । मनुष्याणां यद् वर्षं तद् देवानाम् अहो-रात्रम् । तादृशैर् अहो-रात्रैः पक्ष-मासादि-कल्पनया द्वादशभिर् वर्ष-सहस्रैश् चतुर्-युगं भवति । चतुर्-युग-सहस्रं तु ब्रह्मणो दिनम् । तावत् परिमाणैव रात्रिस् तादृशैर् अहो-रात्रैः पक्ष-मासादि-क्रमेण वर्ष-शतम्अ ब्रह्मणः परमायुर् इति ॥१७॥
मधुसूदनः - ब्रह्म-लोक-सहिताः सर्वे लोकाः पुनर् आवर्तिनः । कस्मात् ? काल-परिच्छिन्नत्वाद् इत्य् आह सहस्रेति । मनुष्य-परिमाणेन सहस्र-युग-पर्यन्तं सहस्रं युगानि चतुर्-युगानि पर्यन्तो ऽवसानं यस्य तत् । चतुर्युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते इति हि पौराणिकं वचनम् । तादृशं ब्रह्मणः प्रजापतेर् अहर्-दिनं यद् ये विदुः तथा रात्रिं युग-सहस्रान्तां चतुर्युग-सहस्र-पर्यन्तां ये विदुर् इत्य् अनुवर्तते ते ऽहोरात्र-विदस् त एवाहो-रात्र-विदो योगिनो जनाः । ये तु चन्द्रार्क-गत्यैव विदुस् ते नाहोरात्र-विदः स्वल्प-दर्शित्वाद् इत्य् अभिप्रायः ॥१७॥
विश्वनाथः — ननु अमृतं क्षेमम् अभयं त्रिमूर्ध्नो ऽधायि मूर्धसु (भ्प् २।६।१९) इति द्वितीय-स्कन्धोक्त्या केषाञ्चिन् मते ब्रह्म-लोकस्य अभयत्व-श्रवणात् । सन्न्यासिभिर् अपि जगमिषितत्वात् तत्रत्यानां पातो न सम्भाव्यते ? मैवं । तल्-लोक-स्वामिनो ब्रह्मणो ऽपि पातः स्यात् किम् उतान्येषाम् इति व्यञ्जयन्न् आह सहस्र इति । सहस्रं युगानि पर्यन्तो ऽवसानं यस्य तद् ब्रह्मणो ऽहर् दिनं यद् ये शास्त्राभिज्ञा विदुर् जानन्ति ते ऽहो-रात्र-विदो जना रात्रिम् अपि तस्य युग-सहस्रान्तां विदुः । तेन तादृशाहो-रात्रैः पक्षम् आसादि-क्रमेण वर्ष-शतं ब्रह्मणः परमायुर् इति । एतद्-अन्ते तस्यापि पातो न कस्यचिद् वैष्णवस्य तस्य ब्रह्मणो मोक्षश् चेति व्यञ्जितम् ॥१७॥
बलदेवः - स्वर्गादयः सत्यान्ताः सर्वे लोकाः काल-परिच्छिन्नत्वाद् विनश्यन्तीति भावेनाह सहस्रेति । यद् ये ब्रह्मणश् चतुर्मुखस्याहर् दिनं नृ-माणेन सहस्र-युग-पर्यन्तं विदुः चतुर्-युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते इति स्मृतेः । सहस्रं चतुर्युगानि पर्यन्तो ऽवसानं यस्य तत् । तस्य रात्रिं च चतुर्युग-सहस्रान्तां विदुस् त एव योगिनो जना अहो-रात्र-विदो भवन्ति । न त्व् अन्ये चन्द्रार्क-गति-विदो महर्-लोकादि-स्थितानाम् उपलक्षणम् एतत् । अयम् अर्थः नॄणां वर्षं देवानाम् अहो-रात्रं तादृशैर् अहो-रात्रैः पक्षम् आसादि-गणनया द्वादशभ्रि वर्ष-सहस्रैश् चतुर्-युगं चतुर्-युगानां सहस्रं तु ब्रह्मणो दिनं रात्रिश् च तावत्य् एव तादृशैश् चाहो-रात्रैः पक्षादि-गणनया वर्ष-शतं तस्य परमायुर् इति । तद्-अन्ते तल्-लोकस्य तद्-वर्तिनां च विनाशाद्
आवृत्तिः सिद्धेति ॥१७॥
८।१८
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्य् अहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥१८॥
श्रीधरः - तत्र किम् ? अत आह अव्यक्ताद् इति । कार्यस्याव्यक्तं रूपं कारणात्मकम् । तस्माद् अव्यक्तात् कारण-रूपाद् व्यज्यन्त इति व्यक्तयश् चराचराणि भूतानि प्रादुर्भवन्ति । कदा ? अहर्-आगमे ब्रह्मणो दिनस्योपक्रमे । तथा रात्रेर् आगमे ब्रह्म-शयने । तस्मिन्न् एवाव्यक्त-सञ्ज्ञके कारण-रूपे प्रलयं यान्ति । यद् वा ते ऽहोरात्र-विद इत्य् एतन् न विधीयन्ते । किन्तु ते प्रसिद्धा अहोरात्र-विदो जना ब्रह्मणो यद् अहर् विदुस् तस्याह्न आगमे ऽव्यक्ताद् व्यक्तयः प्रभवन्ति । यां च रात्रिं विदुस् तस्या रात्रेर् आगमे प्रलीयन्ते इति द्वयोर् अन्वयः ॥१८॥
मधुसूदनः - यथोक्तैर् अहो-रात्रैः पक्षम् आसादि-गणनया पूर्णं वर्ष-शतं प्रजापतेः परमायुर् इति काल-परिच्छिन्नत्वेनानित्यो ऽसौ । तेन तल्-लोकात् पुनर्-आवृत्ति-युक्तैव । ये तु ततो ऽर्वाचीनास् तेषां तद् अहर्-मात्र-परिच्छिन्नत्वात् तत्-तल्-लोकेभ्यः पुनर्-आवृत्तिर् इति किम् उ वक्तव्यम् इत्य् आह अव्यक्ताद् इति । अत्र दैनन्दिन-सृष्टि-प्रलयोर् एव वक्तुम् उपक्रान्तत्वात् तत्र चाकाशादीनां सत्त्वाद् अव्यक्त-शब्देनाख्याकृतावस्था नोच्यते । किन्तु प्रजापतेः स्वापावस्थैव । स्वापावस्थः प्रजापतिर् इति यावत् । अहर्-आगमे प्रजापतेः प्रबोध-समये ऽव्यक्तात् तत्-स्वापावस्था-रूपाद् व्यक्तयः शरीर-विषयादि-रूपा भोग-भूतयः प्रभवन्ति व्यवहार-क्षमतया ऽभिव्यज्यन्ते । रात्र्य्-आगमे तस्य स्वाप-काले पूर्वोक्ताः सर्वा अपि व्यक्तयः प्रलीयन्ते तिरो-भवन्ति यत आविर्भूतास् तत्रैवाव्यक्त-सञ्ज्ञके
कारणे प्राग्-उक्ते स्वापावस्थे प्रजापतौ ॥१८॥
विश्वनाथः — ये तु ततो ऽर्वाचीनास् त्रिलोक-स्थास् तेषां तु तस्याहन्य् अहन्य् अपि पात इत्य् आह अव्यक्ताद् इति । अत्र दैनन्दिन-सृष्टि-प्रलययोर् आकाशादीनां सत्त्वाद् अव्यक्त-शब्देन स्वापावस्थः प्रजापतिर् एवोच्यते इति मधुसूदन-सरस्वती-पादाः । ततश् च अव्यक्तात् स्वापावस्थात् प्रजापतेः सकाशाद् व्यक्तयः शरीर-विषयादि-रूपा भोग-भूमयो भवन्ति व्यवहार-क्षमाः स्युः । रात्र्य्-आगमे तस्य स्वाप-काले प्रलीयन्ते तस्मिन्न् एव तिरोभवन्ति ॥१८॥
बलदेवः – ये तु तस्माद् अर्वाचीनास् त्रिलोकी-वर्तिनस् तेषां ब्रह्मणो दिने पातः स्याद् इत्य् आह अव्यक्ताद् इति । अहर्-आगमे ब्रह्मणो जागर-समये अव्यक्तात् स्वापावस्थात् तस्मात् सर्वा शरीरेन्द्रिय-भोग्य-भोग-स्थान-रूपा व्यक्तयः प्रभवन्त्य् उत्पद्यन्ते । रात्र्य्-आगमे तस्य स्वाप-समये तत्रैव ब्रह्मण्य् अव्यक्त-सञ्ज्ञके स्वापावस्थे कारणे ताः प्रलीयन्ते तिरोभवन्ति । अत्राव्यक्त-शब्देन प्रधानं नाभिधेयं दैनन्दिन-सृष्टि-प्रलययोर् उपक्रमात् । तदा वियद्-आदीनां स्थितत्वाच् च । किन्तु स्वापावस्थो ब्रह्मैव तस्यार्थः ॥१८॥
८।१९
भूत-ग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्य्-आगमे ऽवशः पार्थ प्रभवत्य् अहरागमे ॥१९॥
श्रीधरः - अत्र च कृत-नाशाकृताभ्यागम-शङ्कां वारयन् वैराग्यार्थं सृष्टि-प्रय्लय-प्रवाहस्याविच्छेदं दर्शयति भूत-ग्राम इति । भूतानां चराचर-प्राणिनाम् । ग्रामः समूहः । यः प्राग् आसीत् स एवायम् अहर्-आगमे भूत्वा भूत्वा रात्रेर् आगमे प्रलीयन्ते प्रलीय प्रलीय पुनर् अप्य् अहर्-आगमे ऽवशः कर्मादि-परतन्त्रः सन् प्रभवति नान्य इत्य् अर्थः ॥१९॥
मधुसूदनः - एवम् आशु-विनाशित्वे ऽपि संसार-स्थ न निवृत्तिः क्लेश-कर्मादिभिर् अवशतया पुनः पुनः प्रादुर्भावात् प्रादुर्भूतस्य च पुनः क्लेशादि-वशेनैव तिरोभावात् । संसारे विपरिवर्तमानानां सर्वेषाम् अपि प्राणिनाम् अस्वातन्त्र्याद् अवशानाम् एव जन्म-मरणादि-दुःख-प्रबन्ध-सम्बन्धाद् अलम् अनेन संसारेणेति-वैराग्योत्पत्त्य्-अर्थं समान-नाम-रूपत्वेन च पुनः पुनः प्रादुर्भावात् कृत-नाशाकृताभ्यागम-परिहारार्थं चाह भूत-ग्राम इति । भूत-ग्रामो भूत-समुदायः स्थावर-जङ्गम-लक्षणो यः पूर्वस्मिन् कल्पे स्थितः स एवायम् एतस्मिन् कल्पे जायमानो ऽपि न तु प्रतिकल्पम् अन्यो ऽन्यच् च । असत्-कार्य-वादानभ्युपगमात् ।
सूर्या-चन्द्रमसौ धाता यथा-पूर्वम् अकल्पयत् ।
दिवं च पृथिवीं चान्तरिक्षम् अथो सुवः ॥ इति श्रुतेः । (महानारायणउ १।६५)
समान-नाम-रूपत्वाद् आवृत्ताव् अप्य् अविरोधौ दर्शनात् स्मृतेश् च (व्स् १।३।३०) इति न्यायाच् च । अवश इत्य् अविद्या-काम-कर्मादि-परतन्त्रः । हे पार्थ स्पष्टम् इतरत् ॥१९॥
विश्वनाथः — एवम् एव भूतानां चराचर-प्राणिनां ग्रामः समूहः ॥१९॥
बलदेवः - ये प्रलीनास् ते पुनर् न भविष्यन्तीति कृत-हान्याकृताभ्यागम-शङ्का स्यात् तां निरस्यन्न् आह भूतेति । भूत-ग्रामः स्थिर-चर-प्राणि-समूहो ऽवशः कर्माधीनः सन् तथा चेदृश-जन्म-मृत्यु-प्रवाह-सङ्कुले प्रपञ्चे ऽस्मिन् विवेकिनां वैराग्यं युक्तम् इत्य् उक्तम् ॥१९॥
८।२०
परस् तस्मात् तु भावो ऽन्यो ऽव्यक्तो ऽव्यक्तात् सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥
श्रीधरः - लोकानाम् अनित्यत्वं प्रपञ्च्य परमेश्वर-स्वरूपस्य नित्यत्वं प्रपञ्चयति - पर इति द्वाभ्याम् । तस्माच् चराचर-कारण-भूताद् अव्यक्तात् परस् तस्यापि कारण-भूतो यो ऽन्यस् तद्-विलक्षणो ऽव्यक्तश् चक्षुर्-आद्य्-अगोचरो भावः सनातनो ऽनादिः । स तु सर्वेषु कार्य-कारण-लक्षणेषु भूतेषु नश्यत्व् अपि न विनश्यति ॥२०॥
मधुसूदनः - एअम् अवशानाम् उत्पत्ति-विनाश-प्रदर्शनेनाब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिन इत्य् एतद् व्याख्यातम् अधुना माम् उपेत्य पुनर् जन्म न विद्यत इत्य् एतद् व्याचष्टे द्वाभ्यां परस् तस्माद् इति । तस्माच् चराचर-स्थूल-प्रपञ्च-कारण-भूताद् धिरण्यगर्भाख्याद् अव्यक्तात् परो व्यतिरिक्तः श्रेष्ठो वा तस्यापि कारण-भूतः । व्यतिरेके ऽपि सालक्षण्यं स्याद् इति नेत्य् आह-अन्यो ऽत्यन्त-विलक्षणः न तस्य प्रतिमा अस्ति इति श्रुतेः । अव्यक्तो रूपादि-हीनतया चक्षुर्-आद्य्-अगोचरो भावः कल्पितेषु सर्वेषु कार्येषु सद्-रूपेणानुगतः । अतएव सनातनो नित्यः । तु-शब्दो हेयाद् अनित्याद् अव्यक्ताद् उपादेयत्वं न्तियस्याव्यक्तस्य वैलक्षण्यं सूचयति । एतादृशो यो भावः स हिरण्यगर्भ इव सर्वेषु भूतेषु नश्यत्स्व् अपि न विनश्यति उत्पद्यमानेष्व् अपि नोत्पद्यत इत्य् अर्थः
। हिरण्यगर्भस्य तु कार्यस्य भूताभिमानित्वात् तद्-उत्पत्ति-विनाशाभ्यां युक्ताव् एवोत्पत्ति-विनाशौ न तु तद्-अनभिमानिनो ऽकार्यस्य परमेश्वरस्येति भावः ॥२०॥
विश्वनाथः — तस्माद् उक्त-लक्षणाद् अव्यक्तात् प्रजापतेर् हिरण्यगर्भात् सकाशात् परः श्रेष्टः । हिरण्यगर्भस्यापि कारणभूतो यो ऽन्यः खल्व् अव्यक्तो भावः सनातनो ऽनादिः ॥२०॥
बलदेवः - तद् एवं कर्म-तन्त्राणां जन्म-विनाश-दर्शनेन आब्रह्म-भुवनात् इत्य् एतद् विवृतम् । अथ माम् उपेत्यैतद् विवृणोति परस् तस्माद् इति । तस्माद् उत्क-रूपाद् अव्यक्ताद् ब्रह्मणो हिरण्यगर्भाद् अन्यो यो भावः पदार्थः परः श्रेष्ठस् ततो ऽत्यन्त-विलक्षणस् तस्योपास्य इत्य् अर्थः । अतिवैलक्षण्यम् आह अव्यक्त इति । आतम्-विग्रहत्वात् प्रत्यक् इत्य् अर्थः । प्रसादितस् तु प्रत्यक्षो ऽपि भवतीत्य् उक्तं प्राक् । सनातनो ऽनादिः । स खलु हिरण्यगर्भ-पर्यन्तेषु सर्वेषु भूतेषु न विनश्यति ॥२०॥
८।२१
अव्यक्तो ऽक्षर इत्य् उक्तस् तम् आहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद् धाम परमं मम ॥२१॥
श्रीधरः - अविनाशे प्रमाणं दर्शयन्न् आह अव्यक्त इति । यो भावो ऽव्यक्तो ऽतीन्द्रियः । अक्षरः प्रवेश-नाश-शून्य इति । तथाक्षरात् सम्भवतीह विश्वं इत्य् आदि-श्रुतिष्व् अक्षर इत्य् उक्तः । तं परमां गतिं गम्यं पुरुषार्थम् आहुः । पुरुषान् न परं किञ्चित् सा काष्ठा सा परा गतिः इत्य्-आदि-श्रुतयः । परम-गतित्वम् एवाह यं प्राप्य न निवर्तन्त इति । तच् च ममैव धाम स्वरूपम् । ममेत्य् उपचारे षष्ठी । राहोः शिर इतिवत् । अतो ऽहम् एव परमा गतिर् इत्य् अर्थः ॥२१॥
मधुसूदनः - यो भाव इहाव्यक्त इत्य् अक्षर इति चोक्तो ऽन्यत्रापि श्रुतिषु स्मृतिषु च तं भावम् आहुः श्रुतयः स्मृतयश् च पुरुषान् न परं किञ्चित् सा काष्ठा परमा गतिः इत्य् आद्याः । परमाम् उत्पत्ति-विनाश-शून्य-स्व-प्रकाश-परमानन्द-रूपां गतिं पुरुषार्थ-विश्रान्तिम् । यं भावं प्राप्य न पुनर् निवर्तन्ते संसाराय तद्-धाम स्वरूपं मम विष्णोः परमं सर्वोत्कृष्टम् । मम धामेति राहोः शिर इतिवद् भेद-कल्पनया षष्ठी । अतो ऽहम् एव परमा गतिर् इत्य् अर्थः ॥२१॥
विश्वनाथः — पूर्वोक्त-श्लोकोक्तम् अव्यक्त-शब्दं व्याचष्टे अव्यक्त इति । न क्षरतीत्य् अक्षरो नारायणः एको नारायण आसीन् न ब्रह्मा न च शङ्करः इति श्रुतेः । मम परमं धाम नित्यं स्वरूपम् । यद् वा अक्षरः परं धाम ब्रह्मैव मद्-धाम मत्-तेजो-रूपम् ॥२१॥
बलदेवः – यो भावो मयेहाव्यक्त इत्य् अक्षर इति चोच्यते तं वेदान्ताः परमां गतिम् आहुः पुरुषान् न परं किञ्चित् सा काष्ठा परमा गतिः इत्य् आदौ । यं भावं प्राप्योपेत्य जनाः पुनर् न निवर्तन्ते जन्म नाप्नुवन्ति स भावो ऽहम् एवेत्य् आह तद् इति । तन् ममैव धाम स्वरूपं परमं श्रीमत् षष्ठीयं चैतन्यम् आत्मनः स्वरूपम् इतिवद् अवगन्तव्या ॥२१॥
८।२२
पुरुषः स परः पार्थ भक्त्या लभ्यस् त्व् अनन्यया ।
यस्यान्तः-स्थानि भूतानि येन सर्वम् इदं ततम् ॥२२॥
श्रीधरः - तत्-प्राप्तौ च भक्तिर् अन्तरङ्गोपाय इत्य् उक्तम् एवेत्य् आह पुरुष इति । स चाहं परः पुरुषो ऽनन्यया । न विद्यते ऽन्यः शरणत्वेन यस्यां तयैकान्त-भक्त्यैव लभ्यः । नान्यथा । परत्वम् एवाह यस्य कारण-भूतस्यान्तर्-मध्ये भूतानि स्थितानि । येन च कारण-भूतेनेदं सर्वं जगत् ततं व्याप्तम् ॥२२॥
मधुसूदनः - इदानीम् अनन्य-चेताः सततं यो मां स्मरति नित्यशः तस्याहं सुलभः इति प्राग् उक्तं भक्ति-योगम् एव तत्-प्राप्त्य्-उपायम् आह पुरुष स इति । स परो निरतिशयः पुरुषः परमात्माहम् एवानन्यया न विद्यते ऽन्य्हो विषयो यस्यां तया प्रेम-लक्षणया भक्त्यैव लभ्यो नान्यथा ।स क इत्य् अपेक्षायाम् आह यस्य पुरुसस्यान्तः-स्थान्य् अन्तर्वर्तीनि भूतानि सर्वाणि कार्याणि कारणान्तर्वर्तित्वात् कार्यस्य । अतएव येन पुरुषेण सर्वम् इदं कार्य-जातं ततं व्याप्तम् -
यस्मात् परं नापरम् अस्ति किञ्चिद् यस्मान् नाणीयो न ज्यायो ऽस्ति कश्चित् ।
वृक्ष एव स्तब्धो दिवि तिस्ठत्य् एकस् तेनेदं पूर्णं पुरुषेण सर्वम् ।
यत् किञ्चित् जगत् सर्वं दृश्यते श्रूयते ऽपि वा ।
अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः ॥
स पर्यगाच् छुक्रम् इत्य्-आदि-श्रुतिभ्यश् च ॥२२॥
विश्वनाथः — स च मद्-अंशः परमः पुरुषः । न विद्यते ऽन्यत् कर्म-योग-कामनादिकं यस्यां तयैव । अतएव पूर्वं मयोक्तं अनन्य-चेताः सततम् इति भावः ॥२२॥
बलदेवः – अत्-प्राप्तौ भक्तेः सूपायत्वम् आह पुरुषः स इति । स मल्-लक्षणः पुरुषो ऽनन्यया तद्-एकान्तया अनन्य-चेताः सततम् इति पूर्वोदितया भक्त्यैव लभ्यो लब्धुं शक्यो योग-भक्त्या तु दुःशक्या तत्-प्राप्तिर् इत्य् अर्थः । तल्-लक्षणम् आह यस्येति । सर्वम् इदं जगत् येन ततं व्याप्तम् । श्रुतिश् चैवम् आह-
एको वशी सर्वगः कृष्ण ईड्य
एको ऽपि सन् बहुधा यो ऽवभाति ।
वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकस्
तेनेदं पूर्णं पुरुषेण सर्वम् ॥ इत्य् आद्या ॥२२॥
८।२३
यत्र काले त्व् अनावृत्तिम् आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥२३॥
श्रीधरः - तद् एवं परम्श्वरोपासकास् तत्-पदं प्राप्य न निवर्तन्ते । अन्ये त्व् आवर्तन्त इत्य् उक्तम् । तत्र केन मार्गेण गता नावर्तन्ते । केन वा गताश् चावर्तन्ते । इत्य् अपेक्षायाम् आह यत्रेति । यत्र यस्मिन् काले प्रयाता योगिनो ऽनावृत्तिं यान्ति यस्मिंश् च काले प्रयाता आवृत्तिं यान्ति तं कालं वक्ष्यामीत्य् अन्वयः । अत्र च रश्म्य्-अनुसारी अतश् चायने ऽपि दक्षिणे इति सूचित-न्यायेनोत्तरायआदि-काल-विशेष-मरणं च त्व् अविवक्षितत्वात् काल-शब्देन कालाभिमानिनीभिर् आतिवाहिकीभिर् देवताभिः प्राप्यो मार्ग उपलक्ष्यते । अतो ऽयम् अर्थः यस्मिन् कालाभिमानि-देवतोपलक्षिते मार्गे प्रयाता योगिन उपासकाः कर्मिणश् च यथाक्रमम् अनावृत्तिम् आवृत्तिं च यान्ति । तं कालाभिमानि-देवतोपलक्षितं मार्गं कथयिष्यामीति । अग्नि-ज्योतिषोः कालाभिमानित्वाभावे ऽपि भूयसाम्
अहरादि-शब्दोक्तानां कालाभिमानित्वात् तत्-साहचर्याद् आम्र-वनम् इत्य् आदिवत् काल-शब्देनोपलक्षणम् अविरुद्धम् ॥२३॥
मधुसूदनः - सगुण-ब्रह्मोपासकास् तत्-पदं प्राप्य न निवर्तन्ते किन्तु क्रमेण मुच्यन्ते । तत्र तल्-लोक-भोगात् प्राग्-अनुत्पन्न-सम्यग्-दर्शनानां तेसां मार्गापेक्षा विद्यते न तु सम्यग्-दर्शिनाम् इव तद्-अनपेक्षेत्य् उपासकानां तल्-लोक-प्राप्तये देव-यान-मार्ग उपदिश्यते । पितृ-यान-मार्गोपन्यासस् तु तस्य स्तुतये यत्रेति ।
प्राणोत्क्रमणानन्तरं यत्र यस्मिन् काले कालाभिमानि-देवतोपलक्षिते मार्गे प्रयाता योगिनो ध्यायिनः कर्मिणश् चानावृत्तिम् आवृत्तिं च यान्ति । देव-याने पथि प्रयाताश् च कर्मिण आवृत्तिं यान्ति । यद्यपि देव-याने ऽपि पथि प्रयाताः पुनर् आवर्तन्ते इत्य् उक्तं आब्रह्म-भुवना लोकाः पुनर् आवर्तिनः इत्य् अत्र, तथापि पितृ-याने पथि गता आवर्तन्त एव न के ऽपि तत्र क्रम-मुक्ति-भाजः । देव-याने पथि गतास् तु यद्यपि केचिद् आवर्तन्ते प्रतीकोपासकास् तडिल्-लोक-पर्यन्तं गता हिरण्यगर्भ-पर्यन्तम् अमानव-पुरुष-नीता अपि पञ्चाग्नि-विद्याद्य्-उपासका अतत्-क्रतवो भोगान्ते निवर्तन्त एव तथापि दहराद्य्-उपासकाः क्रमेण मुच्यन्ते । भोगान्त इति न सर्व एवावर्तन्ते । अतएव पितृ-यानः पन्था नियमेनावृत्ति-फलत्वान् निकृष्टः । अयं तु देव-यानः पन्था अनावृत्ति-फलत्वाद्
अतिप्रशस्त इति स्तुतिर् उपपद्यते केषाञ्चिद् आवृत्ताव् अप्य् अनावृत्ति-फलत्वस्यानपायात् ।
तं देव-यानं पितृ-यानं च कालं कालाभिमानि-देवतोपलक्षितं मार्गं वक्ष्यामि । हे भरतर्षभ ! अत्र काल-शब्दस्य मुख्यार्थत्वे ऽग्निर्-ज्योतिर्-धूम-शब्दानाम् उपपत्तिर् गति-सृति-शब्दयोश् चेति तद्-अनुरोधेनैकस्मिन् काल-पद एव लक्षणाश्रिता कालाभिमानि-देवतानां मार्ग-द्वये ऽपि बाहुल्यात् । अग्नि-धूमयोस् तद्-इतरयोः सतोर् अपि अग्निहोत्र-शब्दवद् एक-देशेनाप्य् उपलक्षणं काल-शब्देन । अन्यथा प्रातर् अग्नि-देवताया अभावात् तत्-प्रख्यं चान्य-शास्त्रम् (ंई।द १।४।४) इत्य् अनेन तस्य नाम-धेयतया न स्यात् । आम्र-वनम् इति च लौकिको दृष्टान्तः ।
विश्वनाथः — ननु यं प्राप्य न निवर्तन्ते तद् धाम परमं मम इति त्व-उक्त्या त्वद्-भक्तास् त्वां प्राप्ता न पुनर् आवर्तन्त इत्य् उक्तम् । न तत्र त्व-प्रान्तौ कश्चिन् मार्ग-नियम इत्य् उक्तः ।त्वद्-भक्तानां च गुणातीतत्वात् तन्-मार्गो ऽपि गुणातीत एव अवसीयते, न तु सात्त्विको ऽर्चिर्-आदिः । यस् तु मार्गो योगिनो ज्ञानिनः कर्मिणश् चास्ति तम् अहं जिज्ञासे इत्य् अपेक्षायाम् आह यत्रेति । प्राणोत्क्रमणानन्तरं तत्र कालोपलक्षिते मार्गे प्रयाता अनावृत्तिम् आवृत्तिं च यान्ति तं कालं मार्गं वक्ष्य इत्य् अन्वयः ॥२३॥
बलदेवः – स्व-भक्तानाम् आवृत्तिः स्व-विमुखानां त्व् आवृत्तिर् उक्ता । सा सा च केन पथा गतानां भवेद् इत्य् अपेक्षायाम् आह यत्रेति । योगिनो भक्ताः काम्य-कर्मिणश् च । अत्र काल-शब्देन कालाभिमानिनो देवतोक्ताः । अग्नि-धूमयोः कालत्वाभावात् काल-शब्देनोक्तिस् तु भूयसा महद्-आदि-शब्दानां रात्र्य्-आदि-शब्दानां च काल-वाचित्वात् तथा चार्चिर्-आदिभिर् धूमादिभिश् च देवैः पालितः पन्थाः काल-शब्देनोक्तो बोध्यः ॥२३॥
८।२४
अग्निर् ज्योतिर् अहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्म-विदो जनाः ॥२४॥
श्रीधरः - तत्रानवृत्ति-मार्गम् आह अग्निर् इति । अग्नि-ज्योतिः-शब्दाभ्यां ते ऽर्चिर् अभिसम्भवन्ति इति श्रुत्य्-उक्तार्चिर्-अभिमानिनी देवतोपलक्ष्यते । अहर् इति दिवसाभिमानिनी । शुक्ल इति शुक्ल-पक्षाभिमानिनी । उत्तरायण-रूपाः षण्-मासा इत्य् उत्तरायणाभिमानिनी । एतच् चान्यासाम् अपि श्रुत्य्-उक्तानां संवत्सर देवलोकादि-देवतानम् उपलक्षणार्थम् । एवं भूतो यो मार्गस् तत्र प्रयाता गता भगवद्-उपासका जना ब्रह्म प्राप्नुवन्ति । यतस् ते ब्रह्म-विदः । तथा च श्रुतिः - ते ऽर्चिषम् अभि सम्भवन्ति अर्चिषो ऽरह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद् यान् षण्-मासानुदङ्ङादित्य एति मासेभ्यो देव-लोकम् इति । न हि सद्यो-मुक्ति-भाजां सम्यग्-दर्शन-निष्ठानां गतिर् वा क्वचिद् अस्ति, न तस्य प्राणा उत्क्रामन्ति ॥२४॥
मधुसूदनः - तत्रोपासकानां देव-यानं पन्थानम् आह अग्निर् इति । अग्निर्-ज्योतिर् इत्य् अर्चिर् अभिमानिनी देवता लक्ष्यते । अहर् इत्य् अहर्-अभिमानिनी शुक्ल-पक्ष इति शुक्ल-पक्षाभिमानिनी षण्-मासा उत्तरायणम् इति उत्तरायण-रूप-षण्मासाभिमानिनी देवतैव लक्ष्यते आतिवाहिकास् तल्-लिङ्गात् (न्द् ४।३।४) इति न्यायात् । एतच् चान्यासाम् अपि श्रुत्य्-उक्तानां देवतानम् उपलक्षणार्थम् । तथा च श्रुतिः - ते ऽर्चिषम् अभि सम्भवन्ति अर्चिषो ऽरह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद् यान् षड्-उङ्ङेति मासांस् तान् मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् आदित्याच् चन्द्रमसं चन्द्रमसो विद्युतं तत्-पुरुषो ऽमानवः स एनान् ब्रह्म गमयत्य् एष देव-पथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्ते इति ।
अत्र श्रुत्य्-अन्तरानुसारात् संवत्सरानन्तरं देव-लोक-देवता ततो वायु-देवता तत आदित्य इत्य् आकरे निर्णीतम् । एवं विद्युतो ऽनन्तरं वरुणेन्द्र-प्रजापतयस् तावता मार्ग-पर्व-पूर्तिः । तत्रार्चिर्-अहः-शुक्ल-पक्षोत्तरायण-देवता इहोक्ताः । संवत्सरो देव-लोको वायुर् आदित्यश् चन्द्रमा विद्युद्-वरुण इन्द्रः प्रजापतिश् चेत्य् अनुक्ता अपि द्रष्टव्याः । तत्र देव-यान-मार्गे प्रयाता गच्छन्ति ब्रह्म कार्योपाधिकं कार्यं वादरिर् अस्य गत्य्-उपपत्तेः (व्स् ४।३।७) इति न्यायात् । निरुपाधिकं तु ब्रह्म तद्-द्वारैव क्रम-मुक्ति-फलत्वात् । ब्रह्म-विदः सगुण-ब्रह्मोपासका जनाः । अत्र एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्त इति श्रुताव् इमम् इति विशेषणात् कल्पान्तरे केचिद् आवर्तन्त इति प्रतीयते । अतएवात्र भगवतोदासितं श्रौत-मार्ग-कथनेनैव व्याख्यानात् ॥२४॥
विश्वनाथः — अत्रानवृत्ति-मार्गम् आह अग्निर् इति । अग्नि-ज्योतिः-शब्दाभ्यां ते ऽर्चिषम् अभिसम्भवन्ति इति श्रुत्य्-उक्त्यार्चिर्-अभिमानिनी देवतोपलक्ष्यते । अहर् इत्य् अहर्-अभिमानिनी । शुक्ल इति शुक्ल-पक्षाभिमानिनी । उत्तरायण-रूपाः षण्-मासा इत्य् उत्तरायणाभिमानिनी देवता । एतद्-रूपो यो मार्गस् तत्र प्रयाता ब्रह्म-विदो ज्ञानिनो ब्रह्म प्राप्नुवन्ति । तथा च श्रुतिः - ते ऽर्चिषम् अभि सम्भवन्ति अर्चिषो ऽरह्न आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद् यान् षण्-मासानुदङ्ङादित्य एति मालेभ्यो देव-लोकम् इति ॥२४॥
बलदेवः – तत्रानावृत्ति-पथम् आह अग्निर् इति । अग्नि-ज्योतिः-शब्दाभ्यां श्रुत्य्-उक्तो ऽर्चिर्-अभिमानी देव उपलक्ष्यते । अहर् इति दिवसाभिमानी शुक्ल इति शुक्ल-पक्षाभिमानिनी । षण्-मासा इत्य् उत्तरायणम् इति षण्मासात्मकोत्तरायणाभाभिमानी । एतच् चान्येषां संवत्सरादीनां श्रुत्य्-उक्तानाम् उपलक्षणम् । छान्दोग्याः पठन्ति - अथ यद् उ चैवास्मिन् शव्यं कुर्वन्ति यदि च नार्चिषम् एवाभिसम्भवन्त्य् अर्चिषो ऽहरह आपूर्यमाण-पक्षम् आपूर्यमाण-पक्षाद्यान् षड्-उदण्णेति मासांस् तान् मासेभ्यः संवत्सरं संवत्सराद् आदित्यम् आदित्याच् चन्द्रमसं चन्द्रमसो विद्युतं तत् पुरुषो ऽमानवः स एनान् ब्रह्म गमयत्य् एष देव-पथो ब्रह्म-पथ एतेन प्रतिपद्यमाना इमं मानवम् आवर्तं नावर्तन्त इति । (४।१५।५)
अस्यार्थः - अस्मिन्न् अक्षि-स्थ-ब्रह्मोपासक-गणे मृते सति यदि पुत्र-शिष्यादयः शब्यं शब-सम्बन्धि कर्म दाहादि कुर्वन्ति । यदि च न कुर्वन्ति । उभयथाप्य् अक्षतोपास्ति-फलास् ते तद्-उपासका अर्चिर्-आदिभिर् देवैस् तम् उपास्यं प्रयान्तीति स्फुटम् अन्यत् । अत्र संवत्सरादित्ययोर् मध्ये वायु-लोको निवेश्यः । विद्युतः परत्र क्रमाद् वरुणेन्द्र- प्रजापतयो बोध्याः । श्रुत्य्-अन्तराद् इत्य् आकरे विस्तरः । अमानवो नित्य-पार्षदः परेशस्य हरेः पुरुषः । एते ऽर्चिर्-आदयो देवा इत्य् आह सूत्र-कारः - आतिवाहिकास् तल्-लिङ्गात् (व्स् ४।३।४) इति । तथार्चिर्-आदिभिर् भगवन्-निदेश-स्थैर् द्वादशभिर् देवैः सेव्यमानेन पथा भगवन्तं तद्-भक्ताः प्रयान्ति ततः पुनर् नावर्तन्त इति । एवम् उक्तं निर्णेतृभिः-
अर्चिर् दिन-सित-पक्षैर् इहोत्तरायण-शरन्-मरुद्-रविभिः ।
विधु-विद्युद्-वरुण्न्द्र-द्रुहिणैश् चागात् पदं हरेर् मुक्तः ॥ इति ॥२४॥
८।२५
धूमो रात्रिस् तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर् योगी प्राप्य निवर्तते ॥२५॥
श्रीधरः - आवृत्ति-मार्गम् आह धूम इति । धूमो धूमाभिमानिनी देवता । रात्र्य्-आदि-शब्दैश् च पूर्ववद् एव रात्रि-कृष्ण-पक्ष-दक्षिणायन-रूप-षण्-मासाभिमानिन्यस् तिस्रो देवता उपलक्ष्यन्ते । एताभिर् देवताभिर् उपलक्षितो यो मार्गस् तत्र प्रयातः कर्म-योगी चान्द्रमसं ज्योतिस् तद्-उपलक्षितं स्वर्ग-लोकं प्राप्य तत्रेष्टापूर्त-कर्म-फलं भुक्त्वा पुनर् आवर्तते । तत्रापि श्रुतिः-ते धूमम् अभि सम्भवन्ति धूमाद् रात्रिं रात्रेर् अपक्षीयमाण-पक्षम् अपक्षीयमाण-पक्षाद् यान् षण्मासान् दक्षिणादित्य एति मासेभ्यः पितृ-लोकं पितृ-लोकात् चन्द्रं ते चन्द्रं प्राप्य अन्नं भवन्ति इति । तद् एवं निवृत्ति-कर्म-सहितोपासनया क्रम-मुक्तिः काम्य-कर्मभिश् च स्वर्ग-भोगानन्तरम् आवृत्तिः । निषिद्ध-कर्मभिस् तु नरक-भोगानान्तरम् आवृत्तिः
। क्षुद्र-कर्मणां तु जन्तूनाम् अत्रैव पुनः पुनर् जन्मेति द्रष्टव्यम् ॥२५॥
मधुसूदनः - देव-यान-मार्गस्तुत्य्-अर्थं पितृ-यान-मार्गम् आह धूम इति । अत्रापि धूम इति धूमाभिमानिनी देवता रात्रिर् इति रात्र्य्-अभिमानिनी कृष्ण इति कृष्ण-पक्षाभिमानिनी । षण्मासा दक्षिणायनम् इति दक्षिणायनाभिमानिनी लक्ष्यते एतद् अप्य् अन्यासां श्रुत्य्-उक्तानाम् उपलक्षणम् । तथा हि श्रुतिः – ते धूमम् अभि सम्भवन्ति धूमाद् रात्रिं रात्रेर् अपर-पक्षम् अपर-क्षीयमाण-पक्षाद् यान् षड्-दक्षिणैति मासांस् तान् अनिते संवत्सरम् अभिप्राप्नुवन्ति मासेभ्यः पितृ-लोकं पितृ-लोकाद् आकाशम् आकाशाच् चन्द्रमसम् एष सोमो राजा तद्-देवानाम् अन्नं तं देवा भक्षयन्ति तस्मिन् यावत् सम्पातम् उषित्वाथैतम् एवाध्व्यानं पुनर् निवर्तन्ते इति । तत्र तस्मिन् पथि प्रयाताश् चान्द्रमसं ज्योतिः फलं योगी कर्म-योगीष्टापूर्त-दत्त-कारी
प्राप्य यावत्-सम्पातम् उषित्वा निवर्तते । सम्पतत्य् अनेनेति सम्पातः कर्म । तस्माद् एतस्माद् आवृत्ति-मार्गाद् अनावृत्ति-मार्गः श्रेयान् इत्य् अर्थः ॥२५॥
विश्वनाथः — कर्मिणाम् आवृत्ति-मार्गम् आह धूम इति । धूमाभिमानिनी देवता । रात्र्य्-आदि-शब्दैश् च पूर्ववद् एव तत्-तद्-अभिमानिन्यस् तिस्रो देवता लक्ष्यन्ते । एताभिर् देवताभिर् उपलक्षितो यो मार्गस् तत्र प्रयातः कर्म-योगी चान्द्रमसं ज्योतिस् तद्-उपलक्षितं स्वर्ग-लोकं प्राप्य कर्म-फलं भुक्त्वा निवर्तते ॥२५॥
बलदेवः - अथावृत्ति-पथम् आह धूमो रात्रिर् इति । तत्रापि पूर्ववत् धूम-रात्रि-कृष्ण-पक्ष-षण्मासात्मक-दक्षिणायनानाम् अभिमानिनो देवा लक्ष्याः । संवत्सर-पितृ-लोकाकाश-चन्द्रमसां श्रुत्य्-उक्तानाम् उपलक्षणम् एतत् । छान्दोग्याः पठन्ति - अथ य इमे ग्राम इष्टा-पूर्ते दत्तम् इत्य् उपासते ते धूमम् अभिसम्भवन्ति । धूमाद् रात्रिं रात्रेर् अपर-पक्षम् अपर-पक्षाद्यान् षड्-दक्षिणैति मासांस् तान् नैते संवत्सरम् अभिप्राप्नुवन्ति ॥ मासेभ्यः पितृ-लोकं पितृ-लोकाद् आकाशम् आकाशाच् चन्द्रमसम् एष सोमो राजा तद् देवानाम् अन्नं तं देवा भक्षयन्ति । तस्मिन् यवात् सम्पातम् उषित्वाथैतम् एवाध्वानं पुनर् निवर्तन्ते (५।१०।३-५) इति ।
तथा च धूमादिभिः परेश-निदेशस्थैर् अष्टभिर् देवैः पालितेन पथा काम्य-कर्मिणश् चन्द्र-लोकं पाप्य भोग-क्षये सति तस्मात् पुनर् निवर्तन्त इति ॥२५॥
८।२६
शुक्ल-कृष्णे गती ह्य् एते जगतः शाश्वते मते ।
एकया यात्य् अनावृत्तिम् अन्ययावर्तते पुनः ॥२६॥
श्रीधरः - उक्तौ मार्गाव् उपसंहरति शुक्लेति । शुक्लार्चिर्-आदि-गतिः प्रकाश-मयत्वात् कृष्णा धूमादि-गतिस् तमो-मयत्वात् । एते गती मार्गौ ज्ञान-कर्माधिकारिणो जगतः शाश्वते अनादी सम्मते संसारस्यानादित्वात् । तयोर् एकया शुक्लया अनावृत्तिं मोक्षं याति । अन्यया कृष्णया तु पुनर् आवर्तते ॥२६॥
मधुसूदनः - उक्तौ मार्गाव् उपसंहरति शुक्ल-कृष्णे इति । शुक्लार्चिर्-आदि-गतिर् ज्ञान-प्रकाश-मयत्वात् । कृष्णा धूमादि-गतिर् ज्ञान-हीनत्वेन तमोमयत्वात् । ते एते शुक्ल-कृष्णे गती मार्गौ हि प्रसिद्धे स-गुण-विद्या-कर्माधिकारिणोः । जगतः सर्वस्यापि शास्त्र-ज्ञस्य शाश्वते अनादी मते संसारस्यानादित्वात् । तयोर् एकया शुक्लया यात्य् अनावृत्तिं कश्चित् । अन्यया कृष्णया पुनर् आवर्तते सर्वो ऽपि ॥२६॥
विश्वनाथः — उक्तौ मार्गाव् उपसंहरति शुक्ल-कृष्णे इति । शाश्वते अनादी सम्मते संसारस्यानादित्वात् । एकया शुक्लया अनावृत्तिं मोक्षम् अन्यया कृष्णया तु पुनः पुनर् अत्र जायते ॥२६॥
बलदेवः - उक्तौ पन्थानाव् उपसंहरति शुक्लेति । अर्चिर्-आदिर् गतिः शुक्ला प्रकाश-मयत्वात् धूमादिका गतिः कृष्णा प्रकाश-शून्यत्वात् । गतिः पन्था एते गता ज्ञान-कर्माधिकारिणो जगतः शाश्वते अनादी सम्मते तस्यानादित्वात् । स्फुटम् अन्यत् ॥२६॥
८।२७
नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात् सर्वेषु कालेषु योग-युक्तो भवार्जुन ॥२७॥
श्रीधरः - मार्ग-ज्ञान-कलं दर्शयन् भक्ति-योगम् उपसंहरति नैते इति । एते सृती मार्गौ मोक्ष-संसार-प्रापकौ जानन् कश्चिद् अपि योगी न मुह्यति । सुख-बुद्ध्या स्वर्गादि-फलं न कामयते । किन्तु परमेश्वर-निष्ठ एव भवतीत्य् अर्थः । स्पष्टम् अन्यत् ॥२७॥
मधुसूदनः - गतेर् उपास्यत्वाय तद्-विज्ञानं स्तौति नैते इति । एते सृती मार्गौ हे पार्थ जन क्रम-मोक्षायैका पुनः संसारायापरेति निश्चिन्वन् योगी ध्यान-निष्ठो न मुह्यति केवलं कर्म धूमादि-मार्ग-प्रापकं कर्तव्यत्वेन न प्रत्येति कश्चन कश्चिद् अपि । तस्माद् योगस्थापुनर्-आवृत्ति-फलत्वात् सर्वेषु कालेषु योग-युक्तः समाहित-चित्तो भवापुनर्-आवृत्तये हे ऽर्जुन ॥२७॥
विश्वनाथः — एतन्-मार्ग-द्वय-ज्ञानं विवेकोत्पादकम् अतस् तद्वन्तं स्तौति नैते इति । योग-युक्तः समाहित-चित्तो भव ॥२७॥
बलदेवः – एतयोः पथोर् बोधो विवेक-हेतुर् भवतीति तं स्तौति नैत इति । सृती पन्थानो जानन् अर्चिर्-आदि-मोक्षाय धूमादिः संसारायेति स्मरन् कश्चिद् अपि योगी मद्-भक्तो न मुह्यति धूमादि-प्रापकं कर्म कर्तव्यत्वेन न निश्चिनोतीत्य् अर्थः । योग-युक्तः समाधि-निष्ठो भवापुनर्-आवृत्तये ॥२७॥
८।२८
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत् पुण्यफलं ।
अत्येति तत् सर्वम् इदं विदित्वा
योगी परं स्थानम् उपैति चाद्यम् ॥२८॥
श्रीधरः - अध्यायार्थम् अष्ट-प्रश्नार्थ-निर्णयं सफलम् उपसंहरति वेदेष्व् इति । वेदेष्व् अध्ययनादिभ्ः । यज्ञेष्व् अनुष्ठानादिभिः । तपःसु काय-शोषणादिभिः । दानेषु सत्-पात्रे ऽर्पणादिभिः । यत् पुण्य-फलम् उपदिष्टं शास्त्रेषु तत् सर्वम् अत्येति । ततो ऽपि श्रेष्ठं योगैश्वर्यं प्राप्नोति । किं कृत्वा ? इदम् अष्ट-प्रश्नार्थ-निर्णयेनोक्तं तत्त्वं विदित्वा । ततश् च योगी ज्ञानी भूत्वा परम् उत्कृष्टम् आद्यं जगन् मूल-भूतं स्थानं विष्णोः परमं पदं प्राप्नोति ॥२८॥
अष्टमे ऽष्ट विशिष्टे ऽष्ट-सम्पृष्टार्थ-विनिर्णयैः ।
अक्लिष्टम् इष्ट-धामाप्तिः स्पष्टितोत्कृष्ट-वर्त्मना ॥
इति श्री-श्रीधर-स्वामिकृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
तारक-ब्रह्म-योगो नामाष्टमो ऽध्यायः ॥८॥
मधुसूदनः - पुनः श्रद्धानु-वृद्ध्य्-अर्थं योगं स्तौति वेदेष्व् इति । वेदेषु दर्भ-पवित्र-पाणित्व-प्राङ्-मुखत्व-गुर्व्-अधीनत्वादिभिः सम्यग्-अधीतेषु, यज्ञेष्व् अङ्गोपाङ्ग-साहित्येन श्रद्धया सम्यग्-अनुष्ठितेषु । तपःसु शास्त्रोक्तेषु मनो-बुद्ध्य्-आद्यैकाग्र्येण श्रद्धया सुतप्तेषु । दानेषु तुला-पुरुषादिषु देशे काले पात्रे च श्रद्धया सम्यग्-दत्तेसु यत्-पुण्य-फलं पुण्यस्य धर्मस्य फलं स्वर्ग-स्वाराज्यादि प्रदिष्टं शास्त्रेण । अत्येत्य् अतिक्रामति तत् सर्वम् इदं पूर्वोक्त-सप्त-प्रश्न-निरूपण-द्वारेणोक्तं विदित्वा सम्यग्-अनुष्ठान-प्रयन्तम् अवधार्यानुष्ठाय च योगी ध्यान-निष्ठः । न केवलं तद् अतिक्रामति परं सर्वोत्कृष्टम् ऐश्वरं स्थानम् आद्यं सर्व-कारणम् उपैति च प्रतिपद्यते च सर्व-कारणं ब्रह्मैव प्राप्नोतीत्य्
अर्थः । तद् अनेनाध्यायेन ध्येयत्वेन तत्-पदार्थो व्याख्यातः ॥२८॥
इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् अधिकारि-भेदेनाक्षर-पर-ब्रह्म-विवरणं नामाष्टमो ऽध्यायः ॥८॥
विश्वनाथः — एतद्-अध्यायोक्तार्थ-ज्ञान-फलम् आह वेदेष्व् इति । तत् सर्वम् अत्येति अतिक्रम्य च योगी भक्तिमान् ततो ऽपि श्रेष्ठं स्थानम् आद्यम् अप्राकृतं नित्यं प्राप्नोति ॥२८॥
भक्तानां सर्वतः श्रैष्ठ्यं पूर्वोक्तं तेष्व् अपि स्फुटम् ।
अनन्य-भक्तस्येत्य् अर्थो ऽत्राध्याये व्यञ्जितो ऽभवत् ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
श्री-गीतास्व् अस्टमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥८॥
बलदेवः - सप्तमाष्टमाध्याय-द्वय-ज्ञान-प्रकारम् आह वेदेष्व् इति । वेदेषु ब्रह्मचर्य-गुरु-शुश्रूषणादि-विधिना सम्यग्-अधीतेषु सर्वाङ्गोअअ-संहारेण सम्यग्-अनुष्ठितेषु । तपःसु शास्त्रोक्तेन विधिना सम्यक् चरितेषु । दानेषु देश-काल-पात्र-परीक्षया श्रद्धया च सम्यग्-दत्तेषु यत् पुण्य-फलं स्वर्ग-राज्यादि-लक्षणं प्रदिष्टम् उक्तम् । तत् सर्वम् अभ्येत्य् अतिक्रमति । किं कृत्वेत्य् आह इदम् इति । इदम् अध्याय-द्वयोक्तं भगवतो मम मद्-भक्तेश् च माहात्म्यं सत्-प्रसङ्गेन विदित्वा तद्-वेदन-सुखातिरिक्तं तत् सर्वं तृणाय मन्यत इत्य् अर्थः । ततो योगी मद्-भक्तिमान् भूत्वाद्यम् अनादि-परम-मायिकं मत्-स्थानम् उपैति ॥२८॥
कृष्णांशः पुरुषो योग-भक्त्या लभ्यो ऽर्चिर्-आदिभिः ।
कृष्णस् त्व् अनन्य-भक्त्यैवेत्य् अष्टमस्य विनिर्णयः ॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये ऽष्टमो ऽध्यायः ।
॥८॥