७।१
श्री-भगवान् उवाच
मय्य् आसक्त-मनाः पार्थ योगं युञ्जन् मद्-आश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच् छृणु ॥१॥
श्रीधरः -
विज्ञेयम् आत्मनस् तत्त्वं संयोगं समुदीरितम् ।
भजनीयम् अथेदानीम् ऐश्वरं रूपम् ईर्यते ॥
पूर्वाध्यायान्ते मद्-गतेनान्तरात्मना यो मां भजते स मे युक्ततमो मतः इत्य् उक्तम् । अत्र कीदृशस् त्वं यस्य भक्तिः कर्तव्येत्य् अपेक्षायां स्व-स्वरूपं निरुपयिष्यन् श्री-भगवान् उवाच मयीति । मयि परमेश्वर आसक्तम् अभिनिविष्टं मनो यस्य सः । मद्-आश्रयो ऽहम् एवाश्रयो यस्य । अनन्य-शरणः सन् । योगं युञ्जन्न् अभ्यसन् असंशयं यथा भवत्य् एवम् । मां समग्रं विभूति-बलैश्वर्यादि-सहितं यथा ज्ञास्यसि तद् इदं मया वक्ष्यमाणं शृणु ॥१॥
मधुसूदनः -
यद्-भक्तिं न विना मुक्तिर् यः सेव्यः सर्व-योगिनाम् ।
तं वन्दे परमानन्द-घनं श्री-नन्द-नन्दनम् ॥
एवं कर्म-सन्न्यासात्मक-साधन-प्रधानेन प्रथम-षट्केन ज्ञेयं त्वं-पद-लक्ष्यं स-योगं व्याख्यायाधुना ध्येय-ब्रह्म-प्रतिपादन-प्रधानेन मध्यमेन षट्केन तत्-पदार्थो व्याख्यातव्यः । तत्रापि –
योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६।४७]
इति प्राग्-उक्तस्य भगवद्-भजनस्य व्याख्यानाय सप्तमो ऽध्याय आरभ्यते । तत्र कीदृशं भगवतो रूपं भजनीयं कथं वा तद्-गतो ऽन्तरात्मा स्याद् इत्य् एतद्-द्वयं प्रष्टव्यम् अर्जुनेनापृष्टम् अपि परम-कारुणिकतया स्वयम् एव विवक्षुः श्री-भगवान् उवाच मयीति ।
मयि परमेश्वरे सकल-जगद्-आयतनत्वादिविविध-विभूति-भागिनि आसक्तं विषयान्तर-परिहारेण सर्वदा निविष्टं मनो यस्य तव स त्वम् । अतएव मद्-आश्रयो मद्-एक-शरणः । राजाश्रयो भार्याद्य्-आसक्त-मनाश् च राज-भृत्यः प्रसिद्धो मुमुक्षुस् तु मद्-आश्रयो मद्-आसक्त-मनाश् च । त्वं त्वद्-विधो वा योगं युञ्जन् मनः-समाधानं षष्ठोक्त-प्रकारेण कुर्वन् । असंशयं यथा भवत्य् एवं समग्रं सर्व-विभूति-बल-शक्त्यैश्वर्यादि-सम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि तच् छृणूच्यमानं मया ॥१॥
विश्वनाथः -
कदा सद्-आनन्द-भुवो महाप्रभोः
कृपामृताब्धेश् चरणौ श्रयामहे ।
यथा तथा प्रोज्झित-मुक्ति-तत्-पथा
भक्त्य्-अध्वना प्रेम-सुधाम् अयामहे ॥
सप्तमे भजनीयस्य श्री-कृष्णैश्वर्यम् उच्यते ।
न भजन्ते भजन्ते ये ते चाप्य् उक्ताश् चतुर्विधाः ॥
प्रथमेनाध्याय-षट्केनान्तः-करण-शुद्ध्य्-अर्थ-कनिष्काम् अकर्म-सापेक्षौ मोक्ष-फल-साधकौ ज्ञान-योगाव् उक्तौ । इदानीम् अनेन द्वितीयाध्याय-षट्केन कर्म-ज्ञानादि-विमिश्र-श्रवणान् निष्कामत्व-सकामत्वाभ्यां च सालोक्यादि-साधकस् तथा सर्व-मुख्यः कर्म-ज्ञानादि-निरपेक्ष एव प्रेमवत् पार्षदत्व-लक्षण-मुक्ति-फल-साधकस् तथा यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् इत्य् आदौ, सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा, स्वर्गापवर्गं मद्-धाम [भ्प् १।२०।३२-३३] इत्य् आद्य्-उक्तेर् विनापि साधनानन्तरं स्वर्गापवर्गादि-निखिल-साधकश् च परमः स्वतन्त्रः सर्व-सुकरो ऽपि सर्व-दुष्करः श्रीमद्-भक्ति-योग उच्यते ।
ननु तम् एव विदित्वा अतिमृत्युम् एति [श्वेतु ६।१५] इति श्रुतेः । ज्ञानं विना केवलया भक्त्यैव कथं मोक्षः ब्रूषे ? मैवम्, त्वम् एव तत् पदार्थं परमात्मानम् एव विदित्वा साक्षाद् अनुभूय, न तु त्वं-पदार्थं आत्मानं नापि प्रकृतिं नापि वस्तु-मात्रं विदित्वा मृत्युम् अत्येति इत्य् अस्याः श्रुतेर् अर्थः । तत्र सित-शर्करा-रस-ग्रहणे यथा रसनैव कारणं न तु चक्षुः-श्रोत्रादिकं तथैव गुणातीतस्य ब्रह्मणे ग्रहणं सम्भवेत्, न तु देहाद्य्-अतिरिक्तात्म-ज्ञानेन सात्त्विकेन । भक्त्याहम् एकया ग्राह्यः [भ्प् ११।१४।११] इति भगवद्-उक्तेर् इति । भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः [गीता १८।५५] इत्य् अत्र स-विशेषं प्रतिपादयिष्यामः । ज्ञान-योगयोर् मुक्ति-साधनत्व-प्रसिद्धिस् तु तत्रस्थ-गुणी-भूत-भक्ति-प्रभावाद् एव । तया विना तयोर् अकिञ्चित्करत्वस्य बहुशः
श्रवणात् ।
किं च, अस्यां श्रुतौ विदित्वा इत्य् अनन्तरम् एव-कारस्याप्रयोगाद् एव । योग-व्यवच्छेदाभावे ज्ञापिते सति, तस्माद् एव परमात्मनो विदितात् क्वचिद् अविदिताद् अपि मोक्ष इत्य् अर्थो लभ्यते । ततश् च भक्त्य्-उत्थेन निर्गुणेन परमात्म-ज्ञानेन मोक्षः । क्वचित् तु भक्त्य्-उत्थं तज्-ज्ञानं विनापि केवलेन भक्ति-मात्रेण मोक्ष इत्य् अर्थः पर्यवस्यति । यथा मत्स्यण्डिका-पिण्डाद् रसना-दोषेणालब्ध-स्वादाद् अपि भुक्तात् तद्-एक-नाश्यो व्याधिर् नश्यत्य् एवात्र न सन्देहः । मत्स्यण्डिकानि ते खण्ड-विकारा शर्करासिते इत्य् अमरः । श्रीमद्-उद्धवेनोक्तम् -
नन्व् ईश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच्
छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः [भ्प् १०।४७।५६] इति ।
एकादशे ऽप्य् उक्तं - यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् इत्य् आदौ सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा [भ्प् ११।२०।३१-३२] इति । अतएव यन्-नाम-सकृच्-छ्रवणात् पुक्कसो ऽपि विमुच्यते संसारात् इत्य् आदौ बहुशो वाक्यैर् भक्त्यैव मोक्षः प्रतिपाद्यत इति ।
अथ प्रकृतम् अनुसरामः ।
योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ [गीता ६।४७]
इति त्वद्-वाक्येन त्वन्-मनस्कत्वे सति त्वज्-जन-विषयक-श्रद्धावत्त्वम् इति त्वया स्व-भक्त-विशेष-लक्षणम् एव कृतम् इत्य् अवगम्यते । किन्तु स च कीदृशो भक्तस् तदीय-ज्ञान-विज्ञानयोर् अधिकारी भवतीत्य् अपेक्षायाम् आह मय्य् आसक्तेति द्वाभ्याम् । यद्यपि -
भक्तिः परेशानुभवो विरक्तिर्
अन्यत्र चैष त्रिक एक-कालः ।
प्रपद्यमानस्य यथाश्नतः स्युस्
तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ [भ्प् ११।२।४२]
इत्य् उक्तेर् भजन्-प्रक्रमत एव मद्-अनुभव-क्रमो ऽपि भवति, तद् अप्य् एक-ग्रास-मात्र-भोजिनस् तथा तुष्टि-पुष्टी न स्पष्टे भवतः, किन्तु बहुतर-ग्रास-भोजिन एव । तथैव मयि श्यामसुन्दरे पीताम्बरे आसक्तम् आसक्ति-भूमिकारूढं मनो यस्य तथाभूत एव त्वं मां ज्ञास्यसि । यथा स्पष्टम् अनुभविष्यसि, तत् शृणु कीदृशं योगं मया सह संयोगं युञ्जन् शनैः शनैः प्राप्नुवन् मद्-आश्रयः । माम् एव, न तु ज्ञान-कर्मादिकम् आश्रयमाणो ऽनन्य-भक्त इत्य् अर्थः ।
अत्रासंशयं समग्रम् इति पदाभ्यां मदीय-निर्विशेष-ब्रह्म-स्वरूप-ज्ञानं
क्लेशो ऽधिकतरस् तेषाम् अव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर् दुःखं देहवद्भिर् अवाप्यते ॥ [गीता १२।५]
इत्य् अग्रिमोक्तेः स-संशयम् एव । तथा ज्ञानिनाम् उपास्यं यद् ब्रह्म परम-महतो मम महिम-स्वरूपम् एव । यद् उक्तं मयैव सत्यव्रतं प्रति मत्स्य-रूपेण -
मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।
वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर् विवृतं हृदि ॥ [भ्प् ८।२४।३८] इति ।
अत्रापि ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४।२७] इति । अतो मज्-ज्ञानम् असमग्रम् इति द्योतितम् ॥१॥
बलदेवः -
सप्तमे भजनीयस्य स्वस्यैश्वर्यं प्रकीर्त्यते ।
चातुर्विध्यं च भजतां तथैवाभजताम् अपि ॥
आद्येन षट्केनोपासकस्य जीवस्य स्वरूपं तत्-प्राप्ति-साधनं च प्राधान्येनोक्तम् । मध्येन तूपास्यस्य स्वस्य तत् तच् च तथोच्यते । तत्र षष्ठान्त-निर्दिष्टं तव भजनीयं रूपं कीदृशम्, कथं वा भजतो ऽन्तरात्मा तद्-गतः स्याद् इत्य् एतत् पार्थेनापृष्टम् अपि कृपालुत्वेन स्वयम् एव विवक्षुर् भगवान् उवाच मयीति । व्याख्यात-लक्षणे स्वोपास्ये मय्य् आसक्तम् अतिमात्र-निरतं मनो यस्य स त्वम् अन्यो वा तादृशो मद्-आश्रयो मद्-दास्य-सख्य्-आद्य्-एकतमेन भावेन मां शरणं गतो योगं मच्-छरणादि-लक्षणं युञ्जन् कर्तुं प्रवृत्तः । असंशयं यथा स्यात् तथा । कृष्ण एव परं तत्त्वम् अतो ऽन्यद् वेति सन्देह-शून्यो मत्-पारम्य-निश्चयवान् इत्य् अर्थः । समग्रं साधिष्ठानं सविभूतिं सपरिकरं च मां सर्वेश्वरं येन ज्ञानेन ज्ञास्यसि
तन् मयोच्यमानम् अवहित-मनाः शृणु । हे पार्थ ! न च समग्रम् इति कार्त्स्न्येन स ज्ञानम् आदिशतीति वाच्यम् अनन्तस्य तस्य तथाज्ञानासम्भवात् । स्मृतिश् च कार्त्स्न्येन नाजो ऽप्य् अभिधातुम् ईशः इति ।
७।२
ज्ञानं ते ऽहं स-विज्ञानम् इदं वक्ष्याम्य् अशेषतः ।
यज् ज्ञात्वा नेह भूयो ऽन्यज् ज्ञातव्यम् अवशिष्यते ॥२॥
श्रीधरः - वक्ष्यमाणं ज्ञानं स्तौति ज्ञानम् इति । ज्ञानं शास्त्रीयं विज्ञानम् अनुभवः । तत्-सहितम् इदं मद्-विषयम् अशेषतः साकल्येन वक्ष्यामि । यज् ज्ञात्वेह श्रेयो-मार्गे वर्तमानस्य पुनर् अन्यज् ज्ञातव्यम् अवशिष्टं न भवति । तेनैव कृतार्थो भवतीत्य् अर्थः ॥२॥
मधुसूदनः - ज्ञास्यसीत्य् उक्ते परोक्षम् एव तज् ज्ञानं स्याद् इति शङ्कां व्यावर्तयन् स्तौति श्रोतुर् आभिमुख्याय ज्ञानम् इति । इदं मद्-विषयं स्वतो ऽपरोक्ष-ज्ञानम् । असम्भावनादि-प्रतिबन्धेन फलम् अजनयत् परोक्षम् इत्य् उपचर्यते असम्भावनादि-निरासे तु विचार-परिपाकान्ते तेनैव प्रमाणेन जनितं ज्ञानं प्रतिबन्धाभावात् फलं जनयद्-अपरोक्षम् इत्य् उच्यते । विचार-परिपाक-निष्पन्नत्वाच् च तद् एव विज्ञानम्, तेन विज्ञानेन सहितम् इदम् अपरोक्षम् एव ज्ञानं शास्त्र-जन्यं ते तुभ्यम् अहं परम् आप्तो वक्ष्याम्य् अशेषतः साधन-फलादि-सहितत्वेन निरवशेषं कथयिष्यामि । श्रौतीम् एक-विज्ञानेन सर्व-विज्ञान-प्रतिज्ञाम् अनुसरन्न् आह यज्-ज्ञानं नित्य-चैतन्य-रूपं ज्ञात्वा वेदान्त-जन्य-मनो-वृत्ति-विषयीकृत्येह व्यवहार-भूमौ भूयः पुनर् अपि अन्यत्
किञ्चिद् अपि ज्ञातव्यं नावशिष्यते । सर्वाधिष्ठान-सन्-मात्र-ज्ञानेन कल्पितानां सर्वेषां बाधे सन्-मात्र-परिशेषात् तन्-मात्र-ज्ञानेनैव त्वं कृतार्थो भविष्यसीत्य् अभिप्रायः ॥२॥
विश्वनाथः - तत्र मद्-भक्तेर् आसक्ति-भूमिकातः पूर्वम् अपि मे ज्ञानम् ऐश्वर्य-मयं भवेत् । तद्-उत्तरं विज्ञानं माधुर्यानुभव-मयं भवेत् । तद्-उभयम् अपि त्वं शृण्व् इत्य् आह ज्ञानम् इति । अन्यज् ज्ञातव्यं नाविशिष्यते इति मन्-निर्विशेष-ब्रह्म-ज्ञान-विज्ञाने ऽप्य् एतद्-अन्तर्भूत एवेत्य् अर्थः ॥२॥
बलदेवः – वक्ष्यमाणं ज्ञानं स्तौति ज्ञानम् इति । इदं चिद्-अचिच्-छक्तिमत्-स्वरूप-विषयकं ज्ञानं । तच् च स-विज्ञानम् वक्ष्यामि । तच्-छक्ति-द्वय-विविक्त-स्वरूप-विषयकं ज्ञानं विज्ञानं तेन सहितं ते तुभ्यं प्रपन्नायाशेषतः सामग्र्येणोपदेक्ष्यामीत्य् अर्थः । यत् स्वरूपं सर्व-कारणं यच् च ध्येयं तद् उभय-विषयकं ज्ञानम् अत्र वक्तुं प्रतिज्ञातं यज् ज्ञानं ज्ञात्वेह श्रेयो-वर्त्मनि निविष्टस्य जिज्ञासोस् तवान्यज् ज्ञातव्यं नावशिष्यते । सर्वस्य तद्-अन्तर्भावात् ॥२॥
७।३
मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये ।
यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः ॥३॥
श्रीधरः - मद्-भक्तिं विना तु यज् ज्ञानं दुर्लभम् इत्य् आह मनुष्याणाम् इति । असङ्ख्यातानां जीवानां मध्ये मनुष्य-व्यतिरिक्तानां श्रेयसि प्रवृत्तिर् एव नास्ति । मनुष्याणां तु सहस्रेषु मध्ये कश्चिद् एव पुण्य-वशात् सिद्धय आत्म-ज्ञानाय प्रयतते । प्रयत्नं कुर्वताम् अपि सहस्रेषु कश्चिद् एव प्रकृष्ट-पुण्य-वशाद् आत्मानं वेत्ति । तादृशानां चात्म-ज्ञानां सहस्रेषु कश्चिद् एव मां परमात्मानं मत्-प्रसादेन तत्त्वतो वेत्ति । तद् एवम् अतिदुर्लभम् अपि यज् ज्ञानं तुभ्यम् अहं वक्ष्यामीत्य् अर्थः ॥३॥
मधुसूदनः - अतिदुर्लभं चैतन्-मद्-अनुग्रहम् अन्तरेण महा-फलं ज्ञानम् । यतो मनुष्याणाम् इति । मनुष्याणां शास्त्रीय-ज्ञान-कर्म-योग्यानां सहस्रेषु मध्ये कश्चिद् एको ऽनेक-जन्म-कृत-सुकृत-समासादित-नित्यानित्य-वस्तु-विवेकः सन् यतति यतते सिद्धये सत्त्व-शुद्धि-द्वारा ज्ञानोत्पत्तये । यततां यतमानानां ज्ञानाय सिद्धानां प्राग्-अर्जित-सुकृतानां साधकानाम् अपि मध्ये कश्चिद् एकः श्रवण-मनन-निदिध्यासन-परिपाकान्ते माम् ईश्वरं वेत्ति साक्षात्करोति तत्त्वतः प्रत्यग्-अभेदेन तत्त्वम् असीत्य् आदि-गुरूपदिष्ट-महा-वाक्येभ्यः । अनेकेषु मनुष्येष्व् आत्म-ज्ञान-साधनानुष्ठायी परम-दुर्लभः । साधनानुष्ठायिष्व् अपि मध्ये फल-भागी परम-दुर्लभ इति किं वक्तव्यम् अस्य ज्ञानस्य माहात्म्यम् इत्य् अभिप्रायः ॥३॥
विश्वनाथः - एतच् च स-विज्ञानं मज्-ज्ञानं पूर्वम् अध्याय-षट्के प्रोक्त-लक्षणैर् ज्ञानिभिर् योगिभिर् अपि दुर्लभम् इति वदन प्रथमं विज्ञानम् आह मनुष्याणाम् इति । असङ्ख्यातानां जीवानां मध्ये कश्चिद् एवे मनुष्यो भवति । मनुष्याणां सहस्रेषु मध्ये कश्चिद् एव श्रेयसे यतते । तादृशानाम् अपि मनुष्याणां सहस्रेषु कश्चिद् एव मां श्यामसुन्दराकारं तत्त्वतो वेत्ति साक्षाद् अनुभवतीति निर्विशेष-ब्रह्मानुभवानन्दात् सहस्र-गुणाधिकं स-विशेष-ब्रह्मानुभवानन्दः स्याद् इति भावः ॥३॥
बलदेवः - स्व-ज्ञानस्य दौर्लभ्यम् आह मनुष्याणाम् इति । उच्चावच-धेआत्म-असङ्ख्याता जीवास् तेषु कतिचिद् एव मनुष्यास् तेषां शास्त्राधिकार-योग्यानां सहस्रेषु मध्ये कश्चिद् एव सत्-प्रसङ्ग-वशात् सिद्धये स्व-परात्मावलोकनाय यतते, न तु सर्वः । तादृशानां यततां यतमानानां सिद्धानां लब्ध-स्व-परात्मावलोकनानां सहस्रेषु मध्ये कश्चिद् एवैको मां कृष्णं तत्त्वतो वेत्ति । अयम् अर्थः - शास्त्रीयार्थानुष्ठायिनो बहवो मनुष्याः परमाणु-चैतन्यं स्वात्मानं प्रादेश-मात्रं मत्-स्वांशं परमात्मानं चानुभूय विमुच्यन्ते । मां तु यशोदा-स्तनन्धयं कृष्णम् अधुना त्वत्-सारथिं कश्चिद् एव तादृश-सत्-प्रसङ्गावाप्त-मद्-भक्तिस् तत्त्वतो याथात्म्येन वेत्ति । अविचिन्त्यानन्त-शक्तिकत्वेन निखिल-कारणत्वेन
सार्वज्ञ्य-सार्वैश्वर्य-स्वभक्त-वात्सल्याद्य्-असङ्ख्येय-कल्याण-गुण-रत्नाकरत्वेन पूर्ण-ब्रह्मत्वेन चानुभवतीत्य् अर्थः । वक्ष्यति च स महात्मा सुदुर्लभः [गीता ७।१९], मां तु वेद न कश्चन [गीता ७।२६] इति ॥३॥
७।४
भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिर् अष्टधा ॥४॥
श्रीधरः - एवं श्रोतारम् अभिमुखीकृत्येदानीं प्रकृति-द्वारा सृष्ट्य्-आदि-कर्तृत्वेनेश्वर-तत्त्वं प्रतिज्ञातं निरूपयिष्यन् परापर-भेदेन प्रकृति-द्वयम् आह भूमिर् इति द्व्याभ्याम् । भूम्य्-आदि-शब्दैः पञ्च-गन्धादि-तन्-मात्राण्य् उच्यन्ते । मनः-शब्देन तत्-कारण-भूतो ऽहङ्कारः । बुद्धि-शब्देन तत्-कारणं महत्-तत्त्वम् अहङ्कार-शब्देन तत्-कारणम् अविद्या । इत्य् एवम् अष्टधा भिन्ना । यद् वा भूम्य्-आदि-शब्दैः पञ्च-महा-भूतानि सूक्ष्मैः सहिकीकृत्य गृह्यन्ते । अहङ्कार-शब्देनैवाहङ्कारस् तेनैव तत्-कार्याणीन्द्रियाण्य् अपि गृह्यन्ते । बुद्धिर् इति महत्-तत्त्वम् । मनः-शब्देन तु मनसैवोन्नेयम् अव्यक्त-रूपं प्रधानम् इति । अनेन प्रकारेण मे पकृतिर् मायाख्या शक्तिर् अष्टधा भिन्ना विभागं प्राप्ता । चतुर्विंशति-भेद-भिन्नाप्य्
अष्ट-स्वैवान्तर्भाव-विवक्षयाष्टधा भिन्नेत्य् उक्तम् । तथा च क्षेत्राध्याय इमाम् एव प्रकृतिं चतुर्विंशति-तत्त्वात्मना प्रपञ्चयिष्यति -
महाभूतान्य् अहङ्कारो बुद्धिर् अव्यक्तम् एव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय-गोचराः ॥ [गीता १३।५] इति ॥४॥
मधुसूदनः - एवं प्ररोचनेन श्रोतारम् अभिमुखीकृत्यात्मनः सर्वात्मकत्वेन परिपूर्णत्वम् अवतारयन्न् आदाव् अपरां प्रकृतिम् उपन्यस्यति भूमिर् इति । साङ्ख्यैर् हि पञ्च तन्-मात्राण्य् अहङ्कारो महान् अव्यक्तम् इत्य् अष्टौ प्रकृतयः पञ्च महा-भूतानि पञ्च कर्मेन्द्रियाणि पञ्च ज्ञानेन्द्रियाणि उभय-साधारणं मनश् चेति षोडश विकारा उच्यन्ते । एतान्य् एव चतुर्विंशतिस् तत्त्वानि । तत्र भूमिर् आपो ऽनलो वायुः खम् इति पृथ्व्य्-अप्-तेजो-वाय्व्-आकाशाख्य-पञ्च-महाभूत-सूक्ष्मावस्था-रूपाणि गन्ध-रस-रूप-स्पर्श-शब्दात्मकानि पञ्च-तन्-मात्राणि लक्ष्यन्ते । बुद्ध्य्-अहङ्कार-शब्दौ तु स्वार्थाव् एव । मनः-शब्देन च परिशिष्टम् अव्यक्तं लक्ष्यन्ते प्रकृति-शब्द-सामानाधिकरण्येन स्वार्थ-हानेर् आवश्यकत्वात् ।
मनः-शब्देन वा स्व-कारणम् अहङ्कारो लक्ष्यते पञ्च-तन्मात्र-सन्निकर्षात् । बुद्धि-शब्दस् त्व् अहङ्कार-कारणे महत्-तत्त्वे मुख्य-वृत्तिर् एव । अहङ्कार-शब्देन च सर्व-वासना-वासितम् अविद्यात्मकम् अव्यक्तं लक्ष्यन्ते प्रवर्तकत्वाद्य्-असाधारण-धर्म-योगाच् च । इति उक्त-प्रकारेणेयम् अपरोक्षा साक्षि-भास्यत्वात् प्रकृतिर् मायाख्या पारमेश्वरी शक्तिर् अनिर्वचनीय-स्वभावा त्रिगुणात्मिकाष्टधा भिन्नो ऽष्टभिः प्रकारैर् भेदम् आगता । सर्वो ऽपि जड-वर्गो ऽत्रैवान्तर्भवतीत्य् अर्थः । स्व-सिद्धान्ते चेक्षण-सङ्कल्पात्मकौ माया-परिणामाव् एव बुद्ध्य्-अहङ्कारौ । पञ्च-तन्-मात्राणि चापञ्चीकृत-पञ्च-महा-भूतानीत्य् असकृद् अवोचाम् ॥४॥
विश्वनाथः -अथ भक्ति-मते ज्ञानं नाम भगवद्-ऐश्वर्य-ज्ञानम् एव, न तु देहाद्य्-अतिरिक्तात्म-ज्ञानम् एवेति । अतः स्वीयैश्वर्य-ज्ञानं निरूपयन् परापर-भेदेन स्वीय-प्रकृति-द्वयम् आह भूमिर् इति द्वाभ्याम् । भूम्य्-आदि-शब्दैः पञ्च-महा-भूतानि सूक्ष्म-भूतैर् गन्धादिभिः सहैकीकृत्य सङ्गृह्यन्ते, अहङ्कार-शब्देन तत्-कार्य-भूतानीन्द्रियाणि तत्-कारण-भूत-महत्-तत्त्वम् अपि गृह्यते । बुद्धि-मनसोः पृथग्-उक्तिस् तत्त्वेषु तयोः प्राधान्यात् ॥४॥
बलदेवः - एवं श्रोतारं पार्थम् अभिमुखीकृत्य स्वस्य कारण-स्वरूपं चिद्-अचिच्-छक्तिमद् वक्तुं ते शक्ती प्राह भूमिर् इति द्वाभ्याम् । चतुर्विंशतिधा प्रकृतिर् भूम्य्-आद्य्-आत्मनाष्टधा भिन्ना मे मदीया बोध्या तन्-मात्रादीनां भूम्य्-आदिष्व् अन्तर्भावाद् इहापि चतुर्विंशतिधैवावसेया । तत्र भूम्य्-आदिषु पञ्चसु भूतेषु तत्-कारणानां गन्धानां पञ्चानां तन्-मात्राणाम् अन्तर्-भावः । अहङ्कारे तत्-कार्याणाम् एकादशानाम् इन्द्रियाणाम् । बुद्धि-शब्दो महत्-तत्त्वम् आह । मनः-शब्दस् तु मनो-गम्यम् अव्यक्त-रूपं प्रधानम् इति । श्रुतिश् चैवम् आह-चतुर्विंशति-सङ्ख्यानाम् अव्यक्तं व्यक्तम् उच्यते इति । स्वयं च क्षेत्राध्याये वक्ष्यति महाभूतान्य् अहङ्कारः [गीता १३।५] इत्य् आदिना ॥४॥
७।५
अपरेयम् इतस् त्व् अन्यां प्रकृतिं विद्धि मे पराम् ।
जीव-भूतां महा-बाहो ययेदं धार्यते जगत् ॥५॥
श्रीधरः - अपराम् इमां प्रकृतिम् उपसंहरन् परां प्रकृतिम् आह अपरेयम् इति । अष्टधा या प्रकृतिर् उक्तेयम् अपरा निकृष्टा जडत्वात् परार्थत्वाच् च । इतः सकाशात् परां प्रकृष्टाम् अन्यां जीव-भूतां जीव-स्वरूपां मे प्रकृतिं विद्धि जानीहि । परत्वे हेतुः यया चेतनया क्षेत्रज्ञ-रूपया स्वकर्म-द्वारेणेदं जगद् धार्यते ॥५॥
मधुसूदनः - एवं क्षेत्र-लक्षणायाः प्रकृतेर् अपरत्वं वदन् क्षेत्रज्ञ-लक्षणां परां प्रकृतिम् आह अपरेयम् इति । या प्राग् अष्टधोक्ता प्रकृतिः सर्वाचेतन-वर्ग-रूपा सेयम् अपरा निकृष्टा जडत्वात् परार्थत्वात् संसार-बन्ध-रूपत्वाच् च । इतस् त्व् अचेतन-वर्ग-रूपायाः क्षेत्र-लक्षणायाः प्रकृतेर् अन्यां विलक्षणां तु-शब्दाद् यथा-कथञ्चिद् अप्य् अभेदायोग्यां जीव-भूतां चेतनात्मिकां क्षेत्रज्ञ-लक्षणां मे ममात्म-भूतां विशुद्धां परां प्रकृष्टां प्रकृतिं विद्धि हे महाबाहो, यया क्षेत्रज्ञ-लक्षणया जीव-भूतयान्तर्-अनुप्रविष्टया प्रकृत्येदं जगद्-अचेतन-जातं धार्यते स्वतो विशीर्य उत्तम्यते अनेन जीवेनात्मनानुप्रविश नाम-रूपे व्याकरवाणि इति श्रुतेः । न हि जीव-रहितं धारयितुं
शक्यम् इत्य् अभिप्रायः ॥५॥
विश्वनाथः - इयं प्रकृतिर् वरियङ्गाख्या शक्तिर् अपरानुत्कृष्टा जडत्वात् । इतो ऽन्यां प्रकृतिं तटस्थां शक्तिं जीव-भूतां पराम् उत्कृष्टां विद्धि चैतन्यत्वात् । अस्या उत्कृष्टत्वे हेतुः यया चेतनयेदं जगद् अचेतनं स्वभोगार्थं गृह्यते ॥५॥
बलदेवः - एषा प्रकृतिर् अपरा निकृष्टा जडत्वाद् भोग्यत्वाच् चेतो जडायाः प्रकृतेर् अन्यां परां चेतनत्वाद् भोक्तृत्वाच् चोत्कृष्टां जीव-भूतां मे मदीयां प्रकृतिं विद्धि । हे महाबाहो पार्थ ! परत्वे हेतुः ययेति । यया चेतनया इदं जगत् स्व-कर्म-द्वारा धार्यते शय्यासनादिवत् स्व-भोगाय गृह्यते । श्रुतिश् च हरेर् एवेयं शक्तिस् त्वयीत्य् आह प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः [श्वेतु ६।१६] इति ।
७।६
एतद्-योनीनि भूतानि सर्वाणीत्य् उपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा ॥६॥
श्रीधरः - अनयोः प्रकृतित्वं दर्शयन् स्वस्य तद्-द्वारा सृष्ट्य्-आदि-कारणत्वम् आह एतद् इति । एते क्षेत्र-क्षेत्रज्ञ-रूपे प्रकृती योनी कारण-भूते येषां तान्य् एतद्-योनीनि । स्थावर-जङ्गमात्मकानि सर्वाणि भूतानीत्य् उपधारय बुध्यस्व । तत्र जडा प्रकृतिर् देह-रूपेण परिणमते । चेतना तु मद्-अंश-भूता भोक्तृत्वेन देहेषु प्रविश्य स्वकर्मणा तानि धारयति । ते च मदीये प्रकृती मत्तः सम्भूते । अतो ऽहम् एव कृत्स्नस्य स-प्रकृतिकस्य जगतः प्रभवः । प्रकर्षेण भवत्य् अस्माद् इति प्रभवः । परं कारणम् अहम् इत्य् अर्थः । तथा प्रलीयते ऽनेनेति प्रलयः । संहर्ताप्य् अहम् एवेत्य् अर्थः ॥६॥
मधुसूदनः - उक्त-प्रकृति-द्वये कार्य-लिङ्गकम् अनुमानं प्रमाणयन् स्वस्य तद्-द्वारा जग-सृष्ट्य्-आदि-कारणत्वं दर्शयति एतद्-योनीनीति । एते अपरत्वेन परत्वेन च प्राग्-उक्ते क्षेत्र-क्षेत्रज्ञ-लक्षणे प्रकृती योनिर् येषां तान्य् एतद्-योनीनि भूतानि भवन-धर्मकाणि सर्वाणि चेतनाचेतनात्मकानि जनिमन्ति निखिलानीत्य् एवम् उपधारय जानीहि । कार्याणां चिद्-अचिद्-ग्रन्थि-रूपत्वात् कारणम् अपि चिद्-अचिद्-ग्रन्थि-रूपम् अनुमिन्व् इत्य् अर्थः । एवं क्षेत्र-क्षेत्रज्ञ-लक्षणे ममोपाधि-भूते यतः प्रकृती भवतस् ततस् तद्-द्वाराहं सर्वज्ञः सर्वेश्वरो ऽनन्त-शक्ति-मायोपाधिः कृत्स्नस्य चराचरात्मकस्य जगतः सर्वस्य कार्य-वर्गस्य प्रभव उत्पत्ति-कारणं प्रलयस् तथा विनाश-कारणम् । स्वाप्निकस्येव प्रपञ्चस्य मायिकस्य मायाशरयत्व-विषयत्वाभ्यां
मायाव्य् अहम् एवोपादानं द्रष्टा चेत्य् अर्थः ॥६॥
विश्वनाथः - एतच् छक्ति-द्वय-द्वारैव स्वस्य जगत्-कारणत्वम् आह एतद् इति । एते माया-शक्ति-जीव-शक्ती क्षेत्र-क्षेत्रज्ञ-रूपे योनी कारण-भूते येषां तानि स्थावर-जङ्गमात्मकानि भूतानि जानीहि । अतः कृत्स्नस्य सर्वस्यास्य जगतः प्रभवो मच्-छक्ति-द्वय-प्रभूतत्वाद् अहम् एव स्रष्टा । प्रलयस् तच्-छक्तिमति मय्य् एव प्रलीन-भावित्वाद् अहम् एवास्य संहर्ता ॥६॥
बलदेवः – एतच् छक्ति-द्वय-द्वारैव सर्व-जगत्-कारणतां स्वस्याह एतद् इति । सर्वाणि स्थिर-चराणि भूतान्य् एतद्-योनीनि उपधारय विद्धि । एते ऽपर-परे क्षेत्र-क्षेत्रज्ञ-शब्द-वाच्ये मच्-छक्ती योनी कारण-भूते येषां तानीत्य् अर्थः । ते च प्रकृती मदीये मत्त एव सम्भूते । अतः कृत्स्नस्य स-प्रकृतिकस्य जगतो ऽहम् एव प्रभव उत्पत्ति-हेतुः । प्रभवत्य् अस्मात् इति व्युत्पत्तेः । तस्य प्रलय-संहर्ताप्य् अहम् एव प्रलीयते ऽनेन इति व्युत्पत्तेः ॥६॥
७।७
मत्तः परतरं नान्यत् किञ्चिद् अस्ति धनञ्जय ।
मयि सर्वम् इदं प्रोतं सूत्रे मणि-गणा इव ॥७॥
श्रीधरः - यस्माद् एवं तस्मात् मत्त इति । मत्तः सकाशात् परतरं श्रेष्ठं जगतः सृष्टि-संहारयोः स्वतन्त्रं कारणं किञ्चिद् अपि नास्ति । स्थिति-हेतुर् अप्य् अहम् एवेत्य् आह मयीति । मयि सर्वम् इदं जगत् प्रोतं ग्रथितम् आश्रितम् इत्य् अर्थः । दृष्टान्तः स्पष्टः ॥७॥
मधुसूदनः - यस्माद् अहम् एव मायया सर्वस्य जगतो जन्म-स्थिति-भङ्ग-हेतुस् तस्मात् परमार्थतः मत्त इति । निखिल-दृश्याकार-परिणत-मायाधिष्ठानात् सर्व-भासकान् मत्तः सद्-रूपेण स्फुरण-रूपेण च सर्वानुस्यूतान् स्व-प्रकाश-परमानन्द-चैतन्य-घनात् परमार्थ-सत्यात् स्वप्न-दृश इव स्वाप्निकं मायाविन इव मायिकं शुक्ति-शकलावच्छिन्न-चैतन्यादिवत्-तद्-अज्ञान-कल्पितं रजतं परतरं परमार्थ-सत्यम् अन्यत् किञ्चिद् अपि नास्ति हे धनञ्जय । मयि कल्पितं परमार्थतो न मत्तो भिद्यत इत्य् अर्थः तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [व्स् २।१।१४] इति न्यायात् । व्यवहार-दृष्ट्या तु मयि सद्-रूपे स्फुरण-रूपे च सर्वम् इदं जड-जातं प्रोतं ग्रथितं मत्-सत्तया सद् इव मत्-स्फुरणेन च स्फुरद् इव व्यवहाराय माया-मयाय कल्पते । सर्वस्य चैतन्य-ग्रथितत्व-मात्रे
दृष्टान्तः - सूत्रे मणि-गणा इवेति । अथवा सूत्रे तैजसात्मनि हिरण्यगर्भे स्वप्न-दृशि स्वप्न-प्रोता मणि-गणा इवेति सर्वांशे दृष्टान्तो व्याख्येयः ।
अन्ये तु परम् अतः सेतून् मान-सम्बन्ध-भेद-व्यपदेशेभ्यः [व्स् ३।२।३१] इति सूत्रोक्तस्य पूर्व-पक्षस्योत्तरत्वेन श्लोकम् इमं व्याचक्षते । मत्तः सर्वज्ञात् सर्व-शक्तेः सर्व-कारणात् परतरं प्रशस्यतरं सर्वस्य जगतः सृष्टि-संहारयोः स्वतन्त्रं कारणम् अन्यन् नास्ति हे धनञ्जय ! यस्माद् एवं तस्मान् मयि सर्व-कारणे सर्वम् इदं कार्य-जातं प्रोतं ग्रथितं नान्यन् न । सूत्रे मणि-गणा इवेति दृष्टान्तस् तु ग्रथितत्व-मात्रे न तु कारणत्वे । कनके कुण्डलादिवद् इति तु योग्यो दृष्टान्तः ॥७॥
विश्वनाथः – यस्माद् एवं तस्माद् अहम् एव सर्वम् इत्य् आह मत्तः परतरम् अन्यत् किञ्चिद् अपिइ नास्ति । कार्य-कारणयोर् ऐक्यात् शक्ति-शक्तिमतोर् ऐक्याच् च । तथा च श्रुतिः एकम् एवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चन इति । एवं स्वस्य सर्वात्मकत्वम् उक्त्वा सर्वान्तर्यामित्वं चाह मयीति । सर्वम् इदं चिज्-जडात्मकं जगत् मत्-कार्यत्वान् मद्-आत्मकम् अपि पुनर् मय्य् अन्तर्यामिणि प्रोतं ग्रथितं यथा सूत्रे मणि-गणाः प्रोताः । मधुसूदन-सरस्वती-पादास् तु सूत्रे मणि-गणा इवेति दृष्टान्तस् तु ग्रथितत्व-मात्रे, न तु कारणत्वे कनके कुण्डलादिवद् इति तु योग्यो दृष्टान्त इत्य् आहुः ॥७॥
बलदेवः - ननु स्थिर-चरयोर् अपर-परयोः प्रकृत्योर् अपि त्वम् एव तच्-छक्तिमान् योनिर् इत्य् उक्तेर् निखिल-जगद्-बीजत्वं तव प्रतीतम्, न तु सर्व-परत्वम् । तच् च तद्-बीजात् त्वत्तो ऽन्यस्यैव -
ततो यद् उत्तरतरं तद् अरूपम् अनामयम् ।
य एतद् विदुर् अमृतास् ते भवन्ति अथेतरे
दुःखम् एवापि यन्ति ॥ [श्वेतु ३।१०] इति श्रवणाद् इति चेत् तत्राह मत्त इति ।
मत्तस् त्वत्-सखात् कृष्णात् परतरः श्रेष्ठम् अन्यत् किञ्चिद् अपि नास्त्य् अहम् एव सर्व-श्रेष्ठं वस्त्व् इत्य् अर्थः । ननु ततो यद् उत्तरतरम् इत्य् आदाव् अन्यथा श्रुतिम् इति चेन् मन्दम् एतत् क्षोदाक्षमत्वात् । तथा हि
वेदाहम् एतं पुरुषं महान्तम्
आदित्य्-वर्णं तमसः परस्तात् ।
तम् एव विद्वान् अमृत इह भवति
नान्यः पन्था विद्यते ऽनयनाय ॥ इति [श्वेतु ३।८]
श्वेताश्वतरैः सर्व-जगद्-बीजस्य महा-पुरुषस्य विष्णोर् ज्ञानम् अमृतस्य पन्थास् ततो नास्तीत्य् उपदिश्य तद्-उपपादनाय
यस्मात् परं नापरम् अस्ति किञ्चिद्
यस्मान् नाणीयोन ज्यायो ऽस्ति किञ्चित्
इति तस्यैव परमत्वं तद्-इतरस्य तद्-असम्भवं च प्रतिपाद्य । ततो यद् उत्तरोतरं इत्य् आदिना पूर्वोक्तम् एव निगमितम् । न तु ततो ऽन्यच्-छ्रेष्ठम् अस्तीति उक्तम् । तथा सति तेषां मृषावादित्वापत्तेः । एवम् आह सूत्रकारः-तथान्य-प्रतिषेधात् [व्स् ३।२।३६] इति । मद्-अन्यस्य कस्यचिद् अपि श्रैष्ठ्याभावाद् अहम् एव मद्-अन्य-सर्वाश्रय इत्य् आह मयीति । प्रोतं ग्रथितं स्फुटम् अन्यत् । एतेन विश्वपालकत्वं स्वस्योक्तम् ॥७॥
७।८
रसो ऽहम् अप्सु कौन्तेय प्रभास्मि शशि-सूर्ययोः ।
प्रणवः सर्व-वेदेषु शब्दः खे पौरुषं नृषु ॥८॥
श्रीधरः - जगतः स्थिति-हेतुत्वम् एव प्रपञ्चति रसो ऽहम् इति पञ्चभिः । अप्सु रसो ऽहं रस-तन्-मात्र-रूपया विभूत्या तद्-आश्रयतेनाप्सु-स्थितो ऽहम् इत्य् अर्थः । तथा शशि-सूर्ययोः प्रभास्मि । चन्द्रे सूर्ये च प्रकाश-रूपया विभूत्या तद्-आश्रयत्वेन स्थितो ऽहम् इत्य् अर्थः । उत्तरात्राप्य् एवं द्रष्टव्यम् । सर्वेषु वेदेषु वैखरी-रूपेषु तन्-मूल-भूतः प्रणव ओङ्कारो ऽस्मि । ख आकाशे शब्द-तन्-मात्र-रूपो ऽस्मि । नृषु पुरुषेषु पौरुषम् उद्यमम् अस्मि । उद्यमे हि पुरुषास् तिष्ठन्ति ॥८॥
मधुसूदनः - अवादीनां रसादिषु प्रोतत्व-प्रतीतेः कथं त्वयि सर्वम् इदं प्रोतम् इति च न शङ्क्यं रसादि-रूपेण ममैव स्थितत्वाद् इत्य् आह रसो ऽहम् इति पञ्चभिः । रसः पुण्यो मधुरस् तन्-मात्र-रूपः सर्वासाम् अपां सारः कारण-भूतो यो ऽप्सु सर्वास्वनुगतः सो ऽहं हे कौन्तेय तद्-रूपे मयि सर्वा आपः प्रोता इत्य् अर्थः । एवं सर्वेषु पर्यायेषु व्याख्यातव्यम् । इयं विभूतिर् आध्यानायोपदिश्यत इति नातीवाभिनिवेष्टव्यम् । तथा पोरभा प्रकाशः शशि-सूर्ययोर् अहम् अस्मि । प्रकाश-सामान्य-रूपे मयि शशि-सूर्यौ प्रोताव् इत्य् अर्थः । तथा प्रणय ओङ्कारः सर्व-वेदेष्व् अनुस्यूतो ऽहं तद् यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्य् एवम् ओङ्कारेण सर्वा वाक् इति श्रुतेः । सन्तृण्णानि ग्रथितानि । सर्वा वाक् सर्वो वेद इत्य् अर्थः ।
शब्दः पुण्यस् तन्-मात्र-रूपः ख आकाशे ऽनुस्यूतो ऽहम् । पौरुषं पुरुषत्व-सामान्यं नृषु पुरुषेषु यद् अनुस्यूतं तद् अहम् । सामान्य-रूपे मयि सर्वे विशेषाः प्रोताः श्रौतैर् दुन्दुभ्य्-आदि-दृष्टान्तैर् इति सर्वत्र द्रष्टव्यम् ॥८॥
विश्वनाथः - स्व-कार्ये जगत्य् अत्र यथाहम् अन्तर्यामि-रूपेण प्रविष्टो वर्ते, तथा क्वचित् कारण-रूपेण क्वचित् कार्येषु मनुष्यादिषु सार-रूपेणाप्य् अहं वर्त इत्य् आह रसो ऽहम् इति चतुर्भिः । अप्सु रस तत्-कारण-भूतो मद्-विभूतिर् इत्य् अर्थः । एवं सर्वत्राग्रे ऽपि । प्रभा प्रभा-रूपः । प्रणव ओङ्कारः सर्व-वेद-कारणम् । आकाशे शब्दस् तत्-कारणम् । नृषु पौरुषम् सकल उद्यम-विशेष एव मनुष्य-सारः ॥८॥
बलदेवः - तत्त्वं दर्शयति रसो ऽहम् इति पञ्चभिः । अप्सु रसो ऽहं रस-तन्-मात्रया विभूत्या ताः पालयन् तास्व् अहं वर्तते । तां विना तासाम् अस्थितेः । शशिनि सूर्ये चाहं प्रभास्मि प्रभया विभूत्या तौ पालयन् तयोर् अहं वर्ते । एवं परत्र द्रष्टव्यम् । वैखरी-रूपेषु सर्व-वेदेषु तन्-मूल-भूतः प्रणवो ऽहम् । खे नभसि शब्दस् तन्-मात्र-लक्षणो ऽहम् । नृषु पौरुषं फलवान् उद्यमो ऽहम् । तेनैव तेषां स्थितेः ॥८॥
७।९
पुण्यो गन्धः पृथिव्यां च तेजश् चास्मि विभावसौ ।
जीवनं सर्व-भूतेषु तपश् चास्मि तपस्विषु ॥९॥
श्रीधरः - किं च पुण्य इति । पुण्यो ऽविकृतो गन्धो गन्ध-तन्-मात्रम् । पृथिव्या आश्रय-भूतो ऽहम् इत्य् अर्थः । यद् वा विभूति-रूपेणाश्रयत्वस्य विवक्षितत्वात् सुरभि-गन्धस्यैवोत्कृष्टतया विभूतित्वात् पुण्यो गन्ध इत्य् उक्तम् । तथा विभावसाग्नौ यत् तेजो दुःसहा सहजा दीप्तिस् तद् अहम् । सर्व-भूतेषु जीवनं प्राण-धारण-वायुर् अहम् इत्य् अर्थः । तपस्विषु वानप्रस्थादिषु द्वन्द्व-सहन-रूपं तपो ऽस्मि ॥९॥
मधुसूदनः - पुण्यः सुरभिर् अविकृतो गन्धः सर्व-पृथिवी-सामान्य-रूपस् तन्-मात्राख्यः पृथिव्याम् अनुस्यूतो ऽहम् । च-कारो रसादीनाम् अपि पुण्यत्व-समुच्चयार्थः । शब्द-स्पर्श-रूप-रस-गन्धानां हि स्वभावत एव पुण्यत्वम् अविकृतत्वं प्राणिनाम् अधर्म-विशेषात् तु तेषाम् अपुण्यत्वं न तु स्वभावत इति द्रष्टव्यम् । तथा विभावसाव् अग्नौ यत् तेजः सर्व-दहन-प्रकाशन-सामर्थ्य-रूपम् उष्ण-स्पर्श-सहितं सित-भास्वरं रूपं पुण्यं तद् अहम् अस्मि । च-काराद्यो वायौ पुण्य उष्ण-स्पर्शातुराणाम् आप्यायकः शीत-स्पर्शः सो ऽप्य् अहम् इति द्रष्टव्यम् ।
सर्व-भूतेषु सर्वेषु प्राणिषु जीवनं प्राण-धारणम् आयुर् अहम् अस्मि । तद्-रूपे मयि सर्वे प्राणिनः प्रोता इत्य् अर्थः । तपस्विषु नित्यं तपो-युक्तेषु वानप्रस्थादिषु यत् तपः शीतोष्ण-क्षुत्-पिपासादि-द्वन्द्व-सहन-सामर्थ्य-रूपं तद् अहम् अस्मि । तद्-रूपे मयि तपस्विनः प्रोता विशेषणाभावे विशिष्टाभावात् । तपश् चेति च-कारेण चित्तैकाग्र्यम् आन्तरं जिह्वोपस्थादि-निग्रह-लक्षणं बाह्यं च सर्वं तपः समुच्चीयते ॥९॥
विश्वनाथः – पुण्यो ऽविकृतो गन्धः पुण्यस् तु चार्व् अपि इत्य् अमरः । च-कारो रसादीनाम् अपि पुण्यत्व-समुच्चयार्थः । तेजः सर्व-वस्तु-पाचन-प्रकाशन-शीत-त्राणादि-सामर्थ्य-रूपः सारः । जीवनम् आयुर् एव सारः । तपो द्वन्द्व-सहनादिकम् एव सारः ॥९॥
बलदेवः – पुण्यो ऽविकृतो गन्धस् तन्-मात्र-लक्षणः । च-कारो रसादीनाम् अहम् अपि पुण्यत्व-समुच्चायकः । विभावसौ वह्नौ तेजः सर्व-वस्तु-पचन-प्रकाशनादि-सामर्थ्य-रूपं च शदाद् वायौ यः पुण्यः स्पर्श उष्ण-स्पर्श-व्याकुलानाम् आपायकः सो ऽहम् इति बोध्यम् । जीवनम् आयुस् तपो द्वन्द्व-सहनम् ॥९॥
७।१०
बीजं मां सर्व-भूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर् बुद्धिमताम् अस्मि तेजस् तेजस्विनाम् अहम् ॥१०॥
श्रीधरः - किं च बीजम् इति । सर्वेषां चराचराणां भूतानां बीजं सजातीय-कार्योत्पादन-सामर्थ्यम् । सनातनं नित्यम् उत्तरोत्तर-सर्व-कार्येष्व् अनुस्यूतम् । तद् एव बीजं मद्-विभूतिं विद्धि । न तु प्रतिव्यक्ति विनश्यम् । तथा बुद्धिमतां बुद्धिः प्रज्ञाहम् अस्मि । तेजस्विनां प्रगल्भानां तेजः प्रगल्भताम् ॥१०॥
मधुसूदनः - सर्वाणि भूतानि स्व-स्व-बीजेषु प्रोतानि न तु स्वयीति चेन् नेत्य् आह बीजम् इति । यत् सर्व-भूतानां स्थावर-जङ्गमानाम् एकं बीजं कारणं । सनातनं नित्यं बीजान्तरानपेक्षं न तु प्रतिव्यक्ति-भिन्नम् अनित्यं वा तद्-अव्याकृताख्यं सर्व-बीजं माम् एव विद्धि न तु मद्-भिन्नं हे पार्थ । अतो युक्तम् एकस्मिन्न् एव मयि सर्व-बीजे प्रोतत्वं सर्वेषाम् इत्य् अर्थः । किं च बुद्धिस् तत्त्वातत्त्व-विवेक-सामर्थ्यं तादृश-बुद्धिमताम् अहम् अस्मि । बुद्धि-रूपे मयि बुद्धिमन्तः प्रोता विशेषणाभावे विशिष्टाभावस्योक्तत्वात् । तथा तेजः प्रागल्भ्यं पराभिभव-सामर्थ्यं परिश् चानभिभाव्यत्वं तेजस्विनां तथाविध-प्रागल्भ्य-युक्तानां यत् तद् अहम् अस्मि, तेजो-रूपे मयि तेजस्विनः प्रोता इत्य् अर्थः ॥१०॥
विश्वनाथः - बीजम् अविकृतं कारणं प्रधानाख्यम् इत्य् अर्थः । सनातनं नित्यं बुद्धिमतां बुद्धिर् एव सारः ॥१०॥
बलदेवः - सर्व-भूतानां चराचराणां यद् एक-बीजं सनातनं नित्यम्, न तु प्रतिव्यक्ति-भिन्नम् अनित्यं वा तत् प्रधानाख्यं सर्व-बीजं माम् एव विद्धि तद्-रूपया विभूत्या तान्य् अहं पालयामि तत्-परेण हि तानि पुष्यन्ते । बुद्धिः सारासार-विवेकवती । तेजः प्रागल्भ्यं पराभिभव-सामर्थ्यं परान् अभिभाव्यत्वं च ॥१०॥
७।११
बलं बलवतां चाहं काम-राग-विवर्जितम् ।
धर्माविरुद्धो भूतेषु कामो ऽस्मि भरतर्षभ ॥११॥
श्रीधरः - किं च बलम् इति । कामो ऽप्राप्ते वस्तुन्य् अभिलाषो राजसः । रागः पुनर् अभिलषिते ऽर्थे प्राप्ते ऽपि पुनर् अधिके ऽर्थे चित्त-रञ्जनात्मकस् तृष्णापर-पर्यायस् तामसः । ताभ्यां विवर्जितं बलवतां बलम् अहम् अस्मि । सात्त्विकं स्व-धर्मानुष्ठान-सामर्थ्यम् अहम् इत्य् अर्थः । धर्मेणाविरुद्धः स्व-दारेषु पुत्रोत्पादन-मात्रोपयोगी कामो ऽहम् इति ॥११॥
मधुसूदनः - अप्राप्तो विषयः प्राप्ति-कारणाभावे ऽपि प्राप्यताम् इत्य् आकारश् चित्त-वृत्ति-विशेषः कामः । प्राप्तो विषयः क्षय-कारणे सत्य् अपि न क्षीयताम् इत्य् एवम्-आकारश् चित्त-वृत्ति-विशेषो रञ्जनात्मा रागस् ताभ्यां विशेषेण वर्जितं सर्वथा तद्-अकारणं रजस्-तमो-विरहितं यत् स्वधर्मानुष्ठानाय देहेन्द्रियादि-धारण-सामर्थ्यं सात्त्विकं बलम् बलवतां तादृश-सात्त्विक-बल-युक्तानां संसार-पराङ्मुखानां तद् अहम् अस्मि । तद्-रूपे मयि बलवन्तः प्रोता इत्य् अर्थः । च-शब्दस् तु-शब्दार्थो भिन्न-क्रमः । काम-राग-विवर्जितम् एव बलं मद्-रूपत्वेन ध्येयं न तु संसारिणां काम-राग-कारणं बलम् इत्य् अर्थः ।
क्रोधार्थो वा राग-शब्दो व्याख्येयः । धर्मो धर्म-शास्त्रं तेनाविरुद्धो ऽप्रतिषिद्धो धर्मानुकूलो वा यो भूतेषु प्राणिषु कामः शास्त्रानुमत-जाया-पुत्र-वित्तादि-विषयो ऽभिलाषः सो ऽहम् अस्मि । हे भरतर्षभ ! शास्त्राविरुद्ध-काम-भूते मयि तथाविध-काम-युक्तानां भूतानां प्रोतत्वम् इत्य् अर्थः ॥११॥
विश्वनाथः - कामः स्व-जीविकाद्य्-अभिलाषः । रागः क्रोधस् तद्-विवर्जितम् । न तद्-द्वयोत्थितम् इत्य् अर्थः । धर्माविरुद्धः स्व-भार्यायां पुत्रोत्पत्ति-मात्रोपयोगी ॥११॥
बलदेवः – कामः स्व-जीविकाद्य्-अभिलाषः । रागस् तु प्राप्ते ऽप्य् अभिलषिते ऽर्थे पुनस् ततो ऽप्य् अधिके ऽर्थे चित्त-रञ्जनात्मको ऽतितृष्णापर-नामा, ताभ्यां विवर्जितं बलं स्व-धर्मानुष्ठान-सामर्थ्यम् इत्य् अर्थः । धर्माविरुद्धः स्वपत्न्यां पुत्रोत्पत्ति-मात्र-हेतुः ॥११॥
७।१२
ये चैव सात्त्विका भावा राजसास् तामसाश् च ये ।
मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥१२॥
श्रीधरः - किं च ये चैवेति । ये चान्ये ऽपि सात्त्विक-भावाः शम-दमादयः । राजसाश् च हर्ष-दर्पादयः । तामसाश् च शोक-मोहादयः । प्राणिनां स्व-कर्म-वशाज् जायन्ते तान् मत्त एव जातान् इति विद्धि । मदीय-प्रकृति-गुण-कार्यत्वात् । एवम् अपि तेष्व् अहं न वर्ते । जीववत् तद्-अधीनो ऽहं न भवामीत्य् अर्थः । ते तु मद्-अधीनाः सन्तो मयि वर्तन्त इत्य् अर्थः ॥१२॥
मधुसूदनः - किम् एवं परिगणनेन ये चैवेति । ये चान्ये ऽपि भावाश् चित्त-परिणामाः सात्त्विकाः शम-दमादयः । ये च राजसा हर्ष-दर्पादयः । ये च तामसाः शोक-मोहादयः प्राणिनाम् अविद्या-कर्मादि-वशाज् जायन्ते तान् मत्त एव जायमानान् इति अहं कृत्स्नस्य जगतः प्रभव इत्य् आद्य्-उक्त-प्रकारेण विद्धि समस्तान् एव । अथवा सात्त्विका राजसास् तामसाश् च भावाः सर्वे ऽपि जड-वर्गा व्याख्येया विशेष-हेत्व्-अभावात् । एव-कारश् च समस्तावधारणार्थः । एवम् अपि न त्व् अहं तेषु, मत्तो जातत्वे ऽपि तद्-वशस् तद्-विकार-रूषितो रज्जु-खण्ड इव कल्पित-सर्व-विकार-रूषितो ऽहं न भवामि संसारीव । ते तु भावा मयि रज्ज्वाम् इव सर्पादयः कल्पिता मद्-अधीन-सत्ता-स्फूर्तिका मद्-अधीना इत्य् अर्थः ॥१२॥
विश्वनाथः - एवं वस्तु-कारण-भूता वस्तु-सार-भूताश् च राक्षसाद्याश् च विभूतयः काश्चिद् उक्ताः । किन्त्व् अलम् अतिविस्तरेण । मद्-अधीनं वस्तु-मात्रम् एव मद्-विभूतिर् इत्य् आह ये चैवेति । सात्त्व-भावाः शम-दमादयो देवाद्याश् च । राजसा हर्ष-दर्पादयो ऽसुराद्याश् च । तामसाः शोक-मोहादयो राक्षसाद्याश् च । तान् मत्त एवेति मदीय-प्रकृति-गुण-कार्यत्वात् । तेष्व् अहं न वर्ते । जीववत् तद्-अधीनो ऽहं न भवामीत्य् अर्थः । ते तु मयि मद्-अधीनाः सन्त एव वर्तन्ते ॥१२॥
बलदेवः – एवं कांश्चिद् विभूतिर् अभिधाय समासेन सर्वास् ताः प्राह ये चैवेति । ये मिथो विलक्षण-स्वभावाः सात्त्विकादयो भावाः प्राणिनां शरीरेन्द्रिय-विषयात्मना त-कारणत्वेन चावस्थितास् तान् सर्वान् तत्-तच्-छक्त्य्-उपेतान् मत्त एवोपपन्नान् विद्धि । न त्व् अहं तेषु वर्ते नैवाहं तद्-अधीन-स्थितिः । ते मयि मद्-अधीन-स्थितय इत्य् अर्थः ॥१२॥
७।१३
त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् ।
मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥१३॥
श्रीधरः - एवम्भूतम् ईश्वरं त्वाम् अयं जनः किम् इति न जानातीति ? अत आह त्रिभिर् इति । त्रिभिस् त्रिविधैर् एभिः पूर्वोक्तैर् गुण-मयैः काम-लोभादिभिर् गुण-विकारैर् भावैः स्वभावैर् मोहितम् इदं जगत् । अतो माम नाभिजानाति । कथम्भूतम् ? एभ्यो भावेभ्यः परम् । एभिर् अस्पृष्टम् एतेषां नियन्तारम् । अतएवाव्ययं निर्विकारम् इत्य् अर्थः ॥१३॥
मधुसूदनः - तव परमेश्वरस्य स्वातन्त्र्ये नित्य-शुद्ध-बुद्धम् उक्त-स्वभावत्वे च सति कुतो जगतस् त्वद्-आत्मकस्य संसारित्वम् । एवंविध-मत्स्वरूपापरिज्ञानाद् इति चेत्, तद् एव कुत इत्य् अत आह त्रिभिर् इति । एभिः प्राग्-उक्तैस् त्रिभिस् त्रिविधैर् गुण-मयैः सत्त्व-रजस्-तमो-गुण-विकारैर् भावैः सर्वैर् अपि भवन-धर्मभिर् सर्वम् इदं जगत् प्राणि-जातं मोहितम् विवेकायोग्यत्वम् आपादितं सद् एभ्यो गुणमयेभ्यो भावेभ्यः परम् एषां कल्पनाधिष्ठानम् अत्यन्त-विलक्षणम् अव्ययं सर्व-विक्रिया-शून्यम् अप्रपञ्चम् आनन्द-घनम् आत्म-प्रकाशम् अव्यवहितम् अपि मां नाभिजानाति । ततश् च स्वरूपापरिचयात् संसरतीवेत्य् अहो दौर्भाग्यम् अविवेकि-जनस्येत्य् अनुक्रोशं दर्शयति भगवान् ॥१३॥
विश्वनाथः - नन्व् एवम्भूतं त्वा परमेश्वरं कथम् अयं जनो न जानातीत्य् अत आह त्रिभिर् इति । गुणमयैः शम-दमादि-हर्षादि-शोकाद्यैर् भावैः स्वाभावीभूतैर् जगज् जगज्-जात-जीव-वृन्दं मोहितं सत् मां निर्गुणत्वाद् एभ्यः परम् अव्ययं निर्विकारम् ॥१३॥
बलदेवः - अथ शक्ति-द्वय-विविक्तं स्वस्य ध्येय-स्वरूपं दर्शयन् तस्याज्ञाने तद्-आसक्तिम् एव हेतुम् आह त्रिभिर् इति । एभिः पूर्वोदितैर् गुणमयैर् मन्-माया-गुण-कार्यैस् त्रिविधैः सात्त्विकादिभिर् भावैर् भवन-धर्मिभिः क्षण-परिणामिभिस् तत्-तत्-कर्मानुगुण-शरीरेन्द्रिय-विषयात्मनावस्थितैर् मोहितम् अविवेकितां नीतं सत् सर्वम् इदं जगत् सुरासुर-मनुष्याद्य्-आत्मनावस्थितं जीव-वृन्दं कर्तृ एभ्यः सात्त्विकादिभ्यो भावेभ्यः परं तैर् अस्पृष्टम् अनन्त-कल्याण-गुण-रत्नाकरं विज्ञानानन्द-घनं सर्वेश्वरम् अव्ययम् अप्रच्युत-स्वभावं मां कृष्णं नाभिजानाति प्रत्यासूयति ॥१३॥
७।१४
दैवी ह्य् एषा गुण-मयी मम माया दुरत्यया ।
माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥१४॥
श्रीधरः - के तर्हि त्वां जानन्तीति ? अत आह दैवीति । दैव्य् अलौकिकी । अत्यद्भुतेत्य् अर्थः । गुण-मयी सत्त्वादि-गुण-विकारात्मिका । मम परमेश्वरस्य शक्तिर् माया दुरत्यया दुस्तरा हि । प्रसिद्धिम् एतम् । तथापि माम् एव इत्य् एव-कारेणाव्यभिचारिण्या भक्त्या ये प्रपद्यन्ते भजन्ति मायाम् एतां सुदुस्तराम् अपि ते तरन्ति । ततो मां जानन्तीति भावः ॥१४॥
मधुसूदनः - ननु यथोक्तानादि-सिद्ध-माया-गुण-त्रय-बद्धस्य जगतः स्वात्न्त्र्याभावेन तत्-परिवर्जनासामार्थ्यान् न कदाचिद् अपि मायातिक्रमः स्याद् वस्तु-विवेकासामार्थ्य-हेतोः सदातनत्वादित्याशङ्क्य भगवद्-एक-शरणतया तत्त्व-ज्ञान-द्वारेण मायातिक्रमः सम्भवतीत्य् आह दैवीति । दैवी एको देवो सर्व-भूतेषु गूढः [श्वेतु ६।११] इत्य्-आदि-श्रुति-प्रतिपादिते स्वतोद्योतनवति देवे स्व-प्रकाश-चैतन्यानन्दे निर्विभागे तद्-आश्रयतया तद्-विषयतया च कल्पिता आश्रयत्व-विषयत्व-भागिनी निर्विभाग-चितिर् एव केवला [सं।शारी १।३१९] इत्य् उक्तेः । एषा साक्षि-प्रत्यक्षत्वेनापलापानर्हा । हि-शब्दाद् भ्रमोपादानत्वाद् अर्थापत्ति-सिद्धा च । गुण-मयी सत्त्व-रजस्-तमो-गुण-त्रयात्मिका । त्रिगुण-रज्जुर् इवातिदृधत्वेन बन्धन-हेतुः । मम मायाविनः परमेश्वरस्य सर्व-जगत्-कारणस्य
सर्वज्ञस्य सर्व-शक्तेः स्व-भूता स्वाधीनत्वेन जगत्-सृष्ट्य्-आदि-निर्वाहिका । माया तत्त्व-प्रतिभासि-प्रतिबन्धेनातत्त्व-प्रतिभास-हेतुर् आवरण-विक्षेप-शक्ति-द्वयवत्य् अविद्या सर्व-प्रपञ्च-प्रकृतिः मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [श्वेतु ४।१९] इति श्रुतेः ।
अत्रैवं प्रक्रिया । जीवेश्वर-जगद्-विभाग-शून्ये चैतन्ये ऽध्यस्तानादिर् अविद्या सत्त्व-प्राधान्येन स्वच्छा दर्पण इव मुख-भासं चिद्-आभासम् आगृह्णाति । ततश् च बिम्ब-स्थानीयः परमेश्वर उपाधि-दोषानास्कन्दितः प्रतिबिम्ब-स्थानीयश् च जीव उपाधि-दोषास्कन्दितः । ईश्वराच् च जीव-भोगायाकाशादि-क्रमेण शरीरेन्द्रिय-सङ्घातस् तद्-भोग्यश् च कृत्स्नः प्रपञ्चो जायत इति कल्पना भवति । बिम्ब-प्रतिबिम्ब-मुखानुगत-मुखवच् चेश-जीवानुगतं मायोपाधि चैतन्यं साक्षीति कल्प्यते । तेनैव च स्वाध्यस्ता माया तत्-कार्यं च कृत्स्नं प्रकाश्यते । अतः साक्ष्य्-अभिप्रायेण दैवीति बिम्बेश्वराभिप्रायेण तु मेमेति भगव्तोक्तम् । यद्यप्य् अविद्या-प्रतिबिम्ब एक एव जीवस् तथाप्य् अविद्या-गतानाम् अन्तः-करण-संस्काराणां भिन्नत्वात् तद्-भेदेनान्तः-करणोपाधेस्
तस्यात्र भेद-व्यपदेशो माम् एव ये प्रपद्यन्ते दुष्कृतिनो मूढा न प्रपद्यन्ते, चतुर्विधा भजन्ते माम् इत्य् आदिः । श्रुतौ च तद् यो देवानां प्रत्यबुध्यत स एव तद् अभवत् तथ र्षीणां तथा मनुष्याणाम् [बउ १।४।१०] इत्य् आदिः ।
अन्तः-करणोपाधि-भेदापर्यालोचने तु जीवत्व-प्रयोजकोपाधेर् एकत्वाद् एकत्वेनैवात्र व्यपदेशः । क्षेत्रज्ञं चापि मां विद्धि सर्व-क्षेत्रेषु [गीता १३।२], प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपि [गीता १३।१९], ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता १५।७] इत्य् आदि । श्रुतौ च ब्रह्म वा इदम् अग्र आसीत् तद् आत्मानम् एवावेदहं ब्रह्मास्मीति तस्मात् तत् सर्वम् अभवत् [बउ १।४।१०], एको देवः सर्व-भूतेषु गूढः [श्वेतु ६।११], अनेन जीवेना ऽ ऽत्मना ऽ ऽ नुप्रविश्य [छाउ ६।३।२]
बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ [श्वेतु ५।९] इत्य् आदिः ।
यद्यपि दर्पण-गतश् चैत्र-प्रतिबिम्बः स्वं परं च न जानात्य् अचेतनांशस्यैव तत्र प्रतिबिम्बितत्वात् तथापि चित्-प्रतिबिम्बश् चित्त्वाद् एव स्वं परं च जानाति । प्रतिबिम्ब-पक्षे बिम्ब-चैतन्य एवोपाधिस्थत्व-मात्रस्य कल्पितत्वात् । आभास-पक्षे तस्यानिर्वचनीयत्वे ऽपि जड-विलक्षणत्वात् । स च यावत् स्व-बिम्बैक्यम् आत्मनो न जानाति तावज् जल-सूर्य इव जल-गत-कम्पादिकम् उपाधि-गतं विकार-सहस्रम् अनुभवति । तद् एतद् आह दुरत्ययेति । बिम्ब-भूतेश्वरैक्य-साक्षात्कारम् अन्तरेणात्येतुं तरितुम् अशक्येति दुरत्यया । अतएव जीवो ऽन्तःकरणावच्छिन्नत्वात् तत्-सम्बद्धम् एवाक्ष्यादि-द्वारा भासयन् किञ्चिज् ज्ञो भवति । ततश् च जानामि करोमि भुञ्जे चेत्य् अनर्थ-शत-भाजनं भवति । स चेद् बिम्ब-भूतं भगवन्तम् अनन्त-शक्तिं माया-नियन्तारं सर्व-विदं सर्व-फल-दातारम् अनिशम् आनन्द-घन-मूर्तिम्
अनेकआनवतारान् भक्तानुग्रहाय विदधतम् आराधयति समर्पणेन तदा बिम्ब-समर्पितस्य प्रतिबिम्बे प्रतिफलनात् सर्वान् अपि पुरुषार्थान् आसादयति । एतद् एवाभिप्रेत्य प्रह्लादेनोक्तं -
नैवात्मनः प्रभुर् अयं निज-लाभ-पूर्णो
मानं जनाद् अविदुषः करुणो वृणीते ।
यद् यज् जनो भगवते विदधीत मानं
तच् चात्मने प्रति-मुखस्य यथा मुख-श्रीः ॥ [भ्प् ७।९।११] इति ।
दर्पण-प्रतिबिम्बितस्य मुखस्य तिलकादि-श्रीर् अपेक्षिता चेद् बिम्ब-भूते मुखे समर्पणीया । सा स्वयम् एव तत्र प्रतिफलति नान्यः कश्चित् तत्-प्राप्ताव् उपायो ऽस्ति यथा तथा बिम्ब-भूतेश्वरे समर्पितम् एव तत्-प्रतिबिम्ब-भूतो जीवो लभते नान्यः कश्चित् तस्य पुरुषार्थ-लाभे ऽस्त्य् उपाय इति दृष्टान्त-दार्ष्टानिकयोर् अर्थः ।
तस्य यदा भगवन्तम् अनन्तम् अनवरतम् आराधयतो ऽन्तःकरणं ज्ञान-प्रतिबन्धक-पापेन रहितं ज्ञानानुकूल-पुण्येन चोपचितं भवति तदातिनिर्मले मुकुर-मण्डल इव मुखम् अतिस्वच्छे ऽन्तःकरणे सर्व-कर्म-त्याग-शम-दमादि-पूर्वक-गुरूपसदन-वेदान्त-वाक्य-श्रवण-मनन-निदिध्यासनैः संस्कृते तत्त्वम् असीति-गुरूपदिष्ट-वेदान्न्त-वाक्य-करणिकाहं ब्रह्मासीन्त्य् अनात्माकार-शून्या निरुपाधि-चैतन्याकारा साक्षात्कारात्मिका वृत्तिर् उदेति । तस्यां च प्रतिफलैतं चैतन्यं सद्य एव स्व-विषयाश्रयाम् अविद्याम् उन्मूलयति दीप इव तमः । ततस् तस्या नाशात् तया वृत्त्या सहाखिलस्य कार्य-प्रपञ्चस्य नाशः । उपादान-नाशाद् उपादेय-नाशस्य सर्व-तन्त्र-सिद्धान्त-सिद्धत्वात् । तद् एतद् आह भगवान् माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते इति । आत्मेत्य्
एवोपासीत [बउ १।४।७], तद् आत्मानम् एवावेत् [बउ १।४।१०], तम् एव धीरो विज्ञाय [बउ ४।४।२३], तम् एव विदित्वातिमृत्युम् एति [श्वेतु ६।१५] इत्य् आदि-श्रुतिष्व् इवेहापि माम् एवेत्य् एव-कारो ऽप्य् अनुपरक्तता-प्रतिपत्त्य्-अर्थः । माम् एव सर्वोपाधि-विरहितं विदानन्द-सदात्मानम् अखण्डं ये प्रपद्यन्ते वेदान्त-वाक्य-जन्यया निर्विकल्प-साक्षात्कार-रूपया निर्वचनानर्ह-शुद्ध-चिद्-आकारत्व-धर्म-विशिष्टया सर्व-सुकृत-फल-भूतया निदिध्यासन-परिपाक-प्रसूतया चेतो-वृत्त्या सर्वाज्ञान-तत्-कार्य-विरोधिन्या विषयीकुर्वन्ति ते ये केचिद् एतां दुरतिक्रमणीयाम् अपि मायाम् अखिलानर्थ-जन्म-भुवम् अनायासेनैव तरन्ति अतिक्रामन्ति तस्य ह न देवाश् चनाभूत्या ईशत आत्मा ह्य् एषा स भवति [बउ १।४।१०] इति श्रुतेः । सरोवाधि-निवृत्त्या सच्चिदानन्द-घन-रूपेणैव तिष्ठन्तीत्य् अर्तः । बहु-वचन-प्रयोगो
देहेन्द्रियादि-सङ्घात-भेद-न्बन्धनात्म-भेद-भ्रान्त्य्-अनुवादार्थः ।
प्रपश्यन्तीति वक्तव्ये प्रपद्यन्त इत्य् उक्ते ऽर्थे मद्-एक-शरणाः सन्तो माम् एव भगवन्तं वासुदेवम् ईदृशम् अनन्त-सौन्दर्य-सार-सर्वस्वम् अखिल-कला-कलाप-निलयम् अभिनव-पङ्कज-शोभाधिक-चरण-कमल-युगल-प्रभम् अनवरत-वेणु-वादन-निरत-वृन्दावन-क्रीडासक्त-मानस-हेलोद्धृत-गोवर्धनाख्य-महीधरं गोपालं निषूदित-शिशुपाल-कंसादि-दुष्ट-सङ्घम् अभिनव-जलद-शोभा-सर्वस्व-हरण-चरणं परमानन्द-घन-मय-मूर्तिमति-वैरिञ्च-प्रपञ्चम् अनवरतम् अनुचिन्तयन्तो दिवसान् अतिवाहयन्ति ते मत्-प्रेम-महानन्द-समुद्र-मग्न-मनसस् तथा समस्त-माया-गुण-विकारैर् नाभिभूयन्ते । किन्तु मद्-विलास-विनोद-कुशला एते मद्-उन्मूलन-समर्था इति शङ्कमानेव माया तेभ्यो ऽपसरति वारविलासिनीव क्रोधनेभ्यस् तपोधनेभ्यस् तस्मान् माया-तरणार्थी माम्
ईदृशम् एव सन्ततम् अनुचिन्तयेद् इत्य् अप्य् अभिप्रेतं भगवतः । श्रुतयः स्मृतयश् चात्रार्थे प्रमाणीकर्तव्याः ॥१४॥
विश्वनाथः - ननु तर्हि त्रिगुण-मय-मोहात् कथम् उत्तीर्णा भवन्ति ? तत्राह दैवीति । दैवी विषयानन्देन दीव्यन्तीति देवा जीवास् तदीया तेषां मोहयित्रीत्य् अर्थः । गुण-मयी श्लेषेण त्रिवेष्टन-महा-पाश-रूपा । मम परमेश्वरस्य माया बहिरङ्गा शक्तिर् दुरत्यया दुरतिक्रमा । पाश-पक्षे, छेत्तुम् उद्ग्रन्थयितुं वा केनाप्य् अशक्त्येत्य् अर्थः । किन्तु मद्-वाचि विश्वसिहि इति स्व-वक्षः स्पृष्ट्वाह मां श्यामसुन्दराकारम् एव ॥१४॥
बलदेवः – ननु त्रिगुणायस्-तन्-मायाया नित्यत्वात् तद्-धेतुकस्य मोहस्य विनिवृत्तिर् दुर्घटेति चेत् तत्राह दैवीति । मम सर्वेश्वरस्यावितर्क्यातिविचित्रानन्त-विश्व-स्रष्टुर् एषा माया दैवी । अलौकिक्य् अत्यद्भुतेत्य् अर्थः । तादृक् विश्व-सर्गोपकरणत्वात् । श्रुतिश् चैवम् आह - मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् [श्वेतु ४।१०] इत्य् आद्या । गुणमयी सत्त्वादि-गुण-त्रयात्मिका, श्लेषेण त्रिगुणिता रज्जुर् इवाति-दृढतया जीवानां बन्धु-हेतुः । अतो दुरत्यया तेषां दुरतिक्रमा । रज्जु-पक्षे छेत्तुम् उद्ग्रथितुं च तैर् अशक्त्येत्य् अर्थः । यद्यप्य् एतादृशी तथापि मद्-भक्त्या तद्-विनिवृत्तिः स्याद् इत्य् आह माम् इति । मां सर्वेश्वरं माया-नियन्तारं स्व-प्रपन्न-वात्सल्य-नीरधिं कृष्णं ये तादृश-सत्-प्रसṄगात् प्रपद्यते शरणं गच्छन्ति ते एताम् अर्णवम्
इवापारां मायां गोष्पदोदकाञ्जलिम् इवाश्रमेण तरन्ति । तां तीर्त्वानदैक-रसं प्रसादाभिमुखं स्व-स्वामिनं मां प्राप्नुवन्तीति । माम् एवेत्य् एव-कारो मद्-अन्येषां विधि-रुद्रादीनां प्रपत्त्या तस्यास् तरणं नेत्य् आह श्रुतिश् चैवम् आह तम् एव विदित्वेत्य् आद्या मुचुकुन्दं प्रति देवाश् च -
वरं वृणीष्व भद्रं ते ऋते कैवल्यम् अद्य नः ।
एक एवेश्वरस् तस्य भगवान् विष्णुर् अव्ययः ॥ [भ्प् १०।५१।२०] इति ।
घण्टाकर्णं प्रति शिवश् च - मुक्ति-प्रदाता सर्वेषां विष्णुर् एव न संशयः इति ॥१४॥
७।१५
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥१५॥
श्रीधरः - यद्य् एवं तर्हि सर्वे त्वाम् एव किम् इति न भजन्ति ? तत्राह न माम् इति । नरेषु ये ऽधमास् ते मां न प्रपद्यन्ते न भजन्ति । अधमत्वे हेतुः -मूढा विवेक-शून्याः । तत् कुतः ? दुष्कृतिनः पाप-शीलाः । अतो माययापहृतं निरस्तं शास्त्राचार्योपदेशाभ्यां जातम् अपि ज्ञानं येषां ते तथा । अतएव दम्भो दर्पो ऽभिमानश् च क्रोधः पारुष्यम् एव चेत्य् आदिना वक्ष्यमाणम् आसुरं भावम् स्वभावं प्राप्ताः सन्तो न मां भजन्ति ॥१५॥
मधुसूदनः - यद्य् एवं तर्हि किम् इति निखिलानर्थ-मूल-मायोन्मूलनाय भगवन्तं भवन्तम् एव सर्वे न प्रतिपद्यन्ते चिर-सञ्चित-दुरित-प्रतिबन्धाद् इत्य् आह भगवान् न माम् इति । दुष्कृतिनो दुष्कृतेन पापेन सह नित्य-योगिनः । अतएव नरेषु मध्ये ऽधमा इह साधुभिर् गर्हणीयाः परत्र चानर्थ-सहस्र-भाजः । कुतो दुष्कृतम् अनर्थ-हेतुम् एव सदा कुर्वन्ति यतो मूढा इदम् अर्थ-साधनम् इदम् अनर्थ-साधनम् इति विवेक-शून्याः । सति प्रमाणे कुतो न विविञ्चन्ति यतो माययापहृत-ज्ञानाः शरीरेन्द्रिय-सङ्घात-तादान्त्य-भ्रान्ति-रूपेण परिणतया मायया पूर्वोक्तयापहृतं प्रतिबद्धं ज्ञानं विवेक-सामर्थ्यं येषां ते तथा । अतएव ते दम्भो दर्पो ऽभिमानश् च क्रोधः पारुष्यम् एव च [गीता १६।४] इत्य् आदिनाग्रे वक्ष्यमानम् आसुरं भावं हिंसानृतादि-स्वभावम्
आश्रिता मत्-प्रतिपत्त्य्-अयोग्याः सन्तो न मां सर्वेश्वरं प्रपद्यन्ते न भजन्ते । अहो दौर्भाग्यं तेषाम् इत्य् अभिप्रायः ॥१५॥
विश्वनाथः - ननु तर्हि पण्डिता अपि केचित् किम् इति त्वां न प्रपद्यन्ते ? तत्र ये पण्डितास् ते मां प्रपद्यन्त एव । पण्डित-मानिन एव न मां प्रपद्यन्त इत्य् आह न माम् इति । दुष्कृतिनो दुष्टाश् च ते कृतिनः पण्डिताश् चेति ते कुपण्डिता इत्य् अर्थः । ते च चतुर्विधाः । एके मूढाः पशु-तुल्याः कर्मिणः । यद् उक्तं -
नूनं दैवेन निहता ये चाच्युत-कथा-सुधाम् ।
हित्वा शृण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः ॥ [भ्प् ३।३२।१९] इति ।
मुकुन्दं को वै न सेवेत विना नरेतरः इति च ।
अपरे नराधमाः कञ्चित् कालं भक्तिमत्त्वेन प्राप्त-नरत्वा अप्य् अन्ते फल-प्राप्तौ न साधनोपयोग इति मत्वा स्वेच्छयैव भक्ति-त्यागिनः । स्वकर्तृक-भक्ति-त्याग-लक्षणम् एव तेषाम् अधमत्वम् इति भावः । अपरे शास्त्राध्यापनादि-मत्त्वे ऽपि माययापहृतं ज्ञानम् एषां ते वैकुण्ठ-विराजिनी नारायण-मूर्तिर् एव सार्वकालिकी-भक्ति-प्राप्या, न तु कृष्ण-रामादि-मूर्तिर् मानुषीति मन्यमाना इत्य् अर्थः । यद् वक्ष्यते अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् [गीता ९।११] इति । ते खलु मां प्रपद्यमाना अपि न मां प्रपद्यन्त इति भावः । अपरे आसुरं भावम् आश्रिताः । असुरा जरासन्धादयो मद्-विग्रहं लक्षीकृत्य शरैर् विध्यन्ति । तथैव दृश्यतादि-हेतु-मत्-कुतर्कैर् मद्-विग्रहं वैकुण्ठ-स्थम् अपि खण्डयन्त्य् एव । न तु प्रपद्यन्त इत्य् अर्थः
॥१५॥
बलदेवः - ननु चेत् त्वाम् एव प्रपन्ना विमुच्यन्ते तर्हि पण्डिता अपि केचित् किम् इति त्वां न प्रपद्यन्ते तत्राह न माम् इति । दुष्टाश् च ते कृतिनः शास्त्रार्थ-कुशलाश् चेति दुष्कृतिनः कुपण्डितास् ते मां न प्रपद्यन्ते । श्रुतिश् चैवम् आह -
अविद्यायाम् अन्तरे वर्तमानाः
स्वयं धीराः पण्डितम्मन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा
अन्धेनैव नीयमाना यथान्धाः ॥ [कठु १।२।५]
ते चतुर्-विधाः - एके मायया मूढाः कर्म-जडा इन्द्रादिवन् माम् अपि विष्णुं कर्माङ्गं जीववत् कर्माधीनं मन्यमानाः । अपरे मायया नराधमा विप्रादि-कुल-जन्मना नरोत्तमतां प्राप्याप्य् असत् काव्यार्थासत्त्या पामरता-भाजः । यद् उक्तम् -
नूनं दैवेन निहता ये चाच्युत-कथा-सुधाम् ।
हित्वा शृण्वन्त्य् असद्-गाथा पुरीषम् इव विड्-भुजः ॥ [भ्प् ३।३२।१९] इति ।
अन्ये माययापहृत-ज्ञानाः साङ्ख्यादयः । ते हि सार्वज्ञ-सार्वैश्वर्य-सर्व-स्रष्टृत्व-मुक्तिदत्वादि धर्मैः श्रुति-सहस्र-प्रसिद्धम् अपि माम् ईश्वरम् अपलपन्तः प्रकृतिम् एव सर्व-स्रष्ट्रीं मोक्ष-दात्रीं च कल्पयन्ति । तत्र तादृश-कुटिल-कुयुक्ति-शतान्य् उद्भावयन्ती माययैव हेतुः । केचित् तु माययैवासुरं भावम् आश्रिता निर्विशेष-चिन्-मात्र-वादिनः । असुरा यथा निखिलानन्द-करं मद्-विग्रहं शरैर् विध्यन्ति तथादृश्यत्वादि-हेतुभिस् ते नित्य-चैतन्यात्मतया श्रुति-प्रसिद्धम् अपि तं खण्डयन्तीति तत्रापि तादृश-बुद्ध्य्-उत्पादनी मायैव हेतुर् इति ॥१५॥
७।१६
चतुर्-विधा भजन्ते मां जनाः सुकृतिनो ऽर्जुन ।
आर्तो जिज्ञासुर् अर्थार्थी ज्ञानी च भरतर्षभ ॥१६॥
श्रीधरः - सुकृतिनस् तु मां भजन्त्य् एव । ते सुकृति-तारतम्येन चतुर्-विधा इत्य् आह चतुर्-विधा इति । पूर्व-जन्मसु ये कृत-पुण्यास् ते मां भजन्ति । ते चतुर्विधाः । आर्तो वेगाद्य्-अभिभूतः स यदि पूर्वं कृत-पुण्यस् तर्हि मां भजति । अन्यथा क्षुद्र-देवता-भजनेन संसरति । एवम् उत्तरत्रापि द्रष्टव्यम् । जिज्ञासुर् आत्म-ज्ञानेच्छुः । अर्थार्थी अत्र वा परत्र वा भोग-साधन-भूतो ऽर्थ-लिप्सुः । ज्ञानी चात्म-वित् ॥१६॥
मधुसूदनः - ये त्व् आसुर-भाव-रहिताः पुण्य-कर्माणो विवेकिनस् ते पुण्य-कर्म-तारतम्येन चतुर्-विधाः सन्तो मां भजन्ते क्रमेण च कामना-राहित्येन मत्-प्रसादान् मायां तरन्तीत्य् आह चतुर्-विधा इति । ये सुकृतिनः पूर्व-जन्म-कृत-पुण्य-सञ्चया जनाः सफल-जन्मानस् त एव नान्ये ते मां भजन्ते सेवन्ते । हे अर्जुन ! ते च त्रयः स-कामा एको ऽकाम इत्य् एवं चतुर्विधाः । आर्त आर्त्या शत्रु-व्याध्य्-आद्य्-आपदा ग्रस्तस् तन्-निवृत्तिम् इच्छन् । यथा मख-भङ्गेन कुपित इन्द्रे वर्षति व्रज-वासी जनः । यथा वा जरासन्ध-कारागारवर्ती राज-निचयः । द्यूत-सभायां वस्त्राकर्षणे द्रौपदी च । ग्राह-ग्रस्तो गजेन्द्रश् च । जिज्ञासुर् आत्म-ज्ञानार्थी मुमुक्षुः । यथा मुचुकुन्दः, यथा वा मैथिलो जनकः श्रुतदेवश् च, निवृत्ते मौसले यथा चोद्धवः । अर्थार्थी
इह वा परत्र वा यद् भोगोपकरणं तल्-लिप्सुः । तत्रेह यथा सुग्रीवो विभीषणश् च, यथा चोपमन्युः परत्र यथा ध्रुवः । एते त्रयो ऽपि भगवद्-भजनेन मायां तरन्ति । तत्र जिज्ञासुर् ज्ञानोत्पत्त्या साक्षाद् एव मायां तरति आर्तो ऽर्थार्थी च जिज्ञासुत्वं प्राप्येति विशेषः । आर्तस्यार्थार्थिनश् च जिज्ञासुत्व-सम्भवाज् जिज्ञासोश् चार्तत्व-ज्ञानोपकरणार्थार्थित्व-सम्भवाद् उभयोर् मध्ये जिज्ञासुर् उद्दिष्टः ।
तद् एते त्रयः स-कामा व्याख्याताः निष्कामश् चतुर्थ इदानीम् उच्यते ज्ञानी च । ज्ञानं भगवत्-तत्त्व-साक्षात्कारस् तेन नित्य-युक्तो ज्ञानी तीर्ण-मायो निवृत्त-सर्व-कामः । च-कारो यस्य कस्यापि निष्काम-प्रेम-भक्तस्य ज्ञानिन्य्-अन्तर्-भावार्थः । हे भरतर्षभ त्वम् अपि जिज्ञासुर् वा ज्ञानी वेति कतमो ऽहं भक्त इति मा शङ्किष्ठा इत्य् अर्थः । तत्र निष्काम-भक्तो ज्ञानी यथा सनकादिर् यथा नारदो यथा प्रह्लादो यथा पृथुर् यथा वा शुकः । निष्कामः शुद्ध-प्रेम-भक्तो यथा गोपिकादिर् यथा वाक्रूर-युधिष्ठिरादिः । कंस-शिशुपालादयस् तु भयाद् द्वेषाच् च सन्तत-भगवच्-चिन्ता-परा अपि न भक्ता भगवद्-अनुरक्तेर् अभावात् । भगवद्-अनुरक्ति-रूपायास् तु भक्तेः स्वरूपं साधनं भेदास् तथा भक्तानाम् अपि भगवद्-भक्ति-रसायने ऽस्माभिः
स-विशेषं प्रपञ्चिता इतीहोपरम्यते ॥१६॥
विश्वनाथः - तर्हि के त्वां भजन्त इत्य् अत आह चतुर्विधा इति । सुकृतं वर्णाश्रमाचार-लक्षणो धर्मस् तद्वन्तः सन्तो मां भजन्ते । तत्र आर्तो रोगाद्य्-आपद्-ग्रस्तस् तन्-निवृत्ति-कामः । जिज्ञासुः आत्म-ज्ञानार्थी व्याकरणादि-शास्त्र-ज्ञानार्थी वा । अर्थार्थी क्षिति-गज-तुरग-कामिनी-कनकाद्यैहिक-पारत्रिक-भोगार्थीति । एते त्रयः सकामा गृहस्थाः । ज्ञानी विशुद्धान्तः-करणः सन्न्यासीति चतुर्थो ऽयं निष्कामः । इत्य् एते प्रधानीभूत-भक्त्य्-अधिकारिणश् चत्वारो निरूपिताः । तत्रादिमेषु त्रिषु कर्म-मिश्रा भक्तिः । अन्तिमे चतुर्थे ज्ञान-मिश्रा । सर्व-द्वाराणि सन्न्यस्य [गीता ८।१२] इत्य् अग्रिम-ग्रन्थे योग-मिश्रापि वक्ष्यते । ज्ञान-कर्माद्य्-अमिश्रा केवला भक्तिर् या सा तु सप्तमाध्यायारम्भ एव मय्य् आसक्त-मनः पार्थ [गीता ७।१] इत्य् अनेन उक्ता
। पुनश् चाष्टमे ऽप्य् अध्याये अनन्य-चेताः सततम् [गीता ८।१४] इत्य् अनेन, नवमे महात्मानस् तु मां पार्थ [गीता ९।१३] इति श्लोक-द्वयेन अनन्याश् चिन्तयन्तो माम् [गीता ९।२२] इत्य् अनेन च निरूपयितव्येति ।
प्रधानीभूता केवला इति द्विविधैव भक्तिर् मध्यमे ऽस्मिन्न् अध्याय-षट्के भगवतोक्ता । या तु तृतीया गुणीभूता भक्तिः कर्मणि ज्ञानिनि योगिनि च कर्मादि-फल-सिद्ध्य्-अर्था दृश्यते । तस्याः प्राधान्याभावात् न भक्तित्व-व्यपदेशः । किन्तु तत्र तत्र कर्मादीनाम् एव प्राधान्यात् । प्राधान्येन व्यपदेशा भवन्ति इति न्यायेन कर्मत्व-ज्ञानत्व-योगत्व-व्यपदेशः । तद्वताम् अपि कर्मित्व-ज्ञानित्व-योगित्व-व्यपदेशः । न तु भक्तत्व-व्यपदेशः । फलं च सकाम-कर्मणः स्वर्गो निष्काम-कर्मणो ज्ञान-योगो ज्ञान-योगयोर् निर्वाण-मोक्ष इति ।
अथ द्विधाया भक्तेः फलम् उच्यते । तत्र प्रधानीभूतासु भक्तिषु मध्ये आर्तादिषु त्रिषु याः कर्म-मिश्रास् तिस्रः स-कामा भक्तयस् तासां फलं तत्-तत्-काम-प्राप्तिः । विषय-साद्गुण्यात् तद्-अन्ते सुखैश्वर्य-प्रधान-सालोक्य-मोक्ष-प्राप्तिश् च, न तु कर्म-फल-स्वर्ग-भोगान्त इव पातः । यद् वक्ष्यते यान्ति मद्-याजिनो ऽपि माम् [गीता ९।२५] इति । चतुर्थ्या ज्ञान-मिश्रायास् तत उत्कृष्टायास् तु फलं शान्त-रतिः सनकादिष्व् इव । भक्त-भगवत्-कारुण्याधिक्य-वशात् कस्याश्चित् तस्याः फलं प्रेमोत्कर्षश् च श्री-शुकादिष्व् इव । कर्म-मिश्रा भक्तिर् यदि निष्कामा स्यात् तदा तस्याः फलं ज्ञान-मिश्रा भक्तिः । तस्याः फलम् उक्तम् एव । क्वचिच् च स्वभावाद् एव दा̆सादि-भक्त-सङ्गोत्थ-वासना वशाद् वा ज्ञान-कर्मादि-मिश्र-भक्तिमताम् अपि दास्यादि-प्रेमा
स्यात्, किन्तु ऐश्वर्य-प्रधानम् एवेति ।
अथ ज्ञान-कर्माद्य्-अमिश्रायाः शुद्धाया अनन्याकिञ्चनोत्तमादि-पर्यायाः भक्तेर् बहु-प्रभेदाया दास्य-सख्यादि-प्रेमवत्-पार्षदत्वम् एव फलम् इत्य् आदिकं श्री-भागवत-टीकायां बहुशः प्रतिपादितम् । अत्रापि प्रसङ्ग-वशात् साध्य-भक्ति-विवेकः सङ्क्षिप्य दर्शितः ॥१६॥
बलदेवः – तर्हि त्वां के प्रपद्यन्ते तत्राह चतुर्-विधा इति । सुकृतिनः सुपण्डिताः स्व-वर्णाश्रमोचित-कर्मणा मद्-एकान्ति-भावेन च सम्पन्ना जना मां भजन्ते । ते च चतुर्-विधाः । तत्रार्तः शत्रु-क्लेशाद्यापद्-ग्रस्तस् तद्-विनाशेच्छुर् गजेन्द्रादिः । जिज्ञासुर् विविक्तात्म-स्वरूप-ज्ञानेच्छुः शौनकादिः । अर्थार्थी राज्यादि-सम्पद्-इच्छुर् ध्रुवादिः । ज्ञानी शेषत्वेन स्वान्तानं शेषित्वेन परात्मानं च मां ज्ञातवान् शुकादिः । एष्व् आर्तादयः स-कामाः, ज्ञानी तु निष्कामः । आर्तार्थार्थिनोः परत्र जिज्ञासुता-सम्पत्तये तयोर् अन्तराले जिज्ञासोर् उपन्यासः ॥१६॥
७।१७
तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते ।
प्रियो हि ज्ञानिनो ऽत्यर्थम् अहं स च मम प्रियः ॥१७॥
श्रीधरः - तेषां मध्ये ज्ञानी श्रेष्ठ इत्य् आह तेषाम् इति । तेषां मध्ये ज्ञानी विशिष्टः । अत्र हेतवः – नित्य-युक्तः सदा मन्-निष्ठः । एकस्मिन् मय्य् एव भक्तिर् यस्य सः । ज्ञानिनो देहाद्य्-अभिमानाभावेन चित्त-विक्षेपाभावान् नित्य-युक्तत्वम् एकान्त-भक्तित्वं च सम्भवति । नान्यस्य । अतएव हि तस्याहं अत्यन्तं प्रियः । स च मम । तस्माद् एतैर् नित्य-युक्तत्वादिभिश् चतुर्भिर् हेतुभिः स उत्तम इत्य् अर्थः ॥१७॥
मधुसूदनः - ननु न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमा इत्य् अनेन तद्-विलक्षणाः सुकृतिनो मां भजन्त इत्य् अर्थात् प्राप्ते ऽपि तेषां चातुर्विध्यं चतुर्-विधा भजन्ते माम् इत्य् अनेन दर्शिताः ततस् ते सर्वे सुकृतिन एव निर्विशेषाद् इति चेत् तत्राह च । चतुर्विधानाम् अपि सुकृतित्वे नियते ऽपि सुकृताधिक्येन निष्कामतया प्रेमाधिक्यात् तत इति ।
चतुर्विधानां तेषां मध्ये ज्ञानी तत्त्व-ज्ञानवान् निवृत्त-सर्व-कामो विशिष्यते सर्वतो ऽतिरिच्यते सर्वोत्कृष्ट इत्य् अर्थः । यतो नित्य-युक्तो भगवति प्रत्यग्-अभिन्ने सदा समाहित-चेता विक्षेपकाभावात् । अतएवैक-भक्तिर् एकस्मिन् भगवत्य् एव भक्तिर् अनुरक्तिर् यस्य स तथा, तस्यानुरक्ति-विषयान्तराभावात् । हि यस्मात् । प्रियो निरुपाधि-प्रेमास्पदम् अत्यर्थम् अत्यन्तातिशयेन ज्ञानिनो ऽहं प्रत्यग्-अभिन्नः परमात्मा च तस्माद् अयर्थं स मम परमेश्वरस्य प्रियः । आत्मा प्रियो ऽतिशयेन भवतीति श्रुति-लोकयोः प्रसिद्धम् एवेत्य् अर्थः ॥१७॥
विश्वनाथः - चतुर्णां भक्त्य्-अधिकारिणां मध्ये कः श्रेष्ठः इत्य् अपेक्षायाम् आह । तेषां मध्ये ज्ञानी विशिष्यते श्रेष्ठः । नित्य-युक्तो नित्यं मयि युज्यत इति सः । ज्ञानाभ्यास-वशीकृत-चित्तत्वान् मनस्य् ऐकाग्र-चित्त इत्य् अर्थः । आर्ताद्यास् त्रयस् तु नैवम्भूता इति भावः ।
ननु सर्वो ऽपि ज्ञानी ज्ञान-वैयर्थ्य-भयात् त्वां भजत एव ? तत्राह एका मुख्या प्रधानीभूतं यस्य सः । यद् वा, एका भक्तिर् एव तथैवासक्तिमत्त्वात् यस्य स नाम-मात्रेणैव ज्ञानीति भावः । एवम्भूतस्य ज्ञानिनो ऽहं श्यामसुन्दराकारो ऽत्यर्थम् अतिशयेन प्रियः साधन-साध्य-दशयोः परिहातुम् अशक्यः । ये यथा मां प्रपद्यन्ते [गीता ४।११] इति न्यायेन ममापि स प्रियः ॥१७॥
बलदेवः - चतुर्षु ज्ञानिनः श्रैष्ठ्यम् आह तेषाम् इति । ज्ञानी विशिष्यते श्रेष्ठो भवति । यद् असौ नित्य-युक्त एक-भक्तिश् च । आर्त-विनाशादि-कामना-विरहान् नित्यं मया योगवान् । आर्तादेश तु यावत्-कामित-प्राप्तिर् मद्-योग एकस्मिन् मय्य् एव ज्ञानिनो भक्तिर् आर्तादेस् तु स्व-कामिते तत्-प्रदातृत्वेन मयि चातो ज्ञानी ततः श्रेष्ठः ।
अतृप्यन्न् आह प्रियो हीति । ज्ञानिनो ह्य् अहम् अत्यर्थं प्रियः प्रेमास्पदम् । स हि मत्-प्रियता-सुधा-सिन्धु-निमग्नो नान्यत् किञ्चिद् अनुसन्धत्ते तस्य मत्-प्रियता-परिमितेति बोधयितुम् अत्यर्थ-शब्दः । सर्वज्ञो ऽनन्त-शक्तिश् चाहं यां वक्तुं न शक्नोतीत्य् अर्थः । स च ज्ञानी ये यथा माम् [गीता ४।११] इत्य् आदि-न्यायेन तथैव मम प्रियः । ममापि तत्-प्रियता तद्वद् परिमितेत्य् अर्थः ॥१७॥
७।१८
उदाराः सर्व एवैते ज्ञानी त्व् आत्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा माम् एवानुत्तमां गतिम् ॥१८॥
श्रीधरः - तर्हि किम् इतरे त्रयस् तद्-भक्ताः संसरन्ति ? न हि न हीत्य् आह उदारा इति । सर्वे ऽप्य् एत उदारा महान्तो मोक्ष-भाज एवेत्य् अर्थः । ज्ञानी तु पुनर् आत्मैवेति मे मतं निश्चयः । हि यस्मात् स ज्ञानी युक्तात्मा मद्-एक-चित्तः सन् न विद्यत उत्तमा यस्यास् ताम् अनुत्तमां गतिं माम् एवास्थित आश्रितवान् मद्-व्यतिरिक्तम् अन्यत् फलं न मन्यत इत्य् अर्थः ॥१८॥
मधुसूदनः - तत्-किम् आर्तादयस् तव न प्रियाः ? न, अत्यर्थम् इति विशेषणाद् इत्य् आह उदारा इति । एत आर्तादयः स-कामा अपि मद्-भक्ताः सर्वे त्रयो ऽप्य् उदारा एवोत्कृष्टा एव पूर्व-जन्मार्जितानेक-सुकृत-राशित्वात् । अन्यथा हि मां न भजेयुर् एव । आर्तस्य जिज्ञासोर् अर्थार्थिनश् च मद्-विमुखस्य क्षुद्र-देवता-भक्तस्यापि बहुलम् उपलम्भात् । अतो मम प्रिया एव ते । न हि ज्ञानवान् अज्ञो वा कश्चिद् अपि भक्तो ममाप्रियो भवति । किन्तु यस्य यादृशी मयि प्रीतिर् ममापि तत्र तादृशी प्रीतिर् इति स्वभाव-सिद्धम् एतत् । तत्र स-कामानां त्रयाणां काम्यमानम् अपि प्रियम् अहम् अपि प्रियः । ज्ञानिनस् तु प्रियान्तर-शून्यस्याहम् एव निरतिशय-प्रीति-विषयः । अतः सो ऽपि मम निरतिशय-प्रीति-विषय इति विशेषः । अन्यथा हि मम कृतज्ञता न स्यात् कृतघ्नता च स्यात् । अतएवात्यर्थम् इति
विशेषणम् उपात्तं प्राक् । यथा हि यद् एव विद्यया करोति श्रद्धयोपनिषदा तद् एव वीर्यवत्तरं भवति इत्य् अत्र तरब्-अर्थस्य विवक्षितत्वाद् विद्या-दिव्यातिरेकेन कृतम् अपि कर्म वीर्यवद् भवत्य् एव । तथात्यर्थं ज्ञानी भक्तो मम प्रिय इत्य् उक्तेर् यो ज्ञान-व्यतिरेकेण भक्तः सो ऽपि प्रिय इति पर्यवस्यत्य् एव । अत्यर्थम् इति विशेषणस्य विवक्षितत्वात् । उक्तं हि – ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४।११] इति । अतो माम् आत्मत्वेन ज्ञानवान् ज्ञानी । आत्मैव न मत्तो भिन्नः त्व् अहम् एव स इति मम मतं निश्चयः । तु-शब्दः स-काम-भेद-दर्शि-त्रितयापेक्षया निष्कामत्व-भेदादर्शित्व-विशेष-द्योतनार्थः । हि यस्मात् । स ज्ञानी युक्तात्मा सदा मयि समाहित-चित्तः सन् मां भगवन्तम् अनन्तम् आनन्द-घनम् आत्मानम् एवानुत्तमां सर्वोत्कृष्टां गतिं गन्तव्यं
परमं फलम् आस्थितो ऽङ्गीकृतवान्, न तु मद्-भिन्नं किम् अपि फलं स मन्यत इत्य् अर्थः ॥१८॥
विश्वनाथः – तर्हि किम् आर्ताद्यास् त्रयस् तव न प्रियास् तत्र न हि न हीत्य् आह उदारा इति । ये मां भजन्ते, मत्तः किञ्चित् कामितं मयापि दित्सितं गृह्णन्ति ते भक्त-वत्सलाय मह्यं बहु-प्रदायिनः प्रिया एवेति भावः । ज्ञानी त्व् आत्मैवेति स हि भजन्न् अथ च मत्तः किम् अपि स्वर्गापवर्गादिकं नाकङ्क्षत इति । अतस् तद्-अधीनस्य मम स आत्मैवेति मम मतं मतिः । यतः स मां श्यामसुन्दराकारम् एवानुत्तमां सर्वोत्तमां गतिं प्राप्यास्थितः निश्चितवान् । न तु मम निर्विशेष-स्वरूप-ब्रह्म-निर्वाणम् इति भावः । एवं च निष्काम-प्रधानीभूत-भक्तिमान् ज्ञानी भक्त-वत्सलेन भगवता स्वात्मत्वेनाभिमन्यते । केवल-भक्तिमान् अनन्यस् तु आत्मनो ऽप्य् आधिक्येन । यद् उक्तं -
न तथा मे प्रियतम आत्म-योनिर् न शङ्करः ।
न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ [भ्प् ११।१४।१५] इति ।
नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना [भ्प् ९।४।६४] इति ।
आत्मारामो ऽप्य् अरीरमत् [भ्प् १०।२९।४२] इत्य् आदि ॥१८॥
बलदेवः - नन्व् आर्तादयस् तव प्रिया न भवन्ति मैवम् अत्यर्थम् इति विशेषणाद् इत्य् आह उदारा इति । सर्व एवैते आर्तादय उदारा वदान्याः । उदारो दातृ-महतोर् इत्य् अमरः । ये मां भजन्तो मया दित्सितं किञ्चित् स्वाभीष्टं मत्तो गृह्णन्ति ते भक्त-वात्सल्यं मह्यं प्रयच्छन्तो मम बहु-प्रदाः प्रिया एवेति भावः । ज्ञानी तु ममात्मैवेति मतम् । हि यस्मात् स जी᳡इआनी युक्तात्मा मद्-अर्पित-मना मत्तो ऽन्यत् किञ्चिद् अप्य् अनिच्छन्न् अतिप्रियेण मया विना लवम् अपि स्थातुम् असमर्थो माम् एव सर्वोत्तमां मतिं प्राप्यम् आस्थितः निश्चितवान् अतस् तेन तादृशेन विना लवम् अपि स्थातुम् असमर्थस्य ममात्मैव सः । न च ज्ञानि-जीवस्य हरिः स्वेनाभेदम् आहेति वाच्यम् । ज्ञान-भजत्वासिद्धेर् भजतां चातुर्विध्यासिद्धेर् मोक्षे भेद-वाक्य-व्याकोपाच् च । तस्माद् अतिप्रियत्वाद् एव तत्रात्मेत्य्
उक्तिर् ममात्मा भद्रसेन इतिवत् । आत्मैव मन एव मतम् इत्य् अपरे ॥१८॥
७।१९
बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते ।
वासुदेवः सर्वम् इति स महात्मा सुदुर्लभः ॥१९॥
श्रीधरः - एवम्भूतो मद्-भक्तो ऽतिदुर्लभ इत्य् आह बहूनाम् इति । बहूनां जन्मनाम् किञ्चित् किञ्चित् पुण्योपचयेनान्ते चरमे जन्मनि ज्ञानवान् सन् सर्वम् इदं चराचरं वासुदेव एवेति सर्वात्म-दृष्ट्या मां प्रपद्यते भजति । अतः स महात्मापरिच्छिन्न-दृष्टिः सुदुर्लभः ॥१९॥
मधुसूदनः - यस्माद् एवं तस्मात् बहूनाम् इति । बहूनां जन्मनां किञ्चित् किञ्चित् पुण्योपचय-हेतूनाम् अन्ते चरमे जन्मनि सर्व-सुकृत-विपाक-रूपे वासुदेवः सर्वम् इति ज्ञानवान् सन् मां निरुपाधि-प्रेमास्पदं प्रपद्यते सर्वदा समस्त-प्रेम-विषयत्वेन भजते । सकलम् इदम् अहं च वासुदेव इति दृष्ट्या सर्व-प्रेम्णां मय्य् एव पर्यवसायित्वात् । अतः स एवं-ज्ञान-पूर्वक-मद्-भक्तिमान् महात्मात्यन्त-शुद्धान्तःकरणत्वाज् जीवन्मुक्तः सर्वोत्कृष्टो न तत्-समो ऽन्यो ऽस्ति अधिकस् तु नास्त्य् एव । अतः सुदुर्लभो मनुष्याणां सहस्रेषु दुःखेनापि लब्धुम् अशक्यः । अतः स निरतिशय-मत्-प्रीति-विषय इति युक्तम् एवेत्य् अर्थः ॥१९॥
विश्वनाथः - ननु माम् एवानुत्तमां गतिम् आस्थित इति ब्रूषे अतः स ज्ञानि-भक्तस् त्वाम् एव प्राप्नोति । किन्तु कियतः समयाद् अनन्तरं स ज्ञानी भक्त्य्-अधिकारी भवतीत्य् अत आह बहूनाम् इति । वासुदेवः सर्वम् इति सर्वत्र वासुदेव-दर्शी ज्ञानवान् बहूनां जन्मनाम् अन्ते मां प्रपद्यते । तादृश-साधु-यादृच्छिक-सङ्ग-वशात् मत्-प्रपत्तिं प्राप्नोति । स च ज्ञानी भक्तो महात्मा सुस्थिर-चित्तः सुदुर्लभः । मनुष्याणां सहस्रेषु इति मद्-उक्तेः । ऐकान्तिक-भक्तस् तु किम् उतेति स त्व् अतिसुदुर्लभ एवेति भावः ॥१९॥
बलदेवः - नन्व् आर्तादीनाम् अन्ते का निष्ठेति चेत् तत्राह बहूनाम् इति । आर्तादिस् त्रिविधो मद्-भक्तः कृत-मद्-भक्ति-महिम्ना बहूनि जन्मान्य् उत्तमान् विषयानन्दान् अनुभूय तेषु वितृष्णो ऽन्ते जन्मनि मत्-स्वरूप-ज्ञ-सत्-प्रसङ्गात् ज्ञानवान् प्राप्त-मत्-स्वरूप-ज्ञानः सन् मां प्रपद्यन्ते । ततो विन्दतीय् अर्थः । ज्ञानाकारम् आह वासुदेव इति । वसुदेव-सुतः कृष्ण एव सर्वम् । कृष्णायत्त-स्वरूप-स्थिति-प्रवृत्तिकं सर्वं वस्त्व् इत्य् अर्थः । यद् धि यद् अधीन-स्वरूप-स्थितिकत्वात् प्राण-रूपं वाग्-आदि-व्यपदिष्टं छान्दोग्ये न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्य् आचक्षते प्राणा इत्य् एवाचक्षते प्राणो ह्य् एवैतानि सर्वाणि भवति ॥ [छाउ ५।१।१५] इति तत्राहुः सर्वं वस्तु वासुदेवेन व्याप्यम् अतः सर्वं वासुदेव इत्य् अर्थः । सर्वं समाप्नोषि
ततो ऽसि सर्वम् [गीता ११।४०] इति पार्थो वक्ष्यतीति । स हि निखिल-स्पृहा-निवृत्ति-पूर्वकं मत्-स्पृहो मद्-आत्मात्य्-उदार-मना मन्-निवेदितात्मा ज्ञानि-कोटिष्व् अपि सुदुर्लभः । एष ज्ञानवान् प्रियो हि ज्ञानिनो ऽत्यर्थम् [गीता ७।१७] इत्य् आद्य्-उक्त-लक्षणो बोध्यः ॥१९॥
७।२०
कामैस् तैस् तैर् हृत-ज्ञानाः प्रपद्यन्ते ऽन्य-देवताः ।
तं तं नियमम् आस्थाय प्रकृत्या नियताः स्वया ॥२०॥
श्रीधरः -तद् एवं कामिनो ऽपि सन्तः काम-प्राप्तये परमेश्वरम् एव ये भजन्ति ते कामान् प्राप्य शनैर् मुच्यन्त इत्य् उक्तम् । ये त्व् अत्यन्तं राजसास् तामसाश् च कामाभिभूताः क्षुद्र-देवताः सेवन्ते ते संसरन्तीत्य् आह कामैर् इति चतुर्भिः । ये तु तैस् तैः पुत्र-कीर्ति-शत्रु-जयादि-विषयैः कामैर् अपहृत-विवेका सन्तो ऽन्याः क्षुद्रा भूत-प्रेत-यक्षाद्या देवता भजन्ति । किं कृत्वा ? तत्-तद्-देवताराधने यो यो नियम उपवासादि-लक्षणस् तं तं नियमं स्वीकृत्य । तत्रापि स्वया स्वीयया प्रकृत्या पूर्वाभ्यास-वासनया नियता वशीकृताः सन्तः ॥२०॥
मधुसूदनः - मोहन-स्तम्भनाकर्षण-वशीकरण-मारणोच्चाटनादि-विषयैर् भगवत्-सेवया लब्धुम् अशक्यत्वेनाभिमतैस् तैस् तैः क्षुद्रैः कामैर् अभिलाषैर् हृतम् अपहृतं भगवतो वासुदेवाद् विमुखीकृत्य तत्-तत्-फल-दातृत्वाभिमत-क्षुद्र-देवताभिमुख्यं नीतं ज्ञानम् अन्तः-करणं येषां ते ऽन्य-देवता भगवतो वासुदेवाद् अन्याः क्षुद्र-देवतास् तं तं नियमं जपोपवास-प्रदक्षिणा-नमस्कारादि-रूपं तत्-तद्-देवताराधने प्रसिद्धं नियमम् आस्थायाश्रित्य प्रपद्यन्ते भजन्ते तत्-तत्-क्षुद्र-फल-प्राप्तीच्छया । क्षुद्र-देवता-मध्ये ऽपि केचित् काञ्चिद् एव भजन्ते स्वया प्रकृत्या नियता असाधारणया पूर्वाभ्यास-वासनया वशीकृता सन्तः ॥२०॥
विश्वनाथः - ननु आर्तादयः स-कामा अपि भगवन्तं त्वां भजन्तः कृतार्था इव इत्य् अवगतम् । ये तु आर्तादयः आर्ति-हानादि-कामनया देवतान्तरं भजन्ते । तेषां का गतिर् इत्य् अपेक्षायाम् आह कामैर् इति चतुर्भिः । हृत-ज्ञाना इति रोगाद्य्-आर्ति-हराः शीघ्रं यथा सूर्यादयस् तथा न विष्णुर् इति नष्ट-बुद्धयः । प्रकृत्येति स्वया प्रकृत्या नियता वशीकृताः सन्तस् तेषां दुष्टा प्रकृतिर् एव मत्-प्रपत्तौ पराङ्मुखीति भावः ॥२०॥
बलदेवः - तद् इत्थं कामनयापि मां भजन्तो मद्-भक्ति-महिम्ना ते विमुच्यन्त इत्य् उक्तम् । ये तु शीघ्र-सुख-कामा देवतान्तर-भक्तास् ते संसरन्त्य् एवेत्य् आह कामैर् इत्य् आदिभिश् चतुर्भिः । तैस् तैर् आर्ति-विनाशादि-विषयकैः कामैर् हृत-ज्ञाना यथादित्यादयः शीघ्रम् एव रोग-विनाशादिकरास् तथा न विष्णुर् इति नष्ट-धिय इत्य् अर्थः । तं तम् असाधारणं स्वया प्रकृत्या वासनया नियता नियन्त्रितास् तेषां प्रकृतिर् एव तादृशी या मत्-प्रपत्तौ वैमुख्यं करोतीति भावः ॥२०॥
७।२१
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुम् इच्छति ।
तस्य तस्याचलां श्रद्धां ताम् एव विदधाम्य् अहम् ॥२१॥
श्रीधरः - देवता-विशेषं ये भजन्ति तेषां मध्ये यो य इति । यो यो भक्तो यां यां तनुं देवता-रूपां मदीयाम् एव मूर्तिं श्रद्धयार्चितुम् इच्छति प्रवर्तते तस्य तस्य भक्तस्य तत्-तन्-मूर्ति-विषयां ताम् एव श्रद्धाम् अचलां दृढाम् अहम् अन्तर्यामी विदधामि करोमि ॥२१॥
मधुसूदनः - तत् तद् देवता-प्रसादात् तेषाम् अपि सर्वेश्वरे भगवति वासुदेवे भक्तिर् भविष्यतीति न शङ्कनीयम्, यतो यो य इति । तेषां मध्ये यो यः कामी यां यां तनुं देवता-मूर्तिं श्रद्धया जन्मान्तर-वासनाबल-प्रादुर्भूतया भक्त्या संयुक्तः सन्न् अर्चितुम् अर्चयितुम् इच्छति प्रवर्तते । चौरादिकस्यार्चयतेर् णिज्-अभाव-पक्षे रूपम् इदम् । तस्य तस्य कामिनस् ताम् एव देवता-तनुं प्रति श्रद्धां पूर्व-वासनावशात् प्राप्तां भक्तिम् अचलां स्थिरां विद्दधामि करोम्य् अहम् अन्तर्यामी, न तु मद्-विषयां श्रद्धां तस्य तस्य करोमीत्य् अर्थः । ताम् एव श्रद्धाम् इति व्याख्याने यच्-छब्दानन्वयः स्पष्टस् तस्मात् प्रतिशब्दम् अध्याहृत्य व्याख्यातम् ॥२१॥
विश्वनाथः - ते ते देवाः पूजां प्राप्य प्रसन्नास् तेषां स्व-स्व-पूजकानां हितार्थं त्वद्-भक्तौ श्रद्धाम् उत्पादयिष्यन्तीति मा वादीः । यतस् ते देवाः स्व-भक्ताव् अपि श्रद्धाम् उत्पादयितुम् अशक्ताः । किं पुनर् मद्-भक्ताव् इत्य् आह यो य इति । यां यां तनुं सूर्यादि-देव-रूपां मदीयां मूर्तिं विभूतिम् अर्चितुम् पूजयितुं ताम् एव तत्-तद्-देवता-विषयाम् एव, न तु स्व-विषयां श्रद्धाम् अहम् अन्तर्याम्य् एव विदधामि, न तु सा देवता ॥२१॥
बलदेवः - सर्वान्तर्यामी महा-विभूतिः सर्व-हितेच्छुर् अहम् एव तत्-तद्-देवतासु श्रद्धाम् उत्पाद्य ताः पूजयित्वा तत्-तद्-अनुरूपाणि फलानि प्रयच्छामि, न तु तासां तत्र तत्र शक्तिर् अस्तीत्य् आशयवान् आह य इति द्वाभ्याम् । यो य आर्तादि-भक्तो यां याम् आदियादि-रूपां मत्-तनुं श्रद्धयार्चितुं वाञ्छति । तस्य तस्य ताम् एव तत्-तद्-देवता-विषयाम् एव, न तु मद्-विषयाम् । अचलां स्थिराम् । विदधाम्य् उत्पादयाम्य् अहम् एव, न तु सा सा देवता । श्रुतिश् च तत्-तद्-देवतानां मत्-तनुत्वम् आह य आदित्ये तिष्ठत्य् आदित्याद् अन्तरो यमादित्यो न वेद यस्यादित्यः शरीरम् [बउ ३।७।९] इत्य् आद्या ॥२१॥
७।२२
स तया श्रद्धया युक्तस् तस्या राधनम् ईहते ।
लभते च ततः कामान् मयैव विहितान् हि तान् ॥२२॥
श्रीधरः - ततश् च तयेति । स भक्तस् तया दृढया श्रद्धया तस्यास् तनो राधन्म् आराधनम् ईहते करोति । ततश् च ये सङ्कल्पिताः कामास् तान् कामांस् ततो देवता-विशेषाल् लभते । किन्तु मयैव तत्-तद्-देवतान्तर्यामिना विहितान् निर्मितान् हि । स्फुटम् एतत् तत्-तद्-देवतानाम् अपि मद्-अधीनत्वान् मन्-मूर्तित्वाच् चेत्य् अर्थः ॥२२॥
मधुसूदनः - स कामी तया मद्-विहितया स्थिरया श्रद्धया युक्तस् तस्या देवता-तन्वा राधनम् आराधनं पूरजम् ईहते निर्वर्तयति । उपसर्ग-रहितो ऽपि राधयतिः पूजार्थः । सोपसर्गत्वे ह्य् आकारः श्रूयते । लभते च ततस् तस्या देवता-तन्वाः सकाशात् कामानीप्सितांस् तान् पूर्व-सङ्कल्पितान् हि प्रसिद्धम् । मयैव सर्वज्ञेन सर्व-कर्म-फल-दायिना तत्-तद्-देवतान्तर्यामिणा विहितांस् तत्-तत्-फल-विपाक-समये निर्मितान् । हितान् मनः-प्रियानित्यैक-पद्यं वा । अहितत्वे ऽपि हिततया प्रतीयमानानित्यार्थः ॥२२॥
विश्वनाथः - ईहते करोति । स तत्-तद्-देवताराधनात् कामानाराधन-फलानि लभते । न च ते ते कामा अपि तैस् तैर् देवैः पूर्णाः कर्तुं शक्यन्त इत्य् आह मयैव विहितान् पूर्णीकृतान् ॥२२॥
बलदेवः - स तयेति । ईहते करोति । ततो मत्-तनु-भूत-तत्-तद्-देवताराधनात् । कामान् फलानि तत्र तत्रोक्तानि । मयैवेति विहितान् रचितान् । यद्यपि तस्य तस्याराधकस्य तथा ज्ञानं नास्ति तथापि मत्-तनु-विषयेयं श्रद्धेत्य् अनुसन्धायाहं फलान्य् अर्पयामीति भावः ॥२२॥
७।२३
अन्तवत् तु फलं तेषां तद् भवत्य् अल्प-मेधसाम् ।
देवान् देव-यजो यान्ति मद्-भक्ता यान्ति माम् अपि ॥२३॥
श्रीधरः - तद् एवं यद्यपि सर्वा अपि देवताः सर्वात्मनो ममैव तनवः । अतस् तद्-आराधनम् अपि वस्तुतो मद्-आराधनम् एव । तत्र फल-दातापि चाहम् एव । तथापि साक्षान्-मद्-भक्तानां तेषां च फल-वैषम्यं भवतीत्य् आह अन्तवद् इति । अल्प-मेधसां परिच्छन्न-दृष्टीनां मया दत्तम् अपि तत्-फलम् अन्तवद् विनाशि भवति । तद् एवाह देवान् यजन्तीति देव-यजः । ते देवान् अन्तवतो यान्ति । मद्-भक्तास् तु माम् अनाद्य्-अनन्तं परमानन्दं प्राप्नुवन्ति ॥२३॥
मधुसूदनः - यद्यपि सर्वा अपि देवताः सर्वात्मनो ममैव तनवस् तद्-आराधनम् अपि वस्तुतो मद्-आराधनम् एव सर्वत्रापि च फल-दातान्तर्याम्य् अहम् एव, तथापि साक्षान्-मद्-भक्तानां च तेषां च वस्तु-विवेकाविवेक-कृतं फल-वैषम्यं भवतीत्य् आह अन्तवद् इति । अल्प-मेधसां मन्द-प्रज्ञत्वेन वस्तु-विवेकासमर्थानां तेषां तत्-तद्-देवता-भक्तानां तन् मया विहितम् अपि तत्-तद्-देवताराधनजं फलम् अन्तवद् एव विनाश्य् एव न तु मद्-भक्तानां विवेकिनाम् इवानन्तं फलं तेषाम् इत्य् अर्थः । कुतः ? एवं यतो देवान् इन्द्रादीन् अन्तवत एव देव-यजो मद्-अन्य-देवताराधन-परा यान्ति प्राप्नुवन्ति । मद्-भक्तास् तु त्रयः स-कामाः प्रथमं मत्-प्रसादाद् अभीष्टान् कामान् प्राप्नुवन्ति । अपि-शब्द-प्रयोगात् ततो मद्-उपासना-परिपाकान् माम् अनन्तम् आनन्द-घनम्
ईश्वरम् अपि यान्ति प्राप्नुवन्ति । अतः समाने ऽपि सकामत्वे मद्-भक्तानाम् अन्य-देवता-भक्तानां च महद्-अन्तरम् । तस्मात् साधूक्तम् उदाराः सर्व एवैत इति ॥२३॥
विश्वनाथः - किन्तु तेषां देवतान्तर-भक्तानाम् फलं तत्-तद्-देवताराधन-जन्यम् अन्तवत् नश्वरं कैञ्चित्कालिकं भवति । ननु आराधने श्रमे तुल्यो ऽपि देवतान्तर-भक्तानां फलं नश्वरं करोषि, स्व-भक्तानां त्व् अनश्वरं करोषीति त्वयि परमेश्वरे ऽयम् अन्यायस् तत्र नायम् अन्याय इत्य् आह देव-यजो देव-पूजका देवान् एव यान्ति प्राप्नुवन्ति । मत्-पूजका अपि माम् । अयम् अर्थः । ये हि यत्-पूजकास् ते तान् प्राप्नुवन्त्य् एवेति न्याय एव । तत्र यदि देवा अपि नश्वरास् तदा तद्-भक्ताः कथम् अनश्वरा भवन्तु । कथन्तरां या तद् भजन-फलं वा न नश्यतु । अतएव तद्-भक्ता अल्प-मेधस उक्ताः । भगवांस् तु नित्यस् तद्-भक्ता अपि नित्यास् तद्-भक्ति-भक्ति-फलं च सर्वं नित्यम् एवेति ॥२३॥
बलदेवः - ननु देवाश् चेत् त्वत्-तनवस् तर्हि देव-भक्तानां तद्-भक्तानां च समानं फलं स्याद् इति चेत् तत्राह अन्तवद् इति । तेषाम् अल्प-मेधसाम् आदित्यादि-मात्र-बुद्ध्या, न तु मत्-तनुवुद्भ्याराधयतां तत्-तत्-फलम् अल्पम् अन्तवद् विनाशि च भवति, मत्-तनुवुद्भ्याराधयतां तु फलम् अनन्तम् अविनाशि चेति भावः । यस्माद् आदित्यादि-देव-याजिनस् तान् स्वेज्यान् मित-भोगान् मितायुषो यान्तीति, मद्-भक्तास् तु माम् एव नित्यापरिमित-स्वरूप-गुण-विभूति-मद्-आराधन-फलम् अनन्तम् अविनाशि चेइत् महद्-अन्तरम् इत्य् अर्थः ॥२३॥
७।२४
अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः ।
परं भावम् अजानन्तो ममाव्ययम् अनुत्तमम् ॥२४॥
श्रीधरः - नौ च समाने प्रयासे महति च फल-विशेषे सति सर्वे ऽपि किम् इति देवतान्तरं हित्वा त्वाम् एव न भजन्ति ? तत्राह अव्यक्तम् इति । अव्यक्तं प्रपञ्चातीतं मां व्यक्तिं मनुष्य-मत्स्य-कूर्मादि-भावं प्राप्तम् अल्प-बुद्धयो मन्यन्ते । तत्र हेतुः – मम परं भावं स्वरूपम् अजानन्तः । कथम्-भूतम् ? अव्ययं नित्यम् । न विद्यत उत्तमो भावो यस्मात् तत् मद्-भावम् । अतो जगद्-रक्षणार्थं लीलयाविष्कृत-नाना-विशुद्धोर्जित-सत्त्व-मूर्तिं मां परमेश्वरं च स्व-कर्म-निर्मित-भौतिक-देहं च देवतान्तरं समं पश्यन्तो मन्द-मतयो मां नातीवाद्रियन्ते । प्रत्युत क्षिप्र-फलदं देवतान्तरम् एव भजन्ति । ते चोक्त-प्रकारेणान्तवत् फलं प्रापुन्वन्तीत्य् अर्थः ॥२४॥
मधुसूदनः - एवं भगवद्-भजनस्य सर्वोत्तम-फलत्वे ऽपि कथं प्रायेण प्राणिनो भगवद्-विमुख्या इत्य् अत्र हेतुम् आह भगवान् अव्यक्तम् इति । अव्यक्तं देह-ग्रहणात् प्राक्-कार्याक्षमत्वेन स्थितम् इदानीं वसुदेव-गृहे व्यक्तिं भौतिक-देहावच्छेदेन कार्य-क्षमतां प्राप्तं कञ्चिज् जीवम् एव मन्यन्ते माम् ईश्वरम् अप्य् अबुद्धयो विवेक-शून्याः । अव्यक्तं सर्व-कारणम् अपि मां व्यक्तिं कार्य-रूपतां मत्स्य-कूर्माद्य्-अनेकावतार-रूपेण प्राप्तम् इति वा ।
कथं ते जीवास् त्वां न विविञ्चन्ति ? तत्राबुद्धय इत्य् उक्तं हेतुं विवृणोति । परं सर्व-कारण-रूपम् अव्ययं नित्यं मम भावं स्वरूपं सोपाधिकम् अजानन्तस् तथा निरुपाधिकम् अप्य् अनुत्तमं सर्वोत्कृष्टम् अनतिशयाद्वितीय-परमानन्द-घनम् अनन्तं मम स्वरूपम् अजानन्तो जीवानुकारि-कार्य-दर्शनाज् जीवम् एव कञ्चिन् मां मन्यन्ते । ततो माम् अनीश्वरत्वेनाभिमतं विहाय प्रसिद्धं देवतान्तरम् एव भजन्ते । ततश् चान्तवद् एव फलं प्राप्नुवन्तीत्य् अर्थः । अग्रे च वक्ष्यते अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् [गीता ९।११] इति ॥२४॥
विश्वनाथः - देवतान्तर-भक्तानाम् अल्प-मेधसां वार्ता दूरे तावद् आस्ताम् । वेदादि-समस्त-शास्त्र-दर्शिनो ऽपि मत्-तत्त्वं न जानन्ति ।
अथापि ते देव पदाम्बुज-द्वय-
प्रसाद-लेशानुगृहीत एव हि ।
जानाति तत्त्वं भगवन् महिम्नो
न चान्य एको ऽपि चिरं विचिन्वन् ॥ [भ्प् १०।१४।२९]
इति ब्रह्मणापि मां प्रत्युक्तम् । अतो मद्-भक्तान् विना मत्-तत्त्व-ज्ञाने सर्वत्र वाल्प-बुद्धय इत्य् आह अव्यक्तं प्रपञ्चातीतं निराकारं ब्रह्मैव मां मायिकाकारत्वेनैव व्यक्तिं वसुदेव-गृहे जन्म प्राप्तं निर्बुद्धयो मन्यन्ते मायिकाकायस्यैव दृश्यत्वाद् इति भावः । यतो मम परं भावं मायातीतं स्वरूपं जन्म-कर्म-लीलादिकम् अजानन्तः । भावं कीदृशम् ? अव्ययं नित्यम् अनुत्तमं सर्वोत्कृष्टम् । भावः सत्ता स्वभावाभिप्राय-चेष्टात्म-जन्मसु । क्रिया-लीला-पदार्थेषु इति मेदिनी । भगवत्-स्वरूप-गुण-जन्म-कर्म-लीलानाम् अनाद्य्-अन्तत्वेन नित्यत्वं श्री-रूप-गोस्वामि-चरणैर् भागवतामृत-ग्रन्थे प्रतिपादितम् । मम परं भावं स्वरूपम् अव्ययं नित्यम् विशुद्धोर्जित-सत्त्व-मूर्त्ं इति स्वामि-चरणैश् चोक्तम् ॥२४॥
बलदेवः - अथ का वार्ता मद्-अन्य-देव-याजिनाम् अल्प-मेधसाम् उपनिषन्-निष्णातानाम् अपि मद्-भक्ति-रिक्तानां मत्-तत्त्व-धीर् न स्याद् इत्य् आशयेनाह अव्यक्तम् इति । अबुद्धयो मत्-तत्त्व-याथात्म्य-बुद्धि-शून्या जना अव्यक्तं स्व-प्रकाशात्म-विग्रहत्वाद् इन्द्रियाविषयं मां व्यक्तिम् आपन्नं तद्-विषयां मन्यन्ते । देवक्यां वसुदेवात् सत्त्वोत्कृष्टेन कर्मणा सञ्जातम् इतर-राज-पुत्र-तुल्यं मां वदन्ति । यतस् ते मद्-अभिज्ञ-सत्-प्रसङ्गाभावान् मम भावं परम् अव्ययम् अनुत्तमम् अजानन्तः -
भावः सत्ता स्वभावाभिप्राय-चेष्टात्म-जन्मसु ।
क्रिया-लीला-पदार्थेषु विभूति-बुध-जन्तुषु ॥ इति मेदिनी-कारः ।
मद्-भक्ति-हीनास् ते मम स्वरूप-गुण-जन्म-लीलादि-लक्षण-भावं मायादितः परमतो ऽव्ययं नित्यम् अनुत्तमं सर्वोत्तमं न, किन्त्व् अन्यवन् मायिकम् अनित्यं साधारणं च गृह्णन्त इत्य् अर्थः । स्वरूपं हरेर् विज्ञानानन्दैक-रसं विज्ञानम् आनन्दं ब्रह्म इत्य् आदेः । सार्वज्ञादि-गुण-गणस् तस्य स्वरूपानुबन्धी अनन्त-कल्याण-गुणात्मको ऽसौ इत्य् आदेः । अभिव्यक्ति-मात्रं जन्म अजो ऽपि सन् इत्य् आदेः । परन्तु अव्यक्तस्यैव भजत्सु प्रसादेनैवाभिव्यक्ति-शीलं [म्भ् १२।३२३।१८] -
न शक्यः स त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति ॥ इत्य् आदेः ॥२४॥
७।२५
नाहं प्रकाशः सर्वस्य योग-माया-समावृतः ।
मूढो ऽयं नाभिजानाति लोको माम् अजम् अव्ययम् ॥२५॥
श्रीधरः - तेषां स्वाज्ञाने हेतुम् आह नाहम् इति । सर्वस्य लोकस्य नाहं प्रकाशः प्रकटो न भवामि । किन्तु मद्-भक्तानाम् एव । यतो योग-मायया समावृतः । योगो युक्तिर् मदीयः को ऽप्य् अचिन्त्यः प्रज्ञा-विलासः । स एव मायाघटन-घटनापटीयस्त्वात् । तया सञ्च्छन्नः अतएव मत्-स्वरूप-ज्ञाने मूढः सन्न् अयं लोको ऽजम् अव्ययं च मां न जानातीति ॥२५॥
मधुसूदनः - ननु जन्म-काले ऽपि सर्व-योगि-ध्येयं श्री-वैकुण्ठ-स्थम् ऐश्वरम् एव रूपम् आविर्भावितवति सम्प्रति च श्रीवत्स-कौस्तुभ-वनमाला-किरीट-कुण्डलादि-दिव्योपकरण-शालिनि कम्बु-कमल-कौमोदकी-चक्र-वर-धारि-चतुर्-भुजे श्रीमद्-वैनतेय-वाहने निखिल-सुर-लोक-सम्पादित-राज-राजेश्वराभिषेकादि-महा-वैभवे सर्व-सुरासुर-जेतरि विविध-दिव्य-लीला-विलास-शीले सर्वावतार-शिरोमणौ साक्षाद्-वैकुण्ठ-नायके निखिल-लोक-दुःख-निस्ताराय भुवम् अवतीर्णे विरिञ्चि-प्रपञ्चासम्भवि-निरतिशय-सौन्दर्य-सार-सर्वस्व-मूर्तौ बाल-लीला-विमोहित-विधातरि तरणि-किरणोज्ज्वल-दिव्य-पीताम्बरे निरुपम-श्यामसुन्दरे कर-दीकृत-पारिजातार्थ-पराजित-पुरन्दरे बाण-युद्ध-विजित-शशाङ्क-शेखरे समस्त-सुरासुर-विजयि-नरक-प्रभृति-महा-दैतेय-प्रकर-प्राण-पर्यन्त-सर्वस्व-हारिणि
श्रीदामादि-परम-रङ्क-महा-वैभव-कारिणि षोडश-सहस्र-दिव्य-रूप-धारिण्य् अपरिमेय-गुण-गरिमणि महा-महिमनि नारद्-मार्कण्डेयादि-महा-मुनि-गण-स्तुते त्वयि कथम् अविवेकिनो ऽपि मनुष-बुद्धिर् जीव-बुद्धिर् वेत्य् अर्जुनाशङ्काम् अपनिनीषुर् आह भगवान् नाहम् इति ।
अहं सर्वस्य लोकस्य न प्रकाशः स्वेन रूपेण प्रकटो न भवामि । किन्तु केषाञ्चिन् मद्-भक्तानाम् प्रकटो भवामीत्य् अभिप्रायः । कथं सर्वस्य लोकस्य न प्रकट इत्य् अत्र हेतुम् आह योग-माया-समावृतः । योगो मम सङ्कल्पस् तद्-वश-वर्तिनी माया योग-माया तथायम् अभक्तो जनो मां स्वरूपेण न जानात्व् इति सङ्कल्पानुविधायिन्या मायया सम्यग् आवृतः सत्य् अपि ज्ञान-कारणे ज्ञान-विषयत्वायोग्यः कृतः । अतो यद् उक्तं परं भावम् अजानन्त इति तत्र मम सङ्कल्प एव कारणम् इत्य् उक्तं भवति । अतो मम मायया मूढ आवृत-ज्ञानः सन्न् अयं चतुर्विध-भक्त-विलक्षणो लोकः सत्य् अपि ज्ञान-कारणे माम् अजम् अव्ययम् अनाद्य्-अनन्तं परमेश्वरं नाभिजानाति, किन्तु विपरीत-दृष्ट्या मनुष्यम् एव कञ्चिन् मन्यत इत्य् अर्थः । विद्यमानं वस्तु-स्वरूपम्
आवृणोत्य् अविद्यमानं च किञ्चिद् दर्शयतीति लौकिक-मायाम् अपि प्रसिद्धम् एतत् ॥२५॥
विश्वनाथः - ननु यदि त्वं नित्य-रूप-गुण-लीलो ऽसि, तदा ते तथाभूता सार्वकालिकी स्थितिः कथं न दृश्यते? तत्राह नाहम् इति । अहं सर्वस्य सर्व-देश-काल-वर्तिनो जनस्य न प्रकाशो न प्रकटः । यथा गुण-लीला-परिकरवत्त्वेन सदैव विराजमानो ऽपि ददाचिद् एव केषुचिद् एव भ्रमाण्डेषु । किं च सूर्यो यथा सुमेरु-शैलावरण-वशात् सर्वदा लोक-दृश्यो न भवति, किन्तु कदाचिद् एव, तथैवाहम् अपि योगमाया-समावृतः । न च ज्योतिश्चक्रवर्तमानानां प्राणिनां ज्योतिश्चक्रस्थो ज्योतिश्चक्र-मध्ये सामस्त्येन सदैव विराजमानो ऽपि सूर्यः सर्व-काल-देश-वर्ति-जनस्य न प्रकटः । किन्तु कादाचित्केषु च भारतादिषु खण्डेषु वर्तमानस्य जनस्यैव तथैवाहम् अपि ।
स्व-धामसु स्वरूप-सूर्यो यथा सदैव दृश्यस् तथैव श्री-कृष्ण-धामनि मथुरा-द्वारकादौ स्थितानाम् इदानीन्तनानां जनानां तत्रस्थः कृष्णः कथं न दृश्यो भवति ? उच्यते यदि ज्योतिश्चक्र-मध्ये सुमेरुर् अभविष्यत् तदा तद्-आवृतः सूर्यो दृश्यो नाभविष्यत् । तत्र तु मथुरादि-कृष्ण-द्युमणि-धामनि सुमेरु-स्थानीया योग-मायैव सदा वर्तत इत्य् अतस् तद्-आवृतः कृष्णार्कः सदा न दृश्यते । किन्तु कदाचिद् एवेति सर्वम् अनवद्यम् । अतो मूढो लोको मां श्यामसुन्दराकारं वसुदेवात्मजम् अव्ययं मायिक-जन्मादि-शून्यं नाभिजानाति । अतएव कल्याण-गुण-वारिधिं माम् अप्य् अन्ततस् त्यक्त्वा मन्-निर्विशेष्-स्वरूपं ब्रह्मैव उपासत इति ॥२५॥
बलदेवः - ननु भक्ता इवाभक्ताश् च त्वां प्रत्यक्षीकुर्वन्ति प्रसादाद् एव भजत्स्व् अभिव्यक्तिर् इति कथम् ? तत्राह नाहम् इति । भक्तानाम् एवाहं नित्य-विज्ञाम् असुख-घनो ऽनन्त-कल्याण-गुण-कर्मा प्रकाशो ऽभिव्यक्तो, न तु सर्वेषाम् अभक्तानाम् अपि । यद् अहं योगमायया समावृतो मद्-विमुख-व्यामोहकत्व-योग-युक्तया मायया समाच्छन्न-परिसर इत्य् अर्थः । यद् उक्तं -माया-जवनिकाच्छन्न-महिम्ने ब्रह्मणे नमः इति । माया-मूढो ऽयं लोको ऽतिमानुष-दैवत-प्रभावं विधि-रुद्रादि-वन्दितम् अपि मां नाभिजानाति । कीदृशम् ? अजं जन्म-शून्यं यतो ऽव्ययम् अप्रच्युत-स्वरूप-सामर्थ्य-सार्वज्ञ्यादिकम् इत्य् अर्थः ॥२५॥
७।२६
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥२६॥
श्रीधरः -सर्वोत्तमं मत्-स्वरूपम् अजानन्त इत्य् उक्तम् । तद् एव स्वस्य सर्वोत्तमत्वम् अनावृत-ज्ञान-शक्तित्वेन दर्शयन्न् अन्येषाम् अज्ञानम् आह वेदाहम् इति । समातीतानि विनष्टानि वर्तमानानि च भविष्याणि भाविनि च त्रिकाल-वर्तीनि भूतानि स्थावर-जङ्गमानि सर्वान्य् अहं वेद जानामि । मायाश्रयत्वान् मम । तस्याः स्वाश्रय-व्यामोहकत्वाभावाद् इति प्रसिद्धम् । मां तु के ऽपि न वेत्ति मन्-माया-मोहितत्वात् । प्रसिद्धं हि लोके मायायाः स्वाश्रयाधीनत्वम् अन्य-मोहकत्वं चेति ॥२६॥
मधुसूदनः - अतो मायया स्वाधीनया सर्व-व्यामोहकत्वात् स्वयं चाप्रतिबद्ध-ज्ञानत्वाद् आह वेदाहम् इति । अहम् अप्रतिबद्ध-सर्व-विज्ञातो मायया सर्वान् लोकान् मोहयन्न् अपि समातीतानि चिर-विनष्टानि वर्तमानानि च भविष्याणि च । एवं काल-त्रय-वर्तीनि भूतानि स्थावर-जङ्गमानि सर्वान्य् वेद जानामि । हे ऽर्जुन ! अतो ऽहं सर्व-ज्ञः परमेश्वर इत्य् अत्र नास्ति संशय इत्य् अर्थः । मां तु । तु-शब्दो ज्ञान-प्रतिबन्ध-द्योतनार्थः । मां सर्व-दर्शिनम् अपि मायाविनम् इव तन्-माया-मोहितः कश्चन को ऽपि मद्-अनुग्रह-भाजनं मद्-भक्तं विना न वेद मन्-माया-मोहितत्वात् । अतो मत्-तत्त्व-वेदनाभावाद् एव प्रायेण प्राणिनो मां न भजन्त इत्य् अभिप्रायः ॥२६॥
विश्वनाथः - किं च मायायाः स्वाश्रय-व्यामोहकत्वाभावाद् बहिरङ्गा माया । अन्तरङ्गा योग-माया च मम ज्ञानं नावृणोतीत्य् आह वेदाहम् इति । मां तु कश्चन प्राकृतो ऽप्राकृतश् च लोको महा-रुद्रादिर् महा-सर्वज्ञो ऽपि न कार्त्स्न्येन वेद, यथायोगं मायया योग-मायया च ज्ञानावरणाद् इति भावः ॥ ॥२६॥
बलदेवः - ननु मायावृतत्वात् तव जीववद् अज्ञतापत्तिर् इति चेत् तत्राह वेदाहम् इति । न हि मद्-अधीनया मत्-तेजसाभिभूतया दूरतो जवनिकयैव मां सेवमानया मायया मम काचिद् विकृतिर् इत्य् अर्थः । मां तु वेदेति मज्-ज्ञानी कोटिष्व् अपि सुदुर्लभ इत्य् अर्थः ॥२६॥
७।२७
इच्छा-द्वेष-समुत्थेन द्वन्द्व-मोहेन भारत ।
सर्व-भूतानि सम्मोहं सर्गे यान्ति परन्तप ॥२७॥
श्रीधरः - तद् एवं माया-विषयत्वेन जीवानां परमेश्वराज्ञानम् उक्तम् । तस्यैवाज्ञानस्य दृढत्वे कारणम् आह इच्छेति । सृज्यत इति सर्गः । सर्गे स्थूल-देहोत्पत्तौ सत्यां तद्-अनुकूल इच्छा । तत्-प्रतिकूले च द्वेषः । ताभ्यां समुत्थः समुद्भूतो यः शीतोष्ण-सुख-दुःखादि-द्वन्द्व-निमित्तो मोहो विवेक-भ्रंशः । तेन सर्वाणि भूतानि सम्मोहं यान्ति । अहम् एव सुखी दुःखी चेति गाढतरम् अभिनिवेशं प्राप्नुवन्ति । अतस् तानि मज्-ज्ञानाभावान् मां न भजन्तीति भावः ॥२७॥
मधुसूदनः - योग-मायां भगवत्-तत्त्व-विज्ञान-प्रतिबन्धे देहेन्द्रिय-सङ्घाताभिमानातिशय-पूर्वकं भोगाभिनिवेशं हेत्व्-अन्तरम् आह इच्छेति । इच्छा-द्वेषाभ्याम् अनुकूल-प्रतिकूल-विषयाभ्यां समुत्थितेन शीतोष्ण-सुख-दुःखादि-द्वन्द्व-निमित्तेन मोहेनाहं सुख्य् अहं दुःखीत्य् आदि-विपर्ययेण सर्वाण्य् अपि भूतानि सम्मोहं विवेकायोग्यत्वं सर्गे स्थूल-देहोत्पत्तौ सत्यां यान्ति । हे भारत ! हे परन्तप ! इति सम्बोधन-द्वयस्य कुल-महिम्ना स्वरूप-शक्त्या च त्वां द्वन्द्व-मोहाख्यः शत्रुर् नाभिभवितुम् अलम् इति भावः । न हीच्छा-द्वेष-रहितं किञ्चिद् अपि भूतम् अस्ति । न च ताभ्याम् आविष्टस्य बहिर् विषयम् अपि ज्ञानं सम्भवति, किं पुनर् आत्म-विषयम् । अतो राग-द्वेष-व्याकुलान्तः-करणत्वात् सर्वाण्य् अपि भूतानि मां परमेश्वरम् आत्म-भूतं
न जानन्ति । अतो न भजन्ते भजनीयम् अपि ॥२७॥
विश्वनाथः - तन्-मायया जीवाः कदारभ्य मुह्यन्तीत्य् अपेक्षायाम् आह इच्छेति । सर्गे जगत्-सृष्ट्य्-आरम्भ-काले सर्व-भूतानि सर्वे जीवाः सम्मोहयन्ति । केन ? प्राचीन-कर्मोद्बुद्धौ याव् इच्छा-द्वेषौ इन्द्रियाणाम् अनुकूले विषये इच्छाभिलाषः प्रतिकूले द्वेषः ताभ्यां समुत्थः समुद्भूतो यो द्वन्द्वो मानापमानयोः शीतोष्णाद्याः सुख-दुःखयोः स्त्री-पुंसयोर् मोहः - अहं सम्मानितः सुखी, अहम् अवमानितो दुःखी । ममेयं स्त्री, ममायं पुरुसः इत्य् आद्याकारक आविद्यको यो मोहस् तेन सम्मोहं स्त्री-पुत्रादिष्व् अत्यन्तासक्तिं प्राप्नुवन्ति । अतएवात्यन्तासक्तानां न मद्-भक्ताव् अधिकारः । यद् उद्धवं प्रति मयैव वक्ष्यते -
यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् ।
न निर्विण्णो नाति-सक्तो भक्ति-योगो ऽस्य सिद्धि-दः ॥ [भ्प् ११।२०।८] इति ।
बलदेवः - त्वज्-ज्ञानी कुतः सुदुर्लभस् तत्राह इच्छेति । सर्गे स्वोत्पत्ति-काले एव सर्व-भूतानि सम्मोहं यान्ति । केनेत्य् आह द्वन्द्व-मोहेनेति । मानापमानयोः सुख-दुःखयोः स्त्री-पुरुषयोर् द्वन्द्वैर् यो मोहः सत्-कृतो ऽहं सुखी स्याम् असत्-कृतस् तु दुःखी ममेयं पत्नी ममायं पतिर् इत्य् एवम् अभिनिवेश-लक्षणस् तेनेत्य् अर्थः । कीदृशेनेत्य् आह इच्छेति पूर्व-जन्मनि यत्र यत्र याव् इच्छा-द्वेषाव् अभूतां ताभ्यां संस्कारात्मना स्थिताभ्यां समुत्तिष्ठति पर-जन्मनि तत्र तत्रोत्पद्यत इत्य् अर्थः । इच्छा रागः । एवं सर्वेषां भूतानां सम्मूढत्वान् मज्-ज्ञानी सुदुर्लभः ॥२७॥
७।२८
येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् ।
ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढ-व्रताः ॥२८॥
श्रीधरः - कुतस् तर्हि केचन त्वां भजन्तो दृश्यन्ते ? तत्राह येषाम् इति । येषां तु पुण्य-चरण-शीलानां सर्व-प्रतिबन्धकं पापम् अन्त-गतं नष्टं ते द्वन्द्व-निमित्तेन मोहेन निर्मुक्ता दृढ-व्रता एकान्तिनः सन्तो भजन्ते ॥२८॥
मधुसूदनः - यदि सर्व-भूतानि सम्मोहं यान्ति, कथं तर्हि चतुर्-विधा भजन्ते माम् इत्य् उक्तम् ? सत्यम्, सुकृतातिशयेन तेषां क्षीण-पापत्वाद् इत्य् आह येषाम् इति । येषां त्व् इतर-लोक-विलक्षणानां जनानां सफल-जन्मनां पुण्य-कर्मणाम् अनेक-जन्मसु पुण्याचरण-शीलानां तैस् तैः पुण्यैः कर्मभिर् ज्ञान-प्रतिबन्धकं पापम् अन्तगतम् अन्तम् अवसानं प्राप्तं ते पापाभावेन तन्-निमित्तेन द्वन्द्व-मोहेन राग-द्वेषादि-निबन्धन-विपर्यासेन स्वत एव निर्मुक्ताः पुनर् आवृत्त्य्-अयोग्यत्वेन त्यक्ता दृढ-व्रता अचाल्य-सङ्कल्पाः सर्वथा भगवान् एव भज्नीयः स चैवं-रूप एवेति प्रमाण-जनिताप्रामाण्य-शङ्का-शून्य-विज्ञानाः सन्तो मां परमात्मानं भजन्ते ऽनन्य-शरणाः सन्तः सेवन्ते एतादृशा एव चतुर्-विधा भजन्ते
मां इत्य् अत्र सुकृति-शब्देनोक्ताः । अतः सर्व-भूतानि सम्मोहं यान्तीत्य् उत्सर्गः । तेषां मध्ये ये सुकृतिनस् ते सम्मोह-शून्या मां भजन्त इत्य् अपवाद इति न विरोधः । अयम् एवोत्सर्गः प्राग् अपि प्रतिपादितस् त्रिभिर् गुणमयैर् भावैर् इत्य् अत्र । तस्मात् सर्त्त्व-शोधक-पुण्य-कर्म-सञ्चाय सर्वदा यतनीयम् इति भावः ॥२८॥
विश्वनाथः – तर्हि केषां भक्ताव् अधिकार इत्य् अत आह येषां पुण्य-कर्मणां पापं त्वं तु गतम् अन्त-कालं प्रान्तं नश्यद्-अवस्थम्, न तु सम्यक् नष्टम् इत्य् अर्थः । तेषां सत्त्व-गुणोद्रेके सति तमो-गुण-ह्रासः । तस्मिन् सति तत्-कार्यो मोहो ऽपि ह्रसति । मोह-ह्रासे सति ते खलु अत्यासक्ति-रहिता यादृच्छिक-मद्-भक्त-सङ्गेन भजन्ते मात्रम् । ये तु भजनाद्य्-अभ्यासतः सम्यक् नष्ट-पापास् ते मोहेन निःशेषेण मुक्ता दृढ-व्रताः प्राप्त-निष्ठाः सन्तो मां भजन्ते । न चैवं पुण्य-कर्मैव सर्व-विधयोः भक्तेः कारणम् इति मन्तव्यम् ।
यं न योगेन साङ्ख्येन दान-व्रत-तपो- ऽध्वरैः ।
व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [भ्प् ११।१२।९]
इति भगवद्-उक्तेः । केवल-भक्ति-योगस्य पुण्यादि-कर्माश्रयं नैव कारणम् इति बहुशः प्रतिपादनात् ॥२८॥
बलदेवः - ननु केषाञ्चित् त्वद्-भक्तिः प्रतीयते सा न स्यात् । सर्व-भूतानि सर्गे सम्मोहं यान्तीत्य् उक्तेर् इति चेत् तत्राह येषां प्राणिनां यादृच्छिक-महत्तम-दृष्टि-पातात् पापम् अन्त-गतं नाशं प्राप्तम् अभूत् विष्णोर् भूतानि भूतानां पावनाय चरन्ति हि [भ्प् ११।२।२८] इति स्मृतेः । कीदृशानाम् इत्य् आह पुण्येति । पुण्यं मनोज्ञं कर्म महत्तम-वीक्षण-रूपं येषां पुण्यं तु चार्व् अपि इत्य् अमरः । ते दृढ-व्रता महत्-प्रसङ्ग-प्राप्त-निष्ठा द्वन्द्व-मोहेन निर्मुक्ता मत्-तत्त्व-ज्ञाः सन्तो मां भजन्ते ॥२८॥
७।२९
जरा-मरण-मोक्षाय माम् आश्रित्य यतन्ति ये ।
ते ब्रह्म तद् विदुः कृत्स्नम् अध्यात्मं कर्म चाखिलम् ॥२९॥
श्रीधरः - एवं च मां भजन्तः सर्वं विज्ञेयं विज्ञाय कृतार्थाः भवन्तीत्य् आह जरेति । जरामरणयोर् मोक्षाय निरसनार्थं माम् आश्रित्य ये प्रयतन्ते ते तत् परं ब्रह्म विदुः । कृत्स्नम् अध्यात्मं च विदुः । येन तत् प्राप्तव्यं तं देहादि-व्यतिरिक्तं शुद्धम् आत्मानं च जानन्तीत्य् अर्थः । तत्-साधन-भूतम् अखिलं स-रहस्यं कर्म च जानन्तीत्य् अर्थः ॥२९॥
मधुसूदनः - अथेदानीम् अर्जुनस्य प्रश्यन् उत्थापयितुं सूत्र-भूतौ श्लोकाव् उच्येते । अनयोर् एव वृत्ति-स्थानीय उत्तरो ऽध्यायो भविष्यति जरेति । ये संसार-दुःखान् निर्विण्णा जरा-मरणयोर् मोक्षाय जरा-मरणादि-विविध-दुःसह-संसार-दुःख-निरासाय तद्-एक-हेतुं मां स-गुणं भगवन्तम् आश्रित्येतर-सर्व-वैमुख्येन शरणं गत्वा यतन्ति यतन्ते मद्-अर्पितानि फलाभिसन्धि-शून्यानि विहितानि कर्माणि कुर्वन्ति ते क्रमेण शुद्धान्तः-करणाः सन्तस् तज्-जगत्-कारणं मायाधिष्ठानं शुद्धं परं ब्रह्म निर्गुणं तत्-पद-लक्ष्यं मां विदुः । कर्म च तद्-उभय-वेदन-साधनं गुरूपसदन-श्रवण-मननआद्य्-अखिलं निरवशेष्ं फलाव्यभिचारि विदुर् जानन्तीत्य् अर्थः ॥२९॥
विश्वनाथः - तद् एवम् आर्ताद्यास् त्रयः सकामा मां भजन्तः कृतार्था भवन्तीति । देवतान्तरं भजन्तस् तु च्यवन्त इत्य् उक्त्वा स्वस्याभजने ऽप्य् अधिकारिणश् चोक्ता भगवता । इदानीम् अन्यः स-कामः चतुर्थो ऽपि मद्-भक्तो ऽस्तीत्य् आह जरेति । जरामरणयोर् मोक्षाय नाशाय ये योगिनो यतन्ति यतन्ते । ये मोक्ष-कामा मां भजन्तीति फलितो ऽर्थः । ते तं प्रसिद्धं ब्रह्म तथा कृत्स्नम् आत्मानं देहम् अधिकृत्य भोक्तृतया वर्तमानम् अध्यात्मं जीवात्मानम् अखिलं कर्म च नाना-विध-कर्म-जन्यं जीवस्य संसारं च मद्-भक्ति-प्रभावाद् एव विदुर् जानन्ति ॥२९॥
बलदेवः – तद् एवम् आर्तादयः स-कामा मद्-भक्ताः कामान् अनुभूयान्ते मां प्रपद्य विन्दन्ति मद्-अन्य-देव-भक्तास् तु संसरन्तीत्य् उक्तम् । अथ तेभ्यो ऽन्यो ऽपि स-कामो मद्-भक्तो ऽस्तीत्य् उच्यते जरेति । ये जरा-मरणाभ्यां विमोक्षाय तन्-मात्र-कामाः सन्तो माम् आश्रित्य मद्-अर्चां सेवित्वा यतन्ते । तत्-प्रणामादि कुर्वन्ति । ते तत् प्रसिद्धं ब्रह्म कृत्स्नं स-परिकरं विदुर् अध्यात्मं चाखिलं कर्म च विदुः । ब्रह्मादि-शब्दानाम् अधिभूतादि-शब्दानां चार्थाः परस्मिन्न् अध्याये भगवतैव व्याख्यास्यन्ते । मद्-अर्चा-सेवया विज्ञेयं विज्ञाय मुक्तिं लभन्ते, न तु मद्-वश्यता-करीं मत्-प्रियताम् इत्य् अर्थः । स्मृतिश् चैवम् आह सकृद् यद् अङ्ग प्रत्मान्त-रहिता मोन-मयीं भागवतीं ददौ गतिम् इत्य् आद्या ॥२९॥
७।३०
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाण-काले ऽपि च मां ते विदुर् युक्त-चेतसः ॥३०॥
श्रीधरः - न चैवं-भूतानां योग-भ्रंश-शङ्कापीत्य् आह साधिभूतेति । अधिभूतादि-शब्दानाम् अर्थं श्री-भगवान् एवोत्तराध्याये व्याख्यास्यति । अधिभूतेनाधिदैवेन च सहाधियज्ञेन च सह मां ये जानन्ति ते युक्त-चेतसो मय्य् आसक्त-मनसः प्रयाण-काले ऽपि मरण-समये ऽपि मां विदुर् जानन्ति । न तु तद् अपि व्याकुलीभूय मां विस्मरन्ति । अतो मद्-भक्तानां न योग-भ्रंश-शङ्केति भावः ॥३०॥
कृष्ण-भक्तैर् अयत्नेन ब्रह्म-ज्ञानम् अवाप्यते ।
इति विज्ञान-योगार्थं सप्तमे सम्प्रकाशितम् ॥
इति श्री-श्रीधर-स्वामिकृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
विज्ञान-योगो नाम सप्तमो ऽध्यायः
॥७॥
मधुसूदनः - न चैवं-भूतानां मद्-भक्तानां मृत्यु-काले ऽपि विवश-करणतया मद्-विस्मरणं शङ्कनीयम्, यतः साधिभूताधिदैवम् अधिभूतादिदैवाभ्यां सहितं तथा साधियज्ञं चाधियज्ञेन च सहितं मां ये विदुश् चिन्तयन्ति ते युक्त-चेतसः सर्वदा मयि समाहित-चेतसः सन्तस् तत्-संस्कार-पाटवात् प्रयाण-काले प्राणोत्क्रमण-काले करण-ग्रामस्यात्यन्त-व्यग्रतायाम् अपि । च-काराद् अयत्नेनैव मत्-कृपया मां सर्वात्मानं विदुर् जानन्ति । तेषां मृति-काले ऽपि मद्-आकारैव चित्त-वृत्तिः पूर्वोपचित-संस्कार-पाटवाद् भवति । तथा च ते मद्-भक्ति-योगात् कृतार्था एवेति भावः ।
अधिभूताधिदैवाधियज्ञ-शब्दानुत्तरे ऽध्याये ऽर्जुन-प्रश्न-पूर्वकं व्याख्यास्यति भगवान् इति सर्वम् अनाविलम् । तद् अत्रोत्तमाधिकारिणं प्रति ज्ञेयं मध्यमाधिकारिणं प्रति च ध्येयं लक्षणया मुख्यया च वृत्त्या तत्-पद-प्रतिपाद्यं ब्रह्म निरूपितम् ॥३०॥
इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् अधिकारि-भेदेन ज्ञेय-ध्येय-प्रतिपाद्य-तत्त्व-ब्रह्म-निरूपणं नाम
सप्तमो ऽध्यायः ॥७॥
विश्वनाथः — मद्-भक्ति-प्रभावाद् येषाम् ईदृशं मज्-ज्ञानं स्यात् तेषाम् अन्त-काले ऽपि तद् एव ज्ञानं स्यात् । न त्व् अन्येषाम् इव कर्मोपस्थापिता भावि-देह-प्राप्त्य्-अनुरूपा मतिर् इत्य् आह साधिभूतेति । अधिभूतादयो ऽग्रिमाध्याये व्याख्यास्यन्ते । भक्ता एव हरेस् तत्त्व-विदो मायां तरन्ति, ते चोक्ताः षड्-विधा अत्रेत्य् अध्यायार्थो निरूपितः ॥३०॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतासु सप्तमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥७॥
बलदेवः - न च तत्-सेवया प्राप्तं तज्-ज्ञानं कदाचिद् अपि भ्रंशेत्य् आह साधीति । अधिभूतेनाधिदैवेनाधियज्ञेन च सहितं मां ये विदुः सत्-प्रसङ्गाज् जानन्ति, ते प्रयाण-काले मृत्यु-समये ऽपि मां विदुर् न तु तद्-अन्यवद् व्यग्राः सन्तो मां विस्मरन्तीत्य् अर्थः ॥३०॥
मां विदुस् तत्त्वतो भक्ता मन्-मायाम् उत्तरन्ति ते ।
ते पुनः पञ्चधेत्य् एष सप्तमस्य विनिर्णयः ॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये सप्तमो ऽध्यायः ।
॥७॥