६।१
अनाश्रितः कर्म-फलं कार्यं कर्म करोति यः ।
स सन्न्यासी च योगी च न निरग्निर् न चाक्रियः ॥१॥
श्रीधरः :
चित्ते शुद्धे ऽपि न ध्यानं विना सन्न्यास-मात्रतः ।
मुक्तिः स्याद् इति षष्ठे ऽस्मिन् ध्यान-योगो वितन्वते ॥
पूर्वाध्याये सङ्क्षेपेणोक्तं योगं प्रपञ्चयितुं षष्ठाध्यायारम्भः । तत्र तावत् सर्व-कर्माणि मनसा सन्न्यस्य [गीता ५।१३] इत्य् आरभ्य सन्न्यास-पूर्विकाया ज्ञान-निष्ठायास् तात्पर्येनाभिधानाद् दुःख-रूपत्वाच् च कर्मणः सहसा सन्न्यासातिप्रसङ्गं प्राप्तं वारयितुं सन्न्यासाद् अपि श्रेष्ठत्वेन कर्म-योगं स्तौति अनाश्रित इति द्वाभ्याम् । कर्म-फलम् अनाश्रितो ऽनपेक्षमाणः सन्न् अवश्य-कार्यतया विहितं कर्म यः करोति, स एव सन्न्यासी योगी च न तु निरग्निर् अग्नि-साध्येष्टाख्य-कर्म-त्यागी । न चाक्रियो ऽनग्नि-साध्य-पूर्ताख्य-कर्म-त्यागी ॥१॥
मधुसूदनः :
योग-सूत्रं त्रिभिः श्लोकैः पञ्चमान्ते यद् ईरितम् ।
षष्ठस् त्व् आरभ्यते ऽध्यायस् तद्-व्याख्यानाय विस्तरात् ॥
तत्र सर्व-कर्म-त्यागेन योगं विधास्यंस् त्याज्यत्वेन हीनत्वम् आशङ्क्य कर्म-योगं स्तौति अनाश्रित इति द्वाभ्याम् । कर्मणां फलम् आश्रितो ऽनपेक्षमाणः फलाभिसन्धि-रहितः सन् कार्यं कर्तव्यतया शास्त्रेण विहितं नित्यम् अग्निहोत्रादि कर्म करोति यः स कर्म्य् अपि सन् सन्न्यासी च योगी चेति स्तूयते ।
सन्न्यासो हि थ्यागः । चित्त-गत-विक्षेपाभावश् च योगः । तौ चास्य विद्येते फल-त्यागात् फल-तृष्णा-रूप-चित्त-विक्षेपाभावाच् च । कर्म-फल-तृष्णा-त्याग एवात्र गौण्या वृत्त्या सन्न्यास-योग-शब्दाभ्याम् अभिधीयते सकामानपेक्ष्य प्राशस्त्य-कथनाय । अवश्यम्भाविनौ हि निष्काम-कर्मानुष्ठातुर् मुख्यौ सन्न्यास-योगौ । तस्माद् अयं यद्यपि न निरग्निर् अग्नि-साध्य-श्रौत-कर्म-त्यागी न भवति, न चाक्रियो ऽग्नि-निरपेक्ष-स्मार्त-क्रिया-त्यागी च न भवति । तथापि सन्न्यासी योगी चेति मन्तव्यः ।
अथवा न निरग्निर् न चाक्रियः सन्न्यासी योगी चेति मन्तव्यः । किन्तु साग्निः सक्रियश् च निष्काम-कर्मानुष्ठायी सन्न्यासी योगी चेति मन्तव्य इति स्तूयते । अपशवो वा अन्ये गो-अश्वेभ्यः पशवो गो-अश्वान् इत्य् अत्रेव प्रशंसा-लक्षणया नञ्-अन्वयोपपत्तिः । अत्र चाक्रिय इत्य् अनेनैव सर्व-कर्म-सन्न्यासिनि लब्धे निरग्निर् इति व्यर्थं स्याद् इत्य् अग्नि-शब्देन सर्वाणि कर्माण्य् उपलक्ष्य निरग्निर् इति सन्न्यासी क्रिया-शब्देन चित्त-वृत्तीर् उपलक्ष्याक्रिय इति निरुद्ध-चित्त-वृत्तिर् योगी च कथ्यते । तेन न निरग्निः सन्न्यासी मन्तव्यो न चाक्रियो योगी मन्तव्य इति यथा-सङ्ख्यम् उभय-व्यतिरेको दर्शनीयः । एवं सति नञ्-द्वयम् अप्य् उपपन्नम् इति द्रष्टव्यम् ॥१॥
विश्वनाथः :
षष्ठेषु योगिनो योग-प्रकार-विजितात्मनः ।
मनसश् चञ्चलस्यापि नैश्चल्योपाय उच्यते ॥
अष्टाङ्ग-योगाभ्यासे प्रवृत्तेनापि चित्त-शोधकं निष्काम-कर्म न त्याज्यम् इत्य् आह कर्म-फलम् आश्रितो ऽनपेक्षमाणः कार्यम् अवश्य-कर्तव्यत्वेन शास्त्र-विहितं कर्म यः करोति, स एव कर्म-फल-सन्न्यासात् सन्न्यासी, स एव विषय-भोगेषु चित्ताभावाद् योगी चोच्यते । न च निरग्निर् अग्निहोत्रादि-कर्म-मात्र-त्यागवान् एव सन्न्यास्य् उच्यते । न चाक्रियो न दैहिक-चेष्टा-शून्यो ऽर्ध-निमीलित-नेत्र एव योगी चोच्यते ॥१॥
बलदेवः :
षष्ठे योग-विधिः कर्म-शुद्धस्य विजितात्मनः ।
स्थैर्योपायश् च मनसो ऽस्थिरस्यापीति कीर्त्यते ॥
प्रोक्तं कर्म-योगम् अष्टाङ्ग-योग-शिरस्कम् उपदेक्ष्यन्न् आदौ तौ तद्-उपायत्वात् तं कर्म-योगम् स्तौति भगवान् अनाश्रित इति द्वाभ्याम् । कर्म-फलम् पश्व्-अन्न-पुत्र-स्वर्गादि-कामनाश्रितो ऽनिच्छन् कार्यम् अवश्य-कर्तव्यतया विहितं कर्म यः करोति, स सन्न्यासी ज्ञान-योग-निष्ठः, योगी चाष्टाङ्ग-योग-निष्ठः स एव । कर्म-योगेनैव तयोः सिद्धिर् इति भावः । न निरग्निर् अग्निहोत्रादि-कर्म-त्यागी यति-वेशः सन्न्यासी न चाक्रियः शरीर-कर्म-त्यागी अर्ध-मुद्रित-नेत्रो योगी । अत्र योगम् अष्टाङ्गं चिकीर्षूणां सहसा कर्म न त्याज्यम् इति मतम् ॥१॥
६।२
यं सन्न्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव ।
न ह्य् असन्न्यस्त-सङ्कल्पो योगी भवति कश्चन ॥२॥
श्रीधरः : कुत इत्य् अपेक्षायां कर्म-योगस्यैव सन्न्यासत्वं प्रतिपादयन्न् आह यम् इति । सन्न्यासम् इति प्राहुः प्रकर्षेण श्रेष्ठत्वेनाहुः । न्यास एवात्य् अरेचयत् इत्य् आदि श्रुतेः । केवलात् फल-सन्न्यसनाद् धेतोर् योगम् एव तं जानीहि । कुत इत्य् अपेक्षायाम् इति शब्दोक्तो हेतुर् योगे ऽप्य् अस्तीत्य् आह न हीति । न सन्न्यस्तः फल-सङ्कल्पो येन स कर्म-निष्ठो ज्ञान-निष्ठो वा कश्चिद् अपि न हि योगी भवति । अतः फल-सङ्कल्प-त्याग-साम्यात् सन्न्यासी च फल-सङ्कल्प-त्यागाद् एव चित्त-विक्षेपाभावाद् योगी च भवत्य् एव स इत्य् अर्थः ॥२॥
मधुसूदनः : असन्न्यासे ऽपि सन्न्यास-शब्द-प्रयोगे निमित्त-भूतं गुण-योगं दर्शयितुम् आह यं सन्न्यासम् इति । यं सर्व-कर्म-तत्-फल-परित्यागं सन्न्यासम् इति प्राहुः श्रुतयः न्यास एवात्य् अरेचयत्, ब्राह्मणाः पुअत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षा-चर्यं चरन्ति इत्य् आद्याः । योगं फल-तृष्णा-कर्तृत्वाभिमानयोः परित्यागेन विहित-कर्मानुष्ठानं तं सन्न्यासं विद्धि हे पाण्डव । अब्रह्म-दत्तं ब्रह्म-दत्तम् इत्य् आह तं वयं मन्यामहे ब्रह्म-दत्त-सदृशो ऽयम् इति न्यायात् पर-शब्दः परत्र प्रयुज्यमानः सादृश्यं बोधयति गौण्या वृत्त्या तद्-भावारोपेण वा । प्रकृते तु किं सादृश्यम् ? इति तद् आह नहीति । हि यस्माद् असन्न्यस्त-सङ्कल्पो ऽत्यक्त-फल-सङ्कल्पः कश्चन कश्चिद् अपि
योगी न भवति । अपि तु सर्वो योगी त्यक्त-फल-सङ्कल्प एव भवतीति फल-त्याग-साम्यात् तृष्णा-रूप-वित्त-वृत्ति-निरोध-साम्याच् च गौण्या वृत्त्या कर्म्य् एव सन्न्यासी च योगी च भवतीत्य् अर्थः । तथा हि - योगश् चित्त-वृत्ति-निरोधः [योगस् १।२] प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृतय [योगस् १।६] इति वृत्तयः पञ्च-विधाः । तत्र प्रत्यक्षानुमान-शास्त्रोपमानार्थापत्त्य्-अभावाख्यानि प्रमाणानि षड् इति वैदिकाः । प्रत्यक्षानुमानागमाः प्रमाणानि [योगस् १।७] त्रीणीति योगाः । अन्तर्भाव-बहिर्-भावाभ्यां सङ्कोच-विकासौ द्रष्टव्यौ । अतएव तार्किकादीनां मत-भेदाः । विपर्ययो मिथ्या-ज्ञानम् तस्य पञ्च भेदा अविद्यास्मिता-राग-द्वेषाभिनिवेशः [योगस् २।३] त एव च क्लेशाः । शब्द-ज्ञानानुपाती वस्तु-शून्यो विकल्पः [योगस् १।९] प्रमा-भ्रम-विलक्षणो
ऽसद्-अर्थ-व्यवहारः शश-विषाणम् असत्-पुरुषस्य चतन्यम् इत्य् आदिः । अभाव-प्रत्ययालम्बना वृत्तिर् निद्रा [योगस् १।१०] न तु ज्ञानाद्य्-अभाव-मात्रम् इत्य् अर्थः । अनुभूत-विषयासम्प्रमोषः स्मृतिः [योगस् १।११] पूर्वानुभव-संस्कारजं ज्ञानम् इत्य् अर्थः । सर्व-वृत्ति-जन्यत्वाद् अन्ते कथनम् । लज्जादि-वृत्तीनाम् अपि आञ्चस्व् एवान्तर्भावो द्रष्टव्यः । एतादृशां सर्वासां चित्त-वृत्तीनां नोरोधो योग इति च समाधिर् इति च कथ्यते । फल-सङ्कल्पस् तु रागाख्यस् तृतीयो विपर्यय-भेदस् तन्-निरोध-मात्रम् अपि गौण्या वृत्त्या योग इति सन्न्यास इति चोच्यत इति न विरोधः ॥२॥
विश्वनाथः : कर्म-फल-त्याग एव सन्न्यास-शब्दार्थः । वस्तुतस् तथा विषयेभ्यश् चित्त-नैश्चल्यम् एव योग-शब्दार्थः । तस्मात् सन्न्यास-योग-शब्दयोर् ऐक्यार्थम् एवागतम् इत्य् आह यम् इति । असन्न्यस्तो न सन्न्यस्तस् त्यक्तः सङ्कल्पः फलाकाङ्क्षा विषय-भोग-स्पृहा येन सः ॥२॥
बलदेवः : ननु सर्वेन्द्रिय-वृत्ति-विरति-रूपायां ज्ञान-निष्ठायां सन्न्यास-शब्दश् चित्त-वृत्ति-निरोधे योग-शब्दश् च पठ्यते । स च सर्वेन्द्रिय-व्यापारात्मके कर्म-योगे स सन्न्यासी च योगी चेति ब्रुवता भवता कया वृत्त्या नीयत इति चेत् तत्राह यम् इति । यं कर्म-योगम् अर्थ-तात्पर्य-ज्ञाः सन्न्यास्ं प्राहुस् तम् एव तं योगम् अष्टाङ्गं विद्धि । हे पाण्डव !
ननु सिंहो मानवकः इत्य् आदौ शौर्यादि-गुण-सादृश्येन तथा प्रयोगः । प्रकृतेः किं सादृश्यम् इति चेत् तत्राह न हीति । असन्न्यस्त-सङ्कल्पः कश्चन कश्चिद् ज्ञान-योग्य् अष्टाङ्ग-योगी च न भवत्य् अपि तु सन्न्यस्त-सङ्कल्प एव भवतीत्य् अर्थः । सन्न्यस्तः परित्यक्तः सङ्कल्पः फलेच्छा च येन सः । तथा फल-त्याग-सादृश्यात् तृष्णा-रूप-चित्त-वृत्ति-निरोध-सादृश्याच् च कर्म-योगिनस् तद्-उभयत्वेन प्रयोगो गौण-वृत्त्येति ॥२॥
६।३
आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।
योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥३॥
श्रीधरः : तर्हि यावज्-जीवं कर्म-योग एव प्राप्त इत्य् आशङ्क्य तस्यावधिम् आह आरुरुक्षोर् इति । ज्ञान-योगम् आरोढुं प्रातुम् इच्छोः पुंसस् तद्-आरोहे कारणं कर्मोच्यते । चित्त-शुद्धि-करत्वात् । ज्ञान-योगम् आरूढस्य तु तस्यैव ध्यान-निष्ठस्य शमः समाधिश् चित्त-विक्षेपक-कर्मोपरमो ज्ञान-परिपाके कारणम् उच्यते ॥३॥
मधुसूदनः : तत् किं प्रशस्तत्वात् कर्म-योग एव यावज्-जीवम् अनुष्ठेय इति नेत्य् आह आरुरुक्षोर् इति । योगम् अन्तः-करण-शुद्धि-रूपं वैराग्यम् आरुरुक्षोर् आरोढुम् इच्छोर् न त्वारूढस्य मुनेर् भविष्यतः कर्म-फल-तृष्णा-त्यागिनः कर्म शास्त्र-विहितम् अग्निहोत्रादि नित्यं भगवद्-अर्पण-बुद्ध्या कृतं कारणं योगारोहणे साधनम् अनुष्ठेयम् उच्यते वेद-मुखेन मया । योगारूढस्य योगम् अन्तः-करण-शुद्धि-रूपं वैराग्यं प्राप्तवतस् तु तस्यैव पूर्वं कर्मिणो ऽपि सतः शमः सर्व-कर्म-सन्न्यास एव कारणम् अनुष्ठेयतया ज्ञान-परिपाक-साधनम् उच्यते ॥३॥
विश्वनाथः : ननु तर्ह्य् अष्टाङ्ग-योगिनो यावज्-जीवम् एव निष्काम-कर्म-योगः प्राप्त इत्य् आशङ्क्य तस्यावधिम् आह आरुरुक्षोर् इति । मुनेर् योगाभ्यासिनो योगं निश्चल-ध्यान-योगम् आरोढुं इच्छोस् तद्-आरोहे कारणं कर्म चोच्यते चित्त-शुद्धि-करत्वात् । ततस् तस्य योगं ध्यान-योगम् आरूढस्य ध्यान-निष्ठा-प्राप्तः शमः विक्षेपक-सर्व-कर्मोपरमः कारणम् । तद् एवं सम्यक्-चित्त-शुद्धि-रहितो योगारुरुक्षुः ॥३॥
बलदेवः : नन्व् एवम् अष्टाङ्ग-योगिनो यावज् जीवं कर्मानुष्ठानं प्राप्तम् इति चेत् तत्राह आरुरुक्षोर् इति । मुनेर् योगाभ्यासिनो योगं ध्यान-निष्ठाम् आरुरुक्षोस् तद्-आरोहे कर्म कारणं हृद्-विशुद्धि-कृत्त्वात् । तस्यैव योगारूढस्य ध्यान-निष्ठस्य तद्-दाढ्ये शमो विक्षेपक-कर्मोपरतिः कारणम् ॥३॥
६।४
यदा हि नेन्द्रियार्थेषु न कर्मस्व् अनुषज्जते ।
सर्व-सङ्कल्प-सन्न्यासी योगारूढस् तदोच्यते ॥४॥
श्रीधरः : कीदृशो ऽयं योगारूढो यस्य शमः कारणम् उच्यत इति ? अत्राह यदेति । इन्द्रियार्थेष्व् इन्द्रिय-भोग्येषु शब्दादिशु तत्-साधनेषु च कर्मसु यदा नानुषज्जते आसक्तिं न करोति । तत्र हेतुः आसक्ति-मूल-भूतान् सर्वा भोग-विषयान् कर्म-विषयांश् च सङ्कल्पान् सन्न्यसितुं त्यक्तुं शीलं यस्य सः । तदा योगारूढ उच्यते ॥४॥
मधुसूदनः : कदा योगारूढो भवतीत्य् उच्यते यदेति । यदा यस्मिंश् चित्त-समाधान-काल इन्द्रियार्थेषु शब्दादिशु कर्मसु च नित्य-नैमित्तिक-काम्य-लौकिक-प्रतिषिद्धेषु नानुषज्जते तेषां मिथ्यात्व-दर्शनेनात्मनो ऽकर्त्र्-अभोक्तृ-परमाननदाद्वय-स्वरूप-दर्शनेन च प्रयोजनाभाव-बुद्ध्याहम् एतेषां कर्ता ममैते भोग्या इत्य् अभिनिवेश-रूपम् अनुषङ्गं न करोति । हि यस्मात् तस्मात् सर्व-सङ्कल्प-सन्न्यासी सर्वेषां सङ्कल्पानाम् इदं मया कर्तव्यम् एतत् फलं भोक्तव्यम् इत्य् एवं रूपाणां मनो-वृत्ति-विशेषाणां तद्-विषयाणां च कामानां तत्-साधनानां च कर्मणां त्याग-शीलः । तदा शब्दादिषु कर्मसु चानुषङ्गस्य तद्-धेतोश् च सङ्कल्पस्य योगारोहण-प्रतिबन्धकस्याभावाद् योगं समाधिम् आरूढो योगारूढ इत्य् उच्यते
॥४॥
विश्वनाथः : सम्यक्-शुद्ध-चित्तस् तु योगारूढस् तज्-ज्ञापकं लक्षणम् आह यदेति । इन्द्रियार्थेषु शब्दादिषु कर्मसु तत्-साधनेषु ॥४॥
बलदेवः : योगारूढत्व-ज्ञापकं चिह्नम् आह यदेति । इन्द्रियार्थेषु शब्दादिषु तत्-साधनेषु कर्मसु च यदात्मानन्द-रसिकः सन् न सज्जते । तत्र हेतुः सर्वेति । सर्वान् भोग-विषयान् कर्म-विषयाश् च सङ्कल्पानासत्तिमूल-भूतान् सन्न्यसितुं परित्यक्तुं शीलं यस्य सः ॥४॥
६।५
उद्धरेद् आत्मनात्मानं नात्मानम् अवसादयेत् ।
आत्मैव ह्य् आत्मनो बन्धुर् आत्मैव रिपुर् आत्मनः ॥५॥
श्रीधरः : अतो विषयासक्ति-त्यागे मोक्षं तद्-आसक्तौ च बन्धं पर्यालोच्य रागादि-स्वभावं त्यजेद् इत्य् आह उद्धरेद् इति । आत्मना विवेक-युक्तेनात्मानं संसाराद् उद्धरेत् । न त्व् अवसादयेद् अधो न नयेत् । हि यत आत्मैव मनः-सङ्गाद्य्-उपरत आत्मनः स्वस्य बन्धुर् उपकारकः । रिपुर् अपकारकश् च ॥५॥
मधुसूदनः : यो यदैवं योगारूढो भवति तदा तेनात्मनैवात्मोद्धृतो भवति संसारानर्थ-व्रातात् । अत उद्धरेद् इति । आत्मना विवेक-युक्तेन मनसात्मानं स्वं जीवं संसार-समुद्रे निमग्नं तत उद्धरेत् । उत् ऊर्ध्वं हरेत् । विषयासङ्ग-परित्यागेन योगारूढताम् आपादयेद् इत्य् अर्थः । न तु विषयासङ्गेनात्मानम् अवसादयेत् संसार-समुद्रे मज्जयेत् । हि यस्माद् आत्मैवात्मनो बन्धुर् हितकारी संसार-बन्धनान् मोचन-हेतुर् नान्यः कश्चिल् लौकिकस्य बन्धोर् अपि स्नेहानुबन्धेन बन्ध-हेतुत्वात् । आत्मैव नान्यः । कश्चित् रिपुः शत्रु-रहित-कारि-विषय-बन्धनागार-प्रवेशात् कोशकार इवात्मनः स्वस्य । बाह्यस्यापि रिपोर् आत्म-प्रयुक्तत्वाद् युक्तम् अवधारणम् आत्मैवअ रिपुर् आत्मन इति ॥५॥
विश्वनाथः : यस्माद् इन्द्रियार्थासक्त्यैवात्मा संसार-कूपे पतितस् तं यत्नेनोद्धरेद् इति । आत्मना विषयासक्ति-रहितेन मनसात्मानं जीवम् उद्धरेत् । विषयासक्ति-सहितेन मनसा त्व् आत्मानं नावसादयेत् न संसार-कूपे पातयेत् । तस्माद् आत्मा मन एव बन्धुर् मन एव रिपुः ॥५॥
बलदेवः : इन्द्रियार्थाद्य्-अनासक्तौ हेतु-भावेनाह उद्धरेद् इति । विषयाद्य्-आसक्त-मनस्कतया संसार-कूपे निमग्नम् आत्मानं जीवम् आत्मना विषयासक्ति-रहितेन मनसा तस्माद् उद्धरेद् ऊर्ध्वं हरेत् । विषयासक्तेन मनसात्मानं नावसादयेत् तत्र न निमज्जयेत् । हि निश्चये नैवम् आत्मैव मन एवात्मनः स्वस्य बन्धुस् तद् एव रिपुः । स्मृतिश् च -
मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः ।
बन्धाय विषयासङ्गो मुक्त्यै निर्विषयं मनः ॥ इति ॥५॥
६।६
बन्धुर् आत्मात्मनस् तस्य येनात्मैवात्मना जितः ।
अनात्मनस् तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥६॥
श्रीधरः : कथम्-भूतस्यात्मैव बन्धुः ? कथम्-भूतस्य चात्मैव रिपुर् इत्य् अपेक्षायाम् आह बन्धुर् इति । येनात्मनैवात्मा कार्य-कारण-सङ्घात-रूपो जितो वशीकृतस्य तथाभूतस्यात्मन आत्मैव बन्धुः । अनात्मनो ऽजितात्मनस् त्व् आत्मैवात्मनः शत्रुत्वे शत्रुवद् अपकार-कारित्वे वर्तेत ॥६॥
मधुसूदनः : इदानीं किं-लक्षण आत्मात्मनो बन्धुः किं-लक्षणो वात्मनो रिपुर् इत्य् उच्यते बन्धुर् इति । आत्मा कार्य-करण-सङ्घातो येन जितः स्व-वशीकृत आत्मनैव विवेक-युक्तेन मनसैव न तु शस्त्रादिना । तस्यात्मा स्वरूपम् आत्मनो बन्धुर् उच्छृङ्खल-स्व-प्रवृत्त्य्-अभावेन स्व-हित-करणात् । अनात्मनस् त्व् अजितात्मन इत्य् एतत् । शत्रुत्वे शत्रु-भावे वर्तेतात्मैव शत्रुवत् । बाह्य-शत्रुर् इवोच्छृङ्खल-प्रवृत्त्या स्वस्य स्वेनानिष्टाचरणात् ॥६॥
विश्वनाथः : कस्य स बन्धुः ? कस्य स रिपुर् इत्य् अपेक्षायाम् आह बन्धुर् इति । येनात्मना जीवेनात्मा मनो जितस् तस्य जीवस्य स आत्मा मनो बन्धुः । अनात्मनो ऽजित-मनसस् त्व् आत्मैव मन एव शत्रुवत् शत्रुत्वे ऽपकारकत्वे वर्तेत ॥६॥
बलदेवः : कीदृशस्य स बन्धुः ? कीदृशस्य स रिपुर् इत्य् अपेक्षायाम् आह बन्धुर् इति । येनात्मना जीवेनात्मा मन एव जितस् तस्य जीवस्य स आत्मा मनो बन्धुस् तद्-उपकारी । अनात्मनो ऽजित-मनसस् तु जीवस्यात्मैव मन एव शत्रुवत् शत्रुत्वे ऽपकारकत्वे वर्तेत ॥६॥
६।७
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्ण-सुख-दुःखेषु तथा मानापमानयोः ॥७॥
श्रीधरः : जितात्मनः स्वस्मिन् बन्धुत्वं स्फुटयति जितात्मन इति । जित आत्मा येन तस्य प्रशान्तस्य रागादि-रहितस्यैव । परं केवलम् आत्मा शीतोष्णादिषु सत्स्व् अपि समाहितः स्वात्म-निष्ठो भवति नान्यस्य । यद् वा तस्य हृदि परमात्मा समाहितः स्थितो भवति ॥७॥
मधुसूदनः : जितात्मनः स्व-बन्धुत्वं विवृणोति जितात्मन इति । शीतोष्ण-सुख-दुःखेषु चित्त-विक्षेप-करेषु सत्स्व् अपि तथा मानापमानयोः पूजा-परिभवयोश् चित्त-विक्षेप-हेत्वोः सतोर् इति तेषु समत्वेनेति वा । जितात्मनः प्राग्-उक्तस्य जितेन्द्रियस्य प्रशान्तस्य सर्वत्र सम-बुद्धया राग-द्वेष-शून्यस्य परमात्मा स्व-प्रकाश-ज्ञान-स्वभाव आत्मा समाहितः समाधि-विषयो योगारूढो भवति । परम् इति वा च्छेदः । जितात्मनः प्रशान्तस्यैव परं केवलम् आत्मा समाहितो भवति नान्यस्य । तस्माज् जितात्मा प्रशान्तश् च भवेद् इत्य् अर्थः ॥७॥
विश्वनाथः : अथ योगारूढस्य चिह्नानि दर्शयति त्रिभिः । जितात्मनो जित-मनसः प्रशान्तस्य रागादि-रहितस्य योगिनः परम् अतिशयेन समाहितः समाधि-स्थ आत्मा भवेत् । शीतादिषु सत्स्व् अपि मानापमानयोः प्राप्तयोर् अपि ॥७॥
बलदेवः : योगारम्भ-योग्याम् अवस्थाम् आह जितेति त्रिभिः । शीतोष्णादिषु मानापमानयोश् च जितात्मनो ऽविकृत-मनसः प्रशान्तस्य रागादि-शून्यस्यात्मा परम् अत्यर्थं समाहितः समाधिस्थो भवति ॥७॥
६।८
ज्ञान-विज्ञान-तृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्य् उच्यते योगी सम-लोष्टाश्म-काञ्चनः ॥८॥
श्रीधरः : योगारूढस्य लक्षणं श्रैष्ठ्यं चोक्तम् उपपाद्य उपसंहरति ज्ञानेति । ज्ञानम् औपदेशिकं विज्ञानम् अपरोक्षानुभवः ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य । अतः कूटस्थो निर्विकारः । अतएव विजितानीन्द्रियाणि येन । अतएव समानि लोष्टादीनि यस्य । मृत्-पिण्ड-पाषाण-सुवर्णेषु हेयोपादेय-बुद्धि-शून्यः । स युक्तो योगारूढ इत्य् उच्यते ॥८॥
मधुसूदनः : किं च ज्ञानेति । ज्ञानं शास्त्रोक्तानां पदार्थानाम् औपदेशिकं ज्ञानं विज्ञानं तद्-अप्रामाण्य-शङ्का-निराकरण-फलेन विचारेण तथैव तेषां स्वानुभवेनापरोक्षीकरणं ताभ्याः तृप्तः सञ्जातालं-प्रत्यय आत्मा चित्तं यस्य स तथा । कूटास्थो विषय-सन्निधाव् अपि विकार-शून्यः । अतएव विजितानि राग-द्वेष-पूर्वकाद् विषय-ग्रहणाद्वयावर्तितानीन्द्रियाणि येन सः । अतएव हेयोपादेय-बुद्धि-शून्यत्वेन समानि मृत्-पिण्ड-पाषाण-काञ्चनानि यस्य सः । योगी परमहंस-परिव्राजकः पर-वैराग्य-युक्तो योगारूढ इत्य् उच्यते ॥८॥
विश्वनाथः : ज्ञानम् औपदेशिकं विज्ञानम् अपरोक्षानुभवस् ताभ्यां तृप्तो निराकाङ्क्ष आत्मा चित्तं यस्य सः । कूटस्थ एकेनैव स्वभावेन सर्व-कालं व्याप्य स्थितः सर्व-वस्तुष्व् अनासक्तत्वात् । समानि लोष्टादीनि यस्य सः । लोष्टं मृत्-पिण्डः ॥८॥
बलदेवः : ज्ञानेति । ज्ञानम् शास्त्रजं विज्ञानम् विविक्तात्मानुभवस् ताभ्यां तृप्तात्मा पूर्ण-मनाः । कूटस्थ एक-स्वभावतया सर्व-कालं स्थितः । अतो विजितेन्द्रियः प्रकृति-विविक्तात्म-मात्र-निष्ठत्वात् । प्राकृतेषु लोष्ट्रादिषु । लोष्टं मृत्-पिण्डः । ईदृशो योगी निष्काम-कर्मी युक्त आत्म-दर्शन-रूप-योगाभ्यास-योग्य उच्यते ॥८॥
६।९
सुहृन्-मित्रार्य्-उदासीन-मध्यस्थ-द्वेष्य-बन्धुषु ।
साधुष्व् अपि च पापेषु सम-बुद्धिर् विशिष्यते ॥९॥
श्रीधरः : सुहृन्-मित्रादिषु सम-बुद्धि-युक्तस् तु ततो ऽपि श्रेष्ठ इत्य् आह सुहृद् इति । सुहृत् स्वभावेनैव हिताशंसी । मित्रं स्नेह-वशेनोपकारकः । अरिर् घातकः । उदासीनो विवदमानयोर् अप्य् उपेक्षकः । मध्य-स्थो विवदमानयोर् उभयोर् अपि हिताशंसी । द्वेष्यो द्वेष-विषयः । बन्धुः सम्बन्धी । साधवः सद्-आचाराः । पापा दुराचाराः । एतेषु समा राग-द्वेषादि-शून्या बुद्धिर् यस्य स तु विशिष्टः ॥९॥
मधुसूदनः : सुहृन्-मित्रादिषु सम-बुद्धिस् तु सर्व-योगि-श्रेष्ठ इत्य् आह सुहृद् इति । सुहृत् प्रत्युपकारम् अनपेक्ष्य पूर्व-स्नेहं सम्बन्धं च विनैवोपकर्ता । मित्रं स्नेहेनोपकारकः । अरिः स्वकृतापकारम् अनपेक्ष्य स्वभाव-क्रौर्येणापकर्ता । उदासीनो विवदमानयोर् उभयोर् अप्य् उपेक्षकः । मध्य-स्थो विवदमानयोर् उभयोर् अपि हितैषी । द्वेष्यः स्व-कृतापकारम् अपेक्ष्यापकर्ता । बन्धुः सम्बन्धेनोपकर्ता । एतेषु साधुषु शास्त्र-विहित-कारिषु पापेषु शास्त्र-प्रतिषिद्ध-कारिष्व् अपि । च-काराद् अन्येषु च सर्वेषु सम-बुद्धिः कः कीदृक्-कर्मेत्य् अव्यापृत-बुद्धिः सर्वत्र राग-द्वेष-शून्यओ विशिष्यते सर्वत्र उत्कृष्टो भवति । विमुच्यते इति वा पाठः ॥९॥
विश्वनाथः : सुहृत् स्वभावेनैव हिताशंसी । मित्रं केनापि स्नेहेन हित-कारी । अरिर् घातकः । उदासीनो विवदमानयोर् उपेक्षकः । मध्य-स्थो विवदमानयोर् विवादापहारार्थी । द्वेष्यो ऽपकारकत्वात् द्वेषार्हः । बन्धुः सम्बन्धी । साधवो धार्मिकाः । पापा अधार्मिकाः । एतेषु सम-बुद्धिस् तु विशिष्यते । सम-लोष्टाश्म-काञ्चनात् सकाशाद् अपि श्रेष्ठः ॥९॥
बलदेवः : सुहृद् इति । यः सुहृद्-आदिषु सम-बुद्धिः, स सम-लोष्टाश्म-काञ्चनाद् अपि योगिनः सकाशाद् विशिष्यते श्रेष्ठो भवति । तत्र सुहृत् स्वभावेन हितेच्छुः । मित्रं केनापि स्नेहेन हित-कृत् । अरिर् निर्मित्रतो ऽनर्थेच्छुः । उदासीनो विवदमानयोर् अनपेक्षकः । मध्य-स्थस् तयोर् विवादापहारार्थी । द्वेषो ऽपकारिकत्वात् द्वेषार्हः । बन्धुः सम्बन्धेन हितेच्छुः । साधवो धार्मिकाः । पापा अधार्मिकाः ॥९॥
६।१०
योगी युञ्जीत सततम् आत्मानं रहसि स्थितः ।
एकाकी यत-चित्तात्मा निराशीर् अपरिग्रहः ॥१०॥
श्रीधरः : एवं योगारूढस्य लक्षणम् उक्त्वेदानीं तस्य साङ्गं योगं विधत्ते योगीत्य् आदिना स योगी परमो मत इत्य् अन्तेन ग्रन्थेन योगीति । योगी योगारूढः । आत्मानं मनः । युञ्जीत समाहितं कुर्यात् । सततं निरन्तरम् । रहस्य् एकान्ते स्थितः सन् । एकाकी सङ्ग-शून्यः । यतं संयतं चित्तम् आत्मा देहश् च यस्य । निराशीर् निराकाङ्क्षः । अपरिग्रहः परिग्रह-शून्यश् च ॥१०॥
मधुसूदनः : एवं योगारूढस्य लक्षणं फलं चोक्त्वा तस्य साङ्गं योगं विधत्ते योगीत्य् आदिभिः स योगी परमो मत इत्य् अन्तैस् त्रयोविंशत्या श्लोकैः । तत्रैवम् उत्तम-फल-प्राप्तये योगीति । योगी योगारूढ आत्मानं चित्तं सततं निरन्तरं युञ्जीत क्षिप्तम् ऊढ-विक्षिप्त-भूमि-परित्यागेनैकाग्र-निरोध-भूमिभ्यां समाहितं कुर्यात् । रहसि गिरि-गुहादौ योग-प्रतिबन्धक-दुर्जनादि-वर्जिते देशे स्थित एकाकी त्यक्त-सर्व-गृह-परिजनः सन्न्यासी । चित्तम् अन्तः-करणम् आत्मा देहश् च संयतौ योग-प्रतिबन्धक-व्यापार-शून्यौ यस्य स यत-चित्तात्मा । यतो निराशीर् वैराग्य-दार्ढ्येन विगत-तृष्णः । अतएव चापरिग्रहः शास्त्राभ्यनुज्ञातेनापि योग-प्रतिबन्धकेन परिग्रहेण शून्यः ॥१०॥
विश्वनाथः : अथ साङ्गं योगं विधत्ते योगीत्य् आदिना स योगी परमो मत इत्य् अतस् तेन । योगी योगारूढ आत्मानं मनो युञ्जीत समाधि-युक्तं कुर्यात् ॥१०॥
बलदेवः : अथ तस्य साङ्गं योगम् उपदिशति योगीत्य् आदि त्रयोविंशत्या । योगी निष्काम-कर्मी । आत्मानं मनः सततम् अहरहर् युञ्जीत समाधि-युक्तं कुर्यात् । रहसि निर्जने निःशब्दे देशे स्थितः । तत्राप्य् एकाकी द्वितीय-शून्यस् तत्रापि यत-चित्तात्मा यतौ योग-प्रतिकूल-व्यापार-वर्जितौ चित्त-देहौ यस्य सः । यतो निराशीर् दृढ-वैराग्यतयेतरत्र निस्पृहः । अपरिग्रहो निराहारः ॥१०॥
६।११-१२
शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥११॥
तत्रैकाग्रं मनः कृत्वा यत-चित्तेन्द्रिय-क्रियः ।
उपविश्यासने युञ्ज्याद् योगम् आत्म-विशुद्धये ॥१२॥
श्रीधरः : आसन-नियमं दर्शयन्न् आह शुचाव् इति द्वाभ्याम् । शुद्धे स्थाने आत्मनः स्वस्य आसनं स्थापयित्वा । कीदृशम् ? स्थिरम् अचलम् । नात्युच्छ्रितं नातीवोन्नतम् । न चातिनीचम् । चेलं वस्त्रम् । अजिनं व्याघ्रादि-चर्म । चेलाजिने कुशेभ्य उत्तरे यस्य । कुशानाम् उपरि चर्म तद् उपरि वस्त्रम् आस्तीर्येतेत्य् अर्थः ॥११॥
तत्रेति । तत्र तस्मिन्न् आसन उपविश्यैकाग्रं विक्षेप-रहितं मनः कृत्वा योगं युञ्ज्याद् अभ्यसेत् । यताः संयताश् चित्तस्येन्द्रियाणां च क्रिया यस्य सः । आत्मनो मनसो विशुद्धय उपशान्तये ॥१२॥
मधुसूदनः : तत्रासन-नियमं दर्शयन्न् आह शुचौ देश इति द्वाभ्याम् । शुचौ स्वभावतः संस्कारतो वा शुद्धे जन-समुदाय-रहिते निर्भये गङ्गा-तट-गुहादौ देशे स्थाने प्रतिष्ठाप्य स्थिरम् निश्चलम् नात्युच्छ्रितं नात्युच्चं नाप्य् अतिनीचम् चैलाजिन-कुशोत्तरं चैलं मृदु-वस्त्रम् अजिनं मृदु-व्याघ्रादि-चर्म ते कुशेभ्य उत्तरे उपरितने यस्मिंस् तत् । आस्यते ऽस्मिन्न् इत्य् आसनं कुशमय-वृष्य्-उपरि मृदु-चर्म तद्-उपरि मृदु-वस्त्र-रूपम् इत्य् अर्थः । तथा चाह भगवान् पतञ्जलिः स्थिर-सुखम् आसनम् इति । आत्मन इति परासन-व्यावृत्त्य्-अर्थं तस्यापि परेच्छा-नियमाभावेन योग-विक्षेप-परत्वात् ॥११॥
एवम् आसनं प्रतिष्ठाप्य किम् कुर्याद् इति तत्राह तत्रैकाग्रम् इति । तत्र तस्मिन्न् आसन उपविश्यैव न तु शयानस् तिष्ठन् वा । आसीनः सम्भवात् इति न्यायेन । यताः संयता उपरताश् चित्तस्येन्द्रियाणां च क्रिया वृत्तयो येन स यत-चित्तेन्द्रिय-क्रियः सन् योगं समाधिं युञ्जीताभ्यसेत् । किम्-अर्थम् ? आत्म-विशुद्धय आत्मनो ऽन्तः-करणस्य सर्व-विक्षेप-शून्यत्वेनातिसूक्ष्मतया ब्रह्म-साक्षात्कार-योग्यतायै । दृश्यते त्व् अग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिः [कठु १।३।१२] इति श्रुतेः ।
किं कृत्वा योगम् अभ्यसेद् इति तत्राह एकाग्रं राजसतामस-व्युत्थानाख्य-प्राग्-उक्त-भूमि-त्रय-परित्यागेनैक-विषयक-धारावाहिकानेक-वृत्ति-युक्तम् उद्रिक्त-सत्त्वं मनः कृत्वा दृढ-भूमिकेन प्रयत्नेन सम्पाद्यैकाग्रता-विवृद्ध्य्-अर्थं योगं सम्प्रज्ञात-समाधिम् अभ्यसेत् । स च ब्रह्माकार-मनो-वृत्ति-प्रवाह एव निदिध्यासनाख्यः । तद् उक्तम् -
ब्रह्माकार-मनो-वृत्ति-प्रवाहो ऽहङ्कृतिं विना ।
सम्प्रज्ञात-समाधिः स्याद् ध्यानाभ्यास-प्रकर्षतः ॥ इति ।
एतद् एवाभिप्रेत्य ध्यानाभ्यास-प्रकर्षं विदधे भगवान् - योगी युञ्जीत सततं [गीता ६।१०] युञ्ज्याद् योगम् आत्म-विशुद्धये [गीता ६।१२] । युक्त आसीत मत्-पर [गीता ६।१४]इत्य् आदि बहु-कृत्वः ॥१२॥
विश्वनाथः : प्रतिष्ठाप्य स्त्थापयित्वा । चेलाजिन-कुशोत्तरम् इति कुशासनोपरि मृग-चर्मासनम् । तद् उपरि वस्त्रासनं निधायेत्य् अर्थः । आत्मनो ऽन्तः-करणस्य विशुद्धत्वे विक्षेप-शून्यत्वेनातिसूक्ष्मतया ब्रह्म-साक्षात्कार-योग्यतायै दृश्यते त्व् अग्र्यया बुद्ध्या [कठु १।३।१२] इति श्रुतेः ॥११-१२॥
बलदेवः : आसनम् आह शुचाव् इति द्वाभ्याम् । शुचौ स्वतः संस्कारतश् च शुद्धे गङ्गा-तट-गिरि-गुहादौ देशे स्थिरं निश्चलम् । नात्युच्छ्रितं नात्युच्चम् । नातिनीचम् दार्वादि-निर्मितम् आसनं प्रतिष्ठाप्य संस्थाप्य । चैलाजिने कुशेभ्य उत्तरे यत्र तत् । चैलं मृदु-वस्त्रम् । अजिनं मृदु-मृगादि-चर्म । कुशोपरि वस्त्रम् आस्तीर्येतेत्य् अर्थः । आत्मन इति परासनस्य व्यावृत्तये परेच्छायौ अनियतत्वेन तस्य योग-प्रतिकूलत्वात् । तत्रेति तस्मिन् प्रतिष्ठापिते आसने उपविश्य, न तु तिष्ठन् शयानो वेत्य् अर्थः । एवम् आह सूत्रकारः – आसीनः सम्भवात् [व्स् ४।१।७] इति । यता निरुद्धाश् चित्तादि-क्रिया यस्य सः मन एकाग्रम् अव्याकुलं कृत्वा योगं युञ्जीत समाधिम् अभ्यसेत् । आत्मनो ऽन्तःकरणस्य विशुद्धये अतिनैर्मल्येन सौक्ष्म्येणात्म-दर्शन-योग्यतायै दृश्यते त्व् अग्र्यया बुद्ध्या
सूक्ष्मया सूक्ष्म-दर्शिभिः [कठु १।३।१२] इति श्रवणात् ॥११-१२॥
६।१३-१४
समं काय-शिरो-ग्रीवं धारयन्न् अचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश् चानवलोकयन् ॥१३॥
प्रशान्तात्मा विगत-भीर् ब्रह्मचारि-व्रते स्थितः ।
मनः संयम्य मच्-चित्तो युक्त आसीत मत्-परः ॥१४॥
श्रीधरः : चित्तैकाग्र्यापयोगिनीं देहाधिकारिणां दर्शयन्न् आह समम् इति द्वाभ्याम् । काय इति देहस्य मध्य-भागो विवक्षितः । कायश् च शिरश् च ग्रीवा च काय-शिरो-ग्रीवम् । मूलाधाराद् आरभ्य मूर्धाग्र-पर्यन्तं समम् अवक्रम् । अचलं निश्चलम् । धारयन् । स्थिरो दृढ-प्रयत्नो भूत्वेत्य् अर्थः । स्वीयं नासिकाग्रं सम्प्रेक्ष्य इत्य् अर्ध-निमीलित-नेत्र इत्य् अर्थः । इतस् ततो दिशश् चानवलोकयन् आसीत इत्य् उत्तरेणान्वयः ॥१३॥
प्रशान्तेति । प्रशान्त आत्मा चित्तं यस्य । विगता भीर् भयं यस्य । ब्रह्मचारि-व्रते ब्रह्मचर्ये स्थितः सन् । मनः संयम्य प्रत्याहृत्य । मय्य् एव चित्तं यस्य । अहम् एव परं पुरुषार्थो यस्य स मत्-परः । एवं युक्तो भूत्वासीत तिष्ठेत् ॥१४॥
मधुसूदनः : तद्-अर्थं बाह्यम् आसनम् उक्त्वाधुना तत्र कथं शरीर-धारणम् इत्य् उच्यते समम् इति । कायः शरीर-मध्यं स च शिरश् च ग्रीवा च काय-शिरो-ग्रीवं मूलाधाराद् आरभ्य मूर्धान्त-पर्यन्तं समम् अवक्रम् अचलम् अकम्पं धारयन्न् एक-तत्त्वाभ्यासेन विक्षेप-सह-भाव्य-अङ्गम् एकयत्त्वाभावं सम्पादयन् स्थिरो दृढ-प्रयत्नो भूत्वा । किं च स्वं स्वीयं नासिकाग्रं सम्प्रेक्ष्यैव लय-विक्षेप-राहित्याय विषय-प्रवृत्ति-रहितो ऽनिमीलित-नेत्र इत्य् अर्थः । दिशश् चानवलोकयन्न् अन्तरान्तरा दिशां चावलोकनम् अकुर्वन् योग-प्रतिबन्धकत्वात् तस्य । एवम्भूतः सन्न् आसीनेत्य् उत्तरेण सम्बन्धः ॥१३॥
किं च प्रशान्तात्मेति । निदान-निवृत्ति-रूपेण प्रकर्षेण शान्तो रागादि-दोष-रहित आत्मान्तःकरणं यस्य स प्रशान्तात्मा शास्त्रीय-निश्चय-दार्ढ्याद् विगता भीः । सर्व-कर्म-परित्यागेन युक्तवायुक्तत्व-शङ्का यस्य स विगत-भीः । ब्रह्मचारि-व्रते ब्रह्मचर्य-गुरु-शुश्रूषा-भिक्षान्न-भोजनादौ स्थितः सन् । मनः संयम्य विषयाकार-वृत्ति-शून्यं कृत्वा । मयि परमेश्वरे प्रत्यक्-चिति स-गुणे निर्गुणे वा चित्तं यस्य स मच्-चित्तो मद्-विषयक-धारावाहिक-चित्त-वृत्तिमान् । पुत्रादौ प्रिये चिन्तनीये सति कथम् एवं स्याद् अत आह मत्-परः । अहम् एव परमानन्द-रूपत्वात् परः पुरुषार्थः प्रियो यस्य स तथा । तद् एतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयो ऽन्यस्मात् सर्वस्माद् अन्तरतरं यद् अयम् आत्मा [बउ १।४।८] इति श्रुतेः । एवं विषयाकार-सर्व-वृत्ति-निरोधेन
भगवद्-एकाकार-चित्त-वृत्ति-युक्तः सम्प्रज्ञात-समाधिमान् आसीतोपविशेद् यथा-शक्ति, न तु स्वेच्छया व्युत्तिष्ठेद् इत्य् अर्थः ।
भवति कश्चिद् रागी स्त्री-चित्तो न तु स्त्रियम् एव परत्वेनाराध्यत्वेन गृह्णाति । किं तर्हि ? राजानं वा देवं वा । अयं तु मच्-चित्तो मत्-परश् च सर्वाराध्यत्वेन माम् एव मन्यत इति भाष्य-कृतां व्याख्या ।
व्याख्यातृत्वे ऽपि मे नात्र भाष्य-कारेण तुल्यता ।
गुञ्जायाः किं नु हेम्नैक-तुलारोहे ऽपि तुल्यता ॥१४॥
विश्वनाथः : कायो देह-मध्य-भागः समम् अवक्रम् अचलं निश्चलं धारयन् कुर्वन् मनः संयम्य प्रत्याहृत्य मच्-चित्तो मां चतुर्भुजं सुन्दराकारं चिन्तयन् । मत्-परो मद्-भक्ति-परायणः ॥१३-१४॥
बलदेवः : आसने तस्मिन्न् उपविष्टस्य शरीर-धारण-विधिम् आह समम् इति । कायो देह-मध्य-भागः । कायश् च शिरश् च ग्रीवा च तेषां समाहारः प्राण्य्-अङ्गत्वात् । समम् अवक्रम् । अचलम् अकम्पम् धारयन् कुर्वन् । स्थिरो दृढ-प्रयत्नो भूत्वा स्व-नासिकाग्रं सम्प्रेक्ष्य सम्पश्यन् मनो-लय-विक्षेप-निवृत्तये भ्रू-मध्य-दृष्टिः सन्न् इत्य् अर्थः । अन्तरान्तरा दिशश् चानवलोकयन् । एवम्भूतः सन्न् आसीतेत्य् उत्तरेण सम्बन्धः । प्रशान्तात्मा अक्षुब्ध-मनाः । विगता भीर् निर्भयः । ब्रह्मचारि-व्रते ब्रह्मचर्ये स्थितः । मनः संयम्य विषयेभ्यः प्रत्याहृत्य । मच्-चित्तश् चतुर्भुजं सुन्दराङ्गं मां चिन्तयन् । मत्-परो मद्-एक-पुरुषार्थः । युक्तो योगी ॥१३-१४॥
६।१५
युञ्जन्न् एवं सदात्मानं योगी नियत-मानसः ।
शान्तिं निर्वाण-परमां मत्-संस्थाम् अधिगच्छति ॥१५॥
श्रीधरः : योगाभ्यास-फलम् आह युञ्जन्न् एवम् इति । एवम् उक्त-प्रकारेण सदात्मानं मनो युञ्जन् समाहितं कुर्वन् । नियतं निरुद्धं मानसं चित्तं यस्य सः । शान्तिं संसारोपरमं प्राप्नोति । कथम्भूतम् ? निर्वाणं परमं प्राप्यं यस्यां ताम् । मत्-संस्थां मद्-रूपेणावस्थिताम् ॥१५॥
मधुसूदनः : एवं सम्प्रज्ञात-समाधिनासीनस्य किं स्याद् इत्य् उच्यते युञ्जन्न् इति । एवं रहो ऽवस्थानादि-पूर्वोक्त-नियमेनात्मानं मनो युञ्जन्न् अभ्यास-वैराग्याभ्यां समाहितं कुर्वन् योगी सदा योगाभ्यास-परो ऽभाय्सातिशयेन नियतं निरुद्धं मानसं मनो येन नियता निरुद्धा मानसा मनो-वृत्ति-रूपा विकारा येनेति वा नियत-मानसः सन्, शान्तिं सर्व-वृत्त्य्-उपरति-रूपां प्रशान्तवाहितां निर्वाण-परमां तत्त्व-साक्षात्कारोत्पत्ति-द्वारेण सकार्याविद्यान्-निवृत्ति-रूप-मुक्ति-पर्यवसायिनीं मत्-संस्थां मत्-स्वरूप-परमानन्द-रूपां निष्ठाम् अधिगच्छति, न तु सांसारिकाण्य् ऐश्वर्याणि अनात्म-विषय-समाधि-फलान्य् अधिगच्छति, तेषाम् अपवर्गोपयोगि-समाध्य्-उपसर्गत्वात् ।
तथा च तत्-तत्-समाधि-फलान्य् उक्त्वाह भगवान् पतञ्जलिः – ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः [योगस् ३।३७] इति, स्थान्य्-उपनिमन्त्रणे सङ्ग-स्मयाकरणं पुनः अनिष्ट-प्रसङ्गात् [योगस् ३।५१] इति च । स्थानिनो देवाः । तथा चोद्दालको देवैर् आमन्त्रितो ऽपि तत्र सङ्गम् आदरं स्मयं गर्वं चाकृत्वा देवान् अवज्ञाय पुनर् अनिष्ट-प्रसङ्ग-निवारणाय निर्विकल्पकम् एव समाधिम् अकरोद् इति वसिष्ठेनोपाख्यायते ।
मुमुक्षुभिर् हेयश् च समाधिः सूत्रितः पतञ्जलिना – वितर्क-विचारानन्दास्मिता-रूपानुगमात् सम्प्रज्ञातः [योगस् १।१७] । सम्यक् संशय-विपर्ययानध्यवसाय-रहितत्वेन प्रज्ञायते प्रकर्षेण विशेष-रूपेण ज्ञायते भाव्यस्य रूपं येन स सम्प्रज्ञातः समाधिर् भावना-विशेषः । भावना हि भाव्यस्य विषयान्तर-परिहारेण चेतसि पुनः पुनर् निवेशनम् । भाव्यं च त्रिविधं ग्राह्य-ग्रहण-ग्रहीतृ-भेदात् । ग्राह्यम् अपि द्विविधं स्थूल-सूक्ष्म-भेदात् । तद् उक्तं – क्षीण-वृत्तेर् अभिजातस्येव मणेर् ग्रहीतृ-ग्रहण-ग्राह्येषु तत्-स्थ-तद्-अञ्जनता-समापत्तिः [योगस् १।४१] । क्षीणा राजस-तामस-वृत्तयो यस्य तस्य चित्तस्य ग्रहीतृ-ग्रहण-ग्राह्येष्व् आत्मेन्द्रिय-विषयेषु तत्-स्थता तत्रैवैकाग्रता । तद्-अञ्जनता तन्-मयता न्यग्-भूते चित्ते भाव्यमानस्य
एवोत्कर्षं इति यावत् । तथा-विधा-समापत्तिस् तद्-रूपः परिणामो भवति । यथाभिजातस्य निर्मलस्य स्फटिक-मणेस् तत्-तद्-उपाश्रय-वशात् तत्-तद्-रूपापत्तिर् एवं निर्मलस्य चित्तस्य तत्-तद्-भावनीय-वस्तूपरागात् तत्-तद्-रूपापत्तिः समापत्तिः समाधिर् इति च पर्यायः । यद्यपि गर्हीतृ-ग्रहण-ग्राह्येष्व् इत्य् उक्तं तथापि भूमिका-क्रम-वशाद् ग्राह्य-ग्रहण-ग्रहीतृष्व् इति बोद्धव्यम् । यतः प्रथमं ग्राह्य-निष्ठ एव समाधिर् भवति ततो ग्रहण-निष्ठस् ततो ग्रहीतृ-निष्ठ इति । ग्रहीत्रादि-क्रमो ऽप्य् अग्रे व्याख्यास्यते ।
तत्र यदा स्थूलं महा-भूतेन्द्रियात्मक-षोडश-विकार-रूपं विषयम् आदाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेखेन च भावना क्रियते तदा स-वितर्कः समाधिः । अस्मिन्न् एवालम्बते पूर्वापरानुसन्धान-शब्दार्थोल्लेख-शून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः । एताव् उभाव् अप्य् अत्र वितर्क-शब्देनोक्तौ । तन्-मात्रान्तः-करण-लक्षणं सूक्ष्मं विषयम् आलम्ब्य तस्य । देश-काल-धर्मावच्छेदेन यदा भावना प्रवर्तते तदा स-विचारः । अस्मिन्न् एवालम्बने देश-काल-धर्मावच्छेदं विना धर्मि-मात्रावभासित्वेन यदा भावना प्रवर्तते तदा निर्विचारः । एताव् उअभाव् अप्य् अत्र विचार-शब्देनोक्तौ । तथा च भाष्यं वितर्कश् चित्तस्य स्थूल आलम्बन आभोगः सूक्ष्मे विचार इति । इयं ग्राह्य-समापत्तिर् इति व्यपदिश्यते । यदा रजस्-तमो-लेशानुबिद्धम् अन्तः-करण-सत्त्वं
भाव्यते तदा गुण-भावाच् चिच्-छक्तेः सुख-प्रकाशमयस्य सत्त्वस्य भावयमानस्योद्रेकात्माननदः समाधिर् भवति । अस्मिन्न् एव समाधौ ये बद्ध-धृतयस् तत्त्वान्तरं प्रधान-पुरुष-रूपं न पश्यन्ति ते विगत-देहाहङ्कारत्वाद् विदेह-शब्देनोच्यते । इयं ग्रहण-सम्पत्तिः । ततः परं रजस्-तमो-लेशानभिभूतं शुद्धं सत्त्वम् आलम्बनीकृत्य या भावना प्रवर्तते तस्यां ग्राह्यस्य सत्त्वस्य न्यग्-भावाच् चिति-शक्तेर् उद्रेकात् सत्ता-मात्रावशेषत्वेन समाधिः सास्मित इत्य् उच्यते । न चाहङ्कारास्मितयोर् अभेदः शङ्कनीयः । यतो यत्रान्तःकरणम् अहिम् इत्य् उल्लेखेन विषयान् वेदयते सो ऽहङ्कारः । यत्र त्व् अन्तर्मुखतया प्रतिलोम-परिणामेन प्रकृति-लीने चेतसि सत्ता-मात्रम् अवभाति सो ऽस्मिता । अस्मिन्न् एव समाधौ ये कृत-परितोषास् ते परं पुरुषम् अपश्यन्तश्
चेतसः प्रकृतौ लीनत्वात् प्रकृति-लया इत्य् उच्यन्ते । सेयं ग्रहीतृ-समापत्तिर् अस्मिता-मात्र-रूप-ग्रहीतृ-निष्ठत्वात् । ये तु परं पुरुषं विविच्य भावनायां प्रवर्तन्ते तेषाम् अपि केवल-पुरुष-विषया विवेक-ख्यातिर् ग्रहीतृ-समापत्तिर् अपि न सास्मितः समाधिर् विवेकेनास्मितायास् त्यागात् ।
तत्र ग्रहीतृ-भान-पूर्वकम् एव ग्रहण-भानं तत्-पूर्वकं च सूक्ष्म-ग्राह्य-भानं तत्-पूर्वकं च स्थूल-ग्राह्य-भानम् इति स्थूल-विषयो द्वि-विधो ऽपि वितर्कश् चतुष्टयानुगतः । द्वितीयो वितर्क-विकलस् त्रितयानुगतः । तृतीयो वितर्क-विचाराभ्यां विकलो द्वितयानुगतः । चतुर्थो वितर्क-विचारानन्दैर् विकलो ऽस्मिता-मात्र इति चतुरवस्थो ऽयं सम्प्रज्ञात इति । एवं स-वितर्कः स-विचारः सानन्दः सास्मितश् च समाधिर् अन्तर्धानादि-सिद्धि-हेतुतया मुक्ति-हेतु-समाधि-विरोधित्वाद् धेय एव मुमुक्षुभिः । ग्रहीतृ-ग्रहणयोर् अपि चित्त-वृत्ति-विषयता-दशायां ग्राह्य-कोटौ निक्षेपाद् धेयोपादेय-विभाग-कथनाय ग्राह्य-समापत्तिर् एव विवृता सूत्र-कारेण । चतुर्-विधा हि ग्राह्य-समापत्तिः स्थूल-ग्राह्य-गोचरा द्विविधा स-वितर्का निर्वितर्का च । सूक्ष्म-ग्राह्य-गोचरापि द्विव्दिहा
स-विचारा निर्विकारा च । तत्र शब्दार्थ-ज्ञान-विकल्पैः सङ्कीर्णा सवितर्का समापत्तिः [योगस् १।४२] शब्दार्थ-ज्ञान-विकल्प-सम्भिन्ना स्थूलार्थावभास-रूपा सवितर्का समापत्तिः स्थूल-गोचरा सविकल्पक-वृत्तिर् इत्य् अर्थः ।
स्मृति-परिशुद्धौ स्वरूप-शून्येवार्थ-मात्र-निर्भासा निर्वितर्का [योगस् १।४३] तस्मिन्न् एव स्थूल आलम्बने शब्दार्थ-स्मृति-प्रविलये प्रत्युदित-स्पष्ट-ग्राह्याकार-प्रतिभासितया न्यग्-भूत-ज्ञानांशत्वेन स्वरूप-शून्येव निर्वितर्का समापत्तिः स्थूल-गोचरा निर्विकल्पक-वृत्तिर् इत्य् अर्थः । एतयैव सविचारा निर्विचारा च सूक्ष्म-विषया व्याख्याता [योगस् १।४४] सूक्ष्मस् तन्-मात्रादिर् विषयो यस्याः सा सूक्ष्म-विषया समापत्तिर् द्विविधा स-विचारा निर्विचारा च सविकल्पक-निर्विकल्पक-भेदेन । एतयैव सवितर्कया निर्वितर्कया च स्थूल-विषयया समापत्त्या व्याख्याता । शब्दार्थ-ज्ञान-विकल्प-सहितत्वेन देश-काल-धर्माद्य्-अवच्छिन्नः सूक्ष्मो ऽर्थः प्रतिभाति यस्यां सा स-विचारा । स-विचार-निर्विचारयोः सूक्ष्म-विषयत्व-विशेषणात् सवितर्क-निर्वितर्कयोः स्थूल-विषयत्वम्
अर्थाद् व्याख्यातम् । सूक्ष्म-विषयत्वं चालिङ्ग-पर्यवसानम् [योगस् १।४५] स-विचाराया निर्विचारायाश् च समापत्तेर् यत् सूक्ष्म-विषयत्वम् उक्तं तद्-अलिङ्ग-पर्यन्तं द्रष्टव्यम् । तेन सानन्द-सास्मितयोर् ग्रहितृ-ग्रहण-समापत्त्योर् अपि ग्राह्य-समापत्ताव् एवान्तर्-भाव इत्य् अर्थः । तथा हि - पार्थिवस्याणोर् गन्ध-तन्मात्रं सूक्ष्मो विषयः । आपस्यापि रस-तन्मात्रम्, तैजसस्य रूप-तन्मात्रम्, वायवीयस्य स्पर्श-तन्मात्रम्, नभसः शब्द-तन्मात्रम्, तेषाम् अहङ्कारस् तस्य लिङ्ग-मात्रं महत्-तत्त्वं तस्याप्य् अलिङ्गं प्रधानं सूक्ष्मो विषयः । सप्तानाम् अपि प्रकृतीनां प्रधान एव सूक्ष्मता-विश्रान्तेस् तत्-पर्यन्तम् एव सूक्ष्म-विषयत्वम् उक्तम् । यद्यपि प्रधानाद् अपि पुरुषः सूक्ष्मो ऽस्ति तथाप्य् अन्वयि-कारणत्वाभावात् तस्य सर्वान्वयि-कारणे प्रधान
एव निरतिशयं सौक्ष्म्यं व्याख्यातम् । पुरुषस् तु निमित्त-कारणं सद् अपि नानन्वयि-कारणत्वेन सूक्ष्मताम् अर्हति । अन्वयि-कारणत्व-विवक्षायां तु पुरुषो ऽपि सूक्ष्मो भवत्य् एवेति द्रष्टव्यम् । ता एव स-बीजः समाधिः [योगस् १।४६] ताश् चतस्रः समापत्तयो ग्राह्येण बीजेन सह वर्तन्त इति स-बीजः समाधिर् वितर्क-विचारानन्दास्मितानुगमात् सम्प्रज्ञात इति प्राग् उक्तः । स्थूले ऽर्थे स-वितर्को निर्वितर्कः । सूक्ष्मे ऽर्थे स-विचारो निर्विचार इति ।
तत्रान्तिमस्य फलम् उच्यते – निर्विचार-वैशारद्ये ऽध्यात्म-प्रसादः [योगस् १।४७] स्थूल-विषयत्वे तुल्ये ऽपि स-वितर्कं शब्दार्थ-ज्ञान-विकल्प-सङ्कीर्णम् अपेक्ष्य तद्-रहितस्य निर्विकल्पक-रूपस्य निर्वितर्कस्य प्राधान्यम् । ततः सूक्ष्म-विषयस्य स-विकल्पक-प्रतिभास-रूपस्य स-विचारस्य । ततो ऽपि सूक्ष्म-विषयस्य निर्विकल्पक-प्रतिभास-रूपस्य निर्विचारस्य प्राधान्यम् । तत्र पूर्वेषां त्रयाणां निर्विचारार्थत्वान् निर्विचार-फलेनैव फलवत्त्वम् । निर्विचारस्य तु प्रकृष्टाभ्यास-बलाद् वैशारद्ये रजस्-तमो-नभिभूत-सत्त्वोद्रेके सत्य् अध्यात्म-प्रसादः क्लेश-वासना-रहितस्य चित्तस्य भूतार्थ-विषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः प्रादुर्भवति । तथा च भाष्यम् -
प्रज्ञा-प्रसादम् आरुह्य अशोच्यः शोचतो जनान् ।
भूमिष्ठान् इव शैलस्थः सर्वान् प्राज्ञो ऽनुपश्यति ॥ इति ।
ऋतम्भरा तत्र प्रज्ञा [योगस् १।४८] तत्र तस्मिन् प्रज्ञा-प्रसादे सति समाहित-चित्तस्य योगिनो या प्रज्ञा जायते सा ऋतम्-भरा । ऋतं सत्यम् एव बिभर्ति न तत्र विपर्यास-गन्धो ऽप्य् अस्तीति योगिक्येवेयं समाख्या । सा चोत्तमो योगः । तथा च भाष्यम् -
आगमेनानुमानेन ध्यानाभ्यास-रसेन च ।
त्रिधा प्रकल्पयन् प्रज्ञां लभते योगम् उत्तमम् ॥ इति ।
सा तु श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् [योगस् १।४९] । श्रुतम् आगम-विज्ञानानं तत्-सामान्य-विषयम् एव । न हि विशेषेण सह कस्यचिच् छब्दस्य सङ्गतिर् ग्रहीतुं शक्यते । तथानुमानं सामान्य-विषयम् एव । न हि विशेषेण सह कस्यचिद् व्याप्तिर् ग्रहीतुं शक्यते । तस्माच् छ्रुतानुमान-विषयो न विशेषः कश्चिद् अस्ति । न चास्य सूक्ष्म-व्यवहित-विप्रकृष्टस्य वस्तुनो लोक-प्रत्यक्षेण ग्रहणम् अस्ति । किं तु समाधि-प्रज्ञा-निर्ग्राह्य एव स विशेषो भवति भूत-सूक्ष्म-गतो वा पुरुष-गतो वा । तस्मान् निर्विचार-वैशारद्य-समुद्भवायां श्रुतानुमान-विलक्षणायां सूक्ष्म-व्यवहित-प्रकृष्ट-सर्व-विशेष-विषयायामृतम्भरायाम् एव प्रज्ञायां योगिना महान् प्रयत्न आस्थेय इत्य् अर्थः ।
ननु क्षिप्त-मूढ-विक्षिप्ताख्य-व्युत्थान-संस्काराणाम् एकाग्रतायाम् अपि स-वितर्क-निर्वितर्क-स-विचार-जनानां संस्काराणां सद्-भावात् तैश् चाल्यमानस्य चित्तस्य कथं निर्विचार-वैशारद्य-पूर्वकाध्यात्म-प्रसाद-लभ्य-र्तम्भरा प्रज्ञा प्रतिष्ठिता स्याद् अत आह – तज्-जः संस्कारो ऽन्य-संस्कार-प्रतिबन्धी [योगस् १।५०] तया ऋतम्भरया प्रज्ञया जनितो यः संस्कारः स तत्त्व-विषयया प्रज्ञया जनितत्वेन बलवत्त्वाद् अन्यान् व्युत्थानजान् समाधिजांश् च संस्कारान् अतत्त्व-विषय-प्रज्ञा-जनितत्वेन दुर्बलान् प्रतिबध्नाति स्व-कार्याक्षमान् करोति नाश्यतीति वा । तेषां संस्काराणाम् अभिभवात् तत्-प्रभवाः प्रत्यया न भवन्ति । ततः समाधिर् उपतिष्ठते । ततः समाधिजा प्रज्ञा । ततः प्रज्ञा-कृताः संस्कारा इति नवो नवः संस्काराशयो वर्धते
। ततश् च प्रज्ञा । तअतश् च संस्कारा इति ।
ननु भवतु व्युत्थान-संस्काराणाम् अतत्त्व-विषय-प्रज्ञा-जनितानां तत्त्व-मात्र-विषय-सम्प्रज्ञात-समाधि-प्रज्ञा-प्रभवैः संस्कारैः प्रतिबन्धस् तेषां तु संस्काराणां प्रतिबन्धकाभावाद् एकाग्र-भूमाव् एव स-बीजः समाधिः स्यान् न तु निर्बीजो निरोध-भूमाव् इति तत्राह – तस्यापि निरोधे सर्व-निरोधान् निर्बीजः समाधिः [योगस् १।५१] तस्य सम्प्रज्ञातस्य समाधेर् एकाग्र-भूमिजस्य । अपि-शब्दात् क्षिप्त-मूढ-विक्षिप्तानाम् अपि निरोधे योगि-प्रयत्न-विशेषेण विलये सति सर्व-निरोधात् समाधेः समाधिजस्य संस्कारस्यापि निरोधान् निर्बीजो निरालम्बनो ऽसम्प्रज्ञात-समाधिर् भवति । स च सोपायः प्राक् सूत्रितः – विराम-प्रत्ययाभ्यास-पूर्वः संस्कार-शेषो ऽन्यः [योगस् १।१८] इति । विरम्यते ऽनेनेति विरामो वितर्क-विचारानन्दास्मितादि-रूप-चिन्ता-त्यागः
। तस्य प्रत्ययः कारणं परं वैराग्यम् इति यावत् । विरामश् चासौ प्रत्ययश् चित्त-वृत्ति-विशेष इति वा । तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनं तद् एव पूर्वं कारणं यस्य स तथा संस्कार-मात्र-शेषः सर्वथा निवृत्तिको ऽन्यः पूर्वोक्तात् स-बीजाद् विलक्षणो निर्बीजो ऽसम्प्रज्ञात-समाधिर् इत्य् अर्थः । असम्प्रज्ञातस्य हि समाधेर् द्वाव् उपायाव् उक्ताव् अभ्यासो वैराग्यं च । तत्र सालम्बनत्वाद् अभ्यासस्य न निरालम्बन-समाधि-हेतुत्वं घटत इति निरालम्बनं परं वैराग्यम् एव हेतुत्वेनोच्यते ।
अभ्यासस् तु सम्प्रज्ञात-समाधि-द्वारा प्रणाड्योपयुज्यते । तद् उक्तं – त्रयम् अन्तरङ्गं पूर्वेभ्यः [योगस् ३।७] । धारणा-ध्यान-समाधि-रूपं साधन-त्रयं यम-नियमासन-प्राणायाम-प्रत्याहार-रूप-साधन-पञ्चकापेक्षया स-बीजस्य समाधेर् अन्तरङ्गं साधनम् । साधन-कोटौ च समाधि-शब्देनाभ्यास एवोच्यते । मुख्यस्य समाधेः साध्यत्वात् । तद् अपि बहिरङ्गं निर्बीजस्य [योगस् ३।८] । निर्बीजस्य तु समाधेस् तद् अपि त्रयं बहिरङ्गं परम्परयोपकारि तस्य तु परं वैराग्यम् एवान्तरङ्गम् इत्य् अर्थः ।
अयम् अपि द्विविधो भव-प्रत्यय उपाय-प्रत्ययश् च । भव-प्रत्ययो विदेह-प्रकृति-लयानाम् [योगस् १।१९] । विदेहानां सानन्दानां प्रकृति-लयानां च सास्मितानां दैवानां प्राग्-व्याख्यातानां जन्म-विशेषाद् औषधि-विशेषान् मन्त्र-विशेषात् तपो-विशेषाद् वा यः समाधिः स भव-प्रत्ययः । भवः संसार आत्मानात्म-विवेकाभाव-रूपः प्रत्ययः कारणं यस्य स तथा । जन्म-मात्र-हेतुको वा पक्षिणाम् आकाश-गमनवत् । पुनः संसार-हेतुत्वान् मुमुक्षुभिर् हेय इत्य् अर्थः । श्रद्धा-वीर्य-स्मृति-समाधि-प्रज्ञा-पूर्वक इतरेषाम् [योगस् १।२०] । जन्मौषधि-मन्त्र-तपः-सिद्ध-व्यतिरिक्तानाम् आत्मानात्म-विवेक-दर्शिनां तु यः समाधिः स श्रद्धा-पूर्वकः । श्रद्धादयः पूर्व उपाया यस्य स तथा । उपाय-प्रत्यय इत्य् अर्थः ।
तेषु श्रद्धा योग-विषये चेतसः प्रसादः । सा हि जननीव योगिनं पाति । ततः श्रद्दधानस्य विवेकार्थिनो वीर्यम् उत्साह उपजायते । समुपजात-वीर्यस्य पाश्चात्यासु भूमिषु स्मृतिर् उत्पद्यते । तत्-स्मरणाच् च चित्तम् अनाकुलं सत् समाधीयते । समाधिर् अत्रैकाग्रता । समाहित-चित्तस्य प्रज्ञा भाव्य-गोचरा विवेकेन जायते । तद्-अभ्यासात् पराच् च वैराग्याद् भवत्य् असम्प्रज्ञातः समाधिर् मुमुक्षूणाम् इत्य् अर्थः । प्रतिक्षण-परिणामिनो हि भावा ऋते चिति-शक्तेः इति न्यायेन तस्याम् अपि सर्व-वृत्ति-निरोधावस्थायां चित्त-परिणाम-प्रवाहस् तज्-जन्य-संस्कार-प्रवाहश् च भवत्य् एवेत्य् अभिप्रेत्य संस्कार-विशेष इत्य् उक्तम् ।
तस्य च संस्कारस्य प्रयोजनम् उक्तम् – ततः प्रशान्त-वाहिता संस्कारात् [योगस् ३।१०] इति । प्रशान्त-वाहिता नामावृत्तिकस्य चित्तस्य निरिन्धनाग्निवत् प्रतिलोम-परिणामेनोपशमः । यथा समिद्-आज्याद्य्-आहुति-प्रक्षेपे वह्निर् उत्तरोत्तर-वृद्ध्या प्रज्वलति, समिद्-आदि-क्षये तु प्रथम-क्षणे किञ्चिच् छाम्यति । उत्तरोत्तर-क्षणेषु त्व् अधिकम् अधिकं शाम्यतीति क्रमेण शान्तिर् वर्धते । तथा निरुद्ध-चित्तस्योत्तरोत्तराधिकः प्रशमः प्रवहति । तत्र पूर्व-प्रशम-जनितः संस्कार एवोत्तरोत्तर-प्रशमस्य कारणम् । तदा च निरिन्धनाग्निवच् चित्तं क्रमेणोपशाम्यद्-व्युत्थान-समाधि-निरोध-संस्कारैः सह स्वस्यां प्रकृतौ लीयते । तदा च समाधि-परिपाक-प्रभवेन वेदान्त-वाक्यजेन सम्यग्-दर्शनेनाविद्यायां निवृत्तायां तद्-धेतुक-दृग्-दृश्य-संयोगाभावाद् वृत्तौ पञ्च-विधायाम्
अपि निवृत्तायां स्वरूप-प्रतिष्ठः पुरुषः शुद्धः केवलो मुक्त इत्य् उच्यते ।
तद् उक्तं – तदा द्रष्टुः स्वरूपे ऽवस्थानम् [योगस् १।३] इति । तदा सर्व-वृत्ति-निरोधे । वृत्ति-दशायां तु नित्यापरिणामि-चैतन्य-रूपत्वेन तस्य सर्वदाम् शुद्धत्वे ऽप्य् अनादिना दृश्य-संयोगेनाविद्यकेनान्तःकरण-तादात्म्याध्यासाद् अन्तःकरण-वृत्ति-सारूप्यं प्राप्नुवन् नभोक्तापि भोक्तेव दुःखानां भवति ।
तद् उक्तं – वृत्ति-सारूप्यम् इतरत्र [योगस् ४] । इतरत्र वृत्ति-प्रादुर्भावे । एतद् एव विवृत्तं द्रष्टृ-दृश्योपरक्तं चित्तं सर्वार्थम् [योगस् ४।२३] चित्तम् एव द्रष्टृ-दृश्योपरक्तं विषयि-विषय-निर्भासं चेतनाचेतन-स्वरूपापन्नं विषयात्मकम् अप्य् अविषयात्मकम् इवाचेतनम् अपि चेतनम् इव स्फटिक-मणि-कल्पं सर्वार्थम् इत्य् उच्यते । तद् अनेन चित्त-सारूप्येण भ्रान्ताः केचित् तद् एव चेतनम् इत्य् आहुः । तद् असङ्ख्येय-वासना-चित्रम् अपि परार्थं संहत्य-कारित्वात् [योगस् ४।२४] । यस्य भोगापवर्गार्थं तत् स एव परश् चेतनो ऽसंहतः पुरुषो न तु घटादिवत् संहत्य-कारि चित्तं चेतनम् इत्य् अर्थः । एवं च विशेष-दर्शिन आत्म-भाव-भावना-विनिवृत्तिः [योगस् ४।२५] । एवं यो ऽन्तः-करण-पुरुषयोर् विशेष-दर्शी तस्य यान्तः-करणे प्राग्-अविवेक-वशाद् आत्म-भाव-भावनासीत्
सा निवर्तते । भेद-दर्शने सत्य् अभेद-भ्रमानुपपत्तेः ।
सत्त्व-पुरुषयोर् विशेष-दर्शनं च भगवद्-अर्पित-निष्काम-कर्म-साध्यम् । तल्-लिङ्गं च योग-भाष्ये दर्शितम् । यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्-बीज-सत्तानुमीयते थता मोक्ष-मार्ग-श्रवणेन सिद्धान्त-रुचि-वशाद् यस्य लोमहर्षाश्रु-पातौ दृश्येते तत्राप्य् अस्ति विशेष-दर्शन-बीजम् अपवर्ग-मार्गीयं कर्माभिनिर्वर्तितम् इत्य् अनुमीयते । यस्य तु तादृशं कर्म-बीजं नास्ति तस्य मोक्ष-मार्ग-श्रवणे पूर्व-पक्ष-युक्तिषु रुचिर् भवत्य् अरुचिश् च सिद्धान्त-युक्तिषु । तस्य को ऽहम् आसं कथम् अहम् आसम् इत्य् आदिर् आत्म-भाव-भावना स्वाभाविकी प्रवर्तते । सा तु विशेष-दर्शिनो निवर्तत इति ।
एवं सति किं स्याद् इति तद् आह – तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् [योगस् ४।२६] । निम्नं जल-प्रवहण-योग्यो नीच-देशः । प्राग्-भारस् तद्-अयोग्य उच्च-प्रदेशः । चित्तं च सर्वदा प्रवर्तमान-वृत्ति-प्रवाहेण प्रवहज्-जल-तुल्यं तत् प्राग्-आत्मानात्माविवेक-रूप-विमार्ग-वाहि-विषय-भोग-पर्यन्तम् अस्यासीत् । अधुना त्व् आत्मानात्म-विवेक-मार्ग-वाहि-कैवल्य-पर्यन्तं सम्पद्यत इति । अस्मिंश् च विवेक-वाहिनि चित्ते ये ऽन्तरायास् ते स-हेतुका निवर्तनीया इत्य् आह सूत्राभ्याम् – तच्-छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः । हानम् एषां क्लेशवद् उक्तम् [योगस् ४।२७-८] । तस्मिन् विवेक-वाहिनि चित्ते छिद्रेष्व् अन्तरालेषु प्रत्ययान्तराणि व्युत्थान-रूपाण्य् अहं ममेत्य् एवंरूपाणि व्युत्थानानुभवजेभ्यः संस्कारेभ्यः क्षीयमाण्भ्यो ऽपि प्रादुर्भवन्ति । एषां च संस्काराणां
क्लेशानाम् इव हानम् उक्तम् । यथा क्लेशा अविद्यादयो ज्ञानाग्निना दग्ध-बीज-भावा च पुनश् चित्त-भूमौ प्ररोहं प्राप्नुवन्ति तथा ज्ञानाग्निना दग्ध-बीज-भावाः संस्काराः प्रत्ययान्तराणि न प्ररोढुम् अर्हन्ति । ज्ञानाग्नि-संस्कारास् तु यावच् चित्तम् अनुशेरत इति ।
एवं च प्रत्ययान्तरानुदयेन विवेक-वाहिनि चित्ते स्थिरीभूते सति प्रसङ्ख्याने ऽप्य् अकुसीदस्य सर्वथाविवेक-ख्यातेर् धर्म-मेघः समाधिः [योगस् ४।२९] प्रसङ्ख्यानं सत्त्व-पुरुषान्यता-ख्यातिः शुद्धात्म-ज्ञानम् इति यावत् । तत्र बुद्धेः सात्त्विके परिणामे कृत-संयमस्य सर्वेषां गुण-परिणामानां स्वामिवद् आक्रमणं सर्वाधिष्ठातृत्वं तेषाम् एव च शान्तोदिताव्यपदेश्य-धर्मित्वेन स्थितानां यथावद् विवेक-ज्ञानं सर्व-ज्ञातृत्वं च विशोका नाम सिद्धिः फलं तद्-वैराग्याच् च कैवल्यम् उक्तं – सत्त्व-पुरुषान्यता-ख्याति-मात्रस्य सर्व-भावाधिष्ठातृत्वं सर्व-ज्ञातृत्वं च [योगस् ३।४९] सत्त्व-पुरुषयोः शुद्धि-साम्ये कैवल्यम् [योगस् ३।५५] इति सूत्राभ्याम् । तद् एतद् उच्यते तस्मिन् प्रसङ्ख्याने सत्य् अप्य् अकुसीदस्य फलम् अलिप्सोः प्रत्ययान्तराणाम्
अनुदये सर्व-प्रकारैर् विवेक-ख्यातेः परिपोषाद् धर्म-मेघः समाधिर् भवति ।
इज्याचार-दमाहिंसा-दान-स्वाध्याय-कर्मणाम् ।
अयं तु परमो धर्मो यद् योगेनात्म-दर्शनम् ॥ इति स्मृतेः ॥
धर्मं प्रत्यग्-ब्रह्मैक्य-साक्षात्कारं मेहति सिञ्चतीति धर्म-मेघस् तत्त्व-साक्षात्कार-हेतुर् इत्य् अर्थः । ततः क्लेश-कर्म-निवृत्तिः । ततो धर्म-मेघात् समाधेर् धर्माद् वा क्लेशानां पञ्च-विधानाम् अविद्यास्मिता-राग-द्वेषाभिनिवेशानां कर्मणां च कृष्ण-शुक्लकृष्ण-शुक्ल-भेदेन त्रिविधानाम् अविद्या-मूलानाम् अविद्या-क्षये बीज-क्षयाद् आत्यन्तिकी निवृत्तिः कैवल्यं भवति । कारण-निवृत्त्या कार्य-निवृत्तेर् आत्यन्तिक्या उचितत्वाद् इत्य् अर्थः ।
एवं स्थिते युञ्जन्न् एव सदात्मानम् इत्य् अनेन सम्प्रज्ञातः समाधिर् एकाग्र-भूमाव् उक्तः । नियत-मानस इत्य् अनेन तत्-फल-भूतो ऽसम्प्रज्ञात-समाधिर् निरोध-भूमाव् उक्तः । शान्तिम् इति निरोध-समाधिज-संस्कार-फल-भूता प्रशान्त-वाहिता । निर्वाण-परमम् इति धर्म-मेघस्य समाधेस् तत्त्व-ज्ञान-द्वारा कैवल्य-हेतुत्वम्, मत्-संस्थाम् इत्य् अनेनौपनिषदाभिमतं कैवल्यं दर्शितम् । यस्माद् एवं महा-फलो योगस् तस्मात् तं महता प्रयत्नेन सम्पादयेद् इत्य् अभिप्रायः ॥१५॥
विश्वनाथः : आत्मानं मनो युञ्जन् ध्यान-योग-युक्तं कुर्वन् । यतो नियत-मानसो विषयोपरत-चित्तः । निर्वाणो मोक्ष एव परमः प्राप्यो यस्यां मय्य् एव निर्विशेष-ब्रह्मणि सम्यक् स्था स्थितिर् यस्यां तां शान्तिं संसारोपरतिं प्राप्नोति ॥१५॥
बलदेवः : एवम् आसीनस्य किं स्यात् तद् आह युञ्जन्न् इति । योगी सदा प्रतिदिनम् आत्मानं युञ्जन्न् अर्पयन् । नियत-मानसः मत्-स्पर्श-परिशुद्धतया नियतं निश्चलं मानसं चित्तं यस्य स, मत्-संस्थां मद्-अधीनां निर्वाण-परमां शान्तिम् अधिगच्छति लभते । तम् एव विदित्वातिमृत्युम् एति [श्वेतु ३।८] इत्य् आदि श्रवणात् । निर्वाण-परमां मोक्षावधिकाम् इति सिद्धयो ऽपि योग-फलानीत्य् उक्तम् ॥१५॥
६।१६
नात्यश्नतस् तु योगो ऽस्ति न चैकान्तम् अनश्नतः ।
न चातिस्वप्न-शीलस्य जाग्रतो नैव चार्जुन ॥१६॥
श्रीधरः : योगाभ्यास-निष्ठस्याहारादि-नियमम् आह नात्यशनत इति द्व्याभ्याम् । अत्यन्तम् अधिकं भुञ्जानस्य एकान्तम् अत्यन्तम् अभुञ्जानस्यापि योगः समाधिर् न भवति । तथातिनिद्रा-शीलस्यातिजाग्रतश् च योगो नैवास्ति ॥१६॥
मधुसूदनः : एवं योगाभ्यास-निष्ठस्याहारादि-नियमम् आह नात्यशनत इति द्व्याभ्याम् । यद् भुक्तं सज्जीर्यति शरीरस्य च कार्य-क्षमतां सम्पादयति तद्-आत्म-सम्मितम् अन्नं तद् अतिक्रम्य लोभेनाधिकम् अश्नतो न योगो ऽस्ति अजीर्ण-दोषेण व्याधि-पीडितत्वात् । न चैकान्तम् अनश्नतो योगो ऽस्ति । अनाहाराद् अत्यल्पाहाराद् वा रस-पोषणाभावेन शरीरस्य कार्याक्षमत्वात् । यद् उ ह वा आत्म-सम्मितम् अन्नं तद् अवति तन् न हिनस्ति यद् भूयो हिनस्ति तद् यत् कनीयो ऽन्नं न तद् अवति [शतपथब् ९।२।१।२] इति शतपथ-श्रुतेः । तस्माद् योगी नात्म-सम्मिताद् अन्नाद् अधिकं न्यूनं वाश्नीयाद् इत्य् अर्थः ।
अथवा -
पूरयेद् अशनेनार्धं तृतीयम् उदकेन तु ।
वायोः सङ्चरणार्थं तु चतुर्थम् अवशेषयेत् ॥
इत्य् आदि योग-शास्त्रोक्त-परिमाणाद् अधिकं न्यूनं वाश्नतो योगो न सम्पद्यत इत्य् अर्थः । तथातिनिद्रा-शीलस्यातिजाग्रतश् च योगो नैवास्ति हे ऽर्जुन सावधाओ भवेत्य् अभिप्रायः । यथा मार्कण्डेय-पुराणे -
नाध्मातः क्षुधितः श्रान्तो न च व्याकुल-चेतनः ।
युञ्जीत योगं राजेन्द्र योगी सिद्ध्य्-अर्थम् आत्मनः ॥
नातीशीते न चैवोष्णे न द्वन्द्वे नानिलान्विते ।
कालेष्व् एतेषु युञ्जीत न योगं ध्यान-तत्-परः ॥ इत्य् आदि ॥१६॥
विश्वनाथः : योगाभ्यास-निष्ठस्य नियमम् आह नात्यशनत इति द्व्याभ्याम् । अत्यश्नतो ऽधिकं भुञ्जानस्य । यद् उक्तं -
पूरयेद् अशनेनार्धं तृतीयम् उदकेन तु ।
वायोः सङ्चरणार्थं तु चतुर्थम् अवशेषयेत् ॥ इति ॥१६॥
बलदेवः : योगम् अभ्यस्यतो भोजनादि-नियमम् आह नातीति द्व्याभ्याम् । अत्यशनम् अनत्यशनं च, अतिस्वापो ऽतिजागरश् च, योग-विरोध्य्-अतिविहारादि चोत्तरात् ॥१६॥
६।१७
युक्ताहार-विहारस्य युक्त-चेष्टस्य कर्मसु ।
युक्त-स्वप्नावबोधस्य योगो भवति दुःख-हा ॥१७॥
श्रीधरः : तर्हि कथम्भूतस्य योगो भवतीति ? अत आह - युक्ताहारेति । युक्तो नियत आहारो विहारश् च गतिर् यस्य । कर्मसु कार्येषु युक्ता नियता चेष्टा यस्य । युक्तौ नियतौ स्वप्नावबोधौ निद्रा-जागरौ यस्य । तस्य दुःख-निवर्तको योगो भवति सिध्यति ॥१७॥
मधुसूदनः : एवम् आहारादि-नियम-विरहिणो योग-व्यतिरेकम् उक्त्वा तन्-नियमवतो योगान्वयम् आह युक्ताहार इति । आह्रियत इत्य् आहारो ऽन्नम् । विहरणं विहारः पाद-क्रमः । तौ युक्तौ नियत-परिमाणौ यस्य । तथान्येष्व् अपि प्रणव-जपोपनिषद्-आवर्तनादिषु कर्मसु युक्ता नियत-काला चेष्टा यस्य । तथा स्वप्नो निद्रा अवबोधो जागरणं तौ युक्तौ नियत-कालौ यस्य तस्य योगो भवति । साधन-पाटवाद् आत्म-समाधिः सिध्यति नान्यस्य । एवं प्रयन्त-विशेषेण सम्पादितो योगः किं-फल इति तत्राह दुःखहेति । सर्व-संसार-दुःख-कारणाविद्योन्मूलन-हेतु-ब्रह्म-विद्योत्पादकत्वात् स-मूल-सर्व-दुःख-निवृत्ति-हेतुर् इत्य् अर्थः । अत्राहारस्य नियतत्वम् ।
अर्धम् अशनस्य स-व्यञ्जनस्य तृतीयम् उदकस्य तु ।
वायोः सञ्चारणार्थं तु चतुर्थम् अवशेषयेत् ॥
इत्य् आदि प्राग् उक्तम् । विहारस्य नियतत्वं योगनान् न परं गच्छेद् इत्य् आदि । कर्मसु चेष्टाया नियतत्वं वाग्-आदि-चापल-परित्यागः । रात्रेर् विभाग-त्रयं कृत्वा प्रथमान्ययोर् जागरणं मध्ये स्वपनम् इति स्वप्नावबोधयोर् नियत-कालत्वम् । एवम् अन्ये ऽपि योग-शास्त्रोक्ता नियमा द्रष्टव्याः ॥१७॥
विश्वनाथः : युक्तो नियत एवाहारो भोजनं विहारो गमनं च यस्य तस्य कर्मसु व्यवहारिक-पारमार्थिक-कृत्येषु युक्ता नियता एव चेष्टा वाग्-व्यापाराद्या यस्य तस्य ॥१७॥
बलदेवः : युक्तेति । मिताहार-विहारस्य कर्मसु लौकिक-पारमार्थिक-कृत्येषु मित-वागादि-व्यापारस्य मित-स्वाप-जागरस्य च सर्व-दुःख-नाशको योगो भवति तस्माद् योगी तथा तथा वर्तते ॥१७॥
६।१८
यदा विनियतं चित्तम् आत्मन्य् एवावतिष्ठते ।
निःस्पृहः सर्व-कामेभ्यो युक्त इत्य् उच्यते तदा ॥१८॥
श्रीधरः : कदा निष्पन्न-योगः पुरुषो भवतीत्य् अपेक्षायाम् आह यदेति । विनियतं विशेषेण निरुद्धं सच्-चित्तम् आत्मन्य् एव यदा निश्चलं तिष्ठति । किं च सर्व-कामेभ्य ऐहिकामुष्मिक-भोगेभ्यो निःस्पृहो विगत-तृष्णो भवति । तदा मुक्तः प्राप्त-योग इत्य् उच्यते ॥१८॥
मधुसूदनः : एवम् एकाग्र-भूमौ सम्प्रज्ञातं समाधिम् अभिधाय निरोध-भूमाव् असम्प्रज्ञातं समाधिं वक्तुम् उपक्रमते यदेति । यदा यस्मिन् काले पर-वैराग्य-वशाद् विनियतं विशेषेण नियतं सर्व-वृत्ति-शून्यताम् आपादितं चित्तं विगत-रजस्-तमस्कम् अन्तःकरण-सत्त्वं स्वच्छत्वात् सर्व-विषयाकार-ग्रहण-समर्थम् अपि सर्वतो-निरुद्ध-वृत्तिकत्वाद् आत्मन्य् एव प्रत्यक् चिति अनात्मानुपरक्ते वृत्ति-राहित्ये ऽपि स्वतः-सिद्धस्यात्माकारस्य वारयितुम् अशक्यत्वाच् चितेर् एव प्राधान्यान् न्यग्-भूतं सद् अवतिष्ठते निश्चलं भवति । तदा तस्मिन् सर्व-वृत्ति-निरोध-काले युक्तः समाहित इत्य् उच्यते । कः ? यः सर्व-कामेभ्यो निःस्पृहः । निर्गता दोष-दर्शनेन सर्वेभ्यो दृष्टादृष्ट-विषयेभ्यः कामेभ्यः स्पृहा तृष्णा यस्येति परं वैराग्यम् असम्प्रज्ञात-समाधेर्
अन्तरङ्गं साधनम् उक्तम् । तथा च व्याख्यातं प्राक् ॥१८॥
विश्वनाथः :योगी निष्पन्न-योगः कदा भवेद् इत्य् आकाङ्क्षायाम् आह यदेति । विनियतं निरुद्धं चित्तम् आत्मनि स्वस्मिन्न् एवावतिष्ठते निश्चली-भवतीत्य् अर्थः ॥१८॥
बलदेवः : योगी निष्पन्न-योगः कदा स्याद् इत्य् अपेक्षायाम् आह यदेति । योगम् अभ्यस्यतो योगिनश् चित्तम् यदा विनियतं निरुद्धं सदात्मन्य् एव स्वस्मिन्न् एवावस्थितं स्थिरं भवति, तद्-आत्मेतर-सर्व-स्पृहा-शून्यो युक्तो निष्पन्न-योगः कथ्यते ॥१८॥
६।१९
यथा दीपो निवात-स्थो नेङ्गते सोपमा स्मृता ।
योगिनो यत- चित्तस्य युञ्जतो योगम् आत्मनः ॥१९॥
श्रीधरः : आत्मैक्याकारतयावस्थितस्य चित्तस्योपमानम् आह यथेति । वात-शून्ये देशे स्थितो दीपो यथा नेङ्गते न विचलति । सोपमा दृष्टान्तः । कस्य ? आत्म-विषयं योगं युञ्जतो ऽभ्यस्यतो योगिनः । यतं नियतं चित्तं यस्य तस्य निष्कम्पतया प्रकाशकतया चाचञ्चलं तच् चित्तं तद्वत् तिष्ठतीत्य् अर्थः ॥१९॥
मधुसूदनः : समाधौ निवृत्तिकस्य चित्तस्योपमानम् आह यथेति । दीप-चलन-हेतुना वातेन रहिते देशे स्थितो दीपो यथा चलन-हेत्व्-अभावान् नेङ्गते न चलति, सोपमा स्मृता स दृष्टान्तश् चिन्तितो योगज्ञैः । कस्य ? योगिन एकाग्र-भूमौ सम्प्रज्ञात-समाधि-मतो ऽभ्यास-पाटवाद् यत-चित्तस्य निरुद्ध-सर्व-चित्त-वृत्तेर् असम्प्रज्ञात-समाधि-रूपं योगं निरोध-भूमौ युञ्जतो ऽनुतिष्ठतो य आत्मान्तःकरणं तस्य निश्चलतया सत्त्वोद्रेकेण प्रकाशकतया च निश्चलो दीपो दृष्टान्त इत्य् अर्थः ।
आत्मनो योगं युञ्जत इति व्याख्याने दार्ष्टान्तिकालाभः सर्वावस्थस्यापि चित्तस्य सर्वदात्माकारतयात्म-पद-वैयर्थ्यं च । न हि योगेनात्माकारता चित्तस्य सम्पाद्यते, किन्तु स्वत एवात्माकारस्य सतो ऽनात्माकारता निवर्त्यत इति । तस्माद् दार्ष्टान्तिक-प्रतिपादनार्थम् एवात्म-पदम् । यत-चित्तस्येति भाव-परो निर्देशः कर्म-धारयो वा यतस्य चित्तस्येत्य् अर्थः ॥१९॥
विश्वनाथः : निवात-स्थो निर्वात-देश-स्थितो दीपो नेङ्गते न चलति यः स एव दीप उपमा यथा यथावद् इत्य् अर्थः । सो ऽचि लोपे चेत् पाद-पूरणम् [पाण् ६।१।१३४] इति सन्धिः । कस्योपमा इत्य् अत आह योगिन इति ।
बलदेवः : तदा योगी कीदृशो भवतीत्य् अपेक्षायाम् आह यथेति । निर्वात-देश-स्थो दीपो नेङ्गते न चलति निश्चलः स-प्रभस् तिष्ठति स दीपो यथा यथावद् उपमा योगज्ञैः स्मृता चिन्तिता । सोपमेत्य् अत्र सो ऽचि लोपे चेत् पाद-पूरणम् [पाण् ६।१।१३४] इति सूत्रात् सन्धिः । उपमा-शब्देनोपमानं बोध्यम् । कस्येत्य् आह योगिन इति । यत-चित्तस्य निरुद्ध-सर्व-चित्त-वृत्तेर् आत्मनो योगं ध्यानं युञ्जतो ऽनुतिष्ठतः । निवृत्त-सकलेतर-चित्त-वृत्तिर् अभ्युदित-ज्ञान-योगी निश्चल-स-प्रदीप-सदृशो भवतीति ॥१९॥
६।२०-२३
यत्रोपरमते चित्तं निरुद्धं योग-सेवया ।
यत्र चैवात्मनात्मानं पश्यन्न् आत्मनि तुष्यति ॥२०।
सुखम् आत्यन्तिकं यत् तद् बुद्धि-ग्राह्यम् अतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश् चलति तत्त्वतः ॥२१॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥२२॥
तं विद्याद् दुःख-संयोग-वियोगं योग-सञ्ज्ञितम् ।
स निश्चयेन योक्तव्यो योगो ऽनिर्विण्ण-चेतसा ॥२३॥
श्रीधरः : यं सन्न्यासम् इति प्राहुर् योगं तं विद्धि पाण्डव [गीता ६।२] इत्य् आदौ कर्मैव योग-शब्देनोक्तम् । नात्यश्नतस् तु योगो ऽस्ति [गीता ६।१६] इत्य् आदौ तु समाधिर् योग-शब्देनोक्तः । तत्र मुख्यो योगः क इत्य् अपेक्षायां समाधिम् एव स्वरूपतः फलतश् च लक्षयन् स एव मुख्यो योग इत्य् आह यत्रेति सार्धैस् त्रिभिः । यत्र यस्मिन् अवस्था-विशेषे योगाभ्यासेन निरुद्धं चित्तम् उपरतं भवतीति योगस्य स्वरूप-लक्षणम् उक्तम् । तथा च पातञ्जलं सूत्रम् योगश् चित्त-वृत्ति-निरोधः [योगस् १।२] इति । इष्ट-प्राप्ति-लक्षणेन फलेन तम् एव लक्षयति । यत्र च यस्मिन्न् अवस्था-विशेषे । आत्मना शुद्धेन मनसा आत्मानम् एव पश्यति न तु देहादि । पश्यंश् चात्मन्य् एव तुष्यति । न तु विषयेषु । यत्रेत्य् आदीनां यच्-छन्दानां तं योग-सञ्ज्ञितं विद्याद् इति चतुर्थेन श्लोकेनान्वयः
॥२०।
आत्मन्य् एव तोषे हेतुम् आह सुखम् इति । यत्र यस्मिन्न् अवस्था-विशेषे यत् तत् किम् अपि निरतिशयम् आत्यन्तिकं नित्यं सुखं वेत्ति । ननु तदा विषयेन्द्रिय-सम्बन्धाभावात् कुतः सुखं स्यात् ? तत्राह अतीन्द्रियं विषयेन्द्रिय-सम्बन्धातीतम् । केवलं बुद्ध्यैवात्माकारतया ग्राह्यम् । अतएव च यत्र स्थितः संस् तत्त्वत आत्म-स्वरूपान् नैव चलति ॥२१॥
अचलत्वम् एवोपपादयति यम् इति । यम् आत्म-सुख-रूपं लाभं लब्ध्वा ततो ऽधिकम् अपरं लाभं न मन्यते । तस्यैव निरतिशय-सुखत्वात् । यस्मिंश् च स्थितो महतापि शीतोष्णादि-दुःखेन न विचाल्यते नाभिभूयते । एतेनानिष्ट-निवृत्ति-फलेनापि योगस्य लक्षणम् उक्तं द्रष्टव्यम् ॥२२॥
तम् इति । य एवं-भूतो ऽवस्था-विशेषस् तं दुःख-संयोग-वियोगं योग-सञ्ज्ञितं विद्यात् । दुःख-शब्देन दुःख-मिश्रितं वैषयिकं सुखम् अपि गृह्यते । दुःखस्य संयोगेन संस्पर्श-मात्रेणापि वियोगो यस्मिन् तम् अवस्था-विशेषं योग-सञ्ज्ञितं योग-शब्द-वाच्यं जानीयात् । परमात्माना क्षेत्रज्ञस्य योजनं योगः । यद् वा दुःख-संयोगेन वियोग एव शूरे कातर-शब्द-वद् विरुद्ध-लक्षणया योग उच्यते । कर्मणि तु योग-शब्दस् तद्-उपायत्वाद् औपचारिक एवेति भावः ।
यस्माद् एवं महा-फलो योगस् तस्मात् स एव यत्नतो ऽभ्यसनीय इत्य् आह तम् इति सार्धेन । स योगो निश्चयेन शास्त्राचार्योपदेश-जनितेन निर्वेद-रहितेन चेतसा योक्तव्यः । दुःख-बुद्ध्या प्रयत्न-शैथिल्यं निर्वेदः ॥२३॥
मधुसूदनः : एवं सामान्येन समाधिम् उक्त्वा निरोध-समाधिं विस्तरेण विवरीतुम् आरम्भते यत्रेति । यत्र यस्मिन् परिणाम-विशेषे योग-सेवया योगाभ्यास-पाटवेन जाते सति निरुद्धम् एक-विषयक-वृत्ति-प्रवाह-रूपाम् एकाग्रतां त्यक्त्वा निरिन्धनाग्निवद् उपशाम्यन् निर्वृत्तिकतया सर्व-वृत्ति-निरोध-रूपेण परिणतं भवति । यत्र च यस्मिंश् च परिणामे सति आत्मना रजस्-तमो ऽनभिभूत-शुद्ध-सत्त्व-मात्रेणान्तः-करणेनात्मानं प्रत्यक्-चैतन्यं परमात्माभिन्नं सच्-चिद्-आनन्द-घनम् अनन्तम् अद्वितीयं पश्यन् वेदान्त-प्रमाणजया वृत्त्या साक्षात्कुर्वन्न् आत्मन्य् एव परमानन्द-घने तुष्यति, न देहेन्द्रिय-सङ्घाते, न वा तद्-भोग्ये ऽन्यत्र । परमात्म-दर्शने सत्य् अतुष्टि-हेत्व्-अभावात् तुष्यत्य् एवेति वा । तम् अन्तः-करण-परिणामं सर्व-चित्त-वृत्ति-निरोध-रूपं
योगं विद्याद् इति परेणान्वयः । यत्र काल इति तु व्याख्यानम् असाधु तच्-छब्दानन्वयात् ॥२०॥
आत्मन्य् एव तोषे हेतुम् आह सुखम् इति । यत्र यस्मिन्न् अवस्था-विशेष आत्यन्तिकम् अनन्तं निरतिशयं ब्रह्म-स्वरूपम् अतीन्द्रियं विषयेन्द्रिय-संयोगानभिव्यङ्ग्यं बुद्धि-ग्राह्यं बुद्ध्यैव रजस्-तमो-मल-रहितया सत्त्व-मात्र-वाहिन्या ग्राह्यं सुखं योगी वेत्ति अनुभवति । यत्र च स्थितो ऽयं विद्वांस् तत्त्वत आत्म-स्वरूपान् नैव चलति । तं योग-सञ्ज्ञितं विद्याद् इति परेणान्वयः समानः ।
अत्रात्यन्तिकम् इति ब्रह्म-सुख-स्वरूप-कथनम् । अतीन्द्रियम् इति विषय-सुख-व्यावृत्तिः । तस्य विषयेन्द्रिय-संयोग-सापेक्षत्वात् । बुद्धि-ग्राह्यम् इति सौषुप्त-सुख-व्यावृत्तिः सुषुप्तौ बुद्धेर् लीनत्वात् । समाधौ निर्वृत्तिकायास् तस्याः सत्त्वात् । तद् उक्तं गौड-पादैः - लीयते तु सुषुप्तौ तन् निगृहीतं न लीयते इति । तथा च श्रूयते -
समाधि-निर्धूत-मलस्य चेतसो
निवेशितस्यात्मनि यत् सुखं भवेत् ।
न शक्यते वर्णयितुं गिरा तदा
यद् एतद् अन्तः-करणेन गृह्यते ॥ इति ।
अन्तःकरणेन निरुद्ध-सर्व-वृत्तिकेनेत्य् अर्थः । वृत्त्या तु सुखास्वादनं गौडाचार्यैस् तत्र प्रतिषिद्धम् - नास्वादयेत् सुखं तत्र निःसङ्गं प्रज्ञया भवेत् इति । महद् इदं समाधौ सुखम् अनुभवामीति स-विकल्प-वृत्ति-रूपा प्रज्ञा सुखास्वादः । तं व्युत्थान-रूपत्वेन समाधि-विरोधित्वाद् योगी न कुर्यात् । अतएवैतादृश्या प्रज्ञया सह सङ्गं परित्यजेत् तां निरुन्ध्याद् इत्य् अर्थः । निर्वृत्तिकेन तु चित्तेन स्वरूप-सुखानुभवस् तैः प्रतिपादितः । स्वस्थं शान्तं स-निर्वाण-कथ्यं सुखम् उत्तमम् इति स्पष्टं चैतद् उपरिष्ठात् करिष्यते ॥२१॥
यत्र न चैवायं स्थितश् चलति तत्त्वत इत्य् उक्तम् उपपादयति यं लब्ध्वेति । यं च निरतिशयात्मक-सुख-व्यञ्जकं निर्वृत्तिक-चित्तावस्था-विशेषं लब्ध्वा सन्तताभ्यास-परिपाकेन सम्पाद्यापरं लाभं ततो ऽधिकं न मन्यते । कृतं कृत्यं प्राप्तं प्रापणीयम् इत्य् आत्म-लाभाच् च परं विद्यते इति स्मृतेः । एवं विषय-भोग-वासनया समाधेर् विचलनं नास्तीत्य् उक्त्वा शीत-वात-मशकाद्य्-उपद्रव-निवारणार्थम् अपि तन् नास्तीत्य् आह यस्मिन् परमात्म-सुख-मये निर्वृत्तिक-चित्तावस्था-विशेषे स्थितो योगी गुरुणा महता शस्त्र-निपातादि-निमित्तेन महतापि दुःखेन न विचाल्यते किम् उत क्षुद्रेणेत्य् अर्थः ॥२२॥
यत्रोपरमत इत्य् आरभ्य बहुभिर् विशेषणैर् यो निवृत्तिकः परमानन्दाभिव्यञ्जकश् चित्तावस्था-विशेष उक्तस् तं चित्त-वृत्ति-निरोधं चित्त-वृत्ति-मय-सर्व-दुःख-विरोधित्वेन दुःख-वियोगम् एव सन्तं योग-सञ्ज्ञितं वियोग-शब्दार्थम् अपि विरोधि-लक्षणया योग-शब्द-वाच्यं विद्याज् जानीयाच् च तु योग-शब्दानुरोधात् कञ्चित् सम्बन्धं प्रतिपद्येतेत्य् अर्थः । तथा च भगवान् पतञ्जलिर् असूत्रयत् योगश् चित्त-वृत्ति-निरोधः [योगस् १।२] इति । योगो भवति दुःखहा [६।१७] इति यत् प्राग् उक्तं तद् एतद् उपसंहृतम् ।
एवं-भूते योगे निश्चयानिर्वेदयोः साधनत्व-विधानायाह स निश्चयेनेति । स
यथोक्त-फलो योगो निश्चयेन शास्त्राचार्य-वचन-तात्पर्य-विषयो ऽर्थः सत्य एवेत्य् अध्वयसायेन योक्तव्यो ऽभ्यसनीयः । अनिर्विण्ण-चेतसा एतावतापि कालेन योगो न सिद्धः किम् अतः परं कष्टम् इत्य् अनुतापो निर्वेदस् तद्-रहितेन चेतसा । इह जन्मनि जन्मान्तरे वा सेत्स्यति किं त्वरयेत्य् एवं धैर्यम् उक्तेन मनसेत्य् अर्थः । तद् एतद् गौड-पादा उदाजह्रुः -
उत्सेक उदधेर् यद्वत् कुशाग्रेआइक-बिन्दुना ।
मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः ॥ इति ।
उत्सेक उत्सेचनं शोषणाध्वस्यायेन जलोद्धरणम् इति यावत् । अत्र सम्प्रदाय-विद आख्यायिकाम् आचक्षते । कस्यचित् किल पक्षिणो ऽण्डानि तीर-स्थानि तरङ्ग-वेगेन सुमुद्रो ऽपजहार । स च समुद्रं शोषयिषाम्य् एवेति प्रवृत्तः स्व-मुखाग्रेणैकैकं जल-बिन्दुम् उपरि प्रचिक्षेप । तदा च बहुभिः पक्षिभिर् बन्धु-वर्गैर् वार्यमाणो ऽपि नैवोपरराम । यदृच्छया च तत्रागतेन नारदेन निवारितो ऽप्य् अस्मिन् जन्मनि जन्मान्तरे वा येन केनाप्य् उपायेन समुद्रं शोषयिष्याम्य् एवेति प्रतिजज्ञे । ततश् च दैवानुकूल्यात् कृपालुर् नारदो गरुडं तत्-साहाय्याय प्रेषयामास । समुद्रस् त्वज्-ज्ञाति-द्रोहेण त्वाम् अवमन्यत इति वचनेन । ततो गरुड-पक्ष-वातेन शुष्यन् समुद्रो भीतस् तान्य् अण्डानि तस्मै पक्षिणे प्रददाव् इति । एवम् अखेदेन मनो-निरोधे परम-धर्मे प्रवर्तमानं योगिनम्
ईश्वरो ऽनुगृह्णाति । ततश् च पक्षिण इव तस्याभिमतं सिध्यतीति भावः ॥२३॥
विश्वनाथः : नात्यश्नतस् तु योगो ऽस्तीत्य् आदौ योग-शब्देन समाधिर् उक्तः । स च सम्प्रज्ञातो ऽसम्प्रज्ञातश् च । स-वितर्क-स-विचार-भेदात् सम्प्रज्ञातो बहु-विधः । असम्प्रज्ञात-समाधि-रूपो योगः कीदृश इत्य् अपेक्षायाम् आह यत्रेत्य्-आदि-सार्धैस् त्रिभिः । यत्र समाधौ सति चित्तम् उपरमते वस्तु-मात्रम् एव न स्पृशतीत्य् अर्थः । तत्र हेतुः निरुद्धम् इति । तथा च पातञ्जल-सूत्रम् - योगश् चित्त-वृत्ति-निरोधः [योगस् १।२] इति । यत्रेत्य्-आदि-पदानां योग-सञ्ज्ञितं विद्याद् इति चतुर्थेनान्वयः । आत्मना परमात्माकारान्तःकरणेनात्मानं पश्यन् तस्मिन् तुष्यति । तत्रत्यं सुखं प्राप्नोति । यद् आत्यन्तिकं सुखं प्रसिद्धम् । अतीन्द्रियं विषयेन्द्रिय-सम्पर्क-रहितम् । अतएव यत्र स्थितः सन् तत्त्वत आत्म-स्वरूपान् नैव चलति, अतएव यं लाभं लब्ध्वा ततः सकाशाद् अपरं लाभम्
अधिकं न मन्यते । दुःखस्य संयोगेन स्पर्श-मात्रेणापि वियोगो यस्मिन् तं योग-सञ्ज्ञ्तं योग-सञ्ज्ञां प्राप्तं समाधिं विद्यात् । यद्यपि शीघ्रं न सिध्यति तद् अप्य् अयं मे योगः संसेत्स्यत्य् एवेति यो निश्चयस् तेन । अनिर्विण्ण-चेतसैतावतापि कालेन योगो न सिद्धः । किम् अतः परं कष्टेनेत्य् अनुतापो निर्वेदस् तद्-रहितेन चेतसा । इह जन्मनि जन्मान्तरे वा सिध्यतु, किं मे त्वरयेति धैर्य-युक्तेन मनसेत्य् अर्थः । तद् एतद् गौड-पादा उदाजह्रुः -
उत्सेक उदधेर् यद्वत् कुशाग्रेआइक-बिन्दुना ।
मनसो निग्रहस् तद्वद् भवेद् अपरिखेदतः ॥ इति ।
उत्सेक उत्सेचनम् । शोषणाध्यवसायेन जलोद्धरणम् इति यावत् । अत्र काचिद् आख्यायिकास्ति । कस्यचित् किल पक्षिणो ऽण्डानि तीर-स्थितानि तरङ्ग-वेगेन सुमुद्रो जहार । स च समुद्रं शोषयिषामीत्य् एवेति प्रतिज्ञाय स्व-मुखाग्रेणैकैकं जल-बिन्दुम् उपरि प्रचिक्षेप । तं च बहुभिः पक्षिभिर् बन्धुभिर् युक्त्या वार्यमाणो ऽपि नैवोपरराम । यदृच्छया च तत्रागतेन नारदेन निवारितो ऽप्य् अस्मिन् जन्मनि जन्मान्तरे वा समुद्रं शोषयिष्याम्य् एवेति तद्-अग्रे ऽपि पुनः प्रतिजज्ञे । ततश् च दैवानुकूल्यात् कृपालुर् नारदो गरुडं तत्-साहाय्याय प्रेषयामास । समुद्रस् त्वदीय-ज्ञाति-द्रोहेण त्वाम् अवमन्यत इति वाक्येन । ततो गरुड-पक्ष-वातेन शुष्यन् समुद्रो ऽतिभीतस् तान्य् अण्डानि तस्मै पक्षिणे ददाव् इति ।
एवम् एव शास्त्र-वचनास्तिक्येन योगे ज्ञाने भक्तौ वा प्रवर्तमानम् उत्साहवन्तम् अध्यवसायिनं जनं भगवान् एवानुगृह्णातीति निश्चेतव्यम् ॥२०-२३॥
बलदेवः : नात्यश्नत इत्य् आदौ योग-शब्देनोक्तं समाधिं स्वरूपतः फलतश् च लक्षयति यत्रेत्य्-आदि-सार्ध-त्रयेण । यच्-छब्दानां तं विद्याद् योग-सञ्ज्ञितम् इत्य् उत्तरेणान्वयः । योगय्स सेवयाभ्यासेन निरुद्धं निवृत्तेतर-वृत्तिकं चित्तं यत्रोपरमते महत् सुखम् एतद् इति सज्जति । न तु देहादि पश्यन् विषयेष्व् इति चित्त-वृत्ति-निरोधेन स्वरूपेणेष्ट-प्राप्ति-लक्षणेन फलेन च योगो दर्शितः । सुखम् इति । यत्र समाधौ यत् तत् प्रसिद्धम् आत्यन्तिकं नित्यं सुखं वेत्त्य् अनुभवति । अतीन्द्रियं विषयेन्द्रिय-सम्बन्ध-रहितम्, बुद्ध्यात्माकारया ग्राह्यम् । अतएव यत्र स्थितस् तत्त्वत आत्म-स्वरूपान् नैव चलति, यं योगं लब्ध्वैव ततो ऽपरं लाभम् अधिकं न मन्यते । गुरुणा गुणवत् पुत्र-विच्छेदादिना न विचायते तम् इति । दुःख-संयोगस्य वियोगः प्रध्वंसो यत्र तं योग-सञ्ज्ञ्तं
समाधिम् ॥२०-२३॥
६।२४
सङ्कल्प-प्रभवान् कामांस् त्यक्त्वा सर्वान् अशेषतः ।
मनसैवेन्द्रिय-ग्रामं विनियम्य समन्ततः ॥२४॥
श्रीधरः : किं च सङ्कल्पेति । सङ्कल्पात् प्रभवो येषां तान् योग-प्रतिकूलान् सर्वान् कामान् अशेषतः स-वासनांस् त्यक्त्वा मनसैव विषय-दोष-दर्शिना सर्वतः प्रसरन्तम् इन्द्रिय-समूहं विशेषेण नियम्य । योगो योक्तव्य इति पूर्वेणान्वयः ॥२४॥
मधुसूदनः : किं च कृत्वा योगो ऽभ्यस्नीयः ? सङ्कल्पो दुष्टेष्व् अपि विषयेष्व् अशोभनत्वादर्शनेन शोभनाध्यासः । तस्माच् च सङ्कल्पाद् इदं मे स्याद् इदं मे स्याद् इत्य् एवं-रूपाः कामाः प्रभवन्ति । तान् शोभनाध्यास-प्रभवान् विषयाभिलाषान् विचार-जन्याशोभनत्व-निश्चयेन शोभनाध्यास-बाधाद् दृष्टेषु स्रक्-चन्दन-वनितादिष्व् अदृष्टेषु चेन्द्र-लोक-पारिजाताप्सरः-प्रभृतिषु श्व-वान्त-पायसवत् स्वत एव सर्वान् ब्रह्म-लोक-पर्यन्तान् अशेषतो निरवशेषान् सवासनांस् त्यक्त्वा, अतएव काम-पूर्वकत्वाद् इन्दिर्य-प्रवृत्तेस् तद्-अपाये सति विवेक-युक्तेन मनसैवेन्द्रिय-प्राप्तं चक्षुर्-आदि-करण-समूहं विनियम्य समन्ततः सर्वेभ्यो विषयेभ्यः प्रत्याहृत्य शनैः शनैर् उपरमेद् इत्य् अन्वयः ॥२४॥
विश्वनाथः : एतादृश-योगाभ्यासे प्रवृत्तस्य प्राथमिकं कृत्यम् अन्त्यं च कृत्यम् आह सङ्कल्पेति द्वाभ्याम् । कामांस् त्यक्त्वेति प्राथमिकं कृत्यम् । न किञ्चिद् अपि चिन्तयेद् इत्य् अन्त्यं कृत्यम् ॥२४-२५॥
बलदेवः : स योगः प्रारम्भ-दशायां निश्चयेन प्रयत्ने कृते संसेत्स्यत्य् एवेत्य् अध्यवसायेन योक्तव्यो ऽनुष्ठेयः । आत्मन्य् अयोगत्व-मननं निर्वेदस् तद्-रहितेन चेतसा हृताण्डार्णव-शोषकत्-पक्षिवत् सोत्साहेनेत्य् अर्थः । एतादृशं योगम् आरभमाणस्य प्राथमिकं कृत्यम् आह सङ्कल्पेति । सङ्कल्पात् प्रभवो येषां तान् योग-विरोधिनः कामान् विषयान् अशेषतः स-वासनांस् त्यक्त्वा । स्फुटम् अन्यत् । मनसा विषय-दोष-दर्शिना ॥२४॥
६।२५
शनैः शनैर् उपरमेद् बुद्ध्या धृति-गृहीतया ।
आत्म-संस्थं मनः कृत्वा न किञ्चिद् अपि चिन्तयेत् ॥२५॥
श्रीधरः : यदि तु प्राक्तन-कर्म-संस्कारेण मनो विचलेत् तर्हि धारणया स्थिरीकुर्याद् इत्य् आह शनैर् इति । धृतिर् धारणा । तया गृहीतया वशीकृतया बुद्ध्या । आत्म-संस्थम् आत्मन्य् एव सम्यक् स्थितं निश्चलं मनः कृत्वोपरमेत् । तच् च शनैः शनैर् अभ्यास-क्रमेण । न तु सहसा । उपरम-स्वरूपम् आह न किञ्चिद् अपि चिन्तयेत् । निश्चले मनसि स्वयम् एव प्रकाशमान-परमानन्द-स्वरूपो भूत्वात्म-ध्यानाद् अपि निवर्तेतेत्य् अर्थः ॥२५॥
मधुसूदनः : भूमिका-जय-क्रमेण शनैः शनैर् उपरमेत् । धृति-धैर्यम् अखिन्नता तया गृहीता या बुद्धिर् अवश्य-कर्तव्यता-निश्चय-रूपा तया यदा कदाचिद् अवश्यं भविष्यत्य् एव योगः किं त्वरयेत्य् एवं-रूपया शनैः शनैर् गुरूपदिष्ट-मार्गेण मनो निरुन्ध्यात् । एतेनानिर्वेद-निश्चयौ प्राग् उक्तौ दर्शितौ । तथा च श्रुतिः -
यच्छेद् वाङ्-मनसी प्राज्ञस्
तद् यच्छेज् ज्ञान आत्मनि ।
ज्ञानम् आत्मनि महति नियच्छेत्
तद् यच्छेच् छान्त आत्मनि ॥ [कठु १।३।१३] इति ।
वाग् इति वाचं लौकिकीं वैदिकीं च मनसि व्यापारवति नियच्छेत् । नानुध्यायाद् बहून् शब्दान् वाचो विग्लापनं हि तत् [बउ ४।४।२१] इति श्रुतेः । वाग्-वृत्ति-निरोधेन मनो-वृत्ति-मात्र-शेषो भवेद् इत्य् अर्थः । चक्षुर्-आदि-निरोधो ऽप्य् एतस्यां भूमौ द्रष्टव्यः । मनसीति च्छान्दसं दैर्घ्यम् । तन् मनः कर्मेद्रिय-ज्ञानेन्द्रिय-सहकारि नन-विध-विकल्प-साधनं करणं ज्ञाने जानातीति ज्ञानम् इति व्युत्पत्त्या ज्ञातर्य् आत्मनि ज्ञातृत्वोपाधाव् अहङ्कारे नियच्छेत् । मनो-व्यापारान् परित्यज्याहङ्कार-मात्रं परिशेषयेत् । तच् च ज्ञानं ज्ञातृत्वोपाधिम् अहङ्कारम् आत्मनि महति महत्-तत्त्वे सर्व-व्यापके नियच्छेत् । द्विविधो ह्य् अहङ्कारो विशेष-रूपः सामान्य-रूपश् चेति । अयम् अहम् एतस्य पुत्र इत्य् एवं व्यक्तम् अभिमन्यमानो विशेष-रूपो व्यष्ट्य्-अहङ्कारः । अस्मीत्य् एतावन्-मात्रम्
अभिमन्यमानः सामान्य-रूपः समष्ट्य्-अहङ्कारः । स च हिरण्यगर्भो महान् आत्मेति च सर्वानुस्यूतत्वाद् उच्यते । ताभ्याम् अहङ्काराभ्यां विविक्तो निरुपाधिकः शान्तात्मा सर्वान्तश् चिद्-एक-रसस् तस्मिन् महान्तम् आत्मानं समष्टि-बुद्धिं नियच्छेत् । एवं तत्-कारणम् अव्यक्तम् अपि नियच्छेत् । ततो निरुपाधिकस् त्वं-पद-लक्ष्यः शुद्ध आत्मा साक्षात्कृतौ भवति ।
शुद्धे हि चिद्-एक-रसे प्रत्यग्-आत्मनि जड-शक्ति-रूपम् अनिर्वाच्यम् अव्यक्तं प्रकृतिर् उपाधिः । सा च प्रथमं सामान्याहङ्कार-रूपं महत् तत्त्वं नाम धृत्वा व्यक्तीभवति । ततो बहिर् विशेषाहङ्कार-रूपेण । ततो बहिर् मनो-रूपेण । ततो बहिर् वाग्-आदीन् इन्द्रिय-रूपेण । तद् एतच् छ्रुत्याभिहितम् -
इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥
महतः परम-व्यक्तम् अव्यक्तात् पुरुषः परः ।
पुरुषान् न परं किञ्चित् सा काष्ठा सा परा गतिः ॥ [कठु १।३।१०-१] इति ।
तत्र गवादिष्व् इव वाङ्-निरोधः प्रथमा भूमिः । बाल-मुग्धादिष्व् इव निर्मनस्त्वं द्वितीया । तन्द्र्याम् इवाहङ्कार-राहित्यं तृतीया । सुषुप्ताव् इव महत्-तत्त्व-शान्तात्मनोर् मध्ये महत्-तत्त्वोपादानम् अव्याकृताख्यं तत्त्वं श्रुत्योदाहारि, तथापि तत्र महत्-तत्त्वस्य नियमनं नाभ्यधायि । सुषुप्ताव् इव स्वरूप-लय-प्रसङ्गात् । तस्य च कर्म-क्षये सति पुरुष-प्रयत्नम् अन्तरेण स्वत एव सिद्धत्वात् तत्त्व-दर्शनानुपयोगित्वाच् च । दृश्यते त्वम् अग्रया बुद्ध्या सूक्ष्मया सूक्ष्म-दर्शिभिः इति पूर्वम् अभिधाय सूक्ष्मत्व-सिद्धये निरोध-समाधेर् अभिधानात् । स च तत्त्व-दिदृक्षोर् दर्शन-साधनत्वेन दृष्ट-तत्त्वस्य च जीवन्-मुक्ति-रूप-क्लेश-क्षयायापेक्षितः ।
ननु शान्तात्मन्य् अवरुद्धस्य चित्तस्य वृत्ति-रहितत्वेन सुषुप्तिवन् न दर्शन-हेतुत्वम् इति चेत्, न । स्वतः-सिद्धस्य दर्शनस्य निवारयितुम् अशक्यत्वात् । तद् उक्तं -
आत्मानात्माकारं स्वभावतो ऽस्थितं सदा चित्तम् ।
आत्मैकाकारतया तिरस्कृतानात्म-दृष्टिं विदधीत ॥
यथा घट उत्पद्यमानः स्वतो वियत्-पूर्णं एवोत्पद्यते । जल-तण्डुलादि-पूरणं तूत्पन्ने घटे पश्चात् पुरुष-प्रयत्नेन भवति । तत्र जलादौ निःसारिते ऽपि वियन्-निःसारयितुं न शक्यते । मुख-पिधाने ऽप्य् अन्तर्वियद् अवतिष्ठत एव तथा चित्तम् उत्पद्यमानं चैतन्य-पूर्णम् एवोत्पद्यते । उत्पन्ने तु तस्मिन् मूषानिषिक्त-द्रुत-ताम्रवद् घट-दुःखादि-रूपत्वं भोग-हेतु-धर्माधर्म-सहकृत-सामग्री-वशाद् भवति । तत्र घट-दुःखाद्य्-अनात्माकारे विराम-प्रत्ययाभ्यासेन निवारिते ऽपि निर्निमित्तश् चिद्-आकारो वारयितुं न शक्यते । ततो निरोध-समाधिना निर्वृत्तिकेन चित्तेन संस्कार-मात्र-शेषतयातिसूक्ष्मत्वेन निरुपाधिक-चिद्-आत्म-मात्राभिमुखत्वाद् वृत्तिं विनैव निर्विघ्नम् आत्मानुभूयते । तद् एतद् आह आत्म-संस्थं मनः कृत्वा न किञ्चिद् अपि चिन्तयेद् इति । आत्मनि
निरुपाधिके प्रतीचि संस्था समाप्तिर् यस्य तद्-आत्म-संस्थं सर्व-प्रकार-वृत्ति-शून्यं स्वभाव-सिद्धात्माकार-मात्र-विशिष्टं मनः कृत्वा धृति-गृहीतया विवेक-बुद्ध्या सम्पाद्यासम्प्रज्ञात-समाधि-स्थः सन् किञ्चिद् अपि अनात्मानम् आत्मानं वा न चिन्तयेत्, न वृत्त्या विषयीकुर्यात् । अनात्माकार-वृत्तौ हि व्युत्थानम् एव स्यात् । आत्माकार-वृत्तौ च सम्प्रज्ञातः समाधिर् इत्य् असम्प्रज्ञात-समाधि-स्थैर्याय काम् अपि चित्त-वृत्तिं नोत्पादयेद् इत्य् अर्थः ॥२५॥
विश्वनाथः : सेए ## ६।२४।
बलदेवः : अन्तिमं कृत्यम् आह धृति-गृहीतया धारणावशीकृत्या बुद्ध्या मन आत्म-संस्थं कृत्वात्मानं ध्यात्वा समाधाव् उपरमेत तिष्ठेत् । आत्मनो ऽन्यत् किञ्चिद् अपि न चिन्तयेत् । एतच् च शनैः शनैर् अभ्यास-क्रमेण, न तु हठेन ॥२५॥
६।२६
यतो यतो निश्चरति मनश् चञ्चलम् अस्थिरम् ।
ततस् ततो नियम्यैतद् आत्मन्य् एव वशं नयेत् ॥२६॥
श्रीधरः : एवम् अपि रजो-गुण-वशाद् यदि मनः प्रचलेत् तर्हि पुनः प्रत्याहारेण वशीकुर्याद् इत्य् आह यतो यत इति । स्वभावतश् चञ्चलं धार्यमाणम् अप्य् अस्थिरं मनो यं यं विषयं प्रति निर्गच्छति, ततस् ततः प्रत्याहृत्यात्मन्य् एव स्थिरं कुर्यात् ॥२६॥
मधुसूदनः : एवं निरोध-समाधिं कुर्वन् योगी शब्दादीनां चित्त-विक्षेप-हेतूनां मध्ये यतो यतो यस्माद् यस्मान् निमित्ताच् छब्दादेर् विषयाद् राग-द्वेषादेश् च चञ्चलं विक्षेपाभिमुखं सन् मनो निश्चरति विक्षिप्तं सद् विषयाभिमुखीं प्रमाण-विपर्यय-विकल्प-स्मृतीनाम् अन्यतमाम् अपि समाधि-विरोधिनीं वृत्तिम् उत्पादयति, तथा लय-हेतूनां निद्राशेष-बह्व्-अशन-श्रमादीनां मध्ये यतो यतो निमित्ताद् अस्थिरं लयाभिमुखं सन् मनो निश्चरति लीनं सत् समाधि-विरोधिनीं निद्राख्यां वृत्तिम् उत्पादयति, ततस् ततो विक्षेप-निमित्ताल् लय-निमित्ताच् च नियम्यैतन् मनो निर्वृत्तिकं कृत्वात्मन्य् एव स्व-प्रकाश-परमानन्द-घने वशं नयेन् निरुन्ध्यात् । यथा न विक्षिप्येत न वा लीयेतेति । एव-कारो ऽनात्म-गोचरत्वं समाधेर् वारयति । एतच् च विवृतं गौडाचार्य-पादैः-
उपायेन निगृह्णीयाद् विक्षिप्तं काम-भोगयोः ।
सुप्रसन्नं लये चैव यथा कामो लयस् तथा ॥
दुःखं सर्वम् अनुस्मृत्य काम-भोगान् निवर्तयेत् ।
अजं सर्वम् अनुस्मृत्य जातं नैव तु पश्यति ॥
लये सम्बोधयेच् चित्तं विक्षिप्तं शमयेत् पुनः ।
सकषायं विजानीयात् सम-प्राप्तं न चालयेत् ॥
नास्वादयेत् सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ।
निश्चलं निच्शरच् चित्तम् एकीकुर्यात् प्रयत्नतः ॥
यदा न लीयते चित्तं न च विक्षिप्यते पुनः ।
अनिङ्गनम् अनाभासं निष्पन्नं ब्रह्म तत् तदा ॥ इति पञ्चभिः श्लोकैः ।
उपायेन वक्ष्यमाणेन वैराग्याभ्यासेन काम-भोगयोर् विक्षिप्तं प्रमाण-विपर्यय-विकल्प-स्मृतीनाम् अन्यतमयापि वृत्त्या परिणतं मनो निगृह्णीयान् निरुन्ध्याद् आत्मन्य् एवेत्य् अर्थः । काम-भोगयोर् इति चिन्त्यमानावस्था-भुज्यमानावस्था-भेदेन द्वि-वचनम् । तथा लीयते ऽस्मिन्न् इति लयः सुषुप्तं तस्मिन् सुप्रसन्नम् आयास-वर्जितम् अपि मनो निगृह्णीयाद् एव । सुप्रसन्नं चेत् कुतो निगृह्यते ? तत्राह - यथा कामो विषय-गोचर-प्रमाणादि-वृत्त्य्-उत्पादनेन समाधि-विरोधी तथा लयो ऽपि निद्राख्य-वृत्त्य्-उत्पादनेन समाधि-विरोधी । सर्व-वृत्ति-निरोधो हि समाधिः । अतः कामादि-कृत-विक्षेपाद् इव श्रमादि-कृत-लयाद् अपि मनो निरोद्धव्यम् इत्य् अर्थः ।
उपायेन निगृह्णीयात् केन ? इत्य् उच्यते सर्वं द्वैतम् अविद्या-विजृम्भितम् अल्पं दुःखम् एवेत्य् अनुस्मृत्य – यो वै भूमा तत् सुखम्, नाल्पे सुखम् अस्ति । [छाउ ७।२३।१] अथ यद् अल्पं तन् मर्त्यं [छाउ ७।२३।१] तद् दुःखम् इति श्रुत्य्-अर्थं गुरूपदेशाद् अनु पश्चात् पर्यालोच्य कामांश् चिन्त्यमानावस्थान् विषयान् भोगान् भुज्यमानावस्थांश् च विषयान् निवर्तयेत् । मनसः सकाशाद् इति शेषः । कामश् च भोगश् च काम-भोगं तस्मान् मनो निवर्तयेद् इति वा । एवं द्वैत-स्मरण-काले वैराग्य-भावनोपाय इत्य् अर्थः । द्वैत-विस्मरणं तु परमोपाय इत्य् आह अजं ब्रह्म सर्वं न ततो ऽतिरिक्तं किञ्चिद् अस्तीति शास्त्राचार्योपदेशाद् अनन्तरम् अनुस्मृत्य तद्-विपरीतं द्वैत-जातं न पश्यत्य् एव । अधिष्ठाने ज्ञाने कल्पितस्याभावात् । पूर्वोपायापेक्षया वैलक्षण्य-सूचनार्थस्
तु-शब्दः ।
एवं वैराग्य-भावना-तत्त्व-दर्शनाभ्यां विषयेभ्यो निवर्त्यमानं चित्तं यदि दैनन्दिन-लयाभ्यास-वशाल् लयाभिमुखं भवेत् तदा निद्रा-शेषाजीर्ण-बह्व्-अशन-श्रमाणां लय-कारणानां निरोधेन चित्तं सम्यक् प्रबोधयेद् उत्थान-प्रयत्नेन । यदि पुनर् एवं प्रबोध्यमानं दैनन्दिन-प्रबोधाभ्यास-वशात् काम-भोगयोर् विक्षिप्तं स्यात् तदा वैराग्य-भावनया तत्त्व-साक्षात्कारेण च पुनः शमयेत् । एवं पुनः पुनर् अभ्यस्यतो लयात् सम्बोधितं विषयेभ्यश् च व्यावर्तितम् । नापि समप्राप्तम् अन्तरालावस्थं चित्तं स्तब्धीभूतम्, स-कषायं राग-द्वेषादि-प्रबल-वासना-वशेन स्तब्धीभावाख्येन कषायेण दोषेण युक्तं विजानीयात् समाहिताच् चित्ताद् विवेकेन जानीयात् ।
ततश् च नेदं समाहितम् इत्य् अवगम्य लय-विक्षेपाभ्याम् इव कषायाद् अपि चित्तं निरुन्ध्यात् । ततश् च लय-विक्षेप-कषायेषु परिहृतेषु परिशेषाच् चित्तेन समं ब्रह्म प्राप्यते । तच् च समप्राप्तं चित्तं कषाय-लय-भ्रान्त्या न चालयेत्, विषयाभिमुखं न कुर्यात् । किन्तु धृति-गृहीतया बुद्ध्या लय-कषाय-प्राप्तेर् विविच्य तस्याम् एव सम-प्राप्ताव् अतियत्नेन स्थापयेत् । तत्र समाधौ परम-सुख-व्यञ्जके ऽपि सुखं नास्वादयेत् । एतावन्तं कालम् अहं सुखीति सुखास्वाद-रूपां वृत्तिं न कुर्यात् समाधि-भङ्ग-प्रसङ्गात् इति प्राग् एव कृत-व्याख्यानम् । प्रज्ञया यद् उपलभ्यते सुखं तद् अप्य् अविद्या-परिकल्पितं मृषैवेत्य् एवं-भावनया निःसङ्गो निस्पृहः सर्व-सुखेषु भवेत् ।
अथवा प्रज्ञया स-विकल्प-सुखाकार-वृत्ति-रूपया सह सङ्गं परित्यजेत् । न तु स्वरूप-सुखम् अपि निर्वृत्तिकेन चित्तेन नानुभवेत् स्वभाव-प्राप्तस्य तस्य वारयितुम् अशक्यत्वात् । एवं सर्वतो निवर्त्य निश्चलं प्रयत्न-वशेन कृतं चित्तं स्वभाव-चाञ्चल्याद् विषयाभिमुखतया निश्चरद् बहिर् निर्गच्छद् एकीकुर्यात् प्रयत्नतः, निरोध-प्रयत्नेन समे ब्रह्मण्य् एकतां नयेत् ।
सम-प्राप्तं चित्तं कीदृशम् ? इत्य् उच्यते यदा न लीयते नापि स्तब्धीभवति तामसत्व-साम्येन लय-शब्देनैव स्तब्धीभावस्योपलक्षणात् । न च विक्षिप्यते पुनः, न शब्दाद्य्-आकार-वृत्तिम् अनुभवति । नापि सुखम् आस्वादयति, राजसत्व-साम्येन सुखास्वादस्यापि विक्षेप-शब्देनोपलक्षणात् । पूर्वं भेद-निर्देशस् तु पृथक्-प्रयत्न-करणाय । एवं लय-कषायाभ्यां विक्षेप-सुखास्वादाभ्यां च रहितम् अनिङ्गनम् इङ्गनं चलनं स-वात-प्रदीपवल् लयाभिमुख्य-रूपं तद्-रहितं निवात-प्रदीप-कल्पम् । अनाभासं न केनचिद् विषयाकारेणाभासत इत्य् एतत् । कषाय-सुखास्वादयोर् उभयान्तर्भाव उक्त एव । यदैवं दोष-चतुष्टय-रहितं चित्तं भवति तदा तच् चित्तं ब्रह्म निष्पन्नं समं ब्रह्म प्राप्तं भवतीत्य् अर्थः ।
एतादृशश् च योगः श्रुत्या प्रतिपादितः -
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश् च न विचेष्टेत ताम् आहुः परमां गतिम् ॥
तां योगम् इति मन्यन्ते स्थिराम् इन्द्रिय-धारणाम् ।
अप्रमत्तस् तदा भवति योगो हि प्रभवाप्ययौ ॥ [कठु २।३।११-२] इति ।
एतन्-मूलकम् एव च योगश् चित्त-वृत्ति-निरोधः [योगस् १।२] इति सूत्रम् । तस्माद् युक्तं ततस् ततो नियम्यैतद् आत्मन्य् एवं वशं नयेद् इति ॥२७॥
विश्वनाथः : यदि च प्राक्तन-दोषोद्गम-वशाद् रजो-गुण-स्पृष्टं मनश् चञ्चलं स्यात्, तदा पुनर् योगम् अभ्यसेद् इत्य् आह यतो यत इति ॥२६॥
बलदेवः : यदि कदाचित् प्राक्तन-सूक्ष्म-दोषान् मनः प्रचलेत् तदा तत् प्रत्याहरेद् इत्य् आह यत इति । यं यं विषयं प्रति मनो निर्गच्छति, ततस् तत एतन् मनो नियम्य प्रत्याहृत्यात्मन्य् एव निरतिशय-सुखत्व-भावनया वशं कुर्यात् ॥२६॥
६।२७
प्रशान्त-मनसं ह्य् एनं योगिनं सुखम् उत्तमम् ।
उपैति शान्त-रजसं ब्रह्म-भूतम् अकल्मषम् ॥२७॥
श्रीधरः : एवं प्रत्याहारादिभिः पुनः पुनर् मनो वशीकुर्वन् रजो-गुण-क्षये सति योग-सुखं प्राप्नोतीत्य् आह प्रशान्तेति । एवम् उक्त-प्रकारेण शान्तं रजो यस्य तम् । अतएव प्रशान्तं मनो यस्य तम् एनं निष्कल्मषम् ब्रह्मत्वं प्राप्तं योगिनं उत्तमम् सुखं समाधि-सुखं स्वयम् एवोपैति प्राप्नोति ॥२७॥
मधुसूदनः : एवं योगाभ्यास-बलाद् आत्मन्य् एव योगिनः प्रशाम्यति मनः । ततश् च प्रशान्तेति । प्रकर्षेण शान्तं निर्वृत्तिकतया निरुद्धं संस्कार-मात्र-शेषं मनो यस्य तं प्रशान्त-मनसं वृत्ति-शून्यतया निर्मनस्कम् । निर्मनस्कत्वे हेतु-गर्भं विशेषण-द्वयं शान्त-रजसं अकल्मषम् इति । शान्तं विक्षेपकं रजो यस्य तं विक्षेप-शून्यम् । तथा न विद्यते कल्मषम् लय-हेतुस् तमो यस्य तम् अकल्मषम् लय-शून्यम् । शान्त-रजसम् इत्य् अनेनैव तमो-गुणोपलक्षणे ऽ कल्मषम् संसार-हेतु-धर्माधर्मादि-वर्जितम् इति वा । ब्रह्म-भूतं ब्रह्मैव सर्वम् इति निश्चयेन समं ब्रह्म प्राप्तं जीवन्-मुक्तम् एनं योगिनम् । एवम् उक्तेन प्रकारेणेति श्रीधरः । उत्तमं निरतिशयं सुखम् उपैत्य् उपगच्छति । मनस् तद्-वृत्त्योर् अभावे सुषुप्तौ स्वरूप-सुखाविर्भाव-प्रसिद्धिं
द्योतयति हि-शब्दः । तथा च प्राग्-व्याख्यातं सुखम् आत्यन्तिकं यत् तद् इत्य् अत्र ॥२७॥
विश्वनाथः : ततश् च पूर्ववद् एव तस्य समाधिसुखं स्याद् इत्य् आह प्रशान्तेति । सुखं कर्तृ योगिनम् उपैति प्राप्नोति ।
बलदेवः : एवं प्रयतमानस्य पूर्ववद् एव समाधि-सुखं स्याद् इत्य् आह प्रशान्तेति । प्रशान्तम् आत्मन्य् अचलं मनो यस्य तम् । अतएवाकल्मषं दग्ध-प्राक्तन-सूक्ष्म-दोषम् । अतएव शान्त-रजसम् । ब्रह्म-भूतं साक्षात्-कृत-विविक्ताविर्भाविताष्ट-गुणकात्म-स्वरूपं योगिनं प्रत्य् उत्तमम् आत्मानुभव-रूपं महत् सुखं कर्ता स्वयम् एवोपैति ॥२७॥
६।२८
युञ्जन्न् एवं सदात्मानं योगी विगत-कल्मषः ।
सुखेन ब्रह्म-संस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥२८॥
श्रीधरः : ततश् च कृतार्थो भवतीत्य् आह युञ्जन्न् इति । एवम् अनेन प्रकारेण सर्वदात्मानं मनो युञ्जन् वशीकुर्वन् । विशेषेण सर्वात्मना । विगतं कल्मषं यस्य सः । योगी सुखेनानायासेन ब्रह्मणः संस्पर्शो ऽविद्या-निवर्तकः साक्षात्कारस् तद् एवात्यन्तं सुखम् अश्नुते । जीवन्मुक्तो भवतीत्य् अर्थः ॥२८॥
मधुसूदनः : उक्तं सुखं योगिनः स्फुटीकरोति युञ्जन्न् इति । एवम् मनसैवेन्द्रिय-ग्रामम् इत्य् आद्य्-उक्त-क्रमेणात्मानं मनः सदा युञ्जन् समादधद् योगी योगेन नित्य-सम्बन्धी विगत-कल्मषो विगत-मलः संसार-हेतु-धर्माधर्म-रहितः सुखेनानायासेनेश्वर-प्रणिधानात् सर्वान्तराय-निवृत्त्या ब्रह्म-संस्पर्शं सम्यक्त्वेन विषयास्पर्शेन सह ब्रह्मणः स्पर्शस् तादात्म्यं यस्मिंस् तद्-विषयासंस्पर्शि ब्रह्म-स्वरूपम् इत्य् एतत् । अत्यन्तं सर्वानन्तान् परिच्छेदान् अतिक्रान्तं निरतिशयं सुखम् आनन्दम् अश्नुते व्याप्नोति, सर्वतो-निर्वृत्तिकेन चित्तेन लय-विक्षेप-विलक्षणम् अनुभवति, विक्षेपे वृत्ति-सत्त्वात्, लये च मनसो ऽपि स्वरूपेणासत्त्वात् । सर्व-वृत्ति-शून्येन सूक्ष्मेण मनसा सुखानुभवः समाधाव् एवेत्य् अर्थः ।
अत्र चानायासेनेत्य् अन्तराय-निवृत्तिर् उक्ता । ते चान्तराया दर्शिता योग-सूत्रेण - व्याधि-स्त्यान-संशय-प्रमादालस्याविरति-भ्रान्ति-दर्शनालब्ध-भूमिकत्वानवस्थितत्वानि चित्त-विक्षेपास् ते ऽन्तरायाः [योगस् १।३०] । चित्तं विक्षिपन्ति योगाद् अपनयन्तीति चित्त-विक्षेपा योग-प्रतिपक्षाः । संशय-भ्रान्ति-दर्शने तावद् वृत्ति-रूपतया वृत्ति-निरोधस्य साक्षात्-प्रतिपक्षौ । व्याध्य्-आदयस् तु सप्त वृत्ति-सहचरिततया तत्-प्रतिपक्षा इत्य् अर्थः । व्याधिर् धातु-वैषम्य-निमित्तो विकारो ज्वरादिः । स्त्यानम् अकर्मण्यता गुरुणा शिक्ष्यमाणस्याप्य् आसनादि-कर्मानर्हतेति यावत् । योगः साधनीयो न वेत्य् उभय-कोटि-स्पृग्-विज्ञानं संशयः । स चातद्-रूप-प्रतिष्ठत्वेन विपर्ययान्तर्गतो ऽपि सन्न् उभय-कोटि-स्पर्शित्वैक-कोटि-स्पर्शित्व-रूपावान्तर-विशेष-विवक्षयात्र विपर्ययाद् भेदेनोक्तः
। प्रमादः समाधि-साधनानाम् अनुष्ठान-सामर्थ्ये ऽप्य् अननुष्ठान-शीलता विषयान्तर व्याप्रततया योग-साधनेष्व् औदासीन्यम् इति यावत् । आलस्यं सत्याम् अप्य् औदासीन्य-प्रच्युतौ कफादिना तमसा च काय-चित्तयोर् गुरुत्वम् । तच् च व्याधित्वेनाप्रसिद्धम् अपि योग-विषये प्रवृत्ति-विरोधि । अविरतिश् चित्तस्य विषय-विशेष ऐकान्तिको ऽभिलाषः । भ्रान्ति-दर्शनं योगासाधने ऽपि तत्-साधनत्व-बुद्धिस् तथा तत्-साधने ऽपिय् असाधनत्व-बुद्धिः । अलब्ध-भूमिकत्वं समाधि-भूमेर् एकाग्रताया अलाभः । क्षिप्त-मूढ-विक्षिप्त-रूपत्वम् इति यावत् । अनवस्थितत्वं लब्धायाम् अपि समाधि-भूमौ प्रयत्न-शैथिल्याच् चित्तस्य तत्राप्रतिष्ठितत्वम् । त एते चित्त-विक्षेपा नव योगमला योग-प्रतिपक्षा योगान्तराया इति चाभिधीयन्ते ।
दुःख-दौर्मनस्याङ्गम् एजयत्व-श्वास-प्रश्वासा विक्षेप-सह-भुवः [योगस् १।३१] दुःखं चित्तस्य राजसः परिणामो बाधनालक्षणः । तच् चाध्यात्मिकं शारीरं मानसं च व्याधि-वशात् कामादि-वशाच् च भवति । आधिभौतिकं ग्रह-पीडादि-जनितं द्वेषाख्य-विपर्यय-हेतुत्वात् समाधि-विरोधि । दौर्मनस्यम् इच्छा-विघातादि-बलवद् दुःखानुभव-जनितश् चित्तस्य तामसः परिणाम-विशेषः क्षोभा-पर-पर्यायः स्तब्धीभावः । स तु कषायत्वाल् लय-वत् समाधि-विरोधी । अङ्गम् एजयत्वम् अङ्ग-कम्पनम् आसन-स्थैर्य-विरोधि । प्राणेन बाह्यस्य वायोर् अन्तः-प्रवेशनं श्वासः समाध्य्-अङ्ग-रेचक-विरोधी । प्राणन कोष्ठ्यस्य वायोर् बहिर् निःसरणं प्रश्वासः समाध्य्-अङ्ग-पूरक-विरोधी । समाहित-चित्तस्यैते न भवन्ति विक्षिप्त-चित्तस्यैव
भवन्तीति विक्षेप-सहभुवो ऽन्तराया एव । एते ऽभ्यास-वैराग्याभ्यां निरोद्धव्याः । ईश्वर-प्रणिधानेन वा । तीव्र-संवेगानाम् आसन्ने [योगस् १।२१] समाधि-लाभे प्रस्तुत ईश्वर-प्रणिधानाद् वा [योगस् १।२३] इति पक्षान्तरम् उक्त्वा प्रणिधेयम् ईश्वरं क्लेश-कर्म-विपाकाशयैर् अपरामृष्टः पुरुष-विशेष ईश्वरः । तत्र निरतिशयं सर्वज्ञत्व-बीजम् । स पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात् [योगस् १।२४-६] इति त्रिभिः सूत्रैः प्रतिपाद्य तत्-प्रणिधानं द्वाभ्याम् असूत्रयत् – तस्य वाचकः प्रणवः । तज्-जपस् तद्-अर्थ-भावनम् [योगस् १।२७-८] इति । ततः प्रत्यक्-चेतनाधिगमो ऽप्य् अन्तरायाभावश् च [योगस् १।२९] ततः प्रणव-जप-रूपात् तद्-अर्थ-ध्यान-रूपाच् चेश्वर-प्रणिधानात् प्रत्यक्-चेतनस्य पुरुषस्य प्रकृति-विवेकेनाधिगमः साक्षात्कारो भवति । उक्तानाम्
अन्तरायाणाम् अभावो ऽपि भवतीत्य् अर्थः ।
अभ्यास-वैराग्याभ्याम् अन्तराय-निवृत्तौ कर्तव्यायाम् अभ्यास-दार्ढ्यार्थम् आह – तत्-प्रतिषेधार्थम् एक-तत्त्वाभ्यासः [योगस् १।३२] । तेषाम् अन्तरायाणां प्रतिषेधार्तह्म् एकस्मिन् कस्मिंश्चिद् अभिमते तत्त्वे ऽभ्यासश् चेतसः पुनः पुनर् निवेशनं कार्यम् । तथा – मैत्री-करुणा-मुदितोपेक्षणां सुख-दुःख-पुण्यापुण्य-विषयाणां भावनातश् चित्त-प्रसादनम् [योगस् १।३३] । मैत्री सौहार्दम्, करुणा कृपा, मुदिता हर्षः, उपेक्षौदासीन्यम्, सुखादि-शब्दैस् तद्वन्तः प्रतिपाद्यन्ते । सर्व-प्राणिषु सुख-सम्भोगापन्नेषु साध्व् एतन् मम मित्राणां सुखित्वम् इति मैत्रीं भावयेत् । न त्व् ईर्ष्याम् । दुःखितेषु कथं नु नामैषा दुःख-निवृत्तिः स्याद् इति कृपाम् एव भावयेत् । नोपेक्षां न वा हर्षम् । पुण्यवत्सु पुण्यानुमोदनेन हर्षं
कुर्यान् न तु विद्वेषं न चोपेक्षाम् । अपुण्यवत्सु चौदासीन्यम् एव भावयेन् नानुमोदनं न वा द्वेषम् । एवम् अस्य भावयतः शुक्लो धर्म उपजायते । ततश् च विगत-राग-द्वेषादि-मलं चित्तं प्रसन्नं सद् एकाग्रता-योग्यं भवति । मैत्र्य्-आदि-चतुष्टयं चोपलक्षणम् अभयं सत्त्व-संशुद्धिर् इत्य् आदीनाम् अमानित्वम् अदम्भित्वम् इत्य् आदीनां च धर्माणाम्, सर्वेषाम् एतेषां शुभ-वासना-रूपत्वेन मलिन-वासना-निवर्तकत्वात् । राग-द्वेषौ महा-शत्रू सर्व-पुरुषार्थ-प्रतिबन्धकौ महता प्रयत्नेन परिहर्तव्याव् इत्य् एतत्-सूत्रार्थः ।
एवम् अन्ये ऽपि प्राणायामादय उपायाश् चित्त-प्रसादनाय दर्शिताः । तद् एतच् चित्त-प्रसादनं भगवद्-अनुग्रहेण यस्य जातं तं प्रत्य् एवैतद् वचनम् - सुखेनेति । अन्यथा मनः-प्रशमानुपपत्तेः ॥२८॥
विश्वनाथः : ततश् च कृतार्थ एव भवतीत्य् आह युञ्जन्न् इति । सुखम् अश्नुते जीवन्-मुक्त एव भवतीत्य् अर्थः ॥२८॥
बलदेवः : एवं स्वात्म-साक्षात्कारानन्तरं परमात्म-साक्षात्कारश् च लभत इत्य् आह युञ्जन्न् इति । एवम् उक्त-प्रकारेण आत्मानं स्वं युञ्जन् योगेनानुभवत तेनैव विगत-कल्मषो दग्ध-सर्व-दोषो योगी सुखेनानायासेन ब्रह्म-संस्पर्शं परमात्मानुभवम् अत्यन्तम् अपरिमितं सुखम् अश्नुते प्राप्नोति ॥२८॥
६।२९
सर्व-भूत-स्थम् आत्मानं सर्व-भूतानि चात्मनि ।
ईक्षते योग-युक्तात्मा सर्वत्र सम-दर्शनः ॥२९॥
श्रीधरः : ब्रह्म-साक्षात्कारम् एव दर्शयति सर्व-भूत-स्थम् इति । योगेनाभ्यस्यमानेन युक्तात्मा समाहित-चित्तः । सर्वत्र समं ब्रह्मैव पश्यतीति सम-दर्शनः । तथा स स्वम् आत्मानम् अविद्याकृत-देहादि-परिच्छेद-शून्यं सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेष्व् अवस्थितं पश्यति । तानि चात्मन्य् अभेदेन पश्यति ॥२९॥
मधुसूदनः : तद् एवं निरोध-समाधिना त्वं-पद-लक्ष्ये तत्-पद-लक्ष्ये च शुद्धे साक्षात्कृते तदैक्य-गोचरा तत्त्वम् असीति वेदान्त-वाक्य-जन्या निर्विकल्पक-साक्षात्कार-रूपा वृत्तिर् ब्रह्म-विद्याभिधाना जायते । ततश् च कृत्स्नाविद्या-तत्-कार्य-निवृत्त्या ब्रह्म-सुखम् अत्यन्तम् अश्नुत इत्य् उपपादयति त्रिभिः श्लोकैः । तत्र प्रथमं त्व-पद-लक्ष्योपस्थितिम् आह सर्वेति ।
सर्वेषु भूतेषु स्थावर-जङ्गमेषु शरीरेषु भोक्तृतया स्थितम् एकम् एव विभुम् आत्मानं प्रत्यक्-चेतनं साक्षिणं परमार्थ-सत्यम् आनन्द-घनं साक्ष्येभ्यो ऽनृत-जड-परिच्छिन्न-दुःख-रूपेभ्यो विवेकेनेक्षते साक्षात्करोति । तस्मिंश् चात्मनि साक्षिणि सर्वाणि भूतानि साक्ष्याण्य् आध्यासिकेन सम्बन्धेन भोग्यतया कल्पितानि साक्षि-साक्ष्ययोः सम्बन्धान्तरानुपपत्तेर् मिथ्या-भूतानि परिच्छिन्नानि जडानि दुःखात्मकानि साक्षिणो विवेकेनेक्षते ।
कः ? योग-युक्तात्मा योगेन निर्विक्चार-वैशारद्य-रूपेण युक्तं प्रसादं प्राप्त आत्मान्तःकरणं यस्य स तथा । तथा च प्राग् एवोक्तं - निर्विचार-वैशारद्ये ऽध्यात्म-प्रसादः [योगस् १।४७] ऋतम्भरा तत्र प्रज्ञा [योगस् १।४८] श्रुतानुमान-प्रज्ञाभ्याम् अन्य-विषया विशेषार्थत्वात् [योगस् १।४९] इति । तथा च शब्दानुमानागोचर-यथार्थ-विशेष-वस्तु-गोचर-योग-प्रत्यक्षेण ऋतम्भर-सञ्ज्ञेन युगपत् सूक्ष्मं व्यवहितं विप्रकृष्टं च सर्वं तुल्यम् एव पश्यतीति सर्वत्र समं दर्शनं यस्येति सर्वत्र सम-दर्शनः सन्न् आत्मानम् अनात्मानं च योग-युक्तात्मा यथा-स्थितम् ईक्षत इति युक्तम् ।
अथवा यो योग-युक्तात्मा यो वा सर्वत्र-सम-दर्शनः स आत्मानम् ईक्षत इति योगि-सम-दर्शिनाव् आत्मेक्षणाधिकारिणाव् उक्तौ । यथा हि चित्त-वृत्ति-निरोधः साक्षि-साक्षात्कार-हेतुस् तथा जड-विवेकेन सर्वानुस्यूत-चैतन्य-पृथक्-करणम् अपि । नावश्यं योग एवापेक्षितः । अत एवाह वसिष्ठः -
द्वौ क्रमौ चित्त-नाशस्य योगो ज्ञानं च राघव ।
योगो वृत्ति-निरोधो हि ज्ञानं सम्यग्-अवेक्षणम् ॥
असाध्यः कस्यचिद् योगः कस्यचित् तत्त्व-निश्चयः ।
प्रकारौ द्वौ ततो देवो जगाद परमः शिवः ॥ इति ।
चित्त-नाशस्य साक्षिणः सकाशात् तद्-उपाधि-भूत-चित्तस्य पृथक्-करणात् तद्-अदर्शनस्य । तस्योपाय-द्वयम् - एको ऽसम्प्रज्ञात-समाधिः । सम्प्रज्ञात-समाधौ हि आत्मैकाकार-वृत्ति-प्रवाह-युक्तम् अन्तः-करण-सत्त्वं साक्षिणानुभूयते निरुद्ध-सर्व-वृत्तिकं तूपशान्तत्वान् नानुभूयत इति विशेषः । द्वितीयस् तु साक्षिणि कल्पितं साक्ष्यम् अनृतत्वान् नास्त्य् एव साक्ष्य् एव तु परमार्थ-सत्यः केवलो विद्यत इति विचारः । तत्र प्रतमम् उपायं प्रपञ्च-परमार्थता-वादिनो हैरण्यगर्भादयः प्रपेदिरे । तेषां परमार्थस्य चित्तस्यादर्शनेन साक्षि-दर्शने निरोधातिरिक्तोपाय-सम्भवात् । श्रीमच्-छङ्कर-भगवत्-पूज्य-पाद-मतोपजीविनस् त्व् औपनिषदाः प्रपञ्चानृतत्व-वादिनो द्वितीयम् एवोपायम् उपेयुः । तेषां ह्य् अधिष्ठान-ज्ञान-दार्ढ्ये सति तत्र
कल्पितस्य बाधितस्य चित्तस्य तद्-दृश्यस्य चादर्शनम् अनायासेनैवोपपद्यते । अतएव भगवत्-पूज्य-पादाः कुत्रापि ब्रह्म-विदां योगापेक्षां न व्युत्पादयां बभूव । अतएव चौपनिषदाः परमहंसाः श्रौते वेदान्त-वाक्य-विचार एव गुरुम् उपसृत्य प्रवर्तन्ते ब्रह्म-साक्षात्काराय न तु योगे । विचारेणैव चित्त-दोष-निराकरणेन तस्यान्यथा-सिद्धत्वाद् इति कृतम् अधिकेन ॥२९॥
विश्वनाथः : जीवन्-मुक्तस्य तस्य ब्रह्म-साक्षात्कारं दर्शयति सर्व-भूत-स्थम् आत्मानम् इति । परमात्मनः सर्व-भूताधिष्ठातृत्वम् आत्मनीति परमात्मनः सर्व-भूताधिष्ठानं च । ईक्षते अपरोक्षतयानुभवति । योग-युक्तात्मा ब्रह्माकारान्तःकरणः । समं ब्रह्मैव पश्यतीति सम-दर्शनः ॥२९॥
बलदेवः : एवं निष्पण्ण-समाधिः प्रत्यक्षित-स्व-परात्म-योगी परात्मनः सर्वगतत्वं तद् अन्यात्मनां द्रुहिणादीनां सर्वेषां तद्-आश्रयत्वं तस्याविषयमत्वं चानुभवतीत्य् आह सर्वेति । योग-युक्तात्मा सिद्ध-समाधिस् तद् आत्मानं आततत्वाच् च मातृत्वाद् आत्मा हि परमो हरिः इति स्मृतेः । यो माम् इति विवरणाच् च परमात्मानं सर्व-भूत-स्थम् निखिलं जीवान्तर्यामिणम् ईक्षते । आत्मनि तस्मिन्न् आश्रय-भूते सर्व-भूतानि च तम् एव सर्व-जीवाश्रयं चेक्षते । स इत्य् आह सर्वत्रेति । तत् तत्-कर्मानुगुण्येनोच्चावचतया सृष्टेषु सर्वेषु जीवेषु समम् वैषम्य-शून्यं परात्मानं पश्यतीति तथा ॥२९॥
६।३०
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥३०॥
श्रीधरः : एवम्भूतात्म-ज्ञाने च सर्व-भूतात्मया मद्-उपासनं मुख्यं कारणम् इत्य् आह यो माम् इति । मां परमेश्वरं सर्वत्र भूत-मात्रे यः पश्यति । सर्वं च प्राणि-मात्रं मयि यः पश्यति । तस्याहं न प्रणश्याम्य् अदृश्यो न भवामि । स च ममादृश्यो न भवति । प्रत्यक्षो भूत्वा कृपा-दृष्ट्या तं विलोक्यानुगृह्णामीत्य् अर्थः ॥३०॥
मधुसूदनः : एवं शुद्धं त्व-पदार्थं निरूप्य शुद्धं तत्-पदार्थं निरूपयति यो माम् इति । यो योगी माम् ईश्वरं तत्-पदार्थम् अशेष-प्रपञ्च-कारण-मायोपाधिकम् उपाधि-विवेकेन सर्वत्र प्रपञ्चे सद्-रूपेण स्फुरण-रूपेण चानुस्यूतं सर्वोपाधि-विनिर्मुक्तं परमार्थ-सत्यअम् आनन्द-घनम् अनन्तं पश्यति योग-जेन प्रत्यक्षेणापरोक्षीकरोति । तथा सर्वं च प्रपञ्च-जातं मायया मय्य् आरोपितं मद्-भिन्नतया मृषात्वेनैव पश्यति । तस्यैवं-विवेक-दर्शिनो ऽहं तत्-पदार्थो भगवान् न प्रणश्यामि । ईश्वरः कश्चिन् मद्-भिन्नो ऽस्तीति परोक्ष-ज्ञान-विषयो न भवामि, किन्तु योगजापरोक्ष-ज्ञान-विषयो भवामि । यद्यप्पि वाक्यजापरोक्ष-ज्ञान-विषयत्वं त्वं-पदार्थाभेदेनैव तथापि केवलस्यापि तत्-पदार्थस्य योगजापरोक्ष-ज्ञान-विषयत्वम्
उपपद्यत एव । एवं योगजेन प्रत्यक्षेण माम् अपरोक्षीकुर्वन् स च मे न प्रणश्यति परोक्षो न भवति । स्वात्मा हि मम स विद्वान् अतिप्रियत्वात् सर्वदा मद्-अपरोक्ष-ज्ञान-गोचरो भवति । ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [गीता ४।११] इत्य् उक्तेः । तथिअव शर-शय्या-स्थ-भीष्म-ध्यानस्य युधिष्ठिरं प्रति भगवतोक्तेः । अविद्वांस् तु स्वात्मानम् अपि सन्तं भगवन्तं न पर्श्यति । अतो भगवान् पश्यन्न् अपि तं न पश्यति । स एनम् अविदितो न भुनक्ति [बउ १।४।१५] इति श्रुतेः । विद्वांस् तु सदैव सन्निहितो भगवतो ऽनुग्रह-भाजनम् इत्य् अर्थः ॥३०॥
विश्वनाथः : एवम् अपरोक्षानुभविनः फलम् आह यो माम् इति । तस्याहं ब्रह्म न प्रणश्यामि नाप्रत्यक्षीभवामि । तथा मत्-प्रत्यक्षतायां शाश्वतिक्यां सत्यां स योगी मे मद्-उपासको न प्रणश्यति न कदाचिद् अपि भ्रश्यति ॥३०॥
बलदेवः : एतद् विवृण्वन् तथात्व-दर्शिनः फलम् आह यो माम् इति । तस्य तादृशस्य योगिनो ऽहं परमात्मा न प्रणश्यामि नादृश्यो भवामि । स च योगी मे न प्रणश्यति नादृश्यो भवति । आवयोर् मिथः-साक्षात्कृतिः सर्वदा भवतीत्य् अर्थः ॥३०॥
६।३१
सर्व-भूत-स्थितं यो मां भजत्य् एकत्वम् आस्थितः ।
सर्वथा वर्तमानो ऽपि स योगी मयि वर्तते ॥३१॥
श्रीधरः : न चैवं-भूतो विधि-किङ्करः स्याद् इत्य् आह सर्व-भूत-स्थितम् इति । सर्व-भूतेषु स्थितं माम् अभेदम् आस्थित आश्रितो यो भजति स योगी ज्ञानी सर्वथा कर्म-परित्यागेनापि वर्तमानो मय्य् एव वर्तते मुच्यते । न तु भ्रश्यतीत्य् अर्थः ॥३१॥
मधुसूदनः : एवं त्वं-पदार्थं तत्-पदार्थं च शुद्धं निरूप्य तत्त्वम् असीति वाक्यार्थं निरूपयति सर्व-भूतम् इति । सर्वेषु भूतेष्व् अधिष्ठानतया स्थितं सर्वानुस्यूत-सन्-मात्रं माम् ईश्वरं तत्-पद-लक्ष्यं स्वेन त्वं-पद-लक्ष्येण सहैकत्वम् अत्यन्ताभेदम् आस्थितो घटाकाशो महाकाश इत्य् अत्रेवोपाधि-भेद-निराकरणेन निश्चिन्वन् यो भजति अहं ब्रह्मास्मीति वेदान्त-वाक्यजेन साक्षात्कारेणापरोक्षीकरोति सो ऽविद्या-तत्-कार्य-निवृत्त्या जीवन्मुक्तः कृत-कृत्य एव भवति । यावत् तु तस्य बाधितानुवृत्त्या शरीरादि-दर्शनम् अनुवर्तते तावत् प्रारभ्द-कर्म-प्राबल्यात् सर्व-कर्म-त्यागेन वा याज्ञवल्क्यादिवत् । विहितेन कर्मणा वा जनकादिवत्, प्रतिषिद्धेन कर्मणा वा दत्तात्रेयादिवत् । सर्वथा येन केनापि रूपेण वर्तमानो ऽपि व्यवहरन्न् अॡ स योगी
ब्रह्माहम् असमीति विद्वान् मयि परमात्मन्य् एवाभेदेन वर्तते । सर्वथा तस्य मोक्षं प्रति नास्ति प्रतिबन्ध-शङ्का तस्य ह न देवाश् चनाभूत्या ईशत आत्मा ह्य् एषां स भवति [बउ १।४।१०] इति श्रुतेः । देवा महा-प्रभावा अपि तस्य मोक्षाभवनाय नेशते किम् उतान्ये क्षुद्रा इत्य् अर्थः । ब्रह्म-विदो निषिद्ध-कर्मणि प्रवर्तकयो राग-द्वेषयोर् असम्भवेन निषिद्ध-कर्मासम्भवे ऽपि तद् अङ्गीकृत्य ज्ञान-स्तुत्य्-अर्थम् इदम् उक्तं सर्वथा वर्तमानो ऽपीति हत्वापि स इमान् लोकान् न हन्ति न निबध्यते [गीता १८।१७] इतिवत् ॥३१॥
विश्वनाथः : एवं मद्-अपरोक्षानुभवात् पूर्व-दशायाम् अपि सर्वत्र परात्म-भावनया भजतो योगिनो न विधि-कैङ्कर्यम् इत्य् आह सर्वेति । परमात्मैव सर्व-करणत्वाद् एको ऽस्तीत्य् एकत्वम् आस्थितः सन् यो भजति, श्रवण-स्मरणादि-भजन-युक्तो भवति, स सर्वथा शास्त्रोक्तं कर्म कुर्वन्न् अकुर्वन् वा वर्तमानो मयि वर्तते, न तु संसारे ॥३१॥
बलदेवः : स योगी ममाचिन्त्य-स्वरूप-शक्तिम् अनुभवन्न् अतिप्रियो भवतीत्य् आशयवान् आह सर्वेति । सर्वेषां जीवानां हृदयेषु प्रादेश-मात्रश् चतुर्बाहुर् अतसी-पुष्प-प्रभश् चक्रादिधरो ऽहं पृथक् पृथङ् निवसामि । तेषु बहूनां मद्-विग्रहाणाम् एकत्वम् अभेदम् आश्रितो यो मां भजति ध्यायति, सो योगी सर्वथा वर्तमानो व्युत्थान-काले स्व-विहितं कर्म कुर्वन्न् अकुर्वन् वा मयि वर्तते ममाचिन्त्य-शक्तिकत्व-धर्मानुभव-महिम्ना निर्दग्ध-काम-चार-दोषो मत्-सामीप्य-लक्षणं मोक्षं विन्दति, न तु संसारम् इत्य् अर्थः । श्रुतिश् च हरेर् अचिन्त्य-शत्किकताम् आह एको ऽपि सन् बहुधा यो ऽवभाति इति । स्मृतिश् च -
एक एव परो विष्णुः सर्व-व्यापी न संशयः ।
ऐश्वर्याद् रूपम् एकं च सूर्यवद् बहुधेयते ॥ इति ॥३१॥
६।३२
आत्मौपम्येन सर्वत्र समं पश्यति यो ऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥३२॥
श्रीधरः : एवं च मां भजतां योगिनां मध्ये सर्व-भूतानुकम्पी श्रेष्ठ इत्य् आह आत्मौपम्येनेति । आत्मौपम्येन स्व-सादृश्येन । यथा मम सुखं प्रियं दुःखं चाप्रियं तथान्येषां अपीति सर्वत्र समं पश्यन् सुखम् एव सर्वेषां यो वाञ्छति । न तु कस्यापि दुःखम् । स योगी श्रेष्ठो ममाभिमत इत्य् अर्थः ॥३२॥
मधुसूदनः : एवम् उत्पन्ने ऽपि तत्व-बोधे कश्चिन् मनो-नाश-वासना-क्षययोर् अभावाज् जीवन्मुक्ति-सुखं नानुभवति चित्त-विक्षेपेण च दृष्ट-दुःखम् अनुभवति सो ऽपरमो योगी देह-पाते कैवल्य-भागित्वात् । देह-सद्-भाव-पर्यन्तं च दृष्ट-दुःखानुभवात् । तत्त्व-ज्ञान-मनो-नाश-वासना-क्षयाणां तु युगपद् अभ्यासाद् दृष्ट-दुःख-निवृत्ति-पूर्वकं जीवन्मुक्ति-सुखम् अनुभवन् प्रारब्ध-कर्म-वशात् समाधेर् व्युत्थान-काले किं स्यात् ? इत्य् उच्यत आत्मौपम्येनेति ।
आत्मैवौपम्यम् उपमा तेनात्म-दृष्टान्तेन सर्वत्र प्राणि-जाते सुखं वा यदि वा दुःखं समं तुल्यं यः पश्यति स्वस्यानिष्टं यथा न सम्पादयति एवं परस्याप्य् अनिष्टं यो न सम्पादयति प्रद्वेष-शून्यत्वात्, स निर्वासनतयोपशान्त-मना योगी ब्रह्मवित् परमः श्रेष्ठो मतः पूर्वस्मात्, हे अर्जुन । अतस् तत्त्व-ज्ञान-मनो-नाश-वासना-क्षयाणाम् अक्रमम् अभ्यासाय महान् प्रयत्न आस्थेय इत्य् अर्थः ।
तत्रेदं सर्वं द्वैत-जातम् अद्वितीये चिद्-आनन्दात्मनि मायया कल्पितत्वान् मृषैवात्मैवैकः परमार्थ-सत्यः सच्-चिद्-आनन्दाद्वयो ऽहम् अस्मीति ज्ञानं तत्त्व-ज्ञानं प्रदीप-ज्वाला-सन्तानवद् वृत्ति-सन्तान-रूपेण परिणममानम् अन्तः-करण-द्रव्यं मननात्मकत्वान् मन इत्य् उच्यते । तस्य नाशे नाम वृत्ति-रूप-परिणामं परित्यज्य सर्व-वृत्ति-निरोधिना निरोधाकारेण परिणामः । पूर्वापर-परामर्शम् अन्तरेण सहसोत्पद्यमानस्य क्रोधादि-वृत्ति-विशेषस्य हेतुश् चित्त-गतः संस्कार-विशेषो वासना पूर्व-पूर्वाभ्यासेन चित्ते वास्यमानत्वात् । तस्याः क्षयो नाम विवेक-जन्यायां चित्त-प्रशम-वासनायां दृढायां सत्य् अपि बाह्ये निमित्ते क्रोधाद्य्-अनुत्पत्तिः । तत्र तत्त्व-ज्ञाने सति मिथ्या-भूते जगति नर-विषाणादाव् इव धी-वृत्त्य्-अनुदयाद् आत्मनश्
च दृष्टत्वेन पुनर्-वृत्त्य्-अनुपयोगान् निरन्धनाग्निवन् मनो नश्यति । नष्टे च मनसि संस्कारोद्बोधकस्य बाह्यस्य निमित्तस्याप्रतीतौ वासना क्षीयते । क्षीणायां वासनायां हेत्व्-अभावेन क्रोधादि-वृत्त्य्-अनुदयान् मनो नश्यति । नष्टे च मनसि शम-दमादि-सम्पत्त्या तत्त्व-ज्ञानम् उदेति । एवम् उत्पन्ने तत्त्व-ज्ञाने राग-द्वेषादि-रूपा वासना क्षीयते । क्षीणायां च वासनायां प्रतिबन्धाभावात् तत्त्व-ज्ञानोदय इति परस्पर-कारणत्वं दर्शनीयम् ।
अतएव भगवान् वसिष्ठ आह -
तत्त्व-ज्ञानं मनो-नाशो वासना-क्षय एव च ।
मिथः कारणतां गत्वा दुःसाध्यानि स्थितानि हि ॥
तस्माद् राघव यत्नेन पौरुषेण विवेकिना ।
भोगेच्छां दूरतस् त्यक्त्वा त्रयम् एतत् समाश्रय ॥ इति ।
पौरुषो यत्नः केनाप्य् उपायेनावश्यं सम्पादयिष्यामीत्य् एवं-विधोत्साह-रूपो निर्बन्धः । विवेको नाम विविच्य निश्चयः । तत्त्व-ज्ञानस्य श्रवणादिकं साधनं मनो-नाशस्य योगः वासना-क्षयस्य प्रतिकूल-वासनोत्पादनम् इति । एतादृश-विवेक-युक्तेन पौरुषेण प्रयत्नेन भोगेच्छायाः स्वल्पाया अपि हविषा कृष्ण-वर्त्मेवेति न्यायेन वासना-वृद्धि-हेतुत्वाद् दूरत इत्य् उक्तम् ।
द्विविधो हि विद्याधिकारी कृतोपास्तिर् अकृतोपास्तिश् च । तत्र य उपास्य-साक्षात्कार-पर्यन्ताम् उपास्तिं कृत्वा तत्त्व-ज्ञानाय प्रवृत्तस् तस्य वासना-क्षय-मनो-नाशअयोर् दृढतरत्वेन ज्ञानाद् ऊर्ध्वं जीवन्-मुक्तिः स्वत एव सिध्यति । इदानीन्तनस् तु प्रायेणाकृतोपास्तिर् एव मुमुक्षुर् औत्सुक्य-मात्रात् सहसा विद्यायां प्रवर्तते । योगं विना चिज्-जड-विवेक-मात्रेणैव च मनो-नाश-वासना-क्षयौ तात्कालिकौ सम्पाद्य शम-दमादि-सम्पत्त्या श्रवन-मनन-निदिध्यासनानि सम्पादयति । तैश् च दृढाभ्यस्तैः सर्व-बन्ध-विच्छेदि तत्त्व-ज्ञानम् उदेति । अविद्या-ग्रन्थि-ब्रह्मत्वं हृदय-ग्रन्थिः संशयाः कर्माण्य् असर्व-कामत्वं मृत्युः पुनर् जन्म चेत्य् अनेक-विधो बन्धो ज्ञानान् निवर्तते । तथा च श्रूयते - यो वेद निहितं गुहायां सो ऽविद्या-ग्रन्थिं विकिरतीह सोम्य
[] ब्रह्म वेद ब्रह्मैव भवति []
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [मुण्डु २।२।८]
सत्यं ज्ञानम् अनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सो ऽश्नुते सर्वान् कामान् सह [तैत्तु १।१] तम् एव विदित्वातिमृत्युम् एति [श्वेतु ३।८]
यस् तु विज्ञानवान् भवति स-मनस्कः सदा शुचिः ।
स तु तत्-पदम् आप्नोति यस्माद् भूयो न जायते ॥ [कठु १।३।८]
य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति [बउ १।४।१०] इत्य् असर्वत्व-निवृत्ति-फलम् उदाहार्यम् । सेयं विदेह-मुक्तिः सत्य् अपि देहे ज्ञानोत्पत्ति-सम-कालीना ज्ञेया । ब्रह्मण्य् अविद्याध्यारोपितानाम् एतेषां बन्धानाम् अविद्या-नाशे सति निवृत्तौ पुनर् उत्पत्त्य्-असम्भवात् । अतः शैथिल्य-हेत्व्-अभावात् तत्त्व-ज्ञानं तस्यानुवर्तते । मनो-नाश-वासना-क्षयौतु दृढाभ्यासाभावाद् भोग-प्रदेन प्रारब्धेन कर्मणा बाध्यमानत्वाच् च सवात-प्रदेश-प्रदीपवत् सहसा निवर्तेते । अत इदानीन्तनस्य तत्त्व-ज्ञानिनः प्राक्-सिद्धे तत्त्व-ज्ञाने न प्रयत्नापेक्षा । किं तु मनो-नाश-वासना-क्षयौ प्रयत्न-साध्याव् इति । तत्र मनो-नाशओ ऽसम्प्रज्ञात-समाधि-निरूपणेन निरूपितः प्राक् । वासना-क्षयस् त्व् इदानीं निरूप्यते ।
तत्र वासना-स्वरूपं वसिष्ठ आह -
दृढ-भावनया त्यक्त-पूर्वापर-विचारणम् ।
यद् आदानं पदार्थस्य वासना सा प्रकीर्तिता ॥
अत्र च स्व-स्व-देशाचार-कुल-धर्म-स्वभाव-भेद-तद्-गतापशब्द-सु-शब्दादिषु प्राणिनाम् अभिनिवेशः सामान्येनोदाहरणम् । सा च वासना द्विविधा मलिना शुद्धा च । शुद्धा दैवी सम्पत् । शास्त्र-संस्कार-प्राबल्यात् तत्त्व-ज्ञान-साधनत्वेनैक-रूपैव । मलिना तु त्रिविधा लोक-वासना शास्त्र-वासना देह-वासना चेति । सर्वे जना यथा न निन्दन्ति तथैवाचरिष्यामीत्य् अशक्यार्थाभिनिवेशो लोक-वासना । तस्याश् च को लोकम् आराधयितुं समर्थ इति न्यायेन सम्पादयितुम् अशक्यत्वात् पुरुषार्थानुपयोगित्वाच् च मलिनत्वम् । शास्त्र-वासना तु त्रिविधा पाठ-व्यसनं बहु-शास्त्र-व्यसनम् अनुष्ठान-व्यसनं चेति क्रमेण भरद्वाजस्य दुर्वाससो निदाघस्य च प्रसिद्धा । मलिनत्वं चास्याः क्लेशावहत्वात् पुरुषार्थानुपयोगित्वाद् दर्प-हेतुत्वाज् जन्म-हेतुत्वाच् च । देह-वासनापि त्रिविधा
आत्मत्व-भ्रान्तिर् गुणाधान-भ्रान्तिर् गुणाधान-भ्रान्तिर् दोषापनयन-भ्रान्तिश् चेति । तत्रात्मत्व-भ्रान्तिर् विरोचनादिषु प्रसिद्धा सार्वलौकिकी । गुणाधानं द्विविधं लौकिकं शास्त्रीयं च । समीचीन-शब्दादि-विषय-सम्पादनं लौकिकम्, गङ्गा-स्नान-शालग्राम-तीर्थादि-सम्पादनं शास्त्रीयम् । दोषापनयनम् अपि द्विविधं लौकिकं शास्त्रीयं च । चिकित्सकोक्तैर् औषधैर् व्याध्य्-आद्य्-अपनयनं लौकिकम्, वैदिक-स्नानाचमनादिभिर् अशौचाद्य्-अपनयनं वैदिकम् । एतस्याश् च सर्व-प्रकाराया मलिनत्वम् अप्रामाणिकत्वाद् अशक्यत्वात् पुरुषार्थानुपयोगित्वात् पुनर्-जन्म-हेतुत्वाच् च । तद् एतल्-लोक-शास्त्र-देह-वासना-त्रयम् अविवेकनाम् उपादेयत्वेन प्रतिभासमानम् अपि विविदिषोर् वेदनोत्पत्ति-विरोधित्वाद् विदुषो ज्ञान-निष्ठा-विरोधित्वाच् च विवेकिभिर् हेयम् ।
तद् एवं बाह्य-विषय-वासना त्रिविधा निरूपिता । आभ्यन्तर-वासना तु काम-क्रोध-दम्भ-दर्पाद्य्-आसुर-सम्पद्-रूपा सर्वानर्थ-मूलं मानसी वासनेत्य् उच्यते । तद् एवं बाह्याभ्यन्तर-वासना-चतुष्टयस्य शुद्ध-वासनया क्षयः सम्पादनीयः । तद् उक्तं वसिष्ठेन -
मानसीर् वासनाः पूर्वं त्यक्त्वा विषय-वासनाः ।
मैत्र्यादि-वासना राम गृहाणामल-वासनाः ॥ इति ।
तत्र विषय-वासना-शब्देन पूर्वोक्तास् तिस्रो लोक-शास्त्र-वेद-वासना विवक्षिताः । मानस-वासना-शब्देन काम-क्रोध-दम्भ-दर्पाद्य्-आसुर-सम्पद्-विवक्षिता । यद् वा शब्द-स्पर्श-रूप-रस-गन्धा विषयाः । तेषां भुज्यमानत्व-दशा-जन्यः संस्कारो विषय-वासना । काम्यमानत्व-दशा-जन्यः संस्कारो मानस-वासना । अस्मिन् पक्षे पूर्वोक्तानां चतसृणाम् अनयोर् एवान्तर्भावः । बाह्याभ्यनर-व्यतिरेकेण वासनान्तरासम्भवात् । तासां वासनानां परित्यागो नाम तद्-विरुद्ध-मैत्र्य्-आदि-वासनोत्पादनम् । ताश् च मैत्र्य्-आदि-वासना भगवता पतञ्जलिना सूत्रिताः प्राक् सङ्क्षेपेण व्याख्याता अपि पुनर् व्याख्यायन्ते ।
चित्तं हि राग-द्वेष-पुण्य-पापैः कलुषीक्रियते । तत्र सुखानुशयी रागः [योगस् २।७] । मोहाद् अनुभूयमानं सुखम् अनुशेते कश्चिद् धी-वृत्ति-विशेषो राजसः सर्वं सुख-जातीयं मे भूयाद् इति । तच् च दृष्टादृष्ट-सामग्र्य्-अभावात् सम्पादयितुम् अशक्यम् । अतः स रागश् चित्तं कलुषीकरोति । यदा तु सुखिउ प्राणिष्व् अयं मैत्रीं भावयेत् सर्वे ऽप्य् एते सुखिनो मदीया इति तदा तत् सुखं स्वकीयम् एव सम्पन्नम् इति भावयतस् तत्र रागो निवर्तते । यथा स्वस्य राज्य-निवृत्ताव् अपि पुत्रादि-राज्यम् एव स्वकीयं राज्यं तद्वत् । निवृत्ते च रागे वर्षाव्यपाये जलम् इव चित्तं प्रसीदति । तथा दुःखानुशयी द्वेषः [योगस् २।८] दुःखम् अनुशेते कश्च्द् धी-वृत्ति-विशेषस् तमो ऽनुगत-रजः-परिणाम ईदृशं सर्वं दुःखं सर्वदा मे मा भूद् इति । तच् च
शत्रु-व्याघ्रादिषु सत्स्य न निवारयितुं शक्यम् । न च सर्वे ते दुःख-हेतवो हन्तुं शक्यन्ते । अतः स द्वेषः सदा हृदयं दहति । यदा तु स्वस्येव परेषां सर्वेषाम् अपि दुःखम् मा भूद् इति करुणां दुःखिषु भावयेत् तदा वैर्यादि-द्वेष-निवृत्तौ चित्तं प्रसीदति । तथा च स्मर्यते -
प्राणा यथात्मनो ऽभीष्टा भूतानाम् अपि ते तथा ।
आत्मौपम्येन भूतेषु दयां कुर्वन्ति साधवः ॥ इति ।
एतद् एवेहाप्य् उक्तम् - आत्मौपम्येन सर्वत्रेत्य् आदि । तथा प्राणिनः स्वभावत एव पुण्यं नानुतिष्ठन्ति पापं त्व् अनुतिष्ठन्ति । तद् आहुः -
पुण्यस्य फलम् इच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
न पाप-फलम् इच्छन्ति पापं कुर्वन्ति यत्नतः ॥ इति ।
ते च पुण्य-पापे अक्रियमाण-क्रियमाणे पश्चात्-तापं जनयतः । स च श्रुत्यानूदितः - किम् अहं साधु नाकरवं किम् अहं पापम् अकरवम् इति । यद्य् असौ पुण्य-पुरुषेषु मुदितां भावयेत् तदा तद्-वासनावान् स्वयम् एवाप्रमत्तो ऽशुक्ल-कृष्णे पुण्ये प्रवर्तते । तद् उक्तं कर्माशुक्ल-कृष्णं योगिनस् त्रिविधम् इतरेषाम् अयोगिनां त्रिविधं शुक्लं शुभं कृष्णम् अशुभं शुक्ल-कृष्णं शुभाशुभम् इति । तथा पाप-पुरुषेषूपेक्षां भावयन् स्वयम् अपि तद्-वासनावान् पापान् निवर्तते ।
ततश् च पुण्याकरण-पाप-करण-निमित्तस्य पश्चात्-तापस्याभावे चित्तं प्रसीदति । एवं सुखिषु मैत्रीं भावयतो न केवलं रागो निवर्तते किन्त्व् असूयेर्ष्यादयो ऽपि निवर्तन्ते । पर-गुणेषु दोषाविष्करणम् असूया । पर-गुणानाम् असहनम् ईर्ष्या । यदा मैत्री-वशात् पर-सुखं स्वीयम् एव सम्पन्नं तदा पर-गुणेषु कथम् असूयादिकं सम्भवेत् । तथा दुःखिषु करुणां भावयतः शत्रु-वधादिकरो द्वेषो यदा निवर्तते तदा दुःखित्व-प्रतियोगिक-स्वसुखित्व-प्रयुक्त-दर्पो ऽपि निवर्तते । एवं दोषान्तर-निवृत्तिर् अप्य् ऊहनीया वासिष्ठ-रामायणादिषु ।
तद् एवं तत्त्व-ज्ञानं मनो-नाशो वासना-क्षयश् चेति त्रयम् अभ्यसनीयम् । तत्र केनापि द्वारेण पुनः पुनस् तत्त्वानुस्मरणं तत्त्व-ज्ञानाभ्यासः । तद् उक्तम् -
तच्-चिन्तनं तत्-कथनम् अन्योन्यं तत्-प्रबोधनम् ।
एतद् एक-परत्वं च ब्रह्माभ्यासं विदुर् बुधाः ॥
सर्गादाव् एव नोत्पन्नं दृश्यं नास्त्य् एव तत् सदा ।
इदं जगद् अहं चेति बोधाभ्यासं विदुः परम् ॥ इति ।
दृश्यावभास-विरोधि-योगाभ्यासो मनो-निरोधाभ्यासः । तद् उक्तम् -
अत्यन्ताभाव-सम्पत्तौ ज्ञातुर् ज्ञेयस्य वस्तुनः ।
युक्त्या शास्त्रैर् यतन्ते ये ते ऽप्य् अत्राभ्यासिनः स्थिताः ॥ इति ।
ज्ञातृ-ज्ञेयोर् मिथ्यात्व-धीर-भाव-सम्पत्तिः । स्वरूपेणाप्य् अप्रतीतिर् अत्यन्ताभाव-सम्पत्तिस् तद्-अर्थम् । युक्त्या योगेन ।
दृश्यासम्भव-बोधेन राग-द्वेषादि-तानवे ।
रतिर् घनोदिता यासौ ब्रह्माभ्यासः स उच्यते ॥
इति राग-द्वेषादि-क्षीणता-रूप-वासना-क्षयाभ्यास उक्तः । तस्माद् उपपन्नम् एतत् तत्त्व-ज्ञानाभ्यासेन मनो-नाशाभ्यासेन वासना-क्षयाभ्यासेन च राग-द्वेष-शून्यतया यः स्व-पर-सुख-दुःखादिषु सम-दृष्टिः स परमो योगी मतो यस् तु विषम-दृष्टिः स तत्त्व-ज्ञानवान् अप्य् अपरमो योगीति ॥३२॥
विश्वनाथः : किं च, साधन-दशायां योगी सर्वत्र समः स्याद् इत्य् उक्तम् । तत्र मुख्यं साम्यं व्यचष्टे आत्मौपम्येनेति । सुखं वा दुःखं वेति यथा मम सुखं प्रियं दुःखम् अप्रियम्, तथैवान्येषाम् अपीति सर्वत्र समं पश्यन् सुखम् एव सर्वेषां यो वाञ्छति, न तु कस्यापि दुःखम्, स योगी श्रेष्ठो ममाभिमतः ॥३२॥
बलदेवः : सर्व-भूत-हिते रतः इति यत् प्राग् उक्तम्, तद् विशदयति आत्मौपम्येनेति । व्युत्थान-दशायाम् आत्मौपम्येन स्व-सादृश्येन सुखं दुःखं च यः सर्वत्र समं पश्यति । स्वस्येव परस्य सुखम् एवेच्छति, न तु दुःखम्, स स्व-पर-सुख-दुःख-सम-दृष्टिः सर्वानुकम्पी योगी मम परमः श्रेष्ठो ऽभिमतः । तद्-विषम-दृष्टिस् तु तत्त्व-ज्ञो ऽप्य् अपरम-योगीति भावः ॥३२॥
६।३३
अर्जुन उवाच
यो ऽयं योगस् त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥३३॥
श्रीधरः : उक्त-लक्षणस्य योगस्यासम्भवं मन्वानो ऽर्जुन उवाच यो ऽयम् इति । साम्येन मनसो लय-विक्षेप-शून्यतया केवलात्माकारावस्थानेन । यो ऽयं योगस् त्वया प्रोक्तः । एतस्य स्थिरां दीर्घ-कालां स्थितिं न पश्यामि । मनसश् चञ्चलत्वात् ॥३३॥
मधुसूदनः : उक्तम् अर्थम् आक्षिपन् अर्जुन उवाच यो ऽयम् इति । यो ऽयं सर्वत्र समष्टि-लक्षणः परमो योगः साम्येन समत्वेन चित्त-गतानां राग-द्वेषादीनां विषम-दृष्टि-हेतूनां निराकरणेन त्वया सर्वज्ञेनेश्वरेणोक्तः । हे मधुसूदन ! सर्व-वैदिक-सम्प्रदाय-प्रवर्तक ! एतस्य त्वद्-उक्तस्य सर्व-मनो-वृत्ति-निरोध-लक्षणस्य योगस्य स्थितिं विद्यमानतां स्थिरां दीर्घ-कालानुवर्तिनीं न पश्यामि न सम्भावयामि अहम् अस्मद्-विधो ऽन्यो वा योगाभ्यास-निपुणः । कस्मान् न सम्भावयसि तत्राह चञ्चलत्वात्, मनस इति शेषः ॥३३॥
विश्वनाथः : भगवद्-उक्त-लक्षणस्य साम्यस्य दुष्करत्वम् आलक्ष्योवाच यो ऽयम् इति । एतस्य साम्येन प्राप्तस्य योगस्य स्थिरां सार्वदिकीं स्थितिं न पश्यामि । एष योगः सर्वदा न तिष्ठति किन्तु त्रि-चतुर-दिनान्य् एवेत्य् अर्थः । कुतः ? चञ्चलत्वात् । तथा ह्य् आत्म-दुःख-सुख-समम् एव सर्व-जगद्-वर्ति-जनानां सुख-दुःखं पश्येद् इति साम्यम् उक्तम् । तत्र ये बन्धवस् तटस्थाश् च तेषु साम्यं भवेद् अपि, ये रिपवो घातका द्वेष्टारो निन्दकाश् च तेषु न सम्भवेद् एव । न हि मया स्वस्य युधिष्ठिरस्य दुर्योधनस्य च सुख-दुःखे सर्वथा तुल्ये द्रष्टुं शक्येते । यदि च स्वस्य स्व-रिपूणां च जीवात्म-परमात्म-प्राणेन्द्रिय-दैहिक-भूतानि समान्य् एवेति विवेकेन प्रबलस्यातिचञ्चलस्य मनसो निग्रहणाशक्यत्वात् । प्रत्युत विषयासक्तेन तेन मनसैव विवेकस्य ग्रस्यमानत्व-दर्शनाद्
इति ॥३३॥
बलदेवः : उक्तम् आक्षिपन्न् अर्जुन उवाच यो ऽयम् इति । साम्येन स्व-पर-सुख-दुःख-तौल्येन यो ऽयं योगस् त्वया सर्वज्ञेन प्रोक्तस् तस्य स्थिरां सार्वदिकीं स्थितिं निष्ठाम् अप्य् अहं न पश्यामि, किन्तु द्वि-त्राण्य् एव दिनानीत्य् अर्थः । कुतः ? चञ्चलत्वात् । अयम् अर्थः - बन्धुषु उदासीनेषु च तत् साम्यं कदाचित् स्यात् । न च शत्रुषु निन्दकेषु च कदाचिद् अपि । यदि परमात्माधिष्ठानत्वं सर्वत्राविशेषम् इति विवेकेन तद् ग्राह्यम्, तर्हि न तत् सार्वदिकं अतिचपलस्य बलिष्ठस्य च मनसस् तेन विवेकेन निग्रहीतुम् अशक्यत्वाद् इति ॥३३॥
६।३४
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोर् इव सुदुष्करम् ॥३४॥
श्रीधरः : एतं स्फुटयति चञ्चलम् इति । चञ्चलं स्वभावेनैव चपलम् । किं च प्रमाथि प्रमथन-शीलम् । देहेन्द्रिय-क्षोभ-करम् इत्य् अर्थः । किं च बलवद् विचारेणापि जेतुम् अशक्यम् । किं च दृढं विषय-वासनानुबद्धतया दुर्भेदम् । अतो यथाकाशे दोधूयमानस्य वायोः कुम्भादिषु निरोधनम् अशक्यं तथाहं तस्य मनसो निग्रहं निरोधं सुदुष्करं सर्वथा कर्तुम् अशक्यं मन्ये ॥३४॥
मधुसूदनः : सर्व-लोक-प्रसिद्धत्वेन तद् एव चञ्चलत्वम् उपपादयति चञ्चलं हीति । चञ्चलम् अत्यर्थं चलं सदा चलन-स्वभावं मनः । हि प्रसिद्धम् एवैतत् । भक्तानां पापादि-दोषान् सर्वथा निवारयितुम् अशक्यान् अपि कृषति निवारयति तेषाम् एव सर्वथा प्राप्तुम् अशयान् अपि पुरुषार्थान् आकर्षति प्रापयतीति वा कृष्णः । तेन रूपेण सम्बोधयन् दुर्निवारम् अपि चित्त-चाञ्चल्यं निवार्य दुष्प्रापम् अपि समाधि-सुखं त्वम् एव प्रापयितुं शक्नोषीति सूचयति । न केवलम् अत्यर्थं चञ्चलं किन्तु प्रमाथि शरीरम् इन्द्रियाणि च प्रमथितुं क्षोभयितुं शीलं यस्य तत् । क्षोभकतया शरीरेन्द्रिय-सङ्घातस्य विवशता-हेतुर् इत्य् अर्थः । किं च बलवत्, अभिप्रेताद् विषयात् केनाप्य् उपायेन निवारयितुम् अशक्यम् । किं च, दृढं विषय-वासना-सहस्रानुस्यूततया
भेत्तुम् अशक्यम्, तन्तु-नाग-वद् अच्छेद्यम् इति भाष्ये । तन्तु-नागो नाग-पाशः । तान्तनीति गुर्जरादौ प्रसिद्धो महा-ह्रद-निवासी जन्तु-विशेषो वा । तस्यातिदृढतया बलवतो बलवत्तया प्रमाथिनः प्रमाथितयातिचञ्चलस्य महा-मत्त-वन-गजस्य निग्रहं निरोधं निर्वृत्तिकतयावस्थानं सुदुष्करं सर्वथा कर्तुम् अशक्यम् अहं मन्ये । वायोर् इव । यथाकाशे दोधूयमानस्य वायोर् निश्चलत्वं सम्पाद्य निरोधनम् अशक्यं तद्वद् इत्य् अर्थः ।
अयं भावः ।जाते ऽपि तत्त्व-ज्ञाने प्रारब्ध-कर्म-भोगाय जीवतः पुरुषस्य कर्तृत्व-भोक्तृत्व-सुख-दुःख-राग-द्वेषादि-लक्षणश् चित्त-धर्मः क्लेश-हेतुत्वाद् बाधितानुवृत्त्यापि बन्धो भवति । चित्त-वृत्ति-निरोध-रूपेण तु योगेन तस्य निवारणं जीवन्मुक्तिर् इत्य् उच्यते । यस्याः सम्पादनेन स योगी परमो मत इत्य् उक्तम् । तत्रेदम् उच्यते । बन्धः किं साक्षिणो निवार्यते किं वा चित्तात् । नाद्यस् तत्त्व-ज्ञानेनैव साक्षिणो बन्धस्य निवारितत्वात् । न द्वितीयः स्वभाव-विपर्ययायोगात् । विरोधि-सद्-भावाच् च । न हि जलाद् आर्द्रत्वम् अग्नेर् वोष्णत्वं निवारयितुं शक्यते प्रतिक्षण-परिणमिनो हि भावा ऋते चिति-शक्तेः इति न्यायेन प्रतिक्षण-परिणम-स्वभावत्वाच् चित्तस्य प्रारब्ध-भोगेन च कर्मणा कृत्स्नाविद्या-तत्-कार्य-नाशने प्रवृत्तस्य तत्त्व-ज्ञानस्यापि प्रतिबन्धं
कृत्वा स्व-फल-दानाय देहेन्द्रियादिकम् अवस्थापितम् । न च कर्मणा स्व-फल-सुख-दुःखादि-भोगश् चित्त-वृत्तिभिर् विना सम्पादयितुं शक्यते । तस्माद् यद्यपि स्वाभाविकानाम् अपि चित्त-परिणामानां कथञ्चिद् योगेनाभिभवः शक्येत कर्तुं तथापि तत्त्व-ज्ञानाद् इव योगाद् अपि प्रारब्ध-फलस्य कर्मणः प्राबल्याद् अवश्यम्भाविनि चित्तस्य चाञ्चल्ये योगेन तन्-निवारणम् अशक्यम् अहं स्व-बोधाद् एव मन्ये । तस्माद् अनुपपन्नम् एतद् आत्मौपम्येन सर्वत्र सम-दर्शी परमो योगी मत इत्य् अर्जुनस्याक्षेपः ।३४॥
विश्वनाथः : एतद् एवाह चञ्चलम् इति । ननु आत्मानं रथिनं विद्धि शरीरं रथम् एव च [कठु १।३।३] इत्य् आदि श्रुतेः,
आहुः शरीरं रथम् इन्द्रियाणि
हयान् अभीषून् मन इन्द्रियेशम् ।
वर्त्मानि मात्रा धिषणं च सूतम् [भ्प् ७।१५।४१] इति स्मृतेश् च
बुद्धेर् मनो नियन्तृत्व-दर्शनाद् विवेकवत्या बुद्ध्या मनो वशीकर्तुं शक्त्यम् एवेति चेद् अत आह बलवत् । स्व-प्रशमकम् औषुधम् अपि बलवान् रोगो यथा न गणयति, तथैव स्वभावाद् एव बलिष्ठं मनो विवेकवतीम् अपि बुद्धिम् । किं च दृढम् अतिसूक्ष्म-बुद्धि-सूच्यापि लोहम् इव सहसा भेत्तुम् अशक्यम् । वायोर् इत्य् आकाशे दोधूयमानस्य वायोर् निग्रहं कुम्भकादिना निरोधम् इव योगेनाष्टाङ्गेन मनसो ऽपि निरोधं दुष्करं मन्ये ॥३४॥
बलदेवः : तद् एवाह चञ्चलं हीति । मनः स्वभावेन चञ्चलम् । ननु
आत्मानं रथिनं विद्धि शरीरं रथम् एव च ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च ॥
इन्द्रियाणि हयान् आहुर् विषयांस् तेषु गोचरान् ।
आत्मेन्द्रिय-मनो-युक्तो भोक्तेत्य् आहुर् मनीषिणः ॥ [कठु १।३।३]
इति श्रुतेर् बुद्धि-नियम्यं मनः श्रूयते ततो विवेकिन्यां बुद्ध्यां शक्यं तद् वशीकर्तुम् इति चेत् तत्राह प्रमाथीति । तादृशीम् अपि बुद्धिं प्रमथति । कुतः ? बलवत् स्व-प्रशमकम् अप्य् औषधं यथा बलवान् रोगो न गणयति, तद्वत् । किं च दृढम् सूच्या लौहम् इव तादृश्यापि बुद्ध्या भेत्तुम् अशक्यम् अतो योगेनापि तस्य निग्रहम् अहं वायोर् इव सुदुष्करं मन्ये । न हि वायोर् मुष्टिना धर्तुं शक्यते अतस् तत्रोपायं ब्रूहीति ॥३४॥
६।३५
श्री-भगवान् उवाच
असंशयं महाबाहो मनो दुर्णिग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥३५॥
श्रीधरः : तद् उक्तं चञ्चलत्वादिकम् अङ्गीकृत्यैव मनो-निग्रहोपायं श्री-भगवान् उवाच असंशयम् इति । चञ्चलत्वादिना मनो निरोद्धुम् अशक्यम् इति यद् वदसि एतन् निःसंशयम् एव । तथापि त्व् अभ्यासेन परमात्माकार-प्रत्यया वृत्त्या विषय-वैतृष्ण्येन च गृह्यते । अभ्यासेन लय-प्रतिबन्धाद् वैराग्येण च विक्षेप-प्रतिबन्धाद् उपरत-वृत्तिकं सत् परमात्माकारेण तिष्ठतीत्य् अर्थः । तद् उक्तं योग-शास्त्रे -
मनसो वृत्ति-शून्यस्य ब्रह्माकारतया स्थितिः ।
यासम्प्रज्ञात-नामासौ समाधिर् अभिधीयते ॥ इति ॥३५॥
मधुसूदनः : तम् इमम् आक्षेपं परिहरन् श्री-भगवान् उवाच असंशयम् इति । सम्यग् विदितं ते चित्त-चेष्टितं मनो निग्रहीतुं शक्ष्यसीति सन्तोषेण सम्बोधयति हे महाबाहो महान्तौ साक्षान् महादेवेनापि सह कृत-प्रहरणौ बाहू यस्येति निरतिशयम् उत्कर्षं सूचयति । प्रारब्ध-कर्म-प्राबल्याद् असंयतात्मना दुर्निग्रहं दुःखेनापि निग्रहीतुम् अशक्यम् । प्रमाथि बलवद् दृढम् इति विशेषण-त्रयं पिण्डीकृत्यैतद् उक्तम् । चलं स्वभाव-चञ्चलं मन इत्य् असंशयं नास्त्य् एव संशयो ऽत्र सत्यम् एवैतद् ब्रवीषीत्य् अर्थः । एवं सत्य् अपि संयतात्मना समाधि-मात्रोपायेन योगिनाभ्यासेन वैराग्येण च गृह्यते निगृह्यते सर्व-वृत्ति-शून्यं क्रियते तन् मन इत्य् अर्थः । अनिग्रहीतुर् असंयतात्मनः सकाशात् संयतात्मनो निग्रहीतुर् विशेष-द्योतनाय
तु-शब्दः । मनो-निग्रहे ऽभ्यास-वैराग्ययोः समुच्चय-बोधनाय च-शब्दः । हे कौन्तेयेति पितृ-ष्वसृ-पुत्रस् त्वम् अवश्यं मया सुखी कर्तव्य इति स्नेह-सम्बन्ध-सूचनेनाश्वासयति । अत्र प्रथमार्धेन चित्तस्य हठ-निग्रहो न सम्भवतीति द्वितीयार्धेन तु क्रम-निग्रहः सम्भवतीत्य् उक्तम् ।
द्विविधो हि मनसो निग्रहः । हठेन क्रमेण च । तत्र चक्षुः-श्रोत्रादीनि ज्ञानेन्द्रियाणि वाक्-पाण्य्-आदीनि कर्मेन्द्रियाणि च तद्-गोलक-मात्रोपरोधेन हठान् निगृह्यन्ते । तद्-दृष्टान्तेन मनो ऽपि हठेन निग्रहीष्यामीति मूढस्य भ्रान्तिर् भवति । न च तथा निग्रहीतुं शक्यते तद्-गोलकस्य हृदय-कमलस्य निरोद्धुम् अशक्यत्वात् । अतएव च क्रम-निग्रह एव युक्तस् तद् एतद् भगवान् वसिष्ठ आह -
उपविश्योपविश्यैव चित्तज्ञेन मुहुर् मुहुः ।
न शक्यते मनो जेतुं विना युक्तिम् अनिन्दिताम् ॥
अङ्कुशेन विना मत्तो यथा दुष्ट-मतङ्गजः ।
अध्यात्म-विद्याधिगमः साधु-सङ्गम एव च ॥
वासना-सम्परित्यागः प्राण-स्पन्द-निरोधनम् ।
एतास् ता युक्तयः पुष्टाः सन्ति चित्त-जये किल ॥
सतीषु युक्तिष्व् एतासु हठान् नियमयन्ति ये ।
चेतस् ते दीपम् उत्सृज्य विनिघ्नन्ति तमो ऽञ्जनैः ॥ इति ।
क्रम-निग्रहे चाध्यात्म-विद्याधिगम एक उपायः । सा हि दृश्यस्य मिथ्यात्वं दृग्-वस्तुनश् च परमार्थ-सत्य-परमानन्द-स्वप्रकाशतवं बोधयति । तथा च सत्य् एतन् मनः स्व-गोचरेषु बुद्ध्वा निरिन्धनाग्निवत् स्वयम् एवोपशाम्यति । यस् तु बोधितम् अपि तत्त्वं न सम्यग् बुध्यते यो वा विस्मरति तयोः साधु-सङ्गम एवोपायः । साधवो हि पुनः पुनर् बोधयन्ति स्मारयन्ति च । यस् तु विद्या-मदादि-दुर्वासनया पीड्यमानो न साधून् अनुवर्तितुम् उत्सहते तस्य पूर्वोक्त-विवेकेन वासना-परित्याग एवोपायः । यस् तु वासनानाम् अतिप्राबल्यात् तास् त्यक्तुं न शक्नोति तस्य प्राण-स्पन्द-निरोध एव उपायः । प्राण-स्पन्द-वासनयोश् चित्त-प्रेरकत्वात् तयोर् निरोधे चित्त-शान्तिर् उपपद्यते । तद् एतद् आह स एव -
द्वे बीजे चित्त-वृक्षस्य प्राण-स्पन्दन-वासने ।
एकस्मिंश् च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥
प्राणायाम-दृढाभ्यासैर् युक्त्या च गुरु-दत्तया ।
आसनाशन-योगेन प्राण-स्पन्दो निरुध्यते ॥
असङ्ग-व्यवहारित्वाद् भव-भावन-वर्जनात् ।
शरीर-नाश-दर्शित्वाद् वासना न प्रवर्तते ॥
वासना-सम्परित्यागाच् चित्तं गच्छत्य् अचित्तताम् ।
प्राण-स्पन्द-निरोधाच् च यथेच्छसि तथा कुरु ॥
एतावन् मात्रकं मन्ये रूपं चित्तस्य राघव ।
यद् भावनं वस्तुनो ऽन्तर्वस्तुत्वेन रसेन च ॥
यदा न भाव्यते किञ्चिद् धेयोपादेय-रूपि यत् ।
स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते ॥
अवासनत्वात् सततं यदा न मनुते मनः ।
अमनस्ता तदोदेति परमात्म-पद-प्रदा ॥ इति ।
अत्र द्वाव् एवोपायौ पर्यवसितौ प्राण-स्पन्द-निरोधार्थम् अभ्यासः । वासना-परित्यागार्थं च वैराग्यम् इति । साधु-सङ्गमाध्यात्म-विद्याधिगमौ त्व् अभ्यास-वैराग्योपपादकतयान्यथा-सिद्धौ तयोर् एवान्तर्भवतः । अत एव भगवताभ्यासेन वैराग्येण चेति द्वयम् एवोक्तम् । अतएव भगवान् पतञ्जलिर् असूत्रयत् अभ्यास-वैराग्याभ्यां तन्-निरोधः [योगस् १।१२] इति । तासां प्राग्-उक्तानां प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृति-रूपेण पञ्च-विधानाम् अनन्तानाम् आसुरत्वेन क्लिष्टानां दैवत्वेनाक्लिष्टानाम् अपि वृत्तीनां सर्वास्साम् अपि निरोधो निरिन्धनाग्निवद् उपशमाख्यः परिणामो ऽभ्यासेन वैराग्येण च समुच्चितेन भवति । तद् उक्तं योग-भाष्ये - चित्त-नदी नामोभयतो-वाहिनी वहति कल्याणाय वहति पापाय च । तत्र या कैवल्य-प्राग्-भारा विवेक-निम्ना सा कल्याण-वहा
। या त्व् अविवेक-निम्ना संसार-प्राग्-भारा सा पाप-वहा । तत्र वैराग्येण विषय-स्रोतः खिलीक्रियते । विवेक-दर्शनाभ्यासेन च कल्याण-स्रोत उद्घाट्यते इत्य् उभयाधीनश् चित्त-वृत्ति-निरोध इति । प्राग्-भार-निम्न-पदे तदा विवेक-निम्नं कैवल्य-प्राग्-भारं चित्तम् इत्य् अत्र व्याख्यायते । यथा तीव्र-वेगोपेतं नदी-प्रवाहं सेतु-बन्धनेन निवार्य कुल्या-प्रणयेन क्षेत्राभिमुखं तिर्यक्-प्रवाहान्तरम् उत्पाद्यते तथा वैराग्येण चित्त-नद्या विषय-प्रवाहं निवार्य समाध्य्-अभ्यासेन प्रशान्त-वाहिता सम्पाद्यत इति द्वार-भेदात् समुच्चय एव । एक-द्वारत्वे हि ब्रीहि-यव-द्वि-कल्पः स्याद् इति ।
मन्त्र-जप-देवता-ध्यानादीनां क्रिया-रूपाणाम् आवृत्ति-लक्षणो ऽभ्यासः सम्भवात् । सर्व-व्यापारोपरमस्य तु समाधेः को नामाभ्यास इति शङ्कां निवारयितुम् अभ्यासं सूत्रयति स्म तत्र स्थितौ यत्नो ऽभ्यासः [योगस् १।१३] इति । तत्र स्वरूपावस्थिते द्रष्टरि शुद्धे चिद्-आत्मनि चित्तस्यावृत्तिकस्य प्रशान्त-वाहिता-रूपा निश्चलतास्थितिस् तद्-अर्थं यत्नो मानस उत्साहः स्वभाव-चाञ्चल्याद् बहिष्प्रवाह-शीलं चित्तं सर्वथा निरोत्स्यामीत्य् एवं विधः । स आवर्त्यमानो ऽभ्यास उच्यते । स तु दीर्घ-काल-नैरन्तर्य-सत्कारासेवितो दृढ-भूमिः [योगस् १।१४] अनिर्वेदेन दीर्घ-काल-सेवितो विच्छेदाभावेन निरन्तरासेवितः सत्-कारेण श्रद्धातिशयेन चासेवितः । सो ऽभ्यासो दृढ-भूमिर् विषय-सुख-वासनया चालयितुम् अशक्यो भवति । अदीर्घ-कालत्वे दीर्घकालत्वे ऽपि विच्छिद्य
विच्छिद्य सेवने श्रद्धातिशयाभावे च लय-विक्षेप-कषाय-सुखास्वादानाम् अपरिहारे व्युत्थान-संस्कार-प्राबल्याद् अदृढ-भूमिर् अभ्यासः फलाय न स्याद् इति त्रयम् उपात्तम् ।
वैराग्यं तु द्विविधम् अपरं परं च । यत्मान-सञ्ज्ञा-व्यतिरेक-सञ्ज्ञैकेन्द्रिय-सञ्ज्ञा-वशीकार-सञ्ज्ञा-भेदैर् अपरं चतुर्धा । तत्र पूर्व-भूमि-जयेनोत्तर-भूमि-सम्पादन-विवक्षया चतुर्थम् एवासूत्रयत् – दृष्टानुश्रविक-विषय-वितृष्णस्य वशीकार-सञ्ज्ञा वैराग्यम् [योगस् १।१५] इति । स्त्रियो ऽन्नं पानम् ऐश्वर्यम् इत्य् आदयो दृष्टा विषयाः । स्वर्गो विदेहता प्रकृति-लय इत्य् आदयो वैदिकत्वेनानुश्रविका विषयास् तेषूभय-विधेष्व् अपि सत्याम् एव तृष्णायां विवेक-तारतम्येन यतमानादि-त्रयं भवति । अत्र जगति किं सारं किम् असारम् इति गुरु-शास्त्राभ्यां ज्ञासामीत्य् उद्योगो यतमानम् । स्व-चित्ते पूर्व-विद्यमान-दोषाणां मध्ये ऽभ्यस्यमान-विवेकेनैते पक्वा एते ऽवशिष्टा इति चिकित्सकवद् विवेचनं व्यतिरेकः । दृष्टानुश्रविक-विषय-प्रवृत्तेर्
दुःखात्मत्व-बोधेन भैर् इन्द्रिय-प्रवृत्तिम् अजनयन्त्या अपि तृष्णाया औत्सुक्य-मात्रेण मनस्य् अवस्थानम् एकेन्द्रियम् । मनस्य् अपि तृष्णा-शून्यत्वेन सर्वथा वैतृष्ण्यं तृष्णा-विरोधिनी चित्त-वृत्तिर् ज्ञान-प्रसाद-रूपा वशीकार-सञ्ज्ञा वैराग्यं सम्प्रज्ञातस्य समाधेर् अन्तरङ्गं साधनम् असम्प्रज्ञातस्य तु बहिरङ्गम् । तस्य त्व् अन्तरङ्ग-साधनं परम् एवं वैराग्यम् । तच् चासूत्रयत् – तत्-परं पुरुष-ख्यातेर् गुण-वैतृष्ण्यम् [योगस् १।१६] इति । सम्प्रज्ञात-समाधि-पाटवेन गुण-त्रयात्मकात् प्रधानाद् विविक्तस्य पुरुषस्य ख्यातिः साक्षात्कार उत्पद्यते । ततश् चाशेष-गुण-त्रय-व्यवहारेषु वैतृष्ण्यं यद् भवति तत्-परं श्रेष्ठं फल-भूतं वैराग्यम् । तत्-परिपाक-निमित्ताच् च चित्तोपशम-परिपाकाद् अविलम्बेन कैवल्यम् इति ॥३५॥
विश्वनाथः : उक्तम् अर्थम् अङ्गीकृत्य समदधाति अशंशयम् इति । त्वयोक्तं सत्यम् एव, किन्तु बलवान् अपि रोगस् तत्-प्रशमकौषध-सेवया सद्-वैद्य-प्रयुक्त-प्रकारया मुहुर् अभ्यस्तया यथा चिर-कालेन शाम्यत्य् एव, तथा दुर्निग्रहम् अपि मनो ऽभ्यासेन सद्-गुरूपदिष्ट-प्रकारेण परमेश्वर-ध्यान-योगस्य मुहुर् अनुशीलनेन वैराग्येण विषयेष्व् अनासङ्गेन च गृह्यते स्व-हस्त-वशीकर्तुं शक्यत इत्य् अर्थः । तथा च पातञ्जल-सूत्रम् - अभ्यास-वैराग्याभ्यां तन्-निरोधः [योगस् १।१२] इति । महाबाहो इति सङ्ग्रामे त्वया यन् महावीरा अपि विजीयन्ते, स च पिनाक-पाणिर् अपि वशीकृतस् तेनापि किम् ? यदि महा-वीर-शिरो-मणिर् मनो नामा प्राधानिको भटो महा-योगास्त्र-प्रयोगेण जेतुं शक्यते, तदैव महा-बाहुतेति भावः । हे कौन्तेयेति तत्र त्वं मा भैषीः । मत्-पितुः स्वसुः
कुन्त्याः पुत्रे त्वयि मया साहाय्यं विधेयम् इति भावः ॥३५॥
बलदेवः : उक्तम् अर्थम् स्वीकृत्य भगवान् उवाच अशंशयम् इति । तथापि स्व-प्रकाश-सुखैकतानत्वात्म-गुणाभिमुख्याभ्यासेनात्म-व्यतिरिक्तेषु विषयेषु दोष-दृष्टि-जनितेन वैराग्येण च मनो निग्रहीतुं शक्यते । तथा चात्मानन्दास्वाधाभ्यासेन लय-प्रतिबन्धाद् विषय-वैतृष्ण्येन च विक्षेप-प्रतिबन्धान् निवृत्त-चापल्यं मनः सुग्रहं यथा सद्-औषध-सेवया सद्-वैद्य-प्रयुक्त-प्रकारया मुहुर् अभ्यस्तया यथा चिर-कालेन शाम्यत्य् एव, तथा दुर्निग्रहम् अपि मनो ऽभ्यासेन सद्-गुरूपदिष्ट-प्रकारेण परमेश्वर-ध्यान-योगस्य मुहुर् अनुशीलनेन वैराग्येण विषयेष्व् अनासङ्गेन च गृह्यते स्व-हस्त-वशीकर्तुं शक्यत इत्य् अर्थः । तथा च पातञ्जल-सूत्रम् - अभ्यास-वैराग्याभ्यां तन्-निरोधः [योगस् १।१२] इति । महाबाहो इति सङ्ग्रामे त्वया यन् महावीरा
अपि विजीयन्ते, स च पिनाक-पाणिर् अपि वशीकृतस् तेनापि किम् ? यदि महा-वीर-शिरो-मणिर् मनो नामा प्राधानिको भटो महा-योगास्त्र-प्रयोगेण जेतुं शक्यते, तदैव महा-बाहुतेति भावः । हे कौन्तेयेति तत्र त्वं मा भैषीः । मत्-पितुः स्वसुः कुन्त्याः पुत्रे त्वयि मया साहाय्यं विधेयम् इति भावः ॥३५॥
६।३६
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्यो ऽवाप्तुम् उपायतः ॥३६॥
श्रीधरः : एतावांस् त्व् इह निश्चय इत्य् आह असंयतेति । उक्त-प्रकारेणाभ्यास-वैराग्याभ्याम् असंयत आत्मा चित्तं यस्य तेन योगो दुष्प्राप प्राप्तुम् अशक्यः । अभ्यास-वैराग्याभ्यां वश्यो वशवर्ती आत्मा चित्तं यस्य तेन पुरुषेण पुनश् चानेनैवोपायेन प्रयत्नं कुर्वता योगः प्राप्तुं शक्यः ॥३६॥
मधुसूदनः : यत् तु त्वम् अवोचः प्रारब्ध-भोगेन कर्मणा तत्त्व-ज्ञानाद् अपि प्रबलेन स्व-फल-दानाय मनसो वृत्तिषूत्पाद्यमानासु कथं तासां निरोधः कर्तुं शक्यं इति तत्रोच्यते असंशयात्मनेति । हेरे
तथा चाह भगवान् वसिष्ठः -
सर्वम् एवेह हि सदा संसारे रघुनन्दन ।
सम्यक् प्रयुक्तात् सर्वेण पौरुषात् समवाप्यते ॥
उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं स्मृतम् ।
तत्रोच्छास्त्रम् अनर्थाय परमार्थाय शास्त्रितम् ॥
उच्छास्त्रं शास्त्र-प्रतिषिद्धम् अनर्थाय नरकाय । शास्त्रितं शास्त्र-विहितम् अन्तः-करण-शुद्धि-द्वारा परमार्थाय चतुर्ष्व् अर्थेषु परमाय मोक्षाय ।
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासना सरित् ।
पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥
अशुभेषु समाविष्टं शुभेष्व् एवावतारय ।
स्व-मनः पुरुषार्थेन बलेन बलिनां वर ॥
द्राग्-अभ्यास-वशाद् याति यदा ते वासनोदयम् ।
तदाभ्यासस्य साफल्यं विद्धि त्वम् अरि-मर्दन ॥
वासना शुभेद्ति शेषः ।
सन्दिग्धायाम् अपि भृशं शुभाम् एव समाहर ।
शुभायां वासना-वृद्धौ तात दोषो न कश्चन ॥
अव्युत्पन्न-मना यावद् भवान् अज्ञात-तत्पदः ।
गुरु-शास्त्र-प्रमाणैस् त्वं निर्णीतं तावद् आचर ॥
ततः पक्व-कषायेण नूनं विज्ञात-वस्तुना ।
शुभो ऽप्य् असौ त्वया त्याज्यो वासनौघो निरोधिना ॥ इति ।
तस्मात् साक्षि-गतस्य संसारस्याविवेक-निबन्धनस्य विवेक-साक्षात्काराद् अपनये ऽपि प्रारब्ध-कर्म-पर्यवस्थापितस्य चित्तस्य स्वाभाविकीनाम् अपि वृत्तीनां योगाभ्यास-प्रयत्नेनापनये सति जीवन्मुक्तः परमो योगी । चित्त-वृत्ति-निरोधाभावे तु तत्त्व-ज्ञानवान् अप्य् अपरमो योगीति सिद्धम् । अवशिष्टं जीवन्मुक्ति-विवेके स-विस्तरम् अनुसन्धेयम् ॥३६॥
विश्वनाथः : अत्रायं परामर्श इत्य् अत आह संयतात्मनाभ्यास-वैराग्याभ्यां न संयतं मनो यस्य तेन । ताभ्यां तु वश्यात्मना वशीभूत-मनसापि पुंसा यतता चिरं यत्नवतैव योगो मनो-निरोध-लक्षणः समाधिर् उपायतः साधन-भूयस्त्वात् प्राप्तुं शक्यः ॥३६॥
बलदेवः : असंयतेति । उक्ताभ्याम् अभ्यास-वैराग्याभ्यां न संयत आत्मा मनो यस्य तेन विज्ञेनापि पुंसा चित्त-वृत्ति-निरोध-लक्षणो योगो दुष्प्रापः प्राप्तुम् अशक्यः । ताभ्यां वश्यो ऽधीन आत्मा मनो यस्य तेन पुंसा, तथापि यतता तादृश-प्रयत्नवता स योगः प्राप्तुं शक्यः । उपायतो मद्-आराधन-लक्षणाज् ज्ञानाकारान् निष्काम-कर्म-योगाच् चेति मे मतिः ॥३६॥
६।३७
अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच् चलित-मानसः ।
अप्राप्य योग-संसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥
श्रीधरः : अभ्यास-वैराग्याभावेन कथञ्चिद् अप्राप्त-सम्यग्-ज्ञानः किं फलं प्राप्नोतीत्य् अर्जुन उवाच अयतिर् इत् । प्रथमं श्रद्धयोपेत एव योगे प्रवृत्तः, न तु मिथ्याचारतया । ततः परं त्व् अयतिः सम्यङ् न यतते । शिथिलाभ्यास इत्य् अर्थः । एवम् अभ्यास-वैराग्य-शैथिल्याद् योगस्य संसिद्धिं फलं ज्ञानम् अप्राप्य कां गतिं प्राप्नोति ? ॥३७॥
मधुसूदनः : एवं प्राक्तनेन ग्रन्थेनोत्पन्न-तत्त्व-ज्ञानो ऽनुत्पन्न-जीवन्-मुक्ति-परमो योगी मतः । उत्पन्न-तत्त्व-ज्ञान उत्पन्न-जीवन्-मुक्तिस् तु परमो योगी मत इत्य् उक्तम् । तयोर् उभयोर् अपि ज्ञानाद् ज्ञान-नाशे ऽपि यावत् प्रारब्ध-भोगं कर्म देहेन्द्रिय-सङ्घातावस्थानात् प्रारब्ध-भोग-कर्मापाये च वर्तमान-देहेन्द्रिय-सङ्घातापायात् पुनर्-उत्पादकाभावाद् विदेह-कैवल्यं प्रति कापि नास्त्य् आशङ्का । यस् तु प्राक्-कृत-कर्मभिर् लब्ध-विविदिषा-पर्यन्त-चित्त-शुद्धिः कृत-कार्यत्वात् सर्वाणि कर्माणि परित्यज्य प्राप्त-परमहंस-परिव्राजक-भावः परमहंस-परिव्राजकम् आत्म-साक्षात्कारेण जीवन्-मुक्तं पर-प्रबोधन-दक्षं गुरुम् उपसृत्य ततो वेदान्त-महा-वाक्योपदेशं प्राप्य तत्रासम्भावना-विपरीत-भावनाख्य-प्रतिबन्ध-निरासाय अथातो ब्रह्म-जिज्ञासा
[व्स् १।१।१] इत्य् आद्य् अनावृत्तिः शब्दात् [व्स् ४।४।२३] इत्य् अन्तया चतुर्-लक्षण-मीमांसया श्रवण-मनन-निदिध्यासनानि गुरु-प्रसादात् कर्तुम् आरभते स श्रद्दधानो ऽपि सन्न् आयुषो ऽल्पत्वेनाल्प-प्रयत्नत्वाद् अलब्ध-ज्ञान-परिपाकः श्रवण-मनन-निदिध्यासनेषु क्रियमाणेष्व् एव मध्ये व्यापद्यते । स ज्ञान-परिपाक-शून्यत्वेनानष्टाज्ञानो न मुच्यते । नाप्य् उपासना-सहित-कर्म-फलं देवलोकम् अनुभवत्य् अर्चिर्-आदि-मार्गेण । नापि केवल-कर्म-फलं पितृ-लोकम् अनुभवति धूमादि-मार्गेण । कर्मणाम् उपासनानां च त्यक्तत्वात् । अत एतादृशो योग-भ्रष्टः कीटादि-भावेन कष्टां गतिम् इयाद् अज्ञत्वे सति देव-यान-पितृ-यान-मार्गासम्बन्धित्वाद् वर्णाश्रमाचार-भ्रष्टवद् अथवा कष्टां गतिं नेयात् । शास्त्र-निनिद्त-कर्म-शून्यत्वाद् वामदेववद् इति संशय-पर्याकुल-मना
अर्जुन उवाच अयतिर् इति ।
यतिर् यत्न-शीलः अल्पार्थे नञ् अलवणा यवागूर् इत्य्-आदिवत् । अयतिर् अल्प-यत्नः । श्रद्धया गुरु-वेदान्त-वाक्येषु विश्वास-बुद्धि-रूपयोपेतो युक्तः । श्रद्धा च स्व-सहचरितानां शमादीनाम् उपलक्षणं शान्तो दान्त उपरतस् तितिक्षुः श्रद्धान्वितो भूत्वात्मन्य् एवात्मानं पश्यति इति श्रुतेः । तेन नित्यानित्य-वस्तु-विवेक इहामुत्र-भोग-विरागः शम-दमोपरति-तितिक्षा-श्रद्धादि-सम्पन्-मुमुक्षुता चेति साधन-चतुष्टय-सम्पन्नो गुरुम् उपसृत्य वेदान्त-वाक्य-श्रवणादि कुर्वन्न् अपि परमायुषो ऽल्पत्वेन मरण-काले चेन्द्रियाणां व्याकुलत्वेन साधनानुष्ठानासम्भवाद् योगाच् चलित-मानसो योगाच् छ्रवणादि-परिपाक-लब्ध-जन्मनस् तत्त्व-साक्षात्काराच् चलितं तत्-फलम् अप्राप्तं मानसं यस्य स योगानिष्पत्त्यैवाप्राप्य योग-संसिद्धिं तत्त्व-ज्ञान-निमित्ताम्
अज्ञान-तत्-कार्य-निवृत्तिम् अपुनर्-आवृत्ति-सहिताम् अप्राप्यातत्त्व-ज्ञ एव मृतः सन् कां गतिं हे कृष्ण गच्छति सुगतिं दुर्गतिं वा ? कर्मणां परित्यागाज् ज्ञानस्य चानुत्पत्तेः शास्त्रोक्त-मोक्ष-साधनानुष्ठायित्वाच् छास्त्र-गर्हित-कर्म-शून्यत्वाच् च ॥३७॥
विश्वनाथः : नन्व् अभ्यास-वैराग्याभ्यां प्रयत्नवतैव पुंसा योगो लभ्यत इति त्वयोच्यते । यस्यैतत् त्रितयम् अपि न दृश्यते, तस्य का गतिर् इति पृच्छति । अयतिर् अल्प-यत्नः अनवर्णाय वागुर् इतिवद् अल्पार्थे नञ् । अथ च श्रद्धयोपेतो योग-शास्त्रास्तिक्येन तत्र श्रद्धयोपेतो योगाभ्यास प्रवृत्त एव, न तु लोक-वञ्चकत्वेन मिथ्याचारः । किन्त्व् अभ्यास-वैराग्ययोर् अभावेन योगाच् चलितं विषय-प्रवणी-भूतं मानसं यस्य सः । अतएव योगस्य संसिद्धिं सम्यक् सिद्धिम् अप्राप्येति यत् किञ्चित् सिद्धिं तु प्राप्त एवेति योगारुरुक्षा-भूमिकातो ऽग्रिमां योगारोह-भूमिकायाः प्रथमां कक्षां गत इति भावः ॥३७॥
बलदेवः : ज्ञान-गर्भो निष्काम-कर्म-योगो ऽष्टाङ्ग-योग-शिरस्को निखिलोपसर्ग-विमर्दनः स्व-परमात्मावलोकनोपायो भवतीत्य् असकृद् उक्तम् । तस्य च तादृशस्य नेहाभिक्रम-नाशो ऽस्तीति पूर्वोक्त-महिम्नस् तन्-महिमानं श्रोतुम् अर्जुनः पृच्छति अयतिर् इति । अभ्यास-वैराग्याभ्यां प्रयत्नेन च योगं पुमान् लभेतैव । यस् तु प्रथमं श्रद्धया तादृश-योग-निरूपक-श्रुति-विश्वासेनोपेतः । किन्त्व् अयतिर् अल्प-स्वधर्मानुष्ठान-यत्नवान् अनुदारा युवतिः इतिवद् अल्पार्थे ऽत्र नञ् । शिथिल-प्रयत्नत्वाद् एव योगाद् अष्टाङ्गाच् चलितं विषय-प्रवणं मानसं यस्य सः । एवं च स्वधर्मानुष्ठानाभ्यास-वैराग्य-शैथिल्याद् विविधस्य योगस्य सम्यक् सिद्धिं हृद्-विशुद्ध्-लक्षणाम् आत्मावलोकन-लक्षणां चाप्राप्तः किञ्चित् सिद्धिं तु प्राप्त एव । श्रद्धालुः
किञ्चिद् अनुष्ठित-स्वधर्मः प्रारब्ध-योगो ऽप्राप्त-योग-फलो देहान्ते कां गतिं गच्छति ? हे कृष्ण ॥३७॥
६।३८
कच्चिन् नोभय-विभ्रष्टश् छिन्नाभ्रम् इव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥३८॥
श्रीधरः : प्रश्नाभिप्रायं विवृणोति कच्चिद् इति । कर्मणाम् ईश्वरे ऽर्पितत्वाद् अननुष्ठानाच् च तावत् कर्म-फलं स्वर्गादिकं न प्राप्नोति । योगानिष्पत्तेश् च मोक्षं न प्राप्नोति । एवम् उभयस्माद् भ्रष्टो ऽप्रतिष्ठो निराश्रयः । अतएव ब्रह्मणः प्राप्त्य्-उपाये पथि मार्गे विमूढः सन् कच्चित् किं नश्यति ? किं वा न नश्यतीत्य् अर्थः । नाशे दृष्टान्तः - यथा च्छिन्नम् अभ्रं पूर्वस्माद् अभ्राद् विश्लिष्टम् अभ्रान्तरं चाप्राप्तं सन् मध्य एव विलीयते तद्वद् इत्य् अर्थः ॥३८॥
मधुसूदनः : एतद् एव संशय-बीजं विवृणोति कच्चिद् इति । कच्चिद् इति साभिलाष-प्रश्ने । हे महाबाहो महान्तः सर्वेषां भक्तानां सर्वोपद्रव-निवारण-समर्थाः पुरुषार्तह्-चतुष्टय-दान-समर्था वा चत्वारो बाहवो यस्येति प्रश्न-निमित्त-क्रोधाभावस् तद्-उत्तर-दान-सहिष्णुत्वं च सूचितम् । ब्रह्मणः पथि ब्रह्म-प्राप्ति-मार्गे ज्ञाने विमूढो विचित्तः, अनुत्पन्न-ब्रह्मात्मैक्य-साक्षात्कार इति यावत् । अप्रतिष्ठो देव-यान-पितृ-यान-मार्ग-गमन-हेतुभ्याम् उपासना-कर्मभ्यां प्रतिष्ठाभ्यां साधनाभ्यां रहितः सोपासनानां सर्वेषां कर्मणां परित्यागात् । एतादृश उभय-विभ्रष्टः कर्म-मार्गाज् ज्ञान-मार्गाच् च विभ्रष्टश् छिन्नाभ्रम् इव वायुना छिन्नं विशकलितं पूर्वस्मान् मेघाद् भ्रष्टम् उत्तरं मेघम् अप्राप्तम्
अभ्रं यथा वृष्ट्य्-अयोग्यं सद्-अन्तराल एव नश्यति तथा योग-भ्रष्टो ऽपि पूर्वस्मात् कर्म-मार्गाद् विच्छिन्न उत्तरं च ज्ञान-मार्गम् अप्राप्तो ऽन्तराल एव नश्यति कर्म-फलं ज्ञान-फलं च लब्धुम् अयोग्यो न किम् इति प्रश्नार्थः । एतेन ज्ञान-कर्म-समुच्चयो निराकृतः । एतस्मिन् हि पक्षे ज्ञान-फल-लाभे ऽपि कर्म-फल-लाभ-सम्भवेनोभय-विभ्रष्टत्वासम्भवात् । न च तस्य कर्म-सम्भवे ऽपि फल-कामना-त्यागात् फल-भ्रंश-वचनम् अवकल्पत इति वाच्यं निष्कामानाम् अपि कर्मणां फल-सद्-भावस्यापस्तम्ब-वचनान्द्य्-उदाहरणेन बहुशः प्रतिपादितत्वात् । तस्मात् सर्व-कर्म-त्यागिनं प्रत्य् एवायं प्रश्नः । अनर्थ-प्राप्ति-शङ्कायास् तत्रैव सम्भवात् ॥३८॥
विश्वनाथः : कच्चिद् इति प्रश्ने । उभय-विभ्रष्टः कर्म-मार्गाच् च्युतो योग-मार्गं च सम्यग् अप्राप्त इत्य् अर्थः । छिन्नाभ्रम् इवेति यथा छिन्नम् अभ्रं मेघः पूर्वस्माद् अभ्राद् विश्लिष्टम् अभ्रान्तरं चाप्राप्तं सत् मध्ये विलीयते तेनास्य इह लोके योग-मार्गे प्रवेशाद् विषय-भोग-त्यागेच्छा सम्यग्-वैराग्याभावाद् विषय-भोगेच्छा चेति कष्टम् । पर-लोके च स्वर्ग-साधनस्य कर्मणो ऽभावात् । मोक्ष-साधनस्य योगस्याप्य् अपरिपाकान् न स्वर्ग-मोक्षाव् इत्य् उभय-लोक एवास्य विनाश इति द्योतितम् । अतो ब्रह्म-प्राप्त्य्-उपाये पथि मार्गे विमूढो ऽयम् अप्रतिष्ठः प्रतिष्ठाम् आस्पदम् अप्राप्तः सन् कच्चित् किं नश्यति न नश्यति त्वं पृच्छ्यसे ॥३८॥
बलदेवः : प्रश्नाशयं विशदयति कच्चिद् इति प्रश्ने । निष्कामतया कर्मणो ऽनुष्ठानान् न स्वर्गादि-फलं योगासिद्धेर् नात्मावलोकनं च तस्याभूत् । एवम् उभयस्माद् विभ्रष्टो ऽप्रतिष्ठो निरालम्बः सन् किं नश्यति किं वा न नश्यति ? इत्य् अर्थः । छिन्नाभ्रम् इवेति अभ्रं मेघो यथा पूर्वस्माद् अभ्राद् विच्छिन्नं परम् अभ्रं चाप्राप्तम् अन्तराले विलीयते, तद्वद् एवेति नाशे दृष्टान्तः । कथम् एवं शङ्का ? तत्राह - ब्रह्मणः पथि प्राप्त्य्-उपाये यद् असौ विमूढः ॥३८॥
६।३९
एतन् मे संशयं कृष्ण छेत्तुम् अर्हस्य् अशेषतः ।
त्वद्-अन्यः संशयस्यास्य छेत्ता न ह्य् उपपद्यते ॥३९॥
श्रीधरः : त्वयैव सर्वज्ञेनायं मम सन्देहो निरसनीयः । त्वत्तो ऽन्यस् त्व् एतत् सन्देह-निवर्तको नास्ति इत्य् आह एतद् इति एतद् एनम् । छेत्त्वा निवर्तकः स्पष्टम् अन्यत् ॥३९॥
मधुसूदनः : यथोपदर्शित-संशयापाकरणाय भगवन्तम् अन्तर्यामिणम् अर्थयते पार्थः एतन् म इति । एतद् एवं पूर्वोपदर्शितं मे मम संशयं हे कृष्ण च्छेत्तुम् अपनेतुम् अर्हस्य् अशेषतः संशय-मूलाधर्माद्य्-उच्छेदेन । मद्-अन्यः कश्चिद् ऋषिर् वा देवो वा त्वदीयम् इमं संशयम् उच्छेत्स्यतीत्य् आशङ्क्याह त्वद्-अन्य इति । त्वत् परमेश्वरात् सर्वज्ञाच् छास्त्र-कृतः परम-गुरोः कारुणिकाद् अन्यो ऽनीश्वरत्वेन असर्वज्ञः कश्चिद् ऋषिर् वा देवो वास्य योग-भ्रष्ट-पर-लोक-गति-विषयस्य संशयस्य च्छेत्ता सम्यग्-उत्तर-दानेन नाशयिता हि यस्मा̆न् नोपपद्यते न सम्भवति तस्मात् त्वम् एव प्रत्यक्ष-दर्शी सर्वस्य परम-गुरुः संशयम् एतं मम च्छेत्तुम् अर्हसीत्य् अर्थः ॥३९॥
विश्वनाथः : एतद् एतम् ॥३९॥
बलदेवः : एतद् इति क्लीब्त्वम् आर्षम् । त्वद् इति सर्वेश्वरात् सर्वज्ञत्वत्तो ऽन्यो ऽनीश्वरो ऽल्पज्ञः कश्चिद् ऋषिः ॥३९॥
६।४०
श्री-भगवान् उवाच
पार्थ नैवेह नामुत्र विनाशस् तस्य विद्यते ।
न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति ॥४०॥
श्रीधरः : तत्रोत्तरं श्री-भगवान् उवाच पार्थेति सार्धैश् चतुर्भिः । इह-लोके नाश उभय-भ्रष्टात् पातित्यम् । अमुत्र पर-लोके नाशो नरक-प्राप्तिः । तद् उभयं तस्य नास्त्य् एव । यतः कल्याण-कृच् चुभ-कारी कश्चिद् अपि दुर्गतिं न गच्छति । अयं च शुभकारी श्रद्दया योगे प्रवृत्तत्वात् । तातेति लोक-रीत्योपलालयन् सम्बोधयति ॥४०॥
मधुसूदनः : एवम् अर्जुनस्य योगिनं प्रति नाशाशङ्कां परिहरन्न् उत्तरं श्री-भगवान् उवाच पार्थेति । उभय-विभ्रष्टो योगी नश्यतीति को ऽर्थः । किम् इह लोके शिष्ट-गर्हणीयो भवति वेद-विहित-कर्म-त्यागात् । यथा कश्चिद् उच्छृङ्खलः । किं वा परत्र निकृष्टां गतिं प्राप्नोति । यथोक्तं श्रुत्या - अथैतयोः पथोर् न कतरेणचन ते कीटाः पतङ्गा यदि दन्दशूकम् इति । तथा चोक्तं मनुना – वान्ताश्य् उल्का-मुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः [मनु १२।७१] इत्य् आदि । तद् उभयम् अपि नेत्य् आह हे पार्थ पार्थ नैवेह नामुत्र विनाशस् तस्य यथा-शास्त्रं कृत-सर्व-कर्म-सन्न्यासस्य सर्वतो विरक्तस्य गुरुम् उपसृत्य वेदान्त-श्रवणादि कुर्वतो ऽन्तराले मृतस्य योग-भ्रष्टस्य विद्यते ।
उभयत्रापि तस्य विनाशो नास्तीत्य् अत्र हेतुम् आह हि यस्मात् कल्याण-कृच् छास्त्र-विहित-कारी कश्चिद् अपि दुर्गतिम् इहाकीर्तिं परत्र च कीटादि-रूपतां न गच्छति । अयं तु सर्वोत्कृष्ट एव सन् दुर्गतिं न गच्छतीति किम् उ वक्तव्यम् इत्य् अर्थः । तनोत्य् आत्मानं पुत्र-रूपेणेति पिता तत उच्यते । स्वार्थिके ऽणि तत एव तातो राक्षस-वायसादिवत् । पितैव च पुत्र-रूपेण भजतीति पुत्र-स्थानीयस्य शिष्यस्य तातेति सम्बोधनं कृपातिशय-सूचनार्थम् । यद् उक्तं योग-भ्रष्टः कष्टां गतिं गच्छति अज्ञत्वे सति देव-यान-पितृ-यान-मार्गान्यतरासम्बन्धित्वात् स्वधर्म-भ्रष्टवद् इति । तद् अयुक्तम् । एतस्य देवयान-मार्ग-सम्बन्धित्वेन हेतोर् असिद्धत्वात् । पञ्चाग्नि-विद्यायां य इत्थं विदुर् ये चामी अरण्ये श्रद्धां सत्यम् उपासते ते ऽर्चिर् अभिसम्भवन्तीत्य् अविशेषेण पञ्चाग्नि-विदाम् इवातस्क्रतूनां
श्रद्धा-सत्यवतां मुमुक्षूणाम् अपि देव-यान-मार्गेण ब्रह्म-लोक-प्राप्ति-कथनात् । श्रवणादि-परायणस्य च योग-भ्रष्टस्य श्रद्धान्वितो भूत्वेत्य् अनेन श्रद्धायाः प्राप्तत्वात् । शान्तो दान्त इत्य् अनेन चानृत-भाषण-रूप-वाग्-व्यापार-निरोध-रूपस्य सत्यस्य लब्धत्वात् । बहिर् इन्दिर्याणाम् उच्छृङ्खल-व्यापार-निरोधो हि दमः । योग-शास्त्रे च अहिंसा-सत्यास्तेय-ब्रह्मचर्यापरिग्रहा यमाः [योगस् २।३०] इति योगाङ्ग-स्वेनोक्तत्वात् । यदि तु सत्य-शब्देन ब्रह्मैवोच्यते तदापि न क्षतिः । वेदान्त-श्रवणादेर् अपि सत्य-ब्रह्म-चिन्तन-रूपत्वात् । अतत्-क्रतुत्वे ऽपि च पञ्चाग्नि-विदाम् इव ब्रह्म-लोक-प्राप्ति-सम्भवात् । तथा च स्मृतिः सन्न्यासाद् ब्रह्मणः स्थानम् इति । तथा प्रात्यहिक-वेदान्त-वाक्य-विचारस्यापि ब्रह्म-लोक-प्राप्ति-साधनत्वात् समुदितानां तेषां तत्-साधनत्वं
किं चित्रम् । अतएव सर्व-सुकृत-रूपत्वं योगि-चरितस्य तैत्तिरीया आमनन्ति तस्यैवं विदुषो यज्ञस्य इत्य् आदिना । स्मर्यते च -
स्नातं तेन समस्त-तीर्थ-सलिले सर्वा ऽपि दत्तावनिर्
यज्ञानां च कृतं सहस्रम् अखिला देवाश् च सम्पूजिताः ।
संसाराच् च समुद्धृताः स्व-पितरस् त्रैलोक्य-पूज्यो ऽप्य् असौ
यस्य ब्रह्म-विचारणे क्षणम् अपि स्थैर्यं मनः प्राप्नुयात् ॥ इति ॥४०॥
विश्वनाथः : इह लोके अमुत्र पर-लोके ऽपि कल्याणं कल्याण-प्रापकं योगं करोतीति सः ॥४०॥
बलदेवः : एवं पृष्टो भगवान् उवाच पार्थेति । तस्योक्त-लक्षणस्य योगिन इह प्राकृतिके लोके ऽमुत्राप्राकृतिके च लोके विनाशः स्वर्गादि-सुख-विभ्रंश-लक्षणः परमात्मावलोकन-विभ्रंश-लक्षणश् च न विद्यते न भवति । किं चोत्तरत्र तत्-प्राप्तिर् भवेद् एवे । हि यतः । कल्याण-कृत् निःश्रेयसोपाय-भूत-सद्-धर्म-योगारम्भी दुर्गतिं तद्-उभयाभाव-रूपां दरिद्रतां न गच्छति । हे तातेत्य् अतिवात्सल्यात् सम्बोधनम् । तेनात्यात्मानं पुत्र-रूपेण इति व्युत्पत्तेस् । ततः पिता स्वार्थिके ऽणि । तत एव तातः पुत्रं शिष्यं चातिकृपया ज्येष्टस् तथा सम्बोधयति ॥४०॥
६।४१
प्राप्य पुण्य-कृतां लोकान् उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योग-भ्रष्टो ऽभिजायते ॥४१॥
श्रीधरः : तर्हि किम् असौ प्राप्नोतीत्य् अपेक्षायाम् आह प्राप्येति । पुण्य-कृतां पुण्य-कारिणाम् अश्वमेधादि-याजिनां लोकान् प्राप्य तत्र शाश्वतीः समाः बहून् संवत्सरान् उषित्वा वास-सुखम् अनुभूय शुचीनां सद्-आचाराणां श्रीमतां धनिनाम् । गेहे स योग-भ्रष्टो ऽभिजायते जन्म प्राप्नोति ॥४१॥
मधुसूदनः : तद् एवं योग-भ्रष्टस्य शुभ-कृत्त्वेन लोक-द्वये ऽपि नाशाभावे किं भवतीत्य् उच्यते प्राप्येति । योग-मार्ग-प्रवृत्तः सर्व-कर्म-सन्न्यासी वेदान्त-श्रवणादि कुर्वन्न् अन्तराले म्रियमाणः कश्चित् पूर्वोपचित-भोग-वासना-प्रादुर्भावाद् विषयेभ्यः स्पृहयति । कश्चित् तु वैराग्य-भावना-दाढ्यान् न स्पृहयति । तयोः प्रथमः प्राप्य पुण्य-कृताम् अश्वमेध-याजिनां लोकान् अर्चिर्-आदि-मार्गेण ब्रह्म-लोकान् । एकस्मिन्न् अपि भोग-भूमि-भेदापेक्षया बहु-वचनम् । तत्र चोषित्वा वासम् अनुभूय शाश्वतीर् ब्रह्म-परिमाणेनाक्षायाः समाः संवत्सरान्, तद्-अन्ते शुचीनां शुद्धानां श्रीमतां विभूतिमतां महाराज-चक्रवर्तिनां गेहे कुले भोग-वासनाशोष-सद्-भावाद् अजातशत्रु-जनकादिवद् योग-भ्रष्टो ऽभिजायते । भोग-वासना-प्राबल्याद्
ब्रह्म-लोकान्ते सर्व-कर्म-सन्न्यासायोग्यो महाराजो भवतीत्य् अर्थः ॥४१॥
विश्वनाथः : तर्हि कां गतिम् असौ प्राप्नोतीत्य् अत आह प्राप्येति । पुण्य-कृताम् अश्वमेधादि-याजिनां लोकान् इति योगस्य फलं मोक्षो भोगश् च भवति । तत्रापक्व-योगिनो भोगेच्छायां सत्यां योग-भ्रंशे सति भोग एव । परिपक्व-योगिनस् तु भोगेच्छाया असम्भवान् मोक्ष एव । केचित् तु परिपक्व-योगिनो ऽपि दैवाद् भोगेच्छायां सत्यां कर्दम-सौभर्यादि-दृष्ट्या भोअगम् अप्य् आहुर् इति । शुचीनां सद्-आचाराणां श्रीमतां धनिक-वणिग्-आदीनां राज्ञां वा ॥४१॥
बलदेवः : ऐहिकीं सुख-सम्पत्तिं तावद् आह प्राप्येति । यादृश-विषय-स्पृहया स्व-धर्मे शिथिलो योगाच् च विच्युतो ऽयं तादृशान् विषयान् आत्मोद्देश्यक-निष्काम-स्वधर्म-योगारम्भ-माहात्म्येन पुण्य-कृताम् अश्वमेधादि-याजिनां लोकान् पाप्य भुङ्क्ते तान् भुञ्जानो यावतीभिस् तद्-भोग-तृष्णा-विनिवृत्तिस् तावतीः शाश्वतीः बह्वीः समाः संवत्सरांस् तेषु लोकेषूषित्वा स्थित्वा तद्-भोग-वितृष्णस् तेभ्यो लोकेभ्यः शुचीनां सद्-धर्म-निरतानां योगार्हाणां श्रीमतां धनिनां गेहे पूर्वारब्ध-योग-माहात्म्यात् स योग-श्रेष्ठो ऽभिजायत इत्य् अल्प-कालारब्ध-योगाद् भ्रष्टस्य गतिर् इयं दर्शिता ॥४१॥
६।४२
अथ वा योगिनाम् एव कुले भवति धीमताम् ।
एतद् धि दुर्लभतरं लोके जन्म यद् ईदृशम् ॥४२॥
श्रीधरः : अल्प-कालाभ्यस्त-योग-भ्रंशे गतिर् इयम् उक्ता । चिराभ्यस्त-योग-भ्रंशे तु पक्षान्तरम् आह अथवेति । योग-निष्ठानां धीमतां ज्ञानिनाम् एव कुले जायते । न तु पूर्वोक्तानाम् आरूढ-योगानां कुले । एतज् जन्म स्तौति ईदृशं यज् जन्म एतद् धि लोके दुर्लभतरं मोक्ष-हेतुत्वात् ॥४२॥
मधुसूदनः : द्वितीयं प्रति पक्षान्तरम् आह अथवेति । श्रद्धा-वैराग्यादि-कल्याण-गुणाधिक्ये तु भोग-वासना-विरहात् पुण्य-कृतां लोकान् अप्राप्यैव योगिनाम् एव दरिद्राणां ब्राह्मणानां न तु श्रीमतां राज्ञां गृहे योग-भ्रष्ट-जन्म तद् अपि दुर्लभम् अनेक-सुकृत-साध्यत्वान् मोक्ष-पर्यवसायित्वाच् च । यत् तु शुचीनां दरिद्राणां ब्राह्मणानां ब्रह्म-विद्यावतां कुले जन्म । एतद् धि प्रसिद्धं शुकादिवत् । दुर्लभतरं दुर्लभाद् अपि दुर्लभं लोके यद् ईदृशं सर्व-प्रमाद-कारण-शून्यं जन्मेति द्वितीयः स्तूयते भोग-वासना-शून्यत्वेन सर्व-कर्म-सन्न्यासार्हत्वात् ॥४२॥
विश्वनाथः : अल्प-कालाभ्यस्त-योग-भ्रंशे गतिर् इयम् उक्ता । चिर-कालाभ्यस्त-योग-भ्रंशे तु पक्षान्तरम् आह अथवेति । योगिनां निमि-प्रभृतीनाम् इत्य् अर्थः ॥४२॥
बलदेवः : चिराराब्धाद् योगाद् भ्रष्टस्य गतिम् आह अथवेति । योगिनां योगम् अभ्यसतां धीमतां योग-देशिकानां कुले भवत्य् उत्पद्यते । द्विविधं जन्म स्तौति एतद् इति । योगार्हाणां योगम् अभ्यसतां च कुले पूर्व-योग-संस्कार-बल-कृतम् एतज् जन्म प्राकृतानाम् अतिदुर्लभम् ॥४२॥
६।४३
तत्र तं बुद्धि-संयोगं लभते पौर्वदेहिकम्
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥४३॥
श्रीधरः : ततः किं ? अत आह तत्रेति सार्धेन । स तत्र द्वि-प्रकारे ऽपि जन्मनि पूर्व-देहे भवं पौर्वदेहिकम् । तम् एव ब्रह्म-विषयया बुद्ध्या संयोगं लभते । ततश् च भूयो ऽधिकं संसिद्धौ मोक्षे प्रयत्नं करोति ॥४३॥
मधुसूदनः : एतादृश-जन्म-द्वयस्य दुर्लभत्वं कस्मात् ? यस्मात् तत्र तम् इति । तत्र द्वि-प्रकारे ऽपि जन्मनि पूर्व-देहे भवं पौर्वदेहिकम् सर्व-कर्म-सन्न्यास-गुरूपसदन-श्रवण-मनन-निदिध्यासनानां मध्ये यावत्-पर्यन्तम् अनुष्ठितं तावत् पर्यन्तम् एव तं ब्रह्मात्मैक्य-विषयया बुद्ध्या संयोगं तत्-साधन-कलापम् इति यावत् । लभते प्राप्नोति । न केवलं लभत एव किन्तु ततस् तल्-लाभानन्तरं भूयो ऽधिकं लब्धाया भूमेर् अग्रिमां भूमिं सम्पादयितुं संसिद्धौ संसिद्धिर् मोक्षस् तन्-निमित्तं यतते च प्रयत्नं करोति च । यावन् मोक्षं भूमिकाः सम्पादयतीत्य् अर्थः । हे कुरु-नन्दन तवापि शुचीनां श्रीमतां कुले योग-भ्रष्ट-जनम जातम् इति पूर्व-वासना-वशाद् अनायासेनैव ज्ञान-लाभो भविष्यतीति सूचयितुं महा-प्रभावस्य कुरोः
कीर्तनम् ।
अयम् अर्थो भगवद्-वशिष्ठ-वचने व्यक्तः । यथा श्री-रामः -
एकाम् अथ द्वितीयां वा तृतीयां भूमिकाम् उत ।
आरूढस्य मृतकस्याथ कीदृशी भगवन् गतिः ॥
पूर्वं हि सप्त भूमयो व्याख्याताः । तत्र नित्यानित्य-वस्तु-विवेक-पूर्वकाद् इहामुत्रार्थ-भोग-वैराग्याच् छम-दम-श्रद्धा-तितिक्षा-सर्व-कर्म-सन्न्यासादि-पुरःसरा मुमुक्षा शुभेच्छाख्या प्रथमा भूमिका । साधन-चतुष्टय-सम्पद् इति तावत् । ततः श्रवण-मनन-परिनिष्पन्नस्य तत्त्व-ज्ञानस्य निर्विचिकित्सना-रूपा तनु-मानसा नाम तृतीया भूमिका । निदिध्यासन-सम्पद् इति यावत् । चतुर्थी भूमिका तु तत्त्व-साक्षात्कार एव । पञ्चम-षष्ठ-सप्तम-भूमयस् तु जीवन्मुक्तेर् अवान्तर-भेदा इति तृतीये प्राग्-व्याख्यातम् । तत्र चतुर्थीं भूमिं प्राप्तस्य मृतस्य जीवन्-मुक्त्य्-अभावे ऽपि विदेह-कैवल्यं प्रति नास्त्य् एव संशयः । तद्-उत्तर-भूमि-त्रयं प्राप्तस् तु जीवन्न् अपि मुक्तः किम् उ विदेह इति नास्त्य् एव भूमिका-चतुष्टये शङ्का । साधन-भूत-भूमिका-त्रये
तु कर्म-त्यागाज् ज्ञानालाभाच् च भवति शङ्केति तत्रैव प्रश्नः ।
श्री-वशिष्ठः -
योग-भूमिकयोत्क्रान्त-जीवितस्य शरीरिणः ।
भूमिकांशानुसारेण क्षीयते पूर्व-दुष्कृतम् ॥
ततः सुर-विमानेषु लोक-पाल-पुरेषु च ।
मेरूपवन-कुञ्जेषु रमते रमणी-सखः ॥
ततः सुकृत-सम्भारे दुष्कृते च पुराकृते ।
भोग-क्षयात् परिक्षीणे जायन्ते योगिनो भुवि ॥
शुचीनां श्रीमतां गेहे गुप्ते गुणवतां सताम् ।
जनित्वा योगम् एवैते सेवन्ते योग-वासिताः ॥
तत्र पाग्-भवनाभ्यस्तं योग-भूमि-क्रमं बुधाः ।
दृष्ट्वा परिपतन्त्य् उच्चैर् उत्तरं भूमिका-क्रमम् ॥ इति ।
अत्र प्राग्-उपचित-भोग-वासना-प्राबल्याद् अल्प-कालाभ्यस्त-वैराग्य-वासना-दौर्बल्येन प्राणोत्क्रान्ति-समये प्रादुर्भूत-भोग-स्पृहः सर्व-कर्म-सन्न्यासी यः स एवोक्तः । यस् तु वैराग्य-वासना-प्राबल्यात् प्रकृष्ट-पुण्य-प्रकटित-परमेश्वर-प्रसाद-वशेन प्राणोत्क्रान्ति-समये ऽनुद्भूत-भोग-स्पृहः सन्न्यासी भोग-व्यवधानं विनैव ब्राह्मणानाम् एव ब्रह्म-विदां सर्व-प्रमाद-कारण-शून्ये कुले समुत्पन्नस् तस्य प्राक्तन-संस्काराभिव्यक्तेनायासेनैव सम्भवान् नास्ति पूर्वस्यैव मोक्षं प्रत्य् आशङ्केति स वसिष्ठेन नोक्तो भगवता तु परम-कारुणिकेनाथवेति पक्षान्तरं कृत्वोक्त एव । स्पष्टम् अन्यत् ॥४३॥
विश्वनाथः : तत्र द्विविधे ऽपि जन्मनि बुद्ध्या परमात्म-निष्ठया सह संयोगं पौर्वदैहिकं पूर्व-जन्म-भवम् ॥४३॥
बलदेवः : आमुत्रिकीं सुख-सम्पत्तिं वक्तुं पूर्व-संस्कार-हेतुकं साधनम् आह तत्रेति । तत्र द्विविधे जन्मनि पौर्वदैहिकं पूर्व-देहे भवम् । बुद्ध्या स्वधर्म-स्वात्म-परमात्म-विषया संयोगं सम्बन्धं लभते । ततश् च हृद्-विशुद्धि-स्व-परमात्मावलोक-रूपायां संसिद्धौ निमित्ते स्वापोत्थितवद् भूयो बहुतरं यतते । यथा पुनर् विघ्न-हतो न स्यात् ॥४३॥
६।४४
पूर्वाभ्यासेन तेनैव ह्रियते ह्य् अवशो ऽपि सः ।
जिज्ञासुर् अपि योगस्य शब्द-ब्रह्मातिवर्तते ॥४४॥
श्रीधरः : तत्र हेतुः पूर्वेति । तेनैव पूर्व-देह-कृताभ्यासेनावशो ऽपि कुतश्चिद् अम्भरायाद् अनिच्छन्न् अपि संह्रियते विषयेभ्यः पुरावृत्य ब्रह्म-निष्ठः क्रियते । तद् एवं पूर्वाभ्यास-बलेन प्रयत्नं कुर्वन् शनैर् मुच्यत इतीमम् अर्थं कैमुत्य-न्यायेन स्फुटयति जिज्ञासुर् इति सार्धेन । योगस्य स्वरूपं जिज्ञासुर् एव केवलं न तु प्राप्त-योगः । एवम्भूतो योगे प्रविष्ट-मात्रो ऽपि पाप-वशाद् योग-भ्रष्टो ऽपि शब्द-ब्रह्म वेदम् अतिवर्तते । वेदोक्त-कर्म-फलान्य् अतिक्रामति । तेभ्यो ऽधिकं फलं प्राप्य मुच्यत इत्य् अर्थः ॥४४॥
मधुसूदनः : ननु यो ब्रह्म-विदां ब्राह्मणानां सर्व-प्रमाद-कारण-शून्ये कुले समुत्पन्नस् तस्य मध्ये विषय-भोग-व्यवधानाभावाद् अव्यवहित-प्राग्-भवीय-संस्कारोद्बोधात् पुनर् अपि सर्व-कर्म-सन्न्यास-पूर्वको ज्ञान-साधन-लाभो भवतु नाम । यस् तु श्रीमतां महाराज-चक्रवर्तिनां कुले बहुविध-विषय-भोग-व्यवधानेनोत्पन्नस् तस्य विषय-भोग-वासना-प्राबल्यात् प्रमाद-कारण-सम्भवाच् च कथम् अतिव्यवहित-ज्ञान-संस्कारोद्बोधः क्षत्रियत्वेन सर्व-कर्म-सन्न्यासानर्हस्य कथं वा ज्ञान-साधन-लाभ इति । तथोच्यते पूर्वाभ्यासेनेति । अतिचिर-व्यवहित-जन्मोपचितेनापि तेनैव पूर्वाभ्यासेन प्राग्-अर्जित-ज्ञान-संस्कारेणावशो ऽपि मोक्ष-साधनायाप्रयतमानो ऽपि ह्रियते स्ववशीक्रियते । अकस्माद् एव भोग-वासनाभ्यो व्युत्थाप्य मोक्ष-साधनोन्मुखः
क्रियते, ज्ञान-वासनाया एवाल्प-कालाभ्यस्ताया अपि वस्तु-विषयत्वेनावस्तु-विषयाभ्यो भोग-वासनाभ्यः प्राबल्यात् । पश्य यथा त्वम् एव युद्धे प्रवृत्तो ज्ञानायाप्रतयमानो ऽपि पूर्व-संस्कार-प्राबल्याद् अकस्माद् एव रण-भूमौ ज्ञानोन्मुखो ऽभूर् इति । अतएव प्राग् उक्तं नेहाभिक्रम-नाशो ऽस्ति [गीता २।४०] इति । अनेक-जन्म-सहस्र-व्यवहितो ऽपि ज्ञान-संस्कारः स्व-कार्यं करोत्य् एव सर्व-विरोध्य्-उपमर्देनेत्य् अभिप्रायः ।
सर्व-कर्म-सन्न्यासाभावे ऽपि हि क्षत्रियस्य ज्ञानाधिकारः स्थित एव । यथा पाटच्-चरेण बहूनां रक्षिणां मध्ये विद्यमानम् अपि अश्वादि-द्रव्यं स्वयम् अनिच्छद् अपि तान् सर्वान् अभिभूय स्व-सामर्थ्य-विशेषाद् एवापह्रियते । पश्चात् तु कदापहृतम् इति विमर्शो भवति । एवं बहूनां ज्ञान-प्रतिबन्धकानां मध्ये विद्यमानो ऽपि योग-भ्रष्टः स्वयम् अनिच्छन्न् अपि ज्ञान-संस्कारेण बलवता स्वसामर्थय-विशेषाद् एव सर्वान् प्रतिबन्धकान् अभिभूयात्म-वशी क्रियत इति हृञः प्रयोगेन सूचितम् । अतएव संस्कार-प्राबल्याज् जिज्ञासुर् ज्ञातुम् इच्छुर् अपि योगस्य मोक्ष-साधन-ज्ञानस्य विषयं ब्रह्म, प्रथम-भूमिकायां स्थितः सन्न्यासीति यावत् । सो ऽपि तस्याम् एव भूमिकायां मृतो ऽन्तराले बहून् विषयान् भुक्त्वा महाराज-चक्रवर्तिनां कुले समुत्पन्नो
ऽपि योग-भ्रष्टः प्राग्-उपचित-ज्ञान-संस्कार-प्राबल्यात् तस्मिन् जन्मनि शब्द-ब्रह्म वेदं कर्म-प्रतिपादकम् अतिवर्तते ऽतिक्रम्य तिष्ठति कर्माधिकारातिक्रमेण ज्ञानाधिकारी भवतीत्य् अर्थः । एतेनापि ज्ञान-कर्म-समुच्चयो निराकृत इति द्रष्टव्यम् । समुच्चये हि ज्ञानिनो ऽपि कर्म-काण्डातिक्रमाभावात् ॥४४॥
विश्वनाथः : ह्रियत आकृष्यते । योगस्य योगं जिज्ञासुर् अपि भवति । अतः शब्द-ब्रह्म वेद-शास्त्रम् अतिवर्तते वेदोक्त-कर्म-मार्गम् अतिक्रम्य वर्तते । किन्तु योग-मार्ग एव तिष्ठतीत्य् अर्थः ॥४४॥
बलदेवः : तत्र हेतुः । तेनैव योग-विषयकेण पूर्वाभ्यासेन स योगी ह्रियते आकृष्यते अवशो ऽपि केनचिद् विघ्नेनानिच्छन्न् अपीत्य् अर्थः । हीति प्रसिद्धो ऽयं योग-महिमा । योगस्य जिज्ञासुर् अपि तु योगम् अभ्यसितुं प्रवृत्तः शब्द-ब्रह्म स-काम-कर्म-निरूपकं वेदम् अतिवर्तते । तं न शब्द-घातीत्य् अर्थः ॥४४॥
६।४५
प्रयत्नाद् यत् तु योगी संशुद्ध-किल्बिषः ।
अनेक-जन्म-संसिद्धस् ततो याति परां गतिम् ॥४५॥
श्रीधरः : प्रयत्नाद् इति । यदैवं मन्द-प्रयत्नो ऽपि योगी परां गैत्ं याति तदा यस् तु योगी प्रयत्नाद् उत्तरोत्तरम् अधिकं योगे यतमानो यत्नं कुर्वन् योगेनैव संशुद्ध-किल्बिषो विधूत-पापः सो ऽनेकेषु जन्मसूचितेन योगेन संसिद्धः सम्यग् ज्ञानी भूत्वा ततः श्रेष्ठां गतिं यातीति किं वक्तव्यम् इत्य् अर्थः ॥४५॥
मधुसूदनः : यदा चैवं प्रथम-भूमिकायां मृतो ऽपि अनेक-भोग-वासना-व्यवहितम् अपि विविध-प्रमाद-कारणवति महाराज-कुले ऽपि जन्म लब्ध्वापि योग-भ्रष्टः पूर्वोपचित-ज्ञान-संस्कार-प्राबल्येन कर्माधिकारम् अतिक्रम्य ज्ञानाधिकारी भवति तदा किम् उ वक्तव्यं द्वितीयायां तृतीयायां वा भूमिकायां मृतो विषय-भोगान्ते लब्ध-महाराज-कुल-जन्मा यदि वा भोगम् अकृत्वैव लब्ध-ब्रह्म-विद् ब्राह्मण-कुल-जन्मा योग-भ्रष्टः कर्माधिकारातिक्रमेण ज्ञानाधिकारी भूत्वा तत्-साधनानि सम्पाद्य तत्-फल-लाभेन संसार-बन्धनान् मुच्यत इति । तद् एतद् आह् प्रयत्नाद् इति । प्रयत्नात् पूर्व-कृताद् अप्य् अधिकम् अधिकं यतमानः प्रयत्नातिरेकं कुर्वन् योगी पूर्वोपचित-संस्कारवांस् तेनैव योग-प्रयत्न-पुण्येन संशुद्ध-किल्बिषो धौत-ज्ञान-प्रतिबन्धक-पाप-मलः
। अतएव संस्कारोपचयात् पुण्योपचयाच् चानेकैर् जन्मभिः संसिद्धः संस्कारातिरेकेण पुण्यातिरेकेण च प्राप्त-चरम-जन्मा ततः साधन-परिपाकाद् याति परां प्रकृष्टां गतिं मुक्तिम् । नास्त्य् एवात्र कश्चित् संशय इत्य् अर्थः ॥४५॥
विश्वनाथः : एवं योग-भ्रंशे कारणं यत्न-शैथिल्यम् एव अयतिः श्रद्धयोपेतः इत्य् उक्तः । तस्य च यत्न-शैथिल्यवतो योग-भ्रष्टस्य जन्मान्तरे पुनर् योग-प्राप्तिर् एवोक्ता, न तु संसिद्धिः । संसिद्धिस् तु यावद्भिर् जन्मभिस् तस्य योगस्य परिपाकः स्यात् । तावद्भिर् एवेत्य् अवसीयते । यस् तु न कदाचिद् अपि योगे शैथिल्य-प्रयत्नः । स न योग-भ्रष्ट-शब्द-वाच्यः । किन्तु -
बहु-जन्म-विपक्वेन सम्यग्-योग-समाधिना ।
द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम् ॥ [भ्प् ३।२४।२८]
इति कर्दमोक्तेः सो ऽपि नैकेन जन्मना सिध्यतीत्य् आह प्रयत्नाद् यतमानः प्रकृष्ट-यत्नाद् अपि यत्नवान् इत्य् अर्थः । तु-कारः पूर्वोक्ताद् योग-भ्रष्टाद् अस्य भेदं बोधयति । संशुद्ध-किल्बिषः सम्यग्-परिपक्व-कषायः । सो ऽपि नैकेन जन्मना सिध्यतीति सः । परां गतिं मोक्षम् ॥४५॥
बलदेवः : अथामुत्रिकीं सुख-सम्पत्तिम् आह प्रयत्नाद् इति । पूर्व-कृताद् अपि प्रयत्नाद् अधिकम् अधिकं यतमानः पूर्व-विघ्न-भयात् प्रयत्नाधिक्यं कुर्वन् योगी तेनोपचितेन प्रयत्नेन संशुद्ध-किल्बिषो निधौत-निखिलान्य-वासनः । एवम् अनेकैर् जन्मभिः संसिद्धः परिपक्व-योगो योग-परिपाकाद् एव हेतोः परां स्व-परात्मावलोक-लक्षणां गतिं मुक्तिं याति ॥४५॥
६।४६
तपस्विभ्यो ऽधिको योगी ज्ञानिभ्यो ऽपि मतो ऽधिकः ।
कर्मिभ्यश् चाधिको योगी तस्माद् योगी भवार्जुन ॥४६॥
श्रीधरः : यस्माद् एवं तस्मात् तपस्विभ्य इति । तपस्विभ्यः कृच्छ्र-चान्द्रायणादि-तपो-निष्ठेभ्यः । ज्ञानिभ्यः शास्त्र-ज्ञान-विद्भ्यो ऽपि । कर्मिभ्य इष्ट-पूर्तादि-कर्म-कारिभ्यो ऽपि । योगी श्रेष्ठो ममाभिमतः । तस्मात् त्वं योगी भव ॥४६॥
मधुसूदनः : इदानीं योगी स्तूयते ऽर्जुनं प्रति श्रद्धातिशयोत्पादन-पूर्वकं योगं विधातुं तपस्विभ्य इति । तपस्विभ्यः कृच्छ्र-चान्द्रायणादि-तपः-परायणेभ्यो ऽपि अधिक उत्कृष्टो योगी तत्त्व-ज्ञानोत्पत्त्य्-अनन्तरं मनो-नाश-वासनाक्षय-कारी ।
विद्यया त आरोहन्ति यत्र कामाः परागताः ।
न तत्र दक्षिणा यान्ति नावद्वांसस् तपस्विनः ॥ इति श्रुतेः ।
अतएव कर्मिभ्यो दक्षिणा-सहित-ज्योतिष्टोमादि-कर्मानुष्ठानेभ्यश् चाधिको योगी । कर्मिणां तपस्विनां चाज्ञत्वेन मोक्षानर्हत्वात् ।
ज्ञानिभ्यो ऽपि परोक्ष-ज्ञानवद्भ्यो ऽपि अपरोक्ष-ज्ञानवान् अधिको मतो योगी । एवम् अपरोक्ष-ज्ञानवद्भ्यो ऽपि मनो-नाश-वासनाक्षयाभावाद् अजीवन्-मुक्तेभ्यो मनो-नाश-वासनाक्षय-वत्त्वेन जीवन्-मुक्तो योग्य् अधिको मतो मम संयतः । यस्माद् एवं तस्माद् अधिकाधिक-प्रयत्न-बलात्त्वं योग-भ्रष्ट इदानीं तत्त्व-ज्ञान-मनो-नाश-वासनाक्षयैर् युगपत्-सम्पादितैर् योगी जीव-मुक्तो यः स योगी परमो मत इति प्राग्-उक्तः स तादृशो भव साधन-परिपाकात् । हे ऽर्जुनेति शुद्धेति सबोधनार्थः ॥४६॥
विश्वनाथः : कर्म-ज्ञान-तओप्-योगवतां मध्ये कः श्रेष्ठ इत्य् अपेक्षायाम् आह तपस्विभ्यः कृच्छ्र-चान्द्रायणादि-तपो-निष्ठेभ्यः । ज्ञानिभ्यः ब्रह्मोपासकेभ्यो ऽपि योगी परमात्मोपासको ऽधिको मत इति ममेदम् एव मतम् इति भावः । यदि ज्ञानिभ्यो ऽप्य् अधिकस् तदा किम् उत कर्मिभ्य इत्य् आह कर्मिभ्यश् चेति ॥४६॥
बलदेवः : एवं ज्ञान-गर्भो निष्काम-कर्म-योगो ऽष्टाङ्ग-योग-शिरस्को मोक्ष-हेतुस् तादृशाद् योगाद् विभ्रष्ट्स्यान्ततस् तत्-फलं भवेद् इत्य् अभिधाय योगिनं स्तौति तपस्विभ्य इति । तपस्विभ्यः कृच्छ्रादि-तपः-परेभ्यः ज्ञानिभ्यो ऽर्थ-शास्त्र-विद्भ्यः कर्मिभ्यः सकामेष्टा-पूर्त्य्-आदिकृद्भ्यश् च योगी मद्-उक्त-योगानुष्ठाताधिकः श्रेष्ठो मतः । आत्म-ज्ञान-वैधुर्येण मोक्षानर्हेभ्यस् तपस्व्य्-आदिभ्यो मद्-उक्तो योगी समुदितात्म-ज्ञानत्वेन मोक्षार्हत्वात् श्रेष्ठः ॥४६॥
६।४७
योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥४७॥
श्रीधरः : योगिनाम् अपि यम-नियमादि-पराणां मध्ये मद्-भक्तः श्रेष्ठ इत्य् आह योगिनाम् अपीति । मद्-गतेन मय्य् आसक्तेन । अन्तरात्मना मनसा । यो मां परमेश्वरं वासुदेवम् । श्रद्दा-युक्तः सन् भजते । स योग-युक्तेषु श्रेष्ठो मम सम्मतः । अतो मद्-भक्तो भव इति भावः ॥४७॥
आत्म-योगम् अवोचद् यो भक्ति-योग-शिरोमणिम् ।
तं वन्दे परमानन्दं माधवं भक्त-सेवधिम् ॥
इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
ध्यान-योगो नाम षष्ठो ऽध्यायः
॥६॥
मधुसूदनः : इदानीं सर्व-योगि-श्रेष्ठं योगिनं वदन्न् अध्यायम् उपसंहरति योगिनाम् इति । योगिनां वसु-रुद्रादित्यादि-क्षुद्र-देवता-भक्तानां सर्वेषाम् अपि मध्ये मयि भगवति वासुदेवे पुण्य-परिपाक-विशेषाद् गतेन प्रीति-वशान् निविष्टेन मद्-गतेनान्तरात्मनान्तः-करणेन प्राग्-भवीय-संस्कार-पाटवात् साधु-सङ्गाच् च मद्-भजन एवं श्रद्धावान् अतिशयेन श्रद्दधानः सम्भजन्ते सेवत सततं चिन्तयति यो मां नारायणम् ईश्वरेश्वरं स-गुणं निर्गुणं वा मनुष्यो ऽयम् ईश्वरान्तर-साधारणो ऽयम् इत्य् आदि-भ्रमं हित्वा स एव मद्-भक्तो योगी युक्ततमः सर्वेभ्यः समाहित-चित्तेभ्यो युक्तेभ्यः श्रेष्ठो मे मम परमेश्वरस्य सर्वज्ञस्य मतो निश्चितः । समाने ऽपि योगाभ्यास-क्लेशे समाने ऽपि भजनायासे मद्-भक्ति-शून्येभ्यो
मद्-भक्तस्यैव श्रेष्ठत्वात् त्वं मद्-भक्तः परमो युक्ततमो ऽनायासेन भवितुं शक्ष्यसीति भावः ।
तद् अनेनाध्यायेन कर्म-योगस्य बुद्धि-शुद्धि-हेतोर् मर्यादां दर्शयता ततश् च कृत-सर्व-कर्म-सन्न्यासस्य साङ्गं योगं विवृण्वता मनो-निग्रहोपायं चाक्षेप-निरास-पूर्वकम् उपदिशता योग-भ्रष्टस्य पुरुषार्थ-शून्यताशङ्कां च शिथिलतया कर्म-काण्डं भजनीयं च भगवन्तं वासुदेवं तत्-पदार्थं निरूपयितुम् अग्रिम-मध्याय-षट्कम् आरभ्यत इति शिवम् ॥४७॥
इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् अध्यात्म-योगो नाम षष्ठो ऽध्यायः
॥६॥
विश्वनाथः : तर्हि योगिनः सकाशान् नास्त्य् अधिकः को ऽपीत्य् अवसीयते । तत्र मैवं वाच्यम् इत्य् आह योगिनाम् अपि । पञ्चम्य्-अर्थे षष्ठी निर्धारण-योगात् । तपस्विभ्यो ज्ञानिभ्यो ऽप्य् अधिक इति पञ्चम्य्-अर्थ-क्रमाच् च योगिभ्यः सकाशाद् अपीत्य् अर्थः । न केवलं योगिभ्य एक-विधेभ्यः सकाशात् । अपि तु योगिभ्यः सर्वेभ्यो नाना-विधेभ्यो योगारूढेभ्यः सम्प्रज्ञात-समाध्य्-असम्प्रज्ञात-समाधिमद्भ्यो ऽपीति । यद् वा योगा उपायाः कर्म-ज्ञान-तपो-योग-भक्त्य्-आदयस् तद्वतां मध्ये यो मां भजेत । मद्-भक्तो भवति स युक्ततम उपायवत्तमः । कर्मी तपस्वी ज्ञानी च योगी मतः । अष्टाङ्ग-योगी योगितरः । श्रवण-कीर्तनादि-भक्तिमांस् तु योगितम इत्य् अर्थः । यद् उक्तं श्री-भागवते-
मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ इति ।
अग्रिमाध्याय-षट्कं यद् भक्ति-योग-निरूपकम् ।
तस्य सूत्रमयं श्लोका भक्त-कण्ठ-विभूषणम् ॥
प्रथमेन कथा-सूत्रं गीता-शास्त्र-शिरोमणिः ।
द्वितीयेन तृतीयेन तूर्येणाकाम-कर्म च ॥
ज्ञानं च पञ्चमेनोक्तं योगः षष्ठेन कीर्तितः ।
प्राधान्येन तद् अप्य् एतं षट्कं कर्म-निरूपकम् ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतासु षष्ठो ऽध्यायो ऽयं सङ्गतः सङ्गतः सताम् ॥
॥६॥
बलदेवः : तद् इत्थम् आद्येन षट्केन सनिष्ठस्य साधनानि ज्ञान-गर्भानि निष्काम-कर्माणि योग-शिरस्कान्य् अभिधाय मध्येन परिनिष्ठितादेर् भगवच्-छरणादीनि साधनान्य् अभिधास्यन् तस्मात् तस्य श्रैष्ठ्यावेदकं तत्-सूत्रम् अभिधत्ते योगिनाम् इति । पञ्चम्य्-अर्थे षष्ठीयं तपस्विभ्य इति पूर्वोपक्रमात् । न च निर्धारणे षष्ठीयम् अस्तु वक्ष्यमाणस्य योगिनस् तपस्व्य्-आदि-विलक्षण-क्रियत्वेन तेष्व् अनन्तर्-भावात् । यद्यपि तपस्व्य्-आदीनां मिथो न्यूनाधिकताभावो ऽस्ति । तथाप्य् अवरत्वं तस्मात् समानम् । स्वर्ण-गिरेर् इव तद् अन्येषाम् उच्चावचानां गिरीणाम् इति । यः श्रद्धावान् मद्-भक्ति-निरूपकेषु श्रुत्य्-आदि-वाक्येषु दृढ-विश्वासः सन् मां नीलोत्पल-श्यामलम् आजानु-पीवर-बाहुं सवितृ-कर-विकसितारविन्देक्षणं विद्युद्-उज्ज्वल-वाससं
किरीट-कुण्डल-कटक-केयूर-हार-कौस्तुभ-नूपुरैः वनमालया च विभ्राजमानं स्व-प्रभया दिशो वितमिस्राः कुर्वाणं नित्य-सिद्ध-नृसिंह-रघु-वर्यादि-रूपं सर्वेश्वरं स्वयं भगवन्तं मनुष्य-सन्निवेशि-विभु-विज्ञानन्द-मयं यशोदा-स्तनन्धयं कृष्णादि-शब्दैर् अभिधीयमानं सार्वज्ञ-सर्वैश्वर्य-सत्य-सङ्कल्पाश्रित-वात्सल्यादिभिः सौन्दर्य-माधुर्य-लावण्यादिभिश् च गुण-रत्नैः पूर्णं भजते श्रवणादिभिः सेवते । मद्-गतेन मद्-एकासक्तेनान्तरात्मना मनसा विशिष्टस् तिल-मात्रम् अपि मद्-वियोगासहः सन्न् इत्य् अर्थः । मद्-भक्तः सर्वेभ्यस् तपस्व्य्-आदिभ्यो योगिभ्यो मद्-एक-भक्तो युक्ततम इत्य् अर्थः ।
अत्र व्याचष्टे - ननु योगिनः सकाशान् न को ऽप्य् अधिको ऽस्तीति चेत् तत्राह योगिनाम् इति । योगारोह-तारतम्यात् कर्म-योगिनो बहवस् तेभ्यः सर्वेभ्यो ऽपीति ध्यानारूढो युक्तः समाध्य्-आरूढो युक्ततरः श्रवणादि-भक्तिमांस् तु युक्ततम इति । भक्ति-शब्दः सेवाभिधायी ।
भज इत्य् एष वै धातुः सेवायां परिकीर्तितः ।
तस्मात् सेवा बुधैः प्रोक्ता भक्ति-शब्देन भूयसी ॥ इति स्मृतेः ।
एतां भक्तिं श्रुतिर् आह श्रद्धा-भक्ति-ध्यान-योगाद् अवेहि इति ।
यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [श्वेतु ६।२३] इति ।
भक्तिर् अस्य भजनं तद्-इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् [ग्तु १।१४] इति ।
आत्मानम् एव लोकम् उपासीत [बउ १।४।८] इति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि [बउ २।४।५, ४।५।६] इति चैवम् आद्याः ।
सा च भक्तिर् भगवत्-स्वरूप-शक्ति-वृत्ति-भूता बोध्या-
विज्ञान-घनानन्द-घना सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति [ग्तु २।७९] इति श्रुतेः ।
तस्याः श्रवणादि-क्रिया-रूपत्वं तु चित्-सुख-मूर्तेः सर्वेश्वरस्य कुन्तलादि-प्रतीकत्ववत् प्रत्येतव्यम् । श्रवणादि-रूपाया भक्तेश् चिद्-आनन्दत्वं त्व् अनुवृत्त्यानुभाव्यं सितानुसेवया पित्त-विनाशे तन्-माधुर्यम् इवेति ॥४७॥
गीता-कथा-सूत्रम् अवोचद् आद्ये
कर्म द्वितीयादिषु काम-शून्यम् ।
तत् पञ्चमे वेदन-गर्भम् आख्यन्
षष्ठे तु योगोज्ज्वलितं मुकुन्दः ॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये षष्ठो ऽध्यायः
॥६॥
षष्ठो ऽध्यायः - ध्यान-योगः