५।१
अर्जुन उवाच
सन्न्यासं कर्मणां कृष्ण पुनर् योगं च शंससि ।
यच् छ्रेय एतयोर् एकं तन् मे ब्रूहि सुनिश्चितम् ॥१॥
श्रीधरः :
निवार्य संशयं जिष्णोः कर्म-सन्न्यास-योगयोः ।
जितेन्द्रियस्य च यतेः पञ्चमे मुक्तिम् अब्रवीत् ॥
अज्ञान-सम्भूतं संशयं ज्ञानासिना छित्त्वा कर्म-योगम् आतिष्ठ इत्य् उक्तम् । तत्र पूर्वापर-विरोधं मन्वानो ऽर्जुन उवाच सन्न्यासम् इति । यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदिना सर्वं कर्माखिलं पार्थ इत्य् आदिना च कर्म-सन्न्यासं कथयसि । ज्ञानासिना संशयं छित्त्वा योगम् आतिष्ठ इति पुनर् योगं च कथयसि । न च कर्म-सन्न्यासः कर्म-योगश् च एकस्यैव एकदैव सम्भवतः विरुद्ध-स्वरूपत्वात् । तस्माद् एतयोर् मध्य एकस्मिन्न् अनुष्ठातव्ये सति मम यच् छ्रेयः सुनिश्चितम् तद् एकं ब्रूहि ॥१॥
मधुसूदनः :
अध्यायाभ्यां कृतो द्वाभ्यां निर्णयः कर्म-बोधयोः ।
कर्म-तत्-त्यागयोर् द्वाभ्यां निर्णयः क्रियते ऽधुना ॥
तृतीये ऽध्याये ज्यायसी चेत् कर्मणस् ते इत्य् आदिनार्जुनेन पृष्टो भगवान् ज्ञान-कर्मणोर् विकल्प-समुच्चयासम्भवेनाधिकारि-भेद-व्यवस्थया लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ इत्य् आदिना निर्णयं कृतवान् । तथा चाज्ञाधिकारिकं कर्म न ज्ञानेन सह समुच्चीयते तेजस्-तिमिरयोर् इव युगपद् असम्भवात् कर्माधिकार-हेतु-भेद-बुद्ध्य्-अपनोदकत्वेन ज्ञानस्य तद्-विरोधित्वात् । नापि विकल्प्यते एकार्थत्वाभावात् । ज्ञान-कार्यस्याज्ञान-नाशस्य कर्मणा कर्तुम् अशक्यत्वात् तम् एव विदित्वापि मृत्युम् एति नान्यः पन्था विद्यते ऽनायनाय इति श्रुतेः ।
ज्ञाने जाते तु कर्म-कार्यं नापेक्ष्यत एवेत्य् उक्तं यावान् अर्थ उदपाने इत्य् अत्र । तथा च ज्ञानिनः कर्मानधिकारे निश्चिते प्रारब्ध-कर्म-वशाद् वृथा-चेष्टा-रूपेण तद्-अनुष्ठानं वा सर्व-कर्म-सन्न्यासो वेति निर्विवादं चतुर्थे निर्णीतम् । अज्ञेन त्व् अन्तः-करण-शुद्धि-द्वारा ज्ञानोत्पत्तये कर्माण्य् अनुष्ठेयानि तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुतेः । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते इति भगवद्-वचनाच् च । एवं सर्व-कर्माणि ज्ञानार्थानि । तथा सर्व-कर्म-सन्न्यासो ऽपि ज्ञानार्थः श्रूयते एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, शान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्येत्, त्यजतैव हि तज् ज्ञेयं त्युक्तुः प्रत्यक् परं पदम्, सत्यानृते सुख-दुःखे
वेदान् इमं लोकम् अमुं च परित्यज्यात्मानम् अन्विच्छेत् इत्य् आदौ ।
तत्र कर्म तत्-त्यागयोर् आराद् उपकारक-सन्निपत्योपकारकयोः प्रयाजावघातयोर् इव न समुच्चयः सम्भवति विरुद्धत्वेन यौगपद्याभावात् । नापि कर्म-तत्-त्यागयोर् आत्म-ज्ञान-मात्र-फलत्वेनैकार्थत्वाद् अतिरात्रयोः षोडशि-ग्रहणाग्रहणयोर् इव विकल्पः स्यात् । द्वार-भेदेनैकार्थत्वाभावात् । कर्मणो हि पाप-क्षय-रूपम् अदृष्टम् एव द्वारम्, सन्न्यासस्य तु सर्व-विक्षेपाभावेन विचारावसर-दान-रूपं दृष्टम् एव द्वारम् । नियमापूर्वं तु दृष्ट-समवायित्वाद् अवघातादाव् इव न प्रयोजकम् । तथा चादृष्टार्थ-दृष्टार्थयोर् आराद् उपकारक-सन्निपात्योपकारकयोर् एक-प्रधानार्थत्वे ऽपि विकल्पो नास्त्य् एव । प्रयाजावघातादीनाम् अपि तत्-प्रसङ्गात् । तस्मात् क्रमेणोभयम् अप्य् अन्ष्ठेयम् । तत्रापि सन्न्यासानन्तरं कर्मानुष्ठानं चेत् तदा
परित्यक्त-पूर्वाश्रम-स्वीकारेणारूढ-पतितत्वात् कर्मानधिकारित्वं प्राक्तन-सन्न्यास-वैयर्थ्यं च तस्यादृष्टार्थत्वाभावात् । प्रथम-कृत-सन्न्यासेनैव ज्ञानाधिकार-लाभे तद्-उत्तर-काले कर्मानुष्ठान-वैयर्थ्यं च । तस्माद् आदौ भगवद्-अर्पण-बुद्ध्या निष्काम-कर्मानुष्ठानाद् अन्तः-करण-शुद्धौ तीव्रेण वैराग्येण विविदिषायां दृढायां सर्व-कर्म-सन्न्यासः श्रवण-मननादि-रूप-वेदान्त-वाक्य-विचाराय कर्तव्य इति भगवतो मतम् । तथा चोक्तम् - न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते इति । वक्ष्यते च -
आरुरुक्षोर् मुनेर् योगं कर्म कारणम् उच्यते ।
योगारूढस्य तस्यैव शमः कारणम् उच्यते ॥ [गीता ६।३] इति ।
योगो ऽत्र तीव्र-वैराग्य-पूर्विका विविदिषा । तद् उक्तं वार्तिक-कारैः -
प्रत्यग् विविदिषासिद्ध्यै वेदानुवचनादयः ।
ब्रह्मावाप्त्यै तु तत्-त्याग ईप्सन्तीति श्रुतेर् बलात् ॥ इति ।
स्मृतिश् च -
कषाय-पङ्क्तिः कर्माणि ज्ञानं तु परमा गतिः ।
कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥ इति ।
मोक्ष-धर्मे -
कषायं पाचयित्वा च श्रेणी-स्थानेषु च त्रिषु ।
प्रव्रजेच् च परं स्थानं पारिव्राज्यम् अनुत्तमम् ॥
भाविनः करणैश् चायं बहु-संसार-योनिषु ।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥
तम् आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।
त्रिष्व् आश्रमेषु को न्व् अर्थो भवेत् परमाभीप्सितः ॥ इति ।
मोक्षं वैराग्यम् । एतेन क्रमाक्रम-सन्न्यासो द्वाव् अपि दर्शिनौ । तथा च श्रुतिः - ब्रह्मचर्यं समाप्य गृही भवेद् गृहाद् वनी भूत्वा प्रव्रजेद् यदि वेतरथा ब्रह्मचर्याद् एव प्रव्रजेद् गृहाद् वा वनाद् वा यद् अहर् एव विरजेत् तद् अहर् एव प्रव्रजेत् इति ।
तस्माद् अज्ञस्याविरक्तता-दशायां कर्मानुष्ठानम् एव । तस्यैव विरक्तता-दशायां सन्न्यासः श्रवणाद्य्-अवसर-दानेन ज्ञानार्थं इति दशा-भेदेनाज्ञम् अधिकृत्यैव कर्म-तत्-त्यागौ व्याख्यातुं पञ्चम-षष्ठाव् अध्यायाव् आरभ्येते । विद्वत्-सन्न्यासस् तु ज्ञान-बलाद् अर्थ-सिद्ध एवेति सन्देहाभावान् न विचार्यते ।
तत्रैकम् एव जिज्ञासुम् अज्ञं प्रति ज्ञानार्थत्वेन कर्म-तत्-त्यागयोर् विग्धानात् तयोश् च विरुद्धयोर् युगपद् अनुष्ठानासम्भवान् मया जिज्ञासुना किम् इदानीम् अनुष्ठेयम् इति सन्दिहानो ऽर्जुन उवाच सन्न्यासम् इति ।
हे कृष्ण ! सदानन्द-रूप भक्त-दुःख-कर्षणेति वा । कर्मणां यावज्-जीवादि-श्रुति-विहितानां नित्यानां नैमित्तिकानां च सन्न्यासं त्यागं जिज्ञासुम् अज्ञं प्रति कथयसि वेद-मुखेन पुनस् तद्-विरुद्धं योगं च कर्मानुष्ठान-रूपं शंससि । एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति, तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन इत्य् आदि-वाक्य-द्वयेन -
निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः ।
शारीरं केवलं कर्म कुर्वन्न् आप्नोति किल्बिषम् ॥ [गीता ४।२१]
छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत इति गीता-वाक्य-द्वयेन वा । तत्रैकम् अज्ञं प्रति कर्म-तत्-त्यागयोर् विधानाद् युगपद् उभयानुष्ठानसम्भवाद् एतयोः कर्म-तत्-त्यागयोर् मध्ये यद् एकं श्रेयः प्रशस्यतरं मन्यसे कर्म वा तत्-त्यागं वा तन् मे ब्रूहि सुनिश्चितं तव मतम् अनुष्ठानाय ॥१॥
विश्वनाथः :
प्रोक्तं ज्ञानाद् अपि श्रेष्ठं कर्म तद्-दाऋढ्य-सिद्धये ।
तत्-पदार्थस्य च ज्ञानं साम्याद् या अपि पञ्चमे ॥
पूर्वाध्यायान्ते श्रुतेन वाक्य-द्वारेण विरोधम् आशङ्कमानः पृच्छति सन्न्यासम् इति ।
योग-सन्न्यस्त-कर्माणं ज्ञान-सञ्छिन्न-संशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ [गीता ४।४१]
इति वाक्येन त्वं कर्म-योगेनोत्पन्न-ज्ञानस्य कर्म-सन्न्यासं ब्रूषे ।
तस्माद् अज्ञान-सम्भूतं हृत्-स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥ [गीता ४।४२]
इत्य् अनेन पुनस् तस्यैव कर्म-योगं च ब्रूषे । न च कर्म-सन्न्यासः कर्म-योगश् च एकस्यैव एकदैव सम्भवतः, स्थिति-गतिवत् विरुद्ध-स्वरूपत्वात् । तस्माज् ज्ञानी कर्म-सन्न्यासं कुर्यात्, कर्म-योगं वा कुर्याद् इति त्वद्-अभिप्रायम् अनवगतो ।हं पृच्छामि एतयोर् मध्ये यद् एकं श्रेयस् त्वया सुनिश्चितम् तन् मे ब्रूहि ॥१॥
बलदेवः :
ज्ञानतः कर्मणः श्रैष्ठ्यं सुकरत्वादिना हरिः ।
शुद्धस्य तद्-अकर्तृत्वं त्वेत्य् आदि प्राह पञ्चमे ॥
द्वितीये मुमुक्षुं प्रत्य् आत्म-विज्ञानं मोचकम् अभिधाय तद्-उपायया निष्कामं कर्म कर्तव्यम् अभ्यधात् । लब्ध-विज्ञानस्य न किञ्चित् कर्मास्तीति यस् त्व् आत्म-रतिर् एव स्यात् इति तृतीये, सर्वं कर्माखिलं पार्थ इति चतुर्थे चावादीत् । अन्ते तु तस्माद् अज्ञान-सम्भूतं [गीता ४।४२] इत्य् आदिना तस्यैव पुनः कर्म-योगं प्रावोचत् । तत्रार्जुनः पृच्छति सन्न्यासम् इति । हे कृष्ण ! कर्मणां सन्न्यासं सर्वेन्द्रिय-व्यापार-विरति-रूपं ज्ञान-योगम् इत्य् अर्थः । पुनर् योगं कर्मानुष्ठानं च सर्वेन्द्रिय-व्यापार-रूपं शंससि । न चैकस्य युगपत् तौ सम्भवेताम्, स्थिति-गतिवत् तमस्-तेजोवच् च विरुद्ध-स्वरूपत्वात् । तस्माल् लब्ध-ज्ञानः कर्म सन्न्यसेद् अनुतिष्ठेद् वेति भवद्-अभिमतं वेत्तुम् अशक्तो ऽहं पृच्छामि । एतयोः कर्म-सन्न्यास-कर्मानुष्ठानयोर् यद् एकं श्रेयस्
त्वया सुनिश्चितं तत्त्वं मे ब्रूहीति ॥१॥
५।२
श्री-भगवान् उवाच
सन्न्यासः कर्म-योगश् च निःश्रेयस-कराव् उभौ ।
तयोस् तु कर्म-सन्न्यासात् कर्म-योगो विशिष्यते ॥२॥
श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच सन्न्यास इति । अयं भावः - न हि वेदान्त-वेद्यात्म-तत्त्वज्ञं प्रति कर्म-योगम् अहं ब्रवीमि । यतः पूर्वोक्तेन सन्न्यासेन विरोधः स्यात् । अपि तु देहात्माभिमानिनं त्वां बन्धु-वधादि-निमित्त-शोक-मोहादि-कृतम् एनं संशयं देहात्म-विवेक-ज्ञानासिना छित्त्वा परमात्म-ज्ञानोपाय-भूतं कर्म-योगम् आतिष्ठेति ब्रवीमि । कर्म-योगेन शुद्ध-चित्तस्यात्म-तत्त्व-ज्ञाने जाते सति तत्-परिपाकार्थं ज्ञान-निष्ठाङ्गत्वेन सन्न्यासः पूर्वम् उक्तः । एवं सत्य् अङ्ग-प्रधानयोर् विकल्प-योगात् सन्न्यासः कर्म-योगश् चेत्य् एताव् उभाव् अपि भूमिका-भेदेन समुच्चिताव् एव निःश्रेयसं साधयतः । तथापि तु तयोर् मध्ये तु कर्म-सन्न्यासात् सकाशात् कर्म-योगो विशिष्टो भवतीति ॥२॥
मधुसूदनः : एवम् अर्जुनस्य प्रश्ने तद्-उत्तरम् श्री-भगवान् उवाच सन्न्यास इति । निःश्रेयस-करौ ज्ञानोत्पत्ति-हेतुत्वेन मोक्षोपयोगिनौ । तयोस् तु कर्म-सन्न्यासाद् अनधिकारि-कृतात् कर्म-योगो विशिष्यते श्रेयान् अधिकार-सम्पादकत्वेन ॥२॥
विश्वनाथः : कर्म-योगो विशिष्यत इति ज्ञानिनः कर्म-करणे न को ऽपि दोषः । प्रत्युत निष्काम-कर्मणा चित्त-शुद्धि-दार्ढ्याज् ज्ञान-दार्ढ्यम् एव स्यात् । सन्न्यासिनस् तु कदाचित् चित्त-वैगुण्ये सति तद्-उपशमनार्थं किं कर्म निषिद्धम् ? ज्ञानाभ्यास-प्रतिबन्धकं तु चित्त-वैगुण्यम् एव । विषय-ग्रहणे तु वान्ताशित्वम् एव स्याद् इति भावः ॥२॥
बलदेवः : एवं पृष्टो श्री-भगवान् उवाच सन्न्यास इति । निःश्रेयस-करौ मुक्ति-हेतू । कर्म-सन्न्यासाज् ज्ञान-योगाद् विशिष्यते श्रेष्ठो भवति । अयं भावः - न खलु लब्ध-ज्ञानस्यापि कर्म-योगो दोषावहः । किन्तु ज्ञान-गर्भत्वाज् ज्ञान-दार्ढ्य-कृद् एव । ज्ञान-निष्ठतया कर्म-सन्न्यासिनस् तु चित्त-दोषे सति तद्-दोष-विनाशाय कर्मानुष्ठेयं प्रतिषेधक-शास्त्रात् । कर्म-त्याग-वाक्यानि त्व् आत्मनि रतौ सत्यां कर्माणि तं स्वयं त्जयन्तीत्य् आहुः । तस्मात् सुकरत्वाद् अप्रमादत्वाज् ज्ञान-गर्भत्वाच् च कर्म-योगः श्रेयान् इति ॥२॥
५।३
ज्ञेयः स नित्य-सन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महा-बाहो सुखं बन्धात् प्रमुच्यते ॥३॥
श्रीधरः : कुत इत्य् अपेक्षायां सन्न्यासित्वेन कर्म-योगिनं स्तुवंस् तस्य श्रेष्ठत्वं दर्शयति ज्ञेय इति । राग-द्वेषादि-राहित्येन परमेश्वरार्थं कर्माणि यो ऽनुतिष्ठति स नित्यं कर्मानुष्ठान-काले ऽपि सन्न्यासीत्य् एवं ज्ञेयः । तत्र हेतुः निर्द्वन्द्वो राग-द्वेषादि-द्वन्द्व-शून्यो हि शुद्ध-चित्तो ज्ञान-द्वारा सुखम् अनायासेनैव बन्धात् संसारात् प्रमुच्यते ॥३॥
मधुसूदनः : तम् एव कर्म-योगं स्तौति ज्ञेय इति त्रिभिः । स कर्मणि प्रवृत्तो ऽपि नित्यं सन्न्यासीति ज्ञेयः । को ऽसौ ? यो न द्वेष्टि भगवद्-अर्पण-बुद्ध्या क्रियमाणं कर्म निष्फलत्व-शङ्कया । न काङ्क्षति स्वर्गादिकम् । निर्द्वन्द्वो राग-द्वेष-रहितो हि यस्मात् सुखम् अनायासेन हे महाबाहो बन्धाद् अन्तःकरणाशुद्धि-रूपाज् ज्ञान-प्रतिबन्धात् प्रमुच्यते नित्यानित्य-वस्तु-विवेकादि-प्रकर्षेण मुक्तो भवति ॥३॥
विश्वनाथः : न च सन्न्यास-प्राप्यो मोक्षो ऽकृत-सन्न्यासेनैव तेन न प्राप्य इति वाच्यम् इत्य् आह ज्ञेय इति । स तु शुद्ध-चित्तः कर्मी नित्य-सन्न्यासी एव ज्ञेयः । हे महाबाहो इति मुक्ति-नगरीं जेतुं स एव महावीर इति भावः ॥३॥
बलदेवः : कुतो विशिष्यते तत्राह ज्ञेय इति । स विशुद्ध-चित्तः कर्म-योगी नित्य-सन्न्यासी । स सर्वदा ज्ञान-योग-निष्ठो ज्ञेयः । यः कर्मान्तर्गतात्मानुभवानन्द-परितृप्तस् ततो ऽन्यत् किञ्चित् न काङ्क्षति न च द्वेष्टि । निर्द्वन्द्वो द्वन्द्व-सहिष्णुः सुखम् अनायासेन सुकर-कर्म-निष्ठयेत्य् अर्थः ॥३॥
५।४
साङ्ख्य-योगौ पृथग् बालाः प्रवदन्ति न पण्डिताः ।
एकम् अप्य् आस्थितः सम्यग् उभयोर् विन्दते फलम् ॥४॥
श्रीधरः : यस्माद् एवम् अङ्ग-प्रधानत्वेनोभयोर् अवस्था-भेदेन क्रम-समुच्चयः । अतो विकल्पम् अङ्गीकृत्योभयोः कः श्रेष्ठ इति प्रश्नो ऽज्ञानिनाम् एवोचितः । न विवेकिनाम् इत्य् आह साङ्ख्य-योगाव् इति । साङ्ख्य-शब्देन ज्ञान-निष्ठा-वाचिना तद्-अङ्गं सन्न्यासं लक्षयति । सन्न्यास-कर्म-योगौ एक-फलौ सन्तौ पृथक् स्वतन्त्राव् इति बाला अज्ञा एव प्रवदन्ति न तु पण्डिताः । तत्र हेतुः - अनयोर् एकम् अप्य् सम्यग् आस्थित आश्रितवान् उभयोर् अपि फलम् आप्नोति । तथा हि कर्म-योगं सम्यग् अनुतिष्ठन् शुद्ध-चित्तः सन् ज्ञान-द्वारा यद् उभयोः फलं कैवल्यं तद् विन्दति । सन्न्यासं सम्यग् आस्थितो ऽपि पूर्वम् अनुष्ठितस्य कर्म-योगस्यापि परम्परया ज्ञान-द्वारा यद् उभयोः फलं कैवल्यं तद् विन्दतीति न पृथक् फलत्वम् अनयोर् इत्य् अर्थः ॥४॥
मधुसूदनः : ननु यः कर्मणि प्रवृत्तः स कथं सन्न्यासीति ज्ञातव्यः कर्म-तत्-त्यागयोः स्वरूप-विरोधात् फलैक्यात् तथेति चेत्, न । स्वरूपतो विरुद्धयोः फले ऽपि विरोधस्यौचित्यात् । तथा च निःश्रेयस-कराव् उभाव् इत्य् अनुपपन्नम् इत्य् आशङ्क्याह साङ्ख्य-योगाव् इति । सङ्ख्या सम्यग् आत्म-बुद्धिस् तां वहतीति ज्ञानान्तरङ्ग-साधनतया साङ्ख्यः सन्न्यासः । योगः पूर्वोक्त-कर्म-योगः । तौ पृथग् विरुद्ध-फलौ बालाः शास्त्रार्थ-विवेक-ज्ञान-शून्याः प्रवदन्ति, न पण्डिताः । किं तर्हि पण्डितानां मतम् ? उच्यते - एकम् अप्य् सन्न्यास-कर्मणोर् मध्ये सम्यग् आस्थितः स्वाधिकारानुरूपेण सम्यग् यथा-शास्त्रं कृतवान् सन्न् उभयोर् विन्दते फलम् ज्ञानोत्पत्ति-द्वारेण निःश्रेयसम् एकम् एव ॥४॥
विश्वनाथः : तस्माद् यच् छ्रेय एवैतयोर् इति त्वद्-उक्तम् अपि वस्तुतो न घटते । विवेकिभिर् उभयोः पार्थक्याभावस्य दृष्टत्वाद् इत्य् आह साङ्ख्य-योगाव् इति । साङ्ख्य-शब्देन ज्ञान-निष्ठा-वाचिना तद्-अङ्गः सन्न्यासो लक्ष्यते । सन्न्यास-कर्म-योगौ पृथक् स्वतन्त्राव् इति बालाः वदन्ति, न तु विज्ञाः ज्ञेयः स नित्य-सन्न्यासी इति पूर्वोक्तेः । अत एकम् अपीत्य् आदि ॥४॥
बलदेवः : यः श्रेय एतयोर् एकम् इति त्वद्-वाक्यं च न घटत इत्य् आह साङ्ख्येति । ज्ञान-योग-कर्म-योगौ फल-भेदात् पृथग्-भूताव् इति बालाः प्रवदन्ति, न तु पण्डिताः । अतएव एकम् इत्य् आदि फलम् आत्मावलोक-लक्षणम् ॥४॥
५।५
यत् साङ्ख्यैः प्राप्यते स्थानं तद् योगैर् अपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५॥
श्रीधरः : एतद् एव स्फुटयति यत् साङ्ख्यैर् इति । साङ्ख्यैर् ज्ञान-निष्ठैः सन्न्यासिभिर् यत् स्थानं मोक्षाख्यं प्रकर्षेण साक्षाद् अवाप्यते, योगैर् इत्य् आर्श आदित्वान् मत्व्-अर्थीयो ऽच्-प्रत्ययो द्रष्टव्यः । तेन कर्म-योगिभिर् अपि तद् एव ज्ञान-द्वारेण गम्यते ऽवाप्यते । अतः साङ्ख्यं च योगं च एकफलत्वेन एकं यः पश्यति स एव सम्यक् पश्यति ॥५॥
मधुसूदनः : एकस्यानुष्ठानात् कथम् उभयोः फलं विन्दते तथाह यत् साङ्ख्यैर् इति । साङ्ख्यैर् ज्ञान-निष्ठैः सन्न्यासिभिर् ऐहिक-कर्मानुष्ठान-शून्यत्वे ऽपि प्राग्-भवीय-कर्मभिर् एव संस्कृतान्तः-करणैः श्रवणादि-पूर्विकया ज्ञान-निष्ठया यत् प्रसिद्धं स्थानं तिष्ठत्य् एवास्मिन् न तु कदापि च्यवत इति व्युत्पत्त्या मोक्षाख्यं प्राप्यत आवरणाभाव-मात्रेण लभ्यत इव नित्य-प्राप्तत्वात्, योगैर् अपि भगवद्-अर्पण-बुद्ध्या फलाभिसन्धि-राहित्येन कृतानि कर्माणि शास्त्रीयाणि योगास् ते येषां सन्ति ते ऽपि योगाः । अर्श-आदित्वान् मत्व्-अर्थीयो ऽच्-प्रत्ययः । तैर् योगिभिर् अपि सत्त्व-शुद्ध्या संह्यास-पूर्वक-श्रवणादि-पुरः-सरया ज्ञान-निष्ठया वर्तमाने भविष्यति वा जन्मनि सम्पत्स्यमानया तत् स्थानं गम्यते । अत एक-फलत्वाद् एकं
साङ्ख्यं च योगं च यः पश्यति स एव सम्यक् पश्यति नान्यः ।
अयं भावः येषां सन्न्यास-पूर्विका ज्ञान-निष्ठा दृश्यते तेषां तयैव लिङ्गेन प्राग्-जन्मसु भगवद्-अर्पित-कर्म-निष्ठानुमीयते । कारणम् अन्तरेण कार्योत्पत्त्य्-अयोगात् । तद् उक्तम् -
यान्य् अतो ऽन्यानि जन्मानि तेषु नूनं कृतं भवेत् ।
यत् कृत्यं पुरुषेणेह नान्यथा ब्रह्मणि स्थितिः ॥ इति ।
एवं येषां भगवद्-अर्पित-कर्म-निष्ठा दृश्यते तेषां तयैव लिङ्गेन भाविनी सन्न्यास-पूर्वज्ञान-निष्ठानुमीयते सामग्र्याः कार्याव्यभिचारित्वात् । तस्माद् अज्ञेन मुमुक्षुणान्तःकरण-शुद्धये प्रथमं कर्म-योगो ऽनुष्ठेयो न तु सन्न्यासः । स तु वैराग्य-तीव्रतायां स्वयम् एव भविष्यतीति ॥५॥
विश्वनाथः : एतद् एव स्पष्टयति यद् इति । साङ्ख्यैः सन्न्यासेन योगैर् निष्काम-कर्मणा । बहु-वचनं गौरवेण । अतएव तद् द्वयं पृथग्-भूतम् अपि यो विवेकेनैकम् एव पश्यति स पश्यति, चक्षुष्मान् पण्डित इत्य् अर्थः ॥५॥
बलदेवः : एतद् विशदयति यद् इति । साङ्ख्यैर् ज्ञान-योगिभिर् योगैः निष्काम-कर्मभिः । अर्श आद्य् अच् । स्थानं आत्मावलोक-लक्षणम् । अतएव तद् द्वयं निवृत्ति-प्रवृत्ति-रूपतया भिन्न-रूपम् अपि फलैक्याद् एकं यः पश्यति वेत्ति, स पश्यति स चक्षुष्मान् पण्डित इत्य् अर्थः ॥५॥
५।६
सन्न्यासस् तु महाबाहो दुःखम् आप्तुम् अयोगतः ।
योग-युक्तो मुनिर् ब्रह्म नचिरेणाधिगच्छति ॥६॥
श्रीधरः : यदि कर्म-योगिनो ऽप्य् अन्ततः सन्न्यासेनैव ज्ञान-निस्ठा तर्ह्य् आदित एव सन्न्यासः कर्तुं युक्त इति मन्वानं प्रत्य् आह सन्न्यास इति । अयोगतः कर्म-योगं विना सन्न्यासो दुःखम् आप्तुम् दुःख-हेतुः । अशक्य इत्य् अर्थः । चित्त-शुद्ध्य्-अभावेन ज्ञान-निष्ठाया असम्भवात् । योग-युक्तस् तु शुद्ध-चित्ततया मुनिः सन्न्यासी भूत्वाचिरेणैव ब्रह्माधिगच्छति । अपरोक्षं जानाति । अतश् चित्त-शुद्धेः प्राक् कर्म-योग एव सन्न्यासाद् विशिष्यत इति पूर्वोक्तं सिद्धम् । तद् उक्तं वार्त्तिक-कृद्भिः -
प्रमादिनो बहिश् चित्ताः पिशुनाः कलहोत्सुकाः ।
सन्न्यासिनो ऽपि दृश्यन्ते दैव-सन्दूषिताश्रयाः ॥ इति ॥६॥
मधुसूदनः : अशुद्धान्तःकरणेनापि सन्न्यास एव प्रथमं कुतो न क्रियते ज्ञान-निष्ठा-हेतुत्वेन तस्यावशकत्वाद् इति चेत् तत्राह सन्न्यास इति । अयोगतो योगम् अन्तः-करण-शोधकं शास्त्रीयं कर्मान्तरेण हठाद् एव यः कृतः सन्न्यासः स तु दुःखम् आप्तुम् एव भवति, अशुद्धान्तःकरणत्वेन तत्-फलस्य ज्ञान-निस्ठाया असम्भवात् । शोधके च कर्मण्य् अनधिकारात् कर्म-ब्रह्मोभय-भ्रष्टत्वेन परम-सङ्कटापत्तेः । कर्म-योग-युक्तस् तु शुद्धान्तःकरणत्वान् मुनिर् मनन-शीलः सन्न्यासी भूत्वा ब्रह्म सत्य-ज्ञानादि-लक्षणम् आत्मानं न चिरेण शीघ्रम् एवाधिगच्छति साक्षात्करोति प्रतिबन्धकाभावात् । एतच् चोक्तं प्राग् एव -
न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते ।
न च सन्न्यसनाद् एव सिद्धिं समधिगच्छति ॥ [गीता ३।४] इति ।
अत एक-फलत्वे ऽपि कर्म-सन्न्यासात् कर्म-योगो विशिष्यत इति यत् प्राग् उक्तं तद् उपपन्नम् ॥६॥
विश्वनाथः : किन्तु सम्यक्-चित्त-शुद्धिम् अनिर्धारयतो ज्ञानिनः सन्न्यासो दुःखदः कर्म-योगस् तु सुखद एवेति पूर्व-व्यञ्जितम् अर्थं स्पष्टम् एवाह सन्न्यासस् त्व् इति । चित्त-वैगुण्ये सतीति शेषः । अयोगतः कर्म-योगाभावाच् चित्त-वैगुण्य-प्रशामक-कर्म-योगस्य सन्न्यासिन्य् अभावात् तत्र अनधिकाराद् इत्य् अर्थः । सन्न्यासो दुःखम् एव प्राप्तुं भवति । तद् उक्तं वार्त्तिक-कृद्भिः -
प्रमादिनो बहिश् चित्ताः पिशुनाः कलहोत्सुकाः ।
सन्न्यासिनो ऽपि दृश्यन्ते दैव-सन्दूषिताश्रयाः ॥ इति ।
श्रुतिर् अपि -यदि न समुद्धरन्ति यतयो हृदि काम-जटा इति । भगवतापि यस् त्व संयत-षड्-वर्गः [भ्प् ११।१८।४०] इत्य् आद्य् उक्तम् । तस्माद् योग-युक्तः निष्काम-कर्मवान् मुनिर् ज्ञानी सन् ब्रह्म शीघ्रं प्राप्नोति ॥६॥
बलदेवः : ज्ञान-योगस्य दुष्करत्वात् सुकर-कर्म-योगः श्रेयान् इत्य् आह सन्न्यासस् त्व् इति । सन्न्यासः सर्वेन्द्रिय-व्यापार-विनिवृत्ति-रूपो ज्ञान-योगः । अयोगतः कर्म-योगं विना दुःखं प्राप्तुम् भवति । दुष्करत्वात् सप्रमादत्वाच् च दुःख-हेतुर् एव स्याद् इत्य् अर्थः । योग-युक्त-निष्काम-कर्मी तु मुनिर् आत्म-मनन-शीलः सन्न् अचिरेण शीघ्रम् एव ब्रह्माधिगच्छति ॥६॥
५।७
योग-युक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्व-भूतात्म-भूतात्मा कुर्वन्न् अपि न लिप्यते ॥७॥
श्रीधरः : कर्म-योगादि-क्रमेण ब्रह्माधिगमे सत्य् अपि तद्-उपरितनेन कर्मणा बन्धः स्याद् एवेत्य् आशङ्क्याह योग-युक्त इति । योगेन युक्तः । अतएव विशुद्ध आत्मा चित्तं यस्य सः । अतएव विजित आत्मा शरीरं येन । अतएव जितानीन्द्रियाणि येन । ततश् च सर्वेषां भूतानाम् आत्म-भूत आत्मा यस्य स लोक-सङ्ग्रहार्थं स्वाभाविकं वा कर्म कुर्वन्न् अपि न लिप्यते ॥७॥
मधुसूदनः : ननु कर्मणो बन्ध-हेतुत्वाद् योग-युक्तो मुनिर् ब्रह्माधिगच्छतीत्य् अनुपपन्नम् इत्य् अत आह योग-युक्त इति । भगवद्-अर्पण-फलाभिसन्धि-राहित्यादि-गुण-युक्तं शास्त्रीयं कर्म योग इत्य् उच्यते । तेन योगेन युक्तः पुरुषः प्रथमं विशुद्धात्मा विशुद्धो रजस्-तमो-भ्याम् अकलुषित आत्मान्तःकरण-रूपं सत्त्वं यस्य स तथा । निर्मलान्तः-करणः सन् विजितात्मा स्व-वशीकृत-देहः । ततो जितेन्द्रियः स्व-वशीकृत-सर्व-बाह्येन्द्रियः । एतेन मनूक्तस् त्रिदण्डी कथितः -
वाग्-दण्डो ऽथ मनो-दण्डः काय-दण्डस् तथैव च ।
यस्यैते नित्यता दण्डाः स त्रिदण्डीति कथ्यत ॥ इति ।
वाग् इति बाह्येन्द्रियोपलक्षणम् । एतादृशस्य तत्त्व-ज्ञानम् अवश्यं भवतीत्य् आह सर्व-भूतात्म-भूतात्मा सर्व-भूत आत्म-भूतश् चात्मा स्वरूपं यस्य स तथा । जडाजडात्मकं सर्व आत्म-मात्रं पश्यन्न् इत्य् अर्थः । सर्वेषां भूतानाम् आत्म-भूत आत्मा यस्येति व्याख्याने तु सर्व-भूतात्मेत्य् एतावतैवार्तह्-लाभाद् आत्म-भूतेत्य् अधिकं स्यात् । सर्वात्म-पदयोर् जडाजड-परत्वे तु समञ्जसम् । एतादृशः परमार्थ-दर्शी कुर्वन्न् अपि कर्माणि पर-दृष्ट्या न लिप्यते तैः कर्मभिः स्व-दृष्ट्या तद्-अभावाद् इत्य् अर्थः ॥७॥
विश्वनाथः : कृतेनापि कर्मणा ज्ञानिनस् तस्य न लेप इत्य् आह योगेति । योग-युक्तो ज्ञानी त्रिविधः - विशुद्धात्मा विजित-बुद्धिर् एकः । विजितात्मा विशुद्ध-चित्तो द्वितीयः । जितेन्द्रियस् तृतीय इति । पूर्व-पूर्वेषां साधन-तारतम्याद् उत्कर्षः । एतादृशे गृहस्थे तु सर्वे ऽपि जीवा अनुरज्यन्तीत्य् आह सर्वेषाम् अपि भूतानाम् आत्म-भूतः प्रेमास्पदीभूत आत्मा देहो यस्य सः ॥७॥
बलदेवः : ईदृशी मुमुक्षुः सर्वेषां प्रेयान् इत्य् आह योगेति । योगे निष्कामे कर्मणि युक्तो निरतः । अतएव विशुद्धात्मा निर्मल-बुद्धिः । अतएव विजितात्मा वशीकृत-मनाः । अतएव जितेन्द्रियः शब्दादि-विषय-राग-शून्यः । अतएव सर्वेषां भूतानां जीवानाम् आत्म-भूतः प्रेमास्पदताम् गत आत्मा देहो यस्य सः । न चात्र पार्थ-सारथिना सर्वात्मैक्यम् अभिमतम् - न त्व् एवाहम् इत्य् आदिना सर्वात्मनां मिथो भेदस्य तेनाभिधानात् । तद्-वादिनापि विज्ञाज्ञाभेदस्य वक्तुम् अशक्त्यत्वाच् च । एवम्भूतः कुर्वन्न् अपि विविक्तात्मानुसन्धानाद् अनात्मन्य् आत्माभिमानेन न लिप्यते अचिरेणात्मानम् अधिगच्छति । अतः कर्म-योगः श्रेयान् ॥७॥
५।८
नैव किं चित् करोमीति युक्तो मन्येत तत्त्व-वित् ।
पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन् गच्छन् स्वपञ् श्वसन् ॥८॥
प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥९॥
श्रीधरः : कर्म कुर्वन्न् अपि न लिप्यत इत्य् एतद् विरुद्धम् इत्य् आशङ्क्य कर्तृत्वाभिमानाभावान् न विरुद्धम् इत्य् आह नैवेति द्वाभ्याम् । कर्म-योगेन युक्तः क्रमेण तत्त्वविद् भूत्वा दर्शन-श्रवणादीनि कुर्वन्न् अपीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् बुद्ध्या निश्चिन्वन् किञ्चिद् अप्य् अहं न करोमीति मन्येत मन्यते । तत्र दर्शन-श्रवण-स्पर्शनाघ्रानाशनानि चक्षुर्-आदि-ज्ञानेन्द्रिय-व्यापाराः । गतिः पादयोः । स्वापो बुद्धेः । श्वासः प्राणस्य । प्रलपनं वाग्-इन्द्रियस्य । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोः । उन्मेषण-निमेषणे कूर्माख्य-प्राणस्येति विवेकः । एतानि कर्माणि कुर्वन्न् अपि अभिमानाभावाद् ब्रह्म-विन् न लिप्यते । तथा च परामर्षं सूत्रम् - तद्-अधिगम उत्तर-पूर्वाघयोर् अश्लेष-विनाशौ तद्-व्यपदेशाद् इति ॥८-९॥
मधुसूदनः : एतद् एव विवृणोति नैवेति द्वाभ्याम् । चक्षुर्-आदि-ज्ञानेन्द्रियैर् वाग्-आदि-कर्मेन्द्रियैः प्राणा̆दि-वायु-भेदैर् अन्तः-करण-चतुष्टयेन च तत्-तच्-चेष्टासु क्रियमाणासु इन्द्रियाणीन्द्रियादीन्य् एवेन्द्रियार्थेषु स्व-स्व-विषयेषु वर्तन्ते प्रवर्तन्ते न त्व् अहम् इति धारयन्न् अवधारयन्न् नैव किञ्चित् करोमीति मन्येत मन्यते तत्त्ववित् परमार्थ-दर्शी युक्तः समाहित-चित्तः । अथवादौ युक्तः कर्म-योगेन पश्चाद् अन्तःकरण-शुद्धि-द्वारेण तत्त्वविद् भूत्वा नैव किञ्चित् करोमीति मन्यत इति सम्बन्धः ।
तत्र दर्शन-श्रवण-स्पर्शन-घ्राणाशनानि चक्षुः-श्रोत्र-त्वग्-घ्राण-रसनानां पञ्च-ज्ञानेन्द्रियाणां व्यापाराः पश्यन् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन्न् इत्य् उक्ताः । गतिः पादयोः । प्रलापो वाचः । विसर्गः पायूपस्थयोः । ग्रहणं हस्तयोर् इति पञ्च कर्मेन्द्रिय-व्यापारा गच्छन् प्रलपन् विसृजन् गृह्णन्न् इत्य् उक्ताः । श्वसन्न् इति प्राणादि-पञ्चकस्य व्यापारोपलक्षणम् । उन्मिषन् निमिषन्न् इति नाग-कूर्मादि-पञ्चकस्य । स्वपन्न् इत्य् अन्तः-करण-चतुष्टयस्य । अर्थ-क्रम-वशात् पाठ-क्रमं भङ्क्त्वा व्याख्याताव् इमौ श्लोकौ । यस्मात् सर्व-व्यापारेष्व् अप्य् आत्मनो ऽकर्तृत्वम् एव पश्यति । अतः कुर्वन्न् अपि न लिप्यत इति युक्तम् एवोक्तम् इति भावः ॥८-९॥
विश्वनाथः : येन कर्मणालेपस् तं प्रकारं शिक्षयति नैवेति । युक्तः कर्म-योगी दर्शनादीनि कुर्वन्न् अपीन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् बुद्ध्या निश्चिन्वन् निरभिमानः किञ्चिद् अप्य् अहं नैव करोमीति मन्यते ॥८-९॥
बलदेवः : शुद्धस्यात्मनो ऽधिष्ठानादि-पञ्चापेक्षित-कर्म-कर्तृत्वं नास्तीत्य् उपदिशति नैवेति । युक्तो निष्काम-कर्मी प्राधानिक-देहेन्द्रियादि-संसर्गाद् दर्शनादीनि कर्माणि कुर्वन्न् अपि तत्त्व-वित् विविक्तम् आत्म-तत्त्वम् अनुभवन् इन्द्रियार्थेषु रूपादिषु इन्द्रियाणि चक्षुर्-आदीनि मद्-वासनानुगुण-परमात्म-प्रेरितानि वर्तन्त इति धारयन् निश्चिन्वन्न् अहं किञ्चिद् अपि न करोमीति मन्यते । पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न् अश्नन्न् इति चक्षुः-श्रोत्र-त्वग्-घ्राण-रसनानां ज्ञानेन्द्रियाणां दर्शन-श्रवण-स्पर्शनाघ्रानाशनानि व्यापाराः । तत्र गमनं पादयोः । प्रलापो वाचः । विसर्गानन्दः पायूपस्थयोः । ग्रहणं हस्तयोर् इति बोध्यम् । श्वसन्न् इति प्राणादीनाम् उन्मिषन् निमिषन्न् इति नागादीनां प्राण-भेदानाम् । स्वपन्न् इत्य् अन्तःकरणानाम्
इत्य् अर्थः क्रमाद् व्याख्येयम् । विज्ञान-सुखैक-रसस्य ममानादि-वासना-हेतुक-प्राधानिक-देहादि-सम्बन्ध-निमित्तं तदीदृश-कर्म-कर्तृत्वम्, न तु स्वरूपैक-निमित्तम् इति मन्यत इत्य् अर्थः । न स्वरूप-प्रयुक्तम् आत्मनः कर्तृत्वं किञ्चिद् अपि नास्तीति शक्यम् अभिधातुं निर्धारणे मनने च तस्याभिधानात् । तत् तच् च ज्ञानम् एव तच् चात्मनो नित्यम् । न हि विज्ञातुर् विज्ञातेर् विपरिलापो विद्यते इति श्रुतेः । तत्-सिद्धिश् च हरिणा धर्म-भूतेन ज्ञानेन च इत्य् आहुः ॥८-९॥
५।१०
ब्रह्मण्य् आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा ॥१०॥
श्रीधरः : तर्हि यस्य करोमीति अभिमानो ऽस्ति तस्य कर्म-लेपो दुर्वारः । तथाविशुद्ध-चित्तत्वात् सन्न्यासो ऽपि नास्ति इति महत् सङ्कटम् आपन्नम् इत्य् आशङ्क्याह ब्रह्मणीति । ब्रह्मण्य् आधाय परमेश्वरे समर्प्य । तत्-फले च सङ्गं त्यक्त्वा । यः कर्माणि करोति असौ पापेन बन्धु-हेतुतया पापिष्ठेन पुण्य-पापात्मकेन कर्मणा न लिप्यते यथा पद्म-पत्रम् अम्भसि स्थितम् अपि तेनाम्भसा न लिप्यते तद्वत् ॥१०॥
मधुसूदनः : तर्ह्य् अविद्वान् कर्तृत्वाभिमानाल् लिप्येतैव तथा च कर्थं तस्य सन्न्यास-पूर्विका ज्ञान-निष्ठा स्याद् इति तत्राह ब्रह्मणीति । ब्रह्मणि परमेश्वर आधाय समर्प्य सङ्गं फलाभिलाषं त्यक्त्वेश्वरार्थं भृत्य इव स्वाम्य्-अर्थं स्व-फल-निरपेक्षतया करोमीत्य् अभिप्रायेण कर्माणि लौकिकानि वैदिकानि च करोति यो लिप्यते न स पापेन पाप-पुण्यात्मकेन कर्मणेति यावत् । यथा पद्म-पत्रम् उपरि प्रक्षिप्तेनाम्भसा न लिप्यते तद्वत् । भगवद्-अर्पण-बुद्ध्यानुष्ठितं कर्म बुद्धि-शुद्धि-फलम् एव स्यात् ॥१०॥
विश्वनाथः : किं च ब्रह्मणि परमेश्वरे मयि समर्प्य सङ्गं त्यक्त्वा साभिमानो ऽपि कर्मासक्तिं विहाय यः कर्माणि करोति । पापेनेत्य् उपलक्षणम् । सो ऽपि कर्म-मात्रेणैव न लिप्यते ॥१०॥
बलदेवः : उक्तं विशदयन्न् आह ब्रह्मणीति । ब्रह्म-शब्देनात्र त्रिगुणावस्थं प्रधानम् उक्तम् । तस्माद् एतद् ब्रह्म-नाम-रूपम् अन्नं च ज्ञायत इति श्रवणात् । मम योनिर् महद् ब्रह्म इति वक्ष्यमाणाच् च । देहेन्द्रियादीनि प्रधान-परिणाम-विशेषाणि भवन्ति तद्-रूपतया परिणते प्रधाने दर्शनादीनि कर्माण्य् आधाय तस्यैवैतानि । न तु तद्-विविक्तस्य शुद्धस्य ममेति निर्धार्येत्य् अर्थः । सङ्गं तत्-फलाभिलाषं तत्-कर्तृत्वाभिनिवेशं च त्यक्त्वा । यस् तानि करोति स तादृग् देहादिमत्तया सन्न् अपि देहाद्य्-आत्माभिमानेन पापेन न लिप्यते । तथोपरिनिक्षिप्तेनाम्भसा स्पृष्टम् अपि पद्म-पत्रं तद्वत् । न च मयि सन्न्यस्य कर्माणि इति पूर्व-स्वारस्याद् ब्रह्मणि परमात्मनीति व्याख्येयम् । प्राधानिक-देहादि-संसृष्टस्यैव जीवस्य दर्शनादि-कर्म-कर्तृत्वम्, न
तु तद्-विविक्तस्येत्य् अर्थस्य प्रकृतत्वात् ॥१०॥
५।११
कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्म-शुद्धये ॥११॥
श्रीधरः : केवलं सत्त्व-शुद्धि-मात्र-फलम् एव तस्य कर्मणः स्यात् यस्मात् कायेनेति । कायेन देहेन मनसा बुद्ध्या च । योगिनः सङ्गं त्यक्त्वा कायेन मनसा बुद्ध्या केवलैर् इन्द्रियैर् अपि । केवल-शब्दः कायादिभिर् अपि प्रत्येकं सम्बध्यते । सर्व-व्यापारेषु ममता-वर्जनाय योगिनः कर्मिणः कर्म कुर्वन्ति । सङ्गं त्यक्त्वा फल-विषयम् । आत्म-शुद्धये सत्त्व-शुद्धय इत्य् अर्थः । तस्मात् तत्रैव तवाधिकार इति ॥११॥
मधुसूदनः : तद् एव विवृणोति कायेनेति । कायेन मनसा बुद्ध्येन्द्रियैर् अपि योगिनः कर्मिणः फल-सङ्गं त्यक्त्वा कर्म कुर्वन्ति कायादीनां सर्वेषां विशेषणं केवलैर् इति । ईश्वरायैव करोमि न मम फलायेति ममता-शून्यैर् इत्य् अर्थः । आत्म-शुद्धये चित्त-शुद्ध्य्-अर्थम् ॥११॥
विश्वनाथः : केवलैर् इन्द्रियैर् इति । इन्द्राय स्वाहा इत्य् आदिना हविर्-आद्य्-अर्पण-काले यद्यपि मनः क्वाप्य् अन्यत्र तद् अपीत्य् अर्थः । आत्म-विशुद्धये मनः-शुद्ध्य्-अर्थम् ॥११॥
बलदेवः : सद्-आचारं प्रमाणयन्न् एतद् विवृणोति कायेनेति । कायादिभिः साध्यं कर्म कायाद्य्-अहम्भाव-शून्या योगिनः कुर्वन्ति । केवलैर् विशुद्धैः । सङ्गं त्यक्त्वेति प्राग्वद् आत्म-शुद्धये अनादि-देहात्माभिमान-निवृत्तये ॥११॥
५।१२
युक्तः कर्म-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् ।
अयुक्तः काम-कारेण फले सक्तो निबध्यते ॥१२॥
श्रीधरः : ननु कथं तेनैव कर्मणा कश्चिन् मुच्यते कश्चिद् बध्यते इति व्यवस्था ? अत आह युक्त इति । युक्तः परमेश्वरैक-निष्ठः सन् कर्मणः फलं त्यक्त्वा कर्मणि कुर्वन्न् आत्यन्तिकीं शान्तिं मोक्षं प्राप्नोति । अयुक्तस् तु बहिर्मुखः काम-कारेण कामतः प्रवृत्त्या फल आसक्तो नितरां बन्धं प्राप्नोति ॥१२॥
मधुसूदनः : कर्तृत्वाभिमान-साम्ये ऽपि तेनैव कर्मणा कश्चिन् मुच्यते कश्चित् तु बध्यत इति वैषम्ये को हेतुर् इति तत्राह युक्त इति । युक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्य् एवम् अभिप्रायवान् कर्म-फलं त्यक्त्वा कर्माणि कुर्वन् शान्तिम् मोक्षाख्याम् आप्नोति नैष्ठिकीं सत्त्व-शुद्धि-नित्य-वस्तु-विवेक-सन्न्यास-ज्ञान-निष्ठा-क्रमेण जाताम् इति यावत् । यस् तु पुनर् अयुक्त ईश्वरायैवैतानि कर्माणि न मम फलायेत्य् अभिप्राय-शून्यः स काम-कारेण कामतः प्रवृत्त्या मम फलायैवेदं कर्म करोमीति फले सक्तो निबध्यते कर्मभिर् नितरां संसार-बन्धं प्राप्नोति । यस्माद् एवं तस्मात् त्वम् अपि युक्तः सन् कर्माणि कुर्व् इति वाक्य-शेषः ॥१२॥
विश्वनाथः : कर्म-करणे अनासक्त्य्-आसक्ती एव मोक्ष-बन्ध-हेतू इत्य् आह युक्तो योगी निष्काम-कर्मीतित्य् अर्थः । नैष्ठिकीम् निष्ठा-प्राप्तां शान्तिं मोक्षम् इत्य् अर्थः । अयुक्तः स-काम-कर्मीत्य् अर्थः । काम-कारेण काम-प्रवृत्त्या ॥१२॥
बलदेवः : युक्त आत्मार्पित-मनाः कर्म-फलं त्यक्त्वा कुर्वन्न् नैष्ठिकीम् स्थिरां शान्तिम् आत्मावलोक-लक्षणाम् आप्नोति । अयुक्त आत्मानर्पित-मनाः कर्म-फले सक्तः काम-कारेण कामतः कर्मणि प्रवृत्त्या निबध्यते संसरति ॥१२॥
५।१३
सर्व-कर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नव-द्वारे पुरे देही नैव कुर्वन् न कारयन् ॥१३॥
श्रीधरः : एवं तावच् चित्त-शुद्धि-शून्यस्य सन्न्यासात् कर्म-योगो विशिष्यते इत्य् एतत् प्रपञ्चितम् । इदानीं शुद्ध-चित्तस्य सन्न्यासः श्रेष्ठ इत्य् आह सर्व-कर्माणीति । वशी यत-चित्तः । सर्वाणि कर्माणि विक्षेपकानि मनसा विवेक-युक्तेन सन्न्यस्य सुखं यथा भवत्य् एवं ज्ञान-निष्ठः सन्न् आस्ते । क्वास्त इति ? अत आह नव-द्वार इति । नेत्रे नासिके कर्णौ मुखं चेति सप्त शिरो-गतानि । अधोगते द्वे पायूपस्थ-रूपे इति । एवं नव-द्वाराणि यस्मिंस् तस्मिन् पुरे पुरवद् अहङ्कार-शून्ये देहे देह्य् अवतिष्ठते । अहङ्काराभावाद् एव स्व्यं तेन देहेन नैव कुर्वन् मम-काराभावाच् च न कारयन् इत्य् अविशुद्ध-चित्ताद् व्यवृत्तिर् उक्ता । अशुद्ध-चित्तो हि सन्न्यस्य पुनः करोति कारयति च । न त्व् अयं तथा । अन्तः सुखं आस्त इत्य् अर्थः ॥१३॥
मधुसूदनः : अशुद्ध-चित्तस्य केवलात् सन्न्यासात् कर्म-योगः श्रेयान् इति पूर्वोक्तं प्रपञ्च्याधुना शुद्ध-चित्तस्य सर्व-कर्म-सन्न्यास एव श्रेयान् इत्य् आह सर्व-कर्माणीति । नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं चेति सर्वाणि कर्माणि मनसा कर्मण्य् अकर्म यः पश्येद् इत्य् अत्रोक्तेनाकर्त्रात्म-स्वरूप-सम्यग्-दर्शनेन सन्न्यस्य परित्यज्य प्रारब्ध-कर्म-वशाद् आस्ते तिष्ठत्य् एव । किं दुःखेन नेत्य् आह सुखम् अनायासेन । आयास-हेतु-काय-वाङ्-मनो-व्यापार-शून्यत्वात् । काय-वाङ्-मनांसि स्वच्छन्दानि कुतो न व्याप्रियन्ते तत्राह वशी स्व-वशीकृत-कार्य-करण-सङ्घातः । क्वास्ते ? नव-द्वारे पुरे द्वे श्रोत्रे द्वे चक्षुषी द्वे नासिके वाग् एकेति शिरसि सप्त । द्वे पायूपस्थाख्ये अध इति नव-द्वार-विशिष्टे देहे । देही देह-भिन्नात्म-दर्शी प्रवासीव पर-गेहे तत्-पूजा-परिभवादिभिर्
अप्रहृष्यन्न् अविषीदन्न् अहङ्कार-ममकार-शून्यस् तिष्ठति । अज्ञो हि देहतादात्म्याभिमानाद् देह एव न तु देही । स च देहाधिकरणम् एवात्मनो ऽधिकरणं मन्यमानो गृहे भूमावसाने वाहम् आस इत्य् अभिमन्यते न तु देहे ऽहम् आस इति भेद-दर्शनाभावात् । सङ्घात-व्यतिरिक्तात्म-दर्शी तु सर्व-कर्म-सन्न्यासी भेद-दर्शनाद् देहे ऽहम् आस इति प्रतिपद्यते । अतएव देहादि-व्यापाराणाम् अविद्ययात्मन्य् अक्रिये समारोपितानां विद्यया बाध एव सर्व-कर्म-सन्न्यास इत्य् उच्यते । एतस्माद् एवाज्ञ-वैलक्षण्याद्य्-उक्तं विशेषणं नव-द्वारे पुरे आस्त इति ।
ननु देहादि-व्यापाराणाम् आत्मन्य् आरोपितानां नौ-व्यापाराणां तीरस्थ-वृक्ष इव विद्यया बाधे ऽपि स्व-व्यापारेणात्मनः कर्तृत्वं देहादि-व्यापारेषु कारयितृत्वं च स्याद् इति नेत्य् आह नैव कुर्वन् न कारयन् । आस्त इति सम्बन्धः ॥१३॥
विश्वनाथः : अतो ऽनासक्तः कर्माणि कुर्वन्न् अपि ज्ञेयः स नित्य-सन्न्यासी इति पूर्वोक्तवद् वस्तुतः सन्न्यासी एवोच्यते तत्राह सर्व-कर्माणि मनसा सन्न्यस्य कायादि-व्यापारेण बहिः कुर्वन्न् अपि वशी जितेन्द्रियः सुखम् आस्ते । कुत्र ? नव-द्वारे पुरे अहं-भाव-शून्ये देहे देह्य् उत्पन्न-ज्ञानो जीवो नैव कुर्वन्न् इति कर्म-सुखस्य वस्तुतः कर्तृत्वं नैवास्तीति जानन्, न कारयन्न् इति नापि तेषु प्रयोजन-कर्तृत्वम् इत्य् अपि जानन्न् इत्य् अर्थः ॥१३॥
बलदेवः : सर्वेति । विवेकता मनसा तादृशि प्रधाने सर्व-कर्माणि सन्न्यस्यार्पयित्वा देहादिना बहिस् तानि कुर्वन्न् अपि वशी जितेन्द्रियः सुखं आस्ते । नव-द्वारे पुरे पुरवद् अहं-भाव-वर्जिते देहे द्वे नेत्रे द्वे नासिके द्वे श्रोत्रे मुखं चेति शिरसि सप्त द्वाराणि अधस्तात् तु पायूपस्थाख्ये द्वे इति नव-द्वाराणि देही लब्ध-ज्ञानोजीवः । नैवेति देहादि-विविक्तस्यात्मनः कर्मसु कर्तृत्वं कारयितृत्वं च नास्तीति विजानन्न् इत्य् अर्थः ॥१३॥
५।१४
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्म-फल-संयोगं स्वभावस् तु प्रवर्तते ॥१४॥
श्रीधरः : ननु एष ह्य् एवैनं साधु कर्म कारयति तं यम् एभ्यो लोकेभ्य उन्निनीषते । एष असाधु कर्म कारयति तं यम् अधो निनीषते इत्य्-आदि-श्रुतेः परमेश्वरेणैव शुभाशुभ-फलेषु कर्मसु कर्तृत्वेन प्रयुज्यमानो ऽस्वतन्त्रः पुरुषः कथं तानि कर्माणि त्यजेत् ? ईश्वरेणैव ज्ञान-मार्गे प्रयुज्यमाणः शुभाशुभनि च त्यक्ष्यतीति चेत् ? एवं सति वैषम्य-नैर्घृण्याभ्याम् ईश्वरस्यापि प्रयोजक-कर्तृत्वात् पुण्य-पाप-सम्बन्धः स्याद् इत्य् आशङ्क्याह न कर्तृत्वम् इति द्वाभ्याम् । प्रभुर् ईश्वरो जीव-लोकस्य कर्तृत्वादिकं न सृजति, किन्तु जीवस्य स्वभावो ऽविद्यैव कर्तृत्वादि-रूपेण प्रवर्तते । अनाद्य्-अविद्या-काम-वशात् प्रवृत्ति-स्वभावं जीव-लोकम् ईश्वरः कर्मसु नियुङ्क्ते । न तु स्वयम् एव कर्तृत्वादिकम् उत्पादयतीत्य् अर्थः ॥१४॥
मधुसूदनः : देवदत्तस्य स्वगतैव गतिर् यथा स्थितौ सत्यां न भवति एवम् आत्मनो ऽपि कर्तृत्वं कारयितृत्वम् न स्वगतम् एव सत्-सन्न्यासे सति न भवति, अथवा नभसि तल-मलिनतादिवद् वस्तु-वृत्त्या तत्र नास्त्य् एवेति सन्देहापोहायाह न कर्तृत्वम् इति । लोकस्य देहादेः कर्तृत्वं प्रभुर् आत्मा स्वामी न सृजति त्वं कुर्व् इति नियोगेन तस्य कारयिता न भवतीत्य् अर्थः । नापि लोकस्य कर्माणीप्सिततमानि घटादीनि स्वयं सृजति कर्तापि न भवतीत्य् अर्थः । नापि लोकस्य कर्म कृतवतस् तत्-फल-सम्बन्धं सृजति भोजयितापि भोक्तापि न भवतीत्य् अर्थः । न समानः सन्न् उभौ लोकाव् अनुसञ्चरति ध्यायतीव लेलायतीव सधीः इत्य् आदि श्रुतेः । अत्रापि शरीरस्थो ऽपि कौन्तेय न करोति न लिप्यते [गीता १३।३१] इत्य् उक्तेः ।
यदि किञ्चिद् अपि स्वतो न कारयति न करोति चात्मा कस् तर्हि कारयन् कुर्वंश् च प्रवर्तत इति तत्राह स्वभावस् त्व् इति । अज्ञानात्मिका दैवी माया प्रकृतिः प्रवर्तते ॥१४॥
विश्वनाथः : ननु च यदि जीवस्य वस्तुतः कर्तृत्वादिकं नैवास्ति, तर्हि परमेश्वर-सृष्टे जगति सर्वत्र जीवस्य कर्तृत्व-भोकृत्वादि-दर्शनान् मन्ये परमेशरेणैव बलात् तस्य कर्तृत्वादिकं सृष्टम् । तथा सति तस्मिन् वैषम्य-नैर्घृण्ये प्रसक्ते, तत्र न हि नहीत्य् आह न कर्तृत्वम् इति । नापि तत्-कर्तृत्वेन कर्माण्य् अपि, न च कर्म-फलैर् भोगैः संयोगम् अपि, किन्तु जीवस्य स्वभावो ऽनाद्य्-अविद्यैव प्रवर्तते । तं जीवं कर्तृत्वाद्य्-अभिमानम् आरोहयितुम् इति भावः ॥१४॥
बलदेवः : एतद् द्वयं शुद्धस्य नास्तीति विशदयति नेति । प्रभुर् देहेन्द्रियादीनां स्वामी जीवो लोकस्य जनस्य कर्तृत्वं न सृजतीति त्वं कुर्व् इति कारयिता न भवति । नापि तस्येप्सिततमानि कर्माणि माल्याम्बरादीनि सृजतीति स्वयं कर्तापि न भवति । न च कर्म-फलेन सुखेन दुःखेन च संयोगं सम्बन्धं सृजतीति भोजयिता भोक्ता च न भवतीत्य् अर्थः । यद्य् एवम्, तर्हि कः कारयन् कुर्वंश् च प्रतीयते ? तत्राह स्वभावस् त्व् इति । अनादि-प्रवृत्ता प्रधान-वासनात्र स्वभाव-शब्देनोक्त-प्राधानिक-देहादिमान् जीवः कारयिता कर्ता चेति न विविक्तस्य तत्त्वम् इति । शुद्धे ऽपि किञ्चित् कर्तृत्वम् अस्त्य् एव पूर्वत्र सुखासने तत्त्वस्योक्तेः भानादाव् इवैतद् बोध्यम्, धात्व्-अर्थः खलु क्रिया, तन्-मुख्यत्वं हि कर्तृत्वम् उक्तम् ॥१४॥
५।१५
नादत्ते कस्य चित् पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥१५॥
श्रीधरः : यस्माद् एवं तस्मात् नादत्त इति । प्रयोजको ऽपि सन् प्रभुः कस्यचित् पापं सुकृतं च नैवादत्ते न भजते । तत्र हेतुः - विभुः परिपूर्णः । आप्त-काम इत्य् अर्थः । यदि हि स्वार्थ-कामनया कारयेत् तर्हि तथा स्यात् । न त्व् एतद् अस्ति । आप्त-कामस्यैवाचिन्त्य-निज-मायया तत्-तत्-पूर्व-कर्मानुसारेण प्रवर्तकत्वात् ।
ननु भक्तान् अनुगृह्णतो ऽभक्तान् निगृह्णतश् च वैषम्योपलम्भात् कथम् आप्त-कामत्वम् इति ? अत आह अज्ञानेनेति । निग्रहो ऽपि दण्ड-रूपो ऽनुग्रह एवेति । एवम् अज्ञानेन सर्वत्र समः परमेश्वर इत्य् एवम्भूतं ज्ञानम् आवृतम् । तेन हेतुना जन्तवो जीवा मुह्यन्ति । भगवति वैषम्यं मन्यन्त इत्य् अर्थः ॥१५॥
मधुसूदनः : नन्व् ईश्वरः कारयिता जीवः कर्ता, तथा च श्रुतिः - एष उ ह्य् एव साधु कर्म कारयति तं यम् उन्निनीयते । एष उ एवासाधु कर्म कारयति तं यम् अधो निनीषते इत्य् आदिः । स्मृतिश् च -
अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुख-दुःखयोः ।
ईश्वर-प्रेरितो गच्छेत् स्वर्गं वाश्वभ्रम् एव च ॥ इति ।
तथा च जीवेश्वरयोः कर्तृत्व-कारयितृत्वाभ्यां भोक्तृत्व-भोजयितृत्वाभ्यां च पाप-पुण्य-लेप-सम्भवात् कथम् उक्तं स्वभावस् तु प्रवर्तत इति तत्राह नादत्त इति । परमार्थतः विभुः परमेश्वरः कस्यचित् जीवस्य पापं सुकृतं च नैवादत्ते परमार्थतो जीवस्य कर्तृत्वाभावात् परमेश्वरस्य च कारयितृत्वाभावात् । कथं तर्हि श्रुतिः स्मृतिर् लोक-व्यवहारश् च तत्राह अज्ञानेनावरण-विक्षेपा-शक्तिमता मायाख्येनानृतेन तमसावृतम् आच्छादितं ज्ञानं जीवेश्वर-जगद्-भेद-भ्रमाधिष्ठान-भूतं नित्यं स्व-प्रकाशं सच्-चिद्-आनन्द-रूपम् अद्वितीयं परमार्थ-सत्यम्, तेन स्वरूपावरणेन मुह्यन्ति प्रमातृ-प्रमेय-प्रमाण-कर्तृ-कर्म-करण-भोक्तृ-भोग्य-भोगाख्य-नव-विध-संसार-रूपं मोहम् अतस्मिंस् तद्-अवभास-रूपं
विक्षेपं गच्छन्ति जन्तवो जनन-शीलाः संसारिणो वस्तु-स्वरूपादर्शिनः । अकर्त्र्-अभोक्तृ-परमानन्दाद्वितीयात्म-स्वरूपादर्शन-निबन्धनो ऽयं जीवेश्वर-जगद्-भेद-भ्रमः प्रतीयमानो वर्तते मूढानाम् । तस्यां चावस्थायां मूढ-प्रत्ययानुवादिन्याव् एते श्रुति-स्मृती वास्तवाद्वैत-बोधि-वाक्य-शेष-भूते इति न दोषः ॥१५॥
विश्वनाथः : यस्माद् असाधु-साधु-कर्मणाम् ईश्वरो न कारयिता, तस्माद् एव न तस्य पाप-पुण्य-भागित्वम् इत्य् आह नादत्त इति । नादत्ते न गृह्णाति । किन्तु तदीया खलु या शक्तिर् अविद्या सैव जीव-ज्ञानम् आवृणोति इत्य् आह अज्ञानेनाविद्यया । ज्ञानं जीवस्य स्वाभाविकम् । तेन हेतुना ॥१५॥
बलदेवः : ननु यदि विशुद्धस्य जीवस्य तादृश-कर्म-कर्तृत्वादि नास्तीति ब्रूषे, तर्हि कौतुकाक्रान्तः परमात्मा प्रधानं तद्-गले निपात्य तत्-परिणाम-देहेन्द्रियादि-मतस् तस्य तद्-रचितवान् इत्य् आपद्यते । युक्तं चैतत् । अन्यथा एष उ ह्य् एव साधु कर्म कारयति तं यम् एभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यम् अधो निनीषते इति श्रुतिः ।
अज्ञो जन्तुर् अनीशो ऽयम् आत्मनः सुख-दुःखयोः ।
ईश्वर-प्रेरितो गच्छेत् स्वर्गं वाश्व् अभ्रम् एव च ॥
इति स्मृतिश् च व्याकुप्येत् । तथा च पाप-पुण्य-मयीम् अवस्थां नयति । प्रयोजके तस्मिन् वैषम्यादिकं पापादि-भागित्वं च स्याद् इति चेत् तत्राह नादत्त इति ।
विभुर् अपरिमित-विज्ञानानन्दो ऽनन्त-शक्ति-पूर्णः स्वानन्दैक-रसिकस् ततो ऽन्यत्रोदासीनः परमात्मानादि-प्रधान-वासना-निबन्धं बुभुक्षुं स्व-सन्निधि-मात्र-परिणत-प्रधान-मय-देहादिमन्तं जीवं तद्-वासनानुसारेण कर्माणि कारयन् कस्यचिज् जीवस्य पापं सुकृतं च नादत्ते न गृह्णाति । एवम् उक्तं श्री-वैष्णवे -
यथा सन्निधि-मात्रेण गन्धः क्षोभाय जायते ।
मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ॥
सन्निधानाद् यथाकाश-कालाद्याः कारणं तरोः ।
तथैवापरिणामेन विश्वस्य भगवान् हरिः ॥ [विप् १।२।३०-१] इति ।
औदासीन्य-मात्रे ऽयं गन्धादि-दृष्टान्तो न त्व् इच्छाया अभावे तस्याः । सो ऽकामयत इति श्रुतत्वात् । तर्हि जीवास् तं विषमं कुतो वदन्ति, तत्राह अज्ञानेनेति । अनादि-तद्-वैमुख्येनाज्ञानेन जीवानां नित्यम् अपि ज्ञानम् आवृतं तिरोहितम् । तेन हेतुना जन्तवो जीवा मुह्यन्ति । समम् अपि तं विमूढा विषमं वदन्ति न विज्ञा इत्य् अर्थः । आह चैवं सूत्रकारः - वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति [व्स् २।१।३५], न कर्माविभागाद् इति चेन् नानादित्वात् [व्स् २।१।३६] इति ॥१५॥
५।१६
ज्ञानेन तु तद् अज्ञानं येषां नाशितम् आत्मनः ।
तेषाम् आदित्यवज् ज्ञानं प्रकाशयति तत्परम् ॥१६॥
श्रीधरः : ज्ञानिनस् तु न मुह्यन्तीत्य् आह ज्ञानेनेति । भगवतो ज्ञानेन येषां तद्-वैषम्योपलम्भकम् अज्ञानं नाशितम् तज् ज्ञानं तेषाम् अज्ञानं नाशयित्वा तत् परं परिपूर्णम् ईश्वर-स्वरूपं प्रकाशयति । यथादित्यस् तमो निरस्य समस्तं वस्तु-जातं प्रकाशयति तद्वत् ॥१६॥
मधुसूदनः : तर्हि सर्वेषाम् अन्दाद्य्-अज्ञानावृतत्वात् कथं संसार-निवृत्तिः स्याद् ? अत आह ज्ञानेनेति । तद्-आवरण-विक्षेप-शक्ति-मदनाद्य्-अनिर्वाच्यम् अनृतम् अनर्थवात-मूलम् अज्ञानम् आत्माश्रय-विषयम् अविद्या-मायादि-शब्द-वाच्यम् आत्मनो ज्ञानेन गुरूपदिष्ट-वेदान्त-महा-वाक्य-जन्येन श्रवन-मनन-निदिध्यासन-परिपाक-निर्मलान्तःकरण-वृत्ति-रूपेण निर्विकल्पक-साक्षात्कारेण शोधित-तत्-त्वं-पदार्थाभेद-रूप-शुद्ध-सच्-चिद्-आनन्दाखण्डैक-रस-वस्तु-मात्र-विषयेण नाशितं बाधितं काल-त्रये ऽप्य् असद् एवासत्तया ज्ञातम् अधिष्ठान-चैतन्य-मात्रतां प्रापितं शुक्ताव् इव रजतं शुक्ति-ज्ञानेन श्रवन-मनन-निदिध्यासनादि-साधन-सम्पन्नानां भगवद्-अनुगृहीतानां मुमुक्षूणां तेषां तज् ज्ञानं कर्तृ । आदित्यवद्
यथादित्यः स्वोदय-मात्रेणैव तमो निरवशेषं निवर्तयति न तु कञ्चित् सहायम् अपेक्षते तथा ब्रह्म-ज्ञानम् अपि शुद्ध-सत्त्व-परिणामत्वाद् व्यापक-प्रकाश-रूपं स्वोत्पत्ति-मात्रेणैव सहकार्यन्तर-निरपेक्षतया स-कार्यम् अज्ञानं निवर्तयत् परम् सत्य-ज्ञानआनन्तानन्द-रूपम् एकम् एवाद्वितीयं परमात्म-तत्त्वं प्रकाशयति प्रतिच्छाया-ग्रहण-मात्रेणैव कर्मताम् अन्तरेणाभिव्यनक्ति ।
अत्राज्ञानेनावृतं ज्ञानेन नाशितम् इत्य् अज्ञानन्स्यावरणत्व-ज्ञान-नाश्यत्वाभ्यां ज्ञानाभाव-रूपत्वं व्यावर्तितम् । नह्य् अभावः किञ्चिद् आवृणोति न वा ज्ञानाभावो ज्ञानेन नाश्यते स्वभावतो नाश-रूपत्वात् तस्य । तस्माद् अहम् अज्ञो माम् अन्यं च न जानामीत्य् आदि-साक्षि-प्रत्यक्ष-सिद्धं भाव-रूपम् एवाज्ञानम् इति भगवतो मतम् । विस्तरस् त्व् अद्वैत-सिद्धौ द्रष्टव्यः ।
येषाम् इति बहु-वचनेनानियमो दर्शितः । तथा च श्रुतिः - तद् यो यो देवानां प्रत्यबुध्यत स एव तद् अभवत् तथ र्षीणां तथा मनुष्याणां तद् इदम् अप्य् एतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति इत्य् आदिर् यद् विषयं यद्-आश्रयम् अज्ञानं तद्-विषय-तद्-आश्रय-प्रमाण-ज्ञानात् तन्-निवृत्तिर् इति न्याय-प्राप्तम् अनियमं दर्शयति । तत्राज्ञान-गतम् आवरणं द्विविधम् - एकं सतो ऽप्य् असत्त्वापादकम् अन्यत् तु भातो ऽप्य् अभानापादकम् । तत्राद्यं परोक्षापरोक्ष-साधारण-प्रमाण-ज्ञान-मात्रान् निवर्तते । अनुमिते ऽपि वह्न्य्-आदौ पर्वते वह्निर् नास्तीत्य् आदि-भ्रमादर्शनात् । तथा सत्यं ज्ञानम् अनन्तं ब्रह्मास्ति इति वाक्यात् परोक्ष-निश्चये ऽपि ब्रह्म नास्तीति भ्रमो निवर्तत एव । अस्त्य् एव ब्रह्म किन्तु मम न भातीत्य् एकं भ्रम-जनकं द्वितीयम् अभानावरणं
साक्षात्काराद् एव निवर्तते । स च साक्षात्कारो वेदान्त-वाक्येनैव जन्यते निर्विकल्पक इत्य् आद्य् अद्वैत-सिद्धाव् अनुसन्धेयम् ॥१६॥
विश्वनाथः : यथाविद्या तस्य ज्ञानम् आवृणोति, तथैवापरा तस्य विद्या-शक्तिर् अविद्यां विनाश्य ज्ञानं प्रकाशयतीत्य् अर्थः । ज्ञानेन विद्या-शक्त्या । अज्ञानम् अविद्याम् । तेषां जीवानां ज्ञानम् एव कर्तृ आदित्यवद् इत्य्-आदित्य-प्रभा यथान्धकारं विनाश्य घट-पटादिकं प्रकाशयति, तथैव विद्ययैवाविद्यां विनाश्य तज्-जीव-निष्ठं ज्ञानं परम् अप्राकृतं प्रकाशयति । तेन परमेश्वरो न कम् अपि बध्नाति, नापि कम् अपि मोचयति । किन्त्व् अज्ञान-ज्ञाने प्रकृतेर् एव धर्मः क्रमेण बध्नाति मोचयति च । कर्तृत्व-भोक्तृत्व-तत्-प्रयोजकत्वादयोर् बन्धकाः । अनासक्ति-शान्त्यादयो मोचकाश् च प्रकृतेर् एव धर्माः । किन्तु परमेश्वरस्यान्तर्यामित्व एव प्रकृतेस् ते ते धर्मा उद्बुध्यन्त इत्य् एतद्-अंशेनैव तस्य प्रयोजकत्वम् इति न तस्य वैषम्य-नैर्घृण्ये
॥१६॥
बलदेवः : विज्ञा न मुह्यन्तीत्य् एतद् आह ज्ञानेनेति । सर्वं ज्ञान-प्लवेनैव [गीता ४।३६] इति । ज्ञानाग्निः सर्व-कर्माणि [गीता ४।३७], न हि ज्ञानेन सदृशं [गीता ४।३८] इति चोक्त-महिम्ना सद्-गुरु-प्रसाद-लब्धेन स्व-परात्म-विषयकेन ज्ञानेन येषां सत्-प्रसङ्गिनां तद्-वैमुख्यम् अज्ञानं नाशितं प्रध्वंसितं तेषां तज्-ज्ञानं कर्तृ परं प्रकाशयति । देहादेः परं जीवं वैषम्यादि-दोषात् परम् ईश्वरं च बोधयति । आदित्यवत् यथा रविर् उदित एव तमो निरस्यन् यथावद् वस्तु प्रदर्शयति, तथा सद्-गुरूपदेश-लब्धम् आत्म-ज्ञानं यथावद् आत्म-वस्त्व् इति । अत्र विनष्टाज्ञानानां जीवानां बहुत्वं निगदता पार्थ-सारथिना मोक्षे तेषां तद्-दर्शितं औपाधिकत्वं तस्य प्रत्य् उक्तं नेमे जनाधिपाः इत्य् उपक्रमोक्तं च तत् सोपपत्तिकम् अभूत् ॥१६॥
५।१७
तद्-बुद्धयस् तद्-आत्मानस् तन्-निष्ठास् तत्-परायणाः ।
गच्छन्त्य् अपुनर्-आवृत्तिं ज्ञान-निर्धूत-कल्मषाः ॥१७॥
श्रीधरः : एवम्भूतेश्वरोपासकानां फलम् आह तद्-बुद्धय इति । तस्मिन्न् एव बुद्धिर् निश्चयात्मिका येषाम् । तस्मिन्न् एतात्मा मनो येषाम् । तस्मिन्न् एव निष्ठा तात्पर्यं येषाम् । तद् एव परम् अयमम् आश्रयो येषाम् । ततश् च तत्-प्रसाद-लब्धेनात्म-ज्ञानेन निर्धूतं निरस्तं कल्मषं येषाम् । ते ऽपुनर्-आवृत्तिं मुक्तिं यान्ति ॥१७॥
मधुसूदनः : ज्ञानेन परमात्म-तत्त्व-प्रकाशे सति तद्-बुद्धय इति । तस्मिन् ज्ञान-प्रकाशिते परमात्म-तत्त्वे सच्-चिद्-आनन्द-घन एव बाह्य-सर्व-विषय-परित्यागेन साधन-परिपाकात् पर्यवसिता बुद्धिर् अन्तःकरण-वृत्तिः साक्षात्कार-लक्षणा येषां ते तद्-बुद्धयः सर्वदा निर्बीज-समाधि-भाज इत्य् अर्थः । तत् किं बोद्धारो जीवा बोद्धव्यं ब्रह्म-तत्त्वम् इति बोद्धृ-बोद्धव्य-भावो हि माया-विजृम्भितो न वास्तवाभेद-विरोधीति भावः ।
ननु तद्-आत्मान इति विशेषणं व्यर्थम् । अविद्वद्-व्यवर्तकं हि विद्वद्-विशेषणम् । अज्ञा अपि हि वस्तु-गत्या तद्-आत्मान इति कथं तद्-व्यावृत्तिर् इति चेत्, न । इतरात्मत्व-व्यावृत्तौ तात्पर्यात् । अज्ञा हि अनात्म-भूते देहादाव् आत्माभिमानिन इति न तद्-आत्मान इति व्यपदिश्यन्ते । विज्ञास् तु निवृत्त-देहाद्य्-अभिमाना इति विरोधि-निवृत्त्या तद्-आत्मान इति व्यपदिश्यन्त इति युक्तं विशेषणम् ।
ननु कर्मानुष्ठान-विक्षेपे सति कथं देहाद्य्-अभिमान-निवृत्तिर् इति तत्राह तन्-निष्ठा इति । तस्मिन्न् एव ब्रह्मणि सर्व-कर्मानुष्ठान-विक्षेप-निवृत्त्या निष्ठा स्थितिर् येषां ते तन्-निष्ठाः । सर्व-कर्म-सन्न्यासेन तद्-एक-विचार-परा इत्य् अर्थः । फल-रागे सति कथं तत्-साधन-भूत-कर्म-त्याग इति तत्राह तत्-परायणाः । तद् एव परम् अयनं प्राप्तव्यं येषां ते तत्-परायणाः । सर्वतो विरक्ता इत्य् अर्थः ।
अत्र तद्-बुद्धय इत्य् अनेन साक्षात्कार उक्तः । तद्-आत्मान इत्य् अनात्माभिमा-रूप-विपरीत-भाव-निवृत्ति-फलको वेदान्त-विचारः श्रवण-मनन-परिपाक-रूपः । तत्-परायणा इत्य् अनेन वैराग्य-प्रकर्षं इत्य् उत्तरोत्तरस्य पूर्व-पूर्व-हेतुत्वं द्रष्टव्यम् । उक्त-विशेषणा यतयो गच्छन्त्य् अपुनर्-आवृत्तिं पुनर्-देह-सम्बन्धाभाव-रूपां मुक्तिं प्राप्नुवन्ति । सकृन् मुक्तानाम् अपि पुनर् देह-सम्बन्धः कुतो न स्याद् इति तत्राह ज्ञान-निर्धूत-कल्मषाः ज्ञानेन निर्धूतं समूलम् उन्मूलितं पुनर्-देह-सम्बन्ध-कारणं कल्मषं पुण्य-पापात्मकं कर्म येषां ते तथा । ज्ञानेनानाद्य्-अज्ञान-निवृत्त्या तत्-कार्य-कर्म-क्षये तन्-मूलकं पुनर् देह-ग्रहणं कथं भवेद् इति भावः ॥१७॥
विश्वनाथः : किन्तु विद्या जीवात्म-ज्ञानम् एव प्रकाशयति, न तु परमात्म-ज्ञानं भक्त्याहम् एकया ग्राह्यः इति भगवद्-उक्तेः । तस्मात् परमात्म-ज्ञानार्थं ज्ञानिभिर् अपि पुनर् विशेषतो भक्तिः कार्या इत्य् अत आह तद्-बुद्धय इति । तत्-पदेन पूर्वम् उपक्रान्तो विभुः परामृश्यते । तस्मिन् परमेश्वर एव बुद्धिर् येषाम् ते तम्-मनन-परा इत्य् अर्थः । तद्-आत्मानस् तन्-मनस्कास् तम् एव ध्यायन्त इत्य् अर्थः । तन्-निष्ठाः ज्ञानं मयि सन्न्यसेत् इति भगवद्-उक्तेः । देहाद्य्-अतिरिक्तात्म्म-ज्ञाने ऽपि सात्त्विके निष्ठां परित्यज्य तद्-एक-निष्ठाः । तत्-परायणास् तदीय-श्रवण-कीर्तन-पराः । यद् वक्ष्यते -
भक्त्या माम् अभिजानाति यावान् यश् चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तद्-अनन्तरम् ॥ [गीता १८।५५] इति ।
ज्ञान-निर्धूत-कल्मषा ज्ञानेन विद्यायैव पूर्वम् एव ध्वस्त-समस्ताविद्याः ॥१७॥
बलदेवः : परमात्मन्य् अवैषम्यादि-ध्यायतां फलम् आह तद् इति । तस्मिंस् तद्-अवैषम्यादिके गुण-गणे बुद्धिर् निश्चयात्मिका येषां ते । तद्-आत्मानस् तस्मिन् निविष्ट-मनसः तन्-निष्ठास् तत्-तात्पर्यवन्तस् तत्-परायणास् तत्-समाश्रयाः । एवम् अभ्यस्तेन तद्-वैषम्यादि-गुण-ज्ञानेन निर्धूत-कल्मषा विनष्ट-तद्-वैमुख्याः सन्त अपुनर्-आवृत्तिं मुक्तिं गच्छन्तीति ॥१७॥
५।१८
विद्या-विनय-सम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः सम-दर्शिनः ॥१८॥
श्रीधरः : कीदृशास् ते ज्ञानिनो ये ऽपुनर्-आवृत्तिं गच्छन्तीत्य् अपेक्षायाम् आह विद्या-विनय-सम्पन्न इति । विषमेष्व् अपि समं ब्रह्मैव द्रष्टुं शीलं येषां ते पण्डिताः । ज्ञानिन इत्य् अर्थः । अत्र विद्या-विनयाभ्यां युक्ते ब्राह्मणे च । शुनो यः पचति तस्मिन् श्वपाके च इति कर्मणा वैषम्यम् । गवि हस्तिनि शुनि चेति जातितो वैषम्यं दर्शितम् ॥१८॥
मधुसूदनः : देह-पाताद् ऊर्ध्वं विदेह-कैवल्य-रूपं ज्ञान-फलम् उक्त्वा प्रारब्ध-कर्म-वशात् सत्य् अपि देहे जीवन्-मुक्ति-रूपं तत्-फलम् आह विद्येति । विद्या वेदार्थ-परिज्ञानं ब्रह्म-विद्या वा । विनयो निरहङ्कारत्वम् अनौद्धत्यम् इति यावत् । ताभ्यां सम्पन्ने ब्रह्म-विदि विनीते च ब्राह्मणे सात्त्विके सर्वोत्तमे । तथा गवि संस्कार-हीनायां राजस्यां मध्यमायां । तथा हस्तिनि शुनि श्वपाके चात्यन्त तामसे सर्वाधमे ऽपि । सत्त्वादि-गुणैस् तज्-जैश् च संस्कारैर् अस्पृष्टम् एव समं ब्रह्म द्रष्टुं शीलं येषां ते सम-दर्शिनः । पण्डिता ज्ञानिनः । यथा गङ्गा-तोये तडागे सुरायां मूत्रे वा प्रतिबिम्बितस्यादित्यस्य न तद्-गुण-दोष-सम्बन्धस् तथा ब्रह्मणो ऽपि चिद्-आभास-द्वारा प्रतिबिम्बितस्य नोपाधि-गत-गुण-दोष-सम्बन्ध इति प्रतिसन्दधानाः
सर्वत्र सम-दृष्ट्यैव राग-द्वेष-राहित्येन परमानन्द-स्फूर्त्या जीवन्-मुक्तिम् अनुभवन्तीत्य् अर्थः ॥१८॥
विश्वनाथः : ततश् च गुणातीतानां तेषां गुण-मये वस्तु-मात्र एव तारतम्य-मयं विशेषम् अजिघृक्षूणां सम-बुद्धिर् एव स्याद् इत्य् आह विद्येति । ब्राह्मणे गवीति सात्त्विक-जातित्वात् । हस्तिनि मध्यमे । शुनि च श्वपाके चेति तामस्-जातित्वाद् अधमे ऽपि तत्-तद्-विशेषाग्रहणात् सम-दर्शिनः पण्डिता गुणातीताः । विशेषाग्रहणम् एव समं गुणातीतं ब्रह्म । तद् द्रष्टुं शीलं येषां ते ॥१८॥
बलदेवः : तान् स्तौति विद्येति । तादृशे ब्राह्मणे श्वपाके चेति कर्मणैतौ विषमौ गवि हस्तिनि शुनि चेति जात्यैते विषमाः । एवं विषमतया सृष्टेषु ब्राह्मणादिषु ये परमात्मानं समं पश्यन्ति, त एव पण्डिताः । तत्-कर्मानुसारिणी तेन तेषां तथा तथा सृष्टिः, न तु राग-द्वेषानुसारिणीति पर्जन्यवत् सर्वत्र समः परमात्मेति ॥१८॥
५।१९
इहैव तैर् जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥१९॥
श्रीधरः : ननु विषमेसु सम-दर्शनं निषिद्धं कुर्वन्तो ऽपि कथं ते पण्डिताः ? यथाह गौतमः समासम् आभ्यां विषम-समे पूजातः इति । अस्यार्थः समाय पूजया विषमे प्रकारे कृते सति विषमाय च समे प्रकारे कृते सति स पूजक इह लोकात् पर-लोकाच् च हीयत इति । तत्राह इहैवेति । इहैव जीवद्भिर् एव तैः । सृज्यते इति सर्गः संसारः । जितो निरस्तः । कैः ? येषां मनः साम्ये समत्वे स्थितं । तत्र हेतुः – हि यस्माद् ब्रह्म समं निर्दोषं च तस्मात् ते सम-दर्शिनो ब्रह्मण्य् एव स्थिताः । ब्रह्म-भावं प्राप्ता इत्य् अर्थः । गौतमोक्तस् तु दोषो ब्रह्म-भाव-प्राप्तेः पूर्वम् एव । पूजात इति पूजकावस्थाश्रवणात् ॥१९॥
मधुसूदनः : ननु सात्त्विक-राजस-तामसेषु स्वभाव-विषमेषु प्राणिषु समत्व-दर्शनं धर्म-शास्त्र-निषिद्धम् । तथा च तस्यान्नम् अभोज्यम् इत्य् उपक्रम्य गौतमः स्मरति समासम् आभ्यां विषम-समे पूजात इति । समासम् आभ्याम् इति चतुर्थी-द्वि-वचनम् । विषम-सम इति द्वन्द्वैकवद् भावेन सप्तम्य्-एक-वचनम् । चतुर्-वेद-पारगाणाम् अत्यन्त-सदाचाराणां यादृशो वस्त्रालङ्कारान्नादि-दान-पुरःसरः पूजा-विशेसः क्रियते तत्-समायैवान्यस्मै चतुर्वेद-पारगाय सद्-आचाराय विषमे तद्-अपेक्षया न्यूने पूजा-प्रकारे कृते । तथाल्प-वेदानां हीनाचाराणां यादृशो हीन-साधनः पूजा-प्रकारः क्रियते तादृशायैवासमाय पूर्वोक्त-वेद-पारग-सद्-आचार-ब्राह्मणापेक्षया हीनाय तादृश-हीन-पूजाधिके मुख्य-पूजा-समे पूजा-प्रकारे
कृते, उत्तमस्य हीनतया हीनस्योत्तमतया पूजातो हेतोस् तस्य पूजयितुर् अन्नम् अभोज्यं भवतीत्य् अर्थः । पूजयिता प्रतिपत्ति-विशेसम् अकुर्वन् धनाद् धर्माच् च हीयत इति च दोषान्तरम् । यद्यपि यतीनां निष्परिग्रहाणां पाकाभावाद् धनाभावाच् चाभोज्यान्नत्वं धन-हीनत्वं च स्वत एव विद्यते तथापि धर्म-हानिर् दोसो भवत्य् एव । अभोज्यान्नत्वं चाशुचित्वेन पाप्त्पत्त्य्-उपलक्षणम् । तपो-धनानां च तप एव धनम् इति तद्-धानिर् अपि दूषणं भवत्य् एवेति कथं सम-दर्शिनः पण्डिता जीवन्-मुक्ता इति प्राप्ते परिहरति इहैवेति ।
तैः सम-दर्शिभिः पण्डितैर् इहैव जीवन-दशायाम् एव जितो ऽतिक्रान्तः सर्गः सृज्यत इति व्युत्पत्त्या द्वैत-प्रपञ्चः । देह-पाताद् ऊर्ध्वम् अतिक्रमितव्य इति किम् उ वक्तव्यम् ? कैः ? येषां साम्ये सर्व-भूतेषु विषमेष्व् अपि वर्तमानस्य ब्रह्मणः सम-भावे स्थितं निश्चलं मनः । हि यस्मान् निर्दोषं समं सर्व-विकार-शून्यं कूटस्थ-नित्यम् एकं च ब्रह्म तस्मात् ते ब्रह्मण्य् एव स्थिताः ।
अयं भावः । दुष्टत्वम् हि द्वेधा भवति अदुष्टस्यापि दुष्ट-सम्बन्धात् स्वतो दुष्टत्वाद् वा । यथा गङ्गोदकस्य मूत्र-गर्त-पातात् । स्वत एव वा यथा मूत्रादेः । तत्र दोषवत्सु श्वपाकादिषु स्थितं दोषैर् दुष्यति ब्रह्मेति मूढैर् विभाव्यमानम् अपि सर्व-दोषासंसृष्टम् एव ब्रह्म व्योमवद् असङ्गत्वात् । असङ्गो ह्य् अयं पुरुषः ।
सूर्यो यथा सर्व-लोकस्य चक्षुर्
न लिप्यते चाक्षुषैर् बाह्य-दोषैः ।
एकस् तथा सर्व-भूतान्तरात्मा
न लिप्यते लोक-दुःखेन बाह्यः ॥ इति श्रुतेः ।
नापि कामादि-धर्मवत्तया स्वत एव कलुषितं कामादेर् अन्तःकरण-धर्मत्वस्य श्रुति-स्मृति-सिद्धत्वात् । तस्मान् निर्दोष-ब्रह्म-रूपा यतयो जीवन्-मुक्ता अभोज्यान्नादि-दोष-दुष्टाश् चेति व्याहृतम् । स्मृतिस् त्व् अविद्वद्-गृहस्थ-विषयैव । तस्यान्न-भोज्यम् इत्य् उपक्रमात् । पूजात इति मध्ये निर्देशात् । धनाद् धर्माच् च हीयत इत्य् उपसंहाराच् चेति द्रष्टव्यम् ॥१९॥
विश्वनाथः : सम-दृष्टित्वं स्तौति । इहैव इह लोक एव सृज्यत इति सर्गः संसारो जितः पराभूतः ॥१९॥
बलदेवः : इहेति । इह साधन-दशायाम् एव तैः सर्गः संसारो जितः पराभूतः । कैः ? येषां मनः साम्ये ऽवैषम्याख्ये ब्रह्म-धर्मे स्थितं निविष्टम् । कुतो ब्रह्माविषमम् ? तत्राह निर्दोषं हीति । हि यतो ब्रह्मण्य् अवैषम्यादिकं निश्चिक्युस् तस्मात् प्रपञ्चे तिष्ठन्तो ऽपि ते ब्रह्मण्य् एव स्थिताः मुक्तिस् तेषां सुलभेत्य् अर्थः ॥१९॥
५।२०
न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिर-बुद्धिर् असम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥२०॥
श्रीधरः : ब्रह्म-प्राप्तस्य लक्षणम् आह न प्रहृष्येद् इति । ब्रह्म-विद् भूत्वा ब्रह्मण्य् एव यः स्थितः स प्रियं प्राप्य न प्रहृष्येत् प्रकृष्ट-हर्षवान् स्यात् । अप्रियम् प्राप्य च नोद्विजेत् न विषीदतीत्य् अर्थः । यतः स्थिर-बुद्धिर् स्थिरा निश्चला बुद्धिर् यस्य । तत् कुतः ? यतो ऽसम्मूढो निवृत्त-मोहः ॥२०॥
मधुसूदनः : यस्मान् निर्दोषं समं ब्रह्म तस्मात् तद्-रूपम् आत्मानं साक्षात्कुर्वन्न् आह न प्रहृष्येद् इति । दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः इत्य् अत्र व्याख्यातं पूर्वार्धम् । जीवन्-मुक्तानां स्वाभाविकं चरितम् एव मुमुक्षुभिः प्रयत्न-पूर्वकम् अनुष्ठेयम् इति वदितुं लिङ्ग-प्रत्ययौ । अद्वितीयात्म-दर्शन-शीलस्य व्यतिरिक्त-प्रियाप्रिय-प्राप्त्य्-अयोग्याच् च तन्-निमित्तौ हर्ष-विषादाव् इत्य् अर्थः ।
अद्वितीयात्म-दर्शनम् एव विवृणोति - स्थिर-बुद्धिः स्थिरा निश्चला सन्न्यास-पूर्वक-वेदान्त-वाक्य-विचार-परिपाकेण सर्व-संशय-शून्यत्वेन निर्विचिकित्सा निश्चिता ब्रह्मणि बुद्धिर् यस्य स तथा लब्ध-श्रवण-मनन-फल इति यावत् । एतादृशस्य सर्वासम्भावना-शून्यत्वे ऽपि विपरीत-भाव-प्रतिबन्धात् साक्षात्कारो नोदेतीति निदिध्यासनम् आह - असम्मूढः । निदिध्यासनस्य विजातीय-प्रत्ययानन्तरित-सजातीय-प्रत्यय-प्रवाहस्य परिपाकेण विपरीत-भावनाख्य-सम्मोह-रहितः । ततः सर्व-प्रतिबन्धापगमाद् ब्रह्मविद् ब्रह्म-साक्षात्कारवान् । ततश् च समाधि-परिपाकेण निर्दोषे समे ब्रह्मण्य् एव स्थितो नान्यत्रेति ब्रह्मणि स्थितो जीवन्-मुक्तः स्थित-प्रज्ञ इत्य् अर्थः । एतादृशस्य द्वैत-दर्शनाभावात् प्रहर्षोद्वेगौ न भवत इत्य् उचितम् एव । साधकेन तु द्वैत-दर्शने विद्यमाने
ऽपि विषय-दोष-दर्शनादिना प्रहर्ष-विषादौ त्याज्याव् इत्य् अभिप्रायः ॥२०॥
विश्वनाथः : एवं लौकिक-प्रियाप्रियादिष्व् अपि तेषां साम्यम् आह न प्रहृष्येद् इति । न प्रहृष्येत् न प्रहृष्यति । नोद्विजेत् नोद्विजते । साधन-दशायाम् एवम् अभ्यसेद् इति विवक्षया वा लिङ् । असम्मूढो हर्ष-शोकादीनाम् अभिमान-निबन्धनत्वेन सम्मोह-मात्रत्वात् ॥२०॥
बलदेवः : ब्रह्मणि स्थितस्य लक्षणम् आह नेति । वर्तमाने देहे स्थितः प्रारब्धाकृष्टं प्रियम् अप्रियं च प्राप्य न प्रहृष्येन् न चोद्विजेत् । कुतः ? स्थिरा स्वात्मनि बुद्धिर् यस्य सः । असम्मूढो ऽनित्येन देहेन नित्यम् आत्मानम् एकीकृत्य मोहं न लब्धः । ब्रह्मवित् तादृशं ब्रह्मानुभवन् । एवंलक्षणो ब्रह्मणि स्थितो बोध्यः ॥२०॥
५।२१
बाह्य-स्पर्शेष्व् असक्तात्मा विन्दत्य् आत्मनि यत् सुखम् ।
स ब्रह्म-योग-युक्तात्मा सुखम् अक्षयम् अश्नुते ॥२१॥
श्रीधरः : मोह-निवृत्त्या बुद्धि-स्थैर्ये हेतुम् आह बाह्य-स्पर्शेष्व् इति । इन्द्रियैः स्पृश्यन्त इति स्पर्शा विषयाः । बाह्येन्द्रिय-विषयेष्व् असक्तात्मानासक्त-चित्तः । आत्मनि अन्तः-करणे यद् उपशमात्मकं सात्त्विकं सुखम् तद् विन्दति लभते । स चोपशमं सुखं लब्ध्वा ब्रह्मणि योगेन समाधिना युक्तस् तदैक्यं प्राप्त आत्मा यस्य सो ऽक्षयं सुखम् अश्नुते प्राप्नोति ॥२१॥
मधुसूदनः : ननु बाह्य-विषय-प्रीतेर् अनेक-जन्मानुभूतत्वेनातिप्रचलत्वात् तद्-आसक्त-चित्तस्य कथम् अलौकिके ब्रह्मणि दृष्ट-सर्व-सुख-रहिते स्थितिः स्यात् । परमानन्द-रूपत्वाद् इति चेत्, न । तद्-आनन्दस्याननुभूत-चरत्वेन चित्त-स्थिति-हेतुत्वाभावात् । तद् उक्तं वार्त्तिके -
अप्य् आनन्दः श्रुतः साक्षान् मानेनाविषयीकृतः ।
दृष्टानन्दाभिलाषं स न मन्दीकर्तुम् अप्य् अलम् ॥ इति ।
तत्राह बाह्येति । इन्द्रियैः स्पृश्यन्त इति स्पर्शाः शब्दादयः । ते च बाह्या अनात्म-धर्मत्वात् । तेष्व् असक्तात्मानासक्त-चित्तस् तृष्णा-शून्यतया विरक्तः सन्न् आत्मनि अन्तः-करण एव बाह्य-विषय-निरपेक्षं यद् उपशमात्मकं सुखं तद् विन्दति लभते निर्मल-सत्त्व-वृत्त्या । तद् उक्तं भारते -
यच् च काम-सुखं लोके यच् च दिव्यं महत् सुखम् ।
तृष्णाक्षय-सुखस्यैते नार्हतः षोडशीं कलाम् ॥ इति ।
अथवा प्रत्यग्-आत्मनि त्वं-पदार्थे यत् सुखं स्वरूप-भूतं सुषुप्ताव् अनुभूयमानं बाह्य-विषयासक्ति-प्रतिबन्धाद् अलम्भमानं तद् एव तद्-अभावाल् लभते ।
न केवलं त्वं-पदार्थ-सुखम् एव लभते किन्तु तत्-पदार्थैक्यानुभवेन पूर्ण-सुखम् अपीत्य् आह स तृष्णा-शून्यो ब्रह्मणि परमात्मनि योगः समाधिस् तेन युक्तस् तस्मिन् व्यापृत आत्मान्तः-करणं यस्य स ब्रह्म-योग-युक्तात्मा । अथवा ब्रह्मणि तत्-पदार्थे योगेन वाक्यार्थानुभव-रूपेण समाधिना युक्त ऐक्यं प्राप्त आत्मा त्वं-पदार्थ-स्वरूपं यस्य स तथा । सुखम् अक्षयम् अनन्तं स्व-स्वरूप-भूतम् अश्नुते व्याप्नोति सुखानुभव-रूप एव सर्वदा भवतीत्य् अर्थः । नित्ये ऽपि वस्तुन्य् अविद्यानिवृत्त्य्-अभिप्रायेण धात्व्-अर्थ-योग औपचारिकः । तस्माद् आत्मन्य् अक्षय-सुखानुभवार्थी सन् बाह्य-विषय-प्रीतेः क्षणिकाया महा-नरकानुबन्धिन्याः सकाशाद् इन्द्रियाणि निवर्तयेत् तावतैव च ब्रह्मणि स्थितिर् भवतीत्य् अभिप्रायः ॥२१॥
विश्वनाथः : स च बाह्य-स्पर्शेषु विषय-सुखेष्व् असक्तात्मा अनासक्त-मनाः । तत्र हेतुर् आत्मनि जीवात्मनि परमात्मानं विन्दति सति प्राप्ते यत् सुखं तद् अक्षयं सुखम् । स एवाश्नुते प्राप्नोति, न हि निरन्तरम् अमृतास्वादिने मृत्तिका रोचत इति भावः ॥२१॥
बलदेवः : पौर्वौत्तर्येण स्व-परात्मानाव् अनुभवतीत्य् आह बाह्येति । बाह्य-स्पर्शेषु शब्दादि-विषयानुभवेषु असक्तात्मा सन् यदात्मनि स्व-स्वरूपे ऽनुभूयमाने सुखम् तदादौ विन्दति, तद् उत्तरं ब्रह्मणि परमात्मनि योगः समाधिस् तद्-युक्तात्मा सन् यद् अक्षयं महद्-अनुभव-लक्षणं सुखम् तद् अश्नुते लभते ॥२१॥
५।२२
ये हि संस्पर्शजा भोगा दुःख-योनय एव ते ।
आद्य्-अन्त-वन्तः कौन्तेय न तेषु रमते बुधः ॥२२॥
श्रीधरः : ननु प्रिय-विषय-भोगानाम् अपि निवृत्तेः कथं मोक्षः पुरुषार्थः स्यात् । तत्राह ये हीति । संस्पर्शा विषयास् तेभ्यो जाता ये भोगाः सुखानि । ते हि वर्तमान-काले ऽपि स्पर्धासूयादि-व्याप्तत्वाद् दुःखस्यैव योनयः कारण-भूताः । तथादिमन्तो ऽन्तवन्तश् च । अतो विवेकी तेषु न रमते ॥२२॥
मधुसूदनः : ननु बाह्य-विषय-प्रीति-निवृत्ताव् आत्मन्य् अक्षय-सुखानुभवस् तस्मिंश् च सति तत्-प्रसादाद् एव बाह्य-विषय-प्रीति-निवृत्तिर् इतीतरेतराश्रय-वशान् नैकम् अपि सिध्येद् इत्य् आशङ्क्य विषय-दोष-दर्शनाभ्यासेनैव तत्-प्रीति-निवृत्तिर् भवतीति परिहारम् आह ये हीति । हि यस्माद् ये संस्पर्शजा विषयेन्द्रिय-सम्बन्ध-जा भोगाः क्षुद्र-सुख-लवानुभवा इह वा परत्र वा राग-द्वेषादि-व्याप्तत्वेन दुःख-योनय एव ते । ते सर्वे ऽपि ब्रह्म-लोक-पर्यन्तं दुःख-हेतव एव । तद् उक्तं विष्णु-पुराणे -
यावतः कुरुते जन्तुः सम्बन्धान् मनसः प्रियान् ।
तावन्तो ऽस्य निस्वन्यन्ते हृदये शोक-शङ्कवः ॥ इति ।
एतादृशा अॡ न स्थिराः किन्तु आद्य्-अन्त-वन्तः । आदिर् विषयेन्द्रिय-संयोगो ऽन्तश् च तद्-वियोग एवं तौ विद्येते येषां ते पूर्वापरयोर् असत्त्वान् मध्ये स्वप्नवद् आविर्भूताः क्षणिका मिथ्या-भूताः । तद् उक्तं गौडपादाचार्यैः - आदाव् अन्ते च यत् त्व् अस्ति वर्तमाने ऽपि तत् तथा इति ।
यस्माद् एवं तस्मात् तेषु बुधो विवेकी न रमते प्रतिकूल-वेदनीयत्वाच् च प्रीतिम् अनुभवति । तद् उक्तं भगवता पतञ्जलिना परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिनः [योग्स् २।१५] इति । सर्वम् अपि विषय-सुखं दृष्टम् आनुश्रविकं च दुःखम् एव प्रतिकूल-वेदनीयत्वात् । विवेकिनः परिज्ञात-क्लेशादि-स्वरूपस्य न त्व् अविवेकिनः । अक्षि-पात्र-कल्पो हि विद्वान् अत्यल्प-दुःख-लेशेनाप्य् उद्विजते यथोर्ण-तन्तुर् अतिसुकुमारो ऽप्य् अक्षि-पात्रे न्यस्तः स्पर्शेन दुःखयति नेतरेष्व् अङ्गेषु तद्वद् विवेकिन एव मधु-विष-सम्पृक्तान्न-भोजनवत् सर्वम् अपि भोग-साधनं काल-त्रये ऽपि क्लेशानुबिद्धत्वाद् दुःखं न मूढस्य बहुविध-दुःख-सहिष्णोर् इत्य् अर्थः । तत्र परिणाम-ताप-संस्कार-दुःखैर् इति भूत-वर्तमान-भविष्य्त्-काले
ऽपि दुःखानुबिद्धत्वाद् औपाधिकं दुःखत्वं विषय-सुखस्योक्तम्, गुण-वृत्ति-विरोधाच् चेत्य् अनेन स्वरूपतो ऽपि दुःखत्वम् । तत्र परिणामश् च तापश् च संस्कारश् च त एव दुःखानि तैर् इत्य् अर्थः । इत्थं-भूत-लक्षणे तृतीया । तथा हि - रागानुबिद्ध एव सर्वो ऽपि सुखानुभवः । न हि तत्र न रज्यति तेन सुखी चेति सम्भवति । राग एव च पूर्वम् उद्भूतः सन् विषय-प्राप्त्या सुख-रूपेण परिणमते । तस्य च प्रतिक्षणं वर्धमानत्वेन स्व-विषयाप्राप्ति-निबन्धन-दुःखस्यापरिहार्यत्वाद् दुःख-रूपतैव । या हि भोगेष्व् इन्द्रियाणाम् उपशान्तिः परितृप्तत्वात् तत् सुखम् । या लौल्याद् अनुपशान्तिस् तद् दुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यम् । यतो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणां । स्मृतिश् च -
न जातु कामः कामानाम् उपभोगेन शाम्यति ।
हविषा कृष्ण-वर्त्मैव भूय एवाभिवर्धते ॥ इति ।
तस्माद् दुःखात्मक-राग-परिणामत्वाद् विषय-सुखम् अपि दुःखम् एव कार्य-कारणयोर् अभेदाद् इति परिणाम-दुःखत्वम् ।
तथा सुखानुभव-काले तत्-प्रतिकूलानि दुःख-साधनानि द्वेष्टि । नानुपहत्य भूतान्य् उपभोगः सम्भवतीति भूतानि च हिनस्ति । द्वेषश् च सर्वाणि दुःख-साधनानि मे मा भूवन्न् इति सङ्कल्प-विशेषः । न च तानि सर्वाणि कश्चिद् अपि परिहर्तुं शक्नोति । अतः सुखानुभव-काले ऽपि तत्-परिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात् ताप-दुःखं दुष्परिहारम् एव । तापो हि द्वेषः । एवं दुःख-साधनानि परिहर्तुम् अशक्तो मुह्यति चेति मोह-दुःखतापि व्याख्येया । तथा चोक्तं योग-भाष्य-कारैः - सर्वस्य द्वेषानुबिद्धश् चेतनाचेतन-साधनाधीनस् तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुख-साधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते । ततः परम् अनुगृणात्य् उपहन्ति चेति परानुरह-पीडाभ्यां धर्माधर्माव्
उपचिनोति । न कर्माशयो लोभान् मोहाच् च भवति इत्य् एषा ताप-दुःखतोच्यते । तथा वर्तमानः सुखानुभवः स्व-विनाश-काले संस्कारम् आधत्ते । स च सुख-स्मरणम्, तच् च रागम्, स च मनः-काय-वचन-चेष्टाम्, सा च पुण्यापुण्य-कर्माशयौ, तौ च जन्मादीति संस्कार-दुःखता । एवं ताप-मोहयोर् अपि संस्कारौ व्याख्येयौ ।
एवं काल-त्रये ऽपि दुःखानुवेधाद् विषय-सुखं दुःखम् एवेत्य् उक्त्वा स्वरूपतो ऽपि दुःखताम् आह गुण-वृत्ति-विरोधाच् च । गुणाः सत्त्व-रजस्-तमांसि सुख-दुःख-मोहात्मकाः परस्पर-विरुद्ध-स्वभावा अपि तैल-वर्त्य्-अग्नय इव दीपं पुरुष-भोगोपयुक्तत्वेन त्र्य्-आत्मकम् एकं कार्यम् आरभन्ते तत्रैकस्य प्राधान्ये द्वयोर् गुण-भावात् प्रधान-मात्र-व्यपदेशेन सात्त्विकं राजसं तामसम् इति त्रिगुणम् अपि कार्यम् एकेन गुणेन व्यपदिश्यते । तत्र सुखोपभोग-रूपो ऽपि प्रत्यय उद्भूत-सत्त्व-कार्यत्वे ऽप्य् अनुद्भूत-रजस्-तमः-कार्यत्वात् त्रिगुणात्मक एव । तथा च सुखात्मकत्ववद् दुःखात्मकत्वं विषादात्मकत्वं च तस्य ध्रुवम् इति दुःखम् एव सर्वं विवेकिनः । न चैतादृशो ऽपि प्रत्ययः स्थिरः । यस्माच् चलं च गुण-वृत्तम् इति क्षिप्र-परिणामि चित्तम् उक्तम् ।
नन्व् एकः प्रत्ययः कथं परस्पर-विरुद्ध-सुख-दुःख-मोहत्वान्य् एकदा प्रतिपद्यत इति चेत्, न । उद्भूतानुद्भूतयोर् विरोधाभावात् । सम-वृत्तिकानाम् एव हि गुणानां युगपद् विरोधो न विषम-वृत्तिकानाम् । यथा धर्म-ज्ञान-वैराग्यैश्वर्याणि लब्ध-वृत्तिकानि लब्ध-वृत्तिकैर् एवाधर्माज्ञानावैराग्यानैश्वर्यैः सह विरुध्यन्ते न तु स्वरूप-सद्भिः । प्रधानस्य प्रधानेन सह विरोधो न तु दुर्बलेनेति हि न्यायः । एवं सत्त्व-रजस्-तमांस्य् अपि परस्परं प्राधान्य-मात्रं युगपन् न सहन्ते न तु सद्-भावम् अपि ।
एतेन परिणाम-ताप-संस्कार-दुःखेष्व् अपि राग-द्वेष-मोहानां युगपत् सद्-भावो व्याख्यातः प्रसुप्त-तनु-विच्छिन्नोदार-रूपेण क्लेशानां चतुर्-अवस्थत्वात् । तथा हि - अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च-क्लेशाः । अविद्या क्षेत्रम् उत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणाम् । अनित्याशुचि-दुःखानात्मसु नित्य-शुचि-सुखात्म-ख्यातिर् अविद्या । दृग्-दर्शन-शक्त्योर् एकात्मतैवास्मिता । सुखनुशयी रागः । दुःखानुशयी द्वेषः । स्वरस-वाही विदुषो ऽपि तथारूढो ऽभिनिवेशः । ते प्रतिप्रसव-हेयाः सूक्ष्माः । ध्यान-हेयास् तद्-वृत्तयः । क्लेश-मूलः कर्माशयो दृष्टादृष्ट-जन्म-वेदनीयः । सति मूले तद्-विपाको जात्यायुर् भोगाः [योग्स् २।३-१३] इति पातञ्जलानि सूत्राणि । तत्रातस्मिंस् तद्-बुद्धिर् विपर्ययो मिथ्या-ज्ञानम् अविद्येति पर्यायाः
। तस्या विशेषः संसार-निदानम् । तत्रानित्ये नित्य-बुद्धिर् यथा - ध्रुवा पृथिवी ध्रुवा स-चन्द्र-तारका द्यौर् अमृता दिवौकस इति । अशुचौ परम-बीभत्से काये शुचि-बुद्धिर् यथा नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्व्-अमृतावयव-निर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते नीलोत्पल-पत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीव-लोकम् आश्वासयतीवेति कस्य केन सम्बन्धः ।
स्थानाद् बीजाद् उपष्टम्भान्
निष्यन्दान् निधनाद् अपि ।
कायम् आधेय-शौचत्वात्
पण्डिता ह्य् अशुचिं विदुः ॥ इति च वैयासकि-श्लोकः ।
एतेनापुण्ये पुण्य-प्रत्ययो ऽनर्थे चार्थ-प्रत्ययो व्याख्यातः । दुःखे सुख-ख्यातिर् उदाहृता परिणाम-ताप-संस्कार-दुःखैर् गुण-वृत्ति-विरोधाच् च दुःखम् एव सर्वं विवेकिन इति । अनात्मन्य् आत्म-ख्यातिर् यथा शरीरे मनुष्यो ऽहम् इत्य् आदिः । इयं चाविद्या सर्व-क्लेश-मूल-भूता तम इत्य् उच्यते । बुद्धि-पुरुषयोर् अभेदाभिमानो ऽस्मिता मोहः । साधन-रहितस्यापि सर्वं सुख-जातीयं मे भूयाद् इति विपर्यय-विशेषो रागः । स एव महा-मोहः । दुःख-साधने विद्यमाने ऽपि किम् अपि दुःखम् मे मा भूद् इति विपर्यय-विशेषो द्वेषः । स तामिस्रः । आयुर्-अभावे ऽप्य् एतैः शरीरेन्द्रियादिभिर् अनित्यैर् अपि वियोगो मे मा भूद् इत्य् आविद्वद्-अङ्गना-बालं स्वाभाविकः सर्व-प्राणि-साधारणो मरण-त्रास-रूपो विपर्यय-विशेषो ऽभिनिवेशः । सो ऽन्ध-तामिस्रः । तद्
उक्तं पुराणे-
तमो मोहो महा-मोहस् तामिस्रो ह्य् अन्ध-सञ्ज्ञितः ।
अविद्या पञ्च-पर्वैषा प्रादुर्भूता महात्मनः ॥ इति ।
एते च क्लेशाश् चतुर् अवस्था भवन्ति । तत्रासतो ऽनुत्पत्तेर् अनभिव्यक्त-रूपेणावस्थानं सुप्तावस्था । अभिव्यक्तस्यापि सह-कार्य-लाभात् कार्याजनकत्वं तन्व्-अवस्था । अभिव्यक्तस्य जनित-कार्यस्यापि केनचिद् बलवताभिभवो विच्छेदावस्था । अभिव्यक्तस्य प्राप्त-सहकारि-सम्पत्तेर् अप्रतिबन्धेन स्व-कार्य-करत्वम् उदारावस्था । एतादृग् अवस्था-चतुष्टय-विशिष्टानाम् अस्मितादीनां चतुर्णां विपर्यय-रूपाणां क्लेशानाम् अविद्यैव सामान्य-रूपा क्षेत्रं प्रसव-भूमिः । सर्वेषाम् अपि विपर्यय-रूपत्वस्य दर्शितत्वात् । तेनाविद्या-निवृत्त्यैव क्लेशानां निवृत्तिर् इत्य् अर्थः । ते च क्लेशाः प्रसुप्ता यथा प्रकृति-लीनानाम्, तनवः प्रतिपक्ष-भावनया तनूकृता यथा योगिनाम् । त उभये ऽपि सूक्ष्माः प्रतिप्रसवेन मनो-निरोधेनैव निर्बीज-समाधिना हेयाः । ये तु सूक्ष्म-वृत्तयस्
तत्-कार्य-भूताः स्थूला विच्छिन्ना उदाहाराश् च विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः प्रादुर्भवन्तीति विच्छिन्नाः । यथा राग-काले क्रोधो विद्यमानो ऽपि न प्रादुर्भूत इति विच्छिन्न उच्यते । एवम् एकस्यां स्त्रियां चैत्रो रक्त इति नान्यासु विरक्तः किन्त्व् एकस्यां रागो लब्ध-वृत्तिर् अन्यासु च भविष्यद्-वृत्तिर् इति स तदा विच्छिन्न उच्यते, ये यदा विषयेषु लब्ध-वृत्तयस् ते तदा सर्वात्मना प्रादुर्भूता उदारा उच्यन्ते, त उभये ऽप्य् अतिस्थूलत्वाच् छुद्ध-सत्त्व-भवेन भगवद्-ध्यानेन हेया न मनो-निओधम् अपेक्षन्ते । निरोध-हेयास् तु सूक्ष्मा एव । तथा च परिणाम-ताप-संस्कार-दुःखेषु प्रसुप्त-तनु-विच्छिन्न-रूपेण सर्वे क्लेशाः सर्वदा सन्ति । उदारता तु कदाचित् कस्यचिद् इति विशेषः । एते च बाधना-लक्षणं दुःखम् उपजनयन्तः क्लेश-शब्द-वाच्या भवन्ति । यतः कर्माशयो
धर्माधर्माख्यः क्लेश-मूलक एव । सति च मूल-भूते क्लेशे तस्य कर्माशयस्य विपाकः फलं जन्मायुर् भोगश् चेति । स च कर्माशय इह परत्र च स्व-विपाकारम्भकत्वेन दृष्टादृष्ट-जन्म-वेदनीयः । एवं क्लेश-सन्ततिर् घटी-यन्त्रवद् अनिशम् आवर्तते । अतः समीचीनम् उक्तं ये हि संस्पर्शजा भोगा दुःख-योनय एव ते आद्यन्तवन्त इति । दुःख-योनित्वं परिणामादिभिर् गुण-वृत्ति-विरोधाच् च आद्यन्तवत्त्वं गुण-वृत्तस्य चलत्वाद् इति योग-मते व्याख्या ।
औपनिषदानां तु अनादि भाव-रूपम् अज्ञानम् अविद्या । अहङ्कार-धर्म्य्-अध्यासो ऽस्मिता । राग-द्वेषाभिनिवेशास् तद्-वृत्ति-विशेषा इत्य् अविद्या-मूलत्वात् सर्वे ऽप्य् अविद्यात्मकत्वेन मिथ्या-भूता रज्जु-भुजङ्गाध्यासवन् मिथ्यात्वे ऽपि दुःख-योनयः स्वप्नादिवद् दृष्टि-सृष्टि-मात्रत्वेनाद्यन्तवन्तश् चेति बुधो ऽधिष्ठान-साक्षात्कारेण निवृत्त-भ्रमस् तेषु न रमते, मृग-तृष्णिका-स्वरूप-ज्ञानवान् इव तत्रोदकार्थी न प्रवर्तते । न संसारे सुखस्य गन्ध-मात्रम् अप्य् अस्तीति बुद्ध्वा ततः सर्वाणीन्द्रियाणि निवर्तयेद् इत्य् अर्थः ॥२२॥
विश्वनाथः : विवेकवान् एव वस्तुतो विषय-सुखेनैव सज्जतीत्य् आह ये हीति ॥२२॥
बलदेवः : अदृष्टाकृष्टेषु विषय-भोगेष्व् अनित्यत्व-विनिश्चयान् न सज्जतीत्य् आह ये हीति । संस्पर्शजा विषय-जन्या भोगाः सुखानि । स्फुटम् अन्यत् ॥२२॥
५।२३
शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् ।
काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥२३॥
श्रीधरः : यस्मान् मोक्ष एव परमः पुरुषार्थः । तस्य च काम-क्रोध-वेगो ऽतिप्रतिपक्षः । अतस् तत्-सहन-समर्थ एव मोक्ष-भाग् इत्य् आह शक्नोतीति । कामात् कोर्धाच् चोद्भवति यो वेगो मनो-नेत्रादि-क्षोभादि-लक्षणः । तम् इहैव तद्-उत्तर-समय एव यो नरः सोढुं प्रतिरोद्धुं शक्नोति, तद् अपि न क्षण-मात्रम् । किन्तु शरीर-विमोक्षणात् प्राक्, यावद्-देह-पातम् इत्य् अर्थः । य एवम्भूतः स एव युक्तः समाहितः सुखी च भवति । नान्यः । यद् वा मरणाद् ऊर्ध्वं विलपन्तीभिर् युवतीभिर् आलिङ्ग्यमानो ऽपि पुत्रादिभिर् दह्यमानो ऽपि यथा प्राण-शून्यः काम-क्रोध-वेगं सहते तथा मरणात् प्राग् अपि जीवन्न् एव यः सहते स एव युक्तः सुखी चेत्य् अर्थः । तद् उक्तं वशिष्ठेन -
प्राणे गते यथा देहः सुखं दुःखं न विन्दति ।
तथा चेत् प्राण-युक्तो ऽपि स कैवल्याश्रयो भवेत् ॥ इति ॥२३॥
मधुसूदनः : सर्वानर्थ-प्राप्ति-हेतुर् दुर्निवारो ऽयं श्रेयो-मार्ग-प्रतिपक्षः कष्टतमो दोषो महता यत्नेन मुमुक्षुणा निवारणीय इति यत्नाधिक्य-विधानाय पुनर् आह शक्नोतीति । आत्मनो ऽनुकूलेषु सुख-हेतुषु दृश्यमानेषु स्मर्यमाणेषु वा तद्-गुणानुसन्धानाभ्यासेन यो रत्य्-आत्मको गर्धो ऽभिलाषस् तृष्णा लोभः स कामः । स्त्री-पुंसयोः परस्पर-व्यतिकराभिलाषे त्व् अत्यन्त-निरूढः काम-शब्दः । एतद्-अभिलाषेण कामः क्रोधस् तथा लोभ इत्य् अत्र धन-तृष्णा लोभः स्त्री-व्यतिकर-तृष्णा काम इति काम-लोभौ पृथग् उक्तौ । इह तु तृष्णा-सामान्याभिप्रायेण काम-शब्दः प्रयुक्त इति लोभः पृथङ् नोक्तः । एवम् आत्मनः प्रतिकूलेषु दुःख-हेतुषु दृश्यमानेषु श्रूयमाणेषु वा तद्-दोषानुसन्धानाभ्यासेन
यःप्रज्वलनात्मको द्वेषो मन्युः स क्रोधः । तयोर् उत्कटावस्था लोक-वेद-विरोध-प्रतिसन्धान-प्रतिबन्धकतया लोक-वेद-विरुद्ध-प्रवृत्त्य्-उन्मुखत्व-रूपा नदी-वेग-साम्येन वेग इत्य् उच्यते । यथा हि नद्या वेगो वर्षास्व् अतिप्रबलतया लोक-वेद-विरोध-प्रतिसन्धानेनानिच्छन्तम् अपि गर्ते पातयित्वा मज्जयति चाधो नयति च, तथा काम-क्रोधयोर् वेगो विषयाभिध्यानाभ्यासेन वर्षा-काल-स्थानीयेनातिप्रबलो लोक-वेद-विरोध-प्रतिसन्धानेनानिच्छन्तम् अपि विषय-गर्ते पातयित्वा संसार-समुद्रे मज्जयति चाधो महा-नरकान् नयति चेति वेग-पद-प्रयोगेण सूचितम् । एतच् चाथ केन प्रयुक्तो ऽयम् इत्य् अत्र निवृत्तम् ।
तम् एतादृशं काम-क्रोधोद्भवं वेगम् अन्तःकरण-प्रक्षोभ-रूपं स्तम्भ-स्वेदाद्य्-अनेक-बाह्य-विकार-लिङ्गम् आ-शरीर-विमोक्षणाच् छरीर-विमोक्षण-पर्यन्तम् अनेक-निमित्त-वशात् सर्वदा सम्भाव्यमानत्वेनाविस्रम्भणीयम् अन्तर् उत्पन्न-दोष-दर्शनाभ्यासजेन वशीकार-सञ्ज्ञक-वैराग्येण सोढुं तद्-अनुरूप-कार्यासम्पादनेनानर्थकं कर्तुं शक्नोति समर्थो भवति, स एव युक्तो योगी, स एव सुखी, स एव नरः पुमान् पुरुषार्थ-सम्पादनात् । तद्-इतरस् त्व् आहार-निद्रा-भय-मैथुनादि-पशु-धर्म-मात्र-रतत्वेन मनुष्याकारः पशुर् एवेति भावः ।
आ-शरीर-विमोक्षणाद् इत्य् अत्रान्यद् व्याख्यानम् - यथा मरणाद् ऊर्ध्वं विलपन्तीभिर् युवतीभिर् आलिङ्ग्यमानो ऽपि पुत्रादिभिर् दह्यमानो ऽपि प्राण-शून्यत्वात् काम-क्रोध-वेगं सहते, तथा मरणात् प्राग् अपि जीवन्न् एव यः सहते स युक्त इत्य् आदि । अत्र यदि मरणवज् जीवने ऽपि काम-क्रोधानुत्पत्ति-मात्रं ब्रूयात् तदैतद् युज्यते । यथोक्तं वशिष्ठेन -
प्राणे गते यथा देहः सुखं दुःखं न विन्दति ।
तथा चेत् प्राण-युक्तो ऽपि स कैवल्याश्रमे वसेत् ॥ इति ।
इह तूपन्नयोः काम-क्रोधयोर् वेग-सहने प्रस्तुते तयोर् अनुत्पत्ति-मात्रं न दार्ष्टान्त इति किम् अतिनिर्बन्धेन ॥२३॥
विश्वनाथः : संसार-सिन्धौ पतितो ऽप्य् एष एव योगी एष एव सुखीत्य् आह शक्नोतीति ॥२३॥
बलदेवः : शक्नोतीहैव यः सोढुं प्राक् शरीर-विमोक्षणात् । काम-क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥२३॥
५।२४
यो ऽन्तः-सुखो ऽन्तरारामस् तथान्तर्-ज्योतिर् एव यः ।
स योगी ब्रह्म-निर्वाणं ब्रह्म-भूतो ऽधिगच्छति ॥२४॥
श्रीधर : न केवलं काम-क्रोध-वेग-संहरण-मात्रेण मोक्षं प्राप्नोति । अपि तु यो ऽन्तः-सुख इति । अन्तरात्मन्य् एव सुखं यस्य । न विषयेषु । अन्तर् एवाराम आक्रीडा यस्य न बहिः । अन्तर् एव ज्योतिर् दृष्टिर् यस्य । न गीत-नृत्यादिषु । स एवं ब्रह्मणि भूतः स्थितः सन् ब्रह्मणि निर्वाणं लयम् अधिगच्छति प्राप्नोति ॥२४॥
मधुसूदनः : काम-क्रोध-वेग-सहन-मात्रेणैव मुच्यन्ते इति न, किन्तु यो ऽन्तर् इति ।
अन्तर्-बाह्य-विषय-निरपेक्षम् एव स्वरूप-भूतं सुखं यस्य सो ऽन्तः-सुखो बाह्य-विषय-जनित-सुख-शून्य इत्य् अर्थः । कुतो बाह्य-सुखाभावस् तत्राह अन्तर् आत्मन्य् एव न तु स्त्र्य्-आदि-विषये बाह्य-सुख-साधन आराम आरमणं क्रीडा यस्य सो ऽन्तर्-आरामस् त्यक्त-सर्व-परिग्रहत्वेन बाह्य-सुख-साधन-शून्य इत्य् अर्थः ।
ननु त्यक्त-सर्व-परिग्रहस्यापि यतेर् यदृच्छोपनतैः कोकिलादि-मधुर-शब्द-श्रवण-मन्द-पवन-स्पर्शन-चन्द्रोदय-मयूर-नृत्यादि-दर्शनाति-मधुर-शीतल-गङ्गोदक-पान-केतकी-कुसुम-सौरभाद्य्-अवघ्राणादिभिर् ग्राम्यैः सुखोत्पत्ति-सम्भवात् कथं बाह्य-सुख-तत्-साधन-शून्यत्वम् इति तत्राह तथान्तर्-ज्योतिर् एव यः । यथान्तर् एव सुखं न बाह्यैर् विषयैस् तथान्तर् एवात्मनि ज्योतिर् विज्ञानं न बाह्यैर् इन्द्रियैर् यस्य सो ऽन्तर्-ज्योतिः श्रोत्रादि-जन्य-शब्दादि-विषय-विज्ञान-रहितः । एव-कारो विशेषण-त्रये ऽपि सम्बध्यते । समाधि-काले शब्दादि-प्रतिभासाभावाद् व्युत्थान-काले तत्-प्रतिभासे ऽपि मिथ्यात्व-निश्चयान् न बाह्य-विषयैस् तस्य सुखोत्पत्ति-सम्भव इत्य् अर्थः ।
य एवं यथोक्त-विशेषण-सम्पन्नः स योगी समाहितो ब्रह्म-निर्वाणं ब्रह्म परमानन्द-रूपं कल्पित-द्वैतोपशम-रूपत्वेन निर्वाणं तद् एव, कल्पित-भावस्याधिष्ठानात्मकत्वात् । अविद्यावरण-निवृत्त्याधिगच्छति नित्य-प्राप्तम् एव प्राप्नोति । यतः सर्वदैव ब्रह्म-भूतो नान्यः । ब्रह्मैव सन् ब्रह्माप्य् एति इति श्रुतेः । अवस्थितेर् इति काश-कृत्स्नः इति न्यायाच् च ॥२४॥
विश्वनाथ - यस् तु संसारातीतस् तस्य तु ब्रह्मानुभव एव सुखम् इत्य् आह य इति । अन्तरात्मन्य् एव सुखं यस्य सः । यतो ऽन्तरात्मन्य् एव रमते, अतो ऽन्तरात्मन्य् एव ज्योतिर् दृष्टिर् यस्य सः ॥२४॥
बलदेव - यत् प्रीत्या तं सोढुं शक्तस् तद् आह यो ऽन्तर् इति । अन्तर्वर्तिनानुभूतेनात्मना सुखं यस्य सः, तेनैवारामः क्रीडा यस्य सः । तस्मिन्न् एव ज्योतिर् दृष्टिर् यस्य सः । ईदृशो योगी निष्काम-कर्मी ब्रह्म-भूतो लब्ध-शुद्ध-जैव-स्वरूपो ब्रह्माधिगच्छति परमात्मानं लभते । निर्वाणं मोक्ष-रूपं तेनैव तल्-लाभात् ॥२४॥
५।२५
लभन्ते ब्रह्म-निर्वाणम् ऋषयः क्षीण-कल्मषाः ।
छिन्न-द्वैधा यतात्मानः सर्व-भूत-हिते रताः ॥२५॥
श्रीधरः : किं च लभन्त इति । ऋषयः सम्यग्-दर्शिनः । क्षीणं कल्मषं येषाम् । सर्वेषां भूतानां हिते रताः कृपलवः । ते ब्रह्म-निर्वाणं मोक्षं लभन्ते ॥२५॥
मधुसूदनः : मुक्ति-हेतोर् ज्ञानस्य साधनान्तराणि विवृण्वन्न् आह लभन्त इति । प्रथमं यज्ञादिभिः क्षीण-कल्मषाः । ततो ऽन्तःकरण-शुद्धया ऋषयः सूक्ष्म-वस्तु-विवेचन-समर्थाः सन्न्यासिनः । ततः श्रवणादि-परिपाकेण च्छिन्न-द्वैधा निवृत्त-सर्व-संशयाः । ततो निदिध्यासन-परिपाकेण संयतात्मानः परमात्मन्य् एवैकाग्र-चित्ताः । एतादृशाश् च द्वैतादर्शित्वेन सर्व-भूत-हिते रता हिंसा-शून्या ब्रह्म-विदो ब्रह्म-निर्वाणं लभन्ते ।
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः ॥ इति श्रुतेः ।
बहु-वचनम्, तद् यो देवानां इत्य् आदि-श्रुत्य्-उक्तानियम-प्रदर्शनार्थम् ॥२५॥
विश्वनाथः : एवं बहव एव साधन-सिद्धा भवन्तीत्य् आह लभन्त इति ॥२५॥
बलदेवः : एवं साधन-सिद्धा बहव भवन्तीत्य् आह लभन्त इति । ऋषयस् तत्त्व-द्रष्टारः । छिन्न-द्वैधा विनष्ट्-संशयाः । स्फुटम् अन्यत् ॥२५॥
५।२६
काम-क्रोध-वियुक्तानां यतीनां यत-चेतसाम् ।
अभितो ब्रह्म-निर्वाणं वर्तते विदितात्मनाम् ॥२६॥
श्रीधरः : किं च कामेत्य् आदि । काम-क्रोधाभ्यां वियुक्तानाम् । यतीनां सन्न्यासिनाम् । संयत-चित्तानां ज्ञातात्म-तत्त्वानाम् अभित उभयतो जीवतां मृतानां च । न देहान्त एव तेषां ब्रह्मणि लयः, अपि तु जीवताम् अपि वर्तत इत्य् अर्थः ॥२६॥
मधुसूदनः : पूर्वं काम-क्रोधयोर् उत्पन्नयोर् अपि वेगः सोढव्य इत्य् उक्तम् अधुना तु तयोर् उत्पत्ति-प्रतिबन्ध एव कर्तव्य इत्य् आह कामेति । काम-क्रोधयोर् वियोगस् तद्-अनुत्पत्तिर् एव तद्-युक्तानां काम-क्रोध-वियुक्तानाम् । अतएव यत-चेतसां संयत-चित्तानां यतीनां यत्न-शीलानां सन्न्यासिनां विदितात्मनां साक्षात्-कृत-परमात्मनाम् अभित उभयतो जीवतां मृतानां च तेषां ब्रह्म-निर्वाणं मोक्षो वर्तते नित्यत्वात्, न तु भविष्यति साध्यत्वाभावात् ॥२६॥
विश्वनाथः : ज्ञातस् त्वं-पदार्थ-नाम-प्राप्त-परमात्म-ज्ञानानां कियता कालेन ब्रह्म-निर्वाण-सुखं स्याद् इत्य् अपेक्षायाम् आह कामेति । यत-चेतसाम् उपरत-मनसां क्षीण-लिङ्ग-शरीराणाम् इति यावत्, अभितः सर्वतो-भावेनैव वर्तत एवेति ब्रह्म-निर्वाणे तस्य नैवातिविलम्बम् इति भावः ॥२६॥
बलदेवः : ईदृशान् परमात्माप्य् अनुवर्तत इत्य् आह कामेति । यतीनां प्रयत्नवतां तान् अभितो ब्रह्म वर्तत इत्य् अर्थः । यद् उक्तं -
दर्शन-ध्यान-संस्पर्शैर् मत्स्य-कूर्म-विहङ्गमाः ।
स्वान्य् अपत्यानि पुष्णन्ति तथाहम् अपि पद्मज ॥ इति ॥२६॥
५।२७-२८
स्पर्शान् कृत्वा बहिर् बाह्यांश् चक्षुश् चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तर-चारिणौ ॥२७॥
यतेन्द्रिय-मनो-बुद्धिर् मुनिर् मोक्ष-परायणः ।
विगतेच्छा-भय-क्रोधो यः सदा मुक्त एव सः ॥२८॥
श्रीधरः : स योगी ब्रह्म-निर्वाणम् इत्य् आदिषु योगी मोक्षम् अवाप्नोतीत्य् उक्तम् । तम् एव योगं सङ्क्षेपेणाह स्पर्शान् इति द्वाभ्याम् । बाह्या एव स्पर्शा रूप-रसादयो विषयाश् चिन्तिताः सन्तो ऽन्तः प्रविशन्ति । तांस् तच्-चिन्ता-त्यागेन बहिर् एव कृत्वा । चक्षुर् भ्रुवोर् अन्तरे भ्रू-मध्य एव कृत्वात्यन्तं नेत्रयोर् निमीलने हि निद्रया मनो लीयते । उन्मीलने च बहिः प्रसरति । तद्-उभय-दोष-परिहारार्थम् अर्ध-निमीलनेन भ्रू-मध्ये दृष्टिं निधायेत्य् अर्थः । उच्छ्वास-निःश्वास-रूपेण नासिकयोर् अभ्यन्तरे चरन्तौ प्राणापानाव् ऊर्ध्वाधो-गति-रोधेन समौ कृत्वा, कुम्भकं कृत्वेत्य् अर्थः । यद् वा प्राणो ऽयं यथा न भैर् निर्याति यथा चापानो ऽन्तर् न प्रविशति, किन्तु नासा-मध्य एव द्वाव् अपि यथा चरतस् तथा मन्दाभ्याम् उच्छ्वास-निःश्वासाभ्यां समौ
कृत्वेति ॥२७॥
यतेति । अनेनोपायेन यताः संयता इन्द्रिय-मनो-बुद्धयो यस्य । मोक्ष एव परम् अयनं प्राप्यं यस्य । अतएव विगता इच्छा-भय-क्रोधा यस्य । एवम्भूतो यो मुनिः स सदा जीवन्न् अपि मुक्त एवेत्य् अर्थः ॥२७-२८॥
मधुसूदनः : पूर्वम् ईश्वरार्पित-सर्व-भावस्य कर्म-योगेनान्तः-करण-शुद्धिस् ततः सर्व-कर्म-सन्न्यासस् ततः श्रवणादि-परस्य तत्त्व-ज्ञानं मोक्ष-साधनम् उदेतीत्य् उक्तम् । अधुना स योगी ब्रह्म-निर्वाणम् इत्य् अत्र सूचितं ध्यान-योगं सम्यग्-दर्शन-स्यान्तरङ्ग-साधनं विस्तरेण वक्तुं सूत्र-स्थानीयांस् त्रीन् श्लोकान् आह भगवान् । एतेषाम् एव वृत्ति-स्थानीयः कृत्स्नः षष्ठो ऽध्यायो भविष्यति । तत्रापि द्वाभ्यां सङ्क्षेपेण योग उच्यते । तृतीयेन तु तत्-फलं परमात्म-ज्ञानम् इति विवेकः ।
स्पर्शान् शब्दादीन् बाह्यान् बहिर् भवान् अपि श्रोत्रादि-द्वारा तत्-तद्-आकारान्तः-करण-वृत्तिभिर् अन्तः-प्रविष्टान् पुनर् बहिर् एव कृत्वा पर-वैराग्य-वशेन तत्-तद्-आकारां वृत्तिम् अनुत्पाद्येत्य् अर्थः । यद्य् एत आन्तरा भवेयुस् तदोपाय-सहस्रेणापि बहिर् न स्युः स्वभाव-भङ्ग-प्रसङ्गात् । बाह्यानां तु राग-वशाद् अन्तः-प्रविष्टानां वैराग्येण बहिर् गमनं सम्भवतीति वदितुं बाह्यान् इति विशेषणम् । तद् अनेन वैराग्यम् उक्त्वाभ्यासम् आह चक्षुश् चैवान्तरे भ्रुवोः कृत्वेत्य् अनुषज्यते । अत्यन्त-निमीलने हि निद्राख्या लयात्मिका वृत्तिर् एका भवेत् । प्रसारेण तु प्रमाण-विपर्यय-विवेक-विकल्प-स्मृतयश् चतस्रो विक्षेपात्मिका वृत्तयो भवेयुः । पञ्चापि तु वृत्तयो निरोद्धव्या इति अर्ध-निमीलनेन भ्रू-मध्ये चक्षुषो निधानम् । तथा प्राणापानौ समौ
तुल्याव् ऊर्ध्वाधो-गति-विच्छेदेन नासाभ्यन्तर-चारिणौ कुम्भकेण कृत्वा, अनेनोपायेन यताः संयता इन्द्रिय-मनो-बुद्धयो यस्य स तथा । मोक्ष-परायणः सर्व-विषय-विरक्तो मुनिर् मनन-शीलो भवेत् । विगतेच्छा-भय-क्रोध इति वीर्त-राग-भय-क्रोध इत्य् अत्र व्याख्यातम् । एतादृशो यः सन्न्यासी सदा भवति मुक्त एव सः । न तु तस्य मोक्षः कर्तव्यो ऽस्ति । अथवा य एतादृशः स सदा जीवन्न् अपि मुक्त एव ॥२७-२८॥
विश्वनाथः : तद् एवम् ईश्वरार्पित-निष्काम-कर्म-योगेनान्तः-करण-शुद्धिः । ततो ज्ञानं त्वं-पदार्थ-विषयकम् । ततस् तत्-पदार्थ-ज्ञानार्थं भक्तिः । तद्-उत्थ-ज्ञानेन गुणातीतेन ब्रह्मानुभव इत्य् उक्तम् । इदानीं निष्काम-कर्म-योगेन शुद्धान्तःकरणस्याष्टाङ्ग-योगं ब्रह्मानुभव-साधनं ज्ञान-योगाद् अप्य् उत्कृष्टत्वेन षष्ठाध्याये वक्तुं तत्-सूत्र-रूपं श्लोक-त्रयम् आह स्पर्शान् इति । बाह्या एव शब्द-स्पर्श-रूप-रस-गन्धाः स्पर्श-शब्द-वाच्याः । मनसि प्रविश्य ये वर्तन्ते तान्, तस्मान् मनसः सकाशाद् बहिष्कृत्य विषयेभ्यो मनः प्रत्याहृत्येत्य् अर्थः । चक्षुषी च भ्रुवोर् अन्तरे मध्ये क्ट्वा नेत्रयोः सम्पूर्ण-निमीलने निद्रया मनो लीयत उन्मीलनेन बहिः प्रसरति । तद्-उभय-दोष-परिहारार्थम् अर्ध-निमीलनेन
भ्रू-मध्ये दृष्टिं निधायोच्छ्वास-निश्वास-रूपेण नासिकयोर् अभ्यन्तरे चरन्तौ प्राणापानाव् ऊर्ध्वाधो-गति-निरोधेन समौ कृत्वा । यता वशीकृता इन्द्रियादयो येन सः ॥२७-२८॥
बलदेवः : अथ कर्मणा निष्कामेण विशुद्ध-मनाः समुदितात्म-ज्ञानस् तद्-दर्शनाय समाधिं कुर्याद् इति साङ्गं योगं सूचयन्न् आह स्पर्शान् इति । स्पर्शा शब्दादयो विषयास् ते बाह्या एव स्मृताः सन्तो मनसि प्रविशन्ति । तांस् तत्-स्मृति-परित्यागेन बहिष्कृत्य विषयेभ्यो मनः प्रत्याहृत्येत्य् अर्थः । भ्रुवोर् अन्तरे मध्ये चक्षुश् च क्ट्वा नेत्रयोः सन्निमीलने निद्रया मनसो लयः । प्रोन्मीलने च बहिस् तस्य प्रसारः स्यात् । तद्-उभय-विनिवृत्तये ऽर्ध-निमीलनेन भ्रू-मध्ये दृष्टिं निधायेत्य् अर्थः । तथा नासाभ्यन्तर-चारिणौ प्राणापानाव् ऊर्ध्वाधो-गति-निरोधेन समौ तुल्यौ कृत्वा कुम्भयित्वेत्य् अर्थः । एतेनोपायेन यता आत्मावलोकनाय स्थापिता इन्द्रियादयो येन सः । मुनिर् आत्म-मनन-शीलः । मोक्ष-परायणो मोक्षैक-प्रयोजनः । अतो विगतेच्छादिः
। ईदृशो यः सर्वदा फल-कालवत् साधन-काले ऽपि मुक्त एव ॥२७-२८॥
५।२९
भोक्तारं यज्ञ-तपसां सर्व-लोक-महेश्वरम् ।
सुहृदं सर्व-भूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥२९॥
श्रीधरः : नन्व् एवम् इन्द्रियादि-संयमन-मात्रेण कथं मुक्तिः स्यात् ? न तन्-मात्रेण, किन्तु ज्ञान-द्वारेणेत्य् आह भोक्तारम् इति । यज्ञानां तपसां चैव मम भक्तैः समर्पितानां यदृच्छया भोक्तारं पालकम् इति वा । सर्वेषां लोकानां महान्तम् ईश्वरम् । सर्व-भूतानां सुहृदं निरपेक्षोपकारिणम् । अन्तर्यामिणं मां ज्ञात्वा मत्-प्रसादेन शान्तिं मोक्षम् ऋच्छति प्राप्नोति ॥२९॥
विकल्प-शङ्कापोहेन येनैवं साङ्ख्य-योगयोः ।
समुच्चयः क्रमेणोक्तः सर्वज्ञं नौमि तं हरिम् ॥
इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
सन्न्यास-योगो नाम पञ्चमो ऽध्यायः
॥५॥
मधुसूदनः : एवं योग-युक्तः किं ज्ञात्वा मुच्यत इति तदाह भोक्तारम् इति । सर्वेषां यज्ञानां तपसां च कर्तृ-रूपेण देवता-रूपेण च भोक्तारं भोग-कर्तारं पालकम् इति वा । भुज पालनाभ्यवहारयोः इति धातुः । सर्वेषां लोकानां महान्तम् ईश्वरं हिरण्यगर्भादीनाम् अपि नियन्तारम् । सर्वेषां प्राणिनां सुहृदं प्रत्युपकार-निरपेक्षतयोपकारिणं सर्वान्त्गर्यामिणं सर्व-भासकं परिपूर्ण-सच्-चिद्-आननदैक-रसं परमार्थ-सत्यं सर्वात्मानं नारायणं मां ज्ञात्वात्मत्वेन साक्षात्कृत्य शान्तिं सर्व-संसारोपरतिं मुक्तिम् ऋच्छति प्राप्नोतीत्य् अर्थः । त्वां पश्यन्न् अपि कथं नाहं मुक्त इत्य् आशङ्क्यानिराकरणाय विशेषणानि । उक्त-रूपेणैव मम ज्ञानं मुक्ति-कारणम् इति भावः ॥२९॥
अनेक-साधनाभ्यास-निष्पन्नं हरिणेरितम् ।
स्व-स्वरूप-परिज्ञानं सर्वेषां मुक्ति-साधनम् ॥५॥
इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् स्व-स्वरूप-परिज्ञानं नाम
पञ्चमो ऽध्यायः ॥५॥
विश्वनाथः : एवम्भूतस्य योगिनो ऽपि ज्ञानिन इव भक्त्य्-उत्थेन परमात्म-ज्ञानेनैव मोक्ष इत्य् आह भोक्तारम् इति । यज्ञानां कर्मि-कृतानां तपसां च ज्ञानि-कृतानां भोक्तारं पालयितारम् इति कर्मिणां ज्ञानिनां चोपास्यम् । सर्व-लोकानां महेश्वरं महा-नियन्तारम् अन्तर्यामिनं योगिनाम् उपास्यम् । सर्व-भूतानां सुहृदं कृपया स्व-भक्त-द्वारा स्व-भक्त्य्-उपदेशेन हित-कारिणम् इति भक्तानाम् उपास्यं मां ज्ञात्वेति सत्त्व-गुण-मय-ज्ञानेन निर्गुणस्य ममानुभवासम्भवात् भक्त्याहम् एकया ग्राह्यः इति मद्-उक्तेः । निर्गुणया भक्त्यैव योगी स्वोपास्यं परमात्मानं माम् अपरोक्षानुभव-गोचरीकृत्य शान्तिं मोक्षम् ऋच्छति प्राप्नोति ॥२९॥
निष्काम-कर्मणा ज्ञानी योगी चात्र विमुच्यते ।
ज्ञात्वात्म-परमात्मानाव् इत्य् अध्यायार्थ ईरितः ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतासु पञ्चमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥५॥
बलदेवः : एवं समाधि-स्थः कृत-स्वात्मावलोकनः परमात्मानम् उपास्यम् उच्यत इत्य् आह भोक्तारम् इति । यज्ञानां तपसां च भोक्तारं पालकम् । सर्वेषां लोकानां विधि-रुद्रादीनाम् अपि महेश्वरम् । तम् ईश्वराणां परमं महेश्वरं [श्वेतु ६।७] इत्य् आदि श्रवणात् । सर्व-भूतानां सुहृदं निरपेक्षोपकारकम् । ईदृशं मां ज्ञात्वा स्वाराध्यतयानुभूय शान्तिं संसार-निवृत्तिम् ऋच्छति लभते । सर्वेश्वरस्य सुहृदश् च समाराधनं खलु सुखावहं सुख-साधनम् इति ॥२९॥
निष्काम-कर्मणा योग-शिरस्केन विमुच्यते ।
स-निष्ठो ज्ञान-गर्भेणेत्य् एष पञ्चम-निर्णयः ॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये पञ्चमो ऽध्यायः
॥५॥
पञ्चमो ऽध्यायः सन्न्यास-योगः