४।१
श्री-भगवान् उवाच
इमं विवस्वते योगं प्रोक्तवान् अहम् अव्ययम् ।
विवस्वान् मनवे प्राह मनुर् इक्ष्वाकवे ऽब्रवीत् ॥१॥
श्रीधरः :
आविर्भाव-तिरोभावाव् आविष्कर्तुं स्वयं हरिः ।
तत्त्वं पद-विवेकार्थं कर्म-योगं प्रशंसति ॥
एवं तावद् अध्याय-द्वयेन कर्म-योगोपायक-ज्ञान-योगो मोक्ष-साधनत्वेनोक्तः । तद् एवं ब्रह्मार्पणादि-गुण-विधानेन तत्त्वं पदार्थ-विवेकादिना च प्रपञ्चिष्यन् प्रथमं तावत् परस्पराप्राप्तत्वेन स्तुवन् भगवान् उवाच इमम् इति त्रिभिः । अव्यय-फलत्वाद् अव्ययम् । इमं योगं पुराहम् विवस्वत आदित्याय कथितवान् । स च स्व-पुत्राय मनवे श्राद्ध-देवाय । स च मनुः स्व-पुत्रायेक्ष्वाकवे ऽब्रवीत् ॥१॥
मधुसूदनः : यद्यपि पूर्वम् उपेयत्वेन ज्ञान-योगस् तद्-उपायत्वेन च कर्म-योग इति द्वौ योगौ कथितौ तथापि एकं साङ्ख्यं च योगं च पश्यति स पश्यति [गीता ५।६] इत्य् अनया दिशा साध्य-साधनयोः फलैक्याद् ऐक्यम् उपचर्य साधन-भूतं कर्म-योगं साध्य-भूतं च ज्ञान-योगम् अनेक-विध-गुण-विधानाय स्तौति वंश-कथनेन भगवान् ।
इमम् अध्याय-द्वयेनोक्तं योगं ज्ञान-निष्ठा-लक्षणं कर्म-निष्ठोपाय-लभ्यं विवस्वते सर्व-क्षत्रिय-वंश-बीज-भूतायादित्याय प्रोक्तवान् प्रकर्षेण सर्व-सन्देहोच्छेदादि-रूपेणोक्तवान् अहं भगवान् वासुदेवः सर्व-जगत्-परिपालकः सर्गादि-काले राज्ञां बलाधानेन तद्-अधीनं सर्वं जगत् पालयितुम् । कथम् अनेन बलाधानम् इति विशेषेणेन दर्शयति – अव्ययम् अव्यय-वेद-मूलत्वाद् अव्यय-फलत्वाच् च न व्येति स्व-फलाद् इत्य् अव्ययम् अव्यभिचारि-फलम् । तथा चैतादृशेन बलाधानं शक्यम् इति भावः ।
स च मम शिष्यो विवस्वान् मनवे वैवस्वताय स्व-पुत्राय प्राह । स च मनुर् इक्ष्वाकवे स्व-पुत्रायादि-राजायाब्रवीत् । यद्यपि प्रति मन्वन्तरं स्वायम्भुवादि-साधारणो ऽयं भागवद्-उप्देशस् तथापि साम्प्रतिक-वैवस्वत-मन्वन्तराभि-प्रायेणादित्यम् आरभ्य सम्प्रदायो गणितः ॥१॥
विश्वनाथः :
तुर्ये स्वाविर्भाव-हेतोर् नित्यत्वं जन्म-कर्मणोः ।
स्वस्योक्तिं ब्रह्म-यज्ञादि-ज्ञानोत्कर्ष-प्रपञ्चम् ॥
अध्याय-द्वयेनोक्तं निष्काम-कर्म-साध्यं ज्ञान-योगं स्तौति इमम् इति ॥१॥
बलदेवः :
तुर्ये स्वाभिव्यक्ति-हेतुं स्व-लीला-
नित्यत्वं सत्-कर्मसु ज्ञान-योगम् ।
ज्ञानस्यापि प्राय् यन्-माहात्म्यम् उच्चैः
प्राख्यद् देवो देवकीनन्दनो ऽसौ ॥
पूर्वाध्यायाभ्याम् उक्तं ज्ञान-योगं कर्म-योगं चैक-फलत्वाद् एकीकृत्य तद्-वंशं कीर्तयन् स्तौति इमम् इति । इमं त्वां सूर्यायाहं प्रोक्तवान् । अव्ययं नित्यं वेदार्तह्त्वान् नवेयेति स्व-फलादित्यव्यभिचारि-फलत्वाच् च । स च मच्-छिष्यो विवस्वान् स्व-पुत्राय मनवे वैवस्वताय प्राह । स च मनुर् इक्ष्वाकवे स्व-पुत्रायाब्रवीत् ॥१॥
४।२
एवं परम्परा-प्राप्तम् इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥२॥
श्रीधरः : एवम् इति । एवं राजानश् च ते ऋषयश् चेति । अन्ये ऽपि राजर्षयो निमि-प्रमुखाः । स्व-पित्रादिभिर् इक्ष्वाकु-प्रमुखैः प्रोत्कम् इमं योगम् विदुर् जानन्ति स्म । अद्यतनानाम् अज्ञाने कारणम् आह हे परन्तप शत्रु-पातन ! स योगः काल-वशाद् इह लोके नष्टो विच्छिन्नः ॥२॥
मधुसूदनः : एवम् आदित्यम् आरभ्य गुरु-शिष्य-परम्परया प्राप्तम् इमं योगं राजानश् च त ऋषयश् चेति राजर्षयः प्रभुत्वे सति सूक्ष्मार्थ-निरीक्षण-क्षमा निमि-प्रमुखाः स्व-पित्रादि-प्रोक्तं विदुः । तस्माद् अनादि-वेद-मूलत्वेनानन्त-फलत्वेनानादि-गुरु-शिष्य-परम्परा-प्राप्तत्वेन च कृत्रिमत्व-शङ्कानास्पदत्वान् महा-प्रभावो ऽयं योग इति श्रद्धातिशयाय स्तूयते ।
स एवं महा-प्रयोजनो ऽपि योगः कालेन महता दीर्घेण धर्म-ह्रास-करेणेहेदानीम् आवयोर् व्यवहार-काले द्वापरान्ते दुर्बलान् अजितेन्द्रियान् अनधिकारिणः प्राप्य काम-क्रोधादिभिर् अभिभूयमानो नष्टो विच्छिन्न-सम्प्रदायो जातः । तं विना पुरुषार्थाप्राप्तेर् अहो दौर्भाग्यं लोकस्येति शोचति भगवान् । हे परन्तप ! परं काम-क्रोधादि-रूपं शत्रु-गणं शौर्येण बलवता विवेकेन तपसा च भानुर् इव तापयतीति परन्तपः शत्रु-तापनो जितेन्द्रिय इत्य् अर्थः । उर्वश्य्-उपेक्षणाद्य्-अद्भुत-कर्म-दर्शनात् । तस्मात् त्वं जितेन्द्रियत्वाद् अत्राधिकारीति सूचयति ॥२॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : एवं विवस्वन्तम् आरभ्य गुरु-शिष्य-परम्परया प्राप्तम् इइमं योगं राजर्षयः स्व-पित्रादिभिर् इक्ष्वाकु-प्रभृतिभिर् उपदिष्टं विदुः । इह लोके नष्टो विच्छिन्न-सम्प्रदायः ॥२॥
४।३
स एवायं मया ते ऽद्य योगः प्रोक्तः पुरातनः ।
भक्तो ऽसि मे सखा चेति रहस्यं ह्य् एतद् उत्तमम् ॥३॥
श्रीधरः : स एवायम् इति । स एवायं योगो ऽद्य विच्छिन्ने सम्प्रदाये सति पुनश् च ते तुभ्यम् उक्तः । यतस् त्वं मम भक्तो ऽसि सखा च । अन्यस्मै मया नोच्यते । हि यस्माद् एतद् उत्तमं रहस्यम् ॥३॥
मधुसूदनः : य एवं पूर्वम् उपदिष्टो ऽप्य् अधिकार्य-भावाद् विच्छिन्न-सम्प्रदायो ऽभूत् । यं विना च पुरुषार्थो न लभ्यते । स एवायं पुरातनो ऽनादि-गुरु-परम्परा-गतो योगो ऽद्य सम्प्रदाय-विच्छेद-काले मयातिस्निग्धेन ते तुभ्यं प्रकर्षेणोक्तः । न त्व् अन्यस्मै कस्मैचित् । कस्मात् ? भक्तो ऽसि मे सखा चेति । इति-शब्दो हेतौ । यस्मात् त्वं मम भक्तः शरणागतत्वे सत्य् अत्यन्त-प्रीतिमान् सखा च समान-वयाः स्निग्ध-सहायो ऽसि सर्वदा भवसि अतस् तुभ्यम् उक्त इत्य् अर्थः अन्यस्मै कुतो नोच्यते तत्राह । हि यस्माद् एतज् ज्ञानम् उत्तमं रहस्यम् अतिगोप्यम् ॥३॥
विश्वनाथः : त्वां प्रत्य् एवास्य प्रोक्तत्वे हेतुः : भक्तो दासः सखा चेति भाव-द्वयम् । अन्यस् तु अर्वाचीनं प्रत्य् एव अवक्तव्यत्वे हेतू रहस्यम् इति ॥३॥
बलदेवः : स एव तदानुपूर्विक-वचन-वाच्यो योगो मया त्वत्-सखेनातिस्निग्धेन ते तुभ्यं मत्-सखायेति स्निग्धाय प्रोक्तस् त्वं मे भक्तः प्रपन्नः सखा चासीति हेतोर् न त्व् अन्यस्मै कस्मैचित् । तत्र हेतुः रहस्यम् इति । हि यस्माद् उत्तमं रहस्यम् इति गोप्यम् एतत् ॥३॥
४।४
अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथम् एतद् विजानीयां त्वम् आदौ प्रोक्तवान् इति ॥४॥
श्रीधरः : भगवतो विवस्वन्तं प्रति योगोपदेशासम्भवं पश्यन्न् अर्जुन उवाच अपरम् इति । अपरम् अर्वाचीनं तव जन्म । परं प्राक् कालीनं विवस्वतो जन्म । तस्मात् तवाधुनातनत्वात् चिरन्तनाय विवस्वते त्वम् आदौ योगं प्रोक्तवान् इति एतत् कथम् अहं जानीयां ज्ञातुं शक्नुयाम् ॥४॥
मधुसूदनः : या भगवति वासुदेवे मनुष्यत्वेनासर्वज्ञत्वानित्यत्वाशङ्का मूर्खाणां ताम् अपनेतुम् अनुवदन्न् अर्जुन आशङ्कते - अपरम् इति । अपरम् अल्प-कालीनम् इदानन्तनं वसुदेव-गृहे भवतो जन्म शरीर-ग्रहणं विहीनं च मनुष्यत्वात् । परं बहु-कालीनं सर्गादि-भवम् उत्कृष्टं च देवत्वात्, विवस्वतो जन्म । अत्रात्मनो जन्माभावस्य प्राग्-व्युत्पादितत्वाद् देहाभिप्रायेणैवार्जुनस्य प्रश्नः । अतः कथम् एतद् विजानीयाम् अविरुद्धार्थतया । एतच् छब्दार्थम् एव विवृणोति । त्वम् आदौ योगं प्रोक्तवान् इति । त्वम् इदानीन्तनो मनुष्यो ऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायादित्याय प्रोक्तवान् इति विरुद्धार्थम् एतद् इति भावः ।
अत्रायं निर्गलितो ऽर्थः । एतद् देहानवच्छिन्नस्य तव देहान्तरावच्छेदेन वादित्यं प्रत्युपदेष्टृत्वम् एतद्-देहेन वा । नाद्यः । जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुम् अशक्यत्वात् । अन्यथा ममापि जन्मान्तरानुभूत-स्मरण-प्रसङ्गः । तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात् । तद् उक्तम् अभियुक्तैः जन्मान्तरानुभूतं च न स्मर्यते इति । नापि द्वितीयः सर्गादाव् इदानीन्तनस्य देहस्यासद्-भावात् । तद् एवं देहान्तरेण सर्गादौ सद्-भावानुपप्पत्तिर् इत्य् असर्वज्ञत्वानित्यत्वाभ्यां द्वाव् अर्जुनस्य पूर्व-पक्षौ ॥४॥
विश्वनाथः : उक्तम् अर्थम् असम्भवं पृच्छति अपरम् इदानीन्तनम् । परं पुरातनम् अतः कथम् एतत् प्रत्येमीति भावः ॥४॥
बलदेवः : कृष्णस्य सनातनत्वे सार्वज्ञे च शङ्कमानान् अनभिज्ञान् निराकर्तुम् अर्जुन उवाच अपरम् इति । अपरम् अर्वाचीनं परं पराचीनं तस्माद् आधुनिकस् त्वं प्राचीनाय विवस्वते योगम् उक्तवान् इत्य् एतत् कथम् अहं विजानीयां प्रतीयाम् । अयम् अर्थः : न खलु सर्वेश्वरत्वेन कृष्णम् अर्जुनो न वेत्ति तस्य नराख्य-तद्-अवतारत्वेन ताद्रूप्यात्, परं धाम परं धाम इत्य् आदि तद्-उक्तेश् च । न त्व् अतत्-सर्वज्ञ-विषयाम् अज्ञ-शङ्काम् अपाकर्तुम् अपरम् इत्य् आदि पृच्छति । सर्वेश्वरः स यथा स्व-तत्त्वं वेत्ति न तथान्यः । ततस् तन्-मुखाम्बुजाद् एव तद्-रूप-तज्-जन्मादि पर्काशनीयं लोक-मङ्गलाय । तद्-अर्थं स्व-महिमानं प्रवदन् विकत्थनतया स नाक्षेप्यः, किन्तु स्तवनीय एव कृपालुतया । तच् च मनुषाकृति-पर-ब्रह्मणस् तव रूपं जन्मादि च लोक-विलक्षणं
किं-विधं किम्-अर्थकं किं-कालम् इति विज्ञस्याप्य् आज्ञवत् प्रश्नो ऽयम् अज्ञ-शङ्का-निरासक-प्रतिवचनार्थः ॥४॥
४।५
श्री-भगवान् उवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्य् अहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥५॥
श्रीधरः : रूपान्तरेणोपदिष्टवान् इत्य् अभिप्रायेणोत्तरं श्री-भगवान् उवाच बहूनीति । तान्य् अहं वेद वेद्मि । अलुप्त-विद्या-शक्तित्वात् । त्वं तु न वेत्थ न वेत्सि अविद्यावृत्तत्वात् ॥५॥
मधुसूदनः : तत्र सर्वज्ञत्वेन प्रथमस्य परिहारम् आह बहूनीति । जन्मानि लीला-देह-ग्रहणानि लोक-दृष्ट्य्-अभिप्रायेणादित्यस्योदयवन् मे मम बहूनि व्यतीतानि तव चाज्ञानिनः कर्मार्जितानि देह-ग्रहणानि । तव चेत्य् उपलक्षणम् इतरेषाम् अपि जीवानाम्, जीवैक्याभिप्रायेण वा । हे ऽर्जुन ! श्लोकेनार्जुन-वृक्ष-नाम्ना सम्बोधयन्न् आवृत-ज्ञानत्वं सूचयति । तानि जन्मान्य् अहं सर्वज्ञः सर्व-शक्तिर् ईश्वरो वेद जानामि सर्वाणि मदीयानि त्वदीयान्य् अन्यदीयानि च । न त्वम् अज्ञो जीवस् तिरोभूत-ज्ञान-शक्तिर् वेत्थ न जानासि स्वीयान्य् अपि किं पुनः परकीयाणि । हे परन्तप ! परं शत्रुं भेद-दृष्ट्या परिकल्प्य हन्तुं प्रवृत्तो ऽसीति विपरीत-दर्शितत्वाद् भ्रान्तो ऽसीति सूचयति । तद् अनेन सम्बोधन-द्वयेनावरण-विक्षेपौ द्वाव् अप्य् अज्ञान-धर्मौ दर्शितौ
॥५॥
विश्वनाथः : अवतारान्तरेणोपदिष्टवान् इत्य् अभिप्रायेणाह बहूनीति । तव चेति यदा यदैव ममावतारस् तदा मत्-पार्षदत्वात् तवाप्य् आविर्भावो ऽभूद् एवेत्य् अर्थः । वेद वेद्मि सर्वेश्वरत्वेन सर्वज्ञत्वात् । त्वं न वेत्थ मयैव स्व-लीला-सिद्ध्य्-अर्थं त्वज्-ज्ञानावरणाद् इति भावः । अतएव हे परन्तप ! साम्प्रतिक-कुन्ती-पुत्रत्वाभिमान-मात्रेणैव परान् शत्रूंस् तापयसि ॥५॥
बलदेवः : एक एवाहं एको ऽपि सन् बहुधा यो ऽवभाति इत्य् आदि श्रुत्य्-उक्तानि नित्य-सिद्धानि बहूनि रूपाणि वैदूर्यवद् आत्मनि दधानः पुरा रूपान्तरेण तं प्रत्युपदिष्टवान् इति भावेनाह भगवान् बहूनीति । तव चेति मत्-सखत्वात् तावन्ति जन्मानि तवाप्य् अभूवन्न् इत्य् अर्थः । न त्वं वेत्थेति । इदानीं मयैवाचिन्त्य-शक्त्या स्व-लीला-सिद्धये त्वज्-ज्ञानाच्छादनाद् इति भावः । एतेन सार्वज्ञ्यं स्वस्य दर्शितम् । अत्र भगवज्-जन्मनां वास्तवत्वं बोध्यम् । बहूनीत्यादि श्री-मुखोक्तेस् तव चेति दृष्टान्ताच् च । न च जन्माख्यो विकारस् तस्याग्रिम-व्याख्यया प्रत्याख्यानात् ॥५॥
४।६
अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन् ।
प्रकृतिं स्वाम् अधिष्ठाय सम्भवाम्य् आत्म-मायया ॥६॥
श्रीधरः : ननु अनादेस् तव कुतो जन्म ? अविनाशिनश् च कथं पुनर् जन्म येन बहूनि मे व्यतीतानित्य् उच्यते । ईश्वरस्य तव पुण्य-पाप-विहीनस्य कथं जीववज् जन्मेति ? अत आह अजो ऽपीति । सत्यम् एवम् । तथापि अजो ऽपि जन्म-शून्यो ऽपि सन्न् अहम् । तथाव्ययात्माप्य् अनश्वर-स्वभावो ऽपि सन् । तथा - ईश्वरो ऽपि कर्म-पारतन्त्र्य-रहितो ऽपि सन् । स्व-मायया सम्भवामि सम्यग् अप्रच्युत-ज्ञान-बल-वीर्यादि-शक्त्यैव भवामि ।
ननु तथापि षोडश-कलातङ्क-लिङ्ग-देह-शून्यस्य च तव कुतो जन्मेति ? अत उक्तं स्वां शुद्ध-सत्त्वात्मिकां प्रकृतिं अधिष्ठाय स्वीकृत्य । विशुद्धोर्जित-सत्त्व-मूर्त्या स्वेच्छयावतरामीत्य् अर्थः ॥६॥
मधुसूदनः : नन्व् अतीतानेक-जन्म-वत्त्वम् आत्मनः स्मरसि चेत् तर्हि जाति-स्मरो जीवस् त्वं पर-जन्म-ज्ञानम् अपि योगिनः सार्वात्म्याभिमानेन शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [व्स् १।१।३०] इति न्यायेन सम्भवति । तथा चाह वामदेवो जीवो ऽपि अहं मनुर् अभवं सूर्यश् चाहं कक्षीवानृपिर् अस्मि विप्रःइत्य् आदि दाशतय्याम् । अतएव न मुख्यः सर्वज्ञस् त्वम् । तथा च कथम् आदित्यं सर्वज्ञम् उपदिष्टवान् अस्य् अनीश्वरः सन् । न हि जीवस्य मुख्यं सार्वज्ञ्यं सम्भवति व्यष्ट्य्-उपाधेः परिच्छिन्नत्वेन सर्व-सम्बन्धित्वाभावात् । समष्ट्य्-उपाधेर् अपि विराजः स्थूल-भूतोपाधित्वेन सूक्ष्म-भूत-परिणाम-विषयं माया-परिणाम-विषयं च ज्ञानं न सम्भवति । एवं सूक्ष्म-भूतोपाधेर् अपि हिरण्यगर्भस्य
तत्-कारण-माया-परिणामाकाशादि-सर्ग-क्रमादि-विषय-ज्ञानाभावः सिद्ध एव । तस्माद् ईश्वर एव कारणोपादित्वाद् अतीतान् आगत-वर्तमान-सर्वार्थ-विषय-ज्ञानवान् मुख्यः सर्वज्ञः । अतीतान् आगत-वर्तमान-विषयं माया-वृत्ति-त्रयम् एकैव वा सर्व-विषया माया-वृत्तिर् इत्य् अन्यत् । तस्य च नित्येश्वरस्य सर्वज्ञस्य धर्माधर्माद्य्-अभावेन जन्मैवानुपपन्नम् अतीतानेक-जन्मवत्त्वं तु दूरोत्सारितम् एव । तथा च जीवत्वे सार्वज्ञ्यानुपपत्तिर् ईश्वरत्वे च देह-ग्रहणानुपपत्तिर् इति शङ्का-द्वयं परिहरन्न् अनित्यत्व-पक्षस्यापि परिहारम् आह अजो ऽपीति ।
अपूर्व-देहेन्द्रियादि-ग्रहणं जन्म । पूर्व-घीत-देहेन्द्रियादि-वियोगो व्ययः । यद् उभयं तार्किकैः प्रेत्य् अभाव इत्य् उच्यते । तद् उक्तं जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च [गीता २।२७] इति । तद् उभयं च धर्माधर्म-वशाद् भवति । धर्माधर्म-वशत्वं चाज्ञस्य जीवसय देहाभिमानिनः कर्माधिकारित्वाद् भवति । तत्र यद् उच्यते सर्वज्ञस्येश्वरस्य सर्व-कारणस्येदृग्-देह-ग्रहणं नोपपद्यत इति तत् तथैव । कथम् ? यदि तस्य शरीरं स्थूल-भूत-कार्यं स्यात् तदा व्यष्टि-रूपत्वे जाग्रद्-अवस्थास्मद्-आदि-तुल्यत्वम् । समष्टि-रूपत्वे च विराड्-जीवत्वं तस्य तद्-उपाधित्वात् । अथ सूक्ष्म-भूत-कार्यं तदा व्यष्टि-रूपत्वे स्वप्नावस्थास्मद्-आदि-तुल्यत्वम् । समष्टि-रूपत्वे च हिरण्य-गर्भ-जीवत्वं तस्य तद्-उपाधित्वात् । तथा च भौतिकं शरीरं जीवानाविष्टं
परमेश्वरस्य न सम्भवत्य् एवेति सिद्धम् । न च जीवाविष्ट एव तादृशे शरीरे तस्य भूतावेशवत् प्रवेश इति वाच्यम् । तच्-छरीरावच्छेदेन तज्-जीवस्य भोगाभ्युपगमे ऽन्तर्यामि-रूपेण सर्व-शरीर-प्रवेशस्य विद्यमानत्वेन शरीर-विशेषाभ्युपगम-वैयर्थ्यात् । भोगाभावे च जीव-शरीरत्वानुपपत्तेः । अतो न भौतिकं शरीरम् ईश्वरस्येति पूर्वार्धेनाङ्गीकरोति – अजो ऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरो ऽपि सन्न् इति ।
अजो ऽपि सन्न् इत्य् अपूर्व-देह-ग्रहणम् अव्ययात्मापि सन्न् इति पूर्व-देह-विच्छेदं भूतानां भगव-धर्माणां सर्वेषां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् ईश्वरो ऽपि सन्न् इति धर्माधर्म-वशत्वं निवारयति । कथं तर्हि देह-ग्रहणम् इत्य् उत्तरार्धेनाह प्रकृतिं स्वाम् अधिष्ठाय सम्भवामि । प्रकृतिं मायाख्यां विचित्रानेक-शक्तिम् अघटमान-घटनापटीयसीं स्वां स्वोपादि-भूताम् अधिष्ठाय चिद्-आभासेन वशीकृत्य सम्भवामि तत्-परिणाम-विशेषैर् एव जगत्-कारणत्व-सम्पादिका मद्-इच्छयैव प्रवर्तमाना विशुद्ध-सत्त्व-मयत्वेन मम मूर्तिस् तद्-विशिष्टस्य चाजत्वम् अव्ययत्वम् ईश्वरत्वं चोपपन्नम् । अतो ऽनेन नित्येनैव देहेन विवस्वन्तं च त्वां च प्रतीमं योगम् उपदिष्टवान् अहम् इत्य् उपपन्नम् । तथा च श्रुतिः - आकाश-शरीरं ब्रह्म इति । आकाशो
ऽन्नाव्याकृतम् । आकाश एव तद् ओतं च प्रोतं च [बउ ३।८।७] इत्य् आदौ तथा दर्शनात् । आकाशस् तल्-लिङ्गात् [व्स्। १।१।२२] इति न्यायाच् च ।
तर्हि भौतिक-विग्रहाभावात् तद्-धर्म-मनुष्यत्वादि-प्रतीतिः कथम् इति चेत् तत्राह आत्म-माययेति । मन्-माययैव मयि मनुष्यत्वादि-प्रतीतिर् लोकानुग्रहाय न तु वस्तु-वृत्त्येति भावः । तथा चोक्तं मोक्ष-धर्मे -
माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद ।
सर्व-भूत-गुणैर् युक्तं न तु मां द्रष्टुम् अर्हसि ॥ [म्भ् १२।३२६।४३] इति ।
सर्व-भूत-गुणैर् युक्तं कारणोपाधिं मां चर्म-चक्षुषा द्रष्टुं नार्हसीत्य् अर्थः । उक्तं च भगवता भाष्यकारेण - स च भगवान् ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिः सदा सम्पन्नस् त्रिगुणात्मिकां वैष्णवीं स्वां मायां प्रकृतिं वशीकृत्याजो ऽव्ययो भूतानाम् ईश्वरो नित्य-शुद्ध-बुद्ध-मुक्त-स्वभावो ऽपि सन् स्व-मायया देहवान् इव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते स्व-प्रयोजनाभावे ऽपि भूतानुजिघृक्षया इति । व्याख्यातृभिश् चोक्तं स्वेच्छा-विनिर्मितेन मायामयेन दिव्येन रूपेण सम्बभूवेति ।
नित्यो यः कारणोपाधिर् मायाख्यो ऽनेक-शक्तिमान् ।
स एव भगवद्-देह इति भाष्य-कृतां मतम् ॥
अन्ये तु परमेश्वरे देह-देहि-भावं न मन्यन्ते । किं यश् च नित्यो विभुः सच्-चिद्-आनन्द-घनो भगवान् वासुदेवः परिपूर्णो निर्गुणः परमात्मा स एव तद्-विग्रहो नान्यः कश्चिद् भौतिको मायिको वेति । अस्मिन् पक्षे योजना - आकाशवत् सर्व-गतश् च नित्यः, अविनाशी वा अरे ऽयम् आत्मानुच्छित्ति-धर्मा इत्य् आदि श्रुतेः, असम्भवस् तु सतो ऽनुपप्त्तेः [व्स्। २।३।८], नात्माश्रुतेर् नित्यत्वाच् च ताभ्यः [व्स्। २।३।१६] इत्य् आदि न्यायाच् च वस्तु-गत्या जन्म-विनाश-रहितः सर्व-भासकः सर्व-कारण-मायाधिष्ठानत्वेन सर्व-भूतेश्वरो ऽपि सन्न् अहं प्रकृतिं स्वभावं सच्-चिद्-आनन्द-घनैक-रसम् ।
मायां व्यावर्तयति स्वाम् इति । निज-स्वरूपम् इत्य् अर्थः । स भगवः कस्मिन् प्रतिष्ठितः स्वे महिम्नि [छाउ ७।२४।१] इति श्रुतेः । स्व-स्वरूपम् अधिष्ठाय स्वरूपावस्थित एव सन् सम्भवामि देह-देहि-भावम् अन्तरेणैव देहिवद् व्यवहरामि । कथं तर्ह्य् अदेहे सच्-चिद्-आनन्द-घने देहत्व-प्रतीतिर् अत आह आत्म-माययेति । निर्गुणे शुद्धे सच्-चिद्-आनन्द-घने मयि भगवति वासुदेवे देह-देहि-भाव-शून्ये तद्-रूपेण प्रतीतिर् माया-मात्रम् इत्य् अर्थः । तद् उक्तम् -
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् ।
जगद्-धिताय सो ऽप्य् अत्र देहीवाभाति मायया ॥ इति [भ्प् १०।१४।५५]
अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम्
यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ [भ्प् ११।१४।३२] इति च ।
केचित् तु नित्यस्य निरवयवस्य निर्विकारस्यापि परमानन्दस्यावयवाय-विभावं वास्तवम् एवेच्छन्ति ते निर्युक्तिकं ब्रुवाणस् तु नास्माभिर् विनिवार्यते इति न्यायेन नापवाद्याः । यदि सम्भवेत् तथैवास्तु किम् अतिपल्लवितेनेत्य् उपरम्यते ॥५॥
विश्वनाथः : स्वस्य जन्म-प्रकारम् आह - अजो ऽपि जन्म-रहितो ऽपि सन् सम्भवामि, देव-मनुष्य-तिर्यग्-आदिषु आविर्भवामि । ननु किम् अत्र चित्रम् ? जीवो ऽपि वस्तुतो ऽज एव स्थूल-देह-नाशानन्तरं जायत एव ? तत्राह सव्ययात्मानश्वर-शरीरः । किं च, जीवस्य स्व-देह-भिन्न-स्व-स्वरूपेणाजत्वम् एव, आविद्यकेन देह-सम्बन्धेनैव तस्य जन्मवत्त्वम्, मम त्व् ईश्वरत्वात् स्व-देहाभिन्नस्याजत्वं जन्मवत्त्वम् इत्य् उभयम् अपि स्वरूप-सिद्धम् । तच् च दुर्घटत्वात् चित्रम् अतर्क्यम् एव । अतः पुण्य-पापादिमतो जीवस्येव सद्-असद्-योनिषु न मे जन्माशङ्केत्य् आह - भूतानाम् ईश्वरो ऽपि सन् कर्म-पारतन्त्र्य-रहितो ऽपि भूत्वेत्य् अर्थः ।
ननु जीवो हि लिङ्ग-शरीरेण स्व-बन्धकेन कर्म-प्राप्यान् देवादि-देहान् प्राप्नोति । त्वं परमेश्वरो लिङ्ग-रहितः सर्व-व्यापकः कर्म-कालादि-नियन्ता । बहु स्याम् इति श्रुतेः सर्व-जगद्-रूपो भवत्य् एव । तद् अपि यद् विशेषत एवम्भूतो ऽप्य् अहं सम्भवामीति ब्रूषे, तन् मन्ये सर्व-जगद्-विलक्षणान् देह-विशेषान् नित्यान् एव लोके प्रकाशयितुं त्वज्-जन्मेत्य् अवगम्यते । तत् खलु कथम् इत्य् अत आह प्रकृतिं स्वाम् अधिष्ठायेति । अत्र प्रकृति-शब्देन यदि बहिरङ्गा माया-शक्तिर् उच्यते, तदा तद्-अधिष्ठाता परमेश्वरस् तद्-द्वारा जगद्-रूपो भवत्य् एवेति न विशेषोपलब्धिः । तस्मात् संसिद्धि-प्रकृती त्व् इमे स्वरूपं च स्वभावश् च इत्य् अभिधानाद् अत्र प्रकृति-शब्देन स्वरूपम् एवोच्यते । न तत् स्वरूप-भूता माया-शक्तिः । स्वरूपं च तस्य सच्-चिद्-आनन्द एव । अतवेव त्वां शुद्ध-सत्त्वात्मिकां
प्रकृतिम् इति श्री-स्वामि-चरणाः । प्रकृतिं स्वभावं स्वम् एव स्वभावम् अधिष्ठाय स्वरूपेण स्वेच्छया सम्भवामीत्य् अर्थः इति श्री-रामानुजाचार्य-चरणाः । प्रकृतिं स्वभावं सच्-चिद्-आनन्द-घनैक-रसम् । मायां व्यावर्तयति स्वाम् इति निज-स्वरूपम् इत्य् अर्थः । स भगवं कस्मिन् प्रतिष्ठितः स्व-महिम्नि इति श्रुतेः । स्व-स्वरूपम् अधिष्ठाय स्वरूपावस्थित एव सम्भवामि देह-देहि-भावम् अन्तरेणैव देहिवद् व्यवहरामि इति श्री-मधुसूदन-सरस्वती-पादाः ।
ननु यद्य् अव्ययात्मा अनश्वर-मत्स्य-कूर्मादि-स्वरूप एव भवसि, तर्हि तव प्रादुर्भवत्-स्वरूपं पूर्व-प्रादुर्भूत-स्वरूपाणि च युगपद् एव किं नोपलभ्यन्त ? तत्राह आत्म-भूता या माया तया स्व-स्वरूपावरण-प्रकाशन-कर्म च यया चिच्-छक्ति-वृत्त्यायोग-माययेत्य् अर्थः । तया हि पूर्व-कालावतीर्ण-स्वरूपाणि पूर्वम् एवावृत्य वर्तमान-स्वरूपं प्रकाश्य सम्भवामि । आत्म-मायया सम्यग् अप्रच्युत-ज्ञान-बल-वीर्यादि-शक्त्यैव भवामि इति श्री-स्वामि-चरणाः । आत्म-माययात्म-ज्ञानेन माया वयुनं ज्ञानम् इति ज्ञान-पर्यायो ऽत्र माया-शब्दः । तथा चाभियुक्त-प्रयोगः मायया सततं वेत्ति प्राचीनानां शुभाशुभम् इति श्री-रामानुजाचार्य-चरणाः । मयि भगवति वासुदेवे देह-देहि-भाव-शून्ये तद्-रूपेण प्रतीतिः माया-मात्रम् इति श्री-मधुसूदन-सरस्वती-पादाः
॥६॥
बलदेवः : लोक-विलक्षणतया स्वरूपं स्व-जन्म च वदन् सनातनत्वं स्वस्याह अजो ऽपीति । अत्र स्वरूप-स्वभाव-पर्यायः प्रकृति-शब्दः । स्वां प्रकृतिं स्वं स्वरूपं अधिष्ठायालम्ब्य सम्भवामि आविर्भवामि । संसिद्धि-प्रकृती त्व् इमे । स्वरूपं च स्वभावश् च इत्य् अमरः । स्वरूपेणैव सम्भवामीति । एतम् अर्थं विचरितुं विशिनष्टि अजो ऽपीत्य् आदिना । अपि अवधारणे । अपूर्व-देह-योगो जन्म । तद्-रहित एव सन् । अव्ययात्मापि सन् अव्ययः परिणाम-शून्य आत्मा बुद्ध्यादिर् यस्य तादृश एव सन् । आत्मा पुंसि इत्य् आद्य् उक्तेः । भूतानाम् ईश्वरो ऽपि सन् स्वेतरेषां जीवानां नियन्तैव सन् इत्य् अर्थः । अजत्वादि-गुणकं यद् विभु-ज्ञान-सुख-घनं रूपं तेनैवावतरामीति स्वरूपेणैव सम्भवामीत्य् अस्य विवरणं तादृशस्य स्वरूपस्य रवेर् इवाभियक्ति-मात्रम्
एव जन्मेति तत्-स्वरूपस्य तज्-जन्मनश् च लोक-विलक्षणत्वं तेन सनातनत्वं च व्यक्तम् । कर्म-तन्त्रत्वं निरस्तम् । श्रुतिश् चैवम् आह अजायमानो बहुधा विजायते इति । स्मृतिश् च प्रत्यक्षं च हरेर् जन्म न विकारः कथञ्चन इत्य् आद्या । अतएव सूतिका-गृहे दिव्यायुध-भूषणस्य दिव्य-रूपस्य षड्-ऐश्वर्य-सम्पन्नस्य तस्य वीक्षणं स्मर्यते । प्रयोजनम् आह आत्म-माययेति । भजज्-जीवानुकम्पया हेतुना तद्-उद्धारायेत्य् अर्थः । माया दम्भे कृपायां च इति विश्वः । आत्म-मायया स्व-सार्वज्ञेन स्व-सङ्कल्पेनेति केचित् । माया वयुनं ज्ञानं च इति निर्घण्टु-कोषात् । लोकः खलु राजादिः पूर्व-देहादीनि विहायापूर्व-देहादीनि भजन् निरनुसन्धिर् अज्ञो जन्मीभवति तद्-वैलक्षण्यं हरेर् जन्मिनः प्रस्फुटम् । भूतानाम् ईश्वरो ऽपि सन्न् इत्य् अनेन लब्ध-सिद्धयो योगि-प्रभृतयो
ऽपि व्यावृत्ताः । सुख-चिद्-घनो हरिर् देह-देहि-भेदेन गुण-गुणि-भेदेन च शून्यो ऽपि विशेष-बलात् तत्-तद्-भावेन विदुषां प्रतीतिर् आसीद् इति ॥६॥
४।७
यदा यदा हि धर्मस्य ग्लानिर् भवति भारत ।
अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥७॥
श्रीधरः : कदा सम्भवसीत्य् अपेक्षायाम् आह यदा यदेति । ग्लानिर् हानिः । अभ्युत्थानम् आधिक्यम् ॥७॥
मधुसूदनः : एवं सच्-चिद्-आनन्द-घनस्य तव कदा किम्-अर्थं वा देहिवद् व्यवहार इति तत्रोच्यते यदा यदेति । धर्मस्य वेद-विहितस्य प्राणिनाम् अभ्युदय-निःश्रेयस-साधनस्य प्रवृत्ति-निवृत्ति-लक्षणस्य वर्णाश्रम-तद्-आचार-व्यङ्ग्यस्य यदा यदा ग्लानिर् हानिर् भवति हे भारत भरत-वंशोद्भवत्वेन भा ज्ञानं तत्र रतत्वेन वा त्वं न धर्म-हानिं सोढुं शक्नोषीति सम्बोधनार्थः । एवं यदा यदाभ्युत्थानम् उद्भवो ऽधर्मस्य वेद-निषिद्धस्य नाना-विध-दुःख-साधनस्य धर्म-विरोधिनस् तदा तदात्मानं देहं सृजामि नित्य-सिद्धम् एव सृष्टम् इव दर्शयामि मायया ॥७॥
विश्वनाथः : कदा सम्भवामीत्य् अपेक्षायाम् आह यदेति । धर्मस्य ग्लानिर् हानिर् अधर्मस्याभ्युत्थानं वृद्धिस् ते द्वे सोढुम् अशक्नुवन् तयोर् वैपरीत्यं कर्तुम् इति भावः । आत्मानं देहं सृजामि नित्य् सिद्धम् एव तं सृष्टम् इव दर्शयामि मायया इति श्री-मधुसूदन-सरस्वती-पादाः ॥७॥
बलदेवः : अथ सम्भव-कालम् आह यदेति । धर्मस्य वेदोक्तस्य ग्लानिर् विनाशः अधर्मस्य तद्-विरुद्धस्याभ्युत्थानम् अभुयुदयस् तदाहम् आत्मानं सृजामि प्रकटयामि । न तु निर्ममे तस्य पूर्व-सिद्धत्वाद् इति नास्ति मत्-सम्भव-काल-नियमः ॥७॥
४।८
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म-संस्थापनार्थाय सम्भवामि युगे युगे ॥८॥
श्रीधरः : किम्-अर्थम् ? इत्य् अपेक्षायाम् आह परित्राणायेति । साधूनां स्व-धर्म-वर्तिनां रक्षणाय । दुष्टं कर्म कुर्वन्तीति दुष्कृतः । तेषां वधाय च । एवं धर्म-संस्थापनार्थाय साधु-रक्षणेन दुष्ट-वधेन च धर्मं स्थिरीकर्तुम् । युगे युगे तत्-तद्-अवसरे सम्भवामीत्य् अर्थः । न चैवं दुष्ट-निग्रहं कुर्वतो ऽपि नैर्घृण्यं शङ्कनीयम् । यथाहुः - लालने ताडने मातुर् नाकारुण्यं यथार्भके । तत् तद् एव महेशस्य नियन्तुर् गुण-दोषयोः ॥८॥
मधुसूदनः : तत् किं धर्मस्य हानिर् अधर्मस्य च वृद्धिस् तव परितोष-कारणं येन तस्मिन्न् एव काल आविर्भवसीति तथा चानर्थावह एव तवावतारः स्यात् ? इति नेत्य् आह परित्राणायेति । धर्म-हान्या हीयमानानां साधूनां पुण्य-कारिणां वेद-मार्ग-स्थानां परित्राणाय परितः सर्वतो रक्षणाय । तथाधर्म-वृद्ध्या वर्धमानानां दुष्कृतां पाप-कारिणां वेद-मार्ग-विरोधिनां विनाशाय च । तद् उभयं कथं स्याद् इति तद् आह धर्म-संस्थापनार्थाय धर्मस्य सम्यग्-अधर्म-निवारणेन स्थापनं वेद-मार्ग-परिरक्षणं धर्म-संस्थापनं तद्-अर्थं सम्भवामि पूर्ववत् । युगे युगे प्रतियुगम् ॥८॥
विश्वनाथः : ननु त्वद्-भक्ता राजर्षयो ब्रह्मर्षयो ऽपि वा धर्म-हान्य्-अधर्म-वृद्धी दूरीकर्तुं शक्नुवन्त्य् एव । एतावद् अर्थम् एव किं तवावतारेण ? इति चेत्, सत्यम् । अन्यद् अपि अन्य-दुष्करं कर्म कर्तुं सम्भवामीत्य् आह परीति । साधूनां परित्राणाय मद्-एकान्त-भक्तानां मद्-दर्शनोत्कण्ठा-स्फुट-चित्तानां यद् वैयाग्र्य-रूपं दुःखम् । तस्मात् त्राणाय । तथा दुष्कृतां मद्-भक्त-लोक-दुःख-दायिनां मद्-अन्यैर् अवध्यानां रावण-कंस-केश्य्-आदीनां विनाशाय । तथा धर्म-संस्थापनार्थाय मदीय-ध्यान-यजन-परिचर्या-सङ्कीर्तन-लक्षणं परम-धर्मं मद्-अन्यैः प्रवर्तयितुम् अशक्यं सम्यक् प्रकारेण स्थापयितुम् इत्य् अर्थः । युगे युगे प्रति-युगं प्रतिकल्पं वा । न चैवं दुष्ट-निग्रह-कृतो भगवतो वैषम्यम्
आशङ्कनीयम् । दुष्टानाम् अप्य् असुराणां स्व-कर्तृ-वधेन विविध-दुष्कृत-फलान् नरक-सह-प्रणिपातात् संसाराच् च परित्राणतस् तस्य स खलु निग्रहो ऽप्य् अनुग्रह एव निर्णीतः ॥८॥
बलदेवः : ननु त्वद्-भक्ता राजर्षयो ऽपि धर्म-ग्लानिम् अधर्माभ्युत्थानं चापनेतुं प्रभवन्ति तावते ऽर्थाय किं सम्भवामीत्य् आह परीति । साधूनां मद्-रूप-गुण-निरतानां मत्-साक्षात्-कारम् आकाङ्क्ष्यतां तेन विनातिव्यग्राणां तद्-वैयग्र्य-रूपाद् दुःखात् परित्राणायातिमनोज्ञ-स्वरूप-साक्षात्-कारेण । तथा दुष्कृतां दुष्ट-कर्म-कारिणां मद्-अन्यैर् अवध्यानां दशग्रीव-कंसादीनां तादृग्-भक्त-द्रोहिणां विनाशाय धर्मस्य मद्-एकार्चन-ध्यानादि-लक्षणस्य शुद्ध-भक्ति-योगस्य वैदिकस्यापि मद्-इतरैः प्रचारयितुम् अशक्यस्य संस्थापनार्थाय सम्प्रचारायेत्य् एतत् त्रयं मत्-सम्भवस्य कारणम् इति । युगे युगे तत्-तत्-समयेन च दुष्ट-वधेन हरौ वैषम्यम्, तेन दुष्टानां मोक्षानन्द-लाभे सति तस्यानुग्रह-रूपत्वेन
परिणामात् ॥८॥
४।९
जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सो ऽर्जुन ॥९॥
श्रीधरः : एवं-विधानाम् ईश्वर-जन्म-कर्मणां ज्ञाने फलम् आह जन्मेति । स्वेच्छया कृतं मम जन्म कर्म च धर्म-पालन-रूपं दिव्यम् अलौकिकं तत्त्वतः परानुग्रहार्थम् एवेति यो वेत्ति स देहाभिमानं त्यक्त्वा पुनर् जन्म संसारं नैति न प्राप्नोति । किन्तु माम् एव प्राप्नोति ॥९॥
मधुसूदनः : जन्म नित्य-सिद्धस्यैव मम सच्-चिद्-आनन्द-घनस्य लीलया तथानुकरणम् । कर्म च धर्म-संस्थापनेन जगत्-परिपालनं मे मम नित्य-सिद्धेश्वरस्य दिव्यम् अप्राकृतम् अन्यैः कर्तुम् अशक्यम् ईश्वरस्यैवासाधरणम् । एवम् अजो ऽपि सन्न् इत्य् आदिना प्रतिपादितं यो वेत्ति तत्त्वतो भ्रम-निवर्तनेन । मूढैर् हि मौष्यत्व-भ्रान्त्या भगवतो ऽपि गर्भ-वासादि-रूपम् एव जन्म स्व-भोगार्थम् एव कर्मेत्य् आरोपितम् । परमार्थतः शुद्ध-सच्-चिद्-आनन्द-रूपत्व-ज्ञानेन तद्-अपनुद्याजस्यापि मायया जन्मानुकरणम् अकर्तुर् अपि परानुग्रहाय कर्मानुकरणम् इय् एवं यो वेत्ति स आत्मनो ऽपि तत्त्व-स्फुरणात् त्यक्त्वा देहम् इमं पुनर् जन्म नैति । किन्तु मां भगवन्तं वासुदेवम् एव सच्-चिद्-आनन्द-घनम् एति संसारान् मुच्यत इत्य् अर्थः ॥९॥
विश्वनाथः : उक्त-लक्षणस्य मज्-जन्मनस् तथा जन्मानन्तरं मत्-कर्मणश् च तत्त्वतो ज्ञान-मात्रेणैव कृतार्थः स्याद् इत्य् आह जन्मेति । दिव्यम् अप्राकृतं इति श्री-रामानुजाचार्य-चरणाः श्री-मधुसूदन-सरस्वती-पादाश् च । दिव्यम् अलौकिकं इति श्री-स्वामि-चरणाः । लोकानां प्रकृति-सृष्टत्वाद् अलौकिक-शब्दस्य अप्राकृतत्वम् एवार्थस् तेषाम् अप्य् अभिप्रेतः । अतएवाप्राकृतत्वेन गुणातीतत्वाद् भगवज्-जन्म-कर्मणो नित्यत्वम् । तच् च भगवत्-सन्दर्भे न विद्यते यस्य च जन्म कर्म वा [भ्प् ८।३।८] इत्य् अत्र श्लोके श्री-जीव-गोस्वामि-चरणैर् उपपादितम् । यद् वा युक्त्य्-अनुपपन्नम् अपि श्रुति-स्मृति-वाक्य-बलाद् अतर्कम् एवेदं मन्तव्यम् । तत्र पिप्पलाद-शाखायां पुरुष-बोधिनी-श्रुतिः - एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृदयान्तरात्मा इति । तथा जन्म-कर्मणो
नित्यत्वं श्री-भागवतामृते बहुश एव प्रपञ्चितम् । एवं यो वेत्ति तत्त्वत इति अजो ऽपि सन्न् अव्ययतात्मा इत्य् अस्मिंस् तथा जन्म कर्म च मे दिव्यम् इत्य् अस्मिंश् च मद्-वाक्य एवास्तिकतया मज्-जन्म-कर्मणोर् नित्यत्वम् एव यो जानाति, न तु तयोर् नित्यत्वे काञ्चिद् युक्तिम् अप्य् अपेक्षमाणो भवतीत्य् अर्थः । यद् वा तत्त्वतः ॐ तत् सद् इति निर्देशो ब्रह्मणस् त्रिविधः स्मृतः [गीता १७।१८] इत्य् अग्रिमोक्तेस् तच्-छब्देन ब्रह्मोच्यते तस्य भावस् तत्त्वं तेन ब्रह्म-स्वरूपत्वेन यो वेत्तीत्य् अर्थः । स वर्तमानं देहं त्यक्त्वा पुनर् जन्म नैति किन्तु माम् एवैति । अत्र देहं त्यक्त्वा इत्य् अस्याधिक्याद् एवं व्याचक्षते स्म । स देहं त्यक्त्वा पुनर् जन्म नैति किन्तु देहम् अत्यक्त्वैव माम् एति । मदीय-दिव्य-जन्म-चेष्टित-याथात्म्य-विज्ञानेन विध्वस्त-समस्त-मत्-समाश्रयण-विरोधि-पाप्मास्मिन्न् एव जन्मनि यथोदित-प्रकारेण माम्
आश्रित्य मद्-एक-प्रियो मद्-एक-चित्तो माम् एव प्राप्नोति इति श्री-रामानुजाचार्य-चरणाः ॥९॥
बलदेवः : बहुलायासैः साधन-सहस्रैर् अपि दुर्लभो मोक्षो मज्-जन्म-चरित-श्रवणेन मद्-एकान्ति-पथानुवर्तिनां सुलभो ऽस्त्व् इत्य् एतद् अर्थं च सम्भवामीत्य् आशया भगवान् आह जन्मेति । मम सर्वेश्वरस्य सत्येच्छस्य वैदूर्यवन् नित्य-सिद्ध-नृसिंह-रघुनाथादि-बहुल-रूपस्य तत्र तत्रोक्त-लक्ष्णं जन्म तथा कर्म च तत्-तद्-भक्त-सम्बन्धं चरितं तद् उभयं दिव्यम् अप्राकृतं नित्यं भवतीत्य् एवम् एवैतद् इति यस् तत्त्वतो वेत्ति यद् गतं भवच् च भविष्यच् च एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृद्य् अन्तरात्मा इति श्रुत्या दिव्यम् इति मद्-उक्त्या च दृढ-श्रद्धो युक्ति-निरपेक्षः सन् । हे अर्जुन ! स वर्तमानं देहं त्यक्त्वा पुनः प्रापञ्चिकं जन्म नैति । किन्तु माम् एव तत्-तत्-कर्म-मनोज्ञम् एति मुक्तो भवतीत्य् अर्थः । यद् वा मोचकत्व-लिङ्गेन तत् त्वम् असि इति श्रुतेश् च मे जन्म-कर्मणी
तत्त्वतो ब्रह्मत्वेन यो वेत्तीति व्याख्येयम् । इतरथा तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽयनाय [श्वेतु ३।८] इति श्रुतिर् व्याकुप्येत् । समानम् अन्यत् । जन्मादि-नित्यतायां युक्तयस् त्व् अन्यत्र विस्तृता द्रष्टव्याः ॥९॥
४।१०
वीत-राग-भय-क्रोधा मन्-मया माम् उपाश्रिताः ।
बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥१०॥
श्रीधरः : कथं जन्म-कर्म-ज्ञानेन त्वत्-प्राप्तिः स्याद् इति ? अत आह वीत-रागेति । अहं शुद्ध-सत्त्वावतारैः धर्म-पालनं करोमीति मदीयं परम-कारुणिकत्वं ज्ञात्वा । माम् एवोपाश्रिताः सन्तः । मत्-प्रसाद-लब्धं यदात्म-ज्ञानं च तपश् च । तत्-परिपाक-हेतुः स्व-धर्मः । तयोर् द्वन्द्वैकवद् भावः । तेन ज्ञान-तपसा पूताः शुद्धा निरस्ताज्ञान-तत्-कार्य-मलाः । मद्-भावं मत्-सायुज्यं प्राप्ता बहवः । न त्व् अधुनैव प्रवृत्तो ऽयं मद्-भक्ति-मार्ग इत्य् अर्थः । तद् एवं तान्य् अहं वेद सर्वाणीत्य् आदिना विद्याविद्योपाधिभ्यां तत्-त्वं-पदार्थाव् ईश्वर-जीवौ प्रदर्श्येश्वरस्य चाविद्याभावेन नित्य-शुद्धत्वाज् जीवस्य चेश्वर-प्रसाद-लब्ध-ज्ञानेनाज्ञान-निवृत्तेः शुद्धस्य सतश् चिद्-अंशेन तदैक्यम् उक्तम् इति द्रष्टव्यम् ॥१०॥
मधुसूदनः : माम् एति सो ऽर्जुनेत्य् उक्तं तत्र स्वस्य सर्व-मुक्त-प्राप्यतया पुरुषार्थत्वम् अस्य मोक्ष-मार्गस्यानादि-परस्परागतत्वं च दर्शयति वीत-रागेति । रागस् तत्-तत्-फल-तृष्णा । सर्वान् विषयान् परित्यज्य ज्ञान-मार्गे कथं जीवितव्यम् इति त्रासो भयम् । सर्व-विषयोच्छेदको ऽयं ज्ञान-मार्गः कथं हितः स्याद् इति द्वेषः क्रोधः । त एते राग-भय-क्रोधा वीता विवेकेन विगता येभ्यस् ते वीत-राग-भय-क्रोधाः शुद्ध-सत्त्वाः । मन्-मया मां परमात्मानं तत्-पदार्थत्वं गताः । बहवो ऽनेके ज्ञान-तपसा ज्ञानम् एव तपः सर्व-कर्म-क्षय-हेतुत्वात् । न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते इति हि वक्ष्यति । तेन पूताः क्षीण-सर्व-पापाः सन्तो निरस्ताज्ञान-तत्-कार्य-मलाः । मद्-भावं मद्-रूपत्वं विशुद्ध-सच्-चिद्-आनन्द-घनं मोक्षम्
आगता अज्ञान-मात्रापनयेन मोक्षं प्राप्ताः ।
ज्ञान-तपसा पूता जीवन्-मुक्ताः सन्तो मद्-भावं मद्-विषयं भावं रत्य्-आख्यं प्रेमाणम् आगता इति वा । तेषां ज्ञानी नित्य-युक्ता एक-भक्तिर् विशिष्यते इति हि वक्ष्यति ॥१०॥
विश्वनाथः : न केवलम् एक एवाधुनिक एव, मज्-जन्म-कर्म-तत्त्व-ज्ञान-मात्रेणैव मां प्राप्नोत्य् अपि तु प्राक्तना अपि पूर्व-पूर्व-कल्पावतीर्णस्य मम जन्म-कर्म-तत्त्व-ज्ञानवन्तो माम् आपुर् एवेत्य् आह वीतेति । ज्ञानम् उक्त-लक्षणं मज्-जन्म-कर्मणोस् तत्त्वतो ऽनुभव-रूपम् एव तपस् तेन पूताः इति श्री-रामानुजाचार्य-चरणाः ।
यद् वा, ज्ञाने मज्-जन्म-कर्मणोर् नित्यत्व-निश्चयानुभवे यन्-नाना-कुमत-कुतर्क-युक्ति-सर्पी-विष-दाह-सहन-रूपं तपस् तेन पूताः । तथा च श्री-रामानुज-धृत-श्रुतिः - तस्य धीराः परिजानन्ति योनिं इति धीरा धीमन्त एव तस्य योनिं जन्म-प्रकारं जानन्तीत्य् अर्थः । वीतास् त्यक्ताः कुमत-प्रजल्पितेषु जनेषु रागाद्या यैस् ते न तेषु रागः प्रीतिर् नापि तेभ्यो भयं नापि तेषु क्रोधो मद्-भक्तानाम् इत्य् अर्थः । कुतो मन्-मया मज्-जन्म-कर्मानुध्यान-मनन-श्रवण-कीर्तनादि-प्रचुराः । मद्-भावं मयि प्रेमाणम् ॥१०॥
बलदेवः : इदानीम् इव पुरापि मज्-जन्मादि-नित्यता-ज्ञानेन बहूनां विमुक्तिर् अभूद् इति तन्-नित्यतां द्रढयितुम् आह वीतेति । बहवो जना ज्ञान-तपसा पूताः सन्तः पुरा मद्-भावम् आगता इत्य् अनुषङ्गः । मज्-जन्मादि-नित्यत्व-विषयकं यज् ज्ञानं तद् एव दुरधिगम-श्रुति-युक्ति-सम्पाद्यत्वात् तपस् तस्मिन् ज्ञाने वा यद् विविध-कुमत-कुतर्कादि-निवारण-रूपं तपस् तेन पूता निर्धूताविद्या इत्य् अर्थः । मयि भावं प्रेमाणं विद्यमानतां वा मत्-साक्षात्-कृतिम् । कीदृशास् ते इत्य् आह वीतेति । वीताः परित्यक्तास् तन्-नित्यत्व-विरोधिषु रागादयो यैस् ते, न तेषु रागं न भयं न च क्रोधं प्रकाशयन्तीत्य् अर्थः । तत्र हेतुः - मन्-मया मद्-एक-निष्ठा उपाश्रिताः संसेवमानाः ॥१०॥
४।११
ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥११॥
श्रीधरः : ननु तर्हि किं त्वय्य् अपि वैषम्यम् अस्ति ? यद् एवं त्वद्-एक-शरणानाम् एवात्माभावं ददासि नान्येषां सकामानाम् इति । अत आह य इति । यथा येन प्रकारेण सकामतया निष्कामतया वा ये मां भजन्ते तान् अहं तथैव तद्-अपेक्षित-फल-दानेन भजामि अनुगृह्णामि, न तु सकामा मां विहायेन्द्रादीन् एव ये भजन्ते तान् अहम् उपेक्ष इति मन्तव्यम् । यतः सर्वशः सर्व-प्रकारैर् इन्द्रादि-सेवका अपि ममैव वर्त्म भजन-मार्गम् अनुवर्तन्ते । इन्द्रादि-रूपेणापि ममैव सेव्यत्वात् ॥११॥
मधुसूदनः : ननु ये ज्ञान-तपसा पूता निष्कामास् ते त्वद्-भावं गच्छन्ति, ये त्व् अपूताः सकामास् ते न गच्छन्तीति फल-दातुस् तव वैषम्य-नैर्घृण्ये स्याताम् इति नेत्य् आह ये यथेति । य आर्ता अर्थार्थिनो जिज्ञासवो ज्ञानिनश् च यथा येन प्रकारेण सकामतया निष्कामतया च माम् ईश्वरं सर्व-फल-दातारं प्रपद्यन्ते भजन्ति तांस् तथैव तद्-अपेक्षित-फल-दानेनैव भजाम्य् अनुगृह्णाम्य् अहं न विपर्ययेण । तत्रामुमुक्षून् आर्तान् अर्थार्थिनश् चार्ति-हरणेनार्थ-दानेन चानुगृह्णामि । जिइज्ञासून् विविदिषन्ति यज्ञेनेत्य् आदि-श्रुति-विहित-निष्काम-कर्मानुष्ठातॄन् ज्ञान-दानेन ज्ञानिनश् च मुमुक्षून् मोक्ष-दानेन न त्व् अन्य-कामायान्यद् ददामीत्य् अर्थः ।
ननु तथापि स्व-भक्तानाम् एव फलं ददासि न त्व् अन्य-देव-भक्तानाम् इति वैषम्यं स्थितम् एवेति नेत्य् आह मम सर्वात्मनो वासुदेवस्य वर्त्म भजन-मार्गं कर्म-ज्ञान-लक्षणम् अनुवर्तन्ते हे पार्थ सर्वज्ञः सर्व-प्रकारैर् इन्द्रादीन् अप्य् अनुवर्तमाना मनुष्या इति कर्माधिकारिणः । इन्द्रं मित्रं वरुणम् अग्निम् आहुः इत्य् आदि-मन्त्र-वर्णात् फलम् अत उपपत्तेः [व्स्। ३।२।३८] इति न्यायाच् च सर्व-रूपेणापि फल-दाता भगवान् एक एवेत्य् अर्थः । तथा च वक्ष्यति ये ऽप्य् अन्य-देवता-भक्ता [गीता ९।२३] इत्य् आदि ॥११॥
विश्वनाथः : ननु त्वद्-एकान्त-भक्ताः किलतज्-जन्म-कर्मणोर् नित्यत्वं मन्यन्त एव । केचित् तु ज्ञानादि-सिद्ध्य्-अर्थं त्वां प्रपन्ना ज्ञानि-प्रभृतयस् त्वज्-जन्म-कर्मणोर् नित्यत्वं नापि मन्यन्त इति तत्राह य इति । यथा येन प्रकारेण मां प्रपद्यन्ते भजन्ते अहम् अपि तांस् तेनैव प्रकारेण भजामि । भजन-फलं ददामि ।
अयम् अर्थः - ये मत्-प्रभोर् जन्म-कर्मणी नित्ये एवेति मनसि कुर्वाणास् तत्-तल्-लीलायाम् एव कृत-मनोरथ-विशेषा मां भजन्तः सुखयन्त्य् अहम् अपीश्वरत्वात् कर्तुम् अकर्तुम् अन्यथा कर्तुम् अपि समर्थस् तेषाम् अपि जन्म-कर्मणोर् नित्यत्वं कर्तुं तान् स्व-पार्षदीकृत्य तैः सार्धम् एव यथा-समयम् अवतरन्न् अन्तर् दधानश् च तान् प्रतिक्षणम् अनुगृह्णन्न् एव तद्-भजन-फलं प्रेमाणम् एव ददामि । ये ज्ञानि-प्रभृतयो मज्-जन्म-कर्मणोर् नश्वरत्वं मद्-विग्रहस्य माया-मयत्वं च मन्यमाना मां प्रपद्यन्ते अहम् अपि तान् पुनः पुनर् नश्वर-जन्म-कर्मवतो माया-पाश-पतितान् एव कुर्वाणस् तत्-प्रतिफलं जन्म-मृत्यु-दुःखम् एव ददामि । ये तु मज्-जन्म-कर्मणोर् नित्यत्वं मद्-विग्रहस्य च सच्-चिद्-आनन्दत्वं मन्यमाना ज्ञानिनः स्व-ज्ञान-सिद्ध्य्-अर्थं मां
प्रपद्यन्ते, तेषां स्व-देह-द्वय-भङ्गम् एवेच्छतां मुमुक्षूणाम् अनश्वरं ब्रह्मानन्दम् एव सम्पादयन् भजन-फलम् आविद्यक-जन्म-मृत्यु-ध्वंसम् एव ददामि । तस्मान् न केवलं मद्-भक्ता एव मां प्रपद्यन्ते, अपि तु सर्वशः सर्वे ऽपि मनुष्या ज्ञानिनः कर्मिणो योगिनश् च देवतान्तरोपासकाश् च मम वर्त्मानुवर्तन्ते मम सर्व-स्वरूपत्वात् ज्ञान-कर्मादिकं सर्वं मामकम् एव वर्त्मेति भावः ॥११॥
बलदेवः : ननु नित्य-जन्मादि-मनोज्ञः सर्वेश्वरस् त्वं मयावगत-क्वचित्त्वङ्गुष्ठ-मात्रादिर् अपीश्वरो जन्मादि-शून्यः श्रूयते । तत् किं तव त्वद्-उपासनस्य च वैविध्यं भवेद् इति चेद् ॐ इत्य् आह ये यथेति । ये भक्ता माम् एकं वैदूर्यम् इव बहु-रूपं सर्वेश्वरं यथा येन प्रकारेण भावेनेति यावत् प्रपद्यन्ते भजन्ति, तान् अहं तादृशस् तथैव तद्-भावानुसारिणा रूपेण भावेन च भजामि साक्षात् भवन्न् अनुगृह्णामि । नूनताम् एव-कारो निवर्तयति । अतो ममैकस्यैव बहु-रूपस्य वर्त्म-बहु-विधम् उपासन-मार्गम् अनादि-प्रवृत्त-तद्-उपासक-परम्परानुकम्पिता मनुष्याः सर्वे ऽनुवर्तन्ते अनुसरन्ति ॥११॥
४।१२
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर् भवति कर्मजा ॥१२॥
श्रीधरः : तर्हि मोक्षार्थम् एव किम् इति सर्वे त्वां न भजन्तीति । अत आह काङ्क्षन्त इति । कर्मणां सिद्धिं कर्म-फलं काङ्क्षन्तः प्रायेनेह मानुष्य-लोके इन्द्रादि-देवता एव यजन्ते । न तु साक्षान् माम् एव । हि यस्मात् कर्मजा सिद्धिः कर्मजं फलं शीघ्रं भवति । न तु ज्ञान-फलं कैवल्यम्, दुष्प्राप्यत्वाज् ज्ञानस्य ॥१२॥
मधुसूदनः : ननु त्वाम् एव भगवन्तं वासुदेवं किम् इति सर्वे न प्रपद्यन्त इति तत्राह काङ्क्षन्त इति । कर्मणां सिद्धिं फल-निष्पत्तिं काङ्क्षन्त इह लोके देवता देवान् इन्द्राग्न्य्-आद्यान् यजन्ते पूजयन्ति अज्ञान-प्रतिहतत्वान् न तु निष्कामाः सन्तो मां भगवन्तं वासुदेवम् इति शेषः । कस्मात् ? हि यस्माद् इन्द्रादि-देवता-याजिनां तत्-फल-काङ्क्षिणां कर्मजा सिद्धिः कर्म-जन्यं फलं क्षिप्रं शीघ्रम् एव भवति मानुषे लोके । ज्ञान-फलं त्व् अन्तःकरण-शुद्धि-सापेक्षत्वान् न क्षिप्रं भवति ।
मानुषे लोके कर्म-फलं शीघ्रं भवतीति विशेषणाद् अन्य-लोके ऽपि वर्णाश्रम-धर्म-व्यतिरिक्त-कर्म-फल-सिद्धिर् भगवता सूचिता । यतस् तत् तत् क्षुद्र-फल-सिद्ध्य्-अर्थं स-कामा मोक्ष-विमुखा अन्या देवता यजन्ते ऽतो न मुमुक्षव इव मां वासुदेवं साक्षात् ते प्रपद्यन्त इत्य् अर्थः ॥१२॥
विश्वनाथः : तत्रापि मनुष्येषु मध्ये कामिनस् तु मम साक्षाद्-भूतम् अपि भक्ति-मार्गं परिहाय शीघ्र-फल-साधकं कर्म-वर्त्मैवानुवर्तन्त इत्य् आह काङ्क्षन्त इति । कर्मजा सिद्धिः स्वर्गादिमयी ॥१२॥
बलदेवः : एवं प्रासङ्गिकं प्रोच्य प्रकृतस्य निष्काम-कर्मणो ज्ञानाकारत्वं वदिष्यंस् तद् अनुष्ठातुं विरलत्वम् आह काङ्क्षन्त इति । इह लोके ऽनादि-भोग-वासना-नियन्त्रिताः प्राणिनः कर्मणां सिद्धिं पशुपुत्रादि-फल-निष्पत्तिं काङ्क्षन्तो ऽनित्याल्प-दान् अपीन्द्रादि-देवान् यजन्ते सकामैः कर्मभिर् न तु सर्व-देवेश्वरं नित्यानन्द-फल-प्रदम् अपि मां निष्कामैस् तैर् यजन्ते । हि यस्माद् अस्मिन् मानुषे लोके कर्मजा सिद्धिः क्षिप्रं भवति । निष्काम-कर्माराधितान् मत्तो ज्ञानतो मोक्ष-लक्षणा सिद्धिस् तु चिरेणैव भवतीति । सर्वे लोका भोग-वासना-ग्रस्त-सद्-असद्-विवेकाः शीघ्र-भोगेच्छवस् तद्-अर्थं मद्-भृत्यान् देवान् भजन्ति । न तु कश्चित् सद्-असद्-विवेकी संसार-दुःख-वित्रस्त-दुःख-निवृत्तये निष्काम-कर्मभिः सर्व-देवेशं मां
भजतीति विरलस् तद्-अधिकारीति भावः ॥१२॥
४।१३
चातुर्-वर्ण्यं मया सृष्टं गुण-कर्म-विभागशः ।
तस्य कर्तारम् अपि मां विद्ध्य् अकर्तारम् अव्ययम् ॥१३॥
श्रीधरः : ननु केचित् सकामतया प्रवर्तन्ते, केचित् निष्कामतया इति कर्म-वैचित्र्यम् । तत्-कर्तृणा च ब्राह्मणादीनाम् उत्तम-मध्यमादि-वैचित्र्यं कुर्वतस् तव कथं वैषम्यं नास्ति ? इत्य् आशङ्क्याह चातुर्वर्ण्यम् इति । चत्वारो वर्णा एवेति चातुर्वर्ण्यं स्वार्थे ष्यञ्-प्रत्ययः । अयम् अर्थः – सत्त्व-प्रधाना ब्राह्मणास् तेषां शम-दमादीनि कर्माणि । सत्त्व- रजः-प्रधानाः क्षत्रियास् तेषां शौर्य-युद्धादीनि कर्माणि । रजस्- तमः-प्रधाना वैश्यास् तेषां कृषि-वाणिज्यादीनि कर्माणि । तमः-प्रधानाः शूद्रास् तेषां त्रैवर्णिक-शुश्रूषादीनि कर्माणि । इत्य् एवं गुणानां कर्मणां च विभागैश् चातुर्वर्ण्यं मयैव सृष्टम् इति सत्यम्, तथाप्य् एवं तस्य कर्तारम् अपि फलतो ऽकर्तारम् एव मां विद्धि । तत्र हेतुः – अव्ययम्
आसक्ति-राहित्येन श्रम-रहितं नाशादि-रहितं वा ॥१३॥
मधुसूदनः : शरीरारम्भक-गुण-वैषम्याद् अपि न सर्वे समान-स्वभावा इत्य् आह चातुर्वर्ण्यम् इति । चत्वारो वर्णा एव चातुर्वर्ण्यं स्वार्थे ष्यञ् । मयेश्वरेण सृष्टम् उत्पादितं गुण-कर्म-विभागशो गुण-विभागशः कर्म-विभागशश् च । तथा हि सत्त्व-प्रधाना ब्राह्मणास् तेषां च सात्त्विकानि शम-दमादीनि कर्माणि । सत्त्वोपसर्जन-रजः-प्रधानाः क्षत्रियास् तेषां च तादृशानि शौर्य-तेजः-प्रभृतीनि कर्माणि । तम-उपसर्जन-रजः-प्रधाना वैश्यास् तेषां च कृष्य्-आदीनि तादृशानि कर्माणि । तमः-प्रधानाः शूद्रास् तेषां च तामसानि त्रैवर्णिक-शुश्रूषादीनि कर्माणीति मानुषे लोके व्यवस्थितानि ।
एवं तर्हि विषम-स्वभाव-चातुर्वर्ण्य-स्रष्टृतेन तव वैषम्यं दुर्वारम् इत्य् आशङ्क्य नेत्य् आह तस्य विषम-स्वभावस्य चातुर्वर्ण्यस्य व्यवहार-दृष्ट्या कर्तारम् अपि मां परमार्थ-दृष्ट्या विद्ध्य् अकर्तारम् अव्ययं निरहङ्कारत्वेनाक्षीण-महिमानम् ॥१३॥
विश्वनाथः : ननु भक्ति-ज्ञान-मार्गौ मोचकौ, कर्म-मार्गस् तु बन्धक इति सर्व-मार्ग-स्रष्टरि त्वयि परमेश्वरे वैषम्यं प्रसक्तम् । तत्र नहि नहीत्य् आह चातुर्वर्ण्यम् इति । चत्वारो वर्णा एव चातुर्वर्ण्यम् । स्वार्थे ष्यञ् । अत्र सत्त्व-प्रधाना ब्राह्मणास् तेषां शम-दमादीनि कर्माणि । रजः-सत्त्व-प्रधानाः क्षत्रियास् तेषां शौर्य-युद्धादीनि कर्माणि । तमो-रजः-प्रधाना वैश्यास् तेषां कृषि-गो-रक्षादीनि कर्माणि । तमः-प्रधानाः शूद्रास् तेषां परिचर्यात्मकं कर्मेत्य् एवं गुण-कर्म-विभागशो गुणानां कर्मणां च विभागैश् चत्वारो वर्णा मया धर्म-मार्गाश्रितत्वेन सृष्टाः । किन्तु तेषां कर्तारं स्रष्टारम् अपि माम् अकर्तारम् अस्रष्टारम् एव विद्धि । तेषां प्रकृति-गुण-सृष्टत्वात् प्रकृतेश्
च मच्-छक्तित्वात् । स्रष्टारम् अपि मां वस्तुतस् त्व् अस्रष्टारम् । मम प्रकृति-गुणातीत-स्वरूपत्वाद् इति भावः । अतएवाव्ययम् । स्रष्टृत्वे ऽपि न साम्यं किञ्चिद् एवेत्य् अर्थः ॥१३॥
बलदेवः : अथ निष्काम-कर्मानुष्ठान-विरोधि-भोग-वासना-विनाश-हेतुम् आह चातुर्वर्ण्यम् इति द्वाभ्याम् । चत्वारो वर्णाश् चातुर्वर्ण्यं स्वार्थिकः ष्यञ् । सत्त्व-प्रधानाः विप्रास् तेषां शमादीनि कर्माणि । रजः-सत्त्व-प्रधानाः क्षत्रियास् तेषां युद्धादीनि । तमो-रजः-प्रधाना वैश्यास् तेषां कृष्य्-आदीनि । तमः-प्रधानाः शूद्रास् तेषां विप्रादि-त्रिक-परिचर्यादीनीति गुण-विभागैः कर्म-विभागैश् च विभक्ताश् चत्वारो वर्णाः सर्वेश्वरेण मया सृष्टाः स्थिति-संहृत्योर् उपलक्षणम् एतत् । ब्रह्मादि-स्तम्बान्तस्य प्रपञ्चस्याहम् एव सर्गादि-कर्तेति । यद् आह सूत्रकारः - जन्माद्य् अस्य यतः [व्स् १।१।२] इति । तस्य सर्गादेः कर्तारम् अपि मां तत् तत् कर्मान्तरितत्वाद् अकर्तारं विद्धीति स्वस्मिन् वैषम्यादिकं परिहृतम्
। एतत् प्राहाव्ययय्म् इति स्रष्टृत्वे ऽपि साम्यान् न व्येमीत्य् अर्थः ॥१३॥
४।१४
न मां कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा ।
इति मां यो ऽभिजानाति कर्मभिर् न स बध्यते ॥१४॥
श्रीधरः : तद् एव दर्शयन्न् आह न माम् इति । कर्माणि विश्व-सृष्ट्य्-आदीन्य् अपि मां न लिम्पन्त्य् आसक्तं न कुर्वन्ति । निरहङ्कारत्वान् मम कर्म-फले स्पृहाभावाच् च । मां लिम्पन्तीति किं कर्तव्यम् ? यतः कर्म-लेप-रहितत्वेन मां यो ऽभिजानाति सो ऽपि कर्मभिर् न बध्यते । मम निर्लेपत्वे कारणं निरहङ्कारत्व-निःस्पृहत्वादिकं जानतस् तस्याप्य् अहङ्कारादि-शैथिल्यात् ॥१४॥
मधुसूदनः : कर्माणि विश्व-सर्गादीनि मां निरहङ्कारत्वेन कर्तृत्वेन कर्तृत्वाभिमान-हीनं भगवन्तं न लिम्पन्ति देहारम्भकत्वेन न बध्नन्ति । एवं कर्तृत्वं निराकृत्य भोक्तृत्वं निराकरोति न मे ममाप्त-कामस्य कर्म-फले स्पृहा तृष्णा आप्त-कामस्य का स्पृहा इति श्रुतेः । कर्तृत्वाभिमान-फल-स्पृहाभ्यां हि कर्माणि लिम्पन्ति तद्-अभावान् न मां कर्माणि लिम्पन्तीति । एवं यो ऽन्यो ऽपि माम् अकर्तारम् अभोक्तारं चात्मत्वेनाभिजानाति कर्मभिर् न स बध्यते ऽकर्त्रात्म-ज्ञानेन मुच्यत इत्य् अर्थः ॥१४॥
विश्वनाथः : नन्व् एतत् तावद् आस्ताम्, सम्प्रति त्वं क्षत्रिय-कुले ऽवतीर्णः । क्षत्रिय-जात्य्-उचितानि कर्माणि प्रत्यहं करोष्य् एव । तत्र का वार्ता इत्य् अत आह न माम् इति । न लिम्पन्ति जीवम् इव न लिप्तीकुर्वन्ति । नापि जीवस्येव कर्म-फले स्वर्गादौ स्पृहा । परमेश्वरत्वेन स्वानन्द-पूर्णत्वे ऽपि लोक-प्रवर्तनार्थम् एव मे कर्मादि-करणम् इति भावः । इति माम् इति । यस् तु न जानाति स कर्मभिर् बध्यत इति भावः ॥१४॥
बलदेवः : एतद् विशदयति न माम् इति । कर्माणि विश्व-सर्गादीनि मां न लिम्पन्ति वैषम्यादि-दोषेण जीवम् इव लिप्तं न कुर्वन्ति, यत् तानि सृज्य-जीव-कर्म-प्रयुक्तानि न च मत्-प्रयुक्तानि न च सर्गादि-कर्म-फले मम स्पृहास्त्य् अतो न लिम्पन्तीति । फल-स्पृहया यः कर्माणि करोति स तत्-फलैर् लिप्यते । अहं तु स्वरूपानन्द-पूर्णः प्रकृति-विलीन-क्षेत्रज्ञ-बुभुक्षाभ्युदित-दयः । पर्जन्यवन् निमित्त-मात्रः सन् तत्-कर्माणि प्रवर्तयामीति । स्मृतिश् च -
निमित्त-मात्रम् एवासौ सृज्यानां सर्ग-कर्मणि ।
प्रधान-कारणीभूता यतो वै सृज्य-शक्तयः ॥ इत्य् आद्या ।
सृज्यानां देव-मानवादि-भाव-भाजां क्षेत्रज्ञानां सर्ग-क्रियायाम् असौ परेशो निमित्त-मात्रम् एव देवादि-भाव-वैचित्र्यां कारणीभूतास् तु सृज्यानां तेषां प्राचीन-कर्म-शक्तय एव भवन्तीति तद्-अर्थः । एवम् आह सूत्रकृत् - वैषम्य-नैर्घृण्येन [व्स्। २।१।३५] इत्य् आदिना । एवं ज्ञानस्य फलम् आह इति माम् इति । इत्थम्भूतं मां यो ऽभिजानाति, स तद्-विरोधिभिस् तद्-धेतुभिः प्राचीन-कर्मभिर् न बध्यते । तैर् विमुच्यत इत्य् अर्थः ॥१४॥
४।१५
एवं ज्ञात्वा कृतं कर्म पूर्वैर् अपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात् त्वं पूर्वैः पूर्वतरं कृतम् ॥१५॥
श्रीधरः : ये यथा माम् इत्य् आदि चतुर्भिः श्लोकैः प्रासङ्गिकम् ईश्वरस्य वैषम्यं परिहृत्य पूर्वोक्तम् एव कर्म-योगं प्रपञ्चयितुम् अनुस्मारयति एवम् इति । अहङ्कारादि-राहित्येन कृतं कर्म बन्धकं न भवति । इत्य् एवं ज्ञात्वा पूर्वैर् जनकादिभिर् अपि मुमुक्षुभिः सत्त्व-शुद्ध्य्-अर्थं पूर्वतरं युगान्तरेष्व् अपि कृतम् । तस्मात् त्वम् अपि प्रथमं कर्मैव कुरु ॥१५॥
मधुसूदनः : यतो नाहं कर्ता न मे कर्म-फल-स्पृहेति ज्ञानात् कर्मभिर् न बध्यते ऽत आह एवम् इति । एवम् आत्मनो ऽकर्तुः कर्मालेपं ज्ञात्वा कृतं कर्म पूर्वैर् अतिक्रान्तैर् अपि अस्मिन् युगे ययाति-यदु-प्रभृतिभिर् मुमुक्षुभिः । तस्मात् त्वम् अपि कर्मैव कुरु न तूष्णीम् आसनं नापि सन्न्यासम् । यद्य् अतत्त्ववित् तदात्म-शुद्ध्य्-अर्थं तत्त्व-विच् चेल् लोक-सङ्ग्रहार्थम् । पूर्वैर् जनकादिभिः पूर्वतरम् अतिपूर्वं युगान्तरे कृतम् । एतेनास्मिन् युगे ऽन्य-युगे च पूर्व-पूर्वतरैः कृतत्वाद् अवश्यं त्वया कर्तव्यं कर्मेति दर्शयति ॥१५॥
विश्वनाथः : एवम्भूतम् एव मां ज्ञात्वा पूर्वैर् जनकादिभिर् अपि लोक-प्रवर्तनार्थम् एव कर्म कृतम् ॥१५॥
बलदेवः : एवम् इति । माम् एव ज्ञात्वा तद्-अनुसारिभिर् मच्-छिष्यैः पूर्वैर् विवस्वद्-आदिभिर् मुमुक्षुभिर् निष्कामं कर्म कृतम् । तस्मात् त्वम् अपि कर्मैव तत् कुरु । न कर्म-सन्न्यासम् । अशुद्ध-चित्तश् चेज् ज्ञान-गर्भायै चित्त-शुद्ध्यै शुद्ध-चित्तश् चेल् लोक-सङ्ग्रहायेत्य् अर्थः । कीदृशं पूर्वैस् तैः कृतं ? पूर्वतरं अतिप्राचीनम् ॥१५॥
४।१६
किं कर्म किम् अकर्मेति कवयो ऽप्य् अत्र मोहिताः ।
तत् ते कर्म प्रवक्ष्यामि यज् ज्ञात्वा मोक्ष्यसे ऽशुभात् ॥१६॥
श्रीधरः : तच् च तत्त्वविद्भिः सह विचार्य कर्तव्यम् । न लोक-परम्परा-मात्रेणेत्य् आह किं कर्मेति । किं कर्म ? कीदृशं कर्म-करणम् । किम् अकर्म ? कीदृशं कर्माकरणम् । इत्य् अस्मिन्न् अर्थे विवेकिनो ऽपि मोहिताः । अतो यज् ज्ञाता यद्-अनुष्ठायाशुभात् संसारान् मोक्ष्यसे मुक्तो भविष्यसि तत् कर्माकर्म च तुभ्यम् अहं प्रवक्ष्यामि तच् छृणु ॥१६॥
मधुसूदनः : ननु कर्म-विषये किं कश्चित् संशयो ऽप्य् अस्ति येन पूर्वैः पूर्वतरं कृतम् इत्य् अतिनिर्बध्नासि ? अस्त्य् एवेत्य् आह किं कर्मेति । नौ-स्थस्य निष्क्रियेष्व् अपि तटस्थ-वृक्षेषु गमन-भ्रम-दर्शनात् तथा दूराच् चक्षुः-सन्निकृष्टेषु गच्छत्स्व् अपि पुरुषेष्व् अगमन-भ्रम-दर्शनात् परमार्थतः किं कर्म किं वा परमार्थतो ऽकर्मेति कवयो मेधाविनो ऽप्य् अत्रास्मिन् विषये मोहिता मोहं निर्णयासामर्थ्यं प्राप्ता अत्यन्त-दुर्निरूपत्वाद् इत्य् अर्थः । तत् तस्मात् ते तुभ्यम् अहं कर्म, अ-कार-प्रश्लेषेण च्छेदाद् अकर्म च प्रवक्ष्यामि प्रकर्षेण सन्देहोच्छेदेन वक्ष्यामि । यत् कर्माकर्म-स्वरूपं ज्ञात्वा मोक्ष्यसे मुक्तो भविष्यस्य् अशुभात् संसारात् ॥१६॥
विश्वनाथः : किं च कर्मापि न गतानुगतिक-न्यायेनैव केवलं विवेकिना कर्तव्यम् । किन्तु तस्य प्रकार-विशेषं ज्ञात्वैवेत्य् अतस् तस्य प्रथमं दुर्ज्ञेयत्वम् आह ॥१६॥
बलदेवः : ननु किं कर्म-विषयकः कश्चित् सन्देहो ऽप्य् अस्ति यतः पूर्वैः पूर्वतरं कृतम् इत्य् अतिनिर्बन्धाद् ब्रवीषीति चेद् अस्त्य् एवेत्य् आह किं कर्मेति । मुमुक्षुभिर् अनुष्ठेयं कर्म किं रूपं स्याद् अकर्म च कर्मान्यत् तद्-अन्तर्गतं ज्ञानं च किं रूपम् इत्य् अर्थः । तद्-अन्यत्वे एनं च । अत्रार्थे कवयो धीमन्तो ऽपि मोहितास् तद्-याथात्म्य-निर्णयासामर्थ्यान् मोहं प्रापुः । अहं सर्वेशः सर्वज्ञस् ते तुभ्यं तत् कर्म अ-कार-प्रश्लेषाद् अकर्म च प्रवक्ष्यामि यज् ज्ञात्वानुष्ठाय प्राप्य चाशुभात् संसारान् मोक्ष्यसे ॥१६॥
४।१७
कर्मणो ह्य् अपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश् च बोद्धव्यं गहना कर्मणो गतिः ॥१७॥
श्रीधरः : ननु लोक-प्रसिद्धम् एव कर्म देहादि-व्यापारात्मकम् । अकर्म तद्-अव्यापारात्मकम् । अतः कथम् उच्यते कवयो ऽप्य् अत्र मोहं प्राप्ता इति ? तत्राह कर्मण इति । कर्मणो विहित-व्यापारस्यापि तत्त्वं बोद्धव्यम् अस्ति । न तु लोक-प्रसिद्ध-मात्रम् एव । अकर्मणो ऽविहित-व्यापारस्यापि तत्त्वं बोद्धव्यम् अस्ति । विकर्मणो निषिद्ध-व्यापारस्यापि तत्त्वं बोद्धव्यम् अस्ति । यतः कर्मणो गतिर् गहना । कर्मण इत्य् उपलक्षणार्थम् । कर्माकर्म-विकर्मणां तत्त्वं दुर्विज्ञेयम् इत्य् अर्थः ॥१७॥
मधुसूदनः : ननु सर्व-लोक-प्रसिद्धत्वाद् अहम् एवैतज् जानामि देहेन्द्रियादि-व्यापारः कर्म तूष्णीम् आसनम् अकर्मेति तत्र किं त्वया वक्तव्यम् इति तत्राह कर्मण इति । हि यस्मात् कर्मणः शास्त्र-विहितस्यापि तत्त्वं बोद्धव्यम् अस्ति, विकर्मणश् च प्रतिषिद्धस्य, अकर्मणश् च तूष्णीम्भावस्य । अत्र वाक्य-त्रये ऽपि तत्त्वम् असीत्य् अध्याहारः । यस्माद् गहना दुर्ज्ञाना । कर्मण इत्य् उपलक्षणं कर्माकर्म-विकर्मणाम् । गतिस् तत्त्वम् इत्य् अर्थः ॥१८॥
विश्वनाथः : निषिद्धाचरणं दुर्गति-प्रापकम् इति तत्त्वम् । तथाकर्मणः कर्माकरणस्यापि सन्न्यासिनः कीदृशं कर्माकरणं शुभदम् इति । अन्यथा निःश्रेयसं कथं हस्त-गतं स्याद् इति भावः । कर्मण इत्य् उपलक्षणं कर्माकर्म-विकर्मणाम् । गतिस् तत्त्वम् । गहना दुर्गमा ॥१७॥
बलदेवः : ननु कवयो ऽपि मोहं प्रापुर् इति चेत् तत्राह कर्मणो हीति । कर्मणो निष्कामस्य मुमुक्षुभिर् अनुष्ठातव्यस्य स्वरूपं बोद्धव्यम् । विकर्मणो ज्ञान-विरुद्धस्य काम्य-कर्मणः स्वरूपं बोद्धव्यम् । अकर्मणश् च कर्म-भिन्नस्य ज्ञानस्य च स्वरूपं बोद्धव्यम् । तत्-तत्-स्वरूपविद्भिः सार्धं विचार्यम् इत्य् अर्थः । कर्मणो ऽकर्मणश् च गतिर् गहना दुर्गमा । अतः कवयो ऽपि तत्र मोहिताः ॥१७॥
४।१८
कर्मण्य् अकर्म यः पश्येद् अकर्मणि च कर्म यः ।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्न-कर्म-कृत् ॥१८॥
श्रीधरः : तद् एवं कर्मादीनां दुर्विज्ञेयत्वं दर्शयन्न् आह कर्मणीति । परमेश्वराराधन-लक्षणे कर्मणि कर्म-विषये अकर्म कर्मेदं न भवतीति यः पश्येत् । तस्य ज्ञान-हेतुत्वेन बन्धकत्वाभावात् । अकर्मणि च विहिताकरणे कर्म यः पश्येत् प्रत्यवायोत्पादकत्वेन बन्ध-हेतुत्वात् । मनुष्येषु कर्म कुर्वाणेषु स बुद्धिमान् व्यवसायात्मक-बुद्धिमत्त्वाच् छ्रेष्ठः । तं स्तौति स युक्तो योगी । तेन कर्मणा ज्ञान-योगावाप्तेः । स एव कृत्स्न-कर्म-कर्ता च । सर्वतः सम्प्लुतोदक-स्थानीये च तस्मिन् कर्मणि सर्व-कर्म-फलानाम् अन्तर्भावात् तद् एवम् आरुरुक्षोः कर्म-योगाधिकारावस्थायां न कर्मणाम् अनारम्भाद् इत्य् आदिनोक्त एव कर्म-योगः स्पष्टीकृतः । तत्-प्रपञ्च-रूपत्वाच् चास्य प्रकरणस्य न पौनरुक्त्य-दोषः । अनेनैव योगारूढावस्थायां
यस् त्व् आत्म-रतिर् एव स्याद् इत्य् आदिना यः कर्मानुपयोग उक्तस् तस्याप्य् अर्थात् प्रपञ्चः कृतो वेदितव्यः । यद् आरुरुक्षोर् अपि कर्म बन्धकं न भवति तद्-आरूढस्य कुतो बन्धकं स्यात् इत्य् अत्रापि श्लोको युज्यते ।
यद् वा, कर्मणि देहेन्द्रियादि-व्यापारे वर्तमाने ऽप्य् आत्मनो देहादि-व्यतिरेकानुभवेन अकर्म स्वाभाविकं निअष्कर्म्यम् एव यः पश्येत् तथा अकर्मणि च ज्ञान-रहिते दुःख-बुद्ध्या कर्मणां त्यागे कर्म यः पश्येत् तस्य प्रयत्न-साध्यत्वेन मिथ्याचारत्वात् । तद् उक्तं कर्मेन्द्रियाणि संयम्येत्य् आदिना । य एवम्भूतः स तु सर्वेषु मनुष्येषु बुद्धिमान् पण्डितः । तत्र हेतुः - यतः कृत्स्नानि सर्वाणि यदृच्छया प्राप्तान्य् आहारादीनि कर्माणि कुर्वन्न् अपि स युक्त एव अकर्त्रात्म-ज्ञानेन समाधिस्थ एवेत्य् अर्थः । अनेननैव ज्ञानिनः स्वभावाद् आपन्नं कलञ्ज-भक्षणादिकं न दोषाय । अज्ञस्य तु रागतः कृतं दोषाय इति विकर्मणो ऽपि तत्त्वं निरूपितं द्रष्टव्यम् ॥१८॥
मधुसूदनः : कीदृशं तर्हि कर्मादीनां तत्त्वम् इति तद् आह कर्मणीति । कर्मणि देहेन्द्रियादि-व्यापारे विहिते प्रतिषिद्धे चाहं करोमीति धर्म्य्-अध्यासेनात्मन्य् आरोपित्## । नौ-स्थेनाचलत्सु तटस्थ-वृक्षादिषु समारोपिते चलन इवाकर्तात्म-स्वरूपालोचनेन वस्तुतः कर्माभावं तटस्थ-वृक्षादिष्व् इव यः पश्येत् पश्यति । तथा देहेन्द्रियादिषु त्रिगुण-माया-परिणामत्वेन सर्वदा सव्यापारेषु निर्व्यापारस् तूष्णीं सुखम् आस इत्य् अभिमानेन समारोपिते ऽकर्मणि व्यापारोपरमे दूरस्थ-चक्षुः-सन्निकृष्ट-पुरुषेषु गच्छत्स्व् अप्य् अगमन इव सर्वदा स-व्यापार-देहेन्द्रियादि-स्वरूप-पर्यालोचनेन वस्तु-गत्या कर्म निवृत्त्याख्य-प्रयत्न-रूपं व्यापारं यः पश्येद् उदाहृत-पुरुषेषु गमनम् इव । औदासीन्यावस्थायाम् अप्य् उदासीनो ऽहम् आस इत्य्
अभिमान एव कर्म । एतादृशः परमार्थ-दर्शी स बुद्धिमान् इत्य् आदिना बुद्धिमत्त्व-योग-युक्तत्व-सर्व-कर्म-कृत्त्वैस् त्रिभिर् धर्मैः स्तूयते ।
अत्र प्रथम-पादेन कर्म-विकर्मणोस् तत्त्वं कर्म-शब्दस्य विहित-प्रतिषिद्ध-परत्वात् । द्वितीय-पादेन चाकर्मणस् तत्त्वं दर्शितम् इति द्रष्टव्यम् । तत्र यत् त्वं मन्यसे कर्मणो बन्ध-हेतुत्वात् तूष्णीम् एव मया सुखेन स्थातव्यम् इति तन् मृषा । असति कर्तृत्वाभिमाने विहितस्य प्रतिषिद्धस्य वा कर्मणो बन्ध-हेतुत्वाभावात् । तथा च व्याख्यातं न मां कर्माणि लिम्पन्ति [गीता ४।१४] इत्य् आदिना । सतिच कर्तृत्वाभिमाने तूष्णीम् अहम् आस इत्य् औदासीन्याभिमानात्मकं यत् कर्म तद् अपि बन्ध-हेतुर् एव वस्तु-तत्त्वापरिज्ञानात् । तस्मात् कर्म-विकर्माकर्मणां तत्त्वम् ईदृशं ज्ञात्वा विकर्माकर्मणी परित्यज्य कर्तृत्वाभिमान-फलाभिसन्धि-हानेन विहितं कर्मैव कुर्व् इत्य् अभिप्रायः ।
अपरा व्याख्या कर्मणि ज्ञान-कर्मणि दृश्ये जडे सद्-रूपेण स्फुरण-रूपेण चानुस्यूतं सर्व-भ्रमाधिष्ठानम् अकर्मावेद्यं स्व-प्रकाश-चैतन्यं परमार्थ-दृष्ट्या यः पश्येत् । तथाकर्मणि च स्व-प्रकाशे दृग्-वस्तुनि कल्पितं कर्म दृश्यं माया-मयं न परमार्थ-सत् । दृग्-दृश्ययोः सम्बन्धानुपपत्तेः -
यस् तु सर्वाणि भूतानि आत्मन्य् एवानुपश्यति ।
सर्व-भूतेषु चात्मानं ततो न विजुगुप्सते ॥ [ईशउ ६] इति श्रुतेः ।
एवं परस्पराध्यासे ऽपि शुद्धं वस्तु यः पश्यति मनुष्येषु मध्ये स एव बुद्धिमान् नान्यः । अस्य परमार्थ-दर्शित्वाद् अन्यस्य चापरमार्थ-दर्शित्वात् । स च बुद्धि-साधन-योग्य-युक्तो ऽन्तः-करण-शुद्ध्य्-ऐकाग्र-चित्तः । अतः स एवान्तःकरण-शुद्धि-साधन-कृत्स्न-कर्म-कृद् इति वास्तव-धर्मैर् एव स्तूयते । यस्माद् एवं तस्मात् त्वम् अपि परमार्थ-दर्शी भव तावतैव कृत्स्न-कर्म-कारित्वोपपत्तेर् इत्य् अभिप्रायः ।
अतो यद् उक्तं यज् ज्ञात्वा मोक्ष्यसे ऽशुभाद् इति । यच् चोक्तं कर्मादीनां तत्त्वं बोद्धव्यम् अस्तीति स बुद्धिमान् इत्य् आदि-स्तुतिश् च । तत् सर्वं परमार्थ-दर्शने सङ्गच्छते । अन्य-ज्ञानाद् अशुभात् संसारान् मोक्षानुपपत्तेः । अतत्त्वं चान्यन् न बोद्धव्यं न वा यज्-ज्ञाने बुद्धिमत्त्वम् इति युक्तैव परमार्थ-दर्शिनां व्याख्या ।
यत् तु व्याख्यानं कर्मणि नित्ये परमेश्वरार्थे ऽनुष्ठीयमाने बन्ध-हेतुत्वाभावाद् अकर्मेदम् इति यः पश्येत् । तथाकर्मणि च नित्य-कर्माकरणे प्रत्यवाय-हेतुत्वेन कर्मेदम् इति यः पश्येत् स बुद्धिमान् इत्य् आदि तद् असङ्गतम् एव । नित्य-कर्मण्य् अकर्मेदम् इति ज्ञानस्याशुभ-मोक्ष-हेतुत्वाभावात्, मिथ्याज्ञानत्वेन तस्यिवाशुभत्वाच् च । न चैतादृशं मिथ्या-ज्ञानं बोद्धव्यं तत्त्वं नाप्य् एतादृश-ज्ञाने बुद्धिमत्त्वादि-स्तुत्य्-उपपत्तिर् भ्रान्तित्वात् । नित्य-कर्मानुष्ठानं हि स्वरूपतो ऽन्तःकरण-शुद्धि-द्वारोपयुज्यते न तत्राकर्म-बुद्धिः कुत्राप्य् उपयुज्यते शास्त्रेण नामादिषु ब्रह्म-दृष्टिवद् अविहितत्वात् । नापीदम् एव वाक्यं तद्-विधायकम् उपक्रमादि-विरोधस्योक्तेः । एवं नित्य-कर्माकरणम् अपि स्वरूपतो नित्य-कर्म-विरुद्ध-कर्म-लक्षकतयोपयुज्यते न तु
तत्र कर्म-दृष्टिः क्वाप्य् उपयुज्यते । नापि नित्य-कर्माकरणात् प्रत्यवायः । अभावाद् भावोत्पत्त्य्-अयोगात् । अन्यथा तद्-अविशेषेण सर्वदा कार्योत्पत्ति-प्रसङ्गात् । भावार्थाः कर्म-शब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयत इति न्यायेन भावार्थस्यैवापूर्व-जनकत्वात् । अतिरात्रे षोडशिनं न गृह्णाति इत्य् आदाव् अपि सङ्कल्प-विशेषस्यैवापूर्व-जनकत्वाभ्युपगमात् । नेक्षेतोद्यन्तम् आदित्यम् इत्य् आदि-प्रजापति-व्रतवत् । अतो नित्य-कर्मानुष्ठानार्हे काले तद्-विरुद्धतया यद्-उपवेशनादि कर्म तद् एव नित्य-कर्माकरणोपलक्षितं प्रत्यवाय-हेतुर् इति वैदिकानां सिद्धान्तः । अतएवाकुर्वन् विहितं कर्मेत्य् अत्र लक्षणार्थे शता व्याख्यातः । लक्षण-हेत्वोः क्रियाया इत्य् अविशेष-स्मरणे ऽप्य् अत्र हेतुत्वानुपपत्तेः । तस्मान् मिथ्या-दर्शनापनोदे प्रस्तुते मिथ्या-दर्शन-व्याख्यानं
न शोभतेतराम् । नापि नित्यानुष्ठान-परम् एवैतद् वाक्यं नित्यानि कुर्याद् इत्य् अर्थे कर्मण्य् अकर्म यः पश्येद् इत्य् आदि तद्-अबोधकरं वाक्यं प्रयुञ्जानस्य भगवतः प्रतारकत्वापत्तेर् इत्य् आदि भाष्य एव विस्तरेण व्याख्यातम् इत्य् उपरम्यते ॥१८॥
विश्वनाथः : तत्र कर्माकर्मणोस् तत्त्व-बोधम् आह कर्मणीति । शुद्धान्तः-करणस्य ज्ञानवत्त्वे ऽपि जनकादेर् इवाकृत-सन्न्यासस्य कर्मण्य् अनुष्ठीयमाने निष्काम-कर्म-योगे अकर्म । कर्मेदं न भवतीति यः पश्येत् तत्-कर्मणो बन्धकत्वाभावात् इति भावः । तथाशुद्धान्तःकरणस्य ज्ञानाभावे ऽपि शास्त्रज्ञत्वात् ज्ञान-वावदूकस्य सन्न्यासिनो ऽकर्मणि कर्माकरणे कर्म पश्येत् दुर्गति-प्रापकं कर्म-बन्धम् एवोपलभते । स एव बुद्धिमान् । स तु कृत्स्न-कर्माण्य् एव करोति, न तु तस्य ज्ञान-वावदूकस्य ज्ञानि-मानिनः सङ्गेनापि तद्-वचसापि सन्न्यासं न करोतीति भावः । तथा च भगवद्-वाक्यम् -
यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः ।
ज्ञान-वैराग्य-रहितस् त्रि-दण्डम् उपजीवति ॥
सुरान् आत्मानम् आत्म-स्थं निह्नुते मां च धर्म-हा ।
अविपक्व-कषायो ऽस्माद् अमुष्माच् च विहीयते ॥ [भ्प् ११।१८।४०-१] इति ॥१८॥
बलदेवः : कर्माकर्मणोर् बोद्धव्यं स्वरूपम् आह कर्मणीति । अनुष्ठीयमाने निष्कामे कर्मणि यो ऽकर्म प्रस्तुतत्वात् कर्मण्य् आत्म-ज्ञानं पश्येत्, अकर्मण्य् आत्म-ज्ञाने यः कर्म पश्येत् । एतद् उक्तं भवति - यो मुमुक्षुर् हृद्-विशुद्धये क्रियमाणं कर्मात्म-ज्ञानानुसन्धि-गर्भत्वाज् ज्ञानाकारम्, तच् च ज्ञानं कर्म-द्वारकत्वात् कर्माकारं पश्येत् । उभयोर् एकात्मोद्देश्यत्वाद् उभयम् एकं विद्याद् इत्य् अर्थः । एवम् एव वक्ष्यते साङ्ख्य-योगौ पृथग् बालाः इत्य् आदिनेति । एवम् अनुष्ठीयमाने कर्मणि आत्म-याथात्म्यं यो ऽनुसन्धत्ते स मनुष्येषु बुद्धिमान् पण्डितः । युक्तो मोक्ष-योग्यः । कृत्स्न-कर्म-कृत् सर्वेषां कर्म-फलानाम् आत्म-ज्ञान-सुखान्तर्भूतत्वात् ॥१८॥
४।१९
यस्य सर्वे समारम्भाः काम-सङ्कल्प-वर्जिताः ।
ज्ञानाग्नि-दग्ध-कर्माणं तम् आहुः पण्डितं बुधाः ॥१९॥
श्रीधरः : कर्मण्य् अकर्म यः पश्येद् इत्य् अनेन श्रुत्य्-अर्थार्थापत्तिभ्यां यद् उक्तम् अर्थ-द्वन्द्वं तद् एव स्पष्टयति यस्येति पञ्चभिः । सम्यग् आरभ्यन्त इति समारम्भाः कर्माणि । काम्यत इति कामः फलम् । तत्-सङ्कल्पेन वर्जिता यस्य भवन्ति तं पण्डितम् आहुः । तत्र हेतुर् यतस् तैः समारम्भैः शुद्धे चित्ते सति जातेन ज्ञानाग्निना दग्धान्य् अकर्मतां नीतानि कर्माणि यस्य तम् । आरूढावस्थायां तु कामः फल-हेतु-विषयः । तद्-अर्थम् इदं कर्तव्यम् इति कर्तव्य-विषयः सङ्कल्पः । ताभ्यां वर्जिताः । शेषं स्पष्टम् ॥१९॥
मधुसूदनः : तद् एतत् परमार्थ-दर्शिनः कर्तृत्वाभिमानाभावेन कर्मालिप्तत्वं प्रपञ्च्यते यस्य सर्व इत्य् आदि ब्रह्म-कर्म-समाधिनेत्य् अन्तेन । यस्य पूर्वोक्त-परमार्थ-दर्शिनः सर्वे यावन्तो वैदिका लौकिका वा समारम्भाः समारभ्यन्त इति व्युत्पत्त्या कर्माणि काम-सङ्कल्प-वर्जिताः कामः फल-तृष्णा सङ्कल्पो ऽहं करोमीति कर्तृत्वाभिमानस् ताभ्यां वर्जिताः । लोक-सङ्ग्रहाथं वा जीवन-मात्रार्थं वा प्रारब्ध-कर्म-वेगाद् वृथा-चेष्टा-रूपा भवन्ति । तं कर्मादाव् अकर्मादि-दर्शनं ज्ञानं तद् एवाग्निस् तेन दग्धानि शुभाशुभ-लक्षणानि कर्माणि यस्य तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [व्स् ४।१।१३] इति न्यायात् । ज्ञानाग्नि-दग्ध-कर्माणं तं बुधा ब्रह्म-विदः परमार्थतः पण्डितम् आहुः
। सम्यग्-दर्शी हि पण्डित उच्यते न तु भ्रान्त इत्य् अर्थः ॥१९॥
विश्वनाथः : उक्तम् अर्थं विवृणोति यस्येति पञ्चभिः । सम्यग् आरभ्यन्त इति समारम्भाः कर्माणि । कामः फलम्, तत्-सङ्कल्पेन वर्जिताः । ज्ञानम् एवाग्निस् तेन दग्धानि कर्माणि क्रियमाणानि विहितानि निषिद्धानि च यस्य सः । एतेन विकर्मणश् च बोद्धव्यम् इत्य् अपि विवृतम् । एतादृशाधिकारिणि कर्म यथा अकर्म पश्येत्, तथैव विकर्माप्य् अकर्मैव पश्येद् इति पूर्व-श्लोकस्यैव सङ्गतिः । यद् अग्रे वक्ष्यते -
अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः ।
सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥
यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन ।
ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥ [गीता ४।३६-३७] इति ॥१९॥
बलदेवः : कर्मणो ज्ञानाकारम् आह यस्येति पञ्चभिः । समारम्भाः कर्माणि काम्यन्त इति कामाः फलानि तत्-सङ्कल्पेन वर्जिताः शून्या यस्य कर्मभिर् आत्मोद्देशिनो भवन्ति । तं बुधाः पण्डितम् आत्मज्ञम् आहुः । तत्र हेतुः - ज्ञानेति । तैः समारम्भैर् हृद्-विशुद्धौ सत्याम् आविर्भूतेनात्म-ज्ञानाग्निना दग्धानि सञ्चितानि कर्माणि यस्य तम् ॥१९॥
४।२०
त्यक्त्वा कर्म-फलासङ्गं नित्य-तृप्तो निराश्रयः ।
कर्मण्य् अभिप्रवृत्तो ऽपि नैव किञ्चित् करोति सः ॥२०॥
श्रीधरः : किं च त्यक्त्वेति । कर्मणि तत्-फले चासक्तिं त्यक्त्वा नित्येन निजानन्देन तृप्तः । अतएव योग-क्षेमार्थम् आश्रयणीय-रहितः । एवम्भूतो यः स्वाभाविके विहिते वा कर्मण्य् अभितः प्रवृत्तो ऽपि किञ्चिद् एव नैव करोति । तस्य कर्माकर्मताम् आपद्यत इत्य् अर्थः ॥२०॥
मधुसूदनः : भवतु ज्ञानाग्निना प्राक्तनानाम् अप्रारब्ध-कर्मणां दाह आगामिनां चानुत्पत्तिः । ज्ञानोत्पत्ति-काले क्रियमाणं तु पूर्वोत्तरयोर् अनन्तर्-भावात् फलाय भवेद् इति भवेत् कस्यचिद् आशङ्का ताम् अपनुदत्य् आह त्यक्त्वेति । कर्मणि फले चासङ्गं कर्तृत्वाभिमानं भोगाभिलाषं च त्यक्त्वाकर्त्र्-अभोक्त्र्-आत्म-सम्यग्-दर्शनेन बाधित्वा नित्य-तृप्तः परमानन्द-स्वरूप-लाभेन सर्वत्र निराकाङ्क्षः । निराश्रय आश्रयो देहेन्द्रियादिर् अद्वैत-दर्शनेन निर्गतो यस्मात् स निराश्रयो देहेन्द्रियाद्य्-अभिमान-शून्यः । फल-कामनायाः कर्तृत्वाभिमानस्य च निवृत्तौ हेतु-गर्भं क्रमेण विशेषण-द्वयम् । एवम्भूतो जीवन्मुक्तो व्युत्थान-दशायां कर्मणि वैदिके लौकिके वाभिप्रवृत्तो ऽपि प्रारब्ध-कर्म-वशाल् लोक-दृष्ट्याभितः साङ्गोपाङ्गानुष्ठानाय
प्रवृत्तो ऽपि स्व-दृष्ट्या नैव किञ्चित् करोति स निष्क्रियात्म-दर्शनेन बाधितत्वाद् इत्य् अर्थः ॥२०॥
विश्वनाथः : नित्य-तृप्तो नित्यं निजानन्दएन तृप्तः । निराश्रयः स्वयोग-क्षेमार्थं न कम् अप्य् आश्रयते ॥२०॥
बलदेवः : उक्तम् अर्थं विशदयति त्यक्त्वेति । कर्म-फले सङ्गं त्यक्त्वा नित्येनात्मनानुभूतेन तृप्तो निराश्रयो योग-क्षेमआर्तह्म् अप्य् आश्रय-रहित ईदृशो यो ऽधिकारी स कर्मण्य् अभितः प्रवृत्तो ऽपि नैव किञ्चित् करोति । कर्मानुष्ठानापदेशेन ज्ञान-निष्ठाम् एव सम्पादयतीत्य् आरुरुक्षोर् दशेयम् । एतेन विकर्मणः स्वरूपं बन्धकत्वं बोद्धव्यम् इत्य् उक्तं भवति ॥२०॥
४।२१
निराशीर् यत-चित्तात्मा त्यक्त-सर्व-परिग्रहः ।
शारीरं केवलं कर्म कुर्वन् नाप्नोति किल्बिषम् ॥२१॥
श्रीधरः : किं च निराशीर् इति । निर्गता आशिषः कामना यस्मात् । यतं नियतं चित्तम् आत्मा शरीरं च यस्य । त्यक्ताः सर्वे परिग्रहो येन । स शरीरं शरीर-मात्र-निर्वर्त्यं कर्तृत्वाभिनिवेश-रहितं कुर्वन्न् अपि किल्बिषम् बन्धनं न प्राप्नोति । योगारूढ-पक्षे शारीर-निर्वाह-मात्रोपयोगि स्वाभाविकं भिक्षाटनादि कुर्वन्न् अपि किल्बिषं विहिताकरण-निमित्त-दोषं न प्राप्नोति ॥२१॥
मधुसूदनः : यदात्यन्त-विक्षेप-हेतोर् अपि ज्योतिष्टोमादेः सम्यग्-ज्ञान-वशान् न तत्-फल-जनकत्वं तदा शरीर-स्थिति-मात्र-हेतोर् अविक्षेपकस्य भिक्षाटनादेर् नास्त्य् एव बन्ध-हेतुत्वम् इति कैमुत्य-न्यायेनाह निराशीर् इति । निराशीर् गत-तृष्णो यत-चित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्येन्द्रिय-सहितो देहस् तौ संयतौ प्रत्याहारेण निगृहीतौ येन सः । यतो जितेन्द्रियो ऽतो विगत-तृष्णत्वात् त्यक्त-सर्व-परिग्रहस् त्यक्ताः सर्वे परिग्रहा भोगोपकरणानि येन सः । एतादृशो ऽपि प्रारब्ध-कर्म-वशाच् छारीरं शरीर-स्थिति-मात्र-प्रयोजनं कौपीनाच्छादनादि-ग्रहण-भिक्षाटनादि-रूपं यतिं प्रति शास्त्राभ्यनुज्ञातं कर्म कायिकं वाचिकं मानसं च, तद् अपि केवलं कर्तृत्वाभिमान-शून्यं पराध्यारोपित-कर्तृत्वेन कुर्वन् परमार्थतो ऽकर्त्रात्म-दर्शनान्
नाप्नोति न प्राप्नोति किल्बिषं धर्माधर्म-फल-भूतम् अनिष्टं संसारं पापवत् पुण्यस्याप्य् अनिष्ट-फलत्वेन किल्बिषत्वम् ।
ये तु शरीर-निर्वर्त्यं शारीरम् इति व्याचक्षते तन् मते केवलं कर्म कुर्वन्न् इत्य् अतो ऽधिकार्थालाभाद् अव्यावर्तकत्वेन शारीर-पदस्य वैयर्थ्यम् । अथ वाचिक-मानसिक-व्यावर्तनाथम् इति ब्रूयात् तदा कर्म-पदस्य विहित-मात्र-परत्वेन शारीरं विहितं कर्म कुर्वन् नाप्नोति किल्बिषम् इत्य् अप्रसक्त-प्रतिषेधो ऽनर्थकः । प्रतिषिद्ध-साधारण-परत्वे ऽप्य् एवम् एव व्याघात इति भाष्य एव विस्तरः ॥२१॥
विश्वनाथः : आत्मा स्थूल-देहः । शारीरं शारीर-निर्वाहार्थं कर्मासत्-प्रतिग्रहादिकं कुर्वन्न् अपि किल्बिषं पापं नाप्नोतीत्य् एतद् अपि विकर्मणश् च बोद्धव्यम् इत्य् अस्य विवरणम् ॥२१॥
बलदेवः : अथारूढस्य दशाम् आह निराशीर् इति त्रिभिः । निर्गता आशीः फलेच्छा यस्मात् स । यत-चित्तात्मा वशीकृत-चित्त-देहस् त्यक्त-सर्व-परिग्रह आत्मैकावलोकनार्थत्वात् प्राकृतेषु वस्तुषु ममत्व-वर्जितः । शारीरं कर्म शरीर-निर्वाहार्थं कर्मासत्-परिग्रहादि कुर्वन्न् अपि किल्बिषं पापं नाप्नोति ॥२१॥
४।२२
यदृच्छा-लाभ-सन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धाव् असिद्धौ च कृत्वापि न निबध्यते ॥२२॥
श्रीधरः : किं च यदृच्छा-लाभेति । अप्रार्थितोपस्थितो लाभो यदृच्छा-लाभः । तेन सन्तुष्टः । द्वन्द्वानि शीतोष्णादीन्य् अतीतो ऽतिक्रान्तः । तत्-सहन-शील इत्य् अर्थः । विमत्सरो निर्वैरः । यदृच्छा-लाभस्यापि सिद्धाव् असिद्धौ च समो हर्ष-विषाद-रहितः । य एवम्भूतः स पूर्वोत्तर-भूमिकयोर् यथायथं विहितं स्वाभाविकं वा कर्म कृत्वापि बन्धं न प्राप्नोति ॥२२॥
मधुसूदनः : त्यक्त-सर्व-परिग्रहस्य यतेः शरीर-स्थिति-मात्र-प्रयोजनं कर्माभ्यनुज्ञातं तत्रान्नाच्छादनादि-व्यतिरेकेण शरीर-स्थितेर् असम्भवाद् याच्ञादिनापि स्व-प्रयत्नेनान्नादिकं सम्पाद्यम् इति प्राप्ते नियमायाह यदृच्छा-लाभेति । शास्त्राननुमत-प्रयत्न-व्यतिरेको यदृच्छा तयैव यो लाभो ऽन्नाच्छादनादेः शास्त्रानुमतस्य स यदृच्छालाभस् तेन सन्तुष्टस् तद्-अधिक-तृष्णा-रहितः । तथा च शास्त्रं भैक्षं चरेत् इति प्रकृष्य अयाचितम् असङ्क् प्तम् उपपन्नं यदृच्छया इति याच्ञा-सङ्कल्पादि-प्रयत्नं वारयति । मनुर् अपि -
न चोत्पात-निमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासन-वादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ [मनु ६।५०] इति ।
यतयो भिक्षार्थं ग्रामं विशन्तीत्य् आदि-शास्त्रानुमतस् तु प्रयत्नः कर्तव्य एव । एवं लब्धव्यम् अपि शास्त्र-नियतम् एव -
कौपीन-युगलं वासः कन्थां शीत-निवारिणीम् ।
पादुके चापि गृह्णीयात् कुर्यान् नान्यस्य सङ्ग्रहम् ॥ इत्य् आदि ।
एवम् अन्यद् अपि विधि-निषेध-रूपं शास्त्रम् ऊह्यम् ।
ननु स्व-प्रयत्नम् अन्तरेणालाभे शीतोष्णादि-पीडितः कथं जीवेद् अत आह द्वन्द्वातीत द्वन्द्वानि क्षुत्-पिपासा-शीतोष्ण-वर्षादीनि अतीतो ऽतिक्रान्तः समाधि-दशायां तेषाम् अस्फुरणात् । व्युत्थान-दशायां स्फुरणे ऽपि परमानन्दाद्वितीयाकर्त्र्-अभोक्त्र्-आत्म-प्रत्ययेन बाधात् तैर् द्वन्द्वैर् उपहन्यमानो ऽप्य् अक्षुभित-चित्तः । अतएव परस्य लाभे स्वस्यालाभे च विमत्सरः परोत्कर्षासहन-पूर्विका स्वोत्कर्ष-वाञ्छा मत्सरस् तद्-रहितो ऽद्वितीयात्म-दर्शनेन निर्वैर-बुद्धिः । अतएव समस् तुल्यो यदृच्छा-लाभस्य सिद्धाव् असिद्धौ च सिद्धौ न हृष्टो नाप्य् असिद्धौ विषण्णः स स्वानुभवेनाकर्तैव परैर् आरोपित-कर्तृत्वः शरीर-स्थिति-मात्र-प्रयोजनं भिक्षाटनादि-रूपं कर्म कृत्वापि न निबध्यते बन्ध-हेतोः स-हेतुकस्य कर्मणो ज्ञानाग्निना दग्धत्वाद्
इति पूर्वोक्तानुवादः ॥२२॥
विश्वनाथः : नोथिन्ग्।
बलदेवः : अथ शरीर-निर्वाहार्थम् अन्नाच्छादनादिकं स्व-प्रयत्नेन न सम्पाद्यम् इत्य् आह यदृच्छयेति । याच्ञां विनैव लाभो यदृच्छा-लाभस् तेन सन्तुष्टस् तृप्तः । द्वन्द्वानि शीतोष्णादीन्य् अतीतस् तत्-सहिष्णुः । विमत्सरो ऽन्यैर् उपद्रुतो ऽपि तैः सह वैरम् अकुर्वन् यदृच्छा-लाभ-सिद्धौ हर्षस्य तद्-असिद्धौ विषादस्य चाभावात् सम एवम्भूतः शारीरं कर्म कृत्वापि तेन तेन न बध्यते ज्ञान-निष्ठा-प्रभावान् न लिप्यते ॥२२॥
४।२३
गत-सङ्गस्य मुक्तस्य ज्ञानावस्थित-चेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥२३॥
श्रीधरः : किं च गत-सङ्गस्येति । गत-सङ्गस्य निष्कामस्य रागादिभिर् मुक्तस्य । ज्ञाने ऽवस्थितं चेतो यस्य तस्य । यज्ञाय परमेश्वरार्थं कर्माचरतः सतः समग्रं सवासनं कर्म प्रविलीयते । अकर्म-भावम् आपद्यते । अरूढ-योग-पक्षे यज्ञायेति । यज्ञाय यज्ञ-रक्षणार्थं लोक-सङ्ग्रहार्थम् एव कर्म कुर्वत इत्य् अर्थः ॥२३॥
मधुसूदनः : त्यक्त-सर्व-परिग्रहस्य यदृच्छा-लाभ-सन्तुष्टस्य यतेर् यच्-छरीर-स्थिति-मात्र-प्रयोजनं भिक्षाटनादि-रूपं कर्म तत् कृत्वा न निबध्यत इत्य् उक्ते गृहस्थस्य ब्रह्म-विदो जनकादेर् यज्ञादि-रूपं यत् कर्म तद्-बन्ध-हेतुः स्याद् इति भवेत् कस्यचिद् आशङ्का ताम् अपनेतुं त्यक्त्वा कर्म-फलासङ्गम् इत्य् आदिनोक्तं विवृणोति गत-सङ्गस्येति । गत-सङ्गस्य फलासङ्ग-शून्यस्य मुक्तस्य कर्तृत्व-भोक्तृत्वाद्य्-अध्यास-शून्यस्य ज्ञानावस्थित-चेतसो निर्विकल्पक-ब्रह्मात्मैक्य-बोध एव स्थितं चित्तं यस्य तस्य स्थित-प्रज्ञस्येत्य् अर्थः । उत्तरोत्तर-विशेषणस्य पूर्व-पूर्व-हेतुत्वेनान्वयो द्रष्टव्यः । गत-सङ्गत्वं कुतो यतो ऽध्यास-हीनत्वं तत् कुतो यतः स्थित-प्रज्ञत्वम् इति । ईदृशस्यापि प्रारब्ध-कर्म-वशाद् यज्ञाय यज्ञ-संरक्षणार्थं ज्योतिष्टोमादि-यज्ञे
श्रेष्ठाचारत्वेन लोक-प्रवृत्त्य्-अर्थं यज्ञाय विष्णवे तत्-प्रीत्य्-अर्थम् इति वा । आचरतः कर्म यज्ञ-दानादिकं समग्रं सहाग्रेण फलेन विद्यत इति समग्रं प्रविलीयते प्रकर्षेण कारणोच्छेदेन तत्त्व-दर्शनाद् विलीयते विनश्यतीत्य् अर्थः ॥२३॥
विश्वनाथः : यज्ञो वक्ष्यमाण-लक्षणस् तद्-अर्थं कर्माचरतस् तत् कर्म प्रविलीयते अकर्म-भावम् आपद्यत इत्य् अर्थः ॥२३॥
बलदेवः : गत-सङ्गस्य निष्कामस्य राग-द्वेषादिभिर् मुक्तस्य स्वात्म-विषयक-ज्ञान-निविष्ट-मनसो यज्ञाय विष्णुं प्रसादयितुं तच्-चिन्तनम् आचरतः प्राचीनं बन्धकं कर्म समग्रं कृत्स्नं प्रविलीयते ॥२३॥
४।२४
ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना ॥२४॥
श्रीधरः : तद् एवं परमेश्वराराधन-लक्षणं कर्म ज्ञान-हेतुत्वेन बन्धकत्वाभावाद् अकर्मैव । आरुढावस्थायां तु अकर्त्रात्म-ज्ञानेन बाधितत्वात् स्वाभाविकम् अपि कर्म-कर्मैवेति कर्मण्य् अकर्म यः पश्येद् इत्य् अनेनोक्तः कर्म-प्रविलयः प्रपञ्चितः । इदानीं कर्मणि तद्-अङ्गेषु च ब्रह्मैवानुस्यूतं पश्यतः कर्म-प्रविलयम् आह ब्रह्मार्पणम् इति । अर्प्यते ऽनेनेत्य् अर्पणं स्रुव्-आदि । तद् अपि ब्रह्मैव । अर्प्यमाणं हविर् अपि घृतादिकं ब्रह्मैव । ब्रह्मैवाग्निः । तस्मिन् ब्रह्मणा कर्त्रा हुतं होमः । अग्निश् च कर्ता च क्रिया च ब्रह्मैवेत्य् अर्थः । एवं ब्रह्मण्य् एव कर्मात्मके समाधिश् चित्तैकाग्र्यं यस्य तेन ब्रह्मैव गन्तव्यं प्राप्यम् । न तु फलान्तरम् इत्य् अर्थः ॥२४॥
मधुसूदनः : ननु क्रियमाणं कर्म फलम् अजनयित्वैव कुतो नश्यति ब्रह्म-बोधे तत्-कारणोच्छेदाद् इत्य् आह ब्रह्मार्पणम् इति । अनेक-कारक-साध्या हि यज्ञादि-क्रिया भवति । देवतोद्देशेन हि द्रव्य-त्यागो यागः । स एव त्यज्यमान-द्रव्यस्याग्नौ प्रक्षेपाद् धोम इत्य् उच्यते । तत्रोद्देश्या देवता सम्प्रदानम्, त्यज्यमानं द्रव्यं हविः-शब्द-वाच्यं साक्षाद्-धात्व्-अर्थ-कर्म, तत् फलं तु स्वर्गादि व्यवहितं भावना-कर्म । एवं धारकत्वेन हविषो ऽग्नौ प्रक्षेपे साधकतमतया जुह्वादि करणं प्रकाशकतया मन्त्रादीति करणम् अपि कारक-ज्ञापक-भेदेन द्विविधम् । एवं त्यागो ऽग्नौ प्रक्षेपश् च द्वे क्रिये । तत्राद्यायां यजमानः कर्ता । प्रक्षेपे तु यजमान-परिक्रीतो ऽध्वर्युः प्रक्षेपाधिकरणं चाग्निः । एवं देश-कालादिकम् अप्य् अधिकरणं सर्व-क्रिया-साधारणं
द्रष्टव्यम् ।
तद् एवं सर्वेषां क्रिया-कारकादि-व्यवहाराणां ब्रह्म-ज्ञान-कल्पितानां रज्ज्व्-अज्ञान-कल्पितानां सर्प-धारा-दण्डादीनां रज्जु-तत्त्व-ज्ञानेनेव ब्रह्म-तत्त्व-ज्ञानेन बाधे बधितानुवृत्त्या क्रियाकारकादि-व्यव्हाराभासो दृश्यमानो ऽपि दग्ध-पट-न्यायेन न फलाय कल्पत इत्य् अनेन श्लोकेन प्रतिपाद्यते । ब्रह्म-दृष्टिर् एव च सर्व-यज्ञात्मिकेति स्तूयते ।
तथा हि - अर्प्यते ऽनेनेति करण-व्युत्पत्त्यार्पणं जुह्वादि मन्त्रादि च । एवम् अर्प्यते ऽस्मा इति व्युत्पत्त्यार्पणं देवता-रूपं सम्प्रदानम् । एवम् अर्प्यते ऽस्मिन्न् इति व्युत्पत्त्यार्पणम् अधिकरणं देश-कालादि । तत् सर्वं ब्रह्मणि कल्पितत्वाद् ब्रह्मैव रज्जु-कल्पित-भुजङ्गवद् अधिष्ठान-व्यतिरेकेणासद् इत्य् अर्थः । एवं हविस्-त्याग-प्रक्षेप-क्रिययोः साक्षात् कर्म कारकं तद् अपि ब्रह्मैव । एवं यत्र प्रक्षिप्यते ऽग्नौ सो ऽपि ब्रह्मैव । ब्रह्माग्नाव् इति समस्तं पदम् । तथा येन कर्त्रा यजमानेनाध्वर्युणा च त्यज्यते प्रक्षिप्यते च तद् उभयम् अपि कर्तृ-कारकं कर्तरि विहितया तृतीययानूद्य ब्रह्मेति निधीयए ब्रह्मणेति । एवं हुतम् इति हवनं त्याग-क्रिया प्रक्षेप-क्रिया च तद् अपि ब्रह्मैव । तथा येन हवनेन यद् गन्तव्यं स्वर्गादि व्यवहितं कर्म तद् अपि ब्रह्मैव । अत्रत्य एव-कारः सर्वत्र
सम्बध्यते । हुतम् इत्य् अत्रापीत एव ब्रह्मेत्य् अनुषज्यते । व्यवधानाभावात् साकाङ्क्षत्वाच् च चित्-पतिस् त्वा पुनातु इत्य् आदाव् अच्छिद्रेणेत्यादि-पर-वाक्य-शेषवत् ।
अनेन रूपेण कर्मणि समाधिर् ब्रह्म-ज्ञानं यस्य स कर्म-समाधिस् तेन ब्रह्म-विदा कर्मानुष्ठात्रापि ब्रह्म परमानन्दाद्वयं गन्तव्यम् इत्य् अनुषज्यते । साकाङ्क्षत्वाद् अव्यवधानाच् च या ते अग्ने रजाशयेत्य् आदौ तनूर् वर्षिष्ठेयादि-पूर्व-वाक्य-शेषवत् ।
अथवार्प्यते ऽस्मै फलायेति व्युत्पत्त्यार्पण-पदेनैव स्वर्गादि-फलम् अपि ग्राह्यम् । तथा च ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म-समाधिना इत्य् उत्तरार्धं ज्ञान-फल-कथनायैवेति समञ्जसम् । अस्मिन् पक्षे ब्रह्म-कर्म-समाधिनेत्य् एकं वा पदम् । पूर्वं ब्रह्म-पदं हुतम् इत्य् अनेन सम्बध्यते चरमं गन्तव्य-पदेनेति भिन्नं वा पदम् । एवं च नानुषङ्ग-द्वय-क्लेश इति द्रष्टव्यम् । ब्रह्म गन्तव्यम् इत्य् अभेदेनैव तत्-प्राप्तिर् उपचारात् । अतएव न स्वर्गादि तुच्छ-फलं तेन गन्तव्यं विद्ययाविद्यक-कारक-व्यवहारोच्छेदात् । तद् उक्तं वार्तिक-कृद्भिः -
कारक-व्यवहारे हि शुद्धं वस्तु न वीक्ष्यते ।
शुद्धे वस्तुनि सिद्धे च कारक-व्यावृत्तिः कुतः ॥ इति ।
अर्पणादि-कारक-स्वरुपानुपमर्देनैव तत्र नामादाव् इव ब्रह्म-दृष्टिः क्षिप्यते सम्पन्-मात्रेण फल-विशेषायेति केषाञ्चिद् व्याख्यानं भाष्यकृद्भिर् एव निराकृतम् उपक्रमादि-विरोधाद् ब्रह्म-विद्या-करणे सम्पन्-मात्रस्याप्रसक्तत्वाद् इत्य् आदि युक्तिभिः ॥२४॥
विश्वनाथः :। यज्ञायाचरत इत्य् उक्तम् । स यज्ञ एव कीदृशः ? इत्य् अपेक्षायाम् आह ब्रह्मेति । अर्प्यते ऽनेनेत्य् अर्पणं जुह्व्-आदि । तद् अपि ब्रह्मैव । अर्प्यमाणं हविर् अपि ब्रह्मैव । ब्रह्मैवाग्नाव् इति हवनाधिकरणम् अग्निर् अपि ब्रह्मैव । एवं विवेकतवता पुंसा ब्रह्मैव गन्तव्यम्, न तु फलान्तरम् । कुतः ? ब्रह्मात्मकं यत् कर्म तत्रैव समाधिश् चित्तैकाग्र्यं यस्य तेन ॥२४॥
बलदेवः : एवं विविक्त-जीवात्मानुसन्धि-गर्भतया स्व-विहितस्य कर्मणो ज्ञानाकारताम् अभिधाय साङ्गस्य तस्य परात्म-रूपतानुसन्धिना तद्-आकारताम् आह ब्रह्मार्पणम् इति । अर्प्यते ऽनेनात्मैवेति व्युत्पत्तेर् अर्पणं स्रुवं मन्त्राधिदैवतं चेन्द्रादि तत् तच् च ब्रह्मैव । अर्प्यमाणं हविश् चाज्यादि तद् अपि ब्रह्मैव । तच् च हविर् होमाधारे ऽग्नौ ब्रह्मणि यजमानेनाध्वर्युणा च ब्रह्मणा हुतं त्यक्तं प्रक्षिप्तं च । अग्निर् यजमानो ऽध्वर्युश् च ब्रह्मैवेत्य् अर्थः । ब्रह्माग्नाव् इत्य् अत्र णि-कार-लोपश् छान्दसः । न च समस्तं पदम् इति वाच्यम् । अग्नौ ब्रह्म-दृष्टेर् विधेयत्वाद् इत्थं च ब्रह्म-रूपे साङ्गे कर्मणि समाधिश् चित्तैकाग्र्यं यस्य तेन मुमुक्षुणा ब्रह्मैव गन्तव्यं स्व-स्वरूपं पर-स्वरूपं च लभ्यम् अवलोक्यम् इत्य् अर्थः । विज्ञानं ब्रह्म चेद् वेद इत्य् आदौ
जीवे ब्रह्म-शब्दः । विज्ञानम् आनन्दं ब्रह्म इत्य् आदौ परमात्मनि च ब्रह्मार्पणत्वादि-गुण-योगान् नास्य प्रकरणस्य पौनरुक्तम् । स्रुव्-आदीनां ब्रह्मत्वं तद्-आयत्त-वृत्तिकत्वात् तद्-वाप्यत्वाच् च इति व्याख्यातारः । तादृशतयानुसन्धितं कर्म-ज्ञानाकारं सत् तद् अवलोकनाय कल्प्यते ॥२४॥
४।२५
दैवम् एवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नाव् अपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥
श्रीधरः : एतद् एव यज्ञत्वेन सम्पादितं सर्वत्र ब्रह्म-दर्शन-लक्षणं ज्ञानं सर्व-यज्ञोपाय-प्राप्यत्वात् सर्व-यज्ञेभ्यः श्रेष्ठम् इत्य् एवं स्तोतुम् अधिकारि-भेदेन ज्ञानोपाय-भूतान् बहून् यज्ञान् आह दैवम् इत्य् आदिभिर् अष्टभिः । देवा इन्द्र-वरुणादय इज्यन्ते यस्मिन् । एव-कारेणेन्द्रादिषु ब्रह्म-बुद्धि-राहित्यं दर्शितम् । तं दैवम् एव यज्ञम् अपरे कर्म-योगिनः पर्युपासते श्रद्धयानुतिष्ठन्ति । अपरे तु ज्ञान-योगिनो ब्रह्म-रूपे ऽग्नौ अपरे यज्ञेनैवोपायेन ब्रह्मार्पणम् इत्य् आद्य् उक्त-प्रकारेण यज्ञम् उपजुह्वति । यज्ञादि-सर्व-कर्माणि प्रविलापयन्तीत्य् अर्थः । सो ऽयं ज्ञान-यज्ञः ॥२५॥
मधुसूदनः : अधुना सम्यग्-दर्शनस्य यज्ञ-रूपत्वेन स्तावकतया ब्रह्मार्पण-मन्त्रे स्थिते पुनर् अपि तस्य स्तुत्य्-अर्थम् इतरान्य् अज्ञान् उपन्यस्यति दैवम् इति । देवा इन्द्राग्न्य्-आदय इज्यन्ते येन स दैवस् तम् एव यज्ञं दर्श-पूर्णमास-ज्योतिष्टोमादि-रूपम् अपरे योगिनः पर्युपासते सर्वदा कुर्वन्ति न ज्ञान-यज्ञम् । एवं कर्म-यज्ञम् उक्त्वान्तः-करण-शुद्धि-द्वारेण तत्-फल-भूतं ज्ञान-यज्ञम् आह ब्रह्माग्नौ सत्य-ज्ञानानन्तानन्द-रूपं निरस्त-समस्त-विशेषं ब्रह्म तत्-पदार्थस् तस्मिन्न् अग्नौ यज्ञं प्रत्यग् आत्मानं त्व-पदार्थं यज्ञेनैव । यज्ञ-शब्द आत्म-नामसु यास्केन पठितः । इत्थम्भूत-लक्षणे तृतीया । एव-कारो भेदाभेद-व्यावृत्त्य्-अर्थः । त्वं-पदार्थाभेदेनैवोपजुह्वति तत्-स्वरूपतया पश्यन्तीत्य् अर्थः । अपरे पूर्व-विलक्षणास् तत्त्व-दर्शन-निष्ठाः
सन्न्यासिन इत्य् अर्थः ।
जीव-ब्रह्माभेद-दर्शनं यज्ञत्वेन सम्पाद्य तत्-साधन-यज्ञ-मध्ये पठ्यते श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञअ इत्य् आदिना स्तोतुम् ॥२५॥
विश्वनाथः : यज्ञाः खलु भेदेनान्ये ऽपि बहवो वर्तन्ते । तांस् त्वं शृण्व् इत्य् आह दैवम् एवेत्य् अष्टभिः । देवा इन्द्र-वरुणादय इज्यन्ते यस्मिन् तं दैवम् इति । इन्द्रादिषु ब्रह्म-बुद्धि-राहित्यं दर्शितम् । सास्य देवतेत्य् अण् । योगिनः कर्म-योगिनः । अपरे ज्ञान-योगिनस् तु ब्रह्म परमात्मैवाग्निस् तस्मिंस् तत्-पदार्थे यज्ञं हविः-स्थानीयं त्वं-पदार्थं जीवं यज्ञेन प्रणव-रूपेण मन्त्रेणैव जुह्वति । अयम् एव ज्ञान-यज्ञो ऽग्रे स्तोष्यते । अत्र यज्ञं यज्ञेन इति शब्दौ कर्म-करण-साधनौ प्रथमातिशयोक्त्या शुद्ध-जीव-प्रणवावाहतुः ॥२५॥
बलदेवः : एवं ब्रह्मानुसन्धि-गर्भतया च कर्मणो ज्ञानाकारतां निरूप्य कर्म-योग-भेदान् आह दैवम् इति । दैवम् इन्द्रादि-देवार्चन-रूपं यज्ञम् अपरे योगिनः पर्युपासते तत्रैव निष्ठां कुर्वन्ति । अपरे ब्रह्मार्पणं इत्य् आदि-न्यायेन ब्रह्म-भूताग्नाव् यज्ञेन स्रुवादिना यज्ञं घृतादि-हवी-रूपं जुह्वति होम एव निष्ठां कुर्वतीत्य् अर्थः ॥२५॥
४।२६
श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति ।
शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥२६॥
श्रीधरः : श्रोत्रादीनीति । अन्ये नैष्ठिकी ब्रह्मचारिणस् तत्-तद्-इन्द्रिय-संयम-रूपेष्व् अग्निषु श्रोत्रादीनि जुह्वति प्रविलापयन्ति । इन्द्रियाणि निरुध्य संयम-प्रधानास् तिष्ठन्तीत्य् अर्थः । इन्द्रियाण्य् एवाग्नयः । तेषु शब्दादीन् अन्ये गृहस्था जुह्वति । विषय-भोग-समये ऽप्य् अनासक्ताः सन्तो ऽग्नित्वेन भावितेष्व् इन्द्रियेषु हविष्ट्वेन भावितान् शब्दादीन् प्रक्षिपन्तीत्य् अर्थः ॥२६॥
मधुसूदनः : श्रोत्रादीनीन्द्रियाण्य् अन्ये संयमाग्निषु जुह्वति शब्दादीन् विषयान् अन्य इन्द्रियाग्निषु जुह्वति ॥२६॥
विश्वनाथः : अन्ये नैष्ठिकाः श्रोत्रादीनीन्द्रियाणि । संयमः संयतं मन एवाग्नयस् तेषु जुह्वति । शुद्धे मनसीन्द्रियाणि प्रव्लापयन्तीत्य् अर्थः । अन्ये ततो न्यूना ब्रह्मचारिणः शब्दादीन् विषयानि इन्द्रियाग्निष्व् इन्द्रियाण्य् एवाग्नयस् तेषु जुह्वति शब्दादीनीन्द्रियेषु प्रविलापयन्तीत्य् अर्थः ॥२६॥
बलदेवः : श्रोत्रादीनीत्य् अन्ये नैष्ठिक-ब्रह्मचारिणः संयमाग्निषु तत्-तद्-न्द्रिय-संयम-रूपेष्व् अग्निषु श्रोत्रादीनि जुह्वति तानि निरुध्य संयम-प्रधानास् तिष्ठन्ति । अन्ये गृहिण इन्द्रियाग्निष्व् अग्नित्वेन भावितेषु श्रोत्रादिषु शब्दादीन् उपजुह्वति अनासक्त्या तान् भुञ्जानास् तानि तत्-प्रवणानि कुर्वन्ति ॥२६॥
४।२७
सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे ।
आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥२७॥
श्रीधरः : किं च सर्वाणीति । अपरे ध्यान-निष्ठाः । बुद्धीन्द्रियाणां श्रोत्रादीनां कर्माणि श्रवण-दर्शनादीनि । कर्मेन्द्रियाणां वाक्-पाण्य्-आदीनां कर्माणि वचनोपादानादीनि । प्राणानां च दशानां कर्माणि । प्राणस्य बहिर् गमनम् । अपानस्याधो-नयनम् । व्यानस्य व्यानयनम् आकुञ्चन-प्रसारणादि । समानस्याशितपीतादीनां समुन्नयनम् । उदानस्योर्ध्व-नयनम् -
उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः ।
कृकरः क्षुत्-करो ज्ञेयो देवदत्तो विजृम्भणे ।
न जहाति मृते क्वापि सर्वव्यापी धनञ्जयः ॥ [घेरण्ड-संहिता ५।६४।
इत्य् एवं रूपाणि जुह्वति । आत्मनि संयमो ध्यानैकाग्र्यम् । स एव योगः । स एवाग्निः । तस्मिन् ज्ञानेन ध्येय-विषयेण दीपिते प्रज्वलिते ध्येयं सम्यग् ज्ञात्वा तस्मिन् मनः संयम्य तानि सर्वाणि कर्माण्य् उपरमयन्तीत्य् अर्थः ॥२७॥
मधुसूदनः : तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [व्स्। २।१।१४] अपरे शुद्ध-त्वं-पदार्थ-विज्ञाः । सर्वाणीन्द्रियाणि तत्-कर्माणि श्रवण-दर्शनानि सर्वाणीन्द्रिय-कर्माणि प्राण-कर्माणि चापरे आत्म-संयम-योगाग्नौ जुह्वति ज्ञान-दीपिते ॥२७॥
विश्वनाथः : अपरे शुद्ध-त्वं-पदार्थ-विज्ञाः । सर्वाणीन्द्रियाणि तत्-कर्माणि श्रवण-दर्शनादीनि च । प्राण-कर्माणि दश-प्राणास् तत्-कर्माणि च । प्राणस्य बहिर् गमनम् । अपानस्याधो-नयनम् । समानस्य भुक्त-पीतादीनां समीकरणम् । उदानस्योच्चैर् नयनम् । व्यानस्य विष्वक्-नयनम् ।
उद्गारे नाग आख्यातः कूर्मस् तून्मीलने स्मृतः ।
कृकरः क्षुत्-करो ज्ञेयो देवदत्तो विजृम्भणे ।
न जहाति मृते क्वापि सर्वव्यापी धनञ्जयः ॥ [घेरण्ड-संहिता ५।६४।
इत्य् एवं दश-प्राणास् तत्-कर्माणि । आत्मनस् त्वं-पदार्थस्य संयमः शुद्धिर् एवाग्निस् तस्मिन् जुह्वति । मनो-बुद्ध्य्-आदीन्द्रियाणि दश-प्राणांश् च प्रविलापयन्ति । एकः प्रत्यग् आत्मैवास्ति, नान्ये मन आदाय इति भावयन्तीत्य् अर्थः ॥२७॥
बलदेवः : सर्वाणीति । अपरे इन्द्रिय-कर्माणि प्राण-कर्माणि चात्म-संयम-योगाग्नौ च जुह्वति । आत्मनो मनसः संयमः स एव योगस् तस्मिन्न् अग्नित्वेन भाविते जुह्वति । मनसा इन्द्रियाणां प्राणानां च कर्म-प्रवणतां निवारयितुं प्रयतन्ते । इन्द्रियाणां श्रोत्रादीनां कर्माणि शब्द-ग्रहणादीनि प्राण-कर्माणि प्राणस्य बहिर्-गमनं कर्म, अपानस्याधोगमनम्, व्यानस्य निखिल-देह-व्यापनम् आकुञ्चन-प्रसारणादि, समानस्याशित-पीतादि-समीकरणम्, उदानस्योर्ध्व-नयनं चेत्य् एवं बोध्यानि सर्वाणि सामस्त्येन ज्ञान-दीपिते आत्मानुसन्धानोज्ज्वलिते ॥२७॥
४।२८
द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे ।
स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥२८॥
श्रीधरः : द्रव्य-यज्ञा इत्य् आदि । द्रव्य-दानम् एव यज्ञो येषां ते द्रव्य-यज्ञाः । कृच्छ्र-चान्द्रायणादि तप एव यज्ञो येषां ते एव यज्ञो येषां ते तपो-यज्ञाः । योगो ऽष्टाङ्ग एव यज्ञो येषां ते योग-यज्ञाः । स्वाध्यायेन वेदेन श्रवण-मननादिना यत् तद् अर्थ-ज्ञानं तद् एव यज्ञो येषां ते स्वाध्याय-ज्ञान-यज्ञाः । यद् वा वेद-पाठ-यज्ञास् तद्-अर्थ-ज्ञान-यज्ञाश् चेति द्विविधाः । यतयः प्रयत्न-शीलाः । सम्यक् शितं तीक्ष्णीकृतं व्रतं येषां ते ॥२८॥
मधुसूदनः : द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे स्वाध्याय-ज्ञान-यज्ञाश् च यतयः संशित-व्रताः ॥२८॥
विश्वनाथः : द्रव्य-दानम् एव यज्ञो येषां ते द्रव्य-यज्ञाः । तपः कृच्छ्र-चान्द्रायणाद्य् एव यज्ञो येषां ते तपो-यज्ञाः । योगो ऽष्टाङ्ग एव यज्ञो येषां ते योग-यज्ञाः । स्वाध्यायो वेदस्य पाठस् तद्-अर्थस्य ज्ञानं च यज्ञो येषां ते । यतयो यत्न-पराः । सर्व एते सम्यक् शितं तीक्ष्णीकृतं व्रतं येषां ते ॥२८॥
बलदेवः : द्रव्येति । केचित् कर्म-योगिनो द्रव्य-यज्ञा अन्नादि-दान-पराः । केचित् तपो-यज्ञाः कृच्छ्र-चान्द्रायणादि-व्रत-पराः । केचित् स्वाध्याय-ज्ञान-यज्ञा वेदाभ्यास-परास् तद्-अर्थाभ्यास-पराश् च । यतयस् तत्र प्रयत्न-शीलाः । संशित-व्रतास् तीक्ष्ण-तत्-तद्-आचरणाः ॥२८॥
४।२९
अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे ।
प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥२९॥
श्रीधरः : किं च अपाने इति । अपाने ऽधो-वृत्तौ प्राणम् ऊर्ध्व-वृत्तिं पूरकेण जुह्वति । पूरक-काले प्राणम् अपानेनैकीकुर्वन्ति । तथा कुम्भकेन प्राणापानयोर् ऊर्ध्वाधो-गती रुद्ध्वा रेचक-काले ऽपानं प्राणे जुह्वति । एवं पूरक-कुम्भक-रेचकैः प्राणायाम-परायणा अपर इत्य् अर्थः । किं च अपर इति । अपरे त्व् आहार-सङ्कोचम् अभ्यस्यन्तः स्वयम् एव जीर्यमाणेष्व् इन्द्रियेषु तत्-तद्-इन्द्रिय-वृत्ति-लयं भावयन्तीत्य् अर्थः ।
यद् वा - अपाने जुह्वति प्राणं प्राणे ऽपानं तथापर इत्य् अनेन पूरक-रेचकयोर् आवर्तमानयोर् हंसः सो ऽहम् इत्य् अनुलोमतः प्रतिलोमतश् च अभिव्यज्यमानेनाजपा-मन्त्रेण तत्-त्त्वं-पदार्थैक्यं व्यतीहारेण भावयन्तीत्य् अर्थः । तद् उक्तं योग-शास्त्रे -
स-कारेण बहिर् याति हं-कारेण विशेत् पुनः ।
प्राणस् तत्र स एवाहं हम्स इत्य् अनुचिन्तयेत् ॥ इति ।
प्राणापान-गती रुद्ध्वेत्य् अनेन तु श्लोकेन प्राणायाम-यज्ञा अपरैः कथ्यन्ते । तत्रायम् अर्थः - द्वौ भागौ पूरयेद् अन्नैर् जलेनैकं प्रपूरयेत् । प्रचारार्थं चतुर्थम् अवशेषयेद् इति । एवम् आदि-वचनोक्तो नियत आहारो येषां ते । कुम्भकेन प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः सन्तः प्राणान् इन्द्रियाणि प्राणेषु जुह्वति । कुम्भके हि सर्वे प्राणा एकीभवन्तीति तत्रैव लयमानेष्व् इन्द्रियेषु होमं भावयन्तीत्य् अर्थः । तद् उक्तं योग-शास्त्रे -
यथा यथा सदाभ्यासान् मनसः स्थिरता भवेत् ।
वायु-वाक्-काय-दृष्टीनां स्थिरता च तथा तथा ॥ इति ॥२९॥
मधुसूदनः : अपाने जुह्वति प्राणं प्राणे ऽपानं तथापरे प्राणापान-गती रुद्ध्वा प्राणायाम-परायणाः ॥२९॥
विश्वनाथः : अपरे प्राणायाम-निष्ठाः अपाने ऽधो-वृत्तौ प्राणम् ऊर्ध्व-वृत्तं जुह्वति पूरक-काले प्राणम् अपानेनैकीकुर्वन्ति । तथा रेचक-काले ऽपानं प्राणे जुह्वति । कुम्भक-काले प्राणापानयोर् गती रुद्ध्वा प्राणायाम-परायणा भवन्ति । अपरे इन्द्रिय-जय-कामाः । नियताहारा अल्पाहाराः प्राणेष्व् आहार-सङ्कोचनेनैव जीव्यमानेषु प्राणान् इन्द्रियाणि जुह्वति । इन्द्रियाणां प्राणाधीन-वृत्तित्वात् प्राण-दौर्बल्ये सति स्वयम् एव स्व-स्व-विषय-ग्रहणासमर्थानीन्द्रियाणि प्राणेष्व् एवाल्पीयन्त इत्य् अर्थः ॥२९॥
बलदेवः : किं चापाने इति । तथापरे प्राणायाम- परायणास् ते त्रिधा अधो-वृत्ताव् अपाने प्राणम् ऊर्ध्व-वृत्तिं जुह्वति । पूरकेण प्राणम् अपानेन सहैकीकुर्वन्ति । तथा प्राणे ऽपानं जुह्वति रेचकेनापानं प्राणेन सहैकीकृत्य बहिर् निर्गमयन्ति । यथा प्राणापानयोर् गती श्वास-प्रश्वासौ कुम्भकेन रुद्ध्वा वर्तन्त इति । आन्तरस्य वायोर् नासास्येन बहिर् निर्गमः श्वासः प्राणस्य गतिः । विनिर्गतस्य तस्यान्तः-प्रवेशः प्रश्वासो ऽपानस्य गतिः । तयोर् निरोधः कुम्भकः स द्विविधः वायुम् आपूर्य श्वास-प्रश्वासयोर् निरोधो ऽन्तः-कुम्भकः । वायुं विरेच्य तयोर् निरोधो भैः कुम्भकः । अपरे नित्यताहाराः भोजन-सङ्कोचअम् अभ्यस्यन्तः प्राणान् इन्द्रियाणि प्राणेषु जुह्वति । तेष्व् अल्पाहारेण जीर्यमाणेषु तद्-आयत्त-वृत्तिकानि तानि विषय-ग्रहणाक्षमाणि
तप्तायोनिषिक्तोद-बिन्दुवत् तेष्व् एव विलीयन्ते ॥२९॥
४।३०
अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।
सर्वे ऽप्य् एते यज्ञ-विदो यज्ञ-क्षपित-कल्मषाः ॥३०॥
श्रीधरः : तद् एवम् उक्तानां द्वादशानां यज्ञ-विदां फलम् आह सर्वे ऽपीति । यज्ञान् विन्दन्ति लभन्त इति यज्ञ-विदः । यज्ञ-ज्ञा इति वा । यज्ञैः क्षयितं नाशितं कल्मषं यैस् ते ॥३०॥
मधुसूदनः : तद् एवम् उक्तानां द्वादशधा यज्ञ-विदां फलम् आह सर्वे ऽपीति । यज्ञान् विदन्ति जानन्ति विन्दन्ति लभन्ते वेति यज्ञ-विदो यज्ञानां ज्ञातारः कर्तारश् च । यज्ञैः पूर्वोक्तैः क्षपितं नाशितं कल्मषं पापं येषां ते यज्ञ-क्षपित-कल्मषाः । यज्ञान् कृत्वावशिष्टे काले ऽन्नम् अमृत-शब्द-वाच्यं भुञ्जत इति यज्ञ-शिष्टामृत-भुजः । ते सर्वे ऽपि सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण यान्ति ब्रह्म सनातनं नित्यं संसारान् मुच्यन्त इत्य् अर्थः ॥३०॥
विश्वनाथः : सर्वे ऽप्य् एते यज्ञ-विद उक्त-लक्षणान् यज्ञान् विन्दमानाः सन्तो ज्ञान-द्वारा ब्रह्म यान्ति । अत्राननुसंहितं फलम् आह यज्ञ-शिष्टं यज्ञावशिष्टं यद् अमृतं भोगैश्वर्य-सिद्ध्य्-आदिकं तद् भुञ्जत इति ॥३०॥
बलदेवः : एते खल्व् इन्दिर्य-विजय-कामाः सर्वे ऽपीति यज्ञ-विदः । पूर्वोक्तान् देवादि-यज्ञान् विन्दमाना तैर् एव यज्ञैः क्षपित-कल्मषाः ॥३०॥
४।३१
यज्ञ-शिष्टामृत-भुजो यान्ति ब्रह्म सनातनम् ।
नायं लोको ऽस्त्य् अयज्ञस्य कुतो ऽन्यः कुरुसत्तम ॥३१॥
श्रीधरः : यज्ञ-शिष्टामृत-भुज इति । यज्ञान् कृत्वा अवशिष्टे काले ऽनिषिद्धम् अन्नम् अमृत-रूपं भुञ्जत इति तथा । ते सनातनं नित्यं ब्रह्म ज्ञान-द्वारेण प्राप्नुवन्ति । तद्-अकरणे दोषम् आह नायम् इति । अयम् अल्प-सुखो ऽपि मनुष्य-लोको ऽयज्ञस्य यज्ञानुष्ठान-रहितस्य नास्ति । कुतो ऽन्यो बहु-सुखः पर-लोकः । अतो यज्ञाः सर्वथा कर्तव्या इत्य् अर्थः ॥३१॥
मधुसूदनः : एवम् अन्वये गुणम् उक्त्वा व्यतिरेके दोषम् आह येज्ञेत्य् अर्धेन । उक्तानां यज्ञानां मध्ये ऽन्यतमो ऽपि यज्ञो यस्य नास्ति सो ऽयज्ञस् तस्यायम् अल्प-सुखो ऽपि मनुष्य-लोको नास्ति सर्व-निन्द्यत्वात् । कुतो ऽन्यो विशिष्ट-साधन-साध्यः पर-लोको हे कुरु-सत्तम ॥३१॥
विश्वनाथः : तथानुसंहितं फलम् आह ब्रह्म यान्तीति । तद्-अकरणे प्रत्यवायम् आह नायम् इति । अयम् अल्प-सुखो मनुष-लोको ऽपि नास्ति । कुतो ऽन्यो देवादि-लोकस् तेन प्राप्तव्य इत्य् अर्थः ॥३१॥
बलदेवः : अननुसंहितं फलम् आह यज्ञ-शिष्टेति । यज्ञ-शिष्टं यद् अमृतम् अन्नादि भोगैश्वर्य-सिद्ध्य्-आदि च तद्-भुञ्जानाः । अनुसंहितं फलम् आह यान्तीति । तत्-साध्येन ज्ञानेन ब्रह्मेति प्राग्वत् ॥३०॥
४।३२
एवं बहु-विधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥३२॥
श्रीधरः : ज्ञान-यज्ञं स्तोतुम् उक्तान् यज्ञान् उपसंहरति एवं बहु-विधा इति । ब्रह्मणो वेदस्य मुखे वितताः । वेदेन साक्षाद्-विहिता इत्य् अर्थः । तथापि तान् सर्वान् वाङ्-मनः-काय-कर्म-जनितान् आत्म-स्वरूप-संस्पर्श-रहितान् विद्धि जानीहि । आत्मनः कर्मागोचरत्वात् । एवं ज्ञात्वा ज्ञान-निष्ठः सन् संसाराद् विमुक्तो भविष्यसि ॥३२॥
मधुसूदनः : किं त्वया स्वोत्प्रेक्षा-मात्रेणैवम् उच्यते न हि वेद एवात्र प्रमाणम् इत्य् आह एवम् इति । एवं यथोक्ता बहु-विधा बहु-प्रकारा यज्ञाः सर्व-वैदिक-श्रेयः-साधन-रूपा वितता विस्तृता ब्रह्मणो वेदस्य मुखे द्वारे वेद-द्वारेणैवैते ऽवगता इत्य् अर्थः । वेद-वाक्यानि तु प्रत्येकं विस्तर-भयान् नोदाह्रियन्ते । कर्मजान् कायिक-वाचिक-मानस-कर्मोद्भवान् विद्धि जानीहि तान् सर्वान् यज्ञान् नात्मजान् । निर्व्यापारो ह्य् आत्मा न तद्-व्यापारा एते किन्तु निर्व्यापारो ऽहम् उदासीन इत्य् एवं ज्ञात्वा विमोक्ष्यसे ऽस्मात् संसार-बन्धनाद् इति शेषः ॥३२॥
विश्वनाथः : ब्रह्मणो वेदस्य मुखेन वेदेन स्वमुखेनैव स्पष्टम् उक्ता इत्य् अर्थः । कर्मजान् वाङ्-मनः-काय-कर्म-जनितान् ॥३२॥
बलदेवः : एवम् इति । ब्रह्मणो वेदस्य मुखे वितताः । विविक्तात्म-प्राप्त्य्-उपायतया स्व-मुखेनैव तेन स्फुटम् उक्ताः । कर्मजान् वाङ्-मनः-काय-कर्म-जनितान् इत्य् अर्थः । एवं ज्ञात्वा तद्-उपायतया तेनोक्तान् तान् अवबुध्यानुष्ठाय तद्-उत्पन्न-विज्ञानेनावलोकितात्म-द्वयः संसाराद् विमोक्ष्यसे ॥३२॥
४।३३
श्रेयान् द्रव्य-मयाद् यज्ञाज् ज्ञान-यज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥३३॥
श्रीधरः : कर्म-यज्ञाज् ज्ञान-यज्ञस् तु श्रेष्ठ इत्य् आह श्रेयान् इति । द्रव्य-मयाद् अनात्म-व्यापार-जन्याद् दैवादि-यज्ञाज् ज्ञान-यज्ञः श्रेयान् श्रेष्ठः । यद्यपि ज्ञान-यज्ञस्यापि मनो-व्यापाराधीनत्वम् अस्त्य् एव तथाप्य् आत्म-स्वरूपस्य ज्ञानस्य मनः-परिणामे ऽभिव्यक्ति-मात्रम् । न तज्-जन्यत्वम् इति द्रव्य-मयाद् विशेषः । श्रेष्ठत्वे हेतुः – सर्वं कर्माखिलं फल-सहितं ज्ञाने परिसमाप्यते । अन्तर्भवतीत्य् अर्थः । सर्वं तद् अभिसमेति यत् किं च प्रजाः साधु कुर्वन्तीति श्रुतेः ॥३३॥
मधुसूदनः : सर्वेषां तुल्यवन् निर्देशात्म-कर्म-ज्ञानयोः साम्य-प्राप्ताव् आह श्रेयान् इति । श्रेयान् प्रशस्यतरः साक्षान् मोक्ष-फलत्वात् । द्रव्य-मयात् तद्-उपलक्षिताज् ज्ञान-शून्यात् सर्वस्माद् अपि यज्ञात् संसार-फलाज् ज्ञान-यज्ञ एक एव । हे परन्तप ! कस्माद् एवम् ? यस्मात् सर्वं कर्मेष्टि-पशु-सोम-चयन-रूपं श्रौतम् अखिलं निरवशेषं स्मार्तम् उपासनादि-रूपं च यत् कर्म तज्-ज्ञाने ब्रह्मात्मैक्य-साक्षात्कारे समाप्यते प्रतिबन्ध-क्षय-द्वारेण पर्यवस्यति । तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दाने तपसानाशकेन इति धर्मेन पापम् अपनुदति इति च श्रुतेः । सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत् [व्स्। ३।४।२६] इति न्यायाच् चेत्य् अर्थः ॥३३॥
विश्वनाथः : तेषां मध्ये ब्रह्मार्पणं ब्रह्म-हविर् इति लक्षणाद् अपि द्रव्य-मयाद् यज्ञाद् ब्रह्माग्नाव् इत्य् अनेनोक्तो ज्ञान-यज्ञः श्रेयान् । कुतः ? ज्ञाने सति सर्वं कर्माखिलम् अव्यर्थं सत् परिसमाप्यते समाप्तीभवति । ज्ञानानन्तरं कर्म न तिष्ठतीत्य् अर्थः ॥३३॥
बलदेवः : उक्ताः कर्म-योगा विविक्तात्मानुसन्धि-गर्भत्वाद् अरण्याद् इव उभय-रूपास् तेषु ज्ञान-रूपं संस्तौति श्रेयान् इति । द्विरूपे कर्मणि कर्म-द्रव्य-भयाद् अंशाज् ज्ञान-मयो ऽंशः श्रेयान् प्रशस्तरः । द्रव्य-मयाद् इत्य् उपलक्षणाम् इन्दिर्य-संयमादीनां तेषां तद्-उपायत्वात् । एतद् विवृणोति - हे पार्थ ! ज्ञाने सति सर्वं कर्माखिलं साङ्गं परिसमाप्यते निवृत्तिम् एति फले जाते साधन-निवृत्तेर् दर्शनात् ॥३३॥
४।३४
तद् विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस् तत्त्व-दर्शिनः ॥३४॥
श्रीधरः : एवम्भूतात्म-ज्ञाने साधनम् आह तद् इति । तद् तज् ज्ञानं विद्धि जानीहि प्राप्नुहीत्य् अर्थः । ज्ञानिनां प्रणिपातेन दण्डवन्-नमस्कारेण । ततः परिप्रश्नेन । कुतो ऽयं मे संसारः ? कथं वा निवर्तेत ? इति परिप्रश्नेन । सेवया गुरु-शुश्रूषया च । ज्ञानिनः शास्त्रज्ञाः । तत्त्व-दर्शिनो ऽपरोक्षानुभव-सम्पन्नाश् च । ते तुभ्यं ज्ञानम् उपदेशेन सम्पादयिष्यन्ति ॥३४॥
मधुसूदनः : एतादृश-ज्ञान-प्राप्तौ को ऽतिप्रत्यासन्न उपाय इत्य् उच्यते तद् विद्धीति । तत्-सर्व-कर्म-फल-भूतं ज्ञानं विद्धि लभस्व आचार्यानभिगम्य तेषां प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातो दीर्घ-नमस्कारस् तेन को ऽहं कथं बद्धो ऽस्मि केनोपायेन मुच्येयम् इत्य् आदि परिप्रश्नेन बहु-विषयेण प्रश्नेन । सेवया सर्व-भावेन तद्-अनुकूल-कारितया । एवं भक्ति-श्रद्धातिशय-पूर्वकेणावनति-विशेषेणाभिमुखाः सन्त उपदेक्ष्यन्त्य् उपदेशेन सम्पादयिष्यन्ति ते तुभ्यं ज्ञानं परमात्म-विषयं साक्षान् मोक्ष-फलं ज्ञानिनः पद-वाक्य-न्यायादिमान-निपुणास् तत्त्व-दर्शिनः कृत-साक्षात्काराः । साक्षात्कारवद्भिर् उपदिष्टम् एव ज्ञानं फल-पर्यवसायि न तु तद्-रहितैः पद-वाक्य-न्यायादिमान-निपुणैर् अपीति भगवतो
मतम् । तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् इति श्रुति-संवादि । तत्रापि श्रोत्रियम् अधीत-वेदं ब्रह्म-निष्ठं कृत-ब्रह्म-साक्षात्कारम् इति व्याख्यानात् । बहु-वचनं चेदम् आचार्य-विषयम् एकस्मिन्न् अपि गौरवातिशयार्थं न तु बहुत्व-विवक्षया । एकस्माद् एव तत्त्व-साक्षात्कारवत आचार्यात् तत्त्व-ज्ञानोदये सत्याचार्यान्तर-गमनस्य तद्-अर्थम् अयोगाद् इति द्रष्टव्यम् ॥३४॥
विश्वनाथः : तज्-ज्ञान-प्राप्तये प्रकारम् आह तद् इति । प्रणिपातेन ज्ञानोपदेष्टरि गुरौ दण्डवन्-नमस्कारेण । भगवन् ! कुतो ऽयं मे संसारः ? कथं निवर्तिष्यते ? इति परिप्रश्नेन च । सेवया तत्-परिचर्यया च । तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् इति श्रुतेः ॥३४॥
बलदेवः : एवं जीव-स्वरूप-ज्ञानं तत्-साधनं च साङ्गम् उपदिश्य पर-स्वरूपोपासन-ज्ञानम् उपद्शन् सत्-प्रसङ्ग-लभ्यत्वं तस्याह तद् इति । यद् अर्थं तद् उभयं मया तवोपदिष्टं अविनाशि तु तद् विद्धि [गीता २।१७] इत्य् आदिना तत् परात्म-सम्बन्धि-ज्ञानं प्रणिपातादिभिः प्रसादितेभ्यो ज्ञानिभ्यः सद्भ्यस् त्वम् अवगत-स्व-स्वरूपो विद्धि प्राप्नुहि । तत्र प्रणिपातो दण्डवत्-प्रणतिः । सेवा भृत्यवत् तेषां परिचर्या । परिप्रश्नः तत्-स्वरूप-तद्-गुण-तद्-विभूति-विषयको विविधः प्रश्नः ।
ननूदासीनास् ते न वक्ष्यन्तीति चेत् तत्राह उपेति । ते ज्ञानिनो ऽधिगत-स्वरूपात्मानः प्रणिपातादिना तज्-जिज्ञासुताम् आलक्ष्य ते तुभ्यं तादृशाय तत्-सम्बन्धि ज्ञानम् उपदेक्ष्यन्ति तत्त्व-दर्शिनस् तज्-ज्ञान-प्रचारकाः कारुणिका इति यावत् ।
नन्व् अत्र तद् इति जीव-ज्ञानं वाच्यं प्रकृतत्वाद् इति चेन्, न । न त्व् एवाहं जातु नासं [गीता २।१२], युक्त आसीत मत्-परः [गीता २।६१], अजो ऽपि सन्न् अव्ययात्मा [गीता ४।६] इत्य् आदिना परात्मनो ऽप्य् अप्राकृतत्वात् । एवम् आह सूत्रकारः - अन्यार्थश् च परामर्शः [व्स्। १।३।२०] इति । अन्यथा श्रुति-सूत्रार्थ-संवादिनो ऽग्रिमस्य ज्ञान-महिम्नो विरोधः स्याद् उक्तम् एव सुष्ठु ॥३४॥
४।३५
यज् ज्ञात्वा न पुनर् मोहम् एवं यास्यसि पाण्डव ।
येन भूतान्य् अशेषेण द्रक्ष्यस्य् आत्मन्य् अथो मयि ॥३५॥
श्रीधरः : ज्ञान-फलम् आह यज् ज्ञात्वेति सार्धैस् त्रिभिः । यज् ज्ञानं ज्ञात्वा प्राप्य पुनर् बन्धु-वधादि-निमित्तं मोहम् न प्राप्स्यसि । तत्र हेतुः - येन ज्ञानेन भूतानि पितापुत्रादीनि स्वाविद्या-विजृम्भितानि स्वात्मन्य् एवाभेदेन द्रक्ष्यसि । अथो अनन्तरम् आत्मानं मयि परमात्मन्य् अभेदेन द्रक्ष्यसीत्य् अर्थः ॥३५॥
मधुसूदनः : एवम् अतिनिर्बन्धेन ज्ञानोत्पादने किंस्यात् अत आह यज् ज्ञात्वेति । यत् पूर्वोक्तं ज्ञानम् आचार्यैर् उपदिष्टं ज्ञात्वा प्राप्य । ओदन-पाकं पचतीतिवत् तस्यैव धातोः । सामान्य-विवक्षया प्रयोगः । न पुनर् मोहम् एवं बन्धु-वधादि-निमित्तं भ्रमं यास्यसि । हे परन्तप !
कस्माद् एवं यस्माद् एव ज्ञानेन भूतानि पितृ-पुत्रादीनि अशेषेण ब्रह्मादि-स्तम्ब-पर्यन्तानि स्वाविद्या-विजृम्भितानि आत्मनि त्वयि त्वं-पदार्थे ऽथो अपि मयि भगवति वासुदेवे तत्-पदार्थे परमार्थतो भेद-रहिते ऽधिष्ठान-भूते द्रक्ष्यस्य् अभेदेनैव । अधिष्ठानातिरेकेण कल्पितस्याभावात् । मां भगवन्तं वासुदेवम् आत्मत्वेन साक्षात्कृत्य सर्वाज्ञान-नाशे तत्-कार्याणि भूतानि न स्थास्यन्तीति भावः ॥३५॥
विश्वनाथः : ज्ञानस्य फलम् आह यज् ज्ञात्वेति सार्धैस् त्रिभिः । यज् ज्ञानं देहाद् अतिइक्त एवात्मेति लक्षणं ज्ञात्वैवं मोहम् अन्तः-करण-धर्मं न प्राप्स्यसि । येन च मोह-विगमेन स्वाभाविक-नित्य-सिद्धात्म-ज्ञान-लाभाद् अशेषाणि भूतानि मनुष्य-तिर्यग्-आदीन्य् आत्मनि जीवात्मन्य् उपाधित्वेन स्थितानि पृथग् द्रक्ष्यसि । अथो मयि परम-कारणे च कार्यत्वेन स्थितानि द्रक्ष्यसि ॥३५॥
बलदेवः : उक्त-ज्ञान-फलम् आह यद् इति । यज्-जीव-ज्ञान-पूर्वकं परमात्म-सम्बन्धि-ज्ञानं ज्ञात्वोपलभ्य पुनर् एवं बन्धु-वधादि-हेतुकं मोहं न यास्यसि । कथं न यास्यामीतिय् अत्राह येनेति । येन ज्ञानेन भूतानि देव-मानवादि-शरीराणि अशेषेण सामस्त्येन सर्वाणीत्य् अर्थः । आत्मनि स्व-स्वरूपे उपाधित्वेन स्थितानि तानि पृथग् द्रक्ष्यसि । अथो मयि सर्वेश्वरे सर्व-हेतौ कार्यत्वेन स्थितानि तानि द्रक्ष्यसीति । एतद् उक्तं भवति - देह-द्वय-विविक्ता जीवात्मानस् तेषां हरि-विमुखानां हरि-माययैव देहेषु दैहिक्तेषु च ममत्वानि रचितानि । हन्तृ-हन्तव्य-भावावभासश् च तयैव । शुद्ध-स्वरूपाणां न तत्-तत्-सम्बद्धः । परमात्मा खलु सर्वेश्वरः स्वाश्रितानां जीवानां तत्-तत्-कर्मानुगुणतया तत्-तद्-देहेन्द्रियाणि तत्-तद्-देह-यात्रां लोकान्तरेषु
तत्-तत्-सुख-भोगांश् च सम्पादयत्य् उपासितस् तु मुक्तिम् इत्य् एव ज्ञानिनो न मोहावकाश इति ॥३५॥
४।३६
अपि चेद् असि पापेभ्यः सर्वेभ्यः पाप-कृत्तमः ।
सर्वं ज्ञान-प्लवेनैव वृजिनं सन्तरिष्यसि ॥३६॥
श्रीधरः : किं च अपि चेद् इति । सर्वेभ्यः पाप-कारिभ्यो यद्यप्य् अतिशयेन पाप-कारी त्वम् असि, तथापि सर्वं पाप-समुद्रं ज्ञान-प्लवेनैव ज्ञान-पोतेनैव सम्यग्-अनायासेन तरिष्यसि ॥३६॥
मधुसूदनः : किं च शृणु ज्ञानस्य माहात्म्यम् अपि चेद् इति । अपि चेद् इत्य् असम्भाविताभ्युपगम-प्रदर्शनार्थौ निपातौ । यद्यप्य् अयम् अर्थो न सम्भवत्य् एव, तथापि ज्ञान-फल-कथनायाभ्युपेत्योच्यते । यद्यपि त्वं पाप-कारिभ्यः सर्वेभ्यो ऽप्य् अतिशयेन पाप-कारी पाप-कृत्तमः स्यास् तथापि सर्वं वृजिनं पापम् अतिदुस्तरत्वेनार्णव-सदृशं ज्ञान-प्लवेनैव नान्येन ज्ञानम् एव प्लवं पोतं कृत्वा सन्तरिष्यसि सम्यग् अनायासेन पुनर् आवृत्ति-वर्जितत्वेन च तरिष्यसि अतिक्रमिष्यसि । वृजिन-शब्देनात्र धर्माधर्म-रूपं कर्म संसार-फलम् अभिप्रेतं मुमुक्षोः पापवत् पुण्यस्याप्य् अनिष्टत्वात् ॥३६॥
विश्वनाथः : ज्ञानस्य माहात्म्यम् आह अपि चेद् इति । पापिभ्यः पाप-कृद्भ्यो ऽपि सकाशाद् यद्यप्य् अतिशयेन पापकारी त्वम् असि, तथापि अत्रैतावत् पाप-सत्त्वे कथम् अन्तः-करण-शुद्धिः ? तद्-अभावे च कथं ज्ञानोत्पत्तिः ? नाप्य् उत्पन्न-ज्ञानस्यैतद् दुराचारत्वं सम्भवेद् अतो ऽत्र व्याख्या श्री-मधुसूदन-सरस्वती-पादानाम् - अपि चेद् इत्य् असम्भाविताभ्युपगम-प्रदर्शनार्थौ निपातौ । यद्यप्य् अयम् अर्थो न सम्भवत्य् एव, तथापि ज्ञान-फल-कथनायाभ्युपेत्योच्यते इत्य् एषा ॥३६॥
बलदेवः : ज्ञान-प्रभावम् आह अपि चेद् इति । यद्यपि सर्वेभ्यः पाप-कर्तृभ्यस् त्वम् अतिशयेन पाप-कृद् असि, तथापि सर्वं वृजिनं निखिलं पापं दुस्तरत्वेनार्णव-तुल्यम् उक्त-लक्षण-ज्ञान-प्लवेन सन्तरिष्यसि ॥३६॥
४।३७
यथैधांसि समिद्धो ऽग्निर् भस्मसात् कुरुते ऽर्जुन ।
ज्ञानाग्निः सर्व-कर्माणि भस्मसात् कुरुते तथा ॥३७॥
श्रीधरः : समुद्रवत् स्थितस्यैव पापस्यातिलङ्घन-मात्रम्, न तु पापस्य नाशः । इति भ्रान्तिं दृष्टान्तेन वारयन्न् आह यथैधांसीति । एधांसि काष्ठानि प्रदीप्तो ऽग्निर् यथा भस्मीभावं नयति तथात्म-ज्ञानम् आपन्नो मुमुक्षुः कालेन महतात्मनि विन्दति लभत इत्य् अर्थः ॥३७॥
मधुसूदनः : ननु समुद्रवत् तरणे कर्मणां नाशो न स्याद् इत्य् आशङ्क्य दृष्टान्तरम् आह यथैधांसीति । यथैधांसि काष्ठानि समिद्धः प्रज्वलितो ऽग्निर् भस्मसात् कुरुते भस्मीभावं नयति हे ऽर्जुन ज्ञानाग्निः सर्व-कर्माणि पापानि पुण्यानि चाविशेषेण प्रारब्ध-फल-भिन्नानि भस्मसात् कुरुते तथा तत्-कारणाज्ञान-विनाशेन विनाशयतीत्य् अर्थः । तथा च श्रुतिः -
भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [मुण्डु २।२।८] इति ।
तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् । इतरस्याप्य् एवम् असंश्लेषः पाते तु [व्स्। ४।१।१३-१४] इति च सूत्रे । अनारब्धे पुण्य-पापे नश्यत एवेत्य् अत्र सूत्रम् अनारब्ध-कार्य एव तु पूर्वे तद्-अवधेः [व्स्। ४।१।१५] इति । ज्ञानोत्पादक-देहारम्भकाणां तु तद्-देहान्त एव विनाशः । तस्य तावद् एव चिरं यावन् न विमोक्ष्ये [छान्दु ६।१४।२] इति श्रुतेः । भोगेन त्व् इतरे क्षपयित्वा सम्पद्यते [व्स्। ४।१।१९] इति सूत्राच् च । आधिकारिकाणां तु यान्य् एव ज्ञानोत्पादक-देहारम्भकाणि तान्य् एव देहान्तरारम्भकाण्य् अपि । यथा वसिष्टापान्तर-तमः-प्रभृतीनाम् । तथा च सूत्रं यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणाम् [व्स्। ३।३।३२] इति । अधिकारो ऽनेक-देहारम्भकं बलवत्-प्रारब्ध-फलं कर्म । तच् चोपासकानाम् एव नान्येषां । अनारब्ध-फलानि नश्यन्ति आरब्ध-फलानि तु
यावद्-भोग-समाप्ति तिष्ठन्ति । भोगश् चैकेन देहेनानेकेन वेति न विशेषः । विस्तरस् त्व् आकर द्रष्टव्यः ॥३७॥
विश्वनाथः : शुद्धान्तःकरणस्योत्पन्नं तु प्रारब्ध-भिन्नं कर्म-मात्रं विनाशयतीति स-दृष्टान्तम् आह यथेति । समिद्धः प्रज्वलितः ॥३७॥
बलदेवः : ब्रह्म-विद्यया पाप-कर्माणि नश्यन्तीत्य् उक्तम् । इदानीं पुण्य-कर्माण्य् अपि नश्यन्तीत्य् आह यथेति । एधांसि काष्ठानि समिद्धः प्रज्वलितो ऽग्निर् यथा भस्मसात् कुरुते, तथा ज्ञानाग्निः स्व-परात्मानुभव-वह्निः सर्वाणि कर्माणि पुण्यानि पापानि च प्रारब्धेतराणि भस्मसात् कुरुते । तत्र सञ्चितानि प्रारब्धेतराणीपीकतुलवन् निर्दहति क्रियमाणानि पद्म-पत्राम्बु-बिन्दुवद् विशेषयति प्रारब्धानि तु तत्-प्रभावेनातिजीर्णान्य् अपि सत्-पथ-प्रचारार्थया हरेर् इच्छयैवात्मानुभविन्य् अवस्थापयतीति । श्रुतिश् च -उभे उहैवैष एते तरत्य् अमृतः साध्वसाधुनी इति । एष ब्रह्मानुभवी उभे सञ्चित्य क्रियमाणे एते साध्वसाधुनी पुण्य-पापे कर्मणी तरति क्रामतीत्य् अर्थः । एवम् आह सूत्रकारः तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात्
[व्स्। ४।१।१३] इत्य् आदिभिः ॥३७॥
४।३८
न हि ज्ञानेन सदृशं पवित्रम् इह विद्यते ।
तत् स्वयं योग-संसिद्धः कालेनात्मनि विन्दति ॥३८॥
श्रीधरः : तत्र हेतुम् आह न हीति । पवित्रं शुद्धि-करम् । इह तपो-योगादिषु मध्ये ज्ञान-तुल्यं नास्त्य् एव । तर्हि सर्वे ऽपि किम् इत्य् आत्म-ज्ञानम् एव नाभ्यसन्त इति ? अत आह तत् स्वयम् इति सार्धेन । तद् आत्मनि विषये ज्ञानं कालेन महता कर्म-योगेन संसिद्धो योग्यतां प्राप्तः सन् स्वयम् एवानायासेन लभते । न तु कर्म-योगं विनेत्य् अर्थः ॥३८॥
मधुसूदनः : यस्माद् एवं तस्मात् न हीति । न हि ज्ञानेन सदृशं पवित्रम् पावनं शुद्धि-करम् अन्यद् इह वेदे लोक-व्यवहारे वा विद्यते, ज्ञान-भिन्नस्य अज्ञानानिवर्तकत्वेन समूल-पाप-निवर्तकत्वाभावात् कारण-सद्-भावेन पुनः पापोदयाच् च । ज्ञानेन त्व् अज्ञान-निवृत्त्या समूल-पाप-निवृत्तिर् इति तत्-समम् अन्यच् च विद्यते ।
तद् आत्म-विषयं ज्ञानं सर्वेषां किम् इति झटिति नोत्पद्यते ? तत्राह तज् ज्ञानं कालेन महता योग-संसिद्धो योगेन पूर्वोक्त-कर्म-योगेन संसिद्धः संस्कृतो योग्यताम् आपन्नः स्वयम् आत्मन्य् अन्तः-करणे विन्दति लभते न तु योगयताम् आपन्नो ऽन्य-दत्तं स्व-निष्ठतया न वा पर-निष्ठं स्वीयतया विन्दतीत्य् अर्थः ॥३८॥
विश्वनाथः : इह तपो-योगादि-युक्तेषु मध्ये ज्ञानेन सदृशं पवित्रं किम् अपि नास्ति । तज् ज्ञानं न सर्व-सुलभम् । किन्तु योगेन निष्काम-कर्म-योगेन सम्यक् सिद्ध एव, न त्व् अपरिपक्वः । सो ऽपि कालेनैव, न तु सद्यः । आत्मनि स्वस्मिन् स्वयं प्राप्तं विन्दति । न तु सन्न्यास-ग्रहण-मात्रेणैवेति भावः ॥३८॥
बलदेवः : न हीति । हि यतो ज्ञानेन सदृशं पवित्रं शुद्धि-करं तपस् तीर्थाटनादिकं नास्ति । अतस् तत् सर्व-पाप-नाशकं तज् ज्ञानं न सर्व-सुलभम्, किन्तु योगेन निष्काम-कर्मणा संसिद्धः परिपक्व एव कालेनैव, न तु सद्यः । आत्मनि स्वस्मिन् स्वयं लब्धं विन्दति । न तु पारिव्राज्य-ग्रहण-मात्रेणेति ॥३८॥
४।३९
श्रद्धावांल् लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति ॥३९॥
श्रीधरः : किं च श्रद्धावान् इति । श्रद्धावान् गुरूपदिष्टे ऽर्थे आस्तिक्य-बुद्धिमान् । तत्-परस् तद्-एक-निष्ठः । संयतेन्द्रियश् च । तज् ज्ञानं लभते । नान्यः । अतः श्रद्धादि-सम्पत्त्या ज्ञान-लाभात् प्राक् कर्म-योग एव शुद्ध्य्-अर्थम् अनुष्ठेयः । ज्ञान-लाभानन्तरं तु न तस्य किञ्चित् कर्तव्यम् इत्य् आह ज्ञानं लब्ध्वा तु मोक्षम् अचिरेण प्राप्नोति ॥३९॥
मधुसूदनः : येनैकान्तेन ज्ञान-प्राप्तिर् भवति स उपायः पूर्वोक्त-प्रणिपाताद्य्-अपेक्षयाप्य् आसन्नतर उच्यते श्रद्धावान् इति । गुरु-वेदान्त-वाक्येष्व् इदम् इत्थम् वेति प्रमा-रूपास्तिक्य-बुद्धिः श्रद्धा तद्वान् पुरुषो लभते ज्ञानम् । एतादृशो ऽपि कश्चिद् अलसः स्यात् तत्राह तत्-परः । गुरूपासनादौ ज्ञानोपाये ऽत्यन्ताभियुक्तः । श्रद्धावांस् तत्-परो ऽपि कश्चिद् अजितेन्द्रियः स्याद् अत आह संयतेन्द्रियः । संयतानि विषयेभ्यो निवर्तितानीन्द्रियाणि येन स संयतेन्द्रियः । य एवं विशेषण-त्रय-युक्तः सो ऽवश्यं ज्ञानं लभते । प्रणिपातादिस् तु बाह्यो मायावित्वादि-सम्भवाद् अनैकान्तिको ऽपि । श्रद्धावत्त्वादिस् त्व् ऐकान्तिक उपाय इत्य् अर्थः ।
ईदृशेनोपायेन ज्ञानं लब्ध्वा परां चरमां शान्तिम् अविद्या-तत्-कार्य-निवृत्ति-रूपां मुक्तिम् अचिरेण तद्-अव्यवधानेनैवाधिगच्छति लभते । यथा हि दीपः स्वोत्पत्ति-मात्रेणैवान्धकार-निवृत्तिं करोति न तु कञ्चित् सहकारिणम् अपेक्षते तथा ज्ञानम् अपि स्वोत्पत्ति-मात्रेणैवाज्ञान-निवृत्तिं करोति न तु किञ्चित् प्रसङ्ख्यानादिकम् अपेक्षत इति भावः ॥३९॥
विश्वनाथः : तर्हि कीदृशः सन् कदा प्राप्नोतीत्य् अत आह श्रद्धावान् इति । श्रद्धा निष्काम-कर्मणैवान्तःकरण-शुद्ध्यैव ज्ञानं स्याद् इति शास्त्रार्थं आस्तिक्य-बुद्धिस् तद्वान् एव । तत्-परस् तद्-अनुष्ठान-निष्ठस् तादृशो ऽपि यदा संयतेन्द्रियः स्यात् तदा परां शान्तिम् संसार-नाशम् ॥३९॥
बलदेवः : कीदृशः सन् कदा विन्दतीत्य् आह श्रद्धावान् इति । निष्कामेन कर्मणा हृद्-विशुद्धौ ज्ञानं स्याद् इति । दृढ-विश्वासः श्रद्धा तद्वान् । तत्-परस् तद्-अनुष्ठान-निष्ठस् तादृग् अपि यदा संयतेन्द्रियस् तदा परां शान्तिम् मुक्तिम् ॥३९॥
४।४०
अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति ।
नायं लोको ऽस्ति न परो न सुखं संशयात्मनः ॥४०॥
श्रीधरः : ज्ञानाधिकारिणम् उक्त्वा तद्-विपरीतम् अनधिकारिणम् आह अज्ञश् चेति । अज्ञो गुरूपदिष्टार्थानभिज्ञः । कथञ्चिज् ज्ञाने जाते ऽपि तत्राश्रद्दधानश् च । जातायाम् अपि श्रद्धायां ममेदं सिद्धेन् न वेति अंशयाक्रान्त-चित्तश् च विनश्यते । स्वार्थाद् भ्रश्यति । एतेषु त्रिष्व् अपि संशयात्मा सर्वथा नश्यति । यतस् तस्यायं लोको नास्ति धनार्जन-विवाहाद्य्-असिद्धेः । न च पर-लोको धर्मस्यानिष्पत्तेः । न च सुखं संशयेनऐव भोगस्याप्य् असम्भवात् ॥४०॥
मधुसूदनः : अत्र च संशयो न कर्तव्यः, कस्मात् ? अज्ञ इति । अज्ञो ऽनधीत-शास्त्रत्वेनात्म-ज्ञान-शून्यः । गुरु-वेदान्त-वाक्यार्थ इदम् एवं न भवत्य् एवेति विपर्यय-रूपा नास्तिक्य-बुद्धिर् अश्रद्धा तद्वान् अश्रद्दधानः । इदम् एवं भवति न वेति सर्वत्र संशयाक्रान्त-चित्तः संशयात्मा विनश्यति स्वार्थाद् भ्रष्टो भवति । अज्ञश् चाश्रद्दधानश् च विनश्यतीति संशयात्मापेक्षया न्यूनत्व-कथनार्थं चकाराभ्यां तयोः प्रयोगः । कुतः ? संशयात्मा हि सर्वतः पापीयान् यतो नायं मनुष्य-लोको ऽस्ति वित्तार्जनाद्य्-अभावात्, न परो लोकः स्वर्ग-मोक्षादि-धर्म-ज्ञानाद्य्-अभावात् । न सुखं भोजनादि-कृतं संशयात्मनः सर्वत्र सन्देहाक्रान्त-चित्तस्य । अज्ञश् चाश्रद्दधानश् च परो लोको नास्ति मनुष्य-लोको भोजनादि-सुखं च वर्तते । संशयात्मा
तु त्रितय-हीनत्वेन सर्वतः पापीयान् इत्य् अर्थः ॥४०॥
विश्वनाथः : ज्ञानाधिकारिणम् उक्त्वा तद्-विपरीताधिकारिणम् आह अज्ञश् चेति । अज्ञः पश्व्-आदिवन् मूढः । अश्रद्दधानः शास्त्र-ज्ञानवत्त्वे ऽपि नाना-वादिनां परस्पर-विप्रतिपत्तिं दृष्ट्वा न क्वापि विश्वस्तः । श्रद्धावत्त्वे ऽपि संशयात्मा ममैतत् सिध्येन् न वेति सन्देहाक्रान्त्-मतिः । तेष्व् अपि मध्ये संशयात्मानं विशेषतो निन्दति नायम् इति ॥४०॥
बलदेवः : ज्ञानाधिकारिणं तत्-फलं चाभिधाय तद्-विपरीतं तत्-फलं चाह अज्ञश् चेति । अज्ञः पश्व्-आदिवच् छास्त्र-ज्ञान-हीनः । अश्रद्दधानः शास्त्र-ज्ञाने सत्य् अपि विवादि-प्रतिपत्तिभिर् न क्वापि विश्वस्तः, श्रद्दधानत्वे ऽपि संशयात्मा ममैतत् सिद्ध्येन् न वेति सन्दिहान-मना विनश्यति स्वार्थाद् विच्यवते । तेष्व् अपि मध्ये संशयात्मानं विनिन्दति नायम् इति । अयं प्राकृतो लोकः परो ऽप्राकृतः संशयात्मनः किञ्चिद् अपि सुखं नास्ति । शास्त्रीय-कर्म-जन्यं हि सुखम्, तच् च कर्म विविक्तात्म-ज्ञान-पूर्वकम् । तत्र सन्दिहानस्य कुतस् तद् इत्य् अर्थः ॥४०॥
४।४१
योग-सन्न्यस्त-कर्माणं ज्ञान-सञ्छिन्न-संशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥४१॥
श्रीधरः : अध्याय-द्वयोक्तां पूर्वापर-भूमिका-भेदेन कर्म-ज्ञान-मयीं द्विविधां ब्रह्म-निष्ठाम् उपसंहरति योगेति द्वाभ्याम् । योगेन परमेश्वराराधन-रूपेण तस्मिन् सन्न्यस्तानि कर्माणि येन तं कर्माणि स्व-फलैर् न निबध्नन्ति । ततश् च ज्ञानेन आत्म-बोधेन कर्त्रा सञ्छिन्नः संसारो देहाद्य्-अतिमान-लक्षणो यस्य तम् आत्मवन्तम् अप्रमादिनं कर्माणि लोक-सङ्ग्रहार्थानि स्वाताविकानि वा न निबध्नन्ति ॥४१॥
मधुसूदनः : एतादृशय्स्य सर्वानर्थ-मूलस्य संशयस्य निराकरणायात्म-निश्चयम् उपायं वदन्न् अध्याय-द्वयोक्तां पूर्वापर-भूमिका-भेदेन कर्म-ज्ञान-मयीं द्विविधां ब्रह्म-निष्ठाम् उपसंहरति योगेति द्वाभ्याम् । योगेन भगवद्-आराधन-लक्षण-समत्व-बुद्धि-रूपेण सन्न्यस्तानि भगवति समर्पितानि कर्माणि येन । यद् वा परमार्थ-दर्शन-लक्षणेन योगेन सन्न्यस्तानि त्यक्तानि कर्माणि येन तं योग-सन्न्यस्त-कर्माणम् । संशये सति कथं योग-सन्न्यस्त-कर्मत्वम् अत आह ज्ञान-सञ्छिन्न-संशयं ज्ञानेनात्म-निश्चय-लक्षणेन च्छिन्नः संशयो येन तम् । विषय-पर-वशत्व-स्वरूप-प्रसादे सति कुतो ज्ञानोत्पत्तिर् इत्य् अत आह आत्मवन्तम् अप्रमादिनं सर्वदा सावधानम् । एतादृशम् अप्रमादित्वेन ज्ञानवन्तं ज्ञान-सञ्छिन्न-संशयत्वेन
योग-सन्न्यस्त-कर्माणं कर्माणि लोक-सङ्ग्रहार्थानि वृथा-चेष्टा-रूपाणि वा न निबध्नन्ति अनिष्टम् इष्टं मिश्रं वा शरीरं नारभन्ते हे धनञ्जय ॥४१॥
विश्वनाथः : नैष्कर्म्यं त्व् एतादृशस्य स्याद् इत्य् आह योगान् निष्काम-कर्म-योगानन्तरम् एव सन्न्यस्त-कर्माणं सन्न्यासेन त्यक्त-कर्माणम् । ततश् च ज्ञानाभ्यासानन्तरं छिन्न-संशयम् । आत्मवन्तं प्राप्त-प्रत्यग्-आत्मानं कर्माणि न निबध्नन्ति ॥४१॥
बलदेवः : ईदृशस्य नैष्कर्म्य-लक्षणा सिद्धिः स्याद् इत्य् आह योगेति । योगेन योग-स्थः कुरु कर्माणि इत्य् अत्रोक्तेन सन्न्यस्तानि ज्ञानाकारतापन्नानि कर्माणि यस्य तम् । मद्-उपदिष्टेन ज्ञानेन छिन्न-संशयो यस्य तम् । आत्मवन्तम् अवलोकितात्मानं कर्माणि न निबध्नन्ति । तेषां ज्ञानेन विगमात् ॥४२॥
४।४२
तस्माद् अज्ञान-सम्भूतं हृत्-स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥४२॥
श्रीधरः : तस्माद् इति । यस्माद् एवं तस्माद् आत्मनो ऽज्ञानेन सम्भूतं हृदि-स्थितम् एनं संशयं शोकादि-निमित्तं देहात्म-विवेक-खड्गेन छित्त्वा परमात्म-ज्ञानोपाय-भूतं कर्म-योगम् आतिष्ठाश्रय । तत्र च प्रथमं प्रस्तुताय युद्धायोत्तिष्ठ । हे भारतेति क्षत्रियत्वेन युद्धस्य धर्मत्वं दर्शितम् ॥४२॥
पुम्-अवस्थादि-भेदेन कर्म-ज्ञान-मयी द्विधा ।
निष्ठोक्ता येन तं वन्दे शौरिं संशय-सञ्छिदम् ॥
इति श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
ज्ञान-योगो नाम चतुर्थो ऽध्यायः ॥४॥
मधुसूदनः : तस्माद् अज्ञान-सम्भूतं हृत्-स्थं ज्ञानासिनात्मनः छित्त्वैनं संशयं योगम् आतिष्ठोत्तिष्ठ भारत ॥४२॥
इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् ज्ञान-योगो नाम
चतुर्थो ऽध्यायः ॥४॥
विश्वनाथः : उपसंहरति तस्माद् इति । हृत्-स्थं हृद्-गतं संशयं छित्त्वा योगं निष्काम-कर्म-योगम् आतिष्ठाश्रय । उत्तिष्ठ युद्धं कर्तुम् इति भावः ॥४२॥
उक्तेषु मुक्त्य्-उपायेषु ज्ञानम् अत्र प्रशस्यते ।
ज्ञानोपायं तु कर्मैवेत्य् अध्यायार्थो निरूपितः ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतास्व् अयं चतुर्थो हि सङ्गतः सङ्गतः सताम् ॥४॥
बलदेवः : तस्माद् इति । हृत्-स्थं हृद्-गतम् आत्म-विषयकं संशयं मद्-उपदिष्टेन ज्ञानासिना छित्त्वा योगं निष्कामं कर्म मयोपदिष्टम् आतिष्ठ । तद्-अर्थम् उत्तिष्ठेति ॥४२॥
द्व्य्-अंशकं धान्यवत् कर्म तुषांशाद् इव तण्डुलः ।
श्रेष्ठं द्रव्यांशतो ज्ञानम् इति तुर्यस्य निर्णयः ॥४॥
इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये चतुर्थो ऽध्यायः
॥४॥
चतुर्थो ऽध्यायः - ब्रह्मार्पण-योगः