03

३।१

अर्जुन उवाच
ज्यायसी चेत् कर्मणस् ते मता बुद्धिर् जनार्दन ।
तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥

श्रीधरः :

साङ्ख्ये योगे च वैषम्यं मत्वा मुग्धाय जिष्णवे ।
तयोर् भेद-निरासाय कर्म-योगे उदीर्यते ॥

एवं तावद् अशोच्यान् अन्वशोचस् त्वम् [गीता २।११] इत्य् आदिना प्रथमं मोक्ष-साधनत्वेन देहात्म-विवेक-बुद्धिर् उक्ता । तद्-अनन्तरम् एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु [गीता २।३९] इत्य् आदिना कर्म चोक्तम् । न च तयोर् गुण-प्रधान-भावः स्पष्टं दर्शितः । तत्र बुद्धि-युक्तस्य स्थित-प्रज्ञस्य निष्कामत्व-नियतेन्द्रियत्व-निरहङ्कारत्वाद्य्-अभिधानाद् एषा ब्राह्मी स्थितिः पार्थ [गीता २।७२] इति सप्रशंसम् उपसंहाराच् च बुद्धि-कर्मणोर् मध्ये बुद्धेः श्रेष्ठत्वं भगवतो ऽभिप्रेतं मन्वानो ऽर्जुन उवाच ज्यायसी चेद् इति । कर्मणः सकाशात् मोक्षान्तरङ्गत्वेन बुद्धिर् ज्यायसी अधिकतरा श्रेष्ठा चेत् तव सम्मता तर्हि किम् अर्थं तस्माद् युध्यस्वेति तस्माद् उत्तिष्टेति च वारं वारं वदन् घोरे हिंसात्मके कर्मणि मां नियोजयसि प्रवर्तयसि
॥१॥

मधुसूदनः : एवं तावत् प्रथमेनाध्यायेनोपोद्घातितो द्वितीयेनाध्यायेन कृत्स्नः शास्त्रार्थः सूत्रितः । तथा हि-आदौ निष्काम-कर्म-निष्ठा । ततो ऽन्तःकरण-शुद्धिः । ततः शम-दमादि-साधन-पुरःसरः सर्व-कर्म-सन्न्यासः । ततो वेदान्त-वाक्य-विचार-सहिता भगवद्-भक्ति-निष्ठा । ततस् तत्त्व-ज्ञान-निष्ठा तस्याः फलं च त्रिगुणात्मकाविद्या-निवृत्त्या जीवन्-मुक्तिः प्रारब्ध-कर्म-फल-भोग-पर्यन्तं तद्-अन्ते च विदेह-मुक्तिः । जीवन्-मुक्ति-दशायां च परम-पुरुषार्थालम्बनेन पर-वैराग्य-प्राप्तिर् दैव-सम्पद्-आख्या च शुभ-वासना तद्-उपकारिण्य्-आदेया । आसुर-सम्पदस् तु राजसी तामसी चेति हेयोपादेय-विभागेन कृत्स्न-शास्त्रार्थ-परिसमाप्तिः ।

तत्र योगस्थः कुरु कर्माणि [गीता २।४८] इत्यादिना सूत्रिता सत्त्व-शुद्धि-साधन-भूता निष्काम-कर्म-निष्ठा सामान्य-विशेष-रूपेण तृतीय-चतुर्थाभ्यां प्रपञ्च्यते । ततः शुद्धान्तःकरणस्य शम-दमादि-साधन-सम्पत्ति-पुरःसरा विहाय कामान् यः सर्वान् [गीता २।७१] इत्य् आदिना सूत्रिता सर्व-कर्म-सन्न्यास-निष्ठा सङ्क्षेप-विस्तर-रूपेण पञ्चम-षष्ठाभ्याम् । एतावता च त्वं-पदार्थो ऽपि निरूपितः । ततो वेदान्त-वाक्य-विचार-सहिता युक्त आसीत मत्-परः [गीता २।६१] इत्य् आदिना सूत्रितानेक-प्रकारा भगवद्-भक्ति-निष्ठाध्याय-षट्केन प्रतिपाद्यते । तावता च तत्-पदार्थो ऽपि निरूपितः । प्रत्य् अध्यायं चावान्तर-सङ्गतिम् अवान्तर-प्रयोजन-भेदं च तत्र तत्र प्रदर्शयिष्यामः । ततस् तत्त्वं-पदार्थैक्य-ज्ञान-रूपा वेदाविनाशिनं नित्यं
[गीता २।२१] इत्य् आदिना सूत्रिता तत्त्व-ज्ञान-निष्ठा त्रयोदशे प्रकृति-पुरुष-विवेक-द्वारा प्रपञ्चिता । ज्ञान-निष्ठायां च फलं त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन [गीता २।४५] इत्य् आदिना सूत्रिता त्रैगुण्य-निवृत्तिश् चतुर्दशे सैव जीवन्-मुक्तिर् इति गुणातीत-लक्षण-कथनेन प्रपञ्चिता । तदा गन्तासि निर्वेदं [गीता २।५२] इत्य् आदिना सूत्रिता पर-वैराग्य-निष्ठा संसार-वृक्ष-च्छेद-द्वारेण पञ्च-दशे । दुःखेष्व् अनुद्विग्न-मनाः [गीता २।५६] इत्य् आदिना स्थित-प्रज्ञ-लक्षणेन सूत्रिता पर-वैराग्योपकारिणी दैवी सम्पद् आदेया याम् इमां पुष्पितां वाचं [गीता २।४२] इत्य् आदिना सूत्रिता तद्-विरोधिन्य् आसुरी सम्पच् च हेया षोडशे । दैव-सम्पदो ऽसाधारणं कारणं च सात्त्विकी श्रद्धा निर्द्वन्द्वो नित्य-सत्त्व-स्थो [गीता २।४५] इत्य् आदिना सूत्रिता
तद्-विरोधि-परिहारेण सप्तदशे । एवं सफला ज्ञान-निष्ठाध्याय-पञ्चकेन प्रतिपादिता । अष्टादशेन च पूर्वोक्त-सर्वोपसंहार इति कृत्स्न-गीतार्थ-सङ्गतिः ।

तत्र पूर्वाध्याये साङ्ख्य-बुद्धिम् आश्रित्य ज्ञान-निष्ठा भगवतोक्ता एषा ते ऽभिहिता साङ्ख्ये बुद्धिः [गीता २।३९] इति । तथा योग-बुद्धिम् आश्रित्य कर्म-निष्ठोक्ता योगे त्व् इमां शृणु इत्य् आरभ्य कर्मण्य् एवाधिकारस् ते ॥। मा ते सङ्गो ऽस्त्व् अकर्मणि [गीता २।४७] इत्य् अन्तेन । न चानयोर् निष्ठयोर् अधिकारि-भेदः स्पष्टम् उपदिष्टो भगवता । न चैकाधिकारिकत्वम् एवोभयोः समुच्चयस्य विवक्षितत्वाद् इति वाच्यम् । दूरेण ह्य् अवरं करम् बुद्धि-योगाद् धनञ्जय [गीता २।४९] इति कर्म-निष्ठाया बुद्धि-निष्ठापेक्षया निकृष्टत्वाभिधानात् । यावान् अर्थ उदपाने [गीता २।४६] इत्य् अत्र च ज्ञान-फले सर्व-कर्म-फलान्तर्भावस्य दर्शितत्वात् । स्थित-प्रज्ञ-लक्षणम् उक्त्वा च एषा ब्राह्मी स्थितिः पार्थ [गीता २।७२] इति सप्रशंसम् ज्ञान-फलोपसंहारात् । या निशा
सर्व-भूतानां [गीता २।६९] इत्य् आदौ ज्ञानिनो द्वैत-दर्शनाभावेन कर्मानुष्ठानासम्भवस्य चोक्तत्वात् । अविद्या-निवृत्ति-लक्षणे मोक्ष-फले ज्ञान-मात्रस्यैव लोकानुसारेण साधनत्व-कल्पनात् । तम् एव विदित्वातिमृत्युम् एति नान्यः पन्था विद्यते ऽनयनाय [श्वेतु ३।८] इति श्रुतेश् च ।

ननु तर्हि तेजस्-तिमिरयोर् इव विरोधिनोर् ज्ञान-कर्मणोः समुच्चयासम्भवाद् भिन्नाधिकारिकत्वम् एवास्तु । सत्यम् । नैवं सम्भवति एकम् अर्जुनं प्रति तूभयोपदेशो न युक्तः । नहि कर्माधिकारिणं प्रति ज्ञान-निष्ठोपदेष्टुम् उचिता न वा ज्ञानाधिकारिणं प्रति कर्म-निष्ठा । एकम् एव प्रति विकल्पेनोभयोपदेश इति चेत्, न । उत्कृष्ट-निकृष्टयोर् विकल्पानुपपत्तेः । अविद्या-निवृत्त्य्-उपलक्षितात्म-स्वरूपे मोक्षे तारतम्यासम्भवाच् च । तस्माज् ज्ञान-कर्म-निष्ठयोर् भिन्नाधिकारिकत्वे एकं प्रत्युपदेशायोगाद् एकाधिकारिकत्वे च विरुद्धयोः समुच्चयासम्भवात् कर्मापेक्षया ज्ञान-प्रशस्त्यानुपपत्तेश् च विकल्पाभ्युपगमे चोत्कृष्टम् अनायास-साध्यं ज्ञानं विहाय निकृष्टम् अनेकायास-बहुलं कर्मानुष्ठातुम् अयोग्यम् इति मत्वा पर्याकुलीभूत-बुद्धिर्
अर्जुन उवाच ज्यायसी चेद् इति ।

हे जनार्दन ! सर्वैर् जनैर् अर्द्यते याच्यते स्वाभिलषित-सिद्धय इति त्वं तथाभूतो मयापि श्रेयो ऽनिश्चयार्थं याच्यस इति नैवानुचितम् इति सम्बोधनाभिप्रायः । कर्मणो निष्कामाद् अपि बुद्धिर् आत्म-तत्त्व-विषया ज्यायसी प्रशस्ततरा चेद् यदि ते तव मता तत् तदा किं कर्मणि घोरे हिंसाद्य्-अनेकायास-बहुले माम् अतिभक्तं नियोजयसि कर्मण्य् एवाधिकारस् त इत्य् आदिना विशेषेण प्रेरयसि । हे केशव सर्वेश्वर । सर्वेश्वरस्य सर्वेष्ट-दायिनस् तव मां भक्तं शिष्यस् ते ऽहं शाधि माम् इत्य् आदिना त्वद्-एक-शरणतयोपसन्नं प्रति प्रतारणा नोइचितेत्य् अभिप्रायः ॥१॥

विश्वनाथः :

  निष्कामम् अर्पितं कर्म तृतीये तु प्रपञ्च्यते ।  
 काम-क्रोध-जिगीषायां विवेको ऽपि प्रदर्श्यते ॥  

पूर्व-वाक्येषु ज्ञान-योगान् निष्काम-कर्म-योगाच् च निस्त्रैगुण्य-प्रापकस्य गुणातीत-भक्ति-योगस्य उत्कर्षम् आकलय्य तत्रैव स्वौत्सुक्यम् अभिव्यञ्जन् स्व-धर्मे सङ्ग्रामे प्रवर्तकं भगवन्तं सख्य-भावेनोपालभते । ज्यायसी श्रेष्ठा बुद्धिर् व्यवसायात्मिका गुणातीता भक्तिर् इत्य् अर्थः । घोरे युद्ध-रूपे कर्मणि किं नियोजयसि प्रवर्तयसि । हे जनार्दन जनान् स्वजनान् स्वाज्ञया पीडयसीत्य् अर्थः । न च तवाज्ञा केनापि अन्यथा कर्तुं शक्यत इत्य् आह । हे केशव को ब्रह्मा ईशो महादेवः । ताव् अपि वयसे वशीकरोषि ॥१॥

बलदेवः :

 तृतीये कर्म-निष्कामं विस्तरेणोपवर्णितम् ।  
 कामादेर् विजयोपायो दुर्जयस्यापि दर्शितः ॥  

पूर्वत्र कृपालुः पार्थसारथिर् अज्ञान-कर्दम-निमग्नं जगत् स्वात्म-ज्ञानोपासनोपदेशेन समुद्दिधीर्षुस् तद्-अङ्ग-भूतां जीवात्म-याथात्म्य-बुद्धिम् उपदिश्य तद्-उपायतया निष्कामकम् अबुद्धिम् उपदिष्टवान् । अयम् एवार्थो विनिश्चयाय चतुर्भिर् अध्यायैर् विधान्तरैर् वर्ण्यते । तत्र कर्म-बुद्धि-निष्पाद्यत्वाज् जीवात्म-बुद्धेः श्रेष्ठं स्थितम् । तत्रार्जुनः पृच्छति ज्यायसीति । कर्मणा निष्कामाद् अपि चेत् तव तत्-साध्यत्वात् जीवात्म-बुद्धिर् ज्यायसी श्रेष्ठा मता । तर्हि तत्-सिद्धये मां घोरे हिंसाद्य्-अनेकायासे कर्मणि किं नियोजयसि तस्माद् युद्धस्वेत्य् आदिना कथं प्रेरयसि । आत्मानुभव-हेतु-भूता खलु सा बुद्धिर् निखिलेन्द्रिय-व्यापार-विरति-साध्या तद्-अर्थं तत्-स्वजातीयाः शमादय एव युज्येरन् न तु सर्वेन्द्रिय-व्यापार-रूपाणि तद्-विजातीयानि कर्माणीति
भावः । हे जनार्दन श्रेयो ऽर्थि-जन-याचनीय, हे केशव विधि-रुद्र-वश-कारिन् ।

क इति ब्रह्मणो नाम ईशो ऽहं सर्व-देहिनाम् ।
आवां तवाङ्ग-सम्भूतौ तस्मात् केशव-नाम-भाग् ॥

इति हरि-वंशे कृष्णं प्रति रुद्रोक्तिः । दुर्लङ्घ्याज्ञस् त्वं श्रेयो ऽर्थिना मयाभ्यर्थितो मम श्रेयो निश्चित्य ब्रूहीति भावः ॥१॥


३।२

व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे ।
तद् एकं वद निश्चित्य येन श्रेयो ऽहम् आप्नुयाम् ॥२॥

श्रीधरः : ननु धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यत इत्य् आदिना कर्मणो ऽपि श्रेष्ठत्व्म् उक्तम् एव इत्य् आशङ्क्याह व्यामिश्रेणेति । क्वचित् कर्म-प्रशंसा क्वचित् ज्ञान-प्रशंसा इत्य् एवं व्यामिश्रं सन्देहो ऽपादकम् इव यद् वाक्यं तेन मे मम बुद्धिं मतिम् उभयत्र दोलायितां कुर्वन् मोहयसीव । अत उभयोर् मध्ये यद् भद्रं तद् एकं निश्चित्य वदेति । यद् वा, इदम् एव श्रेयः-साधनम् इति निश्चित्य येनानुष्ठितेन श्रेयो मोक्षम् अहम् आप्नुयां प्राप्स्यामि तद् एवैकं निश्चित्य वदेत्य् अर्थः ॥२॥

मधुसूदनः : ननु नाहं कञ्चिद् अपि प्रतारयामि किं पुनस् त्वाम् अतिप्रियम् । त्वं तु किं मे प्रतारणा-चिह्नं पश्यसीति चेत् तत्राह व्यामिश्रेणेति । तव वचनं व्यामिश्रं न भवत्य् एव मम त्व् एकाधिकारिकत्व-भिन्नाधिकारिकत्व-सन्देहाद् व्यामिश्रं सङ्कीर्णार्थम् इव ते यद् वाक्यं मां प्रति ज्ञान-कर्म-निष्ठा-द्वय-प्रतिपादकं त्वं मे मम मन्द-बुद्धेर् वाक्य-तात्पर्यापरिज्ञानाद् बुद्धिम् अन्तःकरणं मोहयसीव भ्रान्त्या योजयसीव । परम-कारुणिकत्वात् त्वं न मोहयस्य् एव मम तु स्वाशय-दोषान् मोहो भवतीतीवश-शब्दार्थः । एकाधिकारित्वे विरुद्धयोः समुच्चयानुपपत्तेर् एकार्थत्वाभावेन च विकल्पानुपपत्तेः प्राग्-उक्तेर् यद्य् अधिकारि-भेदं मन्यसे तदैकं मां प्रति विरुद्धयोर् निष्ठयोर् उपदेशआयोगात् तज् ज्ञानं वा कर्म वैकम् एवाधिकारं
मे निश्चित्य वद । येनाधिकार-निश्चय-पुरःसरम् उक्तेन त्वया मया चानुष्ठितेन ज्ञानेन कर्मणा वैकेन श्रेयो मोक्षम् अहम् आप्नुयां प्राप्तुं योग्यः स्याम् ।

एवं ज्ञान-कर्म-निष्ठयोर् एकाधिकारित्वे विकल्प-समुच्चययोर् असम्भवाद् अधिकारि-भेद-ज्ञानायार्जुनस्य प्रश्न इति स्थितम् ।

इहेतरेषां कुमतं समस्तं
श्रुति-स्मृति-न्याय-बलान् निरस्तम् ।
पुनः पुनर् भाष्य-कृतातियत्नाद्
अतो न तत् कर्तुम् अहं प्रवृत्तः ॥

भाष्य-कार-मत-सार-दर्शिना
ग्रन्थ-मात्रम् इह योज्यते मया ।
आशयो भगवतः प्रकाश्यते
केवलं स्व-वचसो विशुद्धये ॥२॥

विश्वनाथः : भो वयस्य अर्जुन ! सत्यं गुणातीता भक्तिः सर्वोत्कृष्टैव । किन्तु सा यादृच्छिक-मद्-ऐकान्तैक-महा-भक्त-कृपैक-लभ्यत्वात् पुरुसोद्यम-साध्या न भवति । अतएव निस्त्रैगुण्यो भव गुणातीतया मद्-भक्त्या त्वं निस्त्रैगुण्यो भूया इत्य् आशीर्वाद एव दत्तः । स च यदा फलिष्यति तदा तादृश-यादृच्छिकैकान्तिक-भक्त-कृपया प्राप्ताम् अपि लप्स्यसे । साम्प्रतं तु कर्मण्य् एवाधिकारस् ते इति मयोक्तं चेत्, सत्यम् । तर्हि कर्मैव निश्चित्य कथं न ब्रूषे । किम् इति सन्देह-सिन्धौ मां क्षिपसीत्य् आह व्यामिश्रेणेति । विशेषतः आ सम्यक्तया मिश्रणं नाना-विधार्थ-मिलनं यत्र तेन वाक्येन मे बुद्धिं मोहयसि । तथा हि कर्मण्य् एवाधिकारस् ते [गीता २।४७], सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते [गीता २।४८],

बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते ।
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ [गीता २।५०]

इति योग-शब्द-वाच्यं ज्ञानम् अपि ब्रवीषि । यदा ते मोह-कलिलं [गीता २।५२] इत्य् अनेन ज्ञानं केवलम् अपि ब्रवीषि । किं चात्र इव-शब्देन त्वद्-वाक्यस्य वस्तुतो नास्ति नानार्थ-मिश्रितत्वम् । नापि कृपालोस् तव मन्-मोहनेच्छा । नापि मम तत्-तद्-अर्थानभिज्ञत्वम् इति भावः । अयं गूढो ऽभिप्रायः राजसात् कर्मणः सकाशात् सात्त्विकं कर्म श्रेष्ठम्, तच् च सात्त्विकम् एव । निर्गुण-भक्तिश् च तस्माद्न् अतिश्रेष्ठैव । तत्र सा यदि मयि न सम्भवेद् इति ब्रूषे, तदा सात्त्विकं ज्ञानम् एवैकं माम् उपदिश । तत एव दुःख-मयात् संसार-बन्धनान् मुक्तो भवेयम् इति ॥२॥

बलदेवः : व्यामिश्रेणेति । साङ्ख्य-बुद्धि-योग-बुद्ध्योर् इन्द्रिय-निवृत्ति-रूपयोः साध्य-साधकत्वावरोधि यद् वाक्यं तद् व्यामिश्रम् उच्यते । तेन मे बुद्धिं मोहयसीव । वस्तुतस् तु सर्वेश्वरस्य मत्-सखस्य च मे मन्-मोहकता नास्त्य् एव । मद्-बुद्धि-दोषाद् एवं प्रयेम्य् अहम् अतीवशब्दार्थः । तत् तस्माद् एकम् अव्यामिश्रं वाक्यं वद । न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वम् आनशुर् नास्त्य् अकृतः कृतेन इति श्रुतिवत् । येनाहम् अनुष्ठेयं निश्चित्यात्मनः श्रेयः प्राप्नुयाम् ॥२॥


३।३

श्री-भगवान् उवाच
लोके ऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञान-योगेन साङ्ख्यानां कर्म-योगेन योगिनाम् ॥३॥

श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच लोके ऽस्मिन्न् इति । अयम् अर्थः । यदि मया परस्पर-निरपेक्षं मोक्ष-साधनत्वेन कर्म-ज्ञान-योग-रूपं निष्ठा-द्वयम् उक्तं स्यात् तर्हि द्वयोर् मध्ये यद् भद्रं स्यात् तद् एकं वद इति त्वदीय-प्रश्नः सङ्गच्छते । न तु मया तथोक्तम् । द्वाभ्याम् एकैव ब्रह्म-निष्ठा उक्ता । गुण-प्रधान-भूतयोस् तयोः स्वातन्त्र्यानुपपत्तेः एकस्या एव तु प्रकार-भेद-मात्रम् अधिकारि-भेदेनोक्तम् इति । अस्मिन् शुद्धाशुद्धान्तः करणतया द्विविधे लोके अधिकारि-जने द्वे विधे प्रकारौ यस्याः सा । द्वि-विधा निष्ठा मोक्ष-परता पूर्वाध्याये मया सार्वज्ञेन प्रोक्ता स्पष्टम् एवोक्ता । प्रकार-द्वयम् एव निर्दिशति ज्ञान-योगेनेत्य् आदि । साङ्ख्यानां शुद्धान्तःकरणानां ज्ञान-भूमिकाम् आरूढानां ज्ञान-परिपाकार्थं
ज्ञान-योगेन ध्यानादिना निष्ठा ब्रह्म-परतोक्ता । तानि सर्वाणि संयम्य युक्त आसीत मत्-पर इत्य् आदिना । साङ्ख्य-भूमिकाम् आरुरुक्षूणां त्व् अन्तःकरण-शुद्धि-द्वारा तद्-आरोहणार्थं तद्-उपाय-भूत-कर्म-योगाधिकारिणां योगिनां कर्म-योगेन निष्ठोक्ता धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यत इत्य् आदिना । अतएव तव चित्त-शुद्धि-रूपावस्था-भेदेन द्वि-विधापि निष्ठोक्ता । एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृण्व् इति ॥३॥

मधुसूदनः : एवम् अधिकारि-भेदे ऽर्जुनेन पृष्टे तद्-अनुरूपं प्रतिवचनं श्री-भगवान् उवाच लोके ऽस्मिन्न् इति । अस्मिन्न् अधिकारित्वाभिमते लोके शुद्धाशुद्धान्तःकरण-भेदेन द्विविधे जने द्विविधा द्विप्रकारा निष्ठा स्थितर् ज्ञान-परता कर्म-परता च पुरा पूर्वाध्याये मया तवात्यन्त-हित-कारिणा प्रोक्ता प्रकर्षेण स्पष्टत्व-लक्षणेनोक्ता । तथा चाधिकार्य्-ऐक्य-शङ्कया मा ग्लासीर् इति भावः । हे ऽनघापापेति सम्बोधयन्न् उपदेशयोग्यताम् अर्जुनस्य सूचयति । एकैव निष्ठा साध्य-साधनावस्था-भेदेन द्वि-प्रकारा न तु द्वे एव स्वतन्त्रे निष्ठे इति कथयितुं निष्ठेत्य् एक-वचनम् । तथा च वक्ष्यति - एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति [गीता ५।५] इति ।

ताम् एव निष्ठां द्वैविध्येन दर्शयति साङ्ख्येति । सङ्ख्या सम्यग्-आत्म-बुद्धिस् तां प्राप्तवतां ब्रह्मचर्याद् एव कृत-सन्न्यासानां वेदान्त-विज्ञान-सुनिश्चितार्थानां ज्ञान-भूमिम् आरूढानां शुद्धान्तःकरणानां साङ्ख्यानां ज्ञान-योगेन ज्ञानम् एव युज्यते ब्रह्मणानेनेति व्युत्पत्त्या योगस् तेन निष्ठोक्ता तानि सर्वाणि संयम्य युक्त आसीत मत्-परः [गीता २।६१] इत्य् आदिना । अशुद्धान्तः-करणानां तु ज्ञान-भूमिम् अनारूढानां योगिनां कर्माधिकार-योगिनां कर्म-योगेन कर्मैव युज्यते ऽन्तः-करण-शुद्ध्यानेनेति व्युत्पत्त्या योगस् तेन निष्ठोक्तान्तः-करण-शुद्धि-द्वारा ज्ञान-भूमिकारोहणार्थं धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते [गीता २।३१] इत्य् आदिना ।

अतएव न ज्ञान-कर्मणोः समुच्चयो विकल्पो वा । किन्तु निष्काम-कर्मणा शुद्धान्तः-करणानां सर्व-कर्म-सन्न्यासेनैव ज्ञानम् इति चित्त-शुद्ध्य्-अशुद्धि-रूपावस्था-भेदेनैकम् एव त्वां प्रति द्विविधा निष्ठोक्ता । एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु [गीता २।३९] इति । अतो भूमिका-भेदेनैकम् एव प्रत्य् उभयोपयोगान् नाधिकार-भेदे ऽप्य् उपदेश-वैयर्थ्यम् इत्य् अभिप्रायः । एतद् एव दर्शयितुम् अशुद्ध-चित्तस्य चित्त-शुद्धि-पर्यन्तं कर्मानुष्ठानं न कर्मणाम् अनारम्भात् [गीता ३।४] इत्य् आदिभिर् मोघं प्राथ स जीवति [गीता ३।१६] इत्य् अन्तैस् त्रयोदशभिर् दर्शयति । शुद्ध-चित्तस्य तु ज्ञानिनो न किञ्चिद् अपि कर्मापेक्षितम् इति दर्शयति यस् त्व् आत्म-रतिर् [गीता ३।१७] इति द्वाभ्याम् । तस्माद् असक्तः इत्य् आरभ्य तु बन्ध-हेतोर् अपि कर्मएओ मोक्ष-हेतुत्वं सत्त्व-शुद्धि-ज्ञानोत्पत्ति-द्वारेण
सम्भवति फलाभिसन्धि-राहित्य-रूप-कौशलेनेति दर्शयिष्यति । ततः परं त्व् अथ केनेति प्रश्नम् उत्थाप्य काम-दोषेणैव कार्य-कर्मणः शुद्धि-हेतुत्वं नास्ति । अतः काम-राहित्येनैव कर्माणि कुर्वन्न् अन्तः-करण-शुद्ध्या ज्ञानाधिकारी भविष्यसीति यावद्-अध्याय-समाप्ति वदिष्यति भगवान् ॥३॥

विश्वनाथः : अत्रोत्तरम् । यदि मया परस्पर-निरपेक्षाव् एव मोक्ष-साधनत्वेन कर्म-योग-ज्ञान-योगाव् उक्तौ स्याताम् । तदा तद् एकं वद निश्चित्येति त्वत्-प्रश्नो घटते । मया तु कर्मानुष्ठा-ज्ञान-निष्ठावत्त्वेन यद् द्वैविध्यम् उक्तम्, तत् खलु पूर्वोत्तर-दशा-भेदाद् एव, न तु वस्तुतो मोक्षं प्रत्य् अधिकारि-द्वैधम् इत्य् आह लोके इति द्वाभ्याम् । द्विविधा द्वि-प्रकारा निष्ठा नितरां स्थिति-मर्यादेत्य् अर्थः । पुरा प्रोक्ता पूर्वाध्याये कथिता । ताम् एवाह साङ्ख्यानां साङ्खं ज्ञानं तद्-वताम् । तेषां शुद्धान्तः-करणत्वेन ज्ञान-भूमिकाम् अधिरूढानां ज्ञान-योगेनैव निष्ठा तेनैव मर्यादा स्थापिता । अत्र लोके तु ज्ञानित्वेनैव ख्यापिता इत्य् अर्थः - तानि सर्वाणि संयम्य युक्त आसीत मत्-परः [गीता २।६१] इत्य् आदिना । तथा शुद्धान्तःकरणत्वाभावेन
ज्ञान-भूमिकाम् अधिरोढुम् असमर्थानां योगिनां तद्-आरोहणार्थम् उपायवतां कर्म-योगेन मद्-अर्पित-निष्काम-कर्मणा निष्ठा मर्यादा स्थापिता । ते खलु कर्मित्वेनैव ख्यापितेत्य् अर्थः - धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते [गीता २।३१] इत्य् आदिना । तेन कर्मिणः ज्ञानिनः इति नाम-मात्रेणैव द्वैविध्यम् । वस्त्गुतस् तु कर्मिण एव कर्मिभिः शुद्ध-चित्ता ज्ञानिनो भवन्ति । ज्ञानिन एव भक्त्या मुच्यन्त इति मद्-वाक्य-समुदायार्थ इति भावः ॥३॥

विश्वनाथः : अत्रोत्तरम् । यदि मया परस्पर-निरपेक्षाव् एव मोक्ष-साधनत्वेन कर्म-योग-ज्ञान-योगाव् उक्तौ स्याताम् । तदा तद् एकं वद निश्चित्येति त्वत्-प्रश्नो घटते । मया तु कर्मानुष्ठा-ज्ञान-निष्ठावत्त्वेन यद् द्वैविध्यम् उक्तम्, तत् खलु पूर्वोत्तर-दशा-भेदाद् एव, न तु वस्तुतो मोक्षं प्रत्य् अधिकारि-द्वैधम् इत्य् आह लोके इति द्वाभ्याम् । द्विविधा द्वि-प्रकारा निष्ठा नितरां स्थिति-मर्यादेत्य् अर्थः । पुरा प्रोक्ता पूर्वाध्याये कथिता । ताम् एवाह साङ्ख्यानां साङ्खं ज्ञानं तद्-वताम् । तेषां शुद्धान्तः-करणत्वेन ज्ञान-भूमिकाम् अधिरूढानां ज्ञान-योगेनैव निष्ठा तेनैव मर्यादा स्थापिता । अत्र लोके तु ज्ञानित्वेनैव ख्यापिता इत्य् अर्थः - तानि सर्वाणि संयम्य युक्त आसीत मत्-परः [गीता २।६१] इत्य् आदिना । तथा शुद्धान्तःकरणत्वाभावेन
ज्ञान-भूमिकाम् अधिरोढुम् असमर्थानां योगिनां तद्-आरोहणार्थम् उपायवतां कर्म-योगेन मद्-अर्पित-निष्काम-कर्मणा निष्ठा मर्यादा स्थापिता । ते खलु कर्मित्वेनैव ख्यापितेत्य् अर्थः - धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते [गीता २।३१] इत्य् आदिना । तेन कर्मिणः ज्ञानिनः इति नाम-मात्रेणैव द्वैविध्यम् । वस्त्गुतस् तु कर्मिण एव कर्मिभिः शुद्ध-चित्ता ज्ञानिनो भवन्ति । ज्ञानिन एव भक्त्या मुच्यन्त इति मद्-वाक्य-समुदायार्थ इति भावः ॥३॥

बलदेवः : एवं पृष्टो भगवान् उवाच लोके ऽस्मिन्न् इति । हे अनघ निर्मल-बुद्धे पार्थ ज्यायसी चेद् इति कर्म-बुद्धि-साङ्ख्य-बुद्ध्योर् गुण-प्रधान-भावं जानन्न् अपि तमस्-तेजसोर् इव विरुद्धयोस् तयोः कथम् एकाधिकारित्वम् इति शङ्कया प्रेरितः पृच्छसीति भावः । अस्मिन् मुमुक्षुतयाभिमते शुद्धाशुद्ध-चित्ततया द्विविधे लोके जने द्विविधा निष्ठा स्थितिर् मया सर्वेश्वरेण पुरा पूर्वाध्याये प्रोक्ता । निष्ठेत्य् एक-वचनेन एकात्मोद्देश्यत्वाद् एकैव निष्ठा साध्य-साधन-दशा-द्वय-भेदेन द्वि-प्रकारा न तु द्वे निष्ठे इति सूच्यते । एवम् एवाग्रे वक्ष्यति एकं साङ्ख्यं च योगं च [गीता ५।५] इति । तां निष्ठां द्वैविध्येन दर्शयति ज्ञानेति । साङ्ख्य-ज्ञान अर्ह आद्यच् । तद्-वतां ज्ञानिनां ज्ञान-योगेन निष्ठा-स्थितिर् उक्ता प्रजहाति यदा कामान् [गीता २।५५]
इत्य् आदिना । ज्ञानम् एव योगो युज्यते आत्मनानेनेति-व्युत्पत्तेः । योगिनां निष्काम-कर्मवतां कर्म-योगेन निष्ठा स्थितिर् उक्ता कर्मण्य् एवाधिकारस् ते [गीता २।४७] इत्य् आदिना । कर्मैव योगो युज्यते ज्ञान-गर्भया चित्त-शुद्धयानेनेति व्युत्पत्तेः । एतद् उक्तं भवति - न खलु मुमुक्षुर् जनस् तदैव शमाद्य्-अङ्गिकां ज्ञान-निष्ठां लभते । किन्तु साचारेण कर्म-योगेन चित्त-मालिन्यं निर्धूयैवेत्य् एतद् एव मया प्राग् अभाणि एषा ते ऽभिहिता साङ्ख्ये [गीता २।३९] इत्य् आदिना ।


३।४

न कर्मणाम् अनारम्भान् नैष्कर्म्यं पुरुषो ऽश्नुते ।
न च सन्न्यसनाद् एव सिद्धिं समधिगच्छति ॥ ४ ॥

श्रीधरः : अतः सम्यक्-चित्त-शुद्ध्या ज्ञानोत्पत्ति-पर्यन्तं वर्णाश्रमोचितानि कर्माणि कर्तव्यानि । अन्यथा चित्त-शुद्ध्य्-अभावेन ज्ञानानुत्पत्तेर् इत्य् आह न कर्मणाम् इति । कर्मणाम् अनारम्भाद् अननुष्ठानान् नैष्कर्म्यं ज्ञानं नाश्नुते न प्राप्नोति । ननु चैतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्तीति श्रुत्या सन्न्यासस्य मोक्षाद् अङ्गत्व-श्रुतेः सन्न्यसनाद् एव मोक्षो भविष्यति । किं कर्मभिः ? इत्य् आशङ्क्योक्तं न चेति । चित्त-शुद्धिं विना कृतात् सन्न्यसनाद् एव ज्ञान-शून्यात् सिद्धिं मोक्षं न समधिगच्छति न प्राप्नोति ॥४॥

मधुसूदनः : तत्र कारणाभावे कार्यानुपपत्तेर् आह न कर्मणाम् इति । कर्मणा तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्यात्म-ज्ञाने विनियुक्तानाम् अनारम्भाद् अननुष्ठानाच् चित्त-शुद्ध्य्-अभावेन ज्ञानायोग्यो बहिर्मुखः पुरुषो नैष्कर्म्यं सर्व-कर्म-शून्यत्वं ज्ञान-योगेन निष्ठाम् इति यावत् नाश्नुते न प्राप्नोति ।

ननु एतम् एव प्रव्राजिनो लोकम् इच्छन्तः प्रव्रजन्ति इति श्रुतेः सर्व-कर्म-सन्न्यासाद् एव ज्ञान-निष्ठोपपत्तेः कृतं कर्मभिर् इत्य् अत आह न च सन्न्यसनाद् एव चित्त-शुद्धिं विना कृतात् सिद्धिं ज्ञान-निष्ठा-लक्षणां सम्यक्-फल-पर्यवसायित्वेनाधिगच्छति नैव प्राप्नोतीत्य् अर्थः । कर्म-जन्यां चित्त-शुद्धिम् अन्तरेण सन्न्यास एव न सम्भवति । यथा-कथञ्चिद् औत्सुक्य-मात्रेण कृतो ऽपि न फल-पर्यवसायीति भावः ॥४॥

विश्वनाथः : चित्त-शुद्ध्य्-अभावे ज्ञानानुत्पत्तिम् आह नेति । शास्त्रीय-कर्मणाम् अनारम्भाद् अननुष्ठानान् नैष्कर्म्यं ज्ञानं न प्राप्नोति न चाशुद्ध-चित्तः । सन्न्यसनाच् छास्त्रीय-कर्म-त्यागात् ॥४॥

बलदेवः : अतो ऽशुद्ध-चित्तेन चित्त-शुद्धेः स्व-विहितानि कर्माण्य् एवानुष्ठेयानीत्य् आह न कर्मणाम् इत्य् आदिभिस् त्रयोदशभिः । कर्मणां तम् एतम् इति वाक्येन ज्ञानाङ्गतया विहितानाम् अनारम्भाद् अननुष्ठानाद् अविशुद्ध-चित्तः पुरुषो नैष्कर्म्यं निखिलेन्द्रिय-व्यापार-रूप-कर्म-विरतिं ज्ञान-निष्ठाम् इति यावत् नाश्नुते न लभते । न च स तेषां कर्मणां सन्न्यासात् परित्यागात् सिद्धिं मुक्तिं समधिगच्छति ॥४॥


३।५

न हि कश्चित् क्षणम् अपि जातु तिष्ठत्य् अकर्म-कृत् ।
कार्यते ह्य् अवशः कर्म सर्वः प्रकृतिजैर् गुणैः ॥ ५ ॥

श्रीधरः : कर्मणां च सन्न्यासस् तेष्व् अनासक्ति-मात्रम् । न तु स्वरूपेण । अशक्यत्वाद् इति । आह न हि कश्चिद् इति । जातु कस्याञ्चिद् अप्य् अवस्थायां क्षण-मात्रम् अपि कश्चिद् अपि ज्ञान्य्-अज्ञानो वा अकर्म-कृत् कर्माण्य् अकुर्वाणो न तिष्ठति । अत्र हेतुः – प्रकृतिजैर् स्वभाव-प्रभवै राग-द्वेषादिभिर् गुणैः सर्वो ऽपि जनः कर्म कार्यते । कर्मणि प्रवर्त्यते । अवशो ऽस्वतन्त्रः सन् ॥५॥

मधुसूदनः : तत्र कर्म-जन्य-शुद्ध्य्-अभावे बहिर्मुखः । हि यस्मात् क्षणम् अपि कालं जातु कदाचित् कश्चिद् अप्य् अजितेन्द्रियो ऽकर्म-कृत् सन् न तिष्ठति । अपि तु लौकिक-वैदिककर्मानुष्ठान-व्यग्र एव तिष्ठति तस्माद् अशुद्ध-चित्तस्य सन्न्यासो न सम्भवतीत्य् अर्थः ।

कस्मात् पुनर् अविद्वान् कर्माण्य् अकुर्वाणो न तिष्ठति । हि यस्मात् । सर्वः प्राणी चित्त-शुद्धि-रहितो ऽवशो ऽस्वतन्त्र एव सन् प्रकृतिजैः प्रकृतितो जातैर् अभिव्यक्तैः कार्याकारेण सत्त्व-रजस्-तमोभिः स्वभाव-प्रभवैर् वा राग-द्वेषादिभिर् गुणैः कर्म लौकिकं वैदिकं वा कार्यते । अतः कर्माण्य् अकुर्वाणो न कश्चिद् अपि तिष्ठतीत्य् अर्थः । यतः स्वाभाविका गुणाश् चालका अतः पर-वशतया सर्वदा कर्माणि कुर्वतो ऽशुद्ध-बुद्धेः सर्व-कर्म-सन्न्यासो न सम्भवतीति न सन्न्यास-निबन्धना ज्ञान-निष्ठा सम्भवतीत्य् अर्थः ॥५॥

विश्वनाथः : किन्त्व् अशुद्ध-चित्तः कृत-सन्न्यासः शास्त्रीयं कर्म परित्यज्य व्यवहारिके कर्मणि निमज्जतीत्य् आह न हीति । ननु सन्न्यास एव तस्य वैदिक-लौकिक-कर्म-प्रवृत्तिर्-विरोधी ? तत्राह कार्यत इति । अवशो ऽस्वतन्त्रः ॥५॥

बलदेवः : अविशुद्ध-चित्तः कृत-वैदिक-कर्म-सन्न्यासो लौकिके ऽपि कर्मणि निमज्जतीत्य् आह नहीति । ननु सन्न्यास एव तस्य सर्व-कर्म-विरोधीति चेत् तत्राह कार्यत इति । प्रकृतिजैः स्वभावोद्भवैर् गुणै राग-द्वेषादिभिः, कार्यते प्रवर्त्यते अवशः पराधीनः स्यात् ॥५॥


३।६

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥६॥

श्रीधरः : अतो ऽज्ञं कर्म-त्यागिनं निन्दति कर्मेन्द्रियाणीति । वाक्-पाण्य्-आदीनि कर्मेन्द्रियाणि । संयम्य भगवद्-ध्यान-च्छलेन इन्द्रियार्थान् विषयान् स्मरन्न् आस्ते अविशुद्धतया मनसा आत्मनि स्थैर्याभावात्, स मिथ्याचारः कपटाचारो दाम्भिक उच्यत इत्य् अर्थः ॥६॥

मधुसूदनः : यथा-कथञ्चिद् औत्सुक्य-मात्रेण कृत-सन्न्यासस् त्व् अशुद्ध-चित्तस् तत्-फल-भाङ् न भवति यतः । यो विमूढात्मा राग-द्वेषादि-दूषितान्तः-करण औत्सुक्य-मात्रेण कर्मेन्द्रियाणि वाक्-पाण्य्-आदीनि संयम्य निगृह्य बहिर्-इन्द्रियैः कर्माण्य् अकुर्वन्न् इति यावत् । मनसा रागादि-प्रेरितेन्द्रियार्थान् शब्दादीन् न त्व् आत्म-तत्त्वं स्मरन्न् आस्ते कृत-सन्न्यासो ऽहम् इत्य् अभिमानेन कर्म-शून्यस् तिष्ठति स मिथ्याचारः सत्त्व-शुद्ध्य्-अभावेन फलायोग्यत्वात् पापाचार उच्यते ।

 त्वं-पदार्थ-विवेकाय सन्न्यासः सर्व-कर्मणाम् ।  
 श्रुत्येह विहितो यस्मात् तत्-त्यागी पतितो भवेत् ॥  

इत्य् आदि-धर्म-शास्त्रेण । अत उपपन्नं न च सन्न्यसनाद् एवाशुद्धान्तः-करणः सिद्धिं समधिगच्छतीति ॥६॥

विश्वनाथः : ननु तादृशो ऽपि सन्न्यासी कश्चित् । कश्चिद् इन्द्रिय-व्यापार-शून्यो मुद्रिताक्षो दृश्यते ? तत्राह कर्मेन्द्रियाणि, वाक्-पाण्य्-आदीनि निगृह्य यो मनसा ध्यान-च्छलेन विषयान् स्मरन्न् आस्ते, स मिथ्याचारो दाम्भिकः ॥६॥

बलदेवः : ननु राग-दिव्यापार-शून्यो मुद्रित-श्रोत्रादिः कश्चित् कश्चिद् यदि दृश्यते तत्राह कर्मेन्द्रियाणीति । यो यतिः कर्मेन्द्रियाणि वाग्-आदीनि संयम्य मनसा ध्यान-छद्मना इन्द्रियार्थान् शब्द-स्पर्शादीन् स्मरन्न् आस्ते स विमूढात्मा मूर्खो मिथ्याचारः कथ्यते । स च निरुद्ध-रागादेर् अज्ञस्य निष्काम-कर्मानुष्ठानेन मनः-शुद्धेर् अनुदयात् श्रोत्राद्य्-अप्रसारे ऽप्य् अशुद्धत्वान् मनसा तद्-विषयाणां स्म रणाज् ज्ञानायोद्यतस्यापि तस्य ज्ञान-लाभात् मिथ्याचारो व्यर्थ-वाग्-आदि-नियम-क्रियो दाम्भिक इत्य् अर्थः ॥६॥


३।७

यस् त्व् इन्द्रियाणि मनसा नियम्यारभते ऽर्जुन
कर्मेन्द्रियैः कर्म-योगम् असक्तः स विशिष्यते ॥७॥

श्रीधरः : एतद्-विपरीतः कर्म-कर्ता तु श्रेष्ठ इत्य् आह यस् त्व् इन्द्रियाणीति । यस् त्व् इन्द्रियाणि मनसा नियम्य ईश्वर-पराणि कृत्वा कर्मेन्द्रियैः कर्म-रूपं योगम् उपायम् आरभते ऽनुतिष्ठति । असक्तः फलाभिलाष-रहितः सन् । स विशिष्यते विशिष्टो भवति चित्त-शुद्ध्या ज्ञानवान् भवतीत्य् अर्थः ॥७॥

मधुसूदनः : औत्सुक्य-मात्रेण सर्व-कर्माण्य् असन्न्यस्य चित्त-शुद्धये निष्काम-कर्माण्य् एव यथा-शास्त्रं कुर्यात् । तस्मात् यस् त्व् इति । तु-शब्दो ऽशुद्धान्तः-करण-सन्न्यासि-व्यतिरेकार्थः । इन्द्रियाणि ज्ञानेन्द्रियाएइ श्रोत्रादीनि मनसा सह नियम्य पाप-हेतु-शब्दादि-विषयासक्तेर् निवर्त्य मनसा विवेक-युक्तेन नियम्येति वा । कर्मेन्द्रियैर् वाक्-पाण्य्-आदिभिः कर्म-योगं शुद्धि-हेतुतया विहितं कर्मारभते करोत्य् असक्तः फलाभिलाष-शून्यः सन् यो विवेकी स इतरस्मान् मिथ्याचाराद् विशिष्यते । परिश्रम-साम्ये ऽपि फलातिशय-भाक्त्वेन श्रेष्ठो भवति । हे ऽर्जुनाश्चर्यम् इदं पश्य यद् एकः कर्मेन्द्रियाणि निगृह्णन् ज्ञानेन्द्रियाणि व्यापारयन् पुरुषार्थ-शून्यो ऽपरस् तु ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियाणि व्यापारयन् परम-पुरुषार्थ-भाग् भवतीति ॥७॥

विश्वनाथः : एतद्-विपरीतः शास्त्रीय-कर्म-कर्ता गृहस्थस् तु श्रेष्ठ इत्य् आह यस् त्व् इति । कर्म-योगं शास्त्र-विहितम् । असक्तो ऽफलाकाङ्क्षी विशिष्यते । असम्भावित-प्रसादित्वेन ज्ञान-निष्ठाद् अपि पुरुषाद् विशिष्टः इति श्री-रामानुजाचार्य-चरणाः ॥७॥

बलदेवः : एतद्-वैपरीत्येन स्व-विहित-कर्म-कर्ता गृहस्थो ऽपि श्रेष्ठ इत्य् आह यस् त्व् इति । आत्मानुभव-प्रवृत्तेन मनसेन्द्रियाणि श्रोत्रादीनि नियम्यासक्तः फलाभिलाष-शून्यः सन् यः कर्मेन्द्रियैः कर्म-रूपं योगम् उपायम् आरभते ऽनुतिष्ठति स विशिष्यते । सम्भाव्यमान-ज्ञानत्वात् पूर्वतः श्रेष्ठो भवतीत्य् अर्थः ॥७॥


३।८

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्य् अकर्मणः ।
शरीरयात्रापि च ते न प्रसिध्येद् अकर्मणः ॥८॥

श्रीधरः : नियतम् इति । यस्माद् एवं तस्मान् नियतं नित्यं कर्म सन्ध्योपासनादि कुरु । हि यस्मात् । सर्व-कर्मणो ऽकरणात् सकाशात् कर्म-करणं ज्यायो ऽधिकतरम् । अन्यथाकर्मणः सर्व-कर्म-शून्यस्य तव शरीर-यात्रा शरीर-निर्वाहो ऽपि न प्रसिध्येन् न भवेत् ॥८॥

मधुसूदनः : यस्माद् एवं तस्मान् मनसा ज्ञानेन्द्रियाणि निगृह्य कर्मेन्द्रियैस् त्वं प्राग् अननुष्ठित-शुद्धि-हेतु-कर्मा नियतं विध्य्-उद्देशे फल-सम्बन्ध-शून्यतया नियत-निमित्तेन विहितं कर्म श्रौतं स्मार्तं च नित्यम् इति प्रसिद्धं कुरु । कुर्व् इति मध्यम-पुरुष-प्रयोगेणैव त्वम् इति लब्धे त्वम् इति पदम् अर्थान्तरे सङ्क्रमितम् ।

कस्माद् अशुद्धान्तः-करणेन कर्मैव कर्तव्यं हि यस्माद् अकर्मणो ऽकरणात् कर्मैव ज्यायः प्रशस्यतरम् । न केवलं कर्माभावे तवान्तः-करण-शुद्धिर् एव न सिध्येत् । किन्तु अकर्मणो युद्धादि-कर्म-रहितस्य ते तव शरीर-यात्रा शरीर-स्थितिर् अपि न प्रकर्षेण क्षात्र-वृत्ति-कृतत्व-लक्षणेन सिध्येत् । तथा च प्राग् उक्तम् । अपि चेत्य् अन्तः-करण-शुद्धि-समुच्चयार्थः ॥८॥

विश्वनाथः : तस्मात् त्वं नियतं नित्यं सन्ध्योपासनादि# अकर्मणः कर्म-सन्न्यासात् सकाशाज् ज्यायः श्रेष्ठम् । सन्न्यास-सर्व-कर्मणस् तव शरीर-निर्वाहो ऽपि न सिध्येत् ॥८॥

बलदेवः : नियतम् इति तस्मात् त्वम् अविशुद्ध-चित्तो नियतम् आवश्यक-करम् कुरु चित्त-विशुद्धये निष्कामतया स्व-विहितं कर्माचरेत्य् अर्थः । अकर्मणम् औत्सुक्य-मात्रेण सर्व-कर्म-सन्न्यास-सकाशात् कर्मैव ज्यायः प्रशस्ततरं क्रम-सोपान-न्यायेन ज्ञानोत्पादकत्वात् । औत्सुक्य-मात्रेण कर्म त्यजतोर् मलिने हृदि ज्ञान-प्रकाशात् । किं चाकर्मणः सन्न्यस्त-सर्व-कर्मणस् तव शरीर-यात्रा देह-निर्वाहो ऽपि न सिध्येत् । यावत् साधन-पूर्ति-देह-धारणस्यावश्यकत्वात् तद्-अर्थं ज्ञानी भिक्षाटनादि-कर्मानुतिष्ठति । तच् च क्षत्रियस्य तवानुचितम् । तस्मात् स्व-विहितेन युद्ध-प्रजा-पालनादि-कर्मणा शुल्कानि वित्तान्य् उपार्ज्य तैर् निर्व्यूह-देह-यात्रः स्वात्मानम् अनुसन्धेहीति ॥८॥


३।९

यज्ञार्थात् कर्मणो ऽन्यत्र लोको ऽयं कर्म-बन्धनः ।
तद्-अर्थं कर्म कौन्तेय मुक्त-सङ्गः समाचर ॥९॥

श्रीधरः : साङ्ख्यास् तु सर्वम् अपि कर्म-बन्धक्तवान् न कार्यम् इत्य् आहुः । तन्निराकुर्वन्न् आह यज्ञार्थाद् इति । यज्ञो ऽत्र विष्णुः । यज्ञो वै विष्णुर् इति श्रुतेः । तद्-आराधनार्थात् कर्मणो ।न्यत्र तद् एकं लोको ऽयं कर्म-बन्धनः कर्मभिर् वध्यते । न तु ईश्वराराधनार्थेन कर्मणा । अतस् तद्-अर्थं विष्णु-प्रीत्य्-अर्थं मुक्त-सङ्गो निष्कामः सन् कर्म सम्यग् आचर ॥९॥

मधुसूदनः : कर्मणा बध्यते जन्तुः [म्भ् १२।२४१।७] इति स्मृतेः सर्वं कर्म बन्धात्मकत्वान् मुमुक्षुणा न कर्तव्यम् इति मत्वा तस्योत्तरम् आह
यज्ञार्थाद् इति । यज्ञः परमेश्वरः यज्ञो वै विष्णुर् [तैत्त्स् १।७।४] इति श्रुतेः । तद्-आराधनार्थं यत् क्रियते कर्म तद्-यज्ञार्थं तस्मात् कर्मणो ऽन्यत्र कर्मणि प्रवृत्तो ऽयं लोकः कर्माधिकारी कर्म-बन्धनः कर्मणा बध्यते न त्व् ईश्वराराध्नार्थेन । अतस् तद्-अर्थं यज्ञार्थं कर्म हे कौन्तेय ! त्वं कर्मण्य् अधिकृतो मुक्त-सङ्गः सन् समाचर सम्यक्-श्रद्धादि-पुरःसरम् आचर ॥९॥

विश्वनाथः : ननु तर्हि कर्मणा बध्यते जन्तुः इति स्मृतेः । कर्मणि कृते बन्धः स्याद् इति चेन् न । परमेश्वरार्पितं कर्म न बन्धकम् इत्य् आह यज्ञार्थाद् इति । विष्ण्व्-अर्पितो निष्कामो धर्म एव यज्ञ उच्यते । यद्-अर्थं यत् कर्म ततो ऽन्यत्रैवायं लोकः कर्म-बन्धनः कर्मणा बध्यमानो भवति । तस्मात् त्वं तद्-अर्थं तादृश-धर्म-सिद्ध्य्-अर्थं कर्म समाचर ।

ननु विष्ण्व्-अर्पितो ऽपि धर्मः कामनाम् उद्दिश्य कृतश् चेद् बन्धको भवत्य् एवेत्य् आह मुक्त-सङ्गः फलाकाङ्क्षा-रहितः । एवम् एवोद्धवं प्रत्य् अपि श्री-भगवतोक्तम् -

स्व-धर्म-स्थो यजन् यज्ञैर्
अनाशीः-काम उद्धव ।
न याति स्वर्ग-नरकौ
यद्य् अन्यन् न समाचरेत् ॥

अस्मिन् लोके वर्तमानः
स्व-धर्म-स्थो ऽनघः शुचिः ।
ज्ञानं विशुद्धम् आप्नोति
मद्-भक्तिं वा यदृच्छया ॥ [भ्प् ११।२०।१०-१] इति ॥९॥

बलदेवः : ननु कर्मणि कृते बन्धो भवेत् । कर्मणा बध्यते जन्तुर् इत्य् आदि-स्मरणाच् चेति तत्राह यज्ञार्थाद् इति । यज्ञः परमेश्वरः यज्ञो वै विष्णुर् इति श्रुतेः । तद्-अर्थात् तत्-तोष-फलात् कर्मणो ऽन्यत्र स्वसुख-फलक-कर्मणि क्रियमाणे ऽयं लोकः प्राणी कर्म-बन्धनः कर्मणा बध्यते । तस्मात् तद्-अर्थं विष्णु-तोषार्थं कर्म समाचर । हे कौन्तेय मुक्त-सङ्गस् त्यक्त-सुखाभिलाषः सन् न्यायोपार्जित-द्रव्य-सिद्धेन यज्ञादिना विष्णुर् आराध्य तच्-छेषेण देह-यात्रां कुर्वन् न बध्यत इत्य् अर्थः ॥९॥


३।१०

सह-यज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वम् एष वो ऽस्त्व् इष्ट-काम-धुक् ॥१०॥
श्रीधरः : प्रजापति-वचनाद् अपि कर्म-कर्तैव श्रेष्ठ इत्य् आह सहयज्ञा इति । यञेन सह वर्तन्त इति सहयज्ञाः यज्ञाधिकृता ब्राह्मणादि-प्रजाः पुरा सर्गादौ सृष्ट्वा इदम् उवाच ब्रह्मा अनेन यज्ञेन प्रसविष्यध्वम् । प्रसवो हि वृद्धिः । उत्तरोत्तराभिवृद्धिं लभध्वम् इत्य् अर्थः । तत्र हेतुः । एष यज्ञो वो युष्माकम् इष्ट-काम-धुक् । इष्टान् दोग्धीति तथा । अभीष्ट-भोग-प्रदो ऽस्तु इत्य् अर्थः । अत्र च यज्ञ-ग्रहणम् आवश्यक-कर्मोपलक्षणार्थम् । काम्य-कर्म-प्रशंसा तु प्रकरणे ऽसङ्गतापि सामान्यतो ऽकर्मणः कर्म श्रेष्ठम् इत्य् एतद् अर्थम् इत्य् अदोषः ॥१०॥
मधुसूदनः : प्रजापति-वचनाद् अप्य् अधिकृतेन कर्म कर्तव्यम् इत्य् आह सहयज्ञा इत्य्-आदि-चतुर्भिः । सह यज्ञेन विहित-कर्म-कलापेन वर्तन्त इति सहयज्ञा समाधिकृता इति यावत् । वोपसर्जनस्य [पाण् ६।३।८२] इति पक्षे सादेशाभावः । प्रजास् त्रीन् वर्णान् पुरा कल्पादौ सृष्ट्वोवाच प्रजानां पतिः स्रष्टा । किम् उवाचेत्य् आह – अनेन यज्ञेन स्वाश्रमोचित-धर्मेण प्रसविष्यध्वम् प्रसूयध्वम् । प्रसवो वृद्धिः । उत्तरोत्तराम् अभिवृद्धिं लभध्वम् इत्य् अर्थः । कथम् अनेन वृद्धिः स्याद् इत्य् आह एष यज्ञाख्यो धर्मो वो युष्माकम् इष्ट-काम-धुक् । इष्टान् अभिमतान् कामान् काम्यानि फलानि दोग्धि प्रापयतीति तथा । अभीष्ट-भोग-प्रदो ऽस्त्व् इत्य् अर्थः ।

अत्र यद्यपि यज्ञ-ग्रहणम् आवश्यक-कर्मोपलक्षणार्थम् अकरणे प्रत्यवायस्याग्रे कथनात् । काम्य-कर्मणां च प्रकृते प्रस्तावो नास्त्य् एव मा कर्म-फल-हेतुर् भूर् इत्य् अनेन निराकृतत्वात् । तथाइ नित्य-कर्मणाम् आनुषङ्गिक-फल-सद्भावात् । एष वो ऽस्त्व् इष्ट-काम-धुक् इत्य् उपपद्यते । तथा च आपस्तम्बः स्मरति तद् यथाम्रे फलार्थे निमित्ते छाया-गन्धाव् अनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते नो चेद् अनूत्पद्यन्ते न धर्म-हानिर् भवति इति । फल-सद्-भावे ऽपि तद्-अभिसन्ध्य्-अनभिसन्धिभ्यां काम्य-नित्ययोर् विशेषः । अनभिसंहितस्यापि वस्तु-स्वभावाद् उत्पत्तौ न विशेषः । विस्तरेण चाग्रे प्रतिपादयिष्यते ॥१०॥

विश्वनाथः : तद् एवाशुद्ध-चित्तौ निष्कामं कर्मैव कुर्यान् न तु सन्न्यासम् इत्य् उक्तम् । इदानीं यदि च निष्कामो ऽपि भवितुं न शक्नुयात् तदा सकामम् अपि धर्मं विष्ण्व्-अर्पितं कुर्यान् न तु कर्म-त्यागम् इत्य् आह सहेति सप्तभिः । यज्ञेन सहिताः सह-यज्ञाः वोपसर्जनस्य इति सहस्यादेशाभावः । पुरा विष्ण्व्-अर्पित-धर्म-कारिणीः प्रजाः सृष्ट्वा ब्रह्मोवाच अनेन धर्मेण प्रसविष्यध्वं प्रसवो वृद्धिर् उत्तरोत्तरम् अतिवृद्धिं लभध्वम् इत्य् अर्थः । तासां स-कामत्वम् अभिलक्ष्याह एष यज्ञो व इष्ट-काम-धुग्-अभीष्ट-भोग-प्रदो ऽस्त्व् इत्य् अर्थः ॥१०॥

बलदेवः : अयज्ञेशेषेण देह-यात्रां कुर्वतो दोषम् आह सहेति । प्रजापतिः सर्वेश्वरो विष्णुः पतिं विश्वस्यात्मेश्वरम् इत्य् आदि-श्रुतेः । ब्रह्म प्रजानां पतिर् अच्युतो ऽसाव् इत्य् आदि-स्मरणाच् च । पुरा आदि-सर्गे सह-यज्ञा यज्ञैः सहिता देव-मानवादि-रूपाः प्रजाः सृष्ट्वा नाम-रूप-विभाग-शून्याः प्रकृति-शक्तिके स्वस्मिन् विलीनाः पुरुषार्थायोग्यास् तास् तत्-सम्पादक-नाम-रूप-भाजो विधाय यज्ञं तन्-निरूपकं वेदं च प्रकाश्येत्य् अर्थः । ताः प्रतीदम् उवाच कारुणिकः । अनेन वेदोक्तेन मद्-अर्पितेन यज्ञेन यूयं प्रसविष्यध्वम् । प्रसवो वृद्धिः स्व-वृद्धिं भजध्वम् इत्य् अर्थः । एष मद्-अर्पितो यज्ञो वो युष्माकम् इष्ट-काम-धुक् हृद्-विशुद्ध्य्-आत्म-ज्ञान-देह-यात्रा-सम्पादन-द्वारा वाञ्छित-मोक्ष-प्रदो ऽस्तु ॥१०॥


३।११

देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥११॥

श्रीधरः : कथम् इष्ट-काम-दोग्धा यज्ञो भवेद् इति ? तत्राह देवान् इति । अनेन यज्ञेन देवान् भावयत । हविर् भागैः संवर्धयत ते च देवा वो युष्मान् संवर्धयन्तु वृष्ट्य्-आदिना अन्नोत्पत्ति-द्वारेण । एवम् अन्योन्यं संवर्धयन्तो देवाश् च यूयं च परस्परं श्रेयो ऽभीष्णम् अर्थम् अवाप्स्यथ प्राप्स्यथ ॥११॥

मधुसूदनः : कथम् इष्ट-काम-दोग्धृत्वं यज्ञस्येति तद् आह देवान् इति । अनेन यज्ञेन यूयं यजमाना देवान् इन्द्रादीन् भावयत हविर्-भोगैः संवर्धयत तर्पयतेत्य् अर्थः । ते देवा युष्माभिर् भाविताः सन्तो वो युष्मान् भावयन्तु वृष्ट्य्-आदिनान्नोत्पत्ति-द्वारेण संवर्धयन्तु । एवम् अन्योन्यं संवर्धयन्तो देवाश् च यूयं च वरं श्रेयो ऽभिमतम् अर्थं प्राप्स्यथ देवास् तृप्तिं प्राप्स्यन्ति यूयं च स्वर्गाख्यं परं श्रेयः प्राप्स्यथेत्य् अर्थः ॥११॥

विश्वनाथः : कथम् इष्ट-काम-प्रदो यज्ञो भवेत् तत्राह देवान् इति । अनेन यज्ञेन देवान् भावयत । भाववतः कुरुत । भावः प्रीतिस् तद्-युक्तान् कुरुत प्रीणयन् इत्य् अर्थः । ते देवा अपि वः प्रीणयतु ॥११॥

बलदेवः : इदं च प्रजाः प्रयुक्ताः अनेन यज्ञेन मद्-अङ्ग-भूता-निन्दादीन् भावयत तत्-तद्-धविर्-दानेन प्रीतान् यूयं कुरुत । ते देवा वो युष्मांस् तद्-वर-दानेन भावयन्तु प्रीतान् कुर्वन्तु । इत्थं शुद्धाहारेण मिथो भावतास् ते यूयं परं मोक्ष-लक्षणं श्रेयः प्राप्स्यथः तत्राहार-शुद्धिर् हि ज्ञान-निस्ठाङ्गम्, तत्राहार-शुद्धौ सत्त्व-शुद्धिः सत्त्व-शुद्धौ ध्रुवा स्मृतिः स्मृति-लब्धे सर्व-ग्रन्थीनां विप्रमोक्षः इति श्रुतेः ॥११॥


३।१२

इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञ-भाविताः ।
तैर् दत्तान् अप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥१२॥

श्रीधरः : एतद् एव स्पष्टीकुर्वन् कर्माकरणे दोषम् आह इष्टान् इति । यज्ञैर् भाविताः सन्तो देवा वृष्ट्य्-आदि-द्वारेण वो युष्मभ्यं भोगान् दास्यन्ते हि । अतो देवैर् दत्तान् अन्नादीन् एभ्यो देवेभ्यः पञ्च-यज्ञादिभिर् अदत्त्वा यो भुङ्क्ते, स स्तेनश् चौर एव ज्ञेयः ॥१२॥

मधुसूदनः : न केवलं पारत्रिकम् एव फलं यज्ञात्, किन्त्व् ऐहिकम् अपीत्य् आह इष्टान् इति । अभिलषितान् भोगान् पश्व्-अन्न-हिरण्यादीन् वो युष्मभ्यं देवा दास्यन्ते वितरिष्यन्ति । हि यस्माद् यज्ञैर् भावितास् तोषितास् ते । यस्मात् तैर् ऋणवद् भवद्भ्यो दत्ता भोगास् तस्मात् तैर् देवैर् दत्तान् भोगान् एभ्यो देवेभ्यो ऽप्रदाय यज्ञेषु देवोदेशेनाहुतीरसम्पाद्य यो भुङ्क्ते देहेन्द्रियाण्य् एव तर्पयति स्तेन एव तस्कर एव स देव-स्वापहारी देवार्णपाकरणात् ॥१२॥

विश्वनाथः : एतद् एव स्पष्टीकुर्वन् कर्माकरणे दोषम् आह इष्टान् इति । तैर् दत्तान् वृष्ट्य्-आदि-द्वारेणान्नादीन् नादीन् उत्पादेत्य् अर्थः । एभ्यो देवेभ्यः पञ्च-महा-यज्ञादिभिर् अदत्त्वा यो भुङ्क्ते, स तु चौर एव ॥१२॥

बलदेवः : एतद् एव विशदयन् कर्मानुष्ठानेन दोषम् आह इष्टान् इति । पूर्व-भावित-मद्-अङ्ग-भूता देवा वो युष्मभ्यम् इष्टान् मुमुक्षु-काम्यान् उत्तरोत्तर-यज्ञापेक्षान् भोगान् दास्यन्ति वृष्ट्य्-आदि-द्वारा व्रीह्य्-आदीन् उत्पाद्येत्य् अर्थः । स्वार्चनार्थं तैर् देवैर् दत्तांस् तान् भोगान् एभ्यः पञ्च-यज्ञादिभिर् अप्रदाय केवलात्म-तृप्ति-करो यो भुङ्क्ते स स्तेनश् चौर एव । देवस् तान्य् अपहृत्य तैर् आत्मनः पोषात् । चौरो भूपाद् इव स यमाद् दण्डम् अर्हति पुमर्थानर्हः ॥१२॥


३।१३

यज्ञ-शिष्टाशिनः सन्तो मुच्यन्ते सर्व-किल्बिषैः ।
भुञ्जते ते त्व् अघं पापा ये पचन्त्य् आत्म-कारणात् ॥१३॥

श्रीधरः : अतश् च यजन्त एव श्रेष्ठाः । नेतर इत्य् आह यज्ञ-शिष्टाशिन इति । वैश्व-देवादि-यज्ञावशिष्टं ये ऽश्नन्ति ते पञ्चसूनाकृतैः सर्वैः किल्बिषैर् मुच्यन्ते । पञ्च-सूनाश् च स्मृताव् उक्ताः -

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।
पञ्च-सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ॥

ये आत्मनो भोजनार्थम् एव पचन्ति, न तु वैश्वदेवाद्य्-अर्थं ते पापा दुराचारा अघम् एव भुञ्जते ॥१३॥

मधुसूदनः : ये तु वैश्वदेवादि-यज्ञावशिष्टम् अमृतं ये ऽश्नन्ति ते सन्तः शिष्टा वेदोक्त-कारित्वेन देवाद्य्-ऋणापाकरणात् अतस् ते मुच्यन्ते सर्वैर् विहिताकरण-निमित्तैः पूर्व-कृतैश् च पञ्च-सूना-निमित्तैः किल्बिषैः । भूत-भावि-पातका-संसर्गिणस् ते भवन्तीत्य् अर्थः ।

एवम् अन्वये भूत-भावि-पापाभावाम् उक्त्वा व्यतिरेके दोषम् आह भुञ्जते ते वैश्वदेवाद्य्-अकारिणो ऽघं पापम् एव । तु-शब्दो ऽवधारणे । ये पापाः पञ्च-सूना-निमित्तं प्रमाद-कृत-हिंसा-निमित्तं च कृत-पापाः सन्त आत्म-कारणाद् एव पचन्ति न तु वैश्वदेवाद्य्-अर्थम् । तथा च पाञ्च-सूनादि-कृत-पापे विद्यमान एव वैश्वदेवादि-नित्य-कर्माकरण-निमित्तम् अपरं पापम् आप्नुवन्तीति भुञ्जते ते त्व् अघं पापा इत्य् उक्तम् । तथा च स्मृतिः -

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।
पञ्च-सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥इति ।

पञ्च-सूनाकृतं पापं पञ्च-यज्ञैर् व्यपोहति इति च । श्रुतिश् च इदम् एवास्य तत्-साधारणम् अन्नं यद् इदम् अद्यते । स य एतद् उपास्ते न स पाप्नमो व्यावर्तते मिश्रं ह्य् एतत् इति । मन्त्र-वर्णो ऽपि -

मोघम् अन्नं विन्दते अग्र-चेताः
सत्यं ब्रवीमि वध इत्स तस्य ।
नार्यमाणं पुष्यति नो सखायं
केवलाधो भवति केवलादी ॥इति ।

इदं चोपलक्षणं पञ्च-महा-यज्ञानां स्मार्तानां श्रौतानां च नित्य-कर्मणाम् । अधिकृतेन नित्यानि कर्माण्य् अवश्यम् अनुष्ठेयानीति प्रजापति-वचनार्थः ॥१३॥

विश्वनाथः : वैश्वदेवादि-यज्ञावशिष्टम् अन्नं ये ऽश्नन्ति ते पञ्च-सूनाकृतैः सर्वैः पापैर् मुच्यन्ते । पञ्च-सूनाश् च स्मृत्य्-उक्ताः -

कण्डनी पेषणी चुल्ली उदकुम्भी च मार्जनी ।
पञ्च-सूना गृहस्थस्य ताभिः स्वर्गं न विन्दति ॥ इति ॥१३॥

बलदेवः : ये इन्द्राद्य्-अङ्गतयावस्थितं यज्ञं सर्वेश्वरं विष्णुम् अभ्यर्च्य तच्-छेषम् अश्नन्ति तेन तद्-देह-यात्रां सम्पादयन्ति ते सन्तः सर्वेश्वरस्य यज्ञ-पुरुषस्य भक्ताः सर्व-किल्बिषैर् अनादि-काल-विवृद्धैर् आत्मानुभव-प्रतिबन्धकैर् निखिलैः पापैर् विमुच्यन्ते । ते तु पापाः पाप-ग्रस्ताः अघम् एव भुञ्जते । ये तत्-तद्-देवताङ्गतयावस्थितेन यज्ञ-पुरुषेण स्वार्चनाय दत्तं व्रीह्य्-आद्य्-आत्म-कारणात् पचन्ति तद् विपच्यात्म-पोषणं कुर्वन्तीत्य् अर्थः । पक्वस्य व्रीह्य्-आदेर् अघ-रूपेण परिणामाद् अघत्वम् उक्तम् ॥१३॥


३।१४

अन्नाद् भवन्ति भूतानि पर्जन्याद् अन्न-सम्भवः ।
यज्ञाद् भवति पर्जन्यो यज्ञः कर्म-समुद्भवः ॥१४॥

श्रीधरः : जगच्-चक्र-प्रवृत्ति-हेतुत्वाद् अपि कर्म कर्तव्यम् इत्य् आह अन्नाद् इति त्रिभिः । अन्नात् शुक्र-शोणित-रूपेण परिणताद् भूतान्य् उत्पद्यन्ते । अन्नस्य च सम्भवः पर्जन्याद् वृष्टेः । स च पर्जन्यो यज्ञाद् भवति । स च यज्ञः कर्म-समुद्भवः । कर्मणा यजमानादि-व्यापारेण सम्यक् सम्पद्यत इत्य् अर्थः ।

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥१४॥

मधुसूदनः : न केवलं प्रजापति-वचनाद् एव कर्म कर्तव्यम् अपि तु जगच्-चक्र-प्रवृत्ति-हेतुत्वाद् अपीत्य् आह अन्नाद् इति त्रिभिः । अन्नाद् भुक्ताद् रेतो-लोहित-रूपेण परिणताद् भूतानि प्राणि-शरीराणि भवन्ति जायन्ते । अन्नस्य सम्भवो जन्मान्न-सम्भवः पर्जन्याद् वृष्टेः । प्रत्यक्ष-सिद्धम् एवैतत् । अत्र कर्मोपयोगम् आह यज्ञात् कारीर् यादेर् अग्निहोत्रादेश् चापूर्वाख्याद् धर्माद् भवति पर्जन्यः । यथा चाग्निहोत्राहुतेर् वृष्टि-जनकत्वं तथा व्याख्यातम् अष्टाध्यायी-काण्डे जनक-याज्ञवल्क्य-संवाद-रूपायां षट्-प्रश्न्याम् । मनुना चोक्तम् -

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्तिर् वृष्तेर् अन्नं ततः प्रजाः ॥[मनु ३।७६] इति ।

स च यज्ञो धर्माख्यः सूक्ष्मः कर्म-समुद्भव ऋत्विग्-यजमान-व्यापार-साध्यः । यज्ञस्य हि अपूर्वस्य विहितं कर्म कारणम् ॥१४॥

विश्वनाथः : जगच्-चक्र-प्रवृत्ति-हेतुत्वाद् अपि यज्ञं कुर्याद् एवेत्य् आह अन्नाद् भूतानि प्राणिनो भवन्तीति भूतानां हेतुर् अन्नम् । अन्नाद् एव शुक्र-शोणित-रूपेण परिणतात् प्राणि-शरीर-सिद्धेस् तस्यान्नस्य हेतुः पर्जन्यः । वृष्टिभिर् एवान्न-सिद्धेस् तस्य पर्जन्यस्य हेतुर् यज्ञः । लोकैः कृतेन यज्ञेनैव समुचित-वृष्टि-प्रद-मेघ-सिद्धेस् तस्य यज्ञस्य हेतुः कर्म-ऋत्विग्-यजमान-व्यापारात्मकत्वात् कर्मण एव यज्ञ-सिद्धेः ॥१४॥

बलदेवः : प्रजापतिना परेशेन प्रजाः सृष्ट्वा तद्-उपजीवनाय तदैव यज्ञः सृष्टस् ततः परेशानुबर्तिनावश्यं सकार्य इत्य् आह अन्नाद् इति द्वाभ्याम् । भूतानि प्राणिनो ऽन्नाद् व्रीह्य्-आदेर् भवन्ति । शुक्र-शोणित-रूपेण परिणतास् तस्मात् तद्-देहानां सिद्धेः । तस्यान्नस्य सम्भवः पर्जन्याद् वृष्टेर् भवति । पर्जन्यश् च यज्ञाद् भवति सिध्यतीत्य् अर्थः ।

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ इति मनु-स्मृतेः ॥१४॥


३।१५

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर-समुद्भवम्
तस्मात् सर्व-गतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥१५॥

श्रीधरः : तथा कर्मेति । तच् च यजमानादि-व्यापार-रूपं कर्म ब्रह्मोद्भवं विद्धि । ब्रह्म वेदः । तस्मात् प्रवृत्तं जानीहि । अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदो ।थाङ्गीरसः इति श्रुतेः । यत एवम् अक्षराद् एव यज्ञ-प्रवृत्तेर् अत्यन्तम् अभिप्रेतो यज्ञः, तस्मात् सर्व-गतम् अप्य् अक्षरं ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितम् । यज्ञेनोपाय-भूतेन प्राप्यत इति यज्ञे प्रतिष्ठितम् उच्यत इति । उद्यम-स्था सदा लक्ष्मीर् इतिवत् । यद् वा, जगच्-चक्रस्य मूलं कर्म तस्मात् सर्व-गतं मन्त्रार्थ-वादैः सर्वेषु सिद्धार्थ-प्रतिपादकेषु भूतार्थाख्यानादिषु गतं स्थितम् अपि वेदाख्यं ब्रह्म सर्वदा यज्ञे तात्पर्य-रूपेण प्रतिष्ठितम् । अतो यज्ञादि कर्म कर्तव्यम् इत्य् अर्थः ॥१५॥

मधुसूदनः : तच् चापूर्वोत्पादकम् । ब्रह्मोद्भवं ब्रह्म वेदः स एवोद्भवः प्रमाणं यस्य तत् तथा । वेद-विहितम् एव कर्मापूर्व-साधनं जानीहि । न त्व् अन्यत्-पाषण्ड-प्रतिपादितम् इत्य् अर्थः । ननु पाषण्ड-शास्त्रापेक्षया वेदस्य किं वैलक्षण्यं यतो वेद-प्रतिपादित एव धर्मो नान्य इत्य् अत आह ब्रह्म वेदाख्यम् अक्षर-समुद्भवम् अक्षरात् परमात्मनो निर्दोषात् पुरुष-निःश्वास-न्यायेनाबुद्धि-पूर्वं समुद्भव आविर्भावो यस्य तद्-अक्षर-समुद्भवम् । तथा चापौरुषेयत्वेन निरस्त-समस्त-दोषाशङ्कं वेद-वाक्यं प्रमिति-जनकम् इति भावः । तथा च श्रुतिः – अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदो ऽथाङ्गीरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याखानानि व्याख्यानान्य् अस्यैवैतानि
निःश्वसितानि [बउ २।४।१०] इति ।

तस्मात् साक्षात् परमात्म-समुद्भवतया सर्व-गतं सर्व-प्रकाशकं नित्यम् अविनाशि च ब्रह्म वेदाख्यं यज्ञे धर्माख्ये ऽतीन्द्रिये प्रतिष्ठितं तात्पर्येण । अतः पाषण्ड-प्रतिपादितोपधर्म-परित्यागेन वेद-बोधित एव धर्मो ऽनुष्ठेय इत्य् अर्थः ॥१५॥

विश्वनाथः : तस्य कर्मणो हेतुर् ब्रह्म वेदः । वेदोक्त-विधि-वाक्य-श्रवणाद् एव यज्ञं प्रति व्यापारोत्पत्तेस् तस्य वेदस्य हेतुर् अक्षरं ब्रह्म । ब्रह्मत एव वेदोत्पत्तेः । तथा च श्रुतिः - अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदो ।थाङ्गीरसः इति । तस्मात् सर्व-गतं ब्रह्म यज्ञे प्रतिष्ठितम् इति यज्ञेन ब्रह्मापि प्राप्यत इति भावः । अत्र यद्यपि कार्य-कारण-भावेनान्नाद्या ब्रह्म-पर्यन्ताः पदार्थो उक्तास् तद् अपि तेषु मध्ये यज्ञ एत विधेयत्वेन शास्त्रेणोच्यत इति । स एव प्रस्तुतः -

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ इति स्मृतेः ॥१५॥

बलदेवः : तच् च ऋत्विग्-आदि-व्यापार-रूप-कर्म-ब्रह्मोद्भवं विद्धि । ब्रह्म-वेदस् तस्मात् तत् प्रवृत्तिं जानीहीत्य् अर्थः । तच् च वेद-रूपं ब्रह्म अक्षरात् परेशात् समुद्भवं प्रकटं विद्धि । अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-वेअः साम-वेदो ।थाङ्गीरसः इत्य् आदि-श्रवणात् । यस्मात् स्व-सृष्ट-प्रजोपजीवनाति-प्रियो यज्ञस् तस्मात् सर्व-गतं निखिल-व्यापकम् अपि ब्रह्म नित्यं सर्वदा यज्ञे प्रतिष्ठितं तेनैव तत् प्राप्यत इत्य् अर्थः ॥१५॥


३।१६

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुर् इन्द्रियारामो मोघं पार्थ स जीवति ॥१६॥

श्रीधरः : यस्माद् एवं परमेश्वरेणैव भूतानां पुरुषार्थ-सिद्धये कर्मादि-चक्रं प्रवर्तितं तस्मात् तद् अकुर्वतो वृथैव जीवितम् इत्य् आह एवम् इति । परमेश्वर-वाक्य-भूताद् वेदाख्याद् ब्रह्मणः पुरुषाणां कर्मणि प्रवृत्तिः । ततः कर्म-निष्पत्तिः । ततः पर्जन्यः । ततो ऽन्नम् । ततो भूतानि । भूतानां पुनस् तथैव कर्म-प्रवृत्तिर् इति । एवं प्रवर्तितं चक्रं यो नानुवर्तयति नानुतिष्ठति सो ऽघायुः । अघं पाप-रूपम् आयुर् यस्य सः । यत इन्द्रियैर् विषयेष्व् एवारमति, न तु ईश्वराराधनार्थे कर्मणि । अतो मोघं व्यर्थं स जीवति ॥१६॥

मधुसूदनः : भवत्य् एवं ततः किं फलितम् इत्य् आह एवम् इति । परमेश्वरात् सर्वावभासक-नित्य-निर्दोष-वेदाविर्भावः । ततः कर्म-परिज्ञानं ततो ऽनुष्ठानाद् धर्मोत्पादः । ततः पर्जन्यस् ततो ऽन्नं ततो भूतानि पुनस् तथैव भूतानां कर्म-प्रवृत्तिर् इत्य् एवं परमेश्वरेण प्रवर्तितं चक्रं सर्व-जगन्-निर्वाहकं यो नानुवर्तयति नानुतिष्ठति सो ऽघायुः पाप-जीवनो मोघं व्यर्थम् एव जीवति हे पार्थ तस्य जीवनान् मरणम् एव वरं जन्मान्तरे धर्मानुष्ठान-सम्भवाद् इत्य् अर्थः । तथा च श्रुतिः - अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज् जुहोति यद् यजते तेन देवानां लोको ऽथ यद् अनुब्रूते तेन ऋषीणाम् अथ यत्-पितृभ्यो निपृणाति यत् प्रजाम् इच्छते तेन पितॄणाम् अथ यन् मनुष्यान् वासयते यद् एभ्यो ऽशनं ददाति तेन मनुष्याणाम्
अथ यत् पशुभ्यस् तृणोदकं विन्दति तेन पशूनां यद् अस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः [बउ १।४।१६] इति ।

ब्रह्म-विदं व्यावर्तयति इन्द्रियाराम इति । यत इन्द्रियैर् विषयेष्व् आरमति अतः कर्माधिकारी संस् तद्-अकरणात् पापम् एवाचिन्वन् व्यर्थम् एव जीवतीत्य् अभिप्रायः ॥१६॥

विश्वनाथः : एतद्-अनुष्ठाने प्रत्यवायम् आह एवम् इति । चक्रं पूर्व-पश्चाद्-भागेन प्रवर्तितम् । यज्ञान् पर्जन्यः । पर्जन्याद् अन्नम् । अन्नात् पुरुषः । पुरुषात् पुनर् यज्ञः । यज्ञात् पर्जन्य इत्य् एवं चक्रं यो नानुवर्तयति यज्ञानुष्ठानेन न परिवर्तयति, स अघायुः पाप-व्याप्तायुः । को नरके न मङ्क्ष्यतीति भावः ॥१६॥

बलदेवः : यज्ञाकरणे दोषम् आहैवम् इति । परस्माद् ब्रह्मणो वेदाविर्भावस् तस्माद् ब्रह्म-प्रतिबोधकात् यज्ञस् ततः पर्जन्यस् ततो ऽन्नं ततो भूतानि पुनस् तथैव भूतानां कर्म-प्रवृत्तिर् इत्य् एवं निखिल-जगन्-निर्वाहकं परेशेन प्रजापतिना प्रवर्तितं चक्रं यो नानुवर्तयति स जनः परेश-विमुखो ऽघायुः पाप-जीवनो मोघं व्यर्थम् एव जीवति । हे पार्थ यद् असाव् इन्द्रियैर् विषयेष्व् एव रमते न तु पर-ब्रह्माभिमते यज्ञे तच्-छेषाशने च ॥१६॥


३।१७

यस् त्व् आत्म-रतिर् एव स्याद् आत्म-तृप्तश् च मानवः
आत्मन्य् एव च सन्तुष्टस् तस्य कार्यं न विद्यते ॥ १७ ॥

श्रीधरः : तद् एवं न कर्मणाम् आरम्भाद् इत्य्-आदिना अज्ञस्य अन्तः-करण-शुद्ध्य्-अर्थं कर्म-योगम् उक्त्वा ज्ञानिनः कर्मानुपयोगम् आह यस् त्व् इति द्वाभ्याम् । आत्मन्य् एव रतिः प्रीतिर् यस्य सः । ततश् चात्मन्य् एव तृप्तः स्वानन्दानुभवेन निर्वृतः । अतएव आत्मन्य् एव सन्तुष्टो भोगापेक्षा-रहितो यस् तस्य कर्तव्यं कर्म नास्तीति ॥१७॥

ंअधुसूदनः: यस् त्व् इन्द्रियारामो न भवति परमार्थ-दर्शी स एवं जगच्-चक्र-प्रभृति-हेतु-भूतं कर्माननुतिष्ठन्न् अपि न प्रत्यवैति कृतकृत्यत्वाद् इत्य् आह द्वाभ्याम् यस् त्व् इति । इन्द्रियारामो हि स्रक्-चन्दन-वनितादिषु रतिम् अनुभवति मनोज्ञान्न-पानादिषु तृप्तिं पशु-पुत्र-हिरण्यादि-लाभेन रोगाद्य्-अभावेन च तुष्टिम् । उक्त-विषयाभावे रागिणाम् अरत्य्-अतृप्त्य्-अतुष्टि-दर्शनाद् रति-तृप्ति-तुष्ट्यौ मनो-वृत्ति-विशेषाः साक्षि-सिद्धाः । लब्ध-परमात्माननस् तु द्वैत-दर्शनाभावाद् अतिफल्गुत्वाच् च विषय-सुखं न कामयत इत्य् उक्तं यावान् अर्थ उदपाने इत्य् अत्र । अतो ऽनात्म-विषयक-रति-तृप्ति-तुष्ट्य्-अभावाद् आत्मानं परमानन्दम् अद्वयं साक्षात्कुर्वन्न् उपचाराद् एवम् उच्यते - आत्म-रतिर् आत्म-तृप्त आत्म-सन्तुष्ट इति । तथा च श्रुतिः - आत्म-क्रीड
आत्म-रतिः क्रियावान् एव ब्रह्म-विदां वरिष्ठः इति । आत्म-तृप्तश् चेति चकार एव-कारानुकर्षणार्थः । मानव इति यः कश्चिद् अपि मनुष्य एवम्भूतः स एव कृतकृत्यो न तु ब्राह्मणत्वादि-प्रकर्षेणेति कथयितुम् । आत्मन्य् एव च सन्तुष्ट इत्य् अत्र च-कारः समुच्चयार्थः । य एवम्भूतस्याधिकार-हेत्व्-अभावात् किम् अपि कार्यं वैदिकं लौकिकं वा न विद्यते ॥१७॥

विश्वनाथः : तद् एवं निष्कामत्वासामर्थ्ये स-कामो ऽपि कर्म कुर्याद् एवेत्य् उक्तम् । यस् तु शुद्धान्तः-करणत्वात् ज्ञान-भूमिकाम् आरूढः स तु नित्यं काम्यं च न करोतीत्य् आह यस् त्व् इति द्वाभ्याम् । आत्म-रतिर् आत्मारामो यत आत्म-तृप्तः आत्मानन्दानुभवेन निर्वृतः । न स्वात्मनि निर्वृतो बहिर्-विषय-भोगे ऽपि किञ्चिन् निर्वृतो भवतु । अत्र नैवेत्य् आहआत्मन्य् एव न तु बहिर्-विषय-भोगे तस्य कार्यं कर्तव्यत्वेन कर्म नास्ति ॥१७॥

बलदेवः : यस् तु मद्-उक्तेन निष्काम-कर्मणा मद्-उपासनेन च विमृष्टे चित्त-दर्पणे सञ्जातेन धर्म-भूत-ज्ञानेनात्मानम् अदर्शत् तस्य न किञ्चित् कर्म कर्तव्यम् इत्य् आह यस् त्व् इति द्वाभ्याम् । आत्मन्य् अपहत-पाप्मत्वादि-गुणाष्टक-विशिष्टे स्व-स्वरूपे अवलोकिते रतिर् यस्य सः । आत्मना स्व-प्रकाशानन्देनावलोकितेन तृप्तो न त्व् अन्न-पानादिना । आत्मन्य् एव च तादृशे सन्तुष्टो न तु नृत्य-गीतादौ । तस्यैवम्भूतस्य तद्-अवलोकानाय किञ्चित् कर्म कर्तव्यं न विद्यते सर्वदावलोकितात्म-स्वरूपत्वात् ॥१७॥


३।१८

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश् चिद् अर्थव्यपाश्रयः ॥ १८ ॥

श्रीधरः : तत्र हेतुम् आह नैवेति । कृतेन कर्मणा तस्य अर्थः पुण्यं नैवास्ति । न चाकृतेन कश्चन को ऽपि प्रत्यवायो ऽस्ति । निरहङ्कारत्वेन विधि-निषेधातीतत्वात् । तथापि तस्मात् तद् एषां देवानां न प्रियं यद् एतन् मनुषा विदुर् इति श्र्तुएर् मोक्षे देव-कृत-विघ्न-सम्भवात् तत्-परिहारार्थं कर्मभिर् देवाः सेव्या इत्य् आशङ्क्योक्तं सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेषु कश्चिद् अर्थ-व्यपाश्रयः आश्रय एव व्यपाश्रयः । अर्थो मोक्ष आश्रयणीयो ऽस्य नास्तीत्य् अर्थः । विघ्नाभावस्य श्रुत्यैवोक्तत्वात् । तथा च श्रुतिः – तस्य ह न देवाश् च नाभूत्या ईशते आत्मा ह्य् एषां स भवति इति श्रवणात् । हनेत्य् अव्ययम् अप्य्-अर्थे । देवा अपि तस्यात्म-तत्त्व-ज्ञस्य अभूत्यै ब्रह्म-भाव-प्रतिबन्धाय नेशते न शक्नुवन्तीति श्रुतेर् अर्थः । देव-कृतास् तु विघ्नाः सम्यग्-ज्ञानोत्पत्तेः
प्राग् एव । यद् एतद् ब्रह्म मनुष्या विदुस् तद् एषां देवानां न प्रियम् इति ब्रह्म-ज्ञानस्यैव अप्रियत्वोक्त्या तत्रैव विघ्न-कर्तृत्वस्य सूचितत्वात् ॥१८॥

मधुसूदनः : नन्व् आत्मविदो ऽपि अभ्युदयार्थं निःश्रेयसार्थं प्रत्यवाय-परिहारार्थं वा कर्म स्याद् इत्य् अत आह नैवेति । तस्यात्म-रतेः कृतेन कर्मणाभ्युदय-लक्षणो निःश्रेयस-लक्षणो वार्थं प्रयोजनं नैवास्ति तस्य स्वर्गाद्य्-अभ्युदयानर्थित्वात् । निःश्रेयसस्य च कर्मासाध्यत्वात् । तथा च श्रुतिः - परीक्ष्य लोकान् कर्म-चित्तान् ब्राह्मणो निर्वेदम् आयान् नास्त्य् अकृतः कृतेन इति । अकृतो नित्यो मोक्षः कृतेन कर्मणा नास्तीत्य् अर्थः । ज्ञान-साध्यस्यापि व्यावृत्तिर् एव-कारेण सूचिता । आत्म-रूपस्य हि निःश्रेयस्य नित्य-प्राप्तस्याज्ञान-मात्रम् अप्राप्तिः । तच् च तत्त्व-ज्ञान-मात्रापनोद्यम् । तस्मिंस् तत्त्व-ज्ञानेनापनुन्ने तस्यात्म-विदो न किञ्चित् कर्म-साध्यं ज्ञान-साध्यं वा प्रयोजनम् अस्तीत्य् अर्थः ।

एवम्भूतेनापि प्रत्यवाय-परिहारार्थं कर्माण्य् अनुष्ठेयान्य् एवेत्य् अत आह नाकृतेनेति । भावे निष्ठा । नित्य-कर्माकरणेनेह लोके गर्हितत्व-रूपः प्रत्यवाय-प्राप्ति-रूपो वा कश्चनार्थो नास्ति । सर्वत्रोपपत्तिम् आहोत्तरार्धेन । चो हेतौ । यस्माद् अस्यात्म-विदः सर्व-भूतेषु ब्रह्मादि-स्थावरान्तेषु को ऽपि अर्थ-व्यपाश्रयः प्रयोजन-सम्बन्धो नास्ति । कञ्चिद् भूत-विशेषम् आश्रित्य को ऽपि क्रिया-साध्यो ऽर्थो नास्तीति वाक्यार्थः । अतो ऽस्य कृताकृते निष्प्रयोजनं नैव कृताकृते तपतः इति श्रुतेः । तस्य ह न देवाश् चनाभूत्या ईशत आत्मा ह्य् एषां न भवति इति श्रुतेर् देवा अपि तस्य मोक्षाभवनाय न समर्था इत्य् उक्तेर् न विघ्नाभावार्थम् अपि देवाराधन-रूप-कर्मानुष्ठानम् इत्य् अभिप्रायः ।

एतादृशो ब्रह्म-विद्-भूमिका-सप्तक-भेदेन निरूपितो वसिष्ठेन -

ज्ञान-भूमिः शुभेच्छाख्या प्रथमा परिकीर्तिता ।
विचारणा द्वितीया स्यात् तृतीया तनु-मानसा ॥
सत्त्वापत्तिश् चतुर्थी स्यात् ततो ऽसंसक्ति-नासिका ।
पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता ॥ इति ।

तत्र नित्यानित्य-वस्तु-विवेकादि-पुरःसरा फल-पर्यवसायिनी मोक्षेच्छा प्रथमा । ततो गुरुम् उपसृत्य वेदान्त-वाक्य-विचारः श्रवण-मननात्मको द्वितीया । ततो निदिध्यासनाभ्यासेन मनस एकाग्रतया सूक्ष्म-वस्तु-ग्रहण-योग्यत्वं तृतीया । एतद् भूमिका-त्रयं साधन-रूपं जाग्रद्-अवस्थोच्यते योगिभिः । भेदेन जगतो भानात् । तद् उक्तम् -

भूमिका-त्रितयः त्व् एतद् राम जाग्रद् इति स्थितम् ।
यथावद् भेद-बुद्ध्येदं जगज् जाग्रति दृश्यते ॥ इति ।

ततो वेदान्त-वाक्यान् निर्विकल्पको ब्रह्मात्मैक्य-साक्षात्कारश् चतुर्थी भूमिका फल-रूपा सत्त्वापत्तिः स्वप्नावस्थोच्यते । सर्वस्यापि जगतो मिथ्यात्वेन स्फुरणात् । तद् उक्तम् -

अद्वैते स्थैर्यम् आयाते द्वैते प्रशमम् आगते ।
पश्यन्ति स्वप्नवल् लोकं चतुर्थीं भूमिकाम् इताः ॥ इति ।

सो ऽयं चतुर्थ-भूमिं प्राप्तो योगी ब्रह्मविद् इत्य् उच्यते । पञ्चमी-षष्ठी-सप्तम्यस् तु भूमिका जीवन्मुक्तेर् एवावान्तर-भेदाः । तत्र सविकल्पक-समाध्य्-अभ्यासेन निरुद्धे मनसि या निर्विकल्पक-समाध्य्-अवस्था सासंसक्तिर् इति सुषुप्तिर् इति चोच्यते । ततः स्वयम् एव व्युत्थानात् । सो ऽयं योगी ब्रह्म-विद्-वरः । ततस् तद्-अभ्यास-परिपाकेण चिर-कालावस्थायिनी सा पदार्थाभावनीति गाढ-सुषुप्तिर् इति चोच्यते । ततः स्वयम् अनुस्थितस्य योगिनः पर-प्रयत्नेनैव व्युत्थानात् । सो ऽयं ब्रह्मविद् वरीयान् । उक्तं हि -

पञ्चमीं भूमिकाम् एत्य सुषुप्ति-पदनामिकाम् ।
षष्ठीं गाढ-सुषुप्त्य्-आख्यां क्रमात् पतति भूमिकाम् ॥ इति ।

यस्यास् तु समाध्य्-अवस्थाया न स्वतो न वा परतो व्युत्थितो भवति सर्वथा भेद-दर्शनाभावात् । किन्तु सर्वदा तन्मय एव स्व-प्रयत्नम् अन्तरेणैव परमेश्वर-प्रेरित-प्राण-वायु-वशाद् अन्यैर् निर्वाह्यमाण-दैहिक-व्यवहारः परिपूर्ण-परमानन्द-घन एव सर्वतस् तिष्ठति । सा सप्तमी तुरीयावस्था । तां प्राप्तो ब्रह्मविद् वरिष्ठ इत्य् उच्यते । उक्तं हि -

षष्ठ्यां भूमाम् असौ स्थित्वा सप्तमीं भूमिकाम् आप्नुयात् ।
किञ्चिद् एवैष सम्पन्नस् त्व् अथवैष न किञ्चन ॥
विदेह-मुक्तता तूक्ता सप्तमी योग-भूमिका ।
अगम्या वचसां शान्ता सा सीमा योग-भूमिषु ॥ इति ।

याम् अधिकृत्य श्रीमद्-भागवते स्मर्यते -

देहं च नश्वरम् अवस्थितम् उत्थितं वा
सिद्धो न पश्यति यतो ऽध्यगमत् स्वरूपम् ।
दैवाद् अपेतम् अथ दैव-वशाद् उपेतं
वासो यथा परिकृतं मदिरा-मदान्धः ॥

देहो ऽपि दैव-वश-गः खलु कर्म यावत्
स्वारम्भकं प्रतिसमीक्षत एव सासुः ।
तं स-प्रपञ्चम् अधिरूठ-समाधि-योगः
स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥[भ्प् ११।१३।३६-३७]

श्रुतिश् च - तद् यथा ऽहिनिर्ल्व्ययनी वल्मीके मृता प्रत्यस्ता शयीतैवम् एवेदं शरीरं शेते ऽथायम् अशरीरो ऽमृतः प्राणो ब्रह्मैव तेज एव इति ।

तत्रायं सङ्ग्रहः -

चतुर्थी भूमिका ज्ञानं तिस्रः स्युः साधनं पुरा ।
जीवन्-मुक्तेर् अवस्थास्तु परास् तिस्रः प्रकीर्तिताः ॥

अत्र प्रथम-भूमि-त्रयम् आरूढो ऽज्ञो ऽपि न कर्माधिकारी किं पुनस् तत्त्व-ज्ञानी तद्-विशिष्टो जीवन्-मुक्तो वेत्य् अभिप्रायः ॥१८॥

विश्वनाथ: कृतेनानुष्ठितेन कर्मणा नार्थो न फलम् । अकृतेन कञ्चन प्रतवायो ऽपि न, यस्माद् अस्य सर्व-भूतेषु ब्रह्माण्ड-स्थावरादिषु मध्ये कश्चिद् अप्य् अर्थाय स्व-प्रयोजनार्थं व्यपाश्रय आश्रयणीयो न भवति । पुराणादिषु व्यपाश्रय-शब्देन तथैवोच्यते, यथा -

वासुदेवे भगवति भक्तिम् उद्वहतां नृणाम् ।
ज्ञान-वैराग्य-वीर्याणां नेह कश्चिद् व्यपाश्रयः ॥ [भ्प् ६।१७।३१] इति ।

तथा-यद्-उपाश्रयाश्रयाः शुद्ध्यन्ति [भ्प् २।७।४६] इति । संस्था-हेतुर् उपाश्रयः इत्य् आदाव् अप्य् अपेत्य् उपसर्गस्यानधिकार्थं दृष्टम् ॥१८॥

बलदेवः : कृतेन तद्-अवलोकनायानुष्ठितेन कर्मणार्थः फलं नैवास्ति । अकृतेन तद्-अवलोकनासाधनेन कर्मणा कश्चनानर्थश् च तद्-अवलोकन-क्षति-लक्षण इह न भवति । स्वाभाविकात्मावलोकनात् । न त्व् ईदृशो ऽपि देव-कृताद् विघ्नाद् बिभ्यत् तत्-तोषाय तत्-पूजात्मकं कर्म कुर्यात् । श्रुतिश् च देवान् ज्ञान-द्विषः प्राह-तस्मात् तद् एषां देवानां न प्रियं यद् एतन् मनुषा विदुर् इति । तत्राह न चेति । अस्य लब्धात्मावलोकस्य विदुषः सर्व-भूतेषु देवेषु मानवेषु च मध्ये कश्चिद् अप्य् अर्थायात्म-रतिर् नैर्विघ्नाय व्यपाश्रयः कर्मभिः सेव्यो न भवति । ज्ञानोदयात् पूर्वम् एव देव-कृता विघ्नाः तेनात्म-रतौ सत्यां तु न तत्-कृतास् ते तत्-प्रभावेण सम्भवन्ति । तस्य ह न देवाश् च नाभूत्या ईशते आत्मा ह्य् एषां सम्भवति इति श्रवणात् । हनेत्य्
अप्य्-अर्थे निपातः । देवा अपि तस्यात्मानुभविनो ।भूत्यै आत्म-रति-क्षतये नेशते । हि यस्माद् एषां स आत्मा तद्वत् प्रेष्ठो भवतीत्य् अर्थः ॥१८॥


३।१९

तस्माद् असक्तः सततं कार्यं कर्म समाचर
असक्तो ह्य् आचरन् कर्म परम् आप्नोति पूरुषः ॥१९॥

श्रीधरः :यस्माद् एवम्भूतस्य ज्ञानिन एव कर्मानुपयोगो नान्यस्य तस्मात् त्वं कर्म कुर्व् इत्य् आह तस्माद् इति । असक्तः फल-सङ्ग-रहितः सन् कार्यम् अवश्य-कर्तव्यतया विहितं नित्यं नैमित्तिकं कर्म सम्यग् आचर । हि यस्माद् असक्तः कर्माचरन् पुरुषः परं मोक्षं चित्त-शुद्धि-ज्ञान-द्वारा प्राप्नोति ॥१९॥

मधुसूदनः : यस्मान् न त्वम् एवम्भूतो ज्ञानी किन्तु कर्माधिकृत एव मुमुक्षुः । असक्तः फल-कामना-रहितः सततं सर्वदा न तु कदाचित् कार्यम् अवश्य-कर्तव्यं यावज्-जीवादि-श्रुति-चोदितं तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन इति श्रुत्या ज्ञाने विनियुक्तं कर्म नित्य-नैमित्तिक-लक्षणं सम्यग् आचर यथा-शास्त्रं निर्वर्तय । असक्तो हि यस्माद् आचरन्न् ईश्वरार्थं कर्म कुर्वन् सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण परं मोक्षम् आप्नोति पूरुषः पुरुषः स एव सत्-पुरुषो नान्य इत्य् अभिप्रायः ॥१९॥

विश्वनाथः : तस्मात् तव ज्ञान-भूमिकारोहणे नास्ति योग्यता । काम्य-कर्मणि तु सद्-विवेकवतस् तव नैवाधिकारः । तस्मात् निष्काम-कर्मैव कुर्व् इत्य् आह तस्माद् इति । कार्यम् अवश्य-कर्तव्यत्वेन विहितं परं मोक्षम् ॥१९॥
बलदेवः : यस्माल् लब्धात्मावलोकनस्यैव कर्मानुपयोगस् तस्माद् एतादृक्त्वं कार्यं कर्तव्यत्वेन विहितं कर्म समाचर । असक्तः फलेच्छा-शून्यः सन् । परं देहादि-भिन्नम् आत्मानम् आप्नोत्य् अवलोकते याथात्म्येन ॥१९॥


३।२०

कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः
लोक-सङ्ग्रहम् एवापि सम्पश्यन् कर्तुम् अर्हसि ॥२०॥

श्रीधरः : अत्र सदाचारं प्रमाणयति कर्मणैवेति । कर्मणैव शुद्ध-सत्त्वाः सन्तः संसिद्धिं सम्यग्-ज्ञानं प्राप्ता इत्य् अर्थः । यद्यपि त्वं सम्यग्-ज्ञानिनम् एवात्मानं मन्यसे, तथापि कर्माचरणं भद्रम् एवेत्य् आह लोक-सङ्ग्रहम् इत्य् आदि । लोकस्य सङ्ग्रहं स्व-धर्मे प्रवर्तनम् । मया कर्मणि कृते जनः सर्वो ऽपि करिष्यति । अन्यथा ज्ञानि-दृष्टान्तेनाज्ञो निज-धर्मं नित्यं कर्म त्यजन् पतेत् । इत्य् एवं लोक-रक्षणम् अपि तावत् प्रयोजनं सम्पश्यन् कथं कर्तुम् एवार्हसि । न त्यक्तुम् इत्य् अर्थः ॥२०॥

मधुसूदनः : ननु विविदिषोर् अपि ज्ञान-निष्ठा-प्राप्त्य्-अर्थं श्रवण-मनन-निदिध्यासनानुष्ठानाय सर्व-कर्म-त्याग-लक्षणः सन्न्यासो विहितः । तथा च न केवलं ज्ञानिन एव कर्मानधिकारः किन्तु ज्ञानार्थिनो ऽपि विरक्तस्य । तथा च मयापि विरक्तेन ज्ञानार्थिना कर्माणि हेयान्य् एवेत्य् अर्जुनाशङ्कां क्षत्रियस्य सन्न्यासानधिकार-प्रतिपादनेनापनुदति भगवान् कर्मणैवेति ।

जनकादयो जनका-जात-शत्रु-प्रभृतयः श्रुति-स्मृति-प्रसिद्धाः क्षत्रिया विद्वांसो ऽपि कर्मणैव सह न तु कर्म-त्यागेन स संसिद्धिं श्रवणादि-साध्यां ज्ञान-निष्ठाम् आस्थिताः प्राप्ताः । हि यस्माद् एवं तस्मात् त्वम् अपि क्षत्रियो विविदिषुर् विद्वान् वा कर्म कर्तुम् अर्हसीत्य् अनुषङ्गः । ब्राह्मणः पुत्रैषणायाश् च वित्तषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति इति सन्न्यास-विधायके वाक्ये ब्राह्मणत्वस्य विवक्षितत्वात् । स्वाराज्य-कामो राजा राज-सूयेन यजेत इत्य् अत्र क्षत्रियत्वावत् । चत्वार आश्रमा ब्राह्मणस्य त्रयो राजन् यस्य द्वौ वैश्यस्य इति च स्मृतेः । पुराणे ऽपि -

 मुखजानामयं धर्मो यद् विष्णोर् लिङ्ग-धारणम् ।  

बाहु-जातोरु-जातानाम् नायं धर्मः प्रशस्यते ॥

इति क्षत्रिय-वैश्ययोः सन्न्यासाभाव उक्तः । तस्माद् युक्तम् एवोक्तं भगवता कर्मणैव हि संसिद्धिम् आस्थिता जनकादयः ।

सर्वे राजाश्रिता धर्मा राजा धर्मस्य धारकः इत्य् आदि स्मृतेर् वर्णाश्रम-प्रवर्तकत्वेनापि क्षत्रियो ऽवश्यं कर्म कुर्याद् इत्य् आह लोकेति । लोकानां स्वे स्वे धर्मे प्रवर्तनम् उन्मार्गान् निवर्तनं च लोक-सङ्ग्रहस् तं पश्यन्न् अपि-शब्दाज् जनकादि-शिष्टाचारम् अपि पश्यन् कर्म कर्तुम् अर्हस्य् एवेत्य् अन्वयः । क्षत्रिय-जन्म-प्रापकेण कर्मणारब्ध-शरीरस् त्वं विद्वान् अपि जनकादिवत् प्रारब्ध-कर्म-फलेन लोक-सङ्ग्रहार्थं कर्म कर्तुं योग्यो भवसि न तु त्यक्तुं ब्राह्मण-जन्मालाभाद् इत्य् अभिप्रायः । एतादृश-भगवद्-अभिप्राय-विदा भगवता भाष्य-कृता ब्राह्मणस्यैव सन्न्यासो नान्यस्येति निर्णीतम् । वार्तिक-कृता तु प्रौढि-वाद-मात्रेण क्षत्रिय-वैश्ययोर् अपि सन्न्यासो ऽस्तीत्य् उक्तम् इति द्रष्टव्यम् ॥२०॥

विश्वनाथः : अत्र सदाचारं प्रमाणयति कर्मणेति । यदि वा त्वम् आत्मानं ज्ञाना̆धिकारिणं मन्यसे, तद् अपि लोके शिक्षा ग्रहणार्थं कर्मैव कुर्व् इत्य् आह लोकेति ॥२०॥

बलदेवः : सदाचारम् अत्र प्रमाणयति कर्मणैवेति । कर्मणैवोपायेन विशुद्ध-चित्ताः सन्तः संसिद्धिं स्वात्मावलोकन-लक्षणाम् आस्थिताः प्रापुः । कर्मणैवेति विशेषण-सम्बन्ध एव-कारस् तस्यायोगं व्यवच्छिन्नत्ति शङ्ख-पाण्डुर एवेतिवत् । तेन श्रवणादेर् न व्युदासः । कर्मणा यज्ञादिना सहैव श्रवणादिनेति केचित् ।

ननु सनिष्ठस्यात्मावलोकने कर्मानुष्ठानं नास्तीत्य् उक्तम् । मम परिनिष्ठितस्यावलोकित-स्व-परात्मनः कर्मोपदेशः कुत इति चेत् तत्राह लोकेति । सत्यं त्वम् ईदृश एव तथापि लोक-सङ्ग्रहाय कर्म कुर्व् इति अर्जुने मयि कर्म कुर्वाणे सर्व-लोकः कर्म करिष्यति । इतरथा मद्-दृष्टान्तेनाज्ञो ऽपि लोकः कर्म त्यजन् पतिष्यतीति लोक-संरक्षणं तत् फलम् ॥२०॥


३।२१

यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः ।
स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥२१॥

श्रीधरः : कर्म-करणे लोक-सङ्ग्रहो यथा स्यात् तद् आह यद् इति । इतरः प्राकृतो ऽपि जनस् तत् तद् एवाचरति । स श्रेष्ठो जनः कर्म-शास्त्रं तन्-निवृत्ति-शास्त्रं वा यत् प्रमाणं मन्यते, तद् एव लोको ऽप्य् अनुसरति ॥२१॥

मधुसूदनः : ननु मया कर्मणि क्रियमाणे ऽपि लोकः किम् इति तत्-सङ्गृह्णीयाद् इत्य् आशङ्क्य श्रेष्ठाचारानुविधायित्वाद् इत्य् आह यद् यद् इति । श्रेष्ठः प्रधान-भूतो राजादिर् यद् यत् कर्माचरति शुभम् अशुभं वा तत् तद् एवाचरतीतरः प्राकृतस् तद्-अनुगतो जनः । न त्व् अन्यत् स्वातन्त्र्येणेत्य् अर्थः ।

ननु शास्त्रम् अवलोक्याशास्त्रीयं श्रेष्ठाचारं परित्यज्य शास्त्रीयम् एव कुतो नाचरति लोक इत्य् आशङ्क्याचारवत् प्रतिपत्ताव् अपि श्रेष्ठानुसारिताम् इतरस्य दर्शयति स यद् इति । स श्रेष्ठो यल् लौकिकं वैदिकं वा प्रमाणं कुरुते प्रमाणत्वेन मन्यते तद् एव लोको ऽप्य् अनुवर्तते प्रमाणं कुरुते न तु स्वातन्त्र्येण किञ्चिद् इत्य् अर्थः । तथा च प्रधान-भूतेन त्वया राज्ञा लोक-संरक्षणार्थं कर्म कर्तव्यम् एव प्रधानानुयायिनो जन-व्यवहारा भवन्तीति न्यायाद् इत्य् अभिप्रायः ॥२१॥

विश्वनाथः : लोक-सङ्ग्रह-प्रकारम् एवाह यद् यद् इति ॥२१॥

बलदेवः : लोक-सङ्ग्रह-प्रकारम् एवाह यद् यद् इति । श्रेष्ठो महत्तमो यत् कर्म यथाचरति तत् कर्म तथैवेतरः कनिष्ठो ऽप्य् आचरति । स श्रेस्ठस् तस्मिन् कर्मणि यच् छास्त्रं प्रमाणं कुरुते मन्यते लोकः कनिष्ठो ऽपि तद्-अनुयायी तद् एवानुवर्तते ऽनसरति । शास्त्रोपेतं श्रेष्ठाचरणं कल्याण-लिप्सुना कनिष्ठेनानुष्ठेयम् इत्य् अर्थः । इत्थं च तेजस्विनः श्रेष्ठस्य च यत् क्वचित् स्वैराचरणं तद्-व्यावृतम् । तस्य श्रेष्ठ-कृतत्वे ऽपि शास्त्रोपेतत्वाभावात् ॥२१॥


३।२२

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तम् अवाप्तव्यं वर्त एव च कर्मणि ॥२२॥

श्रीधरः : अत्र चाहमेव दृष्टान्त इत्य् आह न म इति त्रिभिः । हे पार्थ ! मे कर्तव्यं नास्ति । यतस् त्रिष्व् अपि लोकेषु अनवाप्तम् अप्राप्तं सदावप्तव्यं प्राप्यं नास्ति । तथापि कर्मण्य् अहं वर्त एव कर्म करोम्य् एवेत्य् अर्थः ॥२२॥

मधुसूदनः : अत्र चाहम् एव दृष्टान्त इत्य् आह न म इति त्रिभिः । हे पार्थ न मे मम त्रिष्व् अपि लोकेषु किम् अपि कर्तव्यं नास्ति । यतो ऽनवाप्तं फलं किञ्चिन् ममावाप्तव्यं नास्ति । तथापि वर्त एव कर्मण्य् अहं कर्म करोम्य् एवेत्य् अर्थः । पार्थेति सम्बोधयन् विशुद्ध-क्षत्रिय-वंशोद्भवस् त्वं शूरापत्यापत्यत्वेन चात्यन्तं मत्-समो ऽहम् इव वर्तितुम् अर्हसीति दर्शयति ॥२२॥

विश्वनाथः : अत्राहम् एव दृष्टान्त इत्य् आह त्रिभिः ॥२२॥

बलदेवः : श्रेष्ठः कर्म-फल-निरपेक्षो ऽपि लोक-सङ्ग्रहाय शास्त्रोदितानि कर्माण्य् आचरेद् इत्य् अर्थे स्वं दृष्टान्तम् आह न मे पार्थेति त्रिभिः । सर्वेशस्य सत्य-सङ्कल्पस्य सत्य-कामस्य मे कर्तव्यं नास्ति । फलार्थिना खलु कर्मानुष्ठेयम् । न च निखिल-फलाश्रयस्य स्वयं परम-फलात्मनो मे कर्मापेक्ष्यम् इत्य् अर्थः । एतद् दर्शयति त्रिष्व् इति । यतः सर्वेषु लोकेषु कर्मणा यत् फलम् अवाप्तव्यं तद्-अनवाप्तम् अलब्धं मम नास्ति सर्वं तन् मदीयम् एवेत्य् अर्थः । तथापि शास्त्रोक्तं कर्माहं करोम्य् एवेत्य् आह वर्त इति ॥२२॥


३।२३

यदि ह्य् अहं न वर्तेयं जातु कर्मण्य् अतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥२३॥

श्रीधरः : अकरणे लोकस्य नाशं दर्शयति यदि ह्य् अहम् इति । जातु कदाचित् । अतन्द्रितो ऽनलसः सन् यदि कर्मणि न वर्तेय कर्म नानुतिष्ठेयम्, तर्हि ममैव वर्त्म मार्गं मनुष्या अनुवर्तन्ते अनुवेर्तेरन्न् इत्य् अर्थः ॥२३॥

मधुसूदनः : लोक-सङ्ग्रहो ऽपि न ते कर्तव्यो विफलत्वाद् इत्य् आशङ्क्याह यदि ह्य् अहम् इति । यदि पुनर् अहम् अतन्द्रितो ऽनलसः सन् कर्मणि जातु कदाचिन् न वर्तेय नानुतिष्ठेयं कर्माणि तदा मम श्रेष्ठस्य सतो वर्त्म मार्गं हे पार्थ मनुष्याः कर्माधिकारिणः सन्तो ऽनुवर्तन्ते ऽनुवर्तेरन् सर्वशः सर्व-प्रकारैः ॥२३॥

विश्वनाथः : अनुवर्तते ऽनुवर्तेरन्न् इत्य् अर्थः ॥२३॥

बलदेवः : यदीति । अहं सर्वेश्वरः सिद्ध-सर्वार्थो ऽपि यदु-कुलावतीर्णो जातु कदाचित् तत्-कुलोचिते शास्त्रोक्ते कर्मणि न वर्तेय तन् न कुर्याम् अतन्द्रितः सावधानः सन् तर्हि मां दृष्टान्तं कृत्वा मनुष्याः श्रेष्ठस्य मम वर्त्म कुल-विहिताचार-त्याग-रूपम् अनुवर्तेरन् ततो भ्रंशेरन्न् इत्य् अर्थः ॥२३॥


३।२४

उत्सीदेयुर् इमे लोका न कुर्यां कर्म चेद् अहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥२४॥

श्रीधरः : ततः किं ? अत आह उत्सीदेयुर् इति । उत्सीदेयुर् धर्म-लोपेन नश्येयुः । ततश् च यो वर्ण-सङ्करो भवेत् तस्याप्य् अहम् एव कर्ता स्यां भवेयम् । एवम् अहम् एव प्रजा उपहन्यां मलिनीकुर्याम् इति ॥२४॥

मधुसूदनः : श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणाम् उचितम् एव अनुवर्तित्वे को दोष इत्य् अत आह उत्सीदेयुर् इति । अहम् ईश्वरश् चेद् यदि कर्म न कुर्यां तदा मद्-अनुवर्तिनां मन्व्-आदीनाम् अपि कर्मानुपपत्तेर् लोक-स्थिति-हेतोः कर्मणो लोपेनेमे सर्वे लोका उत्सीदेयुर् विनश्येयुः । ततश् च वर्ण-सङ्करस्य च कर्ताहम् एव स्याम् । तेन चेमाः सर्वाः प्रजा अहम् एवोपहन्यां धर्म-लोपेन विनाशयेयम् । कथं च प्रजानाम् अनुग्रहार्थं प्रवृत्त ईश्वरो ऽहं ताः सर्वा विनाशयेयम् इत्य् अभिप्रायः ।

यद् यद् आचरतीत्य् आदेर् अपरा योजना । न केवलं लोक-सङ्ग्रहं सम्पश्यन् कर्तुम् अर्हस्य् अपि तु श्रेष्ठाचारत्वाद् अपीत्य् आह यद् यद् इति । तथा च मम श्रेष्ठस्य यादृश एव आचारस् तादृश एव मद्-अनुवर्तिना त्वयानुष्ठेयो न स्वातन्त्र्येणान्य इत्य् अर्थः । कीदृशस् तवाचारो यो मयानुवर्तनीय इत्य् आकाङ्क्षायां न मे पार्थेत्य् आदिभिस् त्रिभिः श्लोकैस् तत्-प्रदर्शनम् इति ॥२४॥

विश्वनाथः : उत्सीदेयुर् मां दृष्टान्तीकृत्य धर्मम् अकुर्वाणा भ्रंशेयुः । ततश् च वर्ण-सङ्करो भवेत् तस्याप्य् अहम् एव कर्ता स्याम् एवम् अहम् एव प्रजा हन्याम् । मलिनाः कुर्याम् ॥२४॥

बलदेवः : ततः किं स्याद् इत्य् आह उत्सीदेयुर् इति । अहं सर्व-श्रेष्ठश् चेत् शास्त्रोक्तं कर्म न कुर्यां तर्हीमे लोका उत्सीदेयुर् विभ्रष्ट-मर्यादाः स्युः । तद्-विभ्रंशे सति यः सङ्करः स्यात् तस्याप्य् अहम् एव कर्ता स्याम् । एवं च प्रजापतिर् अहम् इमाः प्रजाः साङ्कर्य-दोषेणोपहन्यां मलिनाः कुर्याम् । तथा च - एष सेतुर् विधरण एषां लोकानाम् असम्भेदाय इति श्रुत्या लोक-मर्यादा-विधारकत्वेन परिगीतस्य मे तन्-मर्यादा-भेदकत्वं स्याद् इति । एवं उपदिशतो ऽपि हरेर् यत् किञ्चित् स्व-भक्त-सुखेच्छोः स्वैराचरितं दृष्टम्, तत् खलु विधायकेन तद्-वचसानुपेतत्वाद् ईश्वरीयत्वाच् चावरैर् नैवाचरणीयम् । यद् उक्तं श्रीमता शुकेन -

ईश्वराणां वचः सत्यं
तथैवाचरितं क्वचित् ।
तेषां यत् स्व-वचो-युक्तं
बुद्धिमांस् तत् समाचरेत् ॥

नैतत् समाचरेज् जातु
मनसापि ह्य् अनीश्वरः ।
विनश्यत्य् आचरन् मौढ्याद्
यथारुद्रो ।ब्धि-जं विषम् ॥ [भ्प् १०।३३।३१-२] इति ॥२४॥


३।२५

सक्ताः कर्मण्य् अविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद् विद्वांस् तथासक्तश् चिकीर्षुर् लोक-सङ्ग्रहम् ॥२५॥

श्रीधरः : तस्माद् आत्मविदापि लोक-सङ्ग्रहार्थ तत्-कृपया कर्म कार्यम् एवेत्य् उपसंहरति सक्ता इति । कर्मणि सक्ता अभिनिविष्टाः सन्तो यथाज्ञाः कर्माणि कुर्वन्ति, असक्तः सन् विद्वान् अपि कुर्यात् लोक-सङ्ग्रहम् कर्तुम् इच्छुः ॥२५॥

मधुसूदनः : ननु तवेश्वरस्य लोक-सङ्ग्रहार्थं कर्माणि कुर्वाणस्यापि कर्तृत्वाभिमानाभावान् न कापि क्षतिः । मम तु जीवस्य लोक-सङ्ग्रहार्थं कर्माणि कुर्वाणस्य कर्तृत्वाभिमानेन ज्ञानाभिभवः स्याद् इत्य् अत आह सक्ता इति । सक्ताः कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मण्य् अभिनिविष्टा अविद्वांसो ऽज्ञा यथा कुर्वन्ति कर्म लोक-सङ्ग्रहं कर्तुम् इच्छुर् विद्वान् आत्मविद् अपि तथैव कुर्यात् । किन्तु असक्तः सन् कर्तृत्वाभिमानं फलाभिसन्धिं चाकुर्वन्न् इत्य् अर्थः । भारतेति भरत-वंशोद्भवत्वेनभा ज्ञानं तस्यां रतत्वेन वा त्वं यथोक्त-शास्त्रार्थ-बोध-योग्यो ऽसीति दर्शयति ॥२५॥

विश्वनाथः : तस्मात् प्रतिष्ठितेन ज्ञानिनापि कर्म कर्तव्यम् इत्य् उपसंहरति सक्ता इति ॥२५॥

बलदेवः : तस्मात् प्रतिष्ठिते ऽपि त्वं लोक-हिताय वेदोक्तं स्व-कर्म प्रकुर्व् इत्य् आशयेनाह सक्ता इति । अज्ञा यथा कर्मणि सक्ताः फल-लिप्सयाभिनिविष्टास् तत कुर्वन्त्य् एवं विद्वान् अपि कुर्यात् । किन्त्व् असक्तः फल-लिप्सा-शून्यः सन् । स्फुटम् अन्यत् ॥२५॥


३।२६

न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् ।
जोषयेत् सर्व-कर्माणि विद्वान् युक्तः समाचरन् ॥२६॥

श्रीधरः : ननु कृपया तत्त्व-ज्ञानम् एवोपदेष्टुं युक्तम् । नेत्य् आह न बुद्धि-भेदम् इति अज्ञानाम् अतएव कर्म-सङ्गिनां कर्मासक्तानाम् अकर्तात्मेओपदेशेन बुद्धेर् भेदम् अन्यथात्वं न जनयेत् । कर्मणः सकाशाद् बुद्धि-विचालनं न कुर्यात् । अपि तु जोषयेत् सेवयेत् । अज्ञान् कर्माणि कारयेद् इत्य् अर्थः । कथम् ? युक्तो ऽवहितो भूत्वा स्वयम् आचरन् सन् । बुद्धि-विचालने कृते सति कर्मसु श्रद्धा-निवृत्तेर् ज्ञानस्य चानुत्पत्तेस् तेसाम् उभय-भ्रंशः स्याद् इति भावः ॥२६॥

मधुसूदनः : ननु कर्मानुष्ठानेनैव लोक-सङ्ग्रहः कर्तव्यो न तु तत्त्व-ज्ञानोपदेशेनेति को हेतुर् अत आह न बुद्धीति । अज्ञानाम् अविवेकिनां कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्म-सङ्गिनां कर्मण्य् अभिनिविष्टानां या बुद्धिर् अहम् एतत् कर्म करिष्य एतत्-फलं च भोक्ष्य इति तस्या भेदं विचालनम् अकर्त्रात्मोपदेशेन न कुर्यात् । किन्तु युक्तो ऽवहितः सन् विद्वान् लोक-सङ्ग्रहं चिकीर्षुर् अविद्वद्-अधिकारिकाणि सर्व-कर्मणि समाचरंस् तेषां श्रद्धाम् उत्पाद्य जोषयेत् प्रीत्या सेवयेत् । अनधिकारिणाम् उपदेशेन बुद्धि-विचालने कृते कर्मसु श्रद्धा-निवृत्तिर् ज्ञानस्य चानुत्पत्तेर् उभय-भ्रष्टत्वं स्यात् । तथा चोक्तम्-

अज्ञस्यार्ध-प्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।
महा-निरय-जालेषु स तेन विनियोजितः ॥ इति ॥२६॥

विश्वनाथः : अलं कर्म-जडिम्ना । त्वं कर्म-सन्न्यासं कृत्वा ज्ञानाभ्यासेनाहम् इव कृतार्थीभवैति बुद्धि-भेदं न जनयेत् कर्म-सङ्गिनं अशुद्धान्तःकरणत्वेन कर्मस्व् एवासक्तिमताम् । किन्तु त्वं कृतार्थीभविष्यन् निष्काम-कर्मैव क्रु इति कर्माण्य् एव योजयेत् कारयेत् । अत्र कर्माणि समाचरन् स्वयम् एव दृष्टान्तीभवेत् ।

ननु,
स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि ।
न राति रोगिणो ऽपथ्यं वाञ्छतो ऽपि भिषक्तमः ॥ [भ्प् ६।९।५]

इत्य् अजित-वाक्येनैतद् विरुध्यते । सत्यम् । तत् खलु भक्त्य्-उपदेष्टृक-विषयम् इदं तु ज्ञानोपदेष्टृक-विषयम् इत्य् अविरोधः । ज्ञानस्यान्तःकरण-शुद्ध्य्-अधीनत्वात् । तच् छुद्धेस् तु निष्काम-कर्माधीनत्वात्, भक्तेस् तु स्वतः प्राबल्याद् अन्तःकरण-शुद्धि-पर्यन्तानपेक्षत्वात् । यदि भक्तौ श्रद्धाम् उत्पादयितुं शक्नुयात्, तदा कर्मिणां बुद्धि-भेदम् अपि जनयेत्, भक्तौ श्रद्धावतां कर्मानधिकारात् -

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ [भ्प् ११।२०।९] इति ।

धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स तु सत्तमः [भ्प् ११।११।३२]इति,

सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज [गीता १८।६६] इति,

त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्
भजन्न् अपक्वो ।थ पतेत् ततो यदि [भ्प् १।५।१७]

इत्य्-आदि-वचनेभ्य इति विवेचनीयम् ॥२६॥

बलदेवः : किं च लोक-हितेच्छुर् ज्ञानी सावहितः स्याद् इत्य् आह न बुद्धीति । विद्वान् परिनिष्ठितो ऽपि कर्म-सङ्गिनां कर्म-श्रद्धा-जाड्य-भाजाम् अज्ञानां बुद्धि-भेदं न जनयेत् । किं कर्मब् हिर् अहम् इव ज्ञानेनैव कृतार्थो भवेति कर्म-निष्ठातस् तद्-बुद्धिं नापनयेद् इत्य् अर्थः । किन्तु स्वयं कर्मसु युक्तः सावधानस् तानि सम्यक् सर्वाङ्गोपसंहारेणाचरन् सर्वाणि विहितानि कर्माणि योषयेत् प्रीत्या सेवयेत् अज्ञान् कर्माणि कारयेद् इत्य् अर्थः । बुद्धि-भेदे सति कर्मसु श्रद्धा-निवृत्ते ज्ञानस्य चानुदयाद् उभय-विभ्रष्टास् ते स्युर् इति भावः ।

स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि ।
न राति रोगिणो ऽपथ्यं वाञ्छतो ऽपि भिषक्तमः ॥ [भ्प् ६।९।५]

इत्य् अजितोक्तिस् तु कर्म-सङ्गीतर-परतया नेया ॥२६॥


३।२७

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कार-विमूढात्मा कर्ताहम् इति मन्यते ॥२७॥

श्रीधरः : ननु विदुषो ऽपि चेत् कर्म कर्तव्यं तर्हि विद्वद्-अविदुषोः को विशेषः ? इत्य् आशङ्क्योभयोर् विशेषं दर्शयति प्रकृतेर् इति द्वाभ्याम् । प्रकृतेर् गुणैः प्रकृति-कार्यैर् इन्द्रियैः सर्व-प्रकारेण क्रियमाणानि कर्माणि । तान्य् अहम् एव कर्ता करोमीति मन्यते । अत्र हेतुः - अहङ्कारेण इन्द्रियादिष्व् आत्माध्यासेन विमूढ-बुद्धिः सन् ॥२७॥

मधुसूदनः : विद्वद्-अविदुषोः कर्मानुष्ष्ठान-साम्ये ऽपि कर्तृत्वाभिमान-तद्-अभावाभ्यां विशेषं दर्शयन् सक्ताः कर्मणीति-श्लोकार्थं विवृणोति द्वाभ्यां प्रकृतेर् इति । प्रकृतिर् माया सत्त्व-रजस्-तमो-गुण-मयी मिथ्या-ज्ञानात्मिका पारमेश्वरी शक्तिः मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं इति श्रुतेः । तस्याः प्रकृतेर् गुणैर् विकारैः कार्य-कारण-रूपैः क्रियमाणानि लौकिकानि वैदिकानि च कर्माणि सर्वशः सर्व-प्रकारैर् अहङ्कारेण कार्य-कारण-सङ्घातात्म-प्रत्ययेन विमूढः स्वरूप-विवेकासमर्थ आत्मान्तःकरणं यस्य सो ऽहङ्कार-विमूढात्मानात्मन्य् आत्माभिमानी तानि कर्माणि कर्ताहम् इति करोम्य् अहम् इति मन्यते कर्तृत्वाध्यासेन । कर्ताहम् इति तृन्-प्रत्ययः । तेन न लोकाव्यय-निष्ठा-खल्-अर्थ-तृणाम्
[पाण् २।३।६९] इति षष्ठी-प्रतिषेधः ॥२७॥

विश्वनाथः : ननु यदि विद्वान् अपि कर्म कुर्यात्, तर्हि विद्वद्-अविदुषोः को विशेषः ? इत्य् आशङ्क्य तयोर् विशेषं दर्शयति प्रकृतेर् इति द्वाभ्याम् । प्रकृतेर् गुणैः कार्यैर् इन्द्रियैः सर्वशः सर्व-प्रकारेण क्रियमाणानि यानि कर्माणि तान्य् अहम् एव कर्ता करोमीत्य् अविद्वान् मन्यते ॥२७॥

बलदेवः : कर्मित्व-साम्ये ऽपि विज्ञाज्ञयोर् विशेषम् आह प्रकृतेर् इति द्वाभ्याम् । अहङ्कार-विमूढात्मा जनो ऽहं कर्माणि कर्तेति मन्यते । न लोकाव्यय-निष्ठा इति सूत्रात् षष्ठी-निषेधः । कर्माणि लौकिकानि वैदिकानि च । तानि कीदृशानीत्य् आह प्रकृतेर् ईश-मायाया गुणैस् तत्-कार्यैर् शरीरेन्द्रिय-प्राणैर् ईश्वर-प्रवर्तितैः क्रियमाणानीति । इदम् एव वेदितव्यम् - उपक्रम-विनिर्णयात् संविद्-वपुर्-जीवात्मास्मद्-अर्थः कर्ता चानादि-काल-विषय-भोग-वासनाक्रान्तस् तद्-भोगार्थिकां स्व-सन्निहितां प्रकृतिम् आश्लिष्टस् तत्-कार्येणाहङ्कारेण विमूढात्मा तादृश-स्व-विज्ञान-शून्यः शरीराद्य्-अहं-भाववान् प्राकृतैः शरीरादिभिर् ईशेन च सिद्धानि कर्माणि मयैवैकेन कृतानीति मन्यते । कर्तुर् आत्मनो यत् कर्तृत्वं तत् किल देहादिभिस्
त्रिभिः परमात्मना च सर्व-प्रवर्तकेन च सिद्ध्यति । न त्व् एकेन जीवेनैव । तच् च मयैव सिद्ध्यतीति जीवो यन् मन्यते तद् अहङ्कार-विमौढ्याद् एव - अधिष्ठानं तथा कर्था [गीता १८।१४] इत्य् आदिकाच् चरमाध्याय-वाक्य-त्रयात् । कार्य-कारण-कर्तृत्वे हेतुः प्रकृतिर् उच्यते [गीता १३।१८] इत्य् अत्र शरीरेन्द्रियादि-कर्तृत्वं प्रकृतेर् इति यद् वर्णयिष्यते, तत्रापि केवलायास् तस्यास् तन् न शक्यं मन्तुम् । पुरुष-संसर्गेणैव तत्-प्रवृत्तेर् अङ्गीकारात् । ततश् च पुरुषस्य कर्तृत्वम् अवर्जनीयम् इति व्याख्यास्यते ॥२७॥


३।२८

तत्त्ववित् तु महा-बाहो गुण-कर्म-विभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥२८॥

श्रीधरः : विद्वांस् तु न तथा मन्यते इत्य् आह तत्त्वविद् इति । नाहं गुणात्मक इति गुणेभ्य आत्मनो विभागः । न मे कर्माणीति कर्मभ्यो ऽप्य् आत्मनो विभागः । तयोर् गुण-कर्म-विभागयोर् यस् तत्त्वं वेत्ति स तु न कर्तृत्वाभिनिवेशं न करोति । तत्र हेतुः - गुणा इति । गुणा इन्द्रियाणि गुणेषु विषयेषु वर्तन्ते नाहम् इति मत्वा ॥२८॥

मधुसूदनः : विद्वांस् तु तथा न मन्यत इत्य् आह तत्त्वविद् इति । तत्त्वं याथात्म्यं वेत्तीति तत्त्ववित् । तु-शब्देन तस्याज्ञाद् वैशिष्ट्यम् आह । कस्य तत्त्वम् इत्य् अत आह गुण-कर्म-विभागयोः । गुणा देहेन्द्रियान्तः-करणान्य् अहङ्कारास्पदानि कर्माणि च तेषां व्यापार-भूतानि मम-कारास्पदानीति गुण-कर्मेति द्वन्द्वैकवद् भावः । विभज्यते सर्वेषां जडानां विकारिणां भासकत्वेन पृथग् भवतीति विभागः स्व-प्रकाश-ज्ञान-रूपो ऽसङ्ग आत्मा । गुण-कर्म च विभागश् चेति द्वन्द्वः । तयोर् गुण-कर्म-विभागयोर् भास्य-भासकयोर् जड-चैतन्ययोर् विकारि-निर्विकारयोस् तत्त्वं याथात्म्यं यो वेत्ति स गुणाः करणात्मका गुणेषु विषयेषु प्रवर्तन्ते विकारित्वान् न तु निर्विकार आत्मेति मत्वा न सज्जते सक्तिं कर्तृत्वाभिनिवेशम् अतत्त्वविद् इव न करोति । हे महाबाहो
! इति सम्बोधयन् सामुद्रिकोक्त-सत्-पुरुष-लक्षण-योगित्वान् न पृथग्-जन-साधारण्येन त्वम् अविवेकी भवितुम् अर्हसीति सूचयति ।

गुण-विभागस्य कर्म-विभागस्य च तत्त्वविद् इति वा । अस्मिन् पक्षे गुण-कर्मणोर् इत्य् एतावतैव निर्वाहे विभाग-पदस्य प्रयोजनं चिन्त्यम् ॥२८॥

विश्वनाथः : गुण-कर्मणोर् यौ विभागौ तयोस् तत्त्वं वेत्तीति सः । तत्र गुण-विभागः सत्त्व-रजस्-तमांसि । कर्म-विभागः सत्त्वादि-कार्य-भेदा देवतेन्द्रिय-विषयाः । तयोस् तत्त्वं स्वरूपं । तज्-ज्ञस् तु तत्त्व-वित् । गुणा देवताः प्रयोज्यानीन्द्रियाणि चक्षुर्-आदीनि गुणेषु रूपादिषु विषयेषु वर्तन्ते । अहं तु न गुणः, नापि गुण-कार्यः को ऽपि, नापि गुणेषु गुण-कार्येषु तेषु मे को ऽपि सम्बन्ध इति मत्वा विद्वांस् तु न सज्जते ॥२८॥

बलदेवः : विज्ञस् तु न तथेत्य् आह तत्त्व-वित् त्व् इति । गुण-विभागस्य कर्म-विभागस्य च तत्त्व-वित् । गुणेभ्य इन्द्रियेभ्यः कर्मभ्यश् च तत्-कृतेभ्यो यः स्वयस विभागो भेदस् तस्य तत्त्वं स्वरूपं तत्-तद्-वैधर्म्य-पर्यालोचनया यो नाहं गुण-कर्म-वपुः इति वेत्तीत्य् अर्थः । स हि गुणा इन्द्रियाणि गुणेषु शब्दादिषु विषयेषु तत्-तद्-देवता-प्रेरितानि प्रवर्तन्ते तान् प्रकाशयन्ति । अहं त्व् असङ्ग-विज्ञानानन्दत्वात् तद्-भिन्नो, न तेषु ताद्रूप्येण वर्ते, न तान् प्रकाशयामीति मत्वा तेषु न सज्जन्ते । किन्त्व् आत्मन्य् एव सज्जते । अत्रापि मत्वेत्य् अनेन कर्तृत्वं जीवस्योक्तं बोध्यम् ॥२८॥


३।२९

प्रकृतेर् गुण-सम्मूढाः सज्जन्ते गुण-कर्मसु ।
तान् अकृत्स्न-विदो मन्दान् कृत्स्न-विन् न विचालयेत् ॥२९॥

श्रीधरः : न बुद्धि-भेदम् इत्य् उपसंहरति प्रकृतेर् इति । ये प्रकृतेर् गुणैः सत्त्वादिभिः सम्मूढाः सन्तः गुणेष्व् इन्द्रियेषु तत्-कर्मसु च सज्जन्ते । तान् अकृत्स्न-विदो मन्दान् मन्द-मतीन् कृत्स्न-वित् सर्वज्ञो न विचालयेत् ॥२९॥

मधुसूदनः : तद् एवं विद्वद्-अविदुषोः कर्मानुष्ठान-साम्येन विद्वान् अविदुषो बुद्धि-भेदं न कुर्याद् इत्य् उक्तम् उपसंहरति । प्रकृतेः पूर्वोक्ताया मायाया गुणैः कार्यतया धर्मैर् देहादिभिर् विकारैः सम्यङ् मूढाः स्वरूपास्फुरणेन तान् एवात्मत्वेन मन्यमानास् तेषाम् एव गुणानां देहेन्द्रियान्तः-करणानां कर्मसु व्यापारेषु सज्जन्ते सक्तिं वयं कुर्मस् तत्-फलायेति दृढतराम् आत्मीय-बुद्धिं कुर्वन्ति ये तान् कर्म-सङ्गिनो ऽकृत्स्न-विदो ऽनात्माभिमानिनो मद्नान् अशुद्ध-चित्तत्वेन ज्ञा̆नाधिकारम् अप्राप्तान् कृत्स्न-वित् परिपूर्णात्मवित् स्वयं न विचालयेत् कर्म-श्रद्धातो न प्रच्यावयेद् इत्य् अर्थः । ये त्व् अमन्दाः शुद्धान्तः-करणास् ते स्वयम् एव विवेकोदयेन विचलन्ति ज्ञानाधिकारं प्राप्ता इत्य् अभिप्रायः ।

कृत्स्नाकृत्स्न-शब्दाव् आत्मानात्म-परतया श्रुत्य्-अर्थानुसारेण वार्तिक-कृद्भिर् व्याख्यातौ -

 सद् एवेत्य् आदि-वाक्येभ्यः कृत्स्नं वस्तु यतो ऽद्वयम् ।  
 सम्भवस् तद्-विरुद्धस्य कुतो ऽकृत्स्नस्य वस्तुनः ॥  
 यस्मिन् दृष्टे ऽप्य् अदृष्टो ऽर्थः स तद् अन्यश् च शिष्यते ।  
 तथादृष्टे ऽपि दृष्टः स्याद् अकृत्स्नस् तादृग् उच्यते ॥ इति ।  

अनात्मनः सावयवत्वाद् अनेक-धर्मवत्ताच् च केनचिद् धर्मेण केनचिद् अवयवेन वा विशिष्टे तस्मिन्न् एकस्मिन् घटादौ ज्ञाते ऽपि धर्मान्तरेण अवयवान्तरेण वा विशिष्टः स एवाज्ञातो ऽवशिष्यते । तद् अन्यश् च पटादिर् अज्ञातो ऽ वशिष्यत एव । तथा तस्मिन् घटादाव् अज्ञाते ऽपि पटादिर् ज्ञातः स्याद् इति तज्-ज्ञाने ऽपि तस्यान्यस्य चाज्ञानात् तद्-अज्ञाने æप्य् अन्य-ज्ञानाच् च सो ऽकृत्स्न उच्यते । कृत्स्नस् त्व् अद्वय आत्मैव तज्-ज्ञाने कस्यचिद् अवशेषस्याभावाद् इति श्लोक-द्वयार्थः ॥२९॥

विश्वनाथः : ननु यदि जीवा गुणेभ्यो गुण-कार्येभ्यश् च पृथग्-भूतास् तद्-असम्बन्धास् तर्हि कथं ते विषयेषु सज्जन्तो दृश्यन्ते ? तत्राह प्रकृतेर् गुण-सम्मूढास् तद्-आवेशात् प्राप्त-सम्मोहा यथा भूताविष्टो मनुष्य आत्मानं भूतम् एव मन्यते, तथैव प्रकृति-गुणाविष्टा जीवाः स्वान् गुणान् एव मन्यन्ते । ततो गुण-कर्मसु गुण-कार्येषु विषयेषु सज्जन्ते । तान् अकृत्स्न-विदो मन्द-मतीन् कृत्स्न-वित् सर्वज्ञो न विचालयेत् । त्वं गुणेभ्यः पृथग्-भूतो जीवो न तु गुणः इति विचारं प्रापयितुं न यतते, किन्तु गुणावेश-निवर्तकं निष्काम-कर्मैव कारयेत् । न हि भूताविष्टो मनुष्यः न त्वं भूतः किन्तु मनुष्य एव इति शत-कृत्वे ऽप्य् उपदेशेन न स्वास्थ्यम् आपद्यते, किन्तु तन्-निवर्तकौषुध-मणि-मन्त्रादि-प्रयोगेनैवेति भावः ॥२९॥

बलदेवः : न बुद्धि-भेदं जनयेद् इत्य् एतद् उपसंहरति प्रकृतेर् इति । प्रकृतेर् गुणेन तत्-कार्येणाहङ्कारेण मूढा भूतावेश-न्यायेन देहादिकम् एवात्मानं मन्यमाना जना गुणानां देहेन्द्रियाणां कर्मसु व्यापारेषु सज्जन्ते । तान् अकृत्स्न-विदो ऽल्प-ज्ञान् मन्दान् आत्म-तत्त्व-ग्रहणालसान् कृत्स्न-वित् पूर्णात्म-ज्ञानो न विचालयेत् गुण-कर्मान्यो विशुद्ध-चैतन्यानन्दस् त्वम् इति तत्त्वं ग्राहयितुं नेच्छेत्, किन्तु तद्-रुचिम् अनुसृत्य वैदिक-कर्माणि श्रेण्याक्रमाद् आत्म-तत्त्व-प्रवणं चिकीर्सेद् इति भावः ॥२९॥


३।३०

मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्म-चेतसा ।
निराशीर् निर्ममो भूत्वा युध्यस्व विगत-ज्वरः ॥३०॥

श्रीधरः : तद् एवं तत्त्व-विदो ऽपि कर्म कर्तव्यम् । त्वं तु नाद्यापि तत्त्ववित् । अतः कर्मैव कुर्व् इत्य् आह मयीति । सर्वाणि कर्माणि मयि सन्न्यस्य समर्प्य । अध्यात्म-चेतसा अन्तर्याम्य्-अधीनो ऽहं कर्म करोमीति दृष्ट्या । निराशी निष्कामः । अतएव मत्-फल-साधनं मद्-अर्थम् इदं कर्मेत्य् एवं ममता-शून्यश् च भूत्वा । विगत-ज्वरस् त्यक्त-शोकश् च भूत्वा ॥३०॥

मधुसूदनः : एवं कर्मानुष्ठान-साम्ये ऽप्य् अज्ञ-विज्ञेयोः कर्तृत्वाभिनिवेश-तद्-अभावाभ्यां विशेष उक्तः । इदानीम् अज्ञस्यापि मुमुक्षोर् अमुमुक्ष्व्-अपेक्षया भगवद्-अर्पणं फलाभिसन्ध्य्-अभावं च विशेषं वदन्न् अज्ञतयार्जुनस्य कर्माधिकारं द्रढयति मयीति । मयि भगवति वासुदेवे परमेश्वरे सर्वज्ञे सर्व-नियन्तरि सर्वात्मनि सर्वाणि कर्माणि लौकिकानि वैदिकानि च सर्व-प्रकाराणि अध्यात्म-चेतसाहं कर्तान्तर्याम्य्-अधीनस् तस्मा एवेश्वराय राज्ञ इव भृत्यः कर्माणि करोमीत्य् अनया बुद्ध्या सन्न्यस्य समर्प्य निराशीर् निष्कामो निर्ममो देह-पुत्र-भ्रात्रादिषु स्वीयेषु ममता-शून्यो विगत-ज्वरः । सन्ताप-हेतुत्वाच् छोक एव ज्वर-शब्देनोक्तः । ऐहिक-पारत्रिक-दुर्यशो-नरक-पातादि-निमित्त-शोक-रहितश् च भूत्वा त्वं मुमुक्षुर् युध्यस्व
विहितानि कर्माणि कुर्व् इत्य् अभिप्रायः । अत्र भगवद्-अर्पणं निष्कामत्वं च सर्व-कर्म-साधारणं मुमुक्षोः । निर्ममत्वं त्यक्त-शोकत्वं च युद्ध-मात्रे प्रकृत इति द्रष्टव्यम् अन्यत्र ममताशोकयोर् अप्रसक्तत्वात् ॥३०॥
विश्वनाथः : तस्मात् त्वं मय्य् अध्यात्म-चेतसात्मनीत्य् अर्थः । एवम् अध्यात्मम् अव्ययीभाव-समासात् । ततश् च आत्मनि यच् चेतस् तद्-अध्यात्म-चेतस् तेनात्म-निष्ठेनैव चेतसा, न तु विषय-निष्ठेनेत्य् अर्थः । मयि कर्माणि सन्न्यस्य समर्प्य निराशीर् निष्कामो निर्ममः सर्वत्र ममता-शून्यो युध्यस्व ॥३०॥

बलदेवः : मयीति । यस्माद् एवं तस्मात् परिनिष्ठितस् त्वम् अध्यात्म-चेतः स्वात्म-तत्त्व-विषयक-ज्ञानेन सर्वाणि कर्माणि राज्ञि भृत्य इव मयि परेशे सन्न्यस्य समर्पयित्वा युध्यस्व । कर्तृत्वाभिनिवेश-शून्यः । यथा राज-तन्त्रो भृत्यस् तद्-आज्ञया कर्माणि करोति, तथा मत्-तन्त्रस् त्वं मद्-आज्ञया तानि कुरु लोकान् सञ्जिघृक्षुः । आत्मनि यच् चेतस् तद् अध्यात्म-चेतस् तेन । विभक्त्य्-अर्थे ऽव्ययीभावः । निराशीः स्वाम्य्-आज्ञया करोमीति तत्-फलेच्छा-शून्यः । अतएव मत्-फल-साधनानि मद्-अर्थम् अमूनि कर्माणीत्य् एवं ममत्व-वर्ज्जितः । विगत-ज्वरस् त्यक्त-बन्धु-वध-निमित्तक-सन्तापश् च भूत्वेति । अर्जुनस्य क्षत्रियत्वाद् युध्यस्वेत्य् उक्तम् । स्वाश्रम-विहितानि कर्माणि मुमुक्षुभिः कार्याणीति वाक्यार्थः ॥३०॥


३।३१

ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तो ऽनसूयन्तो मुच्यन्ते ते ऽपि कर्मभिः ॥३१॥

श्रीधरः : एवं कर्मानुष्ठाने गुणम् आह ये म इति । मद्-वाक्ये श्रद्धावन्तो ।नसूयन्तो दुःखात्मके कर्मणि प्रवर्तयतीति दोष-दृष्टिम् अकुर्वन्तश् च मे मदीयम् इदं मतम् अनुतिष्ठन्ति ते ऽपि शनैः कर्म कुर्वाणाः सम्यग् ज्ञानिवत् कर्मभिर् मुच्यन्ते ॥३१॥

मधुसूदनः : फलाभिसन्धि-राहित्येन भगवद्-अर्पण-बुद्ध्या भगवद्-अर्पण-बुद्ध्या विहित-कर्मानुष्ठानं सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण मुक्ति-फलम् इत्य् आह ये म इति । इदं फलाभिसन्धि-राहित्येन विहित-कर्माचरण-रूपं मम मतम् नित्यम् नित्य-वेद-बोधितत्वेनानादि-परम्परा-गतम् आवश्यकम् इति वा सर्वदेति वा । मानवाः मनुष्या ये केचिन् मनुष्याधिकारित्वात् कर्मणां श्रद्धावन्तः शास्त्राचार्योपदिष्टे ऽर्थे ऽननुभूते ऽप्य् एवम् एवैतद् इति विश्वासः श्रद्धा तद्वन्तः । अनसूयन्तो गुणेषु दोषाविष्करणम् असूया । सा च दुःखात्मके कर्मणि मां प्रवर्तयन्न् अकारुणिको ऽयम् इत्य् एवंरूपा प्रकृते प्रसक्ता ताम् असूयां मयि गुरौ वासुदेवे सर्व-सुहृद्य् अकुर्वन्तो ये ऽनुतिष्ठन्ति ते ऽपि सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण सम्यग्-ज्ञानिवन् त्मुच्यन्ते
कर्मभिर् धर्माधर्माख्यैः ॥३१॥

विश्वनाथः : स्व-कृतोपदेशे प्रवर्तयितुम् आह ये म इति ॥३१॥

बलदेवः : श्रुति-रहस्ये स्वमते ऽनुवर्तिनां फलं वदन् तस्य श्रैष्ठ्यं व्यञ्जयति ये म इति । नित्यं सर्वदा श्रुति-बोधितत्वेनानादि-प्राप्तं वा । श्रद्धावन्तो दृढ-विश्वस्ताः । अनसूयन्तो मोचकत्व-गुणवति तस्मिन् किम् अमुना श्रम-बहुलेन निष्फलेन कर्मणेत्य् एवं दोषारोप-शून्याः । ते ऽपीत्य् अपिर् अवधारणे । यद् वा, ये ममेदं मतम् अनुतिष्ठन्ति ये चानुष्ठातुम् अशक्नुवन्तो ऽपि तत्र श्रद्धालवः, ये च श्रद्धालवो ऽपि तन् नासूयन्ते ते ऽपीत्य् अर्थः । साम्प्रतानुष्ठानाभावे ऽपि तस्मिन् श्रद्धयानसूयया च क्षीण-दोषास् ते किञ्चित् प्रान्ते तद् अनुष्ठाय मुच्यन्ते इति भावः ॥३१॥


३।३२

ये त्व् एतद् अभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्व-ज्ञान-विमूढांस् तान् विद्धि नष्टान् अचेतसः ॥३२॥

श्रीधरः : विपक्षे दोषम् आह ये त्व् एतद् इति । ये तु नानुतिष्ठन्ति तान् अचेतसो विवेक-शून्यान् अतएव सर्वस्मिन् कर्मणि ब्रह्म-विषये च यज् ज्ञानं तत्र विमूढान् नष्टान् विद्धि ॥३२॥

मधुसूदनः : एवम् अन्वये गुणम् उक्त्वा व्यतिरेके दोषम् आह ये त्व् इति । तु-शब्दः श्रद्दावद्-वैधर्य्म्यम् अश्रद्धां सूचयति । तेन ये नास्तिक्याद् अश्रद्दधाना अभ्यसूयन्तो दोषम् उद्भावयन्त एतन् मम मतं नानुवर्तन्ते तान् अचेतसो दुष्ट-चित्तान् अतएव सर्व-ज्ञान-विमूढान् सर्वत्र कर्मणि ब्रह्मणि स-गुणे निर्गुणे च यज् ज्ञानं तत्र विविधं प्रमाणतः प्रमेयतः प्रयोजनतश् च मूढान् सर्व-प्रकारेणायोग्यान् नष्टान् सर्व-पुरुषार्थ-भ्रष्टान् विद्धि जानीहि ॥३२॥

विश्वनाथः : विपक्षे दोषम् आह ये त्व् इति ।

बलदेवः : विपक्षे दोषम् आह ये त्व् एतद् इति । ये तु नानुतिष्ठन्ति तान् अचेतसो विवेक-शून्यान् अतएव सर्वस्मिन् कर्मणि ब्रह्म-विषये च यज् ज्ञानं तत्र विमूढान् नष्टान् विद्धि ॥३२॥


३।३३

सदृशं चेष्टते स्वस्याः प्रकृतेर् ज्ञानवान् अपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥३३॥

श्रीधरः : ननु तर्हि महा-फलत्वाद् इन्द्रियाणि निगृह्य निष्कामाः सन्तः सर्वे ऽपि स्वधर्मम् एव किं नानुतिष्ठन्ति ? तत्राह सदृशम् इति । प्रकृतिः प्राचीन-कर्म-संस्काराधीनः स्वभावः । स्वस्याः स्वकीयायाः प्रकृतेः स्वभावस्य सदृशम् अनुरूपम् एव गुण-दोष-ज्ञानवान् अपि चेष्टते । किं पुनर् वक्तव्यम् अज्ञश् चेष्टत इति । यस्माद् भूतानि सर्वे ऽपि प्राणिनः प्रकृतिं यान्त्य् अनुवर्तन्ते । एवं च सति इन्द्रिय-निग्रहः किं करिष्यति ? प्रकृतेर् बलीयस्त्वाद् इत्य् अर्थः ॥३३॥

मधुसूदनः : ननु राज्ञ इव तव शासनातिक्रमे भयं पश्यन्तः कथम् असूयन्तस् तव मतं नानुवर्तन्ते कथं वा सर्व-पुरुषार्थ-साधने प्रतिकूला भवन्तीत्य् अत आह सदृशम् इति । प्रकृतिर् नाम प्राग्-जन्म-कृत-धर्माधर्म-ज्ञानेच्छादि-संस्कारो वर्तमान-जन्मन्य् अभिव्यक्तः सर्वतो बलवान् तं विद्या-कर्मणी समन्वारभेते पूर्व-प्रज्ञा च इति श्रुति-प्रमाणकः । तस्याः स्वकीयायाः प्रकृतेः सदृशम् अनुरूपम् एव सर्वो जन्तुर् ज्ञानवान् ब्रह्मविद् अपि पश्व्-आदिभिश् चाविशेषात् इति न्यायात् । गुण-दोष-ज्ञानवान् वा चेष्टते किं पुनर् मूर्खः । तस्माद् भूतानि सर्वे प्राणिनः प्रकृतिं यान्त्य् अनुवर्तन्ते पुरुषार्थ-भ्रंश-हेतु-भूताम् अपि । तत्र मम वा राज्ञो वा निग्रहः किं करिष्यति । रागौत्कट्येन दुरितान् निवर्तयितुं न शक्नोतीत्य्
अर्थः । महा-नरक-साधनत्वं ज्ञात्वापि दुर्वासना-प्राबल्यात् पापेषु प्रवर्तमाना न मच्-छ्वासनातिक्रम-दोषाद् बिभ्यतीति भावः ॥३।३३॥

विश्वनाथः : ननु राज्ञ इव तव परमेश्वरस्य मतम् अननुतिष्ठन्तो राज-कृताद् इव त्व-कृतान् निग्रहात् किं न विभाति ? सत्यम् । ये खलु इन्द्रियाणि चारयन्तो वर्तन्ते, ते विव्वेकिनो ऽपि राज्ञः परमेश्वरस्य च शासनं मन्तुं न शक्नुवन्ति । तथैव तेषां स्वभावो ऽभूद् इत्य् आह सदृशम् इति । ज्ञानवान् अपि एवं पापे कृते सत्य् एवं नरको भविष्यत्य् एवं राज-दण्डो भविष्यति । एवं दुर्यशश् च भविष्यतीति विवेकवान् अपि स्वस्याः प्रकृतेः चिरन्तन-पापाभ्यासोत्थ-दुःख-भारस्य सदृशम् अनुरूपम् एव चेष्टते । तस्मात् प्रकृतिं स्वभावं यान्त्य् अनुसरन्ति । तत्र निग्रहस् तच्-छास्त्र-द्वारा मत्-कृतो राज-कृतो वा तेनाशुद्ध-चित्तान् उक्त-लक्षणो निष्काम-कर्म-योगः शुद्ध-चित्तान् ज्ञान-योगश् च संस्कर्तुं प्रबोधयितुं च शक्नोति, न त्व् अत्यन्ताशुद्ध-चित्तान्,
किन्तु तान् अपि पापिष्ठ-स्वभावान् यादृच्छिक-मत्-कृपोत्थ-भक्ति-योग एव उद्धर्तुं प्रभवेत् । यद् उक्तं स्कान्दे -

 अहो धन्यो ऽसि देवर्षे कृपया यस्य ते क्षणात् ।  
 नीचो ऽप्य् उत्पुलको लेभे लुब्धको रतिम् उच्यते ॥३३॥  

बलदेवः : ननु सर्वेश्वरस्य ते मतम् अतिक्रमतां दण्डः शास्त्रेणोच्यते तस्मात् ते किम् उ न बिभ्यति इत्य् आह सदृशम् इति । प्रकृतिर् अनादि-काल-प्रवृत्त्या स्व-दुर्वासना तस्याः स्वीयायाः सदृशम् अनुरूपम् एव ज्ञानवान् शास्त्रोक्तं दण्डं जानन्न् अपि जनश् चेष्टते प्रवर्तते किम् उताज्ञः । ततो भूतानि सर्वे जनाः प्रकृतिं पुरुषार्थ-विभ्रंश-हेतु-भूताम् अपि तां यान्त्य् अनुसरन्ति । तत्र निग्रहः शास्त्र-ज्ञानो ऽपि दण्डः सत्-प्रसङ्ग-शून्यस्य किं करिष्यति ? दुर्वासनायाः प्राबल्यतां निवर्तयितुं न शक्ष्यतीत्य् अर्थः । सत्-प्रसङ्ग-सहितस्य तु तां प्रबलाम् अपि निहन्ति - सन्त एवास्य छिन्दन्ति मनो-व्यसनम् उक्तिभिः [भ्प् ११।२६।२६] इत्य् आदि स्मृतिभ्यः ॥३३॥


३।३४

इन्द्रियस्येन्द्रियस्यार्थे राग-द्वेषौ व्यवस्थितौ ।
तयोर् न वशम् आगच्छेत् तौ ह्य् अस्य परिपन्थिनौ ॥३४॥

श्रीधरः : नन्व् एवं प्रकृत्य्-अधीनेव चेत् पुरुषस्य प्रवृत्तिस् तर्हि विधि-निषेध-शास्त्रस्य वैयर्थ्यं प्राप्तम् इत्य् आशङ्क्याह इन्द्रियस्येति । इन्द्रियस्येन्द्रियस्येति-वीप्सया सर्वेषाम् इन्द्रियाणां प्रत्य् एकम् इत्य् उक्तम् । अर्थे स्व-स्व-विषये ऽनुकूले रागः प्रतिकूले द्वेष इत्य् एवं राग-द्वेषौ व्यवस्थिताव् अवश्यं भाविनौ । ततश् च तद्-अनुरूपा प्रवृत्तिर् इति भूतानां प्रकृतिः । तथापि तयोर् वशवर्ती न भवेद् इति शास्त्रेण नियम्यते । हि यस्माद् । अस्य मुमुक्षोस् तौ परिन्पन्थिनौ प्रतिपक्षौ । अयं भावः - विषय-स्मरणादिना राग-द्वेषआव् उत्पाद्यानवहितं पुरुषम् अनर्थे ऽतिगम्भीरे स्रोतसीव प्रकृतिर् बला प्रवर्तयति । शास्त्रं तु ततः प्राग् एव विषयेषु राग-द्वेष-प्रतिबन्धके परमेश्वर-भजनादौ तं प्रवर्तयति । ततश् च गम्भीर-स्रोतः-पातात् पूर्वम् एव नावम्
आश्रित इव नानर्थं प्राप्नोति । तद् एवं स्वाभाविकी पश्व्-आदि-सदृशीं प्रवृत्तिं त्यक्त्वा धर्मे प्रवर्तितव्यम् इत्य् उक्तम् ॥३४॥

मधुसूदनः : ननु सर्वस्य प्राणि-वर्गस्य प्रकृति-वश-वर्तित्वे लौकिक-वैदिक-पुरुषकार-विषयाभावाद् विधि-निषेधार्थक्यं प्राप्तम्, न च प्रकृति-शून्यः कश्चिद् अस्ति यं प्रति तद्-अर्थवत्त्वं स्याद् इत्य् अत आह इन्द्रियस्येन्द्रियस्यार्थे इति । इन्द्रियस्येन्द्रियस्येति वीप्सया सर्वेषाम् इन्द्रियाणाम् अर्थे विषये शब्दे स्पर्शे रूपे गन्धे च । एवं कर्मेन्द्रिय-विषये ऽपि वचनादाव् अनुकूले शास्त्र-निषिद्धे ऽपि रागः प्रतिकूले शास्त्र-विहिते ऽपि द्वेष इत्य् एवं प्रतीन्द्रियार्थं राग-द्वेषौ व्यवस्थिताव् आनुकूल्य-प्रातिकूल्य-व्यवस्थया स्थितौ न त्व् अनियमेन सर्वत्र तौ भवतः । तत्र पुरुषकारस्य शास्त्रस्य चायं विषयो यत् तयोर् वशं नागच्छेद् इति । कथं या हि पुरुषस्य प्रकृतिः सा बलवद् अनिष्टानुबन्धित्व-ज्ञानाभाव-सहकृतेष्ट-साधनत्व-ज्ञान-निबन्धनं रागं पुरस्कृत्यैव
शास्त्र-निषिद्धे कलञ्ज-भक्षणादौ प्रवर्तयति । तथा बलवद्-अनिष्टानुबन्धित्व-ज्ञानाभाव-सहकृतेष्ट-साधनत्व-ज्ञान-निबन्धनं रागं पुरस्कृत्यैव शास्त्र-निषिद्धे कलञ्ज-भक्षणादौ प्रवर्तयति । तत्र शास्त्रेण प्रतिषिद्धस्य बलवद् अनिष्टानुबन्धित्वे ज्ञापिते सहकार्य-भावात् केवलं दृष्टेष्ट-साधनताज्ञानं मधु-विष-सम्पृक्तान्न-भोजन इव तत्र न रागं जनयितुं शक्नोति । एवं विहितस्य शास्त्रेण बलवद् इष्टानुबन्धित्वे बोधिते सहकार्य-भावात् केवलम् अनिष्ट-साधनत्व-ज्ञानं भोजनादाव् इव तत्र न द्वेषं जनयितुं शक्नोति । ततश् चाप्रतिबद्धं शास्त्रं विहिते पुरुषं प्रवर्तयति निषिद्धाच् च निवर्तयतीति शास्त्रीय-विवेक-विज्ञान-प्राबल्येन स्वाभाविक-राग-द्वेषयोः कारणोपमर्देनोपमर्दान् न प्रकृतिर् विपरीत-मार्गे
पुरुषं शास्त्र-दृष्टिं प्रवर्तयितुं शक्नोतीति न शास्त्रस्य पुरुषकारस्य च वैयर्थ्य-पोरसङ्गः ।

तयो राग-द्वेषयोर् वशं नागच्छेत् तद्-अधीनो न प्रवर्तेत निवर्तेत वा किन्तु शास्त्रीय-तद्-विपक्ष-ज्ञानेन तत्-कारण-विघटन-द्वारा तौ नाशयेत् । हि यस्मात् तौ राग-द्वेषौ स्वाभाविक-दोष-प्रयुक्ताव् अस्य पुरुषस्य श्रेयो ऽर्ह्तिनः परिपन्थिनौ शत्रू श्रेयो-मार्गस्य विघ्न-कर्तारौ दस्यू इव पथिकस्य । इदं च द्वया ह प्राजापत्या देवाश् चासुराश् च ततः कानीयसा एव देवा ज्यायसा असुरास् त एषु लोकेष्व् अस्पर्धन्त इत्य् आदि-श्रुतौ स्वाभाविक-राग-द्वेष-निमित्त-शास्त्र-विपरीत-प्रवृत्तिम् असुरत्वेन शास्त्रीय-प्रवृत्तिं च देवत्वेन निरूप्य व्याख्यातम् अतिविस्तरेणेत्य् उपरम्यते ॥३४॥

विश्वनाथः : यस्माद् दुःस्वभावेषु लोकेषु विधि-निषेध-शास्त्रं न प्रभवति, तस्माद् यावत् पापाभ्यासोत्थ-दुःस्वभावो नाभूत् तावद् यथेष्टम् इन्द्रियाणि न चारयेद् इत्य् आह इन्द्रियसेन्द्रियस्येति वीप्सा प्रत्येकम् । सर्वेन्द्रियाणाम् अर्थे स्व-स्व-विषये पर-स्त्री-मात्र-गात्र-दर्शन-स्पर्शन-तत्-सम्प्रदानक-द्रव्य-दानादौ शास्त्र-निषिद्धे ऽपि रागस् तथा गुरु-विप्र-तीर्थातिथि-दर्शन-स्पर्शन-परिचरण-तत्-सम्प्रदानक-धन-वितरणादौ शास्त्र-विहिते ऽपि द्वेष इत्य् एतौ विशेषणावस्थितौ वर्तेते । तयोर् वशम् अधीनत्वं न प्राप्नुयात् । यद् वा, इन्द्रियार्थे स्त्री-दर्शनादौ रागस् तत्-प्रतिघाते केनचित् कृते सति द्वेष इत्य् अस्य पुरुषार्थ-साधकस्य क्वचित् तु मनो ऽनुकूले ऽर्थे सुरस-स्निग्धान्नादौ रागो मनः प्रतिकूले ऽर्थे विरस-रुक्षान्नादौ द्वेषस् तथा स्व-पुत्रादि-दर्शन-श्रवणादौ
रागो वैरि-पुत्रादि-दर्शन-श्रवणादौ द्वेषः । तयोर् वशं न गच्छेद् इत्य् व्याचक्षते ॥३४॥

बलदेवः : ननु प्रकृत्य्-अधीना चेत् पुंसां प्रवृत्तिस् तर्हि विधि-निषेध-शास्त्रे व्यर्थ इति चेत् तत्र्हा इन्द्रियस्येन्द्रियस्येति । वीप्सया सर्वेषाम् इत्य् उक्तम् । ततश् च ज्ञानेन्द्रियाणां श्रोत्रादीनाम् अर्थे विषये शब्दादौ, कर्मेन्द्रियाणाम् च वाग्-आदीनाम् अर्थे वचनादौ रागः, प्रतिकूले शास्त्र-विहिते ऽपि सत्-सम्भाषण-सत्-सेवन-सत्-तीर्थागमनादौ द्वेष इत्य् एवं राग-द्वेषौ व्यवस्थितौ चानुकूल्य-प्रातिकूल्ये व्यवस्थया स्थितौ भवतो न त्व् अनियमेनेत्य् अर्थः । यद्यपि तद्-अनुगुणा प्राणिनां प्रवृत्तिस् तथापि श्रेयो-लिप्सुर् जनस् तयो राग-द्वेषयोर् वशं नागच्छेत् । हि यस्मात् ताव् अस्य परिपन्थिनौ विघ्न-कर्तारौ भवतः पान्थस्येव दस्यू । एतद् उक्तं भवति - अनादि-काल-प्रवृत्ता हि वासना निष्ठानुबन्धित्व-ज्ञानाभाव-सहकृतेनेष्ट-साधनत्व-ज्ञानेन निषिद्धे ऽपि पर-दार-सम्भाषणादौ
रागम् उत्पाद्य पुंसः प्रवर्तयति । तथेष्ट-साधनत्व-ज्ञानाभाव-सहकृतेनानिष्ट-साधनत्व-ज्ञानेन विहिते ऽपि सत्-सम्भाषणादौ द्वेषम् उत्पाद्य ततस् तान् निवर्तयति । शास्त्रं किल सत्-प्रसङ्ग-श्रुतम् अनिष्टानुभन्धित्व-बोधनेन निषिद्धान् मनो ऽनुकूलाद् अपि निवर्तयति द्वेषम् उत्पाद्य । इष्टानुबन्धित्व-बोधनेन विहिते मनः-प्रतिकूले ऽपि रागम् उत्पाद्य प्रवर्तयतीति न विधि-निषेध-शास्त्रयोर् वैयर्थ्यम् इति ॥३४॥


३।३५

श्रेयान् स्व-धर्मो विगुणः पर-धर्मात् स्वनुष्ठितात् ।
स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः ॥३५॥

श्रीधरः : तर्हि स्व-धर्मस्य युद्धादेर् दुःख-रूपस्य यथावत् कर्तुम् अशक्यत्वात् पर-धर्मस्य चाहिंसादेः सुकरत्वाद् धर्मत्वाविशेषाच् च तत्र प्रवर्तितुम् इच्छन्तः प्रत्य् आह श्रेयान् इति । किञ्चिद् अङ्ग-हीनो ऽपि स्व-धर्मः श्रेयान् प्रशस्यतरः । स्वनुष्ठितात् सकलाङ्ग-सम्पूर्त्या कृताद् अपि पर-धर्मात् सकाशात् । तत्र हेतुः - स्व-धर्मे युद्धादौ प्रवर्तमानस्य निधनं मरणम् अपि श्रेष्ठं स्वर्गादि-प्रापकत्वात् । पर-धर्मस् तु भयावहो निषिद्धत्वेन नरक-प्रापकत्वात् ॥३५॥

मधुसूदनः : ननु स्वाभाविक-राग-द्वेष-प्रयुक्त-पश्व्-आदि-साधारण-प्रवृत्ति-प्रहाणेन शास्त्रीयम् एव कर्म कर्तव्यं चेत् तर्हि यत् सुकरं भिक्षाशनादि तद् एव क्रियतां किम् अति-दुःखावहेन युद्धेनेत्य् अत आह श्रेयान् इति । श्रेयान् प्रशस्यतरः स्व-धर्मो यं वर्णाश्रमं वा प्रति यो विहितः स तस्य स्व-धर्मो विगुणो ऽपि सर्वाङ्गोपसंहारम् अन्तरेण कृतो ऽपि पर-धर्मात् स्वं प्रत्य् अविहितात् स्वनुष्ठितात् सर्वाङ्गोपसंहारेण सम्पादिताद् अपि । न हि वेदातिरिक्त-मान-गम्यो धर्मः, येन पर-धर्मे ऽप्य् अनुष्ठेयो धर्मत्वात् स्व-धर्मवद् इत्य् अनुमानं तत्र मानं स्यात् । चोदन-लक्षणो ऽर्थो धर्मः इति न्यायात् । अतः स्व-धर्मे किञ्चिद् अङ्ग-हीने ऽपि स्थितस्य निधनं मरणम् अपि श्रेयः प्रशस्यतरं पर-धर्म-स्थस्य जीविताद् अपि । स्व-धर्म-स्थस्य निधनं
हीह-लोके कीर्त्यावहं पर-लोके च स्वर्गादि-प्रापकम् । पर-धर्मस् तु इहाकीर्ति-करत्वेन परत्र नरक-प्रदत्वेन च भयावहो यतो ऽतो राग-द्वेषादि-प्रयुक्त-स्वाभाविक-प्रवृत्तिवत् पर-धर्मो ऽपि हेय एवेत्य् अर्थः ।

एवं तावद् भगवन्-मताङ्गीकारिणां श्रेयः-प्राप्तिस् तद्-अनङ्गीकारिणां च श्रेयो-मार्ग-भ्रष्टत्वम् उक्तम् । श्रेयो-मार्ग-भ्रंशेन फलाभिसन्धि-पूर्वक-काम्य-कर्माचरणे च केवल-पाप-मात्राचरणे च बहूनि कारणानि कथितानि ये त्व् एतद् अभ्यसूयन्त इत्य् आदिना । तत्रायं सङ्ग्रह-श्लोकः -

 श्रद्धा-हानिस् तथासूया दुष्ट-चित्तत्वम् ऊढते ।  

प्रकृतेर् वश-वर्तित्वं राग-द्वेषौ च पुष्कलौ ।
पर-धर्म-रुचित्वं चेत्य् उक्ता दुर्मार्ग-वाहकाः ॥।३५॥

विश्वनाथः : ततश् च युद्ध-रूपस्य यथावद् राग-द्वेषादि-राहित्येन कर्तुम् अशक्यत्वात् पर-धर्मस्य चाहिंसादेः सुकरत्वाद् धर्मत्वाविशेषाच् च तत्र प्रवर्तितुम् इच्छन्तं प्रत्य् आह श्रेयान् इति । विगुणः किञ्चिद् दोष-विशिष्टो ऽपि सम्यग् अनुष्ठातुम् अशक्यो ऽपि पर-धर्मात् स्वनुष्ठितात् साध्व् एवानुष्ठातुं शक्याद् अपि सर्व-गुण-पूर्णाद् अपि सकाशात् श्रेयान् । तत्र हेतुः - स्वधर्म इत्य् आदि ।

विधर्मः पर-धर्मश् च
आभास उपमा छलः ।
अधर्म-शाखाः पञ्चेमा
धर्म-ज्ञो ऽधर्मवत् त्यजेत् ॥ [भ्प् ७।१५।१२] इति सप्तमोक्तेः ॥३५॥

बलदेवः : ननु स्व-प्रकृति-निर्मितां राग-द्वेष-मयीं पश्व्-आदि-साधारणीं प्रवृत्तिं विहाय शास्त्रोक्तेषु धर्मेषु वर्तितव्यम् इत्य् उक्तम् । धर्म-हृद्-विशुद्धौ तादृश-प्रवृत्तिर् निवर्तेन, धर्माश् च युद्धादिवद् अहिंसादयो ऽपि शास्त्रेणोक्ताः । तस्माद् राग-द्वेष-राहित्येन कर्तुम् अशक्याद् युद्धादेर् अहिंसा-शिलोञ्छ-वृत्ति-लक्षणो धर्म उत्तम इति चेत् तत्राह श्रेयान् इति ।

यस्य वर्णस्याश्रमस्य च यो धर्मो वेदेन विहितः, स च विगुणः किञ्चिद् अङ्ग-विकलो ऽपि स्वनुष्ठिता सर्वाङ्गोपसंहारेणाचरिताद् अपि पर-धर्मात् श्रेयान् । यथा ब्राह्मणस्याहिंसादिः स्व-धर्मः क्षत्रियस्य च युद्धादिः । न हि धर्मो वेदातिरिक्तेन प्रमाणेन गम्यते । चक्षुर् भिन्नेन्द्रियेणेव रूपम् । यथाह जैमिनिः - चोदना-लक्षणो धर्मः इति । तत्र हेतुः - स्वधर्मे निधनं मरणं श्रेयः प्रत्यवायाभावात् पर-जन्मनि धर्माचरण-सम्भवाच् चेष्ट-साधकम् इत्य् अर्थः । पर-धर्मस् तु भयावहो ऽनिष्ट-जनकः । तं प्रत्य् अविहितत्वेन प्रत्यवाय-सम्भवात् । न च परशुरामे विश्वामित्रे चव्यभिचारः । तयोस् तत्-तत्-कुलोत्पन्नाव् अपि तत् तच्-चोरु-महिम्ना तत्-कर्मोदयात् । तथापि विगानं कष्टं च तयोः स्मर्यते । अतएव द्रोणादेः क्षात्र-धर्मो ऽसकृद्
विगीतः ।

ननु दैवरात्यादेः क्षत्रियस्य पारिव्राज्यं श्रूयते ततः कथम् अहिंसादेः पर-धर्मत्वम् इति चेत् सत्यम्, पूर्व-पूर्वाश्रम-धर्मैः क्षीण-वासनया पारिव्राज्याधिकारे सति तं प्रत्य् अहिंसादेः स्व-धर्मत्वेन विहितत्वात् । अतएव स्व-धर्मे स्थितस्येति योज्यते ॥३५॥


३।३६

अर्जुन उवाच
अथ केन प्रयुक्तो ऽयं पापं चरति पूरुषः ।
अनिच्छन्न् अपि वार्ष्णेय बलाद् इव नियोजितः ॥३६॥

श्रीधरः : तयोर् न वशम् आगच्छेत् [गीता ३।३४] इत्य् उक्तम् । तद् एतद् अशक्यं मन्वानो ऽर्जुन उवाच अथेति । वृष्णेर् वंशे अवतीर्णो वार्ष्णेयः । हे वार्ष्णेय ! अनर्थ-रूपं पापं कर्तुम् इच्छन्न् अपि केन प्रयुक्तः प्रेरितो ऽयं पुरुषः पापं चरति ? काम-क्रोधौ विवेक-बलेन निरुद्धतो ऽपि पुरुषस्य पुनः पापे प्रवृत्ति-दर्शनात् । अन्यो ऽपि तयोर् मूलभूतः कश्चित् प्रवर्तको भवेद् इति सम्भावनया प्रश्नः ॥३६॥

मधुसूदनः : तत्र काम्य-प्रतिषिद्ध-कर्म-प्रवृत्ति-कारणम् अपनुद्य भगवन्-मतम् अनुवर्तितुं तत्-कारणावधारणाय अर्जुन उवाच अथेति । ध्यायतो विषयान् पुंसः इत्य् आदिना पूर्वम् अनर्थ-मूलम् उक्तम् । साम्प्रतं च प्रकृतेर् गुण-सम्मूढा इत्य् आदिना बहु-विस्तरं कथितम् । तत्र किं सर्वाण्य् अपि सम-प्राधान्येन कारणानि । अथवैकम् एव मुख्यं कारणम् इतराणि तु तत्-सहकारीणि केवलम् । तत्राद्ये सर्वेषां पृथक् पृथङ् निवारणे महान् प्रयासः स्यात् । अन्त्ये त्व् एकस्मिन्न् एव निराकृते कृत-कृत्यता स्याद् इत्य् अतो ब्रूहि मे केन हेतुना प्रयुक्तः प्रेरितो ऽयं त्वन्-मताननुवर्ती सर्व-ज्ञान-विमूढः पुरुषः पापम् अनर्थानुबन्धि सर्वं फलाभिसन्धि-पुरः-सरं काम्यं चित्रादि शत्रु-वध-साधनं च श्यनादि प्रतिषिद्धं च कलञ्ज-भक्षणादि
बहु-विधं कर्माचरति स्वयं कर्तुम् अनिच्छन्न् अपि न तु निवृत्ति-लक्षणं परम-पुरुषार्थानुबन्धि त्वद्-उपदिष्टं कर्मेच्छन्न् अपि करोति । न च पारतन्त्र्यं विनेत्थं सम्भवति । अतो येन बलाद् इव नियोजितो राज्ञेव भृत्यस् त्वन्-मत-विरुद्धं सर्वानर्थानुबन्धित्वं जानन्न् अपि तादृशं कर्माचरति तम् अनर्थ-मार्ग-प्रवर्तकं मां प्रति ब्रूहि ज्ञात्वा समुच्छेदायेत्य् अर्थः । हे वार्ष्णेय वृष्णि-वंशे मन्-मातामह-कुले कृपयावतीर्णेति सम्बोधनेन वार्ष्णेयी-सुतो ऽहं त्वया निपेक्षणीय इति सूचयति ॥३६॥

विश्वनाथः : यद् उक्तं राग-द्वेषौ व्यवस्थिताव् [गीता ३।३४] इत्य् अत्र शास्त्र-निषिद्धे ।पीन्द्रियार्थे पर-स्त्री-सम्भाषणादौ राग इत्य् अत्र पृच्छति अथेति । केन प्रयोजक-कर्त्रानिच्छन्न् अपि विधि-निषेध-शास्त्रार्थ-ज्ञानवत्त्वात् पापे प्रवर्तितुम् इच्छा-रहितो ऽपि बलाद् इवेति प्रयोजक-प्रेरण-वशात् प्रयोज्यस्यापीच्छा सम्यग् उत्पद्यते इति भावः ॥३६॥

बलदेवः : इन्द्रियस्य इत्य् आदौ शास्त्र-निषिद्धे ऽपि पर-दार-सम्भाषणादौ रागो व्यवस्थित इति यद् उक्तं तत्रार्जुनः पृच्छति अथ केनेति । हे वार्ष्णेय वृष्णि-वंशोद्भव ! शुभादिभ्यश् चेति प्रयुक्तः प्रेरितः पापं चरति निषेध-शास्त्रार्थ-ज्ञानात् तच्-चरितम् अनिच्छन्न् अपि बलाद् इवेति । प्रयोजकेच्छापन्नतया प्रयोज्ये ऽपीच्छा प्रजायते । स किम् ईश्वरः, पूर्व-संस्कारो वा ? तत्राद्यः साक्षित्वात् कारुणिकत्वाच् च न पापे प्रेरकः । न च परो जडत्वाद् इति प्रश्नार्थः ॥३६॥


३।३७

श्री-भगवान् उवाच
काम एष क्रोध एष रजो-गुण-समुद्भवः ।
महाशनो महा-पाप्मा विद्ध्य् एनम् इह वैरिणम् ॥३७॥

श्रीधरः : अत्रोत्तरं श्री-भगवान् उवाच काम एष क्रोध एष इति । यस् त्वया पृष्टो हेतुर् एव काम एव । ननु क्रोधो ऽपि पूर्वं त्वयोक्तम् इन्द्रियस्येन्द्रियस्यार्थ इत्य् अत्र । सत्यम् । नासौ ततः पृथक् । किन्तु क्रोधो ऽप्य् एषः । काम एव हि केनचित् प्रतिहतः क्रोधात्मना परिणमते । पूर्वं पृथक्त्वेनोक्तो ऽपि क्रोध-कामज एवेत्य् अभिप्रायेण एकीकृत्योच्यते । रजो-गुणात् समुद्भवतीति तथा । अनेन सत्त्व-वृद्ध्या रजसि क्षयं नीते सति कामो न जायत इति सूचितम् । एनं कामम् इह मोक्ष-मार्गे वैरिणं विद्धि । अयं च वक्ष्यमाण-क्रमेण हन्तव्य एव । यतो नासौ दानेन सन्धातुं शक्य इत्य् आह महाशनः । महद्-अशनं यस्य सः । दुष्पूर इत्य् अर्थः । न च साम्ना सन्धातुं शक्यः । यतो महा-पाप्मा ऽत्युग्रः ॥३७॥

मधुसूदनः : एवम् अर्जुनेन पृष्टे अथो खल्व् आहुः काम-मय एवायं पुरुष इति, आत्मैवेदम् अग्र आसीद् एक एव सो ऽकामयत जाया मे स्याद् अथ प्रजायेयाथ वित्तं मे स्याद् अथ कर्म कुर्वीय इत्य् आदि-श्रुति-सिद्धम् उत्तरम् श्री-भगवान् उवाच काम इति । यस् त्वया पृष्टो हेतुर् बलाद् अनर्थ-मार्गे प्रवर्तकः स एष काम एव महान् शत्रुः । यन्-निमित्ता सर्वानर्थ-प्राप्तिः प्राणिनाम् ।

ननु क्रोधो ऽप्य् अभिचारादौ प्रवर्तको दृष्ट इत्य् अत आह क्रोध एषः । काम एव केनचिद् धेतुना प्रतिहतः क्रोधत्वेन परिणमते ऽतः क्रोधो ऽप्य् एष काम एव । एतस्मिन्न् एव महा-वैरिणि निवारिते सर्व-पुरुषार्थ-प्राप्तिर् इत्य् अर्थः । तन्-निवारणोपाय-ज्ञानाय तत्-कारणम् आह रजो-गुण-समुद्भवः । दुःख-प्रवृत्ति-बलात्मको रजो-गुण एव समुद्भवः कारणं यस्य । अतः कारणानुविधायित्वात् कार्यस्य सो ऽपि तथा । यद्यपि तमो-गुणो ऽपि तस्य कारणं तथापि दुःखे प्रवृत्तौ च रजस एव प्राधान्यात् तस्यैव निर्देशः । एतेन सात्त्विक्या वृत्त्या रजसि क्षीणे सो ऽपि क्षीयत इत्य् उक्तम् ।

अथवा तस्य कथम् अनर्थ-मार्गे प्रवर्तकत्वम् इत्य् अत आह रजो-गुणस्य प्रवृत्त्यादि-लक्षणस्य समुद्भवो यस्मात् । कामो हि विषयाभिलाषात्मकः स्वयम् उद्भूतो रजः प्रवर्तयन् पुरुषं दुःखात्मके कर्मणि प्रवर्तयति । तेनायम् अवश्यं हन्तव्य इत्य् अभिप्रायः ।

ननु साम-दान-भेद-दण्डाश् चत्वार उपायास् तत्र प्रथम-त्रिकस्यासम्भवे चतुर्थो दण्डः प्रयोक्तव्यो न तु हठाद् एवेत्य् आशङ्क्य त्रयाणाम् असम्भवं वक्तुं विशिनष्टि महाशनो महा-पाप्मेति । महद् अशनम् अस्येति महाशनः ।

यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः ।
नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ॥ इति स्मृतेः ।

अतो न दानेन सन्धातुं शक्यः । नापि साम-भेदाभ्यां यतो महा-पाप्मात्युग्रः । तेन हि बलात् प्रेरितो ऽनिष्ट-फलम् अपि जानन् पापं करोति । अतो विद्धि जानीहि एनं कामम् इह संसारे वैरिणम् ।

तद् एतत् सर्वं विवृतं वार्तिक-कारैः आत्मैवेदम् अग्र आसीत् इति श्रुति-व्याख्याने -

 प्रवृत्तौ च निवृत्तौ च यथोक्तस्याधिकारिणः ।  

स्वातन्त्र्ये सति संसार-सृतौ कस्मात् प्रवर्तते ॥
न तु निःशेष-विध्वस्त-संसारानर्थ-वर्त्मनि ।
निवृत्ति-लक्षणे वाच्यं केनायं प्रेर्यते ऽवशः ॥
अनर्थ-परिपाकत्वम् अपि जानन् प्रवर्तते ।
पारतन्त्र्यम् ऋते दृष्टा प्रवृत्तिर् नेदृशी क्वचित् ॥
तस्माच् छ्रेयोर्थिनः पुंसः प्रेरको ऽनिष्ट-कर्मणि ।
वक्तव्यस् तन्-निरासार्थम् इत्य् अर्था स्यात् परा श्रुतिः ॥
अनाप्त-पुरुषार्थो ऽयं निःशेषानर्थ-सङ्कुलः ।
इत्य् अकामयतानाप्तान् पुमर्थान् साधनैर् जडः ॥
जिहासति तथानर्थान् अविद्वान् आत्मनि श्रितान् ।
अविद्योद्भूत-कामः सन्न् अथो खल्व् इति च श्रुतिः ॥
अकामतः क्रियाः काश्चिद् दृश्यन्ते नेह कस्यचित् ।
यद् यद् धि कुरुते जन्तुस् तत्-तत्-कामस्य चेष्टितम् ॥
काम एष क्रोध एष इत्य् आदि-वचनं स्मृतेः ।
प्रवर्तको नापरो ऽतः कामाद् अन्यः प्रतीयते ॥ इति ।

अकामत इति मनु-वचनम् । अन्यत् स्पष्टम् ॥३७॥

विश्वनाथः : एष काम एव विषयाभिलाषात्मकः पुरुषं पापे प्रवर्तयति तेनैव प्रयुक्तः पुरुषः पापं चरतीत्य् अर्थः । एष काम एव पृथक्त्वेन दृश्यमान एष प्रत्यक्षः क्रोधो भवति । काम एव केनचित् प्रतिहतो भूत्वा क्रोधाकारेण परिणमतीत्य् अर्थः । कामो रजो-गुण-समुद्भव इति राजसात् कामाद् एव तामसः क्रोधो जायते इत्य् अर्थः । कामस्य अपेक्षित-पूरणेन निवृत्तिः स्याद् इति चेन् नेत्य् आह महाशनो महद् अशनं यस्य सः ।

यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः ।
नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ॥ इति स्मृतेः ।

कामस्यापेक्षितं पूरयितुम् अशक्यम् एव । ननु दानेन सन्धातुम् अशक्यश् चेत् साम-भेदाभ्यां स स्व-वशीकर्तव्यः । तत्राह महा-पाप्मात्युग्रः ॥३७॥

बलदेवः : तत्राह भगवान् काम इति । कामः प्राक्तन-वासना-हेतुकः शब्दादि-विषयको ऽभिलाषः पुरुषं पापे प्रेरयति तद् अनिच्छुम् अपि सो ऽस्य प्रेरक इत्य् अर्थः । नन्व् अभिचारादौ क्रोधो ऽपि प्रेरको दृष्टः स चेन्द्रियस्येत्य् आदौभवतापि पृथग् उक्त इति चेत्, सत्यम् । न स तस्मात् पृथक्, किन्त्व् एष काम एव केनचिच् चेतनेन प्रतिहतः क्रोधो भवति । दुग्धम् इवाम्लेन युक्तं दधि । काम-जय एव क्रोध-जय इति भावः । कीदृशः काम इत्य् आह रजो-गुणेति । सत्त्व-वृद्ध्या रजसि निर्जिते कामो निर्जितः स्याद् इत्य् अर्थः । न चापेक्षित-प्रदानेन कामस्य निवृत्तिर् इत्य् आह महाशन इति ।

यत् पृथिव्यां व्रीहि-यवं हिरण्यं पशवः स्त्रियः ।
नालम् एकस्य तत् सर्वम् इति मत्वा शमं व्रजेत् ॥ इति स्मरणात् ।

न च साम्ना भेदेन वा स वशीभवेद् इत्य् आह महापाप्मेति । यो ऽत्युग्रो विवेक-ज्ञान-विलोपेन निषिद्धे ऽपि प्रवर्तयति तस्माद् इह दान-योगे एनं वैरिणं विद्धि तथा च ज्ञानादिभिस् त्रिभिर् उपायैः सन्धातुम् अशक्यत्वाद् वक्ष्यमाणेन दण्डेन स हन्तव्य इति भावः । ईश्वरः कर्मान्तरितः पर्जन्यवत् सर्वत्र प्रेरकः । कामस् तु स्वयम् एव पाप्माग्रे इति तथोक्तम् ॥३७॥


३।३८

धूमेनाव्रियते वह्निर् यथा-दर्शो मलेन च ।
यथोल्बेनावृतो गर्भस् तथा तेनेदम् आवृतम् ॥३८॥

श्रीधरः : कामस्य वैरित्वं दर्शयति धूमेनेति । धूमेन सहजेन यथा वह्निर् आव्रियत आच्छाद्यते । यथा चादर्शो मलेनागन्तुकेन । यथा चोल्बेन गर्भवेष्टन-चर्मणा गर्भः सर्वतो निरुद्ध आवृतः । तथाप्रकार-त्रयेणापि तेन कामेनावृतम् इदम् ॥३८॥

मधुसूदनः : तस्य महा-पाप्मत्वेन वैर्त्वम् एव दृष्टान्तैः स्पष्टयति धूमेनेति । तत्र शरीरारम्भात् प्राग्-अन्तः-करण-स्थालब्ध-वृत्तिकत्वात् सूक्ष्मः कामः शरीरारम्भकेण कर्मणा स्थूल-शरीरावच्छिन्ने लब्ध-वृत्तिके ऽन्तःकरणे कृताभिव्यक्तिः सन् स्थूलो भवति । स एव विषयस्य चिन्त्यमानतावस्थायां पुनः पुनर् उद्रिच्यमानः स्थूलतरो भवति । स एव पुनर् विषयस्य भुज्यमानतावस्थायाम् अत्यन्तोद्रेकं प्राप्तः स्थूलतमो भवति । तत्र प्रथमावस्थायां दृष्टान्तः – यथा धूमेन सहजेनाप्रकाशात्मकेन प्रकाशात्मको वह्निर् आव्रियते । द्वितीयावस्थायां दृष्टान्तः - यथादर्शो मलेनासहजेनादर्शोत्पत्त्य्-अनन्तरम् उद्रिक्तेन । च-कारो ऽवान्तर-वैधर्म्य-सूचनार्थ आव्रियत इति क्रियानुकर्षणार्थश् च । तृतीयावस्थायां
दृष्टान्तः - यथोल्बेन जरायुणा गर्भ-वेष्टन-चर्मणातिस्थूलेन सर्वतो निरुध्यावृतस् तथा प्रकार-त्रयेणापि तेन कामेनेदम् आवृतम् ।

अत्र धूमेनावृतो ऽपि वह्निर् दाहादि-लक्षणं स्व-कार्यं करोति । मलेनावृतस् त्व् आदर्शः प्रतिबिम्ब-ग्रहण-लक्षणं स्वकार्यं न करोति । स्वच्छता-धर्म-मात्र-तिरोधानात् स्वरूपतस् तूपलभ्यत एव । उल्बेनावृतस् तु गर्भो न हस्त-पादादि-प्रसारण-रूपं स्व-कार्यं करोति न वा स्वरूपत उपलभ्यत इति विशेषः ॥३८॥

विश्वनाथः : न च कस्यचिद् एवायं वैर्य् अपि तु सर्वस्यैवेति स-दृष्टान्तम् आह धूमेनेति । कामस्यागाढत्वे गाढत्वे ऽतिगाढत्वे च क्रमेण दृष्टान्ताः । धूमेनावृतो ऽपि मलिनो वह्निर् दाहादि-लक्षणं स्व-कार्यं तु करोति । मलेनावृतो दर्पणं तु स्वच्छता-धर्म-तिरोधानाद् बिम्ब-ग्रहणं स्व-कार्यं न करोति स्वरूपतस् तूपलभ्यते । उल्बेन जरायूणावृतो गर्भस् तु स्व-कार्यं कर-चरणादि-प्रसारणं न करोति, न वा स्वरूपत उपलभ्यत इति । एवं कामस्यागाढत्वे परमार्थ-स्मरणं कर्तुं शक्नोति । गाढत्वे न शक्नोतीति गाढत्वे त्व् अचेतनम् एव स्याद् इदं जगद् एव ॥३८॥

बलदेवः : मृदु-मध्य-तीव्र-भावेन त्रिविधस्य कामस्य धूम-मलोल्बनेति क्रमेण दृष्टान्तान् आह धूमेनेत् । यथा धूमेनावृतो ऽनुज्ज्वलो ऽपि वह्निर् औष्णादिकं किञ्चित् करोति मलेनावृतो दर्पणः स्वच्छता-तिरोधानात् प्रतिबिम्बं न शक्नोति ग्रहीतुम् उल्बेन जरा-गुणावृतो गर्भस् तु पादादि-प्रसारर्ं न शक्नोति कर्तुं न चोपलभ्यते । तथा मृदुना कामेनावृतं ज्ञानं कथञ्चित् तत्त्वार्थं ग्रहीतुं शक्नोति मध्येनावृतं न शक्नोति । तीव्रेणावृतं तु प्रसर्तुम् अपि न शक्नोति, न च प्रतीयत इत्य् अर्थः ॥३८॥


३।३९

आवृतं ज्ञानम् एतेन ज्ञानिनो नित्य-वैरिणा ।
काम-रूपेण कौन्तेय दुष्पूरेणानलेन च ॥३९॥

श्रीधरः : इदं शब्द-निर्दिष्टं दर्शयन् वैरित्वं स्फुटयति आवृतम् इति । इदं विवेक-ज्ञानम् एतेन आवृतम् । अज्ञस्य खलु भोग-समये कामः सुख-हेतुर् एव । परिणामे तु वैरित्वं प्रतिपद्यते । ज्ञानिनः पुनस् तत्-कालम् अप्य् अनर्थानुसन्धानाद् दुःख-हेतुर् एवेति नित्ग्य-वैरिणेत्य् उक्तम् । किं च विषयैः पूर्यमाणो ऽपि यो दुष्पूरः । आपूर्यमाणं तु शोक-सन्ताप-हेतुत्वाद् अनल-तुल्यः । अनेन सर्वान् प्रति नित्य-वैरित्वम् उक्तम् ॥३९॥

मधुसूदनः : तथा तेनेदम् आवृतम् इति सङ्ग्रह-वाक्यं विवृणोत्य् आवृतम् इति । ज्ञायते ऽनेनेति ज्ञानम् अन्तःकरणं विवेक-विज्ञानं वेद-शब्द-निर्दिष्टम् एतेन कामेनावृतम् । तथाप्य् आपाततः सुख-हेतुत्वाद् उपादेयः स्याद् इत्य् अत आह ज्ञानिनो नित्य-वैरिणा । अज्ञो हि विषय-भोग-काले कामं मित्रम् इव पश्यंस् तत्-कार्ये दुःखे प्राप्ते वैरित्वं जानाति कामेनाहं दुःखित्वम् आपादित इति । ज्ञानी तु भोग-काले ऽपि जानात्य् अनेनाहम् अनर्थे प्रवेशित इति । अतो विवेकी दुःखी भवति भोग-काले च तत्-परिणामे चानेनेति ज्ञानिनो ऽसौ नित्य-वैरीति सर्वथा तेन हन्तव्य एवेत्य् अर्थः ।

तर्हि किं स्वरूओ ऽसाव् इत्य् अत आह काम-रूपेण । काम इच्छा तृष्णा सैव रूपं यस्य तेन । हे कौन्तेयेति सम्बन्धाविष्कारेण प्रेमाणं सूचयति । ननु विवेकिनो हन्तव्यो ऽप्य् अविवेकिन उपादेयः स्याद् इत्य् अत आह दुष्पूरेणानलेन च । च-कार उपमार्थः । न विद्यते ऽलं पर्याप्तिर् यस्येत्य् अनलो वह्निः । स यथा हविषा पूरयितुम् अशक्यस् तथायम् अपि भोगेनेत्य् अर्थः । अतो निरन्तरं सन्ताप-हेतुत्वाद् विवेकिन इवाविवेकिनो ऽपि हेय एवासौ । तथा च स्मृतिः -

न जातु कामः कामानाम् उपभोगेन शांयति ।
हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते ॥ [भ्प् ९।१९।१४] इति ।

अथवेच्छाया विषय-सिद्धि-निवर्त्यत्वाद् इच्छा-रूपः कामो विषय-भोगेन स्वयम् एव निवर्तिष्यते किं तत्राति-निर्बन्धेनेत्य् अत उक्तं दुष्पूरेणानलेन चेति । विषय-सिद्ध्या तत्-कालम् इच्छातिरोधाने ऽपि पुनः प्रादुर्भावान् न विषय-सिद्धिर् इच्छा-निवर्तिका । किन्तु विषय-दोष-दृष्टिर् एवतथेति भावः ॥३९॥

विश्वनाथः : काम एव हि जीवस्याविद्येत्य् आह आवृतम् इति । नित्य-वैरिण्य् अतो ऽसौ सर्व-प्रकारेण हन्तव्य इति भावः । काम-रूपेण कामाकारेणाज्ञानेनेत्य् अर्थः । च-कार इवार्थे । अनलो यथा हविषा पूरयितुम् अचक्यस् तथा कामो ऽपि भोगेनेत्य् अर्थः । यद् उक्तम् -

न जातु कामः कामानाम् उपभोगेन शांयति ।
हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते ॥ [भ्प् ९।१९।१४] इति ॥३९॥

बलदेवः : उक्तम् अर्थं स्फुटयति आवृतम् इति । अनेन काम-रूपेण नित्य-वैरिणा ज्ञानिनो जीवस्य ज्ञानम् आवृतम् इति सम्बन्धः । अज्ञस्य विषय-भोग-समये सुखत्वात् सुहृद् अपि कामस् तत्-कार्ये दुःखे सति वैर्ः स्याद् विज्ञस्य तु तत्-समये ऽपि दुःखानुसन्धानाद् दुःख-हेतुर् एवेति नित्य-वैरिणेत्य् उक्तिः । तस्मात् सर्वथा हन्तव्य इति भावः । किं च दुष्पूरेणेति । च-शब्द इवार्थः । तत्रानलो यथा हविषा पूरयितुम् अशक्यस् तथा भोगेन काम इत्य् अर्थः । स्मृतिश् चैवम् आह-

न जातु कामः कामानाम् उपभोगेन शांयति ।
हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते ॥ [भ्प् ९।१९।१४] इति ।

तस्मात् सर्वेषां स नित्य-वैरीति ॥३९॥


३।४०

इन्द्रियाणि मनो बुद्धिर् अस्याधिष्ठानम् उच्यते ।
एतैर् विमोहयत्य् एष ज्ञानम् आवृत्य देहिनम् ॥४०॥
श्रीधरः : इदानीं तस्याधिष्ठानं कथयन् जयोपायम् आह इन्द्रियाणीति द्वाभ्याम् । विषय-दर्शन-श्रवणादिभिः सङ्कल्पेनाध्यवसायेन च कामस्य आविर्भावाद् इन्द्रियाणि च मनश् च बुद्धिश् चास्याधिष्ठानम् उच्यते । एतैर् इन्द्रियादिभिर् दर्शनादि-व्यापारवद्भिर् आश्रय-भूतैर् विवेक-ज्ञानम् आवृत्य देहिनं विमोहयति ॥४०॥

मधुसूदनः : ज्ञाते हि शत्रोर् अधिष्ठाने सुखेन स जेतुं शक्यत इति तद्-अधिष्ठानम् आह इन्द्रियाणीति । इन्द्रियाणि शब्द-स्पर्श-रूप-रस-गन्ध-ग्राहकाणि श्रोत्रादीनि वचनादान-गमन-विसर्गानन्द-जनकानि वाग्-आदीनि च । मनः सङ्कल्पात्मकं बुद्धिर् अध्यवसायात्मिका च । अस्य कामस्याधिष्ठानम् आश्रय उच्यते । यत एतैर् इन्द्रियादिभिः स्व-स्व-व्यापारवद्भिर् आश्रयैर् विमोहयति विविधं मोहयति एष कामो ज्ञानम् विवेक-ज्ञानम् आवृत्याच्छाद्य देहिनं देहाभिमानिनम् ॥४०॥

विश्वनाथः : क्वासौ तिष्ठत्य् अत आह इन्द्रियाणीति । अस्य वैरिणः कामस्याधिष्ठानं महा-दुर्ग-राजधान्यः । शब्दादयो विषयास् तु तस्य राज्ञो देशा इति भावः । एतैर् इन्द्रियादिभिर् देहिनं जीवम् ॥४०॥

बलदेवः : वैरिणः कामस्य दुर्गेषु निर्जितेषु तस्य जयः सुकर इति तान्य् आह इन्द्रियाणीति । विषय-श्रवणादिना सङ्कल्पेनाध्यवसायेन च कामस्याभिव्यक्तेः श्रोत्रादीनि च मनश् च बुद्धिश् च तस्याधिष्ठानं महा-दुर्ग-राजधानी-रूपं भवति विषयास् तु तस्य तस्य जनपदा बोध्याः । एतैर् विषय-सञ्चारिभिर् इन्द्रियादिभिर् देहिनं प्रकृति-सृष्ट-देहवन्तं जीवम् आत्म-ज्ञानोद्यतम् एष कामो विमोहयति आत्म-ज्ञान-विमुखं विषय-रस-प्रवणं च करोतीत्य् अर्थः ॥४०॥


३।४१

तस्मात् त्वम् इन्द्रियाण्य् आदौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहिह्य् एनं ज्ञान-विज्ञान-नाशनम् ॥४१॥

श्रीधरः : यस्माद् एवं तस्माद् इति । तस्माद् आदौ विमोहात् पूर्वम् एवेन्द्रियाणि मनो बुद्धिं च नियम्य पाप्मानं पाप-रूपम् एनं कामं हि स्फुटं प्रजहि घातय । यद् वा प्रजहिहि परित्यज । ज्ञानम् आत्म-विषयं । विज्ञानं निदिध्यासनजम् । तम् एव धीरो विज्ञाय प्रज्ञां कुर्वीत इति श्रुतेः ॥४१॥

मधुसूदनः : यस्माद् एवम् । यस्माद् इन्द्रियाधिष्ठानः कामो देहिनं मोहयति तस्मात् त्वम् आदौ मोहनात् पूर्वं काम-निरोधात् पूर्वम् इति वा । इन्द्रियाणि श्रोत्रादीनि नियम्य वशीकृत्य । तेषु हि वशीकृतेषु मनो-बुद्ध्योर् अपि वशीकरणं सिध्यति सङ्कल्पाध्यवसाययोर् बाह्येन्द्रिय-प्रवृत्ति-द्वारैवानर्थ-हेतुत्वात् । अत इन्द्रियाणि मनो बुद्धिर् इति पूर्वं पृथङ्-निर्दिश्यापीहेन्द्रियाणीत्य् एतावद् उक्तम् । इन्द्रियत्वेन तयोर् अपि सङ्ग्रहो वा । हे भरतर्षभ महा-वंश-प्रभूतत्वेन समर्थो ऽसि । पाप्मानं सर्व-पाप-मूल-भूतम् एनं कामं वैरिणं प्रजहिहि परित्यज हि स्फुटं प्रजहि प्रकर्षेण मारयेति वा । जहि शत्रुम् इत्य् उपसंहाराच् च । ज्ञानं शास्त्राचार्योपदेश-जं परोक्षं विज्ञानम् अपरोक्षं तत्-फलं तयोर् ज्ञान-विज्ञानयोः श्रेयः-प्राप्ति-हेत्वोर्
नाशनम् ॥४१॥

विश्वनाथः : वैरिणः खल्व् आश्रये जिते सति वैरी जीयत इति नीतिर् अतः कामस्याश्रयेष्व् इन्द्रियादिषु यथोत्तरं दुर्जयत्वाधिक्यम् । अतः प्रथम-प्राप्तानीन्द्रियाणि दुर्जयान्य् अप्य् उत्तरापेक्षया सुजयानि । प्रथमं ते जीयन्ताम् इत्य् आह तस्माद् इति । इन्द्रियाणि नियम्येन यद्यपि पर-स्त्री-पर-द्रव्याद्य्-अपहरणे दुर्निवारं मनो गच्छत्य् एव । तद् अपि तत्र तत्र नेत्र-श्रोत्र-कर-चरणादीन्द्रिय-व्यापार-स्थ-गणनाद् इन्द्रियाणि न गमयेत्य् अर्थः । पाप्मानम् अत्युग्रं कामं जहीतीन्द्रिय-व्यापारस्थ-गणनम् अतिकालेन मनो ऽपि कामाद् विच्युतं भवतीति भावः ॥४१॥

बलदेवः : यस्माद् अयं काम-रूपो वैरी निखिलेन्द्रिय-व्यापार-विरति-रूपायात्म-ज्ञानायोद्यतस्य विषय-रस-प्रवणैर् इन्द्रियैर् ज्ञानम् आवृणोति तस्मात् प्रकृति-सृष्ट-देहादिमांस् त्वम् आदाव् आत्म-ज्ञानोदयायारम्भ-काल एवेन्द्रियाणि सर्वाणि तद्-व्यापार-रूपे निष्कामे कर्म-योगे नियम्य प्रवणानि कृत्वा एनं पाप्मानं कामं शत्रुं प्रजहि विनाशय । हि यस्माज् ज्ञानस्य शास्त्रीयस्य देहादि-विविक्तात्म-विषयकस्य विज्ञानस्य च तादृग्-आत्मानुभवस्य नाशनम् आवरकम् ॥४१॥


३।४२

इन्द्रियाणि पराण्य् आहुर् इन्द्रियेभ्यः परं मनः ।
मनसस् तु परा बुद्धिर् यो बुद्धेः परतस् तु सः ॥४२॥

श्रीधरः : यत्र चित्त-प्रणिधानेन इन्द्रियाणि नियन्तुं शक्यन्ते, तद् आत्म-स्वरूपं देहादिभ्यो विविच्य दर्शयति इन्द्रियाणीति । इन्द्रियाणि देहादिभ्यो ग्राह्येभ्यः पराणि श्रेष्ठान्य् आहुः सूक्ष्मत्वात् प्रकाशकत्वाच् च । अतएव तद्-व्यतिरिक्तत्वम् अप्य् अर्थाद् उक्तं भवति । इन्द्रियेभ्यश् च सङ्कल्पात्मकं मनः परम् तत्-प्रवर्तकत्वात् । मनसस् तु निश्चयात्मिका बुद्धिः परा । निश्चय-पूर्वकत्वात् सङ्कल्पस्य । यस् तु बुद्धेः परतस् तत्-साक्षित्वेनावस्थितः सर्वान्तरः स आत्मा । तं विमोहयति देहिनम् इति देहि-शब्दोक्त आत्मा स इति परामृश्यते ॥४२॥

मधुसूदनः : ननु यथा कथञ्चिद् बाह्येन्द्रिय-नियम-सम्भवे ऽप्य् आन्तर-तृष्णा-त्यागो ऽतिदुष्कर इति चेन्, न । रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते [गीता २।५९] इत्य् अत्र पर-दर्शनस्य रसाभिधानीयक-तृष्णा-त्याग-साधनस्य प्राग्-उक्तेः । तर्हि को ऽसौ परो यद्-दर्शनात् तृष्णा-निवृत्तिर् इत्य् आशङ्क्य शुद्धम् आत्मानं पर-शब्द-वाच्यं देहादिभ्यो विविच्य दर्शयति इन्द्रियाणीति । श्रोत्रादीनि ज्ञानेन्द्रियाणि पञ्च स्थूलं जडं परिच्छिन्नं बाह्यं च देहम् अपेक्ष्य पराणि सूक्ष्मत्वात् प्रकाशकत्वाद् व्यापकत्वाद् अन्तःस्थत्वाच् च प्रकृष्टान्य् आहुः पण्डिताः श्रुतयो वा । तथेन्द्रियेभ्यः परं मनः सङ्कल्प-विकल्पात्मकं तत्-प्रवर्तकत्वात् । तथा मनसस् तु परा बुद्धिर् अध्यवसायात्मिका । अध्यवसायो हि निश्चयस् तत्-पूर्वक एव सङ्कल्पादिर् मनो-धर्मः
। यस् तु बुद्धेः परतस् तद्-भासकत्वेनावस्थितो यं देहिनम् इन्द्रियादिभिर् आश्रयैर् युक्तः कामो ज्ञानावरण-द्वारेण मोहयतीत्य् उक्तं स बुद्धेर् द्रष्टा पर आत्मा । स एष इह प्रविष्टः इतिवद् द्व्यवहितस्यापि देहिनस् तदा परामर्शः । अत्रार्थे श्रुतिः -

इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥
महतः परम-व्यक्तम् अव्यक्तात् पुरुषः परः ।
पुरुषान् न परं किञ्चित् सा काष्ठा सा परा गतिः ॥ [कठु १।३।१०-११] इति ।

अत्रात्मनः परत्वस्यैव वाक्य-तात्पर्य-विषयत्वाद् इन्द्रियादि-परत्वस्याविवक्षितत्वाद् इन्द्रियेभ्यः परा अर्था इति स्थाने ऽर्थेभ्यः पराणीन्द्रियाणीति विवक्षाभेदेन भगवद्-उक्तं न विरुध्यते । बुद्धेर् अस्मद्-आदि-व्यष्टि-बुद्धेः सकाशान् महान् आत्मा समष्टि-बुद्धि-रूपः परः मनो महान् मतिर् ब्रह्म पूर् बुद्धिः ख्यातिर् ईश्वरः इति वायु-पुराण-वचनात् । महतो हैरण्यगर्भ्या बुद्धेः परम् अव्यक्तम् अव्याकृतं सर्व-जगद्-बीजं मायाख्यं मायां तु प्रकृतिं विद्याद् इति श्रुतेः । तद् धेदं तर्ह्य् अव्याकृतम् आसीत् इति च । अव्यक्तात् सकाशात् सकल-जड-वर्ग-प्रकाशकः पुरुषः पूर्ण आत्मा परः । तस्माद् अपि कश्चिद् अन्यः परः स्याद् इत्य् अत आह पुरुषान् न परं किञ्चिद् इति । कुत एवं यस्मात् सा काष्ठा समाप्तिः सर्वाधिष्ठानत्वात्
। सा परा गतिः । सो ऽध्वनः पारम् आप्नोति तद् विष्णोः परमं पदम् इत्य् आदि-श्रुति-प्रसिद्धा परा गतिर् अपि सैवेत्य् अर्थः । तद् एतत् सर्वं यो बुद्धेः परतस् तु स इत्य् अनेनोक्तम् ॥४२॥

विश्वनाथः : न च प्रथमम् एव मनो-बुद्धि-जये यतनीयम् अशक्यत्वाद् इत्य् आह इन्द्रियाणि पराणीति । दश-दिग्-विजयिभिर् अपि वीरैर् दुर्जयत्वाद् अतिबलत्वेन श्रेष्ठानीत्य् अर्थः । इन्द्रियेभ्यः सकाशाद् अपि प्रबलत्वान् मनः परं । स्वप्ने खल्व् इन्द्रियेष्व् अपि नष्टेष्व् अनश्वरत्वाद् इति भावः । मनसः सकाशाद् अपि परा प्रबला बुद्धिर् विज्ञान-रूपा । सुषुप्तौ मनस्य् अपि नष्टे तस्याः सामान्याकाराया अनश्वरात्वाद् इति भावः । तस्य बुद्धेः सकाशाद् अपि परतो बलाधिक्येन यो वर्तते, तwस्याम् अपि ज्ञानाभ्यासेन नष्टायां सत्यां यो विराजत इत्य् अर्थः । स तु प्रसिद्धो जीवात्मा कामस्य जेता । तेन वस्तुतः सर्वतो ऽप्य् अतिप्रबलेन जीवात्मना इन्द्रियादीन् विजित्य कामो विजेतुं शक्य एवेति नात्रासम्भावना कार्येति भावः ॥४२॥

बलदेवः : ननु मुद्रित-यन्त्राम्बु-न्यायेन निष्काम-कर्म-प्रवणतयेन्द्रिय-नियमने काम-क्षतिर् इति त्वया प्रदर्शितम् । अथ दैहिक-कर्म-काले मुक्त-यन्त्राम्बु-न्यायेनेन्द्रिय-वृत्ति-प्रसारे कामस्य पुनर् उज्जीवतापत्तिः स्याद् इति तत्र रसो ऽप्य् अस्य परं दृष्ट्वा [गीता २।५९] इति पूर्वोपदिष्टेन विविक्तात्मानुभवेन निःशेषा तस्य क्षतिः स्याद् इति दर्शयति इन्द्रियाणीति द्वाभ्याम् ।

पाञ्चभौतिकाद् देहाद् इन्द्रियाणि पराण्य् आहुर् पण्डिताः । तच् चालीकत्वात् ततो ऽतिसूक्ष्मत्वात् तद्-विनाशे ऽविनाशाच् च । इन्द्रियेभ्यः मनः परं जागरे तेषां प्रवर्तकत्वात् स्वप्ने तेषु स्वस्मिन् विलीनेषु राज्य-कर्तृत्वेन स्थितत्वाच् च । मनसस् तु बुद्धिः परा, निश्चयात्मक-बुद्धि-वृत्त्यैव सङ्कल्पात्मक-मनो-वृत्तेः प्रसरात् । यस् तु बुद्धेर् अपि परतो ऽस्ति, स देही जीवात्मा चित्-स्वरूपो देहादि-बुद्ध्य्-अन्तर्-विविक्तयानुभूतः सन् निःशेष-काम-क्षति-हेतुर् भवतीति । कठाश् चैवं पठन्ति -

 इन्द्रियेभ्यः परा ह्य् अर्था अर्थेभ्यश् च परं मनः ।  
 मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ॥ इत्य् आदि ।  

अस्यार्थः - इन्द्रियेभ्यो ऽर्था विषयास् तद्-आकर्सिक्तत्वात् पराः प्रधान-भूताः । विषयेन्द्रिय-व्यवहारस्य मनो-मूलत्वाद् अर्थेभ्यो मनः परं विषय-भोगस्य निश्चय-पूर्वकत्वात् संशयात्मकान् मनसो मनः परं विषय-भोगस्य निश्चय-पूर्वकत्वात् संशयात्मकान् मनसो निश्चयात्मिका बुद्धिः परा बुद्धेर् भोगोपकरणत्वात् तस्याः सकाशाद् भोक्तात्मा जीवः परः स चात्मा महान् देहेन्द्रियान्तःकरण-स्वामीति दैहिकं कर्म तु पूर्वाभ्यास-वशाच् चक्र-भ्रमित्वत् सेत्स्यति ॥४२॥


३।४३

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम् आत्मना ।
जहि शत्रुं महा-बाहो काम-रूपं दुरासदम् ॥४३॥

श्रीधरः : उपसंहरति एवम् इति । बुद्धेर् एव विषयेन्द्रियादि-जन्याः कामादि-विक्रियाः । आत्मा तु निर्विकारस् तत्-साक्षीत्य् एवं बुद्धेः परमात्मानं बुद्ध्वात्मनैवं तृतया निश्चियात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य निश्चलं कृत्वा काम-रूपिणं शत्रुं जहि मारय । दुरासदं दुःखेनासादनीयं दुर्विज्ञेयम् इत्य् अर्थः ॥४३॥

स्व-धर्मेण यम् आराध्य भक्त्या मुक्तिम् इता बुधाः ।
तत् कृष्णं परमानन्दं तोषयेत् सर्व-कर्मभिः ॥

इति श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
कर्म-योगो नाम तृतीयो ऽध्यायः ॥३॥

मधुसूदनः : फलितम् आह एवम् इति । रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते इत्य् अत्र यः पर-शब्देनोक्तस् तम् एवम्भूतं पूर्णम् आत्मानं बुद्धेः परं बुद्ध्वा साक्षात्कृत्य संस्तभ्य स्थिरीत्कृत्यात्मानं मन आत्मनैतादृश-निश्चयात्ङ्किअया बुद्ध्या जहि मारय शत्रुं सर्व-पुरुषार्थ-शातनं हे महाबाहो महा-बाहोर् हि शत्रु-मारणं सुकरम् इति योग्यं सम्बोधनम् । काम-रूपं तृष्णा-रूपं दुरासदं दुःखेनासादनीयं दुर्विज्ञेयानेक-विशेषम् इति यत्नाधिक्याय विशेषणम् ॥४३॥

इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् कर्म-योगो नाम
तृतीयो ऽध्यायः ॥३॥

विश्वनाथः : उपसंहरति एवम् इति । बुद्धेः परं जीवात्मानं बुद्ध्वा सर्वोपाधिभ्यः पृथक्-भूतं ज्ञात्वा आत्मना स्वेनैवामानं स्वं संस्तभ्य निश्चलं कृत्वा दुरासदं दुर्जयम् अपि कामं जहि नाशय ॥४३॥

अध्याये ऽस्मिन् साधनस्य निष्कामस्यैव कर्मणः ।
प्राधान्यम् ऊचे तत्-साध्य-ज्ञानस्य गुणतां वदन् ॥
इति सारार्थ-दर्शिन्यां हर्षिण्यां भक्त-चेतसाम् ।
तृतीयः खलु गीतासु सङ्गतः सङ्गतः सताम् ॥

॥३॥

बलदेवः : एवम् इति । एवं मद्-उपदेश-विधया बुद्धेश् च परं देहादि-निखिल-जड-वर्ग-प्रवर्तकत्वाद् विविक्तं सुख-चिद्-घनं जीवात्मानं बुद्ध्वानुभूयेत्य् अर्थः । आत्मना ईदृश-निश्चयात्मिकया बुद्ध्यात्मानं मनः संस्तभ्य तादृश्य् आत्मनि स्थिरं कृत्वा काम-रूपं शत्रुं जहि नाशय । दुरासदं दुर्धर्षम् अपि । महा-बाहो इति प्राग्वत् ॥४३॥

निष्कामं कर्म मुख्यं स्याद् गौणं ज्ञानं तद्-उद्भवम् ।
जीवात्म-दृष्टाव् इत्य् एष तृतीयो ऽध्याय-निर्णयः ॥

इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये तृतीयो ऽध्यायः
॥३॥

तृतीयो ऽध्यायः कर्म-योगः