02

२।१

सञ्जय उवाच
तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तम् इदं वाक्यम् उवाच मधुसूदनः ॥१॥

श्रीधरः : द्वितीये शोक-सन्तप्तम् अर्जुनं ब्रह्म-विद्यया । प्रतिबोध्य हरिश् चक्रे स्थित-प्रज्ञस्य लक्षणम् । ततः किं वृत्तम् इत्य् अपेक्षायां सञ्जय उवाच - तं तथेत्य् आदि । अश्रुभिः पूर्णे आकुले ईक्षणे यस्य तं तथा, उक्त-प्रकारेण विसम् अर्जुनं प्रति मधुसूदन इदं वाक्यम् उवाच ॥१॥

मधुसूदनः : अहिंसा परमो धर्मो भिक्षाशनं चेत्य् एवं-लक्षणया बुद्ध्या युद्ध-वैमुख्यम् अर्जुनस्य श्रुत्वा स्वपुत्राणां राज्यम् अप्रचलितम् अवधार्य स्वस्थ-हृदयस्य धृतराष्ट्रस्य हर्ष-निमित्तां ततः किं वृत्तम् इत्य् आकाङ्क्षाम् अपनिनीषुः सञ्जयस् तं प्रत्युक्तवान् इत्य् आह वैशम्पायनः ।

कृपा ममैत इति व्यामोह-निमित्तः स्नेह-विशेषः । तयाविष्टं स्वभाव-सिद्ध्या व्याप्तम् । अर्जुनस्य कर्मत्वं कृपायाश् च कर्तृत्वं वदता तस्या आगन्तुकत्वं व्युदस्तम् । अतएव विषीदन्तं स्नेह-विषयी-भूत-स्वजन-विच्छेदाशङ्का-निमित्तः शोकापर-पर्यायश् चित्त-व्याकुली-भावो विषादस् तं प्राप्नुवन्तम् । अत्र विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन च तस्यागन्तुकत्वं सूचितम् ।

अतएव कृपा-विषाद-वशाद् अश्रुभिः पूर्णे आकुले दर्शनाक्षमे चेक्षणे यस्य तम् । एवम् अश्रु-पात-व्याकुली-भावाख्य-कार्य-द्वय-जनकतया परिपोषं गताभ्यां कृपा-विषादाभ्याम् उद्विग्नं तम् अर्जुनम् इदं सोपपत्तिकं वक्ष्यमाणं वाक्यम् उवाच न तूपेक्षितवान् । मधुसूदन इति । स्वयं दुष्ट-निग्रह-कर्तार्जुनं प्रत्य् अपि तथैव वक्ष्यतीति भावः ॥१॥

विश्वनाथः :
आत्मानात्म-विवेकेन शोक-मोह-तमो नुदन् ।
द्वितीये कृष्ण-चन्द्रो ऽत्र प्रोचे मुक्तस्य लक्षणम् ॥१॥

बलदेवः :
द्वितीये जीव-याथात्म्य-ज्ञानं तत्-साधनं हरिः ।
निष्काम-कर्म च प्रोचे स्थित-प्रज्ञस्य लक्षणम् ॥

एवम् अर्जुन-वैराग्यम् उपश्रुत्य स्व-पुत्र-राज्याभ्रंशाशया हृष्यन्तं धृतराष्ट्रम् आलक्ष्य सञ्जय उवाच तं तथेति । मधुसूदन इति तस्य शोकम् अपि मधुवन् निहनिष्यतीति भावः ॥१॥


२।२

श्री-भगवान् उवाच
कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् ।
अनार्य-जुष्टम् अस्वर्ग्यम् अकीर्ति-करम् अर्जुन ॥२॥

श्रीधरः : तद् एव वाक्यम् आह श्री-भगवान् उवाच कुत इति । कुतो हेतोस् त्वा त्वां विषमे सङ्कटे इदं कुशलं समुपस्थितम् अयं मोहः प्राप्तः, यत आर्यैर् असेवितम् । अस्वर्ग्यम् अधर्म्यम् अयशस्करं च ॥२॥

मधुसूदनः : तद् एव भगवतो वाक्यम् अवतारयति कुतस् त्वेति ।

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [विप् ६।७४]

समगस्येति प्रत्येकं सम्बन्धः । मोक्षस्येति तत्-साधनस्य ज्ञानस्य । इङ्गना सञ्ज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यम् अप्रतिबन्धेन यत्र वर्तते स भगवान् । नित्य-योगे मतुप् । तथा-

उत्पत्तिं च विनाशं च भूतानाम् आगतिं गतिम् ।
वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥ [विप् ६।७८]

अत्र भूतानाम् इति प्रत्येकं सम्बध्यते । उत्पत्ति-विनाश-शब्दौ तत्-कारणस्याप्य् उपलक्षकौ । आगति-गती आगमिन्यौ सम्पदापदौ । एतादृशो भगवच्-छब्दार्थः श्री-वासुदेव एव पर्यवसित इति तथोच्यते ।

इदं स्वधर्मात् पराङ्मुखत्वं कृपा-व्यामोहाश्रु-पातादि-पुरः-सरं कश्मलं शिष्ट-गर्हितत्वेन मलिनं विषमे स-भये स्थाने त्वा त्वां सर्व-क्षत्रिय-प्रवरं कुतो हेतोः समुपस्थितं प्राप्तम् ? किं मोक्षेच्छातः ? किं वा स्वर्गेच्छातः ? इति किं-शब्देनाक्षिप्यते । हेतु-त्रयम् अपि निषेधति त्रिभिर् विशेसणैर् उत्तरार्धेन । आर्यैर् मुमुक्षुभिर् न जुष्टम् असेवितम् । स्व-धर्मैर् आशय-शुद्धि-द्वारा मोक्स् इच्छद्भिर् अपक्व-कषायैर् मुमुक्षुभिः कथं स्व-धर्मस् त्याज्य इत्य् अर्थः । सन्न्यासाधिकारी तु पक्व-कषायो ऽग्रे वक्ष्यते । अस्वर्ग्यं स्वर्ग-हेतु-धर्म-विरोधित्वान् न स्वर्गेच्छया सेव्यम् । अकीर्तिकरं कीर्त्य्-अभाव-करम् अपकीर्तिकरं वा न कीर्तीच्छया सेव्यम् । तथा च मोक्ष-कामैः स्वर्ग-कामैः कीर्ति-कामैश् च वर्जनीयम् । तत् काम एव त्वं
सेवस्व इत्य् अहो अनुचितं चेष्टितं तवेति भावः ॥२॥

विश्वनाथः : कश्मलं मोहः । विषमे ऽत्र सङ्ग्राम-सङ्कटे । कुतो हेतोः । उपस्थितं त्वां प्राप्तम् अभूत् । अनार्य-जुष्टं सुप्रतिष्ठित-लोकैर् असेवितम् । अस्वर्ग्यम् अकीर्तिकरम् इति पारत्रिकैहिक-सुख-प्रतिकूलम् इत्य् अर्थः ॥२॥

बलदेवः : तद् वाक्यम् अनुवदति श्री-भगवान् इति ।

ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः ।
वैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना ॥ [विप् ६।७४]

इति पराशरोक्तैश्वर्यादिभिः षड्भिर् नित्यं विशिष्टः । समग्रस्येत्य् एतत् षट्सु योज्यम् । हे अर्जुन ! इदं स्व-धर्म-वैमुख्यं कश्मलं शिष्ट-निन्द्यत्वान् मलिनं कुतो हेतोस् त्वां क्षत्रिय-चूडामणिं समुपस्थितम् अभूत् ? विषमे युद्ध-समये । न च मोक्षाय स्वर्गाय कीर्तये वैतद्-युद्ध-वैराग्यम् इत्य् आह अनार्येति । आर्यैर् मुमुक्षुभिर् न जुष्टम् सेवितम् । आर्याः खलु हृद्-विशुद्धये स्वधर्मान् आचरन्ति । अस्वर्ग्यं स्वर्गोपलम्भक-धर्म-विरुद्धम् । अकीर्ति-करं कीर्ति-विप्लावकम् ॥२॥


२।३

क्लैब्यं मा स्म गमः पार्थ नैतत् त्वय्य् उपपद्यते ।
क्षुद्रं हृदय-दौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥३॥

श्रीधरः : क्लैब्यं मा स्म गम इति । तस्मात् हे पार्थ ! क्लैब्यं कातर्यं मा स्म गमः । न प्राप्नुहि । यतस् त्वयि एतन् नोपपद्यते योग्यं न भवति । क्षुद्रं तुच्छं हृदय-दौर्बल्यं कातर्यं युद्धाय उत्तिष्ठ, हे परन्तप शत्रु-तापन ! ॥३॥

मधुसूदनः : ननु बन्धु-सेनावेक्षण-जातेनाधैर्येण धनुर् अपि धारयितुम् अशक्नुवता मया किं कर्तुं शक्यम् इत्य् अत आह क्लैब्यम् इति । क्लैब्यं क्लीब्-भावम् अधैर्यम् ओजस्-तेज-आदि-भङ्ग-रूपं मा स्म गमो मा गा । हे पार्थ पृथा-तनय! पृथया देव-प्रसाद-लब्धे तत्-तनय-मात्रे वीर्यातिशयस्य प्रसिद्धत्वात् पृथा-तनयत्वेन त्वं क्लैब्यायोग्य इत्य् अर्थः । अर्जुनत्वेनापि तद्-अयोग्यत्वम् आह नैतद् इति । त्वयि अर्जुने साक्षान्-महेश्वरेणापि सह कृताहवे प्रख्यात-महा-प्रभावे नोपपद्यते न युज्यत एतत्-क्लैब्यम् इत्य् असाधारण्येन तद्-अयोग्यत्व-निर्देशः ।

ननु न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः इति पूर्वम् एव मयोक्तम् इत्य् आशङ्क्याह क्षुद्रम् इति । हृदय-दौर्बल्यं मनसो भ्रमणादि-रूपम् अधैर्यं क्षुद्रत्व-कारणत्वात् क्षुद्रं सुनिरसनं वा त्यक्त्वा विवेकेनापनीयोत्तिष्ठ युद्धाय सज्जो भव । हे परन्तप ! परं शत्रुं तापयतीति तथा सम्बोध्यते हेतु-गर्भम् ॥३॥

विश्वनाथः : क्लैब्यं क्लीब्-धर्मं कातर्यम् । हे पार्थेति त्वं पृथा-पुत्रः सन्न् अपि गच्छसि । तस्मान् मा स्म गमः, मा प्राप्नुहि, अन्यस्मिन् क्षत्र-बन्धौ वरम् इदम् उपपद्यताम्, त्वयि मत्-सखौ तु नोपयुज्यते ।

नन्व् इदं शौर्याभाव-लक्षणं क्लैब्यं मा शङ्किष्ठाः । किन्तु भीष्म-द्रोणादि-गुरुषु धर्म-दृष्ट्या विवेको ऽयं धार्तराष्ट्रेषु तु दुर्बलेषु मद्-अस्त्राघातम् आसाद्य मर्तुम् उद्यतेषु दयैवेयम् इति तत्राह क्षुद्रम् इति । नैते तव विवेक-दये, किन्तु शोक-मोहाव् एव । तौ च मनसो दौर्बल्य-व्यञ्जकौ । तस्मात् हृदय-दौर्बल्यम् इदं त्यक्त्वा उत्तिष्ठ । हे परन्तप ! परान् शत्रून् तापयन् युध्यस्व ॥३॥

बलदेवः : ननु बन्धु-क्षयाध्यवसाय-दोषात् प्रकम्पितेन मया किं भाव्यम् इति चेत् तत्राह क्लैब्यम् इति । हे पार्थ ! देवराज-प्रसादात् पृथायाम् उत्पन्न ! क्लैब्यं कातर्यं मा स्म गमः प्राप्नुहि । त्वयि विश्व-विजेतरि मत्-सखे ऽर्जुने क्षत्र-बन्धाव् इवैतद् ईदृशं क्लैब्यं नोपयुज्यते ।

ननु न मे शौर्याभाव-रूपं क्लैब्यं किन्तु भीष्मादिषु पूज्येषु धर्म-बुद्ध्या विवेको ऽयं दुर्योधनादिषु भ्रातृषु मच्-छस्त्र-प्रहारेण मरिष्यत्सु कृपेयम् इति चेत् तत्राह क्षुद्रम् इति । नैते तव विवेक-कृपे, किन्तु क्षुद्रं लघिष्ठं हृदय-दौर्बल्यम् एव । तस्मात् तत् त्यक्त्वा युद्धायोत्तिष्ठ सज्जीभव । हे परन्तप ! शत्रु-तापनेति शत्रु-हास-पात्रतां मा गाः ॥३॥


२।४

अर्जुन उवाच
कथं भीष्मम् अहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हाव् अरिसूदन ॥४॥

श्रीधरः : नाहं कातरत्वेन युद्धात् उपरतो ऽस्मि, किन्तु युद्धस्य अन्याय्यत्वाद् अधर्म्यत्वाच् चेत्य् आह अर्जुन उवाच कथम् इति । भीष्म-द्रोणौ पूजार्हौ पूजायाम् अर्हो योग्यौ तौ प्रति कथम् अहं योत्स्यामि, तत्रापि इषुभिः यत्र वाचापि योत्स्यामीति वक्तुम् अनुचितं तत्र बाणैः कथं योत्स्यामीत्य् अर्थः । हे अरि-सूदन शत्रु-मर्दन ॥४॥

मधुसूदनः : ननु नायं स्वधर्मस्य त्यागः शोक-मोहादि-वशात् किन्तु धरत्वाभावाद् अधर्मत्वाच् चास्य युद्धस्य त्यागो मया क्रियत इति भगवद्-अभिप्रायम् अप्रतिपद्यमानस्यार्जुनस्याभिप्रायम् अवतारयति कथम् इति । भीष्मं पितामहं द्रोणाम् चाचार्यं सङ्ख्ये रण इषुभिः सायकैः प्रतियोत्स्यामि प्रहरिष्यामि कथम् ? न कथञ्चिद् अपीत्य् अर्थः । यतस् तौ पूजार्हौ कुसुमादिभिर् अर्चन-योग्यौ । पूजार्हाभ्यां सह क्रीडा-स्थाने ऽपि वाचापि हर्ष-फलम् अपि लीला-युद्धम् अनुचितं किं पुनर् युद्ध-भूमौ शरैः प्राण-त्याग-फलकं प्रहरणम् इत्य् अर्थः ।

मधुसूदनारिसूदनेति सम्बोधन-द्वयं शोक-व्याकुलत्वेन पूर्वापर-परामर्श-वैकल्यात् । अतो न मधुसूदनारिसूदनेत्य् अस्यार्थस्य पुनर् उक्तत्वं दोषः । युद्ध-मात्रम् अपि यत्र नोचितं दूरे तत्र वध इति प्रतियोत्स्यामीत्य् अनेन सूचितम् ।

अथवा पूजार्हौ कथं प्रतियोत्स्यामि । पूजार्हयोर् एव विवरणं भीष्मं द्रोणं चेति । द्वौ ब्राह्मणौ भोजय देव-दत्तं यज्ञ-दत्तं चेतिवत् सम्बन्धः । अयं भावः - दुर्योधनादयो नापुरस्कृत्य भीष्म-द्रोणौ युद्धाय सज्जीभवन्ति । तत्र ताभ्यां सह युद्धं न तावद् धर्मः पूजादिवद् अविहितत्वात् । न चायम् अनिषिद्धत्वाद् अधर्मो ऽपि न भवतीति वाच्यम् । गुरुं हुङ्कृत्य त्वङ्कृत्य इत्य् आदिना शब्द-मात्रेणापि गुरु-द्रोहो यदानिष्ट-फलत्व-प्रदर्शनेन निषिद्धस् तदा किं वाच्यं ताभ्यां सह सङ्ग्रामस्याधर्मत्वे निषिद्धत्वे चेति ॥४॥

विश्वनाथः : ननु प्रतिबध्नाति हि श्रेयः पूज्य-पूजा-व्यतिक्रमः इति धर्म-शास्त्रम् । अतो ऽहं युद्धान् निवर्त इत्य् आह कथम् इति । प्रतियोत्स्यामि प्रतियोत्स्ये । नन्व् एतौ युध्येते तर्ह्य् अनयोः प्रतियोद्धा भवितुं त्वं किं न शक्नोषि ? सत्यं न शक्नोम्य् एवेत्य् आह पूजार्हाव् इति । अनयोश् चरणेषु भक्त्या कुसुमान्य् एव दातुम् अर्हामि न तु क्रोधेन तीक्ष्ण-शरान् इति भावः । भो वयस्य कृष्ण त्वम् अपि शत्रून् एव युद्धे हंसि, न तु सन्दीपनिं स्व-गुरुम्, नापि बन्धून् यदून् इत्य् आह हे मधुसूदनेति । ननु माधवो यदव एव । तत्राह हे अरिसूदन ! मधुर् नाम दैत्यो यस् तवारिर् इति ब्रवीमीति ॥४॥

बलदेवः : ननु भीष्मादिषु प्रतियोद्धृषु सत्सु त्वया कथं न योद्धव्यम् । आहूतो न निवर्तेत इति युद्ध-विधानाच् च क्षत्रियस्येति चेत् तत्राह कथम् इति । भीष्मं पितामहं द्रोणं च विद्या-गुरुम् । इषुभिः कथं योत्स्ये ? यद् इमौ पूजार्हौ पुष्पादिभिर् अभ्यर्च्यौ, परिहास-वाग्भिर् अपि याभ्यां युद्धं न युक्तम् । ताभ्यां सहेषुभिस् तत् कथं युज्येत ? प्रतिबध्नाति हि श्रेयः पूज्य- पूज्य-पूजा-व्यतिक्रमः इति स्मृतेश् च । मधुसूदनारिसूदनेति सम्बोधन-पुनर्-उक्तिः । शोकाकुलस्य पूर्वोत्तरानुसन्धि-विरहात् । तद्-भावश् च त्वम् अपि शत्रून् एव युद्धे निहंसि न तूग्रसेन-सान्दीपन्य्-आदीन् पूज्यान् इति ॥४॥


२।५

गुरून् अहत्वा हि महानुभावाञ्
श्रेयो भोक्तुं भैक्ष्यम् अपीह लोके ।
हत्वार्थ-कामांस् तु गुरून् इहैव
भुञ्जीय भोगान् रुधिर-प्रदिग्धान् ॥५॥

श्रीधरः : तर्हि तान् अहत्वा तव देह-यात्रापि न स्याद् इति चेत्, तत्राह गुरून् इति । गुरून् द्रोणाचार्यादीन् अहत्वा पर-लोक-विरुद्धं गुरु-वधम् अकृत्वा इह-लोके भैक्ष्यं भिक्षान्नम् अपि भोक्तुं श्रेय उचितम् । विपक्षे तु न केवलं परत्र दुःखम्, किन्तु इहैव च नरक-दुःखम् अनुभवेयम् इत्य् आह हत्वेति । गुरून् हत्वा इहैव तु रुधिरेण प्रदिग्धान् प्रकर्षेण लिप्तान् अर्थ-कामात्मकान् भोगान् अहं भुञ्जीय अश्नीयाम् । यद् वा अर्थ-कामान् इति गुरूणां विशेषणम् । अर्थ-तृष्णाकुलत्वाद् एते तावद् युद्धान् न निवर्तेरन् तस्माद् एतद् वधः प्रसज्येतैवेत्य् अर्थः । तथा च युधिष्ठिरं प्रति भीष्मेणोक्तं -

अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ इति [म्भ् ६।४१।३६] ॥५॥

मधुसूदनः : ननु भीष्म-द्रोणयोः पूजार्हत्वं गुरुत्वेनैव, एवम् अन्येषाम् अपि कृपादीनाम्, न च तेषां गुरुत्वेन स्वीकारः साम्प्रतम् उचितः -

गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [म्भ् ५।१७८।२४]

इति स्मृतेः । तस्माद् एषां युद्ध-गर्वेणावलिप्तानाम् अन्याय-राज्य-ग्रहणेन शिष्य-द्रोहेण च कार्याकार्य-विवेक-शून्यानाम् उत्पथ-निष्ठानां वध एव श्रेयान् इत्य् आशङ्क्याह गुरून् इति ।

गुरून् अहत्वा पर-लोकस् तावद् अस्त्य् एव । अस्मिंस् तु लोके तैर् हृत-राज्यानां नो नृपादीनां निषिद्धं भैक्षम् अपि भोक्तुं श्रेयः प्रशस्यतरम् उचितं न तु तद्-वधेन राज्यम् अपि श्रेय इति धर्मे ऽपि युद्धे वृत्ति-मात्र-फलत्वं गृहीत्वा पापम् आरोप्य व्रते ।

नन्व् अवलिप्तत्वादिना तेषां गुरुत्वाभाव उक्त इत्य् आशङ्क्याह महानुभावान् इति । महानुभावः श्रुताध्ययन-तप-आचारादि-निबन्धनः प्रभावो येषां तान् । तथा च काल-कामादयो ऽपि यैर् वशीकृतास् तेषां पुण्यातिशय-शालिनां नावलिप्तत्वादि-क्षुद्र-पाप्म-संश्लेष इत्य् अर्थः । हिमहानुभावान् इत्य् एकं वा पदम् । हिमं जाड्यम् अपहन्तीति हिमहा आदित्यो ऽग्निर् वा तस्यैवानुभावः सामर्थ्यं येषां तान् । तथा चातितेजस्वित्वात् तेषाम् अवलिप्तत्वादि-दोषो नास्त्य् एव ।

धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥ [भ्प् १०।३३।३०]

ननु यदार्थ-लुब्धाः सन्तो युद्धे प्रवृत्तास् तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यम्, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति -

अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ [म्भ् ६।४१।३६]

इत्य् आशङ्क्याह हत्वेति । अर्थ-लुब्धा अपि ते मद्-अपेक्षया गुरवो भवन्त्य् एवेति पुनर् गुरु-ग्रहणेनोक्तम् । तु-शब्दो ऽप्य् अर्थे ईदृशान् अपि गुरून् हत्वा भोगान् एव भुञ्जीय न तु मोक्षं लभेय । भुज्यन्त इति भोगा विषयाः कर्मणि घञ् । ते च भोगा इहैव न पर-लोके । इहापि च रुधिर-प्रदिग्धा इवापयशो-व्याप्तत्वेनात्यन्त-जुगुप्सिता इत्य् अर्थः । यदेहाप्य् एवं तदा पर-लोक-दुःखं कियद् वर्णनीयम् इति भावः ।

अथवा गुरून् हत्वार्थ-कामात्मकान् भोगान् एव भुञ्जीय न तु धर्म-मोक्षाव् इत्य् अर्थ-काम-पदस्य भोग-विशेषणतया व्याख्यानान्तरं द्रष्टव्यम् ॥५॥

विश्वनाथः : नन्व् एवं ते यदि स्वराज्ये ऽस्मिन् नास्ति जिघृक्षा, तर्हि कया वृत्त्या जीविष्यसीत्य् अत्राह गुरून् अहत्वेति । गुरु-वधम् अकृत्वा भैक्ष्यं क्षत्रियैर् विगीतम् अपि भिक्षान्नम् अपि भोक्तुं श्रेयः । ऐहिक-दुर्यशो-लाभे ऽपि पारत्रिकम् अमङ्गलं तु नैव स्याद् इति भावः । न चैव गुरवो ऽवलिप्ताः कार्याकार्यम् अजानन्तश् चाधार्मिक-दुर्योधनाद्य्-अनुगतास् त्याज्या एव । यद् उक्तं -

गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते ॥ [म्भ् ५।१७८।२४] इति वाच्यम् ।

इत्य् आह - महानुभावान् इति । काल-कामादयो ऽपि यैर् वशीकृतास् तेषां भीष्मादीनां कुतस् तद्-दोष-सम्भव इति भावः । ननु -

अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ [म्भ् ६।४१।३६]

इति युधिष्ठिरं प्रति भीष्मेणैवोक्तम् अतः साम्प्रतम् अर्थ-कामत्वाद् एतेषां महानुभावत्वं प्राक्तनं विगलितम् ? सत्यम्, तद् अप्य् एतान् हतवतो मम दुःखम् एव स्याद् इत्य् आह अर्थ-कामानर्थ-लुब्धान् अप्य् एतान् कुरून् हत्वाहं भोगान् भुञ्जीय किन्त्व् एतेषां रुधिरेण प्रदिग्धान् प्रलिप्तान् एव । अयम् अर्थः - एतेषाम् अर्थ-लुब्धत्वे ऽपि मद्-गुरुत्वम् अस्त्य् एव, अतएवैतद्-वधे सति गुरु-द्रोहिणो मम खलु भोगो दुष्कृति-मिश्रः स्याद् इति ॥५॥

बलदेवः : ननु स्वराज्ये स्पृहा चेत् तव नास्ति तर्हि देह-यात्रा वा कथं सेत्स्यतीति चेत् तत्राह गुरून् इति । गुरून् अहत्वा गुरु-वधम् अकृत्वा स्थितस्य मे भैक्ष्यान्नं क्षत्रियाणां निन्द्यम् अपि भोक्तुं श्रेयः प्रशस्ततरम् । ऐहिक-दुर्यशो-हेतुत्वे ऽपि पर-लोकाविघातित्वात् ।

नन्व् एते भीष्मादयो गुरवो ऽपि युद्ध-गर्वावलेपात् छद्मना युष्मद्-राज्यापहारं युष्मद्-द्रोहं च कुर्वतां दुर्योधनादीनां संसर्गेण कार्याकार्य-विवेक-विरहाच् च सम्प्रति त्याज्या एव-

गुरोर् अप्य् अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ [म्भ् ५।१७८।२४] इति स्मृतेः ।

इति चेत् तत्राह - महानुभावान् इति । महान् सर्वोत्कृष्टो ऽनुभावो वेदाध्ययन-ब्रह्मचर्यादि-हेतुकः प्रभावो येषां तान् । काल-कामादयो ऽपि यद्-वश्यास् तेषां तद्-दोष-सम्बन्धो नेति भावः ।

ननु -
अर्थस्य पुरुषो दासो दासस् त्व् अर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धो ऽस्म्य् अर्थेन कौरवैः ॥ [म्भ् ६।४१।३६]

इति भीष्मोक्तेर् अर्थ-लोभेन विक्रीतात्मनां तेषां कुतो महानुभावता ? ततो युद्धे हन्तव्यास् ते इति चेत् तत्राह हत्वार्थ-कामान् इति । अर्थ-कामान् अपि गुरून् हत्वाहम् इहैव लोके भोगान् भुञ्जीय, न तु पर-लोके । तांश् च रुधिर-प्रदिग्धान् तद्-रुधिर-मिश्रान् एव, न तु शुद्धान् भुञ्जीय तद्-धिंसया तल्-लाभात् । तथा च युद्ध-गर्वावलेपादि-मत्त्वे ऽपि तेषां मद्-गुरुत्वम् अस्त्य् एवेति पुनर् गुरु-ग्रहणेन सूच्यते ॥५॥


२।६

न चैतद् विद्मः कतरन् नो गरीयो
यद् वा जयेम यदि वा नो जयेयुः ।
यान् एव हत्वा न जिजीविषामस्
ते ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥६॥

श्रीधरः : किं च यद्यप्य् अधर्मम् अङ्गीकरिष्यामः तथापि किम् अस्माकं जयः पराजयो वा गरीयान् भवेद् इति न ज्ञायत इत्य् आह न चेद् इत्य् आदि । एतद् द्वयोर् मध्ये नो ऽस्माकं कतरत् किं नाम गरीयो ऽधिकतरं भविष्यतीति न विद्मः । तद् एव द्वयं दर्शयति । यद् वा एतान् वयं जयेम जेष्यामः यदि वा नो ऽस्मान् एते जयेयुः जेष्यन्तीति । जयो ऽपि किं चास्माकं कतरत् जय-पराजययोर् मध्ये किं खलु गरीयो ऽधिकतरं भविष्यति एतन् न विद्मः । तद् एव पक्ष-द्वयं दर्शयति एतान् वयं जयेम, नो ऽस्मान् वा एते जयेयुर् इति । किं च जयो ऽप्य् अस्माकं फलतः पराजय एवेत्य् आह यान् एवेति ॥६॥

मधुसूदनः : ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद् युद्धस्य च विहितत्वात् स्वधर्मत्वेन युद्धम् एव तत्र श्रेयस्करम् इत्य् आशङ्क्याह न चैतद् इति । एतद् अपि न जानीमो भैक्ष-युद्धयोर् मध्ये कतरन् नो ऽस्माकं गरीयः श्रेष्ठम् । किं भैक्षं हिंसा-शून्यत्वाद् उत युद्धं स्वधर्मत्वाद् इति । इदं च न विद्म आरब्धे ऽपि युद्धे यद् वा वयं जयेमातिशयीमहि यदि वा नो ऽस्मान् जयेयुर् धार्तराष्ट्राः । उभयोः साम्य-पक्षो ऽप्य् अर्थाद् बोद्धव्यः ।

किं च जातो ऽपि जयो नः फलतः पराजय एव । यतो यान् बन्धून् हत्वा जीवितुम् अपि वयं नेच्छामः किं पुनर् विषयानुपभोक्तुम् ? त एवावस्थिताः सम्मुखे धार्तराष्ट्रा धृतराष्ट्र-सम्बन्धिनो भीष्म-द्रोणादयः सर्वे ऽपि । तस्माद् भैक्षाद् युद्धस्य श्रेष्ठत्वं न सिद्धम् इत्य् अर्थः ।

तद् एवं प्राक्तनेन ग्रन्थेन संसार-दोष-निरूपणाद् अधिकारि-विशेषणान्य् उक्तानि । तत्र न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे इत्य् अत्र रणे हतस्य परिव्राट्-समान-योग-क्षेमत्वोक्तेः अन्यच् छ्रेयो ऽन्यद् उतैव प्रेयः [कठु २।१] इत्य् आदि-श्रुति-सिद्धं श्रेयो मोक्षाख्यम् उपन्यस्तम् । अर्थाच् च तद् इतरद् अश्रेय इति नित्यानित्य-वस्तु-विवेको दर्शितः, न काङ्क्षे विजयं कृष्णेत्य् [गीता १।३२] अत्रैहिक-फल-विरागः । अपि त्रैलोक्य-राज्यस्य [गीता १।३५] हेतोर् इत्य् अत्र पारलौकिक-फल-विरागः । नरके नियतं वास [गीता १।४४] इत्य् अत्र स्थूल-देहातिरिक्त आत्मा, किं नो राज्येन [गीता १।३२] इति व्याख्यात-वर्त्मना शमः । किं भोगैर् [गीता १।३२] इति दमः । यद्यप्य् एते न पश्यन्ति [गीता १।३८] इत्य् अत्र निर्लोभता । तन् मे क्षेमतरं भवेद् [गीता १।४६] इत्य् अत्र तितिक्षा । इति प्रथमाध्यायार्थः सन्न्यास-साधन-सूचनम्
। अस्मिंस् त्व् अध्याये श्रेयो भोक्तुं भैक्षम् अपि [गीता २।५] इत्य् अत्र भिक्षा-चर्योपलक्षितः सन्न्यासः प्रतिपादितः ॥६॥

विश्वनाथः : किं च गुरु-द्रोहे प्रवृत्तस्यापि मम जयः पराजयो वा भवेद् इत्य् अपि न ज्ञायत इत्य् आह न चैतद् इत्य् आदि । तथापि नो ऽस्माकं कतरत् जय-पराजययोर् मध्ये किं खलु गरीयो ऽधिकतरं भविष्यति एतन् न विद्मः । तद् एव पक्ष-द्वयं दर्शयति – एतान् वयं जयेम, नो ऽस्मान् वा एते जयेयुर् इति । किं च जयो ऽप्य् अस्माकं फलतः पराजय एवेत्य् आह यान् एवेति ॥६॥

बलदेवः : ननु भैक्ष-भोजनं क्षत्रियस्य विगर्हितम्, युद्धं च स्व-धर्मं विजानन्न् अपि विभाषसे इति चेत् तत्राह न चैतद् इति । एतद् वयं न विद्मः । भैक्ष्य-युद्धयोर् मध्ये नो ऽस्माकं कतरद् गरीयः प्रशस्ततरम् । हिंसा-विरहाद् भैक्षं गरीयः स्वधर्मत्वाद् युद्धं वेति, एतच् च न विद्मः । समारब्धे युद्धे वयं धार्तराष्ट्रान् जयेम ते वा नो ऽस्मान् जयेयुर् इति ।

ननु महा-विक्रमिणां धर्मिष्ठानां च भवताम् एव विजयो भावीति चेत् तत्राह यान् एवेति । यान् धार्तराष्ट्रान् भीष्मादीन् सर्वान् । न जिजीविषामो जीवितुम् अपि नेच्छामः किं पुनर् भोगान् भोक्तुम् इत्य् अर्थः । तथा च विजयो ऽप्य् अस्माकं फलतः पराजय एवेति । तस्माद् युद्धस्य भैक्षाद् गरीयस् त्वम् अप्रसिद्धम् इति । एवम् एतावता ग्रन्थेन तस्माद् एवंविच् छान्त-दान्त उपरतस् तितिक्षुः श्रद्धान्वितो भूत्वात्मन्य् एवात्मानं पश्येत् इति श्रुति-प्रसिद्धम् अर्जुनस्य ज्ञानाधिकारित्वं दर्शितम् । तत्र किं नो राज्येन [गीता १।३२] इति शम-दमौ । अपि त्रैलोक्य-राज्यस्य [गीता १।३५] इत्य् ऐहिक-पारत्रिक-भोगोपेक्षा-लक्षणा उपरतिः । भैक्षं भोक्तुं श्रेय इति द्वन्द्व-सहिष्णुत्व-लक्षणा तितिक्षा । गुरु-वाक्य-दृढ-विश्वास-लक्षणा श्रद्धा तूत्तर-वाक्ये व्यक्तीभविष्यति,
न खलु शमादि-शून्यस्य ज्ञाने ऽस्त्य् अधिकारः पङ्गादेर् इव कर्मणीति ॥६॥


२।७

कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वां धर्म-सम्मूढ-चेताः ।
यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे
शिष्यस् ते ऽहं शाधि मां त्वां प्रपन्नम् ॥७॥

श्रीधरः : उपदेश-ग्रहणे स्वाधिकारं सूचयति कार्पण्येत्य् आदि । अर्थात् कार्पण्य-दोषोपहत-स्वभावः एतान् हत्वा कथं जीविष्याम इति कार्पण्यं दोसश् च स्वकुल-क्षय-कृतः, ताभ्याम् उपहतो ऽभिभूतः स्वभावः शौर्यादि-लक्षणो यस्य सो ऽहं त्वां पृच्छामि, तथा धर्मे सम्मूढं चेतो यस्य सः । युद्धं त्यक्त्वा भिक्षाटनम् अपि क्षत्रियस्य धर्मो ऽधर्मो वेति सन्दिग्ध-चित्तः सन्न् इत्य् अर्थः । अतो मे यन् निश्चितं श्रेयः युक्तं स्यात् तद् ब्रूहि । किं च ते ऽहं शिष्यः शासनार्हः । अतस् त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय ॥७॥

मधुसूदनः : गुरूपसदनम् इदानीं प्रतिपाद्यते समधिगत-संसार-दोष-जातस्यातितरां निर्विण्णस्य विधिवद् गुरुम् उपसन्नस्यैव विद्या-ग्रहणे ऽधिकारात् । तद् एवं भीष्मादि-सङ्कट-वशात् । व्युत्थायाथ भिक्षाचर्यं चरन्ति [बउ ३।५।१] इति श्रुति-सिद्ध-भिक्षा-चर्ये ऽर्जुनस्याभिलाषं प्रदर्श्य विधिवद् गुरूपसत्तिम् अपि तत्-सङ्कट-व्याजेनैव दर्शयति कार्पण्येति ।

यः स्वल्पाम् अपि चित्त-क्षतिं न क्षमते स कृपण इति लोके प्रसिद्धः । तद्-विधत्वाद् अखिलो ऽनात्म-विद् अप्राप्त-पुरुषार्थतया कृपणो भवति । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रैति स कृपण [बउ ३।८।१०] इति श्रुतेः । तस्य भावः कार्पण्यम् अनात्माध्यासवत्त्वं तन्-निमित्तो ऽस्मिन् जन्मन्य् एत एव मदीयास् तेषु हतेषु किं जीवितेनेत्य् अभिनिवेश-रूपो ममता-लक्षणो दोषस् तेनोपहतस् तिरस्कृतः स्वभावः क्षात्रो युद्धोद्योग-लक्षणो यस्य स तथा । धर्मे विषये निर्णायक-प्रमाणआदर्शनात् सम्मूढं किम् एतेषां वधो धर्मः किम् एतत्-परिपालनं धर्मः । तथा किं पृथ्वी-परिपालनं धर्मः किं वा यथावस्थितो ऽरण्य-निवास एव धर्म इत्य् आदि-संशयैर् व्याप्तं चेतो यस्य स तथा । न चैतद् विद्मः कतरन् नो गरीय इत्य् अत्र व्याख्यातम्
एतत् । एवंविधः सन्न् अहं त्वा त्वाम् इदानीं पृच्छामि श्रेय इत्य् अनुषङ्गः ।

अतो यन् निश्चितम् ऐकान्तिकम् आत्यन्तिकं च श्रेयः परम-पुमर्थ-भूतं फलं स्यात् तन् मे मह्यं ब्रूहि । साधनानन्तरम् अवश्यम्भावित्वम् ऐकान्तिकतवम्, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्य् औषधे कृते कदाचिद् रोग-निवृत्तिर् न भवेद् अपि जातापि च रोग-निवृत्तिः पुनर् अपि रोगोत्पत्त्या विनाश्यते । एवं कृते ऽपि यागे प्रतिबन्ध-वशात् स्वर्गो न भवेद् अपि जातो ऽपि स्वर्गो दुःखाक्रान्तो नश्यति चेति नैकान्तिकत्वम् आत्यन्तिकत्वं वा तयोः । तद् उक्तम् -

दुःख-त्रयाभिघाताज् जिज्ञासा तद्-अपघातके हेतौ ।
दृष्टे सापार्था चेन् नैकान्तात्यन्ततो ऽभावात् ॥ (स।क्। १) इति ।
दृष्टवद् आनुश्रविकः स ह्य् अवैशुद्धि-क्षयातिशय-युक्तः ।
तद्-विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञ-विज्ञानात् ॥ (स।क्। १) इति ।

ननु त्वं मम सखा न तु शिष्यो ऽत आह शिष्यस् ते ऽहम् इति । त्वद्-अनुशासनयोग्यत्वाद् अहं तव शिष्य एव भवामि न सखा न्यून-ज्ञानत्वात् । अतस् त्वां प्रपन्नं शरणागतं मां शाधि शिक्षय करुणया न त्व् अशिष्यत्व-शङ्कयोपेक्षणीयो ऽहम् इत्य् अर्थः । एतेन - तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [ंउण्डु १।२।११], भृगुर् वै वारुणिः । वरुणं पितरम् उपससार । अधीहि भगवो ब्रह्मेति [तैत्तु ३।१] इत्य् आदि-गुरूपसत्ति-प्रतिपादकः श्रुत्य्-अर्थो दर्शितः ॥७॥

विश्वनाथः : ननु तर्हि सोपपत्तिकं शास्त्रार्थं त्वम् एव ब्रुवाणः क्षत्रियो भूत्वा भिक्षाटनं निश्चिनोषि तर्ह्य् अलं मद्-उक्त्येति तत्राह कार्पण्येति । स्वाभाविकस्य शौर्यस्य त्याग एव मे कार्पण्यम् । धर्मस्य सूक्ष्मा गतिर् इत्य् अतो धर्म-व्यवस्थायाम् अप्य् अहं मूढ-बुद्धिर् एवास्मि । अतस् त्वम् एव निश्चित्य श्रेयो ब्रूहि ।

ननु मद्-वाचस् त्वं पण्डत-मानित्वेन खण्डयसि चेत्, कथं ब्रूयाम् ? तत्राह शिष्यस् ते ऽहम् अस्मि । नातं परं वृथा खण्डयामीति भावः ॥७॥
बलदेवः : अथ तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् [ंउण्डु १।२।११], आचार्यवान् पुरुषो वेद [छा ६।१४।२] इत्य् आदि श्रुति-सिद्धां गुरूपसत्तिं दर्शयति कार्पण्येति । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रैति स कृपण [बउ ३।८।१०] इति श्रवणाद् अब्रह्मवित्त्वं कार्पण्यम् । तेन हेतुना यो दोषो यान् एव हत्वेति बन्धु-वर्गम् अमतालक्षणस् तेनोपहत-स्वभावो युद्ध-स्पृहा-लक्षणः स्वधर्मो यस्य सः । धर्मे सम्मूढं क्षत्रियस्य मे युद्धं स्वधर्मस् तद् विहाय भिक्षाटनं वेत्य् एवं सन्दिहानं चेतो यस्य सः । ईदृशः सन्न् अहं त्वाम् इदानीं पृच्छामि - तस्मान् निश्चितं एकान्तिकं आत्यन्तिकं यन् मे श्रेयः स्यात् तत् त्वं ब्रूहि । साधनोत्तरम् अवश्यम्भावित्वं ऐकान्तिकत्वम्, भूतस्याविनाशित्वं
आत्यन्तिकत्वम् ।

ननु शरणागतस्योपदेशः तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् इत्य् आदि-श्रुतेः । सखायं त्वां कथम् उपदिशामीति चेत् तत्राह शिष्यस् ते ऽहम् इति । शाधि शिक्षय ॥७॥


२।८

न हि प्रपश्यामि ममापनुद्याद्
यच् छोकम् उच्छोषणम् इन्द्रियाणाम् ।
अवाप्य भूमाव् असपत्नम् ऋद्धं
राज्यं सुराणाम् अपि चाधिपत्यम् ॥८॥
श्रीधरः : त्वम् एव विचार्य यद् युक्तं तत् कुर्व् इति चेत्, तत्राह न हि प्रपश्यामीति । इन्द्रियाणाम् उच्छोषणम् अतिशोषण-करं मदीयं शोकं यत् कर्म अपनुद्यात् अपनयेत् तद् अहं न प्रपश्यामीति । यद्यपि भूमौ निष्कण्टकं समृद्धं राज्यं प्राप्स्यामि । तथा सुरेन्द्रत्वम् अपि यदि प्राप्स्यामि एवम् अभीष्टं तत् तत् सर्वम् अवाप्यापि शोकापनोदनोपायं न प्रपश्यामीत्य् अन्वयः ॥८॥
मधुसूदनः : ननु स्वयम् एव त्वं श्रेयो विचारय श्रुत-सम्पन्नो ऽसि किं पर-शिष्यत्वेनेत्य् अत आह नहीति । यच्-छ्रेयः प्राप्तं सत्-कर्तृ मम शोकम् अपनुद्याद् अपनुदेन् निवारयेत् तन् न पश्यामि हि यस्मात् तस्मान् मां शाधीति सो ऽहं भगवः शोचामि तं मा भगवाञ् छोकस्य पारं तारयतु [छाउ ७।१।३] इति श्रुत्य्-अर्थो दर्शितः । शोकानपनोदे को दोष इत्य् आशङ्क्य तद्-विशेषणम् आह इन्द्रियाणाम् उच्छोषणम् इति । सर्वदा सन्ताप-करम् इत्य् अर्थः ।

ननु युद्धे प्रयतमानस्य तव शोक-निवृत्तिर् भविष्यति जेष्यसि चेत् तदा राज्य-प्राप्त्या द्वाव् एतौ पुरुषौ लोके इत्य् आदि-धर्म-शास्त्राद् इत्य् आशङ्क्याह अवाप्येत्य् आदिना । शत्रु-वर्जितं सस्यादि-सम्पन्नं च राज्यं तथा सुराणाम् आधिपत्यं हिरण्यगर्भत्व-पर्यन्तम् ऐश्वर्यम् अवाप्य स्थितस्यापि मम यच् छोकम् अपनुद्यात् तन् न पश्यामीत्य् अन्वयः । तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [छा ८।१।६] इति श्रुतेः । यत्-कृतकं तद्-अनित्यम् इत्य् अनुमानात् प्रत्यक्षेणाप्य् ऐहिकानां विनाश-दर्शनाच् च नैहिक आमुत्रिको वा भोगः शोक-निवर्तकः किन्तु स्व-सत्ता-काले ऽपि भोग-पारतन्त्र्यादिना विनाश-काले ऽपि विच्छेदाच् छोक-जनक एवेति न युद्धं शोक-निवृत्तये ऽनुष्ठेयम् इत्य् अर्थः । एतेनेहामुत्र-भोग-विरागो ऽधिकारि-विशेषणत्वेन दर्शितः
॥८॥

विश्वनाथः : ननु मयि तव सख्य-भाव एव, न तु गौरवम् । अतस् त्वां कथम् अहं शिष्यं करोमि ? तस्माद् यत्र तव गौरवं तं कम् अपि द्वैपायनादिकं प्रपद्यस्व इत्य् अत आह न हीति । मम शोकम् अपनुद्यात् दूरीकुर्याद् एवं जनं न प्रकर्षेण पश्यामि त्रिजगत्य् एकं त्वां विना । स्वस्माद् अधिक-बुद्धिमन्तं बृहस्पतिम् अपि न जानामीत्य् अतः शोकार्त एव खलु कं प्रपद्येय इति भावः । यद् यतः शोकाद् इन्द्रियाणाम् उच्छोषणं महा-निदाघात् क्षुद्र-सरसाम् इव उत्कर्षेण शोषो भवति ।

ननु तर्हि साम्प्रतं त्वं शोकार्त एव खलु युध्यस्व । ततश् चैतान् जित्वा राज्यं प्रातवतस् तव राज्य-भोगाभिनिवेशेनैव शोको ऽपयास्यतीत्य् आह अवाप्येति । भूमौ निष्कण्टकं राज्यं स्वर्गे सुराणाम् आधिपत्यं वा प्राप्यापि स्थितस्य ममेन्द्रियाणाम् एतद् उच्छोषणम् एवेत्य् अर्थः ॥८॥

बलदेवः : ननु त्वं शास्त्रज्ञो ऽसि स्व-हितं विचार्यानुतिष्ठ, सख्युर् मे शिष्यः कथं भवेर् इति चेत् तत्राह न हीति । यत् कर्म मम शोकम् अपनुद्याद् दूरीकुर्यात् तद् अहं न प्रपश्यामि । शोकं विशिनष्टि - इन्द्रियाणाम् उच्छोषणम् इति । तस्माच् छोक-विनाशाय त्वां प्रपन्नो ऽस्मीति । इत्थं च सो ऽहं भगवः शोचामि तं मां भवान् शोकस्य पारं तारयतु इति श्रुत्य्-अर्थो दर्शितः ।

ननु त्वम् अधुना शोकाकुलः प्रपद्यसे युद्धात् सुख-समृद्धि-लाभे विशोको भविष्यसीति चेत् तत्राह अवाप्येति । यदि युद्धे विजयी स्यां तदा भूमाव् असपत्नं निष्कण्टकं राज्यं प्राप्य यदि च तत्र हतः स्यां तदा स्वर्गे सुराणाम् आधिपत्यं प्राप्य स्थितस्य मे विशोकत्वं न भवेद् इत्य् अर्थः । तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [छाउ ८।१।६] इति श्रुतेर् नैहिकं पारत्रिकं वा युद्ध-लब्धं सुखं शोकापहं तस्मात् तादृशम् एव श्रेयस्त्वं ब्रूहीति न युद्धं शोक-हरम् ॥८॥


२।९

सञ्जय उवाच
एवम् उक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूव ह ॥९॥

श्रीधरः : एवम् उक्त्वार्जुनः किं कृतवान् इत्य् अपेक्षायां सञ्जय उवाच एवम् इत्य् आदि । स्पष्टार्थः ॥९॥

मधुसूदनः : तद्-अनन्तरम् अर्जुनः किं कृतवान् इति धृतराष्ट्राकाङ्क्षायां सञ्जय उवाच एवम् इत्य् आदि । गुडाकेशो जितालस्यः परन्तपः शत्रु-तापनो ऽर्जुनो हृषीकेशं सर्वेन्द्रिय-प्रवर्तकत्वेनान्तर्यामिणं गोविन्दं गां वेद-लक्षणां वाणीं विन्दतीति व्युत्पत्त्या सर्व-वेदोपादानत्वेन सर्वज्ञम् आदाव् एवं कथं भीष्मम् अहं सङ्ख्य इत्य् आदिना युद्ध-स्वरूपायोग्यताम् उक्त्वा तद्-अनन्तरं न योत्स्य इति युद्ध-फलाभावं चोक्त्वा तूष्णीं बभूव बाह्येन्द्रिय-व्यापारस्य युद्धार्थं पूर्वं कृतस्य निवृत्त्या निर्व्यापारो जात इत्य् अर्थः । स्वभावतो जितालस्ये सर्व-शत्रु-तापने च तस्मिन्न् आगन्तुकम् आलस्यम् अतापकत्वं च नास्पदम् आधास्यतीति द्योतयितुं ह-शब्दः । गोविन्द-हृषीकेश-पदाभ्यां सर्वज्ञत्व-सर्व-शक्तित्व-सूचकाभ्यां
भगवतस् तन्-मोहापनोदनम् अनायास-साध्यम् इति सूचितम् ॥९॥

विश्वनाथः : नोथिन्ग्।

बलदेवः : ततो ऽर्जुनः किम् अकरोद् इत्य् अपेक्षायां सञ्जय उवाच एवम् उक्त्वेत्य् आदि । गुडाकेशो हृषीकेशं प्रति एवं न हि प्रपश्यामीत्य् आदिना युद्धस्य शोकानिवर्तकत्वम् उक्त्वा परन्तपो ऽपि गोविन्दं सर्व-वेदज्ञं प्रति न योत्स्ये इति चोक्त्वेति योज्यम् । तत्र हृषीकेशत्वाद् बुद्धिं युद्धे प्रवर्तयिष्यति । सर्व-वेद-वित्त्वाद् युद्धे स्व-धर्मत्वं ग्राहयिष्यतीति व्यज्य धृतराष्ट्र-हृदि सञ्जाता स्व-पुत्र-राज्याशा निरस्यते ॥९॥


२।१०

तम् उवाच हृषीकेशः प्रहसन्न् इव भारत ।
सेनयोर् उभयोर् मध्ये विषीदन्तम् इदं वचः ॥१०॥

श्रीधरः : ततः किं वृत्तम् इत्य् अपेक्षायाम् आह तम् उवाचेति । प्रहसन्न् इव प्रसन्न-मुखः सन्न् इत्य् अर्थः ॥१०॥

मधुसूदनः : एवं युद्धम् उपेक्षितवत्य् अप्य् अर्जुने भगवान् नोपेक्षितवान् इति धृतराष्ट्र-दुराशा-निरासाया ऽह तम् उवाचेति । सेनयोर् उभयोर् मध्ये युद्धोद्यमेनागत्य तद्-विरोधिनं विषादं मोहं प्राप्नुवन्तं तम् अर्जुनं प्रहसन्न् इवानुचिताचारण-प्रकाशनेन लज्जाम्बुधौ मज्जयन्न् इव हृषीकेशः सर्वान्तर्यामी भगवान् इदं वक्ष्यमाणम् अशोच्यान् इत्य् आदि वचः परम-गम्भीरार्थम् अनुचिताचरण-प्रकाशकम् उक्तवान् न त्”पेक्षितवान् इत्य् अर्थः ।

अनुचिताचरण-प्रकाशनेन लज्जोत्पादनं प्रहासः । लज्जा च दुःखात्मिकेति द्वेष-विषय एव स मुख्यः । अर्जुनस्य तु भगवत्-कृपा-विषयत्वाद् अनुचिताचरण-प्रकाशनस्य च विवेकोत्पत्ति-हेतुत्वाद् एक-दलाभावेन गौण एवायं प्रहास इति कथयितुम् इव-शब्दः । लज्जाम् उत्पादयितुम् इव विव्कम् उत्पादयितुम् अर्जुनस्यानुचिताचरणं भगवता प्रकाश्यते । लज्जोत्पत्तिस् तु नान्तरीयकतयास्तु मास्तु वेति न विवक्षितेति भावः ।

यदि हि युद्धारम्भात् प्राग् एव स्थितो युद्धम् उपेक्षेत तदा नानुचितं कुर्यात् । महता संरम्भेण तु युद्ध-भूमाव् आगत्य तद्-उपेक्षणम् अतीवानुचितम् इति कथयितुं सेनयोर् इत्य् आदि-विशेषणम् । एतच् चाशोच्यानित्यादौ स्पष्टं भविष्यति ॥१०॥

विश्वनाथः : अहो त्वाप्य् एतावान् खल्व् अविवेक इति सख्य-भावेन तं प्रहसन् अनौचित्य-प्रकाशेन लज्जाम्बुधौ निमज्जयन् इवेति तदानीं शिष्य-भावं प्राप्ते तस्मिन् हास्यम् अनुचितम् इत्य् अधरोष्ठ-निकुञ्चनेन हास्यम् आवृण्वंश् चेत्य् अर्थः । हृषीकेश इति पूर्वं प्रेमाइवार्जुन-वाङ्-नियम्यो ऽपि साम्प्रतम् अर्जुन-हित-कारित्वात् प्रेम्णैवार्जुन-मनो-नियन्तापि भवतीति भावः । सेनयोर् उभयोर् मधे इत्य् अर्जुनस्य विषादो भगवता प्रबोधश् च उभाभ्यां सेनाभ्यां सामान्यतो दृष्ट एवेति भावः ॥१०॥

बलदेवः : व्यङ्गम् अर्थं प्रकाशयन्न् आह तम् उवाचेति तं विषीदन्तम् अर्जुनं प्रति हृषीकेशो भगवान् अशोच्यान् इत्य् आदिकम् अतिगम्भीरार्थं वचनम् उवाच । अहोतवापीदृग् विवेकः इति सख्य-भावेन प्रहसन् । अनौचित्य-भाषित्वेन त्रपा-सिन्धौ निमज्जयन् इत्य् अर्थः । इवेति तदैव शिष्यतां प्राप्ते तस्मिन् हासानौचित्यादीषद् अधरोल्लासं कुर्वन्न् इत्य् अर्थः । अर्जुनस्य विषादो भगवता तस्योपदेशश् च सर्व-साक्षिक इति बोधयितुं सेनयोर् उभयोर् इत्य् एतत् ॥१०॥


२।११

श्री-भगवान् उवाच
अशोच्यान् अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसे ।
गतासून् अगतासूंश् च नानुशोचन्ति पण्डिताः ॥११॥

श्रीधरः : देहात्मनोर् अविवेकाद् अस्यैवं शोको भवतीति तद्-विवेक-दर्शनार्थं श्री-भगवान् उवाच अशोच्यान् इत्य् आदि । शोकस्याविषयी-भूतान् एव बन्धून् त्वम् अन्वशोचः अनुशोचितवान् असि दृष्ट्वेमान् स्वजनान् कृष्ण इत्य् आदिना । तत्र कुतस् त्वा कश्मलम् इदं विषमे समुपस्थितम् इत्य् आदिना मया बोधितो ऽपि पुनश् च प्रज्ञावतां पण्डितानां वादान् शब्दान् कथं भीष्मम् अहं सङ्ख्ये इत्य् आदीन् केवलं भाषसे, न तु पण्डितो ऽसि, यतः गतासून् गत-प्राणान् बन्धून् अगतासूंश् च जीवतो ऽपि, बन्धु-हीना एते कथं जीविष्यन्तीति नानुशोचन्ति पण्डिता विवेकिनः ॥११॥

मधुसूदनः : हेरे

विश्वनाथः : भो अर्जुन ! तवायं बन्ध-वध-हेतुकः शोको भ्रम-मूलक एव, तथा कथं भीष्मम् अहं सङ्ख्ये इत्य् आदिको विवेकश् चाप्रज्ञा-मूलक एवेत्य् आह अशोच्यान् इत्य् आदि । अशोच्यान् शोकानार्हान् एव त्वम् अन्वशोचो ऽनुशोचितवान् असि । तथा त्वां प्रबोधयन्तं मां प्रति प्रज्ञा-वादान् प्रज्ञायां सत्याम् एव ये वादाः कथं भीष्मम् अहं सङ्ख्ये इत्य् आदीनि वाक्यानि तान् भाषसे, न तु तव कापि प्रज्ञा वर्तते इति भावः । यतः पण्डिताः प्रज्ञावन्तो गतासून् गता निःसृता भवन्त्य् असवो येभ्यस् तान् स्थूल-देहान् न शोचन्ति, तेषां नश्वर-भावत्वाद् इति भावः । अगतासून् अनिःसृत-प्राणान् सूक्ष्म-देहान् अपि न शोचन्ति, ते हि मुक्तेः पूर्वं नश्वरा एव । उभयेषाम् अपि तथा तथा स्वभावस्य दुष्परिहरत्वात् । मूर्खास् तु पिर्त्रादि-देहेभ्यः
प्राणेषु निःसृतेष्व् एव शोचन्ति, सूक्ष्म-देहांस् तु न, ते प्रायः परिचिन्वन्त्यस् अतस् तैर् अलम् । एते हि सर्वे भीष्मादयः स्थूल-सूक्ष्म-देह-सहिता आत्मान एव । आत्मनां तु इत्यत्वात् तेषु शोक-प्रवृत्तिर् एव नास्तीत्य् अतस् त्वया यत् पूर्वम् अर्थ-शास्त्रात् धर्म-शास्त्रं बलवद् इत्य् उक्तं तत्र मया तु धर्म-शास्त्राद् अपि ज्ञान-शास्त्रं बलवद् इत्य् उच्यत इति भावः ॥११॥

बलदेवः : एवं अर्जुने तूष्णीं स्थिते तद्-बुद्धिम् आक्षिपन् भगवान् आह अशोच्यान् इति । हे अर्जुन ! अशोच्यान् शोचितुम् अयोग्यान् एव धार्तराष्ट्रांस् त्वं अन्वशोचः शोचितवान् असि । तथा मां प्रति प्रज्ञा-वादान् प्रज्ञावताम् इव वचनानि दृष्ट्वेमं स्वजनम् इत्य् आदीनि, कथं भीष्मम् इत्य् आदीनि च भाषसे, न च ते प्रज्ञा-लेशो ऽप्य् अस्तीति भावः । ये तु प्रज्ञावन्तस् ते गतासून् निर्गत-प्राणान् स्थूल-देहान्, अगतासूंश् चानिर्गत-प्राणान् सूक्ष्म-देहांश् च, शब्दाद् आत्मनश् च न शोचन्ति । अयम् अर्थः - शोकः स्थूल-देहानां विनाशित्वात्, नान्त्यः सूक्ष्म-देहानां मुक्तेः प्राग् अवैनाशित्वात् तद्वताम् आत्मनां तु षड्-भाव-विकार-वर्जितानां नित्यत्वान् न शोच्यातेति । देहात्म-स्वभाव-विदां न को ऽपि शोक-हेतुः । यद्-अर्थ-शास्त्राद् धर्म-शास्त्रस्य
बलवत्त्वम् उच्यते । तत् किल ततो ऽपि बलवता ज्ञान-शास्त्रेण प्रत्युच्यते । तस्माद् अशोच्ये शोच्य-भ्रमः पामर-साधारणः पण्डितस्य ते न योग्य इति भावः ॥११॥


२।१२

न त्व् एवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयम् अतः परम् ॥१२॥

श्रीधरः : अशोच्यत्वे हेतुम् आह न त्व् एवाहम् इति । यथाहं परमेश्वरो जातु कदाचित् लीला-विग्रहस्याविर्भाव-तिरोभावतो नासम् इति तु नैव । अपि त्व् आसम् एव अनादित्वात् । न च त्वं नासीः नाभूः, अपि त्व् आसीर् एव । इमे वा जनाधिपा नृपा नासन्न् इति न, अपि तु आसन्न् एव मद्-अंशत्वात् । तथातः परम् इत उपर्य् अपि न भविष्यामो न स्थास्याम इति च नैव, अपि तु स्थास्याम एवेति जन्म-मरण-शून्यत्वाद् अशोच्या इत्य् अर्थः ॥१२॥

मधुसूदनः :

विश्वनाथः : अथवा सखे त्वाम् अहम् एवं पृच्छामि । किं च प्रीत्यास्पदस्य मरणे दृष्टे सति शोको जायते, तत्रेह प्रीत्यास्पदम् आत्मा देहो वा ? सर्वेषाम् एव भूतानां नृप स्वात्मैव वल्लभः [भ्प् १०।१४।५७] इति शुकोक्तेर् आत्मैव प्रीत्य्-आस्पदम् इति चेत् तर्हि जीवेश्वर-भेदेन द्विविधस्यैवात्मनो नित्यत्वाद् एव मरणाभावाद् आत्मा शोकस्य विषयो नेत्य् आह न त्व् एवाहम् इति । अहं परमात्मा जातु कदाचिद् अपि पूर्वं नासम् इति न, अपि त्व् आसम् एव । तथा त्वम् अपि जीवात्मा आसीर् एव । तथेमे जनाधिपा राजानश् च जीवात्मान आसन्न् एवेति प्राग्-अभावाभावो दर्शितः । तथा सर्वे वयम् अहं त्वम् इमे जनाधिपाश् चातः परं न भविष्यामो न स्थास्याम इति न, अपि तु स्थास्याम एवेति ध्वंसाभावश् च दर्शित इति परमात्मनो जीवात्मनां च नित्यत्वाद् आत्मा न शोक-विषय इति साधितम्
। अत्र श्रुतयः - नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [श्वेतु ६।१३] इत्य् आद्याः ॥१२॥

बलदेवः : एवम् अस्थान-शोचित्वाद् अपाण्डित्यम् अर्जुनस्यापाद्य तत्त्व-जिज्ञासुं नियोजिताञ्जलिं तं प्रति सर्वेश्वरो भगवान् नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [श्वेतु ६।१३] इति श्रुति-सिद्धं स्वस्माज् जीवानां च पारमर्थिकं भेदम् आह न त्व् एवाहम् इति । हे अर्जुन ! अहं सर्वेश्वरो भगवान् इतः
पूर्वस्मिन्न् आदौ काले जातु कदाचिन् नासम् इति न, अपि त्व् आसम् एव । तथा त्वम् अर्जुनो नासीर् इति न, किन्त्व् आसीर् एव । इमे जनाधिपा राजानो नासन्न् इति न, किन्त्व् आसन्न् एव । तथेतः परस्मिन्न् अन्ते काले सर्वे वयम् अहं च त्वं च इमे च न भविष्याम इति न, किन्तु भविष्याम एवेति । सर्वेश्वरवज् जीवानां च त्रैकालिक-सत्ता-योगित्वात् तद्-विषयको न शोको युक्त इत्य् अर्थः । न चाविद्या-कृतत्वाद् व्यवहारिको ऽयं भेदः । सर्वज्ञे भगवत्य् अविद्या-योगात् । इदं ज्ञानम् उपाश्रित्य इत्य् आदिना मोक्षे ऽपि तस्याभिदास्यमानत्वाच् च । न चाभेदज्ञस्यापि हरेर् बाधितानुवृत्ति-न्यायेनेयम् अर्जुनादि-भेद-दृष्टिर् इति वाच्यम् । तथा सत्य् उपदेशासिद्धेः । मरु-मरीचिकादाव् उदक-बुद्धिर् बाधिताप्य् अनुवर्तमाना मिथ्यार्थ-विषयत्व-निश्चयान् नोदकाहरणादौ प्रवर्तयेद् एवम् अभेद-बोध-बाधिताप्य् अनुवर्तमानार्जुनादि-भेद-दृष्टिस्
तत्त्व-निश्चयान् नोपदेशादौ प्रवर्तयिष्यतीति यत् किञ्चिद् एतत् ।

ननु फलवत्य् अज्ञाते ऽर्थे शास्त्र-तात्पर्य-वीक्षणात् तादृशो ऽभेदस् तात्पर्य-विषयो वैफल्याज् ज्ञातत्वाच् च । भेदस् तद्-विषयो न स्यात्, किन्तु अद्भ्यो वा एष प्रातर् उदेत्य् अपः सायं प्रविशति इत्य् आदि-श्रुत्य्-अर्थवद् अनुवाद्य एव स इति चेन् मन्दम् एतत् । पृथग् आत्मानं प्रेरितारं च मत्वा जुष्टस् ततस् तेनामृतत्वम् एति [श्वेतु १।६] इत्य् आदिना भेद एवामृतत्व-फल-श्रवणात् । विरुद्ध-धर्मावच्छिन्न-प्रतियोगिकतया लोके तस्याज्ञातत्वाच् च । ते च धर्मा विभुत्वाणुत्व-स्वामित्व-भृत्यत्वादयः शास्त्रैक-गम्या मिथो विरुद्धा बोध्याः । अभेदस् त्व् अफलस् तत्र फलानङ्गीकारात् । अज्ञातश् च शश-शृङ्गवद् असत्त्वात् । तस्मात् परमार्थिकस् तद्-भेदः सिद्धः ॥१२॥


२।१३

देहिनो ऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तर-प्राप्तिर् धीरस् तत्र न मुह्यति ॥१३॥

श्रीधरः : नन्व् ईश्वरस्य तव जन्मादि-शून्यत्वं सत्यम् एव, जीवानां तु जन्म-मरणे प्रसिद्धे । तत्राह देहिन इत्य् आदि । देहिनो देहाभिमानिनो जीवस्य यथास्मिन् स्थूल-देहे कौमाराद्य्-अवस्थास् तद्-देह-निबन्धना एव, न तु स्वतः, पूर्वावास्था-नाशे ।वस्थान्तरोत्पत्ताव् अपि स एवाहम् इति प्रत्यभिज्ञानात् । तथैव एतद्-देह-नाशे देहान्तर-प्राप्तिर् अपि लिङ्ग-देह-निबन्धनैव । न तावद् आत्मनो नाशः, जात-मात्रस्य पूर्व-संस्कारेण स्तन्य-पानादौ प्रवृत्ति-दर्शनात् । अतो धीरो धीमान् तत्र तयोर् देह-नाशोत्पत्त्योर् न मुह्यति । आत्मैव मृतो जातश् चेति न मन्यते ॥१३॥

मधुसूदनः :

विश्वनाथः : ननु चात्म-सम्बन्धेन देहो ऽपि प्रीत्य्-आस्पदं स्यात्, देह-सम्बन्धेन पुत्र-भ्रात्रादयो ऽपि, तत्-सम्बन्धेन तत्-पुत्रादयो ऽपि । अतस् तेषां नाशे शोकः स्याद् एवेति चेद् अत आह देहिन इति । देहिनो जीवस्यास्मिन् देहे कौमार कौमारं कौमार-प्राप्तिर् भवति, ततः कौमार-नाशानन्तरं जरा-प्राप्तिर् यथा तथैव देहान्तर-प्राप्तिर् इति । ततस् चात्म-सम्बन्धिनां कौमारादीनां प्रीत्य्-आस्पदानां नाशे यथा शोको न क्रियते तथा देहस्यापि आत्म-सम्बन्धिनः प्रीत्यास्पदस्य नाशे शोको न कर्तव्यः । यौवनस्य नाशे जरा-प्राप्तौ शोको जायते इति चेत् कौमारस्य नाशे यौवन-प्राप्तौ हर्षो ऽपि जायते इत्य् अतो भीष्म-द्रोणादीनां जीर्ण-देह-नाशे खलु नव्य-देहान्तर-प्राप्तौ तर्हि हर्षः क्रियताम् इति भावः । यद् वा, एकस्मिन्न् अपि देहे कौमारादीनां यथा प्राप्तिस् तथैवैकस्यापि
देहिनो जीवस्य नाना-देहानां प्राप्तिर् इति ॥१३॥

बलदेवः : ननु भीष्मादि-देहावच्छिन्नानाम् आत्मनां नित्यत्वे ऽपि तद्-देहानां तद्-भोगायतनानां नाशे युक्तः शोक इति चेत् तत्राह देहिनो ऽस्मिन्न् इति । त्रैकालिका बहवो देहा यस्य सन्ति, तस्य देहिनो जीवस्यास्मिन् वर्तमाने देहे क्रमात् कौमार-यौवन-जरास् तिस्रो ऽवस्था भवन्ति । तासाम् आत्म-सम्बन्धिनां तद्-भोगोपयुक्तानां पूर्व-पूर्व-विनाशेन पर-पर-प्राप्तौ यथा न शोकस् तथैव तद्-देह-विनाशे सति देहान्तर-प्राप्तिर् ययाति-यौवन-प्राप्ति-न्यायेन हर्ष-हेतुर् एवेति, न तद्-देह-विनाश-हेतुकः शोकस् तवोचित इति भावः । धीरो धीमान् देह-स्वभाव-जीव-कर्म-विपाक-स्वरूप-ज्ञः । अत्र देहिन इत्य् एक-वचनं जात्य्-अभिप्रायेण बोध्यं पूर्वत्रात्म-बहुत्वोक्तेः ।

अत्राहुः - एक एव विशुद्धात्मा तस्याविद्ययापरिच्छिन्नस्य तस्यां प्रतिबिम्बितस्य वा नानात्मत्वम् । श्रुतिश् चैवम् आह आकाशम् एकं हि यथा घटादिषु पृथग् भवेत्, तथात्मैको ह्य् अनेकस्थो जलाधारेष्व् इवांशुमान् इति । तद्-विज्ञानेन तस्य विनाशे तु तन्-नानात्व-निवृत्त्या तद्-ऐक्यं सिध्यतीत्य् एक-वचनेनैतत् पार्थ-सारथिर् आहेति । तन्-मन्दं जडया तया चैतन्य-राशेश् छेदासम्भवात् । तैर् अपि तद्-विषयत्वानङ्गीकाराच् च । वास्तवे च्छेदे विकारित्वाद्य्-आपत्तिः टङ्क-छिन्न-पाषाणवत् स्यात् - नीरूपस्य विभोः प्रतिबिम्बासम्भवाच् च । अन्यथाकाशादि-गादीनां तद्-आपत्तिः । न च प्रतीत्य्-अन्यथानुपपत्तिर् एवाकाशस्य प्रतिबिम्बे मानं तद्-वर्ति-ग्रह-नक्षत्र-प्रभा-मण्डलं तस्यिअवाम्भसि भासमानत्वेन प्रतीतेः । आकाशम् एकं हि इति श्रुतिस् तु परमात्म-विषया
तस्याकाशवत् सूर्यवच् च बहु-वृत्तिकत्वं वदतीत्य् अविरुद्धम् । न चात्मैक्यस्योपदेष्टा सम्भवति । स हि तत्त्वविन् न वा ? आद्ये ऽद्वितीयम् आत्मानं विजानतस् तस्योपदेश्यापरि-स्फूर्तिः । अन्त्ये त्व् अज्ञत्वाद् एव नात्म-ज्ञानोपदेष्टृत्वम् । बाधितानुवृत्त्याश्रयणं तु पूर्व-निरस्तम् ॥१३॥


२।१४

मात्रा-स्पर्शास् तु कौन्तेय शीतोष्ण-सुख-दुःखदाः ।
आगमापायिनो ऽनित्यास् तांस् तितिक्षस्व भारत ॥१४॥

श्रीधरः : ननु तान् अहं न शोचामि, किन्तु तद्-वियोगादि-दुःख-भाजं माम् एवेति चेत् तत्राह मात्रा-स्पर्शा इति । मीयन्ते जायन्ते विषया आभिर् इति मात्रा इन्द्रिय-वृत्तयः, तासां स्पर्शा विषयेषु सम्बद्धाः, ते शीतोष्णादि-प्रदा भवन्ति । ते तु आगमापायित्वाद् अनित्या अस्थिराः । अतस् तान् तितिक्षस्व सहस्व । यथा जलातपादि-संसर्गास् तत्-तत्-काल-कृताः स्वभावतः शीतोष्णादि प्रयच्छन्ति एवम् इष्ट-संयोग-वियोगा अपि सुख-दुःखानि प्रयच्छन्ति, तेषां चास्थिरत्वात् सहनं तव धीरस्योचितं न तु तन्-निमित्त-हर्ष-विषाद-पारवश्यम् इत्य् अर्थः ॥१४॥

मधुसूदनः :

विश्वनाथः : ननु सत्यम् एव तत्त्वम् । तद् अप्य् अविवेकिनो मम मन एवानर्थकानि वृतहिव शोक-मोह-व्याप्तं दुःखयतीति । तत्र न केवलम् एकं मन एवापि तु मनसो वृत्तयो ऽपि सर्वास् त्व् अगादीन्द्रिय-रूपाः स्व-विषयान् अनुभाव्यानर्थकारिण्य इत्य् आह मात्रा इन्द्रिय-ग्राह्य-विषयास् तेषां स्पर्शा अनुभवाः । शीतोष्णेत्य् आगमापायिन इति यद् एव शीतल-जलादिकम् उष्ण-काले सुखदम् । तद् एव शीत-काले दुःखदम् अतो ऽनियतत्वाद् आगमापायित्वाच् च तान् विषयानुभवान् तितिक्षस्व सहस्व । तेषां सहनम् एव शास्त्र-विहितो धर्मः । नहि माघे मासि जलस्य दुःखत्व-बुद्ध्यैव शास्त्रे विहितः स्नान-रूपो धर्मस् त्यज्यते । धर्म एव काले सर्वानर्थ-निवर्तको भवति । एवम् एव ये पुत्र-भ्रात्राद्योत्पत्ति-काले धनाद्य्-उपार्जन-काले च सुखदास् त एव मृत्यु-काले दुःखदा आगमापायिनो
ऽनित्यास् तान् अपि तितिक्षस्व । न तु तद्-अनुरोधेन युद्ध-रूपः शास्त्र-विहितः स्व-धर्मस् त्याज्यो विहित-धर्मानाचरणं खलु काले महानर्थकृद् एवेति भावः ॥१४॥

बलदेवः : ननु भीष्मादयो मृताः कथं भविष्यन्तीति तद्-दुःख-निमित्तः शोको माभूत् । तद्-विच्छेद-दुःख-निमित्तस् तु मे मन-प्रभृतीनि प्रदहन्तीति चेत् तत्राह मात्रेति । मात्रास् त्व् अगादीन्द्रिय-वृत्तयः मीयन्ते परिच्छिद्यन्ते विषया अभिर् इति व्युत्पत्तेः । स्पर्शास् ताभिर् विषयाणाम् अनुभवान्ते खलु शीतोष्ण-सुख-दुःखदा भवन्ति । यद् एव शीतलम् उदकं ग्रीष्मे सुखदं तद् एव हेमन्ते दुःखदम् इत्य् अतो ऽनियतत्वाद् आगमापायित्वाच् चानित्यान् अस्थिरांस् तान् तितिक्षस्व सहस्व । एतद् उक्तं भवति माघ-स्नानं दुःख-करम् अपि धर्मतया विधानाद् यथा क्रियते तथा भीष्मादिभिः सह युद्धं दुःख-करम् अपि तथा विधानात् कार्यम् एव । तत्रत्यो दुःखानुभवस् त्व् आगन्तुको धर्म-सिद्धत्वात् सोढव्यः । धर्माज् ज्ञानोदयेन मोक्ष-लाभे तूत्तरत्र
तस्य नानुवृत्तिश् च ज्ञान-निष्ठा परिपाकं विनैव धर्म-त्यागस् त्व् अनर्थ-हेतुर् इति । कौन्तेय भारतेति पदाभ्याम् उभय-कुल-शुद्धस्य ते धर्म-भ्रंशो नोचित इति सूच्यते ॥१४॥


२।१५

यं हि न व्यथयन्त्य् एते पुरुषं पुरुषर्षभ ।
सम-दुःख-सुखं धीरं सो ऽमृतत्वाय कल्पते ॥१५॥

श्रीधरः : तत्-प्रतिकार-प्रयत्नाद् अपि तत्-सहनम् एवोचितं महा-फलत्वाद् इत्य् आह यं हीति । एते मात्रा-स्पर्शा यं पुरुषं न व्यथयन्ति नाभिभवन्ति । समे दुःख-सुखे स तम् । स तैर् अविक्षिप्यमाणो धर्म-ज्ञान-द्वारा अमृतत्वाय मोक्षाय कल्पते योग्यो भवति ॥१५॥

मधुसूदनः :

विश्वनाथः : एवं विचारेण तत्-तत्-सहनाभ्यासे सति ते विषयानुभवाः काले किल नापि दुःखयन्ति । यदि च न दुःखयन्ति, तदात्म-मुक्तिः स्व-प्रत्यासन्नैवेत्य् आह यम् इति । अमृतत्वाय मोक्षाय ॥१५॥

बलदेवः : धर्मार्थ-दुःख-सहनाभ्यासस्योत्तरत्र सुख-हेतुत्वं दर्शयन्न् आह यं हीति । एते मात्रा-स्पर्शाः प्रियाप्रिय-विषयानुभावा यं धीरं धियम् ईरयति धर्मेष्व् इति व्युत्पत्तेर् धर्म-निष्ठं पुरुषं न व्यथयन्ति सुख-दुःख-मूर्च्छितं न कुर्वन्ति सो ऽमृतत्वाय मुक्तये कल्प्यते । न तु तादृशो दुःख-सुख-मूर्च्छित इत्य् अर्थः । उक्तम् अर्थं स्फुटयन् पुरुषं विशिनष्टि समेति । धर्मानुष्ठानस्य कष्ट-साध्यत्वाद् दुःखम् अनुषङ्ग-लब्धं सुखं च यस्य समं भवति ताभ्यां मुख-म्लानितोल्लास-रहितम् इत्य् अर्थः ॥१५॥


२।१६

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोर् अपि दृष्टो ऽन्तस् त्व् अनयोस् तत्त्व-दर्शिभिः ॥१६॥

श्रीधरः : ननु तथापि शीतोष्णादिकम् अतिदुःसहं कथं सोढव्यम् । अत्यन्तं तत्-सहने च कदाचिद् देह-नाशः स्याद् इत्य् आशङ्क्य तत्त्व-विचारतः सर्वं सोढुं शक्यम् इत्य् आशयेनाह नासतो विद्यत इति । असतो ऽनात्म-धर्मत्वाद् अविद्यमानस्य शीतोष्णादेर् आत्मनि भावः सत्ता न विद्यते । तथा सतः सत्-स्वभावस्यात्मनो ऽभावो नाशो न विद्यते । एवम् उभयोः सद्-असतोर् अन्तो निर्णयो दृष्टः । कैः ? तत्त्व-दर्शिभिः वस्तु-याथार्थ्य-वेदिभिः । एवम्भूत-विवेकेन सहस्वेत्य् अर्थः ॥१६॥

मधुसूदनः :

विश्वनाथः : एतच् च विवेक-दशान् अधिरूढान् प्रति उक्तम् । वस्तुतस् तु असङ्गो ह्य् अयं पुरुषः इति श्रुतेर् जीवात्मनश् च स्थूल-सूक्ष्म-देहाभ्यां तद्-धर्मैः शोक-मोहादिभिश् च सम्बन्धो नास्त्य् एव । तत्-सम्बन्धस्य अविद्या कल्पितत्वाद् इत्य् आह नेति । असतो ऽनात्म-धर्मत्वाद् आत्मनि जीवे अवर्तमानस्य शोक-मोहादेस् तद्-आश्रयस्य देहस्य च भावः सत्ता नास्ति । तथा सतः सत्य-रूपस्य जीवात्मनो ऽभावो नाशो नास्ति । तस्माद् उभयोर् एतयोर् असत्-सतोर् अन्तो निर्णयो ऽयं दृष्टः । तेन भीष्मादिषु त्वद्-आदिषु च जीवात्मसु सत्यत्वाद् अनश्वरेषु देह-दैहिक-विवेक-शोक-मोहादयो नैव सन्ति कथं भीष्मादयो नङ्क्षन्ति । कथं वा तांस् त्वं शोचसीति भावः ॥१६॥

बलदेवः : तद् एवं भगवता पार्थस्यास्थानाशोचित्वेन तत्-पाण्डित्यम् आक्षिप्तम् । शोक-हरं च स्वोपासनम् एव तच् चोपासोपासक-भेद-घटितम् इत्य् उपास्याज् जीवांशिनः स्वस्माद् उपासकानां जीवांशानां तात्त्विकं द्वैतम् उपदिष्टम् । अथ यद् आत्म-तत्त्वेन तु ब्रह्म-तत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् [श्वेतु २।१५] इत्य् आदाव् अंश-स्वरूप-ज्ञानस्यांशि-स्वरूप-ज्ञानोपयोगित्व-श्रवणात् तद् आदौ सनिष्ठादीन् सर्वान् प्रत्यविशेषेणोपदेश्यं तच् च देहात्मनोर् वैधर्म्य-धियम् अन्तरा न स्याद् इति तद्-वैधर्म्य-बोधायारभ्यते नासत इत्य् आदिभिः । असतः परिणामिनो देहादेर् भावो ऽपरिणामित्वं न विद्यते । सतो ऽ परिणामिन आत्मनस् त्व् अभावः परिणामित्वं न विद्यते । देहात्मानौ परिणामापरिणाम-स्वभावौ भवतः । एवम् उभयोर् असत्-सच्-छब्दितयोर् देहात्मनोर्
अन्तो निर्णयस् तत्त्व-दर्शिभिस् तद्-उभय-स्वभाव-वेदिभिः पुरुषैर् दृष्टो ऽनुभूतः । अत्रासच्-छब्देन विनश्वरं देहादि जडं सच्-छब्देन त्व् अविनश्वरम् आत्म-चैतन्यम् उच्यते । एवम् एव श्री-विष्णु-पुराणे ऽपि निर्णीतं दृष्टं ज्योतींषि विष्णुर् भुवनानि विष्णुर् [विप् २।१२।३८] इत्य् उपक्रम्य यद् अस्ति यन् नास्ति च विप्र-वर्य [?] इत्य् अस्ति । नास्ति-शब्द-वाच्ययोश् चेतन-जडयोस् तथात्वं वस्त्व् अस्ति किं कुत्रद्चिद् इत्य् आदिभिर् निरूपितः । तत्र नास्ति शब्द-वाच्यं जडम् । अस्ति-शब्दवात्यं तु चैतन्यम् इति स्वयम् एव विवृतम् । यत् तु सत्-कार्य-वाद-स्थापनायै तत्-पद्यम् इत्य् आहुस् तन्-निरवधानं देहात्म-स्वभावानभिज्ञान-मोहितं प्रति तन्-मोह-विनिवृत्तये तत्-स्वभावाभिज्ञापनस्य प्रकृतत्वात् ॥१६॥


२।१७

अविनाशि तु तद् विद्धि येन सर्वम् इदं ततम् ।
विनाशम् अव्ययस्यास्य न कश्चित् कर्तुम् अर्हति ॥१७॥

श्रीधरः : अत्र सत्-स्वभावम् अविनाशि वस्तु सामान्येनोक्तं ततं तत्-साक्षित्वेन व्याप्तं तं तु आत्म-स्वरूपम् अविनाशि विनाश-शून्यं विद्धि जानीहि । तत्र हेतुम् आह विनाशम् इति ॥१७॥

मधुसूदनः :

विश्वनाथः : नाभावो विद्यते सतः इत्य् अस्यार्थं स्पष्टयति अविनाशीति । तं जीवात्म-स्वरूपं येन सर्वम् इदं शरीरं ततं व्याप्तम् । ननु शरीर-मात्र-व्यापि-चैतन्यत्वे जीवात्मनो मध्यम-परिमाणत्वेन अनित्यत्व-प्रसक्तिः ? मैवम् । सूक्ष्माणाम् अप्य् अहं जीवः इति भगवद्-उक्तेः । एषोणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश इति,

बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः [श्वेतु ५।९] इति,

आराग्र-मात्रो ह्य् अपरो ऽपि दृष्टः इति श्रुतिभ्यश् च तस्य परमाणु-परिमाणत्वम् एव । तद् अपि सम्पूर्ण-देह-व्यापि-शक्तिमत्त्वं जतु-जटितस्य महा-मणेर् महौषधि-खण्डस्य वा शिरस्य् उरसि वा धृतस्य सम्पूर्ण-देह-पुष्टि-करण-शक्तिमत्त्वम् इव नासमञ्जसम् । स्वर्ग-नरक-नाना-योनिषु गमनं च तस्योपाधि-पारवश्याद् एव । तद् उक्तं प्राणम् अधिकृत्य दत्तात्रयेण येन संसरते पुमान् इति । अतएवास्य सर्व-गतत्वम् अप्य् अग्रिम-श्लोके वक्ष्यमाणं नासमञ्जसम् । अतएवाव्ययस्य नित्यस्य नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् [श्वेतु ६।१३] इति श्रुतेः ।

यद् वा, ननु देहो जीवात्मा परमात्मेत्य् एतद् वस्तु-त्रिकं मनुष्य-तिर्यग्-आदिषु सर्वत्र दृश्यते, तत्राद्ययोर् देह-जीवयोस् तत्त्वं नासतो विद्यते भावः इत्य् अनेनोक्तम् । तृतीयस्य परमात्म-वस्तुनः किं तत्त्वम् इत्य् अत आह अविनाशि त्व् इति । तु भिन्नोपक्रमे । परमात्मनो माया-जीवाभ्यां स्वरूपतः पार्थक्याद् इदं जगत् ॥१७॥

बलदेवः : उक्तं जीवात्म-देहयोः स्वभावं विशदयत्य् अविनाशीति द्वाभ्याम् । तज् जीवात्म-तत्त्वम् अविनाशि नित्यं विद्धि । येन सर्वम् इदं शरीरं ततं धर्म-भूतेन ज्ञानेन व्याप्तम् अस्ति । अस्याव्ययस्य पर्माणुत्वेन च विनाशानर्हस्य विनाशं न कश्चित् स्थूलो ऽर्थः कर्तुम् अर्हति प्राणस्येव देहः । इह जीवात्मनो देह-परिमितत्वं न प्रत्येतव्यम् । एषो ऽणुर् आत्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश [ंउण्डु ३।१।९] इत्य् आदिषु तस्य परमाणुत्व-श्रवणात् । तादृशस्य निखिल-देह-व्याप्तिस् तु धर्म-भूत-ज्ञानेनैव स्यात् । एवम् आह भगवान् सूत्रकारः - गुणाद् वालोकवद् [व्स्। २।३।२६] इति । इहापि स्वयं वक्ष्यति यथा प्रकाशयत्य् एकः [गीता १३।३३] इत्य् आदिना ॥१७॥


२।१८

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनो ऽप्रमेयस्य तस्माद् युध्यस्व भारत ॥१८॥

श्रीधरः : आगमापाय-धर्मकं सन्दर्श्यति अन्तवन्त इति । अन्तो विनाशो विद्यते येषां ते अन्तवन्तः । नित्यस्य सर्वदैक-रूपस्य शरीरिणः शरीरवतः । अतएवानाशिनो विनाश-रहितस्य अप्रमेयस्यपरिच्छिन्नस्यात्मन इमे सुख-दुःखादि-धर्मक-देहा उक्तास् तत्त्व-दर्शिभिः । यस्माद् एवम् आत्मनो न विनाशः, न च सुख-दुःखादि-सम्बन्धः, तस्मान् मोहजं शोक्तं त्यक्त्वा युध्यस्व । स्वधर्मं मा त्यक्षीर् इत्य् अर्थः ॥१८॥

मधुसूदनः : ननु स्फुरण-रूपस्य सतः कथम् अविनाशित्वं तस्य देह-धर्मत्वाद् देहस्य चानुक्षण-विनाशाद् इति भूत-चैतन्य-वादिनस् तान् निराकुर्वन्न् आसतो विद्यते भाव इत्य् एतद् विवृणोति अन्तवन्त इति । अन्तवन्तो विनाशिन इमे ऽपरोक्षा देहा उपचितापचित-रूपत्वाच् छरीराणि । बहु-वचनात् स्थूल-सूक्ष्म-कारण-रूपा विराट्-सूत्राव्याकृताख्याः समष्टि-व्यष्ट्य्-आत्मनः सर्वे नित्यस्याविनाशिन एव शरीरिण आध्यासिक-सम्बन्धेन शरीरवतएकस्यात्मनः स्व-प्रकाश-स्फुरण-रूपस्य सम्बन्धिनो दृश्यत्वेन भोग्यत्वेन चोक्ताः श्रुतिभिर् ब्रह्म-वादिभिश् च । तथा च तैत्तिरीयके ऽन्नमयाद्यानन्दमयानन्तान् पञ्च कोशान् कल्पयित्वा तद्-अधिष्ठानम् अकल्पितं ब्रह्म पुच्छं प्रतिष्ठा [तैत्तु २।५] इति दर्शितम् । तत्र पञ्चीकृत-पञ्च-महाभूत-तत्-कार्यात्मको
विराण्-मूर्त-राशिर् अन्न-मय-कोशः स्थूल-समष्टिः । तत्-कारणी-भूतो ऽपञ्चीकृत-पञ्च-महा-भूत-तत्-कार्यात्मको हिरण्यगर्भः सूत्रम् अमूर्त-राशिः सूक्ष्म-समष्टिः त्रयं वा इदं नाम रूपं कर्म [बउ १।६।१] इति बृहद्-आरण्यकोक्त-त्र्य्-अन्नात्मकः सर्व-कर्मात्मकत्वेन क्रिया-शक्ति-मात्रम् आदाय प्राण-मय-कोश उक्तः । नामात्मकत्वेन ज्ञान-शक्ति-मात्रम् आदायमनोमय-कोश उक्तः । रूपात्मकत्वेन तद्-उभयाश्रयतया कर्तृत्वम् आदाय विज्ञान-मय-कोश उक्तः । ततः प्राण-मय-मनो-मय-विज्ञान-मयात्मैक एव हिरण्यगर्भाख्यो लिङ्ग-शरीर-कोशः । तत्-कारणीभूतस् तु मायोपहित-चैतन्यात्मा सर्व-संस्कार-शेषो ऽव्याकृताख्य आनन्द-मय-कोशः । ते च सर्व एकस्यैवात्मनः शरीराणीत्य् उक्तम् । तस्यैष एव शारीर
आत्मा यः पूर्वस्य [तैत्तु २।३।४] इति । तस्य प्राण-मयस्यैष एव शरीरे भवः शारीर आत्मा यः सत्य-ज्ञानादि-लक्षणो गुहा-निहितत्वेनोक्तः पूर्वस्यान्न-मयस्य । एवं प्राण-मय-मनो-मय-विज्ञान-मयानन्द-मयेषु योज्यम् ।

अथवेमे सर्वे देहास् त्रैलोक्य-वर्ति-सर्व-प्राणि-सम्बन्धिन एकस्यैवात्मन उक्ता इति योजना । तथा च श्रुतिः -

एको देवः सर्व-भूतेषु गूढः
सर्व-व्यापी सर्व-भूतान्तरात्मा ।
कर्माध्यक्षः सर्व-भूताधिवासः
साक्षी चेतो केवलो निर्गुणश् च ॥ [श्वेतु ६।११]

इति सर्व-शरीर-सम्बन्धिनम् एकम् आत्मानं नित्यं विभुं दर्शयति ।

ननु नित्यत्वं यावत्-काल-स्थायित्वं तथा चाविद्यादिवत् कालेन सह नाशे ऽपि तद्-उपपन्नम् इत्य् अत आह अनाशिन इति । देशतः कालतो वस्तुतश् चपरिच्छिनस्याविद्यादेः कल्पितत्वेनानित्यत्वे ऽपि यावत्-काल-स्थायि-स्वरूपम् औपचारिकं नित्यत्वं व्यवह्रियते यावद्-विकारं तु विभागो लोकवत् [व्स् २।३।७] इति न्यायात् । आत्मनस् तु परिच्छेद-त्रय-शून्यस्याकल्पितस्य विनाश-हेत्व्-अभावान् मुख्यम् एव कूटस्थ-नित्यत्वं न तु परिणामि-नित्यत्वं यावत्-काल-स्थायित्वं चेत्य् अभिप्रायः ।

नन्व् एतादृशे देहिनि किञ्चित् प्रमाणम् अवश्यं वाच्यम् अन्यथा निष्प्रमाणस्य तस्यालीकत्वापत्तेः शास्त्रारम्भ-वैयर्थ्यापत्तेश् च । तथा च वस्तु-परिच्छेदो दुष्परिहरः शास्त्र-योनित्वात् [व्स् १।१।३] इति न्यायाच् च । अत आह अप्रमेयस्येति । एकधैवानुद्रष्टव्यम् एतद् अप्रमयं ध्रुवम् [बउ ४।७।२] अप्रमयम् अप्रमेयम् ।

न तत्र सूर्यो भाति न चन्द्र-तारकं
नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । [कठु ५।१५]

तम् एव भान्तम् अनुभाति सर्वं
तस्य भासा सर्वम् इदं विभाति [ंउण्डु २।२।१०]

इति च श्रुतेः स्व-प्रकाश-चैतन्य-रूप एवात्मातस् तस्य सर्व-भासकस्य स्वभानार्थं न स्वभास्यापेक्षा, किन्तु कल्पिताज्ञान-तत्-कार्य-निवृत्त्य्-अर्थं कल्पित-वृत्ति-विशेषापेक्षा । कल्पितस्यैव कल्पित-विरोधित्वात् । यक्षानुरूपो बलिः इति न्यायात् । तथा च सर्व-कल्पित-निवर्तक-वृत्ति-विशेषोत्पत्त्य्-अर्थं शास्त्रारम्भः, तस्य तत्त्वम् अस्य् आदि-वाक्य-मात्राधीनत्वात् । स्वतः सर्वदाभासमानत्वात् सर्व-कल्पनाधिष्ठानत्वाद् दृश्यमात्र-भासकत्वाच् च न तस्य तुच्छत्वापत्तिः । तथा चैकम् एवाद्वितीयं सत्यं ज्ञानम् अनन्तं ब्रह्मेत्य् आदि-शास्त्रम् एव स्व-प्रमेयानुरोधेन स्वस्यापि कल्पितत्वम् आपादयति अन्यथा स्व-प्रामाण्यानुपपत्तेः ।

कल्पितस्य चाकल्पित-परिच्छेदकत्वं नास्तीति प्राक्-प्रतिपादितम् । आत्मनः स्वप्रकाशत्वं च युक्तितो ऽपि भगवत्-पूज्यपादैर् उपपादितम् । तथा हि - यत्र जिज्ञासोः संशय-विपर्यय-व्यतिरेक-प्रमाणानाम् अन्यतमम् अपि नास्ति तत्र तद्-विरोधि ज्ञानम् इति सर्वत्र दृष्टम् । अन्यथा त्रितयान्यतमापत्तेः । आत्मनि चाहं वा नाहं वेति न कस्यचित् संशयः । नापि नाहम् इति विपर्ययो व्यतिरेकः प्रमा वेति तत्-स्वरूप-प्रमा सर्वदास्तीति वाच्यं तस्य सर्व-संशय-विपर्यय-धर्मित्वात् । धर्म्यशे सर्वम् अभ्रान्तं प्रकारे तु विपर्ययः इति न्यायात् । अत एवोक्तम् -

प्रमाणम् अप्रमाणं च प्रमाभासस् तथैव च ।
कुर्वन्त्य् एव प्रमां यत्र तद्-असम्भावना कुतः ॥ [बृहद्-वामनप् १।४।८७४]

प्रमाभासः संशयः । स्व-प्रकाशे सद्-रूपे धर्मिणि प्रमाणाप्रमाणयोर् विशेषो नास्तीत्य् अर्थः । आत्मनो ऽभासमानत्वे च घट-ज्ञानं मयि जातं न वेत्य् आदि-संशयः स्यात् । न चान्तर-पदार्थे विषयस्यैव संशयादि-प्रतिबन्धकत्व-स्वभावः । बाह्य-पदार्थे क् प्तेन विरोधि-ज्ञानेनैव संशयादि-प्रतिबन्ध-सम्भव आन्तर-पदार्थे स्वभाव-भेद-कल्पनाया अनौचित्यात् । अन्यथा सर्व-विप्लवापत्तेः । आत्म-मनो-योग-मात्रं चात्म-साक्षात्कारे हेतुः । यस्य च ज्ञान-मात्रे हेतुत्वाद् घटादि-भाने ऽप्य् आत्म-भानं समूहालम्बन-न्यायेन तार्किकाणां प्रवरेणापि दुर्निवारं । न च चाक्षुषत्व-मान-सत्त्वादि-सङ्करः । लौकिकत्वालौकिकत्ववद् अंश-भेदेनोपपत्तेः । सङ्करस्यादोषत्वाच् चाक्षुषत्वादेर् जातित्वानभ्युपगमाद् वा । व्यवसायमात्र
एवात्मभान-सामग्र्या विद्यमानत्वाद् अनुव्यवसायो ऽप्य् अपास्तः । न च व्यवसाय-भानार्थं स तस्य दीपवत् स्व-व्यवहारे सजातीयानपेक्षत्वात् । न हि घट-तज्-ज्ञानयोर् इव व्यवसायानुव्यवसाययोर् अपि विषयत्व-विषयित्व-व्यवस्थापकं वैजात्यम् अस्ति व्यक्ति-भेदातिरिक्त-वैधर्म्यानभ्युपगमात् । विषयत्वावच्छेदक-रूपेणैव विषयित्वाभ्युपगमे घट-तज्-ज्ञानयोर् अपि तद्-भावापत्तिर् अविशेषात् ।

ननु यथा घट-व्यवहारार्थं घट-ज्ञानम् अभ्युपेयते तथा घट-ज्ञान-व्यवहारार्थं घट-ज्ञान-विषयं ज्ञानम् अभ्युपेयं व्यवहारास्य व्यवहर्तव्य-ज्ञान-साध्यत्वाद् इति चेत् । कानुपपत्तिर् उद्भाविता देवानां-प्रियेण स्व-प्रकाश-वादिनः । नहि व्यवहर्तव्य-भिन्नत्वम् अपि ज्ञान-विशेषणं व्यवहार-हेतुतावच्छेदकं गौरवात् । तथा चेश्वर-ज्ञानवद्योगि-ज्ञानवत् प्रमेयम् इति ज्ञानवच् च स्वेनैव स्व-व्यवहारोपपत्तौ न ज्ञानान्तर-कल्पनावकाशः । अनुव्यवसायस्यापि घट-ज्ञान-व्यवहार-हेतुत्वं किं घट-ज्ञान-ज्ञानत्वेन किं वा घट-ज्ञानत्वेनैवेति विवेचनीयम् । उभयस्यापि तत्र सत्त्वात् । तत्र घट-व्यवहारे घट-ज्ञानत्वेनैव हेतुतायाः क् प्तत्वात् तेनैव रूपेण घत-ज्ञान-व्यवहारे,पि हेतुतोपपत्तौ न घट-ज्ञान-ज्ञानत्वं हेतुतावच्छेदकं
गौरवान् मानाभावाच् च । तथा च नानुव्यवसाय-सिद्धिर् एकस्यैव व्यवसायस्य वय्वसातरि व्यवसेये व्यवसाये च व्यवहार-जनकत्वोपपत्तेर् इति त्रिपुटी-प्रत्यक्ष-वादिनः प्राभाकराः ।

औपनिषदास्तु मन्यन्ते स्व-प्रकाश-ज्ञान-रूप एवात्मा न स्वप्रकाश-ज्ञानाश्रयः कर्तृ-कर्म-विरोधेन तद्-भानानुपपत्तेः । ज्ञान-भिन्नत्वे घटादिवज्-जडत्वेन कल्पितत्वापत्तेश् च । स्वप्रकाश-ज्ञान-मात्र-स्वरूपो ऽप्य् आत्माविद्योपहितः सन् साक्षीत्य् उच्यते । वृत्ति-मद्-अन्तःकरणोपहितः प्रमातेत्य् उच्यते । तस्य चक्षुर्-आदीनि करणानि । स चक्षुर्-आदि-द्वारान्तः-करण-परिणामेन घटादीन् व्याप्य तद्-आकारो भवति । ततो घटावच्छिन्न-चैतन्यं प्रमात्र-भेदात् स्वाज्ञानं नाशयद् अपरोक्षं भवति । घटं च स्वावच्छेदकं स्व-तादात्म्याध्यासाद् भासयति । अन्तः-करण-परिणामश् च वृत्त्याख्यो ऽतिस्वच्छः स्वावच्छिन्नेनैव चैतन्येन भास्यत इत्य् अन्तः-करण-तद्-वृत्ति-घटानाम् अपरोक्षता । तद् एतद् आकार-त्रयम् अहं जानामि घटम् इति । भासक-चैतन्यस्यैक-रूपत्वे
ऽपि घटं प्रति वृत्त्य्-अपेक्षत्वात् प्रमातृता । अन्तःकरण-तद्-वृत्तीः प्रति तु वृत्त्य्-अनपेक्षत्वात् साक्षितेति विवेकः । अद्वैत-सिद्धौ सिद्धान्त-बिन्दौ च विस्तरः ।

यस्माद् एवं प्राग्-उक्त-न्यायेन न्तियो विभुर् असंसारी सर्वदैक-रूपश् चात्मा तस्मात् तन्-नाश-शङ्कया स्वधर्मे युद्धे प्राक्-प्रवृत्तस्य तव तस्माद् उपरतिर् न युक्तेति युद्धाभ्यनुज्ञया भगवान् आह - तस्माद् युध्यस्व भारतेति । अर्जुनस्य स्वधर्मे युद्धे प्रवृत्तस्य तत उपरति-कारणं शोक-मोहौ । तौ च विचार-जनितेन विज्ञानेन वाधिताव् इत्य् अपवादापवाद उत्सर्गस्य स्थितिर् इति न्यायेन युध्यस्वेत्य् अनुवादो न विधिः । यथा कर्तृ-कर्मणोः कृति [पाण् २।३।६५] इत्य् उत्सर्गः । उभय-प्राप्तौ कर्मणि [पाण् २।३।६६] इत्य् अपवादः । अकाकारयोः स्त्री-प्रत्यययोः प्रयोगे नेति वक्तव्यम् इति तद्-अपवादः । तथा च मुमुक्षोर् ब्रह्मणोर् जिज्ञासेत्य् अत्रापवादापवादे पुनर् उत्सर्ग-स्थितेः कर्तृ-कर्मणोः कृतीत्य् अनेनैव षष्ठी । तथा च कर्मणि चेति निषेधा-प्रसाराद् ब्रह्म-जिज्ञासेति कर्म-षष्ठी-समासः
सिद्धो भवति । कश्चित् त्व् एतस्माद् एव विधेर् मोक्षे ज्ञान-कर्मणोः समुच्चय इति प्रलपति । तच् च युध्यस्वेत्य् अतो मोक्षस्य ज्ञान-कर्म-समुच्चय-साध्यत्वाप्रतीतेः । विस्तरेण चैतद् अग्रे भगवद्-गीता-वचन-विरोधेनैव निराकरिष्यामः ॥१८॥

विश्वनाथः : नासतो विद्यते भावः इत्य् अस्यार्थं स्पष्टयति अन्तवन्त इति । शरीरिणो जीवस्याप्रमेयस्याति-सूक्ष्मत्वाद् दुर्ज्ञेयस्य । तस्माद् युध्यस्व इति शास्त्र-विहितस्य स्वधर्मस्य त्यागो ऽनुचित इति भावः ॥१८॥

बलदेवः : अन्तवन्तो विनाशि-स्वभावाः, शरीरिणो जीवात्मनः । अप्रमेयस्यातिसूक्ष्मत्वाद् विज्ञान-विज्ञातृ-स्वरूपत्वाच् च प्रमातुम् अशक्यस्येत्य् अर्थः । तथा चेदृश-स्वभावत्वाज् जीव-तद्-देहौ न शोक-स्थानम् इति जीवात्मनो देहो धर्मानुष्टानुष्ठान-द्वारा तस्य भोगाय मोक्षाय च परेशेन सृज्यते । स च स च धर्मेण भवेत् तस्माद् युध्यस्व भारत ॥१८॥


२।१९

य एनं वेत्ति हन्तारं यश् चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥१९॥

श्रीधरः : तद् एवं भीष्मादि-मृत्यु-निमित्तः शोको निवारितः, यच् चात्मनो हन्तृत्व-निमित्तं दुःखम् उक्तम् एतान् न हन्तुम् इच्छामि इत्य् आदिना, तद् अपि तवद् एव निर्निमित्तम् इत्य् आह य एनम् इति । एनम् आत्मानम् । आत्मनो हनन-क्रियायाः कर्मत्वं कर्तृत्वम् अपि नास्तीत्य् अर्थः । तत्र हेतुर् नायम् इति ॥१९॥

मधुसूदनः : नन्व् एवम् अशोच्यान् अन्वशोचचस् त्वम् इत्य् आदिना भीष्मादि-बन्धु-विच्छेद-निबन्धने शोके ऽपनीते ऽपि तद्-वध-कर्तृत्व-निबन्धनस्य पापस्य नास्ति प्रतीकारः । नहि यत्र शोको नास्ति तत्र पापं नास्तीति नियमः । द्वेष्य-ब्राह्मण-वधे पापाभाव-प्रसङ्गात् । अतो ऽहं कर्ता त्वं प्रेरक इति द्वयोर् अपि हिंसा-निमित्त-पातकापत्तेर् अयुक्तम् इदं वचनं तस्माद् युध्यस्व भारतेत्य् आशङ्क्य काठक-पठितय र्चा परिहरति भगवान् य एनम् इति ।

एनं प्रकृतं देहिनम् अदृश्यत्वादि-गुणकं यो हन्तारं हनन-क्रियायाः कर्तारं वेत्ति अहम् अस्य हन्तेति विजानाति । यश् चान्य एनं मन्यते हतं हनन-क्रियायाः कर्म-भूतं देह-हननेन हतो ऽहम् इति विजानाति । ताव् उभौ देहाभिमानित्वाद् एनम् अविकारिणम् अकारक-स्वभावम् आत्मानं न विजानीतो न विवेकेन जानीतः शास्त्रात् । कस्मात् यस्मान् नायं हन्ति न हन्यते कर्ता कर्म च न बह्वतीत्य् अर्थः ।

अत्र य एनं वेत्ति हन्तारं हतं चेत्य् एतावति वक्तव्ये पदानाम् आवृत्तिर् वाक्यालङ्कारार्था । अथवा य एनं वेत्ति हन्तारं तार्किकादिर् आत्मनः कर्तृत्वाभ्युपगमात् । तथा यश् चैनं मन्यते हतं चार्वाकादिर् आत्मनो विनाशित्वाभ्युपगमात् । ताव् उभौ न विजानीत इति योज्यम् । वादि-भेद-ख्यापनाय पृथग् उपन्यासः । अतिशूरातिकातर-विषयतया वा पृथग्-उपदेशः । हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् [कठु १।२।१९] इति पूर्वार्धे श्रौतः पाठः ॥१९॥
विश्वनाथः : भो वयस्य अर्जुन ! त्वम् आत्मा । न हन्तेः कर्ता, नापि हन्तेः कर्म इत्य् आह य इति । एनं जीवात्मानं हन्तारं वेत्ति भीष्मादीन् अर्जुनो हन्तीति यो वेत्तीत्य् अर्थः, हतम् इति भीष्मादिभिर् अर्जुनो हन्यते इति यो वेत्ति, ताव् उभाव् अप्य् अज्ञानिनौ । अतो ऽर्जुनो ऽयं गुरु-जनं हन्तीत्य् अज्ञानि-लोक-गीताद् दुर्यशः का ते भीतिर् इति भावः ॥१९॥

बलदेवः : उक्तम् अविनाशित्वं द्रढयति । एनम् उक्त-स्वभावम् आत्मानं जीवं यो हन्तारं खड्गादिना हिंसकं वेत्ति यश् चैनं तेन हतं हिंसितं मन्यते ताव् उभौ तत्-स्वरूपं न विजानीतः । अतिसूक्ष्मस्य चैतन्यस्य तस्य छेदाद्य्-असम्भवान् नायम् आत्मा हन्ति न हन्यते । हन्तेः कर्ता कर्म च भवतीत्य् अर्थः । हन्तेर् देह-वियोगार्थत्वान् न तेनात्मनां नाशो मन्तव्यः । श्रुतिश् चैवम् आह - हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् [कठु १।२।१९] इत्य् आदिना । एतेन मा हिंस्यात् सर्व-भूतानि इत्य् आदि-वाक्यं देह-वियोग-परं व्याख्यातम् । न चात्रात्मनः कर्तृत्वं प्रसिद्धम् इति वाच्यम् । देह-वियोजने तत् तस्य सत्त्वात् ॥१९॥


२।२०

न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतो ऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥२०॥

श्रीधरः : न हन्यत इत्य् एतद् एव षड्-भाव-विकार-शून्यत्वेन द्रढयति नेति । न जायत इत्य् आदि । न जायत इति जन्म-प्रतिषेधः । न म्रियत इति विनाश-प्रतिषेधः । वा-शब्दौ चार्थे । न चायं भूत्वा उत्पद्य भविता भवति अस्तित्वं भजते, किन्तु प्राग् एव स्वतः सद्-रूप इति जन्मान्तरास्तित्व-लक्षण-द्वितीय-विकार-प्रतिषेधः । तत्र हेतुः यस्माद् अजः । यो हि न जायते स हि जन्मान्तरम् अस्तित्वं भजते, न तु यः स्वयम् एवास्ति स भूयो ऽपि अन्यद् अस्तित्वं भजते इत्य् अर्थः । नित्यः सर्व्दैक-रूप इति वृद्धि-प्रतिषेधः । शाश्वतः शश्वद्-भव इति अपक्षय-प्रतिषेधः । पुराण इति विपरिणाम-प्रतिषेधः । पुरापि नव एव न तु परिणामतः रूपान्तरं प्राप्य नवो भवतीत्य् अर्थः ।

यद् वा न भवितेत्य् अस्यानुषङ्गं कृत्वा भूयो ऽधिकं यथा भवितेति तथा न भवतीति वृद्धि-प्रतिषेधः । अजो नित्य इति चोभय-वृद्ध्य्-आद्य्-अभावे हेतुर् इति न पौनरुक्त्यम् । तद् एवं जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यत्य् एवं यास्कादिभिर् वेद-वादिभिर् उक्ताः षड्-भाव-विकारा निरस्ताः । यद् अर्थम् एते विकारा निरस्तास् तं प्रस्तुतं विनाशाभावम् उपसंहरति न हन्यते हन्यमाने शरीर इति ॥२०॥

मधुसूदनः : कस्माद् अयम् आत्मा हनन-क्रियायाः कर्ता कर्म च न भवति ? अविक्रियत्वाद् इत्य् आह द्वितीयेन मन्त्रेण । जायते ऽस्ति वर्धते विपरिणमते ऽपक्षीयते विनश्यतीति षड्-भाव-विकारा इति वार्ष्यायणिः इति नैरुक्ताः । तत्राद्य्-अन्तयोर् निषेधः क्रियते न जायते म्रियते वेति । वा-शब्दः समुच्चयार्थः । न जायते न म्रियते चेत्य् अर्थः । कस्माद् अयम् आत्मा नोत्पद्यते ? यस्माद् अयम् आत्मा कदाचित् कस्मिन्न् अपि काले न भूत्वाभूत्वा प्राग् भूयः पुनर् अपि भविता न । यो ह्य् अभूत्वा भवति स उत्पत्ति-लक्षणां विक्रियाम् अनुभवति । अयं तु प्राग् अपि सत्त्वाद्यतो नोत्पद्यते ऽतो ऽजः । तथायम् आत्मा भूत्वा प्राक् कदाचिद् भूयः पुनर् न भविता । न वा-शब्दाद् वाक्य-विपरि-वृत्तिः । यो हि प्राग्-भूत्वोत्तर-काले न भवति स मृत्-लक्षणां विक्रियाम् अनुभवति । अयं तूत्तर-काले
ऽपि सत्त्वाद्यतो न मिर्यते ऽतो नित्यो विनाशायोग्य इत्य् अर्थः । अत्र न भूत्वेत्य् अत्र समासाभावे ऽपि नानुपपत्तिर् नानुयोजेष्व् अतिवत् । भगवता पाणिनिना महा-विभाषाधिकारे नञ्-समास-पाठात् । यत् तु कात्यायनेनोक्तं समास-नित्यताभिप्रायेण वा-वचनानर्थक्यं तु स्वभाव-सिद्धत्वात् इति तद्-भगवत्-पाणिइनि-वचन-विरोधाद् अनादेयम् । तद् उक्तम् आचार्य-शवर-स्वामिना - असद्-वादी हि कात्यायनः इति ।

अत्र न जायते म्रियते वेति प्रतिज्ञा । कदाचिन् नायं भूत्वा भविता वा न भूय इति तद्-उपपादनम् । अजो नित्य इति तद्-उपसंहार इति विभागः । आद्यन्तयोर् विकारयोर् निषेधेन मध्यवर्ति-विकाराणां तद्-व्याप्यानां निषेधे जाते ऽपि गमनादि-विकाराणाम् अनुक्तानाम् अप्य् उपलक्षणायापक्षयश् च वृद्धिश् च स्व-शब्देनैव निराक्रियेते । तत्र कूटस्थ-नित्यत्वाद् आत्मनो निर्गुणत्वाच् च न स्वरूपतो गुणतो वापक्षयः सम्भवतीत्य् उक्तं शाश्वत इति । शश्वत् सर्वदा भवति नापक्षीयते नापचीयत इत्य् अर्थः । यदि नापक्षीयते तर्हि वर्धताम् इति नेत्य् आह पुराण इति । पुरापि नव एक-रूपो न त्व् अधुना नूतनां काञ्चिद् अवस्थाम् अनुभवति । यो हि नूतनां काञ्चिद् उपचयावस्थाम् अनुभवति स वर्धत इत्य् उच्यते लोके । अयं तु सर्वदैक-रूपत्वान् नापचीयते नोपचीयते चेत्य् अर्थः । अस्तित्व-विपरिणामौ
तु जन्म-विनाशान्तर्भूतत्वात् पृथङ् न निषिद्धौ । यस्माद् एवं सर्व-विकार-शून्य आत्मा तस्माच् छरीरे हन्यमाने तत्-सम्बद्धो ऽपि केनाप्य् उपायेन न हन्यते न हन्तुं शक्यत इत्य् उपसंहारः ॥२०॥

विश्वनाथः : जीवात्मनो नित्यत्वं स्पष्टतया साधयति न जायते मिर्यते इति जन्म-मरणयोर् वर्तमानत्व-निषेधः । नायं भूत्वा भविता इति तयोर् भूतत्व-भविष्यत्व-निषेधः । अतएव अज इति काल-त्रये ऽपि अजस्य जन्माभावान् नास्य प्राग्-अभावः । शाश्वतः शश्वत् सर्व-काल एव वर्तत इति नास्य काल-त्रये ऽपि ध्वंसः । अतएवायं नित्यः । तर्हि बहु-काल-स्थायित्वाज् जरा-ग्रस्तो ऽयम् इति चेन् न । पुराणः पुरापि नवः प्राचीनो ऽप्य् अयं नवीन इवेति षड्-भाव-विकाराभावाद् इति भावः । ननु शरीरस्य मरणाद् औपचारिकं तु मरणम् अस्यास्तु ? तत्राह नेति । शरीरेण सह सम्बद्धाभावात् न उपचारः ॥२०॥

बलदेवः : अथ जायते अस्ति वर्धते विपरणमते अपक्षीयते विनश्यति इति यास्काद्य्-उक्त-षड्-भाव-विकार-राहित्येन प्राग्-उक्त-नित्यत्वं द्रढयति न जायते इति । चार्थे वा-शब्दौ । अयम् आत्मा जीवः कदाचिद् अपि काले न जायते न म्रियते चेति जन्म-विनाशयोः प्रतिषेधः । न चायम् आत्मा भूत्वोत्पद्य भविता भविष्यतीति जन्मान्तरस्यास्तित्वस्य प्रतिषेधः । न भूय इति अयम् आत्मा भूयो ऽधिकं यथा स्यात् तथा न भवतीति बुद्धेः प्रतिषेधः । कुतो भूयो न भवतीत्य् अत्र हेतुर् अजो नित्य इति । उत्पत्ति-विनाश-योगी खलु वृक्षादिर् उत्पद्य वृद्धिं गच्छन् नष्टः । आत्मनस् तु तद्-उभयाभावात् न वृद्धिर् इत्य् अर्थः । शाश्वत इत्य् अपक्षयस्य प्रतिषेधः । शश्वत् सर्वदा भवति नापक्षीयते नापक्षयं भजतीत्य् अर्थः । पुराण इति विपरिणामस्य प्रतिषेधः । पुराणं
पुरापि नवो न तु किञ्चिन् नूतनं रूपान्तरम् अधुना न लब्ध इत्य् अर्थः । तद् एवं षड्-भाव-विकार-शून्यत्वाद् आत्मा नित्यः । यस्माद् ईदृशस् तस्माच् छरीरे हन्यमाने ऽपि स न हन्यते । तथा चार्जुनो ऽयं गुरु-हन्तेत्य् अविज्ञोक्त्या दुष्कीर्तेर् अबिभ्यता त्वया शास्त्रीयं धर्म-युद्धं विधेयम् ॥२०॥


२।२१

वेदाविनाशिनं नित्यं य एनम् अजम् अव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥२१॥

श्रीधरः : अतएव हन्तृत्वाभावो ऽपि पूर्वोक्तः प्रसिद्ध इत्य् आह वेदाविनाशिनम् इत्य् आदि । नित्यं वृद्धि-शून्यम् । अव्ययम् अपक्षय-शून्यम् । अजम् अविनाशिनं च । यो वेद स पुरुषः कं हन्ति । कथं वा हन्ति ? एवं-भूतस्य वधे साधनाभावात् । तथा स्वयं प्रयोजको भूत्वान्येन कं घातयति ? कथं वा घातयति ? न किञ्चिद् अपि । न कथञ्चिद् अपि इत्य् अर्थः । अनेन मय्य् अपि प्रयोजकत्वाद् दोष-दृष्टिं मा कार्षीर् इत्य् उक्तं भवति ॥२१॥

मधुसूदनः : नायं हन्ति न हन्यत इति प्रतिज्ञाय न हन्यत इत्य् उपपादितम् इदानीं न हन्तीत्य् उपपादयन्न् उपसंहरति । न विनष्टुं शीलं यस्य तम् अविनाशिनम् अन्त्य-विकार-रहितम् । तत्र हेतुः - अव्ययं न विद्यते व्ययो ऽवयवापचयो गुणापचयो वा यस्य तम् अव्ययम् । अवयवापचयेन गुणापचयेन वा विनाश-दर्शनात् तद्-उभय-रहितस्य न विनाशः सम्भवतीत्य् अर्थः ।

ननु जन्यत्वेन विनाशित्वम् अनुमास्यामहे नेत्य् आह - अजम् इति । न जायते इत्य् अजम् आद्य-विकार-रहितम् । तत्र हेतुः - नित्यं सर्वदा विद्यामानम्, प्राग्-अविद्यमानस्य हि जन्म दृष्टं न तु सर्वता सत इत्य् अभिप्रायः ।

अथवाविनाशिनम् अबाध्यं सत्यम् इति यावत् । नित्यं सर्व-व्यापकम् । तत्र हेतुः - अजम् अव्ययं । जन्म-विनाश-शून्यं जायमानस्य विनश्यतश् च सर्व-व्यापकत्व-सत्यत्वयोर् अयोगात् ।

एवं सर्व-विक्रिया-शून्यं प्रकृतम् एनं देहिनं स्वम् आत्मानं यो वेद विजानाति शास्त्राचार्योपदेशाभ्यां साक्षात्करोति अहं सर्व-विक्रिया-शून्यः सर्व-भासकः सर्व-द्वैत-रहितः परमानन्द-बोध-रूप इति स एवं विद्वान् पुरुषः पूर्ण-रूपः कं हन्ति ? कथं हन्ति ? किं-शब्द आक्षेपे । न कम् अपि हन्ति न कथम् अपि हन्तीत्य् अर्थः । तथा कं घातयति कथं घातयति कम् अपि न घातयति कथम् अपि न घातयतीत्य् अर्थः । नहि सर्व-विकार-शून्यस्याकर्तुर् हनन-क्रियायां कर्तृत्वं सम्भवति । तथा च श्रुतिः -

आत्मानं चेद् विजानीयाद् अयम् अस्मीति पूरुषः ।
किम् इच्छन् कस्य कामाय शरीरम् अनुसञ्ज्वरेत् ॥ [बउ ४।४।१२]

इति शुद्धम् आत्मानं विदुषस् तद्-अज्ञान-निबन्धनाध्यास-निवृत्तौ तन्-मूल-राग-द्वेषाद्य्-अभावात्-कर्तृत्व-भोक्तृत्वाद्य्-अभावं दर्शयति ।

अयम् अत्राभिप्रायो भगवतः । वस्तु-गत्या को ऽपि नकरोति न कारयति च किञ्चित् सर्व-विक्रिया-शून्य-स्वभावत्वात् परं तु स्वप्न इवाविद्यया कर्तृत्वादिकम् आत्मन्य् अभिमन्यते मूढः । तद् उक्तम् उभौ तौ न विजानीतः [गीता २।१९] इति । श्रुतिश् च - ध्यायतीव लेलायतीव [बउ ४।३।७] इत्य् आदिः । अतएव सर्वाणि शास्त्राण्य् अविद्वद्-अधिकारिकाणि । विद्वांस् तु समूलाध्यास-बाधान् नात्मनि कर्तृत्वादिकम् अभिमन्यते स्थाणु-स्वरूपं विद्वान् इव चोरत्वम् । अतो विक्रिया-रहितत्वाद् अद्वितीयत्वाच् च विद्वान् न करोति कारयति चेत्य् उच्यते । तथा च श्रुतिः – विद्वान् न बिभेति कुतश्चन [तैत्तु २।९।१] इति । अर्जुनो हि स्वस्मिन् कर्तृत्वं भगवति च कारयितृत्वम् अध्यस्य हिंसा-निमित्तं दोषम् उभयत्राप्य् आशशङ्के । भगवान् अपि विदिताभिप्रायो हन्ति घातयतीति तद्-उभयम् आचिक्षेप । आत्मनि कर्तृत्वं मयि च कारयितृत्वम्
आरोप्य प्रत्यवाय-शङ्कां मा कार्षीर् इत्य् अभिप्रायः ।

अविक्रियत्व-प्रदर्शनेनात्मनः कर्तृत्व-प्रतिषेधात् सर्व-कर्माक्षेपे भगवद्-अभिप्रेते हन्तिर् उपलक्षणार्थः पुरः-स्फूर्तिकत्वात् । प्रतिषेध-हेतोस् तुल्यत्वात् कर्मान्तराभ्यनुज्ञानुपपत्तेः । तथा च वक्ष्यति तस्य कार्यं न विद्यत [गीता ३।१७] इति । अतो ऽत्र हनन-मात्राक्षेपेण कर्मान्तरं भगवताभ्यनुज्ञायत इति मूढ-जन-जल्पितम् अपास्तम् । तस्माद् युध्यस्वेत्य् अत्र हननस्य भगवताभ्यनुज्ञानाद् वास्तव-कर्तृत्वाद्य्-अभावस्य कर्म-मात्रे समत्वाद् इति दिक् ॥२१॥

विश्वनाथः : अत एवम्भूत-ज्ञाने सति त्वं युध्यमानो ऽपि अहं युद्धे प्रेरयन्न् अपि दोष-भाजौ नैव भवाव इत्य् आह वेदेति । नित्यम् इति क्रिया-विशेषणम् । अविनाशिनम् इति, अजम् इति, अव्ययम् इत्य् एतैर् विनाश-जन्या अपेक्षया निषिद्धाः । स पुरुषो मल्-लक्षणः कं घातयति, कथं वा घातयति, स पुरुषस् त्वल्-लक्षणः कं हन्ति ? कथं वा हन्ति ? ॥२१॥

बलदेवः : एवं तत्त्व-ज्ञानवान् यो धर्म-बुद्ध्या युद्धे प्रवर्तते यश् च प्रवर्तयति, तस्य तस्य च को ऽपि न दोष-गन्ध इत्य् आह वेदेति । एनं प्रकृतम् आत्मानम् अविनाशिनम् अजम् अव्ययम् अपक्षय-शून्यं च यो वेद शास्त्र-युक्तिभ्यां जानाति, स पुरुषो युद्धे प्रवृत्तो ऽपि कं हन्ति कथं वा हन्ति ? तत्र प्रवर्तयन्न् अपि कं घातयति कथं वा घातयति ? किम् आक्षेपे - न कम् अपि न कथम् अपीत्य् अर्थः । न्तियम् इति वेदन-क्रिया-विशेषणम् ॥२१॥


२।२२

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरो ऽपराणि ।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही ॥२२॥

श्रीधरः : नन्व् आत्मनो ऽविनाशे ऽपि तदीय-शरीर-नाशं पर्यालोच्य शोचामीइति चेत् ? तत्राह वासांसीति । कर्मणि बन्धनानां नूतनानां देहानाम् अवश्यम्भावित्वात् न तज्-जीर्ण-देह-नाशे शोकावकाश इत्य् अर्थः ॥२२॥

मधुसूदनः : नन्व् एवम् आत्मनो विनाशित्वाभावे ऽपि देहानां विनाशित्वाद् युद्धस्य च तन्-नाशकत्वात् कथं भीष्मादि-देहानाम् अनेक-सुकृत-साधनानां मया युद्धेन विनाशः कार्य इत्य् आशङ्काया उत्तरम् वासांसीति ।

जीर्णानि विहाय वस्त्राणि नवानि गृह्णाति विक्रिया-शून्य एव नरो यथेत्य् एतावतैव विर्वाहे ऽपराणीइत् विशेषणम् उत्कर्षातिशय-ख्यापनार्थम् । तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनो गृह्णातीत्य् औचित्यायातम् । तथा जीर्णानि वयसा तपसा च कृशानि भीष्मादि-शरीराणि विहायान्यानि देवादि-शरीराणि सर्वोत्कृष्टानि चिरोपार्जित-धर्म-फल-भोगाय संयाति सम्यग्-गर्भ-वासादि-क्लेश-व्यतिरेकेण प्राप्नोति देही प्रकृष्ट-धर्मानुष्ठातृ-देहवान् भीष्मादिर् इत्य् अर्थः । अन्यन् नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गन्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वा इत्य् आदि श्रुतेः ।

एतद् उक्तं भवति भीष्मादयो हि यावज् जीवं धर्मानुष्ठान-क्लेशेनैव जर्जर-शरीरा वर्तमान-शरीर-पातम् अन्तरेण तत्-फल-भोगायासम् अर्था यदि धर्म-युद्धेन स्वर्ग-प्रतिबन्धकानि जर्जराणि शरीराणि पातयित्वा दिव्य-देह-सम्पादनेन स्वर्ग-भोग-योग्याः क्रियन्ते त्वया तद्-अत्यन्तम् उपकृत्वा एव ते । दुर्योधनादीनाम् अपि स्वर्ग-भोग-योग्य-देह-सम्पादनान् महान् उपकार एव । तथा चात्यन्तम् उपकारके युद्धे ऽपकारकत्व-भ्रमं मा कार्षीर् इति । अपराणि अन्यानि संयातीति पद-त्रय-वशाद् भगवद्-अभिप्राय एवम् अभ्यूहितः । अनेन दृष्टान्तेनाविकृत-प्रतिपादनम् आत्मनः क्रियत इति तु प्राचां व्याख्यानम् अतिस्पष्टम् ॥२२॥

विश्वनाथः : ननु मदीय-युद्धाद् भीष्म-सञ्ज्ञकं शरीरं तु जीवात्मा त्यक्ष्यत्य् एव इत्य् अतस् त्वं चाहं च तत्र हेतु भवाव एव इत्य् अत आह वासांसीति । नवीनं वस्त्रं परिधापयितुं जीर्ण-वस्त्रस्य त्यजने कश्चित् किं दोषो भवतीति भावः । तथा शरीराणीति भीष्मो जीर्ण-शरीरं परित्यज्य दिव्यं नव्यं अन्यच् छरीरं प्राप्स्यतीति कस् तव वा मम वा दोषो भवतीति भावः ॥२२॥

बलदेवः : ननु मा भूद् आत्मनां विनाशो भीष्मादि-सञ्ज्ञानां तच्-छरीराणां तत्-सुख-साधनानां युद्धेन विनाशे तत्-सुख-विच्छेद-हेतुको दोषः स्याद् एव । अन्यथा प्रायश्चित्त-शास्त्राणि निर्विषयाणि स्युर् इति चेत् तत्राह वासांसीति । स्थूल-जीर्ण-वासस्-त्यागेन नवीन-वासो-धारणम् इव वृद्ध-नृ-देह-त्यागेन युव-देव-देह-धारणं तेषाम् आत्मनाम् अतिसुखकरम् एव । तद् उभयं च युद्धेनैव क्षिप्रं भवेद् इत्य् उपकारकात् तस्मान् मा विरंसीर् इति भावः । संयातीति सम्यग्-गर्भ-वासादि-यातनां विनैव शीघ्रम् एव प्राप्नोतीत्य् अर्थः । प्रायश्चित्त-वाक्यानि तु यज्ञ-युद्ध-वधाद् अन्यस्मिन् वधे नेयानि ॥२२॥


२।२३

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्य् आपो न शोषयति मारुतः ॥२३॥

श्रीधरः : कथं हन्तीति अनेन उक्तं वध-साधनाभावं दर्शयन्न् अविनाशित्वम् आत्मनः स्फुटीकरोति नैनम् इत्य् आदि । आपो क्लेदयन्ति मृदु-करणेन शिथिलं न कुर्वन्ति । मारुतो ऽप्य् एनं न शोषयति ॥२३॥

मधुसूदनः :

विश्वनाथः : न च युद्धे त्वया प्रयुक्तेभ्यः शस्त्रास्त्रेभ्यः काप्य् आत्मनो व्यथा सम्भवेद् इत्य् आह नैनम् इति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् अपि युष्मद्-आदि-प्रयुक्तम् । आपः पार्जन्यास्त्रम् अपि । मारुतो वायव्यास्त्रम् ॥२३॥

बलदेवः : ननु शस्त्र-पातैः शरीर-विनाशे तद्-अन्तः-स्थस्यात्मनो विनाशः स्यात् गृह-दाहे तन्-मध्य-स्थस्यैव जन्तोर् इति चेत् तत्राह नैनम् इति । शस्त्राणि खड्गादीनि । पावक आग्नेयास्त्रम् । आपः पार्जन्यास्त्रम् अपि । मारुतो वायव्यास्त्रम् । तथा च तत्-प्रयुक्तैः शस्त्रास्त्रैर् नात्मनः काचिद् व्यथेति ॥२३॥


२।२४

अच्छेद्यो ऽयम् अदाह्यो ऽयम् अक्लेद्यो ऽशोष्य एव च ।
नित्यः सर्व-गतः स्थाणुर् अचलो ऽयं सनातनः ॥२४॥

श्रीधरः : तत्र हेतुम् आह अच्छेद्य इत्य् आदिना सार्धेन । निरवयवत्वाद् अच्छेद्यो ऽक्लेद्यश् च । अमूर्तत्वाद् अदाह्यः । द्रवत्वाभावाद् अशोष्य इति भावः । इतश् च छेदादि-योग्यो न भवति । यतो नित्यो ऽविनाशी । सर्व-गतः स्थाणुः स्थिर-स्वभावो रूपान्तरापत्ति-शून्यः । अचलः पूर्व-रूपापरित्यागी । सनातनो ऽनादिः ॥२४॥

मधुसूदनः : शस्त्रादीनां तन्-नाशकत्वासामर्थ्ये तस्य तज्-जनित-नाशानर्हत्वे हेतुम् आह अच्छेद्य इति । यतो ऽच्छेद्यो ऽयम् अतो नैनं छिन्दन्ति शस्त्राणि । अदाह्यो ऽयं यतो ऽतो नैनं दहति पावकः । यतो ऽक्लेद्यो ऽयम् अतो नैनं क्लेदयन्त्य् आपः । यतो ऽशोष्यो ऽयम् अतो नैनं शोषयति मारुत इति क्रमेण योजनीयम् । एव-कारः प्रत्येकं सम्बध्यमानो ऽच्छेद्यत्वाद्य्-अवधारणार्थः । चः समुच्चये हेतौ वा । छेदाद्य्-अनर्हत्वे हेतुम् आहोत्तरार्धेन ।

नित्यो ऽयं पूर्वापर-कोटि-रहितो ऽतो ऽनुत्पाद्यः । असर्वगतत्वे ह्य् अनित्यत्वं स्यात् । यावद्-विकारं तु विभागः इति न्यायात् पराभ्युपगत-परमाण्व्-आदीनाम् अनभ्युपगमात् । अयं तु सर्व-गतो विभुर् अतो नित्य एव । एतेन प्राप्यत्वं पराकृतम् । यदि चायं विकारी स्यात् तदा सर्व-गतो न स्यात् । अयं तु स्थाणुर् अविकारी । अतः सर्व-गत एव । एतेन विकार्यत्वम् अपाकृतम् । यदि चायं चलः क्रियावान् स्यात् तदा विकारी स्याद् घटादिवत् । अयं त्व् अचलो ऽतो न विकारी । एतेन संस्कार्यत्वं निराकृतम् । पूर्वावस्था-परित्यागेनावस्थान्तरापत्तिर् विक्रिया । अवस्थैक्ये ऽपि चलन-मात्रं क्रियेति विशेषः । यस्माद् एवं तस्मात् सनातनो ऽयं सर्वदैक-रूपो न कस्या अपि क्रियायाः कर्मेत्य् अर्थः । उत्पत्त्य्-आप्ति-विकृति-संस्कृत्य्-अन्यतर-क्रिया-फल-योगे हि कर्मत्वं स्यात् । अयं तु नित्यत्वान् नोत्पाद्यः । अनित्यस्यैव
घटादेर् उत्पाद्यत्वात् । सर्वगतत्वान् न प्राप्यः परिच्छिन्नस्यैव पय-आदेः प्राप्यत्वात् । स्थाणुत्वाद् अविकार्यः । विक्रियावतो घृतादेर् एव विकार्यत्वात् । अचलत्वाद् असंस्कार्यः सक्रियस्यैव दर्पणादेः संस्कार्यत्वात् । तथा च श्रुतयः - आकाशवत् सर्व-गतश् च नित्यः [छाउ ३।१४।३], वृक्ष इव स्तब्धो दिवि तिष्ठत्य् एकः [श्वेतु ३।९], निष्कलं निष्क्रियं शान्तं [श्वेतु ६।१९], इत्य् आदयः । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यो ऽप्सु तिष्ठन्न् अद्भ्यो ऽन्तरो यस् तेजसि तिष्ठंस् तेजसो ऽन्तरो यो वायौ तिष्टन् वायोर् अन्तरः [बउ ३।७।३ फ़्फ़्] इत्य् आद्या च श्रुतिः सर्वगतस्य सर्वान्तर्यामितया तद्-अविषयत्वं दर्शयति । यो हि शस्त्रादौ न तिष्ठति तं शस्त्रादयश् छिन्दन्ति । अयं तु शस्त्रादीनां सत्ता-स्फूर्ति-प्रदत्वेन तत्-प्रेरकस् तद्-अन्तर्यामी । अतः कथम् एनं शस्त्रादीनि
स्व-व्यापार-विषयी कुर्युर् इत्य् अभिप्रायः । अत्र येन सूर्यस् तपति तेजसेद्धः [तैत्त्। ब्र्। ३।१२।९७] इत्य् आदि श्रुतयो ऽनुसन्धेयाः । सप्तमाध्याये च प्रकटीकरिष्यति श्री-भगवान् इति दिक् ॥२४॥

विश्वनाथः : तस्माद् आत्मायम् एवम् उच्यत इत्य् आह अच्छेद्य इति । अत्र प्रकरणे जीवात्मनो नित्यत्वस्य शब्दतो ऽर्थतश् च पौनरुक्त्यं निर्धारण-प्रयोजकं सन्दिग्धधीषु ज्ञेयम् । यथा कलाव् अस्मिन् धर्मो ऽस्ति धर्मो ऽस्तीति त्रि-चतुर्धा-प्रयोगाद् धर्मो ऽस्त्य् एवेति निःसंशया प्रतीतिः स्याद् इति ज्ञेयम् । सर्व-गतः स्वकर्म-वशाद् देव-मनुष्य-तिर्यग्-आदि-सर्व-देह-गतः । स्थाणुर् अचल इति पौनरुक्त्यं स्थैर्य-निर्धारणार्थम् । अतिसूक्ष्मत्वाद् अव्यक्तस् तद् अपि देह-व्यापि-चैतन्यत्वाद् अचिन्त्यो ऽतर्क्यः । जन्मादि-षड्-विकारानर्हत्वाद् अविकार्यः ॥२४-२५॥

बलदेवः : छेदाद्य्-अभावाद् एव तत्-तन्-नामभिर् अयम् आख्यायत इत्य् आह अच्छेद्यो ऽयम् इति । एव-कारः सर्वैः सम्बध्यते । सर्व-गतः स्व-कर्म-हेतुकेषु देव-मानवादिषु पशु-पक्ष्य्-आदिषु च सर्वेषु शरीरेषु पर्यायेण गतः प्राप्तो ऽपीत्य् अर्थः । स्थाणुः स्थिर-स्वरूपः । अचलः स्थिर-गुणकः । अविनाशी वा अरे ऽयम् आत्मानुच्छित्ति-धर्मा [बौ ४।५।१४] इति श्रुतेर् इत्य् अर्थः । न चानुच्छित्तिर् एव धर्मो यस्येति व्याख्येयं तस्यार्थस्याविनाशीत्य् अनेनैव लाभात् । तस्माद् अनुच्छित्तयो नित्या धर्मा यस्य स तथेत्य् एवार्थः । सनातनः शाश्वतः पौनरुक्त-दोषस् त्व् अग्रे परिहरिष्यते ॥२४॥


२।२५

अव्यक्तो ऽयम् अचिन्त्यो ऽयम् अविकार्यो ऽयम् उच्यते ।
तस्माद् एवं विदित्वैनं नानुशोचितुम् अर्हसि ॥२५॥

श्रीधरः : किं च अव्यक्त इति । अव्यक्तश् चक्षुर्-आद्य्-अविषयः । अचिन्त्यो मनसो ऽप्य् अविषयः । अविकार्यः कर्मेन्द्रियाणाम् अप्य् अगोचर इत्य् अर्थः । उच्यत इति नित्यत्वादिभियुक्तोक्तिं प्रमाणयति । उपसंहरति तस्माद् एवम् इत्य् आदि । तद् एवम् आत्मनो जन्म-विनाशाभावान् न शोकः कार्य इत्य् उक्तम् ॥२५॥

मधुसूदनः : छेद्यत्वादि-ग्राहक-प्रमाण-भावाद् अपि तद्-अभाव इत्य् आह - अव्यक्तो ऽयम् इत्य्-आद्य्-अर्धेन । यो हीन्द्रिय-गोचरो भवति स प्रत्यक्षत्वाद् व्यक्त इत्य् उच्यते । अयं तु रूपादि-हीनत्वान् न तथा । अतो न प्रत्यक्षं तत्र च्छेद्यत्वादि-ग्राहकम् इत्य् अर्थः ।

प्रत्यक्षाभावे ऽप्य् अनुमानं स्याद् इत्य् अत आह अचिन्त्यो ऽयं चिन्त्यो ऽनुमेयस् तद्-विलक्षणो ऽयम् । क्वचित् प्रत्यक्षो हि वह्न्य्-आदिर् गृहीत-व्याप्तिकस्य धूमादेर् दर्शनात् क्वचिद् अनुमेयो भवति । अप्रत्यक्षे तु व्याप्ति-ग्रहणासम्भवान् नानुमेयत्वम् इति भावः । अप्रत्यक्षस्यापीन्द्रियादेः सामान्यतो दृष्टानुमान-विषयत्वं दृष्टम् अत आह अविकार्यो ऽयं यद् विक्रियावच् चक्षुर्-आदिकं तत्-स्वकार्यान्यथानुपपत्त्या कल्प्यमानम् अर्थापत्तेः सामान्यतोदृष्टानुमानस्य च विषयो भवति । अयं तु न विकार्यो न विक्रियावान् अतो नार्थापत्तेः सामान्यतो-दृष्टस्य वा विषय इत्य् अर्थः । लौकिक-शब्दस्यापि प्रत्यक्षादि-पूर्वकत्वात् तन्-निषेधेनैव निषेधः ।

ननु वेदेनैव तत्र च्चेह्द्यत्वादि ग्रहीष्यत इत्य् अत आह - उच्यते वेदेन सोपकरणेनाच्छेद्याव्यक्तादि-रूप एवायम् उच्यते तात्पर्येण प्रतिपाद्यते । अतो न वेदस्य तत्-प्रतिपादिकस्यापि च्छेद्यत्वादि-प्रतिपादकत्वम् इत्य् अर्थः ।

अत्र नैनं छिन्दन्ति [गीता २।२३] इत्य् अत्र शस्त्रादीनां तन्-नाशक-सामर्थ्याभाव उक्तः । अच्छेद्यो ऽयम् इत्य् आदौ तस्य च्छेदादि-कर्मत्वायोग्यत्वम् उक्तम् । अव्यक्तो ऽयम् इत्य् अत्र तच्-छेदादि-ग्राहक-मानाभाव उक्त इत्य् अपौनरुक्त्यं द्रष्टव्यम् । वेदाविनाशिनम् इत्य् आदीनां तु श्लोकानाम् अर्थतः शब्दतश् च पौनरुक्त्यं भाष्य-कृद्भिः परिहृतम् । दुर्बोधत्वाद् आत्म-वस्तुनः पुनः पुनः प्रसङ्गम् आपाद्य शब्दान्तरेण तद् एव वस्तु निरूपयति भगवान् वासुदेवः कथं नु नाम संसारिणाम् बुद्धि-गोचरताम् आपन्नं तत्त्वं संसार-निवृत्तये स्यात् इति [शङ्कर-भाष्य २।२४] इति वदद्भिः ।

एवं पूर्वोक्त-युक्तिभिर् आत्मनो नित्यत्वे निर्विकारत्वे च सिद्धे तव शोको नोपपन्न इत्य् उपसंहरति तस्माद् इत्य् अर्धेन । एतादृशात्म-स्वरूप-वेदनस्य शोक-कारण-निवर्तकत्वात् तस्मिन् सति शोको नोचितः कारण-भावे कार्याभावस्यावश्यकत्वात् । तेनात्मानम् अविदित्वा यद् अन्वशोचस् तद् युक्तम् एव । आत्मानं विदित्वा तु नानुशोचितुम् अर्हसीत्य् अभिप्रायः ॥२५॥

विश्वनाथः : नोने।

बलदेवः : अव्यक्तः प्रत्यङ् चक्षुर्-आद्य्-अग्राह्यः । अचिन्त्यस् तर्कागोचरः श्रुति-मात्र-गम्यः । ज्ञान-स्वरूपो ज्ञातेत्य् आदिकं श्रुत्यैव प्रतीयते । अविकार्यः षड्-भाव-विकारानर्हः । अत्र अविनाशि तु तद् विद्धि इत्य् आदिभिर् आत्म-तत्त्वम् उपदिशन् हरिः शब्दतो ऽर्थतश् च यत् पुनः पुनर् अवोचत् तस्य दुर्बोधस्य सौबोध्यार्थम् एवेत्य् अदोषः । निर्धारणार्थं वा । अयं धर्मं वेत्तीत्य् उक्तौ तद् वेदनं निश्चितं यथा स्यात् तद्वत् । एवम् एवाग्रे वक्ष्यति आश्चर्यवत् पश्यति कश्चित् इत्य् आदिना ॥२५॥


२।२६

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥२६॥

श्रीधरः : इदानीं देहेन सह आत्मनो जन्म तद्-विनाशेन च विनाशम् अङ्गीकृत्यापि शोको न कार्य इत्य् आह अथ चैनम् इत्य् आदि । अथ च यद्यप्य् एनम् आत्मानम् नित्यजातं नित्यं वा मन्यसे मृतम् तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ॥२६॥

मधुसूदनः : एवम् आत्मनो निर्विकारत्वेनाशोच्यत्वम् उक्तम् इदानीं विकारवत्त्वम् अभ्युपेत्यापि श्लोक-द्वयेनाशोच्यत्वं प्रतिपादयति भगवान् । तत्रात्मा ज्ञान-स्वरूपः प्रतिक्षण-विनाशीति सौगताः । देह एवात्मा स च स्थिरो ऽप्य् अनुक्षण-परिणामी जायते नश्यति चेति प्रत्यक्ष-सिद्धम् एवैतद् इति लोकायतिकाः । देहातिरिक्तो ऽपि देहेन सहैव जायते नश्यति चेत्य् अन्ये । सर्गाद्य-काल एवाकाशवज् जायते देह-भेदे ऽप्य् अनुवर्तमान एवाकल्प-स्थायी नश्यति प्रलय इत्य् अपरे । नित्य एवात्मा जायते म्रियते चेति तार्किकाः । तथा हि - प्रेत्य-भावो जन्म । स चापूर्व-देहेन्द्रियादि-सम्बन्धः । एवं मरणम् अपि पूर्व-देहेन्द्रियादि-विच्छेदः । इदं चोभयं धर्माधर्म-निमित्तत्वात् तद्-आधारस्य नित्यस्यैव मुख्यम् । अनित्यस्य तु कृत-हान्य-कृताभ्यागम-प्रसङ्गेन धर्माधर्माधारत्वानुपपत्तेर्
न जन्म-मरणे मुख्ये इति वदन्ति । न्तियस्याम् एवेत्य् अन्ये । तत्रानित्यत्व-पक्षे ऽपि शोच्यत्वम् आत्मनो निषेधति अथ चैनम् इति ।

अथेति पक्षान्तरे । चो ऽप्य् अर्थे । यदि दुर्बोधत्वाद् आत्म-वस्तुनो ऽसकृच्-छ्रवणे ऽप्य् अवधारणा-सामर्थ्यान् मद्-उक्त-पक्षानङ्गीकारेण पक्षान्तरम् अभ्युपैषि । तत्राप्य् अनित्यत्व-पक्षम् एवाश्रित्य यद्य् एनम् आत्मानं नित्यं जातं नित्यं मृतं वा मन्यसे । वा-शब्दश् चार्थे । क्षणिकत्व-पक्षे नित्यं प्रतिक्षणं पक्षान्तरे आवश्यकत्वान् नित्यं नियतं जातो ऽयं मृतो ऽयम् इति लौकिक-प्रत्यय-वशेन यदि कल्पयसि तथापि हे महाबाहो ! पुरुष-धौरेयेति सोपहासं कुमताभ्युपगमात् । त्वय्य् एतादृशी कुदृष्टिर् न सम्भवतीति सानुकम्पं वा । एवं अह बत महत् पापं कर्तुं व्यवसिता वयम् [गीता १।४५] इत्य् आदि यथा शोचसि एवं प्रकारम् अनुशोकं कर्तुं स्वयम् अपि त्वं तादृश एव सन् नार्हसि योग्यो न भवसि । क्षणिकत्व-पक्षे देहात्म-वाद-पक्षे देहेन
सह जन्म-विनाश-पक्षे च जन्मान्तराभावेन पाप-भयासम्भवात् पाप-भयेनैव खलु त्वम् अनुशोचसि । तच् चैतादृशे दर्शने न सम्भवति बन्धु-विनाश-दर्शित्वाभावाद् इत्य् अधिकं । पक्षान्तरे दृष्ट-दुःख-निमित्तं शोकम् अभ्यनुज्ञातुम् एवं-कारः । दृष्ट-दुःख-निमित्त-शोक-सम्भवे ऽप्य् अदृष्ट-दुःख-निमित्तः शोकः सर्वथा नोचित इत्य् अर्थः प्रथम-श्लोकस्य ॥२६॥

विश्वनाथः : तद् एवं शास्त्रीय-तत्त्व-दृष्ट्या त्वाम् अहं प्रबोधयन् । व्यावहारहिक-तत्त्व-दृष्ट्यापि प्रबोधयामि अवधेहीत्य् आह अथेति । नित्य-जातं देहे जाते सत्य् एनं नित्यं नियतं जातं मन्यसे । तथा देह एव मृते मृतं नित्यं नियतं मन्यसे । महा-बाहो इति पराक्रमवतः क्षत्रियस्य तव तद् अपि युद्धम् अवश्यकं स्वधर्मः । यद् उक्तं -

क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः ।
भ्रातापि भ्रातरं हन्याद् येन घोरतरस् ततः ॥ इति भावः ॥२६॥

बलदेवः : एवं स्वोक्तस्य जीवात्मनो ऽशोच्यत्वम् उक्त्वा परोक्तस्यापि तस्य तद् उच्यते पर-मत-ज्ञानाय । तद्-अभिज्ञः खलु शिष्यस् तद्-अवकरैस् तन् निरस्य विजयी सन् स्व-मते स्थैर्यम् आसीत् । तथा हि मनुष्यत्वादि-विशिष्टे भूम्य्-आदि-भूत-चतुष्टये ताम्बूल-रागवत् मद-शक्तिवच् च चैतन्यम् उत्पद्यते । तादृशस् तच्-चतुष्टय-भूतो देह एवात्मा । स च स्थिरो ऽपि प्रतिक्षण-परिणामाद् उत्पत्ति-विनाश-योगीति लोक-प्रत्यक्ष-सिद्धम् इति लोकायतिका मन्यन्ते । देहाद् भिन्नो विज्ञान-स्वरूपो ऽप्य् आत्मा प्रतिक्षण-विनाशीति वैभाषिकादयो बौद्धा वदन्ति । तद् एतद् उभय-मते ऽप्य् आत्मनः शोच्यत्वं प्रतिषेधति । अथेति पक्षान्तरे । चो ऽप्य्-अर्थे । त्वं चेन् मद्-उक्त-जीवात्म-याथात्म्यावगाहनासमर्थो लोकायतिकादि-पक्षम् आलम्बसे, तत्र देहात्म-पक्षे एनं देह-लक्षणम् आत्मानं नित्यं वा
मृतं मन्यसे । वा-शब्दश् चार्थे । तथापि त्वम् एनं अहो बत महत् पापं इत्य् आदि-वचनैः शोचितुं नार्हसि । परिणाम-स्वभावस्य तस्य तस्य चात्मनो जन्म-विनाशयोर् अनिवार्यत्वाज् जन्मान्तराभावेन पाप-भयासम्भवाच् च । हे महाबाहो इति सोपहासं सम्बोधनं क्षत्रिय-वर्यस्य वैदिकस्य च ते नेदृशं कुमतं धार्यम् इति भावः ॥२६।


२।२७

जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च ।
तस्माद् अपरिहार्ये ऽर्थे न त्वं शोचितुम् अर्हसि ॥२७॥

श्रीधरः : कुत इति ? अत आह जातस्येत्य्-आदि । हि यस्माज् जातस्य स्वारम्भक-कर्म-क्षये मृत्युर् ध्रुवो निश्चितः । मृतस्य च तद्-देह-कृतेन कर्मणा जन्मापि ध्रुवम् एव । तस्माद् एवम् अपरिहार्ये ऽर्थे अवश्यम्भाविनि जन्म-मरण-लक्षणे ऽर्थे त्वं विद्वान् शोचितुम् नार्हसि योग्यो न भवसि ॥२७॥

मधुसूदनः : नन्व् आत्मन आभूत-सम्प्लव-स्थायित्व-पक्षे च दृष्टादृष्ट-दुःख-सम्भवात् तद्-भयेन शोचामीत्य् अत आह द्वितीय-श्लोकेन जातस्य हीति । हि यस्माज् जातस्य स्व-कृत-धर्माधर्मादि-वशाल् लब्ध-शरीरेन्द्रियादि-सम्बन्धस्य स्थिरस्यात्मनो ध्रुव आवश्यको मृत्युस् तच्-छरीरादि-विच्छेदस् तद्-आरम्भक-कर्म-क्षय-निमित्तः संयोगस्य वियोगावसानत्वात् । तथा ध्रुवं जन्म मृतस्य च प्राग्-देह-कृत-कर्म-फलोपभोगार्थं सानुशयस्यैव प्रस्तुतत्वान् न जीवन्-मुक्ते व्यभिचारः । तस्माद् एवम् अपरिहार्ये परिहर्तुम् अशक्ये ऽस्मिन् जन्म-मरण-लक्षणे ऽर्थे विषये त्वम् एवं विद्वान् न शोचितुम् अर्हसि । तथा च वक्ष्यति ऋते ऽपि त्वां न भविष्यन्ति सर्वे [गीता ११।३२] इति । यदि हि त्वया युद्धे ऽनाहन्यमाना एते जीवेयुर् एव तदा युद्धाय शोकस् तवोचितः स्यात् । एते तु कर्म-क्षयात्
स्वयम् एव म्रियन्त इति तत्-परिहारासमर्थस्य तव दृष्ट्-दुःख-निमित्तः शोको नोचित इति भावः ।

एवम् अदृष्ट-दुःख-निमित्ते ऽपि शोके तस्माद् अपरिहार्ये ऽर्थे इत्य् एवोत्तरम् । युद्धाख्यं हि कर्म क्षत्रियस्य नियतम् अग्निहोत्रादिवत् । तच् च युध सम्प्रहारे इत्य् अस्माद् धातोर् निष्पन्नं शत्रु-प्राण-वियोगानुकूल-शस्त्र-प्रहार-रूपं विहितत्वाग्नीषोमीयादि-सिंहावन् न प्रत्यवाय-जनकम् । तथा च गौतमः स्मरति न दोषो हिंसायाम् आहवे ऽन्यत्र व्यश्वासारथ्यनुयुध-कृताञ्जलि-प्रकीर्ण-केश-पराङ्मुखोपविष्ट-स्थल-वृक्षारूढ-दूत-गो-ब्राह्मण-वादिभ्यः इति । ब्राह्मण-ग्रहणञ्चात्रायोद्धृ-ब्राह्मण-विषयं गवादि-प्राय-पाठाद् इति स्थितम् । एतच् च सर्वं स्वधर्मम् अपि चावेक्ष्येत्य् अत्र स्पष्टीकरिष्यति । तथा च युद्ध-लक्षणे ऽर्थे ऽग्निहोत्रादिवद् विहितत्वाद् अपरिहार्ये परिहर्तुम् अशक्ये तद्-अकरणे प्रत्यवाय-प्रसङ्गात् त्वम् अदृष्ट-दुःख-भयेन
शोचितुं नारहसीति पूर्ववत् ।

यदि तु युद्धाख्यं कर्म काम्यम् एव -

य आहवेषु युध्यन्ते भूम्य्-अर्थम् अपराङ्मुखाः ।
अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा ॥ [यज्ञ्। १३।३२४]

इति याज्ञवल्क्य-वचनात् । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् [गीता २।३७] इति भगवद्-वचनाच् च । तदापि प्रारब्धस्य काम्यस्यापि अवश्य-परिसमापनीयत्वेन नित्य-तुल्यत्वात् त्वया च युद्धस्य प्रारब्धत्वाद् अपरिहार्यत्वं त्युल्यम् एव ।

अथवात्म-नित्यत्व-पक्ष एव श्लोक-द्वयम् अर्जुनस्य परमास्तिकस्य वेद-बाह्य-मताभ्युपगमासम्भवात् । अक्षर-योजना तु नित्यश् चासौ देहेन्द्रियादि-सम्बन्ध-वशाज् जातश् चेति नित्य-जातस् तम् एनम् आत्मानं नित्यम् अपि सन्तं जातं चेन् मन्यसे तथा नित्यम् अपि सन्तं मृतं चेन् मन्यसे तथापि त्वं नानुशोचितुम् अर्हसीति हेतुम् आह जातस्य हीत्य् आदिना । नित्यस्य जातत्वं मृतत्वं च प्राग्-व्याख्यातम् । स्पष्टम् अन्यत् । भाष्यम् अप्य् अस्मिन् पक्षे योजनीयम् ॥२७॥

विश्वनाथः : हि यस्मात् तस्य स्वारम्भक-कर्म-क्षये मृत्युर् ध्रुवो निश्चितः । मृतस्य च तद्-देह-कृतेन कर्मणा जन्मापि ध्रुवम् एव । अपरिहार्ये ऽर्थे इति मृत्युर् जन्म च परिहर्तुम् अ]चक्यम् एव इत्य् अर्थः ॥२७॥

बलदेवः : अथ शरीरातिरिक्तो नित्य आत्मा । तस्यापूर्व-शरीरेन्द्रिय-योगो जन्म । पूर्व-शरीरेन्द्रिय-वियोगस् तु मरणं तद्-उभयं च धर्माधर्म-हेतुकत्वात् तद्-आश्रयस्य नित्यस्यात्मनो मुख्यम्, तद्-अतिरिक्तस्य शरीरस्य तु गौणम् । तस्यानित्यस्य कृत-हान्य-कृताभ्यागम-प्रसङ्गेन तद्-आश्रयत्वानुपपत्तेर् इति तार्किका मन्यन्ते । तत्-पक्षे ऽप्य् आत्मनः शोच्यत्वं परिहरति जातस्येति । हिर् हेतौ । जातस्य स्व-कर्म-वशात् प्राप्त-शरीरादि-योगस्य नित्यस्याप्य् आत्मनस् तद्-आरम्भक-कर्म-क्षय-हेतुको मृत्युर् ध्रुवो निश्चितः । मृतस्य तच्-छरीर-कृत-कर्म-हेतुकं जन्म च ध्रुवं स्यात् । तस्माद् एवम् अपरिहार्ये परिहर्तुम् अशक्ये जन्म-मरणात्मके ऽर्थे त्वं विद्वान् शोचितुं नार्हसि । त्वयि युद्धान् निवृत्ते ऽप्य् एते स्वारम्भके कर्मणि क्षीणे सति मरिष्यन्त्य् एव । तव तु स्वधर्माद् विच्युतिर् भाविनीति
भावः ॥२७॥


२।२८

अव्यक्तादीनि भूतानि व्यक्त-मध्यानि भारत ।
अव्यक्त-निधनान्य् एव तत्र का परिदेवना ॥२८॥

श्रीधरः : किं च देहानां स्वभावं पर्यालोच्य तद्-उपाधिके आत्मनो जन्म-मरणे शोको न कार्य इति । अत आह अव्यक्तादीनीत्य् आदि । अव्यक्तं प्रधानम् । तद् एव आदिर् उत्पत्तेः पूर्व-रूपं येषां तानि अव्यक्तादीनि । भूतानि शरीराणि । कारणात्मनापि स्थितानाम् एव उत्पत्तेः । तथा व्यक्तम् अभिव्यक्तं मध्यं जन्म-मरणान्तरालं स्थिति-लक्षणं येषां तानि व्यक्त-मध्यानि । अव्यक्ते निधनं लयो येषां तानीमान्य् एवं-भूतान्य् एव । तत्र तेषु का परिदेवना ? कः शोक-निमित्तो विलापः ? प्रतिबुद्धस्य स्वप्न-दृष्ट-वस्तुष्व् इव शोको न युज्यत इत्य् अर्थः ॥२८॥

मधुसूदनः : तद् एवं सर्व-प्रकारेणात्मनो ऽशोच्यत्वम् उपपादितम् अथेदानीम् आत्मनो ऽशोच्यत्वे ऽपि भूत-सङ्घातात्मकानि शरीराण्य् उद्दिश्य शोचामीत्य् अर्जुनाशङ्काम् अपनुदति भगवान् अव्यक्तादीनीति । आदौ जन्मनः प्राग्-अव्यक्तानि अनुपलब्धानि भूतानि पृथिव्यादि-भूत-मयानि शरीराणि मध्ये जन्मानन्तरं मरणात् प्राग्-व्यक्तानि उपलब्धानि सन्ति । निधने पुनर् अव्यक्तान्य् एव भवन्ति । यथा स्वप्नेन्द्रजालादौ प्रतिभास-मात्र-जीवनानि शुक्ति-रूप्यादिवन् न तु ज्ञानात् प्राग् ऊर्ध्वं वा स्थितानि दृष्टि-सृष्ट्य्-अभ्युपगमात् । तथा च - आदाव् अन्ते च यन् नास्ति वर्तमाने ऽपि तत् तथा [ंआ। का। २।६] इति न्यायेन मध्ये ऽपि न सन्त्य् एवैतानि । नासतो विद्यते भावः [गीता २।१६] इति प्राग्-उक्तेश् च ।

एवं सति तत्र तेषु मिथ्या-भूतेष्व् अत्यन्त-तुच्छेषु भूतेषु का परिदेवना को वा दुःख-प्रलापो न को ऽप्य् उचित इत्य् अर्थः । न हि स्वप्ने विविधान् बन्धून् उपलभ्य प्रतिबुद्धस् तद्-विच्छेदेन शोचति पृथग्-जनो ऽपि एतद् एवोक्तं पुराणे अदर्शनाद् आपतितः पुनश् चादर्शनं गतः भूत-सङ्घ इति शेषः । तथा च शरीराण्य् अप्य् उद्दिश्य शोको नोचित इति भावः ।
आकाशादि-महा-भूताभिप्रायेण वा श्लोको योज्यः । अव्यक्तम् अव्याकृतम् अविद्योपहित-चैतन्यम् आदिः प्राग् अवस्था येषां तानि तथा व्यक्तं नाम-रूपाभ्याम् एवाविद्यकाभ्यां प्रकटीभूतं न तु स्वेन परमार्थ-सदात्मना मध्यं स्थित्य्-अवस्था येषां तादृशानि भूतानि आकाशादीनि अव्यक्त-निधनान्य् एवाव्यक्ते स्व-कारणे मृद् इव घटादीनां निधनं प्रलयो येषां तेषु भूतेषु का परिदेवनेति पूर्ववत् । तथा च श्रुतिः - तद् धेदं तर्ह्य् अव्याकृतम् आसीत् तन्-नाम-रूपाभ्याम् एव व्याक्रियत [बउ १।४।७] इत्य् आदिर् अव्यक्तोपादानतां सर्वस्य प्रपञ्चस्य दर्शयति । लय-स्थानत्वं तु तस्यार्थ-सिद्धं कारण एव कार्य-लयस्य दर्शनात् । ग्रन्थान्तरे तु विस्तरः । तथा चाज्ञान-कल्पितत्वेन तुच्छान्य् आकाशादि-भूतान्य् अप्य् उद्दिश्य शोको नोचितश् चेत् तत्-कार्याण्य्
उद्दिश्य नोचित इति किम् उ वक्तव्यम् इति भावः ।

अथवा सर्वदा तेषाम् अव्यक्त-रूपेण विद्यमानत्वाद् विच्छेदाभावेन तन्-निमित्तः प्रलापो नोचित इत्य् अर्थः । भारतेत्य् अनेन सम्बोधयन् शुद्ध-वंशोद्भवत्वेन शास्त्रीयम् अर्थं प्रतिपत्तुम् अर्हो ऽसि किम् इति न प्रतिपद्यस इति सूचयति ॥२८॥

विश्वनाथः : तद् एवं न जायते न म्रियते इत्य्-आदिना, देह-पक्षे च जातस्य हि ध्रुवो मृत्युः इत्य् अनेन शोक-विषयं निराकृत्य इदानीम् उभय-पक्षे ऽपि निराकरोति अव्यक्तेति । भूतानि देव-मनुष्य-तिर्यग्-आदीनि । अव्यक्तानि न व्यक्तं व्यक्तिर् आदौ जन्म-पूर्व-काले येषाम्, किन्तु तदानीम् अपि लिङ्ग-देहः स्थूल-देहश् च स्वारम्भक-पृथिव्य्-आदि-सत्त्वात् कारणात्मना वर्तमानो ऽस्पष्टम् आसीद् एवेत्य् अर्थः । व्यक्तं व्यक्तिर् मध्ये येषां तानि । न व्यक्ति निधनाद् अनन्तरं येषां तानि । महा-प्रलये ऽपि कर्म-मात्रादीनां सत्त्वात् सूक्ष्म-रूपेण भूतानि सन्त्य् एव । तस्मात् सर्व-भूतानि आद्य्-अन्तरयोर् अव्यक्तानि मध्ये व्यक्तानीत्य् अर्थः । यद् उक्तं श्रुतिभिः - स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजः इति । का परिदेवना कः शोक-निमित्तः विलापः ? तथा चोक्तं नारदेन -

यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् ।
सर्वथा न हि शोच्यास् ते स्नेहाद् अन्यत्र मोहजात् ॥ [भ्प् १।१३।४४] इति ॥२८॥

बलदेवः : अथ देहात्म-पक्षे आत्मातिरिक्त-देह-पक्षे च देह-विनाश-हेतुक-शोको न युक्तस् तद्-आरम्भकाणां भूत-मात्राणाम् अविनाशाद् इत्य् आह अव्यक्तादीनीति । अव्यक्तं नाम-रूप-विरहात् सूक्ष्मं प्रधानम् आदि आदि-रूपं येषां तानि अव्यक्त-निधनानि । अव्यक्ते तादृशि प्रधाने निधनं नाम-रूप-विमर्दन-लक्षणो नाशो येषां तानि । मृद्-आदिके सद्-रूपे द्रव्ये कम्बु-ग्रीवाद्य्-अवस्था-योगे घटस्योत्पत्तिस् तद्-विरोधि-कपालाद्य्-अवस्था-योगस् तु तस्य विनाशः कथ्यते । तद्-द्रव्यं सर्वदा स्थायीति । एवम् एवाह भगवान् पराशरः - मही घटत्वं घटतः कपालिका चूर्ण-रजस् ततो ऽणुः [विप् २।१२।४२] इति । एवं शरीराण्य् आद्य्-अन्तयोर् नाम-रूपायोगाद् अव्यक्तिमन्ति । मध्ये तु तद्-योगाद् व्यक्तिमन्ति । तद्-आरम्भकानि भूतानि तु सर्वदा सन्तीति तेषु वस्तुतः
सत्सु का परिदेवना कः शोक-निमित्त-विलाप इत्य् अर्थः । देहान्य-नित्यात्म-पक्षे तु वासांसि इत्य् आदिकं न विस्मर्तव्यम् । यत् त्व् आद्य्-अन्तयोर् असत्त्वान् मध्ये ऽपि भूतान्य् असन्त्य् एवातः स्वाप्निक-रथाश्वादि-प्रख्यानि मृषा-भूतान्य् एव तेन तद्-वियोग-हेतुकः शोकः प्रतिबुद्धस्य न दृष्ट इति दृष्टि-सृष्टिम् अभ्युपैत्याहुस् तन् मन्दं तद्-अभ्युपगमे वैदिकासत्कार्यवादापत्तेः । तद् एवं मत-द्वये ऽपि देह-विनाश-हेतुकः शोको नास्तीति सिद्धम् ॥२८॥


२।२९

आश्चर्यवत् पश्यति कश्चिद् एनम्
आश्चर्यवद् वदति तथैव चान्यः ।
आश्चर्यवच् चैनम् अन्यः शृणोति
श्रुत्वाप्य् एनं वेद न चैव कश्चित् ॥२९॥

श्रीधरः : कुतस् तर्हि विद्वांसो ऽपि लोके शोचन्ति ? आत्मा-ज्ञानाद् एव इत्य् आशयेनात्मनो दुर्विज्ञेयत्वम् आह आश्चर्यवद् इत्यादि । कश्चिद् एनम् आत्मानं शास्त्राचार्योपदेशाभ्यां पश्यन्न् आश्चर्यवत् पश्यति । सर्व-गतस्य नित्य-ज्ञानानद-स्वभावस्यात्मनः अलौकिकत्वाद् ऐन्द्रजालिकवद् घटमानं पश्यन्न् इव विस्मयेन पश्यति असम्भावनाभिभूतत्वात् । तथा आश्चर्यवद् अन्यो वदति च । शृणोति चान्यः । कश्चित् पुनः विपरीत-भावनाभिभूतः श्रुत्वापि नैव वेद । च-शब्दाद् उक्त्वापि न दृष्ट्वापि न सम्यग् वेदेति द्रष्टव्यम् ॥२९॥
मधुसूदनः : ननु विद्वांसो ऽपि बहवः शोचन्ति तत् किं माम् एव पुनः पुनर् एवम् उपालभसे । अन्यच् च वक्तुर् एव हि तज् जाड्यं श्रोता यत्र न बुध्यते इति न्यायात् त्वद्-वचनार्थापर्तिपत्तिश् च तवाप्य् अन्येषाम् इव स्वाशय-दोषाद् इति नोक्त-दोष-द्वयम् इत्य् अभिप्रेत्यात्मनो दुर्विज्ञेयताम् आह आश्चर्यवद् इति ।

एनं प्रकृतं देहिनम् आश्चर्येणाद्भुतेन तुल्यतया वर्तमानम् आविद्यक-नाना-विध-विरुद्ध-धर्मवत्तया सतन्म् अप्य् असन्तम् इव स्व-प्रकाश-चैतन्य-रूपम् अपि जडम् इवानन्द-घनम् अपि दुःखितम् इव निर्विकारम् अपि सविकारम् इव नित्यम् अनित्यम् इव प्रकाशमानम् अप्य् अप्रकाशमानम् इव ब्रह्माभिन्नम् अपि तद्-भिन्नम् इव मुक्तम् अपि बद्धम् इवाद्वितीयम् अपि स-द्वितीयम् इव सम्भावित-विचित्रानेकाकार-प्रतीति-विषयं पश्यति शास्त्राचार्योपदेशाभ्याम् आविद्यक-सर्व-द्वैत-निषेधेन परमात्म-स्वरूप-मात्राकारायां वेदान्त-महा-वाक्य-जन्यायां सर्व-सुकृत-फल-भूतायाम् अन्तःकरण-वृत्तौ प्रतिफलितं समाधि-परिपाकेन साक्षात्करोति कश्चिच् छम-दमादि-साधन-सम्पन्न-चरम-शरीरः कश्चिद् एव न तु सर्वः । तथा कश्चिद् एनं यत् पश्यति तद् आश्चर्यवद् इति क्रिया-विशेषणम्
। आत्म-दर्शनम् अप्य् आश्चर्यवद् एव यत् स्वरूपतो मिथ्या-भूतम् अपि सत्यस्य व्यञ्जकम् आविद्यकम् अप्य् अविद्याया विघातकम् अविद्याम् उपघ्नत् तत्-कार्यतया स्वात्मानम् अप्य् उपहन्तीति । तथा यः कश्चिद् एनं पश्यति स आश्चर्यवद् इति कर्तृ-विशेषणम् । यतो ऽसौ निवृत्ताविद्यातत्-कार्यो ऽपि प्रारब्ध-कर्म-प्राबल्यात् तद्वान् इव व्यहरति सर्वदा समाधि-निष्ठो ऽपि व्युत्तिष्ठति व्युत्थितो ऽपि पुनः समाधिम् अनुभवतीति प्रारब्ध-कर्म-वैचित्र्याद् विचित्र-चरित्रः प्राप्त-दुष्प्राप-ज्ञानत्वात् सकल-लोक-स्पृहणीयो ऽत आश्चर्यवद् एव भवति । तद् एतत् त्रयम् अप्य् आश्चर्यम् आत्मा तज् ज्ञानं तज्-ज्ञाता चेति परम-दुर्विज्ञेयम् आत्मानं त्वं कथम् अनायासेन जानीया इत्य् अभिप्रायः ।

ईवम् उपदेष्टुर् अभावाद् अप्य् आत्मा दुर्विज्ञेयः । यो ह्य् आत्मानं जानाति स एव तम् अन्यस्मै ध्रुवं ब्रूयात् । अज्ञस्योपदेष्टृत्वासम्भवात्, जानंस् तु समाहित-चित्तः प्रायेण कथं ब्रवीतु । व्युत्थित-चित्तो ऽपि परेण ज्ञातुम् अशक्यः । यथा कथञ्चिज् ज्ञातो ऽपि लाभ-पूजा-ख्यात्य्-आदि-प्रयोजनानपेक्षत्वाच् च ब्रवीत्य् एव । कथञ्चित् कारुण्य-मात्रेण ब्रुवंस् तु परमेश्वरवद् अत्यन्त-दुर्लभ एवेत्य् आह आश्चर्यवद् वदति तथैव चान्य इति । यथाजानाति तथैव वदति । एनम् इत्य् अनुकर्षणार्थश् च-कारः । स चान्यः सर्वाज्ञ-जन-विलक्षणः । न तु यः पश्यति ततो ऽन्य इति व्याघातात् । अत्रापि कर्मणि क्रियायां कर्तरि चाश्चर्यवद् इति योज्यम् । तत्र कर्मणः कर्तुश् च प्राग् आश्चर्यवत्त्वं व्याख्यातं क्रियायास् तु व्याख्यायते । सर्व-शब्दावाच्यस्य शुद्धस्यात्मनो यद् वचनं
तद् आश्चर्यवत् । तथा च श्रुतिः - यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इति । केनापि शब्देनावाच्यस्य शुद्धस्यात्मनो विशिष्ट-शक्तेन पदेन जहद्-अजहत्-स्वार्थ-लक्षणाया कल्पित-सम्बन्धेन लक्ष्यतावच्छेदकम् अन्तरेणैव प्रतिपादनं तद् अपि निर्विकल्प-साक्षात्कार-रूपम् अत्याश्चर्यम् इत्य् अर्थः ।

अथवा विना शक्तिं विना लक्षणां विना सम्बन्धान्तरं सुषुप्तोत्थापक-वाक्य-वत् तत्त्वम् अस्यादि-वाक्येन यदात्मतत्त्व-प्रतिपादनं तद् आश्चर्यवत् । शब्द-शक्तेर् अचिन्त्यत्वात् । न च विना सम्बन्धं बोधनेन् ऽतिप्रसङ्गः लक्षणा-पक्षे ऽपि तुल्यत्वात् । शक्य-सम्बन्धस्यानेक-साधारणत्वात् । तात्पर्य-विशेषान् नियम इति चेत्, न । तस्यापि सर्वान् प्रत्य् अविशेषात् । कश्चिद् एव तात्पर्य-विशेषम् अवधारयति न सर्व इति चेत् । हन्त तर्हि पुरुष-गत एव कश्चिद् विशेषो निर्दोषत्व-रूपो नियामकः । न चास्मिन् पक्षे ऽपि न दण्ड-वारितः । तथा च यादृशस्य शुद्धान्तः-करणस्य तात्पर्यानुसन्धान-पुरः-सरं लक्षणया वाक्यार्थ-बोधो भवद्भिर् अङ्गी क्रियते तादृशस्यैव केवलः शब्द-विशेषो ऽखण्ड-साक्षात्कारं विनापि सम्बन्धेन जनयतीति किम् अनुपपन्नम् । एतस्मिन्
पक्षे शब्द-वृत्त्य्-अविषयत्वाद् यतो वाचो निवर्तन्त इति सुतराम् उपपन्नम् । अयं च भगवद्-अभिप्रायो वार्तिक-कारैः प्रपञ्चितः -

दुर्बलत्वाद् अविद्याया आत्मत्वाद् बोध-रूपिणः ।
शब्द-शक्तेर् अचित्न्यत्वाद् विद्मस् तं मोह-हानतः ॥
अगृहीत्वैव सम्बन्धम् अभिधानाभिधेययोः ।
हित्वा निद्रां प्रबुध्यन्ते सुषुप्तेर् बोधिताः परैः ॥
जाग्रद्वन् न यतः शब्दं सुषुप्ते वेत्ति कश्चन ।
ध्वस्ते ऽतो ज्ञानतो ऽज्ञाने ब्रह्मास्मीति भवेत् फलम् ॥
अविद्या-घातिनः शब्दाद्याहं ब्रह्मेति धीर् भवेत् ।
नश्यत्य् अविद्यया सार्धं हत्वा रोगम् इवौषधम् ॥ [बृहत्।वा १।४।८६०-८६३]
इत्य् आदिना ग्रन्थेन ।

तद् एवं वचन-विषयस्य वक्तुर् वचन-क्रियायाश् चात्याश्चर्य-रूपत्वाद् आत्मनो दुर्विज्ञानत्वम् उक्त्वा श्रोतुर् दुर्मिलत्वाद् अपि तद् आह आश्चर्यवच् चैनम् अन्यः शृणोति श्र्तुवा ऽप्य् एनं वेदेति । अन्यो द्रष्टुर् वक्तुश्च् अ मुक्ताद् विलक्षणो मुमुक्षुर् वक्तारं ब्रह्म-विदं विधिवद् उपसृत्यैनं शृणोति श्रवणाख्य-विचार-विषयी करोति वेदान्त-वाक्य-तात्पर्य-निश्चयेनावधारयतीति यावत् । श्रुत्वा चैनं मनन-निदिध्यासन-परिपाकाद् वेदापि साक्षात्करोत्य् अपि आश्चर्यवत् । तथा चाश्चर्यवत् पश्यति कश्चिद् एनम् इति व्याख्यातम् । अत्रापि कर्तुर् आश्चर्य-रूपत्वम् अनेक-जन्मानुष्ठित-सुकृत-क्षालित-मनो-मलतयातिदुर्लभत्वात् । तथा च वक्ष्यति -

मनुष्याणां सहस्रेषु कश् चिद् यतति सिद्धये ।
यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः ॥ [गीता ७।३] इति ।

श्रवणायापि बहुभिर् यो न लभ्यः
शृण्वन्तो ऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलो ऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ [कठु १।२।७] इति श्रुतेश् च ।

एवं श्रवण-श्रोतव्ययोर् आश्चर्यत्वं प्राग्वद् व्याख्येयम् ।

ननु यः श्रवण-मननादिकं करोति स आत्मानं वेदेति किम् आश्चर्यम् अत आह - न चैव कश्चिद् इति । च-कारः क्रिया-कर्म-पदयोर् अनुषङ्गार्थः । कश्चिद् एनं नैव वेद श्रवणादिकं कुर्वन्न् अपि । तद् अकुर्वंस् तु न वेदेति किम् उ वक्तव्यम् । ऐहिकम् अप्रस्तुत-प्रतिबन्धे तद्-दर्शनात् [व्स्। ३।४।५१] इति न्यायात् । उक्तं च वार्तिक-कारैः -

कुतस् तज्-ज्ञानम् इति चेत् तद् धि बन्ध-परिक्षयात् ।
असाव् अपि च भूतौ वा भावी वा वर्तते ऽथवा ॥ [बृह्। वा। स। २९४] इति ।

श्रवणादि कुर्वताम् अपि प्रतिबन्ध-परिक्षयाद् एव ज्ञानं जायते । अन्यथा तु न । स च प्रतिबन्ध-परिक्षयः कस्यचिद् भूत एव । यथा हिरण्यगर्भस्य । कस्यचिद् भावी । यथा वासुदेवस्य । कस्यचिद् वर्तते । यथा श्वेतकेतोः । तथा च प्रतिबन्ध-क्षय-स्यातिदुर्लभत्वात् । ज्ञानम् उत्पद्यते पुंसां क्षयात् पापस्य कर्मणः इति स्मृतेश् च दुर्विज्ञेयो ऽयम् आत्मेति निर्गलितो ऽर्थः ।

यदि तु श्रुत्वाप्य् एनं वेद न चैव कश्चिद् इत्य् एव व्याख्यायेत तदा आश्चर्यो ज्ञाता कुशलानुशिष्टः [कठु १।२।७] इति श्रुत्यैक-वाक्यता न स्यात् । यतताम् अपि सिद्धानां कश् चिन् मां वेत्ति तत्त्वतः [गीता ७।३] इति भगवद्-वचन-विरोधश् चेति विद्वद्भिर् अविनयः क्षन्तव्यः । अथवा न चैव कश्चिद् इत्य् अस्य सर्वत्र सम्बन्धः कश्चिद् एनं न पश्यति न वदति न शृणोति श्रुत्वापि न वेदेति पञ्च प्रकारा उक्ताः कश्चित् पश्यत्य् एव न वदति कश्चित् पश्यति न वदति च कश्चित् तद्-वचनं शृणोति च तद्-अर्थं जानाति च कश्चिच् छ्रुत्वापि न जानाति न कश्चित् तु सर्व-बहिर्भूत इति । अविद्वत्-पक्षे तु असम्भावना-विपरीत-भावनाभिभूतत्वाद् आश्चर्य-तुल्यत्वं दर्शन-वदन-श्रवणेष्व् इति निगद-व्याख्यातः श्लोकः । चतुर्थ-पादे तु दृष्ट्वोक्त्वा श्रुत्वापीति योजना ॥२९॥

विश्वनाथः : ननु किम् इदम् आश्चर्यं ब्रूषे । किं चैतद् अप्य् आश्चर्यम् । यद् एव प्रबोध्यमानस्याप्य् अविवेको नापयातीति तत्र सत्यम् एवेम् एव इत्य् आह आश्चर्यवद् इति । एनम् आत्मानं देहं च तद्-उभय-रूपं सर्व-लोकम् ॥२९॥

बलदेवः : ननु सर्वज्ञेन त्वया बहूपदिश्यमानो ऽप्य् अहं शोक-निवारकम् आत्म-याथात्म्यं न बुध्ये किम् एतद् इति चेत् तत्राह आश्चर्यवद् इति । विज्ञानान्दोभय-स्वरूपत्वे ऽपि तद्-भेदाप्रतियोगिनं विज्ञान-स्वरूपत्वे ऽपि विज्ञातृतया सन्तं परमाणुत्वे ऽपि व्याप्त-बृहत्-कायं नाना-काय-सम्बन्धे ऽपि तत्-तद्-विकारैर् अस्पृष्टम् एवम् आदि बहु-विरुद्ध-धर्मतयाश्चर्यवद् अद्भुत-सादृश्येन स्थितम् एनं मद्-उपदिष्टं जीवं कश्चिद् एव स्वधर्मानुष्ठानेन सत्य-तपो-जपादिना च विमृष्ट-हृद्-गुरु-प्रसाद-लब्ध-तादृश-ज्ञानः पश्यति याथात्म्येनानुभवति । आश्चर्यवद् इति क्रिया-विशेषणं वा कर्तृ-विशेषणं वेति व्याख्यातारः कश्चिद् एनम् यत् पश्यति तद् आश्चर्यवत् । यः कश्चित् पश्यति सो ऽप्य् आश्चर्यवद् इत्य् अर्थः । एवम् अग्रे ऽपि । श्रुत्वाप्य् एनम् इति कश्चित्
सम्यग् अमृष्ट-हृद् इत्य् अर्थः । तथा च दुरधिगमं जीवात्मयाथात्म्यम् । श्रुतिर् अप्य् एवम् आह -

श्रवणायापि बहुभिर् यो न लभ्यः
शृण्वन्तो ऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलो ऽस्य लब्धा
आश्चर्यो ज्ञाता कुशलानुशिष्ट ॥ [कठु १।२।७] इति ॥२९॥


२।३०

देही नित्यम् अवध्यो ऽयं देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ॥३०॥

श्रीधरः : तद् एवम् अवध्यत्वम् आत्मनः सङ्क्षेपेनोपदिशन् अशोच्यत्वम् उपसंहरति देहीत्य् आदि । स्पष्टो ऽर्थः ॥३०॥

मधुसूदनः : इदानीं सर्व-प्राणि-साधारण-भ्रम-निवृत्ति-साधनम् उक्तम् उपसंहरति देहीति । सर्वस्य प्राणि-जातस्य देहे वध्यमाने ऽप्य् अयं देही लिङ्ग-देहोपाधिर् आत्मा वध्यो न भवतीति नित्यं नियतं यस्मात् तस्मात् सर्वाणि भूतानि स्थूलानि सूक्ष्माणि च भीष्मादि-भावापन्नान्य् उद्दिश्य त्वं न शोचितुम् अर्हसि । स्थूल-देहस्याशोच्यत्वम् अपरिहार्यत्वात् । लिङ्ग-देहस्याशोच्यत्वम् आत्मवद् एवावध्यत्वाद् इति न स्थूल-देहस्य लिङ्ग-देहस्यात्मनो वा शोच्यत्वं युक्तम् इति भावः ॥३०॥

विश्वनाथः : तर्हि निश्चित्य ब्रूहि किम् अहं कुर्यां किं वा न कुर्याम् इति । तत्र शोकं मा कुरु युद्धं तु कुर्व् इत्य् आह देहीति द्वाभ्याम् ॥३०॥

बलदेवः : तद् एवं दुरधिगमं जीव-याथात्म्यं समासेनोपदिशन्न् अशोच्यत्वम् उपसंहरति देहीति । सर्वस्य जीव-गणस्य देहे हन्यमाने ऽप्य् अयं देही जीवो नित्यम् अवध्यो यस्मात् तस्मात् त्वं सर्वाणि भूतानि भीष्मादि-भावापन्नानि शोचितुं नार्हसि । आत्मनां नित्यत्वाद् अशोच्यत्वं तद्-देहानां त्व् अवश्य-विनाशत्वात् तत्त्वम् इत्य् अर्थः ॥३०॥


२।३१

स्व-धर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि ।
धर्म्याद् धि युद्धाच् छ्रेयो ऽन्यत् क्षत्रियस्य न विद्यते ॥३१॥

श्रीधरः : यच् चोक्तम् अर्जुनेन वेपथुश् च शरीरे मे इत्य् आदि तद् अप्य् अयुक्तम् इत्य् आह स्वधर्मम् अपीति । आत्मनो नाशाभावाद् एव एतेसां हनने ऽपि विकम्पितुं नार्हसि । किं च स्वधर्मम् अप्य् अवेक्ष्य विकम्पितुम् नार्हसि इति सम्बन्धः । यच् चोक्तं - न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहव इति तत्राह धर्म्याद् इति । धर्माद् अनपेतान् न्यायाद् युद्धाद् अन्यत् ॥३१॥

मधुसूदनः : तद् एवं स्थूल-सूक्ष्म-शरीर-द्वय-तत्-कारणाविद्याख्योपाधि-त्रयाविवेकेन मिथ्याभूतस्यापि संसारस्य सत्यत्वात्म-धर्मत्वादि-प्रतिभास-रूपं सर्व-प्राणि-साधारणम् अर्जुनस्य भ्रमं निराकर्तुम् उपाधि-त्रय-विवेकेनात्म-स्वरूपम् अभिहितवान् । सम्प्रति युद्धाख्ये स्व-धर्मे हिंसादि-बाहुल्येनाधर्मत्व-प्रतिभास-रूपम् अर्जुनस्यैव करुणादि-दोष-निबन्धनम् असाधारणं भ्रमं निराकर्तुं हिंसादिमत्त्वे ऽपि युद्धस्य स्व-धर्मत्वेनाधर्मत्वाभावं बोधयति भगवान् स्वधर्मम् अपीति ।

न केवलं परमार्थ-तत्त्वम् एवावेक्ष्य किं तु स्वधर्मम् अपि क्षत्रिय-धर्मम् अपि युद्धापराङ्मुखत्व-रूपम् अवेक्ष्य शास्त्रतः पर्यालोच्य विकम्पितुं विचलितुं धर्माद् अधर्मत्व-भ्रान्त्या निवर्तितुं नार्हसि । तत्रैवं सति यद्यप्य् एते न पश्यन्ति इत्य् आदिना नरके नियतं वासो भवति इत्य् अन्तेन युद्धस्य पाप-हेतुत्वं त्वया यद् उक्तं कथं भीष्मम् अहं सङ्ख्ये इत्य् आदिना च गुरु-वध-ब्रह्म-वधाद्य्-अकरणं यद् अभिहितं तत् सर्वं धर्म-शास्त्र-पर्यालोचनाद् एवोक्तम् । कस्मात् ? हि यस्माद् धर्म्याद् अपराङ्मुखत्व-धर्माद् अनपेताद् युद्धाद् अन्यत् क्षत्रियस्य श्रेयः श्रेयः-साधनं न विद्यते । युद्धम् एव हि पृथिवी-जय-द्वारेण प्रजा-रक्षण-ब्राह्मण-शुश्रूषादि-क्षात्र-धर्म-निर्वाहकम् इति तद् एव क्षत्रियस्य प्रशस्ततरम् इत्य् अभिप्रायः । तथा चोक्तं पराशरेण -

क्षत्रियो हि प्रजा रक्षन् शस्त्र-पाणिः प्रदण्डयन् ।
निर्जित्य पर-सैन्यादि क्षितिं धर्मेण पालयेत् ॥ [पराशर-स्मृति १।५८] इति ॥३१॥

मनुनापि -

समोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः ।
न निवर्तेत सङ्ग्रामात् क्षात्रं धर्मम् अनुस्मरन् ॥
सङ्ग्रामेष्व् अनिवर्तित्वं प्रजानां चैव पालनम् ।
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ [मनु ७।८८-९] इत्य् आदिना ।

राज-शब्दश् च क्षत्रिय-जाति-मात्र-वाचीति स्थितम् एवेष्ठ्य्-अधिकरणे । तेन भूमि-पालस्यैवायं धर्म इति न भ्रमितव्यम् । उदाहृत-वचने ऽपि क्षत्रियो हीति क्षात्त्रं धर्मम् इति च स्पष्टं लिङ्गम् । तस्मात् क्षत्रियस्य युद्धं प्रशस्तो धर्म इति साधु भगवतो ऽभिहितम् । अपशवो ऽन्ये गो-अश्वेभ्यः पशवो गो-अश्वाः इतिवत् प्रशंसा-लक्षणया युद्धाद् अन्यच्-छ्रेयः-साधनं न विद्यत इत्य् उक्तम् इति न दोषः । एतेन युद्धात् प्रशस्ततरं किञ्चिद् अनुष्ठातुं ततो निवृत्तिर् उचितेति निरस्तम् । न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे इत्य् एतद् अपि ॥३१॥

विश्वनाथः : आत्मनो नाशाभावाद् एव वधाद् विकम्पितुं भेतुं नार्हसि । स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसीति सम्बन्धः ॥३१॥

बलदेवः : एवं परमात्म-ज्ञानोपयोगित्वाद् आदौ जीवात्म-ज्ञानं सर्वान् प्रति तौल्येनोपदिश्य स-निष्ठान् प्रति निष्कामतयानुष्ठितानि कर्माणि हृद्-विशुद्धि-सहकृताम् आत्म-ज्ञान-निष्ठां निष्पादयन्तीति वदिष्यन् तस्यां प्रतीतिम् उत्पादयितुं सकामतयानुष्ठितानां कर्मणां काम्य-फल-प्रदत्वम् आह द्वाभ्याम् स्वधर्मम् अपीति ।

युद्धं खलु क्षत्रियस्य नित्यतम् अग्निहोत्रादिवद् विहितम् । तच् च शत्रु-प्राण-विहंसन-रूपम् अग्निष्टोमादि-पशु-हिंसनवन् न प्रत्यवाय-निमित्तम् । उभयत्र हिंसेयम् उपकृति-रूपैव । हीनयोर् देह-लोकयोस् त्यागेन दिव्ययोस् तयोर् लोभात् । आह चैवं स्मृतिः -

आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ [मनु ७।९०]
यज्ञेषु पशवो ब्रह्मन् हन्यन्ते सततं द्विजैः ।
संस्कृताः किल मन्त्रैश् च ते ऽपि स्वर्गम् अवाप्नुवन् ॥ [?] इत्य् आद्या ।

एवं निज-धर्मम् अवेक्ष्य विकम्पितुं धर्मात् प्रचलितुं नार्हसि । युक्तं न च श्रेयो ऽनुपश्यामीत्य् आदिना नरके नित्यतं वासो भवतीय्त् अन्त्येन युद्धस्य पाप-हेतुत्वं त्वयोक्तम् । तच् चाज्ञानाद् एवेत्य् आह धर्म्याद् इति । युद्धम् एव भूमि-जय-द्वारा प्रजा-पालन-गुरु-विप्र-संसेवनादि-क्षात्र-धर्म-निर्वाहीति । एवम् आह भगवान् पराशरः -

क्षत्रियो हि प्रजा रक्षन् शस्त्र-पाणिः प्रदण्डयन् ।
निर्जित्य पर-सैन्यादि क्षितिं धर्मेण पालयेत् ॥ [पराशर-स्मृति १।५८] इति ॥३१॥


२।३२

यदृच्छया चोपपन्नं स्वर्ग-द्वारम् अपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् ॥३२॥

श्रीधरः : किं च महति श्रेयसि स्वयम् एवोपागते सति कुतो विकम्पस इति । अत आह यदृच्छयेति । यदृच्छया अप्रार्थितम् एव उपपन्नं प्राप्तम् ईदृशं युद्धम् लभन्ते । यतो निरावरणं स्वर्ग-द्वारम् एवैतत् । यद् वा य एवंविधं युद्धं लभन्ते त एव सुखिन इत्य् अर्थः । एतेन स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इति यद् उक्तं तन् निरस्तं भवति ॥३२॥

मधुसूदनः : ननु युद्धस्य कर्तव्यत्वे ऽपि न भीष्म-द्रोणादिभिर् गुरुभिः सह तत् कर्तुम् उचितम् अतिगर्हितत्वाद् इत्य् आशङ्क्याह यदृच्छयेति । यदृच्छया स्व-प्रयत्न-व्यतिरेकेण । चो ऽवधारणे । अप्रार्थनयैवोपस्थितम् ईदृशं भीष्म-द्रोणादि-वीर-पुरुष-प्रतियोगिकं कीर्ति-राज्य-लाभ-दृष्ट-फल-साधनं युद्धं ये क्षत्रियाः प्रतियोगित्वेन लभन्ते ते सुखिनः सुख-भाज एव । जये सत्येनायासेनैव यशसो राज्यस्य च लाभात् । पराजये चातिशीघ्रम् एव स्वर्गस्य लाभाद् इत्य् आह स्वर्ग-द्वारम् अपावृतम् इति । अप्रतिबद्धं स्वर्ग-साधनं युद्धम् अव्यवधानेनैव स्वर्ग-जनकं ज्योतिष्ठोमादिकं तु चिरतरेण देह-पातस्य प्रतिबन्धाभावस्य चापेक्षणाद् इत्य् अर्थः । स्वर्ग-द्वारम् इत्य् अनेन श्येनादिवत् प्रत्यवाय-शङ्का परिहृता । श्येनादयो हि विहिता अपि फल-दोषेण
दुष्टाः । तत्-फलस्य शत्रु-वधस्य न हिंस्यात् सर्वा भूतानि, ब्राह्मणं न हन्यात् इत्य् आदि-शास्त्र-निषिद्धस्य प्रत्यवाय-जनकत्वात् फले विध्य्-अभावाच् च न विधि-स्पृष्टे निषेधानवकाशः इति न्यायावतारः । युद्धस्य हि फलं स्वर्गः स च न निषिद्धः । तथा च मनुः –

 आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः ।  
 युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ [मनु ७।९०] इति ।  

युद्धं तु अग्नीषोमीयाद्य्-आलम्भ-वध-विहितत्वान् न निषेधेन स्प्रष्टुं शक्यते षोडशि-ग्रहणादिवत् । ग्रहणाग्रहयोस् तुल्य-बलतया विकल्पवत् सामान्य-शास्त्रस्य विशेष-शास्त्रेण सङ्कोच-सम्भवात् । तथा च विधि-स्पृष्टे निषेधानवकाशः इति न्यायाद् युद्धं न प्रत्यवाय-जनकं नापि भीष्म-द्रोणादि-गुरु-ब्राह्मणादि-वध-निमित्तो दोषः । तेषाम् आततायित्वात् । तद् उक्तं मनुना -

गुरुं वा बाल-वृद्धौ वा ब्राह्मणं वा बहु-श्रुतम् ।
आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥
आततायिनम् आयान्तम् अपि वेदान्त-पारगम् ।
जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् ॥
नाततायि-वधो दोषो हन्तुर् भवति कश्चन ॥ [मनु ८।३५०-३५१] इत्य् आदि ।

ननु -
स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः ।
अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्थितिः ॥ [याज्ञवल्क्य २।२१]

इति याज्ञवल्क्य-वचनाद् आततायि-ब्राह्मण-वधे ऽपि प्रत्यवायो ऽस्त्य् एव । ब्राह्मणं न हन्यात् इति हि दृष्ट-प्रयोजनानपेक्षत्वाद् धर्म-शास्त्रम्, जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् इति च स्व-जीवनार्थत्वाद् अर्थ-शास्त्रम् ।

अत्रोच्यते ब्रह्मणे ब्राह्मणम् आलभेत इतिवद् युद्ध-विधायकम् अपि धर्म-शास्त्रम् एव सुख-दुःखे समे कृत्वा इत्य् अत्र दृष्ट-प्रयोजनानपेक्षत्वस्य वक्ष्यमाणत्वात् । याज्ञवल्क्य-वचनं तु दृष्ट-प्रयोजनोद्देश्यक-कूट-युद्धादि-कृत-वध-विषयम् इत्य् अदोषः । मिताक्षराकारस् तु धर्मार्थ-सन्निपाते ऽर्थ-ग्राहिण एतद् एवेति द्वादश-वार्षिक-प्रायश्चित्तस्यैतच्-छब्द-परामृष्टस्यापस्तम्बेन विधानान् मित्र-लब्ध्याद्य्-अर्थ-शास्त्रानुसारेण चतुष्पाद् व्यवहारे शत्रोर् अपि जये धर्म-शास्त्रातिक्रमो न कर्तव्य इत्य् एतत् परं वचनम् एतद् इत्य् आह । भवत्व् एवं न नो हानिः । तद् एवं युद्ध-करणे सुखोक्तेः स्वजनं हि कथं हत्वा सुखिनः स्याम माधव इत्य् अर्जुनोक्तम् अपाकृतम् ॥३२॥

विश्वनाथः : किं च, जेतृभ्यः सकाशाद् अपि न्याय-युद्धे मृतानाम् अधिकं सुखम् अतो भीष्मादीन् हत्वा तान् प्रत्युत स्वतो ऽपि अधिक-सुखिनः कुरु इत्य् आह यदृच्छयेति । स्वर्ग-साधनं कर्म-योगम् अकृत्वापीत्य् अर्थः । अपावृतम् अपगतावरणम् ॥३२॥

बलदेवः : किं चायत्नाद् आगते ऽस्मिन् महति श्रेयसि न युक्तस् ते कम्प इत्य् आह यदृच्छयेति । चो ऽवधारणे । यत्नं विनैव चोपपन्नम् ईदृशं भीष्मादिभिर् महा-वीरैः सह युद्धं सुखिनः सभाग्याः क्षत्रिया लभन्ते । विजये सत्य-श्रमेण कीर्ति-राज्ययोर् मृत्यौ सति शीघ्रम् एव स्वर्गस्य च प्राप्तेर् इत्य् अर्थः । एतद् व्यञ्जयन् विशिनष्टि - स्वर्ग-द्वारम् उपावृतम् इति । अप्रतिरुद्ध-स्वर्ग-साधनम् इत्य् अर्थः । ज्योतिष्टोमादिकं चिरतरेण स्वर्गोपलम्भकम् इति ततो ऽस्यातिशयः ॥३२॥


२।३३

अथ चेत् त्वम् इमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्व-धर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ॥३३॥

श्रीधरः : विपर्यये दोषम् आह अथ चेद् इति ॥३३॥

मधुसूदनः : ननु नाहं युद्ध-फल-कामः । न काङ्क्षे विजयं कृष्ण, अपि त्रैलोक्य-राज्यस्य इत्य् उक्तत्वात् तत् कथं मया कर्तव्यम् इत्य् आशङ्क्याकरणे दोषम् आह अथ चेद् इति । अथेति पक्षान्तरे । इमं भीष्म-द्रोणादि-वीर-पुरुष-प्रतियोगिकं धर्म्यं हिंसादि-दोषणादुष्टं सतां धर्माद् अनपेताम् इति वा । स च मनुना दर्शितः -

न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् ।
न कर्णिभिर् नापि दिग्धैर् नाग्नि-ज्वलित-तेजनैः ॥
न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्त-केशं नासीनं न तवास्मीति वादिनम् ॥
न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नायुध्यमानं पश्यन्तं न परेण समागतम् ॥
नायुध-व्यसन-प्राप्तं नार्तं नातिपरिक्षतं ।
न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥ [मनु ७।९१-९४] इति ।

सतां धर्मम् उल्लङ्घ्य युध्यमानो हि पापीयान् स्यात् । त्वं तु परैर् आहूतो ऽपि सद्-धर्मोपेतम् अपि सङ्ग्रामं युद्धं न करिष्यसि धर्मतो लोकतो वा भीतः परावृत्तो भविष्यसि चेत् ततो निर्जित्य पर-सैन्यानि क्षितिं धर्मेण पालयेत् [पराशर-स्मृति १।५८] इत्य् आदि-शास्त्र-विहितस्य युद्धस्याकरणात् स्वधर्मं हित्वाननुष्ठाय कीर्तिं च महादेवादि-समागम-निमित्तां हित्वा न निवर्तेत सङ्ग्रामात् इत्य् आदि-शास्त्र-निषिद्ध-सङ्ग्राम-निवृत्त्या च रण-जन्यं पापम् एव केवलम् अवाप्स्यसि न तु धर्मं कीर्तिं चेत्य् अभिप्रायः ।

अथवा ऽनेक-जन्मार्जितं धर्मं त्यक्त्वा राज-कृतं पापम् एवावाप्स्यसीत्य् अर्थः । यस्मात् त्वां परावृत्तम् एते दुष्टा अवश्यं हनिष्यन्ति अतः परावृत्त-हतः संश् चिरोपार्जित-निज-सुकृत-परित्यागेन परोपार्जित-दुष्कृत-मात्र-भाङ् मा भूर् इत्य् अभिप्रायः । तथा च मनुः -

यस् तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः ।
भर्तुर् यद् दुष्कृतं किञ्चित् तत् सर्वं प्रतिपद्यते ॥
यच् चास्य सुकृतं किञ्चिद् अमुत्रार्थम् उपार्जितम् ।
भर्ता तत् सर्वम् आदत्ते परावृत्त-हतस्य तु ॥ [मनु ७।९५-९६] इति ।

याज्ञवल्क्यो ऽपि राजा सुकृतम् आदत्ते हतानां विपलायिनाम् इति । तेन यद् उक्तम् - पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः [गीता १।३६], एतान् न हन्तुम् इच्छामि घन्तो ऽपि मधुसूदन [गीता १।३५] इति तन् निराकृतं भवति ॥३३॥

विश्वनाथः : विपक्षे दोषम् आह अथेति चतुर्भिः ॥३३॥

बलदेवः : विपक्षे दोषान् दर्शयति अथेत्य् आदिभिः । स्वस्य तव धर्म्यं युद्ध-लक्षणं कीर्तिं च रुद्र-सन्तोषण-निवात-कवचादि-वध-लब्धां हित्वा पापं न निवर्तेत सङ्ग्रामाद् इत्य् आदि स्मृति-प्रतिषिद्धं स्व-धर्म-त्याग-लक्षणं प्राप्स्यसि ॥३३॥


२।३४

अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर् मरणाद् अतिरिच्यते ॥३४॥

श्रीधरः : किं च अकीर्तिम् इत्य् आदि । अव्ययाम् शाश्वतीम् । सम्भावितस्य बहु-मतस्य । अतिरिच्यते अधिकतरा भवति ॥३४॥

मधुसूदनः : एवं कीर्ति-धर्मयोर् इष्टयोर् अप्राप्तिर् अनिष्टस्य च पापस्य प्राप्तिर् युद्ध-परित्यागे दर्शिता । तत्र पापाख्यम् अनिष्टं व्यवधानेन दुःख-फलदम् आमुत्रिकत्वात् । शिष्ट-गर्हा-लक्षणं त्व् अनिष्टम् आसन्न-फलदम् अत्यसह्यम् इत्य् आह अकीर्तिम् इति । भूतानि देवर्षि-मनुष्यादीनि ते तवाव्ययां दीर्घ-कालम् अकीर्तिं न धर्मात्मायं न शूरो ऽयम् इत्य् एवं-रूपां कथयिष्यन्त्य् अन्योन्यं कथा-प्रसङ्गे । कीर्ति-धर्म-नाश-समुच्चयार्थौ निपातौ । न केवलं कीर्ति-धर्मौ हित्वा पापं प्राप्स्यसि अपि तु अकीर्तिं च प्राप्स्यसि । न केवलं त्वम् एव तां प्राप्स्यसि अपि तु भूतान्य् अपि कथयिष्यन्तीति वा निपातयोर् अर्थः ।

ननु युद्धे स्व-मरण-सन्देहात् तत्-परिहारार्थम् अकीर्तिर् अपि सोढव्या आत्म-रक्षणस्यात्यन्तापेक्षितत्वात् । तथा चोक्तं शान्ति-पर्वणि[*एन्द्नोते] –

साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक् ।
विजेतुं प्रयतेतारीन् न युद्धेन कदा चन ॥
अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ।
पराजयश् च सङ्ग्रामे तस्माद् युद्धं विवर्जयेत् ॥
त्रयाणाम् अप्य् उपायानां पूर्वोक्तानाम् असम्भवे ।
तथा युध्येत सम्पन्नो विजयेत रिपून् यथा ॥ [मनुस् ७।१९८-२००]

एवम् एव मनुनाप्य् उक्तम् ।

तथा च मरण-भीतस्य किम् अकीर्ति-दुःखम् इति शङ्काम् अपनुदति सम्भावितस्य धर्मात्मा शूर इत्य् एवम् आदिभिर् अनन्य-लभ्यैर् गुणैर् बहुमतस्य जनस्याकीर्तिर् मरणाद् अप्य् अतिरिच्यते ऽधिका भवति । चो हेतौ । एवं यस्माद् अतो ऽकीर्तेर् मरणम् एव वरं न्यूनत्वात् । त्वम् अप्य् अतिर्सम्भावितो ऽसि महादेवादि-समागमेन । अतो नाकीर्ति-दुःखं सोढुं शक्ष्यसीत्य् अभिप्रायः । उदाहृत-वचनं त्व् अर्थ-शास्त्रत्वात् न निवर्तेत सङ्ग्रामात् [मनु ७।८८] इत्य् आदि-धर्म-शास्त्राद् दुर्बलम् इति भावः ॥३४॥

विश्वनाथः : अव्ययाम् अनश्वराम् । सम्भावितस्यातिप्रतिष्ठितस्य ॥३४॥

बलदेवः : न केवलं स्वधर्मस्य कीर्तेश् च क्षति-मात्रम् । युद्धे समारब्धे ऽर्जुनः पलायत इत्य् अव्ययां शाश्वतीम् अकीर्तिं च तव भूतानि सर्वे लोकाः कथयिष्यन्ति । ननु मरणाद् भीतेन मया अकीर्तिः सोढव्येति चेत् तत्राह सम्भावितस्यातिप्रतिष्ठितस्य । अतिरिच्यते अधिका भवति । तथा च तादृशाकीऋतेर् मरणम् एव वरम् इति ॥३४॥

भयाद् रणाद् उपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥३५॥

श्रीधरः : किं च भयाद् इति । येषां बहु-गुणत्वेन त्वं पूर्वं सम्मतो ऽभूस् त एव भयात् सङ्ग्रामान् निवृत्तं त्वां मन्येरन् । ततश् च पूर्वं बहुमतो भूत्वा लाघवम् लघुतां यास्यसि ॥३५॥

मधुसूदनः :

विश्वनाथः : येषां त्वं बहु-मतो ऽस्मच्-छत्रुर् अर्जुनस् तु महाशूर इति बहु-सम्मान-विषयो भूत्वा सम्प्रति युद्धाद् उपरमे सति लाघवं यास्यसि ते दुर्योधनादयो महारथास् त्वां भयाद् एव रणाद् उपरतं मंस्यन्त इत्य् अन्वयः । क्षत्रियाणां हि भयं विना युद्धोपरति-हेतुर् बन्धु-स्नेहादिको नोपपद्यत इति मत्वेति भावः ॥३५॥

बलदेवः : ननु कुल-क्षय-दोषात् कारुण्याच् च विनिवृत्तस्य मम कथम् अकीर्तिः स्याद् इति चेत् तत्राह भयाद् इति । महारथा दुर्योधनादयस् त्वां कर्णादि-भयान् न तु बन्धु-कारुण्याद् रणाद् उपरतं मंस्यन्ते । न हि शूरस्य शत्रु-भयं विना बन्धु-स्नेहेन युद्धाद् उपरतिर् इत्य् अर्थः । इतः पूर्वं येषां त्वं बहुमतः शूरो वैरीति बहु-गुणवत्तया सम्मतो ऽभूर् इदानीं युद्धे समुपस्थिते कातरो ऽयं विनिवृत्त इत्य् एवं तत्-कृतं लाघवं दुःसहं यास्यसि ॥३५॥


२।३६

अवाच्य-वादांश् च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस् तव सामर्थ्यं ततो दुःखतरं नु किम् ॥३६॥

श्रीधरः : किं च अवाच्य-वादान् इति । अवाच्यान् वादान् वचनानर्हान् शब्दान् तव अहिताः त्वच्-छत्रवो वदिष्यन्ति ॥३६॥

मधुसूदनः : ननु भीष्मादयो महारथा न बहु मन्यन्तां दुर्योधनादयस् तु शत्रवो बहु मंस्यन्ते मां युद्ध-निवृत्त्या तद्-उपकारित्वाद् इत्य् अत आह अवाच्येति । तवासाधारणं यत् सामर्थ्यं लोक-प्रसिद्धं तन् निन्दन्तस् तव शत्रवो दुर्योधनादयो ऽवाच्यान् वादान् वचनान् अर्हान् षण्ढ-तिलादि-रूपान् एव शब्दान् बहून् अनेक-प्रकारान् वदिष्यन्ति न तु बहु मंस्यन्त इत्य् अभिप्रायः । अथवा तव सामर्थ्यं स्तुति-योग्यत्वं तव निन्दन्तो ऽहिता अवाच्य-वादान् वदिष्यन्तीत्य् अन्वयः ।

ननु भीष्म-द्रोणादि-वध-प्रयुक्तं कष्टतरं दुःखम् असहमानो युद्धान् निवृत्तः शत्रु-कृत-सामर्थ्य-निन्दनादि-दुःखं सोढुं शक्ष्यामीत्य् अत आह ततस् तस्मान् निन्दा-प्राप्ति-दुःखात् किं तु दुःखतरं ततो ऽधिकं किम् अपि दुःखं नास्तीत्य् अर्थः ॥३६॥

विश्वनाथः : अवाच्य-वादान् । क्लीब इत्य् आदि कटूक्तीः ॥३६॥

बलदेवः : किं चावाच्येति । अहिताः शत्रवो धार्तराष्ट्रास् तव सामर्थ्यं पूर्व-सिद्धं पराक्रमं निन्दन्तः बहून् अवाच्य-वादान् शण्ढतिलादि-शब्दान् वदिष्यन्ति । तत एवंविधावाच्य-वाद-श्रवणाद् अतिशायितं किं दुःखम् अस्ति । इत्थं चैते षड्भिर् युद्ध-वैराग्यस्यास्वर्गत्वम् अकीर्ति-करत्वं चोक्तं दर्शितम् ॥३६॥


२।३७

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्माद् उत्तिष्ठ कौन्तेय युद्धाय कृत-निश्चयः ॥३७॥

श्रीधरः : यद् उक्तं न चैतद् विद्मः [गीता २।६] इति तत्राह हतो वेत्य् आदि । पक्ष-द्वये ऽपि तव लाभ एवेत्य् अर्थः ॥३७॥

मधुसूदनः : ननु तर्हि युद्धे गुर्व्-आदि-वध-वशान् मध्यस्थ-कृता निन्दा ततो निवृत्तौ तु शत्रु-कृता निन्देत्य् उभयतः पाशा रज्जुर् इत्य् आशङ्क्य जये पराजये च लाभ-ध्रौव्याद् युद्धार्थम् एवोत्थानम् आवश्यकम् इत्य् आह हतो वेति । स्पष्टं पूर्वार्धम् । यस्माद् उभयथापि ते लाभस् तस्माज् जेष्यामि शत्रून् मरिष्यामि वेति कृत-निश्चयः सन् युद्धायोत्तिष्ठ । नयतर-फल-सन्देहे ऽपि युद्ध-कर्तव्यताया निश्चितत्वात् । एतेन न चैतद् विद्मः कतरन् नो गरीयः [गीता २।६] इत्य् आदि परिहृतम् ॥३७॥

विश्वनाथः : ननु युद्धे मम जय एव भावीत्य् अपि नास्ति निश्चयः । ततश् च कथं युद्धे प्रवर्तितव्यम् इत्य् अत आह हत इति ॥३७॥

बलदेवः : ननु युद्धे विजय एव मे स्याद् इति निश्चयाभावात् ततो ऽहं निवृत्तो ऽस्मीति चेत् तत्राह हतो वेति । पक्ष-द्वये ऽपि ते लाभ एवेति भावः ॥३७॥


२।३८

सुख-दुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापम् अवाप्स्यसि ॥३८॥

श्रीधरः : यद् अप्य् उक्तं पापम् एवाश्रयेद् अस्मान् [गीता १।३६] इति तत्राह सुख-दुःखे इत्य् आदि । सुख-दुःखे समे कृत्वा । तथा तयोः कारण-भूतौ लाभालाभाव् अपि । तयोर् अपि कारण-भूताउ जयाजयाव् अपि समौ कृत्वा । एतेषां समत्वे कारणं हर्ष-विषाद-राहित्यम् । युज्यस्व सन्नधो भव । सुखाद्य्-अभिलासं हित्वा स्वधर्म-बुद्ध्या युध्यमानः पापं न प्राप्स्यसीत्य् अर्थः ॥३८॥

मधुसूदनः : नन्व् एवं स्वर्गम् उद्दिश्य युद्ध-करणे तस्य नित्यत्व-व्याघातः । राज्यम् उद्दिश्य युद्ध-करणे त्व् अर्थ-शास्त्रत्वाद् धर्म-शास्त्रापेक्षया दौर्बल्यं स्यात् । ततश् च काम्यस्याकरणे कुतः पापं दृष्टार्थस्य गुरु-ब्राह्मणादि-वधस्य कुतो धर्मत्वम्, तथा चाथ चेद् इति श्लोकार्थो व्याहत इति चेत् तत्राह सुख-दुःखे इति ।

समता-करणं राग-द्वेष-राहित्यम् । सुखे तत्-कारणे लाभे तत्-कारणे लाभे तत्-कारणे जये च रागम् अकृत्वा, एवं दुःखे तद्-धेताव् अलाभे तद्-धेताव् अजये च द्वेषम् अकृत्वा ततो युद्धाय युज्यस्व सन्नधौ भव । एवं सुख-कामनां दुःख-निवृत्ति-कामनां वा विहाय स्वधर्म-बुद्ध्या युध्यमानो गुरु-ब्राह्मणादि-वध-निमित्तं नित्य-कर्माकरण-निमित्तं च पापं न प्राप्स्यसि । यस् तु फल-कामनया करोति स गुरु-ब्राह्मणादि-वध-निमित्तं पापं प्राप्नोति यो वा न करोति स नित्य-कर्माकरण-निमित्तम् । अतः फल-कामनाम् अन्तरेण कुर्वन्न् उभय-विधम् अपि पापं न प्राप्नोतीति प्राग् एव व्याख्यातो ऽभिप्रायः । हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् [गीता २।३७] इति स्वानुषङ्गिक-फल-कथनम् इति न दोषः । तथा च आपस्तम्बः स्मरति - तद् यथाम्रे
फलार्थे निमित्ते छाया-गन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते नो चेद् अनूत्पद्यन्ते न धर्म-हानिर् भवति इति । अतो युद्ध-शास्त्रस्यार्थ-शास्त्रत्वाभावात् पापम् एवाश्रयेद् अस्मान् [गीता १।३६] इत्य् आदि निराकृतं भवति ॥३८॥

विश्वनाथः : तस्मात् तव सर्वथा युद्धम् एव धर्मस् तद् अपि यद् इमं पाप-कारणम् आशङ्कसे, तर्हि मत्तः पापानुत्पत्ति-प्रकारं शिक्षित्वा युध्यस्वेत्य् आह सुख-दुःखे समे कृत्वा । तद्-धेतुर् लाभालाभौ राज्य-लाभ-राज-च्यूती अपि । तद्-धेतुर् जयाजयाव् अपि समौ कृत्वा विवेकेन तुल्यौ विभावेत्य् अर्थः । ततश् चैवं-भूत-साम्य-लक्षणे ज्ञानवतस् तव पापं नैव भवेत् । यद् वक्ष्यते लिप्यते न स पापेन पद्म-पत्रम् इवाम्भसा [गीता ५।१०] इति ॥३८॥

बलदेवः : ननु अथ चेत् त्वम् इत्य् आदि-पद्यार्थो व्याहृतः । राज्याद्य्-उद्देशेन कृतस्य युद्धस्य गुरु-विप्रादि-विनाश-हेतुत्वेन पापोत्पादकत्वाद् इति चेन् मुमुक्षु-वर्त्मना युद्धमानस्य तव तद्-विनाश-हेतुकं पापं न स्याद् इत्य् आह सुखेति । साम्य-करणम् इह तत्र तत्र निर्विकारत्वं बोध्यम् । सुखे तद्-धेतौ जये च रागम् अकृत्वा दुःखे तद्-धेताव् अलाभे तद्-धेतौ पराजये च द्वेषम् अकृत्वा तत्र तत्र निर्विकार-चित्तः सन् ततो युद्धाय युज्यस्व । केवल-स्वधर्म-धिया योद्धुम् उद्युक्तो भवेत्य् अर्थः । एवं मुमुक्षु-रीत्या योद्धा त्वं पापं तद्-विनाश-हेतुकं नावाप्स्यसि । फलेच्छुः सन् यो युध्यते स तत्-पापं विन्दति । विज्ञानार्थी तु पुरातनम् अनन्त-पापम् अपनुदतीत्य् अर्थः ।

ननु फल-रागं विना दुष्करे युद्ध-दानादौ कथं प्रवृत्तिर् इति चेद् अनन्तात्मानन्द-रागं तत्र प्रवर्तकं गृहाण राज्याद्य्-अनुरागम् इव भृगु-पाते ॥३८॥


२।३९

एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् योगे त्व् इमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥३९॥

श्रीधरः : उपदिष्टं ज्ञान-योगम् उपसंहरंस् तत्-साधनं कर्म-योगं प्रस्तौति एषेत्य् आदि । सम्यक् ख्यायते प्रकाश्यते वस्तु-तत्त्वम् अनयेति सङ्ख्या सम्यक् ज्ञानम् । तस्यां प्रकाशमानम् आत्म-तत्त्वं साङ्ख्यम् । तस्मिन् करणीया बुद्धिर् एषा तवाभिहिता । एवम् अभिहितायाम् अपि तव चेद् आत्म-तत्त्वम् अपरोक्षं न भवति तर्ह्य् अन्तःकरण-शुद्धि-द्वारा आत्म-तत्त्वापरोक्षार्थं कर्म-योग त्व् इमां बुद्धिं शृणु । यया बुद्ध्या युक्तः परमेश्वरार्पित-कर्म-योगेन शुद्धान्तःकरणः सन् तत्-प्रसाद-लब्धापरोक्ष-ज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण हास्यसि त्यक्ष्यसि ॥३९॥

मधुसूदनः : ननु भवतु स्वधर्म-बुद्ध्या युध्यमानस्य पापाभावः, तथापि न मां प्रति युद्ध-कर्तव्यतोपदेशस् तवोचितः । य एनं वेत्ति हन्तारं [गीता २।१९] इत्य् आदिना कथं स पुरुषः पार्थ कं घातयति हन्ति कम् [गीता २।२१] इत्य् अन्तेन विदुषः सर्व-कर्म-प्रतिक्षेपात् । न ह्य् अकर्त्र्-भोक्तृ-शुद्ध-स्वरूपो ऽहम् अस्मि युद्धं कृत्वा तत्-फलं भोक्ष्य इति च ज्ञानं सम्भवति विरोधात् । ज्ञान-कर्मणोः समुच्चयासम्भवात् प्रकाश-तमसोर् इव । अयं चार्जुनाभिप्रायो ज्यायसी चेद् इत्य् अत्र व्यक्तो भविष्यति । तस्माद् एकम् एव मां प्रति ज्ञानस्य कर्मणश् चोपदेशो नोपपद्यत इति चेत्, न । विद्वद्-अविद्वद्-अवस्था-भेदेन ज्ञान-कर्मोपदेशोपपत्तेर् इत्य् आह भगवान् एषेति ।

एषा न त्व् एवाहम् इत्य् आद्य्-एक-विंशति-श्लोकैस् ते तुभ्यम् अभिहिता साङ्ख्ये सम्यक् ख्यायते सर्वोपाधि-शून्यतया प्रतिपाद्यते परमात्म-तत्त्वम् अनयेति सङ्ख्योपनिषत् तयैव तापर्य-परिसमाप्त्या प्रतिपाद्यते यः स साङ्ख्य औपनिषदः पुरुष इत्य् अर्थः । तस्मिन् बुद्धिस् तन्-मात्र-विषयं ज्ञानं सर्वानर्थ-निवृत्ति-कारणं त्वां प्रति मयोक्तं नैतादृश-ज्ञानवतः क्वचिद् अपि कर्मोच्यते । तस्य कार्यं न विद्यत इति वक्ष्यमाणत्वात् ।

यदि पुनर् एवं मयोक्ते ऽपि तवैषा बुद्धिर् नोदेति चित्त-दोषात्, तदा तद्-अपनयेनात्म-तत्त्व-साक्षात्काराय कर्म-योग एव त्वयानुष्ठेयः । तस्मिन् योगे कर्म-योगे तु करणीयाम् इमां सुख-दुःखे समे कृत्वा इत्य् अत्रोक्तां फलाभिसन्धि-त्याग-लक्षणां बुद्धिं विस्तरेण मया वक्ष्यमाणां शृणु । तु-शब्दः पूर्व-बुद्धेर् योग-विषयत्व-व्यतिरेक-सूचनार्थः । तथा च शुद्धान्तः-करणं प्रति ज्ञानोपदेशो ऽशुद्धान्तः-करणं प्रति कर्मोपदेश इति कुतः समुच्चय-शङ्कया विरोधावकाश इत्य् अभिप्रायः ।

योग-विषयां बुद्धिं फल-कथनेन स्तौति - यथा व्यवसायात्मिकया बुद्ध्या कर्मसु युक्तस् त्वं कर्म-निमित्तं बन्ध-नाशायाशुद्धि-लक्षणं ज्ञान-प्रतिबन्धं प्रकर्षेण पुनः प्रतिबन्धानुत्पत्ति-रूपेण हास्यसि त्यक्ष्यसि । अयं भावः - कर्म-निमित्तो ज्ञान-प्रतिबन्धः कर्मणैव धर्माख्येनापनेतुं शक्यते धर्मेण पापम् अपनुदति [महाना १३।६] इति श्रुतेः । श्रवणादि-लक्षणो विचारस् तु कर्मात्मक-प्रतिबन्ध-रहितस्यासम्भावनादि-प्रतिबन्धं दृष्ट-द्वारेणापनयतीति न कर्म-बन्ध-निराकरणायोपदेष्टुं शक्यते । अतो ऽत्यन्त-मलिनान्तः-करणत्वाद् बहिर् अङ्ग-साधनं कर्मैव त्वयानुष्ठेयम्, नाधुना श्रवणादि-योग्यतापि तव जाता । दूरे तु ज्ञान-योग्यतेति । तथा च वक्ष्यति - कर्मण्य् एवाधिकारस् ते [गीता २।४७] इति । एतेन साङ्ख्य-बुद्धेर्
अन्तरङ्ग-साधनं श्रवणादि विहाय बहिरङ्ग-साधनं कर्मैव भगवता किम् इत्य् अर्जुनायोपदिश्यत इति निरस्तम् । कर्म-बन्धं संसारम् ईश्वर-प्रसाद-निमित्त-ज्ञान-प्राप्त्या प्रहास्यसीति प्राचां व्याख्याने त्व् अध्याहार-दोषः कर्म-पद-वैयर्थ्यं च परिहर्तव्यम् ॥३९॥

विश्वनाथः : उपदिष्टं ज्ञान-योगम् उपसंहरति एषेति । सम्यक् ख्यायते प्रकाश्यते वस्तु-तत्त्वम् अनेनेति साङ्ख्यं सम्यक् ज्ञानम् । तस्मिन् करणीया बुद्धिर् एष कथिता । अधुना योगे भक्ति-योगे इमां वक्ष्यमाणां बुद्धिं करणीयां शृणु, यया भक्ति-विषयिण्या बुद्ध्या युक्तः सहितः । कर्म-बन्धं संसारम् ॥३९॥

बलदेवः : उक्तं ज्ञान-योगम् उपसंहरन् तद्-उपायं निष्काम-कर्म-योगं वक्तुम् आरभते एषेति । सङ्ख्योपनिषत् सम्यक् ख्यायते निरूप्यते तत्त्वम् अनया इति निरुक्तेः । तया प्रतिपाद्यम् आत्म-याथात्म्यं साङ्ख्यम् । शैषिकान् तस्मिन् कर्तव्यैषा बुद्धिस् तवाभिहिता । ने त्व् एवाहं इत्य् आदिना तस्मात् सर्वाणि भूतानि इत्य् अन्तेन । सा चेत् तव चित्त-तद्-दोषान् नाभ्युदेति तर्हि योगे तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन इत्य् आदि श्रुत्य्-उक्तान्तर्गत-ज्ञाने निष्काम-कर्म-योगे कर्तव्याम् इमां वक्ष्यमाणां बुद्धिं शृणु । फलोक्त्या तां स्तौति ययेति । कर्माणि कुर्वाणस् त्वं भगवद्-आज्ञया महा-प्रयासानि कर्माणि कुर्वंस् तत्-तद्-उद्देश-महिम्ना त्वद्-अन्तर्-अभ्युदितयात्म-ज्ञान-निष्ठया संसारं तरिष्यसीति । पशु-पुत्र-राज्यादि-फलकं
कर्म स-कामं ज्ञान-फलकं तु तन्-निष्कामम् इति शास्त्रे ऽस्मिन् परिभाष्यते ॥३९॥


२।४०

नेहाभिक्रम-नाशो ऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् ॥४०॥

श्रीधरः : ननु कृष्यादिवत् कर्मणां कदाचिद् विघ्न-बाहुल्येन फले व्यभिचारात् मन्त्राद्य्-अङ्ग-वैगुण्येन च प्रत्यवाय-सम्भवआत् कुतः कर्म-योगेन कर्म-बन्ध-प्रहाणम् । तत्राह नेहेत्य् आदि । इह निष्काम-कर्म-योगे अभिक्रमस्य प्रारम्भस्य नाशो निष्फलत्वं नास्ति । प्रत्यवायश् च न विद्यते । ईश्वरोद्देशेनैव विघ्न-वैगुण्याद्य्-असम्भवात् । किं चास्य धर्मस्य ईश्वराराधनार्थ-कर्म-योगस्य स्वल्पम् अप्य् उपक्रम-मात्रम् अपि कृतं महतो भयात् संसार-लक्षणात् त्रायते रक्षति । न तु काम्य-कर्मवत् किञ्चिद् अङ्ग-वैक्गुण्यादिना नैष्फल्यम् अस्येत्य् अर्थः ॥४०॥

मधुसूदनः : ननु तम् एतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन [बउ ४।४।२२] इति श्रुत्या विविदिषां ज्ञानं चोद्दिश्य संयोग-पृथक्त्व-न्यायेन सर्व-कर्मणां विनियोगात् तत्र चान्तः-करण-शुद्धेर् द्वारत्वान् मां प्रति कर्मानुष्ठानं विधीयते । तत्र तद् यथेह कर्म-जितो लोकः क्षीयत एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते [छा ८।१।६] इति श्रुति-बोधितस्य फल-नाशस्य सम्भावाज् ज्ञानं विविदिषां चोद्दिश्य क्रियमाणस्य यज्ञादेः काम्यत्वात् सर्वाङ्गोपसंहारेणानुष्ठेयस्य यत् किञ्चिद् अङ्गासम्पत्ताव् अपि वैगुण्यापत्तेर् यज्ञेनेत्य् आदि-वाक्य-विहितानां च सर्वेषां कर्मणाम् एकेन पुरुषायुष-पर्यवसाने ऽपि कर्तुम् अशक्यत्वात् कुतः कर्म-बन्धं प्रहास्यसीति-फलं प्रत्याशेत्य् अत आह भगवान् नेहेति ।

अभिक्रम्यते कर्मणा प्रारभ्यते यत् फलं सो ऽभिक्रमस् तस्य नाशस् तद् यथेहेत्य् आदिना प्रतिपादित इह निष्काम-कर्म-योगे नास्ति । एतत्-फलस्य शुद्धेः पाप-क्षय-रूपत्वेन लोक-शब्द-वाच्य-भोग्यत्वाभावेन च क्षयासम्भवात् । वेदन-पर्यन्ताया एव विविदिषायाः कर्म-फलत्वाद् वेदनस्य चाव्यवधानेनाज्ञान-निवृत्ति-फल-जनकस्य फलम् अजनयित्वा नाशासम्भवाद् इह फल-नाशो नास्तीति साधूक्तम् । तद् उक्तं -

तद् यथेहेति या निन्दा सा फले न तु कर्मणि ।
फलेच्छां तु परित्यज्य कृतं कर्म विशुद्धि-कृत् ॥ इति ।

तथा प्रत्यवायो ऽङ्ग-वैगुण्य-निबन्धनं वैगुण्यम् इह न विद्यते तम् इति वाक्येन नित्यानाम् एवोपात्त-दुरित-क्षय-द्वारेण विविदिषायां विनियोगात् । तत्र च सर्वाङ्गोपसंहार-नियमाभावात् । काम्यानाम् अपि संयोग-पृथक्त्व-न्यायेन विनियोग इति पक्षे ऽपि फलाभिसन्धि-रहितत्वेन तेषां नित्य-तुल्यत्वात् । नहि काम्य-नित्याग्निहोत्रयोः स्वतः कश्चिद् विशेषो ऽस्ति । फलाभिसन्धि-तद्-अभाषाभ्याम् एव तु काम्यत्व-नित्यत्व-व्यपदेशः । इदं च पक्ष-द्वयम् उक्तं वार्तिके -

वेदानुवचनादीनाम् ऐकात्म्य-ज्ञान-जन्मने ।
तम् एतम् इति वाक्येन नित्यानां वक्ष्यते विधिः ॥
यद् वा विविदिषार्थत्वं काम्यानाम् अपि कर्मणाम् ।
तम् एतम् इति वाक्येन संयोगस्य पृथक्त्वतः ॥ इति ।

तथा च फलाभिसन्धिना क्रियमाण एव कर्मणि सर्वाङ्गोप-संहार-नियमात् तद्-विलक्षणे शुद्ध्य्-अर्थे कर्मणि प्रतिनिध्यादिना समाप्ति-सम्भवान् नाङ्ग-वैगुण्य-निमित्तः प्रत्यवायो ऽस्तीत्य् अर्थः । तथास्य शुद्ध्य्-अर्थस्य धर्मस्य तम् एतम् इत्य् आदि-वाक्य-विहितस्य मध्ये स्वल्पम् अपि सङ्ख्ययेतिकर्तव्यतया वा यथा-शक्ति-भगवद्-आराधनार्थं किञ्चिद् अप्य् अनुष्ठितं सन् महतः संसार-भयात् त्रायते भगवत्-प्रसाद-सम्पादनेनानुष्ठातारं रक्षति ।

सर्व-पाप-प्रसक्तो ऽपि ध्यायन् निमिषम् अच्युतम् ।
भूयस् तपस्वी भवति पङ्कि-पावन-पावनः ॥ इत्य् आदि स्मृतेः ।

तम् एतम् इति वाक्ये समुच्चय-विधायकाभावाच् चाशुद्धि-तारतम्याद् एवानुष्ठान-तारतम्योपपत्तेर् युक्तम् उक्तं कर्म-बन्धं प्रहास्यसि ॥४०॥

विश्वनाथः : अत्र योगो द्विविधः श्रवण-कीर्तनादि-भक्ति-रूपः, श्री-भगवद्-अर्पित-निष्काम-कर्म-रूपश् च । तत्र कर्मण्य् एवाधिकारः इत्य् अतः प्राग् भक्ति-योग एव निरूप्यते । निस्त्रैगुण्यो भवार्जुन इत्य् उक्तेर् भक्तेर् एवे त्रिगुणातीतत्वात् तयैव पुरुषो निस्त्रैगुण्यो भवतीत्य् एकादश-स्कन्धे[*एन्द्नोते] प्रसिद्धेः । ज्ञान-कर्मणोस् तु सात्त्विकत्व-राजसत्वाभ्यां निस्त्रैगुण्यत्वानुपपत्तेर् भगवद्-अर्पित-लक्षणा भक्तिस् तु कर्मणो वैफल्याभाव-मात्रं प्रतिपादयति, न तु स्वस्य भक्ति-व्यपदेशं प्राधान्याभावाद् एव । यदि च भगवद्-अर्पितं कर्मापि भक्तिर् एवेति मतम्, तदा कर्म किं स्यात् ? यद्-भगवद्-अनर्पित-कर्म, तद् एव कर्मेति चेन्, न ।

नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं
न शोभते ज्ञानम् अलं निरञ्जनम् ।
कुतः पुनः शश्वद् अभद्रम् ईश्वरे
न चार्पितं कर्म यद् अप्य् अकारणम् ॥ [भ्प् १।५।१२]

इति नारदोक्त्या तस्य वैयर्थ्य-प्रतिपादनात् । तस्माद् अत्र भग्वच्-चरण-माधुर्य-प्राप्ति-साधनीभूता केवल-श्रवण-कीर्तनादि-लक्षणैव भक्तिर् निरूप्यते, यथा निष्काम-कर्म-योग ऽपि निरूपयितव्यः । उभाव् अप्य् एतौ बुद्धि-योग-शब्द-वाच्यौ ज्ञेयौ - ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते [१०।१०], दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय [२।४९] इति चोक्तेः ।

अथ निर्गुण-श्रवण-कीर्तनादि-भक्ति-योगस्य माहात्म्यम् आह नेहेति । इह भक्ति-योगे ऽभिक्रमे आरम्भ-मात्रे कृते ऽप्य् अस्य भक्तियोगस्य नाशो नास्ति । ततः प्रत्यवायश् च न स्यात् । यथा कर्म-योगे आरम्भं कृत्वा कर्मानुष्ठितवतः कर्म-नाश-प्रत्यवायौ स्याताम् इति भावः ।

ननु तर्हि तस्य भक्त्य्-अनुष्ठातु-कामस्य समुचित-भक्त्य्-अकरणात् भक्ति-फलं तु नैव स्यात् । तत्राह स्वल्पम् इति । अस्य धर्मस्य स्वल्पम् अप्य् आरम्भ-समये या किञ्चिन्-मात्री भक्तिर् अभूत् । सापीत्य् अर्थः । महतो भयात् संसारात् त्रायत एव । यन्-नाम सकृच्-छ्रवणात् पुक्कशो ऽपि विमुच्यते संसाराद् इत्य् [भ्प् ६।१६।४४] आदि-श्रवणात् । अजामिलादौ तथा दर्शनाच् च ।

न ह्य् अङ्गोपक्रमे ध्वंसो
मद्-धर्मस्योद्धवाण्व् अपि ।
मया व्यवसितः सम्यङ्
निर्गुणत्वाद् अनाशिषः ॥ [भ्प् ११।२९।२०]

इति भगवतो वाक्येन सहास्य-वाक्यस्यैकार्थम् एव दृश्यते । किन्तु तत्र निर्गुणत्वान् न हि गुणातीतं वस्तु कदाचिद् ध्वस्तं भवतीति हेतुर् उपन्यस्तः । स चेहापि द्रष्टव्यः । न च निष्काम-कर्मणो ऽपि भगवद्-अर्पण-महिम्ना निर्गुणत्वम् एवेति वाच्यम् - मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् [भ्प् ११।२५।२३] ॥४०॥

बलदेवः : वक्ष्यमाणया बुद्ध्या युक्तं कर्म-योगं स्तौति नेहेति । इह तम् एतम् इत्य् आदि वाक्योक्तेः निष्काम-कर्म-योगे ऽभिक्रमस्यारम्भस्य फलोत्पादकत्व-नाशो नास्ति । आरम्भस्यासमाप्तस्य वैफल्यं न भवतीत्य् अर्थः । मन्त्राद्य्-अङ्ग-वैकल्ये च प्रत्यवायो न विद्यते । आत्मोद्देश-महिम्ना ॐ तत् सत् इति भगवन्-नाम्ना च तस्य विनाशात् । इह भगवद्-अर्पितस्य निषाम-कर्म-लक्षण-धर्मस्य किञ्चिद् अप्य् अनुष्ठितं सन् महतो भयात् संसारात् त्रायते अनुष्ठातारं रक्षति । वक्ष्यति चैवं पार्थ नैवेह नामुत्र [गीता ६।४०] इत्य् आदिना । काम्य-कर्माणि सर्वाङ्गोपसंहारेणानुष्ठितान्य् उक्त-फलाय कल्पन्ते । मन्त्राद्य्-अङ्ग-वैकल्ये तु प्रत्यवायं जनयन्तीति । निष्काम-कर्माणि तु यथा-शक्त्य्-अनुष्ठितानि ज्ञान-निष्ठा-लक्षणं फलं जनयन्त्य् एवोक्त-हेतुतः
प्रत्यवायं नोप्तादयन्तीति ॥४०॥


२।४१

व्यवसायात्मिका बुद्धिर् एकेह कुरु-नन्दन ।
बहु-शाखा ह्य् अनन्ताश् च बुद्धयो ऽव्यवसायिनाम् ॥४१॥

श्रीधरः : कुत इत्य् अपेक्षायाम् उभयोर् वैषम्यम् आह व्यवसायात्मिकेति । इह ईश्वराराधन-लक्षणे कर्म-योगे व्यवसायात्मिका परमेश्वर-भक्त्यैव ध्रुवं तरिष्यामीति निश्चयात्मिका एकैव एकनिष्ठैव बुद्धिर् भवति । अव्यवसायिनां तु ईश्वराराधन-बहिर्मुखानां कामिनां कामानाम् आनन्त्यात् अनन्ताः । तत्रापि हि कर्म-फल-गुण-फलत्वादि-प्रकार-भेदाद् बहु-शाखाश् च बुद्धयो भवन्ति । ईश्वराराधनार्थं हि नित्यं नैमित्तिकं च कर्म किञ्चिद् अङ्ग-वैगुण्ये ऽपि न नश्यति । यथा शक्नुयात् तथा कुर्याद् इति हि तद् विधीयते । न च वैगुण्यम् अपि । ईश्वरोद्देशेनैव वैगुण्योपशमात् । न तु तथा काम्यं कर्म । अतो महद् वैषम्यम् इति भावः ॥४१॥

मधुसूदनः : एतद्-उपपादनाय तम् एतम् इति वाक्य-विहितानाम् एकार्थत्वम् आह व्यवसायात्मिकेति । हे कुरुनन्दनेह श्रेयो-मार्गे तम् एतम् इति वाक्ये वा व्यवसायात्मिकात्म-तत्त्व-निश्चयात्मिका बुद्धिर् एकैव चतुर्णाम् आश्रमाणां साध्या विवक्षिता वेदानुवचनेन इत्य् आदौ तृतीया-विभक्त्या प्रत्येकं निरपेक्ष-साधनत्व-बोधनात् । भिन्नार्थत्वे हि समुच्चयः स्यात् । एकार्थत्वे ऽपि दर्श-पूर्णमासाभ्याम् इतिवद् द्वन्द्व-समासेन यद् अग्नये च प्रजापतये चेतिवच् च-शब्देन न तथात्र किञ्चित् प्रमाणम् अस्तीत्य् अर्थः । साङ्ख्य-विषया योग-विषया च बुद्धिर् एक-फलत्वाद् एका व्यवसायात्मिका सर्व-विपरीत-बुद्धीनां बाधिका निर्दोष-वेद-वाक्य-समुत्थत्वाद् इतरास् त्व् अव्यवसायिनां बुद्धयो बाध्या इत्य् अर्थ इति भाष्य-कृतः । अन्ये तु परमेश्वराराधनेनैव संसारं तरिष्यामीति
निश्चयात्मिकैक-निष्ठैव बुद्धिर् इह कर्म-योगे भवतीत्य् अर्थम् आहुः । सर्वथापि तु ज्ञान-काण्डानुसारेण स्वल्पम् अप्य् अस्य धर्मस्य त्रायते महतो भयात् इत्य् उपपन्नम् । कर्म-काण्डे पुनर् बहु-शाखा अनेक-भेदाः कामानाम् अनेक-भेदत्वात् । अनन्ताश् च कर्म-फल-गुण-फलादि-प्रकारोपशाखा-भेदात्, बुद्धयो भवन्त्य् अव्यवसायिनां तत्-तत्-फल-कामानाम् । बुद्धीनाम् आनन्त्य-प्रसिद्धि-द्योतनार्थो हि-शब्दः । अतः काम्य-कर्मापेक्षया महद्-वैलक्षण्य-शुद्ध्य्-अर्थ-कर्मणाम् इत्य् अभिप्रायः ॥४१॥

विश्वनाथः : किं च सर्वाभ्यो ऽपि बुद्धिभ्यो भक्ति-योग-विषयिण्य् एव बुद्धिर् उक्तृष्टेत्य् आह व्यवसायेति । इह भक्ति-योगे व्यवसायात्मिका बुद्धिर् एकैव । मम श्रीमद्-गुरूपदिष्टं भगवत्-कीर्तन-स्मरण-चरण-परिचर्णादिकम् एतद् एव मम साधनम् एतद् एव मम साध्यम् एतद् एव मम जीवातुः साधन-साध्य-दशयोस् त्यक्तुम् अशक्यम् एतद् एव मे काम्यम् एतद् एव मे कार्यम् एतद् अन्यन् न मे कार्यं नाप्य् अभिलषणीयं स्वप्ने ऽपीत्य् अत्र सुखम् अस्तु दुःखं वास्तु संसारो नश्यतु वा न नश्यतु । तत्र मम कापि न क्षतिर् इत्य् एवं निश्चयात्मिका बुद्धिर् अकैतव-भक्ताव् एव सम्भवेत् । तद् उक्तं - ततो भजेत मां भक्त्या श्रद्धालुर् दृढ-निश्चयः [भ्प् ११।२०।२८] इति ।

ततो ऽन्यत्र नैव बुद्धिर् एकेत्य् आह बह्व् इति । बहवः शाखा यासां ताः । तथा हि कर्म-योगे कामानाम् आनन्त्याद् बुद्धयो ऽनन्ताः । तथैव ज्ञान-योगे प्रथमम् अन्तःकरण-शुद्ध्य्-अर्थं निष्काम-कर्मणि बुद्धिस् ततस् तस्मिन् शुद्धे सति कर्म-सन्न्यासे बुद्धिः । तदा ज्ञाने बुद्धिः । ज्ञान-वैफल्याभावार्थं भक्तौ बुद्धिः ज्ञानं च मयि सन्न्यसेत् इति भगवद्-उक्तेर् ज्ञान-सन्न्यासे च भक्तौ बुद्धिर् इति बुद्धयो ऽनन्ताः । कर्म-ज्ञान-भक्तीनाम् अवश्यानुष्ठेयत्वात् तत्-तच्-छाखा अप्य् अनन्ताः ॥४१॥

बलदेवः : काम्य-कर्म-विषयक-बुद्धितो निष्काम-कर्म-विषयक-बुद्धेर् वैशिष्ट्यम् आह व्यवसायेति । हे कुरुनन्दन इह वैदिकेषु सर्वेषु कर्मसु व्यवसायात्मिका भगवद्-अर्चन-रूपैर् निष्काम-कर्मभिर् विशुद्ध-चित्तो विषोर्णादिवत् तद्-अन्तर्गतेन ज्ञानेनात्म-याथात्म्यम् अहम् अनुभविष्यामीति निश्चय-रूपा बुद्धिर् एका एकव्-विषयत्वात् । एकस्मै तद्-अनुभवाय तेषां विहितत्वाद् इति यावत् । अव्यवसायिनाम् काम्य-कर्मानुष्ठातॄणां तु बुद्धयो ह्य् अनन्ताः । पश्व्-अन्न-पुत्र-स्वर्गाद्य्-अनन्त-काम-विषयत्वात् । तत्रापि बहु-शाखाः । एक-फलके ऽपि दर्श-पौर्णमासादाव् आयुः सुप्रजस्ताद्य्-अवान्तरानेक-फलाशंसा-श्रवणात् । अत्र हि देहातिरिक्तात्म-ज्ञान-मात्रम् अपेक्षते न तूक्तात्म-याथात्म्यं तन् निश्चये काम्य-कर्मसु प्रवृत्तेर् असम्भवात् ॥४१॥


२।४२-४४

याम् इमां पुष्पितां वाचं प्रवदन्त्य् अविपश्चितः ।
वेद-वाद-रताः पार्थ नान्यद् अस्तीति वादिनः ॥४२॥
कामात्मानः स्वर्ग-परा जन्म-कर्म-फल-प्रदाम् ।
क्रिया-विशेष-बहुलां भोगैश्वर्य-गतिं प्रति ॥४३॥
भोगैश्वर्य-प्रसक्तानां तयापहृत-चेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥४४॥

श्रीधरः : ननु कामिनो ऽपि कष्टान् कामान् विहाय व्यवसायात्मिकाम् एव बुद्धिं किम् इति न कुर्वन्ति । तत्राह याम् इमाम् इत्य् आदि । याम् इमां पुष्पितां विष-लतावद् आपात-रमणीयां प्रकृष्टां परमार्थ-फल-पराम् एव वदन्ति वाचं स्वर्गादि-फल-श्रुतिम् । तेषां तया वाचा ऽपहृत-चेतसां व्यवसायात्मिका बुद्धिः समाधौ न विधीयते इति तृतीयेनान्वयः । किम् इति तथा वदन्ति । यतो ऽविपश्चितो मूढाः । तत्र हेतुः वेद-वाद-रता इति । वेदे ये वादा अर्थ-वादाः । अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति । तथा, अपां सोमम् अमृता अम्भूम इत्य् आद्याः । तेष्व् एव रताः प्रीताः । अतएवातःपरम् अन्यद् ईश्वर-तत्त्वं प्राप्यं नास्तीति-वदन-शीलाः ॥४२॥

अतएव कामात्मान इति । कामात्मानः कामाकुलित-चित्ताः । अतः स्वर्ग एव परः पुरुषार्थो येषां ते । जन्म च तत्र कर्माणि च तत्-फलानि च प्रददातीति तथा । तां भोगैश्वर्ययोर् गतिं प्राप्तिं प्रति साधन-भूता ये क्रिया-विशेषास् ते बहुला यस्यां तां प्रवदन्तीत्य् अनुषङ्गः ॥४३॥

ततश् च भोगैश्वर्य-प्रसक्तानाम् इत्य् आदि । भोगैश्वर्ययोः प्रसक्तानाम् अभिनिविष्टानां तया पुष्पितया वाचापहृतम् आकृष्टं चेतो येषाम् तेषाम् । समाधिश् चित्तैकाग्र्यम् । परमेश्वराभिमुखत्वम् इति यावत् । तस्मिन् निश्चयात्मिका बुद्धिस् तु न विधीयते । कर्म-कर्तरि प्रयोगः । सा नोत्पद्यत इति भावः ॥४४॥

मधुसूदनः : अव्यवसयिनाम् अपि व्यवसायात्मिका बुद्धिः कुतो न भवति प्रमाणस्य तुल्यत्वाद् इत्य् आशङ्क्य प्रतिबन्धक-सद्-भावान् न भवतीत्य् आह याम् इमाम् इति त्रिभिः । कुत एवम् अत आह भोगैश्वर्य-गतिं प्रति क्रिया-विशेष-बहुलाम् अमृत-पानोर्वशी-विहार-पारिजात-परिमलादि-निबन्धनो यो भोगस् तत्-कारणं च यद् ऐश्वर्यं देवादि-स्वामित्वं तयोर् गतिं प्राप्तिं प्रति साधन-भूता ये क्रिया-विशेषा अग्निहोत्र-दर्श-पूर्णमास-ज्योतिष्टोमादयस् तैर् बहुलां विस्तृताम् अतिबाहुल्येन भोगैश्वर्य-साधन-क्रिया-कलाप-प्रतिपादिकाम् इति यावत् । कर्म-काण्डस्य हि ज्ञान-काण्डापेक्षया सर्वत्रातिविस्तृतत्वं प्रसिद्धम् । एतादृशीं कर्म-काण्ड-लक्षणां वाचं प्रवदन्ति प्रकृष्टां परमार्थ-स्वर्गादि-फलाम् अभ्युपगच्छन्ति ।

के ये ऽविपश्चितो विचार-जन्य-तात्पर्य-परिज्ञान-शून्याः । अतएव वेद-वाद-रता वेदे ये सन्ति वादा अर्थ-वादाः अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति इत्य् एवम् आदयस् तेष्व् एव रता वेदार्थ-सत्यत्वेनैवम् एवैतद् इति मिथ्या-विश्वासेन सन्तुष्टाः । हे पार्थ ! अतएव नान्यद् अस्तीति-वादिनः कर्म-काण्डापेक्षया नास्त्य् अन्यज् ज्ञान-काण्डं सर्वस्यापि वेदस्य कार्य-परत्वात् । कर्म-फलापेक्षया च नास्त्य् अन्यन् निरतिशयं ज्ञान-फलम् इति वदन-शीला महता प्रबन्धेन ज्ञान-काण्ड-विरुद्धार्थ-भाषिण इत्य् अर्थः । कुतो मोक्ष-द्वेषिण्यस् ते ? यतः कामात्मानः काम्यमान-विषय-शताकुल-चित्तत्वेन काम-मयाः । एवं सति मोक्षम् अपि कुतो न कामयन्ते ? यतः स्वर्ग-पराः स्वर्ग एवोर्वश्य्-आद्य्-अपेतत्वेन पर उत्कृष्टो येषां ते तथा । स्वर्गातिरिक्तः
पुरुषार्थो नास्तीति भ्राम्यन्तो विवेक-वैराग्याभावान् मोक्ष-कथाम् अपि सोढुम् अक्षमा इति यावत् ।

तेषां च पूर्वोक्त-भोगैश्वर्ययोः प्रसक्तानां क्षयित्वादि-दोषादर्शनेन निविष्टान्तः-करणानां तया क्रिया-विशेष-भुलया वाचापहृतम् आच्छादितं चेतो विवेक-ज्ञानं येषां तथा-भूतानाम् अर्थ-वादाः स्तुत्य्-अर्थास् तात्पर्य-विषये प्रमाणान्तराबाधिते वेदस्य प्रामाण्यम् इति सुप्रसिद्धम् अपि ज्ञातुम् अशक्तानां समाधाव् अन्तः-करणे वयवसायात्मिका बुद्धिर् न विधीयते न भवतीत्य् अर्थः । समाधि-विषया व्यवसायात्मिका बुद्धिस् तेषां न भवतीति वा अधिकरणे विषये वा सपतम्यास् तुल्यत्वात् । विधीयत इति कर्म-कर्तरि ल-कारः । समाधीयते ऽस्मिन् सर्वम् इति व्युत्पत्त्या समाधिर् अन्तः-करणं वा परमात्मा वेति नाप्रसिद्धार्थ-कल्पनम् । अहं ब्रह्मेत्य् अवस्थानं समाधिस् तन्-निमित्तं व्यवसायात्मिका बुद्धिर् नोप्तद्यत इति व्याख्याने तु
रूढिर् एवादृता ।

अयं भावः – यद्यपि काम्यान्य् अग्निहोत्रादीनि शुद्ध्य्-अर्थेभ्यो न विशिष्यन्ते तथापि फलाभिसन्धि-दोषान् नाशय-शुद्धिं सम्पादयन्ति । भोगानुगुणा तु शुद्धिर् न ज्ञानोपयोगिनी । एतद् एव दर्शयितुं भोगैश्वर्य-प्रसक्तानाम् इति पुनर् उपात्तम् । फलाभिसन्धिम् अन्तरेण तु कृतानि ज्ञानोपयोगिनीं शुद्धिम् आदधतीति सिद्धं विपश्चिद्-अविपश्चितोः फल-वैलक्षण्यम् । विस्तरेण चैतद् अग्रे प्रतिपादयिष्यते ॥४२-४४॥

विश्वनाथः : तस्माद् अव्यवसायिनः सकाम-कर्मिणस् त्व् अतिमन्दा इत्य् आह याम् इमाम् इति । पुष्पितां वाचं पुष्पितां विफलताम् इवापाततो रमणीयम् । प्रवदन्ति प्रकर्षेण सर्वतः प्रकृष्टा इयम् एव वेद-वाग् इति ये वदन्ति, तेषां तया वाचा अपहृत-चेतसां च व्यवसायात्मिका बुद्धिर् न विधीयते इति तृतीयेनान्वयः । तेषु तस्या असम्भवात् सा तेषु नोपदिश्यत इत्य् अर्थः । किम् इति ते तथा वदन्ति, यतो ऽविपश्चितो मूर्खाः । तत्र हेतुः वेदेषु ये ऽर्थ-वादाः - अक्षय्यं वै चातुर्मास्य-याजिनः सुकृतं भवति, अपां सोमम् अमृता अम्भूम इत्य् आद्याः । अन्यद् ईश्वर-तत्त्वं नास्तीति प्रजल्पिनस् ते कीदृशीं वाचं प्रवदन्ति । जन्म-कर्म-फल-प्रदायिनीं भोगैश्वर्य-गतिं प्रति ये क्रिया-विशेषास् तान् बहु यथा स्यात् तथा लाति ददाति प्रतिपादयतीति ताम्
॥४२-४३॥

ततश् च भोगैश्वर्ययोः प्रसक्तानाम् तया पुष्पितया वाचा अपहृतम् आकृष्टं चेतो येषाम् ते । तथा तेषाम् समाधिश् चित्तैकाग्र्यम् परमेश्वरैकोन्मुखत्वं तस्मिन् निश्चयात्मिका बुद्धिर् न विधीयते । कर्म-कर्तरि प्रयोगः । सा नोत्पद्यत इति भावः इति स्वामि-वचनैः ॥४४॥

बलदेवः : नन्व् एषां व्यवसायात्मिका बुद्धिर् भवेत् श्रुतेस् तौल्याद् इति चेच् चित्त-दोषान् न भवेद् इत्य् आह याम् इति त्रिभिः । अविपश्चितो ऽल्प-ज्ञाः याम् इमां ज्योतिष्टोमेन स्वर्ग-कामो यजेतेत्य् आदिकां वाचं प्रवदन्ति इयम् एव प्रकृष्टा वेदवाग् इति कल्पयन्ति । तया वाचापहृत-चेतसां तेषां समाधौ मनसि व्यवसायात्मिका बुद्धिर् न विधीयते नाभ्युदेति इत्य् अनुषङ्गः । कीदृशीं वाचम् इत्य् आह पुष्पिताम् इति ॥ कुसुमित-विष-लतावद् आपात-मनोज्ञां निष्फलाम् इत्य् अर्थः । एवं कुतस् ते वदन्ति तत्राह वेदेति । वेदेषु ये वादाः अपां सोमम् अमृता अम्भूम, अक्षय्यं ह वै चातुर्मास्य-याजिनः सुकृतं भवति इत्य् आदयो ऽर्थवादास् तेष्व् एव रताः वेदस्य सत्य-भाषित्वाद् एवम् एवैतद् इति प्रतीतिमन्तः । अतएव नान्यद् इति कर्म-फलात् स्वर्गाद् अन्यत् जीवांशि-परमार्थ-ज्ञानं
लभ्यं मोक्ष-लक्षणं निरतिशयं नित्य-सुखं नास्ति । तत्-प्रतिपादिकानां वेदान्त-वाचां कर्माङ्ग-कर्तृ-देवताद् एकतया तच्-छेषत्वाद् इति वदन-शीला इत्य् अर्थः ॥४२॥

चित्त-दोषम् आह कामात्मानः वैषयिक-सुख-वासना-ग्रस्त-चित्ताः । एवं चेत् तादृशं मोक्षं कुतो नेच्छन्ति तत्राह स्वर्गेति । स्वर्ग एव सुधा देवाङ्गनाद्य्-उपेतत्वेन परः श्रेष्ठो येषां ते । तादृग्-वासना-ग्रस्तत्वात् तेषां नान्यद् भाषत इत्य् अर्थः । जन्म कर्मेति जन्म च देहेन्द्रिय-सम्बन्ध-लक्सणम्, तत्र कर्म च तत्-तद्-वर्णाश्रम-विहितम्, फलं च विनाशि-पश्व्-अन्न-स्वर्गादि । तानि प्रकर्षेणाविच्छेदेन ददाति तां भोगैश्वर्ययोर् गतिं प्राप्तिं प्रति ये क्रिया-विशेषा ज्योतिष्ट्प्मादयस् ते बहुलाः प्रचुरा यत्र तां वाचं वदन्तीति पूर्वेणान्वयः । भोगः सुधा-पान-देवाङ्गनादिः, ऐश्वर्यं च देवादि-स्वामित्वं तयोर् गतिम् इत्य् अर्थः ॥४३॥

बलदेवः : भोगेति तेषां पूर्वोक्तयोर् भोगैश्वर्ययोः प्रसक्तानां क्षयित्व-दोषास्फूर्त्या तयोर् अभिनिविष्टानां तया पुष्पितया वाचापहृतम् विलुप्तं चेतो विवेक-ज्ञानं येषाम् तादृशानां समाधाव् इति यो ऽयम् । सम्यग् आधीयते ऽस्मिन्न् आत्म-तत्त्व-याथात्म्यम् इति निरुक्तेः समाधिर् मनस् तस्मिन्न् इत्य् अर्थः ॥४४॥


२।४५

त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्य-सत्त्व-स्थो निर्योग-क्षेम आत्मवान् ॥४५॥

श्रीधरः : ननु स्वर्गादिकं परमं फलं यदि न भवति, तर्हि किम् इति वेदस् तत्-साधनतया कर्माणि विधीयन्ते । तत्राह त्रैगुण्य-विषया इति । त्रिगुणात्मकाः सकामा ये ऽधिकारिणस् तद्-विषयास् तेषां कर्म-फल-सम्बन्ध-प्रतिपादका वेदाः । त्वं तु निस्त्रैगुण्यो निष्कामो भव । तत्रोपायम् आह - निर्द्वन्द्वः । सुख-दुःख-शीतोष्णादि-युगलानि द्वन्द्वानि । तद्-रहितो भव । तानि सहस्वेत्य् अर्थः । कथम् इति । अत आह नित्य-सत्त्व-स्थः सन् । ध्र्यम् अवलम्ब्येत्य् अर्थः । तथा निर्योग-क्षेमः । अप्राप्त-स्वीकारो योगः, प्राप्त-पालनं क्षेमः । तद्-रहितः । आत्मवान् अप्रमत्तः । नहि द्वन्द्वाकुलस्य योग-क्षेम-व्यापृतस्य च प्रमादिनस् त्रैगुण्यातिक्रमः सम्भवतीति ॥४५॥

मधुसूदनः : ननु सकामानां मा भूद् आशय-दोषाद् व्यवसायात्मिका बुद्धिः । निष्कामानां तु व्यवसायात्मक-बुद्ध्या कर्म कुर्वतां कर्म-स्वाभाव्यात् स्वर्गादि-फल-प्राप्तौ ज्ञान-प्रतिबन्धः समान इत्य् आशङ्क्याह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यं काम-मूलः संसारः । स एव प्रकाशत्वेन विषयो येषां तादृशा वेदाः कर्म-काण्डात्मका यो यत्-फल-कामस् तस्यैव तत्-फलं बोधयन्तीत्य् अर्थः । न हि सअर्वेभ्यः कामेभ्यो दर्श-पूर्णमासाव् इति विनियोगे ऽपि सकृद्-अनुष्ठानात् सर्व-फल-प्राप्तिर् भवति तत्-तत्-कामनाविरहात् । यत्-फल-कामनयानुतिष्ठति तद् एव फलं तस्मिन् प्रयोग इति स्थितं योगसिद्ध्य्-अधिकरणे । यस्माद् एवं कामा-विरहे फल-विरहस् तस्मात् त्वं निस्त्रैगुण्यो निष्कामो भव । हे अर्जुन ! एतेन कर्म-स्वाभाव्यात्
संसारो निरस्तः ।

ननु शीतोष्णादि-द्वन्द्व-प्रतीकाराय वस्त्राद्य्-अपेक्षणात् कुतो निष्कामत्वम् अत आह निर्द्वन्द्वः । सर्वत्र भवेति सम्बध्यते । मात्रा-स्पर्शास् त्व् इत्य् उक्त-न्यायेन शीतोष्णादि-द्वन्द्व-सहिष्णुर् भव । तस्मिंस् तिष्ठतीति तथा । रजस्-तमोभ्याम् अभिभूत-सत्त्वो हि शीतोष्णादि-पीडया मरिष्यामीति मन्वानो धर्माद् विमुखो भवति । त्वं तु रजस् तमसी अभिभूय सत्त्व-मात्रालम्बनो भव ।

ननु शीतोष्णादि-सहने ऽपि क्षुत्-पिपासादि-प्रतीकारार्थं किञ्चिद् अनुपात्तम् उपादेयम् उपात्तं च रक्षणीयम् इति तद्-अर्थं यत्ने क्रियमाणे कुतः सत्त्व-स्थत्वम् इत्य् अत आह निर्योग-क्षेमः । अलब्ध-लाभो योगः, लब्ध-परिरक्षणं क्षेमस्, तद्-रहितो भव । चित्त-विक्षेप-कारि-परिग्रह-रहितो भवेत्य् अर्थः । न चैवं चिन्ता कर्तव्या कथम् एवं सति जीविष्यामीति । यतः सर्वान्तर्यामी परमेश्वर एव तव योग-क्षेमादि निर्वाहयिष्यतीत्य् आह आत्मवान् । आत्मा परमात्मा ध्येयत्वेन योग-क्षेमादि-निर्वाहकत्वेन च वर्तते यस्य स आत्मवान् । सर्व-कामना-परित्यागेन परमेश्वरम् आराधयतो मम स एव देह-यात्रा-मात्रम् अपेक्षितं सम्पादयिष्यतीति निश्चित्य निश्चिन्तो भवेत्य् अर्थः । आत्मवान् अप्रमत्तो भवेति वा ॥४५॥

विश्वनाथः : त्वं तु चतुर्-वर्ग-साधनेभ्यो विरज्य केवलं भक्ति-योगम् एवाश्रयस्वेत्य् आह त्रैगुण्येति । त्रैगुण्यास् त्रिगुणात्मिकाः कर्म-ज्ञानाद्याः प्रकाश्यत्वेन विषया येषां ते त्रैगुण्य-विषया वेदाः स्वार्थे ष्यञ्, एतच् च भूम्ना व्यपदेशा भवन्ति इति न्यायेनोक्तम् । किन्तु भक्तिर् एवैनं नयति इति । यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ इत्य् आदि श्रुतयः । पञ्चरात्रादि-स्मृतयश् च गीतोपनिषद्-गोपाल-तापन्याद्य्-उपनिषदश् च निर्गुणां भक्तिम् अपि विषयीकुर्वन्त्य् एव वेदोक्तत्वाभावे भक्तेर् अप्रामाण्यम् एव स्यात् । ततश् च वेदोक्ता ये त्रिगुणमया ज्ञान-कर्म-विधयस् तेभ्य एव निर्गतो भव तान् न कुरु । ये तु वेदोक्ता भक्ति-विधयस् तांस् तु सर्वथैवानुतिष्ठ । तद्-अनुष्ठाने -

श्रुति-स्मृति-पुराणादि-पाञ्चरात्र-विधिं विना ।
ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्प्यते ॥

इति दोषो दुर्वार एव । तेन स-गुणानां गुणातीतानाम् अपि, वेदाना-विषयास् त्रैगुण्या निस्त्रैगुण्याश् च । तत्र त्वं तु निस्त्रैगुण्यो भव । निर्गुणया मद्-भक्त्यैव त्रिगुणात्मकेभ्यस् तेभ्यो निष्क्रान्तो भव । तत एव निर्द्वन्द्वो गुणमय-मानापमानादि-रहितः । अतएव नित्यैः सत्त्वैः प्राणिभिर् मद्-भक्तैर् एव सह तिष्ठतीति तथा सः । नित्यं सत्त्व-गुणस्थो भवेति व्याख्यायां निस्त्रैगुण्यो भएति व्याख्यायां विरोधः स्यात् । अलब्ध-लाभो योगः, लब्धस्य रक्षणं क्षेमस् तद्-रहितः । मद्-भक्ति-रसास्वाद-वशाद् एव तयोर् अननुसन्धानात् । योग-क्षेमं वहाम्य् अहम् इत् भक्त-वत्सलेन मयैव तद्-भार-वहनात् । आत्मवान् मद्-दत्त-बुद्धि-युक्तः । अत्र निस्त्रैगुण्य-त्रैगुण्ययोर् विवेचनम् । यद् उक्तम् एकादशे -

मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म यत् ।
राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम् ॥ [भ्प् ११।२५।२३]

निष्फलं वेति नैमित्तिकं निज-कर्म-फलाकाङ्क्ष्या-रहितम् इत्य् अर्थः ।

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् ।
प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥
वनं तु सात्त्विको वासो ग्रामो राजस उच्यते ।
तामसं द्युत-सदनं मन्-निकेतं तु निर्गुणम् ॥
सात्त्विकः कारको ऽसङ्गी रागान्धो राजसः स्मृतः ।
तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥
सात्त्विक्याध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी ।
तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥
पथ्यं पूतम् अनायस्तम् आहार्यं सात्त्विकं स्मृतम् ।
राजसं चेन्द्रिय-प्रेष्ठं तामसं चार्तिदाशुचि ॥
सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् ।
तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ [भ्प् ११।२५।२४-२९] इति ।

इत्य् अन्तेन ग्रन्थेन त्रैगुण्य-वस्तून्य् अपि भक्त्या स्वस्मिन् कथञ्चित् स्थितस्य त्रैगुण्यस्य निर्जयो ऽप्य् उक्तस् तद्-अनन्तरम् एव । यथा -

द्रव्यं देशस् तथा कालो ज्ञानं कर्म च कारकः ।
श्रद्धावस्था-कृतिर् निष्ठा त्रैगुण्यः सर्व एव हि ॥
सर्वे गुणमया भावाः पुरुषाव्यक्त-धिष्ठिताः ।
दृष्टं श्रुतम् अनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥
एताः संसृतयः पुंसो गुण-कर्म-निबन्धनाः ।
येनेमे निर्जिताः सौम्य गुणाजीवेन चित्तजाः ।
भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते ॥ [भ्प् ११।२५।३०-३२]

तस्माद् भक्त्यैव निर्गुणया त्रैगुण्यजयो नान्यथा । अत्राप्य् अग्रे कथं चैतांस् त्रीन् गुणान् अतिवर्तते इति प्रश्ने वक्ष्यते –

मां च यो ऽव्यभिचारेण भक्ति-योगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥ [गीता १४।२६]

श्री-स्वामि-चरणानां व्याख्या च - च-कारो ऽत्रावधारणार्थः । माम् एव परमेश्वरम् अव्यभिचारेण भक्ति-योगेन यः सेवते इत्य् एषा ।
निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥

बलदेवः : ननु फलनैरपेक्ष्येण कर्माणि कुर्वाणान् अपि तानि स्व-फलैर् योजयेयुस् तत् स्वाभाव्यात् ततः कथं तद्-बुद्धेः सम्भव इति चेत् तत्राह त्रैगुण्येति । त्रयाणां गुणानां कर्म त्रैगुण्यम् । गुण-वचन-ब्राह्मणादिभ्यः कर्मणि च इति सूत्रात् [पाण् ५।१।१२४] ष्यञ्-सकामत्वम् इत्य् अर्थः । तद्-विषया वेदाः कर्म-काण्डानि त्वं तु तच्-छिरो-भूत-वेदान्त-निष्ठो निस्त्रैगुण्यो निष्कामो भव ।

अयम् अर्थः - पितृ-कोटि-वत्सलो हि वेदो ऽनादि-भगवद्-विमुखान् माया-गुणैर् निबद्धांस् तद्-गुण-सृष्ट-सात्त्विकादि-सुख-सक्तान् प्रति तत्-कामान् अनुरुध्य फलानि प्रकाशयन् स्वस्मिंस् तान् विश्रम्भयति । तद्-विश्रम्भेण तत्-परिशीलिनस् ते तन्-मूर्ध-भूतोपनिसत्-प्रतीत-याथात्म्य-निश्चयेन तां बुद्धिं यान्तीति न चाकामितान्य् अपि तान्य् आपतेयुः कामितानाम् एव तेषां फलत्व-श्रवणात् । न च सर्वेषां वेदानां त्रैगुण्य-विषयत्वं निस्त्रैगुण्यताया अप्रामाणिकत्वापत्तेः ।

ननु शीतोष्णादि-निवारणाय मात्रास्पर्शास् तु कौन्तेयेत्य् आदि विमर्शेन द्वन्द्व-सहो भव । तत्र हेतुर् नित्येति । नित्यं यत् सत्त्वम् अपरिणामित्वं जीव-निष्ठं तत्-स्थस् तद्-विभाव्येत्य् अर्थः । तत एव निर्योगक्षेमः । अलब्ध-लाभो योगः लब्धस्य परिरक्षणं क्षेमं तद्-रहितो भवेत्य् अर्थः ।
ननु क्षुत्-पिपासे तथापि वाधिके इति चेत् तत्राह आत्मवान् इति । आत्मा विश्वम्भरः परमात्मा स यस्य ध्येयतयास्ति तादृशो भवेत्य् अर्थः । स ते देह-यात्रां सम्पादयेद् इत्य् अर्थः ॥४५॥


२।४६

यावान् अर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥४६॥

श्रीधरः : ननु वेदोक्त-नाना-फल-त्यागेन निषामतयेश्वराराधन-विषया व्यवसायात्मिका बुद्धिः कुबुद्धिर् एवेत्य् आशड्क्याह यावान् इति । उदकं पीयते यस्मिंस् तद् उदपानं वापी-कूप-तडाग्-आदि । तस्मिन् स्वल्पोदक एकत्र कृत्स्नार्थस्यासम्भवात् तत्र तत्र परिभ्रमणेन विभागशो यावान् स्नान-पानादिर् अर्थः प्रयोजनं भवति तावान् सर्वो ऽप्य् अर्थः सर्वतः सम्प्लुतोदके महा-ह्रदे एकत्रैव यथा भवति । एवं यावान् सर्वेषु वेदेषु तत्-तत्-कर्म-फल-रूपो ऽर्थस् तावान् सर्वो ऽपि विजानतो व्यवसायात्मिका-बुद्धि-युक्तस्य ब्राह्मणस्य ब्रह्म-निष्ठस्य भवत्य् एव । ब्रह्मानन्दे क्षुदानन्दानाम् अन्तर्भावात् । एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति इति श्रुतेः । तस्माद् इयम् एव सुबुद्धिर् इत्य् अर्थः ॥४६॥

मधुसूदनः : न चैवं शङ्कनीयं सर्व-कामना-परित्यागेन कर्म कुर्वन्न् अहं तैस् तैः कर्म-जनितैर् आनन्दैर् वञ्चितः स्याम् इति । यस्मात् यावान् इति । उदपाने क्षुद्र-जलाशये । जाताव् एक-वचनम् । यावान् अर्थो यावत्-स्नान-पानादि-प्रयोजनं भवति सर्वतः सम्प्लुतोदके महति जलाशये तावान् अर्थो भवत्य् एव । यथा हि पर्वत-निर्झराः सर्वतः स्रवन्तः क्वचिद् उपत्यकायाम् एकत्र मिलन्ति तत्र प्रत्येकं जायमानम् उदक-प्रयोजनं समुदिते सुतरां भवति सर्वेषां निर्झराणाम् एकत्रैव कासारे ऽन्तर्भावात् । एवं सर्वेषु वेदेषु वेदोक्तेषु काम्य-कर्मसु यावान् अर्थो हैरण्यगर्भानन्द-पर्यन्तस् तावान् विजानतो ब्रह्म-तत्त्वं साक्षात्-कृतवतो ब्राह्मणस्य ब्रह्म-बुभूषोर् भवत्य् एव । क्षुदानन्दानाम् ब्रह्मानन्दांशत्वात् तत्र क्षुद्रानन्दानाम् अन्तर्भावात् ।
एतस्यैवानन्दस्यान्यानि भूतानि मात्राम् उपजीवन्ति इति श्रुतेः । एकस्याप्य् आनन्दस्याविद्या-कल्पित-तत्-तद्-उपाधि-परिच्छेदम् आदायांशांशिवद् व्यपदेश आकाशस्येव घटाद्य्-अवच्छेद-कल्पनया ।

तथा च निष्काम-कर्मभिः शुद्धान्तः-करणस्य तवात्म-ज्ञानोदये पर-ब्रह्मानन्द-प्राप्तिः स्यात् तथैव च सर्वानन्द-प्राप्तौ न क्षुद्रानन्द-प्राप्ति-निबन्धन-वैयग्र्यावकाशः । अतः परमानन्द-प्रापकाय तत्त्व-ज्ञानाय निष्काम-कर्माणि कुर्व् इत्य् अभिप्रायः । अत्र यथा तथा भवतीति-पद-त्रयाध्याहारो यावांस् तावान् इति पद-द्वयानुषङ्गश् च दार्ष्टान्तिके द्रष्टव्यः ॥४६॥

विश्वनाथः : हन्त किं वक्तव्यं निष्कामस्य निर्गुणस्य भक्तियोगस्य माहात्म्यं यस्यैवारम्भण-मात्रे ऽपि नाश-प्रत्यवायौ न स्तः । स्वल्प-मात्रेणापि कृतार्थतेत्य् एकादशे ऽप्य् उद्धवायापि वक्ष्यते -

न ह्य् अङ्गोपक्रमे ध्वंसो
मद्-धर्मस्योद्धवाण्व् अपि ।
मया व्यवसितः सम्यङ्
निर्गुणत्वाद् अनाशिषः ॥ इति । [भ्प् ११।२९।२०]

किन्तु स-कामो भक्ति-योगो ऽपि व्यवसायात्मिक-बुद्धि-शब्देनोच्यते । इति दृष्टान्तेन साधयति यावान् इति । उदपान इति जात्यैक-वचनम् उदपानेषु कूपेषु । यावान् अर्थ इति कश्चित् कूपः शौच-कर्मार्थकः, कश्चिद् दान्त-धावनार्थकः, कश्चिद् वस्त्र-धावनाद्य्-अर्थकः, कश्चित् केशादि-मार्जनार्थकः, कश्चित् स्नानार्थकः, कश्चित् पानार्थक इत्य् एवं सर्वतः सर्वेषुदपानेषु यावान् अर्थो यावन्ति प्रयोजनानीत्य् अर्थः तस्मिन् एकस्मिन्न् एव शौचादि-कर्म-सिद्धेः । किं च, तत्-तत्-कूपेषु पृथक् पृथक् परिभ्रमण-श्रमेण, सरोवरे तु तं विनैव । तथा कूपेषु विरस-जलेन सरोवरे तु सुरम-जलेनैवेत्य् अपि विशेषो द्रष्टव्यः । एवं सर्वेषु वेदेषु तत्-तद्-देवताराधनेन यावन्तो ऽर्थास् तावन्त एकस्य भगवद्-आराधनेन विजानतो विज्ञस्य ब्राह्मणस्येति ब्रह्म वेदं बेत्तीति
ब्रह्मणस् तस्य विजानतो वेदज्ञत्वे ऽपि वेद-तात्पर्यं भक्तिं विशेषतो जानतः । यथा द्वितीय-स्कन्धे -

ब्रह्म-वर्चस-कामस् तु यजेत ब्रह्मणः पतिम् ।
इन्द्रम् इन्द्रिय-कामस् तु प्रजा-कामः प्रजापतिम् ॥ [भ्प् २।३।२]

दैवीं मायां तु श्री-कामः इत्य् आद्य्-उक्त्या,

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः ।
तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ [भ्प् २।३।१०]

इति मेघाद्य्-अमिश्रस्य सौर-किरणस्य तीव्रत्वम् इव भक्तियोगस्य ज्ञान-कर्माद्य्-अमिश्रत्वं तीव्रत्वं ज्ञेयम् । अत्र बहुभ्यो बहु-काम-सिद्धिर् इति सर्वथा बहु-बुद्धित्वम् एव । एकस्माद् भगवत एव सर्व-काम-सिद्धिर् इत्य् अंशेनैक-बुद्धित्वाद् एक-बुद्धित्वम् एव विषय-साद्गुण्याज् ज्ञेयम् ॥४६॥
बलदेवः : ममि सर्वान् वेदान् अधीयानस्य बहु-काल-व्ययाद् बहु-विक्षेप-सम्भवाच् च कथं तद्-बुद्धेर् अभुदयस् तत्राह यावान् इति । सर्वतः सम्प्लुतोदकेति । विस्तीर्णे उदपाने जलाशये स्नानाद्य्-अर्थिनो यावान् स्नान-पानादिर् अर्थः प्रयोजनं तावान् एव स तेन तस्मात् सम्पद्यते । एवं सर्वेषु सोपनिषत्सु वेदेषु ब्राह्मणस्य वेदाध्यायिनो विजानत आत्म-याथात्म्य-ज्ञानं लब्धु-कामस्य यावान् तज्-ज्ञान-सिद्धि-लक्षणो ऽर्थः स्यात् तावान् एव तेन तेभ्यः सम्पाद्यते इत्य् अर्थः । तथा च स्व-शाखयैव सोपनिषदाचिरेणैव तत् सिद्धौ तद् बुद्धिर् अभुदियाद् एवेति । इह दार्ष्टान्तिके ऽपि यावांस् तावान् इति पद-द्वयम् अनुषञ्जनीयम् ॥४६॥


२।४७

कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन ।
मा कर्म-फल-हेतुर् भूर् मा ते सङ्गो ऽस्त्व् अकर्मणि ॥४७॥

श्रीधरः : तर्हि सर्वाणि कर्म-फलानि परमेश्वराराधनाद् एव भविष्यन्तीत्य् अभिसन्धाय प्रवर्तेत । किं कर्मणा इत्य् आशङ्क्य तद् वारयन्न् आह कर्मण्य् एवेति । ते तव तत्त्व-ज्ञानार्थिनः कर्मण्य् एवाधिकारः । तत्-फलेषु अधिकारः कामो मास्तु । ननु कर्मणि कृति तत्-फलं स्याद् एव भोजने कृते तृप्तिवत् । इत्य् आशङ्क्याह मेति । मा कर्म-फल-हेतुर् भूः । कर्म-फलं प्रवृत्ति-हेतुर् यस्य स तथाभूतो मा भूः । काम्यमानस्यैव स्वर्गादेर् नियोज्य-विशेषणत्वेन फलत्वाद् अकामितं फलं न स्याद् इति भावः । अतएव फलं बन्धकं भविष्यतीति भयाद् अकर्मणि कर्माकरणे ऽपि तव सङ्गो निष्ठा मास्तु ॥४७॥

मधुसूदनः : ननु निष्काम-कर्मभिर् आत्म-ज्ञानं सम्पाद्य परानन्द-प्राप्तिः क्रियते चेद् आत्म-ज्ञानम् एव तर्हि सम्पाद्यं किं बह्वायासैः कर्मभिर् बहिरङ्ग-साधन-भूतैर् इत्य् आशङ्क्याह कर्मण्य् एवेति । ते तवाशुद्धान्तःकरणस्य तात्त्विक-ज्ञानोत्पत्त्य्-अयोग्यस्य कर्मण्य् एवान्तःकरण-शोधके ऽधिकारो मयेदं कर्तव्यम् इति बोधो ऽस्तु न ज्ञान-निष्ठा-रूपं वेदान्त-वाक्य-विचारादौ । कर्म च कुर्वतस् तव तत्-फलेषु स्वर्गादिषु कदाचन कस्याञ्चिद् अप्य् अवस्थायां कर्मानुष्ठानात् प्राग् ऊर्ध्वं तत्-काले वाधिकारो मयेदं भोक्तव्यम् इति बोधो मास्तु ।

ननु मयेदं भोक्तव्यम् इति बुद्ध्य्-अभावे ऽपि कर्म स्व-सामार्थ्याद् एव फलं जनयिष्यतीति चेन् नेत्य् आह मा कर्म-फल-हेतुर् भूः । फल-कामनया हि कर्म कुर्वन् फलस्य हेतेउर् उत्पादको भवति । त्वं तु निष्कामः सन् कर्म-फल-हेतुर् मा भूः । न हि निष्कामेन भगवद्-अर्पण-बुद्ध्या कृतं कर्म फलाय कल्पत इत्य् उक्तम् । फलाभावे किं कर्मणेत्य् अत आह - मा ते सङ्गो ऽस्त्व् अकर्मणि । यदि फलं नेष्यते किं कर्मणा दुःख-रूपेणेत्य् अकरणे तव प्रीतिर् मा भूत् ॥४७॥

विश्वनाथः : एवम् एकम् एवार्जुनं स्व-प्रिय-सखं लक्षीकृत्य ज्ञान-भक्ति-कर्म-योगान् आचिख्यासुर् भगवान् ज्ञान-भक्ति-योगौ प्रोच्य तयोर् अर्जुनस्यानधिकारः विमृश्य निष्काम-कर्म-योगम् आह कर्मणीति । मा फलेष्व् इति - फलाकाङ्क्षिणो ऽप्य् अत्यन्त-शुद्ध-चित्ता भवन्ति । त्वं तु प्रायः शुद्ध-चित्त इति मया ज्ञात्वैवोच्यस इति भावः ।

ननु कर्मणि कृते फलम् अवश्यं भविष्यत्य् एवेति । तत्राह मा कर्म-फल-हेतुर् भूः फल-कामनया हि कर्म कुर्वन् फलस्य हेतुर् उत्पादको भवति । त्वं तु तादृशो मा भूर् इत्य् आशीर् मया दीयत इत्य् अर्थः । अकर्मणि स्व-धर्माकरणे विकर्मणि पापे वा सङ्गस् तव मास्तु, किन्तु द्वेष एवास्त्व् इति पुनर् अप्य् आशीर् दीयत इति । अत्राग्रिमाध्याये व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे इत्य् अर्जुनोक्ति-दर्शनाद् अत्राध्याये पूर्वोत्तर-वाक्यानाम् अवतारिकाभिर् नातीव सङ्गतिर् विधित्सितेति ज्ञेयम् । किन्तु त्व-आज्ञायां सारथ्य्-आदौ यथाहं तिष्ठामि, तथा त्वम् अपि मद्-आज्ञायां तिष्ठेति कृष्णार्जुनयोर् मनो ऽनुलापो ऽयम् अत्र द्रष्टव्यः ॥४७॥

बलदेवः : ननु कर्मभिर् ज्ञान-सिद्धिर् इष्यते चेत् तर्हि तस्य शमादीन्य् एवान्तरङ्गत्वाद् अनुष्ठेयानि सन्तु किं बहु प्रयासैस् तैर् इति चेत् तत्राह - कर्मण्य् एवेति । जाताव् एक-वचनम् । ते तव स्व-धर्मे ऽपि युद्धे ऽधर्म-बुद्धेर् अशुद्ध-चित्तस्य तावत् कर्मस्व् एव युद्धादिष्व् अधिकारो ऽस्तु मयैतानि भोक्तव्यानीति तत् फलेषु बन्धकेषु तवाधिकारो मास्तु मयैतानि भोक्तव्यानीति ।

ननु फलेच्छा-विरहे ऽपि तानि स्व-फऐर् योजयेयुर् इति चेत् तत्राह मा कर्मेति । कर्म-फलानां हेतुर् उत्पादकस् त्वं माभूः कामनया कृतानि तानि स्व-फलैर् योजयन्ति कामितानाम् एव फलानां नियोज्य-विशेषणत्वेन फलत्वाम्नातात् । अतएव बन्धकानि फलानि आपतिष्यन्तीति भयाद् अकर्मणि कर्माकरणे तव सङ्गः प्रीतिर् मास्तु किन्तु विद्वेष एवास्त्व् इत्य् अर्थः । निष्कामतयानुष्ठितानि कर्माणि यष्टिधान्यवद् अन्तर् एव ज्ञान-निष्ठां निष्पादयिष्यन्ति । शमादीनि तु तत्-पृष्ठ-लग्नान्य् एव स्युर् इति भावः ॥४७॥


२।४८

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्य्-असिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥४८॥

श्रीधरः : किं तर्हि ? योग-स्थ इति । योगः परमेश्वरैकपरता । तत्र स्थितः कर्माणि कुरु । तथा सङ्गं कर्तृत्वाभिनिवेशं त्यक्त्वा केवलम् ईश्वराश्रयेणैव कुरु । तत्-फलस्य ज्ञानस्यापि सिद्ध्य्-असिद्ध्योः समो भूत्वा केवलम् ईश्वराश्रयेणैव कुरु । यत एवम्भूतं समत्वम् एव योग उच्यते सद्भिः चित्त-समाधान-रूपत्वात् ॥४८॥

मधुसूदनः : पूर्वोक्तम् एव विवृणोति योग-स्थ इति । हे धनञ्जय त्वं योगस्थः सन् सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु । अत्र बहु-वचनात् कर्मण्य् एवाधिकारस् त इत्य् अत्र जाताव् एक-वचनम् । सङ्ग-त्यागोपायम् आह सिद्ध्य्-असिद्ध्योः समो भूत्वा फल-सिद्धौ हर्षं फलासिद्धौ च विषादं त्यक्त्वा केवलम् ईश्वराराधन-बुद्ध्या कर्माणि कुर्व् इति ।

ननु योग-शब्देन प्राक्-कर्मोक्तम् । अत्र तु योग-स्थः कर्माणि कुर्व् इत्य् उच्यते । अतः कथम् एतद् बोद्ध्य्ं शक्यम् इत्य् अत आह समत्वं योग उच्यते । यद् एतत् सिद्ध्य्-असिद्ध्योः समत्वम् इदम् एव योग-स्थ इत्य् अत्र योग-शब्देनोच्यते न तु कर्मेति न को ऽपि विरोध इत्य् अर्थः । अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियत इत्य् अपौनरुक्त्यम् इति भाष्यकारीयः पन्थाः । सुख-दुःखे समे कृत्वा इत्य् अत्र जयाजय-साम्येन युद्ध-मात्र-कर्तव्यता प्रकृतत्वाद् उक्ता । इह तु दृष्टादृष्ट-सर्व-फल-परित्यागेन सर्व-कर्म-कर्तव्यतेति विशेषः ॥४८॥

विश्वनाथः : निष्काम-कर्मणः प्रकारं शिक्षयति योग-स्थ इति । तेन जयाजययोस् तुल्य-बुद्धिः सन् सङ्ग्रामम् एव स्व-धर्मं कुर्व् इति भावः । अयं निष्काम-कर्म-योग एव ज्ञान-योगत्वेन परिणमतीति । ज्ञान-योगो ऽप्य् एवं पूर्वोत्तर-ग्रन्थार्थ-तात्पर्यतो ज्ञेयः ॥४८॥

बलदेवः : पूर्वोक्तं विशदयति योग-स्थ इति । त्वं सङ्गं फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा योगस्थः सन् कर्माणि कुरु युद्धादीनि । आद्येन माया-निमज्जनम् एव । द्वितीयेन तु स्वातन्त्र्य-लक्षण-परेश-धर्म-चौर्यम् । तेन तन्-माया-व्याकोपः । अतस् तयोः परित्याग इति भावः । योगस्थ-पदं विवृणोति – सिद्ध्य्-असिद्ध्योर् इति । तद्-अनुषङ्ग-फलानां जयादीनां सिद्धाव् असिद्धौ च समो भूत्वा राग-द्वेष-रहितः सन् कुरु । इदम् एव समत्वं मया योग-स्थ इत्य् अत्र योग-शब्देनोक्तं चित्त-समाधि-रूपत्वात् ॥४८॥


२।४९

दूरेण ह्य् अवरं कर्म बुद्धि-योगाद् धनञ्जय ।
बुद्धौ शरणम् अन्विच्छ कृपणाः फल-हेतवः ॥४९॥

श्रीधरः : काम्यं तु कर्मातिनिकृष्टम् इत्य् आह दूरेणेति । बुद्ध्या व्यवसायात्मिकया कृतः कर्म-योगो बुद्धि-योगो बुद्धि-साधन-भूतो वा, तस्मात् सकाशाद् अन्यत् साधन-भूतं काम्यं कर्म दूरेण अवरं अत्यन्तम् अपकृष्टं हि । यस्माद् एवं तस्माद् बुद्धौ ज्ञाने शरणम् आश्रयं कर्म-योगम् अन्विच्छ अनुतिष्ठ । यद् वा बुद्धौ शरणं त्रातारम् ईश्वरम् आश्रयेत्य् अर्थः । फलहेतुर् अस्तु सकामा नराः कृपणा दीनाः यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रैति स कृपण [बउ ३।८।१०] इति श्रुतेः ॥४९॥

मधुसूदनः : ननु किं कर्मानुष्ठानम् एव पुरुषार्थो येन निष्फलम् एव सदा कर्तव्यम् इत्य् उच्यते प्रयोजनम् अनुद्दिश्य न मन्दो ऽपि प्रवर्तते इति न्यायात् । तद् वरं फल-कामनयैव कर्मानुष्ठानम् इति चेन् नेत्य् आह दूरेणेति । बुद्धि-योगाद् आत्म-बुद्धि-साधन-भूतान् निष्काम-कर्म-योगाद् दूरेणातिविप्रकर्षेणावरम् अधमं कर्म फलाभिसन्धिना क्रियमाणं जन्म-मरण-हेतु-भूतम् । अथवा परमात्म-बुद्धि-योगाद् दूरेणावरं सर्वम् अपि कर्म यस्माद्, हे धनञ्जय, तस्माद् बुद्धौ परमात्म-बुद्धौ सर्वानर्थ-निवर्तिकायां शरणं प्रतिबन्धक-पाप-क्षयेण रक्षकं निष्काम-कर्म-योगम् अन्विच्छ कर्तुम् इच्छ । ये तु फल-हेतवः फल-कामा अवरं कर्म कुर्वन्ति ते कृपणाः सर्वदा जन्म-मरणादि-घटी-यन्त्र-भ्रमणेन पर-वशा अत्यन्त-दीना
इत्य् अर्थः । यो वा एतद् अक्षरम् गार्ग्य् अविदित्वा अस्माल् लोकात् प्रैति स कृपण [बउ ३।८।१०] इति श्रुतेः । तथा च त्वम् अपि कृपणो मा भूः किन्तु सर्वानर्थ-निवर्तकात्म-ज्ञानोत्पादकं निष्काम-कर्म-योगम् एवानुतिष्ठेत्य् अभिप्रायः । यथा हि कृपणा जना अतिदुःखेन धनम् अर्जयन्तो यत् किञ्चिद् दृष्ट-सुख-मात्र-लोभेन दानादि-जनितं महत् सुखम् अनुभवितुं न शक्नुवन्तीत्य् आत्मानम् एव वञ्चयन्ति तथा महता दुःखेन कर्माणि कुर्वाणाः क्षुद्र-फल-मात्र-लोभेन परमानन्दा-नुभवेन वञ्चिता इत्य् अहो दौर्भाग्यं मौढ्यं च तेषाम् इति कृपण-पदेन ध्वनितम् ॥४९॥

विश्वनाथः : सकाम-कर्म निन्दति दूरेणेति । अवरम् अतिनिकृष्टं काम्यं कर्म । बुद्धि-योगात् परमेश्वरार्पित-निषाम-कर्म-योगात् । बुद्धौ निष्काम-कर्मण्य् एव बुद्धि-योगो निष्काम-कर्म-योगः ॥४९॥

बलदेवः : अथ काम्य-कर्मणो निकृष्टत्वम् आह दूरेणेति । बुद्धि-योगाद् अवरं कर्म दूरेण, हे धनञ्जय, आत्म-याथात्म्य-बुद्धि-साधन-भूतान् निष्काम-कर्म-योगात् दूरेणातिविप्रकर्षेणावरम् अत्यपकृष्टं जन्म-मरणाद्य्-अनर्थ-निमित्तं काम्यं कर्मेत्य् अर्थः । हि यस्माद् एवम् अतस् त्वं बुद्धौ तद्-याथात्म्य-ज्ञाने शरणम् आश्रयं निष्काम-कर्म-योगम् अन्विच्छ कुरु । ये तु फल-हेतवः फल-कामा अवर-कर्म-कारिणस् ते कृपणास् तत्-फल-जन्म-कर्मादि-प्रवाह-परवशा दीना इत्य् अर्थः । तथा च त्वं कृपणो माभूर् इति इह कृपणाः खलु कष्टोपार्जित-वित्तादृष्ट-सुख-लव-लुब्धा वित्तानि दातुम् असमर्था महता दान-सुखेन वञ्चितास् तथा कष्टानुष्ठित-कर्माणस् तुच्छ-तत्-फल-लुब्धा महतात्म-सुखेन वञ्चिता भवन्तीति व्यज्यते
॥४९॥


२।५०

बुद्धि-युक्तो जहातीह उभे सुकृत-दुष्कृते ।
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥५०॥

श्रीधरः : बुद्धि-योग-युक्तस् तु श्रेष्ठ इत्य् आह बुद्धि-युक्त इति । सुकृतं स्वर्गादि-प्रापकं दुष्कृतं निरयादि-प्रापकम् । ते उभे इहैव जन्मनि परमेश्वर-प्रसादेन त्यजति । तस्माद् योगाय तद्-अर्थाय कर्म-योगाय युज्यस्व घटस्व । योगो हि कर्मसु कौशलम् । स्व-धर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्य्-असिद्ध्योः समत्व-बुद्धिर् ईश्वरार्पित-चेतस्तया तत् कौशलं कुशल-भावः । तद् धि कौशलं यद् बन्ध-स्वभावान्य् अपि कर्माणि समत्व-बुद्ध्या स्वभावान् निवर्तन्ते । तस्मात् समत्व-बुद्धि-युक्तो भव त्वम् ॥५०॥

मधुसूदनः : एवं बुद्धि-योगाभावे दोषम् उक्त्वा तद्-भावे गुणम् आह बुद्धीति । इह कर्मसु बुद्धि-युक्तः समत्व-बुद्ध्या युक्तो जहाति परित्यजति उभे सुकृत-दुष्कृते पुण्य-पापे सत्त्व-शुद्धि-ज्ञान-प्राप्ति-द्वारेण । यस्माद् एवं तस्मात् समत्व-बुद्धि-योगाय त्वं युज्यस्व घटस्वोद्युक्तो भव । यस्माद् ईदृशः समत्व-बुद्धि-योग ईश्वरार्पित-चेतसः कर्मसु प्रवर्तमानस्य कौशलं कुशल-भावो यद्-बन्ध-हेतूनाम् अपि कर्मणां तद्-अभावो मोक्ष-पर्यवसायित्वं च तन् महत् कौशलम् ।

समत्व-बुद्धि-युक्तः कर्म-योगः कर्मात्मापि सन् दुष्ट-कर्म-क्षयं करोतीति महा-कुशलः । त्वं तु न कुशलो यतश् चेतनो ऽपि सन् सजातीय-दुष्ट-क्षयं न करोषीति व्यतिरेको ऽत्र ध्वनितः । अथवा इह समत्व-बुद्धि-युक्ते कर्मणि कृते सति सत्त्व-शुद्धि-द्वारेण बुद्धि-युक्तः परमात्म-साक्षात्कारवान् सञ्जहात्य् उभे सुकृत-दुष्कृते । तस्मात् समत्व-बुद्धि-युक्ताय कर्म-योगाय युज्यस्व । यस्मात् कर्मसु मध्ये समत्व-बुद्धि-युक्तः कर्म-योगः कौशलं कुशलो दुष्ट-कर्म-निवारण-चतुर इत्य् अर्थः ॥५०॥

विश्वनाथः : योगायोक्त-लक्षणाय युज्यस्व घटस्व । यतः कर्मसु सकाम-निष्कामेषु मध्ये योग एवोदासीनत्वेन कर्म-करणम् एव । कौशलं नैपुण्यम् इत्य् अर्थः ॥५०॥

बलदेवः : उक्तस्य बुद्धि-योगस्य प्रभावम् आह बुद्धीति । इह कर्मसु यो बुद्धि-युक्तः प्रधान-फल-त्याग-विषयानुषङ्ग-फल-सिद्ध्य्-असिद्धि-समत्व-विषयया च बुद्ध्या युक्तस् तानि करोति, स उभे अनादि-काल-सञ्चिते ज्ञान-प्रतिबन्धके सुकृत-दुष्कृते जहाति विनाशयतीत्य् अर्थः । तस्माद् उक्ताय बुद्धि-योगाय युज्यस्व घटस्व । यस्मात् कर्म-योगस् तादृश-बुद्धि-सम्बन्धः । कौशलम् चातुर्यं बन्धकानाम् एव बुद्धि-सम्पर्काद् विशोधित-विष-पारद-न्यायेन मोचकत्वेन परिणामात् ॥५०॥


२।५१

कर्मजं बुद्धि-युक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्म-बन्ध-विनिर्मुक्ताः पदं गच्छन्त्य् अनामयम् ॥५१॥

श्रीधरः : कर्मणां मोक्ष-साधनत्व-प्रकारम् आह कर्म-जम् इति । कर्मजं फलं त्यक्त्वा केवलम् ईश्वराराधनार्थं कर्म कुर्वाणो मनीषिणो ज्ञानिनो भूत्वा जन्म-रूपेण बन्धेन विनिर्मुक्ताः सन्तो ऽनामयं सर्वोपद्रव-रहितं विष्णोः पदं मोक्षाख्यं गच्छन्ति ॥५१॥

मधुसूदनः : ननु दुष्कृत-हानम् अपेक्षितं न तु सुकृत-हानं पुरुषार्थ-भ्रंशापत्तेर् इत्य् आशङ्क्य तुच्छ-फल-त्यागेन परम-पुरुषार्थ-प्राप्तिं फलम् आह कर्म-जम् इति । समत्व-बुद्धि-युक्ता हि यस्मात् कर्मजं फलं त्यक्त्वा केवलम् ईश्वराराधनार्थं कर्माणि कुर्वाणाः सत्त्व-शुद्धि-द्वारेण मनीषिणस् तत् त्वम् असि इत्य् आदि-वाक्य-जन्यात्म-मनीषावन्तो भवन्ति । तादृशाश् च सन्तो जन्मात्मकेन बन्धेन विनिर्मुक्ता विशेषेणात्यन्तिकत्व-लक्षणेन निरवशेषं मुक्ताः पदं पदनीयम् आत्म-तत्त्वम् आनन्द-रूपं ब्रह्मानामयम् अविद्या-तत्-कार्यात्मक-रोग-रहिताभयं मोक्षाख्यं पुरुषार्थं गच्छन्त्य् अभेदेन प्राप्नुवन्तीत्य् अर्थः ।

यस्माद् एवं फल-कामनां त्यक्त्वा समत्व-बुद्ध्या कर्माण्य् अनुतिष्ठन्तस् तैः कृतान्तःकरण-शुद्धयस् तत् त्वम् अस्य् आदि-प्रमाणोत्पन्नात्म-तत्त्व-ज्ञान-तत्-कार्याः सन्तः सकलानर्थ-निवृत्ति-परमानन्द-प्राप्ति-रूपं मोक्षाख्यं विष्णोः परमं पदं गच्छन्ति तस्मात् त्वम् अपि यच् छ्रेयः स्यान् निश्चितं ब्रूहि तन् मे [गीता २।७] इत्य् उक्तेः श्रेयो जिज्ञासुर् एवंविधं कर्म-योगम् अनुतिष्ठेति भगवतो ऽभिप्रायः ॥५१॥

विश्वनाथः : नोथिन्ग्।

बलदेवः : कर्मजम् इति । बुद्धि-युक्तास् तादृश-बुद्धिमन्तः कर्मजं फलं त्यक्त्वा कर्माण्य् अनुतिष्ठन्तो मनीषिणः कर्मान्तर्गतात्म-याथात्म्य-प्रज्ञावन्तो भूत्वा जन्म-बन्धेन विनिर्मुक्ताः सन्तो ऽनामयं क्लेश-शून्यं पदं वैकुण्ठं गच्छन्तीति । तस्मात् त्वम् अपि श्रेयो जिज्ञासुर् एवं विधानि कर्माणि कुर्व् इति भावः । स्वात्म-ज्ञानस्य परमात्म-ज्ञान-हेतुत्वात् तस्यापि तत्-पद-गति-हेतुत्वं युक्तम् ॥५१॥


२।५२

यदा ते मोहकलिलं बुद्धिर् व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२॥

श्रीधरः : कदाहं तत् पदं प्राप्स्यामि इत्य् अपेक्षायाम् आह यदेति द्वाभ्याम् । मोहो देहादिषु आत्म-बुद्धिः । तद् एव कलिलं गहनम् । कलिलं गहनं विदुर् इत्य् अभिधान-कोष-स्मृतेः । ततश् चायम् अर्थः । एवं परमेश्वराराधने क्रियमाणे यदा तत्-प्रसादेन तव बुद्धिर् देहाभिमान-लक्षणं मोह-मयं गहनं दुर्गं विशेषेणातितरिष्यति तदा श्रोतव्यस्य श्रुतस्य चार्थस्य निर्वेदं वैराग्यं गन्तासि प्राप्स्यसि । तयोर् अनुपादेयत्वेन जिज्ञासाम् न करिष्यसीत्य् अर्थः ॥५२॥

मधुसूदनः : एवं कर्माण्य् अनुतिष्ठतः कदा मे सत्त्व-शुद्धिः स्याद् इत्य् अत आह यदेति । न ह्य् एतावता कालेन सत्त्व-शुद्धिर् भवतीति काल-नियमो ऽस्ति । किन्तु यदा यस्मिन् काले ते तव बुद्धिर् अन्तःकरणं मोह-कलिलं व्यतितरिष्यति अविवेकात्मकं कालुषम् अहम् इदं ममेदं इत्य् आद्य्-अज्ञान-विलसितम् अतिगहनम् व्यतिक्रमिष्यति रजस्-तमो-मलम् अपहाय शुद्ध-भावम् आपत्स्यत इति यावत् । तदा तस्मिन् काले श्रोतव्यस्य श्रुतस्य च कर्म-फलस्य निर्वेदं वैतृष्ण्यं गन्तासि प्राप्तासि । परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदम् आयात् [मुण्डु १।२।१२] इति श्रुतेः । निर्वेदेन फलेनान्तःकरण-शुद्धिं ज्ञास्यसीत्य् अभिप्रायः ॥५२॥

विश्वनाथः : एवं परमेश्वरार्पित-निष्काम-कर्माभ्यासात् तव योगो भविष्यतीत्य् आह यदेति । तव बुद्धिर् अन्तःकरणं मोह-कलिलं मोह-रूपं गहनं विशेषतो ऽतिशयेन तरिष्यति, तदा श्रोतव्यस्य श्रोतव्येष्व् अर्थेषु श्रुतस्य श्रुतेष्व् अप्य् अर्थेषु निर्वेदं प्राप्स्यसि असम्भावना-विपरीत-भावनयोर् नष्टत्वात् किं मे शास्त्रोपदेश-वाक्य-श्रवणेन । साम्प्रतं मे साधनेष्व् एव प्रतिक्षणम् अभ्यासः सर्वथोचित इति मंस्यस इति भावः ॥५२॥

बलदेवः : ननु निष्कामाणि कर्माणि कुर्वतो मे कदात्म-विषया मनीषाभ्युदियाद् इति चेत् तत्राह यदेति । यदा ते बुद्धिर् अन्तःकरणं मोह-कलिलं तुच्छ-फलाभिलाष-हेतुम् अज्ञान-गहनं व्यतितरिष्यति परित्यक्ष्यतीत्य् अर्थः, तदा पूर्वं श्रुतस्यानन्तरं श्रोतव्यस्य च तस्य तुच्छ-फलस्य सम्बन्धिनं निर्वेदं गन्तासि गमिष्यसि । परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणो निर्वेदं आयात् इति श्रवणात् । निर्वेदेन फलेन तद्-विषयां तां परिचेष्यति इति नास्त्य् अत्र काल-नियम इत्य् अर्थः ॥५२॥


२।५३

श्रुति-विप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधाव् अचला बुद्धिस् तदा योगम् अवाप्स्यस्यि ॥५३॥

श्रीधरः : ततश् च श्रुतीति । श्रुतिभिर् नाना-लौकिक-वैदिकार्थ-श्रवणैर् विप्रतिपन्ना । इतः पूर्वं विक्षिप्ता सती तव बुद्धिर् यदा समाधौ स्थास्यति । समाधीयते चित्तम् अस्मिन्न् इति समाधिः परमेश्वरः । तस्मिन् निश्चला विषयैर् अन्तरैर् अनाकृष्टा । अतएवाचला । अभ्यास-पाटवेन तत्रैव स्थिरा च सती योगं योग-फलं तत्त्व-ज्ञानम् अवाप्स्यसि ॥५३॥

मधुसूदनः : अन्तःकरण-शुद्ध्यैवं जात-निर्वेदस्य कदा ज्ञान-प्राप्तिर् इत्य् अपेक्षायाम् आह श्रुतीति । ते तव बुद्धिः श्रुतिभिर् नाना-विध-फल-श्रवणैर् अविचारित-तात्पर्यैर् विप्रतिपन्ना ऽनेक-विध-संशय-विपर्यासवत्त्वेन विक्षिप्ता प्राक् । यदा यस्मिन् काले शुद्धिज-विवेक-जनितेन दोष-दर्शनेन तं विक्षेपं परित्यज्य समाधौ पर्मात्मनि निश्चला जाग्रत्-स्वप्न-दर्शन-लक्षण-विक्षेप-रहिताचला सुषुप्ति-मूर्च्छा-स्तब्धीभावादि-रूप-लय-लक्षण-चलन-रहिता सती स्थास्यति लय-विक्षेप-लक्षणौ दोषौ परित्यज्य समाहिता भविष्यतीति यावत् । अथवा निश्चलासम्भावना-विपरीत-भावना-रहिताचला दीर्घ-कालादर-नैरन्तर्य-सत्कार-सेवनैर् विजातीय-प्रत्ययादूषिता सती निर्वात-प्रदीपवद् आत्मनि स्थास्यतीति योजना । तदा तस्मिन् काले योगं जीव-परमात्मैक्य-लक्षणं
तत्-त्वम्-असीत्य् आदि-वाक्य-जन्यम् अखण्ड-साक्षात्कारं सर्व-योग-फलम् अवाप्स्यसि । तदा पुनः साध्यान्तराभावात् कृत-कृत्यः स्थित-प्रज्ञो भविष्यसीत्य् अभिप्रायः ॥५३॥

विश्वनाथः : ततश् च श्रुतिषु नाना-लौकिक-वैदिकार्थ-श्रवणेषु विप्रतिपन्ना असम्मता विरकेतित् यावत् । तत्र हेतुः निश्चला तेषु तेष्व् अर्थेषु चलितुं विमुखीभूतेत्य् अर्थः । किन्तु समाधौ षष्ठे ऽध्याये वक्ष्यमाण-लक्षणे ऽचला स्थैर्यवती । तदा योगम् अपरोक्षानुभव-प्राप्त्या, जीवन्-मुक्त इत्य् अर्थः ॥५३॥

बलदेवः : ननु कर्म-फल-निर्विण्णतया कर्मानुष्ठानेन लब्ध-हृद्-विशुद्धेर् अभ्युदितात्म-ज्ञानस्य मे कदात्म-साक्षात्-कृतिर् इति चेत् तत्राह श्रुतीति । श्रुत्या कर्मणां ज्ञान-गर्भतां प्रबोधयन्त्या तम् एतम् इत्य् आदिकया विप्रतिपन्ना विशेषेण संसिद्धा ते बुद्धिर् अचला असम्भावना-विपरीत-भावनाभ्यां विरहिता यदा समाधौ मनसि निर्वात-दीप-शिखेव निश्चला स्थास्यति तदा योगम् आत्मानुभव-लक्षणम् अवाप्स्यसि । अयम् अर्थः फलाभिलाष-शून्यतयानुष्ठितानि कर्माणि स्थित-प्रज्ञता-रूपां ज्ञान-निष्ठां साधयन्ति । ज्ञान-निष्ठा-रूपा स्थित-प्रज्ञता त्व् आत्मानुभवम् इति ॥५३॥


२।५४

अर्जुन उवाच
स्थित-प्रज्ञस्य का भाषा समाधि-स्थस्य केशव ।
स्थित-धीः किं प्रभाषेत किम् आसीत व्रजेत किम् ॥५४॥

श्रीधरः : पूर्व-श्लोकोक्तस्यात्म-तत्त्व-ज्ञस्य लक्षणं जिज्ञासुर् अर्जुन उवाच - स्थित-प्रज्ञस्येति । स्वाभाविके समाधौ स्थितस्य, अतएव स्थिता निश्चला प्रज्ञा बुद्धिर् यस्य तस्य भाषा का ? भाष्यते ऽनया इति भाषा लक्षणम् इति यावत् । स केन लक्षणेन स्थित-प्रज्ञ उच्यते इत्य् अर्थः । तथा स्थित-धीः किं कथं भाषणम् आसनं व्रजनं च कुर्याद् इत्य् अर्थः ॥५४॥

मधुसूदनः : एवम् लब्धावसरः स्थित-प्रज्ञ-लक्षणं ज्ञातुम् अर्जुन उवाच । यान्य् एव हि जीवन्-मुक्तानां लक्षणानि तान्य् एव मुमुक्षूणां मोक्षोपाय-भूतानीति मन्वानः । स्थिता निश्चला अहं-ब्रह्मास्मि इति प्रज्ञा यस्य स स्थित-प्रज्ञो ऽवस्था-द्वयवान् समाधिस्थो व्युत्थित-चित्तश् चेति । अतो विशिनष्टि समाधि-स्थस्य स्थित-प्रज्ञस्य का भाषा ? कर्मणि षष्ठी । भाष्यते ऽनयेति भाषा लक्षणम् । समाधि-स्थः स्थित-प्रज्ञः केन लक्षणेनान्यैर् व्यवह्रियत इत्य् अर्थः ।

स च व्युत्थित-चित्तः स्थित-धीः स्थित-प्रज्ञः स्वयं किं प्रभाषेत ? स्तुति-निन्दादाव् अभिनन्दन-द्वेषादि-लक्षणं किं कथं प्रभाषेत ? सर्वत्र सम्भावनायां लिङ् । तथा किम् आसीतेति व्युत्थित-चित्त-निग्रहाय कथं बहिर् इन्द्रियाणां निग्रहं करोति ? तन्-निग्राहाभाव-काले किं व्रजेत कथं विषयान् प्राप्नोति ? तत्-कर्तृक-भाषणासन-व्रजनानि मूढ-जन-विलक्षणानि कीदृशानीइत्य् अर्थः ।

तद् एवं चत्वारः प्रश्नाः समाधि-स्थे स्थित-प्रज्ञ एकः । व्युत्थिते स्थित-प्रज्ञे त्रय इति । केशवेति सम्बोधयन् सर्वान्तर्यामितया त्वम् एवैतादृशं रहस्यं वक्तुं समर्थो ऽसीति सूचयति ॥५४॥

विश्वनाथः : समाधाव् अचला बुद्धिर् इति श्रुत्वा तत्त्वतो योगिनो लक्षणं पृच्छति स्थित-प्रज्ञस्येति । स्थिता स्थिराचला प्रज्ञ बुद्धिर् यस्येति । का भाषा ? भाष्यते ऽनयेति भाषा लक्षणं किं लक्षणम् इत्य् अर्थः । कीदृशस्य समाधि-स्थस्येति समाधौ स्थास्यतीति । अस्यार्थः - एवं च स्थित-प्रज्ञ इति । समाधि-स्थ इति जीवन्-मुक्तस्य सञ्ज्ञा-द्वयम् । किं प्रभाषेतेति सुख-दुःखयोर् मानापमानयोः स्तुति-निन्दयोः स्नेह-द्वेषयोर् वा समुपस्थितयोः किं प्रभाषेत ? स्पष्टं स्वगतं वा किं वदेद् इत्य् अर्थः । किम् आसीत ? तद् इन्द्रियाणां बाह्य-विषयेषु चलनाभावः कीदृशः ? व्रजेत किम् ? तेषु चलनं वा कीदृशम् इति ॥५४॥

बलदेवः : एवम् उक्तो ऽर्जुनः पूर्व-पद्योक्तस्य स्थित-प्रज्ञस्य लक्षणं ज्ञातुं पृच्छति स्थितेति । स्थित-प्रज्ञे ऽत्र चत्वारः प्रश्नाः - समाधिस्थे एकः, व्युत्थिते तु त्रयः । तथा हि - स्थिता स्थिरा प्रज्ञ धीर् यस्य तस्य समाधि-स्थस्य का भाषा किं लक्षणम् ? भाष्यते ऽनयेति व्युत्पत्तेः । केन लक्षणेन स्थित-प्रज्ञो ऽभिधीयत इत्य् अर्थः । तथा व्युत्थितः स्थित-प्रज्ञः कथं भाषणादीनि कुर्यात् ? तदीयानि तानि पृथग्-जन-विलक्षणानि कीदृशानीत्य् अर्थः । तत्र किं प्रभाषेत ? स्वयोः स्तुति-निन्दयोः स्नेह-द्वेषयोश् च प्राप्तयोर् मुखतः स्वगतं वा किं ब्रूयात् ? किम् आसीत बाह्य-विषयेषु कथम् इन्द्रियाणां निग्रहं कुर्यात् ? व्रजेत किम् ? किं तन्-निग्राहाभावे च कथं विषयानवाप्नुयाद् इत्य् अर्थः । त्रिषु सम्भावनायाम् ॥५४॥


२।५५

श्री-भगवान् उवाच
प्रजहाति यदा कामान् सर्वान् पार्थ मनो-गतान् ।
आत्मन्य् एवात्मना तुष्टः स्थित-प्रज्ञस् तदोच्यते ॥५५॥

श्रीधरः : अत्र च यानि साधकस्य ज्ञान-साधनानि तान्य् एव स्वाभाविकानि सिद्धस्य लक्षणानि । अतः सिद्धस्य लक्षणानि कथयन्न् एवान्तरङ्गानि ज्ञान-साधनान्य् आह यावद् अध्याय-समाप्ति । तत्र प्रथम-प्रश्नस्योत्तरम् आह प्रजहातीति द्वाभ्याम् । मनसि स्थितान् कामान् यदा प्रकर्षेण जहाति । त्यागे हेतुम् आह आत्मनीति । आत्मन्य् एव स्वस्मिन्न् एव परमानन्द-रूपे आत्मना स्वयम् एव तुष्ट इत्य् आत्मारामः सन् यदा क्षुद्र-विषयाभिलाषांस् त्यजति तदा तेन लक्षणेन मुनिः स्थित-प्रज्ञ उच्यते ॥५५॥

मधुसूदनः : एतेषां चतूर्णां प्रश्नानां क्रमेणोत्तरं भगवान् उवाच प्रजहातीति यावद्-अध्याय-समाप्ति । कामान् काम-सङ्कल्पादीन् मनो-वृत्ति-विशेषान् प्रमाण-विपर्यय-विकल्प-निद्रा-स्मृति-भेदेन तन्त्रान्तरे पञ्चधा प्रपञ्चितान् सर्वान् निरवशेषान् प्रकर्षेण कारण-बाधेन यदा जहाति परित्यजति सर्व-वृत्ति-शून्य एव यदा भवति स्थित-प्रज्ञस् तदोच्यते समाधिस्थ इति शेषः । कामानाम् अनात्म-धर्मत्वेन परित्याग-योग्यताम् आह मनोगतान् इति । यदि ह्य् आत्म-धर्माः स्युस् तदा न त्यक्तुं शक्येरन् वह्न्य्-औष्ण्यवत् स्वाभाविकत्वात् । मनसस् तु धर्मा एते । अतस् तत्-परित्यागेन परित्यक्तुअं शक्या एवेत्य् अर्थः ।
ननु स्थित-प्रज्ञस्य मुख-प्रसाद-लिङ्ग-गम्यः सन्तोष-विशेषः प्रतीयते स कथं सर्व-काम-परित्यागे स्याद् इत्य् आह - आत्मन्य् एव परमानन्द-रूपे न त्व् अनात्मनि तुच्छ आत्म्नआ स्वप्रकाश-चिद्-रूपेण भासमानेन न तु वृत्त्या तुष्टः परितृप्तः परम-पुरुषार्थ-लाभात् । तथा च श्रुतिः -

 यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः ।  

अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ [कठु २।३।१४] इति ।

तथा च समाधि-स्थः स्थित-प्रज्ञ एवंविधैर् लक्षण-वाचिभिः शब्दैर् भाष्यत इति प्रथम-प्रश्नस्योत्तरम् ॥५५॥

विश्वनाथः : चतूर्णां प्रश्नानां क्रमेणोत्तरम् आह प्रजहातीति यावद् अध्याय-समाप्तिः । सर्वान् इति कस्मिन्न् अप्य् अर्थे यस्य किञ्चिन् मात्रो ऽपि नाभिलाष इत्य् अर्थः । मनो-गतान् इति कामानाम् आत्म-धर्मत्वेन परित्यागे योग्यता दर्शिता । यदि ते ह्य् आत्म-धर्माः स्युस् तदा तांस् त्यक्तुम् अशक्येरन् वह्नेर् औष्ण्यवद् इति भावः । तत्र हेतुः - आत्मनि प्रत्याहृते मनसि प्राप्तो य आत्मानन्द-रूपस् तेन तुष्टः । तथा च श्रुतिः -

यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि श्रिताः ।
अथ मर्त्यो ऽमृतो भवत्य् अत्र ब्रह्म समश्नुते ॥ [कठु २।३।१४] इति ॥५५॥

बलदेवः : एवं पृष्टो भगवान् क्रमेण चतूर्णां उत्तरम् आह यावद् अध्याय-पूर्तिः । तत्र प्रथमस्याह प्रजहातीत्य् एकेन । हे पार्थ ! यदा मनो-गतान् मनसि स्थितान् कामान् सर्वान् प्रजहाति सन्त्यजति तदा स्थित-प्रज्ञ उच्यते । कामानाम् मनो-धर्मत्वात् परित्यागो युक्तः । आत्म-धर्मत्वे दुःशक्यः स स्याद् वह्न्य्-उष्णतादीनाम् इवेति भावः ।

ननु शुष्क-काष्ठवत् कथं तिष्ठतीति चेत् तत्राह आत्मन्य् एवेति । आत्मनि प्रत्याहृते मनसि भासमानेन स्व-प्रकाशानन्द-रूपेणात्मना स्वरूपेण तुष्टः परितृप्तः क्षुद्र-विषयाभिलाषान् सन्त्यज्यात्मानन्दारामः समाधिस्थः स्थित-प्रज्ञ इत्य् अर्थः ।

 आत्मा पुंसि स्वभावे ऽपि प्रयन्त-मनसोर् अपि ।  
 धृताव् अपि मनीषायां शरीर-ब्रह्मणोर् अपि ॥ इति मेदिनी-कारः ।  

ब्रह्म चात्र जीवेश्वरान्यतरद्-ग्राह्यम् ॥५५॥


२।५६

दुःखेष्व् अनुद्विग्न-मनाः सुखेषु विगत-स्पृहः ।
वीत-राग-भय-क्रोधः स्थित-धीर् मुनिर् उच्यते ॥५६॥

श्रीधरः : किं च दुःखेष्व् इति । दुःखेषु प्राप्तेष्व् अपि अनुद्विग्नम् अक्षुभितं मनो यस्य सः । सुखेषु विगता स्पृहा यस्य सः । तत्र हेतुः - वीता अपगता राग-भय-क्रोधा यस्मात् । तत्र रागः प्रीतिः । स मुनिः स्थित-धीर् उच्यते ॥५६॥

मधुसूदनः : इदानीं व्युत्थितस्य स्थित-प्रज्ञस्य भाषणोपवेशन-गमनानि मूढ-जन-विलक्षणानि व्याख्येयानि । तत्र किं प्रभाषेतेत्य् अस्योत्तरम् आह दुःखेष्व् इति द्व्याभ्याम् । दुःखानि त्रिविधानि शोक-मोह-ज्वर-शिरो-रोगादि-निमित्तान्य् आध्यात्मिकानि व्याघ्र-सर्पादि-प्रयुक्तान्य् आधिभौतिकानि अतिवातातिवृष्ट्य्-आदि-हेतुकान्य् आधिदैविकानि तेषु दुःखेषु रजः-परिणाम-सन्तापात्मक-चित्त-वृत्ति-विशेषेषु प्रारब्ध-पाप-कर्म-प्रापितेषु नोद्विग्नं दुःख-परिहाराक्षमतया व्याकुलं न भवति मनो यस्य सो ऽनुद्विग्न-मनाः । अविवेकिनो हि दुःख-प्राप्तौ सत्याम् अहो पापो ऽहं धिङ् मां दुरात्मानम् एतादृश-दुःख-भागिनं को मे दुःखम् ईदृशं निराकुर्याद् इत्य् अनुतापात्मको भ्रान्ति-रूपस् तामसश् चित्त-वृत्ति-विशेष उद्वेगाख्यो जायते
। यद्य् अयं पापानुष्ठान-समये स्यात् तदा तत्-प्रवृत्ति-प्रतिबन्धकत्वेन सफलः स्यात् । भोग-काले तु भवन् कारणे सति कार्यस्योच्छेत्तुम् अशक्यत्वान् निष्प्रयोजनो दुःख-कारणे सत्य् अपि किम् इति मम दुःखं जायते इति अविवेकज-भ्रम-रूपत्वान् न विवेकिनः स्थित-प्रज्ञस्य सम्भवति । दुःख-मात्रं हि प्रारब्ध-कर्मणा प्राप्यते न तु तद्-उत्तर-कालीनो भ्रमो ऽपि ।

ननु दुःखान्तर-कारणत्वात् सो ऽपि प्रारब्ध-कर्मान्तरेण प्राप्यताम् इति चेत्, न । स्थित-प्रज्ञस्य भ्रमोपादानाज्ञान-नाशेन भ्रमासम्भवआत् तज्-जन्य-दुःख-प्रापक-प्रारब्धाभावात् । यथा-कथञ्चिद् देह-यात्रा-मात्र-निर्वाहक-प्रारब्ध-कर्म-फलस्य भ्रमाभावे ऽपि बाधितानुवृत्त्योपपत्तेर् इति विस्तरेणाग्रे वक्ष्यते ।

तथा सुखेषु सत्त्व-परिणाम-रूप-प्रीत्यात्मक-चित्त-वृत्ति-विशेषेषु त्रिविधेषु प्रारब्ध-पुण्य-कर्म-प्रापितेषु विगत-स्पृह आगामि-तज्-जातीय-सुख-स्पृहा-रहितः । स्पृहा हि नाम सुखानुभव-काले तज्-जातीय-सुखस्य कारणं धर्मम् अननुष्ठाय वृथैव तद्-आकाङ्क्षा-रूपा तामसी चित्त-वृत्तिर् भ्रान्तिर् एव । सा चाविवेकिन एव जायते । न हि कारणाभावे कार्यं भवितुम् अर्हति । अतो यथा सति कारणे कार्यं मा भूद् इति वृथाकाङ्क्षा-रूप उद्वेगो विवेकिनो न सम्भवति तथैवासति कारणे कार्यं भूयाद् इति वृथाकाङ्क्षा-रूपा तृष्णात्मिका स्पृहापि नोपपद्यते प्रारब्ध-कर्मणः सुख-मात्र-प्रापकत्वात् ।

हर्षात्मिका वा चित्त-वृत्तिः स्पृहा-शब्देनोक्ता । सापि भ्रान्तिर् एव । अहो धन्यो ऽहं यस्य ममेदृशं सुखम् उपस्थितं को वा मया तुलस् त्रिभुवने केन वोपायेन ममेदृशं सुखं न विच्छिद्येतेत्य् एवम् आत्मिकोत्फुल्लता-रूपा तामसी चित्त-वृत्तिः । अतएवोक्तं भाष्ये - नाग्निर् इवेन्धनाद्य्-आधाने यः सुखान्य् अनुविवर्धते स विगत-स्पृहः इति । वक्ष्यति च – न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् [गीता ५।२०] इति । सापि न विवेकिनः सम्भवति भ्रान्तित्वात् ।

तथा वीत-राग-भय-क्रोधः । रागः शोभनाध्यास-निबन्धनो विषयेषु रञ्जनात्मकश् चित्त-वृत्ति-विशेषो ऽत्यन्ताभिनिवेश-रूपः । राग-विषयस्य नाशके समुपस्थिते तन्-निवारणासामर्थ्यम् आत्मनो मन्यमानस्य दैन्यात्मकश् चित्त-वृत्ति-विशेषो भयम् । एवं राग-विषय-विनाशके समुपस्थिते तन्-निवारण-सामर्थ्यम् आत्मनो मन्यमानस्याभिज्वलनात्मकश् चित्त-वृत्ति-विशेषः क्रोधः । ते सर्वे विपर्यय-रूपत्वाद् विगता यस्मात् स तथा । एतादृशो मुनिर् मनन-शीलः सन्न्यासी स्थित-प्रज्ञ उच्यते । एवं-लक्षणः स्थित-धीः स्वानुभव-प्रकटनेन शिष्य-शिक्षार्थम् अनुद्वेग-निस्पृहत्वादि-वाचः प्रभाषेत इत्य् अन्वय उक्तः । एवं चान्यो ऽपि मुमुक्षुर् दुःखे नोद्विजेत् सुखे न प्रहृष्येत्, राग-भय-क्रोध-रहितश् च भवेद् इत्य् अभिप्रायः ॥५६॥

विश्वनाथः : किं प्रभाषेतेत्य् अस्य उत्तरम् आह दुःखेषु क्षुत्-पिपास-ज्वर-शिरो-रोगादिष्व् आध्यात्मिकेषु सर्प-व्याघ्राद्य्-उत्थितेष्व् अनुद्विग्न-मनाः प्रारब्धं दुःखम् इदं मयावश्यं भोक्तव्यम् इति स्वगतं केनचित् पृष्टः सन् स्पष्टं च ब्रुवन् । न दुःखेषूद्विजत इत्य् अर्थः । तस्य तादृश-मुख-विक्रियाभाव एवानुद्वेग-लिङ्गं सुधिया गम्यम् । कृत्रिमानुद्वेग-लिङ्गवांस् तु कपटी । सुधिया परिचितो भ्रष्ट एवोच्यत इति भावः । एवं सुखेष्व् अप्य् उपस्थितेषु विगत-स्पृह इति प्रारब्धम् इदम् अवश्य-भोग्यम् इति स्वगतं स्पष्टं च ब्रुवाणस्य तस्य सुख-स्पृहा-राहित्य-लिङ्गं सुधिया गम्यम् एवेति भावः । तत्-तल्-लिङ्गम् एव स्पष्टीकृत्य दर्शयति वीतो विगतो रागो ऽनुरागः सुखेषु बन्धु-जनेषु यस्य सः । यथैवादि-भरतस्य देव्याः
पार्श्वं प्रापितस्य स्वच्छेद-चिकीर्षोर् वृषल-राजान् न भयम् । नापि तत्र क्रोधो ऽभूद् इति ॥५६॥

बलदेवः : अथ व्युत्थितः स्थित-प्रज्ञः किं भाषेतेत्य् अस्योत्तरम् आह दुःखेष्व् इति द्व्याभ्याम् । त्रिविधेष्व् अध्यात्मिकादिषु दुःखेषु समुत्थितेषु सत्स्व् अनुद्विग्न-मनाः प्रारब्ध-फलान्य् अमूनि मयावश्यं भोक्तव्यानीति केनचित् पृष्टः स्वगतं वा ब्रुवन् तेभ्यो नोद्विजत इत्य् अर्थः । सुखेषु चोत्तमाहार-सत्कारादिना समुपस्थितेषु विगत-स्पृहस् तृष्णा-शून्यः प्रारब्धाकृष्टान्य् अमूनि मयावश्य-भोक्तव्यानीति केनचित् पृष्टं स्वगतं वा ब्रुवन् तैर् उपस्थितः प्रहृष्ट-मुखो न भवतीत्य् अर्थः । वीतेति - वीत-रागः कमनीयेषु प्रीति-शून्यः । वीत-भयः विषयापहर्तृषु प्राप्तेषु दुर्लभस्य ममैतानि धर्म्यैर् भवद्भिर् ह्रियन्त इति दैन्य-शून्यः । वीत-क्रोधः तेष्व् एव प्रबलस्य ममैतानि तुच्छैर् भवद्भिः कथम् अपहर्तव्यानीति
क्रोध-शून्यश् च । एवंविधो मुनिर् आत्म-मनन-शीलः स्थित-प्रज्ञ इत्य् अर्थः । इत्थं स्वानुभवं परान् प्रति स्वगतं वा वदन् नौद्वेगो निस्पृहतादि-वचः प्रभाषते इत्य् उत्तरम् ॥५६॥


२।५७

यः सर्वत्रानभिस्नेहस् तत् तत् प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७॥

श्रीधरः : कथं भाषेत इत्य् अस्योत्तरम् आह य इति । यः सर्वत्र पुत्र-मित्रादिष्व् अप्य् अनभिस्नेहः स्नेह-वर्जितः । अतएव बाधितानुवृत्त्या तत् तत् शुभम् अनुकूलं प्राप्य नाभिनन्दति अशुभं प्रतिकूलं प्राप्य न द्वेष्टि न निन्दति । किन्तु केवलम् उदासीन एव भाषते । तस्य प्रज्ञा प्रतिष्ठितेत्य् अर्थः ॥५७॥

मधुसूदनः : किं च । सर्व-देहेषु जीवनादिष्व् अपि यो मुनिर् अनभिस्नेहः, यस्मिन् सत्य् अन्यदीये हानि-वृद्धी स्वस्मिन्न् आरोप्येते स तादृशो ऽन्य-विषयः प्रेमापर-पर्यायस् तामसो वृत्ति-विशेषः स्नेहः सर्व-प्रकारेण तद्-रहितो ऽनभिस्नेहः । भगवति परमात्मनि तु सर्वथाभिस्नेहवान् भवेद् एव । अनात्मन्-स्नेहाभावस्य तद्-अर्थत्वाद् इति द्रष्टव्यम् ।

तत्-तत्-प्रारब्ध-कर्म-परिप्रापितं शुभं सुख-हेतुं विषयं प्राप्य नाभिनन्दति हर्ष-विशेष-पुरःसरं न प्रशंसति । अशुभं दुःख-हेतुं विषयं प्राप्य न द्वेष्टि अन्तर्-असूया-पूर्वकं न निन्दति । अज्ञस्य हि सुख-हेतुर् यः स्व-कलत्रादिः स शुभो विषयस् तद्-गुण-कथनादि-प्रवर्तिका धी-वृत्तिर् भ्रान्ति-रूपाभिनन्दः । स च तामसः, तद्-गुण-कथनादेः पर-प्ररोचनार्थत्वाभावेन व्यर्थत्वात् । एवम् असूयोत्पादनेन दुःख-हेतुः परकीय-विद्या-प्रकर्षादिर् एनं प्रत्यशुभो विषयस् तन्-निन्दादि-प्रवर्तिका भ्रान्ति-रूपा धी-वृत्ति-विशेषः । सो ऽपि तामसः । तन्-निन्दाया निवारणार्थत्वाभावेन व्यर्थत्वात् । ताव् अभिनन्द-द्वेषौ भ्रान्ति-रूपौ तामसौ कथम् अभ्रान्ते शुद्ध-सत्त्वे स्थित-प्रज्ञे सम्भवताम् । तस्माद् विचालकाभावात् तस्यानभिस्नेहस्य
हर्ष-विषाद-रहितस्य मुनेः प्रज्ञा परमात्म-तत्त्व-विषया प्रतिष्ठिता फल-पर्यवसायिनी स स्थित-प्रज्ञ इत्य् अर्थः । एवम् अन्यो ऽपि मुमुक्षुः सर्वत्रानभिस्नेहो भवेत् । शुभं प्राप्य न प्रशंसेत्, अशुभं प्राप्य न निन्देद् इत्य् अभिप्रायः । अत्र च निन्दा-प्रशंसादि-रूपा वाचो न प्रभाषेतेति व्यतिरेक उक्तः ॥५७॥

विश्वनाथः : अनभिस्नेहः सोपाधि-स्नेह-शून्यो दयालुत्वान् निरुपाधिर् ईषन्-मात्र-स्नेहस् तु तिष्ठेद् एव । तत् तत् प्रसिद्धं सम्मान-भोजनादिभ्यः स्व-परिचरणं शुभं प्राप्याशुभम् अनादरणं मुष्टि-प्रहारादिकं च प्राप्य क्रमेण नाभिनन्दति । न प्रशंसति त्वं धार्मिकः परमहंस-सेवी सुखी भवेति न ब्रूते । न द्वेष्टि त्वं पापात्मा नरके पतेति नाभिशपति । तस्य प्रज्ञा प्रतिष्ठिता समाधिं प्रति स्थिता सुस्थिर-प्रज्ञा उच्यत इत्य् अर्थः ॥५७॥

बलदेवः : य इति सर्वेषु प्राणिषु अनभिस्नेह औपाधिक-स्नेह-शून्यः । कारुणिकत्वान् निरुपाधिर् ईषद्-स्नेहस् त्व् अस्त्य् एव । तत् तत् प्रसिद्धं शुभम् उत्तम-भोजन-स्रक्-चन्दनार्पण-रूपं प्राप्य नाभिनन्दति तद्-अर्पकं प्रति धर्मिष्ठस् त्वं चिरं जीवेति न वदति । अशुभम् अपमानं यष्टि-प्रहारादिकं च प्राप्य न द्वेष्टि, पापिष्ठस् त्वं मिर्यस्वेति नाभिशपति । तस्य प्रज्ञेति स स्थित-प्रज्ञ इत्य् अर्थः । अत्र स्तुति-निन्दा-रूपं वचो न भाषत इति व्यतिरेकेण तल् लक्षणम् ॥५७॥


२।५८

यदा संहरते चायं कूर्मो ऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥५८॥

श्रीधरः : किं च यदेति । यदा चायं योगी इन्द्रियार्थेभ्यः शब्दादिभ्यः सकाशाद् इन्द्रियाणि संहरते सर्वत एवं ज्ञान-निष्ठ इन्द्रियाणीनिद्र्यार्थेभ्यः सर्व-विषयेभ्यः उपसंहरते । तस्य प्रज्ञा प्रतिष्ठिता । इत्य् उक्तार्थं वाक्यम् ॥५८॥

मधुसूदनः : इदानीं किम् आसीतेति प्रश्नस्योत्तरं वक्तुम् आरभते भगवान् षड्भिः श्लोकैः । तत्र प्रारब्ध-कर्म-वशाद् व्युत्थानेन विक्षिप्तानीन्द्रियाणि पुनर् उपसंहृत्य समाध्य्-अर्थम् एव स्थित-प्रज्ञस्योपवेशनम् इति दर्शयितुम् आह यदेति । अयं व्युत्थितः सर्वशः सर्वाणीन्द्रियार्थेभ्यः शब्दादिभ्यः सर्वेभ्यः । चः पुनर्-अर्थे । यदा संहरते पुनर् उपसंहरति सङ्कोचयति । तत्र दृष्टान्तः कूर्मो ऽङ्गानीव । तदा तस्य प्रज्ञाः प्रतिष्ठितेति स्पष्टम् । पूर्व-श्लोकाभ्यां व्युत्थान-दशायाम् अपि सकल-तामस-वृत्त्य्-अभाव उक्तः । अधुना तु पुनः समाध्य्-अवस्थायां सकल-वृत्त्य्-अभाव इति विशेषः ॥५८॥

विश्वनाथः : किम् आसीतेत्य् अस्योत्तरम् आह यदेति । इन्द्रियार्थेभ्यः शब्दादिभ्य इन्द्रियाणि श्रोत्रादीनि संहरते । स्वाधीनानाम् इन्द्रियाणां बाह्य-विषयेषु चलनं निषिध्यान्तरेव निश्चलतया स्थापनं स्थित-प्रज्ञस्यासनम् इत्य् अर्थः । तत्र दृष्टान्तः । कूर्मो ऽङ्गानि मुख-नेत्रादीनि यथा स्वान्तर् एव स्वेच्छया स्थापयति ॥५८॥

बलदेवः : अथ किम् आसीतेत्य् अस्योत्तरम् आह यदेत्य् आदिभिः षड्भिर् । अयं योगी यदा चेन्द्रियार्थेभ्यः शब्दादिभ्यः स्वाधीनानीन्द्रियाणि श्रोत्रादीन्य् अनायासेन संहरति समाकर्षति तदा तस्य प्रज्ञा प्रतिष्ठितेत्य् अन्वयः । अत्र दृष्टान्तः कूर्मो ऽङ्गानीवेति । मुख-कर-चरणानि यथानायसेन कमठः संहरति तद्वत् विषयेभ्यः समाकृष्टेन्द्रियाणाम् अन्तः-स्थापनं स्थित-प्रज्ञस्यासनम् ॥५८॥


२।५९

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रस-वर्जं रसो ऽप्य् अस्य परं दृष्ट्वा निवर्तते ॥५९॥

श्रीधरः : ननु नेन्द्रियाणां विषयेष्व् अप्रवृत्तिर् स्थित-प्रज्ञस्य लक्षणं भवितुम् अर्हति । जडानाम् आतुराणाम् उपवास-पराणां च विषयेष्व् प्रवृत्तेर् अविशेषात् । तत्राह विषया इति । इन्द्रियाइर् विषयाणाम् आहरणं ग्रहणम् आहारः । निराहारस्य इन्द्रियाइर् विषय-ग्रहणम् अकुर्वतो देहिनो देहाभिमानिनो ऽज्ञस्य रागो ऽभिलाषस् तद्-वर्जं । अभिलाषस्य न निवर्तत इत्य् अर्थः । यद् वा निराहारस्य उपवास-परस्य विषयाः प्रायशो निवर्तन्ते क्षुधा-सन्तप्तस्य शब्द-स्पर्शाद्य्-अपेक्षाभावात्, किन्तु रस-वर्जं रसापेक्षा तु न निवर्तत इत्य् अर्थः । शेषं समानम् ॥५९॥

मधुसूदनः : ननु मूढस्यापि रोगादि-वशाद् विषयेभ्य इन्द्रियाणाम् उपसंहरणं भवति तत् कथं तस्य प्रज्ञा प्रतिष्ठितेत्य् उक्तम् ? अत आह विषया इति । निराहारस्य इन्द्रियाइर् इन्द्रियाइर् विषयान् अनाहरतो देहिनो देहाभिमानवतो मूढस्यापि रोगिणः काष्ठ-तपस्विनो वा विषयाः शब्दादयो विनिवर्तन्ते किन्तु रस-वर्जं रस-तृष्णा तं वर्जयित्वा । अज्ञस्य विषया निवर्तन्ते तद्-विषयो रागस् तु न निवर्तत इत्य् अर्थः । अस्य तु स्थित-प्रज्ञस्य परं पुरुषार्थं दृष्ट्वा तद् एवाहम् अस्मीति साक्षात्कृत्य स्थितस्य रसो ऽपि क्षुद्र-सुख-रागो ऽपि निवर्तते । अपि-शब्दाद् विषयाश् च । तथा च यावान् अर्थ इत्य् आदौ व्याख्यातम् । एवं च स-राग-विषय-निवृत्तिः स्थित-प्रज्ञ-लक्षणम् इति न मूढे व्यभिचार इत्य् अर्थः । यस्मान् नासति परमात्म-सम्यग्-दर्शने स-राग-विषयोच्छेदस्
तस्मात् स-राग-विषयोच्छेदिकायाः सम्यग्-दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं महता यत्नेन सम्पादयेद् इत्य् अभिप्रायः ॥५९॥

विश्वनाथः : मूढस्यापि उपवासतो रोगादि-वशाद् वेन्द्रियाणां विषयेष्व् अचलनं सम्भवेत् तत्राह विषया इति । रस-वर्जं रसो रागो ऽभिलाषस् तं वर्जयित्वा । अभिलाषस् तु विषयेषु न निवर्तन्त इत्य् अर्थः । अस्य स्थित-प्रज्ञस्य तु परं परमात्मानं दृष्ट्वा विषयेष्व् अभिलाषो निवर्तत इति न लक्षण-व्यभिचारः । आत्म-साक्षात्कार-समर्थस्य तु साधकत्वम् एव, न तु सिद्धत्वम् इति भावः ॥५९॥

बलदेवः : ननु मूढस्यामय-ग्रस्तस्य विषयेष्व् इन्द्रियाप्रवृत्ति-दृष्टा तत् कथम् एतत् स्थित-प्रज्ञस्य लक्षणं तत्राह विषया इति । निराहारस्य रोग-भयाद् भोजनादीन्य् अकुर्वतो मूढस्यापि देहिनो जनस्य विषयास् तद्-अनुभवा विनिवर्तन्ते । किन्तु रसो राग-तृष्णा तद्-वर्जं विषय-तृष्णा तु न निवर्तत इत्य् अर्थः । अस्य स्थित-प्रज्ञस्य तु रसो ऽपि विषय-रागो ऽपि विषयेभ्यः परं स्व-प्रकाशानन्दम् आत्मानं दृष्ट्वानुभूय निवर्तते विनश्यतीति स-राग-विषय-निवृत्तिस् तस्य लक्षणम् इति न व्यभिचारः ॥५९॥


२।६०

यततो ह्य् अपि कौन्तेय पुरुषस्य विपश्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥६०॥

श्रीधरः : इन्द्रिय-संयमं विना स्थित-प्रज्ञता न सम्भवति । अतः साधकावस्थायां तत्र महान् प्रयत्नः कर्तव्य इत्य् आह यततो ह्य् अपीति द्वाभ्याम् । यततो मोक्षार्थं प्रयतमानस्य । विपश्चितो विवेकिनो ऽपि । मन इन्द्रियाणि प्रसभं बलाद् हरन्ति । यतः प्रमाथीनि प्रमथन-शीलानि क्षोभकानीत्य् अर्थः ॥६०॥

मधुसूदनः : तत्र प्रज्ञा-स्थैर्ये बाह्येन्द्रिय-निग्रहो मनो-निग्रहश् चासाधारणं कारणं तद्-उभयाभावे प्रज्ञा-नाश-दर्शनाद् इति वक्तुं बाह्येन्द्रिय-निग्रहाभावे प्रथमं दोषम् आह यतत इति । हे कौन्तेय !

यततो भूयो भूयो विषय-दोष-दर्शनात्मकं यत्नं कुर्वतो ऽपि, चक्षिङो ङित्व-करणाद् अनुदात्तेतो ऽनावश्यकम् आत्मनेपदम् इति ज्ञापनात् परस्मैपदम् अविरुद्धम् । विपश्चितो ऽत्यन्त-विवेकिनो ऽपि पुरुषस्य मनः क्षण-मात्रं निर्विकारं कृतम् अपीन्द्रियाणि हरन्ति विकारं प्रापयन्ति ।

ननु विरोधिनी विवेके सति कुतो विकार-प्राप्तिस् तत्राह प्रमाथीनि प्रमथन-शीलानि अतिबलीयस्त्वाद् विवेकोपमर्दन-क्षमाणि । अतः प्रसभं प्रसह्य बलात्कारेण पश्यत्य् एव विपश्चिति स्वामिनि विवेके च रक्षके सति सर्व-प्रमाथीत्वाद् एवेन्द्रियाणि विवेकज-प्रज्ञायां प्रविष्टं मनस् ततः प्रच्याव्य स्व-विषयाविष्टत्वेन हरन्तीत्य् अर्थः । हि-शब्दः प्रसिद्धिं द्योतयति । प्रसिद्धो ह्य् अयम् अर्थो लोके यथा प्रमाथिनो दस्यवः प्रसभम् एव धनिनं धन-रक्षकं चाभिभूय तयोः पश्यतोर् एव धनं हरन्ति तथेन्द्रियाण्य् अपि विषय-सन्निधाने मनो हरन्तीति ॥६०॥

विश्वनाथः : साधकावस्थायां तु यत्न एव महान्, न त्व् इन्द्रियाणि परावर्तयितुं सर्वथा शक्तिर् इत्य् आह यतत इति । प्रमाथीनि प्रमथन-शीलानि क्षोभकानीत्य् अर्थः ॥६०॥

बलदेवः : अथास्या ज्ञान-निष्ठया दौर्लभ्यम् आह यततो हीति । विपश्चितो विषयात्म-स्वरूप-विवेकज्ञस्य तत इन्द्रिय-जये प्रयतमानस्यापि पुरुषस्य इन्द्रियाणि श्रोत्रादीनि कर्तॄणि मनः परसभं बलाद् इव हरन्ति । हृत्वा विषय-प्रवणं कुर्वन्तीत्य् अर्थः । ननु विरोधिनि विवेक-ज्ञाने स्थिते कथं हरन्ति तत्राह प्रमाथीनीति अति-बलिष्ठत्वात् तज्-ज्ञानोपमर्दन-क्षमाणीत्य् अर्थः । तस्मात् चौरेभ्यो महा-निधेर् इवेन्द्रियेभ्यो ज्ञान-निष्ठायाः संरक्षणं स्थित-प्रज्ञस्यासनम् इति ॥६०॥


२।६१

तानि सर्वाणि संयम्य युक्त आसीत मत्-परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥

श्रीधरः : यस्माद् एवं तस्मात् तानीति । युक्तो योगी तानि इन्द्रियाणि संयम्य मत्-परः सन्न् आसीत । यस्य वशे वशवर्तिनीन्द्रियाणि । एतेन च कथम् आसीतेति प्रश्नस्य वशीकृतेन्द्रियः सन्न् आसीतेति ॥६१॥

मधुसूदनः : एवं तर्हि तत्र कः प्रतीकार इत्य् अत आह तानीति । तानीन्द्रियाणि सर्वाणि ज्ञान-कर्म-साधन-भूतानि संयम्य वशीकृत्य युक्तः समाहितो निगृहीत-मनाः सन्न् आसीत निर्वापारस् तिष्ठेत् । प्रमाथिनां कथं स्व-वशीकरणम् इति चेत् तत्राह मत्-पर इति । अहं सर्वात्मा वासुदेव एव पर उत्कृष्ट उपादेयो यस्य स मत्-पर एकान्त-मद्-भक्त इत्य् अर्थः । तथा चोक्तम् न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् इति । यथा हि लोके बलवन्तं राजानम् आश्रित्य दस्यवो निगृह्यन्ते राजाश्रितो ऽयम् इति ज्ञात्वा च स्वयम् एव तद्-वश्या भवन्ति तथैव भगवन्तं सर्वान्तर्यामिनम् आश्रित्य तत्-प्रभावेणैव दुष्टानीन्द्रियाणि निग्राह्याणि पुनश् च भगवद्-आश्रितो ऽयम् इति मत्वा तानि तद्-वश्यान्य् एव भवन्तीति भावः । यथा च भगवद्-भक्तेर् महा-प्रभावत्वं
तथा विस्तरेणाग्रे व्याख्यास्यामः । इन्द्रिय-वशीकारे फलम् आह वशे हीति । स्पष्टम् । तद् एतद् वशीकृतेन्द्रियः सन्न् आसीतेति किम् आसीतेति प्रश्नस्योत्तरम् उक्तं भवति ॥६१॥

विश्वनाथः : मत्-परो मद्-भक्त इति । मद्-भक्तिं विना नैवेन्द्रिय-जय इत्य् अग्रिम-ग्रन्थे ऽपि सर्वत्र द्रष्टव्यम् । यद् उक्तम् उद्धवेन -

प्रायशः पुण्डरीकाक्ष युञ्जन्तो योगिनो मनः ।
विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः ।
अथात आनन्द-दुघं पदाम्बुजं हंसाः श्रयेरन् ॥ [भ्प् ११।२९।१-२] इति ।

वशे हीति स्थित-प्रज्ञस्येन्द्रियाणि वशीभूतानि भवन्तीति साधकाद् विशेष उक्तः ॥६१॥

बलदेवः : ननु निर्जितेन्द्रियाणाम् अप्य् आत्मानुभवो न प्रतीतस् तत्र को ऽभ्युपाय इति चेत् तत्राह तानीति । तानि सर्वाणि संयम्य मत्-परो मन्-निष्ठः सन् युक्तः कृताम-समाधिर् आसीत तिष्ठेत । मद्-भक्ति-प्रभावेन सर्वेन्द्रिय-विजय-पूर्विका स्वात्म-दृष्टिः सुलभेति भावः । एवं स्मरन्ति -

यथाग्निर् उद्धत-शिखः कक्षं दहति सानिलः ।
तथा चित्त-स्थितो विष्णुर् योगिनां सर्व-किल्बिषम् ॥ [विप् ६।७।७४] इत्य् आदि ।

वशे हीति स्पष्टम् । इत्थं च वशीकृतेन्द्रियतयावस्थितिः किम् आसीतेत्य् अस्योत्तरम् उक्तम् ॥६१॥


२।६२-६३

ध्यायतो विषयान् पुंसः सङ्गस् तेषूपजायते ।
सङ्गात् सञ्जायते कामः कामात् क्रोधो ऽभिजायते ॥६२॥
क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृति-विभ्रमः ।
स्मृति-भ्रंशाद् बुद्धि-नाशो बुद्धि-नाशात् प्रणश्यति ॥६३॥

श्रीधरः : बाह्येन्द्रिय-संयमाभावे दोषम् उक्त्वा मनः-संयमाभावे दोषम् आह ध्यायत इति द्वाभ्याम् । गुण-बुद्ध्या विषयान् ध्यायतः पुंसः तेषु सङ्ग आसक्तिर् भवति । आसक्त्या च तेषु अधिकः कामो भवति । कामाच् च केनचित् प्रतिहतात् क्रोधो भवति । किं च, क्रोधाद् इति । क्रोधात् सम्मोहः कार्याकार्य-विवेकाभावः । ततः शास्त्राचार्योपदिष्ट-स्मृतेर् विभ्रमो विचलनं भ्रंशः । ततो बुद्धेश् चेतनाया नाशः । वृक्षादिष्व् इवाभिभवः । ततः प्रणश्यति मृत-तुल्यो भवति ॥६२-६३॥

मधुसूदनः : निगृहीत-बाह्येन्द्रियस्यापि शब्दादीन्विषयान् ध्यायतो मनसा पुनः पुनश् चिन्तयतः पुंसस् तेषु विषयेषु सङ्ग आसङ्गो ममात्यन्तं सुख-हेतव एत इत्य् एवं शोभनाध्यास-लक्षणः प्रीति-विशेष उपजायते सङ्गात् सुख-हेतुत्व-ज्ञान-लक्षणात् सञ्जायते कामो ममैते भवन्त्व् इति तृष्णा-विशेषः । तस्मात् कामात् कुतश्चित् प्रतिहन्यमानात् तत्-प्रतिघात-विषयः क्रोधो ऽभिज्वलनात्माभिजायते । क्रोधाद् भवति सम्मोहः कार्याकार्य-विवेकाभाव-रूपः । सम्मोहात् स्मृति-विभ्रमः स्मृतेः शास्त्राचार्योपदिष्टार्थानुसन्धानस्य विभ्रमो विचलनं विभ्रंशः । तस्माच् च स्मृति-भ्रंशाद् बुद्धेर् ऐकात्म्याकार-मनो-वृत्तेर् नाशो विपरीत-भावनोपचय-दोषेण प्रतिबन्धाद् अनुत्पत्तिर् उत्पन्नायाश् च फलायोग्यत्वेन विलयः
। बुद्धि-नाशात् प्रणश्यति तस्याश् च फल-भूताया बुद्धेर् विलोपात् प्रणश्यति सर्व-पुरुषार्थायोग्यो भवति । यो हि पुरुषार्थायोग्यो जातः स मृत एवेति लोके व्यवह्रियते । अतः प्रणश्यतीत्य् उक्तम् । यस्माद् एवं मनसो निग्रहाभावे निगृहीत-बाह्येन्द्रियस्यापि परमानर्थ-प्राप्तिस् तरमान् महता प्रयत्नेन मनो निगृह्णीयाद् इत्य् अभिप्रायः । अतो युक्तम् उक्तं तानि सर्वाणि संयम्य युक्त आसीतेति ॥६२-६३॥

विश्वनाथः : स्थित-प्रज्ञस्य मनो-वशीकार एव बाह्येन्द्रिय-वशीकार-कारणं सर्वथा मनो-वशीकाराभावे तु यत् स्यात् तत् शृण्व् इत्य् आह ध्यायत इति । सङ्ग आसक्तिः । आसक्त्या च तेष्व् अधिकः कामो ऽभिलाषः । कामाच् च केनचित् प्रतिहतात् क्रोधः । क्रोधात् सम्मोहः कार्याकार्य-विवेकाभावः । तस्माच् च शास्त्रोपदिष्ट-स्वार्थस्य स्मृति-नाशः । तस्माच् च बुद्धेः सद्-व्यवसायस्य नाशः । ततः प्रणश्यति संसार-कूपे पतति ॥६२-६३॥

बलदेवः : विजितेन्द्रियस्यापि मय्य् अनिवेशित-मनसः पुनर् अनर्थो दुर्वार इत्य् आह ध्यायत इति द्व्याभ्याम् । विषयान् शब्दादीन् सुख-हेतुत्व-बुद्ध्या ध्यायतः पुनः पुनश् चिन्तयतो योगिनस् तेषु सङ्ग आसक्तिर् भवति । सङ्गाद् धेतोस् तेषु काम-तृष्णा जायते । कामाच् च केनचित् प्रतिहतात् क्रोधश् चित्त-ज्वालस् तत्-प्रतिघातको भवति । क्रोधात् सम्मोहः कार्याकार्य-विवेक-विज्ञान-विलोपः । सम्मोहात् स्मृतेर् इन्द्रिय-विजयादि-प्रयत्नानुसन्धेर् विभ्रमो विभ्रंशः । स्मृति-भ्रंशाद् बुद्धेर् आत्म-ज्ञानार्थकस्याध्यवसायस्य नाशः । बुद्धि-नाशात् प्रणश्यति पुनर् विषय-भोग-निमग्नो भवति संसरतीत्य् अर्थः । मदनाश्रयणाद् दुर्बलं मनस् तानि स्व-विषयैर् योजयन्तीति भावः । तथा च मनो-विजिगीषुणा मद्-उपासनं विधेयम् ॥६२-६३॥


२।६४

राग-द्वेष-वियुक्तैस् तु विषयान् इन्द्रियैश् चरन् ।
आत्म-वश्यैर् विधेयात्मा प्रसादम् अधिगच्छति ॥६४॥

श्रीधरः : नन्व् इन्द्रियाणां विषय-प्रवण-स्वभावानां निरोद्धुम् अशक्यत्वाद् अयं दोषो दुष्परिहर इति स्थित-प्रज्ञत्वं कथं स्यात् ? इत्य् आशङ्क्याह राग-द्वेष इति द्वाभ्याम् । राग-द्वेष-रहितैः विगत-दर्पैर् इन्द्रियैः विषयांश् चरन्न् उपभुञ्जानो ऽपि प्रसादं शान्तिं प्राप्नोति । राग-द्वेष-राहित्यम् एवाह आत्मेति । आत्मनो मनसः वश्यैर् इन्द्रियैः विधेयो वशवर्ती आत्मा मनो यस्येति । अनेनैव कथं व्रजेतेत्य् अस्य चतुर्थ-प्रश्नस्य स्वाधीनैर् इन्द्रियैर् विषयान् गच्छतीत्य् उत्तरम् उक्तं भवति ॥६४॥

मधुसूदनः : मनसि निगृहीते तु बाह्येन्द्रिय-निग्रहाभावे ऽपि न दोष इति वदन् किं व्रजेतेत्य् अस्योत्तरम् आहाष्टभिः । यो ऽसमाहित-चेताः स बाह्येन्द्रियाणि निगृह्यापि राग-द्वेष-दुष्टेन मनसा विषयांश् चिन्तयन् पुरुषार्थाद् भ्रष्टो भवति । विधेयात्मा तु तु-शब्धः पूर्वस्माद् व्यतिरेकार्थः । वशीकृतान्तः-करणस् तु आत्म-वश्यैर् मनो ऽधीनैः स्वाधीनैर् इति वा राग-द्वेषाभ्यां वियुक्तैर् विरहितैर् इन्द्रियैः श्रोत्रादिभिर् विषयान् शब्दादीन् अनिषिद्धांश् चरन्न् उपलभमानः प्रसादं प्रसन्नातां चित्तस्य स्वच्छतां परमात्म-साक्षात्कार-योग्यताम् अधिगच्छति । राग-द्वेष-प्रयुक्तानीन्द्रियाणि दोष-हेतुतां प्रतिपद्यन्ते । मनसि स्व-वशे तु न राग-द्वेषौ । तयोर् अभावे च न तद्-अधीनेन्द्रिय-प्रवृत्तिः । अवर्जनीयतया तु विषयोपलम्भो
न दोषम् आवहतीति न शुद्धि-व्याघात इति भावः ।

एतेन विषयाणां स्मरणम् अपि चेद् अनर्थ-कारणं सुतरां तर्हि भोगस् तेन जीवनार्थं विषयान् भुञ्जानः कथम् अनर्थं न प्रतिपद्येतेति शङ्का निरस्ता । स्वाधीनैर् इन्द्रियैर् विषयान् प्राप्नोतीति च किं व्रजेतेति प्रश्नस्योत्तरम् उक्तं भवति ॥६४॥

विश्वनाथः : मानस-विषय-ग्रहणाभावे सति स्व-वश्यैर् इन्द्रियैर् विषय-ग्रहणे ऽपि न दोष इति वदन् स्थित-प्रज्ञो व्रजेत किम् इत्य् अस्योत्तरम् आह रागेति । विधेयो वचने स्थ्त आत्मा मनो यस्य सः ।

 विधेयो विनय-ग्राही वचने स्थित आश्रवः ।  
 वश्यः प्रणयो निभृत-विनीत-प्रश्रिताः ॥ इत्य् अमरः ।  

प्रसादम् अधिगच्छतीत्य् एतादृशस्याधिकारिणो विषय-ग्रहणम् अपि न दोष इति किं वक्तव्यम् ? प्रत्युत गुण एवेति । स्थित-प्रज्ञस्य विषय-त्याग-स्वीकाराव् एव आसन-व्रजने ते उभे अपि तस्य भद्रे इति भावः ॥६४॥

बलदेवः : मनसि निर्जिते श्रोत्रादि-निर्जयाभावो ऽपि न दोष इति ब्रुवन् व्रजेत किम् इत्य् असोत्तरम् आह रागेति आदिभिर् अष्टभिः । विजित-बहिर्-इन्द्रियो ऽपि मद्-अनर्पित-मनाः परमार्थाद् विच्युत इत्य् उक्तम् । यो विधेयात्मा स्वाधीन-मना मद्-अर्पित-मनास् तत एव निदग्ध-रागादि-मनो-मलः स त्व् आत्म-वश्यैर् मनो ऽधीनैर् अत एव राग-द्वेषाभ्यां वियुक्तैर् इन्द्रियैः श्रोत्राद्यैर् विषयान् निषिद्धान् शब्दादींश् चरन् भुञ्जानो ऽपि प्रसादं विषयासक्त्य्-आदि-मलानागमाद् विमल-मनस् तम् अधिगच्छतीत्य् प्राप्नोतीत्य् अर्थः ॥६४॥


२।६५

प्रसादे सर्व-दुःखानां हानिर् अस्योपजायते ।
प्रसन्न-चेतसो ह्य् आशु बुद्धिः पर्यवतिष्ठते ॥६५॥

श्रीधरः : प्रसादे सति किं स्याद् इत्य् अत्राह प्रसाद इति । प्रसादे सति सर्व-दुःख-नाशः । ततश् च प्रसन्न-चेतसो बुद्धिः प्रतिष्ठिता भवतीत्य् अर्थः ॥६५॥

मधुसूदनः : प्रसादम् अधिगच्छतीत्य् उक्तं तत्र प्रसादे सति किं स्याद् इत्य् उच्यते प्रसाद इति । चित्तस्य प्रसादे स्वच्छत्व-रूपे सति सर्व-दुःखानाम् आध्यात्मिकादीनाम् अज्ञान-विलसितानां हानिर् विनाशो ऽस्य यतेर् उपजायते । हि यस्मात् प्रसन्न-चेतसो यतेर् आशु शीघ्रम् एव बुद्धिर् ब्रह्मात्मैक्याकारा पर्यवतिष्ठते परि समन्ताद् अवतिष्ठते स्थिरा भवति विपरीत-भावनादि-प्रतिबन्धाभावात् । ततश् च प्रसादे सति बुद्धि-पर्यवस्थानं ततस् तद्-विरोध्य्-अज्ञान-निवृत्तिः । ततस् तत्-कार्य-सकल-दुःख-हानिर् इति क्रमे ऽपि प्रसादे यत्राधिक्याय सर्व-दुःख-हानि-करत्व-कथनम् इति न विरोधः ॥६५॥

विश्वनाथः : बुद्धिः पर्यवतिष्ठते सर्वतो-भावेन स्वाभीष्टम्प्रति स्थिरी-भवतीति विषय-ग्रहणाभावाद् अपि समुचित-विषय-ग्रहणं तस्य सुखम् इति भावः । प्रसन्न-चेतसो इति चित्त-प्रसादो भक्त्यैवेति ज्ञेयम् । तया विना तु न चित्त-प्रसाद इति प्रथम-स्कन्ध एव प्रपञ्चितम् । कृत-वेदान्त-शास्त्रस्यापि व्यासस्याप्रसन्न-चित्तस्य श्री-नारदोपदिष्टया भक्त्यैव चित्त-प्रसाद-दृष्टेः ॥६५॥

बलदेवः : प्रसादे सति किं स्याद् इत्य् आह अस्य योगिनो मनः प्रसादे सति सर्वेषां प्रकृति-संसर्ग-कृतानां दुःखानां हानिर् उपजायते । प्रसन्न-चेतसः स्वात्म-याथात्म्य-विषया बुद्धिः पर्यवतिष्ठते स्थिरा भवति ॥६५॥


२।६६

नास्ति बुद्धिर् अयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिर् अशान्तस्य कुतः सुखम् ॥६६॥

श्रीधरः : इन्द्रिय-निग्रहस्य स्थित-प्रज्ञता-साधनत्वं व्यतिरेक-मुखेनोपपादयति नास्तीति । अयुक्तस्य अवशी-कृतेन्द्रियस्य नास्ति बुद्धिः । शास्त्राचार्योपदेशाभ्याम् आत्म-विषया बुद्धिः प्रज्ञैव नोत्पद्यते । कुतस् तस्याः प्रतिष्ठा-वार्ता । कुत इत्य् अत्राह न चेति । न चायुक्तस्य भावना ध्यानम् । भावनया हि बुद्धेर् आत्मनि प्रतिष्ठा भवति, सा च अयुक्तस्य यतो नास्ति । न चाभावयतः आत्म-ध्यानम् अकुर्वतः शान्तिः आत्मनि चित्तोपरमः । अशान्तस्य कुतः सुखम् मोक्षानन्द इत्य् अर्थः ॥६६॥

मधुसूदनः : इमम् एवार्थं व्यतिरेक-मुखेन द्रढयति नास्तीति । अयुक्तस्याजित-चित्तस्य बुद्धिर् आत्म-विषया श्रवण-मननाख्य-वेदान्त-विचार-जन्या नास्ति नोत्पद्यते । तद्-बुद्ध्य्-अभावे न चायुक्तस्य भावना निदिध्यासनात्मिका विजातीय-प्रत्ययानन्तरितसजातीय-प्रत्यय-प्रवाह-रूपा । सर्वत्र नञो ऽस्तीत्य् अनेनान्वयः । न चाभावयत आत्मानं शान्तिः सकार्याविद्या-निवृत्ति-रूपा वेदान्त-वाक्य-जन्या ब्रह्मात्मैक्य-साक्षात्-कृतिः । अशान्तस्यात्म-साक्षात्कार-शून्यस्य कुतः सुखं मोक्षानन्द इत्य् अर्थः ॥६६॥

विश्वनाथः : उक्तम् अर्थं व्यतिरेक-मुखेन द्रढयति नास्तीति । अयुक्तस्यावशीकृत-मनसो बुद्धिर् आत्म-विषयिणी प्रज्ञा नास्ति । अयुक्तस्य तादृश-प्रज्ञा-रहितस्य भावना परमेश्वर-ध्यानं च । अभावयतो ऽकृत-ध्यानस्य शान्तिर् विषयोपरमो नास्ति । अशान्तस्य सुखम् आत्मानन्दः ॥६६॥

बलदेवः : पूर्वोक्तम् अर्थं व्यतिरेक-मुखेनाह अयुक्तस्यायोगिनो मद्-अनिवेशित-मनसो बुद्धिर् उक्त-लक्षणा नास्ति न भवति । अतएव तस्य भावना तादृग्-आत्म-चिन्तापि नास्ति । तादृशम् आत्मानम् अभावयतः शान्तिर् विषय-तृष्णा-निवृत्तिर् नास्ति । अशान्तस्य तत्-तृष्णाकुलस्य सुखम् स्व-प्रकाशानन्दात्मानुभव-लक्षणं कुतः स्यात् ॥६६॥


२।६७

इन्द्रियाणां हि चरतां यन् मनो ऽनुविधीयते ।
तद् अस्य हरति प्रज्ञां वायुर् नावम् इवाम्भसि ॥६७॥

श्रीधरः : नास्ति बुद्धिर् अयुक्तस्य [गीता २।६६] इत्य् अत्र हेतुम् आह इन्द्रियाणाम् इति । इन्द्रियाणाम् अवशीकृतानां स्वैरं विषयेषु चरतां मध्ये यदैवैकम् इन्द्रियं मनो ऽनुविधीयते ।वशीकृतं सद्-इन्द्रियेण सह गच्छति, तदैवैकम् इन्द्रियस्य मनसः पुरुषस्य वा प्रज्ञां बुद्धिं हरति विषय-विक्षिप्तां करोति । किम् उत वक्तव्यं बहूनि प्रज्ञां हरन्तीति । यथा प्रमत्तस्य कर्णधारस्य नावं वायुः सर्वतः परिभ्रमयति तद्वद् इति ॥६७॥

मधुसूदनः : अयुक्तस्य कुतो नास्ति बुद्धिर् इत्य् अत आह इन्द्रियाणाम् इति । चरतां स्व-विषयेषु स्व-स्व-विषयेषु प्रवर्तमानानाम् अवशीकृतानाम् इन्द्रियाणां मध्ये यद् एकम् अपीन्द्रियम् अनुलक्ष्यीकृत्य मनो विधीयते प्रेर्यते प्रवर्तते इति यावत् । कर्म-कर्तरि ल-कारः । तत् इन्द्रियम् एकम् अपि मनसानुसृतम् अस्य साधकस्य मनसो वा प्रज्ञाम् आत्म-विषयां शास्त्रीयां हरति अपनयति मनसस् तद्-विषयाविष्टत्वात् । यदैकम् अपीन्द्रियं प्रज्ञां हरति तदा सर्वाणि हरन्तीति किम् उ वक्तव्यम् इत्य् अर्थः ।

दृष्टान्तस् तु स्पष्टः । अभ्यस्येति वायोर् नौका-हरण-सामर्थ्यं न भुवीति सूचयितुम् अम्भसीत्य् उक्तम् । एवं दार्ष्टान्तिके ऽप्य् अम्भः-स्थानीये मनश् चाञ्चल्ये सत्य् एव प्रज्ञा-हरण-सामर्थ्यम् इन्द्रियस्य न तु भू-स्थानीये मनः-स्थैर्य इति सूचितम् ॥६७॥

विश्वनाथः : अयुक्तस्य बुद्धिर् नास्तीत्य् उपपादयति इन्द्रियाणां स्व-स्व-विषयेषु चरतां मध्ये यन् मम एकम् इन्द्रियम् अनुविधीयते । पुंसां सर्वेन्द्रियानुवर्तिः क्रियते, तद् एव मनो ऽस्य प्रज्ञां बुद्धिं हरति । यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः ॥६७॥

बलदेवः : मन्-निवेशित-मनस्कतयेइन्द्रिय-नियमनाभावे दोषम् आह इन्द्रियाणाम् इति । विषयेषु चरताम् अविजितानाम् इन्द्रियाणां मध्ये यद् एकं श्रोत्रं वा चक्षुर् वानुलक्ष्यीकृत्य मनो विधीयते प्रवर्तते, तद् एकम् एवेन्द्रियं मनसानुगतम् अस्य प्रवर्तकस्य प्रज्ञां विविक्तात्म-विषयां हरत्य् अपनयति मनससस् तद्-विषयाकृष्टत्वात् । किं पुनः ? सर्वाणि तानीति । प्रतिकूलो वायुर् यथाम्भसि नीयमानां नावं तद्वत् ॥६७॥


२।६८

तस्माद् यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस् तस्य प्रज्ञा प्रतिष्ठिता ॥६८॥

श्रीधरः : इन्द्रिय-संयमस्य स्थित-प्रज्ञत्वे साधनत्वं चोक्तम् उपसंहरति तस्माद् इति । साधनत्वोपसंहारे तस्य प्रज्ञा प्रतिष्ठिता ज्ञातव्येत्य् अर्थः । महाबाहो ! इति सम्बोधयन् वैरि-निग्रहे समर्थस्य तवात्रापि सामर्थ्यं भवेद् इति सूचयति ॥६८॥

मधुसूदनः : हि यस्माद् एवं तस्माद् इति । सर्वशः सर्वाणि समनस्कानि । हे महाबाहो इति सम्बोधयन् सर्व-शत्रु-निवारण-क्षमत्वाद् इन्द्रिय-शत्रु-निवारणे ऽपि त्वं क्षमो ऽसीति सूचयति । स्पष्टम् अन्यत् । तस्येति सिद्धस्य साधकस्य च परामर्शः । इन्द्रिय-संयमस्य स्थित-प्रज्ञं प्रति लक्षणत्वस्य मुमुक्षुं प्रति प्रज्ञा-साधनत्वस्य चोपसंहरणीयत्वात् ॥६८॥

विश्वनाथः : यस्य निगृहीत-मनसः । हे महा-बाहो ! इति यथा शत्रून् निगृह्णासि, तथा मनो ऽपि निगृहाणेति भावः ॥६८॥

बलदेवः : तस्माद् इति । यस्य मन्-निष्ठ-मनसः प्रतिष्ठितात्म-निष्ठा भवति । हे महाबाहो इति यथा रिपून् निगृह्णासि तथेन्द्रियाणि निगृहाणेत्य् अर्थः । एभिः श्लोकैर् भगवन्-निविष्टतयेन्द्रिय-विजयः स्थित-प्रज्ञस्य सिद्धस्य स्वाभाविकः । साधकस्य तु साधन-भूत इति बोध्यम् ॥६८॥


२।६९

या निशा सर्व-भूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥६९॥

श्रीधरः : ननु न कश्चिद् अपि प्रसुप्त इव दर्शनादि-व्यापार-शून्यः सर्वात्मना निगृहीतेन्द्रियो लोके दृश्यते । अतो ऽसक्तावितम् इदं लक्षणम् इत्य् आशङ्क्याह या निशेति । सर्वेषां भूतानां या निशा । निशेव निशा आत्म-निष्ठा । अज्ञान-ध्वान्तावृत-मतीनां तस्यां दर्शनादि-व्यापाराभावात् । तस्यां आत्म-निष्ठायां संयमी निगृहीतेन्द्रियो जाग्रति प्रबुध्यन्ते । सात्म-तत्त्वं पश्यतो मुनेर् निशा । तस्यां दर्शनादि-व्यापारस् तस्य नास्ति इत्य् अर्थः । एतद् उक्तं भवति - यथा दिवान्धानाम् उलुकादीनां रात्राव् एव दर्शनं न तु दिवसे । एवं ब्रह्मज्ञस्योन्मीलिताक्षस्यापि ब्रह्मण्य् एव दृष्टिः । न तु विषयेषु । अतो नासम्भावितम् इदं लक्षणम् इति ॥६९॥

मधुसूदनः : तद् एवं मुमुक्षुणा प्रज्ञा-स्थैर्याय प्रयत्न-पूर्वकम् इन्द्रिय-संयमः कर्तव्य इत्य् उक्तं स्थित-प्रज्ञस्य तु स्वतः सिद्ध एव सर्वेन्द्रिय-संयम इत्य् आह या निशेति । या वेदान्त-वाक्य-जनित-साक्षात्कार-रूपाहं ब्रह्मास्मीति प्रज्ञा सर्व-भूतानाम् अज्ञानां निशेव निशा तान् प्रत्य् अप्रकाश-रूपत्वात् । तस्यां ब्रह्म-विद्या-लक्षणायां सर्व-भूत-निशायां जागर्ति अज्ञान-निद्रायाः प्रबुद्धः सन् सावधानो वर्तते संयमीन्द्रिय-संयमवान् स्थित-प्रज्ञ इत्य् अर्थः । यस्यां तु द्वैत-दर्शन-लक्षणायाम् अविद्या-निद्रायां प्रसुप्तान्य् एव भूतानि जाग्रति स्वप्नवद् व्यवहरन्ति सा निशा न प्रकाशत आत्म-तत्त्वं पश्यतो ऽपरोक्षतया मुनेः स्थित-प्रज्ञस्य । यावद् धि न प्रबुध्यते तावद् एव स्वप्न-दर्शनं बोध्य-पर्यन्तत्वाद् भ्रमस्य तत्त्व-ज्ञान-काले
तु न भ्रम-निमित्तः कश्चिद् व्यवहारः । तद् उक्तं वार्तिक-कारैः -

कारक-व्यवहारे हि शुद्धं वस्तु न वीक्ष्यन्ते ।
शुद्धे वस्तुनि सिद्धे च कारक-व्यापृतिस् तथा ॥
काकोलूक-निशेवायं संसारो ऽज्ञात्म-वेदिनोः ।
या निशा सर्व-भूतानाम् इत्य् अवोचत् स्वयं हरिः ॥ इति ।

तथा च यस्य विपरीत-दर्शनं तस्य न वस्तु-दर्शनं विपरीत-दर्शनस्य वस्त्व्-अदर्शन-जन्यत्वात् । यस्य च वस्तु-दर्शनं तस्य न विपरीत-दर्शनं विपरीत-दर्शन-कारणस्य वस्त्व्-अदर्शनस्य वस्तु-दर्शनेन बाधितत्वात् । तथा च श्रुतिः - यत्र वा अन्यद् इव स्यात् तत्रान्यो ऽन्यत् पश्येत् । यत्र स्वस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येत् ॥ इति विद्याविद्ययोर् व्यवस्थाम् आह । यथा काकस्य रात्र्य्-अन्धस्य दिनम् उलूकस्य दिवान्धस्य निशा रात्रौ पश्यतश् चोलूकस्य यद् दिनं रात्रिर् एव सा काकस्येति महद् आश्चर्यम् एतत् । अतस् तत्त्व-दर्शिभिः कथम् आविद्यक-क्रिया-कारकादि-व्यवहारः स्याद् इति स्वतः सिद्ध एव तस्येन्द्रिय-संयम इत्य् अर्थः ॥६९॥

विश्वनाथः : स्थित-प्रज्ञस्य तु स्वतः-सिद्ध एव सर्वेन्द्रिय-निग्रह इत्य् आह येति । बुद्धिर् हि द्विविधा भवति आत्म-प्रवणा विषय-प्रवणा च । तत्र या आत्म-प्रवणा बुद्धिः सा सर्व-भूतानां निशा । निशायां किं किं स्याद् इति तस्यां स्वपन्तो जना यथा न जानन्ति, तथैव आत्म-प्रवण-बुद्धौ प्राप्यमाणं वस्तु सर्व-भूतानि न जानन्ति । किन्तु तस्यां संयमी स्थित-प्रज्ञो जागर्ति । न तु स्वपिति । अत आत्म-बुद्धि-निष्ठम् आनन्दं साक्षाद् अनुभवति । यस्यां विषय-प्रवणायां बुद्धौ भूतानि जाग्रति, तन्-निष्ठं विषय-सुख-शोक-मोहादिकं साक्षाद् अनुभवन्ति न तु तत्र स्वपन्ति । सा मुनेः स्थित-प्रज्ञस्य निशा तन्-निष्ठं किम् अपि नानुभवति इत्य् अर्थः । किन्तु पश्यतः सांसारिकानां सुख-दुःख-प्रदान् विषयान् तत्रौदासीन्येनावलोकयतः स्वभोग्यान्
विषयान् अपि यथोचितं निर्लेपम् आददानस्येत्य् अर्थः ॥६९॥

बलदेवः : साधकावस्थस्य स्थित-प्रज्ञस्येन्द्रिय-संयमः प्रयत्न-साध्य इत्य् उक्तम् । सिद्धावस्थस्य तु तस्य तन्-नियमः स्वाभाविक इत्य् आह या निशेति । विविक्तात्म-निष्ठा विषय-निष्ठा चेति बुद्धिर् द्विविधा । यात्म-निष्ठा बुद्धिः सर्व-भूतानां निशा-रूपकेणोपमात्र व्यज्यते रात्रि-तुल्या तद्वद् अप्रकाशिका । रात्राव् इवात्म-निष्ठायां बुद्धौ स्वपन्तो जनास् तल्-लभ्यम् आत्मानं सर्वे नानुभवन्तीत्य् अर्थः । संयमी जितेन्द्रियस् तु तस्यां जागर्ति न तु स्वपिति । तया लभ्यम् आत्मानम् अनुभवतीत्य् अर्थः । यस्यां विष्य-निष्ठायां बुद्धौ भूतानिओ जाग्रति विषय-भोगान् अनुभवन्ति न तु तत्र स्वपन्ति सा मुनेः स्थित-प्रज्ञस्य निशा । तस्य विषय-भोगाप्रकाशिकेत्य् अर्थः । कीदृशस्येत्य् आह पश्यत इति । आत्मानं साक्षाद् अनुभवतः प्रारब्धआकृष्टान् विषयान्
अप्य् औदासीन्येन भुञ्जानस्य चेत्य् अर्थः । नर्तकी-मूर्ध-घटावधान-न्यायेनात्म-दृष्टेर् न तद्-अन्य-रस-ग्रह इति भावः ।


२।७०

आपूर्यमाणम् अचल-प्रतिष्ठं
समुद्रम् आपः प्रविशन्ति यद्वत् ।
तद्वत् कामा यं प्रविशन्ति सर्वे
स शान्तिम् आप्नोति न काम-कामी ॥७०॥

श्रीधरः : ननु विषयेषु दृष्ट्य्-अभावे कथम् असौ तान् भुङ्क्ते इत्य् अपेक्षायाम् आह आपूर्यमाणम् इति । नाना-नद-नदीन्भिर् आपूर्यमाणम् अपि अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादम् एव समुद्रं पुनर् अपि अन्या आपो यथा प्रविशन्ति तथा कामा विषया यं मुनिम् अन्तर्-दृष्टिं भोगैर् अविक्रियमाणम् एव प्रारब्ध-कर्मभिर् आक्षिप्ताः सन्तः प्रविशन्ति स शान्तिम् कैवल्यं प्राप्नोति । न तु काम-कामी भोग-कामना-शीलः ॥७०॥

मधुसूदनः : एतादृशस्य स्थित-प्रज्ञस्य सर्व-विक्षेप-शान्तिर् अप्य् अर्थ-सिद्धेति स-दृष्टान्तम् आह आपूर्यमाणम् इति । सर्वाभिर् नदीभिर् आपूर्यमाणं सन्तं वृष्ट्य्-आदि-प्रभवा अपि सर्वा आपः समुद्रं प्रविशन्ति । कीदृशम् अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादम् । अचलानां मैनाकादीनां प्रतिष्ठा यस्मिन्न् इति वा गाम्भीर्यातिशय उक्तः । यद्वद् येन प्रकारेण निर्विकारत्वेन तद्वत् तेनैव निर्विकारत्व-प्रकारेण यं स्थित-प्रज्ञं निर्विकारम् एव सन्तं कामा अज्ञैर् लोकैः काम्यमानाः शब्दाद्याः सर्वे विषया अवर्जनीयतया प्रारब्ध-कर्म-वशात् प्रविशन्ति न तु विकर्तुं शक्नुवन्ति स महा-समुद्र-स्थानीयः स्थित-प्रज्ञः शान्तिं सर्व-लौकिकालौकिक-कर्म-विक्षेप-निवृत्तिं बाधितानुवृत्ताविद्या-कार्य-निवृत्तिं चाप्नोति ज्ञान-बलेन
। न काम-कामी कामान् विषयान् कामयितुं शीलं यस्य स काम-काम्य् अज्ञः शान्तिं समाख्यातां नाप्नोति । अपि तु सर्वदा लौकिकालौकिक-कर्म-विक्षेपेण महति क्लेशार्णवे मग्नो भवतीति वाक्यार्थः । एतेन ज्ञानिन एव फल-भूतो विद्वत्-सन्न्यासस् तस्यैव च सर्व-विक्षेप-निवृत्ति-रूपा जीवन्-मुक्तिर् दैवाद्ध्नीन-विषय-भोगे ऽपि निर्विकारतेत्य्-आदिकम् उक्तं वेदितव्यम् ॥७०॥

विश्वनाथः : विषय-ग्रहणे क्षोभ-राहित्यम् एव निर्लेपेत्य् आह आपूर्यमाणम् इति । यथा वर्षासु इतस् ततः नादेया आपः समुद्रं प्रविशन्ति कीदृशम् । आ ईषद् अपि आपूर्यमाणम् तावतीभिर् अप्य् अद्भिः पूरयितुं न शक्यम् । अचल-प्रतिष्ठम् अनतिक्रान्त-मर्यादं तद्वद् एव कामा विषया यं प्रविशन्ति भोग्यत्वेनायान्ति । यथा अपां प्रवेशे अप्रवेशे वा समुद्रो न कम् अपि विशेषम् आपद्यते । एवम् एव यः कामानां भोगे अभोगे च क्षोभ-रहित एव स्यात् स स्थित-प्रज्ञः । शान्तिं ज्ञानम् ॥७०॥

बलदेवः : उक्तं भावं स्फुटयन्न् आह आपूर्येति । स्वरूपेणैवापूर्यमाणं तथाप्य् अचल-प्रतिष्ठम् अनुल्लङ्घित-वेलं समुद्रं यथापो ऽन्या वर्षोद्भवा नद्यः प्रविशन्ति, न तु तत्र किञ्चिद् विशेषं शक्नुवन्ति कर्तुम्, तद्वत् सर्वे कामाः प्रारब्धाकृष्टा विषया यं प्रविशन्ति न तु विकर्तुं प्रभवन्ति स शान्तिम् आप्नोति । शब्दादिषु तद् इन्द्रिय-गोचरेष्व् अपि सत् स्वात्मानन्दानुभव-तृप्तैर् विकार-लेशम् अप्य् अविन्दन् स्थित-प्रज्ञ इत्य् अर्थः । यः काम-कामी विषय-लिप्सुः स तूक्त-लक्षणां शान्तिं नाप्नोति ॥७०॥


२।७१

विहाय कामान् यः सर्वान् पुमांश् चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति ॥७१॥

श्रीधरः : यस्माद् एवं तस्मात् विहायेति । प्राप्तान् कामान् विहाय त्यक्त्वोपेक्ष्य अप्राप्तेषु च निःस्पृहः यतो निरहङ्कारो ऽतएव तद्-भोग-साधनेषु निर्ममः सन्न् अन्तर्-दृष्टिर् भूत्वा यश् चरति प्रारब्ध-वशेन भोगान् भुङ्क्ते । यत्र कुत्रापि गच्छति वा । स शान्तिम् प्राप्नोति ॥७१॥

मधुसूदनः : यस्माद् एवं तस्मात् विहायेति । प्राप्तान् अपि सर्वान् बाह्यान् गृह-क्षेत्रादीनान्तरान् मनोराज्य-रूपान् वासना-मात्र-रूपांश् च पथि गच्छंस् तृण-स्पर्श-रूपान् कामांस् त्रिविधान् विहायोपेक्ष्य शरीर-जीवन-मात्रे ऽपि निस्पृहः सन् । यतो निरहङ्कार शरीरेन्द्रियादाव् अयम् अहम् इत्य् अभिमान-शून्यः । विद्यावत्त्वादि-निमित्तात्म-सम्भावना-रहित इति वा । अतो निर्ममः शरीर-यात्रा-मात्रार्थे ऽपि प्रारब्ध-कर्माक्षिप्ते कौपीनाच्छादनादौ ममेदम् इत्य् अभिमान-वर्जितः सन् यः पुमांश् चरति प्रारब्ध-कर्म-वशेन भोगान् भुङ्क्ते यादृच्छिकतया यत्र क्वापि गच्छतीति वा । स एवम्भूतः स्थित-प्रज्ञः शान्तिं सर्व-संसार-दुःखोपरम-लक्षणाम् अविद्या-तत्-कार्य-निवृत्तिम् अधिगच्छति ज्ञान-बलेन प्राप्नोति । तद् एतद् ईदृशं व्रजनं
स्थित-प्रज्ञस्येति चतुर्थ-प्रश्नस्योत्तरं परिसमाप्तम् ॥७१॥

विश्वनाथः : कश्चित् तु कामेषु अविश्वसन् नैव तान् भुङ्क्ते इत्य् आह । विहायेति निरहङ्कारो निर्मम इति देह-दैहिकेषु अहन्ता-ममता-शून्यः ॥७१॥

बलदेवः : विहायेति । प्राप्तान् कामान् विषयान् सर्वान् विहाय शरीरोपजीवन-मात्रे ऽपि निर्ममो मन्ता-शून्यः निरहङ्कारो ऽनात्मनि शरीरे आत्माभिमान-शून्यश् चरति तद्-उपजीवन-मात्रं भक्षयति यत्र क्वापि गच्छति वा स शान्तिं लभते इति व्रजेत किम् इत्य् अस्योत्तरम् ॥७१॥


२।७२

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्याम् अन्त-काले ऽपि ब्रह्म-निर्वाणम् ऋच्छति ॥७२॥

श्रीधरः : उक्तां ज्ञान-निष्ठां स्तुवन्न् उपसंहरति एषेति । ब्राह्मी स्थितिर् ब्रह्म-ज्ञान-निष्ठा । एषैवंविधा । एनां परमेश्वराराधनेन विशुद्धान्तःकरणः पुमान् प्राप्य न विमुह्यति । पुनः संसार-मोहं न प्राप्नोति । यतो ऽन्त-काले मृत्यु-समये ऽप्य् अस्यां लक्ष-मात्रम् अपि स्थित्वा ब्रह्म-निर्वाणम् ब्रह्मणि निर्वाणं लयम् ऋच्छति प्राप्नोति । किं पुनर् वक्तव्यं बाल्यम् आरभ्य स्थित्वा प्राप्नोतीति ॥७२॥

शोक-पङ्क-निमग्नं यः साङ्ख्य-योगोपदेशतः ।
उज्जहारार्जुनं भक्तं स कृष्ण-शरणं मम ॥

इति श्री-श्रीधर-स्वामिकृतायां भगवद्-गीता-टीकायां सुबोधिन्यां
द्वितीयो ऽध्यायः
॥२॥

मधुसूदनः : तद् एवं चतुर्णां प्रश्नानाम् उत्तर-व्याजेन सर्वाणि स्थित-प्रज्ञ-लक्षणानि मुमुक्षु-कर्तव्यतया कथितानि । सम्प्रति कर्म-योग-फल-भूतां साङ्ख्य-निष्ठां स्तुवन्न् उपसंहरति एषेति । एषा स्थित-प्रज्ञ-लक्षण-व्याजेन कथिता । एषा ते ऽभिहिता साङ्ख्ये बुद्धिर् इति च प्राग् उक्ता स्थितिर् निष्ठा सर्व-कर्म-सन्न्यास-पूर्वक-परमात्म-ज्ञान-लक्षणा ब्राह्मी ब्रह्म-विषया । हे पार्थ ! एनां स्थितिं प्राप्य यः कश्चिद् अपि प्नर् न विमुह्यति । न हि ज्ञान-बाधितस्याज्ञानस्य पुनः सम्भवो ऽस्ति अनादित्वेनोत्पत्त्य्-असम्भवात् । अस्यां स्थिताव् अन्त-काले ऽपि अन्त्ये ऽपि वअयसि स्थित्वा ब्रह्म-निर्वाणं ब्रह्मणि निर्वाणं निर्वृत्तिं ब्रह्म-रूपं निर्वाणम् इति वा । ऋच्छति गच्छत्य् अभेदेन । किम् उ वक्तव्यं यो ब्रमचर्याद् एव सन्न्यस्य यावज्-जीवम् अस्यां ब्राह्म्यां
स्थिताव् अवतिष्ठते स ब्रह्म-निर्वाणम् ऋच्छतीत्य् अपि-शब्दार्थः ॥७२॥

इति श्रीमत्-परमहंस-परिव्राजकाचार्य-श्री-विश्वेश्वर-सरस्वती-पाद-शिष्य-श्री-मधुसूदन-सरस्वती-विरचितायां श्रीमद्-भगवद्-गीता-गूढार्थ-दीपिकायाम् सर्व-गीतार्थ-सूत्रणं नाम
द्वितीयो ऽध्यायः ॥२॥

विश्वनाथः : उपसंहरति एषेति । ब्राह्मी ब्रह्म-प्रापिका । अन्त-काले मृत्यु-समये ऽपि । किं पुनर् आबाल्यम् ॥७२॥

ज्ञानं कर्म च विस्पष्टम् अस्पष्टं भक्तिम् उक्तवान् ।
अतएवायम् अध्यायः श्री-गीता-सूत्रम् उच्यते ॥
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
श्री-गीतासु द्वितीयो ऽयं सङ्गतः सङ्गतः सताम् ॥२॥

बलदेवः : स्थित-प्रज्ञतां स्तौति एषेति । ब्राह्मी ब्रह्म-प्रापिका । अन्त-काले चरमे वयसि । किं पुनर् आकौमारं ब्रह्म ऋच्छति लभते । निर्वाणम् अमृत-रूपं तत् प्रदम् इत्य् अर्थः । ननु तस्यां स्थितः कथं ब्रह्म प्राप्नोति । तत्-प्राप्तेस् तद्-भक्ति-हेतुकत्वाद् इति चेद् उच्यते । तस्यास् तद्-भक्ति-हेतुकत्वात् तद्-भक्ति-हेतुत्वाच् च तत्-प्रापकतेति ॥७२॥
निष्काम-कर्मभिर् ज्ञानी हरिम् एव स्मरन् भवेत् ।
अन्यथा विघ्न एवेति द्वितीयो ऽध्याय-निर्णयः ॥

इति श्रीमद्-भगवद्-गीतोपनिषद्-भाष्ये द्वितीयो ऽध्यायः ।
॥२॥

[*एन्द्नोते] ओन्ल्य् फ़ोउन्द् इन् मनु।
[*एन्द्नोते] थिस् इस् अ रेफ़ेरेन्चे तो छप्तेर् ११।२५। सेए व्च्त् तो १८।२८।