१।१
धृतराष्ट्र उवाच
धर्म-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश् चैव किम् अकुर्वत सञ्जय ॥१॥
श्रीधरः -
शेषाशेष-मुख-व्याख्या-चातुर्यं त्व् एक-वक्त्रतः ।
दधानम् अद्भुतं वन्दे परमानन्द-माधवम् ॥
श्री-माधवं प्रणम्यो माधवं विश्वेशम् आदरात् ।
तद्-भक्ति-यन्त्रितः कुर्वे गीता-व्याख्यां सुबोधिनीम् ॥
भाष्य-कार-मतं सम्यक् तद्-व्याख्यातृ-गिरस् तथा ।
यथामति समालोच्य गीता-व्याख्यां समारभे ॥
गीता व्याख्यायते यस्याः पाठ-मात्र-प्रयत्नतः ।
सेयं सुबोधिनी टीका सदा ध्येया मनीषिभिः ॥
इह खलु सकल-लोक-हितावतारः परम-कारुणिको भगवान् देवकी-नन्दनस् तत्त्वाज्ञान-विजृम्भित-शोक-मोह-भ्रंशित-विवेकतया निज-धर्म-परित्याग-पूर्वक-पर-धर्माभिसन्धिनम् अर्जुनं धर्म-ज्ञान-रहस्योपदेश-प्लवेन तस्माच् छोक-मोह-सागराद् उद्दधार । तम् एव भगवद्-उपदिष्टम् अर्थं कृष्ण-द्वैपायनः सप्तभिः श्लोक-शतैर् उपनिबबन्ध । तत्र च प्रायशः श्री-कृष्ण-मुखाद् विनिःसृतान् एव श्लोकान् अलिखत् । कांश्चित् तत्-सङ्गतये स्वयं च व्यरचयत् । यथोक्तं गीता-माहात्म्ये -
गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः ।
या स्वयं पद्मनाभस्य मुख-पद्माद् विनिःसृता ॥ इति ।
तत्र तावद् धर्मक्षेत्रे इत्य् आदिना । विषीदन्न् इदम् अब्रवीद् इत्य् अन्तेन ग्रन्थेन श्री-कृष्णार्जुन-संवाद-प्रस्तावाय कथा निरूप्यते । ततः परम् आसमाप्तेस् तयोर् धर्म-ज्ञानार्थे संवादः । तत्र धर्म-क्षेत्र इत्य् आदिना श्लोकेन धृतराष्ट्रेन हस्तिनापुर-स्थितं स्व-सारथिं समीपस्थं सञ्जयं प्रति कुरुक्षेत्र-वृत्तान्ते पृष्ठे सञ्जयो हस्तिनापुरस्थितो ऽपि व्यास-प्रसाद-लब्ध-दिव्य-चक्षुः कुरुक्षेत्र-वृत्तान्तं साक्षात् पश्यन्न् इव धृतराष्ट्राय निवेदयामास । दृष्ट्वा तु पाण्डवानीकम् इत्य् आदिना ।
धृतराष्ट्र उवाचेति । धर्मक्षेत्र इति । भोः सञ्जय । धर्मक्षेते धर्म-भूमौ कुरुक्षेत्रे । धर्म-क्षेत्र इति कुरुक्षेत्र-विशेषणम् । एषाम् आदि-पुरुषः कश्चित् कुरु-नामा बभूव । तस्य कुरोर् धर्म-स्थाने मामका मत्-पुत्राः पाण्डु-पुत्राश् च युयुत्सवो योद्धुम् इच्छन्तः समवेताः मिलिताः सन्तः किम् अकुर्वत किं कृतवन्तः ॥१॥
विश्वनाथः -
गौरांशुकः सत्-कुमुद-प्रमोदी
स्वाभिख्यया गोस्-तमसो निहन्ता ।
श्री-कृष्ण-चैतन्य-सुध-निधिर् मे
मनो ऽधितिष्ठन् स्वरतिं करोतु ॥
प्राचीन-वाचः सुविचार्य सो ऽहम्
अज्ञो ऽपि गीतामृत-लेश-लिप्सुः ।
यतेः प्रभोर् एव मते तद् अत्र
सन्तः क्षमध्वं शरणागतस्य ॥
इह खलु सकल-शास्त्राभिमत-श्रीमच्-चरण-सरोज-भजनः स्वयं भगवान् नराकृति-पर-ब्रह्म-श्री-वसुदेव-सूनुः साक्षाच्-छ्री-गोपाल-पुर्याम् अवतीर्यापार-परमातर्क्य-प्रापञ्चिक-सकल-लोचन-गोचरीकृतो भवाब्धि-निमज्जमानान् जगज्-जनान् उधृत्य स्व-सौन्दर्य-माधुर्यास्वादनया स्वीय-प्रेम-महाम्बुधौ निमज्जयामास ।
शिष्ट-रक्षा दुष्ट-निग्रह-व्रत-निष्ठा-महिष्ठ-प्रतिष्ठो ऽपि भुवो भार-दुःखापहार-मिषेण दुष्टानाम् अपि स्व-द्वेष्टॄणाम् अपि महा-संसार-ग्रासीभूतानाम् अपि मुक्ति-दान-लक्षणं परम-रक्षणम् एव कृत्वा स्वान्तर्धानोत्तर-काल-जनिष्यमाणान् अनाद्य्-अविद्या-बन्ध-निबद्न्हन-शोक-मोहाद्याकुलान् अपि जीवान् उद्धर्तुं शास्त्र-कृन्-मुनि-गण-गीयमान-यशश् च धर्तुं स्व-प्रिय-सखं तादृश-स्वेच्छा-वशाद् एव रण-मूर्धन्य् उद्भूत-शोक-मोहं श्रीमद्-अर्जुनं लक्ष्यीकृत्य काण्ड-त्रितयात्मक-सर्व-वेद-तात्पर्य-पर्यवसितार्थ-रत्नालङ्कृतं श्री-गीता-शास्त्रम् अष्टादशाध्यायम् अन्तर्भूताष्टादश-विद्यं साक्षाद् विद्यमानीकृतम् इव परम-पुरुषार्थम् आविर्भावयाम्बभूव ।
तत्राध्यायानां षट्केनन् प्रथमेन निष्काम-कर्म-योगः । द्वितीयेन भक्ति-योगः । तृतीयेन ज्ञान-योगो दर्शितः । तत्रापि भक्ति-योगस्यातिरहस्यत्वाद् उभय-सङ्जीवकत्वेनाभ्यर्हितत्वात् सर्व-दुर्लभत्वाच् च मध्यवर्तीकृतः । कर्म-ज्ञानयोर् भक्ति-राहित्येन वैयर्थ्यात् ते द्वे भक्ति-मिश्रे एव सम्मतीकृते ।
भक्तिस् तु द्विविधा केवला प्रधानीभूता च । तत्राद्या स्वत एव परम-प्रबला । ते द्वे कर्म-ज्ञाने विनैव विशुद्ध-प्रभावती अकिञ्चना अनन्यादि-शब्द-वाच्या । द्वितीया तु कर्म-ज्ञान-मिश्रेत्य् अखिलम् अग्रे विवृतीभविष्यति ।
अथार्जुनस्य शोक-मोहौ कथम्भूताव् इत्य् अपेक्षायां महाभारत-वक्ता श्री-वैशम्पायनो जनमेजयं प्रति तत्र भीष्म-पर्वणि कथाम् अवतारयति धृतराष्ट्र उवाच इति । कुरुक्षेत्रे युयुत्सवो युद्धार्थं सङ्गता मामका दुर्योधनाद्याः पाण्डवाश् च युधिष्ठिरादयः किं कृतवन्तस् तद् ब्रूहि । ननु युयुत्सव इति त्वं ब्रवीष्य् एवातो युद्धम् एव कर्तुम् उद्यतास् ते तद् अपि किम् अकुर्वतेति केनाभिप्रायेण पृच्छसीत्य् अत आह धर्मक्षेत्र इति । कुरुक्षेत्रं देव-यजनम् इति श्रुतेस् तत्-क्षेत्रस्य धर्म-प्रवर्तकत्वं प्रसिद्धम् ।
अतस् तत्-संसर्ग-महिम्ना यद्य् अधर्मिकाणाम् अपि दुर्योधनादीनां क्रोध-निवृत्त्या धर्मे मतिः स्यात् । पाण्डवास् तु स्वभावत एव धार्मिकास् ततो बन्धु-हिंसनम् अनुचितम् इत्य् उभयेषाम् अपि विवेके उद्भूते सन्धिर् अपि सम्भाव्यते । ततश् च ममानन्द एवेति सञ्जयं प्रति ज्ञापयितुम् इष्टो भावो बाह्यः । आभ्यन्तरस् तु सन्धौ सति पूर्ववत् सकण्टकम् एव राज्यं मद्-आत्मजानाम् इति मे दुर्वार एव विषादः । तस्माद् अस्माकीनो भीष्मस् त्व् अर्जुनेन दुर्जय एवेत्य् अतो युद्धम् एव श्रेयस् तद् एव भूयाद् इति तु तन्-मनोरथोपयोगी दुर्लक्ष्यः ।
अत्र धर्म-क्षेत्रे इति क्षेत्र-पदेन धर्मस्य धर्मावतारस्य सपरिकर-युधिष्ठिरस्य धान्यस्थानीयत्वम् । तत्-पालकस्य श्री-कृष्णस्य कृषि-बल-स्थानीयत्वम् । कृष्ण-कृत-नाना-विध-साहाय्यस्य जल-सेचन-सेतु-बन्धनादि-स्थानीयत्वम् । श्री-कृष्ण-संहार्य-दुर्योधनादेर् धान्य-द्वेषि-धान्याकार-तृण-विशेष-स्थानीयत्वं च बोधितं सरस्वत्या ॥१॥
बलदेवः –
सत्यानन्ताचिन्त्य-शक्त्य्-एक-पक्षे
सर्वाध्यक्षे भक्त-रक्षातिदक्षे ।
श्री-गोविन्दे विश्व-सर्गादि-कण्डे
पूर्णानन्दे नित्यम् आस्तां मतिर् मे ॥
अज्ञान-नीरधिर् उपैति यया विशेषं
भक्तिः परापि भजते परिपोषम् उच्चैः ।
तत्त्वं परं स्फुरति दुर्गमम् अप्य् अजस्रं
साद्गुण्य-भृत् स्वरचितां प्रणमामि गीताम् ॥
अथ सुख-चिद्-घनः स्वयं भगवान् अचिन्त्य-शक्तिः पुरुषोत्तमः स्व-सङ्कल्पायत्त-विचित्र-जगद्-उदयादि-विरिञ्च्य्-आदि-सञ्चिन्त्य-चरणः स्व-जन्मादि-लीलया स्व-तुल्यान् सहाविर्भूतान् पार्षदान् प्रहर्षयंस् तयैव जीवान् बहून् अविद्याशार्दूलीवदनाद् विमोच्य स्वान्तर्धानोत्तर-भाविनो ऽन्यानुद्दिधीर्षुर् आहव-मूर्ध्नि स्वात्म-भूतम् अप्य् अर्जुनम् अवितर्क्य-स्व-शक्त्या समोहम् इव कुर्वन् तन्-मोह-विमार्जनापदेशेन सपरिकर-स्वात्म-याथात्म्यैक-निरूपिकां स्व-गीतोपनिषदम् उपादिशत् ।
तस्यां खल्व् ईश्वर-जीव-प्रकृति-काल-कर्माणि पञ्चार्था वर्ण्यन्ते । तेषु विभु-संविद् ईश्वरः । अणु-संविज् जीवः । सत्त्वादि-गुण-त्रयाश्रयो द्रव्यं प्रकृतिः । त्रैगुण्य-शून्यं जड-द्रव्यं कालः । पुं-प्रयत्न-निष्पाद्यम् अदृष्टादि-शब्द-वाच्यं कर्मेति ।
तेषां लक्षणानि । एष्व् ईश्वरादीनि चत्वारि नित्यानि । जीवादीनि त्व् ईश्वर-वश्यानि । कर्म तु प्राग्-अभाववद् अनादि विनाशि च । तत्र संवित्-स्वरूपो ऽपीश्वरो जीवश् च संवेत्तास्मद्-अर्थश् च - विज्ञानम् आनन्दं ब्रह्म, यः सर्वज्ञः सर्ववित्, मन्ता बोद्धा कर्ता विजानात्मा पुरुषः, इत्य् आदि श्रुतेः । सो ऽकामयत बहु स्याम्, सुखम् अहम् अस्वाप्सं न किञ्चिद् अवेदिषम् इत्य् आदि श्रुतेश् च । न चोभयत्र महत्-तत्त्व-जातो ऽयम् अहङ्कारः ।
तदा तस्यानुत्पत्तेर् विलीनत्वाच् च । स च स च कर्ता भोक्ता सिद्धः सर्वज्ञः सर्व-वित् कर्ता बोद्धा इति पदेभ्यः । अनुभवितृत्वं कह्लु भोक्तृत्वं सर्वाभ्युपगतम् । सो ऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति श्रुतेस् तूभयोस् तत् प्रव्यक्तम् । यद्यपि संवित्-स्वरूपात् संवेत्तृत्वादि नान्यत् प्रकाश-स्वरूपाद् रवेर् इव प्रकाशकत्वादि, तथापि विशेष-सामर्थ्यात् तद्-अन्यत्व-व्यवहारः । विशेषश् च भेद-प्रतिनिधिर् न भेदः । स च भेदाभावे ऽपि भेद-कार्यस्य धर्म-धर्मि-भावादि-व्यवहारस्य हेतुः ।सत्ता सती भेदो भिन्नः कालः सर्वदास्तीत्य् आदिषु विद्वद्भिः प्रतीतः । तत्-प्रतीत्य्-अन्यथानुपपत्त्या - एवं धर्मान् पृथक् पश्यंस् तान् एवानुविधावति इति श्रुत्या च सिद्धः । इह हि ब्रह्म-धर्मान् अभिधाय तद्-भेदः प्रतिषिध्यते ।
न खलु भेद-प्रतिनिधेस् तस्याप्य् अभावे धर्म-धर्मि-भाव-धर्म-बहुत्वे शक्ये वक्तुम् इत्य् अनिच्छुभिर् अपि स्वीकार्याः स्युः त इमे ऽर्थाः शास्त्रे ऽस्मिन् यथास्थानम् अनुसन्धेयाः । इह हि जीवात्म-परमात्म-तद्-धाम तत्-प्राप्त्य्-उपायानां स्वरूपाणि यथावन् निरूप्यन्ते । तत्र जीवात्म-याथात्म्य-परमात्म-याथात्म्योपयोगितया परमात्म-याथात्म्यं तु तद्-उपासनोपयोगितया प्रकृत्यादिकं तु परमात्मनः स्रष्टुर् उपकरणतयोपदिश्यते ।
तद्-उपायाश् च कर्म-ज्ञान-भक्ति-भेदात् त्रेध । तत्र श्रुत-तत्-तत्-फलनैर् अपेक्षेण कर्तृत्वाभिनिवेश-परित्यागेन चानुष्ठितस्य स्व-विहितस्य कर्मणः हृद्-विशुद्धि-द्वारा ज्ञान-भक्त्योर् उपकारित्वात् परम्परया तत्-प्राप्ताव् उपायत्वम् । तच् च श्रुति-विहित-कर्म हिंसा-शून्यम् अत्र मुख्यम् । मोक्ष-धर्मे पिता-पुत्रादि-संवादात् हिंसावत् तु गौणं विप्रकृष्टत्वात् तयोस् तु साक्षाद् एव तथात्वम् ।
ननु, तथानुष्ठितेन कर्मणा हृद्-विशुद्ध्या ज्ञानोदयेन मुक्तौ सत्यां भक्त्या को विशेषः । उच्यते, ज्ञानम् एव किञ्चिद् विशेषाद् भक्तिर् इति । निर्णिमेष-वीक्षण-कटाक्ष-वीक्षण-वदनयोर् अन्तरं चिद्-विग्रहतयानुसन्धिर् ज्ञानं तेन तत् सालोक्यादिः । विचित्र-लीला-रसाश्रयतयानुसन्धिस् तु भक्तिस् तया क्रोडीकृत-सालोक्यादि-तद्-वरीवस्यानन्द-लाभः पुमर्थः । भक्तेर् ज्ञानत्वं तु “सच्-चिद्-आनन्दैक-रसे भक्ति-योगे तिष्ठति” इति श्रुतेः सिद्धम् ।
तद् इदं श्रवणादि-भावादि-शब्द-व्यपदिष्टं दृष्टम् । ज्ञानस्य श्रवणाद्याकारत्वं चित्-सुखस्य विष्णोः कुन्तलादि-प्रतीकत्ववत् प्रत्येतव्यम् इति वक्ष्यामः । षट्-त्रिके ऽस्मिन् शास्त्रे प्रथमेन षट्केनेश्वरांशस्य जीवस्यांशीश्वर-भक्त्य्-उपयोगि-स्वरूप-दर्शनम् । तच् चान्तर्-गत-ज्ञान-निष्काम-कर्म-साध्यं निरूप्यते । मध्येन परम-प्राप्यस्यांशीश्वरस्य प्रापणी भक्तिस् तन्-महिम-धी-पूर्विकाभिधीयते । अन्त्येन तु पूर्वोदितानाम् एवेश्वरादीनां स्वरूपाणि परिशोध्यन्ते । त्रयाणां षट्कानां कर्म-भक्ति-ज्ञान-पूर्वता-व्यपदेशस् तु तत्-तत्-प्राधान्येनैव । चरमे भक्तेः प्रतिपत्तेश् चोक्तिस् तु रत्न-सम्पुटोर्ध्व-लिखित-तत्-सूचक-लिपि-न्यायेन ।
अस्य शास्त्रस्य श्रद्धालुः सद्-धर्म-निष्ठो विजितेन्द्रियो ऽधिकारी । स च स-निष्ठ-परिनिष्ठित-निरपेक्ष-भेदात् त्रिविधः । तेषु स्वर्गादि-लोकान् अपि दिदृक्ष्र् निष्ठया स्व-धर्मान् हर्य्-अर्चन-रूपान् आचरन् प्रथमः । लोक-सञ्जिघृक्षया तान् आचरन् हरि-भक्ति-निरतो द्वितीयः । स च स च साश्रमः । सत्य-तपो-जपादिभिर् विशुद्ध-चित्तो हर्य्-एक-निरतस् तृतीयो निराश्रमः । वाच्य-वाचक-भावः सम्बन्धः । वाच्य उक्त-लक्षणः श्री-कृष्णः । वाचकस् तद्-गीता-शास्त्रं तादृशः सो ऽत्र विषयः । अशेष-क्लेश-निवृत्ति-पूर्वकस् तत्-साक्षात्-कारस् तु प्रयोजनम् इत्य् अनुबन्ध-चतुष्टयम् । अत्रेश्वरादिषु त्रिषु ब्रह्म-शब्दो ऽक्षर-शब्दश् च बद्ध-जीवेषु तद्-देहेषु च क्षर-शब्दः । ईश्वर-जीव-देहे मनसि बुद्धौ धृतौ यत्ने चात्म-शब्दः ।
त्रिगुणायां वासनायां शीले स्वरूपे च प्रकृति-शब्दः । सत्ताभिप्राय-स्वभाव-पदार्थ-जन्मसु क्रियास्व् आत्मसु च भाव-शब्दः । कर्मादिषु त्रिषु चित्त-वृत्ति-निरोधे च योग-शब्दः पठ्यते । एतच् छास्त्रं खलु स्वयं भगवतः साक्षाद् वचनं सर्वतः श्रेष्ठं –
गीता सुगीता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः ।
या स्वयं पद्मनाभस्य मुख-पद्माद् विनिःसृता ॥ इति पाद्मात् ।
धृतराष्ट्रादि-वाक्यं तु तत्-सङ्गति-लाभाय द्वैपायनेन विरचितम् । तच् च लवणाकर-निपात-न्यायेन तन्-मयम् इत्य् उपोद्घातः ।
सङ्ग्राम-मूर्ध्नि संवादो
यो ऽभूद् गोविन्द-पार्थयोः ।
तत्-सङ्गत्यै कथां प्राख्याद्
गीतासु प्रथमे मुनिः ॥
इति तावद् भगवद्-अर्जुन-संवादं प्रस्तौतुं कथा निरूप्यते। धर्मक्षेत्रे इत्य् आदिभिः सप्त-विंशत्या । तद्-भगवतः पार्थ-सारथ्यं विद्वान् धृतराष्ट्रः स्व-पुत्र-विजये सन्दिहानः सञ्जयं पृच्छतीत्य् आह । जन्मेजयं प्रति वैशम्पायनः धृतराष्ट्र उवाचेति । युयुत्सवो योद्धुम् इच्छवो मामका मत्-पुत्राः पाण्डवाश् च कुरुक्षेत्रे समवेताः किम् अकुर्वतेति ।
ननु युयुत्सवः समवेता इति त्वम् एवात्थ्य ततो युधेरन्न् एव पुनः किम् अकुर्वतेति कस् ते भाव इति चेत्, तत्राह - धर्मक्षेत्र इति । “यद् अनु कुरुक्षेत्रं देवानां देव-यजनं सर्वेषां भूतानां ब्रह्म-सदनम् इत्य् आदि-श्रवणाद् धर्म-प्ररोहि-भूमि-भूतं कुरुक्षेत्रं प्रसिद्धम् । तत्-प्रभावाद् विनष्ट-विद्वेषा मत्-पुत्राः किं पाण्डवेभ्यस् तद्-राज्यं दातुं निश्चिक्युः । किं वा, पाण्डवाः सदैव धर्म-शीला धर्म-क्षेत्रे तस्मिन् कुल-क्षय-हेतुकाद् अधर्माद् भीता वन-प्रवेशम् एव श्रेयो विममृशुर् इति । हे सञ्जयेति व्यास-प्रसादाद् विनष्ट-राग-द्वेषस् त्वं तथ्यं वदेत्य्-अर्थः । पाण्डवानां मामकत्वानुक्तिर् धृतराष्ट्रस्य तेषु द्रोहम् अभिव्यनक्ति । धान्य-क्षेत्रात् तद्-विरोधिनां धान्याभासानाम् इव धर्म-क्षेत्रात् तद्-विरोधिनां धर्माभासानां
त्वत्-पुत्राणाम् अपगमो भावीति धर्म-क्षेत्र-शब्देन गीर्-देव्या व्यज्यते ॥१॥
१।२
सञ्जय उवाच
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस् तदा ।
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् ॥२॥
श्रीधरः - सञ्जय उवाच दृष्ट्वेत्य्-आदि । पाण्डवानाम् अनीकं सैन्यं व्यूढं व्यूह-रचनया अधिष्ठितं दृष्ट्वा द्रोणाचार्य-समीपं गत्वा राजा दुर्योधनो वक्ष्यमाणं वचनम् उवाच ॥२॥
विश्वनाथः - विदित-तद्-अभिप्रायस् तद्-आशांसितं युद्धम् एव भवेत् । किन्तु तन्-मनोरथ-प्रतिकुलम् इति मनसि कृत्वा उवाच दृष्ट्वेति । व्यूढं व्यूह-रचनयावस्थितम् । राजा दुर्योधनः सान्तर्भयम् उवाच । पश्यैताम् इति नवभिः श्लोकैः ॥२॥
बलदेवः - एवं जन्मान्धस्य प्रज्ञा-चक्षुषो धृतराष्ट्रस्य धर्म-प्रज्ञा-विलोपान् मोहान्धस्य मत्-पुत्रः कदाचित् पाण्डवेभ्यस् तद्-राज्यं दद्याद् इति विम्लान-चित्तस्य भावं विज्ञाय धर्मिष्ठः सञ्जयस् त्वत्-पुत्रः कदाचिद् अपि तेभ्यो राज्यं नार्पयुष्यतीति तत्-सन्तोषम् उत्पादयन्न् आह दृष्ट्वेति । पाण्डवानाम् अनीकं सैन्यं व्यूढं व्यूह-रचनयावस्थितम् । आचार्यं धनुर्-विद्या-प्रदं द्रोणम् उपसङ्गम्य स्वयम् एव तद्-अन्तिकं गत्वा राजा राज-नीति-निपुणः वचनम् अल्पाक्षरत्वं गम्भीरार्थत्वं सङ्क्रान्त-वचन-विशेषम् । अत्र स्वयम् आचार्य-सन्निधिगमनेन पाण्डव-सैन्य-प्रभाव-दर्शन-हेतुकं तस्यान्तर्-भयं गुरु-गौरवेण तद्-अन्तिकं स्वयम् आगतवान् अस्मीति भय-सङ्गोपनं च व्यज्यते । तद् इदं राज-नीति-नैपुण्याद् इति च राज-पदेन
॥२॥
१।३
पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥३॥
श्रीधर: तद् एव वचनम् आह पश्यैताम् इत्य् आदिभिः नवभिः श्लोकैः । पश्येत्य् आदि हे आचार्य । पाण्डवानां महतीं विततां चमूं सेनां पश्य । तव शिष्येण द्रुपद-पुत्रेण धृष्टद्युम्नेन व्यूढां व्यूह-रचनयाधिष्ठिताम् ॥३॥
विश्वनाथ: द्रुपद-पुत्रेण धृष्टद्युम्नेन तव शिष्येण स्व-वधार्थम् उत्पन्न इति जानतापि त्वयायम् अध्यापित इति तव मन्द-बुद्धित्वम् । धीमतेति शत्रोर् अपि त्वत्तः सकाशात् त्वद्-वधोपाय-विद्या गृहीतेत्य् अस्य महाबुद्धित्वं फल्-काले ऽपि पश्येति भावः ॥३॥
बलदेव: तत् तादृशं वचनम् आह पश्यैताम् इत्य् आदिना । प्रिय-शिष्येषु युधिष्ठिरादिषु स्नेहातिशयाद् आचार्यो न युध्येद् इति विभाव्य तत्-कोपोत्पादनाय तस्मिंस् तद्-अवज्ञां व्यञ्जयन्न् आह एताम् इति । एताम् अतिसन्निहितां प्रागल्भ्येनाचार्यम् अतिशूरं च त्वाम् अविगणय्य स्थितां दृष्ट्वा तद्-अवज्ञां प्रतीहीति, व्यूढां व्यूह-रचनया स्थापितां । द्रुपद-पुत्रेणेति त्वद्-वैरिणा द्रुपदेन त्वद्-वधाय धृष्टद्युम्नः पुत्रो यज्ञाग्नि-कुण्डाद् उत्पादितो ऽस्तीति । तव शिष्येणेति त्वं स्व-शत्रुं जानन्न् अपि धनुर्-विद्याम् अध्यापितवान् असीति तव मन्द-धीत्वम् । धीमतेति शत्रोस् त्वत्तस् त्वद्-वधोपायो गृहीत इति तस्य सुधीत्वम् । त्वद्-अपेक्ष्यकारितैवास्माकम् अनर्थ-हेतुर् इति ॥३॥
१।४-६
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश् च द्रुपदश् च महारथः ॥४॥
धृष्टकेतुश् चेकितानः काशिराजश् च वीर्यवान् ।
पुरुजित् कुन्तिभोजश् च शैब्यश् च नरपुङ्गवः ॥५॥
युधामन्युश् च विक्रान्त उत्तमौजाश् च वीर्यवान् ।
सौभद्रो द्रौपदेयाश् च सर्व एव महारथाः ॥६॥
श्रीधर: अत्रेत्य् आदि । अत्र अस्यां चम्वाम् । इषवो बाणा अस्यस् ते क्षिप्यन्ते एभिर् इति इषासाः धनूंषि । महान्त इष्वासो येषां ते महेष्वासाः । भीमार्जुनौ तावद् अत्रातिप्रसिद्धौ योद्धारौ । ताभ्यां समाः शूराः शौर्येण क्षात्र-धर्मेणोपेताः सन्ति । तान् एव नामभिर् निर्दिशति युयुधानः सात्यकिः । किं च धृष्टकेतुर् इति । विक्रान्तो युधामन्युर् नामैकः । सौभद्रो ऽभिमन्युर् द्रौपदेयाः द्रौपद्यां पञ्चभ्यो युधिष्ठिरादिभ्यो जाताः पुत्राः प्रतिविन्ध्यादयः पञ्च । महारथादीनां लक्षणम् -
एको दश सहस्राणि योधयेद् यस् तु धन्विनाम् ।
शस्त्र-शास्त्र-प्रवीणश् च महार्थ इति स्मृतः ॥
अमितान् योधयेद् यस् तु सम्प्रोक्तो ऽतिरथस् तु सः ।
चैकेन यो युध्येत् तन्-न्यूनो ऽर्ध-रथः स्मृतः ॥ इति ॥४-६॥
विश्वनाथ: अत्र चम्वाम् । महान्तः शत्रुभिश् छेत्तुम् अशक्या इष्वासा धनूंषि येषां ते । युयुधानः सात्यकिः । सौभद्रो ऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यो जाताः प्रतिविन्ध्यादयः । महारथादीनां लक्षणम् -
एको दश सहस्राणि योधयेद् यस् तु धन्विनाम् ।
शस्त्र-शास्त्र-प्रवीणश् च महार्थ इति स्मृतः ॥
अमितान् योधयेद् यस् तु सम्प्रोक्तो ऽतिरथस् तु सः ।
चैकेन यो युध्येत् तन्-न्यूनो ऽर्ध-रथः स्मृतः ॥ इति ॥४-६॥
श्रीधर: नन्व् एकेन धृष्टद्युम्नेनाधिष्ठिताल्पिका सेनास्मदीयेनैकेनैव सुजेया स्याद् अतस् त्वं मा त्रासीर् इति चेत् तत्राह अत्रेति । अत्र चम्वां महान्तः शत्रुभिश् छेत्तुम् अशक्या इष्वासाश् चापा येषां ते । युद्ध-कौशलम् आशङ्क्याह भीमेति । युयुधानः सात्यकिः । महारथ इति युयुधानीदानां त्रयाणाम् । नर-पुङ्गव इति पुरुजिद्-आदीनां त्रयाणाम् । युद्येति विक्रान्त इति युधामन्योः । वीर्यवान् इत्य् उत्तमौजसश् चेति विशेषणम् । सौभद्रो ऽभिमन्युः । द्रौपदेया युधिष्ठिरादिभ्यः पञ्चभ्यः क्रमाद् द्रौपद्यां जाताः प्रतिविन्ध्य-श्रुतसेन-श्रुतकीर्ति-शतानीक-श्रुतकर्माख्याः पञ्च-पुत्राः । च-शब्दाद् अन्ये च घटोत्कचादयः । पाण्डवास् त्व् अतिख्यातत्वात् न गणिताः । ये एते सप्तदश गणिताः, ये चान्ये तत्-पक्षीयास् ते सर्वे
महारथा एव । अतिरथस्याप्य् उपलक्षणम् एतत् । तल्-लक्षणं चोक्तम् -
एको दश सहस्राणि योधयेद् यस् तु धन्विनाम् ।
शस्त्र-शास्त्र-प्रवीणश् च महार्थ इति स्मृतः ॥
अमितान् योधयेद् यस् तु सम्प्रोक्तो ऽतिरथस् तु सः ।
चैकेन यो युध्येत् तन्-न्यूनो ऽर्ध-रथः स्मृतः ॥ इति ॥४-६॥
१।७
अस्माकं तु विशिष्टा ये तान् निबोध द्विजोत्तम ।
नायका मम सैन्यस्य सञ्ज्ञार्थं तान् ब्रवीमि ते ॥७॥
श्रीधर: अस्माकम् इति । निबोध बुध्यस्व । नायका नेतारः । सञ्ज्ञार्थं सम्यग् ज्ञानार्थम् ॥७॥
विश्वनाथ: निबोध बुध्यस्व । सञ्ज्ञार्थं सम्यग् ज्ञानार्थम् ॥७॥
बलदेव: तर्हि किं पाण्डव-सैन्याद् भीतो ऽसीत्य् आचार्य-भावं सम्भाव्यान्तर्जाताम् अपि भीतिम् आच्छादयन् धार्ष्ट्येनाह - अस्माकम् इति । अस्माकं सर्वेषां मध्ये ये विशिष्टाः परमोत्कृष्टा बुध्यादि-बल-शालिनो नायका नेतारः । तान् सञ्ज्ञार्थं सम्यक् ज्ञानार्थं ब्रवीमीति । पाण्डव-प्रेम्णा त्वं चेन् नो योत्स्यसे, तदापि भीष्मादिभिर् मद्-विजयः सेत्स्यत्य् एवेति तत् कोपोत्पादनार्थं द्योत्यम् ॥७॥
१।८-९
भवान् भीष्मश् च कर्णश् च कृपश् च समितिञ्जयः ।
अश्वत्थामा विकर्णश् च सौमदत्तिर् जयद्रथः ॥८॥
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥९॥
श्रीधर: तान् एषाह भवान् इति द्वाभ्याम् । भवान् द्रोणः । समितिं सङ्ग्रामं जयतीति तथा । सौमदत्तिः सोमदत्तस्य पुत्रो भूरिश्रवाः । अन्ये चेति मद्-अर्थे मत्-प्रयोजनार्थं जीवितं त्यक्तुम् अध्यवसिता इत्य् अर्थः । नाना अनेकानि शस्त्रानि प्रहरण-साधनानि येषां ते । युद्धे विशारदा निपुणा इत्य् अर्थः ॥८-९॥
विश्वनाथ: सौमदत्तिर् भूरिश्रवाः । त्यक्त-जीविता इति जीवित-त्यागेनापि यदि मद्-उपकारः स्यात् तदा तद् अपि कर्तुं प्रवृत्ता इत्य् अर्थः । वस्तुतस् तु मयैवैते निहताः पूर्वम् एव निमित्त-मात्रं भव सव्यसाचिन् इति भगवद्-उक्तेर् दुर्योधन-सरस्वती सत्यम् एवाह स्म ॥ ८-९॥
बलदेव: भवान् इति । भवान् द्रोणः । विकर्णो मद्-भ्राता कनिष्ठः । सौमदत्तिर् भूरिश्रवाः । समितिञ्जयः सङ्ग्राम-विजयीति द्रोणादीनां सप्तानां विशेषणम् । नन्व् एतावन्त एव मत्-सैन्ये विशिष्टाः किन्त्व् असङ्ख्येयाः सन्तीत्य् आह अन्ये चेति । बहवो जयद्रथ-कृतवर्म-शल्य-प्रभृतयः । त्यक्तेत्य्-आदि कर्मणि निष्ठा जीवितानि त्यक्तुं कृत-निश्चया इत्य् अर्थः । इत्थं च तेषां सर्वेषां मयि स्नेहातिरेकात् शौर्यातिरेकाद् युद्ध-पाण्डित्याच् च मद्-विजयः सिद्ध्येद् एवेति द्योत्यते ॥८-९॥
१।१०
अपर्याप्तं तद् अस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्व् इदम् एतेषां बलं भीमाभिरक्षितम् ॥१०॥
श्रीधर: ततः किम्? अत आह - अपर्याप्तम् इत्य् आदि । तत् तथाभूतैः वीरैर् युक्तम् अपि भीष्मेणाभिरक्षितम् अपि अस्माकं बलं सैन्यं अपर्याप्तं तैः सह योद्धुं असमर्थं भाति । इदम् एतेषां पाण्डवानां बलं भीमाभिरक्षितम् सत् पर्याप्तं समर्थं भाति । भीष्मस्योभय-पक्षपातित्वात् अस्मद्-बलं पाण्डव-सैन्य्ं प्रत्यसमर्थम् । भीमस्यिक-पक्षपातित्वात् पाण्डवानां बलं समर्थम् ॥१०॥
विश्वनाथ: अपर्याप्तम् अपरिपूर्णम् । पाण्डवैः सह योद्धुं अक्षमम् इत्य् अर्थः । भीष्मेणातिसूक्ष्म-बुद्धिना शस्त्र-शास्त्र-प्रवीणेनाभितो रक्षितम् अपि भीष्मस्योभय-पक्षपातित्वात् । एतेषां पाण्डवानां तु भीमेन स्थूल-बुद्धिना शस्त्र-शास्त्रानभिज्ञो ऽपि रक्षितम् पर्याप्तं परिपूर्णम् । अस्माभिः सह युद्धे प्रवीणम् इत्य् अर्थः ॥१०॥
बलदेव: नन्व् उभयोः सैन्ययोस् तौल्यात् तवैव विजयः कथम् इत्य् आशङ्क्य स्व-सैन्याधिक्यम् आह अपर्याप्तम् इति । अपर्याप्तम् अपरिमितम् अस्माकं बलम् । तत्रापि भीष्मेण महा-बुद्धिमतातिरथेनाभिरक्षितम् । एतेषां पाण्डवानां बलं तु पर्याप्तं परिमितम् । तत्रापि भीमेन तुच्छ-बुद्धिनार्धरथेनाभिरक्षितम् । अतः सिद्ध-विजयो ऽहम् ॥१०॥
१।११
अयनेषु च सर्वेषु यथाभागम् अवस्थिताः ।
भीष्मम् एवाभिरक्षन्तु भवन्तः सर्व एव हि ॥११॥
विश्वनाथ: तस्माद् युष्माभिः सावधानैर् भवितुव्यम् इत्य् आह अयनेषु व्यूह-प्रवेश-मार्गेषु यथा-भागं विभक्ताः स्वां स्वां रण-भूमिम् अपरित्यज्यैवावस्थिता भवन्तो भीष्मम् एवाभितस् तथा रक्षन्तु यथान्यैर् युध्यमानो ऽयं पृष्ठतः कैश्चिन् न हन्यते । भीष्म-बलेनैवास्माकं जीवितम् इति भावः ॥११॥
बलदेव: अथैवं मद्-उक्ति-भावं विज्ञायाचार्यश् चेद् उदासीत तदा मत्-कार्य-क्षतिर् इति विभाव्य तस्मिन् स्व-कार्य-भारम् अर्पयन्न् आह अयनेष्व् इति । अयनेषु सैन्य-प्रवेश-वर्त्मसु यथाभागं विभक्तां स्वां स्वां युद्ध-भूमिम् अपरित्यज्यावस्थिता भवन्तो भवद्-आदयो भीष्ममे एवाभितो रक्षन्तु युद्धाभिनिवेशात् पार्श्वतः पृष्ठतश् चापश्यन्तं तं यथान्यो न विहन्यात् तथा कुर्वन्त्व् इत्य् अर्थः । सेनापतौ भीष्मे निर्बोधे मद्-विजय-सिद्धिर् इति भावः ।
अयम् आशयः - भीष्मो ऽस्माकं पित्यामहः । भवांस् तु गुरुः । तौ युवाम् अस्मद् एकान्त-हितैषिणौ विदितौ । यावक्ष-सदसि मद्-अन्यायं विदन्ताव् अपि द्रौपद्या न्यायं पृष्टौ नावोचतां मया तु पाण्डवेषु प्रतीतं स्नेहाभासं त्याजयितुं तथा निवेदितम् इति ॥११॥
१।१२
तस्य सञ्जनयन् हर्षं कुरु-वृद्धः पितामहः ।
सिंह-नादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥१२॥
श्रीधर: तद् एवं बहु-मान-युक्तं राज-वाक्यं श्रुत्वा भीष्मः किं कृतवान् । तद् आह तस्येत्य् आदि । तस्य राज्ञो हर्षं कुर्वन् पितामहो भीष्म उच्चैर् महान्तं सिंह-नादं विनद्य कृत्वा शङ्खं दध्मौ वादितवान् ॥१२॥
विश्वनाथ: ततश् च स्व-सम्मान-श्रवण-जनित-हर्षस् तस्य दुर्योधनस्य भव-विध्वंसनेन हर्षं सञनयितुं कुरु-वृद्धो भीष्मः सिंह-नादम् इति उपमाने कर्मणि चेति णमुल् सिम्ह इव विनद्येत्य् अर्थः ॥१२॥
बलदेव: एवं दुर्योधन-कृतां स्व-स्तुतिम् अवधार्य स-हर्षो भीष्मस् तद्-अन्तर्-जातां भीतिम् उत्सादयितुं शङ्खं दध्माव् इत्य् आह । सिंह-नादम् इत्य् उपमाने कर्मणि चेति पाणिनि-सूत्रात् णमुल् । चात् कर्तर्य् उपमाने इत्य् अर्थः । सिम्ह इव विनद्येत्य् अर्थः । मुखतः किञ्चिद् अनुक्त्वा शङ्ख-नाद-मात्र-करणेन जय-पराजयौ खल्व् ईश्वराधीनौ त्वद्-अर्थे क्षत्र-धर्मेण देहं त्यक्ष्यामीति व्यज्यते ॥१२॥
१।१३
ततः शङ्खाश् च भेर्यश् च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस् तुमुलो ऽभवत् ॥१३॥
श्रीधर: तद् एवं सेनापतेः भीष्मस्य युद्धोत्सवम् आलोक्य सर्वतो युद्धोत्सवः प्रवृत्त इय् आह तत इत्य् आदिना । पणवा मार्दलाः । आनकाः गोमुखाश् च वाद्य-विशेषाः । सहसा तत्-क्षणम् एवाभ्यहन्यन्त वादिताः । स च शङ्खादि-शब्दस् तुमुलो महान् अभूत् ॥१३॥
विश्वनाथ: ततश् चोभयत्रैव युद्धोत्साहः प्रवृत्त इत्य् आह तत इति । पणवा मार्दलाः । आनकाः पटहाः । गोमुखा वाद्य-विशेषाः ॥१३॥
बलदेव: तत इति । सेनापतौ भीष्मे प्रवृत्ते तत्-सैन्ये सहसा तत्-क्षणम् एव शङ्खादयो ऽभ्यहन्यन्त वादिताः । कर्म-कर्तरि प्रयोगः । पणवादयस् त्रयो वादित्र-भेदाः । स शब्दस् तुमुल एकाकारतया महान् आसीत् ॥१३॥
१।१४
ततः श्वेतैर् हयैर् युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश् चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥१४॥
श्रीधर: ततः पाण्डव-सैन्ये प्रवृत्तं युद्धोत्साहम् आह तत इत्य् आदिभिः पञ्चभिः । ततः कौरव-सैन्य-वाद्य-कोलाहलानन्तरं महति स्यन्दने रथे स्थितौ सन्तौ श्री-कृष्णार्जुनौ दिव्यौ शङ्खौ प्रकर्षेण दध्मतुर् वादयामासतुः । ॥१२॥
विश्वनाथ: नोथिन्ग् ॥१४॥
बलदेव: अथ पाण्डव-सैन्ये प्रवृत्तं युद्धोसवम् आह तत इति । अन्येषाम् अपि रथ-स्थितत्वे सत्य् अपि कृष्णार्जुनयोः रथ-स्थितत्वोक्तिस् तद्-रथस्याग्नि-दत्तत्वं त्रैलोक्य-विजेतृत्वं महा-प्रभवत्वं च व्यज्यते ॥१४॥
१।१५-१८
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥१५॥
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश् च सुघोषमणिपुष्पकौ ॥१६॥
काश्यश् च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश् च सात्यकिश् चापराजितः ॥१७॥
द्रुपदो द्रौपदेयाश् च सर्वशः पृथिवीपते ।
सौभद्रश् च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥१८॥
श्रीधर: तद् एव विभागेन दर्शयन्न् आह पाञ्चजन्यम् इति । पाञ्चजन्यादीनि नामानि श्री-कृष्णादि-शङ्खानाम् । भीमः घोरं कर्म यस्य सः । वृकवत् उदरं यस्य स वृकोदरो महा-शङ्खं पौण्ड्रं दध्माव् इति । अनन्तेति । नकुलः सुघोषं नाम शङ्खं दध्मौ । सहदेवो मणिपुष्पकं नाम । काश्यश् चेति । काश्यः काशिराजः । कथम्भूतः । परमः श्रेष्ठः इष्वासो धनुर् यस्य सः । द्रुपद इति । हे पृथिवीपते धृतराष्ट्र ॥१५-१८॥
विश्वनाथ: पाञ्चजन्यादयः शङ्खादीनां नामानि । अपराजितः केनापि पराजेतुम् अशक्यत्वात् । अथवा चापेन धनुषा राजितः प्रदीप्तः ॥१५-१८॥
बलदेव: पाञ्चजन्यम् इत्य् आदि पाञ्चजन्यादयः कृष्णादि-शङ्खानाम् आह्वयाः । अत्र हृषीकेश-शब्देन परमेश्वर-सहायित्वम् । पाञ्चजन्यादि-शब्दैः प्रसिद्धाह्वयानेक-दिव्य-शङ्खवत्त्वम् । राजा भीमकर्मा धनञ्जय इत्य् एभिर् युधिष्ठिरादीनां राज-सूय-याजित्व-हिडिम्बादि-निहन्तृत्व-दिग्विजयाहृतानन्त-धनत्वानि च व्यज्य पाण्डव-सेना-सूत्कर्षः सूच्यते । पर-सेनासु तद्-अभावाद् अपकर्षश् च । काश्य इति । काश्यः काशिराजः । परमेष्वासः महा-धुर्धरः । चापराजितो धनुषा दीप्तः । द्रुपद इति । पृथिवीपते हे धृतराष्ट्रेति तव दुर्मन्त्रणोदयः कुल-क्षय-लक्षणो ऽ नर्थः समासत इति सूच्यते ॥१५-१८॥
१।१९
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश् च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥
श्रीधर - स च शङ्खानां नादस् त्वदीयानां महाभयं जनयामासेत्य् आह स घोष इत्य् आदि । धार्तराष्ट्राणां त्वदीयानां हृण्डयाणि व्यदारयत् विदारितवान् । किं कुर्वन् । नभश् च पृथिवीं चैव तुमुलो ऽभ्यनुनादयन् प्रतिध्वनिभिर् अपूर्यन् ॥१९॥
विश्वनाथ - नोथिन्ग्।
बलदेव - स इति । पाण्डवैः कृतः शङ्ख-नादो धार्तराष्ट्राणां भीष्मादीनां सर्वेषां हृण्डयाणि व्यदारयत् । तद्-विदारण-तुल्यां पीडाम् अजनयद् इत्य् अर्थः । तुमुलो ऽतितीव्रः अभ्यनुनादयन् प्रतिध्वनिभिः प्”र्यन्न् इत्य् अर्थः । धार्तराष्ट्रैः कृतस् तु शङ्खादिनादस् तुमुलो ऽपि तेषां किञ्चिद् अपि क्षोभं नाजनयत् तथानुक्तेर् इति बोध्यम् ॥१९॥
१।२०-२३
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुर् उद्यम्य पाण्डवः ॥२०॥
श्रीधर - एतस्मिन् समये श्री-कृष्णम् अर्जुनो विज्ञापयामासेत्य् आह अथ इत्य् आदिभिः चतुर्भिः श्लोकैः । अथेति अथानन्तरं व्यवस्थितान् युद्धोद्योगेन स्थितान् । कपिध्वजो ऽर्जुनः ॥२०॥
विश्वनाथ - नोथिन्ग्।
बलदेव - एवं धार्तराष्ट्राणां युद्धे भीतिं प्रदर्श्य पाण्डवानां तु तत्रोत्साहम् आह अथेति सार्धकेन । अथ रिपु-शङ्ख-नाद-कृतोत्साह-भङ्गानन्तरं व्यवस्थितान् तद्-भङ्ग-विरोधि-युयुत्सयावस्थितान् धार्तराष्ट्रान् भीष्मादीन् कपिध्वजो ऽर्जुनो येन श्री-दाशरथेर् अपि महान्ति कार्यानि पुरा साधितानि तेन महावीरेण ध्वजम् अधितिष्ञ्हिता हनुमतानुगृहीतो भय-गन्ध-शून्य इत्य् अर्थः । हे महीपते प्रवृत्ते प्रवर्तमाने । हृषीकेशम् इति हृषीकेशं सर्वेन्द्रिय-प्रवर्तकं कृष्णं तद् इदं वाक्यम् उवाचेति । सर्वेश्वरो हरिर् येषां नियोज्यस् तेषां तद् एकान्त-भक्तानां पाण्डवानां विजये सन्देह-गन्धो ऽपि नेति भावः ॥२०॥
१।२१-२३
हृषीकेशं तदा वाक्यम् इदम् आह महीपते ।
सेनयोर् उभयोर् मध्ये रथं स्थापय मे ऽच्युत ॥२१॥
यावद् एतान् निरीक्षे ऽहं योद्धुकामान् अवस्थितान् ।
कैर् मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥२२॥
योत्स्यमानान् अवेक्षे ऽहं य एते ऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर् युद्धे प्रियचिकीर्षवः ॥२३॥
श्रीधर - तद् एव वाक्यम् आह सेनयोर् उभयोर् इत्य् आदि । यावद् एतान् इति । ननु त्वं योद्धा न तु युद्ध-प्रेक्षकस् तत्राह कैर् मयेत्य् आदि । कैः सह मया योद्धव्यम् । योत्स्यमानान् इति धार्तराष्ट्रस्य दुर्योधनस्य प्रियं कर्तुम् इच्छन्तो ये इह समागताः तान् अहं द्रक्ष्यामि यावत् । तावद् उभयोः सेनयोर् मध्ये मे रथं स्थापयेत्य् अन्वयः ॥२१-२३॥
विश्वनाथ - नोथिन्ग्।
बलदेव -अर्जुन-वाक्यम् आह सेनयोर् इति । हे अच्युतेदि स्वभाव-सिद्धाद् भक्त-वात्सल्यात् पारमैश्वर्याच् च न च्यवसे स्मेति तेन तेन च नियन्तिर्तो भक्तस्य मे वाक्यात् तत्र रथं स्थितं कुरु निर्भय तत्र रथ-स्थापने फलम् आह यावद् इति । योद्धु-कामान् न तु सहास्माभिः सन्धिं चिकीर्षून् । अवस्थितान् न तु भीत्या प्रचलितान् ।
ननु त्वं योद्धा, न तु युद्ध-प्रेक्षकस् ततस् तद्-दर्शनेन किम् इति चेत् तत्राह कैर् इति । अस्मिन् बन्धूनाम् एव मिथो रणोद्योगे कैर् बन्धुभिः सह मम युद्धं भावीत्य् एतज्-ज्ञानायैवअ मध्ये रथ-स्थापनम् इति ।
ननु बन्धुत्वाद् एएत् सन्धिम् एव विधात्स्यन्तीति चेत् तत्राह योत्स्यमानान् इति न तु सन्धिं विधास्यतः । अवेक्षे प्रत्येमि । दुर्बुद्धेः कुधियः स्वजीवनोपायानभिज्ञस्य युद्धे न तु दुर्बुद्ध्य्-अपनयने । अतो मद्-युद्ध-प्रतियोगि-निरीक्षणं युक्तम् इति ॥२१-२३॥
१।२४-२५
एवम् उक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोर् उभयोर् मध्ये स्थापयित्वा रथोत्तमम् ॥२४॥
भीष्म-द्रोण-प्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरून् इति ॥२५॥
श्रीधर: ततः किं वृत्तम् । इत्य् अपेक्षायां सञ्जय उवाच एवम् उक्त इत्य् आदि । उडाका निद्रा तस्य ईशेन जित-निद्रेण अर्जुनेन एवम् उक्तः सन् । हे भारत, हे धृतराष्ट्र सेनयोर् मध्ये रथानाम् उत्तमं रथं हृषीकेशः स्थापितवान् । भीष्म-द्रोण इति महीक्षितां राज्ञां च प्रमुखतः सम्मुखे रथं स्थापयित्वा । हे पार्थ एतान् कुरून् पश्येति श्री-भगवान् उवाच ॥२४-२५॥
विश्वनाथ: हृषीकेशः सर्वेन्द्रिय-नियन्ताप्य् एवम् उक्तो ऽर्जुनेनादिष्टः । अर्जुन-वाग्-इन्द्रिय-मात्रेणापि नियम्यो ऽभूद् इत्य् अहो प्रेअ-वश्यत्वं भगवत इति भावः । गुडाकेशेन गुडा यथा माधुर्य-मात्र-प्रकाशकास् तत् तथा स्वीय-स्नेह-रसास्वाद-प्रकाशका अकेशा विष्णु-ब्रह्म-शिवा यस्य तेन अकारो विष्णुः को ब्रह्मा ईशो महा-देवः । यत्र सर्वावतारि-चूडामणीन्द्रः स्वयं भगवान् श्री-कृष्ण एव प्रेमाधीनः सन्न् आज्ञानुवर्ती बभूव । तत्र गुणावतारत्वात् तद्-अंशाः विष्णु-ब्रह्म-रुद्राः कथम् ऐश्वर्यं प्रकाशयन्तु । किन्तु स्वकर्तृकं स्नेह-रसं प्रकाश्यैव स्वं स्वं कृतार्थं मन्यन्त इत्य् अर्थः । यद् उक्तं श्री-भगवता पर-व्योम-नाथेनापि द्विजात्ममजा मे युवयोर् दिदृक्षुणा इति ।
यद् वा, गुडाको निद्रा तस्या ईशेन जित-निद्रेनेत्य् अर्थः । अत्रापि व्याख्यायां साक्षान् मायाया अपि नियन्ता यः श्री-कृष्णः स चापि येन प्रेम्णा विजित्य वशीकृतस् तेनार्जुनेन माया-वृत्तिर् निद्रा वराकी जितेति किं चित्रम् इति भावः । भीष्म-द्रोणयोः प्रमुखतः प्रमुखे सम्मुखे सर्वेषां महीक्षितां राज्ञां च । प्रमुखतः इति समास-प्रविष्टे ऽपि प्रमुखतः-शब्द आकृष्यते ॥२४-२५॥
बलदेव: ततः किं वृत्तम् इत्य् अपेक्षायां सञ्जयः प्राह एवम् इति । गुडाका निद्रा तस्या ईशः स्व-सख-श्री-भगवद्-गुण-लावण्य-स्मृति-निवेशेन विजित-निद्रस् तत्-परम-भक्तस् तेनार्जुनेनैवम् उक्तः प्रवर्तितो हृषीकेशस् तच्-चित्त-वृत्त्य्-अभिज्ञो भगवान् सेनयोर् मध्ये भीष्म-द्रोणयोः सर्वेषां च महीक्षितां भू-भुजां च प्रमुखतः सम्मुखे रथोत्तमं अग्निदत्तं रथं स्थापयित्वोवाच हे पार्थ समवेतान् एतान् कुरून् पश्येति । पार्थ-हृषीकेश-शब्दाभ्याम् इदं सूच्यते मतिपितृ-स्वसृ-पुत्रत्वात् त्वत्-सारथ्यम् अहं करिष्याम्य् एव त्वं त्व् अधुनैव युयुत्सां त्यक्ष्यसीति किं शत्रु-सैन्य-वीक्षणेनेति सोपहासो भावः ॥२४-२५॥
१।२६
तत्रापश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् ।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस् तथा ॥
श्वशुरान् सुहृदश् चैव सेनयोर् उभयोर् अपि ॥२६॥
श्रीधर: ततः किं प्रवृत्तम् इत्य् आह तत्रेत्य् आदि । पितॄन् पितृव्यान् इत्य् अर्थः । पुत्रान् पौत्रान् इति दुर्योधनादीनां ये पुत्राः पौत्राश् च तान् इत्य् अर्थः । सखीन् मित्राणि । सुहृदः कृतोपकारांश् च अपश्यत् ।
विश्वनाथ: दुर्योधनादीनां ये पुत्राः पौत्राश् च तान् ।
बलदेव: एवं भगवतोक्तो ऽर्जुनः पर-सेनाम् अपश्यद् इत्य् आह तत्रेति सार्धकेन । तत्र पर-सेनायां पितॄन् पितृव्यान् भूरिश्रवः-प्रभृतीन्, पितामहान् भीष्म-सोमदत्तादीन्, आचार्यान् द्रोण-कृपादीन्, मातुलान् शल्य-शकुन्य्-आदीन्, भ्रातॄन् दुर्योधनादीन्, पुत्रान् लक्ष्मणादीन्, पौत्रान् नप्तॄन्, लक्ष्मणादि-पुत्रान्, सखीन् वयस्यान् द्रौणि-सैन्धवादीन्, सुहृदः कृतवर्म-भगदत्तादीन् । एवं स्व-सैन्ये ऽप्य् उपलक्षणीयम् । उभयोर् अपि सेनयोर् अवस्थितान् तान् सर्वान् समीक्ष्येत्य् अन्वयात् ॥२६॥
१।२७
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान् ।
कृपया परयाविष्टो विषीदन्न् इदम् अब्रवीत् ॥२७॥
श्रीधर: ततः किं कृतवान् इत्य् आह तान् इति । सेनयोर् उभयोर् एवं समीक्ष्य कृपया महत्या आविष्टः विषण्णः सन् इदम् अर्जुनो ऽब्रवीत् । इत्य् उत्तरस्य अर्ध-श्लोकस्य वाक्यार्थः । आविष्टो व्याप्तः ॥२७॥
विश्वनाथ: नोथिन्ग्।
बलदेव: अथ सर्वेश्वरो दयालुः कृष्णः सपरिकरात्मोपदेशेन विश्वम् उद्दिधीर्षुर् अर्जुनं शिष्यं कर्तुं तत्-स्व-धर्मे ऽपि युद्धे मा हिंस्यात् सर्व-भूतानि इति श्रुत्य्-अर्थाभासेनाधर्मताम् आभास्य तं सम्मोहं कृतवान् इत्य् आह तान् समीक्ष्यते कौन्तेय इति स्वीय-पितृ-स्वसृ-पुत्रत्वोक्त्या तद्-धर्मो मोह-शोकौ तदा तस्य व्यज्येते । कृपया कर्त्र्या इत्य् उक्तेः । स्वभाव-सिद्धस्य कृपेति द्योत्स्यते । अतः परयेति तद्-विशेषणम् । अपरयेति वा च्छेदः स्व-सैन्ये पूर्वम् अपि कृपास्ति पर-सैन्ये त्व् अपरापि साभूद् इत्य् अर्थः । विषीदन्न् अनुतापः विन्दन् । अत्रोक्ति-विषादयोर् ऐक-काल्याद्य्-उक्ति-काले विषाद-कार्याण्य्-अश्रु-कम्प-सन्न-कण्ठादीनि व्यज्यते ॥२७॥
१।२८-२९
दृष्ट्वेमान् स्वजनान् कृष्ण युयुत्सुं समुपस्थितम् ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥२८॥
वेपथुश् च शरीरे मे रोमहर्षश् च जायते ।
गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ॥२९॥
श्रीधर: किम् अब्रवीद् इत्य् अपेक्षायाम् आह दृष्ट्वेमान् इत्य् आदि यावद् अध्याय-समाप्ति । हे कृष्ण योद्धुम् इच्छतः पुरतः समवस्थितान् स्वजनान् बन्धु-जनान् दृष्ट्वा मदीयानि गात्राणि करचरणादीनि सीदन्ति विशीर्यन्ते । किं च वेपह्तुश् चेत्यादि । वेपथुः कम्पः । रोमहर्षः रोमाञ्चः । स्रंसते निपतति । परिदह्यते सर्वतः सन्तप्यते ॥२८-२९॥
विश्वनाथ: दृष्ट्वेत्य् अत्र स्थितस्येत्य् अध्याहार्यम् ॥२८-२९॥
बलदेव: कौन्तेयः शोक-व्याकुलं यद् आह तद् अनुवदति दृष्ट्वेमम् इति । स्वजनं स्व-बन्धु-वर्गं जाताव् एक-वचनं स-गोत्र-बान्धव-ज्ञाति-बन्धु-स्व-स्वजनाः समाः इत्य् अमरः । दृष्ट्वासव्थितस्य मम गात्राणि कर-चरणादीनि सीदन्ति शीर्यन्ते परिशुष्यतीति श्रमादि-हेतुकाच् छोषाद् अतिशयित्वम् अस्य शोषस्य व्यज्यते । वेपथुः कम्पः । रोमहर्षः पुलकः । गाण्डीव-भ्रंशेनाधैर्यं त्वग्-दाह्नेअ हृद्-विदाहो दर्शितः ॥२८-२९॥
१।३०
न च शक्नोम्य् अवस्थातुं भ्रमतीव च मे मनः ।
निमित्तानि च पश्यामि विपरीतानि केशव ॥३०॥
श्रीधर: अपि च न शक्नोमीत्य् आदि । विपरीतानि निमित्तानि अनिष्ट-सूचकानि शकुनानि पश्यामि ॥३०॥
विश्वनाथ: विपरीतानि निमित्तानि धन-निमित्तको ऽयम् अत्र मे वास इतिवन् निमित्त-शब्दो ऽयं प्रयोजन-वाची । ततश् च युद्धे विजयिनो मम राज्य-लाभात् सुखं न भविष्यति, किन्तु तद्-विपरीतम् अनुताप-दुःखम् एव भावीत्य् अर्थः ॥३०॥
बलदेव: अपि चेति अवस्थातुं स्थिरो भवितुं मनो भ्रन्तीव चेति दौर्बल्य-मूर्च्छयोर् उदयः । निमित्तानि फलान्य् अत्र युद्धे विपरीतानि पश्यामि । विजयिनो मे राज्य-प्राप्तिर् आनन्दो न भविष्यति किन्तु तद्-विपरीतो ऽनुताप एव भावीति । निमित्त-शब्दः फल-वाची कस्मै निमित्तायात्र वससि इत्य् आदौ तथा प्रतीतेः ॥३०॥
१।३१
न च श्रेयो ऽनुपश्यामि हत्वा स्वजनम् आहवे ।
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥३१॥
श्रीधर: किं च न चेत्य् आदि । आहवे युद्धे स्वजनं हत्वा श्रेयः फलं न पश्यामि । विजयादिकं फलं किं न पश्यसीति चेत् तत्राह न काङ्क्ष इति ॥३१॥
विश्वनाथ: श्रेयो न पश्यामीति द्वाव् इमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ । परिव्राड् योग-युक्तश् च रणे चाभिमुखे हतः ॥ इत्य् आदिना हतस्यैव श्रेयो-विधानात् । हन्तुस् तु न किम् अप् सुकृतम् । नन दृष्टं फलं यशो राज्यं वर्तते युद्धस्येत्य् अत आह न काङ्क्ष इति ॥३१॥
बलदेव: एवं तत्त्व-ज्ञान-प्रतिकूलं शोकम् उक्त्वा तत्-प्रतिकूलां विपरीत-बुद्धिम् आह न चेति । आहवे स्वजनं हत्वा श्रेयो नैव पश्यामीति । द्वाव् इमौ पुरुषौ लोके सूर्य-मण्डल-भेदिनौ । परिव्राड् योग-युक्तश् च रणे चाभिमुखे हतः ॥ इत्य् आदिना हतस्य श्रेयः-स्मरणात् हन्तुर् मे न किञ्चिच् छ्रेयः । अस्वजनम् इति वा च्छेदः अस्वजन-वधे ऽपि श्रेयसो ऽभावात् स्वजन-वधे पुनः कुतस्तरां तद् इत्य् अर्थः ।
ननु यशो-राज्य-लाभो दृष्टं फलम् अस्तीति चेत् तत्राह न काङ्क्ष इति । राज्यादि-स्पृहा-विरहाद् उपाये विजये मम प्रवृत्तिर् न युक्ता, रन्धने यथा भोजनेछा-विरहिणः । तस्माद् अरण्य-निवसनम् एवास्माकं श्लाघ्य-जीवनत्वं भावीति ॥३१॥
१।३२-३५
किं नो राज्येन गोविन्द किं भोगैर् जीवितेन वा ।
येषाम् अर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥३२॥
त इमे ऽवस्थिता युद्धे प्राणांस् त्यक्त्वा धनानि च ।
आचार्याः पितरः पुत्रास् तथैव च पितामहाः ॥३३॥
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस् तथा ।
एतान् न हन्तुम् इच्छामि घ्नतो ऽपि मधुसूदन ॥३४॥
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ।
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज् जनार्दन ॥३५॥।
श्रीधर: एतद् एव प्रपञ्चयति किं नो राज्येन इत्य् आदि सार्ध-द्वयेन । त इमे इति । यद्-अर्थम् अस्माकं राज्यादिकम् अपेक्षितम् ते एते प्राण-धनानि त्यक्त्वा त्यागम् अङ्गीकृत्य युद्धार्थम् अवस्थिताः । अतः किम् अस्माकं राज्यादिभिः कृत्यम् इत्य् अर्थः ।
ननु यदि कृपया त्वम् एतान् न हंसि तर्हि त्वाम् एते राज्य-लोभेन हनिष्यन्त्य् एव । अतस् त्वम् एवैतान् हत्वा राज्यं भुङ्क्ष्वेति । तत्राह एतान् इत्य् आदि सार्धेन । घ्नतो ऽपि अस्मान् मारयतो ऽपि एतान् । अपीति । त्रैलोक्य-राज्यस्यापि हेतोः तत्-प्राप्त्य्-अर्थम् अपि हन्तुं नेच्छामि । किं पुनर् महीमात्र-प्राप्तय इत्य् अर्थः ॥३२-३५॥
विश्वनाथ: नोथिन्ग्।
बलदेव: गोविन्देति । गाः सर्वेन्द्रिय-वृत्तीः विन्दसीति त्वम् एव मे मनोगतं प्रतीहीत्य् अर्थः । राज्याद्य्-अनाकाङ्क्षायां हेतुम् आह येषाम् इति । प्राणान् प्राणाशां धनानि९ धनाशाम् इति लक्सणया बोध्यम् । स्व-प्राण-व्यये ऽपि स्व-बन्धु-सुखार्था राज्य-स्पृहा स्यात् तेषाम् अप्य् अत्र नाश-प्राप्तेर् अपार्थैव युद्धे प्रवृत्तिर् इति भावः ।
ननु त्वं चेत् कारुणिकस् एतान् न हन्यास् तर्हि ते स्व-राज्यं निष्कण्टकं कर्तुं त्वाम् एव हन्युर् इति चेत् तत्राह् एतान् इति । मां घ्नतो ऽपि हिंसतो ऽप्य् एतान् हन्तुम् अहं नेच्छामि । त्रैलोक्य-राज्यस्य प्राप्तये ऽपि किं पुनर् भू-मात्रस्य ।
नन्व् अन्वयान् हित्वा धृतराष्ट्र-पुत्रा एव हन्तव्या, बहु-दुःख-दातॄणां तेषां घाते सुख-सम्भवाद् इति चेत् तत्राह निहत्येति । धार्तराष्ट्रान् दुर्योधनादीन् निहत्य स्थितानां नः पाण्डावानां का प्रीतिः प्रसन्नता स्यान् न कापीति अचिर-सुखाभास-स्पृहया चिरतर-नरक-हेतु-भ्राऋहो न योग्य इति भावः । हे जनार्दनेति यद्य् एते हन्तव्यास् तर्हि भूभारापहारी त्वम् एव तान् हहि परेशस्य ते पाप-गन्ध-सम्बन्धो न भवेद् इति व्यज्यते ॥३२-३५॥
१।३६
पापम् एवाश्रयेद् अस्मान् हत्वैतान् आततायिनः ।
तस्मान् नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥३६॥
श्रीधर: ननु च अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः । क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥ इति स्मरणाद् अग्नि-दाहादिभिः षड्भिर् हेतुभिर् एते तावद् आततायिनः आततायिनां च वधो युक्त एव । आततायिनम् आयान्तं हन्याद् एवाविचारयन् । नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥ इति वचनात् ।
तत्राह पापम् एवेत्य् आदि-सार्धेन । आततायिनम् आयान्तम् इत्य् आदिकम् अर्थ-शास्त्रम् । तच् च धर्म-शास्त्रात् दुर्बलम् । यथोक्तं याज्ञवल्क्येन स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः । अर्थ-शास्त्रात् तु बलवान् धर्म-शास्त्रम् इति स्थितिः ॥ इति । तस्माद् आततायिनाम् अप्य् एतेषाम् आचार्यादीनां वधे ऽस्माकं पापम् एव भवेत् । अन्याय्यत्वाद् अधर्मत्वाच् चैतद् वधस्य अमुत्र चेह वा न सुखं स्याद् इत्य् आह स्वजनम् इति ॥३६॥
विश्वनाथ: ननु अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः । क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥ इति । आततायिनम् आयान्तं हन्याद् एवाविचारयन् । नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥ इत्य् आदि-वचनाद् एषां वध उचित एवेति । तत्राह पापम् इति । एतान् हत्वा स्थितान् अस्मान् । आततायिनम् आयान्तम् इत्य् आदिकम् अर्थ-शास्त्रं धर्म-शास्त्रात् दुर्बलम् । यद् उक्तं याज्ञवल्क्येन अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्मृतम् ॥ इति । तस्माद् आचार्यादीनां वधे पापं स्याद् एव । न चैहिकं सुखम् अपि स्याद् इत्य् आह स्वजनम् इति ॥३६॥
बलदेव: ननु अग्निदो गरदश् चैव शस्त्र-पाणिर् धनापहः । क्षेत्र-दारापहारी च षड् एते ह्य् आततायिनः ॥ आततायिनम् आयान्तं हन्याद् एवाविचारयन् । नाततायि-वधे दोषो हन्तुर् भवति कश्चन ॥ इत्य् उक्तेर् एषां षड्-विध्येनाततायिनां युक्तो वध इति चेत् तत्राह पापम् इति । एतान् हत्वा स्थितान् अस्मान् पापम् एव बन्धु-क्षय-हेतुकम् आश्रयेत् । अयं भावः आततायिनम् आयान्तम् इत्य् आदिकम् अर्थ-शास्त्रं मा हिंस्यात् सर्व-भूतानि इति धर्म-शास्त्रात् दुर्बलम् । अर्थ-शास्त्रात् तु बलवद् धर्म-शास्त्रम् इति स्थितिः ॥ इति स्मृतेः । तस्माद् दुर्बलार्थ-शास्त्र-बलेन पूज्यानां द्रोण-भीष्मादीनां वधः पाप-हेतुर् एवेति । न च श्रेयो ऽनुपश्यामीत्य् आरभ्योक्तम् उपसंहरति तस्माद् इति । पाप-सम्भवात् । दैहिक-सुखस्याप्य् अभावाच् चेत्य् अर्थः । न हि गुरुभिर् बन्धु-जनैश् च विनास्माकं
राज्य-भोगः सुखायापि तु अनुतापायैव सम्पत्स्यते । हे माधवेति श्रीपतिस् त्वम् अश्रीके युद्धे कथं प्रवर्तयसिईति भावः ॥३६॥
१।३७
यद्य् अप्य् एते न पश्यन्ति लोभोपहत-चेतसः ।
कुल-क्षय-कृतं दोषं मित्र-द्रोहे च पातकम् ॥३७॥
कथं न ज्ञेयम् अस्माभिः पापाद् अस्मान् निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर् जनार्दन ॥३८॥
श्रीधर: ननु तवैतेषाम् अपि बन्धु-वध-दोषे समाने सति यथैवैते बन्धु-वध-दोषम् अङ्गीकृत्यापि युद्धे प्रवर्तते । तथैव भवान् अपि प्रवर्ततां किम् अनेन विषादेनेत्य् अत आह यद्यपीति द्वाभ्याम् । राज्य-लोभेनोपहतं भ्रष्ट-विवेकं चेतो येषां ते एते दुर्योधनादयो यद्यपि दोषं न पश्यन्ति, तथापि अस्माभिर् दोषं प्रपश्यद्भिर् अस्मात् पापात् निवर्तितुं कथं न ज्ञेयं निवृत्ताव् एव बुद्धिः कर्तव्येत्य् अर्थः ॥३७-३८॥
विश्वनाथ: नन्व् एते तर्हि कथं युद्धे वर्तन्ते । तत्राह यद्यपीति ॥३७-३८॥
बलदेव: ननु आहूतो न निवर्तेत द्यूताद् अपि रणाद् अपि विदितं क्षत्रियस्येति क्षत्र-धर्म-स्मरणात् तैर् आहूतानां भवतां युद्धे प्रवृत्तिर् युक्तेति चेत् तत्राह यद्यपीहि द्वाभ्याम् । पापे प्रवृत्तौ लोभस् तेषां हेतुर् अस्माकं तु लोभ-विरहान् न तत्र प्रवृत्तिर् इति । इष्ट-सावधानता-ज्ञानं खलु प्रवर्तकम् । इष्टं चानिष्टान् अनुबन्धि-वाच्यम् । यद् उक्तम् -
फलतो ऽपि च यत् कर्म नानार्थेनानुबध्यते ।
केवल-प्रीति-हेतुत्वात् तद्-धर्म् इति कथ्यते ॥ इति ।
तथा च श्येनेनाभिचरन् यजेत इत्य् आदि शास्त्रोक्ते ऽपि श्येनादाव् इवानिष्टानुबन्धित्वाद् युद्धे ऽस्मिन् नः प्रवृत्तिर् न युक्तेति । आहूत इत्य् आदि शास्त्रं तु कुल-क्षय-दोषं विना भूत-विषयं भावि । हे जनार्दनेति प्राग्वत् ॥३७-३८॥
१।३९
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नम् अधर्मो ऽभिभवत्य् उत ॥३९॥
श्रीधर: तम् एव दोषं दर्शयति कुल-क्षय इत्य् आदि । सनातनाः परस्पराप्राप्ताः । उत अपि अवशिष्टं कृत्स्नम् अपि कुलम् अधर्मो ऽभिभवति व्याप्नोतीत्य् अर्थः ॥३९॥
विश्वनाथ: कुल-क्षय इति सनातनाः कुल-परस्परा-प्राप्तत्वेन बहु-कालतः प्राप्ता इत्य् अर्थः ॥३९॥
बलदेव: दोषम् एव प्रपञ्चयति कुल-क्षय इति । कुल-धर्माः कुलोचिता अग्नि-होत्रादयो धर्माः सनातनाः कुल-परस्पर-प्राप्ताः प्रणश्यन्ति कर्तुर् विनाशात् । उतेत्य् अप्य् अर्थे कृत्स्नम् इत्य् अनेन सम्बध्यते । धर्मे नष्टे सत्य् अवशिष्टं बालादि-कृत्स्नम् अपि कुलम् अधर्मो ऽभिभवति सतीत्य् अर्थः ॥३९॥
१।४०
अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः ॥४०॥
श्रीधर: ततश् च अधर्माभिभवाद् इत्य् आदि ॥४०॥
विश्वनाथ: प्रदुष्यन्तीति । अधर्म एव ता व्यभिचारे प्रवर्तयतीति भावः ॥४०॥
बलदेव: ततश् चाधर्माभिभवाद् इति । अस्मद्-भर्तृभिर् धर्मम् उल्लङ्घ्य यथा̆अकुल-क्षय-लक्षणे पापे वर्तितम्, तथास्माभिः पातिव्रत्यम् अवज्ञाय दुराचारे वर्तितव्यम् इति दुर्बुद्धि-हताः कुल-स्त्रियः प्रदुष्येयुर् इत्य् अर्थः ॥४०॥
१।४१
सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्य् एषां लुप्तपिण्डोदकक्रियाः ॥४१॥
श्रीधर: एवं सति सङ्कर इत्य् आदि । एषां कुल-घ्नानां पितरः पतन्ति । हि यस्मात् लुप्ताः पिण्डोदक-क्रिया येषां ते तथा ।
विश्वनाथ: नोथिन्ग्।
बलदेव: कुलस्य सङ्करः कुल-घ्नानां नरकायैवेति योजना । न केवलं कुल-घ्ना एव नरके पतन्ति, किन्तु तत्-पितरो ऽपीत्य् आह पतन्तीति हिर् हेतौ । पण्डादि दातॄणां पुत्रादीनाम् अभावाद् विलुप्त-पिण्डादि-क्रिया सन्तस् ते नरकायैव पतन्ति ॥४१॥
१।४२
दोषैर् एतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश् च शाश्वताः ॥४२॥
श्रीधर: उक्त-दोषम् उपसंहरति दोषैर् इति द्वाभ्यां । उत्साद्यन्ते लुप्यन्ते । जाति-धर्मा वर्ण-धर्माः कुल-धर्माश् चेति च-काराद् आश्रम-धर्मादयो ऽपि गृह्यन्ते ॥४२॥
विश्वनाथ: दोषैर् इति । उत्साद्यन्ते लुप्यन्ते ॥४२॥
बलदेव: उक्त-दोषम् उपसंहरति दोषैर् इति द्वाभ्यां । उत्साद्यन्ते विलुप्यन्ते । जाति-धर्माः क्षत्रियत्वादि-निर्बन्धनाः । कुल-धर्मास् त्व् असाधारणाः । च-शब्दाद् आश्रम-धर्मा ग्राह्याः ॥४२॥
१।४३
उत्सन्न-कुल-धर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्य् अनुशुश्रुम ॥४३॥
श्रीधर: उत्सन्नेति । उत्सन्नाः कुल-धर्मा येषाम् इति उत्सन्न-जाति-धर्मानाम् अप्य् उपलक्षणम् । अनुशुश्रुम श्रुतवन्तो वयम् । प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः । अपशात्-तापिनः कष्टान् निरयान् यान्ति दारुणान् ॥ इत्य् आदि वचनेभ्यः ॥४३॥
विश्वनाथ: नोथिन्ग्।
बलदेव: उत्सन्नेति । जाति-धर्मादीनां उपलक्षणम् एतत् । अनुशुश्रुम श्रुतवन्तो वयं गुरु-मुखात् । प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः । अपशात्-तापिनः कष्टान् निरयान् यान्ति दारुणान् ॥ इत्य् आदि वाक्यैः ॥४३॥
१।४४
अहो बत महत् पापं कर्तुं व्यवसिता वयम् ।
यद् राज्यसुखलोभेन हन्तुं स्वजनम् उद्यताः ॥४४॥
श्रीधर: बन्धु-वधाध्यवसायेन सन्त्य् उपमाने आह अहो बतेत्यादि । स्वजनं हन्तुम् उद्यता इति यत् एतन्-महत्-पापं कर्तुम् अध्यवसायं कृतवन्तो वयम् । अहो बत महत् कष्टम् इत्य् अर्थः ॥४४॥
विश्वनाथ: नोथिन्ग्।
बलदेव: बन्धु-वधाध्यवसायेनापि पापं सम्भाव्यानुपपन्नाह अहो इति । बतेति सन्देहे ॥४४॥
१।४५
यदि माम् अप्रतीकारम् अशस्त्रं शस्त्र-पाणयः ।
धार्तराष्ट्रा रणे हन्युस् तन् मे क्षेमतरं भवेत् ॥४५॥
श्रीधर: एवं सन्तप्तः सन् मृत्युम् एवाशंसमान आह यदि माम् इत्य् आदि । अप्रतीकारं तुष्णीम् उपविष्टं मां यदि हनिष्यन्ति तर्हि तद्-धननं मम क्षेमतरम् अत्यन्तं हितं भवेत् पापानिष्पत्तेः ॥४५॥
विश्वनाथ: नोथिन्ग्।
बलदेव: ननु त्वयि बन्धु-वधाद् विनिवृत्ते ऽपि भीष्मादिभिर् युद्धोत्सुकैस् त्व-वधः स्याद् एव ततः किं विधेयम् इति चेत् तत्राह यदि माम् इत्य् आदि । अप्रतीकारम् अकृत-मद्-वधाध्यवसाय-पाप-प्रायश्चित्तम् । क्षेमतरम् अतिहितं प्राणान्त-प्रायश्चित्तेनैवैतत् पापावमर्जनम् । भीष्मादयस् तु न तत्-पाप-फलं प्राप्स्यन्त्य् एवेति भावः ॥४५॥
१।४६
एवम् उक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥४६॥
श्रीधर: ततः किं वृत्तम् इत्य् अपेक्षायां सञ्जय उवाच एवम् उक्त्वेत्य् आदि । सङ्ख्ये सङ्ग्रामे रथोपस्थे रथस्योपरि उपाविशत् उपविवेश । शोकेन संविग्नं प्रकम्पितं मानसं चित्तं यस्य सः ॥४६॥
इति श्री-श्रीधर-स्वामि-कृतायां भगवद्-गीता-टीकायां सुबोधिन्याम्
अर्जुन-विषादो नाम प्रथमो ऽध्यायः ॥
विश्वनाथ: सङ्ख्ये सङ्ग्रामे । रथोपस्थे रथोपरि ।
इति सारार्थ-वर्षिण्यां हर्षिण्यां भक्त-चेतसाम् ।
गीतासु प्रथमो ऽध्यायः सङ्गतः सङ्गतः सताम् ॥४६॥
बलदेव: ततः किम् अभूद् इत्य् अपेक्षायां सञ्जय उवाच एवम् उत्वेति । सङ्ख्ये युद्धे रथोपस्थे रथोपरि उपाविशत् उपविवेश । पूर्वं युद्धाय प्रतियोद्धृ-विलोकनाय चोत्थितः सन् ॥
अहिंस्रस्यात्म-जिज्ञासा दयार्द्रस्योपजायते ।
तद् विरुद्धस्य नैवेति प्रथमाद् उपधारितम् ॥४६॥