17 श्रीमद्गीताभाष्यं सप्तदशोऽध्यायः

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

सप्तदशोऽध्यायः

देवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानं तत्प्राप्त्युपायज्ञानं च वेदैकमूलमित्युक्तम् । इदानीमशास्त्रविहितस्यासुरत्वेनाफलत्वम्, शास्त्रविहितस्य च गुणतस्त्रैविध्यम्, शास्त्रसिद्धस्य लक्षणं चोच्यते । तत्राशास्त्रविहितस्य निष्फलत्वमजानन्शास्त्रविहिते श्रद्धासंयुक्ते यागादौ सत्त्वादिनिमित्तफलभेदबुभुत्सया अर्जुनः पृच्छति –

अर्जुन उवाच

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ १ ॥

शास्त्रविधिमुत्सृज्य श्रद्धयान्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वम् ? आहोस्विद्रजः? अथ तमः? निष्ठा स्थितिः स्थीयतेऽस्मिन्निति स्थितिः सत्त्वादिरेव निष्ठेत्युच्यते । तेषां किं सत्त्वे स्थितिः? किं वा रजसि? किं वा तमसीत्यर्थः ॥ १ ॥

एवं पृष्टो भगवानशास्त्रविहितश्रद्धायास्तत्पूर्वकस्य च यागादेर्निष्फलत्वं हृदि निधाय शास्त्रीयस्यैव यागादेर्गुणतस्त्रैविध्यं प्रतिपादयितुं शास्त्रीयश्रद्धायास् त्रैविध्यं तावदाह –

श्रीभगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।

सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ २ ॥

सर्वेषां देहिनां श्रद्धा त्रिविधा भवति । सा च स्वभावजा स्वभावः स्वासाधारणो भावः, प्राचीनवासनानिमित्तस् तत्तद्रुचिविशेषः । यत्र रुचिस् तत्र श्रद्धा जायते । श्रद्धा हि स्वाभिमतं साधयत्येतदिति विश्वासपूर्विका साधने त्वरा । वासना रुचिश्च श्रद्धा चात्मधर्मा गुणसंसर्गजास् तेषामात्मधर्माणां वासनादीनां जनका देहेन्द्रियान्तःकरणविषयगता धर्माः कार्यैकनिरूपणीयाः सत्त्वादयो गुणाः सत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः । ततश्चेयं श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा । तामिमां श्रद्धां शृणु सा श्रद्धा यत्स्वभावा, तं स्वभावं शृण्वित्यर्थः॥२॥

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ ३ ॥

सत्त्वमन्तःकरणम् । सर्वस्य पुरुषस्यान्तःकरणानुरूपा श्रद्धा भवति । अन्तःकरणं यादृशगुणयुक्तम्, तद्विषया श्रद्धा जायत इत्यर्थः । सत्त्वशब्दः पूर्वोक्तानां देहेन्द्रियादीनां प्रदर्शनार्थः । श्रद्धामयोऽयं पुरुषः। श्रद्धामयः श्रद्धापरिणामः । यो यच्छ्रद्धः यः पुरुषो यादृश्या श्रद्धया युक्तः, स एव सः स तादृशश्रद्धापरिणामः । पुण्यकर्मविषये श्रद्धायुक्तश्चेत्, पुण्यकर्मफलसंयुक्तो भवतीति श्रद्धाप्रधानः फलसंयोग इत्युक्तं भवति ॥ ३ ॥ तदेव विवृणोति

यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः ।

प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ ४ ॥

सत्त्वगुणप्रचुराः सात्त्विक्या श्रद्धया युक्ता देवान् यजन्ते । दुःखासंभिन्नोत्कृष्ट-सुखहेतुभूतदेवयागविषया श्रद्धा सात्त्विकीत्युक्तं भवति । राजसा यक्षरक्षांसि यजन्ते । अन्ये तु तामसा जनाः प्रेतान् भूतगणान् यजन्ते । दुःखसंभिन्नाल्पसुखजननी राजसी श्रद्धा दुःखप्रायात्यल्पसुखजननी तामसीत्यर्थः॥४॥

एवं शास्त्रीयेष्वेव यागादिषु श्रद्धायुक्तेषु गुणतः फलविशेषः, अशास्त्रीयेषु तपोयागप्रभृतिषु मदनुशासनविपरीतत्वेन न कश्चिदपि सुखलवः, अपि त्वनर्थ एवेति हृदि निहितं व्यञ्जयनाह –

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।

दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥

कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।

मां चैवान्तश्शरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥ ६ ॥

अशास्त्रविहितमतिघोरमपि तपो ये जनास् तप्यन्ते । प्रदर्शनार्थमिदम् । अशास्त्रविहितं बह्वायास-ं यागादिकं ये कुर्वते, दम्भाहंकारसंयुक्ताः कामरागबलान्विताः शरीरस्थं पृथिव्यादिभूतसमूहं कर्शयन्तः, मदंशभूतं जीवं चान्तश्शरीरस्थं कर्शयन्तो ये तप्यन्ते, यागादिकं च कुर्वते तानासुरनिश्चयान् विद्धि। असुराणां निश्चय आसुरो निश्चयो ऽसुरा हि मदाज्ञाविपरीतकारिणः मदाज्ञाविपरीतकारित्वात्तेषां सुखलवसंबन्धो न विद्यते अपि त्वननर्थव्राते पतन्तीति पूर्वमेवोक्तम्, पतन्ति नरकेऽश्चौ (१६.१६) इति ॥ ५-६ ॥

अथ प्रकृतमेव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषं प्रपञ्चयति । तत्राहारमूलत्वात्सत्त्वादि-वृद्धेराहारत्रैविध्यं प्रथममुच्यते । अन्नमयं हि सोम्य मनः (छा.६.५.४), आहारशुद्धौ सत्त्वशुद्धिः (छा.७.२६.२) इति हि श्रूयते –

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।

यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७ ॥

आहारोऽपि सर्वस्य प्राणिजातस्य सत्त्वादिगुणत्रयान्वयेन त्रिविधः प्रियो भवति । तथैव यज्ञोऽपि त्रिविधः, तथा तपः दानं च । तेषां भेदमिमं शृणु तेषामाहारयज्ञतपोदानानां सत्त्वादिभेदेनेममुच्यमानं भेदं शृणु ॥ ७ ॥

आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियः ॥ ८ ॥

सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति । सत्त्वमयाश्चाहारा आयुर्विवर्धनाः पुनरपि सत्त्वस्य विवर्धनाः । सत्त्वमन्तःकरणम् अन्तःकरणकार्यं ज्ञानमिह सत्त्वशब्देनोच्यते । सत्त्वात्संजायते ज्ञानम् ((भ.गी.१४.१७) इति सत्त्वस्य ज्ञानविवृद्धिहेतुत्वात्, आहारोऽपि सत्त्वमयो ज्ञानविवृद्धिहेतुः। तथा बलारोग्ययोरपि विवर्धनाः । सुखप्रीत्योरपि विवर्धनाः परिणामकाले स्वयमेव सुखस्य विवर्धनास् तथा प्रीतिहेतुभूतकर्मारम्भद्वारेण प्रीतिवर्धनाः । रस्या मधुररसोपेताः । स्निग्धाः स्नेहयुक्ताः । स्थिराः स्थिरपरिणामाः। हृद्या रमणीयवेषाः । एवंविधाः सत्त्वमया आहाराः सात्त्विकस्य पुरुषस्य प्रियाः ॥८॥

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥

कटुरसाः, अम्लरसाः, लवणोत्कटाः, अत्युष्णाः, अतितीक्षणाः, रूक्षाः, विदाहिनश्चेति कट्वम्ल-लवणात्युष्णतीक्ष्णरूक्षविदाहिनः । अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगास्तीक्ष्णाः शोषकरा रूक्षास् तापकरा विदाहिनः । एवंविधा आहारा राजसस्येष्टाः । ते च रजोमयत्वाद्दुःखशोकामयवर्धना रजोवर्धनाश्च॥९॥

यातयामं गतरसं पूति पर्युषितं च यत् ।

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥

यातयामं चिरकालावस्थितं गतरसं त्यक्तस्वाभाविकरसम् पूति दुर्गन्धोपेतम्, पर्युषितं कालातिपत्त्या रसान्तरापन्नम् उच्छिष्टं गुर्वादिभ्योऽन्येषां भुक्तशिष्टम् अमेध्यमयज्ञार्हाम् अयज्ञशिष्टमित्यर्थः । एवंविधं तमोमयं भोजनं तामसप्रियं भवति । भुज्यत इति आहार एव भोजनम् । पुनश्च तमसो वर्धनम् । अतो हितैषिभिः सत्त्वविवृद्धये सात्त्विकाहार एव सेव्यः ॥१०॥

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।

यष्टव्यमेवेति मनस्समाधाय स सात्त्विकः ॥ ११ ॥

फलाकाङ्क्षारहितैः पुरुषैर् विधिदृष्टः शास्त्रदृष्टः मन्त्रद्रव्यक्रियादिभिर्युक्तः, यष्टव्यमेवेति भगवदाराधनत्वेन स्वयंप्रयोजनतया यष्टव्यमिति मनस्समाधाय यो यज्ञ इज्यते, स सात्त्विकः ॥११॥

अभिसन्धाय तु फलं दम्भार्थमपि चैव यः ।

इज्यते भरतश्रेष्थ तं यज्ञं विद्धि राजसम् ॥ १२ ॥

फलाभिसन्धियुक्तैर्दम्भगर्भो यशःफलश्च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि ॥ १७.१२ ॥

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।

श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥

विधिहीनं ब्राह्मणोक्तिहीनं सदाचारयुक्तैर्विद्वद्भिर्ब्राह्मणैर्यजस्वेत्युक्तिहीनमित्यर्थो ऽसृष्टान्नमचोदितद्रव्यम्, मन्त्रहीनमदक्षिणं श्रद्धाविरहितं च यज्ञं तामसं परिचक्षते ॥१७.१३॥

अथ तपसो गुणतस्त्रैविध्यं वक्तुं तस्य शरीरवाङ्मनोनिष्पाद्यतया स्वरूपभेदं तावदाह

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥

देवद्विजगुरुप्राज्ञानां पूजनम्, शौचं तीर्थस्नानादिकम्, आर्जवं यथामनःशरीरवृत्तम्, ब्रह्मचर्यं योषित्सु भोग्यताबुद्धियुक्तेक्षणादिरहितत्वम्, अहिंसा अप्राणिपीडा एतच्छरीरं तप उच्यते ॥ १४॥

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥

परेषामनुद्वेगकरं सत्यं प्रियहितं च यद्वाक्यं स्वाध्यायाभ्यसनं चेत्येतद्वाङ्मयं तप उच्यते ॥१५॥

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥

मनःप्रसादः मनसः क्रोधादिरहितत्वम्, सौम्यत्वं मनसः परेषामभ्युदयप्रावण्यम्, मौनं मनसा वाक्प्रवृत्तिनियमनम्, आत्मविनिग्रहः मनोवृत्तेर्ध्येयविषयेऽवस्थापनम्, भावशुद्धिर् आत्मव्यतिरिक्तविषयचिन्तारहितत्वम् एतन्मानसं तपः ॥ १६ ॥

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १७ ॥

अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः, युक्तैः परमपुरुषाराधनरूपमिदमिति चिन्तायुक्तैर् नरैः परया श्रद्धया यत्त्रिविधं तपः कायवाङ्मनोभिस्तप्तम्, तत्सात्त्विकं परिचक्षते ॥ १७ ॥

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८ ॥

मनसा आदरः सत्कारः, वाचा प्रशंसा मानः, शरीरो नमस्कारादिः पूजा । फलाभिसन्धिपूर्वकं सत्काराद्यर्थं च दम्भेन हेतुना यत्तपः क्रियते, तदिह राजसं प्रोक्तं स्वर्गादिफलसाधनत्वेन अस्थिरत्वाच्चलमध्रुवम् । चलत्वं – पातभयेन चलनहेतुत्वम्, अध्रुवत्वं – क्षयिष्णुत्वम् ॥

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।

परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १९ ॥

मूढा अविवेकिनः, मूढग्राहेण मूढैः कृतेनाभिनिवेशेन आत्मनः शक्त्यादिकमपरीक्ष्य आत्मपीडया यत्तपः क्रियते, परस्योत्सादनार्थं च यत्क्रियते, तत्तामसमुदाहृतम् ॥ १९ ॥

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥

फलाभिसन्धिरहितं दातव्यमिति देशे काले पात्रे चानुपकारिणे यद्दानं दीयते, तद्दानं सात्त्विकं स्मृतम् ॥ २० ॥

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।

दीयते च परिक्लिष्टं तद्राजसमुदाहृतम् ॥ २१ ॥

प्रत्युपकारकटाक्षगर्भं फलमुद्दिश्य च, परिक्लिष्टमकल्याणद्रव्यकं यद्दानं दीयते, तद्राजसम् उदाहृतम्॥२१॥

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।

असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ २२ ॥

अदेशकाले अपात्रेभ्यश्च यद्दानं दीयते, असत्कृतं पादप्रक्षालनादिगौरवरहितम्, अवज्ञातं सावज्ञमनुपचारयुक्तं यद्दीयते, तत्तामसमुदाहृतम् ॥ २२॥एवं वैदिकानां यज्ञतपोदानानां सत्त्वादिगुणभेदेन भेद उक्त इदानीं तस्यैव वैदिकस्य यज्ञादेः प्रणवसंयोगेन तत्सच्छब्दव्यपदेश्य्तया च लक्षणमुच्यते –

ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।

ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ २३ ॥

ओं तत्सदिति त्रिविधोऽयं निर्देशः शब्दः ब्रह्मणः स्मृतः ब्रह्मणोऽन्वयी भवति । ब्रह्म च वेदः। वेदशब्देन वैदिकं कर्मोच्यते । वैदिकं यज्ञादिकम् । यज्ञादिकं कर्म ओं तत्सदिति शब्दान्वितं भवति। ओमिति शब्दस्यान्वयो वैदिककर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतया तत्सदिति शब्दयोरन्वयः पूज्यत्वाय वाचकतया । तेन त्रिविधेन शब्देनान्विता ब्राह्मणा वेदान्वयिनस्त्रैवर्णिका वेदाश्च यज्ञाश्च पुरा विहिताः पुरा मयैव निर्मिता इत्यर्थः ॥ २३ ॥

त्रयाणामों तत्सदिति शब्दानामन्वयप्रकारो वर्ण्यते प्रथममोमिति शब्दस्यान्वयप्रकारमाह

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ २४ ॥

तस्माद्ब्रह्मवादिनां वेदादिनां त्रैवर्णिकानां यज्ञदानतपःक्रिया विधानोक्ता वेदविधानोक्ता आदौ ओमित्युदाहृत्य सततं सर्वदा प्रवर्तन्ते । वेदाश्च ओमित्युदाहृत्यारभ्यन्ते । एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणामोमिति शब्दान्वयो वर्णितः । ओमितिशब्दान्वितवेदधारणात्तदन्वितयज्ञादिकर्मकरणाच्च ब्राह्मणशब्दनिर्दिष्टानां त्रैवर्णिकानामपि ओमिति शब्दान्वयो वर्णितः ॥ २४ ॥

अथैतेषां तदिति शब्दान्वयप्रकारमाह –

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।

दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥

फलमनभिसन्धाय वेदाध्ययनयज्ञतपोदानक्रिया मोक्षकाङ्क्षिभिस्त्रैवर्णिकैर्याः क्रियन्ते, ता ब्रह्मप्राप्तिसाधनतया ब्रह्मवाचिना तदिति शब्देन निर्देश्याः स वः कः किं यत्तत्पदमनुत्तमम् (ति.त) इति तच्छब्दो हि ब्रह्मवाची प्रसिद्धः । एवं वेदाध्ययनयज्ञादीनां मोक्षसाधनभूतानां तच्छब्दनिर्देश्यतया तदिति शब्दान्वय उक्तः । त्रैवर्णिकानामपि तथाविधवेदाध्ययनाद्यनुष्ठानादेव तच्छब्दान्वय उपपन्नः॥२५॥

अथैषां सच्छब्दान्वयप्रकारं वक्तुं लोके सच्छब्दस्य व्युत्पत्तिप्रकारमाह –

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।

प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ २६ ॥

सद्भावे विद्यमानतायाम्, साधुभावे कल्याणभावे च सर्ववस्तुषु सदित्येतत्पदं प्रयुज्यते लोकवेदयोः। तथा केनचित्पुरुषेणानुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्कर्मेदमिति सच्छब्दो युज्यते प्रयुज्यते इत्यर्थः ॥ २६ ॥

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।

कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥

अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सदित्युच्यते । कर्म च तदर्थीयं त्रैवर्णिकार्थीयं यज्ञदानादिकं सदित्येवाभिधीयते । तस्माद्वेदा वैदिकानि कर्माणि ब्राह्मणशब्दनिर्दिष्टास्त्रैवर्णिकाश्च ओं तत्सदिति शब्दान्वयरूपलक्षणेन अवेदेभ्यश्चावैदिकेभ्यश्च व्यावृत्ता वेदितव्याः ॥ २७ ॥

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २८ ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु श्रद्धात्रयविभागयोगो नाम एकादशोऽध्यायः ॥ ११॥

अश्रद्धया कृतं शास्त्रीयमपि होमादिकमसदित्युच्यते । कुतः ? न च तत्प्रेत्य, नो इह न मोक्षाय, न सांसारिकाय च फलायेति ॥ २८ ॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये सप्तदशोऽध्यायः ॥ १७॥