भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
पञ्चदशोऽध्यायः
क्षेत्राध्याये क्षेत्रक्षेत्रज्ञभूतयोः प्रकृतिपुरुषयोः स्वरूपं विशोध्य विशुद्धस्यापरिच्छिन्न-ज्ञानैकाकारस्यैव पुरुषस्य प्राकृतगुणसङ्गप्रवाहनिमित्तो देवाद्याकारपरिणतप्रकृतिसंबन्धोऽनादिर् इत्युक्तम् । अनन्तरे चाध्याये पुरुषस्य कार्यकारणोभयावस्थप्रकृतिसंबन्धो गुणसङ्गमूलो भगवतैव कृत इत्युक्त्वा गुणसङ्गप्रकारं सविस्तरं प्रतिपाद्य गुणसङ्गनिवृत्तिपूर्वकात्म-याथात्म्यावाप्तिश्च भगवद्भक्तिमूलेत्युक्तम्। इदानीं भजनीयस्य भगवतः क्षराक्षरात्मकबद्ध-मुक्तविभूतिमत्ताम्, विभूतिभूतात्क्षराक्षरपुरुषद्वयान्निखिलहेय-प्रत्यनीककल्याणैक्तानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवतः पुरुषोत्तमत्वं च वक्तुमारभते ।
तत्र तावदसङ्गरूपशस्त्रच्छिन्नबन्धाम् अक्षराख्यविभूतिं वक्तुं छेद्यरूपबन्धाकारेण विततमचित्परिणाम-विशेषमश्वत्थवृक्षाकारं कल्पयन् –
श्रीभगवानुवाच
ऊर्ध्वमूलमधश्शाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥
यं संसाराख्यमश्वथमूर्ध्वमूलमधश्शाखमव्ययं प्राहुः श्रुतयः, ऊर्ध्वमूलोऽवाक्छाख एषोऽश्वत्थः सनातनः (क.६.१), ऊर्ध्वमूलमवाक्छाखं वृक्षं यो वेद संप्रति (यजु.आ.१.११.५) इत्याद्याः । सप्तलोकोपरिनिविष्टचतुर्मुखादित्वेन तस्योर्ध्वमूलत्वम् । पृथिवीनिवासिसकल-नरपशुमृगक्रिमिकीटपतङ्गस्थावरान्ततया अधश्शाखत्वम् । असङ्गहेतुभूताद सम्यग्ज्ञानोदयात् प्रवाहरूपेणाच्छेद्यत्वेनाव्ययत्वम् । यस्य चाश्वत्थस्य छन्दांसि पर्णान्याहुः । छन्दांसि – श्रुतयः, वायव्यं श्वेतमालभेत भूतिकामः (यजु.२.१.१), ऐन्द्राग्नमेकादश कपालं निर्वपेत्प्रजाकामः (यजु.२.२.१) इत्यादिश्रुतिप्रतिपादितैः काम्यकर्मभिर्वर्धतेऽयं संसारवृक्ष इति छन्दांस्येवास्य पर्णानि। पर्णैर्हि वृक्षो वर्धते । यस्तमेवंभूतमश्वत्थं वेद, स वेदवित् । वेदो हि संसारवृक्षच्छेदो-पायं वदति छेद्यवृक्षस्वरूपज्ञानं छेदनोपायज्ञनोपयोगीति वेदविदित्युच्यते॥ १५.१॥
अधश्चोर्ध्वं च प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
तस्य मनुष्यादिशाखस्य वृक्षस्य तत्तत्कर्मकृता अपराश्च अधः शाखाः पुनरपि मनुष्यपश्वादिरूपेण प्रसृता भवन्ति ऊर्ध्वं च गन्धर्वयक्षदेवादिरूपेण प्रसृता भवन्ति । ताश्च गुणप्रवृद्धा गुणैः सत्त्वादिभिः प्रवृद्धाः, विषयप्रवालाः शब्दादिविषयपल्लवाः । कथमित्यत्राह –
अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥
ब्रह्मलोकमूलस्यास्य वृक्षस्य मनुष्याग्रस्य, अधो मनुष्यलोके मूलान्यनुसन्ततानि तानि च कर्मानुबन्धीनि कर्माण्येवानुबन्धीनि मूलानि अधो मनुष्यलोके च भवन्तीत्यर्थः । मनुष्यत्वावस्थायां कृतैर्हि कर्मभिर् अधो मनुष्यपश्वादयः, ऊर्ध्वं च देवादयो भवन्ति ॥ २ ॥
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा ।
अस्य वृक्षस्य चतुर्मुखादित्वेनोर्ध्वमूलत्वम्, तत्सन्तानपरम्परया मनुष्याग्रत्वेन अधश्शाखत्वम्, मनुष्यत्वे कृतैः कर्मभिर्मूलभूतैः पुनरप्यधश्चोर्ध्वं च प्रसृतशाखत्वमिति यथेदं रूपं निर्दिष्टम्, न तथा संसारिभिरुपलभ्यते । मनुष्योऽहं देवदत्तस्य पुत्रो यज्ञदत्तस्य पिता तदनुरूपप्रिग्रहश्चेत्येतावन्मात्रमुपलभ्यते। तथा अस्य वृक्षस्य अन्तः विनाशोऽपि गुणमयभोगेषु असङ्गकृत इति नोपलभ्यते । तथा अस्य गुणसङ्ग एवादिरिति नोपलभ्यते । तस्य प्रतिष्ठा च अनात्मनि आत्माभिमानरूपमज्ञानमिति नोपलभ्यते प्रतितिष्ठत्यस्मिन्न्अएवेति ह्यज्ञान-मेवास्य प्रतिष्ठा ॥ २ ॥
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्वा ॥ ३ ॥
ततः पदं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः ।
एनमुक्तप्रकारं सुविरूढमूलं सुष्ठु विविधं रूढमूलमश्वत्थं सम्यग्ज्ञानमूलेन दृढेन गुणमयभोगासंगाख्येन शस्त्रेण छित्वा, ततः विषयासंगाद्धेतोस् तत्पदं परिमार्गितव्यं -अन्वेषणीयम्, यस्मिन् गता भूयो न निवर्तन्ते ॥ ३ ॥
कथमनादिकालप्रवृत्तो गुणमयभोगसंगस् तन्मूलं च विपरीतज्ञानं निवर्तत इत्यत आह –
तमेव चाद्यं पुरुषं प्रपद्येद्यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥
अज्ञानादिनिवृत्तये तमेव च आद्यं कृत्स्नस्यादिभूतम्, मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्‘, अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (भ.गी.९.१०), मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय (७.४) इत्यादिषूक्तमाद्यं पुरुषमेव शरणं प्रपद्येत्तमेव शरणं प्रपद्येत । यतः यस्मात्कृत्स्नस्य स्रष्टुरियं गुणमयभोगसङ्गप्रवृत्तिः, पुराणी पुरातनी प्रसृता । उक्तं हि मयैतत्पूर्वमेव, दैवी ह्येषा गुणमयी मम माया दूरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते (७.१४) इति । प्रपद्ये यतः प्रवृत्तिरिति वा पाठस् तमेव चाद्यं पुरुषं प्रपद्य – शरणमुपगम्य, इयतो ऽज्ञाननिवृत्त्यादेः कृस्त्नस्यैतस्य साधनभूता प्रवृत्तिः पुराणी पुरातनी प्रसृता । पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी । पुरातना हि मुमुक्षवो मामेव शरणमुपगम्य निर्मुक्तबन्धास्संजाता इत्यर्थः ॥ ४ ॥
निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्तास्सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ ५ ॥
एवं मां शरणमुपगम्य निर्मानमोहा निर्गतानात्मात्माभिमानरूपमोहाः, जितसङ्गदोषा जितगुणमयभोगसङ्गाख्यदोषाः । अध्यात्मनित्या आत्मनि यज्ज्ञानं तदध्यात्मम्, आत्मज्ञाननिरताः। विनिवृत्तकामा विनिवृत्ततदितरकामाः सुखदुःखसज्ञैर्द्वन्द्वैश्च विमुक्ताः, अमूढा आत्मानात्मस्वभवज्ञाः, तदव्ययं पदं गच्छन्ति अनवच्छिन्नज्ञानाकारमात्मानं यथावस्थितं प्राप्नुवन्ति मां शरणमुपगतानां मत्प्रसादादेरेवैताः सर्वाः प्रवृत्तयः सुशकाः सिद्धिपर्यन्ता भवन्तीत्यर्थः ॥ ५ ॥
न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥
तदत्मज्योतिर्न सूर्यो भासयते, न शशाङ्कः, न पावकश्च । ज्ञानमेव हि सर्वस्य प्रकाशकम् बाह्यानि तु ज्योतींषि विषयेन्द्रियसंबन्धविरोधितमोनिरसनद्वारेणोपकारकाणि । अस्य च प्रकाशको योगः । तद्विरोधि चानादिकर्म । तन्निवर्तनं चोक्तं भगवत्प्रपत्तिमूलमसङ्गादि । यद्गत्वा पुनर्न निवर्तन्ते, तत्परमं धाम परं ज्योतिर् मम मदीयम् मद्विभूतिभूतः ममांश इत्यर्थः । आदित्यादीनामपि प्रकाशकत्वेन तस्य परमत्वम् । आदित्यादीनि हि ज्योतींषि न ज्ञानज्योतिषः प्रकाशकानि ज्ञानमेव सर्वस्य प्रकाशकम् ॥ ६ ॥
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थितानि कर्षति ॥ ७ ॥
इत्थमुक्तस्वरूपः सनातनो ममांश एव सन् कश्चिदनादिकर्मरूपाविद्यावेष्टितो जीवभूतो जीवलोके वर्तमानो देवमनुष्यादिप्रकृतिपरिणामविशेषशरीरस्थानि मनष्षष्ठानीन्द्रियाणि कर्षति । कश्चिच्च पूर्वोक्तेन मार्गेणास्या अविद्याया मुक्तः स्वेन रूपेणावतिष्ठते । जीवभूतस्त्वतिसंकुचितज्ञानैश्वर्यः कर्मलब्धप्रकृति-परिणामविशेषरूपशरीरस्थानामिन्द्रियाणां मनष्षष्ठानामीश्वरस् तानि कर्मानुगुणमितस्ततः कर्षति ॥७॥
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥
यच्शरीरमवाप्नोति, यमाच्छरीरादुत्क्रामति, तत्रायमिन्द्रियाणामीश्वर एतानि इन्द्रियाणि भूतसूक्ष्मैस्सह गृहीत्वा संयाति वायुर्गन्धानिवाशयात् । यथा वायुः स्रक्चन्दनकस्तूरिकाद्याशयात्तत्स्थानात्सूक्ष्मावयवैस्सह गन्धान् गृहीत्वान्यत्र संयाति, तद्वदित्यर्थः ॥ ८ ॥ कानि पुनस्तानीन्द्रियाणीत्यत्राह –
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥
एतानि मनष्षष्ठानीन्द्रियाणि अधिष्ठाय स्वस्वविषयवृत्त्यनुगुणानि कृत्वा, तान् शब्दादीन् विषयानुपसेवते उपभुङ्क्ते ॥ ९ ॥
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥
एवं गुणान्वितं सत्त्वादिगुणमयप्रकृतिपरिणामविशेषमनुष्यत्वादिसंस्थानपिण्डसंसृष्टम्, पिण्डविशेषादुत्क्रामन्तं पिण्डविशेषेऽवथितं वा, गुणमयान् विषयान् भुञ्जानं वा कदाचिदपि प्रकृतिपरिणामविशेषमनुष्यत्वादि-पिण्डाद्विलक्षणं ज्ञानैकाकारं विमूढा नानुपश्यन्ति । विमूढा मनुष्यत्वादिपिण्डात्मत्वाभिमानिनः । ज्ञानचक्षुषस्तु पिण्डात्मविवेकविषयज्ञानवन्तः सर्वावस्थमप्येनं विविक्ताकारमेव पश्यन्ति ॥ १०॥
यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥
मत्प्रपत्तिपूर्वकं कर्मयोगादिषु यतमानास्तैर्निर्मलान्तःकरणा योगिनो योगाख्येन चक्षुषा आत्मनि शरीरेऽवस्थितमपि शरीराद्विविक्तं स्वेन रूपेणावस्थितमेनं पश्यन्ति । यतमाना अप्यकृतात्मानः मत्प्रपत्तिविरहिणस् तत एवासंस्कृतमनसः, तत एव अचेतस आत्मावलोकनसमर्थचेतोरहिता नैनं पश्यन्ति ॥ ११ ॥
एवं रविचन्द्राग्नीनामिन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमुखेनेन्द्रियानुग्राहकतया प्रकाशकानां ज्योतिष्मतामपि प्रकाशकज्ञानज्योतिरात्मा मुक्तावस्थो जीवावस्थश्च भगवद्विभूतिर् इत्युक्तम्, तद्धाम परमं मम , ममैवांशो जीवलोके जीवभूतस्सनातन इति । इदानीमचित्परिणामविशेषभूतमादित्यादीनां ज्योतिष्मतां ज्योतिरपि भगवद्विभूतिरित्याह –
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥
अखिलस्य जगतो भासकमेतेषामादित्यादीनां यत्तेजः, तन्मदीयं तेजस् तैस्तैराराधितेन मया तेभ्यो दत्तमिति विद्धि ॥ १२ ॥ पृथिव्याश्च भूतधारिण्या धारकत्वशक्तिर्मदीयेत्याह –
गामाविश्य च भूतानि धारयाम्यहमोजसा ॥
पुष्णामि चौषधीः सर्वास्सोमो भूत्वा रसात्मकः ॥ १३ ॥
अहं पृथिवीमाविश्य सर्वाणि भूतानि ओजसा ममाप्रतिहतसामर्थ्येन धारयामि । तथाहममृतरसमयस्सोमो भूत्वा सर्वौषधीः पुष्णामि ॥ १५.१३ ॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४ ॥
अहं वैश्वानरो जाठरानलो भूत्वा सर्वेषां प्राणिनां देहमाश्रितस् तैर्भुक्तं खाद्यचूष्यलेह्यपेयात्मकं चतुर्विधमन्नं प्राणापानवृत्तिभेदसमायुक्तः पचामि ॥ १४ ॥
अत्र परमपुरुषविभूतिभूतौ सोमवैश्वानरौ अहं सोमो भूत्वा, वैश्वानरो भूत्वा इति तत्सामानाधिकरण्येन निर्दिष्टौ । तयोश्च सर्वस्य भूतजातस्य च परमपुरुषसामानाधिकरण्यनिर्देशहेतुमाह –
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥
तयोः सोमवैश्वानरयोः सर्वस्य च भूतजातस्य सकलप्रवृत्तिनिवृत्तिमूलज्ञानोदयदेशे हृदि सर्वं मत्संकल्पेन नियच्छनहमात्मतया सन्निविष्टः । तथाहुः श्रुतयः, अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा (य.आ.३.११.२), यः पृथिव्यां तिष्ठन्, य आत्मनि तिष्ठनात्मनोऽन्तरो … यमयति (बृ.५.७.२२.मा), पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् (ना), अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म (छा.८.१.१) इत्याद्याः । स्मृतयश्च, शास्ता विष्णुरशेषस्य जगतो यो जगन्मयः (वि.१.१७.२०) , प्रशासितारं सर्वेषामणीयांसमणीयसाम् (मनु.१२.१२२), यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः (मनु.८.२२) इत्याद्याः । अतो मत्त एव सर्वेषां स्मृतिर्जायते । स्मृतिः पूर्वानुभूतिविषयमनुभवसंस्कारमात्रजं ज्ञानम् । ज्ञानमिन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः सोऽपि मत्तः । अपोहनं च । अपोहनं ज्ञाननिवृत्तिः । अपोहनमूहनं वा ऊहनमूह ऊहो नाम इदं प्रमाणमित्थं प्रवर्तितुमर्हातीति प्रमाणप्रवृत्त्यर्हाताविषयं सामग्र्यादिनिरूपणजन्यं प्रमाणानुग्राहकं ज्ञानं स चोहो मत्त एव । वेदैश्च सर्वैरहमेव वेद्यः । अतोऽग्निसूर्यवायुसोमेन्द्रादीनां मदन्तर्यामिकत्वेन मदात्मकत्वात्तत्प्रतिपादनपरैरपि सर्वैर्वेदैरहमेव वेद्यः, देवमनुष्यादिशब्दैर्जीवात्मैव । वेदान्तकृद्वेदानाम् इन्द्रं यजेत, वरुणं यजेत इत्येवमादीनामन्तः फलम् फले हि ते सर्वे वेदाः पर्यवस्यन्ति अन्तकृत्फलकृद् वेदोदितफलस्य प्रदाता चाहमेवेत्यर्थः । तदुक्तं पूर्वमेव, यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति (७.११) इत्यारभ्य लभते च ततः कामान्मयैव विहितान् हि तान् इति, अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च (९.२४) इति च । वेदविदेव चाहं वेदविच्चाहमेव । एवं मदभिधायिनं वेदमहमेव वेद इतोऽन्यथा यो वेदार्थं ब्रूते न स वेदविदित्यभिप्रायः ॥ १५ ॥ अतो मत्त एव सर्ववेदानां सारभूतमर्थं शृणु –
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥
क्षरश्चाक्षरश्चेति द्वाविमौ पुरुषौ लोके प्रथितौ । तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीवशब्दाभिलपनीय-ब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि। अत्राचित्संसर्गरूपैकोपाधिना पुरुष इत्येकत्वनिर्देशः। अक्षरशब्दनिर्दिष्टः कूटस्थः – अचित्संसर्गवियुक्तः स्वेन रूपेणावस्थितो मुक्तात्मा। स त्वचित्संसर्गाभावाद् अचित्परिणामविशेषब्रह्मादिदेहासाधारणो न भवतीति कूटस्थ इत्युच्यते । अत्राप्येकत्वनिर्देशोऽचिद्वियोग-रूपैकोपाधिनाभिहितः । न हि इतः पूर्वमनादौ काले मुक्त एक एव । यथोक्तम्, बहवो ज्ञानतपसा पूता मद्भावमागताः (४.१०), सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च (१४.२) इति॥१६॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥
उत्तमः पुरुषस्तु ताभ्यां क्षराक्षरशब्दनिर्दिष्टाभ्यां बद्धमुक्तपुरुषाभ्यामन्यो ऽर्थान्तरभूतः परमात्मेत्युदाहृतः सर्वासु श्रुतिषु । परमात्मेति निर्देशादेव ह्युत्तमः पुरुषो बद्धमुक्तपुरुषाभ्यामर्थान्तरभूत इत्यवगम्यते । कथम्? यो लोकत्रयमाविश्य बिभर्ति । लोक्यत इति लोकस् तत्त्रयं लोकत्रयम् । अचेतनं तत्संसृष्टश्चेतनो मुक्तश्चेति प्रमाणावगम्यमेतत्त्रयं य आत्मतया आविश्य बिभर्ति, स तस्माद्व्याप्याद्भर्तव्याच्चार्थान्तरभूतः । इतश्चोक्ताल्लोकत्रयादर्थान्तरभूतः यतः सोऽव्ययः, ईश्वरश्च अव्ययस्वभावो हि व्ययस्वभावादचेतनात्तत्संबन्धेन तदनुसारिणश्च चेतनादचित्संबन्धयोग्यतया पूर्वसंबन्धिनो मुक्ताच्चार्थान्तरभूत एव । तथैतस्य लोकत्रयस्येश्वरः, ईशितव्यात्तस्मादर्थान्तरभूतः ॥ १७ ॥
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥
यस्मादेवमुक्तैः स्वभावैः क्षरं पुरुषमतीतोऽहम्, अक्षरान्मुक्तादप्युक्तैर्हेातुभिरुत्कृष्टतमः, अतोऽहं लोके वेदे च पुरुषोत्तम इति प्रथितोऽस्मि । वेदार्थावलोकनाल्लोक इति स्मृतिरिहोच्यते । श्रुतौ स्मृतौ चेत्यर्थः । श्रुतौ तावत्, परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः (छा.८.१२.२) इत्यादौ। स्मृतवपि, अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः (वि.५.१७.३३) इत्यादौ ॥ १८ ॥
यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥
य एवमुक्तेन प्रकारेण पुरुषोत्तमं मामसंमूढो जानाति क्षराक्षरपुरुषाभ्याम्, अव्ययस्वभावतया व्यापनभरणैश्वर्यादियोगेन च विसजातीयं जानाति, स सर्वविन्मत्प्राप्त्युपायतया यद्वेदितव्यं तत्सर्वं वेद भजति मां सर्वभावेन ये च मत्प्राप्त्युपायतया मद्भजनप्रकारा निर्दिष्टास् तैश्च सर्वैर्भजनप्रकारैर्मां भजते । सर्वैर्मद्विषयैर्वेदनैर्मम या प्रीतिः, या च मम सर्वैर्मद्विषयैर्भजनैः, उभयविधा सा प्रीतिरनेन वेदनेन मम जायते ॥ १९॥ इत्येतत्पुरुषोत्तमत्ववेदनं पूजयति
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ २० ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु पुराणपुरुषोत्तमयोगो नाम एकादशोऽध्यायः ॥ ११॥
इत्थं मम पुरुषोत्तमत्वप्रतिपादनं सर्वेषां गुह्यानां गुह्यतममिदं शास्त्रम्, त्वमनघतया योग्यतम इति कृत्वा मया तवोक्तम् । एतद्बुद्ध्वा बुद्धिमांस्स्यात्कृतकृत्यश्च मां प्रेप्सुना उपादेया या बुद्धिः सा सर्वा उपात्ता स्यात्यच्च तेन कर्तव्यम्, तत्सर्वं कृतं स्यादित्यर्थः । अनेन श्लोकेन, अनन्तरोक्तं पुरुषोत्तमविषयं ज्ञानं शास्त्रजन्यमेवैतत्सर्वं करोति, न तत्साक्षात्काररूपमित्युच्यते ॥ २० ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये पञ्चदशोऽध्यायः ॥ १५ ॥