14 श्रीमद्गीताभाष्यं चतुर्दशोऽध्यायः

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

चतुर्दशोऽध्यायः

त्रयोदशे प्रकृतिपुरुषय्ाोरन्योन्यसंसृष्टयोः स्वरूपयाथात्म्यं विज्ञाय अमानित्वादिभिर् भगवद्भक्त्यनु-गृहीतैर् बन्धान्मुच्यत इत्युक्तम् । तत्र बन्धहेतुः पूर्वपूर्वसत्त्वादिगुणमयसुखादिसङ्ग इति चाभिहितम्, कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु (२१) इति । अथेदानीं गुणानां बन्धहेतुताप्रकारः, गुणनिवर्तनप्रकारश्चोच्यते ।

श्रीभगवानुवाच

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।

यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ १ ॥

परं पूर्वोक्तादन्यत्प्रकृतिपुरुषान्तर्गतमेव सत्त्वादिगुणविषयं ज्ञानं भूयः प्रवक्ष्यामि । तच्च ज्ञानं सर्वेषां प्रकृतिपुरुषविषयज्ञानानामुत्तमम् । यज्ज्ञानं ज्ञात्वा सर्वे मुनयस्तन्मननशीला इतः संसारबन्धात्परां सिद्धिं गताः परां परिशुद्धात्मस्वरूपप्राप्तिरूपां सिद्धिमवाप्ताः ॥ १॥ पुनरपि तज्ज्ञानं फलेन विशिनष्टि-

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥

इदं वक्ष्यमाणं ज्ञानमुपश्रित्य मम साधर्म्यमागता मत्साम्यं प्राप्ताः, सर्गेऽपि नोपजायन्ते न सृजिकर्मतां भजन्ते प्रलये न व्यथन्ति च न च संहृतिकर्मताम् (भजन्ते)॥२॥

अथ प्राकृतानां गुणानां बन्धहेतुताप्रकारं वक्तुं सर्वस्य भूतजातस्य प्रकृतिपुरुषसंसर्गजत्वं यावत्संजायते किञ्चित् (१३.२६) इत्यनेनोक्तं भगवता स्वेनैव कृतमित्याह –

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।

संभवस्सर्वभूतानां ततो भवति भारत ॥ ३ ॥

कृत्स्नस्य जगतो योनिभूतं मम महद्ब्रह्म यत्, तस्मिन् गर्भं दधाम्यहम्, भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयम् (७.४) इति निर्दिष्टा अचेतनप्रकृतिर् महदहङ्कारादि-विकाराणां कारणतया महद्ब्रह्मेत्युच्यते । श्रुतावपि क्वचित्प्रकृतिरपि ब्रह्मेति निर्दिश्यते, यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते (मु.१.१.१०) इति इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम् (७.५) इति चेतनपुञ्जरूपा या परा प्रकृतिर्निर्दिष्टा, सेह सकलप्राणिबीजतया गर्भ-शब्देनोच्यते । तस्मिनचेतने योनिभूते महति ब्रह्मणि चेतनपुञ्जरूपं गर्भं दधामि अचेतनप्रकृत्या भोगक्षेत्रभूतया भोक्तृवर्गपुञ्जभूतां चेतनप्रकृतिं संयोजयामीत्यर्थः । ततस् तस्मात्प्रकृतिद्वयसंयोगान्मत्संकल्पकृतात्सर्वभूतानां ब्रह्मादिस्तम्बपर्यन्तानां संभवो भवति ॥३॥

कार्यावस्थोऽपि चिदचित्प्रकृतिसंसर्गो मयैव कृत इत्याह –

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः ।

तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥

सर्वासु देवगन्धर्वयक्षराक्षसमनुष्यपशुमृगपक्षिसरीसृपादिषु योनिषु तत्तन्मूर्तयो याः संभवन्ति जायन्ते, तासां ब्रह्म महद्योनिः कारणम् मया संयोजितचेतनवर्गा महदादिविशेषान्तावस्था प्रकृतिः कारणमित्यर्थः। अहं बीजप्रदः पिता तत्र तत्र च तत्तत्कर्मानुगुण्येन चेतनवर्गस्य संयोजकश्चाहमित्यर्थः ॥४॥

एवं सर्गादौ प्राचीनकर्मवशादचित्संसर्गेण देवादियोनिषु जातानां पुनः पुनर्देवादिभावेन जन्महेतुमाह-

सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ।

निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥

सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभावविशेषाः प्रकाशादिकार्यैकनिरूपणीयाः प्रकृत्यवस्थायामनुद्भूतास् तद्विकारेषु महदादिषु उद्भूता महदादिविशेषान्तैरारब्धदेवमनुष्यादिदेहसंबन्धिनमेनं देहिनम्, अव्ययं – स्वतो गुणसंबन्धानर्हं देहे वर्तमानं निबध्नन्ति, देहे वर्तमानत्वोपाधिना निबध्नन्तीत्यर्थः॥५॥

सत्त्वरजस्तमसामाकारं बन्धनप्रकारं चाह –

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् ।

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥

तत्र सत्त्वरजस्तमस्तु सत्त्वस्य स्वरूपमीदृशं निर्मलत्वात्प्रकाशकम् प्रकाशसुखावरणस्वभावरहितता निर्मलत्वम् प्रकाशसुखजननैकान्तस्वभावतया प्रकाशसुखहेतुभूतमित्यर्थः । प्रकाशः वस्तुयाथात्म्यावबोधः। अनामयमामयाख्यं कार्यं न विद्यत इत्यनामयम् अरोगताहेतुरित्यर्थः । एष सत्त्वाख्यो गुणो देहिनमेनं सुखसङ्गेन ज्ञानसङ्गेन च बध्नाति पुरुषस्य सुखसङ्गं ज्ञानसङ्गं च जनयतीत्यर्थः। ज्ञानसुखयोस्सङ्गे हि जाते तत्साधनेषु लौकिकवैदिकेषु प्रवर्तते ततश्च तत्फलानुभवसाधनभूतासु योनिषु जायत इति सत्त्वं सुखज्ञानसङ्गद्वारेण पुरुषं बध्नाति । ज्ञानसुखजननं पुनरपि तयोस्सङ्गजननं च सत्त्वमित्युक्तं भवति ॥ ६ ॥

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥

रजो रागात्मकं रागहेतुभूतम् । रागः योषित्पुरुषयोरन्यान्यस्पृहा । तृणासङ्गसमुद्भवं तृष्णासङ्गयोरुद्भवस्थानं तृष्णासङ्गहेतुभूतमित्यर्थः । तृष्णा शब्दादिसर्वविषयस्पृहा सङ्गः पुत्रमित्रादिषु संबन्धिषु संश्लेषस्पृहा । तद्रजः देहिनं कर्मसु क्रियासु स्पृहाजननद्वारेण निबध्नाति क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश्च पुण्यपापरूपा इति तत्फलानुभवसाधनभूतासु योनिषु जन्महेतवो भवन्ति । अतः कर्मसङ्गद्वारेण रजो देहिनं निबध्नाति । तदेवं रजो रागतृष्णासङ्गहेतुः कर्मसङ्गहेतुश्चेत्युक्तं भवति ॥ ७ ॥

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।

प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥

ज्ञानादन्यदिह अज्ञानमभिप्रेतम् । ज्ञानं वस्तुयथात्म्यावबोधस् तस्मादन्यत्तद्विपर्ययज्ञानम् । तमस्तु वस्तुयाथात्म्यविअपरीतविषयज्ञानजम् । मोहनं सर्वदेहिनाम् । मोहो विपर्ययज्ञानं विपर्ययज्ञानहेतुरित्यर्थः। तत्तमः प्रमादालस्यनिद्राहेतुतया तद्द्वारेण देहिनं निबध्नाति । प्रमादः कर्तव्यात्कर्मणोऽन्यत्र प्रवृत्तिहेतुभूतमनवधानम् । आलस्यं कर्मस्वनारम्भस्वभावः स्तब्धतेति यावत् । पुरुषस्येन्द्रियप्रवर्तनश्रान्त्या सर्वेन्द्रियप्रवर्तनोपरतिर्निद्रा तत्र बाह्येन्द्रियप्रवर्तनोपरमः स्वप्नः मनसोऽप्युपरतिः सुषुप्तिः ॥ ८ ॥

सत्त्वादीनां बन्धद्वारभूतेषु प्रधानान्याह –

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।

ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९ ॥

सत्त्वं सुखसङ्गप्रधानं रजः कर्मसङ्गप्रधानं तमस्तु वस्तुयाथात्म्यज्ञानमावृत्य विपरीतज्ञानहेतुतया कर्तव्यविपरीतप्रवृत्तिसङ्गप्रधानम् ॥ ९ ॥ देहाकारपरिणतायाः प्रकृतेः स्वरूपानुबन्धिनः सत्त्वादयो गुणास् ते च स्वरूपानुबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्परविरुद्धं कार्यं कथं जनयन्तीत्यत्राह –

रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।

रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥

यद्यपि सत्त्वाद्यस्त्रयः प्रकृतिसंसृष्टात्मस्वरूपानुबन्धिनः, तथापि प्राचीनकर्मवशाद् देहाप्यायनभूताहारवैषम्याच्च सत्त्वादयः परस्परसमुद्भवाभिभवरूपेण वर्तन्ते । रजस्तमसी कदाचिदभिभूय सत्त्वमुद्रिक्तं वर्तते तथा तमस्सत्त्वे अभिभूय रजः कदाचित् कदाचिच्च रजस्सत्त्वे अभिभूय तमः॥१०॥

तच्च कार्योपलभ्यैवावगच्छेदित्याह

सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ।

ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥

सर्वेषु चक्षुरादिषु ज्ञानद्वारेषु यदा वस्तुयाथात्म्यप्रकाशे ज्ञानमुपजायते, तदा तस्मिन् देहे सत्त्वं प्रवृद्धमिति विद्यात् ॥ ११ ॥

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।

रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥

लोभः स्वकीयद्रव्यस्यात्यागशीलता प्रवृत्तिः प्रयोजनमनुद्दिश्यापि चलनस्वभावता आरम्भः कर्मणाम् – फलसाधनभूतानां कर्मणामारम्भः, अशम इन्द्रियानुरतिः स्पृहा विषयेच्छा । एतानि रजसि प्रवृद्धे जायन्ते । यदा लोभादयो वर्तन्ते, तदा रजः प्रवृद्धमिति विद्यादित्यर्थः ॥१२॥

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥

अप्रकाशः ज्ञानानुदयो ऽप्रवृत्तिश्च स्तब्धता प्रमादो ऽकार्यप्रवृत्तिफलमनवधानम् मोहः विपरीतज्ञानम् । एतानि तमसि प्रवृद्धे जायन्ते । एतैस्तमः प्रवृद्धमिति विद्यात् ॥ १३ ॥

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।

तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥ १४ ॥

यदा सत्त्वं प्रवृद्धं तदा, सत्त्वे प्रवृद्धे देहभृत्प्रलयं मरणं याति चेत्, उत्तमविदामुत्तमतत्त्वविदाम् आत्मयाथात्म्यविदां लोकान् समूहानमलान्मलरहितान् अज्ञानरहितान्, प्रतिपद्यते प्राप्नोति । सत्त्वे प्रवृद्धे तु मृत आत्मविदां कुलेषु जनित्वा आत्मयाथात्म्यज्ञानसाधनेषु पुण्यकर्मस्वधिकरोतीत्युक्तं भवति ॥ १४ ॥

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।

रजसि प्रवृद्धे मरणं प्राप्य फलार्थं कर्म कुर्वतां कुलेषु जायते तत्र जनित्वा स्वर्गादिफलसाधन-कर्मस्वधिकरोतीत्यर्थः॥

तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥

तथा तमसि प्रवृद्धे मृता मूढयोनिषु श्वसूकरादियोनिषु जायते । सकलपुरुषार्थारम्भानर्हो जायत इत्यर्थः ॥१५॥

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।

रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥

एवं सत्त्वप्रवृद्धौ मरणमुपगम्यात्मविदां कुले जातेनानुष्ठितस्य सुकृतस्य फलाभिसन्धिरहितस्य मदाराधनरूपस्य कर्मणः फलं पुनरपि ततोऽधिकसत्त्वजनितं निर्मलं दुःखगन्धरहितं भवतीत्याहुः सत्त्वगुणपरिणामविदः । अन्त्यकालप्रवृद्धस्य रजसस्तु फलं फलसाधनकर्मसङ्गिकुलजन्मफलाभिसन्धिपूर्वककर्मारम्भतत्फलानुभवपुनर्जन्मरजोवृद्धिफलाभि-सन्धिपूर्वक कर्मारम्भपरम्परारूपं सांसारिकदुःख-प्रायमेवेत्याहुस् तद्गुणयाथात्म्यविदः । अज्ञानं तमसः फलम् एवमन्त्यकालप्रवृद्धस्य तमसः फलमज्ञानपरम्परारूपम् ॥ १६ ॥

तदधिकसत्त्वादिजनितं निर्मलादिफलं किमित्यत्राह-

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च ।

प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥

एवं परम्परया जातादधिकसत्त्वादात्मयाथात्म्यापरोक्ष्यरूपं ज्ञानं जायते । तथा प्रवृद्धाद्रजसः स्वर्गादिफललोभो जायते । तथा प्रवृद्धाच्च तमसः प्रमादो ऽनवधाननिमित्ता असत्कर्मणि प्रवृत्तिस् ततश्च मोहः विपरीतज्ञानं ततश्चाधिकतरं तमस् ततश्चाज्ञानं ज्ञानाभावः ॥ १७ ॥

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।

जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १८ ॥

एवमुक्तेन प्रकारेण सत्त्वस्था ऊर्ध्वं गच्छन्ति क्रमेण संसारबन्धान्मोक्षं गच्छन्ति । रजसः स्वर्गादिफललोभकरत्वाद्राजसाः फलसाधनभुतं कर्मानुष्ठाय तत्फलमनुभूय पुनरपि जनित्वा तदेव कर्मानुतिष्ठन्तीति मध्ये तिष्ठन्ति । पुनरावृत्तिरूपतया दुःखप्रायमेव तत् । तामसास्तु जघन्यगुणवृत्तिस्था उत्तरोत्तरनिकृष्टतमोगुणवृत्तिषु स्थिता अधो गच्छन्ति अन्त्यत्वम्, ततस्तिर्यक्त्वम्, ततः क्रिमिकीटादिजन्म, स्थावरत्वम्, ततोऽपि गुल्मलतात्वम्, ततश्च शिलाकाष्ठलोष्टतृणादित्वं गच्छन्तीत्यर्थः ॥ १८ ॥

आहारविशेषैः फलाभिसन्धिरहितसुकृतविशेषैश्च परम्परया प्रवर्धितसत्त्वानां गुणात्ययद्वारेण ऊर्ध्वगमनप्रकारमाह –

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।

गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥

एवं सात्त्विकाहारसेवया फलाभिसन्धिरहितभगवदाराधनरूपकर्मानुष्ठानैश्च रजस्तमसी सर्वात्मनाभिभूय उत्कृष्टसत्त्वनिष्ठो यदायं गुणेभ्योऽन्यं कर्तारं नानुपश्यति गुणा एव स्वानुगुणप्रवृत्तिषु कर्तार इति पश्यति गुणेभ्यश्च परं वेत्ति कर्तृभ्यो गुणेभ्यश्च परमन्यमात्मानमकर्तारं वेत्ति स मद्भावमधिगच्छति मम यो भावस्तमधिगच्छति । एतदुक्तं भवति – आत्मनः स्वतः परिशुद्धस्वभावस्य पूर्वपूर्वकर्ममूलगुणसङ्गनिमित्तं विविधकर्मसु कर्तृत्वम् आत्मा स्वतस्त्वकर्ता अपरिच्छिन्नज्ञानैकाकार इत्येवमात्मानं यदा पश्यति, तदा मद्भावमधिगच्छतीति ॥ १९ ॥ कर्तृभ्यो गुणेभ्योऽन्यमकर्तारमात्मानं पश्यन् भगवद्भावमधिगच्छतीत्युक्तं स भगवद्भावः कीदृश इत्यत आह –

गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् ।

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ २० ॥

अयं देही देहसमुद्भवान् देहाकारपरिणतप्रकृतिसमुद्भवानेतान् सत्त्वादीन् त्रीन् गुणानतीत्य तेभ्योऽन्यं ज्ञानैकाकारमात्मानं पश्यन् जन्ममृत्युजरादुह्खैर्विमुक्तो ऽमृतमात्मानमनुभवति । एष मद्भाव इत्यर्थः ॥ २० ॥

अथ गुणातीतस्य स्वरूपसूचनाचारप्रकारं गुणात्ययहेतुं च पृच्छनर्जुन उवाच –

अर्जुन उवाच

कैर्लिङ्गैस्त्रिगुणानेतानतीतो भवति प्रभो ।

किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ॥ २१ ॥

सत्त्वादीन् त्रीन् गुणानेतानतीतः कैर्लिङ्गैः कैर्लक्षणैर् उपलक्षितो भवति? किमाचारः केनाचारेण युक्तोऽसौ? अस्य स्वरूपावगतिलिङ्गभूताचारः कीदृश इत्यर्थः । कथं चैतान् केनोपायेन सत्त्वादींस्त्रीन् गुणानतिवर्तते? ॥ २१ ॥

श्रीभगवानुवाच

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।

न द्वेष्टि संप्रवृत्तानि न निवृत्तानि कांक्षति ॥ २२ ॥

आत्मव्यतिरिक्तेषु वस्त्वनिष्टेषु संप्रवृत्तानि सत्त्वरजस्तमसां कार्याणि प्रकाशप्रवृत्तिमोहाख्यानि यो न द्वेष्टि, तथा आत्मव्यतिरिक्तेष्विष्टेषु वस्तुषु तान्येव निवृत्तानि न काङ्क्षति ॥ २२ ॥

उदासीनवदासीनो गुणैर्यो न विचाल्यते ।

गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥

उदासीनवदासीनः गुणव्यतिरिक्तात्मावलोकनतृप्त्या अन्यत्रोदासीनवदासीनः, गुणैर्द्वेषाकाङ्क्षाद्वारेणे यो न विचाल्यते गुणाः स्वेषु कार्येषु प्रकाशादिषु वर्तन्त इत्यनुसन्धाय यस्तूष्णीमवतिष्ठते । नेङ्गते न गुणकार्यानुगुणं चेष्टते ॥ २३ ॥

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः ।

तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥

मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।

सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥

समदुःखसुखः सुखदुःखयोस्समचित्तः, स्वस्थः स्वस्मिन् स्थितः । स्वात्मैकप्रियत्वेन तद्व्यतिरिक्तपुत्रादिजन्ममरणादिसुखदुःखयोस्समचित्त इत्यर्थः । तत एव समलोष्टाश्मकाञ्चनः। तत एव तुल्यप्रियाप्रियस् तुल्यप्रियाप्रियविषयः । धीरः प्रकृत्यात्मविवेककुशलः । तत एव तुल्यनिन्दात्मसंस्तुतिर् आत्मनि मनुष्याद्यभिमानकृतगुणागुणनिमित्तस्तुतिनिन्दयोः स्वासंबन्धानुसन्धानेन तुल्यचित्तः । तत्प्रयुक्तमानावमानयोस् तत्प्रयुक्तमित्रारिपक्षयोरपि स्वसंबन्धाभावादेव तुल्यचित्तः । तथा देहित्वप्रयुक्तसर्वारम्भपरित्यागी । य एवंभूतः, स गुणातीत उच्यते ॥ २४,२५ ॥

अथैवंरूपगुणात्यये प्रधानहेतुमाह –

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।

स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ २६ ॥

नान्यं गुणेभ्यः कर्तारम् इत्यादिनोक्तेन प्रकृत्यात्मविवेकानुसन्धानमात्रेण न गुणात्ययः संपत्स्यते तस्यानादिकालप्रवृत्तिविपरीतवासनाबाध्यत्वसंभवात् । मां सत्यसङ्कल्पं परमकारुणिकमाश्रित-वात्सल्यजलधिम्, अव्यभिचारेन ऐकान्त्यविशिष्टेन भक्तियोगेन च यः सेवते, स एतान् सत्त्वादीन् गुणान् दुरत्ययानतीत्य ब्रह्मभूयाय ब्रह्मत्वाय कल्पते ब्रह्मभावयोग्यो भवति । यथावस्थितमात्मानममृतमव्ययं प्राप्नोतीत्यर्थः ॥ २६ ॥

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ २७ ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु गुणत्रयोविभागयोगो नाम एकादशोऽध्यायः ॥ ११॥

हिशब्दो हेतौ यस्मादहमव्यभिचारिभक्तियोगेन सेवितोऽमृतस्याव्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयितनित्यैथ्र्श्वर्यस्य एइकान्तिकस्य च सुखस्य ‘वासुदेवः सर्वम्‘ इत्यादिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्येत्यर्थः । यद्यपि शाश्वतधर्मशब्दः प्रापकवचनः, तथापि पूर्वोत्तरयोः प्राप्यरूपत्वेन तत्साहचर्यादयमपि प्राप्यलक्षकः। एतदुक्तं भवति-पूर्वत्र दैवी ह्येषा गुणमयी मम माया दुरत्यया।मामेव ये प्रपद्यन्ते इत्यारभ्य गुणात्ययस्य तत्पूर्वकाक्षरैर्भगवत्प्राप्तीनाञ्च भगवत्प्रपत्त्येकोपायतायाः प्रतिपादितत्वाद् एकान्तभगवत्प्रपत्त्येकोपायो गुणात्ययस् तत्पूर्वकब्रह्मभावश्चेति ॥२७॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये चतुर्दशोऽध्यायः ॥ १४॥