भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
एकादशोऽध्यायः
एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवतः सर्वात्मत्वं तत एव तद्व्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं चोक्तम् । तमेतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशादुपश्रुत्य एवमेवेति नित्यश्च तथाभूतं भगवन्तं साक्षात्कर्तुकामोऽर्जुन उवाच । तथैव भगवत्प्रसादादनन्तरं द्रक्ष्यति । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् … तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधाः (भ.गी.११.१३) इति हि वक्ष्यते।
अर्जुन उवाच
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १ ॥
देहात्माभिमानरूपमोहेन मोहितस्य ममानुग्रहैकप्रयोजनाय परमं गुह्यं परमं रहस्यमध्यात्मसंज्ञितमात्मनि वक्तव्यं वचः, न त्वेवाहं जातु नासम् (२.१२) इत्यादि, तस्माद्योगी भवार्जुन (६.४६) इत्येतदन्तं यत्त्वयोक्तम्, तेनायं ममात्मविषयो मोहः सर्वो विगतः दूरतो निरस्तः ॥ १ ॥ तथा च –
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २ ॥
सप्तमप्रभृति दशमपर्यन्ते त्वद्व्यतिरिक्तानां सर्वेषां भूतानां त्वत्तः परमात्मनो भवाप्ययौ उत्पत्तिप्रलयौ विस्तरशो मया श्रुतौ हि । कमलपत्राक्ष, तव अव्ययं नित्यं सर्वचेतनाचेतनवस्तुशेषित्वं ज्ञानबलादिकल्याणगुणगणैस्तवैव परतरत्वं सर्वाधारत्वं चिन्तितनिमिषितादिसर्वप्रवृत्तिषु तवैव प्रवर्तयितृत्वमित्यादि अपरिमितं माहात्म्यं च श्रुतम् । हिशब्दो वक्ष्यमाणदिदृक्षाद्योतनार्थः ॥ २ ॥
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥
हे परमेश्वर!, एवमेतदित्यवधृतम्, यथाथ त्वमात्मानं ब्रवीषि । पुरुषोत्तम आश्रितवात्सल्यजलधे तवैश्वरं त्वदसाधारणं सर्वस्य प्रशासितृत्वे, पालयितृत्वे, स्रष्टृत्वे, संहर्तृत्वे भर्तृत्वे, कल्याणगुणाकरत्वे, परतरत्वे, सकलेतरविसजातीयत्वेऽवस्थितं रूपं द्रष्टुं साक्षात्कर्तुमिच्छामि ॥ ३ ॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥
तत्सर्वस्य स्रष्टृ, सर्वस्य प्रशासितृ, सर्वस्याधारभूतं त्वद्रूपं मया द्रष्टुं शक्यमिति यदि मन्यसे, ततो योगेश्वर योगो ज्ञानादिकल्याणगुणयोगः, पश्य मे योगमैश्वरम् (८) इति हि वक्ष्यते त्वद्व्यतिरिक्तस्य कस्याप्यसंभावितानां ज्ञानबलैश्वर्यवीर्यशक्तितेजसां निधे! आत्मानं त्वामव्ययं मे दर्शय । अव्ययमिति क्रियाविशेषणम् । त्वां सकलं मे दर्शयेत्यर्थः ॥ ४ ॥
श्रीभगवानुवाच
एवं कौतूहलान्वितेन हर्षगद्गदकण्ठेन पार्थेन प्रार्थितो भगवानुवाच –
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ५ ॥
पश्य मे सर्वाश्रयाणि रूपाणि अथ शतशः सहस्रशश्च नानाविधानि नानाप्रकाराणि, दिव्यानि अप्राकृतानि, नानावर्णाकृतीनि शुक्लकृष्णादिनानावर्णानि, नानाकाराणि च पश्य ॥ ५ ॥
पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ ६ ॥
ममैकस्मिन् रूपे पश्य आदित्यान् द्वादश, वसूनष्टौ, रुद्रानेकादश, अश्विनौ द्वौ, मरुतश्चैकोनपञ्चाशतम् । प्रदर्शनार्थमिदम्, इह जगति प्रत्यक्षदृष्टानि शास्त्रदृष्टानि च यानि वस्तूनि, तानि सर्वाणि, अन्यान्यपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्वदृष्टपूर्वाणि बहून्याश्चर्याणि पश्य ॥ ६ ॥
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ७ ॥
इह ममैकस्मिन् देहे, तत्रापि एकस्थमेकदेशस्थं सचराचरं कृत्स्नं जगत्पश्य यच्चान्यद्द्रष्टुमिच्छसि, तदप्येकदेहैकदेश एव पश्य ॥ ७ ॥
न तु मां शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥
अहं मम देहैकदेशे सर्वं जगद्दर्शयिष्यामि त्वं त्वनेन नियतपरिमितवस्तुग्राहिणा प्राकृतेन स्वचक्षुषा, मां तथाभूतं सकलेतरविसजातीयमपरिमेयं द्रष्टुं न शक्ष्यसे । तव दिव्यमप्राकृतं मद्दर्शनसाधनं चक्षुर्ददामि । पश्य मे योगमैश्वरम् मदसाधारणं योगं पश्य ममानन्तज्ञानादियोगमनन्तविभूतियोगं च पश्येत्यर्थः ॥८॥
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥
एवमुक्त्वा सारथ्येऽवस्थितः पार्थमातुलजो महायोगेश्वरो हरिर् महाश्चर्ययोगानामीश्वरः परब्रह्मभूतो नारायणः परममैश्वरं स्वासाधारणं रूपं पार्थाय पितृष्वसुः पृथायाः पुत्राय दर्शयामास । तद्विविधविचित्रनिखिलजगदाश्रयं विश्वस्य प्रशासितृ च रूपं तच्चेदृशम् ॥ ९॥
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ११ ॥
देवं द्योतमानम्, अनन्तं कालत्रयवर्ति निखिलजगदाश्रयतया देशकालपरिच्छेदानर्हाम्, विश्वतोमुखं विश्वदिग्वर्तिमुखम्, स्वोचितदिव्याम्बरगन्धमाल्याभरणायुधान्वितम् ॥ १० – ११ ॥
तामेव देवशब्दनिर्दिष्टां द्योतमानतां विशिनष्टि –
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भास्सदृशी सा स्याद्भासस्तस्य महात्मनः॥ १२ ॥
तेजसोऽपरिमितत्वदर्शनार्थमिदम् अक्षयतेजस्स्वरूपमित्यर्थः ॥ १२ ॥
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ १३ ॥
तत्र अनन्तायामविस्तारे, अनन्तबाहूदरवक्त्रनेत्रे, अपरिमिततेजस्के, अपरिमितदिव्यायुधोपेते, स्वोचितापरिमितदिव्यभूषणे, दिव्यमाल्याम्बरधरे, दिव्यगन्धानुलेपने, अनन्ताश्चर्यमये, देवदेवस्य दिव्ये शरीरे अनेकधा प्रविभक्तं ब्रह्मादिविविधविचित्रदेवतिर्यङ्मनुष्यस्थावरादिभोक्तृवर्गपृथिव्यन्तरिक्ष-स्वर्गपातालातल-वितलसुतलादिभोगस्थानभोग्यभोगोपकरणभेदभिन्नं प्रकृतिपुरुषात्मकं कृत्स्नं जगत्, अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (१०.८), हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभाः (१९), अहमात्मा गुडाकेश सर्वभूताशयस्थितः (२०), आदित्यानामहं विष्णुः (२१) इत्यादिना, न तदस्ति विना यत्स्यान्मया भूतं चराचरम् (३९), विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् (४२) इत्यन्तेनोदितम्, एकस्थमेकदेशस्थम् पाण्डवो भगवत्प्रसादलब्धतद्दर्शनानुगुणदिव्यचक्षुरपश्यत् ॥ १३ ॥
ततस्स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥
ततो धनञ्जयो महाश्चर्यस्य कृत्स्नस्य जगतः स्वदेहैकदेशेनाश्रयभूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमानन्तज्ञानादिकल्याणगुणगणं देवं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा शिरसा दण्डवत्प्रणम्य कृताञ्जलिरभाषत ॥ १४ ॥
अर्जुन उवाच
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्गान् ।
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दीप्तान् ॥ १५ ॥
देव! तव देहे सर्वान् देवान् पश्यामि तथा सर्वान् प्राणिविशेषाणां संघान्, तथा ब्रह्माणं चतुर्मुखमण्डाधिपतिम्, तथेशं कमलासनस्थं कमलासने ब्रह्मणि स्थितमीशं तन्मतेऽवस्थितं तथा देवर्षिप्रमुखान् सर्वानृषीन्, उरगांश्च वासुकितक्षकादीन् दीप्तान् ॥ १५ ॥
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ १६ ॥
अनेकबाहूदरवक्त्रनेत्रमनन्तरूपं त्वां सर्वतः पश्यामि विश्वेश्वर विश्वस्य नियन्तः, विश्वरूप विश्वशरीर! यतस्त्वमनन्तः, अतस्तव नान्तं न मध्यं न पुनस्तवादिं च पश्यामि ॥ १६ ॥
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वा दुर्निरीक्षं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥
तेजोराशिं सर्वतो दीप्तिमन्तं समन्ताद्दुर्निरीक्षं दीप्तानलार्कद्युतिमप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि ॥ १७ ॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ १८ ॥
उपनिषत्सु, द्वे विद्ये वेदितव्ये (मु.१.१.४) इत्यादिषु वेदितव्यतया निर्दिष्टं परममक्षरं त्वमेव अस्य विश्वस्य परं निधानं विश्वस्यास्य परमाधारभूतस्त्वमेव त्वमव्ययः व्ययरहितः यत्स्वरूपो यद्गुणो यद्विभवश्च त्वम्, तेनैव रूपेण सर्वदावतिष्ठसे । शाश्वतधर्मगोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवमादिभिरवतारैस्त्वमेव गोप्ता । सनातनस्त्वं पुरुषो मतो मे, वेदाहमेतं पुरुषं महान्तं (पु), परात्परं पुरुषम् (मु.३.२.८) इत्यादिषूदितः सनातनपुरुषस्त्वमेवेति मे मतः ज्ञातः । यदुकुलतिलकस्त्वमेवंभूत इदानीं साक्षात्कृतो मयेत्यर्थः ॥ १८ ॥
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वा दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ १९ ॥
अनादिमध्यान्तमादिमध्यान्तरहितम् । अनन्तवीर्यमनवधिकातिशयवीर्यं वीर्यशब्दः प्रदर्शनार्थो ऽनवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजसां निधिमित्यर्थः । अनन्तबाहुम् असंख्येयबाहुम् । सोऽपि प्रदर्शनार्थो ऽनन्तबाहूदरपादवक्त्रादिकम् । शशिसूर्यनेत्रं शशिवत्सूर्यवच्च प्रसादप्रतापयुक्तसर्वनेत्रम् । देवादीननुकूलान्नमस्कारादि कुर्वाणान् प्रति प्रसादः, तद्विपरीतानसुरराक्षसादीन् प्रति प्रतापः । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः (३६) इति हि वक्ष्यते । दीप्तहुताशवक्त्रं प्रदीप्तकालानलवत्संहारानुगुणवक्त्रम् । स्वतेजसा विश्वमिदं तपन्तम् । तेजः पराभिभवनसामर्थ्यं स्वकीयेन तेजसा विश्वमिदं तपन्तं त्वां पश्यामि एवम्भूतं सर्वस्य स्रष्टारं सर्वस्याधारभूतं सर्वस्य प्रशासितारं सर्वस्य संहर्तारं ज्ञानाद्यपरिमितगुणसागरमादिमध्यान्तरहितमेवंभूतदिव्यदेहं त्वां यथोपदेशं साक्षात्करोमीत्यर्थः । एकस्मिन् दिव्यदेहे अनेकोदरादिकं कथम्? । इत्थमुपपद्यते । एकस्मात्कटिप्रदेशाद् अनन्तपरिमाणादूर्ध्वमुद्गता यथोदितोदरादयः, अधश्च यथोदितदिव्यपादास् तत्रैकस्मिन्मुखे नेत्रद्वयमिति च न विरोधः॥ १९ ॥ एवंभूतं त्वां दृष्ट्वा देवादयोऽहं च प्रव्यथिता भवाम इत्याह –
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तदेवं लोकत्रयं प्रव्यथितं महात्मन् ॥ २० ॥
द्युशब्दः पृथिवीशब्दश्चोभौ उपरितनानामधस्तनानां च लोकानां प्रदर्शनार्थौ । द्यावापृथिव्योर् अन्तरमवकाशः । यस्मिन्नवकासे सर्वे लोकास्तिष्ठन्ति, सर्वोऽयमवकाशो दिशश्च सर्वास्त्वयैकेन व्याप्ताः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदमनन्तायामविस्तारमत्यद्भुतमत्युग्रं च रूपं दृष्ट्वा लोकत्रयं प्रव्यथितं युद्धदिदृक्षया आगतेषु ब्रह्मादिदेवासुरपितृगणसिद्धगन्धर्वयक्षराक्षसेषु प्रतिकूलानुकूलमध्यस्थरूपं लोकत्रयं सर्वं प्रव्यथितमत्यन्तभीतम् । महात्मनपरिच्छेद्यमनोवृत्ते । एतेषामप्यर्जुनस्यैव विश्वाश्रयरूप-साक्षात्कारसाधनं दिव्यं चक्षुर्भगवता दत्तम् । किमर्थमिति चेत्, अर्जुनाय स्वैश्वर्यं सर्वं प्रदर्शयितुम् । अत इदमुच्यते, ‘दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यर्थितं महात्मन्‘ इति ॥ २०॥
अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥२१ ॥
अमी सुरसंघा उत्कृष्टास्त्वां विश्वाश्रयमवलोक्य हृष्टमनसस् त्वन् समीपं विशन्ति । तेष्वेव केचिदत्युग्रमत्यद्भुतं च तवाकारमालोक्य भीताः प्राञ्जलयः स्वज्ञानानुगुणं स्तुतिरूपाणि वाक्यानि गृणन्ति उच्चारयन्ति । अपरे महर्षिसंघाः सिद्धसंघाश्च परावरतत्त्वयाथात्म्यविदः स्वस्तीत्युक्त्वा पुष्कलाभिर्भवदनुरूपाभिः स्तुतिभिः स्तुवन्ति ॥ २१ ॥
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्ष्यन्ते त्वां विस्मिताश्चैव सर्वे ॥ २२ ॥
ऊष्मपाः पितरः, ऊष्मभागा हि पितरः (अष्ट.१.३.१०.६१) इति श्रुतेः । एते सर्वे विस्मयमापन्नास्त्वां वीक्षन्ते॥२२॥
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥
बह्वीभिर्दंष्ट्राभिरतिभीषणाकारं लोकाः पूर्वोक्ताः प्रतिकूलानुकूलमध्यस्थास्त्रिविधाः सर्व एव अहं च तदेवमीदृशं रूपं दृष्ट्वा अतीव व्यथिता भवामः ॥ २३ ॥
नभस्स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
दृस्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥२४॥
नमश्शब्दस् तदक्षरे परमे व्योमन् (ना), आदित्यवर्णं तमसः परस्तात् (ना), क्षयन्तमस्य रजसः पराके (यजु.२.२.१२.६८), यो अस्याध्यक्षः परमे व्योमन् (अष्ट.२.८.९.६) इत्यादिश्रुतिसिद्धित्रिगुणप्रकृत्यतीतपरमव्योमवाची सविकारस्य प्रकृतितत्त्वस्य, पुरुषस्य च सर्वावस्थस्य, कृत्स्नस्याश्रयतया नभस्स्पृशम् इति वचनाद् द्यावापृथिव्योरिदमन्तरं हि व्याप्तम् इति पूर्वोक्तत्वाच्च। दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा प्रव्यथितान्तरात्मा अत्यन्तभीतमना धृतिं न विन्दामि देहस्य धारणं न लभे, मनसश्चेन्द्रियाणां च शमं न लभे । विष्णो व्यापिन्! । सर्वव्यापिनमतिमात्रमत्यद्भुतमतिघोरं च त्वां दृष्ट्वा प्रशिथिकसर्वावयवो व्याकुलेन्द्रियश्च भवामीत्यर्थः ॥ २४ ॥
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ २५ ॥
युगान्तकालानलवत्सर्वसंहारे प्रवृत्तानि अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने सुखं च न लभे । जगतां निवास देवेश ब्रह्मादीनामीश्वराणामपि परममहेश्वर! मां प्रति प्रसन्नो भव । यथाहं प्रकृतिं गतो भवामि, तथा कुर्वित्यर्थः ॥ २५ ॥
एवं सर्वस्य जगतः स्वायत्तस्थितिप्रवृत्तित्वं दर्शयन् पार्थसारथी राजवेषच्छद्मनावस्थितानां धार्तराष्ट्राणां यौधिष्ठिरेष्वनुप्रविष्टानां च असुरांशानां संहारेण भूभारावतरणं स्वमनीषितं स्वेनैव करिष्यमाणं पार्थाय दर्शयामास । स च पार्थो भगवतः स्रर्ष्ट्त्वादिकं सर्वैश्वर्यं साक्षात्कृत्य तस्मिन्नेव भगवति सर्वात्मनि धार्तराष्ट्रादीनामुपसंहारमनागतमपि तत्प्रसादलब्धेन दिव्येन चक्षुषा पश्यन्निदं चोवाच –
अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वैः सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ २७ ॥
अमी धृतराष्ट्रस्य पुत्रा दुर्योधनादयस्सर्वे भीष्मो द्रोणः सूतपुत्रः कर्णश्च तत्पक्षीयैरवनिपालसमूहैः सर्वैः, अस्मदीयैरपि कैश्चिद्योधमुख्यैस्सह त्वरमाणा दंष्ट्राकरालानि भयानकानि तव वक्त्राणि विनाशाय विशन्ति तत्र केचिच्चूर्णितैरुत्तमाङ्गैर्दशानान्तरेषु विलग्नास्संदृश्यन्ते ॥ २६ – २७ ॥
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥
यथा प्रदीप्तज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥
एते राजलोकाः, बहवो नदीनामम्बुप्रवाहाः समुद्रमिव, प्रदीप्तज्वलनमिव च शलभाः, तव वक्त्राण्यभिविज्वलन्ति स्वयमेव त्वरमाणा आत्मनाशाय विशन्ति ॥ २८ – २९ ॥
लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३० ॥
राजलोकान् समग्रान् ज्वलद्भिर्वदनैर्ग्रसमानः कोपवेगेन तद्रुधिरावसिक्तमोष्ठपुटादिकं लेलिह्यसे पुनः पुनर्लेहनं करोषि । तवातिघोरा भासः रश्मयस् तेजोभिः स्वकीयैः प्रकाशैर् जगत्समग्रमापूर्य प्रतपन्ति ॥ ३० ॥
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥
दर्शयात्मानमव्ययम् (४) इति तवैर्यं निरङ्कुशं साक्षात्कर्तुं प्रार्थितेन भवता निरङ्कुशमैश्वर्यं दर्शयता अतिघोररूपमिदमाविष्कृतम् । अतिघोररूपः को भवान्, किं कर्तुं प्रवृत्त इति भवन्तं ज्ञातुमिच्छामि । तवाभिप्रेतां प्रवृत्तिं न जानामि । एतदाख्याहि मे । नमोऽस्तु ते देववर! प्रसीद नमस्तेऽस्तु सर्वेश्वर एवं कर्तुम्, अनेनाभिप्रायेणेदं संहर्तृरूपमाविष्कृतमित्युक्त्वा प्रसन्नरूपश्च भव॥३१॥
आश्रितवात्सल्यातिरेकेण विश्वैश्वर्यं दर्शयतो भवतो घोररूपाविष्कारे कोऽभिप्राय इति पृष्टो भगवान् पार्थसारथिः स्वाभिप्रायमाह, पार्थोद्योगेन विनापि धार्तराष्ट्रप्रमुखमशेषं राजलोकं निहन्तुमहमेव प्रवृत्त इति ज्ञापनाय मम घोररूपाविष्कारः, तज्ज्ञापनं च पार्थमुद्योजयितुमिति ।
श्रीभगवानुवाच –
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥
कलयति गणयतीति कालः सर्वेषां धार्तराष्ट्रप्रमुखानां राजलोकानामायुरवसानं गणयन्नहं तत्क्षयकृद् घोररूपेण प्रवृद्धो राजलोकान् समाहर्तुमाभिमुख्येन संहर्तुमिह प्रवृत्तोऽस्मि । अतो मत्संकल्पादेव त्वामृतेऽपि त्वदुद्योगादृतेऽपि एते धार्तराष्ट्रप्रमुखास्तव प्रत्यनीकेषु येऽवस्थिता योधाः, ते सर्वे न भविष्यन्ति विनङ्क्ष्यन्ति ॥ ३२ ॥
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ ३३ ॥
तस्मात्त्वं तान् प्रति युद्धायोत्तिष्ठ । तान् शत्रून् जित्वा यशो लभस्व धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व । मयैवैते कृतापराधाः पूर्वमेव निहता हनने विनियुक्ताः । त्वं तु तेषां हनने निमित्तमात्रं भव। मया हन्यमानानां शत्रादिस्थानीयो भव । सव्यसाचिन् । षच समवाये सव्येन शरसचनशीलः सव्यसाची सव्येनापि करेण शरसमवायकरः करद्वयेन योद्धुं समर्थ इत्यर्थः ॥ ३३ ॥
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधमुख्यान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ ३४ ॥
द्रोणभीष्मकर्णादीन् कृतापराधतया मयैव हनने विनियुक्तान् त्वं जहि त्वं हन्याः । एतान् गुरून् बन्धूंश्च अन्यानपि भोगसक्तान् कथं हनिष्यामीति मा व्यथिष्ठास् तानुद्दिश्य धर्माधर्मभयेन बन्धुस्नेहेन कारुण्येन च मा व्यथां कृथाः । यतस्ते कृतापराधा मयैव हनने विनियुक्ताः, अतो निर्विशङ्कोयुध्यस्व। रणे सपत्नान् जेतासि जेष्यसि । नैतेषां वधे नृशंसतागन्धो ऽपि तु जय एव लभ्यत इत्यर्थः ॥३४॥
सञ्जय उवाच –
एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥
एतदश्रितवात्सल्यजलधेः केशवस्य वचनं श्रुत्वा अर्जुनस्तस्मै नमस्कृत्य भीतभीतो भूयस्तं प्रणम्य कृताञ्जलिर्वेपमानः किरीटी सगद्गदमाह ॥ ३५ ॥
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥
स्थाने युक्तम्। यदेतद्युद्धदिदृक्षयागतमशेषदेवगन्धर्वसिद्धयक्षविद्याधरकिन्नर-किंपुरुषादिकं जगत्, त्वत्प्रसादात्त्वां सर्वेश्वरमवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यति, अनुरज्यते च, यच्च त्वामवलोक्य रक्षांसि भीतानि सर्वा दिशः प्रद्रवन्ति, सर्वे सिद्धसंघाः सिद्धाद्यनुकूलसंघा नमस्यन्ति च तदेतत्सर्वं युक्तमिति पूर्वेण संबन्धः ॥ ३६ ॥
युक्ततामेवोपपादयति –
कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
महात्मन्, ते तुभ्यं गरीयसे ब्रह्मणः हिरण्यगर्भस्यापि आदिभूताय कर्त्रे हिरण्यगर्भादयः कस्माद्धेतोर्न नमस्कुर्युः ॥
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ ३७ ॥
अनन्त देवेश जगन्निवास त्वमेवाक्षरम् । न क्षरतीत्यक्षरं जीवात्मतत्त्वम् । न जायते म्रियते वा विपश्चित् (क.उ.२.१८) इत्यादिश्रुतिसिद्धो जीवात्मा हि न क्षरति। सदसच्च त्वमेव सदसच्छब्दनिर्दिष्टं कार्यकारणभावेनावस्थितं प्रकृतितत्त्वं, नामरूपविभागवत्तया कार्यावस्थं सच्छब्दनिर्दिष्टं तदनर्हातया कारणावस्थमसच्छब्दनिर्दिष्टं च त्वमेव । तत्परं यत्तस्मात्प्रकृतेः प्रकृतिसंबन्धिनश्च जीवात्मनः परमन्यन्मुक्तात्मतत्त्वं यत्, तदपि त्वमेव ॥ ३७ ॥
त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् ।
अतस्त्वमादिदेवः, पुरुषः पुराणः, त्वमस्य विश्वस्य परं निधानम् । निधीयते त्वयि विश्वम् इति त्वमस्य विश्वस्य परं निधानं विश्वस्य शरीरभूतस्यात्मतया परमाधारभूतस्त्वमेवेत्यर्थः ॥३७॥
वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ ३८ ॥
जगति सर्वो वेदिता वेद्यं च सर्वं त्वमेव । एवं सर्वात्मतयावस्थितस्त्वमेव परं च धाम स्थानम् प्राप्यस्थानमित्यर्थः । त्वया ततं विश्वमनन्तरूप । त्वयात्मत्वेन विश्वं चिदचिन्मिश्रं जगत्ततं – व्याप्तम् ॥ ३८ ॥
अतस्त्वमेव वाय्वादिशब्दवाच्य इत्याह –
वायुर्यमोऽग्निर्वरुणश्शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।
सर्वेषां प्रपितामहस्त्वमेव पितामहादयश्च । सर्वसां प्रजानां पितरः प्रजापतयः, प्रजापतीनां पिता हिरण्यगर्भः प्रजानां पितामहः, हिरण्यगर्भस्यापि पिता त्वं प्रजानां प्रपितामहः । पितामहादीनामात्मतया तत्तच्छब्दवाच्यस्त्वमेवेत्यर्थः ॥ ३९ ॥
अत्यद्भुताकारं भगवन्तं दृष्ट्वा हर्षोत्फुल्लनयनोऽत्यन्तसाध्वसावनतः सर्वतो नमस्करोति ॥
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥
अमितवीर्य, अपरिमितपराक्रमस्त्वं सर्वात्मतया समाप्नोषि ततः सर्वोऽसि । यतस्त्वं सर्वं चिदचिद्वस्तुजातमात्मतया समाप्नोषि, अतः सर्वस्य चिदचिद्वस्तुजातस्य त्वच्छरीरतया त्वत्प्रकारत्वात्सर्वप्रकारस्त्वमेव सर्वशब्दवाच्योऽसीत्यर्थः । त्वमक्षरं सदसत् (३७), वायुर्यमोऽग्निः (३७) इत्यादिसर्वसामानाधिकरण्यनिर्देशस्यात्मतया व्याप्तिरेव हेतुरिति सुव्यक्तमुक्तम्, त्वया ततं विश्वमनन्तरूप (३८), सर्वं समाप्नोषि ततोऽसि सर्व इति च ॥ ४० ॥
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेमं मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥
यश्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।
एकोऽथ वाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ ४२ ॥
तवानन्तवीर्यत्वामितविक्रमत्वसर्वान्तरात्मत्वस्रष्टृत्वादिको यो महिमा, तमिममजानता मया प्रमादान्मोहात्, प्रणयेन चिरपरिचयेन वा सखेति मम वयस्य इति मत्वा, हे कृष्ण, हे यादव, हे सखा इति त्वयि प्रसभं विनयापेतं यदुक्तं, यच्च प्रिहासार्थं सर्वदैव सत्कारार्हास्त्वमसत्कृतोऽसि, विहारशय्यासनभोजनेषु च सहकृतेषु एकान्ते वः समक्षं वा यदसत्कृतोऽसि तत्सर्वं त्वामप्रमेयमहं क्षामये ॥ ४१ – ४२ ॥
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरु गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥
अप्रतिमप्रभाव! त्वमस्य सर्वस्य चराचरस्य लोकस्य पितासि । अस्य लोकस्य गुरुश्चासि अतस्त्वमस्य चराचरस्य लोकस्य गरीयान् पूज्यतमः । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः लोकत्रयेऽपि त्वदन्यः कारुण्यादिना केनापि गुणेन न त्वत्समोऽस्ति । कुतोऽभ्यधिकः? ॥ ४३ ॥
तस्मात्प्रणम्य प्रणिधाय कार्यं प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हासि देव सोढुम् ॥ ४४ ॥
यस्मात्त्वं सर्वस्य पिता पूज्यतमो गुरुश्च कारुण्यादिगुणैश्च सर्वाधिकोऽसि, तस्मात्त्वामीशमीड्यं प्रणम्य प्रणिधाय च कायं, प्रसादये यथा कृतापराधस्यापि पुत्रस्य, यथा च सख्युः, प्रणामपूर्वं प्रार्थितः पिता वा सखा वा प्रसीदति तथा त्वं परमकारुणिकः प्रियाय मे सर्वं सोढुमर्हासि ॥ ४४ ॥
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ ४५ ॥
अदृष्टपूर्वम् अत्यद्भुतमत्युग्रं च तव रूपं दृष्ट्वा हृषितोऽस्मि प्रीतोऽस्मि । भयेन प्रव्यथितं च मे मनः । अतस्तदेव तव सुप्रसन्नं रूपं मे दर्शय । प्रसीद देवेश जगन्निवास मयि प्रसादं कुरु, देवानां ब्रह्मादीनामपीश, निखिलजगदाश्रयभूत ॥ ४५ ॥
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
तथैव पूर्ववत्, किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुमिच्छामि । अतस्तेनैव पूर्वसिद्धेन चतुर्भुजेन रूपेण युक्तो भव । सहस्रबाहो विश्वमूर्ते इदानीं सहस्रबाहुत्वेन विश्वशरीरत्वेन दृश्यमानरूपस्त्वं तेनैव रूपेण युक्तो भवेत्यर्थः ॥ ४६ ॥
श्रीभगवानुवाच
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥
यन्मे तेजोमयं तेजसां राशिर् विश्व! विश्वात्मभूतम्, अनन्तमन्तरहितम् प्रदर्शनार्थमिदम् आदिमध्यान्तरहितम् आद्यं मद्व्यतिरिक्तस्य कृत्स्नस्यादिभूतम्, त्वदन्येन केनापि न दृष्टपूर्वं रूपं तदिदं प्रसन्नेन मया मद्भक्ताय ते दर्शितम् आत्मयोगादत्मनस्सत्यसंकल्पत्वयोगात् ॥ ४७ ॥
अनन्यभक्तिव्यतिरिक्तैः सर्वैरप्युपायैर्यथावदवस्थितोऽहं द्रष्टुं न शक्य इत्याह –
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपश्शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
एवंरूपो यथावदवथितोऽहं मयि भक्तिमतस्त्वत्तोऽन्येन एकान्तभक्तिरहितेन केनापि पुरुषेण वेदयज्ञादिभिः केवलैर्द्रष्टुं न शक्यः ॥ ४८ ॥
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥
ईदृशघोररूपदर्शनेन ते या व्यथा, यश्च विमूढभावो वर्तते, तदुभयं मा भूत् त्वया अभ्यस्तपूर्वमेव सौम्यं रूपं दर्शयामि, तदेवेदं मम रूपं प्रपश्य ॥ ४९ ॥
सञ्जय उवाच –
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं भूत्वा पुनस्सौम्यवपुर्महात्मा ॥ ५० ॥
एवं पाण्डुतनयं भगवान् वसुदेवसूनुरुक्त्वा भूयः स्वकीयमेव चतुर्भुजं रूपं दर्शयामास अपरिचितरुपदर्शनेन भीतमेनं पुनरपि परिचितसौम्यवपुर्भूत्वा आश्वासयामास च, महात्मा सत्यसङ्कल्पः। अस्य सर्वेश्वरस्य परमपुरुषस्य परस्य ब्रह्मणो जगदुपकृतिमर्त्यस्य वसुदेवसूनोश्चतुर्भुजमेव स्वकीयं रूपं कंसाद्भीतवसुदेवप्रार्थनेन आकंसवधाद्भुजद्वयमुपसंहृतं पश्चादाविष्कृतं च । जातोऽसि देव देवेश शङ्खचक्रगदाधर । दिव्यं रूपमिदं देव प्रसादेनोप्संहर ॥ ….. उपसंहर विश्वात्मन् रूपमेतच्चतुर्भुजम् (वि.पु.५.३.१३) इति हि प्रार्थितम् । शिशुपालस्यापि द्विषतोऽनवरतभावनाविषयश्चतुर्भुजमेव वसुदेवसूनो रूपम्, उदारपीवरचतुर्बाहुं शङ्खचक्रगदाधरम् (वि.पु.४.१५.१३) इति । अतः पार्थेनात्र तेनैव रूपेण चतुर्भुजेनेत्युच्यते ॥ ५० ॥
अर्जुन उवाच
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥
अनवधिकातिशयसौन्दर्यसौकुमार्यलावण्यादियुक्तं तवैवासाधारणं मनुष्यत्वसंस्थान-संस्थितमतिसौम्यमिदं तव रूपं दृष्ट्वा इदानीं सचेतास्संवृत्तोऽस्मि प्रकृतिं गतश्च ॥ ५१ ॥
श्रीभगवानुवाच
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
मम इदं सर्वस्य प्रशासनेऽवस्थितं सर्वास्रयं सर्वकारणभूतं रूपं यद्दृष्टवानसि, तत्सुदुर्दर्शं न केनापि द्रष्टुं शक्यम् । अस्य रूपस्य देवा अपि नित्यं दर्शनकाङ्क्षिणः, न तु दृष्टवन्तः ॥ ५२ ॥ कुत इत्यत्र आह –
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३ ॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ५४ ॥
वेदैरध्यापनप्रवचनाध्ययनश्रवणजपविषयैः, यागदानहोमतपोभिश्च मद्भक्तिविरहितैः केवलैर् यथावदवस्थितोऽहं द्रष्टुमशक्यः । अनन्यया तु भक्त्या तत्त्वतश्शास्त्रैर्ज्ञातुं तत्त्वतस्साक्षात्कर्तुं, तत्त्वतः प्रवेष्टुं च शक्यः । तथा च श्रुतिः, नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् (कठ. २.२३) इति ॥ ५३ – ५४ ॥
मत्कर्मकृन्मत्परमो मद्भक्तस्सङ्गवर्जितः ।
निर्वैरस्सर्वभूतेषु यः स मामेति पाण्डव ॥ ५५ ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ……..विश्वरूपसन्दर्शनयोगो नाम एकादशोऽध्यायः ॥ ११॥
वेदाध्ययनादीनि सर्वाणि कर्माणि मदाराधनरूपाणीति यः करोति, स मत्कर्मकृत् । मत्परमः सर्वेषामारम्भाणामहमेव परमोद्देश्यो यस्य, स मत्परमः । मद्भक्तो ऽत्यर्थमत्प्रियत्वेन मत्कीर्तनस्तुति-ध्यानार्चनप्रणामादिभिर्विना आत्मधारणमलभमानो मदेकप्रयोजनतया यः सततं तानि करोति, स मद्भक्तः । सङ्गवर्जितः मदेकप्रियत्वेनेतरसङ्गमसहमानः । निर्वैरस्सर्वभूतेषु मत्संश्लेषवियोगैकसुख-दुःखस्वभावत्वात् स्वदुःखस्य स्वापराधननिमित्तत्वानुसंधानाच्च सर्वभूतानां परमपुरुषपरतन्त्रत्वानुसंधानाच्च सर्वभूतेषु वैरनिमित्ताभावात्तेषु निर्वैरः । य एवं भूतः, स मामिति मां यथावदवस्थितं प्राप्नोति निरस्ताविद्याद्यशेषदोषगन्धो मदेकानुभवो भवतीत्यर्थः ॥ ५५ ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये एकादशोऽध्यायः ॥ ११॥