भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
दशमोध्यायः
भक्तियोगः सपरिकर उक्तः । इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भ्गवतो निरङ्कुश-ऐश्वर्यादिकल्याणगुणगणानन्त्यम्, कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते –
श्रीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१ ॥
मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनया भूयो मन्माहात्म्यप्रपञ्च-विषयमेव परमं वचो यद्वक्ष्यामि तदवहितमनाश्शृणु ॥ १ ॥
न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ २ ॥
सुरगणामहर्षयश्चातीन्द्रियार्थदर्शिनोऽधिकतरज्ञाना अपि मे प्रभवं प्रभावं न विदुर् मम नामकर्मस्वरूपस्वभावादिकं न जानन्ति यतस्तेषां देवानां महर्षीणां च सर्वशोऽहमादिस् तेषां स्वरूपस्य ज्ञानशक्त्यादेश्चाहमादिस् तेषां देवत्वमहर्षित्वादिहेतुभूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितम् अतस्ते परिमितज्ञाना मत्स्वरूपादिकं यथावन्न जानन्ति ॥ २ ॥
तदेतद्देवाद्यचिन्त्यस्वयाथात्म्यविषयज्ञानं भक्त्युत्पत्तिविरोधिपापविमोचनोपायमाह –
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढस्स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥
न जायत इत्यजः, अनेन विकारिद्रव्यादचेतनात्तत्संसृष्टात्संसारिचेतनाच्च विसजातीयत्वमुक्तम्। संसारिचेतनस्य हि कर्मकृताचित्संसर्गो जन्म । अनादिमित्यनेन पदेन आदिमतोऽजान्मुक्तात्मनो विसजातीयत्वमुक्तम् । मुक्तात्मनो ह्यजत्वमादिमत् तस्य हेयसंबन्धस्य पूर्ववृत्तत्वात्तदर्हातास्ति । अतोऽनादिमित्यनेन तदनर्हातया तत्प्रत्यनीकतोच्यते निरवद्यम् (श्वे.६.१९) इत्यादिश्रुत्या च । एवं हेयसंबन्धप्रत्यनीकस्वरूपतया तदनर्हं मां लोकमहेश्वरं लोकेश्वराणामपीश्वरं मर्त्येष्वसंमूढो यो वेत्ति इतरसजातीयतयैकीकृत्य मोहः संमोहः, तद्रहितोऽसंमूढः स मद्भक्त्युत्पत्तिविरोधिभिस्सर्वैः पापैः प्रमुच्यते । एतदुक्तं भवति लोके मनुष्याणां राजा इतरमनुष्यसजातीयः केनचित्कर्मणा तदाधिपत्यं प्राप्तस् तथा देवानामधिपतिरपि तथाण्डाधिपतिरपीतरसंसारिसजातीयस् तस्यापि भावनात्रयान्तर्गतत्वात्। यो ब्रह्माणं विदधाति (श्वे.६.८) इति श्रुतेश्च । तथान्येऽपि ये केचनाणिमाद्यैश्वर्यं प्राप्ताः । अयं तु लोकमहेश्वरः कार्यकारणावस्थादचेतनाद्बद्धान्मुक्ताच्च चेतनादिशितव्यात्सर्वस्मान्निखिलहेय-प्रत्यनीकानवधि-कातिशय असंख्येयकल्याणगुणैकतानतया नियमनैकस्वभावतया च विसजातीय इतीत्रसजातीयतामोहरहितो यो मां वेत्ति, स सर्वैः पापैः प्रमुच्यते इति ॥ ३ ॥
एवं स्वस्वभावानुसन्धानेन भक्त्युत्पत्तिविरोधिपापनिरसनम्, विरोधिनिरसना देवार्थतो भक्त्युत्पत्तिं च प्रतिपाद्य स्वैश्वर्यस्वकल्याणगुणगणप्रपञ्चानुसन्धानेन भक्तिविवृद्धिप्रकारमाह –
बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥
अहिंसा समता तुष्ठिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥
बुद्धिर् मनसो निरूपणसामर्थ्यम्, ज्ञानं चिदचिद्वस्तुविशेषविषयो निश्चयः, असंमोहः पूर्वगृहीताद्रजतादेर्विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिः क्षमा मनोविकारहेतौ सत्यप्यविकृतमनस्त्वं सत्यं यथादृष्टविषयं भूतहितरूपं वचनम् । तदनुगुणा मनोवृत्तिरिहाभिप्रेता, मनोवृत्तिप्रकरणात् । दमः बाह्यकरणानामनर्थविषयेभ्यो नियमनं शमो ऽन्तःकरणस्य तथा नियमनं सुखमात्मानुकूलानुभवः दुःखं प्रतिकूलानुभवः भवः भवनम् अनुकूलानुभवहेतुकं मनसो भवनम् अभावः प्रतिकूलानुभवहेतुको मनसोऽवसादः भयमागामिनो दुःखस्य हेतुदर्शनजं दुःखं तन्निवृत्तिर् अभयम् अहिंसा परदुःखाहेतुत्वं समता आत्मनि सुकृत्सु विपक्षेषु चार्थानर्थयोस्सममतित्वं तुष्टिः सर्वेष्वात्मसु दृष्टेषु तोषस्वभावत्वं तपः शास्त्रीयो भोगसङ्कोचरूपः कायक्लेशः दानं स्वकीयभोग्यानं परस्मै प्रतिपादनं यशः गुणवत्ताप्रथा अयशः – नैर्गुण्यप्रथा । एतच्चोभयं तदनुगुणमनोवृत्तिद्वयं मन्तव्यम्, तत्प्रकरणात् । तपोदाने च तथा । एवमाद्याः सर्वेषां भूतानां भावाः प्रवृत्तिनिवृत्तिहेतवो मनोवृत्तयो मत्त एव मत्सङ्कल्पायत्ता भवन्ति ॥ ४ – ५ ॥
सर्वस्य भूतजातस्य सृष्टिस्थित्योः प्रवर्तयितारश्च मत्संकल्पायत्तप्रवृत्तय इत्याह –
महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥
पूर्वे सप्त महर्षयो ऽतीतमन्वन्तरे ये भृग्वादयस्सप्त महर्षयो नित्यसृष्टिप्रवर्तनाय ब्रह्मणो मनस्संभवाः, नित्यस्थितिप्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनवः स्थिताः, येषां सन्तानमये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणमाप्रलयादपत्यानामुत्पादकाः पालकाश्च भवन्ति ते भृग्वादयो मनवश्च मद्भावा मम यो भावः स एव येषां भावस् ते मद्भावाः, मन्मते स्थिताः, मत्सङ्कल्पानुवर्तिन इत्यर्थः ॥ ६ ॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ ७ ॥
विभूतिर् ऐश्वर्यम् । एतां सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तितारूपां विभूतिम्, मम हेयप्रत्यनीककल्याणगुणगणरूपं योगं च यस्तत्त्वतो वेत्ति, सोऽविकम्पेन अप्रकम्प्येन भक्तियोगेन युज्यते । नात्र संशयः । मद्विभूतिविषयं कल्याणगुणविषयं च ज्ञानं भक्तियोगवर्धनमिति स्वयमेव द्रक्ष्यसीत्यभिप्रायः ॥ ७ ॥ विभूतिज्ञानविपाकरूपां भक्तिवृद्धिं दर्शयति –
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ ८ ॥
अहं, सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभव उत्पत्तिकारणम्, सर्वं मत्त एव प्रवर्तते इतीदं मम स्वाभाविकं निरंकुशैश्वर्यं, सौशील्यसौन्दर्यवात्सल्यादिकल्याणगुणगणयोगं च मत्वा बुधा ज्ञानिनः भावसमन्विता मां सर्वकल्याणगुणान्वितं भजन्ते । भावः मनोवृत्तिविशेषः । मयि स्पृहयालवो मां भजन्त इत्यर्थः ॥ ८ ॥ कथम्?
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥
मच्चित्ता मयि निविष्टमनसः, मद्गतप्राणा मद्गतजीविताः, मया विनात्मधारणमलभमाना इत्यर्थः स्वैः स्वैरनुभूतान्मदीयान् गुणान् परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तस् तुष्यन्ति च रमन्ति च वक्तारस्तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति श्रोतारश्च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते ॥ ९ ॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥
तेषां सततयुक्तानां मयि सततयोगमाशंसमानानां मां भजमानानामहं तमेव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि येन ते मामुपयान्ति ॥ १० ॥ किञ्च,
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नश्याम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥
तेषामेवानुग्रहार्थमहम्, आत्मभावस्थस् तेषां मनोवृत्तौ विषयतयावस्थितः मदीयान् कल्याणगुण-गणांश्चाविष्कुर्वन्मद्विषयज्ञानाख्येन भास्वता दीपेन ज्ञानविरोधिप्राचीनकर्मरूपाज्ञानजं मद्व्यतिरिक्तपूर्वाभ्यस्त-विषयप्रावण्यरूपं तमो नाशयामि ॥ ११ ॥
अर्जुन उवाच
एवं सकलेतरविसजातीयं भगवदसाधारणं शृण्वतां निरतिशयानन्दजनकं कल्याणगुणगणयोगं तदैश्वर्यविततिं च श्रुत्वा तद्विस्तारं श्रोतुकामोऽर्जुन उवाच –
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
परं ब्रह्म परं धाम परमं पवित्रमिति यं श्रुतयो वदन्ति, स हि भवान् । यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्मेति (तै,उ,भृ), ब्रह्मविदाप्नोति परम् (तै.उ.आ), स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति (मु.३.२.९) इति । तथा परं धाम धामशब्दो ज्योतिर्वचनः परं ज्योतिर् अथ यदतः परो दिवो ज्योतिर्दीप्यते (छा.३.१३.७), परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२), तं देवा ज्योतिषां ज्योतिः (६.४.१६) इति । तथा च परमं पवित्रं परमं पावनं स्मर्तुरशेषकल्मषाश्लेषकरम्, विनाशकरं च । यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते (छा.४.१४.६), तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते (छा.५.२४.३), नारायण परं ब्रह्म तत्त्वं नगरायणः परः । नारायण परो ज्योतिरात्मा नारायणः परः (ना.उ.) इति हि श्रुतयो वदन्ति ॥ १२ ॥
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १३ ॥
ऋषयश्च सर्वे परावरतत्त्वयाथात्म्यविदस्त्वामेव शाश्वतं दिव्यं पुरुषमादिदेवमजं विभुमाहुस् तथैव देवर्षिर्नारदो ऽसितः देवलः व्यासश्च । ये च देवविदो विप्रो ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ पविताणां हि गोविन्दः पवित्रं परमुच्यते । पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् । त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः । आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥ (भा.व.६६), एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम् ॥ (भा.व.८६.२४), पुण्या द्वारवती तत्र यत्रास्ते मधुसूदहः । साक्षाद्देवः पुराणोऽसौ स हि धर्मस्सनातनः । (भा.व.८६.२८?) तथा, यत्र नारायणो देवः परमात्मा सनातनः । तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ॥ तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् । तत्र देवर्षयस्सिद्धाः सर्वे चैव तपोधनाः ॥ आदिदेवो महायोगी यत्रास्ते मधुसूदनः । पुण्यानामपि तत्पुण्यं मा भूत्ते संशयोऽत्र वै ॥ (भा.व.८८), कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् ॥(भा.स.४.२३) इति । तथा स्वयमेव ब्रवीषि च, भूमिरपोऽनलो वायुः खं मनो बुधिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ (भ.गी.७.४) इत्यादिना, अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (भ.गी.१०.८) इत्यन्तेन ॥१२-१३॥
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः ॥ १४ ॥
अतः सर्वमेतद्यथावस्थितवस्तुकथनं मन्ये, न प्रशंसाद्यभिप्रायं यन्मां प्रति अनन्यसाधारणम् अनवधिकातिशयं स्वाभाविकं तवैश्वर्यं कल्याणगुणानन्त्यं च वदसि । अतो भगवन्निरतिशय-ज्ञानशक्तिबलैश्वर्यवीर्यतेजसां निधे, ते व्यक्तिं व्यञ्जनप्रकारं न हि परिमितज्ञाना देवा दानवाश्च विदुः॥१४॥
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥
हे पुरुषोत्तम!, आत्मना, आत्मानं त्वां स्वयमेव स्वेन ज्ञानेनैव वेत्थ । भूतभावन! सर्वेषां भूतानामुत्पादयितः, भूतेश! सर्वेषां नियन्तः!, देवदेव! दैवतानामपि परमदैवत!, यथा मनुष्यमृगपक्षिसरीसृपादीन् सौन्दर्यसौशील्यादिकल्याणगुणगणैर्दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्यपि तैस्तैर्गुणैरतीत्य वर्तमान!, जगत्पते! जगत्स्वामिन्! ॥ १५ ॥
वक्तुमर्हास्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥
दिव्यास् त्वदसाधारण्यो विभूतयो याः, तास्त्वमेवाशेषेण वक्तुमर्हासि । त्वमेव व्यञ्जयेत्यर्थः। याभिरनन्ताभिर्विभूतिभिर् यैर्नियमनविशेषैर्युक्त इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि॥१६॥
कथं विद्यामहं योगी त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥
अहं योगी भक्तियोगनिष्ठस्सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्तश् चिन्तनीयं त्वां परिपूर्णैश्वर्यादिकल्याणगुणगणं कथं विद्याम्? पूर्वोक्तबुद्धिज्ञानादिभावव्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्योऽसि? ॥ १७ ॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥
अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते (१२.८) इति संक्षेपेणोक्तं तव स्रष्टृत्वादियोगं विभूतिं नियमनं च भूयो विस्तरेण कथय । त्वयोच्यमानं त्वन्माहात्म्यामृतं शृण्वतो मे तृप्तिर्नास्ति हि ममातृप्तिस्त्वयैव विदितेत्यभिप्रायः ॥ १८ ॥
श्रीभगवानुवाच
हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभाः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥
हे कुरुश्रेष्ठ! मदीयाः कल्याणीर्विभूतीः प्राधान्यतस्ते कथयिष्यामि । प्राधन्यशब्देन उत्कर्षो विवक्षितः पुरोधसां च मुख्यं माम् (भ.गी.१०.२४) इति हि वक्ष्यते । जगत्युत्कृष्टाः काश्चन विभूतीर्वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासामानन्त्यात् । विभूतित्वं नाम नियाम्यत्वं सर्वेषां भूतानां बुद्ध्यादयः पृथग्विधा भावा मत्त एव भवन्तीत्युक्त्वा, एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः (भ.गी.१०.७) इति प्रतिपादनात् । तथा तत्र योगशब्दनिर्दिष्टं स्रष्टृत्वादिकं विभुतिशब्दनिर्दिष्टं तत्प्रवर्त्यत्वमिति ह्युक्तं पुनश्च, अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः (भ.गी.१०.७) इति ॥ १९ ॥ तत्र सर्वभूतानां प्रवर्तनरूपं नियमनमात्मतयावस्थाय इतीममर्थम्, योगशब्दनिर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं चेति सुस्पष्टमाह –
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ २० ॥
सर्वेषां भूतानां मम शरीरभूतानामाशये हृदये अहमात्मतयावस्थितः । आत्मा हि नाम शरीरस्य सर्वात्मना आधारः, नियन्ता, शेषी च । तथा वक्ष्यते, सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनं च (भ.गी.१५.१५), ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ (भ.गी.१८.६१) इति। श्रूयते च, यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुः (बृ.५.७.१५), यस्य सर्वाणि भूतानि शरीरं यस्सर्वाणि भूतान्यन्तरो यमयति, एष त आत्मान्तर्याम्यमृत इति, य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः (शत.१४.५.३०) इति च। एवं सर्वभूतानामात्मतयावस्थितोऽहं तेषामादिर्मध्यं चान्तश्च तेषामुत्पत्तिस्थितिप्रलयहेतुरित्यर्थः ॥२०॥
एवं भगवतः स्वविभूतिभूतेषु सर्वेष्वात्मतयावस्थानं तत्तच्छब्दसामानाधिकरण्यनिर्देशहेतुं प्रतिपाद्य विभूतिविशेषान् सामानाधिकरण्येन व्यपदिशति । भगवत्यात्मतयावस्थिते हि सर्वे शब्दास्तस्मिन्नेव पर्यवस्यन्ति यथा देवो मनुष्यः पक्षी वृक्ष इत्यादयः शब्दाः शरीराणि प्रतिपादयन्तस् तत्तदात्मनि पर्यवस्यन्ति । भगवतस्तत्तदात्मतयावस्थानमेव तत्तच्छब्दसामानाधिकरण्य-निबन्धनमिति विभूत्युपसंहारे वक्ष्यति न तदस्ति विना यत्स्यान्मया भूतं चराचरम् (१०.३९) इति सर्वेषां स्वेनाविनाभाववचनात् । अविनाभावश्च नियाम्यतयेति मत्तस्सर्वं प्रवर्तते (१०.८) इत्युपक्रमोदितम् ।
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥
द्वादशसंख्यासंख्यातानामादित्यानां द्वादशो य उत्कृष्टो विष्णुर्नामादित्यः, सोऽहम् । ज्योतिषां जगति प्रकाशकानां यो ऽंशुमान् रविर् आदित्यगणः, सोऽहम् । मरुतामुत्कृष्टो मरीचिर्यः, सोऽहमस्मि। नक्षत्राणामहं शशी। नेयं निर्धारणे षष्ठी, भूतानामस्मि चेतना (१०.२२) इतिवत् । नक्षत्राणां पतिर्यश्चन्द्रः, सोऽहमस्मि॥२१॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥
वेदानामृग्यजुस्सामाथर्वणां य उत्कृष्टः सामवेदः, सोऽहम् । देवानामिन्द्रोऽहमस्मि । एकादशानामिन्द्रियाणां यदुत्कृष्टं मन इन्द्रियम्, तदहमस्मि । इयमपि न निर्धारणे । भूतानां चेतनावतां या चेतना, सोऽहमस्मि ॥ २२ ॥
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥
रुद्राणामेकादशानां शङ्करोऽहमस्मि । यक्षरक्षसां वैश्रवणोऽहम् । वसूनामष्टानां पावकोऽहम् । शिखरिणां शिखरशोभिनां पर्वतानां मध्ये मेरुरहम् ॥ २३ ।
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ २४ ॥
पुरोधसामुत्कृष्टो बृहस्पतिर्यः, सोऽहमस्मि, सेनानीनां सेनापतीनां स्कन्दोऽहमस्मि । सरसां सागरोऽहमस्मि ॥ २४ ॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ २५ ॥
महर्षीणां मरीच्यादीनां भृगुरहम् । अर्थाभिधायिनः शब्दा गिरः, तासामेकमक्षरं प्रणवोऽहमस्मि। यज्ञानामुत्कृष्टो जपयज्ञोऽस्मि । पूर्वमात्राणां हिमवानहम् ॥ २५ ॥
अश्वत्थस्सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥
उच्चैश्श्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ २८ ॥
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥
वृक्षाणां पूज्योऽश्वत्थोऽहम् । देवर्षीणं नारदोऽहम् । कामधुक्दिव्या सुरभिः । जननहेतुः कन्दर्पश्चाहमस्मि । सर्पा एकाशिरसः नागा बहुशिरसः । यादांसि जलवासिनः, तेषां वरुणोऽहम्। दण्डयतां वैवस्वतोऽहम् ॥ २६,२७,२८,२९ ॥
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥
अनर्थप्रेप्सुतया गणयतां मध्ये कालः मृत्युरहम् ॥ ३० ॥
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥
पवतां गमनस्वभावानां पवनोऽहम् । शस्त्रभृतां रामोऽहम् । शस्त्रभृत्त्वमत्र विभूतिः, अर्थान्तराभावात्। आदित्यादयश्च क्षेत्रज्ञा आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्मभूता इति शस्त्रभृत्त्वस्थानीयाः ॥ ३१ ॥
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२ ॥
सृज्यन्त इति सर्गाः, तेषामादिः कारणं सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारोऽहमेवेत्यर्थः । तथा अन्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारोऽप्यहमेव । तथा च मध्यं पालनं सर्वदा पाल्यमानानां पालयितारश्चाहमेवेत्यर्थः । जल्पवितण्डादि कुर्वतां तत्त्वनिर्णयाय प्रवृत्तो वादो यः, सोऽहम् ॥ ३२ ॥
अक्षराणामकारोऽस्मि द्वन्द्वस्सामासिकस्य च ।
अहमेव अक्षयः कालः धाताहं विश्वतोमुखः ॥ ३३ ॥
अक्षराणां मध्ये अकारो वै सर्वा वाक् इति श्रुतिसिद्धिः सर्ववर्णानां प्रकृतिरकारोऽहं सामासिकः समाससमूहस् तस्य मध्ये द्वन्द्वसमासोऽहम् । स ह्युभयपदार्थप्रधानत्वेनोत्कृष्टः । कलामुहूर्तादिमयोऽक्षयः कालोऽहमेव । सर्वस्य स्रष्टा हिरण्यगर्भश्चतुर्मुखोऽहम् ॥ ३३ ॥
मृत्युस्सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिश्श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥
सर्वप्राणहरो मृत्युश्चाहम् । उत्पत्स्यमानानामुद्भवाख्यं कर्म चाहम् । श्रीरहं कीर्तिश्चाहं वाक्चाहं स्मृतिश्चाहम् मेधा चाहं धृतिश्चाहं क्षमा चाहम् ॥ ३४ ॥
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ ३५ ॥
साम्नां बृहत्साम अहम् । छन्दसां गायत्र्यहम् । कुसुमाकरः वसन्तः ॥ ३५ ॥
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ ३६ ॥
छलं कुर्वतां छलास्पदेष्वक्षादिलक्षणं द्युतमहम् । जेत्णां जयोऽस्मि । व्यवसायिनां व्यवसायोऽस्मि। सत्त्ववतां सत्त्वमहम् । सत्त्वं महामनस्त्वम् ॥ ३६ ॥
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७ ॥
वसुदेवसूनुत्वमत्र विभूतिः, अर्थान्तराभावादेव । पाण्डवानां धनञ्जयोऽर्जुनोऽहम् । मुनयः मननेनात्मयाथात्म्यदर्शिनस् तेषां व्यासोऽहम् । कवयः विपश्चितः ॥ ३७ ॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥
नियमातिक्रमणे दण्डं कुर्वतां दण्डोऽहम् । विजिगीषूणां जयोपायभूता नीतिरस्मि । गुह्यानां संबन्धिषु गोपानेषु मौनमस्मि । ज्ञानवतां ज्ञानं चाहम् ॥ ३८ ॥
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ ३९ ॥
सर्वभूतानां सर्वावस्थावस्थितानां तत्तदवस्थाबीजभूतं प्रतीयमानमप्रतीयमानं च यत्, तदहमेव। भूतजातं मया आत्मतयावस्थितेन विना यत्स्यात्, न तदस्ति । अहमात्मा गुडाकेश सर्वभूताशयस्थितः (२) इति प्रक्रमात्, न तदस्ति विना यत्स्यान्मया भूतं चराचरम् इत्यत्राप्यात्मतयावस्थानमेव विवक्षितम्। सर्वं वस्तुजातं सर्वावस्थं मया आत्मभूतेन युक्तं स्यादित्यर्थः । अनेन सर्वस्यास्य सामानाधिकरण्यनिर्देशस्यात्मतयावस्थितिरेव हेतुरिति प्रकटितम् ॥ ३९ ॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥
मम दिव्यानां कल्याणीनां विभूतीनामन्तो नास्ति एष तु विभूतेर्विस्तरो मया कैश्चिदुपाधिभिः संक्षेपतः प्रोक्तः ॥ ४० ॥
यद्यद्विभूतिमत्सत्त्वं श्रीमदुर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥ ४१ ॥
यद्यद्विभूतिमदिशितव्यसंपन्नं भूतजातं श्रीमत्कान्तिमत्, धनधान्यसमृद्धं वा, ऊर्जितं कल्याणारम्भेषु उद्युक्तं तत्तन्मम तेजोंऽशसंभवमित्यवगच्छ । तेजः पराभिभवनसामर्थ्यम्, ममाचिन्त्यशक्तेर्नियमन-शक्त्येकदेशस्संभवतीत्यर्थः ॥ ४१ ॥
अथ वा बहुनैतेन किं ज्ञानेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ……..विभूतिविस्तरयोगो नाम दशमोऽध्यायः ॥ १०॥
बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् । इदं चिदचिदात्मकं कृत्स्नं जगत्कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूपसद्भावे, स्थितौ, प्रवृत्तिभेदे च यथा मत्सङ्कल्पं नातिवर्तेत, तथा मम महिम्नोऽयुतायुतांशेन विष्टभ्याहमवस्थितः । यथोक्तं भगवता पराशरेण, यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता (वि.पु.१.९.५३) इति ॥ ४२ ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये दशमोऽध्यायः ॥ १०॥