08 श्रीमद्गीताभाष्यम् अष्टमाध्यायः

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

अष्टमाध्यायः

सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यत्वं निखिलचेतनाचेतनवस्तुशेषित्वम्, कारणत्वम्, आधारत्वम्, सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम्, सर्वनियन्तृत्वम्, सर्वैश्च कल्याणगुणगणैस्तस्यैव परतरत्वम्, सत्त्वरजस्तमोमयैर्देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर्भावैर् अनादिकालप्रवृत्तदुष्कृतप्रवाहहेतुकैस्तस्य तिरोधानम्, अत्युत्कृष्टसुकृतहेतुक-भगवत्प्रपत्त्या सुकृततारतम्येन च प्रतिपत्तिवैशेष्यादैश्वर्याक्षरयाथात्म्यभगवत्प्राप्त्यपेक्षयोपासक भेदम्, भगवन्तं प्रेप्सोर्नित्ययुक्ततयैकभक्तितया चात्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठ्यं दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेयभेदांश्च प्रास्तौषीत् । इदानीमष्टमे प्रस्तुतान् ज्ञातव्योपादेयभेदान् विविनक्ति ॥

अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदनम् ।

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ २ ॥

जरामरणमोक्षाय भगवन्तमाश्रित्य यतमानानां ज्ञातव्यतयोक्तं तद्ब्रह्म अध्यात्मं च किमिति वक्तव्यम् । ऐश्वर्यार्थीनां ज्ञातव्यमधिभूतमधिदैवं च किम्? त्रयाणां ज्ञातव्योऽधियज्ञ-शब्दनिर्दिष्टश्च कः? तस्य चाधियज्ञभावः कथम्? प्रयाणकाले च एभिस्त्रिभिर्नियतात्मभिः कथं ज्ञेयोऽसि?॥१-२॥

श्रीभगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।

भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥

तद्ब्रह्मेति निर्दिष्टं परममक्षरं न क्षरतीत्यक्षरम्, क्षेत्रज्ञसमष्टिरूपम् । तथा च श्रुतिः, अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते (सु.२) इत्यादिका । परममक्षरं प्रकृतिविनिर्मुक्तमात्म-स्वरूपम् । स्वभावोऽध्यात्ममुच्यते । स्वभावः प्रकृतिः । अनात्मभूतम्, आत्मनि संबध्यमानं भूतसूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतयोदितम् । तदुभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर्ज्ञातव्यम् । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । भूतभावः मनुष्यादिभावस् तदुद्भवकरो यो विसर्गः, पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति (छा.५.९.१) इति श्रुतिसिद्धो योषित्संबन्धजः, स कर्मसंज्ञितः । तच्चाखिलं सानुबन्धमुद्वेजनीयतया, परिहरणीयतया च मुमुक्षुभिर्ज्ञातव्यम् । परिहरणीयतया चानन्तरमेव वक्ष्यते, ‘यदिच्छन्तो ब्रह्मचर्यं चरन्ति‘ इति ॥ ३ ॥

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।

अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥

ऐश्वर्र्यार्थिनां ज्ञातव्यतया निर्दिष्टमधिभूतं क्षरो भावः वियदादिभूतेषु वर्तमानस् तत्परिणामविशेषः क्षरणस्वभावो विलक्षणः शब्दस्पर्शादिस्सास्रयः । विलक्षणाः साश्रयाश्शब्दस्पर्श-रूपरसगन्धा ऐश्वर्यार्थिभिः प्राप्यास्तैरनुसन्धेयाः । पुरुषश्चाधिदैवतमधिदैवतशब्दनिर्दिष्टः पुरुषो ऽधिदैवतं देवतोपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतिकृत्स्नदैवतोपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतीनां भोग्यजातद्विलक्षणशब्दादेर्भोक्ता पुरुषः। सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतयानुसन्धेया । अधियज्ञोऽहमेव । अधियज्ञः यज्ञैराराध्यतया वर्तमानः । अत्र इन्द्रादौ मम देहभूते आत्मतयावस्थितोऽहमेव यज्ञैराराध्य इति महायज्ञादिनित्य-नैमित्तिकानुष्ठानवेलायां त्रयाणामधिकारिणामनुसन्धेयमेतत् ॥ ४ ॥

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम् ।

यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ५ ॥

इदमपि त्रयाणां साधारणम् । अन्तकाले च मामेव स्मरन् कलेवरं त्यक्त्वा यः प्रयाति, स मद्भावं याति मम यो भावः स्वभावस् तं याति तदानीं यथा मामनुसन्धत्ते, तथाविधाकारो भवतीत्यर्थः यथा आदिभरतादयस्तदानीं स्मर्यमाणमृगसजातीयाकारात्संभूताः ॥५ ॥

स्मर्तुस्स्वविषयसजातीयाकारतापादनमन्त्यप्रत्ययस्य स्वभाव इति सुस्पष्टमाह –

यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम् ।

तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ६ ॥

अन्ते अन्तकाले यं यं वापि भावं स्मरन् कलेबरं त्यजति, तं तं भावमेव मरणानन्तरमेति । अन्तिमप्रत्ययश्च पूर्वभावितविषय एव जायते ॥ ६ ॥

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।

**मय्यर्पितमनोबुद्धिर् मामेवैष्यस्यसंशयः ॥ ७ ॥ **

यस्मात्पूर्वकालाभ्यस्तविषय एवान्त्यप्रत्ययो जायते, तस्मात्सर्वेषु कालेष्वाप्रयाणादहरहः मामनुस्मर। अहरहरनुस्मृतिकरं युद्धादिकं वर्णाश्रमानुबन्धि श्रुतिस्मृतिचोदितं नित्यनैमित्तिकं च कर्म कुरु । एवमुपायेन मय्यर्पितमनोबुद्धिर् अन्तकले च मामेव स्मरन् यथाभिलषितप्रकारं मां प्राप्स्यसि नात्र संशयः ॥ ७ ॥

एवं सामान्येन स्वप्राप्यावाप्तिरन्त्यप्रत्ययाधीनेत्युक्त्वा तदर्थं त्रयाणामुपासनप्रकारभेदं वक्तुमुपक्रमते तत्रैश्वर्यार्थिनामुपासनप्रकारं यथोपासनमन्त्यप्रत्ययप्रकारं चाह –

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥

अहरहरभ्यासयोगाभ्यां युक्ततया नान्यगामिना चेतसा अन्तकाले परमं पुरुषं दिव्यं मां वक्ष्यमाणप्रकारं चिन्तयन्मामेव याति आदिभरतमृगत्वप्राप्तिवदैश्वर्यविशिष्टतया मत्समानाकारो भवति । अभ्यासः नित्यनैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसोपास्यसंशीलनम् । योगस्तु अहरहर्योगकालेऽनुष्ठीयमानं यथोक्तलक्षणमुपासनम् ॥ ८ ॥

कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ।

सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ ९ ॥

प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥

कविं सर्वज्ञन् पुराणं पुरातनमनुशासितारं विश्वस्य प्रशासितारमणोरणीयांसं जीवादपि सूक्ष्मतरम्, सर्वस्य धातारं सर्वस्य स्रष्टारम्, अचिन्त्यरूपं सकलेतरविसजातीयस्वरूपम्, आदित्यवर्णं तमसः परस्तादप्राकृतस्वासाधारणदिव्यरूपम्, तमेवंभूतमहरहरभ्यस्यमानभक्तियुक्तयोगबलेन आरूढसंस्कारतया अचलेन मनसा प्रयाणकाले भ्रुवोर्मध्ये प्राणमावेश्य संस्थाप्य तत्र भूमध्ये दिव्यं पुरुषं योऽनुस्मरेत् स तमेवोपैति तद्भावं याति, तत्समानैश्वर्यो भवतीत्यर्थः ॥ ९-१० ॥

अथ कैवल्यार्थिनां स्मरणप्रकारमाह –

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ११ ॥

यदक्षरमस्थूलत्वादिगुणकं वेदविदो वदन्ति, वीतरागाश्च यतयो यदक्षरं विशन्ति, यदक्षरं प्राप्तुमिच्छन्तो ब्रह्मचर्यं चरन्ति, तत्पदं संग्रहेण ते प्रवक्ष्ये । पद्यते गम्यते चेतसेति पदं तन्निखिलवेदान्तवेद्यं मत्स्वरूपमक्षरं यथा उपास्यम्, तथा संक्षेपेण प्रवक्ष्यामीत्यर्थः ११ ॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।

मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ १२ ॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।

यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ १३ ॥

सर्वाणि श्रोत्रादीनीन्द्रियाणि ज्ञानद्वारभूतानि संयम्य स्वव्यापारेभ्यो विनिवर्त्य, हृदयकमलनिविष्टे मय्यक्षरे मनो निरुध्य, योगाख्यां धारणामास्थितः मय्येव निश्चलां स्थितिमास्थितः, ओमित्येकाक्षरं ब्रह्म मद्वाचकं व्याहरन्, वाच्यं मामनुस्मरन्, आत्मनः प्राणं मूर्ध्न्याधाय देहं त्यजन् यः प्रयाति स याति परमां गतिं प्रकृतिवियुक्तं मत्समानाकारमपुनरावृत्तिमात्मानं प्राप्नोतीत्यर्थः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ॥ (२०,२१) इत्यनन्तरमेव वक्ष्यते ॥१२ – १३॥

एवमैश्वर्यार्थिनः कैवल्यार्थिनश्च स्वप्राप्यानुगुणं भगवदुपासनप्रकार उक्तो ऽथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिप्रकारं चाह

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

नित्यशः मामुद्योगप्रभृति सततं सर्वकालमनन्यचेता यः स्मरति अत्यर्थमत्प्रियत्वेन मत्स्मृत्या विना आत्मधारणमलभमानो निरतिशयप्रियां स्मृतिं यः करोति तस्य नित्ययुक्तस्य नित्ययोगं काङ्क्षमाणस्य योगिनो ऽहं सुलभो ऽहमेव प्राप्यः न मद्भाव ऐश्वर्यादिकः सुप्रापश्च । तद्वियोगमसहमानोऽहमेव तं वृणे । यमेवैष वृणुते तेन लभ्यः (कठ.२.२३, मु.३.२.३) इति हि श्रूयते । मत्प्राप्त्यनुगुणोपासनविपाकं तद्विरोधिनिरसनमत्यर्थमत्प्रियत्वादिकं चाहमेव ददामीत्यर्थः । वक्ष्यते च तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपायान्ति ते ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ (१०-१०,११) इति ॥ १४॥

अतः परमध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश्चापुनरावृत्तिमैश्वर्यार्थिनः पुनरावृत्तिं चाह

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥

मां प्राप्य पुनर्निखिलदुःखालयमशाश्वतमस्थिरं जन्म न प्राप्नुवन्ति । यत एते महात्मानः महामनसः, यथावस्थितमत्स्वरूपजानाना अत्यर्थमत्प्रियत्वेन मया विना आत्मधारणमलभमाना मय्यासक्तमनसो मदाश्रया मामुपास्य परमसंसिद्धिरूपं मां प्राप्ताः ॥ १५ ॥

ऐश्वर्यगतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनरावृत्तौ अपुनरावृत्तौ च हेतुमनन्तरमाह –

आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥

ब्रह्मलोकपर्यन्ता ब्रह्माण्डोदरवर्तिनस्सर्वे लोका भोगैश्वर्यालयाः पुनरावर्तिनः विनाशिनः । अत ऐश्वर्यगतिं प्राप्तानां प्राप्यस्थानविनाशाद्विनाशित्वमवर्जनीयम् । मां सर्वज्ञं सत्यसङ्कल्पं निखिलजगदुत्पत्ति-स्थितिलयलीलं परमकारुणिकं सदैकरूपं प्राप्तानां विनाशप्रसङ्गाभावात्तेषां पुनर्जन्म न विद्यते १६ ॥

ब्रह्मलोकपर्यन्तानां लोकानां तदन्तर्वर्तिनां च परमपुरुषसङ्कल्पकृतामुत्पत्तिविनाश-कालव्यवस्थामाह-

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः ।

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ १७ ॥

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।

रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥

ये मनुष्यादिचतुर्मुखान्तानां मत्सङ्कल्पकृताहोरात्रव्यवस्थाविदो जनाः, ते ब्रह्मणश्चतुर्मुखस्य यदहस् तच्चतुर्युगसहस्रावसानं विदुः, रात्रिं च तथारूपाम् । तत्र ब्रह्मणोऽहरागमसमये त्रैलोक्यान्तर्वर्तिन्यो देहेन्द्रियभोग्यभोगस्थानरूपा व्यक्तश्चतुर्मुखदेहावस्थादव्यक्तात्प्रभवन्ति । तत्रैव अव्यक्तावस्थाविशेषे चतुर्मुखदेहे रात्र्यागमसमये प्रलीयन्ते । स एवायं कर्मवश्यो भूतग्रामोऽहरागमे भूत्वा भुत्वा रात्र्यागमे प्रलीयते । पुनरप्यहरागमे प्रभवति । तथा वर्षतावसानरूपयुगसहस्रान्ते ब्रह्मलोकपर्यन्ता लोका ब्रह्मा च, पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते (सुबा.२) ) इत्यादिक्रमेण अव्यक्ताक्षरतमःपर्यन्तं मय्येव प्रलीयन्ते। एवं मद्व्यतिरिक्तस्य कृत्स्नस्य कालव्यवस्थया मत्त उत्पत्तेर् मयि प्रलयाच्चोत्पत्तिविनाशयोगित्वम् अवर्जनीयमित्यैश्वर्यगतिं प्राप्तानां पुनरावृत्तिरपरिहार्या । मामुपेतानां तु न पुनरावृत्तिप्रसङ्गः ॥१९॥

अथ कैवल्यं प्रप्तानामपि पुनरावृत्तिर्न विद्यत इत्यह –

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।

यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥

तस्मादव्यक्तादचेतनप्रकृतिरूपात्पुरुषार्थतया पर उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्माद्विसजातीयः, अव्यक्तः केनचित्प्रमाणेन न व्यज्यत इत्यव्यक्तः, स्वसंवेद्यस्वासाधारणाकार इत्यर्थः सनातन उत्पत्तिविनाशानर्हातया नित्यः यः सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितोऽपि न विनश्यति सो ऽव्यक्तोऽक्षर इत्युक्तः, ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते (१२.३), कूटस्थोऽक्षर उच्यते (१५.१६) इत्यादिषु तं वेदविदः परमां गतिमाहुः । अयमेव, यः प्रयाति त्यजन् देहं स याति परमां गतिम् (८.१३) इत्यत्र परमगतिशब्दनिर्दिष्टोऽक्षरः प्रकृतिसंसर्गवियुक्तस्वस्वरूपेणावस्थित आत्मेत्यर्थः। यमेवंभूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते तन्मम परमं धाम परं नियमनस्थानम् । अचेतनप्रकृतिरेकं नियमनस्थानं तत्संसृष्टरूपा जीवप्रकृतिर्द्वितीयं नियमनस्थानम् । अचित्संसर्गवियुक्तं स्वरूएणावथितं मुक्तस्वरूपं परमं नियमनस्थानमित्यर्थः । तच्चापुनरावृत्तिरूपम् । अथ वा प्रकाशवाची धामशब्दः प्रकाशश् चेह ज्ञानमभिप्रेतम् प्रकृतिसंसृष्टात्परिछिन्नज्ञानरूपादात्मनोऽपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परं धाम ॥ २० – २१॥ ज्ञानिनः प्राप्यं तु तस्मादत्यन्तविभक्तमित्याह –

पुरुषस्स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।

यस्यान्तस्स्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥

मत्तः परतरं नान्यत्किञ्चिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ (७.७), मामेभ्यः परमव्ययम् (७.१३) इत्यादिना निर्दिष्टस्य यस्य अन्तस्स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वमिदं ततम्, स परः पुरुषो ऽनन्यचेतास्सततम् (८.१४) इत्यनन्यया भक्त्या लभ्यः ॥ २२ ॥

अथात्मयाथात्म्यविदुः परमपुरुषनिष्टस्य च साधरणीमर्चिरादिकां गतिमाह द्वयोरप्यर्चिरादिका गतिः श्रुतौ श्रुता । सा चापुनरावृत्तिलक्षणा । यथा पञ्चाग्निविद्यायाम्, तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते, तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहः (छा.५.१०.१) इत्यादौ । अर्चिरादिकया गतस्य परब्रह्मप्राप्तिरपुनरावृत्तिश्चाम्नाता, स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते (छा.४.१५.६) इति । न च प्रजापतिवाक्यादौ श्रुतपरविद्याङ्गभूतात्मप्राप्तिविषयेयम्, तद्य इत्थं विदुर् इति गतिश्रुतिः, ये चेमेऽरण्ये श्रद्धा तप इत्युपासते इति परविद्यायाः पृथक्छ्रुतिवैयार्थ्यात् । पञ्चाग्निविद्यायां च, इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति (छा.५.९.१) इति, रमणीयचरणाः … कपूयचरणाः (छा.५.१०.७) इति पुण्यपापहेतुको मनुष्यादिभावोऽपामेव भूतान्तरसंसृष्टानाम्, आत्मनस्तु तत्परिष्वङ्गमात्रमिति चिदचितोर्विवेकमभिधाय, तद्य इत्थं विदुः. तेऽर्चिषमसंभवन्ति … इमं मानवमावर्तं नावर्तन्ते इति विविक्ते चिदचिद्वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदुस् तेऽर्चिरादिना गच्छन्ति, न च पुनरावर्तन्त इत्युक्तमिति गम्यते । आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च स एनान् ब्रह्म गमयति इति ब्रह्मप्राप्तिवचनादचिद्वियुक्तमात्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसमित्यनुसन्धेयं तत्क्रतुन्यायाच्च। परशेषतैकरसत्वं च य आत्मनि तिष्ठन् … यस्यात्मा शरीरम् (शत.माध्य.१४.६.५.३०) इत्यादिश्रुतिसिद्धम् ।

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥

अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ २४ ॥

अत्र कालशब्दो मार्गस्याहःप्रभृतिसंवतरान्तकालाभिमानिदेवताभूयस्तया मार्गोपलक्षणार्थः । यस्मिन्मार्गे प्रयाता योगिनोऽनावृत्तिं पुण्यकर्माणश्चावृत्तिं यान्ति तं मार्गं वक्ष्यामीत्यर्थः । अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम् इति संवत्सरादीनां प्रदर्शनम् ॥ २३ – २४ ॥

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायणम् ।

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥

एतच्च धूमादिमार्गस्थपितृलोकादेः प्रदर्शनम् ।

अत्र योगिशब्दः पुण्यकर्मसंबन्धिविषयः ॥ २५ ॥

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।

एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ २६ ॥

शुक्ला गतिर् अर्चिरादिका, कृष्णा च धूमादिका । शुक्लयानावृत्तिं याति कृष्णया तु पुनरावर्तते। एते शुक्लकृष्णे गती ज्ञानिनां विविधानां पुण्यकर्मणां च श्रुतौ शाश्वते मते । तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति, अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति (छा.५.१०.१-३) इति ॥ २६ ॥

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥

एतौ मार्गौ जानन् योगी प्रयाणकाले कश्चन न मुह्यति अपि तु स्वेनैव देवयानेन पथा याति । तस्मादहरहर्चिरादिगतिचिन्तनाख्ययोगयुक्तो भव २७ ॥

अथाध्यायद्वयोदितशास्त्रार्थवेदनफलमाह –

वेदेषु यज्ञेषु तपस्सु चैव दाने च यत्पुण्यफलं प्रदिष्टम् ।

अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥

ऋग्यजुस्सामाथर्वरूपवेदाभ्यासयज्ञतपोदानप्रभृतिषु सर्वेषु पुण्येषु यत्फलं निर्दिष्टम्, इदमध्यायद्वयोदितं भगवन्माहात्म्यं विदित्वा तत्सर्वमत्येति एतद्वेदनसुखातिरेकेण तत्सर्वं तृणवन्मन्यते । योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यं परमाद्यं स्थानमुपैति ॥ २८ ॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्येअष्टमाध्यायः॥ ८॥