भगवद्रामानुजविरचितं
श्रीमद्गीताभाष्यम्
सप्तमोऽध्यायः
प्रथमेनाध्यायषट्केन परमप्राप्यभूतस्य परस्य ब्रह्मणो निरवधस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतस्य सत्यसङ्कल्पस्य महाविभूतेः श्रीमतो नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतम् आत्मज्ञानपूर्वककर्मानुष्ठानसाध्यं प्राप्तुः प्रत्यगात्मनो याथात्म्यदार्शनमुक्तम् । इदानीं मध्यमेन षट्केन परब्रह्मभूतपरमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यमुच्यते । तदेतदुत्तरत्र, यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ (भ.गी.१८.४६) इत्यारभ्य, विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ (भ.गी.१८.५४) इति संक्षिप्य वक्ष्यते।
उपासनं तु भक्तिरूपापन्नमेव परप्राप्त्युपायभूतमिति वेदान्तवाक्यसिद्धम् । तमेव विदित्वातिमृत्युमेति (श्वे.३.८), तमेवं विद्वानमृत इह भवति (पु) इत्यादिना अभिहितं वेदनम्, आत्मा वा अरे द्रष्टव्यः ….. निदिध्यासितव्यः (बृ.६.५.६), आत्मानमेव लोकमुपासीत (बृ.३.४.१५), सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः (छा.७.२६.२), भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मु.२.२.८) इत्यादिभिरैकार्थ्यात्स्मृति-सन्तानरूपं दर्शनसमानाकारं ध्यानोपासनशब्दवाच्यमित्यवगम्यते । पुनश्च, नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् (क.२.२३) इति विशेषणात्परेणात्मना वरणीयताहेतुभूतं स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रियरूपं स्मृति-सन्तानमेवोपासनशब्द-वाच्यमिति हि निश्चीयते । तदेव हि भक्तिरित्युच्यते, स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते (लै.उ) इत्यादिवचनात् । अतस् तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते (पु), नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप (भ.गी.११.५३,५४) इत्यनयोरेकार्थत्वं सिद्धं भवति ।
तत्र सप्तमे तावदुपास्यभूतपरमपुरुषयाथात्म्यं प्रकृत्या तत्तिरोधानं तन्निवृत्तये भगवत्प्रपत्तिः, उपासकविधाभेदः, ज्ञानिनश्श्रैष्ठ्यं चोच्यते ॥
श्रीभगवानुवाच
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥
मय्याभिमुख्येन असक्तमना मत्प्रियत्वातिरेकेण मत्स्वरूपेण गुणैश्च चेष्टितेन मद्विभूत्या विश्लेषे सति तत्क्षणादेव विशीर्यमाणस्वरूपतया मयि सुगाढं बद्धमनास् तथा मदश्रयः स्वयं च मया विना विशीर्यमाणतया मदाश्रयः मदेकाधारः, मद्योगं युञ्जन् योक्तुं प्रवृत्तः योगविषयभूतं मामसंशयं निस्संशयम्, समग्रं सकलं यथा ज्ञास्यसि य्न ज्ञानेनोक्तेन ज्ञास्यसि, तज्ज्ञानमवहितमनास् त्वं शृणु ॥ १ ॥
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥
अहं ते मद्विषयमिदं ज्ञानं विज्ञानेन सहाशेषतो वक्षयामि। विज्ञानन् विविक्ताकारविषयं ज्ञानम्। यथाहं मद्व्यतिरिक्तात्समस्तचिदचिद्वस्तुजातान्निखिलहेयप्रत्यनीकतया नानाविधानवधिकातिशयासंख्येय-कल्याणगुण गणानन्तमहाविभूतितया च विविक्तः, तेन विविक्तविषयज्ञानेन सह मत्स्वरूपविषयज्ञानं वक्ष्यामि । किं बहुना यद्ज्ञानं ज्ञात्वा मयि पुनरन्यज्ज्ञातव्यं नावशिष्यते ॥ २ ॥
वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापतामाह –
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥
मनुष्याः शास्त्राधिकारयोग्याः । तेषां सहस्रेषु कश्चिदेव सिद्धिपर्यन्तं यतते । सिद्धिपर्यन्तं यतमानानां सहस्रेषु कश्चिदेव मां विदित्वा मत्तस्सिद्धये यतते । मद्विदां सहस्रेषु कश्चिदेव तत्त्वतः यथावस्थितं मां वेत्ति । न कश्चिदित्यभिप्रायः स महात्मा सुदुर्लभः (१९), मां तु वेद न कश्चन (२६) इति हि वक्ष्यते ॥ ३ ॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥
अस्य विचित्रानन्तभोग्यभोगोपकरणभोगस्थानरूपेणावस्थितस्य जगतः प्रकृतिरियं गन्धादिगुणक- पृथिव्यप्तेजोवाय्वाकाशादिरूपेण मनःप्रभृतीन्द्रियरूपेण महदहंकाररूपेण चाष्टधा भिन्ना मदीयेति विद्धि॥४॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥
इयं ममापरा प्रकृतिर् इतस्त्वन्यामितोऽचेतनायाश्चेतनभोग्यभूतायाः प्रकृतेर्विसजातीयाकारां जीवभूतां परां तस्या भोक्तृत्वेन प्रधानभूतां चेतनरूपां मदीयां प्रकृतिं विद्धि ययेदमचेतनं कृत्स्नं जगद्धार्यते ॥ ५ ॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६ ॥
एतद्चेतनाचेतनसमष्टिरूपमदीयप्रकृतिद्वययोनीनि ब्रह्मादिस्तम्बपर्यन्तानि उच्चावच-भावेन अवस्थितानि चिदचिन्मिश्राणि मदीयानि सर्वाणि भूतानीत्युपधारय । मदीयप्रकृतिद्वययोनीनि हि तानि मदीयान्येव । तथा प्रकृतिद्वययोनित्वेन कृत्स्नस्य जगतः, तयोर्द्वयोरपि मद्योनित्वेन मदीयत्वेन च, कृत्स्नस्य जगतो ऽहमेव प्रभवोऽहमेव च प्रलयोऽहमेव च शेषीत्युपधारय । तयोश् चिदचित्समष्टिभूतयोः प्रकृतिपुरुषयोरपि परमपुरुषयोनित्वं श्रुतिस्मृतिसिद्धम् । महानव्यक्ते लीयते । अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकीभवति (सुबा.२), विष्णोस्स्वरूपात्परतोदिते द्वे रूपे प्रधानं पुरुषश्च विप्र (वि.पु.१.२.२४), प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयते परमात्मनि । परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ (वि.पु.६.४.३०,३१) इत्यादिका हि श्रुतिस्मृतयः॥६॥
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
यथा सर्वकारणस्यापि प्रकृतिद्वयस्य कारणत्वेन, सर्वाचेतनवस्तुशेषिणश्चेतनस्यापि शेषित्वेन कारणतया शेषितया चाहं परतरस् तथा ज्ञानशक्तिबलादिगुणयोगेन चाहमेव परतरः । मत्तोऽन्यन्मद्व्यतिरिक्तं ज्ञानबलादिगुणान्तरयोगि किंचिदपि परतरं नास्ति ॥
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥
सर्वमिदं चिदचिद्वस्तुजातं कार्यावस्थं कारणावस्थं च मच्छरीरभूतं सूत्रे मणिगणवदात्मतयावस्थिते मयि प्रोतमाश्रितम् । यस्य पृथिवी शरीरम् (बृ.५.७.३), यस्यात्मा शरीरम् (बृ.५.७.२२), एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः (सुब्.७) इति, आत्मशरीरभावेनावस्थानं च जगद्ब्रह्मणोरन्तर्यामिब्राह्मणादिषु सिद्धम् ॥ ७ ॥
अतः सर्वस्य परमपुरुषशरीरत्वेनात्मभूतपरमपुरुषप्रकारर्वात्सर्वप्रकारः परमपुरुष एवावस्थित इति सर्वैश्शब्दैस्तस्यैवाभिधानमिति तत्तत्सामानाधिकरण्येन आह –
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
प्रणवस्सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥
पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ ९ ॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ १० ॥
बलं बलवन्ताञ्चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ ११ ॥
एते सर्वे विलक्षणा भावा मत्त एवोत्पन्नाः, मच्छेषभूता मच्छरीरतया मय्येवावस्थिता अतस्तत्तत्प्रकारोऽहमेवावथितः ॥ ८,९,१०,११ ॥
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥
किं विशिष्य अभिधीयते? सात्त्विका राजसास्तामसाश्च जगति देहत्वेनेन्द्रियत्वेन भोग्यत्वेन तत्तद्ध्तेतुत्वेन चावस्थिता ये भवाः, तान् सर्वान्मत्त एवोत्पन्नान् विद्धि ते मच्छरीरतया मय्येवावस्थिता इति च । न त्वहं तेषु नाहं कदाचिदपि तदायत्तस्थितिर् अन्यत्रात्मायत्तस्थितित्वेऽपि शरीरस्य, शरीरेणात्मनः स्थितावप्युपकारो विद्यते मम तु तैर्न कश्चित्तथाविध उपकारः, केवललीलैव प्र् प्रयोजनमित्यर्थः॥१२॥
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥
तदेवं चेतनाचेतनात्मकं कृत्स्नं जगन्मदीयं काले काले मत्त एवोत्पद्यते, मयि च प्रलीयते, मय्येवावस्थितम्, मच्छरीरभूतम्, मदात्मकं चेत्यहमेव कारणावस्थायां कार्यावथायां च सर्वशरीरतया सर्वप्रकारोऽवस्थितः । अतः कारणत्वेन शेषित्वेन च ज्ञानाद्यसङ्ख्येयकल्याणगुणगणैश्चाहमेव सर्वैः प्रकारैः परतरः, मत्तोऽन्यत्केनापि कल्याणगुणगणेन परतरं न विद्यते । एवंभूतं मां त्रिभ्यः सात्त्विकराजसतामसगुणमयेभ्यो भावेभ्यः परं मदसाधारणैः कल्याणगुणगणैस्तत्तद्भोग्यताप्रकारैश्च परमुत्कृष्टतमम्, अव्ययं सदैकरूपमपि तैरेव त्रिभिर्गुणमयैर्निहीनतरैः क्षणध्वंसिभिः पूर्वकर्मानुगुणदेहेन्द्रियभोग्यत्वेनावस्थितैः पदार्थैर्मोहितं देवतिर्यङ्मनुष्यस्थावरात्मनावस्थितं सर्वमिदं जगन्नाभिजानाति ॥ १३ ॥
कथं स्वत एवानवधिकातिशयानन्दे नित्ये सदैकरूपे लौकिकवस्तुभोग्यतत्प्रकारैश्चोत्कृष्टतमे त्वयि स्थितेऽप्यत्यन्तनिहीनेषु गुणमयेष्वस्थिरेषु भावेषु सर्वस्य भोक्तृवर्गस्य भोग्यत्वबुद्धिरुपजायत इत्यत्राह –
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
ममैषा गुणमयी सत्त्वरजस्तमोमयी माया यस्माद्दैवी देवेन क्रीढाप्रवृत्तेन मयैव निर्मिता, तस्मात्सर्वैर्दुरत्यया दुरतिक्रमा । अस्या मायाशब्दवाच्यत्वमासुरराक्षसास्त्रादीनामिव विचित्रकार्यकरत्वेन, यथा च ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् । तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमैकाइकश्येन सूदितम् (वि.पु.१.१९.२८) इत्यादौ । अतो मायाशब्दो न मिथ्यार्थवाची । ऐन्द्रजालिकादिष्वपि केनचिन्मन्त्राउषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेरुत्पादकत्वेन मायावीति प्रयोगः । तथा मन्त्राउषधादिरेव तत्र माया सर्वप्रयोगेष्वनुगतस्यैकस्यैव शब्दार्थत्वात् । तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेनाउपचारिकः, मञ्चाः क्रोशन्तीतिवत् । एषा गुणमयी पारमार्थिकी भगवन्मायैव, मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् (श्वे.३.४.१०) इत्यादिष्वभिधीयते । अस्याः कार्यं भगवत्स्वरूपतिरोधानम्, स्वस्वरूपभोग्यत्वबुद्धिश्च । अतो भगवन्मायया मोहितं सर्वं जगद्भगवन्तमनवधिकातिशयानन्दस्वरूपं नाभिजानाति ॥ मायाविमोचनोपायमाह –
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥
मामेव सत्यसङ्कल्पं परमकारुणिकमनालोचितविशेषाशेषलोकशरण्यं ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुणमयीं मायां तरन्ति मायामुत्सृज्य मामेवोपासत इत्यर्थः ॥ १४ ॥
किमिति भगवदुपासनापादिनीं भगवत्प्रपत्तिं सर्वे न कुर्वत इत्यत्राह –
न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५ ॥
दुष्कृतिनः पापकर्माणः मां न प्रपद्यते । दुष्कृततारतम्येन ते चतुर्विधा भवन्ति मूढाः, नराधमाः, माययापहृतज्ञानाः, आसुरं भावमाश्रिता इति । मूढा विपरीतज्ञानाः पूर्वोक्तप्रकारेण भगवच्छेषतैकरसमात्मानं भोग्यजातं च स्वशेषतया मन्यमानाः । नराधमाः सामान्येन ज्ञातेऽपि मत्स्वरूपे मदौन्मुख्यानर्हाः । माययापहृतज्ञाना मद्विषयं मदैश्वर्यविषयं च ज्ञानं येषां तदसंभावनापादिनीभिः कूटयुक्तिभिरपहृतम्, ते तथा उक्ताः । आसुरं भावमाश्रिता मद्विषयं मदैश्वर्यविषयं च ज्ञानं सुदृढमुपपन्नं येषां द्वैषायैव भवति ते आसुरं भावमाश्रिताः । उत्तरोत्तराः पापिष्ठतमाः ॥ १५ ॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ १६ ॥
सुकृतिनः पुण्यकर्माणो मां शरणमुपगम्य मामेव भजन्ते । ते च सुकृततारतम्येन चतुर्विधाः, सुकृतगरीयस्त्वेन प्रतिपत्तिवैशेष्यादुत्तरोत्तरा अधिकतमा भवन्ति । आर्तः प्रतिष्ठाहीनः भ्रष्टैश्वर्र्यः पुनर्तत्प्राप्तिकामः । अर्थार्थी अप्राप्तैश्वर्यतया ऐश्वर्यकामः । तयोर्मुखभेदमात्रम् । ऐश्वर्यविषयतयाइक्यादेक एवाधिकारः । जिज्ञासुः प्रकृतिवियुक्तात्मस्वरूपावाप्तीच्छुः । ज्ञानमेवास्य स्वरूपमिति जिज्ञासुरित्युक्तम्। ज्ञानी च, इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् (भ.गी.७.५) इत्यादिनाभिहितभगवच्छेषतैक-रसात्मस्वरूपवित् प्रकृतिवियुक्तकेवलात्मनि अपर्यवस्यन् भगवन्तं प्रेप्सुर् भगवन्तमेव परमप्राप्यं मन्वानः ॥ १६ ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७ ॥
तेषां ज्ञानी विशिष्यते । कुतः? नित्ययुक्त एकभक्तिरिति च । ज्ञानिनो हि –
मदेकप्राप्यस्य मया योगो नित्य इतरयोस्तु यावत्स्वाभिलषितप्राप्ति मया योगः । तथा ज्ञानिनो मय्येकस्मिन्नेव भक्तिर् इतरयोस्तु स्वाभिलषिते तत्साधनत्वेन मयि च । अतः स एव विशिष्यते । किञ्च, प्रियो हि ज्ञानिनोऽत्यर्थमहम् । अर्थशब्दोऽभिधेयवचनः ज्ञानिनोऽहं यथा प्रियः, तथा मया सर्वज्ञेन सर्वशक्तिनाप्यभिधातुं न शक्यत इत्यर्थः प्रियत्वस्येयत्तारहितत्वात् । यथा ज्ञानिनामग्रेसरस्य प्रह्लादस्य, स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः (वि.पु.१.१७.३९) इति । तथैव सोऽपि मम प्रियः ॥ १७ ॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८ ॥
सर्व एवैते मामेवोपासत इति उदारा वदान्याः । ये मत्तो यत्किंचिदपि गृह्णन्ति, ते हि मम सर्वस्वदायिनः । ज्ञानी त्वात्मैव मे मतं तदायत्तधारणोऽहमिति मन्ये । कस्मादेवम्? यस्मादयं मया विनात्मधारणासंभावनया मामेवानुत्तमं प्राप्यमास्थितः, अतस्तेन विना ममाप्यात्मधारणं न संभवति । ततो ममात्मा हि सः ॥ १८ ॥
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥
नाल्पसंख्यासङ्ख्यातानां पुण्यजन्मनां फलमिदम्, यन्मच्छेषतैकरसात्मयाथात्म्यज्ञानपूर्वकं मत्प्रपदनमपि तु बहूनां जन्मनां पुण्यजन्मनामन्ते अवसाने, वासुदेवशेषतैकरसोऽहं तदायत्तस्वरूपस्थितिप्रवृत्तिश्च स चासङ्ख्येयैः कल्याणगुणगणैः परतर इति ज्ञानवान् भूत्वा, वासुदेव एव मम परमप्राप्यं प्रापकं च, अन्यदपि यन्मनोरथवर्ंित स एव मम तत्सर्वमिति मां प्रपद्यते मामुपास्ते स महात्मा महामनाः सुदुर्लभः दुर्लभतरो लोके । वासुदेवस्सर्वमित्यस्यायमेवार्थः, प्रियो हि ज्ञानिनोऽत्यर्थमहम्, आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् इति प्रक्रमात् । ज्ञानवांश्चायमुक्तलक्षण एव, अस्यैव पूर्वोक्तज्ञानित्वात्, भूमिराप इत्यारभ्य, अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम् (५) इति हि चेतनाचेतनप्रकृतिद्वयस्य परमपुरुषशेषतैकरसतोक्ता अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय॥ (७) इत्यारभ्य, ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ (१२) इति प्रकृतिद्वयस्य कार्यकारणोभयावस्थस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वं परमपुरुषस्य च सर्वैः प्रकारैः सर्वस्मात्परतरत्वमुक्तम् अतः स एवात्र ज्ञानीत्युच्यते ॥१९॥
तस्य ज्ञानिनो दुर्लभत्वमेवोपपादयति –
कामैस्तैस्तैर्हृातज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ २० ॥
सर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पापवासनया गुणमयभावविषयया नियता नित्यान्वितास् तैस्तैः स्ववासनानुरूपैर्गुणमयैरेव कामैर् इच्छाविषयभूतैर् हृतमत्स्वरूपविषयज्ञानास् तत्तत्कामसिद्ध्यर्थमन्यदेवता मद्व्यतिरिक्ताः केवलेन्द्रादिदेवतास् तं तं नियममास्थाय तत्तद्देवताविशेषमात्रप्रीणनासाधारणं नियममास्थ्याय प्रपद्यन्ते ता एवाश्रित्यार्चयन्ते ॥ २० ॥
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥
ता अपि देवता मदीयास्तनवः, य आदित्ये तिष्ठन् … यमादित्यो न वेद यस्यादित्यश्शरीरम् (बृ.५.९) इत्यादि श्रुतिभिः प्रतिपादिताः । मदीयास्तनव इत्यजानन्नपि यो यो यां यां मदीयामादित्यादिकां तनुं भक्तः श्रद्धयार्चितुमिच्छति तस्य तस्याजानतोऽपि मत्तनुविषयैषा श्रद्धेत्यनुसन्धाय तामेवाचलां निर्विघ्नां विदधाम्यहम् ॥२१॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान् हि तान् ॥ २२ ॥
स तया निर्विघ्नया श्रद्धया युक्तस्तस्य इन्द्रादेराराधनं प्रतीहते । ततः मत्तनुभूतेन्द्रादिदेवताराधनात्तानेव हि स्वाभिलषितान् कामान्मयैव विहितान् लभते । यद्यप्याराधनकाले, आराध्येन्द्रादयो मदीयास्तनवः, तत एव तदर्चनं च मदाराधनम् इति न जानाति तथापि तस्य वस्तुनो मदाराधनत्वादाराधकाभिलषितम् अहमेव विदधामि॥२२॥
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान् देवयज्ञो यान्ति मद्भक्ता यान्ति मामपि ॥ २३ ॥
तेषामल्पमेधसामल्पबुद्धीनामिन्द्रादिमात्रयाजिनां तदाराधनफलमल्पम्, अन्तवच्च भवति । कुतः? देवान् देवयजो यान्ति यत इन्द्रादीन् देवान् तद्याजिनो यान्ति । इन्द्रादयोऽपि हि परिच्छिन्नभोगाः परिमितकालवर्तिनश्च । ततस्तत्सायुज्यं प्राप्तास् तैस्सह प्रच्यवन्ते । मद्भक्ता अपि तेषामेव कर्मणां मदाराधनरूपतां ज्ञात्वा परिच्छिन्नफलसङ्गं त्यक्त्वा मत्प्रीणनैकप्रयोजना मां प्राप्नुवन्ति न च पुनर्निवर्तन्ते। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते (८.१६) इति हि वक्ष्यते ॥२३॥
इतरे तु सर्वसमाश्रयणीयत्वाय मम मनुष्यादिष्ववतारमप्यकिञ्चित्करं कुर्वन्तीत्याह –
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो मम अव्ययमनुत्तमम् ॥ २४ ॥
सर्वैः कर्मभिराराध्योऽहं सर्वेश्वरो वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः परमकारुण्यादश्रित-वात्सल्याच्च सर्वसमाश्रयणीयत्वायाजहत्स्वभाव एव वसुदेवसूनुरवरीर्ण इति ममैवं परं भावमव्ययम् अनुत्तममजानन्तः प्राकृतराजसूनुसमानमितः पूर्वमनभिव्यक्तमिदानीं कर्मवशाज्जन्मविशेषं प्राप्य व्यक्तिमापन्नं प्राप्तं मां बुद्धयो मन्यन्ते । अतो मां नाश्रयन्ते न कर्मभिराराधयन्ति च ॥ २४ ॥
कुत एवं न प्रकाश्यत इत्यत्राह –
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥
क्षेत्रज्ञासाधारणमनुष्यत्वादिसंस्थानयोगाख्यमायया समावृतोऽहं न सर्वस्य प्रकाशः । मयि मनुष्यत्वादिसंस्थानदर्शनमात्रेण मूढोऽयं लोको मामतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसम् उपलभ्यमानमपि अजम् अव्ययं निखिलजगदेककारणं सर्वेश्वरं मां सर्वसमाश्रयणीयत्वाय मनुष्यत्वसंस्थानमास्थितं नाभिजानाति ॥ २५ ॥
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥
अतीतानि वर्तमानानि अनागतानि च सर्वाणि भूतान्यहं वेद जानामि । मां तु वेद न कश्चन मयानुसंधीयमानेषु कालत्रयवर्तिषु भूतेषु मामेवंविधं वासुदेवं सर्वसमाश्रय्णीयत्वायावतीर्णं विदित्वा मामेव समाश्रयन्न कश्चिदुपलभ्यत इत्यर्थः । अतो ज्ञानी सुदुर्लभ एव ॥ २६ ॥ तथा हि –
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥ २७ ॥
इच्छाद्वेषाभ्यां समुत्थितेन शीतोष्णादिद्वन्द्वाख्येन मोहेन सर्वभूतानि सर्गे जन्मकाल एव संमोहं यान्ति । एतदुक्तं भवति गुणमयेषु सुखदुःखादिद्वन्द्वेषु पूर्वपूर्वजन्मनि यद्विषयौ इच्छाद्वेषौ अभ्यस्तौ, तद्वासनया पुनरपि जन्मकाल एव तदेव द्वन्द्वाख्यमिच्छाद्वेषविषयत्वेन समुत्थितं भूतानां मोहनं भवति तेन मोहेन सर्वभूतानि संमोहं यान्ति तद्विषयेच्छाद्वेषस्वभावानि भवन्ति, न मत्संश्लेषवियोगसुखदुःखस्वभावानि, ज्ञानी तु मत्संश्लेषवियोगैकसुखदुःखस्वभावः न तत्स्वभावं किमपि भूतं जायते इति ॥ २७ ॥
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ २८ ॥
येषां त्वनेकजन्मार्जितेनोत्कृष्टपुण्यसंचयेन गुणमयद्वन्द्वेच्च्छाद्वेषहेतुभूतं मदौन्मुख्य-विरोधि च अनादिकालप्रवृत्तं पापमन्तगतं क्षीणं ते पूर्वोक्तेन सुकृततारतम्येन मां शरणमनुप्रपद्य गुणमयान्मोहाद्विनिर्मुक्ता जरामरणमोक्षाय, महते चश्वैर्याय, मत्प्राप्तये च दृढव्रता दृढसङ्कल्पा मामेव भजन्ते ॥ २८ ॥
अत्र त्रयाणां भगवन्तं भजमानानां ज्ञातव्यविशेषानुपादेयांश्च प्रस्तौति –
जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥
जरामरणमोक्षाय प्रकृतिवियुक्तात्मस्वरूपदर्शनाय मामाश्रित्य ये यतन्ते, ते तद्ब्रह्म विदुः, अध्यात्मं तु कृत्स्नं विदुः, कर्म चाखिलं विदुः ॥ २९ ॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥
अत्र य इति पुनर्निर्देशात्पूर्वनिर्दिष्टव्योऽन्ये अधिकारिणो ज्ञायन्ते साधिभूतं साधिदैवं मामैश्वर्यार्थिनो ये विदुर् इत्येतदनुवादसरूपमप्यप्राप्तार्थत्वाद्विधायकमेव तथा साधियज्ञमित्यपि त्रयाणामधिकारिणामविशेषेण विधीयते अर्थस्वभाव्यात् । त्रयाणां हि नित्यनैमित्तिकरूप-महायज्ञादि अनुष्ठानमवर्जनीयम् । ते च प्रयाणकालेऽपि स्वप्राप्यानुगुणं मां विदुः । ते चेति चकारात्पूर्वे जरामरणमोक्षाय यतमानाश्च प्रयाणकाले विदुरिति समुच्चीयन्ते अनेन ज्ञानिनोऽप्यर्थस्वाभाव्यात् साधियज्ञं मां विदुः, प्रयाणकालेऽपि स्वप्राप्यानुगुणं मां विदुरित्युक्तं भवति ॥ ३० ॥
॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये सप्तमोऽध्यायः ॥७॥