06 श्रीमद्गीताभाष्यं षष्ठोऽध्यायः

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

षष्ठोऽध्यायः

श्रीभगवानुवाच

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।

स संन्यसी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥

उक्तः कर्मयोगः सपरिकरः, इदानीं ज्ञानयोगकर्मयोगसाध्यात्मावलोकनरूपयोगाभ्यास-विधिरुच्यते। तत्र कर्मयोगस्य निरपेक्षयोगसाधनत्वं द्रढयितुं ज्ञानाकारः कर्मयोगो योगशिरस्को ऽनूद्यते । कर्मफलं स्वर्गादिकमनाश्रितः, कार्यं कर्मानुष्ठानमेव कार्यम्, सर्वात्मनास्मत्सुहृद्भूत-परमपुरुषाराधनरूपतया कर्मैव मम प्रयोजनम्, न तत्साध्यं किंचिदिति यः कर्म करोति स संन्यासी च ज्ञानयोगनिष्ठश्च योगी च कर्मयोगनिष्ठश्च आत्मावलोकनरूपयोगसाधनभूतोभयनिष्ठ इत्यर्थः । न निरग्निर्न चाक्रियः न चोदितयज्ञादिकर्मस्वप्रवृत्तः, न च केवलज्ञाननिष्ठः । तस्य हि ज्ञननिष्ठैव, कर्मयोगनिष्ठस्य तूभयमस्तीत्यभिप्रायः ॥ १ ॥

उक्तलक्षणकर्मयोगे ज्ञानमप्यस्तीत्याह –

यं संन्यास इति प्राहुर्योगं तं विद्धि पाण्डव ।

न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥

यं संन्यास इति ज्ञानयोग इति, आत्मयाथात्म्यज्ञानमिति प्राहुः, तं कर्मयोगमेव विद्धि । तदुपपादयति न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन । आत्मयाथात्म्यानुसन्धानेन अनात्मनि प्रकृतौ आत्मसङ्कल्पः संन्यस्तः परित्यक्तो येन स संन्यस्तसङ्कल्पो ऽनेवंभूतो ऽसंन्यस्तसङ्कल्पः। न ह्युक्तेषु कर्मयोगिष्वनेवंभूतः कश्चन कर्मयोगी भवति । यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः (भ.गी.४.१९) इति ह्युक्तम् ॥ २ ॥ कर्मयोग एवाप्रमादेन योगं साधयतीत्याह –

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥

योगमात्मावलोकनं प्राप्तुमिच्छोर्मुमुक्षोः कर्मयोग एव कारणमुच्यते । तस्यैव योगारूढस्य प्रतिष्ठितयोगस्यैव, शमः कर्मनिवृत्तिः कारणमुच्यते । यावदात्मावलोकनरूपमोक्षावाप्ति कर्म कार्यमित्यर्थः ॥ ३ ॥

कदा प्रतिष्ठितयोगो भवतीत्यत्राह –

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।

सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥

यदायं योगी त्वात्मैकानुभवस्वभावतया इन्द्रियार्थेषु आत्मव्यतिरिक्तप्राकृतविषयेषु, तत्संबन्धिषु च कर्मसु नानुषज्जते न सङ्गमर्हाति, तदा हि सर्वसङ्कल्पसन्न्यासी योगारूढ इत्युच्यते। तस्मादारुरुक्षोर्विषयानुभवार्हातया तदननुषङ्गाभ्यासरूपः कर्मयोग एव योगनिष्पत्ति-कारणम् । अतो विषयाननुषङ्गाभ्यासरूपं कर्मयोगमेव आरुरुक्षुः कुर्यात् ॥ ४ ॥

तदेवाह –

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥

आत्मना मनसा विषयाननुषक्तेन आत्मानमुद्धरेत् । तद्विपरीतेन मनसा आत्मानं नावसादयेत्। आत्मैव मन एव ह्यात्मनो बन्धुस् तदेवात्मनो रिपुः ॥ ५ ॥

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥

येन पुरुषेण स्वेनैव स्वमनो विषयेभ्यो जितम्, तन्मनस्तस्य बन्धुः । अनात्मनो ऽजितमनसः स्वकीयमेव मनः स्वस्य शत्रुवच्शत्रुत्वे वर्तेत स्वनिश्श्रेयसविपरीते वर्तेतेत्यर्थः । यथोक्तं भगवता पराशरेणापि, मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गि मुक्त्यैव निर्विषयं मनः ॥ (वि.६.७.२८) इति ॥६॥

योगारम्भयोग्या अवस्थोच्यते –

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥ ७ ॥

शीतोष्णसुखदुःखेषु मानावमानयोश्च जितात्मनः जितमनसः विकाररहितमनसः प्रशान्तस्य मनसि परमात्मा समाहितः सम्यगाहितः । स्वरूपेणावस्थितः प्रत्यगात्मात्र परमात्मेत्युच्यते तस्यैव प्रकृतत्वात् । तस्यापि पूर्वपूर्वावस्थापेक्षया परमात्मत्वात् । आत्मा परं समाहित इति वान्वयः ॥७॥

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।

युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ८ ॥

ज्ञानविज्ञानतृप्तात्मा आत्मस्वरूपविषयेण ज्ञानेन, तस्य च प्रकृतिविसजातीयाकारविषयेण ज्ञानेन च तृप्तमनाः कूटस्थः देवाद्यवस्थास्वनुवर्तमानसर्वसाधारणज्ञानैकाकारात्मनि स्थितः, तत एव विजितेन्द्रियः, समलोष्टाश्मकाञ्चनः प्रकृतिविविक्तस्वरूपनिष्ठतया प्राकृतवस्तुविशेषेषु भोग्यत्वाभावाल्लोष्टाश्मकाञ्चनेषु समप्रयोजनः यः कर्मयोगी, स युक्त इत्युच्यते आत्मावलोकन-रूपयोगाभ्यासार्हा इत्युच्यते ॥ ८ ॥

तथा च –

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥

वयोविशेषानङ्गीकारेण स्वहितैषिणः सुहृदः सवयसो हितैषिणो मित्राणि, अरयो निमित्ततोऽनर्थेच्छव उभयहेत्वभावादुभयरहिता उदासीना जन्मत एवोभयरहिता मध्यस्था जन्मत एवानिच्छेच्छवो द्वेष्या जन्मत एव हितैषिणो बन्धवः, साधवो धर्मशीलाः पापाः पापशीला आत्मैकप्रयोजनतया सुहृन्मित्रादिभिः प्रयोजनाभावाद्विरोधाभावाच्च तेषु समबुद्धिर्योगाभ्यासार्हात्वे विशिष्यते ॥ ९ ॥

योगी युञ्जीत सततमात्मानं रहसि स्थितः ।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥

योगी उक्तप्रकारकर्मयोगनिष्ठः, सततमहरहर्योगकाले आत्मानं युञ्जीत आत्मानं युक्तं कुर्वीत। स्वदर्शननिष्ठं कुर्वीतेत्यर्थः रहसि जनवर्जिते निश्शब्दे देशे स्थितः, एकाकी तत्रापि न सद्वितीयः, यतचित्तात्मा यतचित्तमनस्कः, निराशीर् आत्मव्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षो ऽपरिग्रहस् तद्व्यतिरिक्ते कस्मिंश्चिदपि ममतारहितः ॥ ॥

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥ ११ ॥

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥

शुचौ देशे अशुचिभिः पुरुषैरनधिष्ठिते अपरिगृहीते च अशुचिभिर्वस्तुभिरस्पृष्टे च पवित्रभूते देशे, दार्वादिनिर्मितं नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरमासनं प्रतिष्ठाप्य तस्मिन्मनःप्रसादकरे सापाश्रये उपविश्य योगैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः सर्वात्मनोपसंहृतचित्तेन्द्रियक्रिय आत्मविशुद्धये बन्धनिवृत्तये योगं युञ्ज्यादत्मावलोकनं कुर्वीत ॥ ११ – १२॥

समं कायशिरोग्रीवं धारयनचलं स्थिरम् ।

संप्रेक्ष्य नासिकाग्रं स्वं देशश्चानवलोकयन् ॥ १३ ॥

प्रशान्तात्मा विगतभीर् ब्रह्मचारिव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४ ॥

कायशिरोग्रीवं सममचलं सापाश्रयतया स्थिरं धारयन्, दिशश्चानवलोअकयन्, स्वनासिकाग्रं संप्रेक्ष्य, प्रशान्तात्मा अत्यन्तनिर्वृतमनाः, विगतभीर्ब्रह्मचर्ययुक्तो मनः संयम्य मच्चित्तो युक्तो ऽवहितो मत्पर आसीत मामेव चिन्त्यनासीत ॥ १३-१४॥

युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।

शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥

एवं मयि परस्मिन् ब्रह्मणि पुरुषोत्तमे मनसश्शुभाश्रये सदा आत्मानं मनः युञ्जन्नियतमानसः मत्स्पर्शवित्रीकृतमानसतया निश्चलमानसः, मामेव चिन्तयन्मत्संस्थां निर्वाण-परमां शान्तिमधिगच्छति निर्वाणकाष्ठारूपां मत्संस्थां मयि संस्थितां शान्तिमधिगच्छति ॥१५ ॥

एवमात्मयोगमारभमाणस्य मनोनैर्मल्यहेतुभूतां मनसो भगवति शुभाश्रये स्थितिमभिधाय अन्यदपि योगोपकरणमाह –

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७ ॥

अत्यशनानशने योगविरोधिनी अतिविहाराविहारौ च तथातिमात्रस्वप्नजागर्ये तथा चात्यायासानायासौ । मिताहारविहारस्य मितायासस्य मितस्वप्नावबोधस्य सकलदुःखहा बन्धनाशनः योगः संपन्नो भवति ॥ १६-१७॥

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।

निस्स्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥

यदा प्रयोजनविषयं चित्तमात्मन्येव विनियतं विशेषेण नियतं निरतिशयप्रयोजनतया तत्रैव नियतं निश्चलमवतिष्ठते, तदा सर्वकामेभ्यो निस्स्पृहस्सन् युक्त इत्युच्यते योगार्हा इत्युच्यते ॥१८॥

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।

योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९ ॥

निवातस्थो दीपो यथा नेङ्गते न चलति अचलस्सप्रभस्तिष्ठति यतचित्तस्य निवृत्तसकलेतरमनोवृत्तेर् योगिन आत्मनि योगं युञ्जत आत्मस्वरूपस्य सोपमा निवातस्थतया निश्चलसप्रभदीपवन्निवृत्तसकलमनोवृत्तितया निश्चलो ज्ञानप्रभ आत्मा तिष्ठतीत्यर्थः ॥ १९ ॥

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।

यत्र चैवात्मनात्मानं पश्यनात्मनि तुष्यति ॥ २० ॥

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।

यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥२२॥

तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।

स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ २३ ॥

योगसेवया हेतुना सर्वत्र निरुद्धं चित्तं यत्र योगे उपरमते अतिशयितसुखमिदमिति रमते, यत्र च योगे आत्मना मनसा आत्मानं पश्यन्नन्यनिरपेक्षमात्मन्येव तुष्यति, यत्तदतीन्द्रियमात्मबुद्ध्येक-ग्राह्यम् आत्यन्तिकं सुखं यत्र च योगे वेत्ति अनुभवति, यत्र च योगे स्थितः सुखातिरेकेण तत्त्वतस् तद्भावान्न चलति, यं योगं लब्ध्वा योगाद्विरतस्तमेव काङ्क्षमाणो नापरं लाभं ततोऽधिकं मन्यते, यस्मिंश्च योगे स्थितो विरतोऽपि गुणवत्पुत्रवियोगादिना गुरुणापि दुःखेन न विचाल्यते, तं दुःखसंयोगवियोगं दुःखसंयोगप्रत्यनीकाकारं योगशब्दाभिधेयं विद्यात् । स एवंरूपो योग इति आरम्भदशायां निश्चयेन अनिर्विण्णचेतसा हृष्टचेतसा योगो योक्तव्यः ॥ २० – २३ ॥

सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः ।

मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥

शनैश्शनैरुपरमेद्बुद्ध्या धृतिगृहीतया ।

आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ २५ ॥

स्पर्शजाः सङ्कल्पजाश्चेति द्विविधाः कामाः, स्पर्शजाः शीतोष्णादयः, सङ्कल्पजाः पुत्रक्षेत्रादयः। तत्र सङ्कल्पप्रभवाः स्वरूपेणैव त्यक्तुं शक्याः । तान् सर्वान्मनसैव तदन्वयानुसन्धानेन त्यक्त्वा स्पर्शजेष्ववर्जनीयेषु तन्निमित्तहर्षोद्वेगौ त्यक्त्वा समन्ततः सर्वस्माद्विषयात्सर्वमिन्द्रियग्रामं विनियम्य शनैश्शनैर्धृतिगृहीतया विवेकविषयया बुद्ध्या सर्वस्मादात्मव्यतिरिक्तादुपरम्य आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥२४-२५॥

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥

चलस्वभावतयात्मन्यस्थिरं मनः यतो यतो विषयप्रावण्यहेतोर् बहिर् निश्चरति, ततस्ततो यत्नेन मनो नियम्य आत्मन्येव अतिशयितसुखभावनया वशं नयेत् ॥ २६ ॥

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।

उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥

प्रशान्तमनसमात्मनि निश्चलमनसम्, आत्मन्यस्तमनसं तदेव हेतोर्दग्धाशेषकल्मषम्, तत एव शान्तरजसं विनष्टरजोगुणम्, तत एव ब्रह्मभूतं स्वस्वरूपेणावस्थितमेनं योगिनमात्मस्वरूपा-नुभवरूपमुत्तमं सुखमुपैति । हीति हेतौ उत्तमसुखरूपत्वादात्मस्वरूपस्येत्यर्थः ॥ २७ ॥

एवं युञ्जन् सदात्मानं योगी विगतकल्मषः ।

सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥

एवमुक्तप्रकारेणात्मानं युञ्जन् तेनैव विगतप्राचीनसमस्तकल्मषो ब्रह्मसंस्पर्शं ब्रह्मानुभवरूपं सुखमत्यन्तमपरिमितं सुखेन अनायासेन सदाशुनुते ॥ २८ ॥

अथ योगविपाकदशा चतुष्प्रकारोच्यते-

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥

स्वात्मनः परेषां च भूतानां प्रकृतिवियुक्तस्वरूपाणां ज्ञानैकाकारतया साम्याद्वैषम्यस्य च प्रकृतिगतत्वाद्योगयुक्तात्मा प्रकृतिवियुक्तेष्वात्मसु सर्वत्र ज्ञानैकाकारतया समदर्शनः सर्वभूतस्थं स्वात्मानं सर्वभूतानि च स्वात्मनीक्षते सर्वभूतसमानाकारं स्वात्मानं स्वात्मसमानाकाराणि च सर्वभूतानि पश्यतीत्यर्थः । एकस्मिनात्मनि दृष्टे सर्वस्यात्मवस्तुनस्तत्साम्यात्सर्वमात्मवस्तु दृष्टं भवतीत्यर्थः । ‘सर्वत्र समदर्शनः‘ इति वचनात् । योऽयं योगस्त्वया प्रोक्तः साम्येन (३३) इत्यनुभाषणाच्च । निर्दोषं हि समं ब्रह्म (भ.गी.५.१९) इति वचनाच्च ॥ २९ ॥

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥

ततोऽपि विपाकदशापन्नो मम साधर्म्यमुपागतः, निरञ्जनः परमं साम्यमुपैति (मु.३.१.३) इत्युच्यमानं सर्वस्यात्मवस्तुनो विधूतपुण्यपापस्य स्वरूपेणावस्थितस्य मत्साम्यं पश्यन् यः सर्वत्रात्मवस्तुनि मां पश्यति, सर्वमात्मवस्तु च मयि पश्यति अन्योन्यसाम्यादन्यतरदर्शनेन अन्यतरदपीदृशमिति पश्यति, तस्य स्वात्मस्वरूपं पश्यतोऽहं तत्साम्यान्न प्रणश्यामि नादर्शनमुपयामि ममापि मां पश्यतः, मत्साम्यात्स्वात्मानं मत्सममवलोकयन् स नादर्शनमुपयाति ॥ ३० ॥ ततोऽपि विपाकदशामाह –

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥

योगदशायां सर्वभूतस्थितं मामसंकुचितज्ञानैकाकारतया एकत्वमास्थितः प्राकृतभेदपरि-त्यागेन सुदृढं यो भजते, स योगी व्युत्थानकालेऽपि यथा तथा वर्तमानः स्वात्मानं सर्वभूतानि च पश्यन्मयि वर्तते मामेव पश्यति । स्वात्मनि सर्वभूतेषु च सर्वदा मत्साम्यमेव पश्यतीत्यर्थः ॥ ३१ ॥

ततोऽपि काष्ठामाह –

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२ ॥

स्वात्मनश्चान्येषां चात्मनामसंकुचितज्ञानैकाकारतयोपम्येन स्वात्मनि चान्येषु च सर्वत्र वर्तमानं पुत्रजन्मादिरूपं सुखं तन्मरणादिरूपं च दुःखमसंबन्धसाम्यात्समं यः पश्यति परपुत्रजन्ममरणादिसमं स्वपुत्रजन्ममरणादिकं यः पश्यतीत्यर्थः । स योगी परमो मतः योगकाष्ठां गतो मतः ॥ ३२ ॥

अर्जुन उवाच

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।

एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥

योऽयं देवमनुष्यादिभेदेन जीवेश्वरभेदेन चात्यतभिन्नतयैतावन्तं कालमनुभूतेषु सर्वेष्वात्मसु ज्ञानैकाकारतया परस्परसाम्येन अकर्मवश्यतया चेश्वरसाम्येन सर्वत्र समदर्शनरूपो योगस्त्वया प्रोक्तः, एतस्य योगस्य स्थिरां स्थितिं न पश्यामि, मनसश्चञ्चलत्वात् । तथा अनवरताभ्यस्तविषयेष्वपि स्वत एव चञ्चलं पुरुषेणैकत्रावस्थापयितुमशक्यं मनः पुरुषं बलात्प्रमथ्य दृढमन्यत्र चरति तस्य स्वाभ्यस्तविषयेष्वपि चञ्चलस्वभावस्य मनसस्तद्विपरीताकारात्मनि स्थापयितुं निग्रहं प्रतिकूलगतेर्महावातस्य व्यजनादिनैव सुदुष्करमहं मन्ये । मनोनिग्रहोपायो वक्तव्य इत्यभिप्रायः ॥ ३३ ॥३४॥

श्रीभगवानुवाच

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥

असंयतात्मना योगो दुष्प्राप इति मे मतिः ।

वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३६ ॥

चलस्वभावतया मनो दुर्निग्रहमेवेत्यत्र न संशयस् तथा अअप्यात्मनो गुणाकरत्वाभ्यास-जनिताभिमुख्येन आत्मव्यतिरिक्तेषु दोषाकरत्वजनितवैतृष्ण्येन च कथंचिद्गृह्यते असंयतात्मना अजितमनसा महतापि बलेन योगो दुष्प्राप एअ । उपायतस्तु वश्यात्मना पूर्वोक्तेन मदाराधनरूपेणान्तर्गतज्ञानेन कर्मणा जितमनसा यतमानेनायमेव समदर्शनरूपो योगोऽवाप्तुं शक्यः ॥ ३५ – ३६॥

अथ नेहाभिक्रमनाशोऽस्ति (भ.गी.२.४०) इति आदावेव श्रुतं योगमाहात्म्यं यथावच्छ्रोतुमर्जुनः पृच्छति । अन्तर्गतात्मज्ञानतया योगशिरस्कतया च हि कर्मयोगस्य माहात्म्यं तत्रोदितं तच्च योगमाहात्म्यमेव।

अर्जुन उवाच

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।

अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ३७ ॥

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८ ॥

एतं मे संशयं कृष्ण च्छेतुमर्हास्यशेषतः ।

त्वदन्यः संशयस्यास्य च्छेत्ता न ह्युपपद्यते ॥ ३९ ॥

श्रद्धया योगे प्रवृत्तो दृढतराभ्यासरूपयतनवैकल्येन योगसंसिद्धिमप्राप्य योगाच्चलित-मानसः कां गतिं गच्छति उभयविभ्रष्टोऽयं च्छिन्नाभ्रमिव कच्चिन्न नश्यति? यथा मेघशकलः पूर्वस्माद्बृहतो मेघाच्छिन्नः परं बृहन्तं मेघमप्राप्य मध्ये विनष्टो भवति, तथैव कच्चिन्न नश्यति । कथमुभयविभ्रष्टता? अप्रतिष्ठः, विमूढो ब्रह्मणः पथीति । यथावस्थितं स्वर्गादिसाधनभूतं कर्म फलाभिसन्धिरहितस्यास्य पुरुषस्य स्वफलसाधनत्वेन प्रतिष्ठा न भवतीत्यप्रतिष्ठः । प्रक्रान्ते ब्रह्मणः पथि विमूढस् तस्मात्पथः प्रच्युतः । अत उभयविभ्रष्टतया किमयं नश्यत्येव, उत न नश्यति? तमेनं संशयमशेषतश्छेत्तुमर्हासि। स्वतः प्रत्यक्षेण युगपत्सर्वं सदा पश्यतस्त्वत्तोऽन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥३७-३८-३९॥

श्रीभगवानुवाच

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।

न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ ४० ॥

श्रद्धया योगे प्रक्रान्तस्य तस्मात्प्रच्युतस्येह चामुत्र च विनाशो न विद्यते प्राकृतस्वर्गादिभोगानुभवे ब्रह्मानुभवे चाभिलषितानवाप्तिरूपः प्रत्यवायाख्यानिष्टावाप्तिरूपश्च विनाशो न विद्यत इत्यर्थः । न हि निरतिशयकल्याणरूपयोगकृत्कश्चित्कालत्रयेऽपि दुर्गतिं गच्छति ॥ ४० ॥

कथमयं भविष्यतीत्यत्राह –

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥

यज्जातीयभोगाभिकाङ्क्षया योगात्प्रच्युतोऽयम्, अतिपुण्यकृतां प्राप्यान् लोकान् प्राप्य तज्जातीयानतिकल्याणान् भोगान् योगमाहात्म्यादेव भुञ्जानो यावत्तद्भोगतृष्णावसानं शश्वतीः समास्तत्रोषित्वा तस्मिन् भोगे वितृष्णः शुचीनां श्रीमतां योगोपक्रमयोग्यानां कुले योगोपक्रमे भ्रष्टो योगमाहात्म्याज्जायते ॥ ४१ ॥

अथ वा योगिनामेव कुले भवति धीमताम् ।

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥

परिपक्वयोगश्चलितश्चेत्, योगिनां धीमतां योगं कुर्वतां स्वयमेव योगोपदेशक्षमाणां महतां कुले भवति तदेतदुभयविधं योगयोग्यानां योगिनां च कुले जन्म लोके प्राकृतानां दुर्लभतरम् । एतत्तु योगमाहात्म्यकृतम् ॥४२॥

तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् ।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।

तत्र जन्मनि पौर्वदैहिकं तमेव योगविषयं बुद्धिसंयोगं लभते । ततः सुप्तप्रबुद्धवद्भूयः संसिद्धौ यतते यथा नान्तरायहतो भवति, तथा यतते । तेन पूर्वाभ्यासेन पूर्वेण योगविष्येणाभ्यासेन सः योगभ्रष्टो ह्यवशोऽपि योग एव ह्रियते । प्रसिद्धं ह्येतद्योगमाहात्म्यमित्यर्थः ॥ ४३ ॥

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥

अप्रवृत्तयोगो योगे जिज्ञासुरपि ततश्चलितमानसः पुनरपि तामेव जिज्ञासां प्राप्य कर्मयोगादिकं योगमनुष्ठाय शब्दब्रह्मातिवर्तते । शब्दब्रह्म देवमनुष्यपृथिव्यन्तरिक्षस्वर्गादिशब्दाभिलापयोग्यं ब्रह्म प्रकृतिः । प्रकृतिबन्धाद्विमुक्तो देवमनुष्यादिशब्दाभिलापानर्हं ज्ञानानन्दैकतानमात्मानं प्राप्नोतीत्यर्थः॥४४॥

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।

अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥

यत एवं योगमाहात्म्यम्, ततो ऽनेकजन्मार्जितपुण्यसञ्चयैः संशुद्धकिल्बिषस्संसिद्धिः संजातः प्रयत्नाद्यतमानस्तु योगी चलितोऽपि पुनः परां गतिं यात्येव ॥ ४५ ॥

अतिशयितपुरुषार्थनिष्ठतया योगिनः सर्वस्मादाधिक्यमाह –

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥४६॥

केवलतपोभिर्यः पुरुषार्थः साध्यते, आत्मज्ञानव्यतिरिक्तैर्ज्ञानैश्च यः, यश्च केवलैरश्वमेधादिभिः कर्मभिः, तेभ्यस्सर्वेभ्योऽधिकपुरुषार्थसाधनत्वाद्योगस्य, तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन॥४६॥

तदेवं परविद्याङ्गभूतं प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनमुक्तम् अथ परविद्यां प्रस्तौति –

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।

श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥

योगिनामिति पञ्चम्यर्थे षष्ठी । सर्वभूतस्थमात्मानम् (२९) इत्यादिना चतुर्विधा योगिनः प्रतिपादिताः। तेष्वनन्तर्गतत्वाद्वक्ष्यमाणस्य योगिनः न निर्धारणे षष्ठी संभवति । अपि सर्वेषामिति सर्वशब्दनिर्दिष्टास्तपस्विप्रभृतयः । तत्राप्युक्तेन न्यायेन पञ्चम्यर्थो ग्रहीतव्यः । योगिभ्यः, अपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः । तदपेक्षया अवरत्वे तपस्विप्रभृतीनां योगिनां च न कश्चिद्विशेष इत्यर्थः मेर्वपेक्षया सर्षपाणामिव । यद्यपि सर्षपेषु अन्योन्यन्यूनाधिकभावो विद्यते तथापि मेर्वपेक्षया अवरत्वनिर्देशः समानः । मत्प्रियत्वातिरेकेन अनन्यधारणस्वभावतया मद्गतेन अन्तरात्मना मनसा, श्रद्धावानत्यर्थमत्प्रियत्वेन क्षणमात्रविश्लेषासहतया मत्प्राप्तिप्रवृत्तौ त्वरावान् यो मां भजते मां विचित्रानन्तभोग्यभोक्तृवर्गभोगोपकरणभोगस्थानपरिपूर्णनिखिलजगदुदयविभव-लयलीलम्, अस्पृष्टाशेष-दोषानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृति असङ्ख्येयकल्याण-गुणगणनिधिम्, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्य-निरतिशयाउज्ज्वल्य-सौन्दर्यसौगन्ध्यसौकुमार्यलावण्य-यौवनाद्यनन्तगुणनिधिदिव्यरूपम्, वाङ्मनसापरिच्छेद्यस्वरूप-स्वभावम्, अपारकारुण्यसौशील्य-वात्सल्योदार्यमहोदधिम्, अनालोचितविशेषाशेषलोक-शरण्यम्, प्रणतार्तिहरम्, आश्रितवात्सल्यैकजलधिम्, अखिलमनुजनयनविषयतां गतम्, अजहत्स्वस्वभावम्, वसुदेवगृहेऽवतीर्णम्, अनवधिकातिशयतेजसा निखिलं जगद्भासयन्तम्, आत्मकान्त्या विश्वमाप्याययन्तम्, भजते सेवते, उपास्त इत्यर्थः स मे युक्ततमो मतः स सर्वेभ्यश्श्रेष्टतम इति सर्वं सर्वदा यथावस्थितं स्वत एव साक्षात्कुर्वनहं मन्ये॥४७॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये प्षष्ठोऽध्यायः ॥ ६॥