05 श्रीमद्गीताभाष्यम् पञ्चमोऽध्यायः

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

पञ्चमोऽध्यायः

चतुर्थेऽध्याये कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदो ज्ञानांशस्य च प्राधान्यमुक्तं ज्ञानयोगाधिकारिणो-ऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वादप्रमादत्वात्सुकरत्वान्निरपेक्षत्वाच्च ज्यायस्त्वं तृतीय एवोक्तम् । इदानीं कर्मयोगस्यात्मप्राप्तिसाधनत्वे ज्ञाननिष्ठायाश्शैघ्र्यं कर्मयोगान्तर्गताकर्तृत्वानुसन्धान-प्रकारं च प्रतिपाद्य तन्मूलं ज्ञानं च विशोध्यते ॥

अर्जुन उवाच

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥

कर्मणां संन्यासं ज्ञानयोगं पुनः कर्मयोगं च शंससि । एतदुक्तं भवति द्वितीयेऽध्याये मुमुक्षोः प्रथमं कर्मयोग एव कार्यः, कर्मयोगेन मृदितान्तःकरणकषायस्य ज्ञानयोगेनात्मदर्शनं कार्यमिति प्रतिपाद्य पुनस्तृतीयचतुर्थयोर् ज्ञानयोगाधिकारदशापन्नस्यापि कर्मनिष्ठैव ज्यायसी, सैव ज्ञाननिष्ठानिरपेक्षा आत्मप्राप्तौ साधनमिति कर्मनिष्ठां प्रशंशसि इति । तत्रैतयोर्ज्ञानयोगकर्मयोगयोरात्मप्राप्तिसाधनभावे यदेकं सौकार्यच्छैघ्र्याच्च श्रेयः श्रेष्ठमिति सुनिश्चितम्, तन्मे ब्रूहि ॥ १ ॥

श्रीभगवानुवाच

संन्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ ।

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ २ ॥

संन्यासः ज्ञानयोगः, कर्मयोगश्च ज्ञानयोगशक्तस्याप्युभौ निरपेक्षौ निश्श्रेयसकरौ । तयोस्तु कर्मसंन्यासाज्ज्ञानयोगात्कर्मयोग एव विशिष्यते ॥ २ ॥

कुत इत्यत्राह –

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥

यः कर्मयोगी तदन्तर्गतात्मानुभवतृप्तस्तद्व्यतिरिक्तं किमपि न काङ्क्षति, तत एव किमपि न द्वेष्टि, तत एव द्वन्द्वसहश्च स नित्यसंन्यासी नित्यज्ञाननिष्ठ इति ज्ञेयः । स हि सुकरकर्मयोगनिष्ठतया सुखं बन्धात्प्रमुच्यते ॥ ३ ॥

ज्ञानयोगकर्मयोगयोरात्मप्राप्तिसाधनभावेऽन्योन्यनैरपेक्ष्यमाह –

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।

एकमप्यास्थितस्सम्यगुभयोर्विन्दन्ते फलम् ॥ ४ ॥

ज्ञानयोगकर्मयोगौ फलभेदात्पृथग्भूतौ ये प्रवदन्ति, ते बाला अनिष्पन्नज्ञाना न पण्डिता अकृत्स्नविदः । कर्मयोगो ज्ञानयोगमेव साधयति ज्ञानयोगस्त्वेक आत्मावलोकनं साधयतीति तयोः फलभेदेन पृथक्त्वं वदन्तो न पण्डिता इत्यर्थः । उभयोरात्मावलोकनैकफलयोरेकफलत्वेन एकमप्यास्थितस्तदेव फलं लभते ॥ ४ ॥

एतदेव विवृणोति –

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।

कं सांख्यं च योगं च यः पश्यति स पश्यति ॥ ५ ॥

सांख्यैर् ज्ञाननिष्ठैः । यदत्मावलोकनरूपं फलं प्राप्यते, तदेव कर्मयोगनिष्ठैरपि प्राप्यते । एवमेकफलत्वेनैकं वैकल्पिकं सांख्यं योगं च यः पश्यति, स पश्यति स एव पण्डित इत्यर्थः ॥५॥

इयान् विशेष इत्याह –

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।

योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ ६ ॥

संन्यासः ज्ञानयोगस्तु अयोगतः कर्मयोगाद्­ते प्राप्तुमशक्यः योगयुक्तः कर्मयोगयुक्तः स्वयमेव मुनिर् आत्ममननशीलः सुखेन कर्मयोगं साधयित्वा न चिरेण अल्पेनैव कालेन ब्रह्माधिगच्छति आत्मानं प्राप्नोति । ज्ञानयोगयुक्तस्तु महता दुःखेन ज्ञानयोगं साधयति दुःखसाध्यत्वादात्मानं चिरेण प्राप्नोतीत्यर्थः ॥ ६ ॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥

कर्मयोगयुक्तस्तु शास्त्रीये परमपुरुषाराधनरूपे विशुद्धे कर्मणि वर्तमानस् तेन विशुद्धमना विजितात्मा स्वाभ्यस्ते ते कर्मणि व्यापृतमनस्त्वेन सुखेन विजितमनाः , तत एव जितेन्दियः कर्तुरात्मनो याथात्म्यानुसन्धान-निष्ठतया सर्वभूतात्मभूतात्मा सर्वेषां देवादिभूतानामात्मभूत आत्मा यस्यासौ सर्वभूतात्मभूतात्मा । आत्मयाथात्म्य-मनुसन्धानस्य हि देवादीनां स्वस्य चैकाकार आत्मा देवादिभेदानां प्रकृतिपरिणामविशेषरूपतया-त्माकारत्वासंभवात् । प्रकृतिवियुक्तः सर्वत्र देवादिदेहेषु ज्ञानैकाकारतया समानाकार इति ‘निर्दोषं हि समं ब्रह्म‘ इति अनन्तरमेव वक्ष्यते । स एवंभूतः कर्म कुर्वन्नपि अनात्मन्यात्माभिमानेन न लिप्यते न संबध्यते । अतोऽचिरेणात्मानं प्राप्नोतीत्यर्थः ॥७ ॥

यतः सौकर्याच्छैघ्र्याच्च कर्मयोग एव श्रेयान्, अतस्तदपेक्षितं शृणु –

नैष किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।

पश्यन् शृण्वन् स्पृशन् जिघ्रनश्नन् गच्छन् स्वपन् श्वसन् ॥ ८ ॥

प्रलपन् विसृजन् गृह्णनुन्मिषन्निमिषन्नपि ।

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥

एवमात्मतत्त्वविच्श्रोत्रादीनि ज्ञानेन्द्रियाणि, वागादीनि च कर्मेन्द्रियाणि, प्रणाश्च स्वविषयेषु वर्तन्त इति धारयननुसन्धानः नाहं किंचित्करोमीति मन्येत ज्ञानैकस्वभावस्य मम कर्ममूलेन्द्रियप्राणसंबन्धकृतमीदृशं कर्तृत्वं न स्वरूपप्रयुक्तमिति मन्येतेत्यर्थः ॥ ८ – ९॥

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥

ब्रह्मशब्देन प्रकृतिरिहोच्यते । मम योनिर्महद्ब्रह्म (भ.गी.१४.३) इति हि वक्ष्यते । इन्द्रियाणां प्रकृतिपरिणामविशेषरूपत्वेन इन्द्रियाकारेणावस्थितायां प्रकृतौ पश्यञ्छृण्वन् इत्याद्युक्तप्रकारेण कर्माण्याधाय, फलसङ्गं त्यक्त्वा, नैव किंचित्करोमीति यः कर्माणि करोति, स प्रकृतिसंसृष्टतया वर्तमानोऽपि प्रकृत्यात्माभिमानरूपेण बन्धहेतुना पापेन न लिप्यते । पद्मपत्रमिवाम्भसा यथा पद्मपत्रमम्भसा संसृष्टमपि न लिप्यते, तथा न लिप्यत इत्यर्थः ॥ ॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ११ ॥

कायमनोबुद्धीन्द्रियसाध्यं कर्म स्वर्गादिफलसङ्गं त्यक्त्वा योगिन आत्मविशुद्धये कुरन्ति आत्मगतप्राचीनकर्मबन्धविनाशाय कुर्वन्तीत्यर्थः ॥ ११ ॥

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।

अयुक्तः कामकारेण फले सक्तो निबध्यते ॥१२॥

युक्त आत्मव्यतिरिक्तफलेष्वचपल आत्मैकप्रवणः, कर्मफलं त्यक्त्वा केवलमात्मशुद्धये कर्मानुष्ठाय नैष्ठिकीं शान्तिमाप्नोति स्थिरामात्मानुभवरूपां निर्वृतिमाप्नोति । अयुक्त आत्मव्यतिरिक्तफलेषु चपल आत्मावलोकनविमुखः कामकारेण फले सक्तः कर्माणि कुर्वन्नित्यं कर्मभिर्बध्यते नित्यसंसारी भवति । अतः फलसङ्गरहित इन्द्रियाकारेण परिणतायां प्रकृतौ कर्माणि संन्यस्य आत्मनो बन्धमोचनायैव कर्माणि कुर्वीतेत्युक्तं भवति ॥ १२ ॥

अथ देहाकारेण परिणतायां प्रकृतौ कर्तृत्वसंन्यास उच्यते –

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।

नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥

आत्मनः प्राचीनकर्ममूलदेहसंबन्धप्रयुक्तमिदं कर्मणां कर्तृत्वं न स्वरूपप्रयुक्तमिति विवेकविषयेण मनसा सर्वाणि कर्माणि नवद्वारे पुरे संन्यस्य देही स्वयं वशी देहाधिष्ठानप्रयत्नमकुर्वन् देहं च नैव कारयन् सुखमास्ते ॥१३॥ साक्षादात्मनः स्वाभाविकं रूपमाह –

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥

अस्य देवतिर्यङ्मनुष्यस्थावरात्मना प्रकृतिसंसर्गेण वर्तमानस्य लोकस्य देवाद्यसाधारणं कर्तृत्वं तत्तदसाधारणानि कर्माणि तत्तत्कर्मजन्यदेवादिफलसंयोगं च, अयं प्रभुर् अकर्मवश्यः स्वाभाविकस्वरूपेणावस्थित आत्मा न सृजति नोत्पादयति । कस्तर्हि? स्वभावस्तु प्रवर्तते । स्वभावः प्रकृतिवासना । अनादिकालप्रवृत्त-पूर्वपूर्वकर्मजनितदेवाद्याकारप्रकृति संसर्गकृततत्तदात्माभिमान- जनितवासनाकृतमीदृशं कर्तृत्वादिकं सर्वं न स्वरूपप्रयुक्तमित्यर्थः ॥ १४ ॥

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥

कस्यचित्स्वसंबन्धितयाभिमतस्य पुत्रादेः पापं दुःखं नादत्ते नापनुदति । कस्यचित् प्रतिकूलतयाभिमतस्य सुकृतं सुखं च नादत्ते नापनुदति । यतोऽयं विभुर् न क्वाचित्कः, न देवादि-देहाद्यसाधारणदेशः, अत एव न कस्यचित्संबन्धी, न कस्यचित्प्रतिकूलश्च । सर्वमिदं वासनाकृतम्। एवंस्वभावस्य कथमियं विपरीतवासना उत्पद्यते? अज्ञानेनावृतं ज्ञानं ज्ञानविरोधिना पूर्वपूर्वकर्मणा स्वफलानुभवयोग्यत्वाय अस्य ज्ञानमावृतं संकुचितम् । तेन ज्ञानावरणरूपेण कर्मणा देवादिदेहसंयोगस्तत्तदात्माभिमानरूपमोहश्च जायते । ततश्च तथाविधात्माभिमान वासना, तदुचितकर्मवासना च वासनातो विपरीतात्माभिमानः, कर्मारम्भश्चोपपद्यते ॥ १५ ॥

सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यति (भ.गी.४.३६), ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा (भ.गी.४.३७), न हि ज्ञानेन सदृशं पवित्रम् (भ.गी.४.३८) इति पूर्वोक्तं स्वकाले संगमयति –

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।

तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥

एवं वर्तमानेषु सर्वेष्वात्मसु येषामात्मनामुक्तलक्षणेन आत्मयाथात्म्योपदेशजनितेन आत्मविषयेण अहरहरभ्यासाधेयातिशयेन निरतिशयपवित्रेण ज्ञानेन तज् ज्ञानावरणमनादिकालप्रवृत्तानन्तकर्मसंचय-रूपमज्ञानं नाशितम्, तेषां तत्स्वाभाविकं परं ज्ञानमपरिमितमसंकुचितमादित्यवत्सर्वं यथावस्थितं प्रकाशयति । तेषामिति विनष्टाज्ञानानां बहुत्वाभिमानादात्मस्वरूपबहुत्वम्, न त्वेवाहं जातु नासम् (भ.गी.२.१२) इत्युपक्रमावगतमत्र स्पष्टतरमुक्तम् । न चेदं बहुत्वमुपाधिकृतं विनष्टाज्ञानानामुपाधिगन्धाभावात् । तेषामादित्यवज्ज्ञानम् इति व्यतिरेकनिर्देशाज्ज्ञानस्य स्वरूपानुबन्धिधर्मत्वमुक्तम् । आदित्यदृष्टान्तेन च ज्ञातृज्ञानयोः प्रभाप्रभावतोरिवावस्थानं च । तत एव संसारदशायां ज्ञानस्य कर्मणा संकोचो मोक्षदशायां विकासश्चोपपन्नः ॥ १६ ॥

तद्बुद्धयस्तदात्मनस्तन्निष्ठास्तत्परायणाः ।

गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥

तद्बुद्धयस् तथाविधात्मदर्शनाध्यवसायाः, तदात्मानस् तद्विषयमनसः, तन्निष्ठास् तदभ्यासनिरताः, तत्परायणास् तदेव परमप्रयोजनमिति मन्वानाः, एवमभ्यस्यमानेन ज्ञानेन निर्धूतप्राचीनकल्मषास् तथाविधमात्मनमपुनरावृत्तिं गच्छन्ति । यदवस्थादात्मनः पुनरावृत्तिर्न विद्यते, स आत्मा अपुनरावृत्तिः। स्वेन रूपेणावस्थितमात्मानं गच्छन्तीत्यर्थः ॥ १७ ॥

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥

विद्याविनयसंपन्ने, केवलब्राह्मणे, गोहस्तिश्वश्वपचादिषु अत्यन्तविषमाकारतया प्रतीयमानेषु आत्मसु पण्डिता आत्मयाथात्म्यविदः, ज्ञानैकाकारतया सर्वत्र समदर्शिनः विषमाकारस्तु प्रकृतेः, नात्मन आत्मा तु सर्वत्र ज्ञानैकाकारतया सम इति पश्यन्तीत्यर्थः ॥ १८ ॥

इहैव तैर्जितस्स्वर्गो येषां साम्ये स्थितं मनः ।

निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ १९ ॥

इहैव साधनानुष्ठानदशायामेव तैः सर्गो जितः संसारो जितः येषामुक्तरीत्या सर्वेष्वात्मसु साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म । प्रकृतिसंसर्गदोषवियुक्ततया सममात्मवस्तु हि ब्रम्ह । आत्मसाम्ये स्थिताश्चेद्ब्रह्मणि स्थिता एव ते ब्रह्मणि स्थितिरेव हि संसारजयः । आत्मसु ज्ञानैकाकारतया साम्यमेवानुसन्धाना मुक्ता एवेत्यर्थः ॥ १९ ॥

येन प्रकारेणावथितस्य कर्मयोगिनः समदर्शनरूपो ज्ञनविपाको भवति, तं प्रकारमुपदिशति –

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।

स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ २० ॥

यादृशदेहस्थस्य यदवस्थस्य प्राचीनकर्मवासनया यत्प्रियं भवति, यच्चाप्रियम्, तदुभयं प्राप्य हर्षोद्वेगौ न कुर्यात् । कथम्? स्थिरबुद्धिः स्थिरे आत्मनि बुद्धिर्यस्य सः स्थिरबुद्धिः, असंमूढो अस्थिएण शरीरेण स्थिरमात्मानमेकीकृत्य मोहः संमोहस् तद्रहितः । तच्च कथम्? ब्रह्मविद्ब्रह्मणि स्थितः । उपदेशेन ब्रह्मवित्सन् तस्मिन् ब्रह्मण्यभ्यासयुक्तः । एतदुक्तं भवति तत्त्वविदामुपदेशेन आत्मयाथात्म्यविद्भूत्वा तत्रैव यतमानो देहात्माभिमानं परित्यज्य स्थिररूपात्मावलोकनप्रियानुभवे व्यवस्थितो ऽस्थिरे प्राकृते प्रियाप्रिये प्राप्य हर्षोदेवेगौ न कुर्यादिति ॥ २० ॥

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यः सुखम् ।

स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ॥

एवमुक्तेन प्रकारेण बाह्यस्पर्शेषु आत्मव्यतिरिक्तविषयानुभवेषु, असक्तात्मा असक्तमना अन्तरात्मन्येव यः सुखं विन्दति लभते, स प्रकृत्यभ्यासं विहाय ब्रह्मयोगयुक्तात्मा ब्रह्माभ्यासयुक्तमना ब्रह्मानुभवरूपमक्षयं सुखं प्राप्नोति ॥ २१ ॥

प्राकृतस्य भोगस्य सुत्यजतामाह –

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।

आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥

विषयेन्द्रियस्पर्शजा ये भोगा दुःखयोनयस्ते दुःखोदर्काः । आद्यन्तवन्तो ऽल्पकालवर्तिनो हि उपलभ्यन्ते । न तेषु तद्याथात्म्यविद्रमते ॥ २२ ॥

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥

शरीरविमोक्षणात्प्राकिहअएव साधनानुष्ठानदशायमेव आत्मानुभवप्रीत्या कामक्रोधोद्भवं वेगं सोढुं निरोद्धुं यः शक्नोति, स युक्त आत्मानुभवायार्हाः । स एव शरीरविमोक्षोत्तरकालमात्मानुभवैक-सुखस्संपत्स्यते ॥ २३ ॥

योऽन्तस्सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।

स योगी ब्रह्म निर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥

यो बाह्यविषयानुभवं सर्वं विहाय अन्तस्सुख आत्मानुभवैकसुखः, अन्तराराम आत्मैकोद्यानः स्वगुणैरात्मैव सुखवर्धको यस्य स तथोक्तः, तथान्तर्ज्योतिर् आत्मैकज्ञानो यो वर्तते, स ब्रह्मभूतो योगी ब्रह्मनिर्वाणमात्मानुभवसुखं प्राप्नोति ॥ २४ ॥

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।

छिन्नद्वैधा यतात्मानस्सर्वभूतहिते रताः ॥ २५ ॥

च्छिन्नद्वैधाः शीतोष्णादिद्वन्द्वैर्विमुक्ताः, यतात्मान आत्मन्येव नियमितमनसः, सर्वभूतहिते रता आत्मवत्सर्वेषां भूतानां हितेष्वेव निरताः, ऋषयः द्रष्टार आत्मावलोकनपराः, य एवम्भूतास्ते क्षीणाशेषात्मप्राप्तिविरोधिकल्मषा ब्रह्मनिर्वाणं लभन्ते ॥ २५ ॥

उक्तलक्षणानां ब्रह्म अत्यन्तसुलभमित्याह –

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।

अभितो ब्रह्मनिर्वाणं वर्तते विजितात्मनाम् ॥ २६ ॥

कामक्रोध्वियुक्तानां यतीनां यतनशीलानां यतचेतसां नियमितमनसां विजितात्मनां विजितमनसां, ब्रह्मनिर्वाणमभितो वर्तते । एवंभूतानां हस्तस्थं ब्रह्मनिर्वाणमित्यर्थः ॥ २६ ॥

उक्तं कर्मयोगं स्वलक्ष्यभूतयोगशिरस्कमुपसंहरति –

स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥

बाह्यान् विषयस्पर्शान् बहिः कृत्वा बाह्येन्द्रियव्यापारं सर्वमुपसंहृत्य, योगयोग्यासने ऋजुकाय उपविश्य चक्षुषी भ्रुवोरन्तरे नासाग्रे विन्यस्य नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा उच्छ्वासनिश्वासौ समगती कृत्वा आत्मावलोकनादन्यत्र प्रवृत्त्यनर्हेान्द्रियमनोबुद्धिः, तत एव विगतेच्छाभयक्रोधः, मोक्षपरायणः मोक्षैकप्रयोजनः, मुनिर् आत्मावलोकनशीलः यः, सः सदा मुक्त एव साध्यदशायामिव साधनदशायामपि मुक्त एवेत्यर्थः ॥ २७ – २८॥

उक्तस्य नित्यनैमित्तिककर्मेतिकर्तव्यताकस्य कर्मयोगस्य योगशिरस्कस्य सुशकतामाह –

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥

यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिमृच्छति, कर्मयोगकरण एव सुखमृच्छति । सर्वलोकमहेश्वरं सर्वेषां लोकेश्वराणामपीश्वरम् । तमीश्वराणां परमं महेश्वरम् (श्वे.६.७) इति हि श्रूयते । मां सर्वलोकमहेश्वरं सर्वसुहृदं ज्ञात्वा मदाराधनरूपः कर्मयोग इति सुखेन तत्र प्रवर्तत इत्यर्थः सुहृद आराधनाय हि सर्वे प्रवर्तन्ते ॥ २९ ॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये पञ्चमोऽध्यायः॥ ५॥