04 श्रीमद्गीताभाष्यं चतुर्थोऽध्यायः

भगवद्रामानुजविरचितं

श्रीमद्गीताभाष्यम्

चतुर्थोऽध्यायः

तृतीयेऽध्याये प्रकृतिसंसृष्टस्य मुमुक्षोः सहसा ज्ञानयोगेऽनधिकारात्कर्मयोग एव कार्यः, ज्ञानयोगाधिकारिणोऽप्यकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयानिति सहेतुकमुक्तं शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्मयोग एव कार्य इति चोक्तम् । चतुर्थेनेदानीम् अस्यैव कर्मयोगस्य निखिलजगदुद्धरणाय मन्वन्तरादावेवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गतज्ञानतयास्यैव ज्ञानयोगाकरतां प्रदर्श्य, कर्मयोगस्वरूपम्, तद्भेदाः, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं चोच्यते । प्रसङ्गाच्च भगवदवतारयाथात्म्यमुच्यते ।

श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।

विवस्वान्मनवे प्राह मनुरीक्षवाकवेऽब्रवीत् ॥ १ ॥

एवं परम्पराप्राप्तमिमं राजर्षयोऽविदुः ।

स कालेनेह महता योगो नष्टः परन्तप ॥ २ ॥

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।

भक्तोऽस्ति मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ ३ ॥

योऽयं तवोदितो योगः स केवलं युद्धप्रोत्साहनायेदानीमुदित इति न मन्तव्यम् । मन्वन्तरादावेव निखिलजगदुद्धरणाय परमपुरुषार्थलक्षणमोक्षसाधनतया इमं योगमहमेव विवस्वते प्रोक्तवान्, विवस्वांश्च मनवे, मनुरिक्ष्वकवे । इत्येवं संप्रदायपरम्परया प्राप्तमिमं योगं पूर्वे राजर्षयोऽविदुः । स महता कालेन तत्तच्छ्रोतृबुद्धिमान्द्याद्विनष्टप्रायोऽभूत् । स एवायमस्खलित-स्वरूपः पुरातनो योगः सख्येनातिमात्रभक्त्या च मामेव प्रपन्नाय ते मया प्रोक्तः सपरिकरस्सविस्तरम् उक्त इत्यर्थः । मदन्येन केनापि ज्ञातुं वक्तुं चाशक्यम्, यत इदं वेदान्तोदितमुत्तमं रहस्यं ज्ञानम्॥१-२-३॥

अस्मिन् प्रसङ्गे भगवदवतारयाथात्म्यं यथावज्ज्ञातुमर्जुन उवाच –

अर्जुन उवाच

अवरं भवतो जन्म परं जन्म विवस्वतः ।

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥

कालसङ्ख्यया अवरमस्मज्जन्मसमकालं हि भवतो जन्म । विवस्वतश्च जन्म कालसङ्ख्यया परम् अष्टाविंशतिचतुर्युगसङ्ख्यासङ्ख्यातम् । त्वमेवादौ प्रोक्तवानिति कथमेतदसंभावनीयं यथार्थं जानीयाम् ? ननु जन्मान्तरेणापि वक्तुं शक्यम्, जन्मान्तरकृतस्य महतां स्मृतिश्च युज्यत इति नात्र कश्चिद्विरोधः । न चासौ वक्तारमेनं वसुदेवतनयं सर्वेश्वरं न जानाति, यत एवं वक्ष्यति, परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ आहुस्त्वामृषयस्सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे (भ.गी.१०.१२,१३) इति । युधिष्ठिरराजसूयादिषु भीष्मादिभ्यश्चासकृच्छ्रुतम्, कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः। कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् (भा.स.३८.२६) इत्येवमादिषु । कृष्णस्य हि कृते इति, कृष्णस्य शेषभूतमिदं कृत्स्नं जगदित्यर्थः ॥ अत्रोच्यते जानात्येवायं भगवन्तं वसुदेवसूनं पार्थः । जानतोऽप्यजानत इव पृच्छतोऽयमाशयः निखिलहेयप्रत्यनीककल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्यसङ्कल्पस्यावाप्तसमस्तकामस्य कर्मपरवशदेव-मनुष्यादिसजातीयं जन्म किमिन्द्रजालादिवन्मिथ्या, उत सत्यम्? सत्यत्वे च कथं जन्मप्रकारः? किमात्मकोऽयं देहः? कश्च जन्महेतुः? कदा च जन्म? किमर्थं च जन्मेति । परिहारप्रकारेण प्रश्नार्थो विज्ञायते ॥ ४ ॥

श्रीभगवानुवाच

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ ५ ॥

अनेन जन्मनस्सत्यत्वमुक्तम्, बहूनि मे व्यतीतानि जन्मानीति वचनात्, तव चेति दृष्टान्ततयोपादानाच्च ॥ ५ ॥

अवतारप्रकारम्, देहयाथात्म्यम्, जन्महेतुं चाह –

अजोऽपि सनव्ययात्मा भूतानामीश्वरोऽपि सन् ।

प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥ ६ ॥

अजत्वाव्ययत्वसर्वेश्वरत्वादि सर्वं पारमेश्वरं प्रकारमजहदेव स्वां प्रकृतिमधिष्ठाय आत्ममायया संभवामि । प्रकृतिः स्वभावः स्वमेव स्वभावमधिष्ठाय स्वेनैव रूपेण स्वेच्छया संभवामीत्यर्थः । स्वस्वरूपं हि, आदित्यवर्णं तमसः परस्तात् (पु), क्षयन्तमस्य रजसः पराके (सा.उ.१७.२.४.२), य एषोऽन्तरादित्ये हिरण्यमयः पुरुषः (छा.उ.१.६.६), तस्मिन्नयं पुरुषो मनोमयो ऽमृतो हिरण्मयः (तै.उ.शी.६.१), सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि (ना.६.१.८), भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकामा सर्वकामस्सर्वगन्धस्सर्वरसः (छा.३.१४.२), माहारजनं वासः (बृ.४.३.६) इत्यादिश्रुतिसिद्धम् । आत्ममायया आत्मीयया मायया । माया वयुनं ज्ञानम् इति ज्ञानपर्यायोऽत्र मायाशब्दः । तथा चाभियुक्तप्रयोगः, मायया सततं वेत्ति प्राणिनां च शुभाशुभम् इति । आत्मीयेन ज्ञानेन आत्मसङ्कल्पेनेत्यर्थः । अतोऽपहतपाप्मत्वादिसमस्तकल्याणगुणात्मकत्वं सर्वमैशं स्वभावमजहत्स्वमेव रूपं देवमनुष्यादिसजातीयसंस्थानं कुर्वनात्मसङ्कल्पेन देवादिरूपः संभवामि । तदिदमाह, अजायमानो बहुधा विजायते (उ.ना) इति श्रुतिः । इतरपुरुषसाधारणं जन्म अकुर्वन् देवादिरूपेण स्वसङ्कल्पेनोक्तप्रक्रियया जायत इत्यर्थः । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन। तान्यहं वेद सर्वाणि, तदात्मानं सृजाम्यहम्, जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वत इति पूर्वापराविरोधाच्च ॥ ६ ॥

जन्मकालमाह –

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥

न कालनियमोऽस्मत्संभवस्य । यदा यदा हि धर्मस्य वेदोदितस्य चातुर्वर्ण्यचातुराश्रम्य-व्यवस्थयावस्थितस्य कर्तव्ययस्य ग्लानिर्भवति, यदा यदा च तद्विपर्ययस्याधर्मस्याभ्युत्थानं तदाहमेव स्वसङ्कल्पेनोक्तप्रकारेणात्मानं सृजामि ॥ ७ ॥ जन्मनः प्रयोजनमाह –

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ८ ॥

साधव उक्तलक्षणधर्मशीला वैष्णवाग्रेसरा मत्समाश्रयणे प्रवृत्ता मन्नामकर्मस्वरूपाणां वाङ्मनसागोचरतया मद्दर्शनेन विना स्वात्मधारणपोषणादिक्मलभमानाः क्षणमात्रकालं कल्पसहस्रं मन्वानाः प्रतिशिथिलसर्वगात्रा भवेयुरिति मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाय तद्विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्याराध्यस्वरूपप्रदर्शनेन स्थापनाय च देवमनुष्यादिरूपेण युगे युगे संभवामि ।कृतत्रेतादियुगविशेषनियमोऽपि नास्तीत्यर्थः ॥८॥

जन्म कर्मं च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ ९ ॥

एवं कर्ममूलहेयत्रिगुणप्रकृतिसंसर्गरूपजन्मरहितस्य सर्वेस्वरत्वसार्वज्ञ्यसत्यसङ्कल्पत्वादि-समस्तकल्याणगुणोपेतस्य साधुपरित्राणमत्समाश्रयणैकप्रयोजनं दिव्यम् अप्राकृतं मदसाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति, स वर्तमानं देहं परित्यज्य पुनर्जन्म नैति, मामेव प्राप्नोति । मदीयदिव्यजन्मचेष्टितयाथात्म्यविज्ञानेन विध्वस्तसमस्तमत्समाश्र्यणविरोधिपापो ऽस्मिन्नेव जन्मनि यथोदितप्रकारेण मामाश्रित्य मदेकप्रियो मदेकचित्तो मामेव प्राप्नोति ॥ ९ ॥ तदाह –

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।

बहवो ज्ञानतपसा पूता मद्भावनागताः ॥ १० ॥

मदीयजन्मकर्मतत्त्वज्ञानाख्येन तपसा पूता बहव एवं संवृत्ताः । तथा च श्रुतिः, तस्य धीराः परिजानन्ति योनिम् (उ.ना) इति । धीरा धीमतामग्रेसरा एवं तस्य जन्मप्रकारं जानन्तीत्यर्थः।१०।

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥

न केवलं देवमनुष्यादिरूपेणावतीर्य मत्समाश्रयणापेक्षाणां परित्राणं करोमि, अपि तु ये मत्समाश्रयणापेक्षा यथा येन प्रकारेण स्वापेक्षानुरूपं मां संकल्प्य प्रपद्यन्ते समाश्रयन्ते तान् प्रति तथैव तन्मनीषितप्रकारेण भजामि मां दर्शयामि । किमत्र बहुना, सर्वे मनुष्या मदनुवर्तनैकमनोरथा मम वर्त्म मत्स्वभावं सर्वं योगिनां वाङ्मनसागोचरमपि स्वकीयाइश्चक्षुरादिकरणैः सर्वशः स्वापेक्षितैः सर्वप्रकारैरनुभूयानुवर्त्न्ते ॥ ११ ॥

इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्मयोगस्य ज्ञानाकारताप्रकारं वक्तुं तथाविधकर्मयोगाधिकारिणो दुर्लभत्वमाह –

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥

सर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणा इन्द्रादिदेवतामात्रं यजन्ते आराधयन्ति, न तु कश्चिदनभिसंहितफल इन्द्रादिदेवतात्मभूतं सर्वयज्ञानां भोक्तारं मां यजते । कुत एतत्? यतः क्षिप्रमस्मिन्नेव मानुषे लोके कर्मजा पुत्रपश्वन्नाद्य्सिद्धिर्भवति । मनुष्यलोकशब्दः स्वर्गादीनामपि प्रदर्शनार्थः । सर्वमेव लौकिकाः पुरुषा अक्षीणानादिकालप्रवृत्तानन्तपापसंचयतया अविवेकिनः क्षिप्रफलाकाङ्क्षिणः पुत्रप_ान्नाद्यस्वर्गाद्यर्थतया सर्वाणि कर्माणीन्द्रादिदेवताराधनमात्राणि कुर्वते न तु कश्चित्संसारोद्विग्नहृदयो मुमुक्षुर् उक्तलक्षणं कर्मयोगं मदाराधनभूतमारभत इत्यर्थः ॥ १२ ॥

यथोक्तकर्मयोगारम्भविरोधिपापक्षयहेतुमाह –

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ १३ ॥

चातुर्वर्ण्यप्रमुखं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्सत्त्वादिगुणविभागेन तदनुगुणशमादिकर्मविभागेन च विभक्तं मया सृष्टम् । सृष्टिग्रहणं प्रदर्शनार्थम् । मयैव रक्ष्यन्ते, मयैव चोपसंह्रियते । तस्य विचित्रसृष्त्यादेः कर्तारमप्यकर्तारं मां विद्धि ॥ १३ ॥ कथमित्यत्राह –

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४ ॥

यत इमानि विचित्रसृष्ट्यादीनि कर्माणि मां न लिम्पन्ति न मां संबध्नन्ति । न मत्प्रयुक्तानि तानि देवमनुष्यादिवैचित्र्याणि । सृज्यानां पुण्यपापरूपकर्मविशेषप्रयुक्तानीत्यर्थः । अतः प्राप्ताप्राप्तविवेकेन विचित्रसृष्ट्यादेर्नाहं कर्ता यतश्च सृष्टाः क्षेत्रज्ञाः सृष्टिलब्धकरणकलेबराः सृष्टिलब्धं भोग्यजातं फलसङ्गादिहेतुस्वकर्मानुगुणं भुञ्जते सृष्ट्याद्कर्मफले च तेषामेव स्पृहेति ने मे स्पृहा । तथाह सूत्रकारः वैषम्यनैर्घृण्ये न सापेक्षत्वादिति । तथा च भगवान् पराशरः निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ निमित्तमात्रं मुक्त्वेदं नान्यत्किंचिदपेक्षते। नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ॥ (वि.पु.१.४.५१,५२) इति । सृज्यानां देवादीनां क्षेत्रज्ञानां सृष्टेः कारणमात्रमेवायं परमपुरुषः देवादिवैचित्र्ये तु प्रधानकारणं सृज्यभूतक्षेत्रज्ञानां प्राचीनकर्मशक्तय एव। अतो निमित्तमात्रं मुक्त्वा सृष्टेः कर्तारं परमपुरुषं मुक्त्वा इदं क्षेत्रज्ञवस्तु देवादिविचित्रभावे नान्यदपेक्षते स्वगतप्राचीनकर्मशक्त्या एव हि देवादिवस्तुभावं नीयत इत्यर्थः । एवमुक्तेन प्रकारेण सृष्त्यादेः कर्तारमप्यकर्तारं सृष्ट्यादिकर्मफलसङ्गरहितं च यो मामभिजानाति, स कर्मयोगारम्भविरोधिभिः फलसङ्गादिहेतुभिः प्राचीनकर्मभिर्न संबध्यते । मुच्यत इत्यर्थः ॥ १४ ॥

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।

कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ १५ ॥

एवं मां ज्ञात्वा विमुक्तपापैः पूर्वैरपि मुमुक्षुभिरुक्तलक्षणं कर्म कृतम् । तस्मात्त्वमुक्तप्रकारमद्विषयज्ञान-विधूतपापः पूर्वैर्विवस्वन्मन्वादिभिः कृतं पूर्वतरं पुरातनं तदानीमेव मयोक्तं वक्ष्यमाणाकारं कर्वैव कुरु ॥ १५ ॥

वक्ष्यमाणस्य कर्मणो दुर्ज्ञानतामाह –

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।

तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥

मुमुक्षुणानुष्ठेयं कर्म किंरूपम्, अकर्म च किम् । अकर्मेति कर्तुरात्मनो याथात्म्यज्ञानमुच्यते अनुष्ठेयं कर्म तदन्तर्गतं ज्ञानं च किंरूपमित्युभयत्र कवयः विद्वांसोऽपि मोहिता यथावन्न जानन्ति। एवमन्तर्गतज्ञानं यत्कर्म, तत्ते प्रवक्ष्यामि, यज्ज्ञात्वानुष्ठाय अशुभात् संसारबन्धान्मोक्ष्यसे । कर्तव्यकर्मज्ञानं ह्यनुष्ठानफलम् ॥१६॥

कुतोऽस्य दुर्ज्ञानतेत्याह –

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥

यस्मान्मोक्षसाधनभूते कर्मस्वरूपे बोद्धव्यमस्ति विकर्मणि च । नित्यनैमित्तिककाम्यरूपेण, तत्साधनद्रव्यार्जनाद्याकारेण च विविधतापन्नं कर्म विकर्म । अकर्मणि ज्ञाने च बोद्धव्यमस्ति । गहना दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः ॥ १७ ॥

विकर्मणि बोद्धव्यं नित्यनैमित्तिककाम्यद्रव्यार्जनादौ कर्मणि फलभेदकृतं वैविध्यं परित्यज्य मोक्षैकफलतयैकशास्त्रार्थत्वानुसन्धानम् । तदेतत्‘व्यवसायात्मिका बुद्धिरेका‘ इत्यत्रैवोक्तमिति नेह प्रपञ्च्यते । कर्माकर्मणोर्बोद्धव्यमाह –

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।

स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥

अकर्मशब्देनात्र कर्मेतरात्प्रस्तुतमात्मज्ञानमुच्यते । कर्मणि क्रियमाण एवात्मज्ञानं यः पश्येत्, अकर्मणि चात्मज्ञाने वर्तमान एव यः कर्म पश्येत् । किमुक्तं भवति? क्रियमाणमेव कर्म आत्मयाथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत्, तच्च ज्ञानं कर्मयोगान्तरगततया कर्माकारं यः पश्येदित्युक्तं भवति । क्रियमाणे हि कर्मणि कर्तृभूतात्मयाथात्म्यानुसन्धाने सति तदुभयं संपन्नं भवति। एवमात्मयाथात्म्यानुसन्धानान्तर्गर्भं कर्म यः पश्येत्, स बुद्धिमान् कृत्स्नशास्त्रार्थवित्,मनुष्येषु स युक्तः मोक्षायार्हाः, स एव कृत्स्नकर्मकृत्कृत्स्नशास्त्रार्थकृत् ॥१८॥

प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञनाकारता कथमुपपद्यत इत्यत्राह –

यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।

ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥

यस्य मुमुक्षोः सर्वे द्रव्यार्जनादिलौकिककर्मपूर्वकनित्यनैमित्तिककाम्यरूपकर्मसमारम्भाः कामार्जिताः फलसङ्गरहिताः । सङ्कल्पवर्जिताश्च । प्रकृत्या तद्गुणैश्चात्मानमेकीकृत्यानुसन्धानं सङ्कल्पः प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया तद्रहिताः । तमेवं कर्म कुर्वाणं पण्डितं कर्मान्तर्गतात्मयाथात्म्यज्ञानाग्निना दग्धप्राचीनकर्माणमाहुस्तत्त्वज्ञाः । अतः कर्मणो ज्ञानाकारत्वमुपपद्यते ॥ १९ ॥

एतदेव विवृणोति –

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।

कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥ २० ॥

कर्मफलसङ्गं त्यक्त्वा नित्यतृप्तः नित्ये स्वात्म्न्येव तृप्तः, निराश्रयो ऽस्थिरप्रकृतौ आश्रयबुद्धिरहितो यः कर्माणि करोति, स कर्मण्याभिमुख्येन प्रवृत्तोऽपि नैव किंचित्कर्म करोति कर्मापदेशेन ज्ञानाभ्यासमेव करोतीत्यर्थः ॥ २० ॥ पुनरपि कर्मणो ज्ञानाकारतैव विशोध्यते –

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।

शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥

निराशीर् निर्गतफलाभिसन्धिर् यतचित्तात्मा यतचित्तमनास् त्यक्तसर्वपरिग्रह आत्मैक-प्रयोजनतया प्रकृतिप्राकृतवस्तुनि ममतारहितः, यावज्जीवं केवलं शारीरमेव कर्म कुर्वन् किल्बिषं संसारं नाप्नोति ज्ञाननिष्ठाव्यवधानरहितकेवलकर्मयोगेनैवंरूपेणात्मानं पश्यतीत्यर्थः ॥२१॥

यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः ।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥

यदृच्छोपनतशरीरधारणहेतुवस्तुसन्तुष्टः, द्वन्द्वातीतः यावत्साधनसमाप्त्यवर्जनीय-शीतोष्णादिसहः, विमत्सरो ऽनिष्टोपनिपातहेतुभूतस्वकर्मनिरूपणेन परेषु विगतमत्सरः, समस्सिद्धावसिद्दौ च युद्धादिकर्मसु जयादिसिद्ध्यसिद्ध्योः समचित्तः, कर्मैव कृत्वापि ज्ञाननिष्ठां विनापि न निबध्यते न संसारं प्रतिपद्यते ॥२२॥

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।

यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥

आत्मविषयज्ञानावस्थितमनस्त्वेन निर्गततदितरसङ्गस्य तत एव निखिलपरिग्रह-विनिर्मुक्तस्य उक्तलक्षणयज्ञादिकर्मनिर्वृत्तये वर्तमानस्य पुरुषस्य बन्धहेतुभूतं प्राचीनं कर्म समग्रं प्रविलीयते – निश्शेषं क्षीयते ॥२३॥

प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया कर्मणो ज्ञानाकारत्वमुक्तम् इदानीं सर्वस्य सपरिकरस्य कर्मणः परब्रह्मभूतपरमपुरुषात्मकत्वानुसन्धानयुक्ततया ज्ञानाकारत्वमाह –

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।

ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥

ब्रह्मार्पणमिति हविर्विशेष्यते । अर्प्यतेऽनेनेत्यर्पणं स्रुगादि । तद्ब्रह्मकार्यत्वाद्ब्रह्म । ब्रह्म यस्य हविषोऽर्पणं तद्ब्रह्मार्पणम्, ब्रह्म हविर् ब्रह्मार्पणं हविः । स्वयं च ब्रह्मभूतम्, ब्रह्माग्नौ ब्रह्मभूते अग्नौ ब्रह्मणा कर्त्रा हुतमिति सर्वं कर्म ब्रह्मात्मकतया ब्रह्ममयमिति यः समाधत्ते, स ब्रह्मकर्मसमाधिः, तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् ब्रह्मात्मकतया ब्रह्मभूतमात्मस्वरूपं गन्तव्यम् । मुमुक्षुणा क्रियमाणं कर्म परब्रह्मात्मकमेवेत्यनुसन्धानयुक्ततया ज्ञानाकारं साक्षादात्मावलोकनसाधनं न ज्ञाननिष्ठाव्यधानेनेत्यर्थः ॥ २४ ॥ एवं कर्मणो ज्ञानाकारतां प्रतिपाद्य कर्मयोगभेदानाह –

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।

ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥

दैवं देवार्चनरूपं यज्ञमपरे कर्मयोगिनः पर्युपासते सेवन्ते । तत्रैव निष्ठां कुर्वन्तीत्यर्थः । अपरे ब्रह्माग्नौ यज्ञं यज्ञेनैवोपजुह्वति अत्र यज्ञशब्दो हविस्स्रुगादियज्ञसाधने वर्तते ‘ब्रह्मार्पणं ब्रह्म हविः‘ इति न्यायेन यागहोमयोर् निष्ठां कुर्वन्ति ॥ २५ ॥

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।

शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति ॥ २६ ॥

अन्ये श्रोत्रादीनामिन्द्रियाणां संयमने प्रयतन्ते । अन्ये योगिन इन्द्रियाणां शब्दादिप्रवणतानिवारणे प्रयतन्ते ॥ २६ ॥

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ २७ ॥

अन्ये ज्ञानदीपिते मनस्संयनयोगाग्नौ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि च जुह्वति । मनस इन्द्रियप्राणकर्मप्र्वणतानिवारणे प्रयतन्त इत्यर्थः ॥ २७ ॥

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।

स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ २८ ॥

केचित्कर्मयोगिनो द्रव्ययज्ञा न्यायतो द्रव्याण्युपादाय देवतार्चने प्रयतन्ते, केचिच्च दानेषु, केचिच्च यागेषु, केचिच्च होमेषु । एते सर्वे द्रव्ययज्ञाः । केचित्तपोयज्ञाः कृच्छ्रचान्द्रायणोपवासादिषु निष्ठां कुर्वन्ति । योगयज्ञाश्चापरे पुण्यतीर्थपुण्यस्थानप्राप्तिषु निष्ठां कुर्वन्ति । इह योगशब्दः कर्मनिष्ठाभेदप्रकरणात्तद्विषयः । केचित्स्वाध्यायाभ्यासपराः । केचित्तदर्थज्ञानाभ्यासपराः । यतयः यतनशीलाः, संशितव्रता दृढसङ्कल्पाः ॥ २८ ॥

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे ।

प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ २९ ॥

अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति ।

अपरे कर्मयोगिनः प्राणायामेषु निष्ठां कुर्वन्ति । ते च त्रिविधाः पूरकरेचककुम्भकभेदेन अपाने जुह्वति प्राणमिति पूरकः, प्राणेऽपानमिति रेचकः, प्राणापानगती रुद्ध्वा ….. प्राणान् प्राणेषु जुह्वति इति कुम्भकः । प्राणायामपरेषु त्रिष्वप्यनुषज्यते नियताहारा इति ॥

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ३० ॥

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।

दैवयज्ञप्रभृतिप्राणायामपर्यन्तेषु कर्मयोगभेदेषु स्वसमीहितेषु प्रवृत्ता एते सर्वे सह यज्ञैः प्रजाः सृष्ट्वा (उ.१०) इत्यभिहितमहायज्ञपूर्वकनित्यनैमित्तिककर्मरूपयज्ञविदस् तन्निष्ठास् तत एव क्षपितकल्मषा यज्ञशिष्टामृतेन शरीरधारणं कुर्वन्त एव कर्मयोग व्यापृताः सनातनं ब्रह्म यान्ति ॥

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥

अयज्ञस्य महायज्ञादिपूर्वकनित्यमैमित्तिककर्मरहितस्य नायं लोकः न प्राकृतलोकः, प्राकृतलोकसंबन्धिधर्मार्थकामाख्यः पुरुषार्थो न सिध्यति । कुत इतोऽन्यो मोक्षाख्यः पुरुषार्थः? परमपुरुषार्थतया मोक्षस्य प्रस्तुतत्वात्तदितरपुरुषार्थो ऽयं लोक इति निर्दिश्यते । स हि प्राकृतः॥३१॥

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।

कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२॥

एवं हि बहुप्रकाराः कर्मयोगा ब्रह्मणो मुखे वितता आत्मयाथात्म्यावाप्तिसाधनतया स्थितास् तानुक्तलक्षणानुक्तभेदान् कर्मयोगान् सर्वान् कर्मजान् विद्धि अहरहरनुष्ठीयमाननित्यनैमित्तिक-कर्मजान् विद्धि । एवं ज्ञात्वा यथोक्तप्रकारेणानुष्ठाय मोक्ष्यसे ॥ ३२ ॥

अन्तर्गतज्ञानतया कर्मणो ज्ञानाकारत्वमुक्तं तत्रान्तर्गतज्ञाने कर्मणि ज्ञानांशस्यैव प्राधान्यमाह-

श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

उभयाकारे कर्मणि द्रव्यमयादंशाज्ज्ञानमयांशः श्रेयान् सर्वस्य कर्मणस् तदितरस्य चाखिलस्योपादेयस्य ज्ञाने परिसमाप्तेस् तदेव सर्वैस्साधनैः प्राप्यभूतं ज्ञानं कर्मान्तर्गतत्वेनाभ्यस्यते । तदेव अभ्यस्यमानं क्रमेण प्राप्यदशां प्रतिपद्यते ॥ ३३ ॥

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥

तदात्मविषयं ज्ञानम् अविनाशि तु तद्विद्धि इत्यारभ्य एषा तेऽभिहिता (२.३९) इत्यन्तेन मयोपदिष्टम्, ‘तद्युक्तकर्मणि वर्तमानत्वं विपाकानुगुणं काले काले प्रणिपातपरिप्रश्नसेवादिभिर् विशदाकारं ज्ञानिभ्यो विद्धि । साक्षात्कृतात्मस्वरूपास्तु ज्ञानिनः प्रणिपातादिभ्यस्सेविता ज्ञानबुभुत्सया परितः पृच्छतस्तवाशयमालक्ष्य ज्ञानमुपदेक्ष्यन्ति ॥ ३४ ॥

आत्मयाथात्म्यविषयस्य ज्ञानस्य साक्षात्काररूपस्य लक्षणमाह –

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।

येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥

यज्ज्ञानं ज्ञात्वा पुनरेवं देवाद्यात्माभिमानरूपं तत्कृतं ममताद्यास्पदं च मोहं न यास्यसि, येन च देवमनुष्याद्याकारेणानुसन्हितानि सर्वाणि भूतानि स्वात्मन्येव द्रक्ष्यसि, यतस्तवान्येषां च भूतानां प्रकृतिवियुक्तानां ज्ञानैकाकारतया साम्यम् । प्रकृतिसंसर्गदोषविनिर्मुक्तमात्मरूपं सर्वं सममिति च वक्ष्यते, निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः (भ.गी.५.१९) इति । अथो मयि सर्वभूतान्यशेषेण द्रक्ष्यसि, मत्स्वरूपसाम्यात्परिशुद्धस्य सर्वस्यात्मवस्तुनः । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः (भ.गी.१४.२) इति हि वक्ष्यते । तथा, तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति (मु.३.१.३१) इत्येवमादिषु नामरूपविनिर्मुक्तस्यात्मवस्तुनः परस्वरूपसाम्यमवगम्यते । अतः प्रकृतिविनिर्मुक्तं सर्वमात्मवस्तु परस्परं समं सर्वेश्वरेण च समम् ॥ ३५ ॥

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।

सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ ३६ ॥

यद्यपि सर्वेभ्यः पापेभ्यः पापकृत्तमोऽसि, सर्वं पूर्वार्जितं वृजिनरूपं समुद्रमात्मविषयज्ञानरूपप्लवेनैव संतरिष्यसि ॥ ३६ ॥

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥

सम्यक्प्रवृद्धोऽग्निरिन्धनसञ्चयमिव, आत्मयाथात्म्यज्ञानरूपोऽग्निर्जीवात्मगतमनादि-कालप्रवृत्त अनन्तकर्मसञ्चयं भस्मीकरोति ॥ ३७ ॥

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥

यस्मादात्मज्ञानेन सदृशं पवित्रं शुद्धिकरमिह जगति वस्त्वन्तरं न विद्यते, तस्मादात्मज्ञानं सर्वपापं नाशयतीत्यर्थः । तत्तथाविधं ज्ञानं यथोपदेशमहरहरनुष्ठीयमानज्ञानाकारकर्मयोगसंसिद्धः कालेन स्वात्मनि स्वयमेव लभते ॥ ३८ ॥

तदेव विस्पष्टमाह –

श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ।

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥

एवमुपदेशाज्ज्ञानं लब्ध्वा चोपदिष्टज्ञानवृद्धौ श्रद्धावान् तत्परस् तत्रैव नियतमनास् तदितरविषयात्संयतेन्द्रियोऽचिरेण कालेनोक्तलक्षणविपाकदशापन्नं ज्ञानं लभते, तथाविधं ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति परं निर्वाणमाप्नोति ॥ ३९ ॥

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥

अज्ञ एवमुपदेशलब्धज्ञानरहितः, उपदिष्टज्ञानवृद्ध्युपाये चाश्रद्धधानो ऽत्वरमाणः, उपदिष्टे च ज्ञाने संशयात्मा संशयमना विनश्यति विनष्टो भवति । अस्मिन्नुपदिष्टे आत्मयाथात्म्यविषये ज्ञाने संशयात्मनोऽयमपि प्राकृतो लोको नास्ति, न च परः । धर्मार्थकामरूपपुरुषार्थाश्च न सिध्यन्ति, कुतो मोक्ष इत्यर्थः शास्त्रीयकर्मसिद्धिरूपत्वात्सर्वेषां पुरुषार्थानाम्, शास्त्रीयकर्मजन्यसिद्धेश्च देहातिरिक्तात्मनिश्चयपूर्वकत्वात् । अतः सुखलवभागित्वमात्मनि संशयात्मनो न संभवति ॥ ४०॥

योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् ।

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥

यथोपदिष्टयोगेन संन्यस्तकर्माणं ज्ञानाकारतापन्नकर्माणं यथोपदिष्टेन चात्मज्ञानेन आत्मनि संच्छिन्नसंशयम्, आत्मवन्तं मनस्विनम् उपदिष्टार्थे दृढावस्थितमनसं बन्धहेतुभूतप्राचीनानन्तकर्माणि न निबध्नन्ति ॥ ४१ ॥

तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥

तस्मादनाद्यज्ञानसंभूतं हृत्स्थमात्मविषयं संशयं मयोपदिष्टेनात्मज्ञानासिना छित्त्वा मयोपदिष्टं कर्मयोगमातिष्ठ तदर्थमुत्तिष्ठ भारतेति ॥ ४२ ॥

॥ इति श्रीभगवद्रामानुजविरचिते श्रीमद्गीताभाष्ये चतुर्थोऽध्यायः ॥४॥