BrahmaSree MVR Sharma’s Gita
(ArjunaVishaada Yoga) Chapter 1
01
प्रथमोऽध्यायः- अर्जुनविषादयोगः
धृतराष्ट्र उवाच_
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः,
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय !
नन्दिनी
प्रथमषट्के कर्मनिष्ठा ।
१ कर्म
२ कर्म त्यागः
३ त्वं पदार्थः ( विशुद्धात्मा )
द्वितीयषट्के भगवद्भक्तिनिष्ठा ।
१ भगवान्
२ तत् पदार्थः
तृतीयषट्के ज्ञाननिष्ठा ।
त्वं पदार्थस्य, तत् पदार्थस्य ऐक्यम्
धर्मक्षेत्रे —
धर्मक्षेत्रं -
a) धर्मप्रधानत्वात् वा
b) धर्मप्रदत्वात् वा
c) धर्मक्षयात् त्रायत इति वा
कुरुक्षेत्रे - " कुरुक्षेत्रं वै देवयजनम् " इति शतपथश्रुतिः ,
“यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् " इति जाबालश्रुतेः ।
पितृदेवताः अपि संतुष्टाः अत्र, पितृवधजन्यकोपाविष्ट परशुरामकृत- शत्रुरुधिरापूरककुणूडपञ्चकत्वात्
समवेताः - समवायं प्राप्ताः,
तस्मिन् गताः
युयुत्सवः - योद्धुमित्सवः
मामकाः - ममपुत्राः दुर्योधनादयः
पाण्डवाः - पूर्वमेव धार्मिकाः , पृथङ्निर्देशात् तेषु ममकाराभावः
किं अकुर्वत ? युद्धोद्योगमेव कुर्वन्तः/ धर्मबुद्ध्या युद्धं विनैव नष्टप्रायाः स्युः।
संजय! - रागद्वेषादिदोषान् सम्यक् जितवानसि ! निर्व्याजमेव कथनीयं त्वया इति सूचयति। ….mvr
02
सञ्जय उवाच -
दृष्ट्वातु पाण्डवानीकं व्यूढं दुर्योधनस्तदा,
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्
वैशम्पायनो जनमेजयं प्रति नवभिः श्लोकैः दुर्योधनकृत दौष्ट्यं वर्णयति प्रथममेव -
पाण्डवानां
अनीकं - विभज्य न नीयत इति अनीकम् , सैन्ययुक्तम्
व्यूढं - व्यूहात्मना रचितम्
राजा दुर्योधनः -
राजा = राजनीतिकुशलोपि , दुःखेनैव
योद्धुं शक्यः दुर्योधनः
तु - पाण्डवानां उत्कर्षः दृष्ट्वा
दृष्ट्वा - चाक्षुषज्ञानेन विषयीकृत्य
दृष्टभयात्
आचार्यं - द्रोणनामानम्
उपसंगम्य - स्वयमेव तत्समीपं गत्वा
वचनं - उच्यत इति वचनम् , वाक्यम्
अब्रवीत् - अवदत् ।….mvr
03
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ,
व्यूढां द्रुपदपुत्रेण तवशिष्येण धीमता।
आचार्य! - अहं शिष्यत्वात् त्वां आचार्यं प्रार्थये इत्यर्थः
पाण्डुपुत्राणां महतीं चमूम् - अनेकाक्षौहिणीसहितत्वेन दुर्निवारम्
पश्य - अपरोक्षी कुरु।
अथवा
पाण्डुपुत्राणामाचार्य! - न तु मम इति व्यञ्जना
द्रुपदपुत्रेण - इति पूर्ववैरस्मारणम्
तव शिष्येण - ( धृष्टद्युम्नेन) न हि गुरोरधिकः शिष्यः भवतीति
धीमता - तव मरणे कृतनिश्चयः; अनुपेक्षणीयः इति
व्यूढां - व्यवस्थिताम्
चमूं - सेनां
पश्य। …mvr
04
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ,
युयुधानो विराटश्च द्रुपदश्च महारथः।
नन्दिनी
एकेन धृष्टद्युम्नेन अप्रसिद्धेन आश्रितां चमूम् ,
अस्मदीयोपि यः कश्चित् जेष्यतीति न तर्क्यताम्। ( सदानन्दस्य श्लोकगीता )
अत्र - अस्यां चम्वाम्
शूराः - विक्रान्तानपि शृणन्ति इति शूराः
महा-इष्वासाः - महान्त इष्वासा येषां ते
( इष्वासा = धनूंषि, इषवः = बाणाः, अस्यन्ते = क्षिप्यन्ते एभिः इति इष्वासाः)
युधि - युद्धे
भीमार्जुनसमाः - भीमार्जुनाभ्यां ये तुल्याः, सङ्ग्रामदुःसहाः
के ते ?
तान् निर्दिशति नाम्ना …
युयुधानः = अतिशयेन युद्ध्यतीति युयुधानः - सात्यकिः
विराटः = विशेषेण शत्रून् रटयति इति विराटः
द्रुपदः = द्रुः, वृक्षः, ध्वजे चिह्नं यस्य सः द्रुपदः
महारथः इति त्रयाणां विशेषणम्
( एको दशसहस्राणि योधयेद्यस्तु धन्विनाम् ,
शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः। ) ….mvr
05
धृष्टकेतुश्चेकितानः काशिराजश्च शीर्यवान् ,
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः।
नन्दिनी
वीर्यवन्तश्च त्रयः …
१ धृष्टकेतुः - शिशुपालस्य पुत्रः,
धृष्टः = परभयङ्करः
केतुः = लाञ्छनम् / चिह्नम् , यस्य सः
२ चेकितानः = चिकितानस्य अपत्यं
३ काशिराजः =
नरपुङ्गवाः ( नरश्रेष्ठाः) च त्रयः …
१ पुरुजित् = बहून् पुरून् जयतीति पुरुजित्
२ कुन्तिभोजः = कुन्तीपिता
३ शैब्यः = शिबेः गोत्रापत्यम् ,
….mvr
06
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ,
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।
नन्दिनी
युधामन्युः विक्रान्त इति ,
उत्तमौजसः वीर्यवान् इति ,
सौभद्रः - अभिमन्युः
द्रौपदेयाः - द्रौपदीपुत्राः पञ्च ( प्रतिविन्ध्यादयः )
ये गणिताः सप्तदश , अन्येपि तदीयाः “सर्वे एव महारथाः” - न कोपि रथः/ अर्धरथः वा! ….mvr
07
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम! ,
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते।
अस्माकं तु विशिष्टाः - अस्माकं सर्वेषां मध्ये ये उत्कृष्टाः
तान्
निबोध - निश्चयेन अवधारय। जानीहि।
ये च
नायका मम सैन्यस्य - मम सैन्यस्य नायकाः = मुख्या नेतारः
तान्
संज्ञार्थं - कतिचित् नामभिः उक्त्वा अवशिष्टान् उपलक्षयितुम्
ब्रवीमि - विज्ञापनं करोमि। न तु किञ्चित् अज्ञातं ज्ञापयामि , इति स्तुतिपक्षे
द्विजोत्तम ! - ब्राह्मणोत्तम ! इति द्व्यर्थि संबोधनम्।
अ) स्तुतिबोधकः,
आ) दौष्ट्यपक्षे, त्वं युद्घ अकुशलः ब्राह्मणत्वात् इति । ….mvr
08
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ,
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ।
नन्दिनी
तत्र विशिष्टाः के ते स्युः ?
१भवान् - ( द्रोणः) , २भीष्मः, ३कर्णः , ४कृपाचार्यः । कृपाचार्यस्य नामं कर्णस्य अनन्तरं स्वीकृत्य कृपस्य निरासः प्रकटितवान्!
चतुर्णां विशेषणं समितिञ्जयः इति। समितिं - संग्रामं, जयतीति।
तथा एव , नायकान् गणयति -
अश्वत्थामा - द्रोणपुत्रः
विकर्णः - स्वभ्राता
सौमदत्तिः - सोमदत्तस्य अपत्यं, श्रेष्ठत्वात् भूरिश्रवाः। ….mvr
09
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः,
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।
गणितुमसंख्यान् सर्वानपि एतदतिरिक्ताः सन्तीति वदति -
अन्ये च बहवः - जयद्रथ शल्य प्रभृतयः
शूराः - शौर्यं = युद्घकौशलम्
मदर्थे - मत् प्रयोजनाय
त्यक्तजीविताः - त्यक्तं जीवितं यैः ते जीवितमपि गच्छति चेत् तर्हि सर्वैः त्यज्यत इति अर्थः!
(त्यक्तजीविता अपि असमर्था इति न …)
१ नानाशस्त्रप्रहरणाः - शूल चक्र गदादीनि प्रहरणसाधनानि येषां ते,
२ सर्वे युद्धविशारदाः - सकलयुद्धेषु निपुणाः….mvr
10
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ,
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ।
स्वस्य उत्कर्षे हेत्वन्तरमस्तीति अवदत् राजा ….
भीष्माभिरक्षितं -
भीष्मेण च महिम्ना सूक्ष्मबुद्धिना
अभितः सर्वतः रक्षितम्
अपर्याप्तं - अनन्तम् ( एकादशाक्षौहिणीसंख्यायुतम् )
अस्माकं बलं - अस्माकं सैन्यम्
पर्याप्तं - परिमितम् ( सप्ताक्षौहिणीमात्रम् )
भीमेन - बालेन
अभिरक्षितं - अभितः रक्षितम्। ….mvr
11
अयनेषु च सर्वेषु यथाभागमवस्थिताः,
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।
सर्वेषु अयनेषु - व्यूहमार्गेषु
अयनानि - व्यूहप्रवेशनिर्गमस्थानानि
यथाभागं - विभक्तां स्वां स्वां रणभूमिं अपरित्यज्य
अवस्थिताः - सावधानतया स्थिताः सन्तः
भवन्तः सर्व एव - योद्धारः सर्व एव
भीष्ममेव - सेनापतिमेव
अभिरक्षन्तु - अभितः, पुरतः पृष्ठतः अन्यतः, रक्षन्तु।
सेनापतौ रक्षिते तत्प्रसादादेव सर्वं सुरक्षितं भवतीति भावः।….mvr
12
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ,
सिंहनादं निनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ।
दुर्योधनं हर्षयन्नेव
तस्य - राज्ञः
हर्षं सञ्जनयन् - उल्लासं सम्यक् जनयन्
प्रतापवान्
कुरुवृद्धः - आचार्य, दुर्योधनयोः अभिप्राय परिज्ञाता
पितामहः - अनुपेक्षितत्व प्रदर्शनम्
( प्रतापवत्वात् उच्चैः सिंहनादं)
उच्चैः - महान्तम्
सिंहनादं विनद्य - कृत्वा
शंखं दध्मौ - आपूरितवान् , वादितवान् …..mvr
13
अर्जुनविषादयोगः
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ,
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ।
ततः - सेनापतेः भीष्मस्य शङ्खशब्दादनन्तरम्
सहसैव - झटिति, तत् क्षणमेव
शङ्ख- भेरी - पणव - आनक- गोमुख आदि वाद्यविशेषाः
अभ्यहन्यन्त - अभितः हताः, वादिताः।
सः शब्दः - शङ्ख भेर्यादि हननसमुत्पन्नः यः शब्दः
तुमुलः अभवत् - ग्लानिप्राप्यं अभवत्
( तुमुलं - ताम्यन्ति सैनिका अत्रेति तुमुलम् ) ….mvr
14
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ,
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ।
ततः - तेषां घोषानन्तरम्
श्वेतैः - शुक्लवणैः , हयैः - अश्वैः युक्ते - अग्निना दत्तैः …
महति - पूज्ये
स्यन्दने - रथे ( अन्ये अपि रथस्थाः; असाधारण रथोत्कर्षकथनार्थं विशेषेण कथितम् )
स्थितौ - न तु भयप्रचलितौ
मा- धवः = मायाः लक्ष्म्याः धवः= पतिः , लक्ष्मीपतिः ( राज्य-लक्ष्मी मम ‘शङ्खशब्देनैव’ अवश्यमेव आगच्छतीति सूचनार्थम् )
पाण्डवः - अर्जुनः
दिव्यौ शङ्खौ - अप्राकृतौ शङ्खौ
प्रदध्मतुः - प्रकर्षेण पूरितवन्तौ।….mvr
15
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ,
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः।
पाण्डवपक्षे यानि सन्ति तेषां शङ्खानां नामान्येव वर्णयति पाण्डवोत्कर्षं द्योतयितुम्।
कौरवपक्षे तु कस्यापि नाम्ना प्रसिद्धः शङ्खः नास्तीति व्यञ्जना ।
हृषीकेश = इन्द्रियेश इति पदं पाण्डवानां सकलेन्द्रियेभ्यः बलप्रदः
पञ्चजनादुत्पन्नं श्रीकृष्णस्य परताप/ प्रतापसूचकं शङ्खं हृषीकेशः पूरितवान्
देवैः दत्तं देवदत्तम्। धनञ्जयः = सर्वान् राज्ञो जित्वा धनमाहृतवान् इति कथयितुं धनञ्जय पदम्।
भीमकर्मा - कीचक जरासन्ध वधादि भयङ्कर कर्म कृतवान् / दुःशासन रक्तपानादि अतिरौद्रकर्मणि समर्थः
वृकोदरः - रुधिरमपि तदुदरगतवृकाग्निना जीर्णं भविष्यतीति वृकोदरत्वम् / बह्वन्नपाकात् अतिबलिष्ठः इति वा
पौण्ड्रं ( नाम) महाशङ्खं पूरितवान्।
….mvr
16
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ,
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।
1) कुन्तीपुत्रः - महता धर्मात् तपसो तोषितात् कुन्त्या लब्धः
2) राजा - राजसूयस्य याजित्वेन स्वयं महान् , मुख्यो राजा ( न तु गौणार्थे )
3) युधिष्ठिरः - युद्घे स्थिरश्च , स्थिरत्वात् जयभाक्
अनन्तविजयं - नाशरहितः विजयः यस्मात्, नाम शङ्खं दध्मौ = पूरितवान्
नकुलः सुघोषं, सहदेवः मणिपुष्पकं नाम शङ्खौ दध्मुः।
तेषां शङ्खाः स्वस्वनामभिः प्रसिद्धाः इति अभिप्रायः।….mvr
17
काश्यश्च परमेष्वासः शिखण्डी च महारथः ,
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।
नन्दिनी
परम-इष्वासः - महाधनुर्धारी
काश्यः - काशिराजः
शिखण्डी - श्मश्रुशून्यः, भीष्मवधाय तपसा उत्पन्नः, द्रुपदपुत्रः
धृष्टद्युम्नः - परधर्षकं बलं यस्य सः, द्रोणवधारथं अग्निकुण्डात् उत्पन्नः, द्रुपदस्य पुत्रः, विराटः
अपराजितः - रिपुभिः न पराजितः
सात्यकिः - सत्यकस्य अपत्यं, अर्जुनसमः।….mvr
18
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते! ,
सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक्।
पृथिवीपते! - हे धृतराष्ट्र! पृथिवीपतित्वेन पृथिवीवत् दुःखं सोढुं असि!!
द्रुपदः , द्रौपदेयाः,
सौभद्रः - सुभद्रातनयः अभिमन्युः
च - अपि
महाबाहुः - आजानुबाहुः
सर्वशः , पृथक् पृथक् , स्व स्व शङ्खान् दध्मुः । ….mvr
19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ,
नभश्च पृथिवीं चैव तुमुलोव्यनुनादयन् ।
नन्दिनी
सः घोषः - पाण्डवसैन्ये वीरकृतशङ्खघोषः
धार्तराष्ट्राणां - तव पक्षे ये वीराः तेषां सर्वेषाम्
हृदयानि व्यदारयत् - हृदयविदारक व्यथां अजनयत् ।
तुमुलः - अतितीव्रः शब्दः
नभश्च पृथिवी च - भूम्याकाशौ
व्यनुनादयन् - प्रतिध्वनिभिः आपूरयन् ।
ध्वनिः पाण्डवानां तु तत् न क्षोभकः।
पाण्डवानां शङ्खघोषः महत्तरः। ….mvr
20
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः,
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः।
नन्दिनी
यथा धार्तराष्ट्रपक्षे भयं प्राप्तं, तथा पाण्डवानां भयं न जातम्। प्रत्युत शूरत्वं वृद्दम् - आह सञ्जयः।
अथ - तुमुलघोषानन्तरम्
व्यवस्थितान् दृष्ट्वा - न पलायितान् , युद्धे कृतनिश्चयान् दृष्ट्वा
शस्त्रसम्पाते - ( सम्पातः = समुदायः , तस्मिन् प्रवृत्ते )
शस्त्रप्रहरणे प्रवृत्ते , वर्तमानसामीप्ये वर्तमानवत् , प्रवर्तितुं उद्युक्ते सति
पाण्डवः - दिग्विजयिनः पाण्डोः पुत्रः , स्वयमति शूरः
कपिध्वजः … अर्जुनः,
कपिः = वानरः, हनूमान् ( सीतात्मिकां लक्ष्मीं भगवते
रामचन्द्राय प्रापयिता; पाण्डवेभ्यो
राज्यलक्ष्मीप्रदानाय यस्य ध्वजे
स्थितः ) , तद् गर्जनेन
वैरिधैर्यापहारकः हनुमान् ध्वजे यस्य
सः अर्जुनः
धनुः - अग्निदत्तं गाण्डिवम्
उद्यम्य - उद्यतं कृत्वा….mvr
21
हृषीकेशं तथा वाक्यमिदमाह महीपते! ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत।
नन्दिनी
तदा
हृषीकेशं - सर्वेन्द्रियनियन्तारम्
इदमाह …
इदं - वक्ष्यमाणवाक्यम्
आह - उक्तवान्
महीपते ! - नीत्यभावे नश्यमानं तव महीपतित्वमिति उपहासः। तव महीपतित्वं कपटेन गृहीतं; भवता तत् प्राप्ति दुराशा त्याज्या इति ध्वनिः
सेनयोः उभयोः मध्ये - कैः सह मया योद्धव्यम् ? योत्स्यमानान् द्रक्षुं इच्छामि , तावत् रथं स्थापय
अच्युत! - तव कुतोपि च्युतिः नास्ति। तथा मे रथं सेनयोः मध्ये स्थापय।
….mvr
22
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ,
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
सेनयोरुभयोः मध्ये रथस्थापनप्रयोजनमाह …
एतान् योद्धुकामान् अवस्थितान्
यावत् अहं निरीक्षे - यस्मिन् स्थाने स्थित्वा द्रष्टुं समर्थः स्याम्
अस्मिन् रणसमुद्यमे - युद्धोद्योगे
तस्मिन् स्थाने रथं स्थापय ।
किमर्थम् ?
बहूनां शूराणां मध्ये
कैः मया सह योद्धव्यम् -
१)केषां मया सह? /
२) मम वा कैः सह? योद्धुं योग्यम् ।
….mvr
23
योद्धुकामानवेक्षेऽहं य एतेऽत्र समागताः,
धार्तराष्ट्रस्य दुर्बुद्धेर्युल्धे प्रियचिकीर्षवः।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
किं तत् निरीक्षणम् ?
धार्तराष्ट्रस्य - दुर्योधनस्य
दुर्बुद्धेः बुद्धि निवर्त्यत्वम् न
प्रियचिकीर्षवः - प्रियं कर्तुं इच्छन्तः ( न तु दुर्मति नाशने )
यः एते
अत्र समागताः - इहैव समागताः तान्
अहं अवेक्षे - द्रक्ष्यामि ( कौतुकसिद्ध्यर्थं प्रतियोगि अवलोकनम् ) , प्रतियोगि अवलोकनं युक्तमेव ।….mvr
24
सञ्जय उवाच …
एवमुक्तो हृषीकेशो गुडाकेशेन भारत,
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ।
नन्दिनी
धर्मस्य विजयोऽस्तु ; अधर्मस्य नाशोऽस्तु
ततः किं वृत्तम् ?
एवं उक्तः - एवं (अर्जुनेन) प्रेरितः
गुडाकेशेन …
१) गुडाकेशः … गुडाकाया = निद्राया, ईशेन = जितनिद्रतया , सर्वत्र सावधानेन
२) गुडाकेशः … अङ्गुष्ठतर्जनीयोगः गुडनाम्नीतु मुद्रिका इति वाक्यात् तत्परिमाणा अग्रकेशा यस्य सः
३) गुडाकः = शिवः ( गुडः = गुडो गोलेक्षुपाकयोः इति अभिधानात् गुडः = गोलः, ब्रह्माण्डगोलः, तं तप्त-अयःपिण्डं अग्निरिव अन्तर्बहिश्च अकति = व्याप्नोतीति) गुडाकः = शिवः ( “विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवम्” इति श्रुतेः)
४) गुडाकः = शिवः , गुडवत् मधुरः सन् भक्तान् अकति = प्राप्नोतीति गुडाकः = शिवः ( “स्वादुष्किलायं मधुमानुतायम् " इति श्रुतेः)
सः शिवः ईशः यस्य सः गुडाकेशः = अर्जुनः।
तेन
हृषीकेशः - हृषीकाणां इन्द्रियाणां ईशः, हृषीकेशः = श्रीकृष्णः
रथोत्तमं -
१ रथिक
२ सारथि
३ अश्वविशेषैः
४ ध्वजप्रभावेन च उत्तमत्वं = उत्कृष्टत्वम् ।
रथं स्थापयित्वा ….mvr
25
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ,
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ।
सर्वेषां महीक्षितां
(महीं क्षियति = अधिवसति, क्षि निवास गत्योः )
भीष्मद्रोणप्रमुखतः - पितामहद्रोणराज्ञां च सम्मुखे
समवेतान् - समवायं प्राप्तान्
एतान् कुरून् पश्य।
पश्य = दृष्ट्वा
पार्थ! - एते मदीया। कथमहं युद्घं करोमि इति स्त्रीस्वभावेन करुणया मोहवशो न भवेदिति आकाङ्क्षा।
….mvr
26
तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ,
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ।
नन्दिनी
ततः किं वृत्तम् ? …
तत्र स्थितान् - युद्धस्थले समवेतान्
पितॄन् - पितृव्यादीन् भूरिश्रवादीन् इति अर्थः
अथ शब्दः तथा शब्दार्थे
पितामहान् - भीष्मप्रमुखान्
आचार्यान् - द्रोणादीन्
मातुलान् - शल्यप्रभृतीन्
भ्रातॄन् - दुर्योधनादीन्
पुत्रान् पौत्रान् - दुर्योधनादीनां ये पुत्राः लक्ष्मणादीन् पौत्राः च तान्
सखीन् - मित्राणि अश्वत्थामादिकान्
पार्थः - स्त्रीस्वभाव करुणान्तरङ्गा पृथाया कुन्त्या पुत्रः
अपश्यत्।….mvr
27
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि,
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ।
श्वशुरान् - भार्याणां पितॄन्
सुहृदः - कृतोपकारा ये तान्
सेनयोः उभयोः अपि -
सर्वान् बन्धून् - बन्धुत्वधर्मविशिष्टान्
तान् समीक्ष्य - तान् सम्यक् दृष्ट्वा ( ग्रीवां उन्नम्य दृष्ट्वा ) , मदीया इति ज्ञात्वा
कौन्तेयः - कुन्त्या अपत्यं कौन्तेयः = अर्जुनः , ( तत एव विषीदन् इति उत्तरश्लोके अन्वयः)। ….mvr
28
अर्जुन उवाच ….
कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् ,
दृष्ट्वेमं स्वजनं कृष्ण! युयुत्सुं समुपस्थितम्।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
परया कृपया - स्वतःसिद्धस्य कृपया
आविष्टः - व्याप्तः
कुन्ती वसुदेवस्य भगिनी, वसुदेवस्य समशीला । वसुदेवः महापराधिनि कंसे अपि क्षमाशीलः। कुन्त्याः सुतः ततः
विषीदन् - विषादं कुर्वन् ( विषादं = उपतापम् ) । विषादकारणं किम् ?
युद्धमपि यज्ञं ( कर्म) एव। यष्टव्यदेवतारूपं सैन्यमपि परिशीलनयोग्यमेव। तत् देवतारूपानपि अनित्या एव! ( “तस्मात् च देवा बहुधा संप्रसूताः” इति श्रुतेः) । मुमुक्षुणा तत् यजने किं अनेन दुःखान्तेन कर्मणा? इति परितापः।
इदं - वक्ष्यमाणं वचनग्रामम्
अब्रवीत् - ( अर्जुन) उवाच।
कृष्ण! - हे सत्- चित्- आनन्द-स्वरूप!
इमं स्वजनं - स्वकीयं भ्रातृपुत्रादिवर्गं , आत्मीयम् ( स्वपरदेहभेददर्शनात् विषादः)
युयुत्सुं - योद्धुं इच्छुम्
समुपस्थितम् - सम्यक् सन्नह्य समीपे स्थितम् ,…..mvr
29
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ,
वेपथुश्च शरीरे मे रोमहर्षश्च जायते।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
मम गात्राणि - अङ्गानि
सीदन्ति - व्यथन्ते । हन्तुं मम करचरणादयः शिथिलायन्ते।
मुखं
परिशुष्यति - सर्वतः शुष्यति । शुष्की भवति।
वेपथुः - कम्पः, भयसन्तापाभ्यां रोमोद्गमः
रोमहर्षः - रोमाञ्चः , पुलकितत्वम्
( अन्तःसन्तापः दर्शितः)
जायते । ….mvr
30
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ,
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः।
नन्दिनी
धर्मस्य जयोऽस्तु अधर्मस्य नाशोऽस्तु
गाण्डीवस्रंसनं, त्वग्दाहश्च , अवस्थातुं = “शरीरं धारयितुं न शक्नोमि” इत्यनेन आंग्जयिटी इति मानसिक स्थायीभावं सूचयन्ति। मनसः कश्चित् विकारविशेषः भ्रमणकर्तृसादृश्यं मूर्छायाः पूर्वावस्था!
धैर्यदौर्बल्यं अन्तःसंतापहेतुकम् , यत् रियाक्टिव् डिप्रेषन् इति वदन्ति मनो वैज्ञानिकाः । ….mvr
31
निमित्तानि च पश्यामि विपरीतानि केशव! ,
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाह वे।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
निमित्तानि - अनर्थत्व (आसन्नयुद्धस्य) सूचकानि
विपरीतानि - वामनेत्रस्फुरणादीनि
पश्यामि - अनुभवामि । ( अनात्मवित्त्वेन शोकं अनुभवामि। मां अशोकं कुरु। )
केशवपदेन अशोककरणसामर्थ्यम्।
कः = ब्रह्मा, सृष्टिकर्ता
ईशः = रुद्रः , संहर्ता
तौ वाति = अनुकम्प्यतया
गच्छतीति - केशवः ।
( केशव! = ब्रह्म रुद्र प्रवर्तक! )
श्रेयः - पुरुषार्थं , दृष्टं/ अदृष्टं वा
अनु - बहुविचारणात् पश्चात् अपि
न पश्यामि - युद्घे अस्वजनमपि
हत्वा श्रेयः न पश्यामि।
युद्घे हतस्य एव सूर्यमण्डलभेदित्वमागच्छति ; हन्तुस्तु न किञ्चित् सुकृतम् ।
अस्वजनहत्या अपि श्रेयःकरं न भवति , इतिभावः ….mvr
32
न काङ्क्षे विजयं कृष्ण न च राज्यं सुछानि च ,
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ।
नन्दिनी
धर्मस्य विजयोऽस्तु ; अधर्मस्य नाशोस्तु
कृष्ण! - भक्त्यन्तरायं कृत्वा विजय/राज्यादि कर्षक! ( ‘यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम्’ इति भागवतम् )
1) न काङ्क्षे विजयं - राज्यसाधक विजयं न इच्छामि
2) न च राज्यं - विजयसाध्यं राज्यमपि न इच्छामि
3) सुखानि च - राज्याधीनानि सुखानि अपि न इच्छामि।
अनकाङ्क्षा कारणं किम् ? वदति अर्जुनः …
किं नो राज्येन ( राज्येन नः किम् ? )
राज्येन - हिंसायुत युद्घ साध्येन
नः - अस्माकम्
किम् - किं प्रयोजनम् ?
किं भोगैः - राज्यसाध्यविशिष्टभोगैः किं प्रयोजनम् ?
जीवितेन वा - भोगकारणकजीवियेन वा किं प्रयोजनम् ?
( न किमपि इति अर्थः )
गोविन्द ! - मम इन्द्रिय/ मनः प्रवृत्तिं त्वं जानासि / गो = इन्द्रियाणि , अधिष्ठानतया नित्यं प्राप्तः/ गां = भूमिं, वेदं वा विन्दति/ स्वभक्तरक्षणेनलब्ध “गोविन्द” नाम्ना शंसति इति गोविन्दः।….mvr
33
येषामर्थे काङ्क्षितं नो राज्यं भोगास्सुखानि च ,
त इमेऽवस्थिता युद्घे प्राणांस्त्यक्त्वाधनानि च ।
नन्दिनी
धर्मस्य विजयोऽस्तु ; अधर्मस्य नाशोऽस्तु
स्वस्य वैराग्यं भवतु ; स्वीयानामर्थे राज्यं यतनीयं इति चेत्- तत् कारणं अपास्तं करोति अर्जुनः ..
पित्रादि भरणार्थं कृतोऽपि अधर्मः न दोषाय ( ‘अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ’ इति वचनम् ) इत्यत आह
न इति
येषां अर्थे - स्वजनबन्धूनामर्थे
नो राज्यं काङ्क्षितं - नः राज्यादि अपेक्षितम्
त इमे - ते इमे प्रत्यक्षेण उपलब्धमानाः
प्राणान् - प्राणाशाम्
धनानि च - धनाशामपि
त्यक्त्वा
युद्घे अवस्थिताः - मर्तुं आगत्य तिष्ठन्ति …इत्यर्थे
तस्मात् न योद्धुं इच्छामि।….mvr
34
आचार्याः पितरः पुत्रास्तथैव च पितामहाः,
मातुलाः श्वशुराः पौत्राः स्यालाः सम्बन्धिनस्तथा ।
नन्दिनी
धर्मस्य जयोऽस्तु अधर्मस्य नाशोऽस्तु
के ते युद्घे स्थिताः इति आकाङ्क्षायां आह अर्जुनः …
आचार्याः - मन्त्रव्याख्याकृत् आचार्यः , केचित् कृपाचार्य इव आचार्याः
पिता - पितृव्यः ( पितुः भ्राता इति) , केचित् पितरः
पुत्रः - पुन्नाम्नो नरकात्त्रायत इति पुत्रः , केचित् धार्तराष्ट्राः
पितामहः - पितृपिता , केचित् पितामहाः
मातुलः - मातुः भ्राता , केचित् मातुलाः
श्वशुरः - शं =सुखं अश्नुते जामातरं लब्ध्वा इति श्वशुरः पत्न्याः , केचित् श्वशुराः
स्यालाः - केचित् पत्न्याः भ्रातरः ( स्यामयन्ति परिहासवचनमिति स्यालः)
सम्बन्धिनः - केचित् बान्धवाः
एवं सर्वे स्वजना एव नान्य इति भावः। तेषु हतेषु राज्यं केन भोक्तव्यम् इति अर्थः। ….mvr
35
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन! ,
अपि त्रैलोक्यराज्यस्य हेतोः किन्नु महीकृते।
नन्दिनी
धर्मस्य विजयोऽस्तु ; अधर्मस्य नाशोऽस्तु
यदि त्वं एतान् न हंसि तर्हि त्वां एते हनिष्यन्ति इतिचेत्
घ्नतः अपि - अस्मान् घ्नातयतः अपि
अपि त्रैलोक्यराज्यस्य हेतोः - तत् राज्यप्राप्त्यर्थमपि
हन्तुमपि न इच्छामि !
किं पुनः हन्याम् !!
महीमात्रार्थं न हन्यामि इति किमु
वक्तव्यम् !!!
मधुसूदन! - संबोधनं “त्वमपि दैत्यं हतवान् , न तु स्वबन्धून् " इति सूचयन् ।….mvr
36
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ! ,
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
एते धार्तराष्ट्राः आततायिनः।
( १ अग्निदः
२ गरदः
३ शस्त्रपाणिः
४ धनापहः
५ क्षेत्रहरः
६ दारहरः …षडेते ह्याततायिनः)
आततायिनां च वधः युक्तःइति अर्थशास्त्रयुक्तं वाक्यम्। “अर्थशास्त्राच्च बलवद्धर्मशास्त्रमिति स्थितिः” इति याज्ञवल्क्यस्मृतिः। तस्मात् आततायिनं अपि एतेषां आर्यादीनां वधे अस्माकं पापमेव इति वदति अर्जुनः।
निहत्य - एतत् आततायिनः अपि हत्वा स्थितान्
अस्मान् - नः
का प्रीतिः स्यात् - न काऽपि इति ,
एतान् आततायिनः हत्वा अस्मान् पापमेव आश्रयेत्। अन्यत् किञ्चित् न ।
जनार्दन! - प्रलये सर्वजनहिंसकत्वे अपि पाप-असंसर्गं सूचयति संबोधनम्। ….mvr
37
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ,
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव!
_नन्दिनी
धर्मस्य विजयोऽस्तु ; अधर्मस्य नाशोऽस्तु
तस्मात् - यस्मात् बन्धुवधे इहफलं/ परलोकफलं वा किमपि नास्ति/ उत बनूधुवधजन्यफलं नरकं स्यात्। तस्मात्
धार्तराष्ट्रान् वयं हन्तुं न अर्हाः।
स्वजनं हत्वा वयं कथं सुखिनः स्याम? न स्याम इति अर्थः।
माधव! - लक्ष्मीपतिः भूत्वा अलक्ष्मीके कर्मणि प्रवर्तयसि किमिति संबोधनाशयः।….mvr
38
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः,
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
यद्यपि - तथापि
लोभोपहतचेतसः -
राज्यलोभेन उपहतं = भ्रष्टविवेकं ,
चेतः येषां ते ( दुर्योधनादयः )
कुलक्षयकृतं दोषं - कुलघ्नतादि पापम् ( दोषं = पापम् )
मित्रद्रोहः - विश्वासघातं- तत् जन्यं पातकम्
न पश्यन्ति - “पश्यन्नपि न पश्यति मूढः” इव पश्यन्तोऽपि न पश्यन्ति ( अतः अस्मद्वधे प्रवृत्ताः ) । हेतुदर्शनाच्च इति न्यायात्। ….mvr
39
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ,
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
पापात् अस्मात् निवर्तितुम् - अस्मात् पापात् निवृत्त्यर्थम्
कुलक्षयकृतं दोषं
प्रपश्यद्भिः - प्रकर्षेण पश्यद्भिः = विजानद्भिः
अस्मात् पापात् - कुलक्षयकृतात् पापात्
अस्माभिः - पण्डितैः
निवर्तितुं - वर्जयितुम्
कथं न ज्ञेयं - कथं न विचारितव्यम्? ( काकुः = कुत्सितं कूयत इति ) विचारितव्यमेव इति अर्थः।
निवृत्तावेव बुद्धिः कर्तव्या इतिभावः।
….mvr
40
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ,
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
कुलक्षये कृते को वा अनर्थः ?
अनर्थपरम्परा एव आपततिति वदति अर्जुनः ….
कुलस्य क्षये ( कुलः = कुलसम्बन्धिनः पुरुषाः)
कुलधर्माः - कुलकर्तृकाः
कुलोचिताः धर्माः
सनातनाः - चिरन्तनाः , परम्पराप्राप्ताः
प्रणश्यन्ति - प्रकर्षेण नश्यन्ति ( तत् कर्तॄणां अभावात् )
उत - अन्यः अपि,
धर्मे नष्टे - अनुष्ठातृ अभावात् / कर्तुः अभावात् धर्ममात्रे नष्टे सति,
धर्मे = कुलाचारे जात्याचारे च ,
नष्टे = स्वरूप-अदर्शनं गते सति
कृत्स्नं कुलं - आबालमपि अवशिष्टं सर्वमपि
अधर्मः अभिभवति - स्वाधीनतया ( स्ववशे कृत्वा) , व्याप्नोति = भ्रंशयति।….mvr
41
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः,
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
अधर्म-अभिभवात् -
अधर्मव्यापनात्
किं भविष्यति?
स्त्रियः प्रदुष्यन्ति - यथेष्टाचारेण
वर्तन्ते।
कृष्ण! - हे पापकर्षक! ( त्वं तु नैव पापे नियोजकः इति)
स्त्रीषु - कुलप्रसूतस्त्रीषु
दुष्टासु - दुष्टासु सतीषु ( दुष्टत्वं = कुलक्षयकारि पतितपतिसम्बन्धादेव दुष्टत्वम् ! ) , व्यभिचारे कृते को दोषः स्यात् इति एवं कुतर्कहताः प्रदुष्येयुः इति अर्थः
वर्णसङ्करः - वर्णानां सङ्कीर्णता। व्यवस्थां त्यक्त्वा सर्ववर्णानां एकीभावः।
वार्ष्णेय! - वर्षति अभिलषितानिति वृष्णिः। वृष्णिकुलसमुद्भवात् कुलमर्यादाभिज्ञः भूत्वा च किमर्थं उपेक्षसे? ….mvr
42
संकरो नरकायैव कुलघ्नानां कुलस्य च,
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः।
नन्दिनी
धर्मस्य विजयोऽस्तु ; अधर्मस्य नाशोऽस्तु
कुलस्य सङ्करः
१) न केवलं कुलघ्नानामेव नरकाय ,
२) अपि तु तत् पितॄणां अपि इति
आह अर्जुनः …
कुलस्य च - पुत्रपौत्रादि सन्तानस्य च
सङ्करः १) कुलघ्नानां, २) कुलस्य च ( भवति इति अध्याहारः) ।
हि - यस्मात्
एषां पितरः
लुप्तपिण्डोदकक्रियाः - लुप्ता येषां क्रियाः सर्वाः पिण्डस्य च अपि उदकस्य च
पतन्ति - निरयगामिनः भवन्ति।
….mvr
43
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ,
उत्साद्यन्ते जातिधर्मा कुलधर्माश्च शाश्वताः।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
कुलघ्नानां एतैः =उक्तैः , दोषैः = पापैः
जातिधर्माः - क्षत्रियस्य रक्षणधर्मः, ब्राह्मणस्य भिक्षाटनं, अध्ययनादि वेदविहिताः …
वर्णसङ्करकारकैः - सङ्करहेतुभिः
कुलधर्माः - भगवदुपासना विधानाः
शाश्वताः - परम्पराप्राप्ताः
च - आश्रमधर्माः च
उत्साद्यन्ते - उत्सिज्य कृत्य/अकृत्य विचारं - लुप्यन्ते । ….mvr
44
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन!,
नरके नियतं वासो भवतीत्यनुशुश्रुम।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
उत्सन्नकुलधर्माणां - विध्वंसिताः कुलजात्यादि धर्माः यैः ते उत्सन्नकुलधर्माः।
तेषां उत्सन्नकुलधर्माणाम्
नरके - रौरवादिषु
नियतं - निवृत्तिरहितम्
वासः - स्थितिः ( (भवति)
इति - इत्थं , आचार्याणां मुखात्
शुश्रुम - अनुशुश्रुम, वयं पुरा श्रुतवन्तः । न तु स्व- अभ्यूहेन कल्पयाम! ….mvr
45
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ,
मद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः।
नन्दिनी
धर्मस्य विजयोऽस्तु ; अधर्मस्य नाशोऽस्तु
अहो - इति आश्चर्ये
बत - खेदे ( संतप्यमानः बन्धुवधोद्युक्तत्वेन ) , कष्टं इति
महत्पापं - महत्तरं वक्तुं अशक्तं पापम्
कर्तुं व्यवसिता वयम्
व्यवसिताः - निश्चिताः।
राज्यसुखलोभेन … राज्यलब्ध्या प्राप्तं सुखं , लोभः- लाम्पट्यम्
स्वजनं - पितृ भ्रातृ पुत्रादिकम्
हन्तुमुद्यताः - हन्तुं उद्युक्ताः । अत्र आगताः।
राज्यसुखलोभेन स्वजनं हन्तुं वयं उद्यताः। अहो महाकष्टं इति।
….mvr
46
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः,
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।
नन्दिनी
धर्मस्य जयोऽस्तु ; अधर्मस्य नाशोऽस्तु
अप्रतीकारं - कृतस्य प्रतिक्रिया प्रतीकारः। ताडयन्तं प्रतिताडनं। तमकुर्वन्तम्!
अकृतप्रतीकारं , तूष्णीमुपविष्टम्
अशस्त्रं - परित्यक्त-आयुधं, शस्त्ररहितम्
यदि धार्तराष्ट्राः - दुर्योधनादयः
शस्त्रपाणयः - स्वयं शस्त्रपाणयः सन्तः
मे - माम्
हन्युः - यदि हनिष्यन्ति
तत् - तत् हननम्
क्षेमतरं - अप्राप्तप्रापणं योगः ; प्राप्तस्य रक्षणं योगः । तस्मादधिकं क्षेमतरः।
(क्षेमतरः =
१ कुलनाशनदोषः
२ कुलनाशनहेतुकनरकपातः
३ दुष्कीर्तिः आदि अनर्थरहितत्वं
क्षेमतरम् । ) ….mvr
47
सञ्जय उवाच -
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ,
विसृज्य सशरं चापं शोकसंविग्नमानसः।
नन्दिनी
धर्मस्य जयोऽस्तु , अधर्मस्य नाशोऽस्तु
ततः किं वृत्तम् ?
सङ्ख्ये - संग्रामे
शोकसंविग्नमानसः - शोकेन संविग्नं मानसं यस्य सः
शोकः - परितापः, अधर्मप्राप्ते राज्ये
(दोषदर्शनं , वैराग्यं च) प्रतिपादितम्
शोकेन = स्वजनविनाशं
निमित्तीकृत्य समुत्पन्नेन शोकेन,
शोकग्रहणं मोहस्य अपि
उपलक्षणार्थम्
संविग्नं - कम्पितं , व्यथितम्
सशरं चापं विसृज्य - मुमुक्षुः कर्मणां, कर्मसाधनानां ( सहसाधनं कर्म संन्यस्य )
रथोपस्थे - रथोपरि
उपाविशत् - उपविष्टवान्।
श्रुतिमूलाः…
शोकसंविग्नत्वम् …
पूर्वं भीष्मादीनां दर्शनाय समुत्थितः अर्जुनः “परीक्ष्य लोकान् कर्मचितान् निर्वेदमायान् …”
चापं विसृज्य …
असतः स्वर्गादिसुखात् विरज्य, कर्मसाधनं विसृज्य
सङ्ख्ये - युद्घे स्थितः अपि ( “यदहरेव विरजेत् तदहरेव प्रव्रजेत्”)
…mvr
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादेऽर्जुनविषादयोगोनाम प्रथमोऽध्यायः।
हरये नमः