राघवेन्द्रः - भावदीपः (alt)

गीतातातात्पर्यटीका- भावदीपः- श्रीराघवेन्द्रतीर्थविरचितः

लक्ष्मीनारायणं नत्वा पूर्णबोधादिसद्गुरून् । गीतातात्पर्यटीकाया भावदीपं करोम्यहम्॥ सकलवाङ्मनसदेवतेन्द्रिरोपसर्जनकभगवन्नतिरूपं मङ्गलं ग्रन्थादावाचरति॥ इन्दिरेति॥ एतच्च न सोख्यातिशयाय, किन्तु तदनुग्रहार्थमेवेति भावेनोक्तममन्देत्यादि । ‘अशरीरः प्रज्ञात्मा’ इत्युक्तेः कथमशरीरस्य वदनाम्भोजराजहंसत्वमिति शङ्कासत्वमिति शङ्कानिरासायोक्तं सुन्दराकृतय इति । प्राकृतदेहनिषेधपरा श्रुतिरिति भावः । ग्रन्थकर्तृन्नमति॥ धर्मेति॥ गुरुत्वाद्बहुवचनम् । एवमग्रेऽपि । प्राचीनटीकाकर्तृनर्थयते॥ स पद्मनाभेति॥ सूर्यकिरणसमूहो यथा लोकस्य ज्ञानाय भवति, तथैतेषां वाक्समूहो मम ज्ञानायास्तु । उत्तरार्धेऽप्यर्थद्वयं ज्ञेयम् । श्रीपद्मनाभेति पाठे यच्छब्दश्रवणात् स गोगण इति योज्यम् । अक्षोभ्यतीर्थाख्यखगुरून् नत्वा चिकीर्षितं प्रतिजानीते॥ प्रणम्येति॥ ॥ अथेति॥ प्रतिग्रन्थव्याख्याऽऽरभ्यत इत्यारम्भार्थोऽथशब्दः । व्याख्याने बीचोक्तिरशेषेत्यादि । यथावदित्येतद्घटनायोक्तमन्यैरित्यादि । परिसमाप्त्यादीत्यादिपदेन प्रचयसङ्ग्रहः । परम्परादीत्यादिपदेन तदनुमितायाः ‘प्रारिप्सितसमाप्त्यादिकामः स्वेष्टदेवतानतिं कुर्यात्’ इति श्रुतेर्ग्रहः । निबन्धनस्य कृत्योक्तिः शिष्येति । शिष्यैरप्येतदवश्यं कार्यमिति ज्ञापनार्थमित्यर्थः । समस्तपदेनापौनरुक्त्यमाह॥ सम्पूर्णमिति॥ सम्मतगीतास्विति॥ वेणुगीताभ्रमरगीतागोपिकागीताभिक्षुगीतेत्यादिरूपास्वत्यर्थः । ॥ तस्या एवेति॥ भारतस्य वा तदन्तर्गतग्रन्थान्तरस्य वा त्यागेनेति योज्यम् । नन्वित्यादिना कृतचोद्यस्य शास्त्रेष्विति श्लोकस्थपूर्वोत्तरार्धतात्पर्योक्त्योत्तरमाह भारतस्येत्यादिना । प्रतिनिधेः पाषाणादेः । महत्त्वं भारहेतुरित्याह॥ महत्वात्तत एव भारेण ततत्वादिति॥ महत्वाद्भारो महभारः । निरुक्तत्वादेव महत आ पञ्चमीसमासश्च ज्ञेयः । तेन महाभारेण ततत्वाद्व्याप्तत्वात् । महाभारोपपदात् तनोतेर्डप्रत्यय इति भावः । निर्वचनमवयवार्थकथनम् । ‘एष विष्णोर्भगवतः कला भुवनपावनी’ इत्यादि पृथुं प्रति त्रषिभिरुक्तं हृदि कृत्वा शङ्कते॥ पृथ्यवादिष्विति॥ आदिपदेन बलरामकार्तवीर्यार्जुनादिग्रहः । ‘आविवेश पृथुं देवः शङ्खी चक्री चतुर्भूजः’ इत, ‘पृथुहैहयादयो जीवास्तेष्वाविष्टो हरिः स्वयम्’ इत्यादिवचनात्तेषां न साक्षादवतारत्वमस्तीति भावेन स्वयंशब्दार्थमाह॥ साक्षान्नारायणेति॥ गुह्येति॥ भाषाद्वयं भारततात्पर्यद्वितीये व्यक्तम् । अन्यत्र पुराणेषु॥ उपोद्धातः-॥ अनुकूलयिष्यन्निति॥ सङ्क्षेपेणोक्ते प्रपञ्चं जिज्ञासवो भवन्तीति प्रपञ्चनेऽपि जिज्ञानाजननमत्रानुमूलनमिति भावः॥ इति शेष इति॥ नारायणपदानन्तरं इतिपदं कथ्यत इति पदञ्चाध्याहार्यमित्यर्थः॥ इति स्म़तेरिति॥ ‘ज्ञानेनासौ विभर्ति माम्’ इति भागवतस्मृतेरित्यर्थः॥ अत्र ज्ञानित्वे॥ ‘नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः’ । इति स्मृतेरिति भावः॥ अत्रैवेति॥ द्विट्तदनुबन्धिनिग्रह एवेत्यर्थः॥ केषाञ्चिदिति॥ दुर्योधनादीनां । भीष्मद्रोणादीनां तदनुबन्धित्वादिति भावः॥ शास्त्रविदुषा॥ अर्जुनेनेत्यर्थः॥ धर्मैकदेश इति॥ युद्धरूपे । समग्रधर्मः स्वविहितवृत्तिभगवद्भक्त्यादिरूपः॥ मिलितमेवेति॥ भक्तिवैराग्यादिपूर्वकं स्वविहितवृत्तिः परमधर्म इत्यर्थः । युद्धनिवृत्तिरपि परमधर्मविरुद्धत्वादधर्म एवेति तद्बोधनमपि कार्यमेवेत्यर्थः॥ तथाभावात्॥ धर्माधर्मभावादित्यर्थः । तद्विरुद्धमपि धर्मत्वेन नियमयति चेत् धर्मो भवत्येवेत्यत आह॥ तस्य चेति॥ हरेः स्वभक्त्यादिपूर्वकस्वविहितवृत्तितद्विरुद्धरूपयोरेव धर्माधर्मत्वेन नियमनोपपत्तिरित्यर्थः॥ उक्तविधस्येति॥ भक्तिपूर्वं स्वविहितवृत्त्या क्रियमाणस्य भगवदाराधनस्येत्यर्थः । कर्तव्यत्वे हेतुश्चतुर्थपादेन लब्ध इति भावेनाह॥ मोक्षेति॥ ते हितमिति मामेवैष्यसीत्याभ्यां लब्धहेत् आह हितेत्यादिना॥ त्याज्यत्वं चेति॥ अवगम्यत इति योज्यम् । तद्व्यनक्ति भक्त्येत्यादिना । स्वधर्मेणेत्यनुवादेन शेषमाह॥ भक्त्या चेति संयोज्यमिति॥ भक्त्या भगवदाराधनमेव धर्मस्तद्विरुद्धस्त्वधर्म इत्येषोर्थोऽनेन कथं लब्ध इत्यत आह॥ कर्तव्येति॥ परमधर्मत्वेन भक्तिर्गीतायामभिमतेति कुत इत्यतो मूलं योजयति॥ परोक्षेति॥ ज्ञातुं द्रष्टुं चेत्युक्तपरोक्षापरोक्षयोः प्रवेष्टुं चेत्युक्तज्ञानिमोक्षस्य च भक्त्या त्वनन्ययेति भक्त्यधीनत्वावगमादित्यर्थः॥ अन्यथेति॥ ज्ञानस्य श्रवणाद्यधीनत्व इत्यर्थः । शङ्कोत्तरत्वेन मूलार्थमाह॥ श्रवणादेरिति॥ उत्तमत्वस्येति॥ तथा च सूत्रं-‘‘परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः’’ (ब्र।सू। ३-३-५४) इति॥ तत्रेति॥ सर्वधर्मानिति श्लोके कर्तव्यस्य त्याज्यस्य चाभावोऽभिमत इत्यर्थः । हेयोपादेयाभावेन शरणागतिरेव तस्याभिप्राय इति शङ्कितुर्भावः । यद्वा तत्रेत्यस्य गीतायामित्यर्थ इति ज्ञेयम् । एतद्द्वयं मत्कर्मकृन्मत्परम इति श्लोके कथमबगम्यत इत्यतोऽनुवादव्याजेन व्यनक्ति यदुक्तमित्यादिना । गीतापदार्थमुक्त्वा तत्कर्मेति मूलपदस्यार्थमाह॥ तदेव तत्कर्मेति॥ कर्मधारय इत्युक्तं भवति । अस्मच्छब्दात्तद्भगवद्विषयं कर्मैव भक्तस्य कर्मेत्यर्थः । तदर्थत्वेन भगवदर्थत्वेन निषिद्धमेवेत्यर्थः॥ तत्रेति॥ गीतायामित्यर्थः । तद्व्यञ्जयन् मूलार्थमाह॥ स्वविहितमिति॥ अवगम्यत इति सर्वत्र योज्यमिति प्रागेवोक्तम् । तदुभयमित्यस्य स्वविहितं भगवदर्थं चेत्यर्थः॥ इत्यनेनेति॥ इत्यर्धेनेत्यर्थः । साक्षात्परम्परयेति॥ निर्दोषत्वेनेत्यन्तस्य साक्षादपेक्षितत्वम् । अन्येषां तु परम्परया॥ अभिन्ने निस्स्वरूपे स्वस्मादुत्तमे वस्तुनि स्वस्य सार्वज्ञसर्वशक्त्यादिगुणहीनत्वेन, जननमृत्यादिदोषवत्त्वे सार्वकालिके सार्वदैशिके च सर्ववस्तुनि नियमनायोगात्, अन्याधीनत्वे तदनुमतिं विना स्वेच्छाऽदिद्वाराऽन्यस्यैव मोक्षहेतुत्वे पुमर्थदानद्वारा शास्त्रप्रतिपाद्यत्वस्यापि विधिनिषेधज्ञापनस्योपास्त्यादिद्वारा नियमनस्याकार्यत्वादिति भावः॥ सर्वस्य तदधीनत्वमिति॥ ‘लोकमहेश्वरम्’ इत्यनेनेति भावः॥ बुद्धिरितीति॥ सर्वस्य तदधीनत्वमिति॥ ‘भवन्ति भावा भूतानां मत्त एव पृथग्विधाः’ इति वाक्यशेषादिति भावः । सप्तर्षय इत्युपक्रम्य ‘एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोविकम्पेन योगेन युज्यते नात्र संशयः । इति वाक्यशेषेश्रवणादाह॥ निष्कम्पेति॥ करणव्युत्पत्तिमुपेत्याह॥ सर्वशास्त्राणामिति॥ ज्ञानविज्ञानपदयोः शास्त्रर्थत्वेऽपि भगवत्परत्वं कथं लब्धमित्यत उक्तम्॥ भगवदिति॥ ‘यज्ज्ञात्वा’ इत्यर्धेनोक्तेरित्यर्थः । यद्वा ‘येनाश्रुतं श्रुतं भवति’ इत्यादौ भगवज्ज्ञानेनैव सर्वस्य ज्ञातत्वोक्तेरिह च ‘यज्ज्ञात्वा नेह भूयोऽन्यत्’ इत्यादिना ज्ञातत्वोक्तेर्भगवत्परत्वं सर्वशास्त्राणां सिद्धमित्यर्थः । प्राधान्योक्तिरिति॥ राजविद्येत्यस्य प्रधानविद्येति व्याख्यानादिति भावः॥ तज्ज्ञानान्मोक्षश्चेति॥ सुखस्यैकान्तिकस्य प्रतिष्ठाऽहमित्युक्तेरिति भावः । अन्य इत्युक्तेराह॥ भेद इति॥ उत्तम इत्युक्तेरुक्तामुत्तमत्वमिति । बिभर्तीत्युक्तेराह॥ सर्वस्य तदधीनत्वमिति॥ ‘लोके वेदे च प्रथितः’ इत्युक्तेराह॥ सर्वशास्त्राणामिति॥ बुद्धिमान् कृतकृत्यश्चेत्युक्तेराह॥ तज्ज्ञानान्मोक्षश्चेति॥ असत्यमप्रतिष्ठं त इति॥ तेनासत्यताऽदिवादिनां निन्दया जगत्सत्यत्वावगमादिति भावः॥ यदुक्तमिति॥ कुरु कर्मेत्यादिवाक्मुदाहृत्य ज्ञानिनोपि भगवत्कर्मेति यदुक्तमित्यर्थः । ज्ञानिनापि राध्यः साध्यः॥ मोक्षानियमादिति॥ ‘अनियमः सर्वेषाम्’ (ब्र।सू।३-३-३५ ) इति सूत्रादिति भावः । यच्छब्दश्रवणादाह॥ तेनेति शेष इति॥ वर्णाश्रमोचितकर्मणेत्यर्थः॥ तस्मादिति वेति॥ कर्म कुर्यादित्यनेन तस्मादित्यस्यान्वय इति भावः । साधनोत्तमत्वमित्यादीत्यादिपदेन परोक्षापरोक्षर्ज्ञानिनोऽपि मोक्षस्य तदधीनत्वं चेति गृह्यते॥ उच्यत इति॥ ‘भक्त्या प्रसन्नः परमो दद्याद्ज्ञानं’ इत्यनेनोच्यत इत्यर्थः॥ श्रवणादेरिति॥ ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादाविति भावः॥ मोक्षादिरिति॥ ज्ञानमादिपदार्थः । ‘दृष्ट्यादिस्तस्य साधनम्’ इत्यत्रादिपदेन ध्यानं श्रवणमनेन च ग्राह्ये । तस्येत्यनेन च भक्तिशब्दार्थतयोक्तो यः स्नेहः स चातिपरिपक्वः परिपक्वः अपरिपक्व इति त्रिविधोऽपि गृह्यत इत्युपेत्य दृष्ठ्यादिमध्ये किं कस्य भक्तिरूपस्य स्नेहस्य साधनमित्यतस्तद्विवेकेन दर्शयन् कथं भक्तेरित्यादिसोक्तशङ्का निराह॥ अतिपरिपक्व इत्यादिना॥ योग उपायः॥ तत्साधनत्वादिति॥ मोक्षसाधनातिपरिपक्वभक्तिसाधनत्वादित्यर्थः । तत्साधनमिति॥ दृष्टिसाधनपरिपक्वभक्तिसाधनमित्यर्थः । श्रवणादीत्यादिपदेन मननग्रहः । यदुक्तमिति॥ ‘सुदुर्दर्शमिदं रूपं’ इत्याद्युदाहृक्तमित्यर्थः । देवत्वादुत्तमाधिकारित्वमित्यनुवादः स्वकृतव्याख्यानानुरोधेनेति ज्ञेयम् । व्याप्तौ चेति॥ ये देवास्तेऽधिकार्युत्तमा इति मूले व्याप्तिरभिमतेति भावः॥ यद्विष्णोरिति॥ ‘न त्वत्समोऽस्ति’ इत्याद्युदाहृत्योक्तमित्यर्थः । मी ळहुषोऽमिलषितसेचकस्य । एषस्य आ समन्तादीशस्य । वयाः बन्धकः । प्रभरणे पूजायाम् । रुद्रिये, रुद्रशब्दाद्धः, रौद्रम् । विदे विविदे, विद्लृ लाभे, लेभ इत्यर्थः । यथा तथेति शेषोक्तिः॥ यासिष्टमिति श्रवणाद्युवामित्यर्थः । इरावत् अन्नवत् । वर्तिः वर्तनम् । वृतेरिकारप्रत्ययो भावार्थ इति भावः । यासिष्टम् अयासिष्टम् । अडभावश्छान्दसः । प्राप्तौ स्थ इत्यर्थः । कथं समचिन्तयदित्यतः स्वयमाह एते वक्ष्यमाणा जायन्तामितीति । श्रौतपदार्थमाह॥ सत्यं मुख्यमिति, ततो विष्णुत इति च॥ मात्रया मात्रायाः मितेः । तन्वा वृधान मूर्त्यैव पूर्णोऽसि । अन्ये इति शेषोक्तिः । अन्वश्नुवन्ति, अशू व्याप्तौ, प्राप्नुवन्ति॥ यदुक्तमिति॥ ‘पश्यन्नपीममात्मानम्’ इत्यादिनोक्तमित्यर्थः॥ पूर्वोत्तरेति॥ ’ स्थितप्रज्ञस्य का भाषा समाधिस्थस्य ’ इति श्लोकेऽत्र विवक्षितस्य मुक्तस्य प्रकृतत्वात् । ’ नैव तस्य कृतेनार्थः ’ इत्युत्तरवाक्ये मुक्तलिङ्गश्रवणात्तदनुसारेण चेत्यर्थः । भाष्यानुसारादत्र मुक्तशब्दः समाधिस्थपर इत्याह॥ अत्र सर्वथेति॥ ’ समाधिस्थोपि ’ इत्यपिपदादर्थद्वयपरः श्लोक इत्येके । ’ ज्ञानयोगेन साङ्ख्यानाम् ’ इत्यस्य तात्पर्यमाह॥ ज्ञानेनैवेति॥ साङ्ख्यानामित्यस्यार्थो ज्ञानिनामिति । शङ्कते॥ नात्रेति॥ यदुक्तमिति॥ ’ सुदुर्दर्शमिदं रूपम् ’ इत्यादिनाऽर्जुनो ज्ञानीति यदुक्तमित्यर्थः॥ इति सङ्क्षेपेण गीतातात्पर्योक्तिः॥ सङ्ग्रहोक्त्यैवेति॥ ’ तत्र साक्षादिन्द्रावतारम् ’ इत्यादिनेति भावः॥ दृष्ट्वेममित्यादिनेति॥ पूर्वाध्याये ’ दृष्ट्वेमं स्वजनं कृष्ण ’ इत्यादिना भयकम्पगाण्डीवस्त्रंसनादेर्युद्धनिवृत्तावुपपत्तेरुक्तत्वादित्यर्थः॥ उत्तरार्धमुपादत्त इति॥ अर्थस्तु स्पष्टः । चशब्द उपमाऽर्थो ध्येय इति भावः॥ सत्यमिति॥ बन्धुस्नेहनिमित्तान्नाशभयात् ’ न योत्स्ये ’ इत्येतत्सत्यमित्यर्जुनोक्तिपरिहाहार्थं विकल्पयतीत्यन्वयः॥ तदिति॥ उक्तरूपमर्जुनवचनमित्यर्थः । एवमेवेत्यस्य परमचेतनत्वेनेति भ्रमनिरासायाह॥ चेतनमात्रत्वेनेति॥ अतिशयेन नित्यत्वमेवेति॥ ’ चेतनश्चेतनानाम् ’ इत्यत्रेति भावः॥ विवक्षितेति॥ स्वरूपतो देहतश्च प्रागभावविनाशयोरभावरूपोऽर्थः॥ उभयविधेति॥ स्वरूपतो देहतश्चेत्यर्थः । प्रतीकग्रहणबलाच्छङ्कानिरासलाभ इति भावेनाह॥ तुशब्देनेति॥ लोकपदेन विवक्षितमर्थमाह॥ प्रप्तैत्यादिना॥ अनेनेति॥ लेकस्य प्रसक्तिकथनेनार्जुनापेक्षयाऽप्रस्तुतत्वोक्तिविरोधो नेत्यर्थः॥ सरणं गमनमिति॥ सू गताविति धातोः । ये गत्यर्थास्ते ज्ञानार्था इति भावः । ’ नाभावो विद्यते सतः ’ इत्येतावता प्रकृतशङ्काऽपरिहारादाह॥ दृष्टान्त इति॥ उत्तरार्धेति॥ ’ उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ’ इत्यत्तरार्धे सदसत्कर्मभ्यां सुखदुखे न स्त इत्यनयोरर्थयोरन्तो निर्णयस्तत्त्वदर्शभिर्दृष्ट इत्युक्त्या नैयत्यं लब्धमिति भावः । प्रकृतोपयोगमाह॥ अश्रद्धयेति॥ ’ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्॥ असदित्युच्यते पार्थ ’ इत्यष्टादशे ’ सच्छब्दः पार्थ युज्यते ’ इत्येतस्मात्किञ्चिदुपरितनं वाक्यं च ग्राह्यमित्यर्थः॥ वेत्तेति॥ विद ज्ञाने, वेदितेत्यर्थः । आगमशासनमनित्यमितीडत्र न कृतः । ननु विद्यमानाविद्यमानयोरिति वक्तव्यम् । विद्यमानशब्दस्य ’ अल्पाच्तरं पूर्वम् ’ इति सूत्रेण, तथा भावस्याभावापेक्षयाऽभ्यर्हितत्वेन ’ अभ्यर्हितं पूर्वम् ’ इति सूत्रेण पूर्वनिपातेन भाव्यत्वादित्यत आह॥ गीतानुसारेणोति॥ उत्पत्तिनाशेति॥ अविद्यमानस्योत्पत्तिव्यवहारेण विद्यमानस्य नाशव्यवहारेणेत्यर्थः॥ किमिदमिति॥ कण्ठव्यवहारमूलभूतं किमनुमानागमार्थापत्तिजं ज्ञानमुत भ्रम इत्यर्थः । घटितमिति॥ सदसत्कर्म परत्वेनान्यथा योजितमित्यर्थः॥ ताविति॥ वित्तिव्यवहाहावित्यर्थः । अतोसन्नव जायत इत्यनन्तरं शेषमाह॥ सन्विनश्यतीति चोपसंहारो द्रष्टव्य इति॥ किमिति॥ उक्त्या किमित्यर्थः॥ रूपभेदेनेति॥ कार्यरूपेणसतः कारणरूपेण सतो जन्मेत्यर्थः॥ कुत एतदिति॥ असतो जन्म सतो विनाश इत्येतदित्यर्थः॥ भ्रमविषयस्येति॥ शुक्तिरूप्यादेः ख्यातिबाधान्यथानुपपत्तिरूपार्थापत्त्येत्यर्थः॥ प्राचीनपक्ष इति॥ असतोऽसत्त्वेन प्रतीतिर्नेति पक्षे मानाभावरूपदूषणान्तरमित्यर्थः॥ चशब्दार्थमाह॥ न केवलमिति॥ तद्धर्मेति॥ प्रतीतत्वरूपधर्मेत्यर्थः॥ तद्भावोऽपीति॥ असतस्सत्त्वेन प्रतीतिभावोऽपीत्यर्थः॥ बाधकज्ञानस्यापीति॥ श्रुतौ प्ततीतं रूपमनिर्वचनीयमेव न व्यावहारिकं सदपीति परस्य बाधकज्ञानोदयादिति भावः॥ अनिर्वचनीयत्वविरोधादिति॥ सत्यभूतसत्त्वाश्रयत्य सद्वैलक्षण्यायोगादिति भावः । मघवानावित्यस्यार्थो यशस्विनाविति । ’ यशो वा व मघम् ’ इति कर्मनिर्णये यशोऽर्थकत्वे मघशब्दस्य श्रुत्युक्तेः । अच्छेन्द्राब्रह्मणस्पती ’ इत्यत्र ब्रह्मणस्पतिशब्दर्थो बृहस्पतिरित्युपेत्याह॥ इन्द्रबृहस्पती इति॥ इन्द्राबृहस्पतीति भाव्यम् । ’ देवताद्वन्द्वे च ’ इति पूर्वपदस्या नङुक्तेः । ’ युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ’ इति शेषस्यार्थमाह॥ युवयोरित्यादिना॥ युवोः युवयोः । इदित्यस्यार्थ एवेति । व्रतमित्यस्यार्थसत्येत्यादि । आपश्चनेति पदद्वयार्थऋ सर्वदेवता अपीति॥ प्रमिनन्ति जानन्ति । ’ तन्न मोघं वसु स्पार्हमुत जेतोत दाता ’ इति शेषत्यार्थोक्तिपूर्वमुपात्तपदानामर्थमाह॥ सर्वज्ञ इति॥ तत्कर्तव्यमिति॥ तद्युद्धकर्म कर्तव्यम् । पूजात्वेन कार्यमित्यनुपदमेव ’ तस्माद्यध्यस्व ’ इत्यत्र वक्ष्यतीति वक्ष्यतिक्रिययोक्त्वेत्यस्यान्वयः॥ उभयोः यीवेश्वरयोः॥ अत्र जीवस्येति॥ अत्र अविसाशि त्विति श्लोके जीवस्य प्रतिपाद्यतायाश्च निषेध्यतापरं भाष्यममुख्यार्थपरम् । जीवपरत्वेऽमुख्यत्वं कुत इत्यत आह॥ तत्रेति । हरावित्यर्थः । तर्हि मुख्यार्थविष्णुपर एवायं श्लोकोऽस्त्वित्यत आह॥ न त्वेवाहमिति॥ आदिपदप्रक्षेपेणेति॥ देहहान्यादीत्यादिपदेत्यर्थः॥ कथञ्चिदिति॥ स्वाभाविकानाशनैमित्तिकनाशभेदेनार्थभेदकल्पनमित्यर्थः॥ अत्रोच्यत इति॥ तात्पर्यनिर्णयाख्यैतद्वन्थ इत्यर्थः॥ भाष्ये त्विति॥ न च नैमित्तिकनाश इत्याहेत्यादिना जीवरूपार्थान्तरमुच्यत इत्यर्थः॥ भगवतेति॥ भाष्यकृतेत्यर्थः॥ जडाभावमुक्त्वेति॥ न वर्तत इत्यादिनेति भावः॥ शरीरेति । ’ श्यामावदात्ताः ’ इत्यादिनेति ज्ञेयम्॥ एतद्वाक्ययोरिति॥ ’ यो वेद ’ इति, ’ आनन्दमयम् ’ इति वाक्ययोः ’ ब्रह्माविदाप्नोति परम् ’ इत्युक्तपरब्रह्मप्रकरणगतत्वादित्यर्थः । यशोरूपेणेति॥ यशोनामकरूपेणेत्यर्थः । ’ तस्य नाम महद्यशः ’ इति श्रुतेः । ईश्वरेणेति॥ सख्येति योज्यम् । ’ किल्बिषस्पृत्पितुपणिर्ह्येषामरंहितो भवति वाजिनाय ’ इति शेषार्थमाह॥ यतोऽसाविति॥ ’ गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति चातविद्यां यज्ञस्य मात्रां विमित उ त्वः ’ इति शेषार्थमाह॥ कश्चिदित्यादिना॥ जक्षभक्षहसनयोरिति धातोः जक्षन्नित्यस्यार्थद्वयमाह॥ भक्षयन् हसंश्चेति॥ ’ मनोजवेषु ’ इत्यस्यार्थो ज्ञानादिगुणेष्विति॥ ’ आदघ्नास उपकक्षास उ त्वेह्रदा इव स्नात्वा उ त्वे ददृश्रे ’ इति शेषार्थमाह॥ तत्र केचिदिति॥ श्रुत्वा विष्णुमिति॥ ’ श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात्कर्णसंयुताः । अक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्तास्तु ये गणाः॥ तारतम्यं च तेषां च श्रुतावुदितमञ्जसा । क्षीरसागरदध्नास्तु केचित्तिष्ठन्ति मुक्तिगाः॥ उपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् । ऐरे ह्रदे केचिदपि देवा एव सदा हरिम्॥ नागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः । सागरादिस्थितं विष्णुं पश्यन्ति क्वचिदेव हि॥ ' इत्यैतरेयभाष्योक्तागमेनेत्यर्थः॥ अत एवेति॥ अस्य वाक्यस्यागमेनेत्थमर्थ उक्त इति व्याख्यानादेवेत्यर्थः । ’ यत्र त्वस्य ’ इति वाक्यार्थं पश्चाद्विवरितुं सञ्ज्ञेत्यादिप्रमाणव्याख्येयवाक्यं स्वयमाह॥ प्रज्ञानघन इत्यादिना॥ मोहान्तं मोहाख्यनाशम् । इतीत्यन्तेनेति चोदित इत्यादिवाक्यसङ्ग्रहः । ऐहिकाज्ञानं वृत्तिज्ञानमित्यर्थः । एतद्विषये मुक्तविषय इत्यर्थः । ’ तमादेशमप्राक्ष्यः ’ इत्यादेरर्थो ’ नारायणोऽयम् ’ इत्यादीति भावेनाह॥ आदिश्यत इतीति॥ उपदेशविषय इत्यर्थः । तदभावेऽपि अन्यज्ञानाभावेऽपीत्यर्थः । ’ यन्मिन् ’ इत्यादेरर्थान्तरमाह॥ अविज्ञानान्येति॥ एवमज्ञातस्यापीति॥ भगवदधीनत्वादिनाऽज्ञातस्यापीत्यर्थः । ज्ञातादेरित्युक्त्यनुसारादाह॥ ज्ञातादीति॥ श्रुतं मतमित्यादिपदार्थः । इत्यत्रोक्तमित्यस्य दृष्टान्तमित्यनेनान्वयः । ’ वाचारम्भणं ’ इति श्रुत्यर्थमाह॥ यस्मादित्यादिना॥ सत्यमित्यस्यार्थो नित्यमिति॥ इदानीं मूलार्थमाह॥ प्राधान्यादित्यादिना॥ तत्फलं साङ्केतिकज्ञानादिफलम् । तत्किमित्यत आह॥ विद्वानितीति॥ तन्मात्रेण साङ्केतिकज्ञानमात्रेणेत्यर्थः । एवं पुरुषोत्तमः प्रधान इत्यन्वयं तावदुपेत्य तदनन्तरं शेषमाह॥ प्रधानोऽत इत्यादि॥ उक्तेति॥ अज्ञातान्यज्ञानादीनां यत्फलं तत्तदभावेऽपि भवति । अज्ञातान्यज्ञानादीनां ज्ञातानामपि यत्फलं तदपि भगवज्ज्ञानादौ जात एव जातं भवतीत्युक्तप्रकारद्वयेनेत्यर्थः । प्रधानश्चेति चशब्दसमुच्चेयमाह॥ एवं सदृशश्चेत्यप द्रष्टव्यमिति॥ कारणभूतोऽसावित्यंशस्योपयोगमाह॥ प्रधान्यमेवेति॥ सादृश्यं च ब्रह्मजगतोरबाधितत्वादित्यादिना व्यक्तमित्यन्यत्र तत्त्वनिर्णयादावुपपादितं चेति नात्रोपपादितमिति भावः । तथा च वाचारम्भणदृष्टान्तमृत्पिण्डमृण्मयदृष्टान्तयोर्द्वयोरपि यथाक्रमं एवं प्रधान एवं सदृशश्चेति दार्ष्टान्तिकमुक्तं भवति॥ भावाकरण इति॥ श्वेतकेतुनाऽहमीश्वरांश इति भावाकरणे जगत्कारणत्वस्वातन्त्र्यादिमाहात्म्यमुक्तमुद्दालकेनेत्यर्थः॥ व्याख्यानान्तरमिति॥ तदीयस्त्वमसीति व्याख्यानापेक्षयेति योज्यम् । तदित्यादिश्रुतीत्यस्यायमर्थः । तदुदाहृतवाक्यद्वयं व्याक्रियत इत्यन्वयः । प्राग्भाष्यकृताऽनुपात्तं कथं व्याख्यायत इत्यत उक्तम्॥ इत्यादिश्रुतिविरोध इत्यादिपदगृहीतमिति॥ स्थानान्तर इति॥ ’ प्रपञ्चोपशम् शिवमद्वैतं ’ इति श्रुत्यन्तर इत्यर्थः॥ बाधकाभावाच्चेति॥ स्थानान्तरोक्तेः श्रुत्यैव व्याख्यानबलादिति चार्थः । न केवल मायामात्रत्वादिति वार्थः । ननु नामधेयपदाभावे नामप्रपञ्चस्य वागालम्बनमात्रत्वलाभः कथमित्यत आह॥ नामधेयस्यापीति॥ श्रुतिसिद्धमिति॥ ’ तदीयस्त्वमसि ’ इति प्रागुदाहृतश्रुतिसिद्धमित्यर्थः । ननु ’ अतत्त्वमसि ’ इति पक्षे आसोऽसीति भाव्यमित्यर्थः । शङ्कते भवेदिति॥ तादृशवाक्याद्यभावेऽपी॥ अनुवादादिलिङ्गयत्तदादिशब्दोपेत वाक्यविशेषयुक्त्याद्यभावेऽपीत्यर्थः॥ परमात्मोच्यत इति॥ शुद्धब्रह्मेत्यर्थः॥ अन्यथेति॥ परमात्मनि जगद्वेदस्य श्रुत्या ग्रहण इत्यर्थः । ईश्वरपदस्य विशिष्टब्रह्मपरत्वमेवोपेत्यार्थमाह॥ ईश्वरस्यैवेति॥ असिद्धेरिति च्छेदः॥ तेनेति॥ प्रत्यक्षादित्यर्थः॥ तृतीय इति॥ स्वरूपप्रतिपादकेति पक्ष इत्यर्थः । पूर्वं शङ्कोत्तरत्वेन योजितमधुना श्रुतिवैय्यर्थ्यरूपयुक्त्यपेक्षया युक्त्यन्तरोक्तिपरत्वेन योजयति॥ इतश्चेत्यादिना॥ उक्तेति॥ वैय्यर्थ्यरूपदोष इत्यर्थः । तन्निमित्तेति॥ उपाधिनिमित्तेत्यर्थः । उपाधीति मूलवाक्यं खण्डशः शेषोक्त्या व्यचष्टे॥ उपाधिकृत एवेतद्यादिना भाव इत्यन्तेन॥ दूषणाय चेति॥ दोषान्तरमित्यन्वयः॥ इत्यादिवक्ष्यमाणेति॥ एकादशे । हन्तृशब्दार्थमाह॥ देहवियोगकर्तेति॥ हतशब्दार्थो देहाद्वियोजित इति॥ मयेति॥ ’ मया हतांस्त्वं जहि व्यतिष्ठा युध्यस्व जेताऽसि रणे सुपत्नान् ' इत्येकादशोक्तिविरोध इत्यर्थः॥ अयमेव श्लोक इति॥ भाष्ये तथा योजितत्वादिति भावः॥ एतेनेति॥ ’ ना परमपुरुषः ’ इति व्याख्यानेनेत्यर्थः॥ अस्मिन् पक्षे नरान्तरभावादिति भावः॥ हेतुरुक्त इति॥ स्वातन्त्र्येण न हन्तीत्यत्रास्वातन्त्र्यरूपो हेतुरुक्त इत्यर्थः॥ तादृशाभिमानाभाव इति॥ हन्तृत्वहन्यमानत्वादौ स्वातन्त्र्याभिमानाभावशच तत्र स्वातन्त्र्येण हननकर्तृत्वाद्यज्ञाने हेतुरुच्यत इत्यर्थः । ज्ञानी चेच्छत्रुं हन्ति हन्यते च तदा स ज्ञानी स्वस्य हनने स्वातन्त्र्यं न जानाति, स्वातन्त्र्यभ्रान्तिरूपाभिमानाभावादिति वा देहाद्यभिमानाभावादिति वाऽभिप्रयायः॥ समीपोक्तत्वादिति॥ पुराणपदेनेति भावः । मूलं योजयति॥ शरीरयोगवियोगयोरिति॥ एतदाशङ्कापरिहारायेति॥ जीवस्य कालतो बिम्बादिनाशनिमित्ततो वा नाशाभावेऽपि युद्धादिगत शस्त्रादिकारणविशेषात्स्याद्विनाश इति शङ्कापरिहारायेत्यर्थः॥ समीपोक्तत्वादिति॥ पूर्वार्धोक्तत्वादित्यर्थः । नित्यं सर्वगते स्थितोऽणुश्चेत्यर्धोक्त्या गीतावाक्यस्य कथं योजनेत्यत आह॥ नित्यमिति॥ यद्वा सर्वगतस्थाणुरिति मूलवाक्यस्य नित्यपदसंयोजनेनार्थमाह॥ नित्यमिति॥ अन्यथा व्याख्यानव्याख्येययोर्वैरूप्यापत्तेरिति भावः॥ वैषम्यहेतुर्दर्शित इति॥ ईश्वरज्जीवस्याच्छेद्यत्वादिसद्भावेऽपि न सर्वसाम्यमित्यत्र सर्वगतत्वाणुत्वरूपो हेतुर्दर्शित इत्यर्थः । अचल इत्युक्तं क्रियाराहित्यं सर्वगतस्य विशेषणं युक्तम । गगनादौ सर्वगते चलनादृष्टेः । अतः सर्वगत इति पृथक्पदेन भाव्यमिति शङ्कते॥ अत्रेत्यादिना॥ अत एवेत्यस्य विवरणायोक्तम्॥ हेतूपन्यासादिति॥ सर्वगतस्थपदोक्तास्वातन्त्र्यरूपे साध्ये विधिनिषेधबद्धत्वरूपहेतूपन्यासादित्यर्थः॥ अस्मिन् पक्ष इति॥ पूर्वार्धस्येश्वरपरत्वपक्ष इत्यर्थः॥ सनातनत्वादिहेतुनेत्॥ जीवस्य विधिनिषेधबद्धत्वप्रतिबिम्बत्वहेतुनेत्यर्थः । तस्मादिति परामर्शविषयमाह । यस्मादित्यादिना॥ तस्मादित्यत्यार्थमाह॥ तस्माद्युद्धादीत्यादिना॥ तेषामित्यस्य लाभमाह॥ मामिति॥ ’ ये तु सर्वणि कर्माणि मयि सन्यत्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते॥ ' इति पूर्वार्धे श्रवणात् द्वादशाध्याय इति भावः । अथेत्यर्थान्तरेऽथशब्दः । एक इति भगवद्रूपः । जीवस्यानादिनित्यत्वे दृष्टान्तत्वेनोपक्रान्त इत्यर्थः॥ न च तत्र तत्रेति॥ ’ अविनाशि तु ’ इत्यस्य वेदादिपरत्वमुक्तं भाष्ये । अनाशिन इत्यस्य जीवपरत्वं, अविनाशिनमित्यस्य देहयोगरहितमित्यादिना जीवपरत्वमुक्तमतस्तद्विरोध इत्यर्थः॥ पौनरुक्त्यादिशङ्केति॥ ऐक्योक्तावप्यनुक्तविशेषणोपादानान्नेश्वरैक्ये पुनरुक्तिरित्यादिना पुनरुक्तिवैय्यर्थ्यशङ्कयोरुन्मूलनं भाष्ये कृतम् । अत्र तु मुख्यार्थग्रगणेन व्याख्याने तादृशशङ्कैव नेति न तदुन्मूलनं कार्यमिति भावः॥ बाधकानामिति॥ ’ न च जीवानां देशतो गुणतश्च पूर्णता । न हि जीवेन ततम् ’ इत्यादिनोक्त्तत्वादित्यर्थः । अर्थान्तरस्य वेदादिरूपस्येत्यर्थः॥ सङ्गतेरुक्तत्वादिति॥ सङ्गततया प्रतिश्लोकमवतारितत्वादिति भावः॥ इत्येतच्छेषत्वेनेति॥ नासत इत्यस्यासत्कर्मसत्कर्मभ्यां सुखदुःखे न स्त इति व्याख्यानादिह च तत्पूजा सत्कर्मैवेत्युक्त्वाऽतस्तदर्थे युद्धत्वेत्युक्तेरिति भावः॥ उक्तरीत्येति॥ ’ न च जीवानां देशतो गुणतश्च पूर्णता अनिच्छाय देहहान्यादेर्दुःखावाप्तिश्च सिद्धा । तस्मादनाशिनोप्रमेयस्य पूजार्थं युध्यस्व ’ इति प्रागुक्तदिशेत्यर्थः॥ इत्यस्येति॥ उपयोगमाचष्ट इत्यनुकर्षः । अत एवेत्युक्तं हेतुं व्यनक्ति॥ नायमित्यादिना॥ प्रकृतेति॥ न त्वेवेति श्लोकप्रकृतजीवनित्यत्वस्य देहिनोऽस्मिन्नितिप्रकृतप्राकृतदेहप्राप्तिमात्रस्य चेह शरीरण इति निय्स्येत्यनुवादादित्यर्थः॥ अत एवेति॥ अनुवादादेवेत्यर्थः॥ उक्तत्वादिति॥ अन्तवन्त इत्यादिनोक्तत्वादित्यर्थः । आदिपदेन नित्यत्वग्रहः । इत्येतत्प्रवृत्तमित्यन्वयः॥ अधिकविशेषणोक्तेरिति॥ ’ न जायते म्रियते ’ , ’ अजो नित्यः ’ इत्येतावता पूर्तेरिति भावः॥ गतार्थतेति॥ न हन्यत इत्यनेनेति ज्ञेयम् । स्वतन्त्रेश्वरेण हन्यमाने शरीरे न हन्यत इति व्याख्यानादिति भावः॥ अवतारक्रमेणेति॥ अविनाशित्वानादित्वनित्यत्वादिना स्वातन्त्र्यावतारस्तेन च सर्वकर्तृत्वावतारस्तेन च कं घातयतीत्यस्येत्येवमवतारक्रमेणेत्यर्थः । एतेनेत्युक्तं व्यनक्ति॥ कथमित्यादिना॥ इत्याश्रितत्वादिति॥ इत्यादेर्मूलं श्रवणादित्यर्थः । आदिपदेन सर्वकर्तृत्वस्य ग्रहः॥ तद्भावोक्तेरिति॥ प्रथमस्कन्धे नवमेऽध्याये भीष्मस्तुतौ च्छेदादिभावोक्तेरित्यर्थः॥ शरीरच्छेदादिनिरास इति॥ नैनमिति श्लोक इति भावः॥ प्रतिविशेषणमपीति॥ न छिन्दन्ति, न दहतीत्युक्तच्छेदाभावदाहाभावादिप्रतिविशेषणमप्येनमितिपदं वीप्सारूपेणैनमेनमित्येवंरूपेण बह्वेतच्छब्दयोगेन तथा अयमयमिति बह्विदंशब्दयोगेन योजनां सूचयतीत्यर्थः । ’ ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः विष्णुः परमाक्षरः ’ इति श्रुतिशेषे पदद्वयस्यार्थमाह॥ ज्ञानज्ञान इत्यादेरिति॥ श्रुतीति॥ ’ अरूपमव्ययम् ’ , ’ अशरीरः प्रज्ञात्मा ’ इत्यादिश्रुतिविधानादेवेत्यर्थः । ’ न च ’ इति पृथगारम्भाद्वाक्यसमाप्त्यर्थमाह॥ अस्तीतिसम्बन्ध इति॥ विशेषपदानन्तरमस्तीत्यादिपदाध्याहारेण योजनामाह॥ अस्तीत्यादिना॥ विशेषित इति॥ विशेषवत इत्यर्थः॥ भेदपरम्परयेति॥ विशेषविशेषिणोर्भेदः स्वाश्रयाभ्यां विशेषविशेषिभ्यां भिन्नः । सोऽपि भेदः स्वाश्रयभूतभेदिभ्यां भिन्न इत्येवं भेदपरम्परयेत्यर्थः । तत्रेत्यनुवादः ईश्वर इति व्याख्या । एवेत्यनेनापौनरुक्त्यायाऽह॥ एकत्वाहङ्ख्यानोगीति॥ किञ्चन नानेति॥ श्रुतय एता इति॥ एकमेवेत्यादयः श्रुतय इत्यर्थः । अभेदविशेषयोरिति पदविभागः॥ विशेषविशेष्यादीति॥ अयं विशेषोऽयं विशेषीत्यादिव्यहारेत्यर्थः र॥ लक्ष्मणेत्यादि॥ रामावतारे शेषसनत्कुमारानिरुद्धाः लक्ष्मणाभरतशत्रुघ्नत्वेन, कृष्णावतारे बलप्रद्युम्नानिरुद्धत्वेन, शेषो नरत्वेन, शक्रादयोऽर्जुनादित्वेन च जातास्तेष्वित्यर्थः॥ स्वयमिति॥ कृष्णेन जीवचितो नित्यत्वाद्देहनाशस्यावर्जनीयत्वात् जीर्णपातस्य समीचीनलाभेन समाधानादित्यादियुक्तीरुक्त्वेत्यर्थः । अथ चेदिति श्लोके शोको न कार्य इत्यत्र को हेतुरुक्त इत्यतन्तं वदन् स हेतुरन्यत्रापि प्रवर्तत इति मूलार्थमाह॥ जननमरणनियमोऽत्रेति॥ अथ चेदिति श्लोक इत्यर्थ- । यद्वाऽत्रेति अथ चेदिति श्लोके तद्विवृत्तिपरोत्तरश्लोकद्वये चेत्यर्थः॥ प्रागिति॥ ’ नित्यः सर्वगतस्थाणुः ’ इत्यादावित्यर्थः॥ इत्युक्तमिति॥ नैनमिति श्लोके ईश्वरस्य तु देहस्यापि च्छेदादेरभावात् स्वातन्त्र्यमित्युक्तमित्यर्थः । क्वचिदिति॥ स्वातन्त्र्यबुद्धिः कार्येत्यनुषङ्गः॥ उक्तेति॥ ईशवरेति विहितस्वातन्त्र्योपसंहाररूपमित्यर्थः । तेन नैनमित्यादिना न पौनरुक्त्यमिति भावः॥ प्रतीतेरिति॥ वतिप्रत्ययेनेति भावः॥ सागरसमूह इति॥ वृद्धाच्छ इति छप्रत्ययो नाश्रितोऽणप्रत्यय एवाश्रित इति भावः । ततस्तत इत्यत्र ततः कारणात् ततो हरेरित्युपेत्याह॥ ततस्तदधीन इति॥ इत्युक्तस्येति॥ इत्यर्जुनेनोक्तस्य जयसन्देहस्येत्यर्थः । आज्जसेरसुगिति भावेनाह॥ शूरा इति॥ प्रधानेषु युद्धेषु ये तनुत्यजः । ’ ये वा सहस्रदक्षिणास्तंश्रिदेवापि गच्छतात् ’ इति श्रुतिशेषार्थमाह॥ ये च तत्रेयादिना॥ ययेऽपीति॥ ’ ये युध्यन्ते तानयं गच्छतात् ’ इति श्रवणादिति भावः॥ उक्तमिति॥ ’ न त्व नेमे ’ इत्यादिना यज्जीवतत्त्वस्वरूपमुक्तं तत् एषेति प्रथमपादेनोपसंहृत्य ज्ञानोपायनिरूपणप्रकारान्तरमारभ्यते आरम्भप्रतिज्ञा क्रियते द्वितीयपादेनेत्यर्थः । अनयोरपि निन्दितत्वे को विशेष इत्यत आह॥ अत्रोक्तयोरिति॥ न त्वैहिक इति॥ ऐहिकफले न हेतुत्वमङ्गीक्रियत इत्यर्थ-॥ अत्र पुनरिति॥ राज्यार्थमिति पदविभागः॥ सोपपत्तिकमिति । विरोधाभावलक्षणोपपत्तिसहितं पूर्वोत्तरप्रकरणोक्तार्थप्रतिपादकत्वरूपं धर्मान्तरमित्यर्थः । तेन ज्ञानोपायावेव साङ्ख्ययोगशब्दार्थौ नान्यौ पूर्वोत्तरोक्तार्थविरोधादिति भावः । निषिद्धपरित्यागशब्दार्थमाह॥ अन्यविषय इति॥ देवतान्तरविषयतया नानुष्ठीयत इत्यर्थ-॥ तद्वत इति॥ त्रैविद्यधर्मवतः॥ अर्थतः सिद्धमिति॥ स्वर्गगमनावधिरेव न नित्यनिरयप्राप्तिरित्युक्त्यार्थात् क्रमेण मोक्षं प्रतिपद्यत इति सिद्धमित्यर्थः॥ अस्यैव॥ भागवतस्यैव मोक्ष इति त्रैविद्यस्यैव स्वर्गममनावधित्वं किमुच्यत इति वाऽर्थः । यद्वाऽस्यैव त्रय्युक्तमर्मकारिण एव वेदवादित्वम् ’ वेदवादी स उच्यते ’ इत्यनेन किमुच्यत इत्यर्थः । अभिप्रेतमित्यनन्तरं येन भागवतत्रैविद्ययोरेव वेदवादित्वापात इति योज्यम् । अपौनुरुक्त्यायार्थभेदमाह॥ अनारम्भमित्यादिना॥ कारणपरित्यागेनेति॥ अव्यवसायबुद्धेर्यत्करणं तत्परित्यागेनेत्यर्थः । तथेत्यनन्तरं शेषमाह॥ विषयीकारीति॥ अन्त इति कस्य पदस्यार्थ इत्यत आह । अन्त इतीति॥ उक्तार्थेति॥ भगवदर्पणबुद्ध्या निष्कामकर्मानुष्ठानरूपोक्तविरुद्धतया यामिमामित्यादिना निषिद्धमित्यर्थः । इमं भूतलं हीनतरं नरकं वेत्यर्थ-॥ तदुक्तमिति॥ तदन्येषां विषय इक्युक्तमित्यर्थः॥ स्वाभाविकं विधीयत इति॥ तच्चायुक्तमित्यत आहेति योज्यम् । किं विधीयत इति पाठे तु यथाश्रुतमेव॥ अस्येति॥ तद्वशत्वस्येत्यर्थः॥ योगमातिष्ठोत्यादिविरोध इति॥ चतुर्थाध्यायोक्तगीतावाक्यविरोध इत्यर्थः॥ असङ्ग्रह इति॥ न च मुक्ता इति वाक्य इति योज्यम् । पर इति श्रवणादुक्तमपरमिति । सर्वमिदमित्यस्य वचनव्यत्ययेनार्थोक्तिरस्मिन् सर्वस्मिन्निति । अप्रकेतमविज्ञातम् । आः इत्यस्यार्थ आसीदिति । इदमग्र इत्यस्यार्थोस्याग्र इति । प्रपञ्चस्याग्र इत्यर्थः । आप इत्यस्यार्थः पालकवर्जित इति । बहुवचनं शब्दस्वभाव्यात् । अकारदैर्घ्यं छान्दसम् । आङ्पूर्वको वा । प्रकृतानुगुणतयाऽर्थमाह॥ सर्वोद्रिक्त इति॥ सर्वापेक्षयोद्रिक्त इत्यर्थः । त इत्युपलक्षणमिति भावेनाह॥ सर्वे जीवा इति॥ प्रतिज्ञाया अभावादिति॥ ऐक्यभावना न कार्येति प्रतिज्ञाया अभावादित्यर्थः । तदविनाभावद्युक्तेरिति भावः । भावानाभावप्रतिज्ञालाभार्थमाह॥ मनसेत्यर्थ इति॥ इत्युक्तमिति॥ दूरेणेति सूर्वार्ध इति योज्यम् । पूर्ववदिति॥ मा कर्मफलहेतुर्भूरित्यत्रेव मनसा मन्यन्त इति योज्यमित्यर्थ- । तथाचैक्यभावनां ये कुर्वन्तीत्यर्थलाभ इति भावः । यद्वा फलहेतुपदेन कथमैक्यभावनालाभः । येन तस्येदं व्याख्यानमित्यत आह॥ पूर्ववदिति॥ मा कर्मफलहेतुर्भूरितिवदित्यर्थः । फलहेतुरीश्वरः । ये मनसा फलहेतवो भवन्तीत्यर्थः । फलहेतुरीश्वरोऽहमिति मन्यमाना इति पुर्ववदित्यर्थः । कृपाया अविषयास्त इत्यर्थः । यद्वा कृपां प्रति विषयाः शोच्या इत्यर्थः । भाष्यमवतारयितुं बुद्धियुक्त इति श्लोके तस्मादित्युत्तरार्धमवतारयति॥ नन्विति॥ योगाय युज्यस्वेत्यस्यार्थो ज्ञानमापाद्यमिति॥ राहित्यादीत्यादिपदेन भगवज्ज्ञानादिग्रहः । इत्यत्रेति॥ श्लोके त्यागसमत्वयोरेव योगशब्दार्थत्वेनोक्त्या भगवज्ज्ञानस्य योगशब्दार्थत्वेनापरिग्रहादित्यर्थ-॥ अत्रापि॥ बुद्धियुक्त इति श्लोकेऽपीत्यर्थः॥ अपरोक्षेति॥ मनीषिपदोक्तापरोक्षेत्यर्थः॥ पूर्वत्रेति॥ एतच्छ्लोकार्थविवरणपूर्वकं बुद्धिमोहतरणपदोक्तं ज्ञानफलमुच्यते॥ श्रुतीति॥ योगस्थ इति श्लोकेऽपीत्यर्थः॥ अत्रापि यदा तदेति सम्बन्ध इति॥ श्रुतिमार्गमिति स्मृतावपीत्यर्थः । तुष्टपदस्य मूलेऽनुवादो व्यर्थ- इत्यतस्तस्य कृत्यमाह॥ कतो न जीवादिपरवित्यादिना॥ कारणफलपरिज्ञाने चेति॥ परम्परया नरकाद्यनर्थफलपरिज्ञाने च भीत्या तत्कारणरागादित्यादिर्बुद्धिर्भवति । तत्त्यागश्च परम्परया ध्यानादितत्कारणत्यागेन भवति । तत्त्यागश्च तज्ज्ञाने सति भवत्यतो रागादिकारणफले द्वाभ्यामाहेत्यर्थः । निर्णीतमित्यनुवादः केवलेत्यादि व्याख्या॥ उक्तलक्षणमिति॥ प्रजहातीति श्लोकचतुष्टये विक्षिप्योक्तं लक्षणं पिण्डीकृत्योच्यत इत्यर्थः । इति वचनविरोधादिति॥ सर्वकामनिवृत्तिस्तु ज्ञानतो न कथञ्चनेति प्रागुक्तवचनविरोधादित्यर्थः॥ उक्तेति॥ प्रजाहातीत्यादिनोक्तज्ञानिलक्षणमित्यर्थः॥ दुःसम्पादनत्वेनेति॥ कष्टसाध्यत्वेनेत्यर्थः । ईषद्दुसुषु कृच्छ्राऽकृच्छ्रार्तेषु खलिति खलन्तः॥ तद्भावे चेति॥ स्मरणाभावे चेत्यर्थः॥ कार्यब्रह्मेति॥ विरिञ्चव्यावृत्त्यर्थमित्यर्थ- । तस्यापि ’ स एनान् ब्रह्म गमयति ’ इत्यदौ ’ कार्यं बादरिः ’ इति सूत्रोक्तदिशा नपुंसकब्रह्मशब्दवाच्यत्वात् परब्रह्मप्राप्तेरेव मोक्षरूपत्वादिति भावः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते द्वितीयोऽध्यायः॥ २॥ ॥ अथ तृतीयोऽध्यायः॥ हरिः ॐ॥ इत्यन्तेनेत्यस्य निरूपितमित्यन्वयः । न त्वेवाहमित्यादिना ग्रन्थेनेत्यपि योज्यम् । कर्मणि ल्युडिति भावेनाह॥ ज्ञायत इति॥ ईश्वरादीत्यादिपदेन प्राधान्येन प्रकृतस्य जीवस्य प्रासङ्गिकवेददेशकालादेश्च ग्रहः । ईश्वरस्यापि युद्धगतत्वेन येषामनित्यत्वशङ्का तान्प्रति तस्यापि नत्वेवाहमित्यादिना प्राधान्येन प्रकृतत्वाद्योगे त्विमां श्रृण्विति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनेश्वरज्ञानोपायस्यैवोक्तत्वादीश्वरादीति स्वशब्देन तस्योक्तिः । अत एव तत्स्वरूपज्ञानोपायश्चोक्त इत्युक्तम्॥ कर्मध्यानयोगेति॥ कर्मरूपज्ञानोपाय ध्यानरूपज्ञानोपायभेदादित्यर्थः । नोभयं विनेत्यादि निषेधस्य प्रसक्तिमाह॥ साङ्ख्यानां ज्ञानेनेति॥ तरति शोकमात्मवित् अपाम सोमममृता अभूमेत्यादिश्रुतौ ज्ञानयोगेन साङ्ख्यानामित्यादिस्मृतौ चेत्यर्थः॥ न हीतीति॥ कर्ममात्राभावोऽसम्भवीति भावः॥ न सम्पूर्णेति॥ मुक्तौ स्वयोग्ययावदानन्दानुभवरूपेत्यर्थः । तस्य ज्ञानोत्तरकर्मसचिवज्ञानसाध्यत्वादिति भावः । तदेव वाक्यमन्यथाऽपि योजयति॥ तर्ह्यस्त्विति॥ अनेनेति॥ न च ज्ञानं विनेत्यादिकथनेनेत्यर्थः । अस्मिंल्लोके संसारे ज्ञानेन साङ्ख्यानां कर्मणा योगिनां निष्ठा नितरां स्थितिर्न तु मुक्तिरिति भ्रान्तः शङ्कते॥ भवेदत्रेत्यादिना॥ न च तदत्रेति॥ समुच्चयस्य पुरुषार्थहेतुत्वमित्रर्थः॥ चोद्येति॥ भवेदित्यादिना कृतचोद्येत्यर्थः॥ स्वानधीनमिति॥ जीवानधीनमितयर्थः॥ ज्ञानरूपत्वादिति॥ स्वरूपस्यैव सर्ववस्तुज्ञत्वादित्यर्थः । इगुपधज्ञाप्रीकिरः क इति कर्तर्येव कप्रत्ययविधानात्॥ हेत्वन्तरमिति॥ सहयज्ञा इत्यादि श्लोकचतुष्टयोक्तार्थवादरूपहेतुश्चक्रप्रवर्तकत्वरूपहेत्वन्तरमित्यर्थः । अन्यार्थकल्पनां चेति॥ ब्रह्माक्षरशब्दयोर्वेदपरब्रह्मार्थताकल्पनमित्यर्थः॥ स्मृत्युक्त योगं शब्दरूढं दर्शयति॥ परमिति॥ उत्तममित्यर्थः । परपदान्तलोपो निरुक्तत्वादिति भावः॥ हेत्वन्तरेणेति॥ व्याख्यानरुपस्मृतिविरोधापेक्षया प्रत्यभिज्ञाविरोधरूपहेत्वन्तरेणेत्यर्थः॥ अनुपयुक्तत्वादिति॥ स्वपक्षे तूक्त उपयोग इति भावः॥ उत्पत्त्यभावादिति॥ वेदस्य नित्यत्वादिति भाव-॥ भूतेभ्य इति॥ चक्रसिध्यर्थमक्षरं भूतोद्भवमिति वाच्यम् । न ह्यक्षरशब्दितं ब्रह्म भूतैरुत्पद्यत इत्यर्थः॥ अर्थान्तरकल्पन इति॥ परमेश्वरवाक्यभूताद्वेदाख्यात् ब्रह्मण- पुरुषाणां कर्मणि प्रवृत्तिः । ततः कर्मनिष्पत्तिः । ततः पर्जन्यः । ततोऽन्नम् । ततो भूतानि । भूतानां च कर्मप्रवृत्तिरित्येवं कल्पन इत्यर्थ- । आदिपदेन परब्रह्मग्रहः । नन्वक्षरं भूतसम्भवमित्येवास्तु । सम्भवशब्देन व्यक्तिर्गृह्यतामित्यत आह॥ व्यक्त्यर्थेति॥ अर्थभेदाच्चेति॥ कृतकृत्यत्वप्रीतिरूपार्थभेदाच्चेत्यर्थ- । कर्मैवाचरन्नित्यर्थाभिप्रायेणाह॥ कर्मणैव मोक्षेत्यादिना॥ उक्तत्वादिति॥ सहयज्ञा इत्यदि न कर्मयोगेन योगिनामित्यादिना वेति भावः । पूर्वोत्तरार्धयोत्सङ्गतत्वायाह॥ तेषामिति योज्यमिति॥ हेत्वन्तरमुच्यत इति॥ आचारापेक्षया लोकहङ्ग्रहरूपहेत्वन्तरमित्यर्थः । ’ इत्यस्येत्यस्येति द्वयमपि समानाधिकरणम्॥ सक्त्यसक्तिपूर्वकत्वविशेष उक्त इति॥ सक्ता इति श्लोक इति ज्ञेयम् । सन्न्यस्येत्यस्य त्यक्त्वेत्यर्थं मत्वाऽऽह॥ व्याहतमिति॥ निर्ममत्वमिति॥ नाहं कर्तेत्यनेन निर्ममत्वं व्याख्यातमित्यर्थः । मत्कृता पूजेत्यनन्तरं शेषमाह॥ तत्पूजेत्यादिनिरूपणं युक्तमिति॥ तद्भक्तिरित्यनेन निरशीत्वं व्याख्यातमित्यर्थः । कर्मन्यास इत्यस्य विशेषणमाह॥ निर्ममत्वनिराशीस्त्वयुक्तः इति॥ इत्यादि विभागेनेति । यत्र जीवस्यैव कर्तृत्वमुच्यते तत्र पराधीनकर्तृत्वं, यत्र प्रकृतेरेव कर्तृत्वमुच्यते कार्यते ह्यवशः कर्म सर्वैः प्रकृतिजैर्गुणैरित्यादौ तत्र विकाररूपकर्तृत्वमिति ध्येयमित्यर्थः । नास्तीत्यादि विघागेनेति॥ यत्र जीवस्याकर्तृत्वमुच्यते कर्तृत्वं न कर्माणि इत्यादौ तत्र स्वकीयं स्वतन्त्रकर्तृत्वं नास्ति, यत्र तु प्रकृतेः कर्तृत्वं नेत्युच्यते तत्र ज्ञानेच्छापूर्वककर्तृत्वं नास्तीत्येवंरूपेण ज्ञेयमित्यर्थः । प्रकृतेरित्यादिव्याख्यानपरं स्वभात इत्यादिस्मृत्यनन्तरं यस्मादिति स्मृतिः पठनीया । व्याख्येयगीतावाक्यानुसारादित्यत आह॥ मयीत्यादीत्यादिना॥ उपयोगित्वादिति॥ यस्मादिति स्मृत्युक्तत्रिविधकर्तृत्वस्य प्रकृतेरिति वाक्येऽभिमतत्वादिति भावः । व्यख्यानोपयोगं व्यनक्तिः॥ प्रकृतेरित्यादाविति॥ अहङ्कारेत्युत्तरार्धेनेति योज्यम् । इत्यादीत्यस्य पीठिकारचनमित्यन्वयः । कार्यते ह्यवशः कर्मेत्यादीना साक्षाद्व्याखयानायेत्यर्थः॥ जयादीनाम्॥ जयविजयादीनां हिरण्याक्षरावणादित्वादिरूपेणान्यथाभावदर्शनादित्यर्थ- । मिश्रिता इति॥ स्वाभाविकतत्त्वज्ञानमिथ्याज्ञानोभयरूपा गुणा इत्यर्थः॥ इत्यादि योज्यमिति॥तत्त्वज्ञानं स्वभाविकं, भक्तिः स्वाभाविकीत्येवं योज्यमित्यर्थः॥ ततश्चेति॥ मिथ्याज्ञानादिगुणानां स्वाभाविकत्वतश्चेत्यर्थः॥ किञ्चात इति॥ अतश्च किमित्यर्थः॥ इत्यादीति॥ यस्य मध्यमगुणास्तानपेक्ष्य सदसत्कर्मणी कारयति यस्याधमा गुणास्तानपेक्ष्यासत्कर्म कारयतीत्यर्थः॥ विष्णुनेत्यनुवादः विष्णोरित्यादिव्याख्या॥ तैः सम्मूढा इति॥ मिश्रगुणैस्सम्मूढाः॥ अभाव इति॥ ज्ञानादेरिति योज्यम् । विपरिणामेनार्थमाह॥ विष्ण्वधीनानिति॥ स्वभावेति॥ स्वभावानुगतिचेष्टिताया उपरतिरित्यर्थः । प्रश्नकरणे प्रसक्तिं दर्शयति॥ तयोरित्यादिना॥ उक्तत्वादिति॥ प्रकृष्टकृतिमत्त्वहेतुना हरेरपि प्रकृतिशब्दार्थत्वोक्तेरिति भावः । सिद्धप्रश्नत्वनिरासायाह॥ इति शेष इति॥ नैतदिति॥ कामाद्यधमप्रेरकेष्वेव बलवत्प्रेरकप्रश्नो न तूत्तममधयमप्रेरकेश्वरदेवेष्वित्येतदित्यर्थः॥ उक्तार्थेऽपीति॥ परमेश्वरादित्याद्युक्तार्थेऽपीत्यपिशब्दः । श्लोकव्याख्यानसमुच्चयेऽपिशब्दः॥ काम इत्यस्येति॥ परिहारश्लोकस्येत्यर्थः॥ इत्यादीति॥ आदिशब्दाद्दर्पणे मलं कल्मषं यथाऽधिकमावृणोति आधमं जनं गर्भमुल्बमिवात्यन्तमावृणोतीति द्रष्टव्यमित्यर्थः॥ इन्द्रियाणीत्यादेरिति॥ इत्यादेः श्लोकद्वयस्येत्यर्थः । आदिपदार्थमाह॥ एवं सरस्वत्या इति॥ विज्ञानाभिमानित्वेति॥ न चेतरदित्यस्यार्थो न तूत्तमाभिमन्यमानत्वेनेत्यादि । इत्येतदुक्तं भवतीत्यंशस्यार्थमाह॥ अस्तीत्येतदिति॥ तदित्यस्य प्रदिपदं तत्रेति॥ तस्यार्थ आपा इति चोद्य इति॥ ऐतरेये आपा इत्याप इति खण्डे रमादेव्या देवानां आप इति नाम कथमिति कृतचोद्ये देवानां भगवत्पुत्रत्वात् पितुर्भगवत आप इति नामवाच्यत्वात्पुत्राणामपि तदेव नामेति समाधानमनेन वाक्येनोक्तं भवतीत्यर्थः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते तृतीयोऽध्यायः॥ ३॥ ॥ अथ चतुर्थोऽध्यायः॥ हरिः ॐ॥ विवृत्वादिति॥ न कर्मणामनारम्भादित्यादिना कर्माकरणं विनिन्द्य नियतं कुरु कर्मेत्यादिना विवृतत्वादित्यर्थः । अर्थसङ्क्षेपं बुद्ध्वा सङ्कते॥ पञ्चरात्रसङ्क्षेपश्चेदिति॥ प्रागुक्तानुपपत्तिरिति॥ साक्षादिन्द्रावतारमुत्तमाधिकारिणमात्मनः प्रियतममर्जुनमित्यनेनोक्तस्य तथा पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतमित्युक्तस्य ज्ञानित्वस्य चानुपपत्तिरित्यर्थः । भवत इति षष्ठ्यन्तम् । तवेत्यर्थः । श्रुत्यादिविरोधस्योक्तत्वादिति॥ द्वितीये अन्तवत इम इत्येतद्व्याख्यावसरे उक्तत्वादित्यर्थः । यद्वा नैनं छिन्दन्तीत्यादिव्याख्यावसरे सदेह इत्याद्युदाहरणादिति भावः । एष सृष्ट्यादीच्छारूपो व्यापारो देवस्य स्वभाव इत्यर्थमुपेत्यायमित्यस्यार्थमाह॥ स स्वभावश्चायं देव एवेत्यादि॥ अन्यार्थत्व इति॥ प्रसिद्धप्रकृतिमात्रार्थत्व इत्यर्थः॥ नानिष्टमिति पदविभागः । मत्समर्पणेनेत्येतदनुवादपूर्वमन्तपदाध्याहारमाह॥ मत्समर्पणेन अन्त इति शेष इति॥ राजसास्तु नरास्तत्र विप्रा इत्यन्तिमाधयायतात्पर्यानुरोधादाह॥ राजससात्त्विकेष्विति॥ न वर्णमात्रलक्षणमिति॥ किन्तु सात्त्विकत्वं वैष्णवलक्षणं तामसत्वं भगवद्द्वेषिलक्षणमिति योज्यम् । स्वभाविकेति॥ स्वरूपतो यो ब्राह्मणादिर्न तु योनिकृत इत्यर्थः॥ प्रसिद्ध इति॥ सर्वव्यापारोपशमरूपो वा भगवदेकनिष्ठतारूपो वेत्यर्थः । तर्हि क इत्यत आह॥ अपि तु विष्णुभक्तिरिति॥ एवंविधेति॥ भिन्नाधिकरणकर्तृत्वाकर्तृत्वयोरित्यर्थः । मामित्यनुक्तौ कथमभेदशङ्का, तदुक्तौ तु कथं तन्निरास इत्यतो द्वयमपि व्यनक्ति स्वस्येत्यादिना॥ ननु रषाभ्यां नो षः समानपद इति सूत्रे समानपदे एकस्मिन्नेव पदे रेफषकाराभ्यां परस्य नस्य णत्वं भवतीत्युक्तेरिह च कर्मशब्दनशब्दयोरेकपदस्थत्वाभावात्कथं णत्वमित्यत आह । अनमानपदस्थस्येति॥ हे इन्द्र नो ब्रह्म उपयाहीत्यत्र ब्रह्मपदात्परस्य नस्य णत्वं दृष्टम् । तद्वदत्रेत्यर्थः । छान्दसं णत्वमिति भावः॥ इत्यादेरिति॥ द्वितीयपादादेरपि विकर्म णः नः मत्तः भवतीत्यादिरूपेणेत्यर्थः॥ सकारान्त इतीति॥ करः कर्मविधिरस्मिन् जीवे मीयते विषयीक्रियते इत्यर्थे निरुक्तत्वादुपपदटिलोतः । माङ् मान इत्यतः कनिन्नित्युक्तं भवति॥ अनेनेति॥ करःशब्दस्य कर्मविधिवाचित्वकथनेनेत्यर्थः॥ करो मीयत इति॥ कर्मविधिर्मीयते ज्ञायत इत्यर्थः । भाष्योक्तदिशा श्लोकावतारिकामाह॥ न केवलमिति॥ अज्ञानां ज्ञानिनां चैवेत्यादाविति॥ अज्ञानां ज्ञाननिनां चैव मुक्तानां शरणं हरिरित्यादौ द्वितीयाध्याये तात्पर्ये॥ तस्य चार्थस्येति॥ स्वातन्त्र्याभिमानविषयस्यार्थस्येत्यर्थः॥ अनिरूप्येति॥ अविज्ञाप्येत्यर्थः॥ अविज्ञायेति चार्थः॥ तत्प्रपञ्च्यत इति॥ यज्ञार्थमुक्तरूपहोमाद्याचरणमित्यर्थः॥ पूर्वसङ्गत इति॥ प्रपञ्चरूपूर्वसङ्गतिमापन्नेत्यर्थः॥ पूर्वसङ्गतत्वेनेति॥ यज्ञभेदोक्तिपरत्वेनेत्यर्थः । यद्वा ब्रह्मार्पणमिति पूर्वसङ्गतत्वेनेत्यर्थः । एवमग्रेऽपि । धनुषीत्येतद्विषयसप्तमी विद्योपलक्षणमिति भावेनाह॥ धनुर्वद्याविषय इति॥ प्रतीत एवार्थ इति॥ ज्ञानानन्तरं कर्म नैवेत्येवंरूपः॥ उक्त्वेति॥ श्रेयान् द्रव्यमयाद्यज्ञादित्यनेनोक्त्वेत्यर्थः । अथो इति पदं समुच्चयार्थमिति भ्रान्त्याऽऽह॥ एवं चेदिति॥ तद्वत्त्वेति॥ परमात्मवत्त्वसाम्यादित्यर्थः । हरेः सर्वन्तर्यामित्वादिति भावः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते चतुर्थोऽध्यायः॥ ४॥ ॥ अथ पञ्चमोऽध्यायः॥ हरिः ॐ॥ समुच्चित इति॥ दलद्वययुक्तः कर्मयोगः तत्ते कर्म प्रवक्ष्यामीति प्रतिज्ञाय कर्मणो ह्यपीत्यादिना निरूपित इत्यर्थः॥ योगेति॥ भगवदर्पणबुद्ध्या कर्मानुष्ठानं योगः । कामवर्जनं सन्न्यासः॥ इत्यादावुक्तमिति॥ योगस्थः कुरु कर्माणि इत्यादिना हितीयोक्तस्य तृतीय चतुर्थयोः प्रपञ्चनादित्यादावुक्तमित्युक्तम् । पूर्वोत्तरगीतार्धयोरभिप्रायमाह॥ उभयोरिति॥ अथ स्वरूपेति॥ एतेन द्वयोर्निःश्रेयसकरत्वमुक्त्वाऽन्यतरवैशेष्योक्तिरयुक्तेति निरस्तम्॥ असम्भवादिति॥ भगवदर्पणबुद्ध्याऽनुष्ठानस्य कामादिवर्जनाभावे अयोगादित्यर्थः । अत्रेत्यनुवादः सन्न्यस्तेत्यादि व्याख्या॥ त्यागस्य पृथक्त्वेनोक्तेरिति॥ सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा इत्यष्टादशोक्तेरित्यर्थः॥ पृथगुक्तिरिति दशमस्कन्धे । अधिकारपदेप्रयोगतात्पर्यमाह॥ ज्ञानमार्गमित्यादिना॥ अत्र स्मृतीति॥ ज्ञानं विना न कर्मणः सम्यगनुष्ठानं कर्मणा विना ज्ञानस्य सम्पूर्णफलसाधनत्वाभाव इत्यत्रेत्यर्थः । यद्वा ज्ञानकर्मणोरन्योन्यसाहित्येनैव सम्यक्त्वमित्यस्मिन्नर्थ इत्यर्थः॥ युक्त्यादीति॥ उभाभ्यां सम्पाद्यज्ञानकर्मणोः सम्यक्त्वान्यथानुपपत्तरूपयुक्तिस्मृतिसिद्धत्वादित्यर्थः॥ उत्तरार्धव्याख्याआनमिति॥ मोक्षेति प्रथमपादेन योगपदार्थस्य योगयुक्तो मुनिरुत्यस्य पादद्वयेन ब्रह्मेत्यादेर्व्याख्यानं भद्र इत्यनेन कृतमित्यर्थः॥ पूर्वार्धस्येति॥ अन्यो न्यासः भद्रो न्त्युक्त्या तद्व्याख्यानं स्पष्टमेव॥ तदिति॥ पूर्वार्धव्याख्यानमित्यर्थः॥ न कार्यमिति॥ बुद्ध्या कृतो योग इत्यर्थः॥ वक्ष्यमाणत्वादिति॥ उत्तराध्याय इति योज्यम्॥ अन्यथेति॥ आधानपदस्याकरणार्थत्वाङ्गीकार इत्यर्थः॥ सर्वकर्माणीत्यने नेति॥ उपरितनतृतीयश्लोकेनेत्यर्थः॥ अनेनेति॥ क्रियायामदृष्टे चेति कर्तृत्वमर्मशब्दयोरर्थभेदकथनेनेत्यर्थः । सर्वात्मनेत्यस्य पूर्वत्रोत्तरत्र चान्वयः॥ स्वभावत्वादितीति॥ स्वस्थितावन्यकरणे च परानपेक्षत्वादित्यर्थः॥ शेषमाह॥ भवेद् ब्रह्मण इति॥ उपनिषदामिति॥ सत्यं ज्ञानमनन्तमित्येवमादीनामित्यर्थः॥ व्यावृत्तेरित्यस्य निबन्धनत्वपदेनान्वयः॥ तद्व्यावृत्तिप्रसङ्गादिति॥ असद्व्यावृत्तिप्रसङ्गादित्यर्थः॥ असम्भवस्योक्तत्वादिति॥ व्यावर्त्यविशेषश्चेत्येतद्व्याख्यावसर इति भावः॥ अनेनेति॥ नास्तित्वं त्वित्यादिभाष्येणेत्यर्थः । ब्रह्म नास्तित्ववत् केनापि प्रमाणेनास्तित्वानुपलम्भान्नरश्रृङ्गवदिति सूचितमित्यर्थः॥ दूषितत्वादिति॥ सत्त्वादिधर्मबोधनं विना तद्विरोधीतरव्यावृत्तेरसम्भवेन ब्रह्मणोऽवाच्यस्य लक्ष्यत्वायोगेन च दूषितत्वादित्यर्थः । तदेव वाक्यं पुनः प्रकारान्तरेणावतारयति॥ भगवतः कर्तृत्वाभावादीति॥ दुष्टत्वादित्यस्य इति मतस्येत्यनेनान्वयः॥ विपरीतज्ञानस्येति॥ विषमेषु ब्राह्मणादिषु समत्वज्ञानस्येत्यर्थः॥ साधितत्वादिति॥ द्वितीयेऽध्याय इति योज्यम्॥ ब्रह्मयोगादीति॥ स ब्रह्मयोगयुक्तात्मेत्यत्रत्यब्रह्मयोगपदेनेत्यर्थः । आदिपदेन ब्रह्मणि स्थितो ब्रह्मभूत इत्यादेर्गृहः । मुक्त एवेत्यनूद्योच्यत इति शेषमाह॥ इति शेष इति॥ यद्वा मुक्तिगत इत्यनन्तरं मुक्त एवोच्यत इति शेषोक्तिः । दुर्गमत्वात्तच्छब्दार्थं व्यनक्ति॥ यस्मादिति॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते पञ्चमोऽध्यायः॥ ५॥ ॥ अथ षष्ठोऽध्यायः॥ हरिः ॐ॥ प्रतिज्ञातमिति॥ द्वितीये योगवचनं प्रतिज्ञातमित्यर्थः॥ कर्मयोगः॥ कर्मरूपज्ञानोपाय इत्यर्थः॥ सङ्क्षेपेति॥ त्रैगुण्यविषया इत्यादिना द्वितीये सङ्क्षेपेण तृतीयादौ विस्तरेण निरूपित इत्यर्थः॥ पञ्चमान्त इति॥ स्पर्शान् कृत्वा इत्यादिनेति योज्यम्॥ कर्मयोगमध्य इति॥ कर्मरूपोपायमध्य इत्यर्थः॥ इत्युक्त्वाति॥ पूर्वोर्धेनेति योज्यम्॥ कर्मोपशमः॥ कर्मत्यागः॥ योगस्थेनापि सा कार्येत्युपेत्य शङ्कते॥ योगस्थेनापीति । भगवद्ध्यनादिकं चेति॥ शमपदेनोच्यत इत्यनुषङ्गः॥ पूर्वोक्तेति॥ न निरग्निक इत्याद्युक्तेत्यर्थः॥ सन्न्यस्येत्यत्रेति॥ तृतीय इति योज्यम्॥ योगारोहस्येति॥ उपायसम्पूरित्यर्थः । यदा हि नेन्द्रियार्थेष्वित्यत्र लक्षणस्योक्तत्वादाह॥ प्रपञ्च्यत इति॥ यदेत्यादिनेति । अनेकश्लोकग्रहणायादिपदम्॥ अन्यथेति॥ आत्मपदस्य जीवादिविषयत्व इत्यर्थः॥ अन्यार्थप्रतीतीति॥ ऐक्यार्थप्रतीतीत्यर्थः । आत्मशब्दः परमात्मार्थ इत्यत्र ज्ञापकमाह॥ भोक्तारमितीति॥ पञ्चमान्ते सङ्क्षेपेण ध्येयत्वोक्तावित्यर्थः॥ उपपाद्यत इति॥ कैमुत्यन्यायेनेति भावः॥ आभक्तय इत्यस्य पुरुषपरत्वलाभायाह॥ न भक्तिर्येष्विति॥ तत्रापीति॥ भक्तेष्वपीत्यर्थः॥ भजते सेवते॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते षष्ठोऽध्यायः॥ ६॥ ॥ अथ सप्तमोऽध्यायः॥ हरिः ॐ॥ पूर्वोक्तमिति॥ पूर्वाधयायादावुक्तमित्यर्थः॥ भक्त्यर्थमिति॥ माहात्म्यज्ञानपूर्वकस्नेहरूपत्वाद्भक्तेरिति भावः॥ नोक्तमिति विभगः । अत्राध्याय इति अत्र सप्तमे इति वा नोक्तमित्यर्थः॥ लिप्सेति॥ लाभेच्छा । आदरजननायेति यावत्॥ इति व्याख्यातमिति॥ शेषोक्त्येति भावः॥ इति प्रत्येकमन्वयः॥ परावरादिनेति॥ परेणावरेणावरतरेण परतरेण च भाव्यमित्यर्थः । अभावादन्तरान्यस्येत्येतद् द्वेधा योजयति । न त्वसावित्यादिना॥ व्याख्यातमिति॥ चेतनरूपामिति व्याख्यातमित्यर्थः । इत्यस्येत्यस्य एवमित्यनुवादः॥ श्र्यादीनां परत्वादिज्ञानेनेति व्याख्या॥ लिप्सेति॥ आदरेत्यर्थः॥ तारतम्ये वेति॥ तारतम्यं स्यादिति प्रागुक्ततारतम्ये वेत्यर्थः । भाष्योक्तदिशाऽऽह॥ विज्ञानप्रदर्शकमिति॥ गन्धयतीत्यस्यार्थान्तरमाह॥ पुण्यगन्धप्रदत्वाच्चेति॥ प्रेरकत्वात्॥ बीजप्रेरकत्वादित्यर्थः॥ अर्थान्तरमिति॥ बलपदस्येति योज्यम्॥ अनुवाद इति॥ तथाच न पुनरुक्तिरिति भावः॥ अत्रापीति॥ पुर्णरतित्वपूपबलपदार्थेऽपीत्यर्थः । पूर्ववदिति॥ रसयतीत्यादौ तत्प्रेरकत्वं यथोक्तं तथा हरिः पुनर्न धर्महानिकृदित्यादि कामपदार्थे धर्माविरुद्घेच्छाप्रेरकत्वाच्च धर्माविरुद्धकाम इति योजनेति भावः । अप्सु स्थित्वा रसयतीत्यादेः फलितार्थपरस्मृतिशेषार्थमाह॥ अप्सु रस इत्यादिव्यवस्थयेति॥ अपां सरः पृथिव्या गन्धः शशिसूर्ययोः प्रभेत्येवं व्यवस्थयेत्यर्थः । गीतामवतारयति॥ न केवलमिति॥ भूभूधरवदिति॥ भूमेः पर्वतानां चान्योन्याश्रयभावस्तथेत्यर्थः॥ वैलोम्येनेति॥ पूर्वापरभावेनेत्यर्थः । लक्ष्म्यां मायाशब्दनिर्वचनपरं तन्मेयत्वादिति पदम्॥ तदर्थमाहि॥ विष्णुनैवेति॥ माङ् मान इत्यतः कर्मणि यप्रत्यये स्त्रीत्वात् टाप्प्रत्यत इति भावः । सक्ष्म्या चेति॥ जडप्रकृत्या समुच्चयाय चशब्दोऽध्याहृतः॥ अनेनेति॥ अचेतनयेत्यादिग्रन्थेनेत्यर्थः । उपादानोपादेययोरभेदाद्वा प्रकृत्येत्युक्त्या तन्मयोपलक्षणाद्वा त्रिभिरित्यादेरर्थ उक्तो भवतीत्युक्तम् । इति शङ्कानिवारकस्येति॥ प्रकृतिद्वयं निमित्तीकृत्य हरिरेव मोहक इत्युक्त्यातन्निवारणमिति भावः॥ सामानाधिकरण्येति॥ एका भक्तिर्यस्येति विग्रहाङ्गीकारे स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे, स्त्रियामपूरणीप्रियादिण्विति सूत्रे प्रियादिषु परतो न पुंवद्भाव इति निषेधाद्भक्तिपदस्य च प्रियादिषु पाठात् पुंवद्भावाप्राप्तावेका भक्तिरित्येव समासेऽपि प्राप्तेतीत्यर्थः॥ इत्याद्युक्तार्थमिति॥ आप्नोतीत्यात्मेति व्युत्पत्त्या मे आत्मा मम प्राप्तिमानित्युक्तार्थमित्यर्थः॥ तुशब्दस्येति॥ ज्ञानी त्विति तुशब्दस्येत्यर्थः॥ मिश्रयाजिनां त्रिदिवभूगोचरत्वेन वक्ष्यमाणतमःप्राप्तेरयोगादाह॥ वैपरीत्येनेति॥ विधिवैपरीत्येनेत्यर्थः । अज्ञानमात्रेण तमःप्राप्तेरयोगादाह॥ विपरीतं ज्ञात्वा चेति॥ कारणान्तरं चेति॥ अज्ञकुले जातत्वापेक्षया कारणान्तरं च भगवद्ज्ञानराहित्यमिति योज्यम्॥ इति शेष इति॥ तस्य जानीयादित्यन्वयः । तेन विष्णुतत्वं चेति चशब्दोपपत्तिरिति भावः॥ तद्विषयज्ञानेति॥ अन्यदेवताविषयकज्ञानस्तवननमनादीत्यर्थः । तस्यैवेति कुत इत्यत आह॥ केषाञ्चिदिति॥ इदं चेति॥ विष्णुतत्त्वज्ञानानन्तरमन्यदेवतार्चनमित्यर्थः॥ नित्यत्रैविद्यानामिति॥ विष्णुं ज्ञात्वाप्यन्यदेवतार्चनात्यागिनां जन्मादिफलसत्वादित्यर्थः । शङ्कते । प्राचीनेति॥ उत्तरेति॥ विष्णुतत्त्वज्ञानोत्तरकालीननान्यदेवतार्चनापेक्षयेत्यर्थः । शङ्कते । स्वत इति॥ कारणविशेषेति॥ क्षुद्रफलाकाङ्क्षादिरूपेत्यर्थः॥ इत्युपलक्षणमिति॥ तस्मिन्नपि जन्मनीत्यस्येति योज्यम्॥ अनेनेति॥ अत्यागे चेत्यादि ग्रन्थेन स्वतः शुद्धभागवतरूपो विषय उक्त इत्यर्थः॥ उक्तार्थमेवेति॥ आत्मपदं प्राप्त्यर्थकमेवेत्यर्थः॥ उद्दिश्येति॥ एतेन गतिमित्युद्देश्य द्वितीयेत्युक्तं भवति॥ उक्तात्मेत्यस्यार्थो भगवन्तमुपासीनस्येति॥ मामास्थित इत्यस्यार्थः॥ तत्प्राप्तेरिति॥ एतद्योजितमिति॥ वासुदेवस्सर्वमिति वाक्यं पूर्णं वस्तु यत इत्यादिप्रमाणेन योजितमित्यर्थः । तदर्थं फलं च स्मृत्यैवाहेत्यन्वयः । फलोक्तौ हेतुः पूर्ववदेवेत्यादि । पूर्वेषां भागवतानां त्रैविद्यानां च देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपीति भगवत्प्राप्तितदन्यप्राप्तिरूपं फलं यथोक्तं तथा तेषां द्वेषिणां फलस्यानुक्तत्वादित्यर्थः॥ एतदुच्यत इति॥ यथावद्भगवत्स्वरूपाज्ञानित्वं तेषामुच्यत इत्यर्थः । केन हेतुना जीवेश्वरौ व्यक्ताव्यक्तशब्दवाच्यावित्यत आह॥ सर्वात्मनेति॥ उक्तशङ्केति॥ इच्छेति श्लोकावतारिकायामुक्तशङ्केत्यर्थः । शङ्कानिरासप्रकारं स्वयं व्यनक्ति॥ सत्यमित्यादिना॥ अवान्तरकारणत्वं व्यनक्ति॥ सर्गकालमिति॥ इत्यत उच्यत इति॥ फलमुच्यत इत्यर्थः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते सप्तमोऽध्यायः॥ ७॥ ॥ अथ अष्टमोऽध्यायः॥ हरिः ॐ॥ इत्युक्तव्याख्यानप्रसङ्गेनेति॥ एतेनोक्तव्याख्यानमेवाध्यायस्यार्थः । अन्यत्तु प्राहङ्गिकमिति अनेकार्थकत्वकृताध्यायभेदशङ्का न कार्येति सूचितम्॥ तदुपायेति॥ स्मरणोपायेत्यर्थः । एतावानर्थः प्राप्तिपदेन कथं लभ्यत इत्यत आह॥ अन्तकालेत्यादि(ना)॥ इत्यादेरिति॥ स्मृतेरिति शेषः । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते इत्यादिरादिपदार्थः॥ भगवन्मात्रवृत्तित्वादिति॥ तेदव ब्रह्म परममित्यादिश्रुतिरिति भावः॥ प्रकृतीत्यादि॥ मम योनिर्महद्ब्रह्म, तेन ब्रह्महृदा, ब्रह्माणि जावाः सर्वेऽपि इत्यादेरिति भावः॥ इत्युपरीति॥ अस्मिन्नेवाध्याये । संशयपदात्पूर्वं स्थलद्वये शेषमाह॥ इत्यत्र च इति प्रतीत्या जात इति शेष इति॥ तारतम्यस्येति॥ के वा युक्ततमा मता इत्यनेनेति भावः॥ प्रकृते त्विति॥ अक्षरं ब्रह्म परममित्यत्रेत्यर्थः॥ मामित्यनेनेति॥ साधिभूताधिदैवं मामित्यनेनेत्यर्थः॥ एतेनेति॥ साहित्योक्त्या प्राप्तेरुक्तत्वेनेत्यर्थः॥ अनेनेति॥ साहित्यनिर्वाहायाधियज्ञाख्यरूपस्य सर्वप्राणिदेहगतरूपान्तरत्वकथनेनेत्यर्थः । देहे इत्युक्त्यैव तल्लाभादिति भावः॥ कथं तदुक्तिरिति॥ अक्षरं ब्रह्मेत्युक्तिः किं ब्रह्मे(त्युक्त)ति प्रश्नस्य कथमुत्तरमित्यर्थः । पुरुप्राणा विश्वचेष्टा भवतीति विश्वप्रेरिकेति यावत्॥ इति भगवल्लक्षणोक्त्येति॥ अत्रैवोपरीति ज्ञेयम्॥ भघवदभिन्नत्वेनोक्तत्वादिति॥ तथा चाधियज्ञाभिन्नस्य भगवतः कवित्वादिप्रकारोक्त्या तदभिन्नोऽधियज्ञोऽपि कवित्वादिप्रकारोपेत इति लाभादिति भावः॥ तत्प्राप्तिरेव भवतीति॥ अन्यवस्तुप्राप्तिरेव भवतीत्यर्थः॥ अप्रारब्धेति॥ प्रारब्धेतरसञ्चितागामिकर्मणां यथाक्रमं नाशाश्लेषेत्यर्थः । तदधिगम उक्तरपूर्वाधयोरश्लेषविनाशाविति सूत्रादिति भावः॥ भोगेनेति॥ भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यत इति सूत्रादिति भावः॥ अनेनेति॥ इत्युक्तत्वादिति मूलवाक्येन । युक्तचेतसोऽपरोक्षज्ञानिनः । तद्ब्रह्म विदुर्व्याप्तं तद्रूपं पश्यन्तीत्यर्थ इति भावः॥ तथा कथमुच्यत इति॥ अन्तकालस्मरणसाधनतया कथमुच्यत इत्यर्थः । आब्रह्मभवनादित्यस्यार्थानुवादो ब्रह्मभवनमारभ्येति । सत्यलोकगतब्रह्मभवनस्य जनलोकादुपरितनत्वादिति भावः॥ अनेनेति ।थ। स्मृतिवचनेनेत्यर्थः॥ नैतदयुक्तमिति॥ आब्रह्मभवनात्पुनरावर्ति न इत्येतदयुक्तं नेत्यर्थः॥ अल्पजननादीति॥ कार्त्स्न्येन जननमृत्योरभावेऽप्यंशेन तयोर्भावादित्यर्थः॥ एतद्वाक्यस्य चेति॥ आब्रह्मभवनादिति वाक्यस्य च तदर्थत्वादंशेन पुनरावर्ति इत्यर्थकत्वात्॥ यद्वा आजनान्नजनिर्भूवीत्येतद्वाक्यस्य च कार्त्स्न्येन जनिरूपमुख्यजनिर्नास्तीत्यर्थः॥ द्विपरार्धात्मकेति॥ ब्रह्मण आयुःशतं परसञ्ज्ञकं तस्यार्धद्वयात्मकेत्यर्थः॥ तेऽर्चिषमभिसम्भवन्तीति श्रुतिः । अर्चिरादिनेति तु सूत्रम् । अर्चिर्ज्योतिःपदयोरेकार्थत्वात् ज्योतिषः प्रथमप्राप्यतयेत्युक्तम् । मूलोक्तश्रुतेः पूर्वशेषमाह य एवमित्यादिना॥ अथेत्यादेरर्थो दक्षिणायन इत्यादि । अतो वा इत्यादेरर्थः पुनर्ज्ञानिन इत्यादि । सूर्यचन्द्रमसोरिति लेखकदोषमूलोऽयं पाठः । देवताद्वन्द्वे चेत्यानङ्गि कृते सूर्याचन्द्रमसोरिति भाव्यत्वात् । नन्वेवं गीतायामग्निर्ज्योतिरित्यादिना ज्ञानिनो ब्रह्मप्राप्त्यर्थमुत्तरायणे मृत्युक्तेः किमर्थेत्यत आह॥ अत्रेति॥ गीतायामित्यर्थः॥ अत्रेति॥ ब्रह्मप्राप्तौ कालनियमो नेत्यत्रेत्यर्थः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते अष्टमोऽध्यायः॥ ८॥ ॥ अथ नवमोऽध्यायः॥ हरिः ॐ॥ षट्कान्तर्भावसिद्ध्यर्थमाह॥ इति शेष इति॥ सप्तमानन्तर्यमस्य शङ्कते॥ न चैवमिति॥ अन्तरितत्वादष्टमेन व्यवहितत्वादित्यर्थः॥ ज्ञानमिति॥ ज्ञातव्यं प्रमेयमुच्यत इत्यर्थः॥ स्पर्शरहितत्वादिति॥ स्पर्शस्य शक्यत्यात्मकत्वेन रामकृष्णाद्यवतारेष्विवाभिव्यक्त्यभावादित्यर्थः॥ स्पृष्ट्वेति॥ भूतलादौ चैत्रादेरिव स्पर्शनेन्द्रियेण तं ज्ञात्वा शैत्यौष्ण्याद्यन्योन्यधर्मसङ्क्रान्तिमापाद्य॥।तिभावः॥ भूताधारत्वादीत्यादिपदेन भूतस्थत्वाभावग्रहः॥ देहत्वेनेति॥ हेतुनेति योज्यम् । भगवद्देहोऽचेतनो देहत्वाद्देवदत्तदेहवदित्यचेतनत्वशङ्केत्यर्थः॥ उभयमिति॥ देहत्वं भगवल्लक्षणघटकचेतनत्वं चेत्यर्थः॥ केथमित्यत आह॥ द्व्यर्थो हीति॥ अस्य चोपरीत्यनेन लब्धं विग्रहं दर्शयति॥ एतदधिकृत्येति॥ एतत् विश्वमित्यर्थः । यदक्षाणीत्यस्यार्थोऽक्षाणि यस्यासाविति॥ अक्षाणि चक्षुंषि॥ इत्युक्तिविरोध इति॥ तत्र देहस्य भगवल्लक्षणोक्त्याऽप्राकृतत्वप्राप्तेरिति भावः॥ पूर्वोक्तेति॥ भूतभृदित्यादौ देहस्य तत्स्वरूपत्वोक्तेस्तद्विरोध इत्यर्थः । अनवताराणां पृथ्वादीनां अवताराणां वेदव्यासपरशुरामप्रभृतीनां अवमत्वादिना ज्ञानमवज्ञानमित्युक्तम् । महात्मानस्तु ज्ञात्वा भजन्तीत्यत्र तद्ज्ञानस्वरूपम(मा)त्रस्मृतौ तदप्यत्र ग्राह्यमिति स्वयमाह॥ सर्वस्माद्भिन्न इत्यादिना॥ यथावदित्यत्र ज्ञानमिति योज्यम्॥ तदस्तीति॥ यत्प्रामाणिकमित्यर्थः॥ दरं बिभर्तीति॥ शङ्खं बिभर्तीत्यर्थः॥ एतत्स्मृताविति॥ तत्तत्पदार्थेति स्मृतौ॥ पूर्वं पूर्वशेषे॥ एतस्यार्थस्यार्कादिनामार्थस्योक्तत्वं द्योतयतीत्यर्थः । अन्यथा परामर्शविषयाभावादेवंशब्दो न युक्तः स्यात् । मूलकृता पूर्वशेषानुक्तिस्तु पूर्वस्मृत्यैकार्थत्वादिति भावः । स्वातन्त्र्यसर्वकर्तृत्वे न केवलं भिन्नोपीत्यत्र हेतू । किन्तु तत्तन्नामैवमुच्यत इत्यत्रापि हेतू इत्याह॥ तदधीनत्वादिति॥ शब्दप्रवृत्तिनिमित्तानां तदधीनत्वादीशाधीनत्वात् शब्दजातमर्थवत् भगवद्रूपर्थवत् तद्वाचकमिति सूत्रोक्तन्यायेनेत्यर्थः॥ कारणमिति॥ भृत्यगतजयं प्रति राज्ञो जयिशब्दवाच्यत्व इवेति भावः । प्राणगः प्राणधर्तेत्यादेरर्थमाह॥ इन्द्रियेषु स्थित्वेत्यादि॥ कदा विश्वं प्रविलापयन्नित्याकाङ्क्षायामाह॥ प्रलय इति शेष इति॥ उत्तरत्र शङ्कोत्थानाय भाष्योक्तार्थान्तरमप्यत्र ग्राह्यमित्याह॥ अहं क्रतुरिति॥ सहेतुकमुक्त इति॥ भगवद्भजनप्रकाररूपो यः फलोपायस्तद्भेदहेतुकः फलभेद उक्त इत्यर्थः॥ तमेव भजनप्रकाररूपोपायभेदं फलभेदहेतुं व्यनक्ति॥ अन्यदेवतेत्यादिना॥ उक्तमिति॥ ययेति श्लोके उक्तमित्यर्थः॥ तत्प्रतियोगितया तद्विरोधितयेत्यर्थः॥ उक्तस्येति॥ गीतायामुक्तस्येत्यर्थः॥ उक्त इति॥ अत्रैवोपरितनश्लोके उक्त इत्यर्थः॥ कामनमुक्तमिति॥ पूर्वश्लोके॥ वैष्णवादपीत्यनुमादः । भगवदित्यादि व्यख्या॥ इत्यादाविति॥ वाजसनेयादौ॥ अभिशब्दबलाच्चेति॥ तस्य सम्यगर्थकत्वादिति भावः॥ इत्यादि शेष इति॥ तेष्वहं प्रीत्या वर्त इत्यादिपदार्थः॥ तदेवेति॥ भक्तेष्वेव प्रीतिं करोमीत्येतदेवेत्यर्थः॥ यस्तु भागवतस्सदेत्यादेरिति॥ अष्टादशे वक्ष्यमाणस्मृतेरित्यर्थः॥ आदिपदेनेति॥ पापादीत्यादिपदेनेत्यर्थः॥ सुद्युम्नस्य इलात्वमिति॥ व्यक्तमेतन्नवमस्कन्धे द्वितीये, होतुस्तद्व्यभिचारेण कन्येला नाम साऽभगवदित्यादिना॥ अग्निपुत्राणामप्सरस्त्वमिति॥ पुत्रा ह्यग्नेः पूर्वमासंश्च तेऽथ स्त्रीत्वप्राप्त्या इत्यादिना राजकुलेषु जाता इत्यन्तेन ग्रन्थेन व्यक्तमेदद्भारततात्पर्ये विंशेऽध्याये । अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमागताः । भर्तारं वा जगद्योनिं वासुदेवमजं विभुमिति महाकौर्मे इति प्रथमस्कन्धतात्पर्ये दशमेऽध्याये च व्यक्तम् । अम्बाया इति॥ भविष्यति पुमान् इति, साऽम्बा ततोऽजनि । नाम्ना शिखण्डिनीत्यादिना स शिखण्डी नामतोऽभूदित्यन्तेन व्यक्तमेतद्भारततात्पर्ये (च)एकादशेऽध्यैये॥ तत्रेति॥ इलादौ श्रेष्ठत्वमुत्तमकुऊलजात्वाद्युपाधिकृतमित्यर्थः॥ कालान्तरं चेति॥ न केवलं वरत्वमिति चार्थः । स्वाभाव्या एव मुक्तिगा इति प्रागुक्तत्वान्मुक्तौ चेति पुनरुक्तिरितिशङ्काव्युदासायाह॥ पूर्वानुवादेनेति॥ अविरुद्धतयेति॥ सत्त्वादिक इति प्रागुक्तवचनाविरुद्धतयेत्यर्थः । दुर्गमत्वादर्थं व्यनक्ति॥ अनेनेति॥ पापादिकारिण इति वचनेनेत्यर्थः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते नवमोऽध्यायः॥ ९॥ ॥अथ दशमोऽध्यायः॥ हरिः ॐ॥ भाष्योक्तमध्यायार्थमाह॥ षष्ठ इति॥ मन्मना भवेति नवमान्ते स्मारितं चेत्यपि ग्राह्यम् । तेन षष्ठानन्तर्यशङ्कानवकाशः । भोक्तारं यज्ञतपसामिति पञ्चमान्तादौ तत्र तत्र ध्येयमुक्तम् । तथापि विशिष्टाधिकारिणां भगवद्वभूतय उपास्या इति भावेनोक्तम्॥ भगवदित्यादि । विभूतिशब्दार्थोऽग्रे व्यक्तः॥ तद्भावादिति॥ अज्ञानभावादित्यर्थः॥ भुत् बोध इति॥ बुध अवबोधन इत्यतो भावे क्विप् । तदुपपदे दधातेर्घोः किरिति किरिति भावः॥ प्रसिद्धमनव इति॥ स्वायम्भुवस्वारोचिषरैवतोत्तमाख्याः प्रसिद्धमनव इत्यर्थः॥ विप्रादिवर्णविवक्षयेति॥ देवेषु केचित् ब्राह्मणाः केचन क्षत्रियाः केचन वैश्याः केचन शूद्रास्सन्तीति तद्विवक्षया चतुष्ट्वमित्यर्थः । व्यक्तमेतच्चातुर्विध्यं वाजसनेयभाष्ये प्रथमेऽध्याये विष्णोर्ब्राह्मणजातिस्सस् जज्ञे ब्रह्मा चतुर्मुख इत्यादिनेति ज्ञेयम्॥ एतेनैवेति॥ मरीच्याद्यास्त्वित्यादिस्मृतिशेषोदाहरणेनेत्यर्थः॥ उपेयमिति॥ प्राप्यमित्यर्थः॥ अन्यव्यावृत्तिभ्रान्तिनिरासायैवकारत्यागेनान्वयपूर्वमुपादत्ते॥ शक्तिश्चेति॥ योग इत्यन्वयः॥ शक्यमिति॥ शक्तिविषयतायोग्यमित्यर्थः॥ सा चोक्तेति॥ भूतानां बुद्ध्यादिभूतधर्माणां च स्रष्ट्रत्वोक्त्या प्रभवमित्यस्य प्रभावमिति व्याख्यानाद्वा शक्तिरुक्तैवेत्यर्थः॥ तथ भजन्त इति॥ सर्वकारणत्वादिज्ञाने विश्वासेनेति वार्थः॥ स्वजात्यादीति॥ स्वजायादिभ्यो विशिष्टवस्तुनि श्रेष्ठवस्तुनीत्यर्थः । वासवादेः स्वजातिसर्वदेवेभ्यः श्रैष्ठ्याभावात् क्वचिद्विजातितोऽपि श्रैष्ठ्यस्य गीतायामुक्तेराह॥ स्वजात्येकदेशाद्युपलक्षठणमिति॥ इत्यादि शेष इति॥ वेदेभ्य आधिक्यहेतुर्त्यत्र साम्न इति उत्कर्षहेतुरित्यत्राश्वत्थस्येत्येवं रूपेणेति भावः॥ इण् गताविति धातुरिति॥ रवशब्दोपपदादिणः क्विपि उपपदान्तलोपे रविरिति रूपमिति भावः॥ वासः सर्वदेश इति॥ वसतेरधिकरणे घञिति भावः॥ वर्तत इति॥ वृतेर्ड इति भावः॥ पाः पालका इति॥ पा रक्षण इत्यतो विच्प्रत्ययः॥ मा इत्यनुवादः नास्तीति व्यख्या॥ स्वत इति॥ स्वस्मादित्यर्थः॥ इत्यादेरिति॥ अष्ठमाध्यायछन्दोगश्रुतेरित्यर्थः॥ तत्सम्बन्धी वैनतेय इति॥ सम्बन्धर्थे उक्प्रत्यय इति भावः । मत्वर्थे इकारप्रत्यय इत्युपेत्याह॥ तद्वान् वासुकिरिति॥ माकर इत्यनुक्त्वा मकर इत्युक्तिकृत्यमाह॥ ऊनार्थ इति॥ औहाक् त्याग इति धातुपाठादाहा॥ जहत इति॥ त्यजत इत्यर्थः॥ श्रयत इति॥ श्रिञ् सेवायां, इत्यर्थः॥ बृहत्स इति॥ सारशब्दस्य सादेश इति भावः॥ इति धारोरिति॥ तस्मादसुन्प्रत्यये उशना इति रूपमिति भावः॥ मुनिसम्बन्धीति॥ मुनिशब्दात् सम्बन्धार्थेऽण् प्रत्ययः । सम्बन्धः(श्च)स्तुत्यस्तोतृरूप इति भावः॥ शीर्षस्थानत्वादिति॥ चरमप्राप्यत्वादित्यर्थः॥ आस उपवेशन इति धातो रूपमुपेत्याह॥ आसा स्थितिरिति॥ उ(न्प्र)प्रत्ययार्थमाह॥ शीलत्वादिति॥ शश्यादिषु विजातीयस्वाम्यद इत्यादेरर्थमाह॥ शश्यादिष्विति॥ ज्योतिषां रविरंशुमान् । स्थावराणां हिमालय इत्यादिरादिपदार्थः । विभूतिरूपत्वोपपादनायोक्तम्॥ सत्त्वादिसारदत्वेनेति॥ आदिपदेन भूतानां चेतना यमस्संयमताम् । वादः प्रवदतां उद्भवश्च भविष्यतामित्यादेर्ग्रहः॥ उक्त इति॥ भगवानिति योज्यम् । यत्र सामवेदस्येति॥ छान्दोग्ये वाच ऋग्रसः ऋचः साम रस इत्यादिनोच्यत इत्यर्थः॥ इत्याद्युक्तं भवतीति॥ यदा तु ऋच श्रीर्देवता तस्य सर्ववेदाधिक्यमित्यादि चादिपदार्थः॥ इत्यनुक्त्वेति॥ प्रकरणबलेनाधिष्ठितत्वस्यैव वक्तव्यत्वादेव मुक्तिरसङ्गतेति भावः॥ ततोऽपीति॥ लक्षणमुखेनोक्तादप्येषाशन्न जगद्व्यापित्वोक्त्या अधिकविस्तरमाहेत्यर्थः॥ उभयलाभ इति॥ प्रागुक्तरविप्रभृतिस्थपरिच्छिन्नविभूतिरूपज्ञानरूपोभयलाभेऽधिकशोभनप्राप्तेरित्यर्थः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते दशमोऽध्यायः॥ ॥ अथ एकादशोऽध्यायः॥ हरिः ॐ॥ ध्यानार्थमिति॥ विष्ठभ्याहमिति पूर्वत्र सङ्क्षेपेणोक्तस्य व्याप्तरूपोपासनस्य बुद्धावनारोहेणाशक्यतया विस्तरेण श्रुते सत्येव ध्यानं सुशकमिति ध्यानार्थं प्रागुक्तव्याप्तरूपस्थितिर्विस्तरेणात्रोच्यत इत्यर्थः । अनेन पूर्वानन्तरता च सिद्धेति भावः । प्रागुत्तरत्र चेति । पूर्वोत्तरकाल(सम्बन्ध)मित्यर्थः । अग्रे साध्यत्रयोक्तेः केन किं सिद्धमित्यत आह॥ दर्शयेत्यादिना॥ इत्युक्त्येति॥ क्रीडादिगुण(क)त्वरूपभगवल्लक्षणोक्त्येत्यर्थः । मम देह इत्यस्य पुर्वेणाप्यन्वयमुपेत्याह॥ मरुतस्तथा । मम देह इति॥ उपपादकान्तरमिति॥ अर्चित्यैश्वर्ययोगत्वापेक्षयेत्यर्थः । विशेषित इति । विशेषवत इत्यर्थः॥ न च तत्रेति॥ विशेषविशेषिणोर्भेदाभावेऽप्ययं विशेषी विशेषोऽयमिति व्यवहारो विशेषान्तरादित्यर्थः॥ विशेषव्यवहारेति॥ अयं विशेषोऽयं विशषीति व्यवहारेत्यर्थ- । तामेव योजनामाह॥ चेतन इति॥ विशेषोपादानत्वादिति॥ विशेषं प्रत्युपादानकारणत्वादित्यर्थः॥ अयाबद्द्रव्यभाव्यपि इति विभागः॥ कार्येति॥ विशेषकार्यरूपेणेत्यर्थः॥ उक्तत्वादिति॥ न चाविशेषितं किञ्चिन्मि(न्म)तमिति पूर्ववाक्येऽर्थादुक्तत्वादित्यर्थः । यद्वा स्वरूपस्य च सिद्धत्वाद् व्यर्थैव श्रुतिरित्यादिना द्वितीये उक्तत्वादित्यर्थः॥ विशेष्यस्य विशिष्टव्यावर्तकत्वादिति॥ ज्ञायमानोऽयं नीलः पीतो दण्डीत्यादिविशिष्टाकारः कस्येत्युक्ते चैत्रस्येत्याद्युक्तेरिति भावः॥ तस्मिन्विशिष्ट इति॥ विशेष्यस्वरूपत्वविशिष्टे इत्यर्थः॥ तत्प्राप्ताविति॥ अनवस्थादिदोषप्राप्तावित्यर्थः॥ प्रश्नानुपपत्तिरिति॥ चैत्रः किंविशिष्ट इति प्रश्नायोग इत्यर्थः । अभिन्नमित्यस्यार्थस्तत्स्वरूपमिति॥ अनवस्थादेश्चेत्यत्रादिपदेन विशेष्यस्य निर्विशेषत्वमज्ञातत्वमत एव तदसत्त्वमिति दोषत्रयस्य ग्रहः॥ अहं चेति॥ अन्य इति योज्यम्॥ यदुक्तमिति॥ द्रव्यात्मना स नित्योऽपीत्यत्रेति योज्यम्॥ समर्थितमिति॥ मदन्य इत्यनुभवाभावस्योक्तत्वादिति भावः॥ नित्याभिव्यक्तानाम् । धर्मिणा सहैव ज्ञातानामित्यर्थः॥ आविर्भावतिरोभावेति॥ कादाचित्कप्रतीतिकानाभित्यर्थः॥ पूर्वमिति॥ भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषणे । मदन्य इत्यनुभवो यतो नैवेत्युक्तेरर्थादैक्यं सिद्धमित्यर्थः । तादृशानां आविर्भावतिरोभाववतामिर्थः॥ उभयविधविशेषेति॥ स्वाभाविकान्योपाधिकरूपोभयविधविशेषेत्यर्थः । विशेषादेरित्यादिपदेन विशिष्टकारग्रहः । भेदाभेदावुक्ताविति॥ भेदाभेदौ तौ नैव कर्तृभोक्तृविशेषण इत्युक्त्या कर्तृत्वादिविशेषणेतरविशेषणेऽर्थाद्भेदाभेदौ प्राप्तावित्युक्तावित्युक्तं, उक्तप्रायावित्यर्थः॥ समर्थयतीति । अनुदात्तेत्त्वनिबन्धनमात्मनेपदमनित्यमिति चक्षिङो डित्करणेन ज्ञापनात्समर्थयतीति साधु । अत एव प्रार्थयन्ति शयनोत्थितं प्रियाः इति रघुवंशे प्रयोगः । अत इत्यस्य व्याख्या एकैस्येति । भेदमात्रस्याभेदमात्रस्य वेत्यर्थः । नन्वचेतने विशेषविशेषिणोर्भेदाभेदादावनुभवे पृष्टे तन्तुपटयोस्तदनुभवोक्तिरसङ्गतेत्यतस्तां सङ्गमयति॥ तन्त्वाद्यवयवेभ्य इत्यादिना॥ एकैकतन्तोरिति पञ्चमी । मूलानुक्तं स्वयमाह॥ सर्वावयवसमुदायस्येति॥ यद्वा तन्तुभ्योऽन्य इत्यर्धस्यैव संस्थानविशेषापन्नेभ्य इत्यर्थमुपेत्येयमुक्तिः॥ अबहुत्वादिति॥ बहुत्वे हि एकत्वबुद्धिविषयपटेनाभेदो न युक्तः स्यादिति भावः । तद्भावे समुदायभावे॥ अवयविनेति॥ संस्थानविशेषापन्नतन्तूनामवयवत्वेन व्यवहारभाजामेवावयवित्वादिति भावः । एकैकतन्तुनापि पटस्याभेद एव किं न स्यात्किं भेदाभ्युपगमेन । न च तेषां बहुत्वादेकेन पटेनाभेदायोगः । दृष्टान्तबलेन स्यादिति शङ्कते॥ यथाऽऽत्मागतानामिति॥ उक्तस्यति॥ अबहुत्वादेकेन पटेनात्यन्ताभेद इत्युक्तस्येत्यर्थः । उक्तत्वादिति॥ द्रव्यात्मना स नित्योऽपीत्यादिव्याख्यावसर इति भावः॥ अन्त्यावयविन्येवेति॥ द्रव्यान्तरानारम्भके वस्तुनीत्यर्थः॥ भेदाभेदाविति । एकैकावयवेनेति॥ भावः॥ भावव्यवहृतेरिति॥ नीलरूपस्य सत्त्वव्यवहारादित्यर्थः॥ विनाशानन्तरमिति॥ नीलरूपादिनाशात्पूर्वं रूनिणा भेदाभेदौ रूपनाशानन्तरं विशेषात्यन्तभेद एवेत्यर्थः॥ हरेर्बहुर्व्यवहारविषयतामिति । ज्ञातशस्सहस्रश इत्यदि बहुसङ्ख्यागोचरत्वरूपव्यवहारविशेषविषयतीमित्यर्थः॥ इत्युक्तत्वादिति॥ अभावो यत्र भेदस्य प्रमाणावसितो भवेति॥ विशेषो नाम तत्रैव इत्युक्तवादित्यर्थः॥ तथा सतीति॥ जीवेनैक्ये सति प्रत्यक्षादिविरोधपरिहारायोभयगतधर्मत्यगेन निर्वशेषचितोरेवैकीभावस्य वाच्यत्वेन परमैश्वर्यायोगादिति भावः । परमाणतो परच्छिन्नरूपेति मत्वाऽऽह॥ अनन्तरूपेति॥ पुनरुक्तिरिति॥ अभ्यासरूपमित्युक्त्यैवेत्यर्थः॥ परं निधानम्॥ उत्तमाश्रय इत्यर्थः । मयेदं व्याप्तमित्यादिरादिपदार्थः॥ अत्रोच्यते॥ गीतायामुच्यत इत्यर्थः॥ असाविति॥ सर्वशब्द इत्यर्थः॥ स्वोक्तस्थापनायेति॥ परं निधानमित्याद्युक्तस्थापनायेत्यर्थः॥ लोकत्रयस्येति॥ अर्जुनेनोच्यत इत्यन्वयः । केनोच्यत इत्यत उक्तम्॥ दृष्ट्वेति॥ सुखमात्यन्तिकमित्यादाविति॥ षष्ठे सुखमात्यन्तिकं यत्तदित्यादावित्यर्थः । योग्यत्वेऽपि सति प्रतिबन्धके तद्दर्शनाभावादाह॥ प्रतिबन्धकहीनेति॥ विष्णुधर्मे विस्तरेणोक्तमिति॥ एकोनविंशाध्याये॥ पुरूरवसो पूप दृष्टुमागतावश्विनौ प्रति पुरूरवो राजा तैलाभ्यक्तोऽस्मि, स्नात्वा भूषणभूषित आगमिष्यामि, तदा मद्रूपं द्रष्टव्यमित्युक्ते अप्रसाधितमेवाशु भवन्तं वसुधाधिपम् । पश्यावो भूषितं त्वां वै पश्चात्सङ्क्रन्दनान्वितम् इत्यश्विभ्यामुक्ते तूर्णं बहिर्निर्गतं राजानं ‘अङ्गोपाङ्गादिकं सर्वं नृपतेस्तदपश्यताम् । शैरोललाटबाह्वास्यनयनादिविलोकनम् । कृत्वा चिरं महीपालमूचतुस्तावरिन्दमौ । प्रविश्य स्नात्वा भूपाल यथार्हैश्च विभूषणैः । विभूषिततनुं भूयः त्वं द्रक्ष्यावो नरेश्वर’ । इत्यश्वभ्यामुक्तो राजा गृहं प्रविश्य स्नातोऽनुलिप्तः वस्त्रालङ्कारभूषणभूषितोऽश्विनोः समीपमागतः । तददा तौ तद्रूपं दृष्ट्वा हासं चक्रतुः । राज्ञा हासकारणे पृष्टे ‘‘श्रुणु भूपाल सकलमावहोर्हासकारणम् । युष्मद्दर्शनसम्भूतं क्षणापचयहेतुकम् । अस्नातस्याभवत्पूर्वं यादृशी ते सरूपता । साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः । दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च । वपुःपरिणतिं स्वन्मात् पश्यावोऽपचयप्रदाम्’’ इत्यादिनेति भावः॥ युधिष्ठुरादीनामिति॥ पञ्चानां पाण्डवानां अश्वत्थामकृतवर्मकृपाणां चेत्यर्थः॥ साक्षान्न निहता इति॥ भगवतेति योज्यम्॥ इति धातेरिति॥ उण् प्रत्यये आयुरिति रूपमिति भावः॥ इति धानुरिति॥ तस्मादप्रत्यये इदित्वान्नुमाङगमे इन्द्रेति रूपमिति भावः॥ करोतीति क इति॥ कृञो डप्रत्ययः । प्रत्युतेत्यस्येत्येवोच्यत इत्यनेनान्वयः । त्वर्येद्रशरीरेण दृष्टमिति विशिष्य कस्मान्नोच्यते किं त्वदन्येत्यादिवक्त्रोक्त्येत्यत आह॥ इन्द्रस्येत्यादि॥ उदाहृत स्मृतीति॥ विश्वरूपं प्रथमत इत्यादिस्मृतीत्यर्थः॥ यदुक्तमिति॥ एतदध्यायादाविति योज्यम्॥ अन्यथेत्यनुवादः स्वभावत इति व्याख्या॥ परत्वमिति॥ उत्तमत्वमित्यर्थः॥ उदाहृतवाक्येति॥ परापरविभेदस्त्वित्यादिवाक्येत्यर्थः॥ अन्यथोक्तेति॥ दृष्ट्वाऽद्भुतं रूपं, विश्वरूपं प्रथमतो ब्रह्मापश्यदित्याद्युक्तविरोध इत्यर्थः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघनेन्द्रयतिकृते एकादशोऽध्यायः॥ ११॥ ॥ अथ द्वादशोऽध्यायः॥ हरिः ॐ॥ प्रागुक्तेति॥ मत्कर्मकुदित्यादिनोक्तेत्यर्थः । अनेन पूर्वानन्तर्यमप्यस्याध्यायस्य सूचितं भवति॥ सन्दिह्येत्यनन्तरं कृत इति योज्यम् । तेन ल्यवन्तोपपत्तिः । द्वितीयश्रिये इत्यस्यार्थः॥ तदर्थमेवेति॥ श्रियं जरितृभ्य इत्यस्यार्थः॥ श्रियं उपदेष्ट्रभ्य इति॥ श्रियं प्रति वसानाः वसन्त इति वा तामाच्छाद्य स्थिता इति वाऽर्थ इत्युपेत्य फलितमाह॥ उपासीना इति॥ यान्तीति लकारव्यत्ययेनार्थोक्तिः । पद्मनाभतीर्थोये तु श्रियं सम्पदं वय आयुश्च जरितृभ्यः श्रीदेवी दधाति ददाति । मितद्रौ मिथुने दम्पत्योः श्रियमुपासीनयोः समिधा समीहीतानि सत्यानि भवन्तीत्यर्थ उक्तः । भाष्यटीकायां तु मितद्रावित्यस्य समुद्रे क्षीरब्धावित्युक्तम्॥ किमर्थं क्रियत इति॥ प्रश्न इत्यनुषङ्गः॥ एतेनेति॥ अव्यक्तस्य चित्प्रकृतित्वसमर्थनेनेत्यर्थः । अन्वयमुखेनानुवदति॥ इत्यादि श्रुतिभ्योऽव्यक्तोपासनादिति॥ ननु पूर्वोत्तरार्धयोः कृष्णोपासक(पर)ब्रह्मोपासकविषयतया भेदेनार्जुनप्रश्नोऽयुक्त इति भावेनाक्षिपति॥ कुतोऽनुपपन्न इति॥ सहेतुकमिति॥ क्लेशाभावरूपहेतुसहितमित्यर्थः । व्यक्तमेतदग्रेसुष्ट्वाचारादेरौन्येपीत्यादिना॥ केवलशाक्तेयानामितीति॥ भगवद्भक्त्यादिहीनश्रीदेवीमात्रोपानकानामित्यर्थः॥ उक्तप्रकारेण पर्युपासनमिति॥ हरितत्ववित् तद्भक्तस्तमुपास्यैव श्रियं ध्यायीतेत्युक्तप्रकारेणेत्यर्थः॥ औन्येपीति॥ ऊनत्वेऽपीत्यर्थः॥ इतश्चेति॥ भगवदुपास्तिरूपमुक्तिमार्गस्य मोक्षफलकत्वे श्रीदेव्युपान्तिमार्गस्येव विलम्बाभावहेतुतश्चेत्यर्थः॥ हेतुद्वयेनेति॥ अक्लेशत्वाचिरत्वपूपहेतुद्वयेनेत्यर्थः । हेत्वर्थकेतिशब्दानन्तरं शेषमाह॥ तेषामित्यादि॥ न केवलमक्लेशादिकमिति चार्थः॥ पूर्वमेवेति॥ सप्तमे अन्तवत्तु फलं तेषामित्यादिना निषिद्धत्वेनेत्यर्थः॥ श्लोकचतुष्टयार्थं सङ्ग्रहेणानुवदति॥ मदुपासनस्येत्यादिना॥ श्लोकचतुष्टयस्य प्रतीकग्रहणम्॥ मयीतीति॥ तद्योगो भवतीति॥ वैष्णवतया सर्वकर्मकरणयोग्यो भवतीत्यर्थः॥ तदनेनेति॥ श्रेयो हीत्यादिकमसम्यगिति स्मृत्युदाहरणेन व्याख्यातमित्यर्थः॥ सन्यासन्त्विति॥ त्यागस्त्वित्यर्थः॥ अयोगतः॥ कर्मानुष्ठानहीनात्॥ इत्युक्तत्वादिति॥ पञ्चमोऽध्याये॥ प्रपञ्च्यत इति॥ तत्रोक्तधर्मेभ्यो धर्मान्तरकथनेनेति योज्यम्॥ अन्यथाप्रतीतीति॥ आरम्भसामान्यनिषेधप्रतीतीत्यर्थः । स्मृत्यैव व्याख्यातत्वादिति । तृतीये नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलमिति स्मृत्या नाहं कर्तेत्यभिमानत्यागः । हरिः कर्तेत्यादिना च भगवति समर्पणरूपः कर्मन्यास इति व्याख्यातत्वादिति भावः॥ व्याकरिष्यमाणत्वादिति॥ अष्टादशे (अन्य) सर्वधर्मान् परित्यज्येत्युक्तशेषत्वेनेत्यादिनेत्यर्थः॥ उक्ताविरुद्धतयेति॥ अवैष्णवेत्याद्युक्ताविरुद्धतया शुभपदस्य ज्ञानभक्तिवैराग्यान्यशुभपरतया व्यचष्ट इत्यर्थः । एतेन वैष्णवेत्यस्य ज्ञानभक्तिवाराग्यान्यानीत्यक्तम्॥ तत्साधनतयेति॥ ज्ञानभक्तिवैराग्यसाधनतया तुलस्याहरणभगवदाराधनतीर्थयात्राद्यारम्भांश्च विनेत्यर्थः॥ व्यस्तसाधनकथन इति॥ असमन्तसाधनकथन इत्यर्थः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रतिकृते द्वादशोऽध्यायः॥ १२॥ ॥ अथ त्रयोदशोऽध्यायः॥ हरिः ॐ॥ पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषानित्यादिभाष्योक्तदिशा तात्पर्यवाक्यं विवृणोति॥ यत्प्रथमेत्यादिना॥ बहूनि मे व्यतीतानि जन्मानीत्यादेरपि कथनादुक्तं प्राचुर्येणेति॥ द्वितीय इति॥ षट्क इत्यनुषज्यते॥ न त्वेवाहमित्यादौ यज्जीवस्वरूपमिति॥ द्वितीयाध्यायादाविति योज्यम् । तत्र जीवस्वरूपोक्तेरेव प्राधान्यं भगवत्स्वरूपं तु तादर्थ्येनेति भावः॥ क्षेत्रमिति॥ क्षीयते हरिरत्रेति भगवदावासस्थानमुक्तमित्यर्थः । सङ्क्षेपशब्दस्य भावार्थत्वेऽध्याहृताध्यायपदेन सामानाधिकरण्यायोगत्कर्तरि निष्पन्नः सन् प्रदर्शनलक्षक इति भावेनाह॥ सङ्क्षिप्य प्रदर्शयतीति सर्वार्थसङ्क्षेप इति॥ सङ्क्षिप्य प्रदर्शक इत्यर्थः । करणे कर्तृत्वोपचार इति भावः॥ परिह्रियत इति॥ क्षेत्रज्ञत्वप्रकारकभगवज्ज्ञानोपयोगित्वात् क्षेत्रत्वोक्तेरिति भावेनेति योज्यम् । सङ्घातश्चेतनेतीत्यनन्तरं वक्ष्यमाणेति योज्यम्॥ क्षेत्रविकारेषु एकदेशत्वेन सङ्घातपदेनोक्तेत्यर्थः॥ इति धातोरिति॥ विच्प्रत्यये सार्वधातुकेति कुणे च शरिति रूपमिति भावः॥ ईर्यत्वादीरमिति॥ ईर प्रेरण इति धातोः कर्मणि घञि ईरमिति रूपमिति भावः॥ इति धातोरिति॥ अधिकरणे औणादिकत्रप्रत्यये गुणे च क्षेत्रमिति सिद्धमिति भावः॥ उत्तरत्रापि सम्बद्ध्यत इति॥ दैवी तु सा मतेत्यतः पूर्वमित्यर्थः॥ तत्प्रतियोगितयेति॥ तद्विरोधितयेत्यर्थः॥ न सात्तदिति॥ न सत्तन्नासदुच्यत इति गीतावाक्यं व्याख्यातमित्यर्थः॥ कर्मणोऽप्युपलक्षणमिति॥ सर्वकर्मेन्द्रियकर्माणि करोति चोत्यपि ज्ञेयमित्यर्थः॥ अनेनेतीति॥ इति व्याख्यातमितीति पूर्वेणान्वयः॥ इत्याद्युक्ततात्पर्यं भवतीति॥ महत्त्वाणुत्वपरिमाणपूपेण हृदि विष्ठितमित्युक्तं भवतीत्यर्थः॥ उक्तवचन एवेति॥ क्षेत्रज्ञो भगवान्विष्णुरिति प्रागुक्तवचन एव प्रसिद्धत्वादितयर्थः । मनोविकारान् ज्ञानेच्छादीनित्यर्थः । व्यर्थपदस्यार्थद्वयमाह॥ निरर्थक विरुद्धार्थं च स्यादिति॥ जीवस्य क्षेत्रज्ञत्वपक्षे भगवतः क्षेत्रज्ञत्वोक्तेर्विरोधादिति भावः । शङ्कते॥ एतदित्यादिना॥ उच्यत इतीत्यनन्तरं वाशब्दो योज्यः । क्वचित्तथैव पाठः॥ क्षेत्रज्ञं चापि मामित्यत्र क्षेत्रं चासौ तज्ज्ञश्चेति व्युत्पत्तिमुपेत्य ज्ञशब्दार्थोक्तिर्जीवस्य क्षेत्रज्ञस्येति । यद्वा क्षेत्रज्ञजीवं सर्वक्षेत्रं च मामिति सर्वक्षेत्रपदं द्वितीयान्ततया विपरिणाभ्यानुवदति॥ क्षेत्रस्य चेति॥ शङ्कामनुवदति॥ जीवस्येत्यादिना॥ इत्यादियोजनामिति॥ प्रगुक्तव्युत्पत्त्या क्षेत्रामेदश्चोत्यत इति योजनामित्यादिपदार्थः । शङ्कते॥ क्षेत्रं जानातीति॥ इत्येतत्सर्वस्येति॥ इत्यभिमतार्थस्य सर्वस्येत्यर्थः॥ आदिवाक्य एव प्रश्नवाक्य एवेत्यर्थः॥ इतीश्वरवाचिपदप्रक्षेपणेत्यन्वयः॥ पृथग्वाक्येति॥ एतद्यो वेत्तीति क्षेत्रज्ञं चापि मामिति पृथग्वाक्येत्यर्थः॥ अव्यक्तादिशरीरस्येति॥ इदं शरीरं र्कौतेयेत्यत्रोक्तस्याव्यक्तादिरूपशरीरस्येत्यर्थः । योगव्युत्पत्त्या शरीरशब्दनिर्दिष्टाव्यक्तादेरिति यावत्॥ क्षीयत इति॥ स्थीयत इत्यर्थः । क्षि निवासगत्योरिति धातोः॥ अनुपपन्नः स्यादिति॥ विपरिणामस्त्वगतिकागतिरिति भावः॥ ज्ञानमुच्यत इति॥ ज्ञानशब्दोऽत्र करणे च व्युत्पन्नः सन् ज्ञप्तितत्साधनोभयपरः । केन साधनं केन ज्ञप्तिरुच्यत इत्यतस्तद्विवेचयन्नेव मूलमवतारयति॥ नन्वित्यादिना॥ न चात्रेति॥ आदिमन्न भवतीत्यनादि मदित्यभिप्रेत्यानादीत्यादीना मूलोक्तार्थेऽन्यथानादीत्येव स्यदिति भाष्ये विरोध इत्यर्थः॥ तत्रेति॥ आदिमन्न भवतीत्यनादिमदिति विग्रहाङ्गीकारेण कारणोपेतं नेत्यर्थस्वीकारे न विद्यते आदिः कारणं यस्येति बहुब्रीह्याश्रयेणैवास्यार्थस्य सिद्धेर्मतुपो वायर्थ्यं स्यादित्युक्तेस्तद्विरोध इत्यर्थः॥ तत्रोक्तस्येति॥ आदरेषामस्तीत्यादिमन्ति देहेन्द्रियगुणकर्माणि । न विद्यन्ते आदिमन्ति यस्य तदनादिमदित्युक्तस्य मुख्यार्थत्वस्येत्यर्थः । दोषस्येति॥ मतुपो वैयर्थ्यदोषस्येत्यर्थः॥ तमङ्गीकृत्येति॥ वैयर्थ्यदोषमङ्गीकृत्य आदिकारणं न भवतीत्यनादीति नञ्तत्पुरुणाश्रयेण स्वयं कारणं नेति चोद्यनिवृत्तिरूपं प्रयोजनमन्वाचिनोति । अनास्थयोपादत्ते इत्यर्थः । चार्थयोरन्वाचयसमुच्चययोरन्वाचयरूपार्थो न समुच्चयरूपः । अनादीत्युक्तावपि न विद्यते आदिकारणं यस्येति बहुब्रीहणा स्वस्य कारणं नेत्यर्थो लभ्यते । नञ्तत्पुरुषपक्षे तु छान्दसलिङ्गव्यत्ययो वा विभक्तिलोपो वा आश्रयणीयः । अन्यथाऽऽदिशब्दस्य नित्यपुल्लिङ्गतयाऽनादिरिति स्यात् । अतोऽनास्थयोक्तशङानिवृत्तिरूपं प्रयोजनलाभमङ्गीकरोत्यादिमन्नेति विग्रहाश्रयणम् । वस्तुतस्तु भाष्योक्तार्थ एव तात्पर्यमिति भावः॥ इत्येतदिति॥ परब्रह्मादिशब्दजातमित्यर्थः॥ उक्तत्वादिति॥ दशमे॥ स्वतन्त्रवेत्तेति॥ आगमशासनमनित्यमितीडभावः । वेदितेत्यर्थः । स्ववेत्तेति प्रागुक्तार्थमाह स्वः स्वतन्त्र इत्यादिना । ज्ञानं च स्वमित्युक्तमाह॥ स्वः स्वतन्त्रश्चेत्यादि॥ स्वेन वेद्यश्चेत्युक्तार्थोक्तिः स्वः प्रकाश इत्यादि । स्वः स्वतन्तर इत्यर्थः । स च स्वयमेवेति कर्मणि घञिति भावः । वित्तिश्चेत्युक्तार्थोक्तिः॥ स्वश्चासावित्यादि॥ परस्य वेत्ता परैरित्युक्तार्थोऽत्र कुतो नोच्यत इत्यत आह॥ परस्य वेत्तेत्यादि॥ किन्तु प्रागुक्तदिशा शङ्कानिरासार्थं प्राप्तमिति शेषः॥ अन्यथाप्रतीतीति॥ मदात्मकत्वप्रतीतीत्यर्थः । भाष्योक्तसङ्गतिमाह॥ यतश्चेत्यादि॥ वक्तुमिति॥ उपद्रष्टेत्यादिनेति योज्यम् । ततः प्रेरकाद्यत् प्रवर्तमानमस्ति प्रकृत्यादिक्षेत्रमित्यर्थः । न च प्रेरकश्च य इति प्रतिज्ञातमित्यर्थः॥ पुल्लिङ्गेनान्वयायेति॥ पुरुणपदेनान्वयाय पुरुषशब्दितौ उभावित्यन्वयाय पश्चादुक्तपुरुषशब्दार्थं प्रागुक्त्वा पश्चात्प्रकृतिशब्दार्थ उक्त इत्यर्थः । व्युत्क्रमव्याख्यानेन किं जातमित्यत आह॥ अनेनेति॥ पृथग्वाक्यमिति॥ प्रकृतिं पुरुषं च विद्धि उभौ जीवपरौ उभे चेतनाचेतनप्रकृती चानादी विद्धीत्येवमित्यर्थः॥ इति सङ्ग्रहश्चेति॥ इत्यस्याप्यत्र(सं)ग्रहणमित्यर्थः॥ प्रतीतमिति निराकरोतीत्यन्वयः । शङ्कते॥ अज्ञानहेतुचित्प्रकृतेरित्यादि॥ हेतुत्वं किं विशिष्योच्यत इत्यन्वयः । अस्योत्तरं एतेन भगवत इत्यादिनाग्रे व्यक्तम्॥ स्वकर्मणेति॥ स्वव्यापारेणेत्यर्थः॥ इत्यतो वाह यथेतीति॥ तदर्थः प्राग्वदेवेति भावः । शङ्कते॥ यद्यत्र पुरुषपदमित्यादिना॥ उक्ताभिधानमात्रेणेति॥ प्रागुक्तस्य पुनः कथनमात्रेणेत्यर्थः॥ अनुकूलतर्कमाह॥ आन्तरार्थानुभवस्येति॥ बहिरेवेति॥ शुक्तिरूप्यादिस्थल एवेत्यर्थः॥ तत्रेति॥ व्यवहारतो व्यवस्थाऽस्तीत्यत्र प्रमाणाभावादित्यर्थः॥ तदसिद्धाविति॥ भ्रान्त्यभ्रान्तिव्यवस्थासिद्धावित्यर्थः॥ आगमादिप्रामाण्यस्यापीति । तज्जन्यज्ञानप्रामाण्यस्यापीत्यर्थः॥ इत्यादेरिति॥ न किञ्चत्सिद्ध्यतीत्यन्तस्येत्यर्थः॥ साध्येति॥ आपाद्याभिधानपरतयेत्यर्थः॥ तत्स्वरूपप्रामाण्ययोरिति॥ विमुक्तश्चेति श्रुतिजन्यज्ञानस्वरूपतत्प्रामाण्ययोरित्यर्थः । इतिशब्दस्यार्थोक्तरेवमुक्तप्रकारेणेति॥ इत्यर्थसाधकश्रुतेरिति॥ विमुक्तश्चेत्यादिश्रुतेरित्यर्थः॥ अङ्गीकृत्य चेदमुक्तमिति॥ प्रमाणसिद्धस्य युक्त्या दुर्घटत्वं न बाधकमितीदं चाङ्गीकृत्योक्तमित्यर्थः॥ तत्रैवेति॥ दुर्घटत्वमबाधकमित्यनुषङ्गः॥ उक्तरीत्येति॥ किञ्चिच्चेतनमित्यादिनोक्तरीत्येत्यर्थः॥ कार्यकारणसम्बन्धस्येति॥ कार्यकारणकर्तृत्वस्यैव पुरुषः प्रकृतिस्थो हीति पुनरुक्तसुखादिभोगस्य चेत्यर्थः॥ एवमिति॥ तात्पर्यकृदुक्तरीत्येत्यर्थः॥ उक्तरीत्येति॥ न हि ज्ञानाज्ञानेत्यादिनोक्तरीत्येत्यर्थः॥ प्रकृतिस्थत्व इति॥ देहेन्द्रिययुक्तत्व इत्यर्थः॥ तत्रेति॥ जीवभावेन शरीरसम्बन्ध इत्यर्थः॥ सगुणत्वमित्यत्र तत्कारणमित्यनुषङ्गः॥ तदनुपपत्तेरिति॥ देहत्वसगुणत्वाद्यनुपपत्तेरित्यर्थः॥ मिथ्याभूतं तदस्तीत्यत्र आह॥ तन्मिथ्यात्वस्येति॥ देहसम्बधादिमिथ्यात्वस्येत्यर्थः॥ हेतुत्वेनैवेति॥ न तु शब्दार्थतयेत्यर्थ-॥ इतिशब्दान्वयेनेति॥ हेत्वर्थकेति योज्यम्॥ उक्तप्रकारद्वयेनेति॥ स्वप्रतिभयाऽन्यतः श्रवणेन चेत्यर्थः॥ तेषां ध्यानातिरिक्तसाधनेति॥ स्वप्रतिभादिरूप इत्यर्थः॥ अनुक्तिरिति॥ ध्यानेनेति श्लोक इति योज्यम्॥ इत्यादाविति॥ देवा वावसर्वप्रकाशा ऋषयोऽन्तःप्रकाशाः मनुष्या एव बहिःप्रकाशा इति चतुर्थाध्यायतृतायपादीयभाष्योक्तश्रुतावित्यर्थः । प्रतिभाप्रमाणमाहेत्यर्थः॥ प्रकृतमनुसन्धत्त इति॥ प्रकृतिं पुरुषं चैव इत्युक्तार्थे बुभुत्सातिशयजननाय तज्ज्ञानफलवचन य एनं वेत्तीत्यादिना प्रकृतं तद्बुद्धिस्थं करोतीत्यर्थः॥ इति विवृमिति॥ इचि स्मृत्युक्तं विवृतमित्यर्थः॥ तल्लक्षणान्तराणि चेति॥ भूमिजातदेवलक्षणान्तराणि चेत्यर्थः॥ क्रमेण ह्रसदिति॥ पञ्चनवतिचतुर्नवति-त्रिनवति-द्विनवतीत्येवं रूपेणेत्यर्थः॥ पदे त्वित्यस्यार्थमाह॥ अत्रेति॥ उत्तमावरसुरावधिके देवमानविषय इत्यर्थः । क्रमेण ह्रसदिति॥ एकाङ्गुलमध्य एव पादाङ्गुलार्धाङ्गुलादिरूपेण ह्रसदित्यर्थः । चतुसङ्गुल यावदित्यस्यार्थः सप्ताशीत्यङ्गुलपर्यन्तमिति॥ अत्रापि॥ गन्धर्वादिविषयेऽपीत्यर्थः॥ देवोपदेवेति॥ देवानामुपदेवशब्दितगन्धर्वाणां च परिमाणमित्यर्थः॥ अवरदेववदिति॥ एकनवत्यङ्गुलपरिमाणमित्यर्थः॥ यदुक्तमिति॥ उपद्रष्टेत्यादिनेति॥ भावः॥ सरस्वत्यादीनामपीति॥ ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिता इति भारततात्पर्योक्तेरिति भावः । विष्णुरत्र क्षेईत्युक्तिसूचितविग्रहमाह॥ विष्णुरिति॥ क्षि निवासगत्योरिति धातोरिति भावः॥ अत्रेति॥ गीतायामित्यर्थः । एवकारान्वयेनार्थमाह॥ सा श्रीरेवेति॥ इच्छा च सैवेत्यर्थः॥ एवं देवतान्तरेष़पीति॥ जिह्वावारिपतिर्वरुणो जलं शिवोऽहङ्कार इति प्रोक्तः उपस्थः स शिवो मनुरित्याद्युक्तदेवतान्तर इत्यर्थः । करणमित्यस्यार्थः॥ कार्यान्तरोत्पादकत्वमिति॥ उक्तनिरुक्तीति॥ हिंसाहेतुश्च जीवस्येत्यादिना प्रागुक्तनिरुक्त्येत्यर्थः । पृथिव्याद्या देवतास्तु देहवद्यद्वशत्वत इति काण्वभाष्योक्तदिशाऽर्थमाह॥ भगवत्तन्त्रत्वेनेति । पूर्वमितीति॥ पूर्वोक्तं ब्रह्मैव कर्तृरूपं सत् कर्म प्रवर्तयति । न तु कर्म ब्रह्मप्रवर्तकम् । पुण्येन पुण्यं लोकं नयतीत्याहौ बरह्मणः कर्तृत्वस्य कर्मणो हेतुत्वस्य व्यपदेशादिति भक्तिपादीयान्तिमसूत्रार्थः॥ नन्वत्रेति॥ गीतायामित्यर्थः॥ अत्रापीत्यनन्तरमत्रेत्यनुवादपूर्वं किञ्चित्पूरयित्वा मूलार्थमाह॥ यावदिति॥ तत्सङ्गात् प्रकृतिसंयोगात् । इति न च वाच्यमित्यन्वयः॥ एतद्वाक्यार्थस्येति॥ यावदित्यादिवाक्यार्थस्येत्यर्थः॥ अलमिति॥ मोक्षादिपुमर्थायेति योज्यम् । प्रमाणस्य मूलसमानार्थत्वाय मूलस्याभिप्रेतार्थमाह॥ भूतेति॥ अत्रोक्तमिति॥ प्रमाणवाक्योक्तमित्यर्थः॥ अकर्तृत्वप्रतीतिं चेति॥ न केवलं सर्वात्मकत्वमिति शङ्कामिति चार्थः । जडं न भवतीत्यत्रेतिपदानुवादेन शेषमाह॥ इति वाच्यमिति शेष इति॥ अनुरूपं दृष्टान्तं स्वयमाह॥ यथा शून्येति॥ भूतानां प्रकृतेस्सकाशान्मोक्षो यस्मादिति विग्रहाश्रित्याह॥ मोक्षं मोक्षसाधनमिति॥ तत्किमित्यत उक्तम्॥ अमानित्वादिकमिति॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते त्रयोदशोऽध्यायः॥ १३॥ ॥ अथ चतुर्दशोऽध्यायः॥ हरिः ॐ॥ भाष्यदिशा घट्टार्थमाह॥ प्राधान्येनेति॥ अत्र साधनशब्देन भगवज्ज्ञानसाधनस्य कर्मध्यानरूपस्याद्यषट्कोक्तस्य कामादिवर्जनरूपेतिकर्तव्यतांशो ग्राह्यः । मम योनिर्महद् ब्रह्मा, न तद्भासयते सूर्य इत्यादिना ईश्वरमाहात्म्यस्यापि वर्णनात्प्राधान्येनेत्युक्तम् । प्राचुर्यापेक्षया सङ्ग्राहकमेतदिति भावः॥ अध्यायपञ्चकमध्ये दर्शयत्यनेनाध्यायेनेत्यन्वयः॥ इत्युक्तेति॥ क्षेत्रक्षेत्रज्ञसंयोगहेतुकप्रपञ्चजननविवरणेत्यर्थः । गीतावाक्यमवतारयति॥ त्रैगुण्य इति॥ इत्यादिश्रुतिसिद्धमिति । ऐतरेयश्रुतौ सामपरमात्मा पुरुष एवातिशयेनाविर्भवतीत्युक्त्या योग्यस्यैव पुरुषत्वमित्येतत्सिद्धमित्यर्थः । परेत्यनुवादः, षड्भ्योऽधिकेति व्याख्या । जाम्बवत्यादिभ्य इत्यर्थः॥ सद्गुणत्वात्सिदिति॥ सद्भावे च सदित्येतत् प्रयुज्यत इत्युक्तेरिति भावः॥ इति धातुरिति॥ असुन्प्रत्यये तम इति पूपमिति भावः॥ अर्थान्तर इति॥ रजसः केवलदुःखफलकत्वरूपार्थान्तर इत्यर्थः । यद्वा तमसो ज्ञानिमात्रफलकत्वरूपार्थान्तर इत्यर्थः॥ गुणात्ययोपायादीति॥ लक्षणाचारावादिपदार्थः॥ साष्विति॥ समीचीनधर्ममित्यर्थः॥ इत्याद्युक्तार्थमिति॥ विष्णुभक्तिऋतौ(ते)लौकिमपुमर्थहानिप्राप्तौ तत्त्यागे पुमर्थप्राप्तावपि विष्णुभक्तिरनुष्ठेयैवेत्यादिरूपेणोक्तार्थमित्यर्थः॥ दीर्घावैष्णवेति॥ बहुकालानुष्ठेयेत्यर्थः । श्रीरूपस्यैव सत्वगुणमानित्वादाह॥ श्रीरुच्यत इति॥ उभयत्रेति॥ तत्कृतबन्धत्यागेन तदधिकप्राप्त्या च तदत्ययीत्युच्यत इत्यत्रेत्यर्थः । तद्व्यनक्ति॥ यथेति॥ एकमेवेति॥ अन्ते स्थितमित्यन्वयः । सर्वाधिकत्वेनान्ते स्थितमित्यर्थः॥ इत श्रीगद्गीतातात्पर्यटकाभावदीपे राघवेन्द्रयतिकृते चतुर्दशोऽध्यायः॥ १४॥ ॥ अथ पञ्चदशोऽध्यायः॥ हरिः ॐ॥ जगत्स्वरूपमिति॥ महानहङ्कार इत्यादिना प्रकृतिमहदादिचुर्विंशतितत्त्वात्मकमिच्छाद्वेषात्मकं इच्छाद्वेषादिविकारसहितं सदैवतं यज्जगत्स्वरूपमुक्तमित्यर्थः । संसारस्वरपं दर्शयतीति भाष्याविरोधायाह॥ तस्यैवेति॥ संसरत्यनेनेति व्युत्पत्त्येति भावः॥ जिहासता त्यक्तुमिच्छतेत्यर्थः॥ निरूपित इति॥ य एवं वेत्ति पुरुषमित्यादिना भगवदादिज्ञानरूपोपायैत्यर्थः॥ अतदेकदेशत्वेनेति॥ तदेकदेशत्वाभावेनेत्यर्थः॥ धर्मार्थयोः काममोक्षार्थत्वादिति॥ धर्मो मोक्षार्थः अर्थः कामार्थ इत्यर्थः॥ अश्ववत्स्थिऽश्वत्थ इति॥ सुपि इति कप्रत्ययः॥ कुत इति॥ कस्मात्प्रमाणादित्यर्थः॥ भगवन्मार्गणमिति॥ श्रवणादिरूपमित्यर्थः॥ प्रकृतिस्थानीत्यत्र प्रकृतिशब्दन्तत्कार्यपर इत्युपेत्याह॥ शरीरस्थानीति॥ सर्वेषामित्यस्यार्थमाह॥ उपजीव्यतयेति॥ एतेन नरे सञ्ज्ञायामिति दीर्घे वैश्वानर इति पूपमिति भावः॥ इति धातोरिति॥ शरीरद्वारा क्षरतीत्यर्थे पचाद्यच्प्रत्यये क्षरेति रूपमिति भावः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते पञ्चदशोऽध्यायः॥ १५॥ ॥ अथ षोडशोऽध्यायः॥ हरिः ॐ॥ तदुभयमस्मिन्नध्याये निरूप्यत इति॥ एतेन पूर्वाध्याये निर्मानमोहा इत्यादिना पुमर्थयोर्ज्ञानमोक्षयोः साधनस्य, यतन्तोऽप्यकृतात्मान इत्यादिना पुमर्थविरोधिनश्च सङ्क्षेपेणोक्तसय देवासुरलक्षणरूपस्यात्र विस्तरणात् पूर्वानन्तर्यमस्य सूचितं भवति॥ तत्रेति॥ देवासुरलक्षणोक्तिपरेऽध्याये इत्यर्थः॥ तत्स्मृत्यैवेति॥ उदाहृतवाक्यजातमित्यर्थः॥ अक्षादिविरोधं स्वोक्तिविरोधं च व्यनक्ति॥ सतीत्यादिना॥ सती सद्रूपेत्यर्थः॥ सर्वमिथ्यात्वस्यापि मिथ्यात्वादिति॥ सर्वं मिथ्येत्युक्ते सर्वशब्ददेन वियदादिजगत इव तन्मिथ्यात्वस्यापि सर्वशब्दार्थमध्ये पतितत्वादिति भावः॥ दैवीतीति॥ दैवी सम्पद्विमोक्षायेत्येतदित्यर्थः॥ अन्धतमोहेतुत्वमिति॥ समासान्तर्विधेरनित्यत्वादेव समन्धेभ्य इति समासान्तो नाश्रितः । तेन अन्धतमस इति भाव्यमिति नाशङ्क्यम्॥ तदुभयफलान्तर्वर्तमाना इति॥ तेषां तादृशशुभाशुभफले न स्त इत्यर्थः । यद्वा तदुभयफलत्वाद्देवासुरग्रहणेनैव तेऽपि गृहीता इत्यर्थः॥ देवादीनामपीति॥ देवासुराणामपि मुक्तितमोगत्वाद्देवेभ्योसुरेभ्यः को विशेषो देवानामित्यर्थः । यद्वा देवादीनां देवगन्धर्वप्रभृतीनां मुक्तिगत्वाद्देवेभ्यो गन्धर्वादिभ्यो देवानां को विशेष इत्यर्थः । तथा मनुष्याधमानामपि तमोगत्वाद्देवेब्योऽसुराणां को विशेष इति चार्थः॥ यदुक्तमिति॥ विमुक्तिगा इति शब्देनेति भावः॥ निसर्गत्वोक्तिरिति॥ स्वभावत्वोक्तिरित्यर्थः॥ अन्यथाभाआभाव इति॥ अन्यथात्वाभाव इत्यर्थः । तत इत्यनुवादः देवानामित्यादि व्याख्या॥ तात्पर्यं चेति॥ न केवलं कुतोऽशोच्यत्वमिति शङ्कानिरास इति चार्थः॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते षोडशोऽध्यायः॥ १६॥ ॥ अथ सप्तदशोऽध्यायः॥ हरिः ॐ॥ अनुष्ठानत्यागयोश्चेति॥ असम्भवादित्यनेनान्वयः । ननु ये शास्त्रविधिमुत्सृज्येत्यत्र निष्ठा केति पृष्टे सात्त्विकत्वादिकमेव वाच्यम् । त्रिविधेत्यादिकं किमुच्यत इत्यत आह॥ इति प्रश्नस्यैवेति॥ शास्त्रविधिमजानतां निष्ठायाः तदज्ञानस्य सात्विकादित्रयाणां सम्भवेनाज्ञानमुखेन सात्विकादिभेदस्य वक्तुमशक्यत्वात् । प्राक् यष्टृविशेषणतया यागङ्गत्वेनोक्तश्रद्धां विभज्य तदाश्रयेण तेषां सात्विकत्वादिस्वरूपमुच्यत इति भवति तत्प्रश्नस्येदमुत्तरमिति नासङ्गतमिति भावेन तदुत्तरत्वं विवृण्वन्नुत्तरश्लोकमवतारयति तत्रेत्यादिना भवतीत्यन्तेन । त्रिविधेति श्लोकार्थं उक्तः । यो यछ्रद्ध इत्यस्यार्थस्तत्रेत्यादिनोच्यते॥ तज्ज्ञानमिति॥ सात्विकत्वादिज्ञानम् । इत्युक्तस्येति चतुर्थपादोक्तस्येत्यर्थः॥ पूर्वमेवेति॥ सत्वं जीवः क्वचित्प्रोक्त इत्यादिना त्रयोदशाध्याये॥ अनेकार्थत्वादिति॥ तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधेत्युक्तेरिति भावः॥ तामिति॥ सात्विकादिश्रद्धां सात्विकादिश्रद्धावद्भिः क्रियमाणयजनमिति यावत्॥ इत्यसय विवरणेनेति॥ य इत्यत्र सात्विकादिश्रद्धः सात्विकादिरित्युक्ते कः सात्विकश्रद्धादिरिति जिज्ञसायां देवादियाजी सात्विकश्रद्धादिरिति विवरणेनेत्यर्थः॥ एवमिति॥ सात्विकी तामसस्यापीति एवं राजसस्यापीत्यादि ध्येयमित्यर्थः । उभयत्रान्तःकरणात्मिकेत्यनुषङ्गो मूले ध्येय इति भावः । व्यामिश्रयाजिन इत्यनुवादःव अक्रमेणेत्यादि व्याख्या । यजमानाः यागं कुर्वाणा इत्यर्थः । नेति चाखिलमित्यस्यार्थः अखिलमित्यादि॥ क्वचित्तथोक्तीनामिति॥ क्वचिद्ग्रन्थे अध्यक्षविद्या भूङ्क्ते, देवा भूञ्जते, शिवस्कन्दादयो भूञ्जत इत्युक्तेर्गतिरुक्ता भवतीत्यर्थः॥ अनेनेति॥ त्यक्त्वापि शास्त्रविहितमित्यादिनेत्यर्थः॥ शास्त्रविध्युत्सर्गादीति॥ शास्त्रविध्यज्ञानज्ञानेत्यर्थः॥ प्रयोजकत्वकथनस्येति॥ गीतायां त्रिविधेत्यादिनेति भावः॥ तज्ज्ञाने तज्ज्ञानमिति॥ सात्विकादिश्रद्धाज्ञाने सात्विकादिजीवस्वरूपज्ञानमित्यर्थः॥ सात्विकत्वादीति॥ सात्विकत्वमुत्तमत्वं राजसत्वं मध्यमत्वं तामसत्वमधमत्वमिति ज्ञातव्यमित्यर्थः॥ तस्मादित्यनुवादः ऒङ्कारस्येत्यादि व्याख्या॥ इति सिद्धमिति॥ कथमेतज्ज्ञायत इत्यत आह॥ उक्ति प्रसङ्गदिति॥ प्रकरणबलादिति भावः । रसाद्यर्थमित्यत्र रसपदस्यार्थमाह॥ रसो रसायनमिति॥ मूले कट्वादीनां राजसत्वनियमे दुःखशोकेत्यादिविशेषणं ज्ञापकतया यथोदाहृतं तथा रस्यादीनां सात्विकत्वनियमे आयुरित्यादि विशेषणं ज्ञापकतयोदाहर्तव्यमित्यर्थः । तथा च दुःखशोकाद्यहेतुत्वे यथानराजसत्वं तथा आयुरादिविवर्धनाहेतुत्वे सात्विकत्वं रस्यादीनां नेति ज्ञातव्यमिति भावः॥ शङ्कते॥ नात्रायमिति॥ अन्नोत्पन्नत्वेपीति॥ विवर्धत इत्यनेन सत्त्वस्य तदुत्पन्नत्वश्रवणादिति भावः । कर्मणि घञन्तं यामपदमित्युपेत्याह॥ यामं याम्यमिति॥ तत्रेति॥ याग इत्यर्थः॥ वाक्यान्तरेणेति॥ ॐ तत्सदिति, यद्विष्णोरित्यादिवाक्यान्तरेणेत्यर्थः॥ तद्वाक्येति॥ प्रागुक्तस्मृतिवाक्यविवरणेनैतद्वाक्यं गीतावाक्यमित्यर्थः॥ तच्च पदमिति॥ सदिति पदं चेत्यर्थः॥ विवृतं भवतीति॥ ओमादिनामकभगवत्सम्बन्धाद्यज्ञादिकमपि तन्नामकमिति विवृतमित्यर्थः॥ तदुच्चरण इति॥ ऒङ्कारोच्चरण इत्यर्थः॥ तेन हि मन्त्र इति॥ मं ज्ञातारं त्रातीति मन्त्र इत्यर्थः । माङ् मान इत्यतः कर्तरि अण् प्रत्ययेऽप्रत्यये वा म इति रूपम् । त्रैङ् पालन इत्यत आतोनुपपसर्गे क इति कप्रत्यये डप्रत्यये वा मन्त्र इति रूपसिद्धेः॥ एवमेवाध्यायसङ्गतिः सूचितेति॥ अफलाकाङ्क्षित्वादिना क्रियमाणं कर्म सत्, अन्यदसदिति तात्पर्यादध्यायान्तर्भावसङ्गतिरित्यर्थः । इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते सप्तदशोऽध्यायः॥ १७॥ ॥ अथ अष्टादशोऽध्यायः॥ हरिः ॐ॥ पुमर्थसाधनमिति॥ मोक्षहेतुज्ञानसाधनं त्रैगुण्यविषयावेदा इत्यादिनोक्तमित्यर्थः । त्रैगुण्यं सत्त्वादिगुणत्रयकार्यमित्यर्थः॥ नाग्निर्न यज्ञ इत्यादेरिति॥ अपशूद्राधिकरणभाष्योक्तवचनादित्यर्थः । भावानभिज्ञः शङ्कते॥ कर्मत्यागस्येति॥ कार्यमित्येवेत्युक्तविरोधादिति॥ तत्र कुशले कर्मण्यनुषङ्गस्योक्तत्वादकुशले फले द्वेषस्य च प्रतीतेरिति भावः॥ किं तस्य सर्वथेति॥ बन्धकं कर्म तस्य सर्वथा सर्वात्मना न बन्धाय भवति किमित्यर्थः । सर्वत्यागिनां सर्वकर्मफलत्यागिनामित्यर्थः॥ त्यागित्वादेवेति॥ कर्मफलस्येत्यनुषङ्गः॥ तदपीति॥ परार्थकाम्यकर्मस्वरूपत्यागिनमित्यर्थः । तथा च सन्यासिनामित्युक्त्या त्यागिनामित्येवोक्तं भवतीति भावः॥ कर्मण्यमिमानत्यागोऽपीति॥ न केवलं काम्यकर्मन्यासमात्रं सन्न्यास इत्यपिशब्दार्थः॥ तज्ज्ञानं स्तूयत इति॥ स्वात्मनोक्तकर्तृत्वज्ञानमित्यर्थः । मूले इत्यन्तेन न हन्तीत्यस्य हन्मीति भावं न करोतीत्यर्थमुपेत्य पौनरुक्त्यमाशङ्क्योच्यत इति शेषपूरणेन तन्निराह॥ न हन्तीत्युच्यत इत्यत इति॥ पुनरुक्तिरिति॥ नाहङ्कृतो भाव इत्यनेनेति योज्यं तस्याङ्गीकृतत्वादिति॥ विशेष्यविशिष्टयोरभेदस्याङ्गीकृतत्वादित्यर्थः॥ ज्ञाता देवदत्त इति॥ ज्ञातृत्वविशिष्ट इत्यर्थः । देवदत्त इति विशेष्योक्तिः । दार्ष्टान्तिके योजयति॥ एवमीश्वरेति॥ अण पण गताविति धातोर्निरुक्तात्वादेव न दीर्घत्वं, किन्तु पररूपत्वमिति भावः॥ सात्विकज्ञानादिसाधनेति॥ सात्विकज्ञानमर्मादेः मोक्षसाधनत्वात्सात्विकज्ञानादिरूपमोक्षसाधनानुष्ठानाय गुणनिमित्तसात्विकज्ञानादिभेदा उच्यन्त इत्यर्थः । एवमित्यनुवादः । सर्वगतस्येति व्याख्या॥ सप्तम्या अभिप्राय इति । आधारत्वस्य भेदनिबन्धनत्वात्तेन पृथक्त्वं लब्धमिति भावः॥ भवतीति जडं चोच्यत इति॥ भू सत्तायामिति धातोः प्रकृत्यादिजडस्यापि सद्रूपत्वाद् भूतपदेन ग्रहणमित्यर्थः॥ उक्तत्वादिति॥ पूर्वश्लोकविभक्तेष्वित्यादिनेतिन भावः॥ अनेन यदीति स्मृतिर्विवृतेति॥ सर्व(गतं)गत्वमित्याद्यंशेन विवृतेर्थः । एकस्येत्यस्यार्थमाह ॥ यस्य कस्यचिदेकस्येति॥ भिन्नाधिकरणतयेति॥ भिन्नाभिन्नविषयतयेत्यर्थः॥ विधायेति॥ तृतीयाध्याये इति योज्यम् । स्वरूपयाथार्थ्यज्ञानादित्यत्र काङ्क्षितं पूरयति॥ अपेक्षिततया ज्ञायत इति सम्बध्यत इति॥ तदर्थलाभप्रकारमाह । अहं परः सर्वोत्तम इत्यादिना॥ कर्तापीति॥ कार्यानुकूलकूतिमानपीत्यर्थः॥ धृतिश्चेद् व्यभिचारशून्यैवेति॥ स्खलनशून्यैवेत्यर्थः । कर्मैषामधिकं यत इत्यत्र स्थायिकपदमनूद्य काङ्क्षितं पूरयति॥ अधिकं क्रमादिति सम्बध्यत इति॥ तदिति॥ कर्माधिक्यमित्यर्थः॥ इत्यादाविति॥ अत्रैवोत्तरश्लोक इत्यर्थः॥ गृहस्थान्तानामिति॥ नैष्ठिको गृहीत्युक्तगुहस्थान्तानामित्यर्थः । असर्ग इत्यादेरर्थः अपत्यानुत्पादनमित्यादि॥ विप्रादिस्वरूपमुक्तमिति॥ विप्रा राजससात्विका इत्यादिनेति भावः॥ इति गमयितव्यमिति॥ अन्यथान्याधिक्यमित्याद्युत्तरवाक्यविरोधादिति भावः॥ गुणाभावादिति॥ सत्त्वादिगुणाभावादित्यर्थः॥ उक्तप्रकारेति॥ श्रेष्ठ एवोत्तरोत्तरा इत्यादावुक्तप्रकारावसितेत्यर्थः॥ इत्युच्यन्त इति॥ नराधमास्तामसेषु सात्विका इति पूर्वोक्तस्मृतावित्यर्थः॥ वाक्यद्वयेनोक्तमिति ॥ ‘राजसास्तु सरास्तत्रेति’ ‘ये तु भागवता इति च’ वाक्यद्वयेनेत्यर्थः॥ प्रागुक्तरीत्येति॥ शुद्धसत्त्वास्तु परमहंसा इत्यादिनोक्तरीत्येत्यर्थः॥ वाक्यान्तरेति॥ (येतु) भागवतेति वाक्यान्तरेत्यर्थः॥ स्वफलप्रदत्वस्योक्तत्वादिति॥ चतुर्दशेऽध्याये॥ राजससात्विकादिरिति॥ परमहंसादिरादीपदार्थः॥ नराधमादिरिति॥ दैत्यादिरादिपदार्थः । सम इत्यनुवादः एकेत्यादि व्याख्या । फलितमाह॥ अज्ञ इति॥ तत्त्वज्ञानमिथ्याज्ञानोभयहीन इत्यर्थः॥ प्रयोजनमिति॥ भाव इति । भावेनेत्यर्थः॥ तेषामिति॥ येषु क्षत्रियेष्वाधिक्यमुच्यते तेषामित्यर्थः॥ इत्यादि द्रष्टव्यमिति॥ क्षत्रियसमगुणश्चेत्क्षत्रिय इत्यादिरादिपदार्थः॥ तत्तदिति॥ क्षत्रियसमगुणश्चेत् क्षत्रियः वैश्यसमगुणश्चेद्वैश्य इत्येवं द्रष्टव्यमित्यर्थः॥ तद्धर्मकथनस्थल एवेति॥ क्षत्रियधर्मकथनस्थल एव इत्यर्थः॥ उक्तन्यायेनेति॥ एते गुणाः किञ्चिदूनाः विप्रादित्यादिनोक्तन्यायोनेत्यर्थः । यद्वा स्वकर्मणेत्यादिनोक्तन्यायेनेत्यर्थः । मूले क्षत्रियस्य विशेषधर्मा उक्ताः । अन्यषां स्वयमाह॥ एवं कृष्यादय इत्यादि॥ शुश्रूषायाः सर्वधर्मत्वादिति॥ अध्यापनञ्च शुश्रूषेत्युक्तदिशेति भावः॥ इत्यादीति॥ क्षत्रियस्य भीत्या पलायनं वैश्यस्यापि यथान्यायातिक्रमणमित्यादीत्यर्थः॥ इत्यादीति । क्षत्रियस्यापि धैर्येणापलायनम् । वैश्यस्य न्यायेन कृष्यादीत्येवं ध्येयमित्यर्थः॥ उक्तस्येति॥ अनिसर्गोपीत्युक्तस्येत्यर्थः॥ नोक्तविरोध इति॥ क्षत्रियस्य विशेष इत्युक्तविरोधो नेत्यर्थः॥ इत्यस्य व्यावर्त्यमाहेति॥ क्षत्रियैरेव कर्तव्यत्वरूपं व्यावर्त्यमाहेत्यर्थः । ननु ब्राह्मणानामपि शिक्षाकर्तृत्वे क्षत्रियस्य विशेषाविति प्रागुक्तविरोध इत्यत आह॥ अत्र सर्वत्रेति॥ श्लोकद्वयं एकान्वयेन योजयति॥ यदि क्षत्रियस्येत्यादिना॥ नैष्कर्म्यसिद्धिसाधनेति॥ प्रारब्धेतरसर्वारिष्टकर्मनाशसाधनविवरणे(ने)त्यर्थः॥ न चातिप्रसङ्ग इति॥ मुक्तावपि ज्ञानवृद्धिप्रसङ्गपूपो न चेत्यर्थः॥ लक्ष्मीप्राप्ताविति॥ एतेन ब्रह्मभूयायेत्यस्य लक्ष्मीप्राप्त्यर्थमित्यर्थं उक्तो भवति॥ ज्ञानानन्तरमित्युक्त्या च नैष्कर्म्याय मोक्षाय सिद्धिं तदूपायज्ञानसिद्धिमित्यप्यर्थः सूचितः॥ विशिष्यत इति॥ स्वकर्मणा तमभ्यर्च्येत्यत्र स्वकर्मकृतौ किञ्चिद्विशेषणमाहेत्यर्थः॥ इत्यादौ प्रागिति॥ द्वितीयाध्याये ॥ वस्तुनि विकल्पायोगादिति॥ भागवतस्य सर्वोत्तमत्वं त्रैविद्यस्य तु नेति वस्तुनि हरौ विकल्पायोगादित्यर्थः॥ तदपीति॥ भगवत्सर्वोत्तमत्वमपीत्यर्थः॥ भाव इति ॥ भावनेत्यर्थः॥ प्रतिज्ञायेति॥ नवमेऽध्याये॥ द्वाविमावित्यत्रोपसंहारो न दृश्यत इत्यत आह॥ इति वाक्यशेषादिति॥ प्रागुक्तत्वादिति॥ चतुर्दशाध्यायादावित्यर्थः॥ साधनोपसंहार इति॥ बुधयारोहाय सङ्क्षिप्य कीर्तनं व्यर्थमित्यर्थः॥ अन्यथाऽर्थकल्पन इति॥ मन्मननत्वादिधर्मान् परित्यज्येति व्याख्यान इत्यर्थः॥ एकार्थत्वमिति॥ सदेत्यन्तेन तन्मनस्त्वस्य सर्वाधिकत्वे प्रेमयुक्तमित्यनेन मद्भक्त इत्यस्य सर्वत्र समर्पणमित्यनेन मद्याजीत्यस्य अखण्डा त्रिविधा पूजेत्यादिना मां नमस्कुर्वित्यस्यैकार्थ्यं व्यक्तमिति द्रष्टव्यमित्युक्तम् । सक्ष्यत इति॥ लक्षणया प्रतिपाद्यते, तपःप्रभृतिगुणयुक्तोऽधिकारीत्युच्यत इत्यर्थः॥ गीताव्याख्यानादीति॥ आदिपदेनाध्ययनश्रवणयोर्ग्रहः॥ कारणभूता इति॥ सर्वेन्द्रियप्रेरकत्वाद्देवानामिति भावः॥ तत्रेति॥ गीतायां तात्पर्यनिर्णयाख्य ग्रन्थे वा प्रतिपादितगुणपूर्णत्वनिर्दोषानन्ददायित्वज्ञानिश्रेष्ठस्वप्रियतमत्वप्रकारमित्यर्थः॥ तदाहेति॥ वायोस्तृतीयावताररूपं स्वस्वरूपमाहेत्यर्थः॥ तमेवेति॥ स्वग्रन्थे प्रतिपादितप्रकारमेव हरिमित्यर्थः॥ अशेषदोषदूराय गणपूर्णाय विष्णवे । नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने॥ इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते अष्टादशोऽध्यायः॥ १८॥ ॥ श्रीकृष्मार्पणमन्तु॥