राघवेन्द्रः - भावदीपः

[[श्रीमद्भगवद्गीता तात्पर्यनिर्णयटीका भावदीपः Source: EB]]

[

** श्रीराघवेन्द्रयतिकृत-श्रीमद्भगवद्गीतातात्पर्यनिर्णयटीका भावदीपः॥**

प्रथमोऽध्यायः ॥

न विद्यते ।

*****************************************************************************************************************************************************

अथ द्वितीयोऽध्यायः

?Rभावदीपः-

?Rलक्ष्मीनारायणं नत्वा पूर्णबोधादिसद्गुरून् ।

?Rगीतातात्पर्यटीकाया भावदीपं करोम्यहम् ॥

?Rसकलवाङ्मनसदेवतेन्द्रिरोपसर्जनकभगवन्नतिरूपं मङ्गलं ग्रन्थादावाचरति ॥ इन्दिरेति ॥ एतच्च न सोख्यातिशयाय, किन्तु तदनुग्रहार्थमेवेति भावेनोक्तममन्देत्यादि । ‘?Rअशरीरः प्रज्ञात्मा’?R इत्युक्तेः कथमशरीरस्य वदनाम्भोजराजहंसत्वमिति शङ्‌कासत्वमिति शंकानिरासायोक्तं सुन्दराकृतय इति । प्राकृतदेहनिषेधपरा श्रुतिरिति भावः ।

?Rग्रन्थकर्तृन्नमति ॥ धर्मेति ॥ गुरुत्वाद्बहुवचनम् । एवमग्रेऽपि । प्राचीनटीकाकर्तृनर्थयते ॥ स पद्मनाभेति ॥ सूर्यकिरणसमूहो यथा लोकस्य ज्ञानाय भवति, तथैतेषां वाक्समूहो मम ज्ञानायास्तु । उत्तरार्धेऽप्यर्थद्वयं ज्ञेयम् । श्रीपद्मनाभेति पाठे यच्छब्दश्रवणात् स गोगण इति योज्यम् । अक्षोभ्यतीर्थाख्यखगुरून् नत्वा चिकीर्षितं प्रतिजानीते ॥ प्रणम्येति ॥

?R॥ अथेति ॥ प्रतिग्रन्थव्याख्याऽऽरभ्यत इत्यारम्भार्थोऽथशब्दः । व्याख्याने बीचोक्तिरशेषेत्यादि । यथावदित्येतद्घटनायोक्तमन्यैरित्यादि । परिसमाप्त्यादीत्यादिपदेन प्रचयसङ्ग्रहः । परम्परादीत्यादिपदेन तदनुमितायाः ‘?Rप्रारिप्सितसमाप्त्यादिकामः स्वेष्टदेवतानतिं कुर्यात्’?R इति श्रुतेर्ग्रहः । निबन्धनस्य कृत्योक्तिः शिष्येति । शिष्यैरप्येतदवश्यं कार्यमिति ज्ञापनार्थमित्यर्थः ।

?Rसमस्तपदेनापौनरुक्त्यमाह ॥ सम्पूर्णमिति ॥ सम्मतगीतास्विति ॥ वेणुगीताभ्रमरगीतागोपिकागीताभिक्षुगीतेत्यादिरूपास्वत्यर्थः ।

?R॥ तस्या एवेति ॥ भारतस्य वा तदन्तर्गतग्रन्थान्तरस्य वा त्यागेनेति योज्यम् । नन्वित्यादिना कृतचोद्यस्य शास्त्रेष्विति श्लोकस्थपूर्वोत्तरार्धतात्पर्योक्त्योत्तरमाह भारतस्येत्यादिना ।

?Rप्रतिनिधेः पाषाणादेः । महत्त्वं भारहेतुरित्याह ॥ महत्वात्तत एव भारेण ततत्वादिति ॥ महत्वाद्भारो महभारः । निरुक्तत्वादेव महत आ पञ्चमीसमासश्च ज्ञेयः । तेन महाभारेण ततत्वाद्व्याप्तत्वात् । महाभारोपपदात् तनोतेर्डप्रत्यय इति भावः । निर्वचनमवयवार्थकथनम् । ‘?Rएष विष्णोर्भगवतः कला भुवनपावनी’?R इत्यादि पृथुं प्रति त्रषिभिरुक्तं हृदि कृत्वा शंकते ॥ पृथ्यवादिष्विति ॥ आदिपदेन बलरामकार्तवीर्यार्जुनादिग्रहः । ‘?Rआविवेश पृथुं देवः शङ्खी चक्री चतुर्भूजः’?R इत, ‘?Rपृथुहैहयादयो जीवास्तेष्वाविष्टो हरिः स्वयम्’?R इत्यादिवचनात्तेषां न साक्षादवतारत्वमस्तीति भावेन स्वयंशब्दार्थमाह ॥ साक्षान्नारायणेति ॥ गुह्येति ॥ भाषाद्वयं भारततात्पर्यद्वितीये व्यक्तम् । अन्यत्र पुराणेषु ॥

?Rउपोद्धातः- ॥ अनुकूलयिष्यन्निति ॥ सङ्क्षेपेणोक्ते प्रपञ्चं जिज्ञासवो भवन्तीति प्रपञ्चनेऽपि जिज्ञानाजननमत्रानुमूलनमिति भावः ॥ इति शेष इति ॥ नारायणपदानन्तरं इतिपदं कथ्यत इति पदञ्चाध्याहार्यमित्यर्थः ॥ इति स्म़तेरिति ॥ ‘?Rज्ञानेनासौ विभर्ति माम्’?R इति भागवतस्मृतेरित्यर्थः ॥ अत्र ज्ञानित्वे ॥ ‘?Rनैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः’?R । इति स्मृतेरिति भावः ॥ अत्रैवेति ॥ द्विट्‌तदनुबन्धिनिग्रह एवेत्यर्थः ॥ केषाञ्चिदिति ॥ दुर्योधनादीनां । भीष्मद्रोणादीनां तदनुबन्धित्वादिति भावः ॥ शास्त्रविदुषा ॥ अर्जुनेनेत्यर्थः ॥ धर्मैकदेश इति ॥ युद्धरूपे । समग्रधर्मः स्वविहितवृत्तिभगवद्भक्त्यादिरूपः ॥ मिलितमेवेति ॥ भक्तिवैराग्यादिपूर्वकं स्वविहितवृत्तिः परमधर्म इत्यर्थः । युद्धनिवृत्तिरपि परमधर्मविरुद्धत्वादधर्म एवेति तद्बोधनमपि कार्यमेवेत्यर्थः ॥ तथाभावात् ॥ धर्माधर्मभावादित्यर्थः । तद्विरुद्धमपि धर्मत्वेन नियमयति चेत् धर्मो भवत्येवेत्यत आह ॥ तस्य चेति ॥ हरेः स्वभक्त्यादिपूर्वकस्वविहितवृत्तितद्विरुद्धरूपयोरेव धर्माधर्मत्वेन नियमनोपपत्तिरित्यर्थः ॥ उक्तविधस्येति ॥ भक्तिपूर्वं स्वविहितवृत्त्या क्रियमाणस्य भगवदाराधनस्येत्यर्थः । कर्तव्यत्वे हेतुश्चतुर्थपादेन लब्ध इति भावेनाह ॥ मोक्षेति ॥ ते हितमिति मामेवैष्यसीत्याभ्यां लब्धहेत् आह हितेत्यादिना ॥ त्याज्यत्वं चेति ॥ अवगम्यत इति योज्यम् । तद्व्यनक्ति भक्त्येत्यादिना । स्वधर्मेणेत्यनुवादेन शेषमाह ॥ भक्त्या चेति संयोज्यमिति ॥ भक्त्या भगवदाराधनमेव धर्मस्तद्विरुद्धस्त्वधर्म इत्येषोर्थोऽनेन कथं लब्ध इत्यत आह ॥ कर्तव्येति ॥ परमधर्मत्वेन भक्तिर्गीतायामभिमतेति कुत इत्यतो मूलं योजयति ॥ परोक्षेति ॥ ज्ञातुं द्रष्टुं चेत्युक्तपरोक्षापरोक्षयोः प्रवेष्टुं चेत्युक्तज्ञानिमोक्षस्य च भक्त्या त्वनन्ययेति भक्त्यधीनत्वावगमादित्यर्थः ॥ अन्यथेति ॥ ज्ञानस्य श्रवणाद्यधीनत्व इत्यर्थः । शंकोत्तरत्वेन मूलार्थमाह ॥ श्रवणादेरिति ॥ उत्तमत्वस्येति ॥ तथा च सूत्रं-’’?Rपरेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः’’?R (ब्र.सू. 3-3-54) इति ॥ तत्रेति ॥ सर्वधर्मानिति श्लोके कर्तव्यस्य त्याज्यस्य चाभावोऽभिमत इत्यर्थः । हेयोपादेयाभावेन

?Rशरणागतिरेव तस्याभिप्राय इति शंकितुर्भावः । यद्वा तत्रेत्यस्य गीतायामित्यर्थ इति ज्ञेयम् । एतद्‌द्वयं मत्कर्मकृन्मत्परम इति श्लोके कथमबगम्यत इत्यतोऽनुवादव्याजेन व्यनक्ति यदुक्तमित्यादिना । गीतापदार्थमुक्त्वा तत्कर्मेति मूलपदस्यार्थमाह ॥ तदेव तत्कर्मेति ॥ कर्मधारय इत्युक्तं भवति । अस्मच्छब्दात्तद्भगवद्विषयं कर्मैव भक्तस्य कर्मेत्यर्थः । तदर्थत्वेन भगवदर्थत्वेन निषिद्धमेवेत्यर्थः ॥ तत्रेति ॥ गीतायामित्यर्थः । तद्व्यञ्जयन् मूलार्थमाह ॥ स्वविहितमिति ॥ अवगम्यत इति सर्वत्र योज्यमिति प्रागेवोक्तम् । तदुभयमित्यस्य स्वविहितं भगवदर्थं चेत्यर्थः ॥ इत्यनेनेति ॥ इत्यर्धेनेत्यर्थः । साक्षात्परम्परयेति ॥ निर्दोषत्वेनेत्यन्तस्य साक्षादपेक्षितत्वम् । अन्येषां तु परम्परया ॥ अभिन्ने निस्स्वरूपे स्वस्मादुत्तमे वस्तुनि स्वस्य सार्वज्ञसर्वशक्त्यादिगुणहीनत्वेन, जननमृत्यादिदोषवत्त्वे सार्वकालिके सार्वदैशिके च सर्ववस्तुनि नियमनायोगात्, अन्याधीनत्वे तदनुमतिं विना स्वेच्छाऽदिद्वाराऽन्यस्यैव मोक्षहेतुत्वे पुमर्थदानद्वारा शास्त्रप्रतिपाद्यत्वस्यापि विधिनिषेधज्ञापनस्योपास्त्यादिद्वारा नियमनस्याकार्यत्वादिति भावः ॥ सर्वस्य तदधीनत्वमिति ॥ ‘?Rलोकमहेश्वरम्’?R इत्यनेनेति भावः ॥ बुद्धिरितीति ॥ सर्वस्य तदधीनत्वमिति ॥ ‘?Rभवन्ति भावा भूतानां मत्त एव पृथग्विधाः’?R इति वाक्यशेषादिति भावः । सप्तर्षय इत्युपक्रम्य ‘?Rएतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोविकम्पेन योगेन युज्यते नात्र संशयः । इति वाक्यशेषेश्रवणादाह ॥ निष्कम्पेति ॥ करणव्युत्पत्तिमुपेत्याह ॥ सर्वशास्त्राणामिति ॥ ज्ञानविज्ञानपदयोः शास्त्रर्थत्वेऽपि भगवत्परत्वं कथं लब्धमित्यत उक्तम् ॥ भगवदिति ॥ ‘?Rयज्ज्ञात्वा’?R इत्यर्धेनोक्तेरित्यर्थः । यद्वा ‘?Rयेनाश्रुतं श्रुतं भवति’?R इत्यादौ भगवज्ज्ञानेनैव सर्वस्य ज्ञातत्वोक्तेरिह च ‘?Rयज्ज्ञात्वा नेह भूयोऽन्यत्’?R इत्यादिना ज्ञातत्वोक्तेर्भगवत्परत्वं सर्वशास्त्राणां सिद्धमित्यर्थः । प्राधान्योक्तिरिति ॥ राजविद्येत्यस्य प्रधानविद्येति व्याख्यानादिति भावः ॥ तज्ज्ञानान्मोक्षश्चेति ॥ सुखस्यैकान्तिकस्य प्रतिष्ठाऽहमित्युक्तेरिति भावः । अन्य इत्युक्तेराह ॥ भेद इति ॥ उत्तम इत्युक्तेरुक्तामुत्तमत्वमिति । बिभर्तीत्युक्तेराह ॥ सर्वस्य तदधीनत्वमिति ॥ ‘?Rलोके वेदे च प्रथितः’?R इत्युक्तेराह ॥ सर्वशास्त्राणामिति ॥ बुद्धिमान् कृतकृत्यश्चेत्युक्तेराह ॥ तज्ज्ञानान्मोक्षश्चेति ॥ असत्यमप्रतिष्ठं त इति ॥ तेनासत्यताऽदिवादिनां निन्दया जगत्सत्यत्वावगमादिति भावः ॥ यदुक्तमिति ॥ कुरु कर्मेत्यादिवाक्मुदाहृत्य ज्ञानिनोपि भगवत्कर्मेति यदुक्तमित्यर्थः । ज्ञानिनापि राध्यः साध्यः ॥ मोक्षानियमादिति ॥ ‘?Rअनियमः सर्वेषाम्’?R (ब्र.सू.3-3-35 ) इति सूत्रादिति भावः । यच्छब्दश्रवणादाह ॥ तेनेति शेष इति ॥ वर्णाश्रमोचितकर्मणेत्यर्थः ॥ तस्मादिति वेति ॥ कर्म कुर्यादित्यनेन तस्मादित्यस्यान्वय इति भावः । साधनोत्तमत्वमित्यादीत्यादिपदेन परोक्षापरोक्षर्ज्ञानिनोऽपि मोक्षस्य तदधीनत्वं चेति गृह्यते ॥ उच्यत इति ॥ ‘?Rभक्त्या प्रसन्नः परमो दद्याद्‌ज्ञानं’?R इत्यनेनोच्यत इत्यर्थः ॥ श्रवणादेरिति ॥ ‘?Rआत्मा वा अरे द्रष्टव्यः’?R इत्यादाविति भावः ॥ मोक्षादिरिति ॥ ज्ञानमादिपदार्थः । ‘?Rदृष्ट्यादिस्तस्य साधनम्’?R इत्यत्रादिपदेन ध्यानं श्रवणमनेन च ग्राह्ये । तस्येत्यनेन च भक्तिशब्दार्थतयोक्तो यः स्नेहः स चातिपरिपक्वः परिपक्वः अपरिपक्व इति त्रिविधोऽपि गृह्यत इत्युपेत्य दृष्ठ्यादिमध्ये किं कस्य भक्तिरूपस्य स्नेहस्य साधनमित्यतस्तद्विवेकेन दर्शयन् कथं भक्तेरित्यादिसोक्तशंका निराह ॥ अतिपरिपक्व इत्यादिना ॥ योग उपायः ॥ तत्साधनत्वादिति ॥ मोक्षसाधनातिपरिपक्वभक्तिसाधनत्वादित्यर्थः । तत्साधनमिति ॥ दृष्टिसाधनपरिपक्वभक्तिसाधनमित्यर्थः । श्रवणादीत्यादिपदेन मननग्रहः । यदुक्तमिति ॥ ‘?Rसुदुर्दर्शमिदं रूपं’?R इत्याद्युदाहृक्तमित्यर्थः । देवत्वादुत्तमाधिकारित्वमित्यनुवादः स्वकृतव्याख्यानानुरोधेनेति ज्ञेयम् । व्याप्तौ चेति ॥ ये देवास्तेऽधिकार्युत्तमा इति मूले व्याप्तिरभिमतेति भावः ॥ यद्विष्णोरिति ॥ ‘?Rन त्वत्समोऽस्ति’?R इत्याद्युदाहृत्योक्तमित्यर्थः । मी लहुषोऽमिलषितसेचकस्य । एषस्य आ समन्तादीशस्य । वयाः बन्धकः । प्रभरणे पूजायाम् । रुद्रिये, रुद्रशब्दाद्धः, रौद्रम् । विदे विविदे, विद्‌लृ लाभे, लेभ इत्यर्थः । यथा तथेति शेषोक्तिः ॥ यासिष्टमिति श्रवणाद्युवामित्यर्थः । इरावत् अन्नवत् । वर्तिः वर्तनम् । वृतेरिकारप्रत्ययो भावार्थ इति भावः । यासिष्टम् अयासिष्टम् । अडभावश्छान्दसः । प्राप्तौ स्थ इत्यर्थः । कथं समचिन्तयदित्यतः स्वयमाह एते वक्ष्यमाणा जायन्तामितीति । श्रौतपदार्थमाह ॥ सत्यं मुख्यमिति, ततो विष्णुत इति च ॥ मात्रया मात्रायाः मितेः । तन्वा वृधान मूर्त्यैव पूर्णोऽसि । अन्ये इति शेषोक्तिः । अन्वश्नुवन्ति, अशू व्याप्तौ, प्राप्नुवन्ति ॥ यदुक्तमिति ॥ ‘?Rपश्यन्नपीममात्मानम्’?R इत्यादिनोक्तमित्यर्थः ॥ पूर्वोत्तरेति ॥ ‘?R स्थितप्रज्ञस्य का भाषा समाधिस्थस्य ‘?R इति श्लोकेऽत्र विवक्षितस्य मुक्तस्य प्रकृतत्वात् । ‘?R नैव तस्य कृतेनार्थः ‘?R इत्युत्तरवाक्ये मुक्तलिङ्गश्रवणात्तदनुसारेण चेत्यर्थः । भाष्यानुसारादत्र मुक्तशब्दः समाधिस्थपर इत्याह ॥ अत्र सर्वथेति ॥ ‘?R समाधिस्थोपि ‘?R इत्यपिपदादर्थद्वयपरः श्लोक इत्येके । ‘?R ज्ञानयोगेन साङ्ख्यानाम् ‘?R इत्यस्य तात्पर्यमाह ॥ ज्ञानेनैवेति ॥ साङ्ख्यानामित्यस्यार्थो ज्ञानिनामिति । शंकते ॥ नात्रेति ॥ यदुक्तमिति ॥ ‘?R सुदुर्दर्शमिदं रूपम् ‘?R इत्यादिनाऽर्जुनो ज्ञानीति यदुक्तमित्यर्थः ॥ इति संक्षेपेण गीतातात्पर्योक्तिः ॥

?Rसङ्ग्रहोक्त्यैवेति ॥ ‘?R तत्र साक्षादिन्द्रावतारम् ‘?R इत्यादिनेति भावः ॥ दृष्ट्‌वेममित्यादिनेति ॥ पूर्वाध्याये ‘?R दृष्ट्वेमं स्वजनं कृष्ण ‘?R इत्यादिना भयकम्पगाण्डीवस्त्रंसनादेर्युद्धनिवृत्तावुपपत्तेरुक्तत्वादित्यर्थः ॥ उत्तरार्धमुपादत्त इति ॥ अर्थस्तु स्पष्टः । चशब्द उपमाऽर्थो ध्येय इति भावः ॥ सत्यमिति ॥ बन्धुस्नेहनिमित्तान्नाशभयात् ‘?R न योत्स्ये ‘?R इत्येतत्सत्यमित्यर्जुनोक्तिपरिहाहार्थं विकल्पयतीत्यन्वयः ॥ तदिति ॥ उक्तरूपमर्जुनवचनमित्यर्थः । एवमेवेत्यस्य परमचेतनत्वेनेति भ्रमनिरासायाह ॥ चेतनमात्रत्वेनेति ॥ अतिशयेन नित्यत्वमेवेति ॥ ‘?R चेतनश्चेतनानाम् ‘?R इत्यत्रेति भावः ॥ विवक्षितेति ॥ स्वरूपतो देहतश्च प्रागभावविनाशयोरभावरूपोऽर्थः ॥ उभयविधेति ॥ स्वरूपतो देहतश्चेत्यर्थः । प्रतीकग्रहणबलाच्छंकानिरासलाभ इति भावेनाह ॥ तुशब्देनेति ॥ लोकपदेन विवक्षितमर्थमाह ॥ प्रप्तइत्यादिना ॥ अनेनेति ॥ लेकस्य प्रसक्तिकथनेनार्जुनापेक्षयाऽप्रस्तुतत्वोक्तिविरोधो नेत्यर्थः ॥ सरणं गमनमिति ॥ सू गताविति धातोः । ये गत्यर्थास्ते ज्ञानार्था इति भावः । ‘?R नाभावो विद्यते सतः ‘?R इत्येतावता प्रकृतशंकाऽपरिहारादाह ॥ दृष्टान्त इति ॥ उत्तरार्धेति ॥ ‘?R उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ‘?R इत्यत्तरार्धे सदसत्कर्मभ्यां सुखदुखे न स्त इत्यनयोरर्थयोरन्तो निर्णयस्तत्त्वदर्शभिर्दृष्ट इत्युक्त्या नैयत्यं लब्धमिति भावः । प्रकृतोपयोगमाह ॥ अश्रद्धयेति ॥ ‘?R अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ॥ असदित्युच्यते पार्थ ‘?R इत्यष्टादशे ‘?R सच्छब्दः पार्थ युज्यते ‘?R इत्येतस्मात्किञ्चिदुपरितनं वाक्यं च ग्राह्यमित्यर्थः ॥ वेत्तेति ॥ विद ज्ञाने, वेदितेत्यर्थः । आगमशासनमनित्यमितीडत्र न कृतः । ननु विद्यमानाविद्यमानयोरिति वक्तव्यम् । विद्यमानशब्दस्य ‘?R अल्पाच्‌तरं पूर्वम् ‘?R इति सूत्रेण, तथा भावस्याभावापेक्षयाऽभ्यर्हितत्वेन ‘?R अभ्यर्हितं पूर्वम् ‘?R इति सूत्रेण पूर्वनिपातेन भाव्यत्वादित्यत आह ॥ गीतानुसारेणोति ॥ उत्पत्तिनाशेति ॥ अविद्यमानस्योत्पत्तिव्यवहारेण विद्यमानस्य नाशव्यवहारेणेत्यर्थः ॥ किमिदमिति ॥ कण्ठव्यवहारमूलभूतं किमनुमानागमार्थापत्तिजं ज्ञानमुत भ्रम इत्यर्थः । घटितमिति ॥ सदसत्कर्म परत्वेनान्यथा योजितमित्यर्थः ॥ ताविति ॥ वित्तिव्यवहाहावित्यर्थः । अतोसन्नव जायत इत्यनन्तरं शेषमाह ॥ सन्विनश्यतीति चोपसंहारो द्रष्टव्य इति ॥ किमिति ॥ उक्त्या किमित्यर्थः ॥ रूपभेदेनेति ॥ कार्यरूपेणसतः कारणरूपेण सतो जन्मेत्यर्थः ॥ कुत एतदिति ॥ असतो जन्म सतो विनाश इत्येतदित्यर्थः ॥ भ्रमविषयस्येति ॥ शुक्तिरूप्यादेः ख्यातिबाधान्यथानुपपत्तिरूपार्थापत्त्येत्यर्थः ॥ प्राचीनपक्ष इति ॥ असतोऽसत्त्वेन प्रतीतिर्नेति पक्षे मानाभावरूपदूषणान्तरमित्यर्थः ॥ चशब्दार्थमाह ॥ न केवलमिति ॥ तद्धर्मेति ॥ प्रतीतत्वरूपधर्मेत्यर्थः ॥ तद्भावोऽपीति ॥ असतस्सत्त्वेन प्रतीतिभावोऽपीत्यर्थः ॥ बाधकज्ञानस्यापीति ॥ श्रुतौ प्ततीतं रूपमनिर्वचनीयमेव न व्यावहारिकं सदपीति परस्य बाधकज्ञानोदयादिति भावः ॥ अनिर्वचनीयत्वविरोधादिति ॥ सत्यभूतसत्त्वाश्रयत्य सद्वैलक्षण्यायोगादिति भावः । मघवानावित्यस्यार्थो यशस्विनाविति । ‘?R यशो वा व मघम् ‘?R इति कर्मनिर्णये यशोऽर्थकत्वे मघशब्दस्य श्रुत्युक्तेः । अच्छेन्द्राब्रह्मणस्पती ‘?R इत्यत्र ब्रह्मणस्पतिशब्दर्थो बृहस्पतिरित्युपेत्याह ॥ इन्द्रबृहस्पती इति ॥ इन्द्राबृहस्पतीति भाव्यम् । ‘?R देवताद्वन्द्वे च ‘?R इति पूर्वपदस्या नङुक्तेः । ‘?R युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ‘?R इति शेषस्यार्थमाह ॥ युवयोरित्यादिना ॥ युवोः युवयोः । इदित्यस्यार्थ एवेति । व्रतमित्यस्यार्थसत्येत्यादि । आपश्चनेति पदद्वयार्थऋ सर्वदेवता अपीति ॥ प्रमिनन्ति जानन्ति । ‘?R तन्न मोघं वसु स्पार्हमुत जेतोत दाता ‘?R इति शेषत्यार्थोक्तिपूर्वमुपात्तपदानामर्थमाह ॥ सर्वज्ञ इति ॥ तत्कर्तव्यमिति ॥ तद्युद्धकर्म कर्तव्यम् । पूजात्वेन कार्यमित्यनुपदमेव ‘?R तस्माद्यध्यस्व ‘?R इत्यत्र वक्ष्यतीति वक्ष्यतिक्रिययोक्त्वेत्यस्यान्वयः ॥ उभयोः यीवेश्वरयोः ॥ अत्र जीवस्येति ॥ अत्र अविसाशि त्विति श्लोके जीवस्य प्रतिपाद्यतायाश्च निषेध्यतापरं भाष्यममुख्यार्थपरम् । जीवपरत्वेऽमुख्यत्वं कुत इत्यत आह ॥ तत्रेति । हरावित्यर्थः । तर्हि मुख्यार्थविष्णुपर एवायं श्लोकोऽस्त्वित्यत आह ॥ न त्वेवाहमिति ॥ आदिपदप्रक्षेपेणेति ॥ देहहान्यादीत्यादिपदेत्यर्थः ॥ कथञ्चिदिति ॥ स्वाभाविकानाशनैमित्तिकनाशभेदेनार्थभेदकल्पनमित्यर्थः ॥ अत्रोच्यत इति ॥ तात्पर्यनिर्णयाख्यैतद्वन्थ इत्यर्थः ॥ भाष्ये त्विति ॥ न च नैमित्तिकनाश इत्याहेत्यादिना जीवरूपार्थान्तरमुच्यत इत्यर्थः ॥ भगवतेति ॥ भाष्यकृतेत्यर्थः ॥ जडाभावमुक्त्वेति ॥ न वर्तत इत्यादिनेति भावः ॥ शरीरेति । ‘?R श्यामावदात्ताः ‘?R इत्यादिनेति ज्ञेयम् ॥ एतद्वाक्ययोरिति ॥ ‘?R यो वेद ‘?R इति, ‘?R आनन्दमयम् ‘?R इति वाक्ययोः ‘?R ब्रह्माविदाप्नोति परम् ‘?R इत्युक्तपरब्रह्मप्रकरणगतत्वादित्यर्थः । यशोरूपेणेति ॥ यशोनामकरूपेणेत्यर्थः । ‘?R तस्य नाम महद्यशः ‘?R इति श्रुतेः । ईश्वरेणेति ॥ सख्येति योज्यम् । ‘?R किल्बिषस्पृत्पितुपणिर्ह्येषामरंहितो भवति वाजिनाय ‘?R इति शेषार्थमाह ॥ यतोऽसाविति ॥ ‘?R गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति चातविद्यां यज्ञस्य मात्रां विमित उ त्वः ‘?R इति शेषार्थमाह ॥ कश्चिदित्यादिना ॥ जक्षभक्षहसनयोरिति धातोः जक्षन्नित्यस्यार्थद्वयमाह ॥ भक्षयन् हसंश्चेति ॥ ‘?R मनोजवेषु ‘?R इत्यस्यार्थो

?Rज्ञानादिगुणेष्विति ॥ ‘?R आदघ्नास उपकक्षास उ त्वेह्रदा इव स्नात्वा उ त्वे ददृश्रे ‘?R इति शेषार्थमाह ॥ तत्र केचिदिति ॥ श्रुत्वा विष्णुमिति ॥

?R ‘?R श्रुत्वा विष्णुं कर्णफलं प्राप्तत्वात्कर्णसंयुताः ।

?Rअक्षण्वन्तो दर्शनाच्च विष्णोर्मुक्तास्तु ये गणाः ॥

?Rतारतम्यं च तेषां च श्रुतावुदितमञ्जसा ।

?Rक्षीरसागरदध्नास्तु केचित्तिष्ठन्ति मुक्तिगाः ॥

?Rउपस्थिता ब्रह्मवनं केचिदश्वत्थमण्डलम् ।

?Rऐरे ह्रदे केचिदपि देवा एव सदा हरिम् ॥

?Rनागभोगशयं मुक्ता ददृश्रेऽधिकमोदिनः ।

?Rसागरादिस्थितं विष्णुं पश्यन्ति क्वचिदेव हि ॥ ‘?R

?Rइत्यैतरेयभाष्योक्तागमेनेत्यर्थः ॥ अत एवेति ॥ अस्य वाक्यस्यागमेनेत्थमर्थ उक्त इति व्याख्यानादेवेत्यर्थः । ‘?R यत्र त्वस्य ‘?R इति वाक्यार्थं पश्चाद्विवरितुं संज्ञेत्यादिप्रमाणव्याख्येयवाक्यं स्वयमाह ॥ प्रज्ञानघन इत्यादिना ॥ मोहान्तं मोहाख्यनाशम् । इतीत्यन्तेनेति चोदित इत्यादिवाक्यसङ्ग्रहः । ऐहिकाज्ञानं वृत्तिज्ञानमित्यर्थः । एतद्विषये मुक्तविषय इत्यर्थः । ‘?R तमादेशमप्राक्ष्यः ‘?R इत्यादेरर्थो ‘?R नारायणोऽयम् ‘?R इत्यादीति भावेनाह ॥ आदिश्यत इतीति ॥ उपदेशविषय इत्यर्थः । तदभावेऽपि अन्यज्ञानाभावेऽपीत्यर्थः । ‘?R यन्मिन् ‘?R इत्यादेरर्थान्तरमाह ॥ अविज्ञानान्येति ॥ एवमज्ञातस्यापीति ॥ भगवदधीनत्वादिनाऽज्ञातस्यापीत्यर्थः । ज्ञातादेरित्युक्त्यनुसारादाह ॥ ज्ञातादीति ॥ श्रुतं मतमित्यादिपदार्थः । इत्यत्रोक्तमित्यस्य दृष्टान्तमित्यनेनान्वयः । ‘?R वाचारम्भणं ‘?R इति श्रुत्यर्थमाह ॥ यस्मादित्यादिना ॥ सत्यमित्यस्यार्थो नित्यमिति ॥ इदानीं मूलार्थमाह ॥ प्राधान्यादित्यादिना ॥ तत्फलं साङ्‌केतिकज्ञानादिफलम् । तत्किमित्यत आह ॥ विद्वानितीति ॥ तन्मात्रेण साङ्‌केतिकज्ञानमात्रेणेत्यर्थः । एवं पुरुषोत्तमः प्रधान इत्यन्वयं तावदुपेत्य तदनन्तरं शेषमाह ॥ प्रधानोऽत इत्यादि ॥ उक्तेति ॥ अज्ञातान्यज्ञानादीनां यत्फलं तत्तदभावेऽपि भवति । अज्ञातान्यज्ञानादीनां ज्ञातानामपि यत्फलं तदपि भगवज्ज्ञानादौ जात एव जातं भवतीत्युक्तप्रकारद्वयेनेत्यर्थः । प्रधानश्चेति चशब्दसमुच्चेयमाह ॥ एवं सदृशश्चेत्यप द्रष्टव्यमिति ॥ कारणभूतोऽसावित्यंशस्योपयोगमाह ॥ प्रधान्यमेवेति ॥ सादृश्यं च ब्रह्मजगतोरबाधितत्वादित्यादिना व्यक्तमित्यन्यत्र तत्त्वनिर्णयादावुपपादितं चेति नात्रोपपादितमिति भावः । तथा च वाचारम्भणदृष्टान्तमृत्पिण्डमृण्मयदृष्टान्तयोर्द्वयोरपि यथाक्रमं एवं प्रधान एवं सदृशश्चेति दार्ष्टान्तिकमुक्तं भवति ॥ भावाकरण इति ॥ श्वेतकेतुनाऽहमीश्वरांश इति भावाकरणे जगत्कारणत्वस्वातन्त्र्यादिमाहात्म्यमुक्तमुद्दालकेनेत्यर्थः ॥ व्याख्यानान्तरमिति ॥ तदीयस्त्वमसीति व्याख्यानापेक्षयेति योज्यम् । तदित्यादिश्रुतीत्यस्यायमर्थः । तदुदाहृतवाक्यद्वयं व्याक्रियत इत्यन्वयः । प्राग्भाष्यकृताऽनुपात्तं कथं व्याख्यायत इत्यत उक्तम् ॥ इत्यादिश्रुतिविरोध इत्यादिपदगृहीतमिति ॥ स्थानान्तर इति ॥ ‘?R प्रपञ्चोपशम् शिवमद्वैतं ‘?R इति श्रुत्यन्तर इत्यर्थः ॥ बाधकाभावाच्चेति ॥ स्थानान्तरोक्तेः श्रुत्यैव व्याख्यानबलादिति चार्थः । न केवल मायामात्रत्वादिति वार्थः । ननु नामधेयपदाभावे नामप्रपञ्चस्य वागालम्बनमात्रत्वलाभः कथमित्यत आह ॥ नामधेयस्यापीति ॥ श्रुतिसिद्धमिति ॥ ‘?R तदीयस्त्वमसि ‘?R इति प्रागुदाहृतश्रुतिसिद्धमित्यर्थः । ननु ‘?R अतत्त्वमसि ‘?R इति पक्षे आसोऽसीति भाव्यमित्यर्थः । शंकते भवेदिति ॥ तादृशवाक्याद्यभावेऽपी ॥ अनुवादादिलिङ्गयत्तदादिशब्दोपेत वाक्यविशेषयुक्त्याद्यभावेऽपीत्यर्थः ॥ परमात्मोच्यत इति ॥ शुद्धब्रह्मेत्यर्थः ॥ अन्यथेति ॥ परमात्मनि जगद्वेदस्य श्रुत्या ग्रहण इत्यर्थः । ईश्वरपदस्य विशिष्टब्रह्मपरत्वमेवोपेत्यार्थमाह ॥ ईश्वरस्यैवेति ॥ असिद्धेरिति च्छेदः ॥ तेनेति ॥ प्रत्यक्षादित्यर्थः ॥ तृतीय इति ॥ स्वरूपप्रतिपादकेति पक्ष इत्यर्थः । पूर्वं शङ्‌कोत्तरत्वेन योजितमधुना श्रुतिवैय्यर्थ्यरूपयुक्त्यपेक्षया युक्त्यन्तरोक्तिपरत्वेन योजयति ॥ इतश्चेत्यादिना ॥ उक्तेति ॥ वैय्यर्थ्यरूपदोष इत्यर्थः । तन्निमित्तेति ॥ उपाधिनिमित्त्ेत्यर्थः । उपाधीति मूलवाक्यं खण्डशः शेषोक्त्या व्यचष्टे ॥ उपाधिकृत एवेतद्यादिना भाव इत्यन्तेन ॥ दूषणाय चेति ॥ दोषान्तरमित्यन्वयः ॥ इत्यादिवक्ष्यमाणेति ॥ एकादशे । हन्तृशब्दार्थमाह ॥ देहवियोगकर्तेति ॥ हतशब्दार्थो देहाद्वियोजित इति ॥ मयेति ॥

?R ‘?R मया हतांस्त्वं जहि व्यतिष्ठा

?Rयुध्यस्व जेताऽसि रणे सुपत्नान् ‘?R

?Rइत्येकादशोक्तिविरोध इत्यर्थः ॥ अयमेव श्लोक इति ॥ भाष्ये तथा योजितत्वादिति भावः ॥ एतेनेति ॥ ‘?R ना परमपुरुषः ‘?R इति व्याख्यानेनेत्यर्थः ॥ अस्मिन् पक्षे नरान्तरभावादिति भावः ॥ हेतुरुक्त िति ॥ स्वातन्त्र्येण न हन्तीत्यत्रास्वातन्त्र्यरूपो हेतुरुक्त इत्यर्थः ॥ तादृशाभिमानाभाव इति ॥ हन्तृत्वहन्यमानत्वादौ स्वातन्त्र्याभिमानाभावशच तत्र स्वातन्त्र्येण हननकर्तृत्वाद्यज्ञाने हेतुरुच्यत इत्यर्थः । ज्ञानी चेच्छत्रुं हन्ति हन्यते च तदा स ज्ञानी स्वस्य हनने स्वातन्त्र्यं न जानाति, स्वातन्त्र्यभ्रान्तिरूपाभिमानाभावादिति वा देहाद्यभिमानाभावादिति वाऽभिप्रयायः ॥ समीपोक्तत्वादिति ॥ पुराणपदेनेति भावः । मूलं योजयति ॥ शरीरयोगवियोगयोरिति ॥ एतदाशंकापरिहारायेति ॥ जीवस्य कालतो बिम्बादिनाशनिमित्ततो वा नाशाभावेऽपि युद्धादिगत शस्त्रादिकारणविशेषात्स्याद्विनाश इति शंकापरिहारायेत्यर्थः ॥ समीपोक्तत्वादिति ॥ पूर्वार्धोक्तत्वादित्यर्थः । नित्यं सर्वगते स्थितोऽणुश्चेत्यर्धोक्त्या गीतावाक्यस्य कथं योजनेत्यत आह ॥ नित्यमिति ॥ यद्वा सर्वगतस्थाणुरिति मूलवाक्यस्य नित्यपदसंयोजनेनार्थमाह ॥ नित्यमिति ॥ अन्यथा व्याख्यानव्याख्येययोर्वैरूप्यापत्तेरिति भावः ॥ वैषम्यहेतुर्दर्शित इति ॥ ईश्वरज्जीवस्याच्छेद्यत्वादिसद्भावेऽपि न सर्वसाम्यमित्यत्र सर्वगतत्वाणुत्वरूपो हेतुर्दर्शित इत्यर्थः । अचल इत्युक्तं क्रियाराहित्यं सर्वगतस्य विशेषणं युक्तम । गगनादौ सर्वगते चलनादृष्टेः । अतः सर्वगत इति पृथक्‌पदेन भाव्यमिति शङ्‌कते ॥ अत्रेत्यादिना ॥ अत एवेत्यस्य विवरणायोक्तम् ॥ हेतूपन्यासादिति ॥ सर्वगतस्थपदोक्तास्वातन्त्र्यरूपे साध्ये विधिनिषेधबद्धत्वरूपहेतूपन्यासादित्यर्थः ॥ अस्मिन् पक्ष इति ॥ पूर्वार्धस्येश्वरपरत्वपक्ष इत्यर्थः ॥ सनातनत्वादिहेतुनेत् ॥ जीवस्य विधिनिषेधबद्धत्वप्रतिबिम्बत्वहेतुनेत्यर्थः । तस्मादिति परामर्शविषयमाह । यस्मादित्यादिना ॥ तस्मादित्यत्यार्थमाह ॥ तस्माद्युद्धादीत्यादिना ॥ तेषामित्यस्य लाभमाह ॥ मामिति ॥

?R ‘?R ये तु सर्वणि कर्माणि मयि सन्यत्य मत्पराः ।

?Rअनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ‘?R

?Rइति पूर्वार्धे श्रवणात् द्वादशाध्याय इति भावः । अथेत्यर्थान्तरेऽथशब्दः । एक इति भगवद्रूपः । जीवस्यानादिनित्यत्वे दृष्टान्तत्वेनोपक्रान्त इत्यर्थः ॥ न च तत्र तत्रेति ॥ ‘?R अविनाशि तु ‘?R इत्यस्य वेदादिपरत्वमुक्तं भाष्ये । अनाशिन इत्यस्य जीवपरत्वं, अविनाशिनमित्यस्य देहयोगरहितमित्यादिना जीवपरत्वमुक्तमतस्तद्विरोध इत्यर्थः ॥ पौनरुक्त्यादिशंकेति ॥ ऐक्योक्तावप्यनुक्तविशेषणोपादानान्नेश्वरैक्ये पुनरुक्तिरित्यादिना पुनरुक्तिवैय्यर्थ्यशंकयोरुन्मूलनं भाष्ये कृतम् । अत्र तु मुख्यार्थग्रगणेन व्याख्याने तादृशशंकैव नेति न तदुन्मूलनं कार्यमिति भावः ॥ बाधकानामिति ॥ ‘?R न च जीवानां देशतो गुणतश्च पूर्णता । न हि जीवेन ततम् ‘?R इत्यादिनोक्त्तत्वादित्यर्थः । अर्थान्तरस्य वेदादिरूपस्येत्यर्थः ॥ सङ्गतेरुक्तत्वादिति ॥ सङ्गततया प्रतिश्लोकमवतारितत्वादिति भावः ॥ इत्येतच्छेषत्वेनेति ॥ नासत इत्यस्यासत्कर्मसत्कर्मभ्यां सुखदुःखे न स्त इति व्याख्यानादिह च तत्पूजा सत्कर्मैवेत्युक्त्वाऽतस्तदर्थे युद्धत्वेत्युक्तेरिति भावः ॥ उक्तरीत्येति ॥ ‘?R न च जीवानां देशतो गुणतश्च पूर्णता अनिच्छाय देहहान्यादेर्दुःखावाप्तिश्च सिद्धा । तस्मादनाशिनोप्रमेयस्य पूजार्थं युध्यस्व ‘?R इति प्रागुक्तदिशेत्यर्थः ॥ इत्यस्येति ॥ उपयोगमाचष्ट इत्यनुकर्षः । अत एवेत्युक्तं हेतुं व्यनक्ति ॥ नायमित्यादिना ॥ प्रकृतेति ॥ न त्वेवेति श्लोकप्रकृतजीवनित्यत्वस्य देहिनोऽस्मिन्नितिप्रकृतप्राकृतदेहप्राप्तिमात्रस्य चेह शरीरण इति निय्स्येत्यनुवादादित्यर्थः ॥ अत एवेति ॥ अनुवादादेवेत्यर्थः ॥ उक्तत्वादिति ॥ अन्तवन्त इत्यादिनोक्तत्वादित्यर्थः । आदिपदेन नित्यत्वग्रहः । इत्येतत्प्रवृत्तमित्यन्वयः ॥ अधिकविशेषणोक्तेरिति ॥ ‘?R न जायते म्रियते ‘?R , ‘?R अजो नित्यः ‘?R इत्येतावता पूर्तेरिति भावः ॥ गतार्थतेति ॥ न हन्यत इत्यनेनेति ज्ञेयम् । स्वतन्त्रेश्वरेण हन्यमाने शरीरे न हन्यत इति व्याख्यानादिति भावः ॥ अवतारक्रमेणेति ॥ अविनाशित्वानादित्वनित्यत्वादिना स्वातन्त्र्यावतारस्तेन च सर्वकर्तृत्वावतारस्तेन च कं घातयतीत्यस्येत्येवमवतारक्रमेणेत्यर्थः । एतेनेत्युक्तं व्यनक्ति ॥ कथमित्यादिना ॥ इत्याश्रितत्वादिति ॥ इत्यादेर्मूलं श्रवणादित्यर्थः । आदिपदेन सर्वकर्तृत्वस्य ग्रहः ॥ तद्भावोक्तेरिति ॥ प्रथमस्कन्धे नवमेऽध्याये भीष्मस्तुतौ च्छेदादिभावोक्तेरित्यर्थः ॥ शरीरच्छेदादिनिरास इति ॥ नैनमिति श्लोक इति भावः ॥ प्रतिविशेषणमपीति ॥ न छिन्दन्ति, न दहतीत्युक्तच्छेदाभावदाहाभावादिप्रतिविशेषणमप्येनमितिपदं वीप्सारूपेणैनमेनमित्येवंरूपेण बह्वेतच्छब्दयोगेन तथा अयमयमिति बह्विदंशब्दयोगेन योजनां सूचयतीत्यर्थः । ‘?R ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः विष्णुः परमाक्षरः ‘?R इति श्रुतिशेषे पदद्वयस्यार्थमाह ॥ ज्ञानज्ञान इत्यादेरिति ॥ श्रुतीति ॥ ‘?R अरूपमव्ययम् ‘?R , ‘?R अशरीरः प्रज्ञात्मा ‘?R इत्यादिश्रुतिविधानादेवेत्यर्थः । ‘?R न च ‘?R इति पृथगारम्भाद्वाक्यसमाप्त्यर्थमाह ॥ अस्तीतिसम्बन्ध इति ॥

?Rविशेषपदानन्तरमस्तीत्यादिपदाध्याहारेण योजनामाह ॥ अस्तीत्यादिना ॥ विशेषित इति ॥ विशेषवत इत्यर्थः ॥ भेदपरम्परयेति ॥ विशेषविशेषिणोर्भेदः स्वाश्रयाभ्यां विशेषविशेषिभ्यां भिन्नः । सोऽपि भेदः स्वाश्रयभूतभेदिभ्यां भिन्न इत्येवं भेदपरम्परयेत्यर्थः । तत्रेत्यनुवादः ईश्वर इति व्याख्या । एवेत्यनेनापौनरुक्त्यायाऽह ॥ एकत्वाहङ्ख्यानोगीति ॥ किञ्चन नानेति ॥ श्रुतय एता इति ॥ एकमेवेत्यादयः श्रुतय इत्यर्थः । अभेदविशेषयोरिति पदविभागः ॥ विशेषविशेष्यादीति ॥ अयं विशेषोऽयं विशेषीत्यादिव्यहारेत्यर्थः र॥ लक्ष्मणेत्यादि ॥ रामावतारे शेषसनत्कुमारानिरुद्धाः लक्ष्मणाभरतशत्रुघ्नत्वेन, कृष्णावतारे बलप्रद्युम्नानिरुद्धत्वेन, शेषो नरत्वेन, शक्रादयोऽर्जुनादित्वेन च जातास्तेष्वित्यर्थः ॥ स्वयमिति ॥ कृष्णेन जीवचितो नित्यत्वाद्देहनाशस्यावर्जनीयत्वात् जीर्णपातस्य समीचीनलाभेन समाधानादित्यादियुक्तीरुक्त्वेत्यर्थः । अथ चेदिति श्लोके शोको न कार्य इत्यत्र को हेतुरुक्त इत्यतन्तं वदन् स हेतुरन्यत्रापि प्रवर्तत इति मूलार्थमाह ॥ जननमरणनियमोऽत्रेति ॥ अथ चेदिति श्लोक इत्यर्थ- । यद्वाऽत्रेति अथ चेदिति श्लोके तद्विवृत्तिपरोत्तरश्लोकद्वये चेत्यर्थः ॥ प्रागिति ॥ ‘?R नित्यः सर्वगतस्थाणुः ‘?R इत्यादावित्यर्थः ॥ इत्युक्तमिति ॥ नैनमिति श्लोके ईश्वरस्य तु देहस्यापि च्छेदादेरभावात् स्वातन्त्र्यमित्युक्तमित्यर्थः । क्वचिदिति ॥ स्वातन्त्र्यबुद्धिः कार्येत्यनुषङ्गः ॥ उक्तेति ॥ ईशअवरेति विहितस्वातन्त्र्योपसंहाररूपमित्यर्थः । तेन नैनमित्यादिना न पौनरुक्त्यमिति भावः ॥ प्रतीतेरिति ॥ वतिप्रत्ययेनेति भावः ॥ सागरसमूह इति ॥ वृद्धाच्छ इति छप्रत्ययो नाश्रितोऽणप्रत्यय एवाश्रित इति भावः । ततस्तत इत्यत्र ततः कारणात् ततो हरेरित्युपेत्याह ॥ ततस्तदधीन इति ॥ इत्युक्तस्येति ॥ इत्यर्जुनेनोक्तस्य जयसन्देहस्येत्यर्थः । आज्जसेरसुगिति भावेनाह ॥ शूरा इति ॥ प्रधानेषु युद्धेषु ये तनुत्यजः । ‘?R ये वा सहस्रदक्षिणास्तंश्रिदेवापि गच्छतात् ‘?R इति श्रुतिशेषार्थमाह ॥ ये च तत्रेयादिना ॥ ययेऽपीति ॥ ‘?R ये युध्यन्ते तानयं गच्छतात् ‘?R इति श्रवणादिति भावः ॥ उक्तमिति ॥ ‘?R न त्व नेमे ‘?R इत्यादिना यज्जीवतत्त्वस्वरूपमुक्तं तत् एषेति प्रथमपादेनोपसंहृत्य ज्ञानोपायनिरूपणप्रकारान्तरमारभ्यते आरम्भप्रतिज्ञा क्रियते द्वितीयपादेनेत्यर्थः । अनयोरपि निन्दितत्वे को विशेष इत्यत आह ॥ अत्रोक्तयोरिति ॥ न त्वैहिक इति ॥ ऐहिकफले न हेतुत्वमङ्गीक्रियत इत्यर्थ- ॥ अत्र पुनरिति ॥ राज्यार्थमिति पदविभागः ॥ सोपपत्तिकमिति । विरोधाभावलक्षणोपपत्तिसहितं पूर्वोत्तरप्रकरणोक्तार्थप्रतिपादकत्वरूपं धर्मान्तरमित्यर्थः । तेन ज्ञानोपायावेव साङ्ख्ययोगशब्दार्थौ नान्यौ पूर्वोत्तरोक्तार्थविरोधादिति भावः । निषिद्धपरित्यागशब्दार्थमाह ॥ अन्यविषय इति ॥ देवतान्तरविषयतया नानुष्ठीयत इत्यर्थ- ॥ तद्वत इति ॥ त्रैविद्यधर्मवतः ॥ अर्थतः सिद्धमिति ॥ स्वर्गगमनावधिरेव न नित्यनिरयप्राप्तिरित्युक्त्यार्थात् क्रमेण मोक्षं प्रतिपद्यत इति सिद्धमित्यर्थः ॥ अस्यैव ॥ भागवतस्यैव मोक्ष इति त्रैविद्यस्यैव स्वर्गममनावधित्वं किमुच्यत इति वाऽर्थः । यद्वाऽस्यैव त्रय्युक्तमर्मकारिण एव वेदवादित्वम् ‘?R वेदवादी स उच्यते ‘?R इत्यनेन किमुच्यत इत्यर्थः । अभिप्रेतमित्यनन्तरं येन भागवतत्रैविद्ययोरेव वेदवादित्वापात इति योज्यम् । अपौनुरुक्त्यायार्थभेदमाह ॥ अनारम्भमित्यादिना ॥ कारणपरित्यागेनेति ॥ अव्यवसायबुद्धेर्यत्करणं तत्परित्यागेनेत्यर्थः । तथेत्यनन्तरं शेषमाह ॥ विषयीकारीति ॥ अन्त इति कस्य पदस्यार्थ इत्यत आह । अन्त इतीति ॥ उक्तार्थेति ॥ भगवदर्पणबुद्ध्या निष्कामकर्मानुष्ठानरूपोक्तविरुद्धतया यामिमामित्यादिना निषिद्धमित्यर्थः । इमं भूतलं हीनतरं नरकं वेत्यर्थ- ॥ तदुक्तमिति ॥ तदन्येषां विषय इक्युक्तमित्यर्थः ॥ स्वाभाविकं विधीयत इति ॥ तच्चायुक्तमित्यत आहेति योज्यम् । किं विधीयत इति पाठे तु यथाश्रुतमेव ॥ अस्येति ॥ तद्वशत्वस्येत्यर्थः ॥ योगमातिष्ठोत्यादिविरोध इति ॥ चतुर्थाध्यायोक्तगीतावाक्यविरोध इत्यर्थः ॥ असङ्ग्रह इति ॥ न च मुक्ता इति वाक्य इति योज्यम् । पर इति श्रवणादुक्तमपरमिति । सर्वमिदमित्यस्य वचनव्यत्ययेनार्थोक्तिरस्मिन् सर्वस्मिन्निति । अप्रकेतमविज्ञातम् । आः इत्यस्यार्थ आसीदिति । इदमग्र इत्यस्यार्थोस्याग्र इति । प्रपञ्चस्याग्र इत्यर्थः । आप इत्यस्यार्थः पालकवर्जित इति । बहुवचनं शब्दस्वभाव्यात् । अकारदैर्घ्यं छान्दसम् । आङ्‌पूर्वको वा । प्रकृतानुगुणतयाऽर्थमाह ॥ सर्वोद्रिक्त इति ॥ सर्वापेक्षयोद्रिक्त इत्यर्थः । त इत्युपलक्षणमिति भावेनाह ॥ सर्वे जीवा इति ॥ प्रतिज्ञाया अभावादिति ॥ ऐक्यभावना न कार्येति प्रतिज्ञाया अभावादित्यर्थः । तदविनाभावद्युक्तेरिति भावः । भावानाभावप्रतिज्ञालाभार्थमाह ॥ मनसेत्यर्थ इति ॥ इत्युक्तमिति ॥ दूरेणेति सूर्वार्ध इति योज्यम् । पूर्ववदिति ॥ मा कर्मफलहेतुर्भूरित्यत्रेव मनसा मन्यन्त इति योज्यमित्यर्थ- । तथाचैक्यभावनां ये कुर्वन्तीत्यर्थलाभ इति भावः । यद्वा फलहेतुपदेन कथमैक्यभावनालाभः । येन तस्येदं व्याख्यानमित्यत आह ॥ पूर्ववदिति ॥ मा कर्मफलहेतुर्भूरितिवदित्यर्थः । फलहेतुरीश्वरः । ये मनसा फलहेतवो भवन्तीत्यर्थः । फलहेतुरीश्वरोऽहमिति मन्यमाना इति पुर्ववदित्यर्थः । कृपाया अविषयास्त इत्यर्थः । यद्वा कृपां प्रति विषयाः शोच्या इत्यर्थः । भाष्यमवतारयितुं बुद्धियुक्त इति श्लोके

?Rतस्मादित्युत्तरार्धमवतारयति ॥ नन्विति ॥ योगाय युज्यस्वेत्यस्यार्थो ज्ञानमापाद्यमिति ॥ राहित्यादीत्यादिपदेन भगवज्ज्ञानादिग्रहः । इत्यत्रेति ॥ श्लोके त्यागसमत्वयोरेव योगशब्दार्थत्वेनोक्त्या भगवज्ज्ञानस्य योगशब्दार्थत्वेनापरिग्रहादित्यर्थ- ॥ अत्रापि ॥ बुद्धियुक्त इति श्लोकेऽपीत्यर्थः ॥ अपरोक्षेति ॥ मनीषिपदोक्तापरोक्षेत्यर्थः ॥ पूर्वत्रेति ॥ एतच्छ्लोकार्थविवरणपूर्वकं बुद्धिमोहतरणपदोक्तं ज्ञानफलमुच्यते ॥ श्रुतीति ॥ योगस्थ इति श्लोकेऽपीत्यर्थः ॥ अत्रापि यदा तदेति सम्बन्ध इति ॥ श्रुतिमार्गमिति स्मृतावपीत्यर्थः । तुष्टपदस्य मूलेऽनुवादो व्यर्थ- इत्यतस्तस्य कृत्यमाह ॥ कतो न जीवादिपरवित्यादिना ॥ कारणफलपरिज्ञाने चेति ॥ परम्परया नरकाद्यनर्थफलपरिज्ञाने च भीत्या तत्कारणरागादित्यादिर्बुद्धिर्भवति । तत्त्यागश्च परम्परया ध्यानादितत्कारणत्यागेन भवति । तत्त्यागश्च तज्ज्ञाने सति भवत्यतो रागादिकारणफले द्वाभ्यामाहेत्यर्थः । निर्णीतमित्यनुवादः केवलेत्यादि व्याख्या ॥ उक्तलक्षणमिति ॥ प्रजहातीति श्लोकचतुष्टये विक्षिप्योक्तं लक्षणं पिण्डीकृत्योच्यत इत्यर्थः । इति वचनविरोधादिति ॥ सर्वकामनिवृत्तिस्तु ज्ञानतो न कथञ्चनेति प्रागुक्तवचनविरोधादित्यर्थः ॥ उक्तेति ॥ प्रजाहातीत्यादिनोक्तज्ञानिलक्षणमित्यर्थः ॥ दुःसम्पादनत्वेनेति ॥ कष्टसाध्यत्वेनेत्यर्थः । ईषद्दुसुषु कृच्छ्राऽकृच्छ्रार्तेषु खलिति खलन्तः ॥ तद्भावे चेति ॥ स्मरणाभावे चेत्यर्थः ॥ कार्यब्रह्मेति ॥ विरिञ्चव्यावृत्त्यर्थमित्यर्थ- । तस्यापि ‘?R स एनान् ब्रह्म गमयति ‘?R इत्यदौ ‘?R कार्यं बादरिः ‘?R इति सूत्रोक्तदिशा नपुंसकब्रह्मशब्दवाच्यत्वात् परब्रह्मप्राप्तेरेव मोक्षरूपत्वादिति भावः ॥

?Rइति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते द्वितीयोऽध्यायः ॥ 2 ॥

*******************************************************************************************

अथ तृतीयोऽध्यायः ॥

?Rहरिः ॐ॥ इत्यन्तेनेत्यस्य निरूपितमित्यन्वयः । न त्वेवाहमित्यादिना ग्रन्थेनेत्यपि योज्यम् । कर्मणि ल्युडिति भावेनाह ॥ ज्ञायत इति ॥ ईश्वरादीत्यादिपदेन प्राधान्येन प्रकृतस्य जीवस्य प्रासंगिकवेददेशकालादेश्च ग्रहः । ईश्वरस्यापि युद्धगतत्वेन येषामनित्यत्वशंका तान्प्रति तस्यापि नत्वेवाहमित्यादिना प्राधान्येन प्रकृतत्वाद्योगे त्विमां श्रृण्विति प्रतिज्ञापूर्वं त्रैगुण्यविषया वेदा इत्यादिनेश्वरज्ञानोपायस्यैवोक्तत्वादीश्वरादीति स्वशब्देन तस्योक्तिः । अत एव तत्स्वरूपज्ञानोपायश्चोक्त इत्युक्तम् ॥ कर्मध्यानयोगेति ॥ कर्मरूपज्ञानोपाय ध्यानरूपज्ञानोपायभेदादित्यर्थः । नोभयं विनेत्यादि निषेधस्य प्रसक्तिमाह ॥ साङ्ख्यानां ज्ञानेनेति ॥ तरति शोकमात्मवित् अपाम सोमममृता अभूमेत्यादिश्रुतौ ज्ञानयोगेन साङ्ख्यानामित्यादिस्मृतौ चेत्यर्थः ॥ न हीतीति ॥ कर्ममात्राभावोऽसम्भवीति भावः ॥ न सम्पूर्णेति ॥ मुक्तौ स्वयोग्ययावदानन्दानुभवरूपेत्यर्थः । तस्य ज्ञानोत्तरकर्मसचिवज्ञानसाध्यत्वादिति भावः । तदेव वाक्यमन्यथाऽपि योजयति ॥ तर्ह्यस्त्विति ॥ अनेनेति ॥ न च ज्ञानं विनेत्यादिकथनेनेत्यर्थः । अस्मिंल्लोके संसारे ज्ञानेन साङ्ख्यानां कर्मणा योगिनां निष्ठा नितरां स्थितिर्न तु मुक्तिरिति भ्रान्तः शंकते ॥ भवेदत्रेत्यादिना ॥ न च तदत्रेति ॥ समुच्चयस्य पुरुषार्थहेतुत्वमित्रर्थः ॥ चोद्येति ॥ भवेदित्यादिना कृतचोद्येत्यर्थः ॥ स्वानधीनमिति ॥ जीवानधीनमितयर्थः ॥ ज्ञानरूपत्वादिति ॥ स्वरूपस्यैव सर्ववस्तुज्ञत्वादित्यर्थः । इगुपधज्ञाप्रीकिरः क इति कर्तर्येव कप्रत्ययविधानात् ॥ हेत्वन्तरमिति ॥ सहयज्ञा इत्यादि श्लोकचतुष्टयोक्तार्थवादरूपहेतुश्चक्रप्रवर्तकत्वरूपहेत्वन्तरमित्यर्थः । अन्यार्थकल्पनां चेति ॥ ब्रह्माक्षरशब्दयोर्वेदपरब्रह्मार्थताकल्पनमित्यर्थः ॥ स्मृत्युक्त योगं शब्दरूढं दर्शयति ॥ परमिति ॥ उत्तममित्यर्थः । परपदान्तलोपो निरुक्तत्वादिति भावः ॥ हेत्वन्तरेणेति ॥ व्याख्यानरुपस्मृतिविरोधापेक्षया प्रत्यभिज्ञाविरोधरूपहेत्वन्तरेणेत्यर्थः ॥ अनुपयुक्तत्वादिति ॥ स्वपक्षे तूक्त उपयोग इति भावः ॥ उत्पत्त्यभावादिति ॥ वेदस्य नित्यत्वादिति भाव- ॥ भूतेभ्य इति ॥ चक्रसिध्यर्थमक्षरं भूतोद्भवमिति वाच्यम् । न ह्यक्षरशब्दितं ब्रह्म भूतैरुत्पद्यत इत्यर्थः ॥ अर्थान्तरकल्पन इति ॥ परमेश्वरवाक्यभूताद्वेदाख्यात् ब्रह्मण- पुरुषाणां कर्मणि प्रवृत्तिः । ततः कर्मनिष्पत्तिः । ततः पर्जन्यः । ततोऽन्नम् । ततो भूतानि । भूतानां च कर्मप्रवृत्तिरित्येवं कल्पन इत्यर्थ- । आदिपदेन परब्रह्मग्रहः । नन्वक्षरं भूतसम्भवमित्येवास्तु । सम्भवशब्देन व्यक्तिर्गृह्यतामित्यत आह ॥ व्यक्त्यर्थेति ॥ अर्थभेदाच्चेति ॥ कृतकृत्यत्वप्रीतिरूपार्थभेदाच्चेत्यर्थ- । कर्मैवाचरन्नित्यर्थाभिप्रायेणाह ॥ कर्मणैव मोक्षेत्यादिना ॥ उक्तत्वादिति ॥ सहयज्ञा इत्यदि न कर्मयोगेन योगिनामित्यादिना वेति भावः । पूर्वोत्तरार्धयोत्संगतत्वायाह ॥ तेषामिति योज्यमिति ॥ हेत्वन्तरमुच्यत इति ॥ आचारापेक्षया लोकहंग्रहरूपहेत्वन्तरमित्यर्थः । ‘?R इत्यस्येत्यस्येति द्वयमपि समानाधिकरणम् ॥ सक्त्यसक्तिपूर्वकत्वविशेष उक्त इति ॥ सक्ता इति श्लोक इति ज्ञेयम् । संन्यस्येत्यस्य त्यक्त्वेत्यर्थं मत्वाऽऽह ॥ व्याहतमिति ॥ निर्ममत्वमिति ॥ नाहं कर्तेत्यनेन निर्ममत्वं व्याख्यातमित्यर्थः । मत्कृता पूजेत्यनन्तरं शेषमाह ॥

?Rतत्पूजेत्यादिनिरूपणं युक्तमिति ॥ तद्भक्तिरित्यनेन निरशीत्वं व्याख्यातमित्यर्थः । कर्मन्यास इत्यस्य विशेषणमाह ॥ निर्ममत्वनिराशीस्त्वयुक्तः इति ॥ इत्यादि विभागेनेति । यत्र जीवस्यैव कर्तृत्वमुच्यते तत्र पराधीनकर्तृत्वं, यत्र प्रकृतेरेव कर्तृत्वमुच्यते कार्यते ह्यवशः कर्म सर्वैः प्रकृतिजैर्गुणैरित्यादौ तत्र विकाररूपकर्तृत्वमिति ध्येयमित्यर्थः । नास्तीत्यादि विघागेनेति ॥ यत्र जीवस्याकर्तृत्वमुच्यते कर्तृत्वं न कर्माणि इत्यादौ तत्र स्वकीयं स्वतन्त्रकर्तृत्वं नास्ति, यत्र तु प्रकृतेः कर्तृत्वं नेत्युच्यते तत्र ज्ञानेच्छापूर्वककर्तृत्वं नास्तीत्येवंरूपेण ज्ञेयमित्यर्थः । प्रकृतेरित्यादिव्याख्यानपरं स्वभात इत्यादिस्मृत्यनन्तरं यस्मादिति स्मृतिः पठनीया । व्याख्येयगीतावाक्यानुसारादित्यत आह ॥ मयीत्यादीत्यादिना ॥ उपयोगित्वादिति ॥ यस्मादिति स्मृत्युक्तत्रिविधकर्तृत्वस्य प्रकृतेरिति वाक्येऽभिमतत्वादिति भावः । व्यख्यानोपयोगं व्यनक्तिः ॥ प्रकृतेरित्यादाविति ॥ अहंकारेत्युत्तरार्धेनेति योज्यम् । इत्यादीत्यस्य पीठिकारचनमित्यन्वयः । कार्यते ह्यवशः कर्मेत्यादीना साक्षाद्‌व्याखअयानायेत्यर्थः ॥ जयादीनाम् ॥ जयविजयादीनां हिरण्याक्षरावणादित्वादिरूपेणान्यथाभावदर्शनादित्यर्थ- । मिश्रिता इति ॥ स्वाभाविकतत्त्वज्ञानमिथ्याज्ञानोभयरूपा गुणा इत्यर्थः ॥ इत्यादि योज्यमिति ॥तत्त्वज्ञानं स्वभाविकं, भक्तिः स्वाभाविकीत्येवं योज्यमित्यर्थः ॥ ततश्चेति ॥ मिथ्याज्ञानादिगुणानां स्वाभाविकत्वतश्चेत्यर्थः ॥ किञ्चात इति ॥ अतश्च किमित्यर्थः ॥ इत्यादीति ॥ यस्य मध्यमगुणास्तानपेक्ष्य सदसत्कर्मणी कारयति यस्याधमा गुणास्तानपेक्ष्यासत्कर्म कारयतीत्यर्थः ॥ विष्णुनेत्यनुवादः विष्णोरित्यादिव्याख्या ॥ तैः संमूढा इति ॥ मिश्रगुणैस्संमूढाः ॥ अभाव इति ॥ ज्ञानादेरिति योज्यम् । विपरिणामेनार्थमाह ॥ विष्ण्वधीनानिति ॥ स्वभावेति ॥ स्वभावानुगतिचेष्टिताया उपरतिरित्यर्थः । प्रश्नकरणे प्रसक्तिं दर्शयति ॥ तयोरित्यादिना ॥ उक्तत्वादिति ॥ प्रकृष्टकृतिमत्त्वहेतुना हरेरपि प्रकृतिशब्दार्थत्वोक्तेरिति भावः । सिद्धप्रश्नत्वनिरासायाह ॥ इति शेष इति ॥ नैतदिति ॥ कामाद्यधमप्रेरकेष्वेव बलवत्प्रेरकप्रश्नो न तूत्तममधअयमप्रेरकेश्वरदेवेष्वित्येतदित्यर्थः ॥ उक्तार्थेऽपीति ॥ परमेश्वरादित्याद्युक्तार्थेऽपीत्यपिशब्दः । श्लोकव्याख्यानसमुच्चयेऽपिशब्दः ॥ काम इत्यस्येति ॥ परिहारश्लोकस्येत्यर्थः ॥ इत्यादीति ॥ आदिशब्दाद्दर्पणे मलं कल्मषं यथाऽधिकमावृणोति आधमं जनं गर्भमुल्बमिवात्यन्तमावृणोतीति द्रष्टव्यमित्यर्थः ॥ इन्द्रियाणीत्यादेरिति ॥ इत्यादेः श्लोकद्वयस्येत्यर्थः । आदिपदार्थमाह ॥ एवं सरस्वत्या इति ॥ विज्ञानाभिमानित्वेति ॥ न चेतरदित्यस्यार्थो न तूत्तमाभिमन्यमानत्वेनेत्यादि । इत्येतदुक्तं भवतीत्यंशस्यार्थमाह ॥ अस्तीत्येतदिति ॥ तदित्यस्य प्रदिपदं तत्रेति ॥ तस्यार्थ आपा इति चोद्य इति ॥ ऐतरेये आपा इत्याप इति खण्डे रमादेव्या देवानां आप इति नाम कथमिति कृतचोद्ये देवानां भगवत्पुत्रत्वात् पितुर्भगवत आप इति नामवाच्यत्वात्पुत्राणामपि तदेव नामेति समाधानमनेन वाक्येनोक्तं भवतीत्यर्थः ॥

इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते तृतीयोऽध्यायः ॥ 3 ॥

**********************************************************************************************

** अथ चतुर्थोऽध्यायः ॥**

?Rहरिः ॐ॥ विवृत्वादिति ॥ न कर्मणामनारम्भादित्यादिना कर्माकरणं विनिन्द्य नियतं कुरु कर्मेत्यादिना विवृतत्वादित्यर्थः । अर्थसंक्षेपं बुद्ध्वा संकते ॥ पञ्चरात्रसंक्षेपश्चेदिति ॥ प्रागुक्तानुपपत्तिरिति ॥ साक्षादिंद्रावतारमुत्तमाधिकारिणमात्मनः प्रियतममर्जुनमित्यनेनोक्तस्य तथा पार्थानामतिरोधानं ज्ञानं सुस्थिरतां गतमित्युक्तस्य ज्ञानित्वस्य चानुपपत्तिरित्यर्थः । भवत इति षष्ठ्यन्तम् । तवेत्यर्थः । श्रुत्यादिविरोधस्योक्तत्वादिति ॥ द्वितीये अन्तवत इम इत्येतद्व्याख्यावसरे उक्तत्वादित्यर्थः । यद्वा नैनं छिन्दन्तीत्यादिव्याख्यावसरे सदेह इत्याद्युदाहरणादिति भावः । एष सृष्ट्यादीच्छारूपो व्यापारो देवस्य स्वभाव इत्यर्थमुपेत्यायमित्यस्यार्थमाह ॥ स स्वभावश्चायं देव एवेत्यादि ॥ अन्यार्थत्व इति ॥ प्रसिद्धप्रकृतिमात्रार्थत्व इत्यर्थः ॥ नानिष्टमिति पदविभागः । मत्समर्पणेनेत्येतदनुवादपूर्वमन्तपदाध्याहारमाह ॥ मत्समर्पणेन अन्त इति शेष इति ॥ राजसास्तु नरास्तत्र विप्रा इत्यन्तिमाधअयायतात्पर्यानुरोधादाह ॥ राजससात्त्विकेष्विति ॥ न वर्णमात्रलक्षणमिति ॥ किन्तु सात्त्विकत्वं वैष्णवलक्षणं तामसत्वं भगवद्द्वेषिलक्षणमिति योज्यम् । स्वभाविकेति ॥ स्वरूपतो यो ब्राह्मणादिर्न तु योनिकृत इत्यर्थः ॥ प्रसिद्ध इति ॥ सर्वव्यापारोपशमरूपो वा भगवदेकनिष्ठतारूपो वेत्यर्थः । तर्हि क इत्यत आह ॥ अपि तु विष्णुभक्तिरिति ॥ एवंविधेति ॥ भिन्नाधिकरणकर्तृत्वाकर्तृत्वयोरित्यर्थः । मामित्यनुक्तौ कथमभेदशंका, तदुक्तौ तु कथं तन्निरास इत्यतो द्वयमपि व्यनक्ति स्वस्येत्यादिना ॥ ननु रषाभ्यां नो षः समानपद इति सूत्रे समानपदे एकस्मिन्नेव पदे रेफषकाराभ्यां परस्य नस्य णत्वं भवतीत्युक्तेरिह च कर्मशब्दनशब्दयोरेकपदस्थत्वाभावात्कथं णत्वमित्यत आह । अनमानपदस्थस्येति ॥ हे इन्द्र नो ब्रह्म उपयाहीत्यत्र ब्रह्मपदात्परस्य नस्य णत्वं दृष्टम् । तद्वदत्रेत्यर्थः । छान्दसं णत्वमिति

?Rभावः ॥ इत्यादेरिति ॥ द्वितीयपादादेरपि विकर्म णः नः मत्तः भवतीत्यादिरूपेणेत्यर्थः ॥ सकारान्त इतीति ॥ करः कर्मविधिरस्मिन् जीवे मीयते विषयीक्रियते इत्यर्थे निरुक्तत्वादुपपदटिलोतः । माङ् मान इत्यतः कनिन्नित्युक्तं भवति ॥ अनेनेति ॥ करःशब्दस्य कर्मविधिवाचित्वकथनेनेत्यर्थः ॥ करो मीयत इति ॥ कर्मविधिर्मीयते ज्ञायत इत्यर्थः । भाष्योक्तदिशा श्लोकावतारिकामाह ॥ न केवलमिति ॥ अज्ञानां ज्ञानिनां चैवेत्यादाविति ॥ अज्ञानां ज्ञाननिनां चैव मुक्तानां शरणं हरिरित्यादौ द्वितीयाध्याये तात्पर्ये ॥ तस्य चार्थस्येति ॥ स्वातन्त्र्याभिमानविषयस्यार्थस्येत्यर्थः ॥ अनिरूप्येति ॥ अविज्ञाप्येत्यर्थः ॥ अविज्ञायेति चार्थः ॥ तत्प्रपंच्यत इति ॥ यज्ञार्थमुक्तरूपहोमाद्याचरणमित्यर्थः ॥ पूर्वसंगत इति ॥ प्रपञ्चरूपूर्वसंगतिमापन्नेत्यर्थः ॥ पूर्वसंगतत्वेनेति ॥ यज्ञभेदोक्तिपरत्वेनेत्यर्थः । यद्वा ब्रह्मार्पणमिति पूर्वसंगतत्वेनेत्यर्थः । एवमग्रेऽपि । धनुषीत्येतद्विषयसप्तमी विद्योपलक्षणमिति भावेनाह ॥ धनुर्वद्याविषय इति ॥ प्रतीत एवार्थ इति ॥ ज्ञानानन्तरं कर्म नैवेत्येवंरूपः ॥ उक्त्वेति ॥ श्रेयान् द्रव्यमयाद्यज्ञादित्यनेनोक्त्वेत्यर्थः । अथो इति पदं समुच्चयार्थमिति भ्रान्त्याऽऽह ॥ एवं चेदिति ॥ तद्वत्त्वेति ॥ परमात्मवत्त्वसाम्यादित्यर्थः । हरेः सर्वन्तर्यामित्वादिति भावः ॥

** ?Rइति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते चतुर्थोऽध्यायः ॥ 4 ॥**

****************************************************************************************************

अथ पञ्चमोऽध्यायः ॥

?Rहरिः ॐ॥ समुच्चित इति ॥ दलद्वययुक्तः कर्मयोगः तत्ते कर्म प्रवक्ष्यामीति प्रतिज्ञाय कर्मणो ह्यपीत्यादिना निरूपित इत्यर्थः ॥ योगेति ॥ भगवदर्पणबुद्ध्या कर्मानुष्ठानं योगः । कामवर्जनं संन्यासः ॥ इत्यादावुक्तमिति ॥ योगस्थः कुरु कर्माणि इत्यादिना हितीयोक्तस्य तृतीय चतुर्थयोः प्रपञ्चनादित्यादावुक्तमित्युक्तम् । पूर्वोत्तरगीतार्धयोरभिप्रायमाह ॥ उभयोरिति ॥ अथ स्वरूपेति ॥ एतेन द्वयोर्निःश्रेयसकरत्वमुक्त्वाऽन्यतरवैशेष्योक्तिरयुक्तेति निरस्तम् ॥ असम्भवादिति ॥ भगवदर्पणबुद्ध्याऽनुष्ठानस्य कामादिवर्जनाभावे अयोगादित्यर्थः । अत्रेत्यनुवादः संन्यस्तेत्यादि व्याख्या ॥ त्यागस्य पृथक्त्वेनोक्तेरिति ॥ सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणा इत्यष्टादशोक्तेरित्यर्थः ॥ पृथगुक्तिरिति दशमस्कन्धे । अधिकारपदेप्रयोगतात्पर्यमाह ॥ ज्ञानमार्गमित्यादिना ॥ अत्र स्मृतीति ॥ ज्ञानं विना न कर्मणः सम्यगनुष्ठानं कर्मणा विना ज्ञानस्य सम्पूर्णफलसाधनत्वाभाव इत्यत्रेत्यर्थः । यद्वा ज्ञानकर्मणोरन्योन्यसाहित्येनैव सम्यक्त्वमित्यस्मिन्नर्थ इत्यर्थः ॥ युक्त्यादीति ॥ उभाभ्यां सम्पाद्यज्ञानकर्मणोः सम्यक्त्वान्यथानुपपत्तरूपयुक्तिस्मृतिसिद्धत्वादित्यर्थः ॥ उत्तरार्धव्याख्याानमिति ॥ मोक्षेति प्रथमपादेन योगपदार्थस्य योगयुक्तो मुनिरुत्यस्य पादद्वयेन ब्रह्मेत्यादेर्व्याख्यानं भद्र इत्यनेन कृतमित्यर्थः ॥ पूर्वार्धस्येति ॥ अन्यो न्यासः भद्रो न्त्युक्त्या तद्‌व्याख्यानं स्पष्टमेव ॥ तदिति ॥ पूर्वार्धव्याख्यानमित्यर्थः ॥ न कार्यमिति ॥ बुद्ध्या कृतो योग इत्यर्थः ॥ वक्ष्यमाणत्वादिति ॥ उत्तराध्याय इति योज्यम् ॥ अन्यथेति ॥ आधानपदस्याकरणार्थत्वाङ्गीकार इत्यर्थः ॥ सर्वकर्माणीत्यने नेति ॥ उपरितनतृतीयश्लोकेनेत्यर्थः ॥ अनेनेति ॥ क्रियायामदृष्टे चेति कर्तृत्वमर्मशब्दयोरर्थभेदकथनेनेत्यर्थः । सर्वात्मनेत्यस्य पूर्वत्रोत्तरत्र चान्वयः ॥ स्वभावत्वादितीति ॥ स्वस्थितावन्यकरणे च परानपेक्षत्वादित्यर्थः ॥ शेषमाह ॥ भवेद्‌ ब्रह्मण इति ॥ उपनिषदामिति ॥ सत्यं ज्ञानमनन्तमित्येवमादीनामित्यर्थः ॥ व्यावृत्तेरित्यस्य निबन्धनत्वपदेनान्वयः ॥ तद्व्यावृत्तिप्रसङ्गादिति ॥ असद्‌व्यावृत्तिप्रसङ्गादित्यर्थः ॥ असम्भवस्योक्तत्वादिति ॥ व्यावर्त्यविशेषश्चेत्येतद्‌व्याख्यावसर इति भावः ॥ अनेनेति ॥ नास्तित्वं त्वित्यादिभाष्येणेत्यर्थः । ब्रह्म नास्तित्ववत् केनापि प्रमाणेनास्तित्वानुपलम्भान्नरश्रृङ्गवदिति सूचितमित्यर्थः ॥ दूषितत्वादिति ॥ सत्त्वादिधर्मबोधनं विना तद्विरोधीतरव्यावृत्तेरसम्भवेन ब्रह्मणोऽवाच्यस्य लक्ष्यत्वायोगेन च दूषितत्वादित्यर्थः । तदेव वाक्यं पुनः प्रकारान्तरेणावतारयति ॥ भगवतः कर्तृत्वाभावादीति ॥ दुष्टत्वादित्यस्य इति मतस्येत्यनेनान्वयः ॥ विपरीतज्ञानस्येति ॥ विषमेषु ब्राह्मणादिषु समत्वज्ञानस्येत्यर्थः ॥ साधितत्वादिति ॥ द्वितीयेऽध्याय इति योज्यम् ॥ ब्रह्मयोगादीति ॥ स ब्रह्मयोगयुक्तात्मेत्यत्रत्यब्रह्मयोगपदेनेत्यर्थः । आदिपदेन ब्रह्मणि स्थितो ब्रह्मभूत इत्यादेर्गृहः । मुक्त एवेत्यनूद्योच्यत इति शेषमाह ॥ इति शेष इति ॥ यद्वा मुक्तिगत इत्यनन्तरं मुक्त एवोच्यत इति शेषोक्तिः । दुर्गमत्वात्तच्छब्दार्थं व्यनक्ति ॥ यस्मादिति ॥

** ?Rइति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते पञ्चमोऽध्यायः ॥ 5 ॥**

*************************************************************************************************

अथ षष्ठोऽध्यायः ॥

?Rहरिः ॐ॥ प्रतिज्ञातमिति ॥ द्वितीये योगवचनं प्रतिज्ञातमित्यर्थः ॥ कर्मयोगः ॥ कर्मरूपज्ञानोपाय इत्यर्थः ॥ संक्षेपेति ॥ त्रैगुण्यविषया इत्यादिना द्वितीये सङ्क्षेपेण तृतीयादौ विस्तरेण निरूपित इत्यर्थः ॥ पञ्चमान्त इति ॥ स्पर्शान् कृत्वा

?Rइत्यादिनेति योज्यम् ॥ कर्मयोगमध्य इति ॥ कर्मरूपोपायमध्य इत्यर्थः ॥ इत्युक्त्वाति ॥ पूर्वोर्धेनेति योज्यम् ॥ कर्मोपशमः ॥ कर्मत्यागः ॥ योगस्थेनापि सा कार्येत्युपेत्य शंकते ॥ योगस्थेनापीति । भगवद्ध्यनादिकं चेति ॥ शमपदेनोच्यत इत्यनुषङ्गः ॥ पूर्वोक्तेति ॥ न निरग्निक इत्याद्युक्तेत्यर्थः ॥ संन्यस्येत्यत्रेति ॥ तृतीय इति योज्यम् ॥ योगारोहस्येति ॥ उपायसम्पूरित्यर्थः । यदा हि नेन्द्रियार्थेष्वित्यत्र लक्षणस्योक्तत्वादाह ॥ प्रपञ्च्यत िति ॥ यदेत्यादिनेति । अनेकश्लोकग्रहणायादिपदम् ॥ अन्यथेति ॥ आत्मपदस्य जीवादिविषयत्व इत्यर्थः ॥ अन्यार्थप्रतीतीति ॥ ऐक्यार्थप्रतीतीत्यर्थः । आत्मशब्दः परमात्मार्थ इत्यत्र ज्ञापकमाह ॥ भोक्तारमितीति ॥ पञ्चमान्ते संक्षेपेण ध्येयत्वोक्तावित्यर्थः ॥ उपपाद्यत इति ॥ कैमुत्यन्यायेनेति भावः ॥ आभक्तय इत्यस्य पुरुषपरत्वलाभायाह ॥ न भक्तिर्येष्विति ॥ तत्रापीति ॥ भक्तेष्वपीत्यर्थः ॥ भजते सेवते ॥

** इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते षष्ठोऽध्यायः ॥ 6 ॥**

*****************************************************************************

अथ सप्तमोऽध्यायः ॥

?Rहरिः ॐ॥ पूर्वोक्तमिति ॥ पूर्वाधअयायादावुक्तमित्यर्थः ॥ भक्त्यर्थमिति ॥ माहात्म्यज्ञानपूर्वकस्नेहरूपत्वाद्भक्तेरिति भावः ॥ नोक्तमिति विभगः । अत्राध्याय इति अत्र सप्तमे इति वा नोक्तमित्यर्थः ॥ लिप्सेति ॥ लाभेच्छा । आदरजननायेति यावत् ॥ इति व्याख्यातमिति ॥ शेषोक्त्येति भावः ॥ इति प्रत्येकमन्वयः ॥ परावरादिनेति ॥ परेणावरेणावरतरेण परतरेण च भाव्यमित्यर्थः । अभावादन्तरान्यस्येत्येतद् द्वेधा योजयति । न त्वसावित्यादिना ॥ व्याख्यातमिति ॥ चेतनरूपामिति व्याख्यातमित्यर्थः । इत्यस्येत्यस्य एवमित्यनुवादः ॥ श्र्यादीनां परत्वादिज्ञानेनेति व्याख्या ॥ लिप्सेति ॥ आदरेत्यर्थः ॥ तारतम्ये वेति ॥ तारतम्यं स्यादिति प्रागुक्ततारतम्ये वेत्यर्थः । भाष्योक्तदिशाऽऽह ॥ विज्ञानप्रदर्शकमिति ॥ गन्धयतीत्यस्यार्थान्तरमाह ॥ पुण्यगन्धप्रदत्वाच्चेति ॥ प्रेरकत्वात् ॥ बीजप्रेरकत्वादित्यर्थः ॥ अर्थान्तरमिति ॥ बलपदस्येति योज्यम् ॥ अनुवाद इति ॥ तथाच न पुनरुक्तिरिति भावः ॥ अत्रापीति ॥ पुर्णरतित्वपूपबलपदार्थेऽपीत्यर्थः । पूर्ववदिति ॥ रसयतीत्यादौ तत्प्रेरकत्वं यथोक्तं तथा हरिः पुनर्न धर्महानिकृदित्यादि कामपदार्थे धर्माविरुद्घेच्छाप्रेरकत्वाच्च धर्माविरुद्धकाम इति योजनेति भावः । अप्सु स्थित्वा रसयतीत्यादेः फलितार्थपरस्मृतिशेषार्थमाह ॥ अप्सु रस इत्यादिव्यवस्थयेति ॥ अपां सरः पृथिव्या गन्धः शशिसूर्ययोः प्रभेत्येवं व्यवस्थयेत्यर्थः । गीतामवतारयति ॥ न केवलमिति ॥ भूभूधरवदिति ॥ भूमेः पर्वतानां चान्योन्याश्रयभावस्तथेत्यर्थः ॥ वैलोम्येनेति ॥ पूर्वापरभावेनेत्यर्थः । लक्ष्म्यां मायाशब्दनिर्वचनपरं तन्मेयत्वादिति पदम् ॥ तदर्थमाहि ॥ विष्णुनैवेति ॥ माङ् मान ित्यतः कर्मणि यप्रत्यये स्त्रीत्वात् टाप्प्रत्यत इति भावः । सक्ष्म्या चेति ॥ जडप्रकृत्या समुच्चयाय चशब्दोऽध्याहृतः ॥ अनेनेति ॥ अचेतनयेत्यादिग्रन्थेनेत्यर्थः । उपादानोपादेययोरभेदाद्वा प्रकृत्येत्युक्त्या तन्मयोपलक्षणाद्वा त्रिभिरित्यादेरर्थ उक्तो भवतीत्युक्तम् । इति शंकानिवारकस्येति ॥ प्रकृतिद्वयं निमित्तीकृत्य हरिरेव मोहक इत्युक्त्यातन्निवारणमिति भावः ॥ सामानाधिकरण्येति ॥ एका भक्तिर्यस्येति विग्रहाङ्गीकारे स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे, स्त्रियामपूरणीप्रियादिण्विति सूत्रे प्रियादिषु परतो न पुंवद्भाव इति निषेधाद्भक्तिपदस्य च प्रियादिषु पाठात् पुंवद्भावाप्राप्तावेका भक्तिरित्येव समासेऽपि प्राप्तेतीत्यर्थः ॥ इत्याद्युक्तार्थमिति ॥ आप्नोतीत्यात्मेति व्युत्पत्त्या मे आत्मा मम प्राप्तिमानित्युक्तार्थमित्यर्थः ॥ तुशब्दस्येति ॥ ज्ञानी त्विति तुशब्दस्येत्यर्थः ॥ मिश्रयाजिनां त्रिदिवभूगोचरत्वेन वक्ष्यमाणतमःप्राप्तेरयोगादाह ॥ वैपरीत्येनेति ॥ विधिवैपरीत्येनेत्यर्थः । अज्ञानमात्रेण तमःप्राप्तेरयोगादाह ॥ विपरीतं ज्ञात्वा चेति ॥ कारणान्तरं चेति ॥ अज्ञकुले जातत्वापेक्षया कारणान्तरं च भगवद्ज्ञानराहित्यमिति योज्यम् ॥ इति शेष िति ॥ तस्य जानीयादित्यन्वयः । तेन विष्णुतत्वं चेति चशब्दोपपत्तिरिति भावः ॥ तद्विषयज्ञानेति ॥ अन्यदेवताविषयकज्ञानस्तवननमनादीत्यर्थः । तस्यैवेति कुत इत्यत आह ॥ केषांचिदिति ॥ इदं चेति ॥ विष्णुतत्त्वज्ञानानन्तरमन्यदेवतार्चनमित्यर्थः ॥ नित्यत्रैविद्यानामिति ॥ विष्णुं ज्ञात्वाप्यन्यदेवतार्चनात्यागिनां जन्मादिफलसत्वादित्यर्थः । शंकते । प्राचीनेति ॥ उत्तरेति ॥ विष्णुतत्त्वज्ञानोत्तरकालीननान्यदेवतार्चनापेक्षयेत्यर्थः । शंकते । स्वत इति ॥ कारणविशेषेति ॥ क्षुद्रफलाकांक्षादिरूपेत्यर्थः ॥ इत्युपलक्षणमिति ॥ तस्मिन्नपि जन्मनीत्यस्येति योज्यम् ॥ अनेनेति ॥ अत्यागे चेत्यादि ग्रन्थेन स्वतः शुद्धभागवतरूपो विषय उक्त इत्यर्थः ॥ उक्तार्थमेवेति ॥ आत्मपदं प्राप्त्यर्थकमेवेत्यर्थः ॥ उद्दिश्येति ॥ एतेन गतिमित्युद्देश्य द्वितीयेत्युक्तं भवति ॥ उक्तात्मेत्यस्यार्थो भगवन्तमुपासीनस्येति ॥ मामास्थित इत्यस्यार्थः ॥ तत्प्राप्तेरिति ॥ एतद्योजितमिति ॥ वासुदेवस्सर्वमिति वाक्यं पूर्णं वस्तु यत इत्यादिप्रमाणेन योजितमित्यर्थः । तदर्थं फलं च स्मृत्यैवाहेत्यन्वयः । फलोक्तौ हेतुः पूर्ववदेवेत्यादि । पूर्वेषां भागवतानां त्रैविद्यानां च

?Rदेवान्देवयजो यान्ति मद्भक्ता यान्ति मामपीति भगवत्प्राप्तितदन्यप्राप्तिरूपं फलं यथोक्तं तथा तेषां द्वेषिणां फलस्यानुक्तत्वादित्यर्थः ॥ एतदुच्यत इति ॥ यथावद्भगवत्स्वरूपाज्ञानित्वं तेषामुच्यत इत्यर्थः । केन हेतुना जीवेश्वरौ व्यक्ताव्यक्तशब्दवाच्यावित्यत आह ॥ सर्वात्मनेति ॥ उक्तशंकेति ॥ इच्छेति श्लोकावतारिकायामुक्तशंकेत्यर्थः । शंकानिरासप्रकारं स्वयं व्यनक्ति ॥ सत्यमित्यादिना ॥ अवान्तरकारणत्वं व्यनक्ति ॥ सर्गकालमिति ॥ इत्यत उच्यत इति ॥ फलमुच्यत इत्यर्थः ॥

** इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते सप्तमोऽध्यायः ॥ 7 ॥**

*********************************************************************************

अथ अष्टमोऽध्यायः ॥

?Rहरिः ॐ॥ इत्युक्तव्याख्यानप्रसङ्गेनेति ॥ एतेनोक्तव्याख्यानमेवाध्यायस्यार्थः । अन्यत्तु प्राहङ्गिकमिति अनेकार्थकत्वकृताध्यायभेदशंका न कार्येति सूचितम् ॥ तदुपायेति ॥ स्मरणोपायेत्यर्थः । एतावानर्थः प्राप्तिपदेन कथं लभ्यत इत्यत आह ॥ अन्तकालेत्यादि(ना) ॥ इत्यादेरिति ॥ स्मृतेरिति शेषः । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते इत्यादिरादिपदार्थः ॥ भगवन्मात्रवृत्तित्वादिति ॥ तेदव ब्रह्म परममित्यादिश्रुतिरिति भावः ॥ प्रकृतीत्यादि ॥ मम योनिर्महद्ब्रह्म, तेन ब्रह्महृदा, ब्रह्माणि जावाः सर्वेऽपि इत्यादेरिति भावः ॥ इत्युपरीति ॥ अस्मिन्नेवाध्याये । संशयपदात्पूर्वं स्थलद्वये शेषमाह ॥ इत्यत्र च इति प्रतीत्या जात इति शेष इति ॥ तारतम्यस्येति ॥ के वा युक्ततमा मता इत्यनेनेति भावः ॥ प्रकृते त्विति ॥ अक्षरं ब्रह्म परममित्यत्रेत्यर्थः ॥ मामित्यनेनेति ॥ साधिभूताधिदैवं मामित्यनेनेत्यर्थः ॥ एतेनेति ॥ साहित्योक्त्या प्राप्तेरुक्तत्वेनेत्यर्थः ॥ अनेनेति ॥ साहित्यनिर्वाहायाधियज्ञाख्यरूपस्य सर्वप्राणिदेहगतरूपान्तरत्वकथनेनेत्यर्थः । देहे इत्युक्त्यैव तल्लाभादिति भावः ॥ कथं तदुक्तिरिति ॥ अक्षरं ब्रह्मेत्युक्तिः किं ब्रह्मे(त्युक्त)ति प्रश्नस्य कथमुत्तरमित्यर्थः । पुरुप्राणा विश्वचेष्टा भवतीति विश्वप्रेरिकेति यावत् ॥ इति भगवल्लक्षणोक्त्येति ॥ अत्रैवोपरीति ज्ञेयम् ॥ भघवदभिन्नत्वेनोक्तत्वादिति ॥ तथा चाधियज्ञाभिन्नस्य भगवतः कवित्वादिप्रकारोक्त्या तदभिन्नोऽधियज्ञोऽपि कवित्वादिप्रकारोपेत इति लाभादिति भावः ॥ तत्प्राप्तिरेव भवतीति ॥ अन्यवस्तुप्राप्तिरेव भवतीत्यर्थः ॥ अप्रारब्धेति ॥ प्रारब्धेतरसंचितागामिकर्मणां यथाक्रमं नाशाश्लेषेत्यर्थः । तदधिगम उक्तरपूर्वाधयोरश्लेषविनाशाविति सूत्रादिति भावः ॥ भोगेनेति ॥ भोगेन त्वितरे क्षपयित्वाऽथ संपत्स्यत इति सूत्रादिति भावः ॥ अनेनेति ॥ इत्युक्तत्वादिति मूलवाक्येन । युक्तचेतसोऽपरोक्षज्ञानिनः । तद्ब्रह्म विदुर्व्याप्तं तद्रूपं पश्यन्तीत्यर्थ इति भावः ॥ तथा कथमुच्यत इति ॥ अन्तकालस्मरणसाधनतया कथमुच्यत इत्यर्थः । आब्रह्मभवनादित्यस्यार्थानुवादो ब्रह्मभवनमारभ्येति । सत्यलोकगतब्रह्मभवनस्य जनलोकादुपरितनत्वादिति भावः ॥ अनेनेति ।थ। स्मृतिवचनेनेत्यर्थः ॥ नैतदयुक्तमिति ॥ आब्रह्मभवनात्पुनरावर्ति न इत्येतदयुक्तं नेत्यर्थः ॥ अल्पजननादीति ॥ कार्त्स्न्येन जननमृत्योरभावेऽप्यंशेन तयोर्भावादित्यर्थः ॥ एतद्वाक्यस्य चेति ॥ आब्रह्मभवनादिति वाक्यस्य च तदर्थत्वादंशेन पुनरावर्ति इत्यर्थकत्वात् ॥ यद्वा आजनान्नजनिर्भूवीत्येतद्वाक्यस्य च कार्त्स्न्येन जनिरूपमुख्यजनिर्नास्तीत्यर्थः ॥ द्विपरार्धात्मकेति ॥ ब्रह्मण आयुःशतं परसंज्ञकं तस्यार्धद्वयात्मकेत्यर्थः ॥ तेऽर्चिषमभिसम्भवन्तीति श्रुतिः । अर्चिरादिनेति तु सूत्रम् । अर्चिर्ज्योतिःपदयोरेकार्थत्वात् ज्योतिषः प्रथमप्राप्यतयेत्युक्तम् । मूलोक्तश्रुतेः पूर्वशेषमाह य एवमित्यादिना ॥ अथेत्यादेरर्थो दक्षिणायन इत्यादि । अतो वा इत्यादेरर्थः पुनर्ज्ञानिन इत्यादि । सूर्यचन्द्रमसोरिति लेखकदोषमूलोऽयं पाठः । देवताद्वन्द्वे चेत्यानङ्गि कृते सूर्याचन्द्रमसोरिति भाव्यत्वात् । नन्वेवं गीतायामग्निर्ज्योतिरित्यादिना ज्ञानिनो ब्रह्मप्राप्त्यर्थमुत्तरायणे मृत्युक्तेः किमर्थेत्यत आह ॥ अत्रेति ॥ गीतायामित्यर्थः ॥ अत्रेति ॥ ब्रह्मप्राप्तौ कालनियमो नेत्यत्रेत्यर्थः ॥

** इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते अष्टमोऽध्यायः ॥ 8 ॥**

***************************************************************************************

**अथ नवमोऽध्यायः ॥ **

?Rहरिः ॐ॥ षट्‌कान्तर्भावसिद्ध्यर्थमाह ॥ इति शेष इति ॥ सप्तमानन्तर्यमस्य शंकते ॥ न चैवमिति ॥ अन्तरितत्वादष्टमेन व्यवहितत्वादित्यर्थः ॥ ज्ञानमिति ॥ ज्ञातव्यं प्रमेयमुच्यत इत्यर्थः ॥ स्पर्शरहितत्वादिति ॥ स्पर्शस्य शक्यत्यात्मकत्वेन रामकृष्णाद्यवतारेष्विवाभिव्यक्त्यभावादित्यर्थः ॥ स्पृष्ट्वेति ॥ भूतलादौ चैत्रादेरिव स्पर्शनेन्द्रियेण तं ज्ञात्वा शैत्यौष्ण्याद्यन्योन्यधर्मसंक्रान्तिमापाद्य…तिभावः ॥ भूताधारत्वादीत्यादिपदेन भूतस्थत्वाभावग्रहः ॥ देहत्वेनेति ॥ हेतुनेति योज्यम् । भगवद्देहोऽचेतनो देहत्वाद्देवदत्तदेहवदित्यचेतनत्वशंकेत्यर्थः ॥ उभयमिति ॥ देहत्वं भगवल्लक्षणघटकचेतनत्वं चेत्यर्थः ॥ केथमित्यत आह ॥ द्व्यर्थो हीति ॥ अस्य चोपरीत्यनेन लब्धं विग्रहं दर्शयति ॥ एतदधिकृत्येति ॥ एतत्

?Rविश्वमित्यर्थः । यदक्षाणीत्यस्यार्थोऽक्षाणि यस्यासाविति ॥ अक्षाणि चक्षुंषि ॥ इत्युक्तिविरोध इति ॥ तत्र देहस्य भगवल्लक्षणोक्त्याऽप्राकृतत्वप्राप्तेरिति भावः ॥ पूर्वोक्तेति ॥ भूतभृदित्यादौ देहस्य तत्स्वरूपत्वोक्तेस्तद्विरोध इत्यर्थः । अनवताराणां पृथ्वादीनां अवताराणां वेदव्यासपरशुरामप्रभृतीनां अवमत्वादिना ज्ञानमवज्ञानमित्युक्तम् । महात्मानस्तु ज्ञात्वा भजन्तीत्यत्र तद्‌ज्ञानस्वरूपम(मा)त्रस्मृतौ तदप्यत्र ग्राह्यमिति स्वयमाह ॥ सर्वस्माद्भिन्न इत्यादिना ॥ यथावदित्यत्र ज्ञानमिति योज्यम् ॥ तदस्तीति ॥ यत्प्रामाणिकमित्यर्थः ॥ दरं बिभर्तीति ॥ शंखं बिभर्तीत्यर्थः ॥ एतत्स्मृताविति ॥ तत्तत्पदार्थेति स्मृतौ ॥ पूर्वं पूर्वशेषे ॥ एतस्यार्थस्यार्कादिनामार्थस्योक्तत्वं द्योतयतीत्यर्थः । अन्यथा परामर्शविषयाभावादेवंशब्दो न युक्तः स्यात् । मूलकृता पूर्वशेषानुक्तिस्तु पूर्वस्मृत्यैकार्थत्वादिति भावः । स्वातन्त्र्यसर्वकर्तृत्वे न केवलं भिन्नोपीत्यत्र हेतू । किन्तु तत्तन्नामैवमुच्यत इत्यत्रापि हेतू इत्याह ॥ तदधीनत्वादिति ॥ शब्दप्रवृत्तिनिमित्तानां तदधीनत्वादीशाधीनत्वात् शब्दजातमर्थवत् भगवद्रूपर्थवत् तद्वाचकमिति सूत्रोक्तन्यायेनेत्यर्थः ॥ कारणमिति ॥ भृत्यगतजयं प्रति राज्ञो जयिशब्दवाच्यत्व इवेति भावः । प्राणगः प्राणधर्तेत्यादेरर्थमाह ॥ इन्द्रियेषु स्थित्वेत्यादि ॥ कदा विश्वं प्रविलापयन्नित्याकाङ्क्षायामाह ॥ प्रलय इति शेष इति ॥ उत्तरत्र शंकोत्थानाय भाष्योक्तार्थान्तरमप्यत्र ग्राह्यमित्याह ॥ अहं क्रतुरिति ॥ सहेतुकमुक्त इति ॥ भगवद्भजनप्रकाररूपो यः फलोपायस्तद्भेदहेतुकः फलभेद उक्त इत्यर्थः ॥ तमेव भजनप्रकाररूपोपायभेदं फलभेदहेतुं व्यनक्ति ॥ अन्यदेवतेत्यादिना ॥ उक्तमिति ॥ ययेति श्लोके उक्तमित्यर्थः ॥ तत्प्रतियोगितया तद्विरोधितयेत्यर्थः ॥ उक्तस्येति ॥ गीतायामुक्तस्येत्यर्थः ॥ उक्त इति ॥ अत्रैवोपरितनश्लोके उक्त इत्यर्थः ॥ कामनमुक्तमिति ॥ पूर्वश्लोके ॥ वैष्णवादपीत्यनुमादः । भगवदित्यादि व्यख्या ॥ इत्यादाविति ॥ वाजसनेयादौ ॥ अभिशब्दबलाच्चेति ॥ तस्य सम्यगर्थकत्वादिति भावः ॥ इत्यादि शेष इति ॥ तेष्वहं प्रीत्या वर्त इत्यादिपदार्थः ॥ तदेवेति ॥ भक्तेष्वेव प्रीतिं करोमीत्येतदेवेत्यर्थः ॥ यस्तु भागवतस्सदेत्यादेरिति ॥ अष्टादशे वक्ष्यमाणस्मृतेरित्यर्थः ॥ आदिपदेनेति ॥ पापादीत्यादिपदेनेत्यर्थः ॥ सुद्युम्नस्य इलात्वमिति ॥ व्यक्तमेतन्नवमस्कन्धे द्वितीये, होतुस्तद्व्यभिचारेण कन्येला नाम साऽभगवदित्यादिना ॥ अग्निपुत्राणामप्सरस्त्वमिति ॥ पुत्रा ह्यग्नेः पूर्वमासंश्च तेऽथ स्त्रीत्वप्राप्त्या इत्यादिना राजकुलेषु जाता इत्यन्तेन ग्रन्थेन व्यक्तमेदद्भारततात्पर्ये विंशेऽध्याये । अग्निपुत्रा महात्मानस्तपसा स्त्रीत्वमागताः । भर्तारं वा जगद्योनिं वासुदेवमजं विभुमिति महाकौर्मे इति प्रथमस्कन्धतात्पर्ये दशमेऽध्याये च व्यक्तम् । अंबाया इति ॥ भविष्यति पुमान् इति, साऽम्बा ततोऽजनि । नाम्ना शिखण्डिनीत्यादिना स शिखण्डी नामतोऽभूदित्यन्तेन व्यक्तमेतद्भारततात्पर्ये (च)एकादशेऽध्यैये ॥ तत्रेति ॥ इलादौ श्रेष्ठत्वमुत्तमकुूलजात्वाद्युपाधिकृतमित्यर्थः ॥ कालान्तरं चेति ॥ न केवलं वरत्वमिति चार्थः । स्वाभाव्या एव मुक्तिगा इति प्रागुक्तत्वान्मुक्तौ चेति पुनरुक्तिरितिशंकाव्युदासायाह ॥ पूर्वानुवादेनेति ॥ अविरुद्धतयेति ॥ सत्त्वादिक इति प्रागुक्तवचनाविरुद्धतयेत्यर्थः । दुर्गमत्वादर्थं व्यनक्ति ॥ अनेनेति ॥ पापादिकारिण इति वचनेनेत्यर्थः ॥

इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते नवमोऽध्यायः ॥ 9 ॥

************************************************************************************

॥अथ दशमोऽध्यायः ॥

?Rहरिः ॐ॥ भाष्योक्तमध्यायार्थमाह ॥ षष्ठ इति ॥ मन्मना भवेति नवमान्ते स्मारितं चेत्यपि ग्राह्यम् । तेन षष्ठानन्तर्यशंकानवकाशः । भोक्तारं यज्ञतपसामिति पञ्चमान्तादौ तत्र तत्र ध्येयमुक्तम् । तथापि विशिष्टाधिकारिणां भगवद्वभूतय उपास्या इति भावेनोक्तम् ॥ भगवदित्यादि । विभूतिशब्दार्थोऽग्रे व्यक्तः ॥ तद्भावादिति ॥ अज्ञानभावादित्यर्थः ॥ भुत् बोध इति ॥ बुध अवबोधन इत्यतो भावे क्विप् । तदुपपदे दधातेर्घोः किरिति किरिति भावः ॥ प्रसिद्धमनव इति ॥ स्वायंभुवस्वारोचिषरैवतोत्तमाख्याः प्रसिद्धमनव इत्यर्थः ॥ विप्रादिवर्णविवक्षयेति ॥ देवेषु केचित् ब्राह्मणाः केचन क्षत्रियाः केचन वैश्याः केचन शूद्रास्संतीति तद्विवक्षया चतुष्ट्वमित्यर्थः । व्यक्तमेतच्चातुर्विध्यं वाजसनेयभाष्ये प्रथमेऽध्याये विष्णोर्ब्राह्मणजातिस्सस् जज्ञे ब्रह्मा चतुर्मुख इत्यादिनेति ज्ञेयम् ॥ एतेनैवेति ॥ मरीच्याद्यास्त्वित्यादिस्मृतिशेषोदाहरणेनेत्यर्थः ॥ उपेयमिति ॥ प्राप्यमित्यर्थः ॥ अन्यव्यावृत्तिभ्रान्तिनिरासायैवकारत्यागेनान्वयपूर्वमुपादत्ते ॥ शक्तिश्चेति ॥ योग इत्यन्वयः ॥ शक्यमिति ॥ शक्तिविषयतायोग्यमित्यर्थः ॥ सा चोक्तेति ॥ भूतानां बुद्ध्यादिभूतधर्माणां च स्रष्ट्रत्वोक्त्या प्रभवमित्यस्य प्रभावमिति व्याख्यानाद्वा शक्तिरुक्तैवेत्यर्थः ॥ तथ भजन्त इति ॥ सर्वकारणत्वादिज्ञाने विश्वासेनेति वार्थः ॥ स्वजात्यादीति ॥ स्वजायादिभ्यो विशिष्टवस्तुनि श्रेष्ठवस्तुनीत्यर्थः । वासवादेः स्वजातिसर्वदेवेभ्यः श्रैष्ठ्याभावात् क्वचिद्विजातितोऽपि श्रैष्ठ्यस्य गीतायामुक्तेराह ॥ स्वजात्येकदेशाद्युपलक्षठणमिति ॥ इत्यादि शेष इति ॥ वेदेभ्य आधिक्यहेतुर्त्यत्र साम्न इति

?Rउत्कर्षहेतुरित्यत्राश्वत्थस्येत्येवं रूपेणेति भावः ॥ इण् गताविति धातुरिति ॥ रवशब्दोपपदादिणः क्विपि उपपदान्तलोपे रविरिति रूपमिति भावः ॥ वासः सर्वदेश इति ॥ वसतेरधिकरणे घञिति भावः ॥ वर्तत इति ॥ वृतेर्ड इति भावः ॥ पाः पालका इति ॥ पा रक्षण इत्यतो विच्प्रत्ययः ॥ मा इत्यनुवादः नास्तीति व्यख्या ॥ स्वत इति ॥ स्वस्मादित्यर्थः ॥ इत्यादेरिति ॥ अष्ठमाध्यायछन्दोगश्रुतेरित्यर्थः ॥ तत्संबन्धी वैनतेय इति ॥ संबन्धर्थे उक्‌प्रत्यय इति भावः । मत्वर्थे इकारप्रत्यय इत्युपेत्याह ॥ तद्वान् वासुकिरिति ॥ माकर इत्यनुक्त्वा मकर इत्युक्तिकृत्यमाह ॥ ऊनार्थ इति ॥ औहाक् त्याग इति धातुपाठादाहा ॥ जहत इति ॥ त्यजत इत्यर्थः ॥ श्रयत इति ॥ श्रिञ् सेवायां, इत्यर्थः ॥ बृहत्स इति ॥ सारशब्दस्य सादेश इति भावः ॥ इति धारोरिति ॥ तस्मादसुन्प्रत्यये उशना इति रूपमिति भावः ॥ मुनिसंबन्धीति ॥ मुनिशब्दात् संबन्धार्थेऽण् प्रत्ययः । संबन्धः(श्च)स्तुत्यस्तोतृरूप इति भावः ॥ शीर्षस्थानत्वादिति ॥ चरमप्राप्यत्वादित्यर्थः ॥ आस उपवेशन इति धातो रूपमुपेत्याह ॥ आसा स्थितिरिति ॥ उ(न्प्र)प्रत्ययार्थमाह ॥ शीलत्वादिति ॥ शश्यादिषु विजातीयस्वाम्यद इत्यादेरर्थमाह ॥ शश्यादिष्विति ॥ ज्योतिषां रविरंशुमान् । स्थावराणां हिमालय इत्यादिरादिपदार्थः । विभूतिरूपत्वोपपादनायोक्तम् ॥ सत्त्वादिसारदत्वेनेति ॥ आदिपदेन भूतानां चेतना यमस्संयमताम् । वादः प्रवदतां उद्भवश्च भविष्यतामित्यादेर्ग्रहः ॥ उक्त इति ॥ भगवानिति योज्यम् । यत्र सामवेदस्येति ॥ छान्दोग्ये वाच ऋग्रसः ऋचः साम रस इत्यादिनोच्यत इत्यर्थः ॥ इत्याद्युक्तं भवतीति ॥ यदा तु ऋच श्रीर्देवता तस्य सर्ववेदाधिक्यमित्यादि चादिपदार्थः ॥ इत्यनुक्त्वेति ॥ प्रकरणबलेनाधिष्ठितत्वस्यैव वक्तव्यत्वादेव मुक्तिरसंगतेति भावः ॥ ततोऽपीति ॥ लक्षणमुखेनोक्तादप्येषाशंन जगद्व्यापित्वोक्त्या अधिकविस्तरमाहेत्यर्थः ॥ उभयलाभ इति ॥ प्रागुक्तरविप्रभृतिस्थपरिच्छिन्नविभूतिरूपज्ञानरूपोभयलाभेऽधिकशोभनप्राप्तेरित्यर्थः ॥

** इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते दशमोऽध्यायः ॥**

****************************************************************************

**॥ अथ एकादशोऽध्यायः ॥ **

?Rहरिः ॐ॥ ध्यानार्थमिति ॥ विष्ठभ्याहमिति पूर्वत्र संक्षेपेणोक्तस्य व्याप्तरूपोपासनस्य बुद्धावनारोहेणाशक्यतया विस्तरेण श्रुते सत्येव ध्यानं सुशकमिति ध्यानार्थं प्रागुक्तव्याप्तरूपस्थितिर्विस्तरेणात्रोच्यत इत्यर्थः । अनेन पूर्वानन्तरता च सिद्धेति भावः । प्रागुत्तरत्र चेति । पूर्वोत्तरकाल(संबन्ध)मित्यर्थः । अग्रे साध्यत्रयोक्तेः केन किं सिद्धमित्यत आह ॥ दर्शयेत्यादिना ॥ इत्युक्त्येति ॥ क्रीडादिगुण(क)त्वरूपभगवल्लक्षणोक्त्येत्यर्थः । मम देह इत्यस्य पुर्वेणाप्यन्वयमुपेत्याह ॥ मरुतस्तथा । मम देह इति ॥ उपपादकान्तरमिति ॥ अर्चित्यैश्वर्ययोगत्वापेक्षयेत्यर्थः । विशेषित इति । विशेषवत इत्यर्थः ॥ न च तत्रेति ॥ विशेषविशेषिणोर्भेदाभावेऽप्ययं विशेषी विशेषोऽयमिति व्यवहारो विशेषान्तरादित्यर्थः ॥ विशेषव्यवहारेति ॥ अयं विशेषोऽयं विशषीति व्यवहारेत्यर्थ- । तामेव योजनामाह ॥ चेतन इति ॥ विशेषोपादानत्वादिति ॥ विशेषं प्रत्युपादानकारणत्वादित्यर्थः ॥ अयाबद्‌द्रव्यभाव्यपि इति विभागः ॥ कार्येति ॥ विशेषकार्यरूपेणेत्यर्थः ॥ उक्तत्वादिति ॥ न चाविशेषितं किञ्चिन्मि(न्म)तमिति पूर्ववाक्येऽर्थादुक्तत्वादित्यर्थः । यद्वा स्वरूपस्य च सिद्धत्वाद् व्यर्थैव श्रुतिरित्यादिना द्वितीये उक्तत्वादित्यर्थः ॥ विशेष्यस्य विशिष्टव्यावर्तकत्वादिति ॥ ज्ञायमानोऽयं नीलः पीतो दण्डीत्यादिविशिष्टाकारः कस्येत्युक्ते चैत्रस्येत्याद्युक्तेरिति भावः ॥ तस्मिन्विशिष्ट इति ॥ विशेष्यस्वरूपत्वविशिष्टे इत्यर्थः ॥ तत्प्राप्ताविति ॥ अनवस्थादिदोषप्राप्तावित्यर्थः ॥ प्रश्नानुपपत्तिरिति ॥ चैत्रः किंविशिष्ट इति प्रश्नायोग इत्यर्थः । अभिन्नमित्यस्यार्थस्तत्स्वरूपमिति ॥ अनवस्थादेश्चेत्यत्रादिपदेन विशेष्यस्य निर्विशेषत्वमज्ञातत्वमत एव तदसत्त्वमिति दोषत्रयस्य ग्रहः ॥ अहं चेति ॥ अन्य इति योज्यम् ॥ यदुक्तमिति ॥ द्रव्यात्मना स नित्योऽपीत्यत्रेति योज्यम् ॥ समर्थितमिति ॥ मदन्य इत्यनुभवाभावस्योक्तत्वादिति भावः ॥ नित्याभिव्यक्तानाम् । धर्मिणा सहैव ज्ञातानामित्यर्थः ॥ आविर्भावतिरोभावेति ॥ कादाचित्कप्रतीतिकानाभित्यर्थः ॥ पूर्वमिति ॥ भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषणे । मदन्य इत्यनुभवो यतो नैवेत्युक्तेरर्थादैक्यं सिद्धमित्यर्थः । तादृशानां आविर्भावतिरोभाववतामिर्थः ॥ उभयविधविशेषेति ॥ स्वाभाविकान्योपाधिकरूपोभयविधविशेषेत्यर्थः । विशेषादेरित्यादिपदेन विशिष्टकारग्रहः । भेदाभेदावुक्ताविति ॥ भेदाभेदौ तौ नैव कर्तृभोक्तृविशेषण इत्युक्त्या कर्तृत्वादिविशेषणेतरविशेषणेऽर्थाद्भेदाभेदौ प्राप्तावित्युक्तावित्युक्तं, उक्तप्रायावित्यर्थः ॥ समर्थयतीति । अनुदात्तेत्त्वनिबन्धनमात्मनेपदमनित्यमिति चक्षिङो डित्करणेन ज्ञापनात्समर्थयतीति साधु । अत एव प्रार्थयन्ति शयनोत्थितं प्रियाः इति रघुवंशे प्रयोगः । अत इत्यस्य व्याख्या एकैस्येति । भेदमात्रस्याभेदमात्रस्य वेत्यर्थः । नन्वचेतने विशेषविशेषिणोर्भेदाभेदादावनुभवे पृष्टे तन्तुपटयोस्तदनुभवोक्तिरसङ्गतेत्यतस्तां सङ्गमयति ॥ तन्त्वाद्यवयवेभ्य

?Rइत्यादिना ॥ एकैकतन्तोरिति पञ्चमी । मूलानुक्तं स्वयमाह ॥ सर्वावयवसमुदायस्येति ॥ यद्वा तन्तुभ्योऽन्य इत्यर्धस्यैव संस्थानविशेषापन्नेभ्य इत्यर्थमुपेत्येयमुक्तिः ॥ अबहुत्वादिति ॥ बहुत्वे हि एकत्वबुद्धिविषयपटेनाभेदो न युक्तः स्यादिति भावः । तद्भावे समुदायभावे ॥ अवयविनेति ॥ संस्थानविशेषापन्नतन्तूनामवयवत्वेन व्यवहारभाजामेवावयवित्वादिति भावः । एकैकतन्तुनापि पटस्याभेद एव किं न स्यात्किं भेदाभ्युपगमेन । न च तेषां बहुत्वादेकेन पटेनाभेदायोगः । दृष्टान्तबलेन स्यादिति शंकते ॥ यथाऽऽत्मागतानामिति ॥ उक्तस्यति ॥ अबहुत्वादेकेन पटेनात्यन्ताभेद इत्युक्तस्येत्यर्थः । उक्तत्वादिति ॥ द्रव्यात्मना स नित्योऽपीत्यादिव्याख्यावसर इति भावः ॥ अन्त्यावयविन्येवेति ॥ द्रव्यान्तरानारम्भके वस्तुनीत्यर्थः ॥ भेदाभेदाविति । एकैकावयवेनेति ॥ भावः ॥ भावव्यवहृतेरिति ॥ नीलरूपस्य सत्त्वव्यवहारादित्यर्थः ॥ विनाशानन्तरमिति ॥ नीलरूपादिनाशात्पूर्वं रूनिणा भेदाभेदौ रूपनाशानन्तरं विशेषात्यन्तभेद एवेत्यर्थः ॥ हरेर्बहुर्व्यवहारविषयतामिति । ज्ञातशस्सहस्रश इत्यदि बहुसङ्ख्यागोचरत्वरूपव्यवहारविशेषविषयतीमित्यर्थः ॥ इत्युक्तत्वादिति ॥ अभावो यत्र भेदस्य प्रमाणावसितो भवेति ॥ विशेषो नाम तत्रैव इत्युक्तवादित्यर्थः ॥ तथा सतीति ॥ जीवेनैक्ये सति प्रत्यक्षादिविरोधपरिहारायोभयगतधर्मत्यगेन निर्वशेषचितोरेवैकीभावस्य वाच्यत्वेन परमैश्वर्यायोगादिति भावः । परमाणतो परच्छिन्नरूपेति मत्वाऽऽह ॥ अनन्तरूपेति ॥ पुनरुक्तिरिति ॥ अभ्यासरूपमित्युक्त्यैवेत्यर्थः ॥ परं निधानम् ॥ उत्तमाश्रय इत्यर्थः । मयेदं व्याप्तमित्यादिरादिपदार्थः ॥ अत्रोच्यते ॥ गीतायामुच्यत इत्यर्थः ॥ असाविति ॥ सर्वशब्द इत्यर्थः ॥ स्वोक्तस्थापनायेति ॥ परं निधानमित्याद्युक्तस्थापनायेत्यर्थः ॥ लोकत्रयस्येति ॥ अर्जुनेनोच्यत इत्यन्वयः । केनोच्यत इत्यत उक्तम् ॥ दृष्ट्वेति ॥ सुखमात्यन्तिकमित्यादाविति ॥ षष्ठे सुखमात्यन्तिकं यत्तदित्यादावित्यर्थः ।

?Rयोग्यत्वेऽपि सति प्रतिबन्धके तद्दर्शनाभावादाह ॥ प्रतिबन्धकहीनेति ॥ विष्णुधर्मे विस्तरेणोक्तमिति ॥ एकोनविंशाध्याये ॥ पुरूरवसो पूप दृष्टुमागतावश्विनौ प्रति पुरूरवो राजा तैलाभ्यक्तोऽस्मि, स्नात्वा भूषणभूषित आगमिष्यामि, तदा मद्रूपं द्रष्टव्यमित्युक्ते अप्रसाधितमेवाशु भवन्तं वसुधाधिपम् । पश्यावो भूषितं त्वां वै पश्चात्संक्रन्दनान्वितम् इत्यश्विभ्यामुक्ते तूर्णं बहिर्निर्गतं राजानं ‘?Rअङ्गोपाङ्गादिकं सर्वं नृपतेस्तदपश्यताम् । शइरोललाटबाह्वास्यनयनादिविलोकनम् । कृत्वा चिरं महीपालमूचतुस्तावरिन्दमौ । प्रविश्य स्नात्वा भूपाल यथार्हैश्च विभूषणैः । विभूषिततनुं भूयः त्वं द्रक्ष्यावो नरेश्वर’?R । इत्यश्वभ्यामुक्तो राजा गृहं प्रविश्य स्नातोऽनुलिप्तः वस्त्रालंकारभूषणभूषितोऽश्विनोः समीपमागतः । तददा तौ तद्रूपं दृष्ट्वा हासं चक्रतुः । राज्ञा हासकारणे पृष्टे ‘’?Rश्रुणु भूपाल सकलमावहोर्हासकारणम् । युष्मद्दर्शनसम्भूतं क्षणापचयहेतुकम् । अस्नातस्याभवत्पूर्वं यादृशी ते सरूपता । साम्प्रतं तादृशी नेयं भूषितस्यापि भूषणैः । दिव्येन चक्षुषा भूप कालस्यास्य च तस्य च । वपुःपरिणतिं स्वन्मात् पश्यावोऽपचयप्रदाम्’’?R इत्यादिनेति भावः ॥ युधिष्ठुरादीनामिति ॥ पञ्चानां पाण्डवानां अश्वत्थामकृतवर्मकृपाणां चेत्यर्थः ॥ साक्षान्न निहता इति ॥ भगवतेति योज्यम् ॥ इति धातेरिति ॥ उण् प्रत्यये आयुरिति रूपमिति भावः ॥ इति धानुरिति ॥ तस्मादप्रत्यये इदित्वान्नुमाङगमे इन्द्रेति रूपमिति भावः ॥ करोतीति क इति ॥ कृञो डप्रत्ययः । प्रत्युतेत्यस्येत्येवोच्यत इत्यनेनान्वयः । त्वर्येद्रशरीरेण दृष्टमिति विशिष्य कस्मान्नोच्यते किं त्वदन्येत्यादिवक्त्रोक्त्येत्यत आह ॥ इन्द्रस्येत्यादि ॥ उदाहृत स्मृतीति ॥ विश्वरूपं प्रथमत इत्यादिस्मृतीत्यर्थः ॥ यदुक्तमिति ॥ एतदध्यायादाविति योज्यम् ॥ अन्यथेत्यनुवादः स्वभावत इति व्याख्या ॥ परत्वमिति ॥ उत्तमत्वमित्यर्थः ॥ उदाहृतवाक्येति ॥ परापरविभेदस्त्वित्यादिवाक्येत्यर्थः ॥ अन्यथोक्तेति ॥ दृष्ट्वाऽद्भुतं रूपं, विश्वरूपं प्रथमतो ब्रह्मापश्यदित्याद्युक्तविरोध इत्यर्थः ॥

इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघनेन्द्रयतिकृते एकादशोऽध्यायः ॥ 11 ॥

**********************************************************************************

॥ अथ द्वादशोऽध्यायः ॥

?Rहरिः ॐ॥ प्रागुक्तेति ॥ मत्कर्मकुदित्यादिनोक्तेत्यर्थः । अनेन पूर्वानन्तर्यमप्यस्याध्यायस्य सूचितं भवति ॥ सन्दिह्येत्यनन्तरं कृत इति योज्यम् । तेन ल्यवन्तोपपत्तिः । द्वितीयश्रिये इत्यस्यार्थः ॥ तदर्थमेवेति ॥ श्रियं जरितृभ्य इत्यस्यार्थः ॥ श्रियं उपदेष्ट्रभ्य इति ॥ श्रियं प्रति वसानाः वसन्त इति वा तामाच्छाद्य स्थिता इति वाऽर्थ इत्युपेत्य फलितमाह ॥ उपासीना इति ॥ यान्तीति लकारव्यत्ययेनार्थोक्तिः । पद्मनाभतीर्थोये तु श्रियं सम्पदं वय आयुश्च जरितृभ्यः श्रीदेवी दधाति ददाति । मितद्रौ मिथुने दम्पत्योः श्रियमुपासीनयोः समिधा समीहीतानि सत्यानि भवन्तीत्यर्थ उक्तः । भाष्यटीकायां तु मितद्रावित्यस्य समुद्रे क्षीरब्धावित्युक्तम् ॥ किमर्थं क्रियत इति ॥ प्रश्न इत्यनुषङ्गः ॥ एतेनेति ॥ अव्यक्तस्य चित्प्रकृतित्वसमर्थनेनेत्यर्थः । अन्वयमुखेनानुवदति ॥ इत्यादि श्रुतिभ्योऽव्यक्तोपासनादिति ॥ ननु पूर्वोत्तरार्धयोः कृष्णोपासक(पर)ब्रह्मोपासकविषयतया

?Rभेदेनार्जुनप्रश्नोऽयुक्त इति भावेनाक्षिपति ॥ कुतोऽनुपपन्न इति ॥ सहेतुकमिति ॥ क्लेशाभावरूपहेतुसहितमित्यर्थः । व्यक्तमेतदग्रेसुष्ट्वाचारादेरौन्येपीत्यादिना ॥ केवलशाक्तेयानामितीति ॥ भगवद्भक्त्यादिहीनश्रीदेवीमात्रोपानकानामित्यर्थः ॥ उक्तप्रकारेण पर्युपासनमिति ॥ हरितत्ववित् तद्भक्तस्तमुपास्यैव श्रियं ध्यायीतेत्युक्तप्रकारेणेत्यर्थः ॥ औन्येपीति ॥ ऊनत्वेऽपीत्यर्थः ॥ इतश्चेति ॥ भगवदुपास्तिरूपमुक्तिमार्गस्य मोक्षफलकत्वे श्रीदेव्युपान्तिमार्गस्येव विलम्बाभावहेतुतश्चेत्यर्थः ॥ हेतुद्वयेनेति ॥ अक्लेशत्वाचिरत्वपूपहेतुद्वयेनेत्यर्थः । हेत्वर्थकेतिशब्दानन्तरं शेषमाह ॥ तेषामित्यादि ॥ न केवलमक्लेशादिकमिति चार्थः ॥ पूर्वमेवेति ॥ सप्तमे अन्तवत्तु फलं तेषामित्यादिना निषिद्धत्वेनेत्यर्थः ॥ श्लोकचतुष्टयार्थं सङ्ग्रहेणानुवदति ॥ मदुपासनस्येत्यादिना ॥ श्लोकचतुष्टयस्य प्रतीकग्रहणम् ॥ मयीतीति ॥ तद्योगो भवतीति ॥ वैष्णवतया सर्वकर्मकरणयोग्यो भवतीत्यर्थः ॥ तदनेनेति ॥ श्रेयो हीत्यादिकमसम्यगिति स्मृत्युदाहरणेन व्याख्यातमित्यर्थः ॥ सन्यासन्त्विति ॥ त्यागस्त्वित्यर्थः ॥ अयोगतः ॥ कर्मानुष्ठानहीनात् ॥ इत्युक्तत्वादिति ॥ पञ्चमोऽध्याये ॥ प्रपञ्च्यत इति ॥ तत्रोक्तधर्मेभ्यो धर्मान्तरकथनेनेति योज्यम् ॥ अन्यथाप्रतीतीति ॥ आरम्भसामान्यनिषेधप्रतीतीत्यर्थः । स्मृत्यैव व्याख्यातत्वादिति । तृतीये नाहं कर्ता हरिः कर्ता तत्पूजा कर्म चाखिलमिति स्मृत्या नाहं कर्तेत्यभिमानत्यागः । हरिः कर्तेत्यादिना च भगवति समर्पणरूपः कर्मन्यास इति व्याख्यातत्वादिति भावः ॥ व्याकरिष्यमाणत्वादिति ॥ अष्टादशे (अन्य) सर्वधर्मान् परित्यज्येत्युक्तशेषत्वेनेत्यादिनेत्यर्थः ॥ उक्ताविरुद्धतयेति ॥ अवैष्णवेत्याद्युक्ताविरुद्धतया शुभपदस्य ज्ञानभक्तिवैराग्यान्यशुभपरतया व्यचष्ट इत्यर्थः । एतेन वैष्णवेत्यस्य ज्ञानभक्तिवाराग्यान्यानीत्यक्तम् ॥ तत्साधनतयेति ॥ ज्ञानभक्तिवैराग्यसाधनतया तुलस्याहरणभगवदाराधनतीर्थयात्राद्यारम्भांश्च विनेत्यर्थः ॥ व्यस्तसाधनकथन इति ॥ असमन्तसाधनकथन इत्यर्थः ॥

** इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रतिकृते द्वादशोऽध्यायः ॥ 12 ॥**

*****************************************************************************

॥ अथ त्रयोदशोऽध्यायः ॥

हरिः ॐ॥ पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषानित्यादिभाष्योक्तदिशा तात्पर्यवाक्यं विवृणोति ॥ यत्प्रथमेत्यादिना ॥ बहूनि मे व्यतीतानि जन्मानीत्यादेरपि कथनादुक्तं प्राचुर्येणेति ॥ द्वितीय इति ॥ षट्‌क इत्यनुषज्यते ॥ न त्वेवाहमित्यादौ यज्जीवस्वरूपमिति ॥ द्वितीयाध्यायादाविति योज्यम् । तत्र जीवस्वरूपोक्तेरेव प्राधान्यं भगवत्स्वरूपं तु तादर्थ्येनेति भावः ॥ क्षेत्रमिति ॥ क्षीयते हरिरत्रेति भगवदावासस्थानमुक्तमित्यर्थः । संक्षेपशब्दस्य भावार्थत्वेऽध्याहृताध्यायपदेन सामानाधिकरण्यायोगत्कर्तरि निष्पन्नः सन् प्रदर्शनलक्षक इति भावेनाह ॥ संक्षिप्य प्रदर्शयतीति सर्वार्थसंक्षेप इति ॥ संक्षिप्य प्रदर्शक इत्यर्थः । करणे कर्तृत्वोपचार इति भावः ॥ परिह्रियत इति ॥ क्षेत्रज्ञत्वप्रकारकभगवज्ज्ञानोपयोगित्वात् क्षेत्रत्वोक्तेरिति भावेनेति योज्यम् । संघातश्चेतनेतीत्यनन्तरं वक्ष्यमाणेति योज्यम् ॥ क्षेत्रविकारेषु एकदेशत्वेन संघातपदेनोक्तेत्यर्थः ॥ इति धातोरिति ॥ विच्‌प्रत्यये सार्वधातुकेति कुणे च शरिति रूपमिति भावः ॥ ईर्यत्वादीरमिति ॥ ईर प्रेरण इति धातोः कर्मणि घञि ईरमिति रूपमिति भावः ॥ इति धातोरिति ॥ अधिकरणे औणादिकत्रप्रत्यये गुणे च क्षेत्रमिति सिद्धमिति भावः ॥ उत्तरत्रापि सम्बद्ध्यत इति ॥ दैवी तु सा मतेत्यतः पूर्वमित्यर्थः ॥ तत्प्रतियोगितयेति ॥ तद्विरोधितयेत्यर्थः ॥ न सात्तदिति ॥ न सत्तन्नासदुच्यत इति गीतावाक्यं व्याख्यातमित्यर्थः ॥ कर्मणोऽप्युपलक्षणमिति ॥ सर्वकर्मेन्द्रियकर्माणि करोति चोत्यपि ज्ञेयमित्यर्थः ॥ अनेनेतीति ॥ इति व्याख्यातमितीति पूर्वेणान्वयः ॥ इत्याद्युक्ततात्पर्यं भवतीति ॥ महत्त्वाणुत्वपरिमाणपूपेण हृदि विष्ठितमित्युक्तं भवतीत्यर्थः ॥ उक्तवचन एवेति ॥ क्षेत्रज्ञो भगवान्विष्णुरिति प्रागुक्तवचन एव प्रसिद्धत्वादितयर्थः । मनोविकारान् ज्ञानेच्छादीनित्यर्थः । व्यर्थपदस्यार्थद्वयमाह ॥ निरर्थक विरुद्धार्थं च स्यादिति ॥ जीवस्य क्षेत्रज्ञत्वपक्षे भगवतः क्षेत्रज्ञत्वोक्तेर्विरोधादिति भावः । शंकते ॥ एतदित्यादिना ॥ उच्यत इतीत्यनन्तरं वाशब्दो योज्यः । क्वचित्तथैव पाठः ॥ क्षेत्रज्ञं चापि मामित्यत्र क्षेत्रं चासौ तज्ज्ञश्चेति व्युत्पत्तिमुपेत्य ज्ञशब्दार्थोक्तिर्जीवस्य क्षेत्रज्ञस्येति । यद्वा क्षेत्रज्ञजीवं सर्वक्षेत्रं च मामिति सर्वक्षेत्रपदं द्वितीयान्ततया विपरिणाभ्यानुवदति ॥ क्षेत्रस्य चेति ॥ शंकामनुवदति ॥ जीवस्येत्यादिना ॥ इत्यादियोजनामिति ॥ प्रगुक्तव्युत्पत्त्या क्षेत्रामेदश्चोत्यत इति योजनामित्यादिपदार्थः । शंकते ॥ क्षेत्रं जानातीति ॥ इत्येतत्सर्वस्येति ॥ इत्यभिमतार्थस्य सर्वस्येत्यर्थः ॥ आदिवाक्य एव प्रश्नवाक्य एवेत्यर्थः ॥ इतीश्वरवाचिपदप्रक्षेपणेत्यन्वयः ॥ पृथग्वाक्येति ॥ एतद्यो वेत्तीति क्षेत्रज्ञं चापि मामिति पृथग्वाक्येत्यर्थः ॥ अव्यक्तादिशरीरस्येति ॥ इदं शरीरं र्कौतेयेत्यत्रोक्तस्याव्यक्तादिरूपशरीरस्येत्यर्थः । योगव्युत्पत्त्या शरीरशब्दनिर्दिष्टाव्यक्तादेरिति यावत् ॥ क्षीयत इति ॥ स्थीयत इत्यर्थः । क्षि निवासगत्योरिति धातोः ॥ अनुपपन्नः

?Rस्यादिति ॥ विपरिणामस्त्वगतिकागतिरिति भावः ॥ ज्ञानमुच्यत इति ॥ ज्ञानशब्दोऽत्र करणे च व्युत्पन्नः सन् ज्ञप्तितत्साधनोभयपरः । केन साधनं केन ज्ञप्तिरुच्यत इत्यतस्तद्विवेचयन्नेव मूलमवतारयति ॥ नन्वित्यादिना ॥ न चात्रेति ॥ आदिमन्न भवतीत्यनादि मदित्यभिप्रेत्यानादीत्यादीना मूलोक्तार्थेऽन्यथानादीत्येव स्यदिति भाष्ये विरोध इत्यर्थः ॥ तत्रेति ॥ आदिमन्न भवतीत्यनादिमदिति विग्रहाङ्गीकारेण कारणोपेतं नेत्यर्थस्वीकारे न विद्यते आदिः कारणं यस्येति बहुब्रीह्याश्रयेणैवास्यार्थस्य सिद्धेर्मतुपो वायर्थ्यं स्यादित्युक्तेस्तद्विरोध इत्यर्थः ॥ तत्रोक्तस्येति ॥ आदरेषामस्तीत्यादिमन्ति देहेन्द्रियगुणकर्माणि । न विद्यन्ते आदिमन्ति यस्य तदनादिमदित्युक्तस्य मुख्यार्थत्वस्येत्यर्थः । दोषस्येति ॥ मतुपो वैयर्थ्यदोषस्येत्यर्थः ॥ तमङ्गीकृत्येति ॥ वैयर्थ्यदोषमङ्गीकृत्य आदिकारणं न भवतीत्यनादीति नञ्‌तत्पुरुणाश्रयेण स्वयं कारणं नेति चोद्यनिवृत्तिरूपं प्रयोजनमन्वाचिनोति । अनास्थयोपादत्ते इत्यर्थः । चार्थयोरन्वाचयसमुच्चययोरन्वाचयरूपार्थो न समुच्चयरूपः । अनादीत्युक्तावपि न विद्यते आदिकारणं यस्येति बहुब्रीहणा स्वस्य कारणं नेत्यर्थो लभ्यते । नञ्‌तत्पुरुषपक्षे तु छान्दसलिङ्गव्यत्ययो वा विभक्तिलोपो वा आश्रयणीयः । अन्यथाऽऽदिशब्दस्य नित्यपुल्लिङ्गतयाऽनादिरिति स्यात् । अतोऽनास्थयोक्तशङ्‌ानिवृत्तिरूपं प्रयोजनलाभमङ्गीकरोत्यादिमन्नेति विग्रहाश्रयणम् । वस्तुतस्तु भाष्योक्तार्थ एव तात्पर्यमिति भावः ॥ इत्येतदिति ॥ परब्रह्मादिशब्दजातमित्यर्थः ॥ उक्तत्वादिति ॥ दशमे ॥ स्वतन्त्रवेत्तेति ॥ आगमशासनमनित्यमितीडभावः । वेदितेत्यर्थः । स्ववेत्तेति प्रागुक्तार्थमाह स्वः स्वतन्त्र इत्यादिना । ज्ञानं च स्वमित्युक्तमाह ॥ स्वः स्वतन्त्रश्चेत्यादि ॥ स्वेन वेद्यश्चेत्युक्तार्थोक्तिः स्वः प्रकाश इत्यादि । स्वः स्वतन्तर इत्यर्थः । स च स्वयमेवेति कर्मणि घञिति भावः । वित्तिश्चेत्युक्तार्थोक्तिः ॥ स्वश्चासावित्यादि ॥ परस्य वेत्ता परैरित्युक्तार्थोऽत्र कुतो नोच्यत इत्यत आह ॥ परस्य वेत्तेत्यादि ॥ किन्तु प्रागुक्तदिशा शंकानिरासार्थं प्राप्तमिति शेषः ॥ अन्यथाप्रतीतीति ॥ मदात्मकत्वप्रतीतीत्यर्थः । भाष्योक्तसङ्गतिमाह ॥ यतश्चेत्यादि ॥ वक्तुमिति ॥ उपद्रष्टेत्यादिनेति योज्यम् । ततः प्रेरकाद्यत् प्रवर्तमानमस्ति प्रकृत्यादिक्षेत्रमित्यर्थः । न च प्रेरकश्च य इति प्रतिज्ञातमित्यर्थः ॥ पुल्लिङ्गेनान्वयायेति ॥ पुरुणपदेनान्वयाय पुरुषशब्दितौ उभावित्यन्वयाय पश्चादुक्तपुरुषशब्दार्थं प्रागुक्त्वा पश्चात्प्रकृतिशब्दार्थ उक्त इत्यर्थः । व्युत्क्रमव्याख्यानेन किं जातमित्यत आह ॥ अनेनेति ॥ पृथग्वाक्यमिति ॥ प्रकृतिं पुरुषं च विद्धि उभौ जीवपरौ उभे चेतनाचेतनप्रकृती चानादी विद्धीत्येवमित्यर्थः ॥ इति सङ्ग्रहश्चेति ॥ इत्यस्याप्यत्र(सं)ग्रहणमित्यर्थः ॥ प्रतीतमिति निराकरोतीत्यन्वयः । शंकते ॥ अज्ञानहेतुचित्प्रकृतेरित्यादि ॥ हेतुत्वं किं विशिष्योच्यत इत्यन्वयः । अस्योत्तरं एतेन भगवत इत्यादिनाग्रे व्यक्तम् ॥ स्वकर्मणेति ॥ स्वव्यापारेणेत्यर्थः ॥ इत्यतो वाह यथेतीति ॥ तदर्थः प्राग्वदेवेति भावः । शंकते ॥ यद्यत्र पुरुषपदमित्यादिना ॥ उक्ताभिधानमात्रेणेति ॥ प्रागुक्तस्य पुनः कथनमात्रेणेत्यर्थः ॥ अनुकूलतर्कमाह ॥ आन्तरार्थानुभवस्येति ॥ बहिरेवेति ॥ शुक्तिरूप्यादिस्थल एवेत्यर्थः ॥ तत्रेति ॥ व्यवहारतो व्यवस्थाऽस्तीत्यत्र प्रमाणाभावादित्यर्थः ॥ तदसिद्धाविति ॥ भ्रान्त्यभ्रान्तिव्यवस्थासिद्धावित्यर्थः ॥ आगमादिप्रामाण्यस्यापीति । तज्जन्यज्ञानप्रामाण्यस्यापीत्यर्थः ॥ इत्यादेरिति ॥ न किञ्चत्सिद्ध्यतीत्यन्तस्येत्यर्थः ॥ साध्येति ॥ आपाद्याभिधानपरतयेत्यर्थः ॥ तत्स्वरूपप्रामाण्ययोरिति ॥ विमुक्तश्चेति श्रुतिजन्यज्ञानस्वरूपतत्प्रामाण्ययोरित्यर्थः । इतिशब्दस्यार्थोक्तरेवमुक्तप्रकारेणेति ॥ इत्यर्थसाधकश्रुतेरिति ॥ विमुक्तश्चेत्यादिश्रुतेरित्यर्थः ॥ अङ्गीकृत्य चेदमुक्तमिति ॥ प्रमाणसिद्धस्य युक्त्या दुर्घटत्वं न बाधकमितीदं चाङ्गीकृत्योक्तमित्यर्थः ॥ तत्रैवेति ॥ दुर्घटत्वमबाधकमित्यनुषङ्गः ॥ उक्तरीत्येति ॥ किञ्चिच्चेतनमित्यादिनोक्तरीत्येत्यर्थः ॥ कार्यकारणसम्बन्धस्येति ॥ कार्यकारणकर्तृत्वस्यैव पुरुषः प्रकृतिस्थो हीति पुनरुक्तसुखादिभोगस्य चेत्यर्थः ॥ एवमिति ॥ तात्पर्यकृदुक्तरीत्येत्यर्थः ॥ उक्तरीत्येति ॥ न हि ज्ञानाज्ञानेत्यादिनोक्तरीत्येत्यर्थः ॥ प्रकृतिस्थत्व इति ॥ देहेन्द्रिययुक्तत्व इत्यर्थः ॥ तत्रेति ॥ जीवभावेन शरीरसम्बन्ध इत्यर्थः ॥ सगुणत्वमित्यत्र तत्कारणमित्यनुषङ्गः ॥ तदनुपपत्तेरिति ॥ देहत्वसगुणत्वाद्यनुपपत्तेरित्यर्थः ॥ मिथ्याभूतं तदस्तीत्यत्र आह ॥ तन्मिथ्यात्वस्येति ॥ देहसम्बधादिमिथ्यात्वस्येत्यर्थः ॥ हेतुत्वेनैवेति ॥ न तु शब्दार्थतयेत्यर्थ- ॥ इतिशब्दान्वयेनेति ॥ हेत्वर्थकेति योज्यम् ॥ उक्तप्रकारद्वयेनेति ॥ स्वप्रतिभयाऽन्यतः श्रवणेन चेत्यर्थः ॥ तेषां ध्यानातिरिक्तसाधनेति ॥ स्वप्रतिभादिरूप इत्यर्थः ॥ अनुक्तिरिति ॥ ध्यानेनेति श्लोक इति योज्यम् ॥ इत्यादाविति ॥ देवा वावसर्वप्रकाशा ऋषयोऽन्तःप्रकाशाः मनुष्या एव बहिःप्रकाशा इति चतुर्थाध्यायतृतायपादीयभाष्योक्तश्रुतावित्यर्थः । प्रतिभाप्रमाणमाहेत्यर्थः ॥ प्रकृतमनुसन्धत्त इति ॥ प्रकृतिं पुरुषं चैव इत्युक्तार्थे बुभुत्सातिशयजननाय तज्ज्ञानफलवचन य एनं वेत्तीत्यादिना प्रकृतं तद्‌बुद्धिस्थं करोतीत्यर्थः ॥ इति विवृमिति ॥ इचि स्मृत्युक्तं विवृतमित्यर्थः ॥ तल्लक्षणान्तराणि

?Rचेति ॥ भूमिजातदेवलक्षणान्तराणि चेत्यर्थः ॥ क्रमेण ह्रसदिति ॥ पञ्चनवतिचतुर्नवति-त्रिनवति-द्विनवतीत्येवं रूपेणेत्यर्थः ॥ पदे त्वित्यस्यार्थमाह ॥ अत्रेति ॥ उत्तमावरसुरावधिके देवमानविषय इत्यर्थः । क्रमेण ह्रसदिति ॥ एकांगुलमध्य एव पादाङ्गुलार्धांगुलादिरूपेण ह्रसदित्यर्थः । चतुसङ्गुल यावदित्यस्यार्थः सप्ताशीत्यङ्गुलपर्यन्तमिति ॥ अत्रापि ॥ गन्धर्वादिविषयेऽपीत्यर्थः ॥ देवोपदेवेति ॥ देवानामुपदेवशब्दितगन्धर्वाणां च परिमाणमित्यर्थः ॥ अवरदेववदिति ॥ एकनवत्यङ्गुलपरिमाणमित्यर्थः ॥ यदुक्तमिति ॥ उपद्रष्टेत्यादिनेति ॥ भावः ॥ सरस्वत्यादीनामपीति ॥ ताश्चेन्द्रधर्मनासत्यसंश्रयाच्छ्रिय ईरिता इति भारततात्पर्योक्तेरिति भावः । विष्णुरत्र क्षेीत्युक्तिसूचितविग्रहमाह ॥ विष्णुरिति ॥ क्षि निवासगत्योरिति धातोरिति भावः ॥ अत्रेति ॥ गीतायामित्यर्थः । एवकारान्वयेनार्थमाह ॥ सा श्रीरेवेति ॥ इच्छा च सैवेत्यर्थः ॥ एवं देवतान्तरेष़पीति ॥ जिह्वावारिपतिर्वरुणो जलं शिवोऽहंकार इति प्रोक्तः उपस्थः स शिवो मनुरित्याद्युक्तदेवतान्तर इत्यर्थः । करणमित्यस्यार्थः ॥ कार्यान्तरोत्पादकत्वमिति ॥ उक्तनिरुक्तीति ॥ हिंसाहेतुश्च जीवस्येत्यादिना प्रागुक्तनिरुक्त्येत्यर्थः । पृथिव्याद्या देवतास्तु देहवद्यद्वशत्वत इति काण्वभाष्योक्तदिशाऽर्थमाह ॥ भगवत्तन्त्रत्वेनेति । पूर्वमितीति ॥ पूर्वोक्तं ब्रह्मैव कर्तृरूपं सत् कर्म प्रवर्तयति । न तु कर्म ब्रह्मप्रवर्तकम् । पुण्येन पुण्यं लोकं नयतीत्याहौ बरह्मणः कर्तृत्वस्य कर्मणो हेतुत्वस्य व्यपदेशादिति भक्तिपादीयान्तिमसूत्रार्थः ॥ नन्वत्रेति ॥ गीतायामित्यर्थः ॥ अत्रापीत्यनन्तरमत्रेत्यनुवादपूर्वं किञ्चित्पूरयित्वा मूलार्थमाह ॥ यावदिति ॥ तत्सङ्गात् प्रकृतिसंयोगात् । इति न च वाच्यमित्यन्वयः ॥ एतद्वाक्यार्थस्येति ॥ यावदित्यादिवाक्यार्थस्येत्यर्थः ॥ अलमिति ॥ मोक्षादिपुमर्थायेति योज्यम् । प्रमाणस्य मूलसमानार्थत्वाय मूलस्याभिप्रेतार्थमाह ॥ भूतेति ॥ अत्रोक्तमिति ॥ प्रमाणवाक्योक्तमित्यर्थः ॥ अकर्तृत्वप्रतीतिं चेति ॥ न केवलं सर्वात्मकत्वमिति शङ्‌कामिति चार्थः । जडं न भवतीत्यत्रेतिपदानुवादेन शेषमाह ॥ इति वाच्यमिति शेष इति ॥ अनुरूपं दृष्टान्तं स्वयमाह ॥ यथा शून्येति ॥ भूतानां प्रकृतेस्सकाशान्मोक्षो यस्मादिति विग्रहाश्रित्याह ॥ मोक्षं मोक्षसाधनमिति ॥ तत्किमित्यत उक्तम् ॥ अमानित्वादिकमिति ॥

** इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते त्रयोदशोऽध्यायः ॥ 13 ॥**

***************************************************************************************

॥ अथ चतुर्दशोऽध्यायः ॥

हरिः ॐ॥ भाष्यदिशा घट्टार्थमाह ॥ प्राधान्येनेति ॥ अत्र साधनशब्देन भगवज्ज्ञानसाधनस्य कर्मध्यानरूपस्याद्यषट्‌कोक्तस्य कामादिवर्जनरूपेतिकर्तव्यतांशो ग्राह्यः । मम योनिर्महद् ब्रह्मा, न तद्भासयते सूर्य इत्यादिना ईश्वरमाहात्म्यस्यापि वर्णनात्प्राधान्येनेत्युक्तम् । प्राचुर्यापेक्षया सङ्ग्राहकमेतदिति भावः ॥ अध्यायपञ्चकमध्ये दर्शयत्यनेनाध्यायेनेत्यन्वयः ॥ इत्युक्तेति ॥ क्षेत्रक्षेत्रज्ञसंयोगहेतुकप्रपञ्चजननविवरणेत्यर्थः । गीतावाक्यमवतारयति ॥ त्रैगुण्य इति ॥ इत्यादिश्रुतिसिद्धमिति । ऐतरेयश्रुतौ सामपरमात्मा पुरुष एवातिशयेनाविर्भवतीत्युक्त्या योग्यस्यैव पुरुषत्वमित्येतत्सिद्धमित्यर्थः । परेत्यनुवादः, षड्‌भ्योऽधिकेति व्याख्या । जाम्बवत्यादिभ्य इत्यर्थः ॥ सद्गुणत्वात्सिदिति ॥ सद्भावे च सदित्येतत् प्रयुज्यत इत्युक्तेरिति भावः ॥ इति धातुरिति ॥ असुन्प्रत्यये तम इति पूपमिति भावः ॥ अर्थान्तर इति ॥ रजसः केवलदुःखफलकत्वरूपार्थान्तर इत्यर्थः । यद्वा तमसो ज्ञानिमात्रफलकत्वरूपार्थान्तर इत्यर्थः ॥ गुणात्ययोपायादीति ॥ लक्षणाचारावादिपदार्थः ॥ साष्विति ॥ समीचीनधर्ममित्यर्थः ॥ इत्याद्युक्तार्थमिति ॥ विष्णुभक्तिऋतौ(ते)लौकिमपुमर्थहानिप्राप्तौ तत्त्यागे पुमर्थप्राप्तावपि विष्णुभक्तिरनुष्ठेयैवेत्यादिरूपेणोक्तार्थमित्यर्थः ॥ दीर्घावैष्णवेति ॥ बहुकालानुष्ठेयेत्यर्थः । श्रीरूपस्यैव सत्वगुणमानित्वादाह ॥ श्रीरुच्यत इति ॥ उभयत्रेति ॥ तत्कृतबन्धत्यागेन तदधिकप्राप्त्या च तदत्ययीत्युच्यत इत्यत्रेत्यर्थः । तद्व्यनक्ति ॥ यथेति ॥ एकमेवेति ॥ अन्ते स्थितमित्यन्वयः । सर्वाधिकत्वेनान्ते स्थितमित्यर्थः ॥

** इति श्रीगद्गीतातात्पर्यटकाभावदीपे राघवेन्द्रयतिकृते चतुर्दशोऽध्यायः ॥ 14 ॥**

*******************************************************************************

अथ पञ्चदशोऽध्यायः ॥

हरिः ॐ॥ जगत्स्वरूपमिति ॥ महानहंकार इत्यादिना प्रकृतिमहदादिचुर्विंशतितत्त्वात्मकमिच्छाद्वेषात्मकं इच्छाद्वेषादिविकारसहितं सदैवतं यज्जगत्स्वरूपमुक्तमित्यर्थः । संसारस्वरपं दर्शयतीति भाष्याविरोधायाह ॥ तस्यैवेति ॥ संसरत्यनेनेति व्युत्पत्त्येति भावः ॥ जिहासता त्यक्तुमिच्छतेत्यर्थः ॥ निरूपित िति ॥ य एवं वेत्ति पुरुषमित्यादिना भगवदादिज्ञानरूपोपायइत्यर्थः ॥ अतदेकदेशत्वेनेति ॥ तदेकदेशत्वाभावेनेत्यर्थः ॥ धर्मार्थयोः काममोक्षार्थत्वादिति ॥ धर्मो मोक्षार्थः अर्थः कामार्थ इत्यर्थः ॥ अश्ववत्स्थिऽश्वत्थ इति ॥ सुपि इति कप्रत्ययः ॥ कुत इति ॥

कस्मात्प्रमाणादित्यर्थः ॥ भगवन्मार्गणमिति ॥ श्रवणादिरूपमित्यर्थः ॥ प्रकृतिस्थानीत्यत्र प्रकृतिशब्दन्तत्कार्यपर इत्युपेत्याह ॥ शरीरस्थानीति ॥ सर्वेषामित्यस्यार्थमाह ॥ उपजीव्यतयेति ॥ एतेन नरे संज्ञायामिति दीर्घे वैश्वानर इति पूपमिति भावः ॥ इति धातोरिति ॥ शरीरद्वारा क्षरतीत्यर्थे पचाद्यच्प्रत्यये क्षरेति रूपमिति भावः ॥

** इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते पञ्चदशोऽध्यायः ॥ 15 ॥**

**********************************************************************************

॥ अथ षोडशोऽध्यायः ॥

हरिः ॐ॥ तदुभयमस्मिन्नध्याये निरूप्यत इति ॥ एतेन पूर्वाध्याये निर्मानमोहा इत्यादिना पुमर्थयोर्ज्ञानमोक्षयोः साधनस्य, यतन्तोऽप्यकृतात्मान इत्यादिना पुमर्थविरोधिनश्च संक्षेपेणोक्तसय देवासुरलक्षणरूपस्यात्र विस्तरणात् पूर्वानन्तर्यमस्य सूचितं भवति ॥ तत्रेति ॥ देवासुरलक्षणोक्तिपरेऽध्याये इत्यर्थः ॥ तत्स्मृत्यैवेति ॥ उदाहृतवाक्यजातमित्यर्थः ॥ अक्षादिविरोधं स्वोक्तिविरोधं च व्यनक्ति ॥ सतीत्यादिना ॥ सती सद्रूपेत्यर्थः ॥ सर्वमिथ्यात्वस्यापि मिथ्यात्वादिति ॥ सर्वं मिथ्येत्युक्ते सर्वशब्ददेन वियदादिजगत इव तन्मिथ्यात्वस्यापि सर्वशब्दार्थमध्ये पतितत्वादिति भावः ॥ दैवीतीति ॥ दैवी सम्पद्विमोक्षायेत्येतदित्यर्थः ॥ अन्धतमोहेतुत्वमिति ॥ समासान्तर्विधेरनित्यत्वादेव समन्धेभ्य इति समासान्तो नाश्रितः । तेन अन्धतमस इति भाव्यमिति नाशंक्यम् ॥ तदुभयफलान्तर्वर्तमाना इति ॥ तेषां तादृशशुभाशुभफले न स्त इत्यर्थः । यद्वा तदुभयफलत्वाद्देवासुरग्रहणेनैव तेऽपि गृहीता इत्यर्थः ॥ देवादीनामपीति ॥ देवासुराणामपि मुक्तितमोगत्वाद्देवेभ्योसुरेभ्यः को विशेषो देवानामित्यर्थः । यद्वा देवादीनां देवगन्धर्वप्रभृतीनां मुक्तिगत्वाद्देवेभ्यो गन्धर्वादिभ्यो देवानां को विशेष इत्यर्थः । तथा मनुष्याधमानामपि तमोगत्वाद्देवेब्योऽसुराणां को विशेष इति चार्थः ॥ यदुक्तमिति ॥ विमुक्तिगा इति शब्देनेति भावः ॥ निसर्गत्वोक्तिरिति ॥ स्वभावत्वोक्तिरित्यर्थः ॥ अन्यथाभााभाव इति ॥ अन्यथात्वाभाव इत्यर्थः । तत इत्यनुवादः देवानामित्यादि व्याख्या ॥ तात्पर्यं चेति ॥ न केवलं कुतोऽशोच्यत्वमिति शंकानिरास इति चार्थः ॥

** इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते षोडशोऽध्यायः ॥ 16 ॥**

********************************************************************************

॥ अथ सप्तदशोऽध्यायः ॥

?Rहरिः ॐ॥ अनुष्ठानत्यागयोश्चेति ॥ असम्भवादित्यनेनान्वयः । ननु ये शास्त्रविधिमुत्सृज्येत्यत्र निष्ठा केति पृष्टे सात्त्विकत्वादिकमेव वाच्यम् । त्रिविधेत्यादिकं किमुच्यत इत्यत आह ॥ इति प्रश्नस्यैवेति ॥ शास्त्रविधिमजानतां निष्ठायाः तदज्ञानस्य सात्विकादित्रयाणां सम्भवेनाज्ञानमुखेन सात्विकादिभेदस्य वक्तुमशक्यत्वात् । प्राक् यष्टृविशेषणतया यागंगत्वेनोक्तश्रद्धां विभज्य तदाश्रयेण तेषां सात्विकत्वादिस्वरूपमुच्यत इति भवति तत्प्रश्नस्येदमुत्तरमिति नासङ्गतमिति भावेन तदुत्तरत्वं विवृण्वन्नुत्तरश्लोकमवतारयति तत्रेत्यादिना भवतीत्यन्तेन । त्रिविधेति श्लोकार्थं उक्तः । यो यछ्रद्ध इत्यस्यार्थस्तत्रेत्यादिनोच्यते ॥ तज्ज्ञानमिति ॥ सात्विकत्वादिज्ञानम् । इत्युक्तस्येति चतुर्थपादोक्तस्येत्यर्थः ॥ पूर्वमेवेति ॥ सत्वं जीवः क्वचित्प्रोक्त इत्यादिना त्रयोदशाध्याये ॥ अनेकार्थत्वादिति ॥ तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधेत्युक्तेरिति भावः ॥ तामिति ॥ सात्विकादिश्रद्धां सात्विकादिश्रद्धावद्भिः क्रियमाणयजनमिति यावत् ॥ इत्यसय विवरणेनेति ॥ य इत्यत्र सात्विकादिश्रद्धः सात्विकादिरित्युक्ते कः सात्विकश्रद्धादिरिति जिज्ञसायां देवादियाजी सात्विकश्रद्धादिरिति विवरणेनेत्यर्थः ॥ एवमिति ॥ सात्विकी तामसस्यापीति एवं राजसस्यापीत्यादि ध्येयमित्यर्थः । उभयत्रान्तःकरणात्मिकेत्यनुषङ्गो मूले ध्येय इति भावः । व्यामिश्रयाजिन इत्यनुवादःव अक्रमेणेत्यादि व्याख्या । यजमानाः यागं कुर्वाणा इत्यर्थः । नेति चाखिलमित्यस्यार्थः अखिलमित्यादि ॥ क्वचित्तथोक्तीनामिति ॥ क्वचिद्ग्रन्थे अध्यक्षविद्या भूङ्क्ते, देवा भूञ्जते, शिवस्कन्दादयो भूञ्जत इत्युक्तेर्गतिरुक्ता भवतीत्यर्थः ॥ अनेनेति ॥ त्यक्त्वापि शास्त्रविहितमित्यादिनेत्यर्थः ॥ शास्त्रविध्युत्सर्गादीति ॥ शास्त्रविध्यज्ञानज्ञानेत्यर्थः ॥ प्रयोजकत्वकथनस्येति ॥ गीतायां त्रिविधेत्यादिनेति भावः ॥ तज्ज्ञाने तज्ज्ञानमिति ॥ सात्विकादिश्रद्धाज्ञाने सात्विकादिजीवस्वरूपज्ञानमित्यर्थः ॥ सात्विकत्वादीति ॥ सात्विकत्वमुत्तमत्वं राजसत्वं मध्यमत्वं तामसत्वमधमत्वमिति ज्ञातव्यमित्यर्थः ॥ तस्मादित्यनुवादः ॐकारस्येत्यादि व्याख्या ॥ इति सिद्धमिति ॥ कथमेतज्ज्ञायत इत्यत आह ॥ उक्ति प्रसङ्गदिति ॥ प्रकरणबलादिति भावः । रसाद्यर्थमित्यत्र रसपदस्यार्थमाह ॥ रसो रसायनमिति ॥ मूले कट्वादीनां राजसत्वनियमे दुःखशोकेत्यादिविशेषणं ज्ञापकतया यथोदाहृतं तथा रस्यादीनां सात्विकत्वनियमे आयुरित्यादि विशेषणं ज्ञापकतयोदाहर्तव्यमित्यर्थः । तथा च दुःखशोकाद्यहेतुत्वे यथानराजसत्वं तथा आयुरादिविवर्धनाहेतुत्वे सात्विकत्वं रस्यादीनां नेति ज्ञातव्यमिति भावः ॥ शंकते ॥ नात्रायमिति ॥

अन्नोत्पन्नत्वेपीति ॥ विवर्धत इत्यनेन सत्त्वस्य तदुत्पन्नत्वश्रवणादिति भावः । कर्मणि घञन्तं यामपदमित्युपेत्याह ॥ यामं याम्यमिति ॥ तत्रेति ॥ याग इत्यर्थः ॥ वाक्यान्तरेणेति ॥ ॐ तत्सदिति, यद्विष्णोरित्यादिवाक्यान्तरेणेत्यर्थः ॥ तद्वाक्येति ॥ प्रागुक्तस्मृतिवाक्यविवरणेनैतद्वाक्यं गीतावाक्यमित्यर्थः ॥ तच्च पदमिति ॥ सदिति पदं चेत्यर्थः ॥ विवृतं भवतीति ॥ ओमादिनामकभगवत्सम्बन्धाद्यज्ञादिकमपि तन्नामकमिति विवृतमित्यर्थः ॥ तदुच्चरण इति ॥ ॐकारोच्चरण इत्यर्थः ॥ तेन हि मन्त्र इति ॥ मं ज्ञातारं त्रातीति मन्त्र इत्यर्थः । माङ् मान इत्यतः कर्तरि अण् प्रत्ययेऽप्रत्यये वा म इति रूपम् । त्रैङ् पालन इत्यत आतोनुपपसर्गे क इति कप्रत्यये डप्रत्यये वा मन्त्र इति रूपसिद्धेः ॥ एवमेवाध्यायसङ्गतिः सूचितेति ॥ अफलाकांक्षित्वादिना क्रियमाणं कर्म सत्, अन्यदसदिति तात्पर्यादध्यायान्तर्भावसङ्गतिरित्यर्थः ।

** इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते सप्तदशोऽध्यायः ॥ 17 ॥**

**************************************************************************************

॥ अथ अष्टादशोऽध्यायः ॥

हरिः ॐ॥ पुमर्थसाधनमिति ॥ मोक्षहेतुज्ञानसाधनं त्रैगुण्यविषयावेदा इत्यादिनोक्तमित्यर्थः । त्रैगुण्यं सत्त्वादिगुणत्रयकार्यमित्यर्थः ॥ नाग्निर्न यज्ञ इत्यादेरिति ॥ अपशूद्राधिकरणभाष्योक्तवचनादित्यर्थः । भावानभिज्ञः शंकते ॥ कर्मत्यागस्येति ॥ कार्यमित्येवेत्युक्तविरोधादिति ॥ तत्र कुशले कर्मण्यनुषङ्गस्योक्तत्वादकुशले फले द्वेषस्य च प्रतीतेरिति भावः ॥ किं तस्य सर्वथेति ॥ बन्धकं कर्म तस्य सर्वथा सर्वात्मना न बन्धाय भवति किमित्यर्थः । सर्वत्यागिनां सर्वकर्मफलत्यागिनामित्यर्थः ॥ त्यागित्वादेवेति ॥ कर्मफलस्येत्यनुषङ्गः ॥ तदपीति ॥ परार्थकाम्यकर्मस्वरूपत्यागिनमित्यर्थः । तथा च सन्यासिनामित्युक्त्या त्यागिनामित्येवोक्तं भवतीति भावः ॥ कर्मण्यमिमानत्यागोऽपीति ॥ न केवलं काम्यकर्मन्यासमात्रं संन्यास इत्यपिशब्दार्थः ॥ तज्ज्ञानं स्तूयत इति ॥ स्वात्मनोक्तकर्तृत्वज्ञानमित्यर्थः । मूले इत्यन्तेन न हन्तीत्यस्य हन्मीति भावं न करोतीत्यर्थमुपेत्य पौनरुक्त्यमाशंक्योच्यत इति शेषपूरणेन तन्निराह ॥ न हन्तीत्युच्यत इत्यत इति ॥ पुनरुक्तिरिति ॥ नाहंकृतो भाव इत्यनेनेति योज्यं तस्याङ्गीकृतत्वादिति ॥ विशेष्यविशिष्टयोरभेदस्याङ्गीकृतत्वादित्यर्थः ॥ ज्ञाता देवदत्त इति ॥ ज्ञातृत्वविशिष्ट इत्यर्थः । देवदत्त इति विशेष्योक्तिः । दार्ष्टान्तिके योजयति ॥ एवमीश्वरेति ॥ अण पण गताविति धातोर्निरुक्तात्वादेव न दीर्घत्वं, किन्तु पररूपत्वमिति भावः ॥ सात्विकज्ञानादिसाधनेति ॥ सात्विकज्ञानमर्मादेः मोक्षसाधनत्वात्सात्विकज्ञानादिरूपमोक्षसाधनानुष्ठानाय गुणनिमित्तसात्विकज्ञानादिभेदा उच्यन्त इत्यर्थः । एवमित्यनुवादः । सर्वगतस्येति व्याख्या ॥ सप्तम्या अभिप्राय इति । आधारत्वस्य भेदनिबन्धनत्वात्तेन पृथक्त्वं लब्धमिति भावः ॥ भवतीति जडं चोच्यत इति ॥ भू सत्तायामिति धातोः प्रकृत्यादिजडस्यापि सद्रूपत्वाद् भूतपदेन ग्रहणमित्यर्थः ॥ उक्तत्वादिति ॥ पूर्वश्लोकविभक्तेष्वित्यादिनेतिन भावः ॥ अनेन यदीति स्मृतिर्विवृतेति ॥ सर्व(गतं)गत्वमित्याद्यंशेन विवृतेर्थः । एकस्येत्यस्यार्थमाह ।. यस्य कस्यचिदेकस्येति ॥ भिन्नाधिकरणतयेति ॥ भिन्नाभिन्नविषयतयेत्यर्थः ॥ विधायेति ॥ तृतीयाध्याये इति योज्यम् । स्वरूपयाथार्थ्यज्ञानादित्यत्र कांक्षितं पूरयति ॥ अपेक्षिततया ज्ञायत इति सम्बध्यत इति ॥ तदर्थलाभप्रकारमाह । अहं परः सर्वोत्तम इत्यादिना ॥ कर्तापीति ॥ कार्यानुकूलकूतिमानपीत्यर्थः ॥ धृतिश्चेद् व्यभिचारशून्यैवेति ॥ स्खलनशून्यैवेत्यर्थः । कर्मैषामधिकं यत इत्यत्र स्थायिकपदमनूद्य कांक्षितं पूरयति ॥ अधिकं क्रमादिति सम्बध्यत इति ॥ तदिति ॥ कर्माधिक्यमित्यर्थः ॥ इत्यादाविति ॥ अत्रैवोत्तरश्लोक इत्यर्थः ॥ गृहस्थान्तानामिति ॥ नैष्ठिको गृहीत्युक्तगुहस्थान्तानामित्यर्थः । असर्ग इत्यादेरर्थः अपत्यानुत्पादनमित्यादि ॥ विप्रादिस्वरूपमुक्तमिति ॥ विप्रा राजससात्विका इत्यादिनेति भावः ॥ इति गमयितव्यमिति ॥ अन्यथान्याधिक्यमित्याद्युत्तरवाक्यविरोधादिति भावः ॥ गुणाभावादिति ॥ सत्त्वादिगुणाभावादित्यर्थः ॥ उक्तप्रकारेति ॥ श्रेष्ठ एवोत्तरोत्तरा इत्यादावुक्तप्रकारावसितेत्यर्थः ॥ इत्युच्यन्त इति ॥ नराधमास्तामसेषु सात्विका इति पूर्वोक्तस्मृतावित्यर्थः ॥ वाक्यद्वयेनोक्तमिति ।. ‘?Rराजसास्तु सरास्तत्रेति’?R ‘?Rये तु भागवता इति च’?R वाक्यद्वयेनेत्यर्थः ॥ प्रागुक्तरीत्येति ॥ शुद्धसत्त्वास्तु परमहंसा इत्यादिनोक्तरीत्येत्यर्थः ॥ वाक्यान्तरेति ॥ (येतु) भागवतेति वाक्यान्तरेत्यर्थः ॥ स्वफलप्रदत्वस्योक्तत्वादिति ॥ चतुर्दशेऽध्याये ॥ राजससात्विकादिरिति ॥ परमहंसादिरादीपदार्थः ॥ नराधमादिरिति ॥ दैत्यादिरादिपदार्थः । सम इत्यनुवादः एकेत्यादि व्याख्या । फलितमाह ॥ अज्ञ इति ॥ तत्त्वज्ञानमिथ्याज्ञानोभयहीन इत्यर्थः ॥ प्रयोजनमिति ॥ भाव इति । भावेनेत्यर्थः ॥ तेषामिति ॥ येषु क्षत्रियेष्वाधिक्यमुच्यते तेषामित्यर्थः ॥ इत्यादि द्रष्टव्यमिति ॥ क्षत्रियसमगुणश्चेत्क्षत्रिय इत्यादिरादिपदार्थः ॥ तत्तदिति ॥ क्षत्रियसमगुणश्चेत् क्षत्रियः वैश्यसमगुणश्चेद्वैश्य इत्येवं द्रष्टव्यमित्यर्थः ॥ तद्धर्मकथनस्थल एवेति ॥ क्षत्रियधर्मकथनस्थल एव इत्यर्थः ॥ उक्तन्यायेनेति ॥ एते गुणाः

किञ्चिदूनाः विप्रादित्यादिनोक्तन्यायोनेत्यर्थः । यद्वा स्वकर्मणेत्यादिनोक्तन्यायेनेत्यर्थः । मूले क्षत्रियस्य विशेषधर्मा उक्ताः । अन्यषां स्वयमाह ॥ एवं कृष्यादय इत्यादि ॥ शुश्रूषायाः सर्वधर्मत्वादिति ॥ अध्यापनञ्च शुश्रूषेत्युक्तदिशेति भावः ॥ इत्यादीति ॥ क्षत्रियस्य भीत्या पलायनं वैश्यस्यापि यथान्यायातिक्रमणमित्यादीत्यर्थः ॥ इत्यादीति । क्षत्रियस्यापि धैर्येणापलायनम् । वैश्यस्य न्यायेन कृष्यादीत्येवं ध्येयमित्यर्थः ॥ उक्तस्येति ॥ अनिसर्गोपीत्युक्तस्येत्यर्थः ॥ नोक्तविरोध इति ॥ क्षत्रियस्य विशेष इत्युक्तविरोधो नेत्यर्थः ॥ इत्यस्य व्यावर्त्यमाहेति ॥ क्षत्रियैरेव कर्तव्यत्वरूपं व्यावर्त्यमाहेत्यर्थः । ननु ब्राह्मणानामपि शिक्षाकर्तृत्वे क्षत्रियस्य विशेषाविति प्रागुक्तविरोध इत्यत आह ॥ अत्र सर्वत्रेति ॥ श्लोकद्वयं एकान्वयेन योजयति ॥ यदि क्षत्रियस्येत्यादिना ॥ नैष्कर्म्यसिद्धिसाधनेति ॥ प्रारब्धेतरसर्वारिष्टकर्मनाशसाधनविवरणे(ने)त्यर्थः ॥ न चातिप्रसङ्ग इति ॥ मुक्तावपि ज्ञानवृद्धिप्रसङ्गपूपो न चेत्यर्थः ॥ लक्ष्मीप्राप्ताविति ॥ एतेन ब्रह्मभूयायेत्यस्य लक्ष्मीप्राप्त्यर्थमित्यर्थं उक्तो भवति ॥ ज्ञानानन्तरमित्युक्त्या च नैष्कर्म्याय मोक्षाय सिद्धिं तदूपायज्ञानसिद्धिमित्यप्यर्थः सूचितः ॥ विशिष्यत इति ॥ स्वकर्मणा तमभ्यर्च्येत्यत्र स्वकर्मकृतौ किञ्चिद्विशेषणमाहेत्यर्थः ॥ इत्यादौ प्रागिति ॥ द्वितीयाध्याये ।. वस्तुनि विकल्पायोगादिति ॥ भागवतस्य सर्वोत्तमत्वं त्रैविद्यस्य तु नेति वस्तुनि हरौ विकल्पायोगादित्यर्थः ॥ तदपीति ॥ भगवत्सर्वोत्तमत्वमपीत्यर्थः ॥ भाव इति ।. भावनेत्यर्थः ॥ प्रतिज्ञायेति ॥ नवमेऽध्याये ॥ द्वाविमावित्यत्रोपसंहारो न दृश्यत इत्यत आह ॥ िति वाक्यशेषादिति ॥ प्रागुक्तत्वादिति ॥ चतुर्दशाध्यायादावित्यर्थः ॥ साधनोपसंहार इति ॥ बुधअयारोहाय संक्षिप्य कीर्तनं व्यर्थमित्यर्थः ॥ अन्यथाऽर्थकल्पन इति ॥ मन्मननत्वादिधर्मान् परित्यज्येति व्याख्यान इत्यर्थः ॥ एकार्थत्वमिति ॥ सदेत्यन्तेन तन्मनस्त्वस्य सर्वाधिकत्वे प्रेमयुक्तमित्यनेन मद्भक्त इत्यस्य सर्वत्र समर्पणमित्यनेन मद्याजीत्यस्य अखण्डा त्रिविधा पूजेत्यादिना मां नमस्कुर्वित्यस्यैकार्थ्यं व्यक्तमिति द्रष्टव्यमित्युक्तम् । सक्ष्यत इति ॥ लक्षणया प्रतिपाद्यते, तपःप्रभृतिगुणयुक्तोऽधिकारीत्युच्यत इत्यर्थः ॥ गीताव्याख्यानादीति ॥ आदिपदेनाध्ययनश्रवणयोर्ग्रहः ॥ कारणभूता इति ॥ सर्वेन्द्रियप्रेरकत्वाद्देवानामिति भावः ॥ तत्रेति ॥ गीतायां तात्पर्यनिर्णयाख्य ग्रन्थे वा प्रतिपादितगुणपूर्णत्वनिर्दोषानन्ददायित्वज्ञानिश्रेष्ठस्वप्रियतमत्वप्रकारमित्यर्थः ॥ तदाहेति ॥ वायोस्तृतीयावताररूपं स्वस्वरूपमाहेत्यर्थः ॥ तमेवेति ॥ स्वग्रन्थे प्रतिपादितप्रकारमेव हरिमित्यर्थः ॥

अशेषदोषदूराय गणपूर्णाय विष्णवे ।

नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ॥

** इति श्रीमद्गीतातात्पर्यटीकाभावदीपे राघवेन्द्रयतिकृते अष्टादशोऽध्यायः ॥ 18 ॥**

** ॥ श्रीकृष्णार्पणमस्तु ॥**

]