गीतातात्पर्यनिर्णयटीका न्यायदीपिका-श्रीजयतीर्थयतिविरचिता
प्रथमोध्यायः
इन्दिरावदनाम्भोजराजहमसाय विष्णवे । अमन्दानन्दसन्दोहसुन्दराकृतये नमः॥ १॥ धर्मविज्ञानवैराग्यपरमैश्वर्यशालिनः । आनन्दरीर्थभगवत्पादान् वन्दे निरन्तरम्॥ २॥ स पद्मनाभतीर्थार्कगोगणोऽस्तु दृशे मम । न तत्त्वमार्गे गमनं विना यदुपजीवनम्॥ ३॥ प्रणम्य चरणद्वन्द्वं गुरूणां तत्कृपाबलात् । व्याकरिष्ये यथाबोधं गीतातत्पर्यनिर्णयम्॥ ४॥ अथाशेषपुरिषार्थहेतुभूतामन्यैरन्यथा व्याख्यातां गीतां यथावद्व्याख्यातुकामो भगवानाचार्यः प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यादिप्रयोजनामिष्टदेवतानतिं शिष्टाचारपरम्परादिप्राप्तां शिष्यजनशिक्षार्थं ग्रन्थे निबध्नाति, ग्रन्थारम्भं च प्रतिजानीते॥ समस्तेति॥ अन्तरायपरिजिहीर्षादिमन्तो देवतान्तरनतिमाचरन्तो दृष्टाः । तत्किं नारायणप्रणामेनेत्यत उक्तम्॥ समस्तेत्यादि॥ नारायणस्यैव समस्तगुणसम्पूर्णत्वेनाशेषदोषदूरत्वेन निखिलप्रार्थितप्रदानसामर्थ्यादितरेषां तत्प्रसादासादितशक्तिमत्त्वात्तत्प्रणाम एव कर्तव्य इति भावः । सम्पूर्णमिति गुणानां प्रत्येकं पूर्णतामाह । विवर्जितमिति च दोषवर्जनस्य निःशेषताम् । समस्तगीतासु भगवद्गीतायाः प्राधान्यज्ञापनाय गीतेत्येवोक्तम् । “मुख्यस्य निर्विशेषेण शब्द” इति स्मृतेः । स्वयमेव गीताभाष्यस्य कृतत्वात् किं पुररारम्भेणेत्यतस्तात्पर्यमित्युक्तम् । व्याख्यातत्वेऽपि गीतायास्तदर्थस्य शिष्याणां बुद्ध्यारोहार्थं शब्दानुकरणाद्यन्तरेण पुनस्तात्पर्यिमेवोच्यत इति भावः । नन्वनेकेषु ग्रन्थेषु विद्यमानेषु को विशेषो गीताया येन तस्या एव तात्पर्यमुच्यते । अपि च, भारतमध्यगतत्वाद्गीतायाः कुतस्तस्या एव पृथक् तात्पर्यमुच्यत इत्यतो भारतस्य सर्वशास्त्रोत्तमत्वाद्युक्तं तदन्तर्गतगीताया एव तात्पर्यकथनम् । भारतेऽपि गीताया उत्तमत्वात्तस्याः पृक्तात्पर्यकथनं चोपपन्नमिति परिहारमभिप्रेत्य भारतस्य सरिवशास्त्रोत्तमत्वं, भारतेऽपि गीताया एव उत्तमत्वमेव कुत इत्यतन्तत्पुराणवचनेन साधयित॥ शास्त्रेष्विति॥ भारतेऽपि गीतानामसहस्रयोरुत्तमत्वं कुत इत्यत आह॥ तदिति॥ भारतज्ञानादप्याञ्जस्येन गीतादिज्ञानस्य मोक्षसाधनत्वाद्युक्तं भारतेऽपि गीतादेरुत्तमत्वमिति भावः । गीतानामसहस्रसमानशास्त्रान्तरज्ञानस्याप्याञ्जस्येन मोक्षहेतुत्वात् को विशेषो गीतादेरित्यत आह॥ नेति॥ भाररतस्य सर्वशास्त्रोत्तमत्वमेव कुत इत्यत आह॥ भारतमिति॥ वेदपदेन वेदयन्तीति सर्वशास्त्राण्युच्यन्ते । भारतादेस्तुलाऽऽरोपणं नाम तत्प्रतिनिधेरारोपणम् । एतदेव कुत इत्यतो महाभारतशब्दार्थपर्यालोचनयैव ज्ञायत इत्याह॥ महत्त्वादिति॥ मदत्त्वात्तत एव भारोण ततत्वाच्च महाभारतमित्यर्थः । किञ्च महाभारतशब्दनिर्वचनज्ञानादेव यदा सर्वपापक्षयो भवति तदा किं वैच्यं तस्य सर्वशास्त्रोत्तमत्वमिति भावेनाह॥ निरुक्तमिति॥ निरुक्तं निर्वचनम् । अस्य महाभारतरशब्दस्य । भारतस्यैवं सर्वशास्त्रोत्तमत्वे किं निमित्तमित्यतः परमाप्तकृतत्वं दर्शयति॥ स्वयमिति॥ नन्वाप्तो नाम यथार्थदर्शी यथादृष्टार्थवादी च । तत्र व्यासस्य यथार्थदर्शित्वं कुतः ? भगवदवतारेष्वपि पृथ्वादिष्वज्ञानादिदर्शनादित्यत उक्तम्॥ स्वयमिति॥ अस्तु व्यासस्य यथार्थदर्शित्वं साक्षान्नारायणावतारत्वेनाज्ञानभ्रमसन्देहशून्यत्वात् । यथादृष्टार्थवादित्वं तु कुतः ? तस्य प्रमादेनायथादृष्टवादित्वाभावेऽपि विप्रलिप्सया तत्सम्भवादित्यत आह॥ ब्रह्मेति॥ वक्तुर्विप्रलिप्सा श्रोतृणामयोग्यतायां सम्भवति । प्रकृते च ब्रह्मादीनां योग्यानामेव श्रोतृत्वेन भगवतो विप्रलम्भाभावाद्युक्तं यथादृष्टार्थवादित्वमिति भावः अपहासेनायथादृष्टार्थवादित्वं किं न स्यादित्यत आह॥ तत्त्वेति॥ अपहासस्य प्रसङ्गदोषनिबन्धनत्वादत्र च तत्त्वनिर्णयस्य प्रसक्तत्वेन तदसम्भवान्नात्रापहासेनापि व्यासस्यायथादृष्टार्थवादित्वमिति भावः एवम्भूताप्तरचितत्वस्य भागवतादिष्वपि साम्यात्को विशेषो भारतस्येत्यत उक्तम्॥ केवलमिति॥ नासुरमोहनाद्यर्थमप्यत्रान्यदुच्यते । अन्यथाप्रतीतस्य गुह्यदर्शनभाषाभ्यामुक्तत्वात् । अन्यत्र क्वचिद्व्यामोहनार्थमन्यथा कथनादिति भावः । एवं परमाप्तिमूलत्वेनैव न भारतस्य सर्वशास्त्रोत्तमत्वं किन्तु वेदसंवादितया पञ्चमवेदत्वेनापीति भावेनाह॥ पञ्चममिति॥ एवं गीतातात्पर्यकथनस्य युक्ततां प्रसाध्य श्रोतृशेमुषीमनुकूलयिष्यन्नादावेव अशेषगीताप्रतिपाद्यमर्थं सङ्क्षेपेण दर्शयति॥ तत्रेति॥ तत्र गीतायाम् । इति कथ्यत इति शेषः । कृष्णस्याप्यर्जुनादविशेषात्कथं तद्वोधकत्वमित्यतो भगवान्नारायण इत्युक्तम् । आप्तसमस्तकामस्य भगवतः किमर्जुनबोधनेनेत्यत उक्तम्॥ आत्मन इति॥ प्रयोजनाभावेऽपि प्रीत्यतिशयवशान्मकतुरपत्यपालनवत्तद्बोधनं यक्तुमिति भावः । अर्जुनस्य भगवत्प्रियत्वमेव कुतः ? अपरोक्षज्ञानित्वात् “ज्ञीनी प्रियतमोऽतो मे” इति स्मृतेरिति चेत्तद्व कुत इत्यत आह॥उत्तमेति॥ एतदपि कुत इत्यत आह॥ साक्षादिति॥ साक्षादिन्द्रः पुरन्दरः । साक्षादवतारो नावेशमात्रमिति वा । अत्र देवत्वमेव वक्तव्यम् । इन्द्रावतारमिति स्वरूपकथनम् । अर्जुनबोधने का प्राप्तिरित्यत आह॥ नारायणेति॥ बान्धवादिनिग्रहस्याधर्मत्वात् किमुच्यतेऽधर्मत्वेनाशङ्क्येत्यत एतन्निग्रहस्य कैमुत्येन धर्मत्वमाह॥ क्षत्रियाणामिति॥ भागवतमात्रस्यैतादृशनिग्रहः परमधर्मः । अत्रैव नियुक्तानां क्षत्रियाणां तु विशेषतोऽपि परमधर्म इत्यर्थः । बान्धवादिनिग्रहः कथं परमधर्म इत्यतो बान्धवादीति वक्तव्ये नारायणद्विट्तदनुबन्धीत्युक्तम् । बान्धवादित्वेऽपि केषाञ्चिन्नारायणद्वेषित्वात् केषाञ्चित्तत्सम्बन्धित्वात् तन्निग्रहो धर्म एवेति भावः । नन्वयं धर्मश्चेच्छास्त्रोदित एव भवेत् । तथा च न शास्त्रविदुषाऽधर्मत्वेनाऽशङ्क्येत । शङ्क्यते च । अतो न धर्म इत्यत आह॥ बन्धुस्नेहादिति॥ न शास्त्रमुखेनेयं शङ्का । अपि तु स्नेहमात्रनिबन्धनैवेति भावः । ज्ञानिनः स्नेहमात्रेण सञ्जातया शङ्कया कथं स्वकीयपरमधर्मनिवृत्तिरित्यत उक्तम्॥ निवृत्तप्रायमिति॥ एवमाशङ्कया निवृत्तप्रायश्चेदेतद्युद्धकरणमेव बोधनीयं, भगवन्महिमादिके किमर्थमुच्यत इत्यतो बोध्यार्थमाह॥ स्वेति॥ न केवलं युद्धादिस्वविहितवृत्तिमात्रं परमो धर्मः । येन तदेव बोध्यं स्यात् । अपि तु भक्त्यादिकमपि । तत्रार्जुनस्य धर्मैकदेशेऽधर्मशङ्कायामपि प्राप्तलोकोपकाराय पमग्रधर्मो भगवता बोध्यते । तत्र भगवन्महिमाद्युक्तिस्तु भक्त्युत्पादनायेति भावः । ननु युद्धादिस्वविहितवृत्तिनिवृत्तोऽप्यर्जुनो न परमधर्मनिवृत्तः । भक्त्यादिमत्त्वात् । अतः किं बोध्यत इत्यत आह॥ तदिति॥ न भक्त्यादिकं प्रत्येकं परमधर्मः । येन तावता तस्य न परमधर्मनिवृत्तिः । किन्तु मिलितमेव । अतेऽन्यतमाभावेऽपि परमधर्मनिवृत्तेर्युक्तं तद्बोधनमिति भावः । तर्हि प्रकृत्यादिवर्णनं क्वोपयुज्युत इत्यतोऽस्तु स्वविहितवृत्तेर्धक्मत्वं, तद्विरुद्धस्याधर्मत्वं च । भगवद्भक्त्या तदाराधनस्य धर्मत्वं तद्विरुद्धस्याधर्मत्वं च कुत इत्याशङ्कानिवाराणाय सर्वस्य भगवदधीनत्वहेतुं वक्तुं सर्वनिरूपणमिति भावेनाह॥ भगवदिति॥ सर्वस्य भगवदधीनत्वेन धर्माधर्मतया भगवन्नियतयोरेव तथाभावात्तस्य चैवं विधयोरेव तथा नियमनोपपत्तेरिति भावः । नन्वर्जुनस्य देवत्वादि कुतः । स्वविहितेत्यादेर्गीतातात्पर्यार्थत्वं च कुत इत्यत आह॥ सर्वञ्चेति॥ अर्जुनो देव इत्याद्येतच्च सर्वं गीतायाम्मेवावगम्यते । न च प्रमाणान्तरं तत्रान्वेषणीयम् । स्वविहितेत्यादिकं च सर्वं गीतायामवगम्यत एव । न तु तदर्थतया बलादुच्यत इत्यर्थः । तत्र तावन्नारायणद्विट्नुबन्धिनिग्रहं बन्धुस्नेहादधर्मत्वेनाऽऽशङ्क्य ततो नि्वृत्तप्रायमर्जुनं भगवान्नारायणो बोधयतीत्येतावद्गीतायां स्फुटमवगम्यते । “यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे” इति प्रार्थनात्तस्य निवृत्तप्रायातावगमात् । साक्षान्निवृत्तौ तदनुपपत्तेः । नारायणद्विट्तदनुबन्धिनिग्रहस्य क्षत्रियाणां परमधर्मत्वं गीतायां केनावगम्यत इत्यत आह॥ अथेति॥ युद्धस्य उक्तविधस्येति शेषः । अवगम्यत इति सर्वत्रानुषज्यते । स्वविहितवृत्त्या भक्त्या भगवदाराधनमेव परमधर्मः । तद्विरुद्धः सर्वोऽप्यधर्म इत्येतत्केनावगम्यते इत्यत आह॥ यत इति॥ यत इत्यनेन स्वविहितवृत्त्या भक्त्या भगवदाराधनस्य कर्तव्यत्वमवगम्यते । भक्त्याऽर्चनस्यैवाभ्यर्चनत्वात् । स्वकर्मणेत्यनेन स्वविहितवृत्त्या भगवदाराधनस्यैव मुख्यतः कर्तव्यत्वम् । मोक्षसाधनस्यैव मुख्यकर्तव्यत्वात् । श्रेयानित्यनेन स्वविहितवृत्तेः कर्तव्यत्वमस्वविहितवृत्तेस्त्यज्यत्वं च । श्रेयस एव कर्तव्यत्वादश्रेयसस्त्याज्यत्वात् । सर्वेत्यनेन भक्त्या भगवदाराधनस्य कर्तव्यत्वम् । सर्वगुह्यतमतया, हितसाधनतया, भगवत्प्रप्तिसाधनतया च विहितस्य कर्तव्यत्वात् । सर्वधर्मानित्यनेन स्वविहितवृत्त्या भक्त्या भगवदाराधनसैव कर्तव्यत्वं, तदन्यस्य त्याज्यत्वं च । स्वविहितवृत्त्या भक्त्या भगवदाराधनसैव शरणागतित्वात् । सर्वधर्मपदेनैतद्विरुद्धस्य धर्माभासस्य विवक्षितत्वात् । सर्वपापगमनहेतुतया विहितस्य कर्तव्यत्वात् । तदर्थत्वेन निषिद्धस्य त्याज्यत्वात्॥ स्वधर्मेण॥ भक्त्या चेति संयोजेयम् । कर्तव्यत्याज्यत्वाभ्यां धर्माधर्मत्व इति भावः। ननु श्रवणादिरूपस्वविहितवृत्त्यैव परोक्षापरोक्षज्ञनयोर्ज्ञानिनोऽपि मोक्षस्य गीतायामेव तदधीनत्वावगमात् । न चैवं श्रवणादिवैय्यर्थ्यम् । अन्यथा ज्ञानादेर्भक्त्याधीनत्वानुपपत्तिरिति वाच्यम् । श्रवणादेर्ज्ञानादिसाधनत्वेऽपि भक्तेरेव तेभ्यः श्रवणादिसर्वसाधनेभ्य उत्तिमत्वस्यात्र विवक्षितत्वादिति भावः । ननुप न भक्त्या स्वविहितवृत्त्या भगवदाराधनं कर्तव्यं तद्विरुद्धं त्याज्यमिति गीताभिमतम् । तत्र भक्तिमतः कर्तव्यत्याज्याभाव१मात्रस्याभिमतत्वादित्यत आह॥ मत्कर्मेति॥ न भक्तस्य कर्तव्यत्याज्याभावो गीताभिमतः । तत्रैव भक्तस्यापि स्वविहितवृत्त्या भगवदाराधनस्य तद्विरुद्धस्य त्याज्यतयाऽवगमादिति भावः । तदुक्तं स्वविहितवृत्तिरूपं मद्विषयं च कर्म मत्कर्म तदेव तत्कर्म । हङ्गवर्जितोस्वविहिताभगवद्विषयकर्मसङ्गवर्जितः । तदेव विकर्मोच्यते । भगवत्प्रप्तिहेतुतयोक्तमेव कर्म कर्तव्यम् । तदर्थत्वेन निषिद्धमेव त्याज्यमिति । नन्वर्जुनस्य ज्ञानित्वे कथं तं प्रति स्वविहितवृत्त्या भगवदाराधनं विधीयते । ज्ञानिनस्तदभावस्य गीताभिमतत्वादित्यत आह॥ कुर्विति॥ न ज्ञानिनः स्वविहितवृत्त्याद्यभावो गीता।ऐमतः । तत्र “एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव” इति ज्ञानिनोऽपि स्वविहितवृत्त्यादेः कर्तव्यतयाऽवगमादिति भावः स्वविहितं, भगवदर्थमेव पूर्वैः कृतं तदुभयमेव भगवत्कर्म । यदुक्तमर्जुनो भगवतोऽतिप्रियोपरोक्षज्ञान्युत्तमाधिकारी देवश्चेति तत्केनावगम्यत इत्यत आह॥ सुदुर्दर्शमिति॥ सुदुर्दर्शमित्यनेनापरोक्षज्ञानित्वमवगम्यते । देवैः सह पठितत्वेन देवत्वं च । इष्टोसीति प्रियतमत्वम् । दैवीति देवत्वम् । महात्मान इत्यनन्यमनस्कतया भगवन्तं भजतां देवत्वमपरोक्षज्ञानित्वं चावगम्यते । तादृशभजनवतश्चार्जुनस्य तज्ज्ञायते । दर्शयामासेत्यपरोक्षज्ञानित्वम् । भगवदतिप्रियत्वं देवत्वं चेति संयोजेयम् । देवत्वेनैवोत्तमाधिकारित्वं चावगतम् । यदुक्तं सर्वस्य भगवदधीनत्वं तत्केनावगम्यते । तथात्वे च तस्य सर्वस्माद्भेदेन, सर्वस्य च सत्यत्वेन, तस्य सर्वोत्तमत्वेन, सर्वगुणपूर्णत्वेन, निर्दोषत्वेनानन्याधीनत्वेन, मोक्षप्रदत्वेन, सर्वशास्त्रप्रतिपाद्यत्वेन च भाव्यम् । सर्वस्य तदधीनतायाः साक्षात्परम्परया चैतत्सापेक्षत्वात् । तदेतत्सर्वं केनावगम्यत इत्यत आह॥ नेति॥ न मे विदुरित्यनेन पूर्णत्व१मवगम्यते । अहमादिरिति सर्वोत्तमत्वम् । यो मामिति निर्दोषत्वं, सर्वस्य तदधीनत्वं, तज्ज्ञानान्मोक्षश्च । जन्मादीनां दोषत्वात् । सर्वपापक्षयस्य मोक्षत्वात् । बुद्धिरिति सर्वस्य तदधीनत्वम् । एतामिति तज्ज्ञानान्मोक्षः । निष्कम्पयोगस्य सुयुज्यत्वात् । अहमिति सर्वस्य तदधीनत्वं तज्ज्ञानान्मोक्षश्च । अज्ञानजतमसः संसारत्वात् । तेषामिति तज्ज्ञानान्मोक्षः । भोक्तारमिति सर्वस्य तदधीनत्वं तज्ज्ञानान्मोक्षश्च । शान्तेर्मोक्षत्वात् । ज्ञानमितित सर्वशास्त्राणां तत्परत्वम् । भगवज्ज्ञानेनैव सर्वशास्त्राणां ज्ञातत्वोक्तेः । अहमिति सर्वस्य तदधीनत्वम् । मत्त इति सर्वोत्तमत्वम् । मयीति सर्वस्य तदधीनत्वम् । इदमिति तज्ज्ञानान्मोक्षः । राजेति सर्वशास्त्राणां तत्परत्वम् । भगवद्विद्यायाः प्राधान्योक्तेः । प्रधानानुसारित्वाच्चाप्रधानानाम् । मयेति सर्वस्य तदधीनत्वं निर्दोषत्वं च । ततेः प्रेरणार्थत्वात् । अव्यक्तपदेन चाकार्यत्वोक्तेः । न चाहमिति तस्यानन्याधीनत्वम् । भूतभृदिति सर्वस्य तदधीनत्वम् । तस्यानन्याधीनत्वं च । न त्वदिति सर्वोत्तमत्वम् । परमिति सर्वशास्त्राणां तत्परत्वम् । ज्ञायतेऽनेनति ज्ञानशब्दोदितभगवच्छास्त्रस्य सर्वशास्त्रोत्तमत्वोक्तेः । अप्रधानस्य प्रधानानुयायित्वात् । ममेति सर्वस्य तदधीनत्वम् । ब्रह्मणो हीति सर्वस्य तदधीनत्वं तज्ज्ञानान्मोक्षश्च । द्वाविति सर्वस्माद्भगवतो भेदः, सर्वोत्तमत्वं, सर्वस्य तदधीनत्वं, सर्वशास्त्राणां तत्परत्वं तज्ज्ञानान्मोक्षश्च । न मे पार्थेति पूर्णत्वम् । प्रथमाऽदिपदेनासत्यमप्रतिष्ठं त इत्यादि, द्वितीयन जगत्सत्यत्वं गृह्यते । युदुक्तं ज्ञानिनोऽपि भगवत्कर्मेति तत्र श्रुतिं योदाहरति॥ अधेति॥ अथ विष्णो ते स्तुतिर्यज्ञश्च हविष्मता ज्ञानिनाऽप्यर्थ्यः साध्यश्चेत्यर्थः । ज्ञानिनो मोक्षनियमात्किं कर्मणेत्यत आह॥ पश्यन्नपीति॥ सुनियतं वर्णाश्रमोचितम् । आप्नुयात् तेनेति शेषः । यद्यस्मात्तेनात्मनः क्लृप्तमानन्दोत्कर्षमाप्नुयात्तस्मादिति वा । यदुक्तं विष्णुभक्तेरेव सर्वसाधनोत्तमत्वमित्यादि तत्र श्रुतिं दर्शयित॥ भक्त्येति॥ ज्ञानं विना भक्तेरभावात्कथं भक्त्या ज्ञानमित्यत उक्तम्॥ अनाकुलमिति॥ प्रागल्पतयाऽऽकुलस्य सतोऽनाकुलत्वं भक्त्याभवतीति भावः । मोक्षसाधनत्वाद्भक्तेस्तदनन्तरमभावाऽशङ्कां प्रसङ्गाद्वारयति॥ मुक्तोऽपीति॥ ऊयसी भक्तिः भूयोभक्तिः । मुक्तौ भेदाभावात्साम्याद्वा न भक्तिर्युक्तेत्यत उक्तम्॥ तद्वश इति॥ मुक्तौ भक्तिसद्भावे सुखादिफलमपि स्यात् । अन्यथा तदनुपपत्तेः । फलाङ्गीकारे च वृद्ध्यादिप्राप्तिरित्यत आह॥ साध्येति॥ न मुक्तभक्तेः फलसद्भावः । तस्याः साधनत्वाभावात् । न चैतावताऽनुपपत्तिः । यः पूर्वतनभक्त्या साध्य आनन्दस्तत्स्वरूपत्वेन भक्तेः फलत्वात् । फलस्य च तदाऽनुभवादिति भावः । कीदृशी सा विष्णुभक्तिरित्यत आह॥ ब्रह्मेति॥ कथं भक्तेरेव ज्ञानादिसाधनत्वमुच्यते । श्रवणादेस्तत्साधनत्वश्रवणादित्यत आह॥ सर्वेति॥ तदेव विवृणोति॥ तेमैवेति॥ मोक्षो मोक्षादिः । अतिपरिपक्वभक्तियोग एव मोक्षसाधनं, न भगवद्दृष्टिः । सा तु तत्साधनत्वान्मोक्षसाधनत्वेनोच्यते । परिक्वभक्तियोग एव दृष्टिसाधनं, न तु ध्यानम् । तत्तु तत्साधनमिति दृष्टिसाधनतयोच्यते । पक्वो भक्तियोग एव ज्ञानसाधनं, न तु श्रवणादि । तत्तु तत्साधनतया ज्ञानसाधनत्वेनोच्यत इति भावः । यदुक्तम् अर्जुनस्य देवत्वादुत्तमाधिकारित्वं, ततोऽपरोक्षज्ञानित्वमिति तत्रार्जुनस्य देवत्वोत्तमाधिकारित्वयोर्व्याप्तौ, उत्तमाधिकारित्वापरोक्षज्ञानित्वयोर्व्याप्तौ च श्रुतिमुदाहरति॥ अधमेति॥ मर्त्या मर्तयोत्तमाः । समा मध्यमाः । देवानामुत्तमाधिकारित्वं कुत इत्यतो ब्रह्मदर्शनाविनाभावादित्याह॥ नैवेति॥ कथं तर्हि तेषां श्रवणाद्युपलभ्यत इत्यत आह॥ तिरोहितमिति॥ एवं च्न्न पुनः श्रोतव्यं पूर्ववत्, भूयस्तिरोभावप्राप्तेरित्यत आह॥ बहुवारेति॥ तदभ्यासात् श्रवणाद्यभ्यासात् । बहुवाराभ्यासेन ज्ञानस्यातिरोभावः क्व दृष्ट इत्यत आह॥ यथेति॥ अभ्यासप्रदर्शनार्थमुक्तं व्यासेति । प्रथमश्रवणाद्येवैतत्किं न स्यादित्यत उक्तं देवानामिति । देवत्वेन प्रागपि श्रवणाद्यस्त्येवेति भावः । यद्विष्णोर्ब्रह्मरुद्रादिसर्वोत्तमत्वमुक्तं तत्र श्रुतीरुदाहरति॥ अस्येति॥ अस्याभिलषितसेचकस्य आ समन्तादीशस्य विष्णोर्देवस्य हविर्भिः प्रभरणे कृते बन्धको रुद्रो रौद्रं महिमानं लेभे यथा तथाश्विनौ युवामप्यन्नवद्वर्तनं प्राप्तौ स्थ इत्यर्थः । आसीज्जगदादौ । मुनिर्मौनी । समचिन्तयदेते जायन्तामिति । विश्वो वायुः । इतमग्रोऽस्य जगतोऽग्रे । सर्वोत्कर्ष इति श्रुतिः सर्वशास्त्राणां तत्परत्वे तज्ज्ञानान्मोक्षे च मानं भवति । सत्यं मुख्यम् । ततः विष्णुतः । विष्णो त्वं मितेः परोऽसि । मूर्त्यैव पूर्णोऽसि न तु कीर्त्यादिमात्रेण । अतस्ते महिमानं नान्ये प्राप्नुवन्तीत्यर्थः । यदुक्तं ज्ञानिनामपि कर्म कार्यं, तेनानन्दातिशयश्च भवतीति तदयुक्तम् । यस्त्वति ज्ञानिनस्तदुभयाभावस्योक्तत्वादित्यत आह॥ यस्त्वित॥ नानेन ज्ञानेन ज्ञानिनः कर्माद्यभावः सिद्ध्यति । अस्यात्मरतित्वादि विशेषणानां मुक्त एव मुख्यत्वेन पूर्वोत्तरवाक्यानुसारेण च मुक्तविषयतयाज्ञानिमात्रविषयत्वाभावादित्यर्थः । अत्र सर्वथा देहाद्यभिमानमुक्तत्वेनासम्प्रज्ञातसमाधिस्थोऽपि मुक्त उच्यते । स्मृतिसमाख्यानाच्चैतन्मुक्तविषयमित्याह॥ यस्त्विति॥ तथापि न ज्ञानिनः कर्माकरणं ३युक्तम् । ज्ञानयोगेनेति ज्ञानिनां कर्माभावोक्तेः । न चास्य मुक्तविषयत्वं वक्तुं शक्यते। ज्ञानेनैव ज्ञानिनां मुक्तिरित्युक्तेरित्यत आह॥ ज्ञानेति॥ न ज्ञानिनां कर्माङ्गीकारेप्येतद्वाक्यविरोधः । अस्य यतिविषयत्वात् । तेषामप्येतद्वाह्यकर्मसङ्कोचापेक्षयैव ज्ञानेन मोक्षमाह । न तु कर्माभाववाभिप्रायेणेति भावः । ज्ञानिनां सर्वकर्माभाव एवास्यार्थः किं न स्यादित्यतो भगवतैव तदसम्भसस्योक्तत्वादित्याह॥ न हीति॥ नात्र ज्ञानिनः शरीरयात्रार्थमर्मत्यागो विवक्षित इति ब्रूमो येनासम्भवः स्यात् । किन्तु यज्ञादिकर्मत्याग एव । तस्यैव मोक्षविरोधित्वादिति चेन्न । कामादिरहितयज्ञादेरबन्धकत्वाभिप्रायेण भगवताऽभिहितत्वादित्याह॥ एतानीति॥ अज्ञविषयोऽयं विधिः किं न स्यादिति चेन्न । ज्ञानिन एव श्रुत्या तथाविधकर्मणो विहितत्वादित्याह॥ ज्ञानीति॥ उदितानि, श्रुत्यादौ कर्तव्यतयेति शेषः । तथाप्येतद्वाक्यस्योक्तार्थः कुत इति चेत्समाख्यानादित्याह॥ नेति॥ यदुक्तमर्जुनो ज्ञानीति तदयुक्तम् । उपदेक्ष्यन्तीत्यस्याज्ञत्वप्रतीतेरित्यत आह॥ उपदेक्ष्यन्तीति॥ नार्जुनस्य ज्ञानित्वेप्येतद्वाक्यस्य विरोधः । यत एतत्प्रागुत्पन्नज्ञानतिरोभावनिवृत्त्यर्थमेवोपदेशमाह । न तु प्रागप्राप्तज्ञानलाभार्थमित्यर्थः । उपोद्घातः सम्पूर्णः । एवं सङ्क्षेपतो गीतातात्पर्यमुक्त्वाऽथ विस्तरेण तद्विवक्षुः कतिपयश्लोकाधिकाऽद्याध्यायस्यातिरोहितार्थत्वात् सङ्ग्रहोक्त्यैव व्याख्याततां मन्वानोशोच्यानन्वशोचस्त्वमित्यादि व्याकुर्यन् प्रज्ञावादपदार्थमाह॥ प्रकर्षणेति॥ तदवादो न तदुपेक्षितः । अपि तु तद्वादविरुद्ध इत्यभिप्रेत्योक्तं विवृण्वन् वाक्यार्थमाह॥ प्राज्ञेति॥ ननु कथं विनशि१ष्यन्तोऽशोच्याः । येनाशोच्यानन्वशोचस्त्वमित्युच्यते । कथं च न योत्स्य इति वाक्यं प्राज्ञमतविरुद्धम्? दृष्ट्वेममित्यादिनोपपत्तेरुक्तत्वादित्याक्षिपति॥ कथमिति॥ तत्राऽद्यचोद्यपरिहार२तयोत्तरार्धमुपादत्ते गतासूनिति॥ ११॥ द्वितीयं चोद्यं परिहर्तुमनुवदति॥ बन्धुस्नेहादिति॥ बन्धुस्नेहनिमित्तात्तन्नाशभयादित्यर्थः । सत्यमित्यतो विकल्पासहत्वात्तत्प्राज्ञमतविरुद्धमिति भावेन बन्धुशब्दस्य शरीरविशिष्टचेतने प्रयोगाद्विकल्पयति॥ तत्रेति॥ आद्यं दूषयितुं देहिन इति श्लोकतात्पर्यमाह॥ देहस्येति॥ न तत्र भये प्रयोजनमिति॥ देहनाशभयनिमित्तया स्वधर्महान्या प्रयोजनं नास्तीत्यर्थः । (परिहारो हि भये प्रयोजनम् । न चासौ सम्भवति । कौकारादीनामिव देहस्य सर्वथा विनाशित्वात् । प्रयोजनाभावेन च भयानुपपत्तौ न तेन स्वधर्मनिवृत्तिर्युक्तेत्यर्थः। भयस्यास्वाधीनत्वेन प्रयोजनापेक्षापूर्वत्वाभावात्कथमिति चेन्न । यदृच्छया भयोत्पत्तावपि प्रयोजनाभावपरामर्शेन तत्परिहारस्याभिप्रेतत्वात् ।) द्वितीयनिरासाय न त्वेवेति श्लोकतात्पर्यमाह॥ नेति॥ अविनाशित्वेन भयप्राप्तेरेवायोगाद्भयेन स्वधर्मनिवृत्तिः सुतरामयुक्तेत्यर्थः । नन्वीश्वरनाशस्यानाशकिन्त त्वात्किमर्थं न त्वेवाहमित्युक्तिरित्यतो दृष्टान्तत्वेन श्लोकं व्याचष्टे॥ न तावदिति॥ प्रागभावश्चेति द्रष्टव्यम् । तावदितीश्वरस्य स्वरूपतो देहतश्च नाशाद्यभावं सूचयति । परमचेतनस्येति स्वतन्त्रचेतनत्वहेतुं सूचयति॥ एवमेवेति॥ चेतनमात्रत्वेन स्वरूपतो१ नाशादिर्नास्तीत्यर्थः । ईश्वरस्य परमनित्यत्वचेतनत्वे कुतः प्रसिद्धे? येनासौ दृष्टान्ततयोपादीयत२ इत्यतः श्रुतिप्रसिद्धिं दर्शयति॥ नित्य इति॥ नित्यो नित्यानामित्यतिशयेन नित्यत्वमेवोच्यते, न तु विवक्षितार्थ इत्यतस्तत्स्मृत्या३ विवृणोति॥ स्वदेहेति॥ विष्णोरपि जीव४वद्देहयोगादिसद्भावात्स्वदेहेत्युक्तम् । मुक्तेः पुरेति सम्बन्धः । अथवा१ दृष्टान्ततां विना ईश्वरोऽपि२ पक्षे निक्षिप्यत इति तत्प्राप्तिपूर्वकमाह॥ ईश्वरस्येति॥ तदपि उभयविधानित्यत्वमपि । नन्वत्रेश्वरस्य जीववत्स्वरूपनाशाद्यभाव एवोच्यते । तत्कथमुभयविधानित्यत्वं निवार्यत इत्युच्यत इत्यत आह॥ न त्वेवेति॥ तुशब्देनेश्वरस्य विशेषतो नाशाद्यभावो ज्ञायते । स चोक्तविध एवेति भावः । नन्वर्जुनस्य ज्ञानित्वाद्युद्धगतेऽपि भगवत्येतच्छकांऽभावादप्राप्तप्रतिषेधोऽयमित्यत आह॥ यद्यपीति॥ प्राप्तः योग्यः शकांवान् सज्जनश्च । अनेनैवेश्वरानित्यत्वस्याप्रस्तुतत्वादिति भाष्यविरोधोऽपि पिरहृतः । एकान्ते कथ्यमानेनानेन कथं लोकोपकार इत्यत आह॥ एकान्त इति॥ व्यासरूपेण गीतायां निबध्य॥ १२॥ यद्यत्रेश्वरस्योभयविधनाशाद्यभावो विधीयति कथं तर्हि देहिन इत्यत्र पूर्वोक्तानामीश्वरादीनां देहान्तरप्राप्तिरुच्यते । न चेश्वरातिरिक्तानाम् । तद्व्यावर्तकाश्रवणादित्यत आह॥ ममेति॥ न देहिन इत्यत्रेश्वरस्य देहान्तरप्राप्तिरुच्यते । अपि तु जीवानामेव । न चेश्वरव्यावर्तकाभावः । ईश्वरव्यावृत्त्यर्थमेव देहिन इति विशेषणस्य प्रयुक्तत्वात् । विष्णोर्भिन्नदेहाभावेन देहित्वाभावादिति भावः । ईश्वरस्यापि जीवदेहान्तरप्राप्तिसद्भवात्स्वकीयेत्युक्तम् । एवं चेत्कः श्लोकार्थ इत्यतस्तमाह॥ भवदिति॥ इदानीमेकस्मिन्नपि शरीरे कौकारादिरूपेणान्यथात्वदर्शनात् तत्र शोकाभावस्तथैवेत्यर्थः॥ १३॥ कौकारादिहानेन यौवनादिप्राप्तावप्यशोको युज्यते । तस्यैव पुनर्दर्शनादिसम्भवात् । देहान्तरप्राप्तौ तद्दर्शनाद्यसम्भवाच्छोक इत्याशकां परिहाराय श्लोकमवतारयति॥ तदिति॥ दुःखमिति शेषः । सोढव्यमिति॥ अनभिमानेन परिहर्तव्यमित्यर्थः । मात्रास्पर्शा इत्येतच्छब्दश्रवणेन भिन्नपदत्वशकाम्परिहाराय व्याचष्टे॥ विषयेति॥ १४॥ ननु दुःखाभावस्य युद्धकरणेऽपि सम्भवात् किं तत्कृत्वा दुःखाभावाय अभिमानपरित्यागेनेत्याशङ्क्य देहाद्यनभिमानेन भवन् दुःखबरित्यागः स्वयं१ फलरूपोऽपि परमपुरुषार्थहेतुश्च भवतीति भावेन श्लोकमवतारयति॥ फलमिति॥ अनभिमानेन दुःखपरिहारस्येति शेषः । कथं व्यथापरिहारमात्रेणामृतत्वम्? “तमेवं विद्वन्” इत्यादिश्रुतिविरोधादित्याशङ्कापरिहाराय पुरुषपदमवतारयति॥ नेति॥ कथमनेनैतच्छङ्कापरिहर इत्यतः स्मृत्यैव व्याचष्टे॥ पुरु ब्रह्मेति॥ अस्तु पुरुपदेन ब्रह्म । तज्ज्ञानात्पुरुष इत्येतत्कथं लभ्यत इत्यत आह॥ पुरुसरणादिति॥ सरणं गमनम् । तदेव ज्ञानमिति भावः॥ १४॥ ननु पापमेवाश्रयेदस्मानित्यादिना बन्धुहननादिरूपाद्युद्धात् परलोकदुःखं शोकहेतुतयोक्तम् । अतः शक इत्यत आह॥ न चेति॥ कुतो नेत्यतो हेतुतया नासत इति श्लोकं व्यचष्टे॥ असदिति॥ असत्कर्मण इति दृष्टान्तः । नियतत्वादित्यरनेनोत्तरार्धतात्पर्यमुक्तं भवति । इदं च नारायणद्विट्तदनुबन्धिनिग्रहरूपत्वात् सत्कर्मैवेति भावः । ननु यथाऽसत्कर्मणा सुखं नास्त्येवं सत्कर्मणा दुःखं नास्तीति वक्तव्ये भावाभावयोरभाववर्णनं क्वोपयुज्यत इत्यतो भावाभावशब्दयोरेव सुखदुःखवाचित्वे प्रमाणमाह॥ सद्भावेति॥ सदसच्छब्दयोः सदसत्कर्मवाचित्वं कुत इत्यत आह॥ सद्भाव इति॥ अश्रद्धयोत्युत्तरवाक्यं चात्र ग्राह्यम् । भावाभावशब्दपर्यायसदसच्छब्दयोः सुखादौ प्रयोगं प्रमाणं च दर्शयति॥ असन्निति॥ ब्रह्म दुःखीति वेद चेत्तर्हि स वेत्ता दुःख्येव भवति । ब्रह्म सुखरूपमिति वेद चेत्तर्हि वेत्तारं सुखिनं विदुरित्यर्थः । अन्तशब्दस्यानेकार्थत्वादिह विवक्षितार्थमाह॥ अन्त इति॥ असतः प्रागविद्यमानस्य भाव उत्पत्तिर्न विद्यते । सतो विद्यमानस्याभावो नाशो न विद्यत इत्यपव्याख्यां प्रत्याख्याति॥ न चेत॥ गीतानुसारेणाल्पाच्तरमित्याद्यतिक्रमः । किमेकप्रत्यक्षविरोधोऽथ सर्वप्रत्यक्षविरोधः? नाद्यः । भ्रान्तित्वोपपत्तेः । न द्वितीयः । परबुद्धेरसिद्धेरित्यत आह॥ सन्निति॥ स्थितिकाले सत्त्वेन व्यवह्रियमाणमेव पदार्थं उत्पत्तेः प्राङ्नाशोत्तरं च नास्तीति सर्वलोको व्यवहरति । तेन सर्वलोकस्याविद्यमानविद्यमानयोरत्पत्तिनाशव्यवहारेण तन्मुलं प्रत्यक्षमनुमातुं शक्यमिति भावः ननु व्यवहारान्यथानुपत्त्या तन्मूलज्ञानमेव सिद्ध्यति । न तु तस्य प्रत्यक्षतानियम इति चेत् । किमिदमनुमानादिज्ञानमुत भ्रमः ? नाद्यः । अनङ्गीकारात् । लिङ्गाद्यभावेऽपि भावाच्च । द्वितीयं निराचष्टे॥ न चेति॥ भ्रमत्वे बाधकेन भाव्यम् । न च तदत्रास्ति । अतो नायं भ्रम इति परिशेषात्प्रत्यक्षमेव व्यवहारमूलं सिध्यतीति भावः । नासत इत्येतद्वाक्यमेव विपर्यये मानमित्यत आह॥ इदमिति॥ सिद्धं घटितम्॥ एतमेवार्थं ब्रह्मतर्केण साधयति॥ आद्यन्तयोरिति॥ उत्पत्तेः प्राङ्नाशोत्तरं चेत्यर्थः । निश्चितं प्रत्यक्षेणेति शेषः । आदावसत्वानङ्गीकारे बाधकमाह॥ यदीति॥ यद्यत्र कार्ये पृथुबुध्नोदराकारादिविशेषः प्रागसन्न जायते तर्हित्र कार्ये जायत इति वित्तिव्यवहारयोः को विषयः? तौ निर्विषयौ प्रज्येते इत्यर्थः । अभिव्यक्तिर्विषय इत्यत आह॥ व्यक्ताविति॥ व्यक्तिर्विषय इति वदताऽपि नासतो जन्म परिह्रतम् । प्रागविद्यमानव्यक्तेर्जन्मनोऽङ्गीकार्यत्वात् । अन्यथा व्यक्तेः१ कादाचित्कत्वानुपपत्तेरिति भावः । प्राग्विद्यमानाया एव व्यक्तेरभिव्यक्तिः कदाचिद्भवति । अतोऽभिव्यक्तेः२ कादाचित्कतेत्यत आह॥ अनवस्थेति॥ यदि व्यक्तेरपि व्यक्तिः तर्हि तस्याः प्रागसत्या एव जन्माङ्गीकार्यम् । अन्यथोक्तदोषात् । तस्या अपि प्राग्विद्यमानाया एव व्यक्तिश्चेत्तस्या अप्येवमित्यनवस्था स्यादित्यर्थः । विद्यमानस्य नाशानभ्युपममेऽप्येवं बाधकं बोद्धव्यमित्याह॥ एवमिति॥ तथाहि । सतो नाशाभावे नष्ट ईति प्रत्ययादेर्निर्विषयत्वं स्यात् । अनभिव्यक्तिविषयत्वं चेत्तस्याः पूर्वमपि भावे कादाचित्कत्वानुपपत्तिः । अभावेऽसत्कार्यतापातः अनभिव्यक्तेरभिव्यक्तिश्चेत् । पूर्ववदनवस्थेति॥ सन् विनश्यतीति चोपसंहारो द्रष्टव्यः । नन्ववमसतो जन्मोपपत्तेरत्यन्तासत एव स्यात् । किं विशेषो जायत इत्युक्त्ये३त्यत आह॥ तथापीति॥ यद्यप्येवमसतो जन्मोक्तम् । तथापि नात्यन्तासतः । किन्तु रूपभेदेन सदसत एवेति भावः । तत्कुत इत्यत आह॥ अभेदेति॥ भेदस्य चानुभवादिति सम्बन्धः । मृदेव घट इति कार्यकारणयोरभेदानुभवात् कारणस्य च प्रागपि सत्त्वात् कार्यस्यापि पूर्वं सत्त्वं सिध्यति । भेदानुभवादसत्त्वं चेत्यर्थः । अभेदानुभवो भ्रमः किं न स्यादित्यत आह॥ अविशेषेणेति॥ अभेदानुभवस्य भ्रमत्वे भेदानुभावस्यापि भ्रमत्वं स्यात् । विशेषाभावादिति भावः । अभेदानुभव एव नास्तीत्यत आह॥ देह इति॥ तस्मादभेदव्यवहारमूलभवोऽनुमीयत इत्यर्थः । अनुभवसद्भावेऽपि कुत एतदित्यत आह॥ बलीति॥ अबाधितानुभवः स्वविषयस्थापने शक्त इत्यर्थः । यदपि सदसद्विलक्षणत्वं विश्वस्यानेन श्लोकेनोच्यत इति व्याख्यानं तन्निराचष्टे॥ न चेति॥ सदसद्विलक्षणं किञ्चिदपि न प्रामाणिकं,कुतो विश्वमित्यर्थः । नन्वसतो भावो भानं ख्यातिर्न विद्यते । सतोऽभावो बाधो न विद्यते । अतस्तदुभयवतो भ्रमविषयस्यार्थापत्त्या सदसद्विलक्षणत्वात्कथं सदसद्विलक्षणं किञिदपि न प्रामाणिकमित्यत आह॥ न चेति॥ यद्भ्रमविषयस्य शुक्तिरजतादेः सद्वैलक्षण्यमुक्तं तदङ्गीक्रियत एव । ख्यात्यनुपपत्त्या यदसद्वैलण्यमुक्तं न तद्युक्तम् । तथाहि । असतः ख्यातिरनुपपन्नेति किमसत्त्वेनोत नत्त्वने । आद्ये विकल्पयति॥ असत इति॥ द्वितीयं दूषयति॥ यदीति॥ प्रतीत एव धर्मिणि धर्मनिषेधस्य दृष्टत्वादसतोऽप्रतीतौ न तत्र प्रतीतत्वधर्मो निषेद्धुं शक्यत इति भावः । आद्यं पराह॥ यदीति॥ तथापि न तत्ख्यातिनिराकरणं सम्भवति । व्याघातादिति भावः । द्वितीयोऽपि किं भ्रान्तावभ्रान्तौ वा असतः तत्त्वेन ख्यात्ययोगः? द्वितीयोऽङ्गीकारपरास्तः । प्राचीनपक्षे दूषणान्तरं वदन्नाद्यं दूषयति॥ न चेति॥ प्राचीनपक्षे दूषणान्तरमाह॥ असदिति॥ न क्वलमसतोऽप्रतीतौ तद्धर्मनिराकरणानुपपत्तिरपि तु न कोऽपि व्यवहारस्तत्र युज्यते । सर्वव्यवहाराणां प्रतीतिमूलत्वादिति भावः । असतो भ्रान्तौ सत्त्वेन प्रतीत्यभावे न मानमित्युक्तम् । तद्भावोऽपि कुत इत्यत आह॥यदिति॥ शुक्त्यादेरधिष्ठानस्य योऽसद्रजतकाद्याकारस्तस्य सत्त्वेन प्रतीतेरेव भ्रान्तित्वात् । भ्रान्तावसतः सत्त्वेन प्रतीत्यनङ्गीकारे भ्रान्त्युच्छेदप्रसक्तेः साऽङ्गीकार्येति भावः । भवेदेतद्यदि भ्रान्तौ प्रतीयमानाकारस्यासत्त्वं सम्प्रतिपन्नं स्यात् । नेतदस्ति । अनिर्वचनीयत्वाङ्गीकारात् । अनिर्वचनीयप्रतीतौ भ्रमत्वोपपत्तेः । अतः कथं भ्रान्तावसतः सत्त्वेन प्रतीतिरित्यत आह॥ अनिर्वचनीयत्वेति॥ अस्त्वनिर्वचनीयत्वं भ्रान्तौ प्रतीयमानाकारस्य । तथापि न भ्रान्तावसतः सत्त्वेन प्रतीतिर्नवारयितुं शक्यते । तथाहि । तदनिर्वचनीयं रजतं किं भ्रान्तावनिर्वचनीयतयैव प्रतीयते सदिदमिति वा । नाद्यः । सदिदमिति प्रतीतिं विनाऽनिर्वचनीयमित्येव प्रतीतौ भ्रान्तित्वायोगात् । अन्यथा बाधकज्ञानस्यापि भ्रमत्वप्रसङ्गात् । परिभाषामात्रस्यान्यथयितुमपि शक्यत्वात् । द्वितीये च तत्सत्त्वं सदसद्वा । नाद्यः, अनिर्वचनीयत्वविरोधात् । भ्रान्तित्वानुपपत्तेश्च । द्वितीये प्राप्तमसतः सत्त्वेन प्रतिभानमिति भावः । नानिर्वाच्यरमतस्य सत्त्वमसत् । किन्तु प्रातीतिकमतो नासतः सत्त्वेन प्रतीतिरित्यत आह॥ भ्रान्तीति॥ अस्तु तावदनिर्वचनीयस्य सत्त्वं प्रातीतिकम् । तथाप्यसतः सत्त्वेन ख्यातिर्दुष्परिहाराय । तथाहि । तत्प्रातीतिकं सत्त्वं किं प्रातीतिकमित्येव प्रतीयत उत व्यावहारिकमिति? नाद्यः । प्रवृत्त्यभावप्रसङ्गात् । द्वितीये तस्य व्यावहारिकत्वं सदसद्वा । नाद्यः । प्रातीतिकत्वविरोधात् । द्वितीये तु कथं नासतः सत्त्वेन ख्यातिरिति भावः । अतोऽसद्वैलक्षण्यसाधकार्थापत्तेनासतः सत्त्वेन ख्यातिरिति भावः । अतोऽसद्वैलक्षण्यसाधकार्थापत्तेर्दुष्टत्वान्न कस्यापि भ्रमविषयस्यानिर्वाच्यतेत्युपसंहरति॥ तस्मादिति॥ माऽस्तु भ्रमविषयस्यानिर्वाच्यताऽत्रोच्यत इति । विश्वस्य तु भविष्यति । तत्रासद्वैलक्षण्यस्य सङ्गतत्वात् । सद्वैलक्षष्यं तु बाधान्यथाऽनुपपत्त्या सिद्ध्यतीत्यतःश्रुतिविरोधान्नेति भावेनाह॥ विश्वमिति॥ विश्वस्य सदसद्विलक्षणत्वं विरुद्धं चेति भावेनाह॥ विश्वमिति॥ यशस्विनाविन्द्रबृहस्पती युवयोर्विश्वं सत्यमेव । कुतः? युवयोः सत्यजगत्सृष्ट्यादिकर्म सर्वदेवता अपि जानन्ति यत इत्याहेत्यर्थः । बल्यादिभ्यः स्पृहणीयं वसु जेता इन्द्रादिभ्यो दाता । ईश्वरो यद्विश्वं चकार तत्सत्यमेव न मिथ्येत्यर्थः । सर्वज्ञो मनःप्रेरकः सर्वतो वरः स्वतन्त्रः परमेश्वरः पदार्थाननन्तकालेऽप्यबाधिततयैवाकरोदित्यर्थः॥ १६॥ एवं युद्धाकरणे कारणाभावमुक्त्वा तत्कर्तव्यं, तच्च भगवत्पूजात्वेन कार्यमिति वक्ष्यति । तत्रोभयोरपि नित्यत्वेन ईश्वरस्यातिशयाभावात्किं तत्पूजयेत्यत्रोक्तमविनाशीति । तत्रापि कस्यचिदविनाशित्वमेवोच्यते, न जीवादीश्वरस्यातिशयः । तज्ज्ञापकाश्रवणादित्यत आह॥ यद्यपीति॥ इति जीवादीश्वरस्यातिशयं तुशब्दो ज्ञापयतीत्यर्थः । नाशस्यानेकविधत्वं कथम्? कुतश्चेश्वरस्य तदभाव इत्यत आह॥ अनित्यत्वमिति॥ अनित्यत्वं स्वरूपनाशः । अत्र विष्णुवाचकाभावात्कथमुच्यते विष्णोरित्यतो येन सर्वमिदं ततमित्येतदेव तद्वाचकमिति भावेनैतच्छ्रुत्यैव व्याचष्टे॥ देशत इति॥ १७॥ अस्तु हरेः सर्वप्रकारेणाविनाशित्वम् । तथापि कथं तस्य जीवादतिशय इत्याशङ्कापरिहारायच्यत अन्तवन्त इति । तत्रैकस्य शरीरिणो देहनाशमात्रमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे॥ शरीरिणामिति॥ ईश्वरः सर्वप्रकारेणाविनाशी । शरीरिणां तु नित्यत्वमात्रमेवास्ति । न तु सर्वप्रकारेणाविनाशित्वम् । देहहान्यादिसद्भावात् । अतोऽस्ति जीवादीश्वरस्यातिशय इति भावः । अस्त्वविनाशीति श्लोके भगवद्वाचकसद्भावः । तथापि येन सर्वमिदं ततं तदविनाशीति व्याप्तिरूपेणोक्तेः कथं विष्णोरेवेत्यधार्यत इत्यत आह॥ येनेति॥ यद्यपि व्याप्तिरूपेणेदमुच्यते । तथापि सर्वततत्वस्य विष्णुलक्षणत्वेन तत्रैव पर्यवसानाद्युक्तमवधारणमिति भावः । कथमिदमीश्वरस्य लक्षणम् ? जीवानामपि कालतस्ततत्वेन तत्रातिव्याप्तेरित्यत आह॥ नेति॥ न केवलमात्र कालतस्ततिरुच्यते१ । अपि तु देशतो गुणतश्च । न च सा जीवानामस्तीति भावः । अत्र जीवस्य प्रतिपाद्यतानिषेधपरं भाष्यममुख्यार्थपरं चानुमतमिति न तद्विरोधः । तत्र जीवेभ्योऽपि ततेराधिक्यात् । न त्वेवाहमिति पुनरुक्तेश्चेति । नन्वन्तवन्त इत्यत्र जीवस्य देहहानिरेवोच्यते । न तु नाशान्तरम् । अतः कथमादिपदप्रक्षेपेण व्याख्यानमित्यत आह॥ अनिच्छयेति॥ सत्यं देहहानिरेवात्रोक्तेति । तथापि दुःखप्राप्तिहान्योरनिष्टत्वेन तद्वतो दुःखप्राप्तिनियमादिति भावः । अस्त्वेवं जीवादीश्वरस्यातिशयः । ततः च किमित्याशङ्कापरिहारायोत्तरार्धं व्याचष्टे॥ तस्मादिति॥ सर्वप्रकारेणाविनाशित्वेन सातिशयत्वादित्यर्थः । सातिशयत्वेऽपि कुतस्तत्पूजा कार्येत्यत आह॥ तदिति॥ न क्वलं सर्वप्रकारेणाविनाशित्वात्तत्पूजाऽत्र कर्तव्येत्युच्यते । अपि तु रस्वप्रकारेणाविनाशित्वात्स एव स्वतन्त्रः । ततश्च तदधीनत्वं मुक्तेः । युद्धादिस्वकर्मणाऽऽराधितश्चेश्वरो मोक्षं ददाति । अतस्तत्पूजा कर्तव्येत्येवाभिप्रेतमिति भावः । अस्त्वीश्वरस्य सातिशयत्वान्मोक्षप्रदानशक्तिः । तथापि स्वकर्मणाऽऽराधितो हरिर्मोक्षं ददातीत्येतद्गीताभिमतमित्येतत्कुतः । मुक्तेर्ज्ञानभक्तिसाध्यताया गीताभिमतत्वादित्यत आह॥ ये त्विति॥ केवलकर्मणा मोक्षसिद्धेः गीतानभिमतत्वेऽपि भक्तिज्ञानसहितेन साभिमतैव । “ये तु सर्वाणि” इति तथोक्तत्वात् । तादृशं च कर्मात्राभिप्रेतमिति भावः । “मत्परा” इत्यनेन भगवज्ज्ञानमुच्यते । अनन्ययोगः अनन्यभक्तिः । “अनाशिनोऽप्रमेयस्य” इति प्रकृतशरीरिविषयं किं न स्यादित्यत आह॥ जीवेति॥ जीवपक्षेऽनाशिनोऽप्रमेयस्येत्यत्र जीवो वाच्य इति पक्षे । ईश्वरग्रहणपक्षे स्फुटमर्थभेदसम्भवात् तद्विहाय कथञ्चिदर्थभेदकथनं न युक्तमित्यत्रोच्यते । भाष्ये तु मुख्यार्थे सिद्धे गौणमप्यर्थान्तरमुच्यत इत्यविरोधः । न केवलं जीवपक्षे पुनरुक्तेरीश्वरपरत्वं१ अपि तु तज्ज्ञापकसद्भावाच्चेत्याह॥ अविनाशीति॥ अविनाशीत्यत्र भगवता तावदीश्वर एव प्रतिपाद्य इति समर्थितम् । यदुक्तमविनाशित्वं तदेवात्र प्रत्यभिज्ञायते अनाशिन इति । यदपि सर्वततत्वमुक्तं तदेवाप्रमेयस्येति प्रत्यभिज्ञायते । अतोऽप्यत्रेश्वर एवोच्यत इति भावः । जीवस्य देहहानिसद्भावादीश्वरदेहस्य नित्यत्वादीश्वरस्य जीवादतिशय इति यद्व्याख्यानं न तद्गीताऽभिमतं भवितुमर्हति । देहस्यानित्यत्वनियमादित्यतो गीतायामेव इति विशेषणान्मुक्तदेहस्यापि नित्यत्वमनुज्ञायते । किमु हरेः । अन्यथा तद्विशेषणवैयर्थ्यात् । अतो युक्तमेव व्याख्यानमिति भावेनाह॥ इम इति॥ ननु मुक्तदेहस्यापि कथं नित्यत्वम्? देहस्यान्त्यत्वनियमादित्यत आह॥ चिदिति॥ जडशरीरत्वमेवानित्यत्वे प्रयोजकम् । तच्च मुक्तदेहस्य चिदानन्दात्मकत्वेन ततो व्यावर्तमानमनित्यत्वमपि व्यावर्तयतीति भावः । चिदानन्दात्मकत्वं देहस्य कथमित्यत आह॥ स्वरूपेति॥ स्वरूपं१ चिदानन्दात्मकमिति भावः । मुक्तानां देह एव नास्ति । “अशरीरं वाव सन्तम्” इत्यादेरित्यतो आह॥ चिदिति॥ जडदेहाभावपराश्रुतिरिति भावः । भिन्नदेहाभावपरा चेति भावेनाह॥ स्वरूपेति॥ ननु मुक्तानां नित्याचिदानन्दात्मकदेहसद्भाव एव कुत इत्यत आह॥ न वर्तत इति॥ अपरे दोषाः । सुपेशसः सुरूपाः । उन्मिषन्मणिप्रवेशनिष्काभरणाः स्फुरद्रत्नप्रवरहाराभरणआः । सुवर्चसः सुकान्तिमन्तः । अत्र जडाभावमुक्त्वा तेषां शरीरोक्तेरर्थाच्चिदानन्दात्मकदेहवत्त्वं ज्ञायते । नन्वेतानि वाक्यानि गौणमोक्षपराण्येव मुख्यमुक्तौ जीवेश्वसयोरैक्येनैतदनुपपत्तेरित्यत आह॥ न चेति॥ कुतो नेत्यतो मुख्यमोक्षानन्तरमपि भेदसिय श्रुतिस्मृतिसिद्धत्वादित्याह॥ इदमिति॥ अत्रापुनरावृत्तिश्रवणान्मुख्यमोक्षत्वं ज्ञायते । न केवलं मुक्तानामीश्वराद्भिन्नतया व्यथाद्यभावमात्रमपि तु भिन्नतयैव परमानन्दनुभवोऽप्यस्तीति भावेनाह॥ यो वेदेति॥ एतद्वाक्ययोः परब्रह्मप्रकरणगतत्वान्मुख्यमोक्षपरत्वम् । अन्योन्यं सखायस्ते सर्वे मुक्ताः । स्ववगतेन यशोरूपेण ब्रह्मादिसभां सहमानेनेश्वरेण निमित्तेन नन्दति । कथम्? यतोऽसौ एषामनिष्टस्पर्धी दिव्यान्नदाता सन्निन्द्रियाय हितो भवतीत्यर्थः । अत्राप्यनिष्टाभावश्रयणान्मुख्यमोक्षविषयत्वम् । कश्चिद्ब्रह्मा ऋचां सम्यगुच्चारणं कुर्वन्नास्ते । स्वयं चातिपुष्टिमान् कश्चिद्ब्रह्मा शक्करीषु छन्दोमतीषु ऋक्षु गायत्रं साम गायति । कश्चिद्ब्रह्मा पुराणविद्यां वदति । कश्चिद्ब्रह्मा । विष्णोर्मूर्ति ध्यायतीत्यर्थः । अस्य च ब्रह्मबाहुल्यप्रतिपादकत्वान्मुख्यमोक्षविषयत्वम् । जक्षन् भक्षयन् हसंश्च रममाणो रतिं प्राप्नुवन् । परमसाम्यं नाम योग्यानन्दपूर्वत्वमेव । न उत सर्वनाम्यमिति भावेन मुक्ततारतम्ये च मानमाह॥ मुक्ता इति॥ देवा देवगन्धर्वाः । तत्त्वरूपाः तत्त्वाभिमानिनो बृहस्पत्यादयः । उक्तेभ्योऽन्ये ये मनुष्योत्तमास्ते भूपाच्छतांशोना इत्यर्थः । तारतम्यसद्भावे परस्परं विरोधः स्यादित्यत आह॥ अक्षण्वन्त इति॥ प्राप्ताक्षिकर्णफलाः परस्परविरोधशून्या मुक्ताः ज्ञानादिगुणेष्वसमा बभूवुः । तत्र केचित्क्षीरसागरमग्नाः । तेचिदश्वत्थवनमुपवर्तमानाः । केचित्स्नातव्यहृदा इव गम्भीरा भगवन्तं ददृशुरित्यर्थः । इदं वाक्यं “श्रुत्वा विष्णुं” इत्यागमेन मुख्यमुक्तिविषयतया व्याख्यातम् । अत एव ऋचां त्व इत्यस्य ऋत्विग्विषयत्ववर्णनं परास्तम् । तारतम्येऽपूर्तिः स्यादित्यत आह॥ कामस्येति॥ यत्रेच्छाविषयाः पर्याप्तास्तत्र लोते माममृतं कुर्वित्यर्थः । तथापि न जीवेशभेदो युक्तः । तदभेदाभिधायकश्रुतिविरोधादित्यत आह॥ न चेति॥ कुतो न विरोध इति चेदर्थान्तरसम्भवात् । प्रतीत एवार्थः किं न स्यादिति चेन्न । श्रुत्यन्तरेभ्यो एवार्थान्तरस्यावगमादित्याह॥ सञ्ज्ञेति॥“प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति । न प्रेत्य सञ्ज्ञाऽस्ति” इति याज्ञवल्क्यवाक्यानन्तरं तदभिप प्रायमजानन्त्याः मैत्रेय्याश्चोद्यवाक्यम्-“अत्रैव मा भगवान् १मोहान्तमापीपन्न प्रेत्य सञ्ज्ञाऽस्ति” इति । तदर्थ उच्यते सञ्ज्ञेति । यदि मोक्षे ज्ञानं नश्येत्तर्हि तस्यापुरुषार्थत्वं स्यात् । भवति चासौ पुरुषार्थः । अतस्तत्र ज्ञानाभाववचनं मोहकमोवेत्यर्थः । “स होवाच । नवा अरे अहं मोहं ब्रवीमि” इत्यस्यर्थ इतीति । ज्ञानानाशकथनं कथं न मोहकमित्यत उच्यते-“अविनाशी वा अयमात्माऽनुच्छित्तिधर्मा” इति । तस्यार्तो भूतजेति । भौतिकज्ञानं सुप्यत इति मद्वाक्यार्थो न तु निजज्ञानमपीत्यतो न मद्वाक्यं मोहकमिति भावः । भूतजानाममुक्तानामेतद्विषये ज्ञानं लुप्यत इति वा । कुतो निजं ज्ञानन्न लुप्यत इत्यत आह॥ न चेति॥ आत्मनाशः आत्मस्वरूपभूतज्ञाननाशः । आत्मातिरिक्तमपि यदा न नश्यति तदा किं वाच्यमतिप्रेमास्पदात्मस्वरपज्ञानं न नश्यतीत्यर्थः । ज्ञेयानाशोऽपि कुत इत्याशङ्कापरिहाररूपं-“यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । तदितर इतरं जिघ्रति । यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्तत्केन कं जिघ्रेद्येनेदं सर्वं विजानाति तं च केन विजानीयात् । विज्ञातारमरे केन विजानीयात्” इति वाक्यं व्याख्यायते॥ स्वभावत इति॥ आत्मव्यतिरेकेण ज्ञेयसद्भाव एव घ्राणादिभोगस्येश्वरज्ञानस्यात्मज्ञानस्य च सम्भवादन्यथाऽसम्भवाज्ज्ञेयसद्भावोऽङ्गीकार्य इत्यर्थः । निर्विशेषद्वैते कर्मकर्तृभावविरोधात् स्वज्ञानं च नोपपद्यते । यो ज्ञेयाभावे भोगाद्यसम्भव उक्तः सोऽप्यस्त्वित्यत आह॥ यदेति॥ अन्यद्गन्धादि । कथं भोगाद्यभावे पुरुषार्थताभाव इत्यत आह॥ तदिति॥ पुरुषेणार्थ्यो हि पुरुषार्थः । न हि भोगाद्यभावं पुरुषोऽर्थयते । तदर्थं यतते वा । अतो भोगाद्यभावरूपो मोक्षो न पुरुषार्थ इत्यर्थः । “एतावदरे खल्वमृतत्वम्” इत्युपसंहारवाक्यं व्याक्रियते॥ तस्मादिति॥ भोगाद्यभावेऽपुरुषार्थत्वप्रसक्तेर्भोगाद्यङ्गीकार्यम् । भोगादिसम्भवाच्च भिन्ना विषयादयः । ततश्च स्वरूपज्ञानमिति भावः । “यद्वैतन्न पश्यति न तु तद्द्वितीयमस्ति” इत्यस्यार्थो यदिति । “ततोऽन्यद्विभक्तं यत्पश्येत्” इत्येतद्व्याक्रियते॥ प्रधानेति॥ अन्यदवतारव्यतिरिक्तमीश्वरेण भिन्नतया दृष्टत्वात्प्रधानपुरुषादिकं भिन्नमेवेश्वरादित्युक्तम् । अभिन्नतया सर्वज्ञेनेश्वरेणादृष्टत्वाच्च भिन्नमित्युपपादकं “पश्यन् वै तन्न पश्यति” इति । एतद्वाक्यं व्याक्रियते॥ पश्यन्निति॥ प्रधानादीनां स्वतो भिन्नत्वेन दर्शनमीश्वरस्य भ्रमः किं न स्यादित्याशङ्कापरिहाररूपं-“न हि द्रष्टुर्द्रष्टेर्विपरिलोपो विद्यते” इत्येतद्व्याक्रियते॥ न हीति॥ विपरिलोपो विपरीतत्वम् । अविनाशित्वादिति । नित्यत्वेन निर्दोषत्वादित्यर्थः । “परमं ब्रह्म वेद ब्रह्मैव भवति” इति श्रुतिं व्यख्यातुं तदुपयुक्तमाह॥ ब्रह्माणीति॥ श्रुतिव्याख्यानं अपीति । यद्यपि परमं ब्रह्म वेद तथापि ब्रह्मैव भवति न परं ब्रह्म भवतीत्यर्थः । कुत इत्थं कल्प्यते? परब्रह्मज्ञानेन परब्रह्मत्वं भवतित्येवार्थः किं न स्यादित्यत आह॥ यदीति॥ यदि जीवस्य मुक्तौ परमेश्वरैक्यं स्यात्तर्हि संसारेऽपि तथा स्यात् । प्राग्भिन्नस्य पश्चादभेदानुपपत्तेर्नैतद्युज्यते । तथात्वे दुःखानुपपत्तेरिति भावः । कुतो न स्याद्दुःखितेत्यत आह॥ दुःखीति॥ परमेश्वरभूतस्याप्यज्ञानवशाद्दुःखित्वमित्यत आह॥ कुत इति॥ सर्वज्ञस्यापि भ्रान्त्याऽज्ञानमित्यत आह॥ क्वेति॥ भ्रमस्याधिष्ठानाज्ञानमूलत्वादज्ञानस्य च भ्रान्तिमूलत्वाङ्गीकारेऽन्याश्रयतेति भावः । “अहं ब्रह्मास्मि” तत्त्वमसीति श्रुतिद्वयं व्याचष्टे॥ अहेयत्वादिति॥ असनान्मितेरिति॥ स्वस्मिन् परिमितेर्निरासादित्यर्थः । विरोधिनां निरसनात्प्रमितिरूपत्वाच्चेति वा । त्विट् (त्विङ्) प्रकाशन इति धातोस्तेजस्त्वात्त्वमितीरितः । न केवलमेतच्छब्दवाच्यत्वं हरेरपि तु सर्वशब्दवाच्यत्वं चेत्याह॥ सर्वैरिति॥ सर्वशब्दवाच्यत्वेऽपि रूपविशेषनियमोऽस्तीत्याह॥ युष्मदिति॥ तत्त्वमसीति वाक्यं नाभेदपरम् । पूर्वोत्तरवाक्याननुसारित्वादिति भावेनाऽदित एव प्रकारान्तरेण व्याक्रियते । तत्र “सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय” इत्येतद्व्याक्रियते॥ सर्वानिति॥ “तं ह पितोवाच श्वेतकेतो यन्नु खलु सोम्यैवं महामाना असूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातं भवति” इत्येतद्व्याक्रियते॥ अकृताचारमिति॥ आदिश्यत इत्यादेशो नारयणः । ज्ञाते श्रुते मते च । अविज्ञातज्ञानादीनामिति॥ अविज्ञाताश्रुतामतज्ञानश्रवणमननानामित्यर्थः । अविज्ञातान्यज्ञानादीनां यत्फलं तत्तदभावेऽपि भगवज्ज्ञानादिमात्रेणापि भवतीत्यर्थः । अविज्ञातान्यज्ञानादीनां जातानामपि यत्फलं तदपि भगवज्ज्ञानादौ जात एव जातं भवतीति च । परमात्मज्ञानादौ सत्यन्यदज्ञाताद्यपि ज्ञातादिवद्भवतीति वा । एवंविधत्वादीश्वरस्य तज्ज्ञाने स्वात्मनोऽत्यन्ताधमत्वज्ञानसम्भवेन केशवोऽस्मीत्याद्यभिमानायोगान्नासौ त्वया पृष्ट इति भावः । तत्राऽद्ययोजनाद्वये प्राधान्यं हेतुः । तृतीययोजनायां सादृश्यं हेतुः । जातमपि जगज्ज्ञानादि परमात्मज्ञानादौ सत्येव सफलमिति कथमित्यत आह॥ तदधीनमिति॥ भगवज्ज्ञानादि तावदेवं भवति । वशीकृतविश्वो जगत्सृष्ट्यादिकर्तेश्वर इति । एवं च भगवज्ज्ञानादौ सति जगत्तदधीनमिति ज्ञानादिकं दृढं भवति । ततश्च मोक्षादिफलं भवतीत्यर्थः । एवमज्ञातस्यापि जगतो ज्ञानादिना फलं किं न स्यादित्यतः का फलप्रत्याशा प्रत्युतानर्थ एव भवतीत्याह॥ स्वातन्त्र्येणेति॥ उक्तरीत्या भगवज्ज्ञानाद्यभावे जगतः स्वातन्त्र्येणैव ज्ञानादि प्राप्यते । तच्च मिथ्याज्ञानत्वादनर्थकृदित्यर्थः । सादृश्यादेभगवज्ज्ञानादौ सत्यन्यज्ज्ञातादिवद्भवतीत्यत्रोक्तं “यथा सोम्येकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात्” इति दृष्टान्तं व्याचष्टे॥ यथा चेति॥ ज्ञातं ज्ञातादि । प्राधान्याद्भगवज्ज्ञानादिमात्रेणाज्ञातादेरप्यन्यस्य ज्ञानादिफलं भवति, भगवज्ज्ञानादौ सत्येव ज्ञातस्याप्यन्यस्य ज्ञानादेः फलं भवतीत्युभयत्रोक्तं “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति दृष्टान्तं व्याचष्टे॥ यथेति॥ यस्मात्साङ्केतिकनामधेयस्य वाचाऽऽरम्भणं क्रियते अतस्तद्विकारोऽत एवाप्रधानम् । मृत्तिकेत्यादिसंस्कृतज्ञानमात्रेण साङ्केतिकाज्ञानादावपि तत्फलं विद्वानिति व्यवहारविषयत्वादिकं भवति । संस्कृतनामज्ञान एव च साङ्केतिकानामज्ञानं सफलं भवति । तन्मात्रेण विद्वानिति व्यवहारविषयत्वाद्यभावादित्यर्थः॥ तन्मूलमिति॥ तत्प्रधानकत्वादित्यर्थः । “एवं सोम्य स आदेशो भवति” इति दार्ष्टान्तिकवाक्यं व्याचष्टे॥ एवमिति॥ प्रधानोऽतस्तज्ज्ञानादिनोक्तप्रकारद्वयेनान्यज्ञानादिसाफल्यं भवतीति शेषः । एवं सदृशश्चेति द्रष्टव्यम् । प्राधान्यमेवेश्वरस्य कुत इत्यतः सदेव सोम्येत्यादिना स्वातन्त्र्येण जगत्कारणत्वमुक्तम् । तदेवाह॥ स्वतन्त्रः कारणभूत इति॥ ईश्वरोऽहमिति भावाकरणे हेतुतयेश्वरमाहात्म्यमुक्तम् । माहात्म्यान्तरं चोच्यते-“सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः” इति । तदर्थमाह॥ तन्मूलमिति॥ माहात्म्यान्रमुक्त्वा अभेदबुद्धिं मा कुर्वित्युच्यते -“स एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो"इति । तद्व्याचष्टे॥ स इति॥ व्यापकः पूर्ण इत्यात्मशब्दस्यार्थद्वयम् । पूर्णो गुणैः । नैव सोऽसीति । अतत्त्वमसीति विभज्य व्याख्यानान्तरम् । जीवेश्वरभेदे “स यथा शकुनिः” इत्यादिनोक्तदृष्टान्तवाक्यानि व्याचष्टे॥ यथेति॥ यदपि “जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि” इति, “स एष जीवेनात्मनाऽनुप्रभूतः” इति जीवेशाभेदाभिधायकवत्प्रतीयमानं वाक्यद्वयं तत् “इत्यादिश्रुतिविरोध” इत्यादिपदगृहीतं व्याख्यायते॥ न इति॥ “जीवापेतं वाव किलेदं म्रियते । न जीवो म्रियते” इत्यस्यार्थस्तदधीनमिति । “प्रपञ्चो यदि विद्येत निवर्तेत न संशयः” इत्यादिश्रुतिः भेदमिथ्यात्वाभिधायकवत्प्रतीयमाना प्रागादिपदगृहीता व्याख्यायते॥ जीवेति॥ विद उत्पत्ताविति धातुमाश्रित्य “यदि विद्येत” इत्येतदुत्पाद्यश्चेदिति व्याख्यातम् । भ्रान्तिकल्पितत्वाद्भेदस्य कथमनादिनित्यतेत्याशङ्कानिवर्तकस्य “मायामात्रमिदं द्वैतम्” इत्यस्यार्थो विष्णोरिति । भेदस्य सत्यत्वे कथमद्वैतं स्थानान्तरे कथ्यत इत्यत उक्तं अद्वैतं परमार्थत इति । अस्यार्थोऽद्वैत इति । अनेन परमार्थत इति तसिः प्रथमार्थ इत्युक्तं भवति । अद्वैतवाक्यं परमार्थो भगवानद्वैत इत्याहेत्यर्थः । किं तत्परमत्वमित्यत आह॥ परमत्वमिति॥ एवं परमत्ववतोऽद्वैतत्वं नाम किमित्यत आह॥ इत्यादय इति॥ सोऽय परमद्वैते अभावः । तदिदं परमत्ववतोऽद्वैतत्वं तदेवाद्वैतश्रुत्यर्थ इत्यर्थः । सर्वाद्वैतमेवार्थः किं न स्यादित्यत आह॥ सन्तीति॥ बाधकाभावाच्च न भेदस्य कल्पितत्वमित्यर्थप्रतिपादकं विकल्प इति वाक्यम् । तस्यार्थो विकल्प इति । “स आत्मा तत्त्वमसि” इत्यादिवाक्यस्य भेदपरत्वसिद्ध्यर्थं “यथा सोम्य” इत्यादिवाक्यस्य स्वोक्तमर्थमनङ्गीकृत्य अर्थान्तरताकल्पनायां उदाहृतश्रुतिविरोधो बाधकः । बाधकान्तरं चाह॥ एकेति॥ यथैकमृत्पिण्डविज्ञानेन सर्वं मृण्मयं विज्ञातं स्यात्, यतो नामरूपात्मकं मृण्मयं वागालम्बनमात्रं न तु पारमार्थिकं, मत्तिकैव सत्या तथा परमात्मज्ञाने सति जगज्ज्ञानं भवति । ततोऽतिरेकेणाभावादित्यन्यथा व्यख्यानं न युज्यते । “मृता ज्ञातया सर्वं मृण्मयं विज्ञातं स्यात् । वाचारम्भणं विकारो मृत्तिकैव सत्या” इत्येतावता पूर्णत्वेनैकादिशब्दानां वैय्यर्थ्यात् । सर्वमृण्मयानामेकमृत्पिण्डातिरेकेणाभावाभावात् । नामधेयस्यापि विकारत्वादिति भावः । किञ्च वाचारम्भणवाक्ये यदि ईशेशितव्यादिप्रपञ्चस्य परमात्मन्यारोपिततया ततोऽतिरेकेणाभावो विवक्षितस्तर्हि प्रतिज्ञानं परमात्मज्ञान्न जगज्ज्ञानं न स्यात् । सत्यज्ञानेन मिथ्याज्ञानस्यानुपपत्तेः । विरोधात्तयोर्ज्ञानयोरित्याह॥ न चेति॥ ननु परमात्मज्ञानेन डगन्मिथ्येति ज्ञायत एव । ्तः कथमुच्यते ब्रह्मण्यारोपितत्वे डगतः तज्ज्ञानेन डगड्ज्ञानानुपपत्तिरित्यत आह॥ न हीति॥ एवं चेत्परमात्मज्ञानेन प्रपञ्चाभावज्ञानं भवतीति वक्तव्यम् । न तु प्रपञ्चज्ञानं ब्रह्मज्ञानेन भवतीति । तथा लोके व्यवहाराभावादिति भावः । इतोऽपि नात्र प्रपञ्चस्य परमात्मातिरेकेणाभावो विवक्षित इत्याह॥ नवकृत्व इति॥ किमतो यद्येवं वाचारम्भणश्रुतिर्भेदपक्षे युक्तेत्यत आह॥ तस्मादिति॥ तस्मात्पूर्ववाक्यानां भेदपरत्वादित्यर्थः । अतत्त्वमसीति भेदपरतया योजनायां “ऐतदात्म्यमिदं सर्वम्” इति पूर्ववाक्यविरोधः स्यादित्यतस्तस्य श्रुत्योक्तमर्थं स्मारयति॥ ऐतदात्म्यमिति॥ अस्त्वेवमात्मसम्बन्धीति योजना । सम्बन्धश्च तादात्म्यमित्यतः स्वस्वामिभावसम्बन्ध एवेति भावेनाह॥ तदिति॥ तत्त्वमसीति पदविभागमभ्युपेत्यापि पूर्वोत्तरवाक्यानां भेदपरत्वात् भेदपरतया श्रुतिसिद्धमर्थान्तरं चाह॥ त्वमपीति॥ न सोऽसीति व्यावृत्तिकथनमात्रम् । इतो़ऽप्यैतदात्म्यपरामर्शोऽयमित्याह॥ तदिति॥ ऐतदात्म्यपरामर्शे तदितिपदस्यैकलिङ्गत्वं गुणः स्यात् । ततश्चैतदात्म्यपरामर्शोऽयमित्यर्थः । प्राचीनपक्षेपि तस्मादन्यदतदिति न लिङ्गवैषम्यम् । भवेदयमैतदात्म्यपरामर्शो भवतामनुगुणो यद्यैतदात्म्यपदेन तत्सम्बन्ध्युच्यते । न च तन्निश्चितम् । सर्वोऽपि ईशेशितव्यादिप्रपञ्चः परमात्मात्मक इत्यप्यर्थसम्भवादिति चेत् । तत्किमत्र ईशेशितव्यादिप्रपञ्चस्य साक्षात्परमात्माभेदोऽभिधीयत इति ते मतम् उत ईशेशितव्यादिप्रपञ्च एव परमात्मातिरिक्तो नास्तीति स्वरूपतो निषिध्यते? नाद्यः । मिथ्यासत्ययोरभेदायोगात् । द्वितीयं दूषयति॥ अविद्यमानमिति॥ यद्येषा श्रुतिरीशेशितव्यादिप्रपञ्चं परमात्मातिरेकेण प्रतिषेधति तदोन्मत्तवाक्यवदप्रमाणं स्यात् । अविद्यमानस्यैवेशेशितव्यादिप्रपञ्चस्य स्वयमेव तदैक्षतेत्यादौ परमात्मातिरेकेण विहितत्वात् । न च वाच्यमत्र निषेद्धुं तदैक्षतेत्यादावीशेशितव्यादिप्रपञ्चोऽनूद्यत एव, अतो न दोष इति । ईशेशितव्यादिप्रपञ्चस्य श्रुतिं विनाऽत्मनो भिन्नत्वेनाप्राप्ततयाऽनुवादायोगादिति भावः । इतोऽपि निषेधाय तदैक्षतेत्यादौ प्रपञ्चोऽनूद्यत इति न युज्यते । “यदिदं वदन्ति तन्न युज्यते” इति वाक्येन, निषेधे विशेषयुक्त्या च हीनत्वात् । तद्विनाऽनुवादस्य क्वाप्यदृष्टत्वादित्याह॥ अनुवादोऽपीति॥ तादृशवाक्याद्यभावेऽपि निषेधायात्रानुवादः प्रपञ्चस्येत्यङ्गीकारे को दोष इति चेत् अदृष्टकल्पनेत्येकं दूषणम् । अपरं चाह॥ अतिप्रसङ्गश्चेति॥ कथमित्यत आह॥ अभेदेति॥ अन्यथेति सम्बध्यते । यद्येतादृशवाक्याद्यभावेऽप्यैतदात्म्यमित्यादौ निषेद्धुं तदैक्षतेत्यादिना परमात्मातिरिक्ततया प्रपञ्चोऽनूद्यत इति कल्प्यते तर्हि तदैक्षतेत्यादौ प्रपञ्चस्य परमात्मातिरेकेणाभावं निषिध्यातिरिक्तत्वेन भावं विधातुमैतदात्म्यमित्यादिना प्रपञ्चस्य परमात्मातिरेकेणाभावोऽनूद्यत इत्यपि स्यादविशेषादित्यर्थः । इतश्च निषेधायायं प्रपञ्चस्य परमात्मातिरिक्ततया सद्भावानुवादो न भवतीत्येतदेव युक्तमित्याह॥ सर्वेति॥ अनुवादो भवन् शाखादावेव भवेत् । तदन्ते तु निषेधः । न चात्र तदस्ति । भेदस्यैव शाखान्तेषूक्तत्वात् । अतोऽपि न भेदस्य निषेधाय श्रुतावनुवाद इत्यर्थः । शाखान्तेषु कास्ता भेदोक्तय इत्यत आह॥ नेति॥ यदुक्तमभेदानुवादेन भेदोपदेशः स्यादिति न तद्युज्यते । अभेदस्य श्रुतिं विनाऽप्राप्तत्वात् । किं नामेशेशितव्यादिप्रपञ्चस्य परमात्मभिन्नतयाऽनुवादेन तन्निषेध एव युक्तः । ईशेशितव्यादिप्रपञ्चस्य परमात्मभिन्नतायाः प्रत्यक्षादिप्रप्तत्वादित्यत आह॥ न चेति॥ अत्रेश्वरपदेन परमात्मोच्यते । परमात्मन एव प्रत्यक्षाद्यसिद्धत्वेन तत्प्रतियोगिकेशेशितव्यादिप्रपञ्चस्य भेदः सुतरां प्रत्यक्षादिना गृह्यत इति तन्न । तथासति प्रपञ्चभिन्नतया श्रुतावपि परमात्मनिरूपणप्रसङ्गात् । अन्यथा प्रत्यक्षादिनाऽपि तद्भेदस्य विषयीकर्तुमश्क्यत्वात् । तथा चोन्मत्तवाक्यमेवेति भावः । ईश्वरस्यैव प्रत्यक्षादिनाऽसिद्धेरीशेशितव्यस्य च तदाकारेणासिद्धेः परमात्मनः सकाशादीश्वरादिरूपप्रपञ्चस्य भेदः सुतरां तेनासिद्ध इति वा । इतोऽपि न परमात्मातिरिक्तप्रपञ्चनिषेधो युज्यत इत्यत आह॥ तत्पक्ष इति॥ यदि परमात्मातिरिक्तः सर्वोऽपि प्रपञ्चो मिथ्या स्यात् तदा सर्वश्रुतीनां वैयर्थ्यं स्यात् । तथाहि । “एकमेवाद्वितीयम्” “यः सर्वज्ञः” इत्यादिश्रुतिरैक्यादिधर्मप्रतिपादिका उत आत्मास्वरूपप्रतिपादिका । आद्येऽप्यैक्यसार्वज्ञादिधर्माः किं स्वरूपातिरिक्ताः स्वरूपं वा । नाद्यः । तथात्वे मिथ्यात्वापातात् । द्वितीयस्तु तृतीयोऽन्तर्भवति । नाप्यसौ युक्तः । स्वरूपस्य स्वतः सिद्धत्वेन प्रतिपादनबैयर्थ्यादिति भावः । शुद्धस्वरूपस्याप्रतिपाद्यत्वेऽपि भेदाभावसार्वज्ञाद्युपलक्षितस्वरूपस्य प्रतिपाद्यरत्वान्न श्रुतिवैयर्थ्यमित्यत आह॥ लक्षितेति॥ लक्षितस्यापि शुद्धाद्विशेषाभावेन तद्वदस्याप्यप्रतिपाद्यत्वान्न तत्प्रतिपादकत्वं श्रुतेर्युक्तमित्यर्थः । कुतः शुद्धाद्विशेषाभावो लक्षितस्येत्यत आह॥ निर्विशेषत्वेति॥ लक्षितमिति यदोक्तं तदैव तस्य निर्विशेषत्वमप्युक्तमेव । अन्यथा विशिष्टत्वापत्त्या मिथ्यात्वापातात् । अतस्तस्य न शुद्धाद्विशेष इति भावः । ननु भवतु धर्माणां मिथ्यात्वम् । तथापि श्रुतेस्तत्प्रतिपादकत्वे को दोष इत्यत आह॥ मिथ्येति॥ इतोऽपि नाऽत्मातिरिक्तस्य सर्वस्य मिथ्यात्वं युक्तमित्याह॥ मिथ्यात्वमिति॥ आत्मातिरिक्तस्य सर्वस्य मिथ्यात्वे तन्मिथ्यात्वं सत्यं मिथ्या वा । नाद्यः । आत्मातिरिक्तं सर्वं मिथ्येति पक्षक्षतेः । अतो मिथ्येत्येवाङ्गीकार्यमिति भावः । किमतो यद्येवमित्यत आह॥ अत इति॥ इतश्च नात्मविशेषाणां मिथ्यात्वमिति वाऽऽह॥ मिथ्येति॥ न सार्वज्ञादिविशेषा असन्तो येन श्रुतेरप्रामाण्यं स्यात् । नापि शुद्धं लक्ष्यं ज्ञानस्वरूपं श्रुतिवेद्यमित्युच्यते । येनोक्तदोषः स्यात् । किं नामैकस्मिन्नेवात्मनि उपाधिभेदभिन्नेतन्निमित्तसार्वज्ञादिविशेषाश्च भवन्ति । तदुपाधिभेदभिन्नमौपाधिकविशेषविशिष्टस्वरूपं श्रुतिप्रतिपाद्यमिति चेत्, किमसावुपाधिः मिथ्या सत्यो वा॥ आद्ये दोषमाह॥ उपाधीति॥ उपाधिकृत एवात्मनि भेदो विशेषाश्चेत्यङ्गीकृत्योपाधेर्मिथ्यात्वाङ्गीकारे तद्भिन्नस्वरूपस्य तन्निमित्तविशेषाणां च मिथ्यात्वं स्यात् । तथाच तदभिधायकश्रुतेरप्रामाण्यं स्यात् । नेह नानेत्यादौ निषेधाय मिथ्याभूतमपि तदुच्यते श्रुताविति चेत्तर्हि स्वयमेव मिथ्याभूतमुपाधिभेदभिन्नस्वरूपं तन्निमित्तविशेषांश्च विधाय पुनस्तन्निषेधे श्रुतेरुन्मत्तवाक्यत्वमेव स्यात् । निषेधाय तदनूद्यत इति चेन्न । उपाधिभेदभिन्नस्वरूपस्य तन्निमित्तविशेषाणां च प्रत्यक्षाद्यप्राप्तत्वेनानुवादानुपपत्तेरिति भावः । द्वितीयं दूषयति । सत्येति॥ यद्यप्यत्रापसिद्धान्तो वक्तुं शक्यः । तथापि तस्यातिस्फुटत्वेन दोषान्तरमेवोक्तम् । ब्रह्मातिरिक्तस्य सत्यत्वमङ्गीकृत्यापि ब्रह्मण्युपाधिभेदमङ्गीकुर्वतां दूषणाय च । आदिपदेनोपाधेरप्येकदेशसम्बन्ध इत्यादिवक्ष्यमाणसङ्ग्रहः । सत्योपाधिपक्षेऽपि दोषाः समा इत्यनेन मिथ्योपाधिपक्षेऽप्येति भवन्तीति सूचयति । नन्वेकत्वेऽप्याकाशस्य तथा महानसाकाशगदधूमानुभवस्तस्यैव न सर्वाकाशस्योपाधिभेदात् । तथाऽत्रापि स्यादित्यत आह॥ अचेतनानामिति॥ किं महानसाकाशसम्बन्धवत्त्वेऽपि धूमस्य सर्वाकाशसम्बन्धाभाववद्दुःखाश्रयत्वाभावोऽस्त्वित्युच्यते उत तदनुभावभाववदनुभावभावः । नाद्यः । अस्माकमनिष्टाभावात् । न द्वितीयः । आकाशस्याचेतनत्वेन अनुभवप्राप्तेरेवाभावेन दृष्टान्तवैषम्यादिति भावः । अयं चाभ्युपगमवादः । आकाशस्यान्तर्भेदवत्त्वात् । उपसंहरति॥ अत इति॥ १८॥ यदुक्तं सर्वप्रकारेणाविनाशित्वादीश्वरः स्वतन्त्र इति । तदयुक्तम् । “अयमस्य देहवियोगकर्ता”, “अनेनायं देहाद्वियोजितः” इति जीवस्यापि स्वतन्त्र्यप्रतीतेरित्याशङ्कापरिहारायोच्यते “य एनमिति” । तत्र जीवस्य देहवियोगादौ कथमपि कर्तृत्वं नास्तीत्यन्यथाप्रतीतिनिरासायाह॥ य एनमिति॥ य एनं जीवं स्वातन्त्र्येण देहवियोगकर्तारं पश्यति, यश्चैनं जीवं जीवान्तरेण स्वातन्त्र्येण देहाद्वियोजितं पश्यति तौ न विजानीत इत्येवं व्यख्यायम् । न तु पारतन्त्र्येणमापि जीवस्य हन्तृत्वादिकं पश्यन् न जानातीत्यर्थः । कुतोऽन्योऽर्थो न स्यादित्यत आह॥ अन्यथेति॥ जीवस्य पारतन्त्र्येणापि हन्तृत्वाभावे “मया हतांस्त्वं जहि” इतीश्वराधीनतया जीवस्य हन्तृत्वोक्तिविरोधः स्यादित्यर्थः । यदुक्तं जीवो नित्य इति न तद्युक्तम् । “अयं जीवस्य हन्ता”, “अनेनायं जीवो हतः” इति व्यवहारेण चेतनस्यानित्यत्वावगमादित्याशङ्का परिहारायप्ययमेव श्लोकः । तत्र प्रथमपक्षे य एनमिति पदं जीवविषयतया व्याख्यातम् । नेश्वरविषयतया । तत्र देहवियोगरूपहननस्य विवक्षितत्वात् । तत्र जीवस्यैव स्वातन्त्र्याभावादीश्वरस्य तद्भावात् । अस्मिन् पक्षे तु “य एनं चेतनं हन्तारं पश्यति स न जानाति” इति चेतनं प्रति हननस्य विवक्षितत्वात् । चेतनहननस्य जीववदीश्वरेणाप्यकरणात् एनमिति पदमुभयोरपि वाचकमित्याह॥ चेतनमिति॥ १९॥ ननु जीवनित्यत्वादेः पूर्वमेवोक्तत्वात्किमुत्तरश्लोकेनेत्यत आह॥ जीवेति॥ नेदं भगवद्वाक्यं, येन पुनरुक्तिः स्याति । किन्तु यदुक्तं स्वयं जीवेश्वरयोरुत्पत्तिविनाशराहित्यम्, ईश्वरस्य शरीरतोऽप्युत्पत्त्याद्यभावेन स्वातन्त्र्यं, जीवस्य स्वरूपतो जन्मादिशून्यस्यापि देहोत्पत्त्यादिनाऽस्वातन्त्र्यं तत्र प्रमाणत्वेन मन्त्रवर्णोऽयमुदाह्रियत इति भावः । अत्रेश्वरप्रतिपादनाप्रतीतेः कथमेतदित्यतो नायं भूत्वेत्यत्र देहतोऽप्युत्पत्तिराहित्यश्रवणात्तस्य चेश्वरलिङ्गत्वात् पूर्वार्धस्तत्प्रतिपादक इति भावेनाह॥ अयमिति॥ एतेन वा शब्दादेव पूर्वत्र नञोऽनुकर्षसम्भवात् किं तदन्तरेणेति परास्तम् । अपि चात्र “न म्रियते” इति देहवियोगाभावश्च श्रूयते । मरणशब्दस्य देहवियोग एव प्रसिद्धत्वाद्देहवियोगाभावस्य चेश्वरलिङ्गत्वात् तत्प्रतिपादकः पूर्वार्ध इति भावेनाह॥ मरणमिति॥ देहवियोग इव स्वरूपनाशेऽपि मरणशब्दस्य प्रसिद्धत्वात् सोऽर्थः किं न स्यादित्यतः स्वरूपनाशे मरणशब्दस्य प्रसिद्धिरेव नास्तीत्याह॥ न हीति॥ यदि मरणशब्दस्य न स्वरूपनाशोऽर्थः तर्हि ईश्वरस्वरूपानाशे नायं मन्त्रः प्रमाणं स्यात् । तदभिधायकशब्दान्तराभावात् । तथा च मरणशब्दस्य स्वरूपनाशेऽर्थे ग्राह्ये नैतद्बलात् पूर्वार्धस्येश्वरपरत्वसिद्धिरित्यत आह॥ स्वरूपेति॥ नात्रेश्वरस्य स्वरूपानाशो वक्तव्यः । येनैतत्पदस्य तत्परत्वं कल्प्यते । यस्य देहनाशोपि नास्ति तस्य स्वरूपानाशः किमु वाच्य इति कैमुत्येनैव सिद्धेतित्यर्थः । अत्र जीवस्योत्पत्त्याद्यभावादिकथनं न श्रूयत इत्युत्तरार्धस्तद्विषय इति भावेनाह॥ अयमिति॥ अत्रापीश्वर एव प्रतिपाद्यः किं न स्यादित्यत आह॥ अन्यथेति॥ “न जायते " “अजः” इति पौनरुक्त्यम् । ननु पुनरुक्तिभयेन पूर्वोत्तरार्धयोर्विषयभेदकल्पने शाश्वतोप्यन्य एव प्रसज्यते । नित्यपदेन पुनरुक्तेरित्यत आह॥ नेति॥ न शाश्वतपदेन नित्यत्वमुच्यते । येन पुनरुक्तिः स्यात् । अपि तु जीवोप्यजो नित्यश्चेत्तर्हि ईश्वरवत्स्वातन्त्र्यादिमानपि स्यात् । तथा च न तत्पूजा कार्येति शङ्कानिरासाय तस्यास्वातन्तर्याद्यहानमेवोच्यत इति भावः । जीवसायास्वातन्त्र्यादिकं स्वरूपं, तच्च न जहाति, तेन च शाश्वत इत्युच्यत इत्येतत्कुत इत्यत आह॥ अल्पेति॥ तथापि पुराण इति पुनरुक्तिरित्यत आह॥ पुराणीति॥ नानेन पुराणपदेनानादित्वमुच्यते । येन पौनरुक्त्यं स्यात् । किन्तु जीवस्येश्वरवदजत्वादिसद्भावेऽपि कुतो न स्वातन्त्र्यादीत्यतो देहोत्पत्त्यादिभावेन तद्वदजत्वाद्यभाव एवोच्यत इति भावः॥ २०॥ यदुक्तं “जीवे स्वातन्त्र्यं मन्यमानो न जानाति” इति तत्र “नायं हन्ति” इति हेतुरुक्तः । अथ ज्ञानिनां तादृशाभिमानाभावश्च तत्र हेतुरुच्यते “वेदेति” । तत्राविनाशिनित्यपदयोः पौनरुक्त्यपरिहारायार्थभेदमाह॥ अविनाशिनमिति॥ जीवस्य समीपोक्तत्वादेनमित्यस्य जीवविषयत्वप्रतीतिनिरासायाह॥ एनमिति॥ समस्तश्लोकं श्रुत्यैव व्याचष्टे॥ कर्तृत्वमिति॥ जानन् अविनाशित्वादिहेतुनेति शेषः । कर्ता कर्तृत्वाभिमानी । जीवस्य समीपोक्तत्वात्तद्विषयोऽयं श्लोकः किं न स्यादित्यत आह॥ अन्यश्चेति॥ ईश्वरस्य शरीरापायरहितत्वात् तत्परत्वे शक्यते पुनरुक्तिपरिहारः । न तु जीवपरत्वे । तस्य देहनाशसद्भावात् । अतः पुनरुक्तिविरोधाते समीपोक्तमपि जीवं विहायेश्वरग्रहणं युक्तमिति भावः॥ २१॥ नन्वस्त्वीश्वरविषये शोकाभावो, जीवविषयो तु भविष्यति । जीवो नित्यस्तस्य देहयोगवियोगौ कौमारादिवदित्युक्तेऽपि सर्वलोकप्रसिद्धजनिमृतिसद्भावात् युद्धे च तत्प्राप्तेरियाशङ्कापरिहारत्वेन श्लोकमवतारयित॥ जीवस्येति॥ शरीरयोगवियोगयोः कौमरादिवच्छोककारणत्वाभावोऽङ्गीकृतश्चेत्तर्हि जनिमृती अपि न शोककारणं, यतः शरीरयोगवियोगावेव जनिमृती इत्यर्थः॥ २२॥ अस्त्यीश्वरस्य स्वतो नाशाभावः । तथापि युद्धगतशस्त्रादिकारणविशेषेण च्छेदादिप्राप्तेः शोक इत्याशङ्कापरिहारत्वेन श्लोकमवतारयति॥ कारणत्ऽपीति॥ अन्यथात्वं छेदादि॥ २३॥ जीवविषयेऽप्येतदाशङ्कापरिहाराय श्लोकमवतारयति॥ अच्छेद्यत्वेति॥ ननु “नित्यः सर्वगतः” इति नित्यत्वं पुनः किमर्थमुच्यते । अत्र सर्वगतवस्तुप्रतिपादनात् कथं चास्य जीवविषयत्वम्? न चायमर्ध ईश्वरविषयः । जीवस्य समीपोक्तत्वादित्यत आह॥ नित्यमिति॥ नित्यं सर्वगतस्थाणुरित्यर्थः । कः सर्वगतः? किं च तत्स्थत्वमित्यत आह॥ सर्वगत इति॥ नात्र नित्यत्वं सर्वगतत्वं चोच्यते । येन पुनरुक्तिरीश्वरविषयत्वं चाशङ्केत । किन्तु “जीवस्यापीश्वरवदच्छेद्यत्वादिसद्भावे सर्वसाम्यम्, तथाच किं तत्पूजया” इत्यतो नित्यं तदधीनत्वाद्येवोच्यत इति भावः । सर्वगतस्थाणुत्वोक्त्या वैषम्यहेतुर्दर्शितः । नन्वत्र सर्वगत इत्येव युक्तम् । न तु सर्वगतस्थ इत् । सर्वगतसयैवाचलत्वोपपत्तेः । अणौ तदनुपपत्तेरित्यत आह॥ हेतुतोऽपीति॥ नात्राचलपदेन क्रियाराहित्यमुच्यते । येन सर्वगत इत्येव पदविभागशङ्का । किन्त्वस्तु जीवस्येश्वराधीनत्वम् । तदपि कदाचिन्नश्यति । ततश्च सर्वसाम्यम् । तथाच न तत्पूजा कार्येत्यतः तदधीनत्वानाश एवोच्यत इति भावः । नित्यपदेनैवास्यार्थस्य सिद्धेः किमन्नत्यत उक्तं हेतुत इति । नित्यमपि सर्वगतस्थत्वं वरादिकारणविशेषेण नश्यत्विति शं,आनिराकरणान्नैतद्वैयर्थ्यमिति भावः । तथापि सनातन इत पुनरुक्तिरित्यत आह॥ नादेनेति॥ न सनातनपदेन नित्यत्वमुच्यते । येन पुनरुक्तिः स्यात् । अपि तु स्वातन्त्र्याभावे जीवस्य विधिनिषेधबद्धत्वं हेत्वन्तरमुच्यत इति भावः अत एवानूक्तहेतूपन्यासात्प्राक् अस्वातन्त्र्योक्तावप्यपौनरुक्त्यम् । नन्वच्छेद्य इति श्लोकः प्रकृतेश्वरविषय एव किं न स्यात् । किमनेन प्रतीतपदविभागत्यागादिनेत्यत आह॥ नित्यमिति॥ स्मृतिसमाख्यानाज्जीवविषय एवायं श्लोक इति भावः । इतोऽपि नायं श्लोक ईश्वरविषय इत्याह॥ अच्छेद्य इति॥ “नैनं छिन्दन्ति” इतीश्वरस्याच्छेद्यत्वादेरुक्तत्वात् “अच्छेद्योऽयम्” इत्यच्छेद्यत्वादेः पुनरुक्तिप्रसङ्गोऽस्य श्लोकस्येश्वरविषयतायाम् । अतो नायं तत्पर इत्यर्थः । जीवस्य समीपोक्तत्वात् “अव्यक्तोऽयम्” इत्यस्यापि तद्विषयत्वप्रतीतिनिरासायाह॥ यस्मिन्निति॥ यस्मिन्नयं स्थित इत्युक्त्या सर्वगतपदेनेश्वरस्यापि समीपोक्तत्वं सूचयति । यद्यत्रेश्वरः प्रतिपाद्यस्तर्हितस्मादित्युत्तरवाक्यमनुपपन्नं स्यात् । न हीश्वरस्याल्वक्तत्वादिज्ञाने युद्धगतशोकाभावो भवति । नाप्यस्मिन् पक्षे तस्मादिति परामर्शविषयोऽस्ति । यदि तस्य जीवविषयता तदा दूरोक्तत्वदेष इत्यत आह॥ एवमिति॥ नात्र युद्धगतशोको निवार्यते । नापि तस्मादिति परामर्शविषयाभावः । यतोऽत्राच्छेद्यत्वादिसाम्याज्जीवस्यापि स्वातन्त्र्येण किमीश्वरपूजयेत्यतः सनातनत्वादिहेतुना ईश्वरस्यैव स्वातन्त्र्यमुक्तम् । अस्त्वीश्वरस्य स्वातन्त्र्यं, किं तावता तत्पूजयेत्यतो यस्मादीश्वर एव स्वतन्त्रोऽस्तस्यैव संसारशोकनाशकत्वं युज्यते । स च स्वकर्मणाऽव्यक्तत्वादिगुणयुक्तत्वेन ज्ञात एव सर्वसंसारदुःखनाशं संसारशोकं परिहरेत्येवोच्यत इति भावः । भवेदयमत्रार्थोऽभिप्रेतो यदि स्वकर्मणा भगवज्ज्ञानं, ज्ञातो भगवान् सर्वदुःअनाशं करोतीति गीताभिमतं स्यात् । तदेव कुत इत्यत आह॥ तेषामिति॥ अत्र मां ध्यायन्त इत्यनेनैव ज्ञानं लभ्यते । एवमेतत्प्रकरणं जीवेश्वरपरतया व्याख्याय अथास्योभयपरत्वे युक्तिं चाह॥ न त्वेवेति॥ तेषामिति॥ अत्र मां ध्यायन्त इत्यनेनैव ज्ञानं लभ्यते । एवमेतत्प्रकरणं जीवेश्वरपरतया व्याख्याय अथास्योभयपरत्वे युक्तिं चाह॥ न त्वेवेति॥ नन्वेकः प्रसङ्गादेवोपक्रान्तः । प्रकरणं त्वेकविषयमेव किं न स्यादित्यतः सर्वत्रोभयलिङ्गसद्भावादुभयविषयं प्रकरणमित्याह॥ देहिन इति॥ अस्तूपक्रमवशादुभयोः प्राकरणिकत्वं तथापि यद्वाक्यं यद्विषयतया व्याख्यातं तस्य तद्विषयता कुत इत्यतो यद्वाक्यं यद्विषयतया व्याख्यातं तत्र तल्लिङ्गसद्भावात्तस्य तद्विषयत्वं युक्तमिति वाऽह॥ देहिन इति॥ नन्वस्तु तत्र तत्र जीवः प्रतिपाद्यः । देहित्वादिविशेषणानां जीवादन्यत्र निरवकाशत्वात् । अविनाशित्वादीनां तु जीवेऽपि सम्भवात् कथं तद्वाक्यस्येश्वरविषयत्वनिश्चय इत्यत आह॥ न हीति॥ ईश्वरोऽपि तत्सम्भवः कथमित्यत आह॥ परमात्मन इति॥ न च तत्र तत्र भाष्यविरोधः शङ्कनीयः । अत्र च मुख्ययैव वृत्त्यार्थमङ्गीकृत्य पौनरुक्त्यादिशङ्कोन्मूलनं विना केवलामुख्यार्थग्रहणे बाधकानामुक्तत्वात् । भाष्ये पुनर्मुख्यार्थमपरित्यज्यैवार्थान्तरस्योक्तत्वादिति॥ तथापि नैतेषां वाक्यानामुक्तार्थता युक्ता । असङ्गतत्वादित्यतो “नासतः” इत्यन्तानां सङ्गतेरुक्तत्वात् " अविनाशि तु” इत्यादीनां सङ्गतिं दर्शयन् “अविनाशि तु"इत्यस्य श्लोकस्य “नासतः” इत्यनेन सङ्गतिं साक्षादसम्भवादवतारक्रमेणाह॥ यस्मादिति॥ एवम्भूत इति॥ सर्वप्रकारेणाविनाशीत्यर्थः । अस्य श्लोकस्योक्तप्रकारेण “अनाशिनः” इति वक्ष्यमाणेनापि सङ्गतिरित्याह॥ अतस्तदर्थमिति॥ अथवा “नासतः” इत्येतच्छेषत्वेनापि “अनाशिनः” इत्यस्य सङ्गतिरित्यनेनोक्तम् । “अन्तवन्तः” इत्यनेनापि सङ्गतिरित्याह॥ अन्येषामिति॥ प्राकृतदेहिनश्च । जीवा इति शेषः । अनेन “शरीरिणः” इत्यन्योपयोगमाचष्टे । नित्यत्वादित्यनेन “नित्यस्य” इत्यस्य । अत एवास्य “न त्वेवाहम्” , “देहिनोऽस्मिन्” इत्यनेन गतार्थताऽपि परिहृता भवति । “नायं हन्ति” इत्यत्र हेतुतया प्रकृतानुवादोऽयमित्याश्रयणात् । अत एवोक्तं “नित्यस्योक्ताः” इति॥ “नायं हन्ति” इत्यस्य “य एनम्” इत्यनेन सङ्गतिमाह॥ तस्माद्धन्तेति॥ एतेन “नायं हन्ति” इत्येतत्पुनरुक्तम् । जीवास्वातन्त्र्यादेरुक्तस्वात् । न च “य एनम्” इत्यनेन सङ्गतिं साक्षादसम्भवादवतारक्रमेणाह॥ यस्मादिति॥ एवम्भूत इति॥ सर्वप्रकारेणाविनाशीत्यर्थः । अस्य श्लोकस्योक्तप्रकारेण “अनाशिनः” इति वक्ष्यमाणेनापि सङ्गतिरित्याह॥ अतन्तदर्थमिति॥ अथवा “नासतः " इत्येतच्छेषत्वेनापि “अनाशिनः” इत्यस्य सङ्गतिरित्यनेनोक्तम् । “अन्तवन्तः” इत्यस्योक्तरीत्या “अनाशिनः"इत्यनेन सङ्गतौ स्द्धायां “नायं हन्ति” इत्यनेनापि सङ्गतिरित्याह॥ अन्येषामिति॥ प्राकृतदेहिनश्च । जीवा इति शेषः । अनेन “शरीरिणः” इत्यस्योपयोगमाचष्टे । नित्यत्वादित्यनेन “नित्यस्य” इत्यस्य । अत एवास्य “न त्वेवाहम्”, इत्यत्र हेतुतया प्रकृतानुवादोऽयमित्याश्रयणात् । अत एवोक्तं “नित्यस्योक्ताः” इति । “नायं हन्ति” इत्यस्य “य एनम्"इत्यनेन सङ्गतिमाह॥ तस्माद्धन्तेति॥ एतेन “नायं हन्ति"इत्येतत्पुनरुक्तम् । जीवास्वातन्त्र्यादेरुक्तत्वात् । न च “य एनम्” इत्येतदुपपादनायक्तानुवादोऽयं प्रमाणानुपन्यासेनोपपादनायोगादित्येतदपि पराकृतम् । " नायं हन्ति” इत्येतत्प्रकृतम् " अन्तवन्तः” इत्यपेक्ष्य प्रवृत्तमित्युक्तत्वात् । मन्त्रवर्णस्य जीवेश्वरनित्यत्वोपपादकत्वमुक्तम् । " नायं हन्ति” इत्येतदुपपादकत्वेनापि सङ्गतिरित्याह॥ यस्मादयमेवेति॥ एतेन मन्त्रवर्णस्य जीवेश्वरनित्यत्वमात्रोपपादकत्वेऽधिकविशेषणोक्तेरनुपयोग इत्येतदपिरहृतम् । जीववदित्यनेन " पुराणः” इत्यस्योपयोगं दर्शयति । " न हन्यते” इत्यस्य पूर्वार्धप्रकृतेन परमेश्वरस्यैव स्वातन्त्र्यमित्यनेन सङ्गतिमभिप्रेत्य तद्घटनाय तात्पर्यमाह॥ जीवस्त्विति॥ अनेनास्य गतार्थता परिहृता भवति । " वेदाविनाशिनम्” इतीश्वराविनाशित्वादेः " कथं स पुरुषः" इत्यनेन साक्षात्सङ्गतेरभावादवतारक्रमेण तामाह॥ अत एवमिति॥ एतेनेश्वराविनाशित्वादेः प्रागेवोक्तत्वात्पुनरुक्तिरित्यपि परान्तम् । " कथं स पुरुषः" इत्येतदुपपादकस्वतन्त्र्योपपादनायोक्तानुवादोऽयमित्याश्रितत्वात् । " वासांसि" इत्येतस्य प्रकृतेनेश्वरस्वातन्त्र्येणापि सङ्गतिमाह॥ वासस इति॥ नैनमित्यस्य प्रकृतेनेश्वरस्वातन्त्र्येणपि सङ्गतिमाह॥ ईश्वरस्येति॥ ज्ञातव्यमिति सम्बन्धः। यद्वा तथापि नास्य प्रकरणस्योभयविषयत्वं युक्तम् । उभयप्रतिपादनस्य प्रसङगाननुगुणत्वात् । युद्धविधानस्यैव प्रकृतत्वादतो नोभयप्रतिपादनं प्रसङगानुगुणम् । युद्धं कर्तव्यं, तच्चेश्वरस्यैव स्वतन्त्रत्वेन मोक्षप्रदानसमर्थत्वात्तत्पूजात्वेन कार्यमित्यत्राभिप्रेतम्। तत्रेश्वरस्य नित्यत्वप्रतिपादनं युद्धविधानाय शोकनिवारणार्थमुपयुज्यते । तस्य सर्वप्रकारेणाविनाशरत्वादिप्रतिपादनं च तत्पूजाविधानार्थं तस्य मोक्षदत्वसामर्थ्यसमर्थनाय स्वातन्त्र्योपपादकतयोपयुज्यते । जीवस्य नित्यत्ववर्णनं युद्धविधानाय शोकनिवारणार्थमुपयुज्यते । तस्य देहनाशादिवर्णनमपि शोकनिवारणाय परमेश्वरस्यैव स्वातन्त्र्यसिद्ध्यर्थं जीवस्यास्वातन्त्र्यप्रदर्शनायोपयुज्यते-इति भावेन सर्ववाक्यान्यभिप्रेतार्थे योजयति॥ यस्मादेवम्भूत इति॥ सर्वप्रकारेणाविनाशीत्यर्थः । यस्मादेवम्भूत इत्यविनाशित्वित्यभिनते प्रमेये योज्यम् । अतन्तत्पूजेति नासत इति । अतन्तदर्थमित्यनाशिन इति । अन्येषामित्यन्तवन्त इति । प्राकृतदेहिन इति शरीरिण इति । अत इति नायं हन्तीति । नित्यन्वादिति न हन्यत इति । तस्मादिति य एनमिति । यस्मादिति न म्रियत इति । तत्संयोगेति नायं भूत्वेति । जीवस्त्विति न हन्यत इति । अत एवमिति वेदेति । वासस इति वासांसीति । ईश्वस्येति नैनमिति । यद्यप्येतद्व्याख्यानत एव सिद्धं, तथापि विप्रकीर्णतयोक्तं न मन्दबुद्धावारोहतीति पिण्डीकृत्योक्तम् । अत्र “नैनं छिन्दन्ति " इति वर्तमानप्रयोगः कालान्तरच्छेदाद्यनुज्ञार्थ इत्यन्यथाप्रतीतिनिरासायाह॥ नैनमिति॥ न कालान्तरच्छेदाद्यनुज्ञार्थं वर्तमानप्रयोगः । किन्तु मम देहे छेदादिकं नास्तीति तत्र युक्तितया छेदादिप्रापितिसद्भावेऽपीदानीं तदभावस्य प्रत्यक्षत एव दर्शयितुं शक्यत्वसूचनार्थमेवेति भावः । अत्रेश्वरस्वरूपस्यैव चेदादेयभावः कथ्यते न तु तद्देहस्यापि । देहस्य “निशतशरैर्विभिद्यमानत्वचि " इति तद्भावोक्तेः । अतः स्वदेहस्येति कथमुच्यत इत्यतोऽभिप्रायमाह॥ च्छेदेति॥ मृषा प्रदर्शनं किमर्थमित्यत आह॥ ईश्वर इति॥ कुतो मृषा, परमार्थत एव किं न स्यादित्यतो वाऽह॥ ईश्वर इति॥ स्वतन्त्रस्य परमार्थतस्तदयुक्तमित्यर्थः॥ २४॥ “अव्यक्तोऽयम्” इतीश्वरविषयमित्युक्तम् । तत्रेशवरस्याव्यक्तत्वादिकथने का सङ्गतिरित्यतः “सर्वगतस्थाणुः"इति परमात्मनः सर्वगतत्वमभिहितम् । तत्रेश्वरस्य देहोऽस्ति न वा? आद्ये देहिनः सर्वत्र वर्तमानस्य सर्वत्र दर्शनं स्यात् । द्वितीये शरीरच्छेदादिनिरासो न युक्त इत्याशङ्कानिरासायाद्यपदमवतारयति॥ सर्वेति॥ देहित्वेऽव्यक्तत्वं कथं युज्यत इत्याशङ्क्य तत्परिहातत्वेनाचितन्त्यपदं व्याचष्टे॥ कथमिति॥ अविन्त्यशक्तेः प्रतिवन्धे नाशे वा सति प्रतीतिप्रसङ्ग इत्याशङ्कापरिहारायाविकार्यपदं व्याचष्टे॥ न चेति॥ नन्वेकेनैव शब्देन पूर्तेः किमर्थं नैनमित्यत्र प्रति प्तत्येनमिति वचनम् । “अव्यक्तोऽयम्"इत्यत्र प्रतिविशेषणम् “अयम्"इति वचनं च किमर्थमित्यत आह॥ यानीति॥ आदिपदेन नञो ग्रहणम् । अनेन प्रतिविशेषणमपि वीप्सारूपेण “एनम्"इत्यादिबहुशब्दयोजनां सूचयति । एवं चेज्जीवस्य बाहुल्याभावात् “अच्छेद्योऽयम्"इति पृथग्वचनं व्यर्थमित्यत आह॥ जीवे त्विति॥ जीवे कृथग्वचनमिति शेषः । नन्वीश्वरस्य देहवत्त्वं, तस्य च देहस्य छेदादिराहित्यमेवम्भावश्च सर्वरूपाणामित्येतत्कुत इत्यत उक्तम् “उच्यते"इति पदं व्याचष्टे॥ सर्वमिति॥ कास्ताः श्रुतय इत्यत आह॥ सदिति॥ छेदादिदोषरहितो देहो यस्यासौ सद्देहः । सुखगन्धः । सुखात्मकगन्धो वा । ज्ञानज्ञान इत्यादेरतिशयितज्ञानादिमानित्यर्थः । नन्वीश्वरस्य देहसद्भावे श्रुतिविप्रतिपत्तेस्तत्सन्देह एव स्यात्कुतो निश्चयस्तद्भावस्येत्यतः श्रुत्यन्तरेण तद्व्यवस्थां दर्शयति॥ अदेह इति॥ स्वरूपवान् स्वरूपभूतदेहवान्॥ सुखज्ञानादिरूपकः॥ अस्तीति सम्बन्धः । ततश्च देहवानुच्यत इत्यनुषज्यते । देहदेहिनोरैक्यमन्यत्रादृष्टं कथं युज्यत इत्यत आह॥ स चेति॥ ननु सुखज्ञानादिरूपकः॥ अस्तीति सम्बन्धः । ततश्च देहो विष्णोरनन्यश्चेत् तदा तस्य सुखादिगुणरूपत्वं प्रसज्यते । न च तद्युज्यते । “आनन्दभुक्” इत्यादावानन्दभोक्तृत्वस्योक्तत्वात् । एकस्य च भोक्तृभोग्यभावादर्शनादित्यत आह॥ गुणेति॥ दृष्टोप्ययमभिन्ने भोक्तृभोग्यभावः किन्निमित्त उपपद्यत इत्यत आह॥ अभिन्नेऽपीति॥ अस्ति । तेनाभिन्नेऽपि भोक्तृभोग्यभाव उपपद्यत इति शेषः । विशेषसद्भाव एव कुत इत्यत आह॥ अयमिति॥ नन्वयं विशेषो विशेषितेऽन्योऽनन्यो वा? आद्ये भेदपरम्परयाऽनवस्था । द्वितीये विशेषविशेषिभावव्यवहारायोदः । तत्रापि विशेषाङ्गीकारेऽनवस्थेत्यत आह॥ विशेषोऽपीति॥ विशेषो विशेषितोऽनन्य इति न भेदपरम्परयाऽनवस्था । न एव विशेषो यथाऽभिन्नेऽपि वस्तुनि भोक्तृभोग्यभावनिर्वाहकः तथा विशेषितो भेदरहितस्यापि स्वस्य विशेषत्वं, विशेषिणो विशेषित्वं च निर्वहतीति न विशेषपरम्परयाऽप्यनवस्थेत्यर्थः । इतोप्येकस्यैव हरेर्भोक्तृभोग्यभावो युक्त इत्याह॥ परमेति॥ अभिन्नस्यैव स्वस्य भोक्तृभोग्यभावेऽनुपपत्तिं परिहर्तुं हरेरैश्वर्यं कुत इत्यत आह॥ युक्तेति॥ युक्तायुक्तत्वं वस्तुनोरिति शेषः । तत्र ईश्वरे । तर्हीश्वरे दुःखित्वाद्यपि कल्प्यतामयुक्त्यभावादित्यत उक्तम् । प्रमाणेति॥ एकस्यैव भोक्तृभोग्यत्वादिकं प्रमाणावगतत्वाद्विरुद्धमप्यैश्वर्यबलादङ्गीकार्यं नान्यत् । तस्याप्रामाणिकत्वादिति भावः । एकस्यैव भोक्तृभोग्यभावादिगुणा एवेश्वरस्य प्रमाणिका न दुःखादिदोषा इत्यत्र श्रुत्यन्तरं चाह॥ गुणा इति॥ कथं न दोषाः श्रुताः? “जनितोत विष्णोः"इत्यादौ प्रतीतेरित्यत आह॥ अज्ञैरिति॥ पिरकृतगुणानां भगवताऽभेदे, सर्वाण्यपि रूपाण्योवंविधानीत्यत्र च श्रुतीराह॥ एकमिति॥ एकम् एकत्वहङ्ख्यायोगि । एवेत्यवहवादिभेदनिराकरणम् । अद्वितीयं समाभ्यधिकरहितम् । किञ्चन नानेति रूपावयवगुणकर्मभेदः । तर्हि भेदाभेदौ स्यातामित्यत आह॥ मृत्योरिति॥ मृत्योः मृत्युं तम आप्नोति । नानेवेति भेदाभेदौ भेददर्शने कोऽनर्थ इत्यत आह॥ यथेति॥ यथा पर्वतेषु दुर्गे शिखरे वृष्टमुदकम् अधो विधावति एवं गुणादीन् भिन्नान् पश्यन् तान् दृष्टाननु तेषामेव दर्शनान्तरमधो विधावतीत्यर्थः । सर्वाद्वैतपराः श्रुतय एता इत्यतस्ताः स्मृत्यैव व्याचष्टे॥ मत्स्येति॥ अत्यन्ताभेदे व्यवहारभेदः किन्निमित्त इत्यत आह॥ अभेदेऽपीति॥ यद्यभिन्नषु गुणादिविशेषेषु विशेषो वरितते तर्हि विशेषिणां विशेषस्य तथाभेदविशेषयोः भेदोऽभेदो वा । आदेयेऽनस्था । द्वितीये व्यवहारविशेषायोगः । तत्रापि विशेषाङ्गीकारेऽनवस्थैवेत्यत आह॥ विशेषिणामिति॥ विशेषिणां विशेषस्य तथाभेदविशेषयोः भेदाभावान्न भेदपरम्परयाऽनवस्था । न च व्यवहारविशेषानुपपत्तिः । यतन्तत्त विशेषोऽङ्गीक्रियते । न चैवं विशेषपरम्परयाऽनवस्था । य एव विशेषोऽभिन्नेष्वपि गुणगुण्यादिषु व्यवहारभेदनिर्वाहकः स एव विशेषो विशेषविषेष्यादिव्यवहारभेदनिर्वाहक इत्यङ्गीकारादित्यर्थः । मत्स्तादीनामभेदेऽपि इन्द्रार्जुनादिवत्तारतम्यमपि नास्तीत्याह॥ प्रादुर्भावेति॥ के ते मत्स्यादयः प्रादुर्भावा इत्यत उक्तमेव विवृणोति॥ मत्स्येति॥ ब्रह्मादयोऽपि भगवदवतारत्वेनान्यत्रोच्यन्ते । ते हि किमत्रादिशब्देन गृहीता उतानवतारा एवेत्यपेक्षायामाह॥ ब्रह्मेति॥ तर्ह्यति॥ तर्ह्यवतारत्वोक्तेः का गतिरित्यत आह॥ विष्णुनेति॥ आवेशाविशेषवत्तया तदुक्तिरित्याशयः । साक्षादवतारा एव किं न स्युरित्यत आह॥ संसरिण इति॥ तेष्वेवेति॥ शेषसनत्कुमारानिरुद्धशक्रयमाश्विषु लक्ष्मणभरतशत्रुघ्नबलप्रद्युम्नानिरुद्धनरार्जुनयुधिष्ठिरनकुलसहदेवत्वेन जातेष्वत्यर्थः । अर्जुनादिचतुर्षु नैकप्रकारावेश इत्याह॥ स्वल्प इति॥ अवताराणामनवतारत्वेनानवताराणामवतारत्वेन ज्ञानं सङ्करज्ञानम्॥ २५॥ एवं स्वयं युक्तीरुक्त्वा शोको न कार्य इत्युक्तम् । तत्र देहसिद्धम् । तेनैव शोको न कार्य इत्युच्यते “अथेति”। तत्र मुक्तस्यापि जननमरणसद्भावं पराकर्वन्नेव श्लोकं व्याचष्टे॥ तिष्ठत्विति॥ “अथ च” इत्यस्यार्थस्तिष्ठत्विति । तथापीत्यनूद्य तावन्मात्रज्ञानेनापीति व्याख्यानम् । नित्यपदस्य नियमवाचित्वे मानाभावात्कथं नियमेनेति व्याख्येत्यत आह॥ नित्यमिति॥ एवं नित्यपदस्योभयार्थत्वे नियमार्थग्रहणे को हेतुरित्यत आह॥ अत्र त्विति॥ एतच्छ्लोकार्थविवरणात्मकोत्तरश्लोके नित्यपदस्य ध्रुव इति विवृतत्वादित्यर्थः॥ २६॥ जननमरणनियमोऽत्र शोकनिवारणे हेतुतयोक्तः स्फुटं प्रतीयते । प्रागभिप्रेते जीवस्यास्वातन्त्र्ये च हेतुतयाऽभिमत इति भावेनाऽह॥ तन्मादिति॥ तस्माज्जननादिनियमवत्त्वादेव । अत्र जीवे स्वातन्त्र्यबुद्धिश्च न कार्येत्यर्थः॥ २७॥ यदि जीवे नाश्चर्यबुद्धिः कार्या तर्हि कुत्रासौ कार्या? ईस्वर इत्युक्तमिति चेत्सत्यम् । किं ततोऽन्यत्रापि क्वचिदित्याशङ्क्य तत्परिहारत्वेनोक्तोपसंहाररूपं श्लोकमवतारयति॥ किं तर्हीति॥ नन्वत्राश्चर्योऽन्य एव, ईश्वरस्तु तत्सदृश एव, न स्वयमाश्चर्य इति प्रतीतेः कथमाश्चर्यो भगवानेवेत्युच्यत इत्यत आह॥ आश्चर्यमिति॥ आश्चर्यवदित्यनेन नेश्वरस्यानाश्चर्यत्वमभिप्रेयते किन्त्वाश्चर्यस्यैव सत आश्चर्योपमत्वमुच्यत इति भावः । एवमपि भगवदितरस्य स्वातन्त्र्यमङ्गीकार्यम् । तस्यैव स्वतन्त्रतायामाश्चर्यवदित्युक्त्यसम्भवात् । स्वोपमायाः क्वाप्यदर्शनात् । तथाच भगवानेवेत्यवधारणायोग इत्यत आह॥ गगनमिति॥ इतिवत्स्वोपमाभिधानमुखेन भगवदितरस्य स्वातन्त्र्याभावे तात्पर्यमत्रेति भावः । सागरं सागरसमूहः । प्रतीत एवार्थः किं न स्यादित्यतः स्वोक्तार्थे स्मृतिसम्मतिमाह॥ आश्चर्य इति॥ तद्गोचरमित्यनेन “आश्चर्यवत्” इत्येतत्क्रियाविशेषमित्युक्तं भवति । ननु भगवानाश्चर्य एव चेत्तर्हि सर्वेषामप्याश्चर्यत्वात् “कश्चित्” इति विशेषणं व्यर्थम् । न हि स्तम्भः कस्यचिदेव स्तम्भ इत्यत आह॥ अनाश्चर्यवदिति॥ यद्यपीश्वरः सर्वेषामाश्चर्य एव । तथापि विपरीतदर्शिनां बहूनां भावाद्यथावद्दर्शिनः कस्यचिदेव भावादाश्चर्यतया दर्शनं विवक्ष्य कश्यिदिति विशेषणं युक्तमिति भावः॥ २९॥ आक्षिपति॥ देहीति॥ जीवो नित्य इत्युक्तम् । तत्र किं स्वत एव नित्योऽथेश्वरसामर्थ्येन? नाद्यः । सर्वं परमेश्वराधीनमित्यभिमतविरोधात् । न द्वितीयः । नित्यस्य स्वाभाविकत्वेनेश्वराधीनत्वानुपपत्तेरिति भावः । एतत्परिहाराय देहीति श्लोकं व्याचष्टे॥ यस्मादिति॥ देहे रक्षकत्वेन स्थितश्चेत् प्रलयादौ नाशः स्यादित्यत उक्तम्॥ सूक्ष्म इति॥ सूक्ष्मदेहपदेन लिङ्गशरीरं चैतन्यशरीरं चोच्यते । नित्यत्वादेः स्वाभाविकत्वात्कथमीश्वराधीनत्वमित्यत आह॥ द्रव्यमिति॥ स्वाभाविकत्वेऽपि नित्यत्वादेरीश्वराधीनत्वं युज्यते । स्वाभावस्यापि भगवदधीनतया स्मृतिसिद्धत्वादिति भावः । जीवसत्ताया भगवदधीनत्वे चेयं स्मृतिः प्रमाणम् । तथापि जीवे स्थित्वा तद्रक्षक ईश्वर इति विशेषः कुत इत्यत आह॥ तत्रते॥ ततः तदधीने । ततस्तस्मात्तन्निन्तृत्वात् । भावाभावयोरपि नित्यानित्याबहिर्भावात्॥ ३०॥ “यद्वा जयेम” इत्युक्तस्य पक्षद्वयेऽप्यहानिः परिहार उच्यते “हतो वेति” । तत्र “हतो वा प्राप्स्यसि स्वर्गम्” इत्यत्रेव “जित्वा वा भोक्ष्यसे महीम्"इत्यत्रापि महीमात्रं न स्वर्ग इत्यन्यथाप्रतीनिरासायाऽह॥ जित्वेति॥ “युद्धे मृत एव स्वर्गं प्राप्स्यसि, जित्वा महीमेव भोक्ष्यसे” इति प्रतीत एवार्थः किं न स्यादित्यत आह॥ य इति॥ ये शूराः युद्धेषु पिरयुध्यन्ति, ये च तत्र म्रियन्ते, ये च सहस्रसङ्ख्यातधनदक्षिणादातारः तानेवायं प्रेतोऽपि गच्छतादिति यमं पिरति प्रेतस्य स्वर्गप्रार्थनाज्जयेऽपि स्वर्गप्राप्तिः श्रूयते । अतो न प्रतीत एवार्थ इति भावः॥ ३७॥ उक्तमुपसंहृत्य प्रकरणान्तरमारभ्यते “एषेति” । तत्र साङ्ख्ययोगशब्दौ दर्शनविशेषपराविति प्रतीतिनिरासाय तदर्थं सप्रमाणकमाह॥ सम्यगिति॥ अत्रोक्तयोः साङ्ख्ययोगयोर्बुद्ध्य युक्त इति प्रशस्तत्वादितरयोर्निन्दितत्वान्न तावत्रोक्ताविति भावः । इतोऽपि न साङ्ख्यपदेनात्र प्रसिद्धसाङ्ख्यं विवक्षितमित्याह॥ साङ्ख्यस्येति॥ अतिर साङ्ख्यपदेन प्रसिद्धसाङ्ख्यग्रहणे साङ्ख्योक्तमभिहितमित्युक्तं स्यात् । न च तद्युक्तम् । अत्र “न जायते"इत्यादावीश्वरस्योक्तत्वात्, साङ्ख्यस्य निरीश्वरत्वात् । अतश्च नात्र साङ्ख्यं शास्त्रविशेष इत्यर्थः । इतोऽपि नात्र साङ्ख्ययोगशब्दौ प्रसिद्धशास्त्रपरावित्याह॥ साङ्ख्यैरिति॥ अत्र पूर्वोत्तरप्रकरणयोः । साङ्ख्यादिभिः पारत्रिकानर्थहेतुत्वमेव हिंसाया अङ्गीक्रियते । न त्वैहिके । अतिर पुना राज्यार्थमेव हिंसा विधीयते । अतो न विरोध इत्यत आह॥ मोक्षेति॥ साङ्ख्ययोगशब्दयोः सोपपत्तिकमर्थान्तरं चाह॥ परमेति॥ पूर्वोत्तरप्रकरणोक्तार्थप्रतिपादकत्वादित्यर्थः । न विरोधोऽत्र तदुक्तग्रहण इति शेषः॥ ३९॥ योगः स्तूयते नेहेति । तत्र योगातिक्रमे नाशः प्रत्यवायश्च नास्तीत्यन्यथाप्रतीतिनिरासाय पूर्वार्धे स्मृत्यैव व्याचष्टे॥ प्रारम्भेति॥ तमेव विष्णुधर्मं स्मृत्या दर्शयति॥ स्वोचितेनेति॥ प्रवृत्तिर्हितकरणमप्रवृत्तिर्निषिद्धपरित्यागश्चान्यविषये नानुष्ठीयत इत्यर्थः । तस्मिन् धर्मेऽधिकारिकालप्रमाणान्याह॥ एनमिति॥ तमेव विवृणोति॥ तदिति॥ कार्तयुगत्वे त्रेतादिषु न फलप्रदोऽनध्यायाधीतवेदवदित्यत आह॥ त्रेतेति॥ कार्तयुगत्वोक्तिस्तत्र प्राचुर्येण सम्भवाभिप्रायेणेति भावः । किमस्य फलं यत्त्रेतादिष्वधिकं स्यादित्यत आह॥ एवमिति॥ कथं स एव मुच्यते? त्रैविद्यसायपि मोक्षसद्भावादित्यतः त्रैविद्यधर्मस्वरूपमुक्त्वा तद्वतो मोक्षाभावमाह॥ त्रैविद्य इति॥ त्रैविद्यस्यापि भगवज्ज्ञानादिसद्भावात्तस्यैव मोक्षहेतुत्वात्कथमसौ स्वर्गं भुक्त्वा निवर्तत इत्यत आह॥ सम्यगिति॥ किं तस्य कदापि न मोक्ष इत्यतः स्वर्गगमनावधिकथनेनैवार्थतः सिद्धमर्थं स्फुटमाह॥ क्रमेणेति॥ अन्ते समर्पयन् त्रैविद्यो यदि नियमात् प्रत्येकं सर्वाणि समर्पयतीत्यर्थः । त्रय्युक्तकर्मकरणमात्रेण त्रैविद्यो भवेत्किं भगवत्सर्वोत्तमत्वज्ञानादिनेत्यत आह॥ परमिति॥ वेदवादित्वस्य भागवतत्रैविद्ययोरपि साम्यादस्यैव किमुच्यत इत्यतो न वेदानुसारित्वं वेदवादित्वमत्राभिप्रेतमिति भावेनाह॥ वाद इति॥ विवादात्पठनादिति॥ विवादपूर्वकपठनादित्यर्थः । अस्त्वेवं वेदवादित्वं तथापि तेन मोक्षादिसिद्धेः कथं भागवतस्यैव मोक्ष उक्त इत्यतः पाषण्डादिवत्तस्य निषिद्धत्वान्न मोक्षसाधनत्वमिति भावेनाह॥ वेदेति॥ न केवलं मोक्षनाधनत्वाभावोऽपि तु तमःसाधनत्वं चास्तीत्याह॥ तेभ्य इति॥ “अनारम्भमनन्तं च” इति तमसि दुःखानुभवानुवृत्तेराद्यन्तशून्यत्वमुच्यते । “यस्मान्नैवोत्थितिः” इति तत्प्रप्तानामपुनरावृत्तिरुच्यते । तमसः पुनरावृत्तिराहित्यं कुत इत्यत आह॥ वव्रमिति॥ स्वगतानां गमनं वारयतीति वा, सदा वृणोतीति वा वरमानन्दं वारयतीति वा वव्रम् । “इत्यादिवेदमदितम्॥ ४०॥ एवंविधश्चेदयं वैष्णवो धर्मः तर्हि किमिति कैश्चिदेवैकमत्येनानुष्ठीयते, परस्परविरुद्धतया बहुभिर्नानुष्ठीयत इत्यत आह॥ बुद्धिरिति॥ केषाञ्चिदेव बुद्धेर्निर्णीतत्वात्तावन्त एवैकमत्येन विष्णुपरायणाः । बहूनामनिर्णीतबुद्धित्वात्परस्परविरोधेन न विष्णुपरत्वमिति भावः । अनेन व्यवसायेति श्लोकोपि व्याख्यातो भवति॥ ४१॥ यद्यव्यवसायात्मकबुद्धित्वमेव वैष्णवधर्मराहित्ये निमित्तं तर्ह्यव्यवसायबुद्धिस्त्याज्या स्यात् । त्यगश्च कारणपरित्यगेन स्यात् । केन कारणेनाव्यवसायबुद्धिर्भवतीति पृच्छति॥ अव्यवसायेति॥ तत्परिहाराय “याम्"इति श्लोकान् योजयति॥ यामिति॥ समाधान इति निश्चयस्य तत्त्वविषयतया दार्ढ्यमुच्यते । समाधानाभावे च न विष्णुधर्मानुष्ठानमिति वाक्यशेषः । स्मृत्यैव श्लोकान् व्याचष्टे॥ यथेति॥ तथा तथाविषयीकारि । तत्साम्यादिति॥ वस्तदुसाम्यादित्यर्थः । असतां वाक्यं कुतो वैषम्यहेतुरित्यत आह॥ स्वर्गेति॥ यद्यस्मात् । नान्यदस्तीत्यस्यार्थद्वयमाह॥ न मन्यन्त इति॥ अनुगतिः प्राप्तिः । क्रियाबाहुल्यसन्तताम् एतत्प्रतिपादकाम् । जन्मेत्यस्यार्थो बह्विति । अन्त इत्यभिप्रायमात्रम् । नान्यदस्तीत्याद्यर्थे श्रुतिं याह॥ इष्टेति॥ अन्यच्छ्रेयो भगवज्ज्ञानादि । सुकृते सुकृतप्राप्ये । अनुभूत्वा । भोगानिति शेषः । वेदवादरतत्वमुक्तार्थतया निषिद्धमित्यत्र प्रमाणान्तरं चाह॥ वेदेति॥ इष्टापूर्तं वरिष्ठं मन्यमानाः केचन स्वर्गभोगानन्तरमिमं लोकं विशन्ति । केचन हीनतरं विशन्तीत्युक्तम् । तत्स्मृत्या विवृणोति॥ य इति॥ संशयात् संशयेन । विषयीकुर्वन्तीति शेषः । श्रद्धादिसद्भाववे कथं तत्त्वज्ञानाभावः? “श्रद्धावान् लभते ज्ञानम्” इत्यादेरित्यत आह॥ निर्णेतृणामिति॥ तत्त्वज्ञानरहितश्रद्धादिकमेवैतत्फलप्रदं चेत्तर्हि कियान् विशेषस्तत्त्वज्ञानिनां भवदित्यत आह॥ यैरिति॥ आधिक्ये चिरं नेति॥ ब्रह्महत्यादेरप्यधिकपापाचरणेऽप्यल्पकालं यातनां यान्ति॥ न तु चिरमित्यर्थः । यज्ञादिमात्रेण भगवद्द्वेषिणामपि स्वर्गसिद्धेः किं जिज्ञासादिनेत्यत आह॥ तदन्येषामिति॥ विपरीतनिश्चयानामश्वमेधादिभिरपि न स्वर्गं इत्यर्थः । दुर्योधनादीनां द्वेषिणामेव स्वर्गादिदर्शनात् कथमेतदित्यत आह॥ ये त्विति॥ तथापि द्वेषिणां स्वर्गप्राप्तिसद्भावात् कथं तदन्येषां विपर्यय इत्युक्तमित्यत आह॥ तदन्य इति॥ भागवताचार्यवर्जितद्द्वेष्यभिप्रायेण तदुक्तमिति भावः । अनेन “इमं लोकम्” इत्यज्ञविषयम् । प्रमूढत्वमज्ञत्वमेव । हीनतरमिति त्ववैष्णवाचार्यवद्भगवद्द्वेषिविषयम् । तेषां प्रमूढत्वं मिथ्याज्ञानित्वमित्युक्तं भवति॥ ४२-४४ ॥ प्रतिज्ञातो ज्ञानोपाय उच्यते॥ “त्रैगुण्येति”॥ तत्र वेदानां त्रैगुण्यविषयत्वात् तान् परित्यज्य निस्त्रैगुण्यो भवेत्यन्यथाप्रतीतिनिरासायाह॥ त्रैगुण्येति॥ यापयन्तीत्यस्य प्रापयन्तीत्यन्यथाप्रतीतिनिरासायाह॥ अपगमयन्तीति॥ प्रतीत एवार्थः किं न स्यादित्यतः स्वोक्तार्थे स्मृतिसम्मतिमाह॥ आश्रित्येति॥ सत्त्वस्थत्वं सात्त्विकत्वं, आत्मवत्त्वं मनस्वित्वमित्यन्यथाप्रतीतिनिरासाय तत्त्वात्मशब्दार्थे स्मृत्यैवाऽह॥ सत्त्वमिति॥ सन्ततिः सम्यग्व्याप्तिः । सत्त्वं विष्णुश्चेत् तत्स्थत्वं स्वभाविकं किं विधियत इत्यत आह॥ सन्ततेति॥ न तदाधारतयाऽवस्थानमात्रमत्र विवक्षितमिति भावः । आत्मा विष्णुश्चेत्तद्वत्त्वं स्वभाविकं न विधेयमित्यत आह॥ परमात्मेति॥ न तु तत्सम्बन्धमात्रमिति भावः । सत्त्वस्थपदेनैवास्यार्थतः प्राप्तत्वात्किं पुनरुच्यत इत्यत आह॥ तेनेति॥ सततं विष्णुस्मरणमात्रविधावैक्येनापि तत्स्मरणं प्राप्यते । अत आत्मवत्त्वकथनेन तन्निवार्य यथावत्स्मरणप्रकार उच्यत इति भावः । अप्राप्तप्राप्तिर्योगः । प्राप्तपरिरक्षणं क्षेमः । तदुभयं सर्वथा त्याज्यमित्यन्यथाप्रतीतिनिरासायाऽह॥ विरुद्धेति॥ न केवलं शास्त्रविरुद्धविषययोगक्षेमपरित्यागमात्रमत्र विवक्षितम् । अपि तु तदिच्छात्यागोऽपीति भावेनेच्छेत्युक्तम् । प्रतीत एवार्थः किं न स्यादित्यत आह॥ अन्येथेति॥ उत्थानादीनामप्यप्राप्तप्राप्तिरूपत्वेन योगत्वात् । ततश्च “योगमातिष्ठोत्तिष्ठ” इत्यादिविरोध इति भावः॥ ४५॥ त्रैगुण्यनिवृत्त्यर्थः वेदाश्रयणं कार्यमित्यत्र युक्तिरुच्यते “यावानिति” । तत्रोदपानशब्दं, सर्वतः सम्प्लुतोदकशब्दं च स्मृत्यैव व्याचष्टे॥ उद्रेकादिति॥ सर्वकार्याणां प्रलये लीनत्वात् कथं सर्वतः सम्प्लुतोदकशब्दार्थतया प्रलयो गृह्यत इत्यत आह॥ प्रकृतिरिति॥ समस्तश्लोकं स्मृत्या व्याचष्टे॥ यावदिति॥ साधकस्य सम्भवतीति शेषः । वेदज्ञानेन कुतो विष्णुः फलं ददातीत्यत आह॥ वेदेति॥ अस्तु वेदार्थज्ञानं नाम विष्णुज्ञानम् । तथापि कुतो भागवान् फलं ददातीत्यत आह॥ ज्ञानादिति॥ वाक्यद्वयसिद्धं श्लोकार्थमेकीकृत्य दर्शयति॥ सर्वत इति॥ नन्वत्र कश्चिदुद्रिक्तत्वादिगुणः श्रूयते । स विष्णुरिति कुतः? अन्योपि किं न स्यादित्यत आह॥ सर्वे हीति॥ मुक्तानां रमायाश्चोद्रिक्तत्वात् कथमुद्रिक्तत्वेन विष्णुत्वनिश्चय इत्यत आह॥ ये चेति॥ मुक्तानामुद्रिक्तत्वेऽपि पालकवर्जितत्वाभावेनोदपानत्वासम्भव इति भावः । मुक्तानामुदपानत्वासम्भवे हेत्वन्तरं चाह॥ न चेति॥ रमायाः सर्वाभिमीनित्वेन कालादिचेष्टकत्वादसङ्ग्रहः । किञ्चोद्रिक्तत्वं तेषामङ्गीकृतमेव न तु मुख्यतोस्त्यतो न तेषामुदपानत्वमित्याह॥ न चेति॥ अनेन रमाया अपि चेष्टकत्वमनुमतमेवेति ज्ञायते । उद्रिक्तत्वादेरन्यत्रासम्भवेऽपि किमित्यत आह॥ अत इति॥ किञ्चोद्रिक्तत्वाद्येवान्यत्र न सम्भवति । किमुत सर्वतः सम्प्लुतोदके । अतोऽप्युदपानो विष्णुरेवेत्याह॥ प्रलय इति॥ मास्त्वन्येषामसम्भवात् सर्वतः सम्प्लुतोदकेऽप्युदपानत्वम् । विष्णोरपि तत्सम्भवः कुत इति चेत्परिशेषादिति ब्रूमः । श्रुतिभ्यश्चेत्याह॥ आनीदिति॥ तदेकं ब्रह्म वायुप्रेरणां विना स्वसामर्थ्येनैव कालादिकं प्रेरयति स्म । तस्मादन्यदुत्तमं वस्तु किञ्चन नाऽस । अपि तु तदेवोद्रिक्तमास । अपरं तमः प्रकृतिरस्मिन् सर्वस्मिन् देशेऽविज्ञातं सलिलं भूत्वाऽसीत् । तेन सलिलेन प्रलये सर्वं गूढमासीदित्यर्थः । अस्याग्रे सलिले समन्तात्पालकवर्जितो भगवानासीदित्यर्थः । अद्वैतः सर्वोद्रिक्तः॥ ४६॥ ऐक्यभावनं न कार्यमित्यत्र हेतुरुच्यते “कर्मणीति” । तत्रार्जुनस्य कर्मकरणे किञ्चित्सामर्थ्यमस्ति, न तु फलापादन इत्येवोच्यते । तत्कथमनेन सर्वजीवानामीश्वराभेदाभावः साध्यत इत्यत इत्यत आह॥ कर्मेति॥ नात्र त इत्युर्जुन एव गृह्यते । अपि तु सर्वजीवाः । तेषां फलापादनासामर्थ्यमुक्त्वा ईश्वरे तत्सामर्थ्यमभिप्रेयते । तेनात्रोक्तैवाभेदाभावे युक्तिरिति भावः । नन्वत्रास्त्वेतावदभिप्रेतम् । तथापि प्रतिज्ञाया अभावादभेदाभावे युक्तिरियमुक्तेति कथं ज्ञायत इत्यत आह॥ मा कर्मेति॥ फलहेतुरीश्वरः स मा भूर्मनसेत्यर्थः । अत्र श्रुतिं चाह॥ एष इति॥ स्वयं जीवः॥ ४७॥ कर्माकरणे स्नेहो माऽस्त्वित्युक्तम् । किं तर्हीत्यत उच्यते “योगस्थः” इति । तत्र कर्मसङ्गं त्यक्त्वा कर्माणि कुर्विति व्याहतमित्यत आह॥ सङ्गमिति॥ न सङ्गपदेन कर्मसम्बन्धोऽभिधीयते । येन व्याहतिः । अपि तु फलस्नेह एवेति भावः॥ ४८॥ ज्ञानात्कर्माधममित्युक्तम् । तर्हि ज्ञानस्योत्तमत्वात् ज्ञानावास्थायामीश्वरैक्यभावनं युक्तमित्याशङ्कापरिहारायोच्यते बुद्धाविति । तत्रैतच्छङ्कापरिहारः कथमुक्त इत्यत आह॥ बुद्धाविति॥ अस्मिन्नेवार्थे स्मृतिसम्मतिं दर्शयंस्तयैवोत्तरपादमपि व्याचष्टे॥ अज्ञानामिति॥ फलहेतुपदव्याख्यानं “तं ये स्वैक्येन” इत्यादि पूर्ववत् । कृपणाः कृपाविषयाः । तत्र हेतुमाह॥ तमसीति॥ ४९॥ नन्वस्तु ज्ञानस्याधिक्यं, ततश्च किमित्यतः “तस्मात्"इति ज्ञानसाधनमापाद्यमित्युक्तम् । तत्रास्तु ज्ञानसाधनापादनम् । किं फलस्नेहरहितकर्मणेत्याशङ्कायां फलस्नेहरहितकर्मैव ज्ञानसाधनमिति वक्तव्यम् । किमर्थमत्र कर्मकौशलस्य ज्ञनसाधनत्वमुच्यत इत्यतः फलस्नेहराहित्यादियुक्तकर्मैव कर्मकौशलपदेनोच्यत इति भावेनाह॥ यथावदिति॥ “योगस्थः” इत्यत्र भगवज्ज्ञानस्यापरिगृहीतत्वादत्रापि न तदभिप्रेतमित्यत आह॥ भगवदिति॥ एतच्छ्लोकार्थविवरणात्मकोत्तरश्लोके “बुद्धियुक्तः"इति भगवज्ज्ञानस्यापरोक्षज्ञानसाधनत्वेन गृहीतत्वादत्र पूर्वत्रापि तदभिमतमिति भावः॥ ५०॥ ५१॥ कियत्पर्यन्तमवश्यं कर्तव्यानि मुमुक्षुणैवं कर्माणीत्यत उच्यते यदेति । तत्र निर्वेदपदेन वैराग्यमुच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ निर्वेदमिति॥ एतच्छ्लोकद्वयं स्मृत्यैव व्याचष्टे॥ बुद्धीति॥ श्रोतव्यश्रुतपदं सर्वकर्मोपलक्षकम् । समाधानेन श्रुत्यर्थज्ञाननिश्चलत्वेनापरोक्षज्ञानं भवति । अनेन “नमाधावचला” इति समाधौ सत्यपरोक्षज्ञानं तेन विष्णावचलेति व्याख्यातं भवति । तद्योगं भगवद्योगम् । भगवद्योगस्य सर्वेषामपि विद्यमानत्वात् को विशेष इत्युक्तं विवृणोति॥ मुक्ति इति॥ तदश्र्नुते ब्रह्माप्नोतीत्यर्थः । अत्रापि यदा तदेति सम्बध्यते । नन्वत्र “श्रुतिविप्रपतिपन्ना” इति श्रुतिविरुद्धत्वमुच्यते । तत्कथं श्रुतिमार्गं प्रपन्नेति व्याख्योत्यत आह॥ श्रुताविति॥ ५२॥ ५३॥ प्रकृतज्ञानिलक्षणादिप्रश्नः क्रियते स्थितेति॥ तत्र “का भाषा” इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे॥ केति॥ ननु ज्ञानीति भाष्यत इति सिद्धत्वात्किं प्रश्नेनेत्यत आह॥ कैरिति॥ “समाधिस्थस्य"इत्यस्य समाधिं कुर्वतो ज्ञानिनो लक्षणादि पृच्छतीत्यन्यथाप्रतीतिनिरासार्थमाह॥ समाधीति॥ ५४॥ ज्ञानिलक्षणमुच्यते प्रजहातीति॥ तत्र ज्ञानिनः सर्वकामप्रहाणं नाम निषिद्धानिषिद्धसर्वकामप्रहाणमित्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे॥ सर्वेति॥ कुतो न ज्ञानिनः सर्वकामनिवृत्तिः, यतः सर्वशब्दसङ्कोचऋ क्रियत इत्यत आह॥ अपरोक्षति॥ ज्ञानिनः कदाचिन्निषिद्धममनिवृत्तिरपि नास्ति । कुतः सर्वकामनिवृत्तिरित्यर्थः । तर्हि ज्ञानस्याभिभवकाले ज्ञानिलक्षणाभावाज्ज्ञानित्वाभावः प्रसज्यत इत्यतः सत्यमित्याह॥ अत इति॥ निषिद्धकामराहित्यस्य ज्ञानानभिभवकाल एव सत्त्वादित्यर्थः । ननु यदि कदायिद् दृशिरभिभूयते तर्हि सा न मोक्षसाधनं स्यात् । कादाचित्कतया दौर्बल्यादित्यत आह॥ तथापीति॥ योग्या स्वबिम्बविषया । “आत्मन्येवात्मना"इत्यात्मशब्दौ जीवमनःपरावित्यन्यथाप्रतीतिनिरासायाह॥ आत्मनीति॥ कुतो न जीवादिपरोवित्यत आह॥ तुष्ट इति॥ अत्रात्मस्थित्यादिना तुष्ट्यभिधानाज्जीवस्थित्यादिना तदसम्भवान्न तत्परावात्मशब्दाविति भावः॥ ५५॥ एतादृशं चेज्ज्ञानं तत्किं सर्वे न साधयन्तीत्यतो निराहारत्वेनेन्द्रियजयस्तेनैव ज्ञानमित्यतिदुःसम्पादत्वं ज्ञानस्योच्यते “विषया” इति । तत्र रसशब्दस्यापूर्वमर्थमाह॥ रस इति॥ ५९॥ वीतरागेत्यादिना रागादिराहित्यं ज्ञानिलक्षणमुक्तम् । जिज्ञासुना च तत्साध्यम् । कारणफलपरिज्ञाने च रागादित्यागो भवति । अतो रागादिपरिहाराय तत्कारणफले उच्येति “ध्यायत” इति । तत्र सम्मोहस्मृतिविभ्रमपदाभ्यां विपरीतज्ञानमेवोच्यते । अतः कथं हेतुहेतुमद्भाव इत्यत आह॥ सम्मोहादिति॥ अत्र सम्मोहपदेन परवित्तापहरणाद्यधर्मे धर्मबुद्धिरित्यादिमिथ्याज्ञानमुच्यते । स्मृतिविभ्रमपदेन च परवित्तापहरणादेरधर्मत्वाभिधायकश्रुत्याद्यर्थस्य पूर्वं स्वयं ज्ञातस्याप्यन्यथास्मरणमुच्यते । तयोश्च हेतुहेतुमद्भावस्सम्भवतीति भावः । स्मृतिभ्रंशाद्बुद्धिनाश इति दुर्घटम् । चेतनस्य बुद्ध्यविनाभावित्वेन बुद्धेर्नाशायोगादित्यत उक्तं विवृश्वन्नाह॥ वाक्येति॥ निर्णीतं केवलवाक्यसापेक्षतां विनापि निश्चितम् । न तु ज्ञानमात्रमिति भावः॥ ६३॥ इन्द्रियजये जाते मनसः स्वतोऽपि प्रायो विषयागतिलक्षणेन प्रसादेन मोक्षलाभादसावापाद्य इत्युक्तम् । तदनापादने दोषश्चोच्यते नास्तीति । तत्र भावनायाः शान्तिसाध्यत्वात् “न चाभावयतः शान्तिः " इति कथमुच्यत इत्यतो न शान्तिपदेनत्र चित्तनिरोध उच्यते । अपि तु भगवन्निष्ठबुद्धित्वम् । तच्च भावनासाध्यं भवतीति भावेन शान्तिशब्दार्थं सप्रमाणकमाह॥ शान्तिरिति॥ ६६॥ पिण्डीकृत्योक्तलक्षमुच्यते या निशेति । तत्र सर्वप्रेरकाणां देवानामपि ज्ञानित्वाज्ज्ञानिनां परमात्मेतरादर्शने लोकयात्रोच्छेदः स्यादित्यतस्तद्वाक्यं देवेतरज्ञानिविषयतया स्मृत्यैव व्याचष्टे॥ देवेभ्य इति॥ “यथाऽन्यैः " इत्यनेन पूर्वार्धतात्पर्यमुक्तं भवति । यथाज्ञैर्बृह्म न ज्ञायत इत्यर्थः॥ सूर्यवदिति॥ सूर्यो यथा स्वतेजसा सर्वं प्रकाशयत्येवं स्वज्ञानेन सर्वं विषयीकुर्वन्तीत्यर्थः॥ ६९॥ एवं ज्ञानी सर्वत्रोदासीनश्चेत्कथं विषयभो,स्तस्येत्यत उच्यते आपूर्यमाणमिति । तत्स्मृत्यैव व्याचष्टे॥ भुञ्जान इति॥ धर्ममयीं धर्माख्याम् । विषयभोक्ता न कामी कथमुच्यत इत्यत उक्तस्य “न कामकामी " इत्यस्यार्थो नासाविति । ननु कामाभावे विषयभोगासम्भवात् कथं ज्ञानिनः कामाभावो मोक्षसिद्ध्यर्थमुच्यत इत्यतोऽत्र कामपदेन निषिद्धेच्छैवाभिप्रेता । तस्या एव मोक्षविरोधित्वात् । नेच्छामात्रं तस्य मोक्षाविरोधित्वादित्याह॥ केति॥ कुत्सितेयमिति मानं यद्विषये सैवेच्छा काम इत्यर्थः । इतश्च “न कामकामी " इत्यत्र नेच्छामात्रनिषेध इत्याह॥ न चेति॥ ननु शान्तिशब्दस्य भगवन्निष्ठावाचित्वात् कथं स मुच्यत इति व्याख्येत्यतो भगवन्निष्ठासम्बन्धादेव मोक्षोऽपि शान्तिशब्दाभिधेय इति स्मृत्यैवाह॥ शान्तिरिति॥ ७०॥ पूर्वश्लोकोक्तं प्रपञ्च्यते विहायेति । तत्र कामपदेन यदीच्छा गृह्यते तर्हि निःस्पृह इति पुररुक्तिः । यदि विषयान्तर्हि विषयत्यागे किं भक्षयति । निःस्पृहत्वं च कथं युज्यते । सर्वकामनिवृत्तिरिति वचनविरोधात् । जीवनाद्यभावप्रसङ्गाच्चेत्यत आह॥ निषिद्धेति॥ सर्वकामपदेन विषयाणां ग्रहणान्न पुररुक्तिदोषः । नापि चरणासम्भवः । अत्र निःस्पृह इत्यनेन विषयाणां स्वरूपतो हानमन्तरेण स्पृहाभावमात्रेण हानस्याभिप्रेतत्वात् । नापि स्मृतिवचनादिविरोधः । निःस्पृह इति निषिद्धविषयस्पृहाभावस्य विवक्षितत्वादिति भावः॥ ननु ज्ञानिनामप्यहं ममेति प्रत्ययप्रयोगदर्शनात् कथं तस्योच्यते निरहङ्कारत्वादीत्यतो नाहमित्यादिज्ञानादिमात्रमहङ्कारादीति भावेन स्मृत्यैवाहङ्कारादिशब्दर्थामाह॥ अस्वरूप इति॥ ममता मदधीनमिति भावना॥ ७१॥ उक्तलक्षणमुपसंह्रियते एषेति । तत्र ब्राह्मीति ब्रह्मधर्मभूतेति प्रतीतिनिरासायाह॥ ब्राह्मीति॥ ननु “क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे " इत्यादेर्ज्ञानमात्रेण सर्वकर्मणां क्षयाज्ज्ञानानन्तरमेव मोक्षसद्भावेन “स्थित्वाऽस्याम् " इत्यन्तकाले भगवत्स्मृत्यादिविधानं ब्रह्मप्राप्त्यर्थं किमिति क्रियत इत्यत आह॥ ज्ञानिनामिति॥ ज्ञानिनामपि यद्यन्तकाले भगवत्स्मरणादि नास्ति तर्हि जन्मान्तरमेव भवति । न ब्रह्मप्राप्तिरतस्तदर्थमन्तकाले तत्स्मरणादिविधानं युक्तमेव । न च ज्ञानिनः क्षीणकर्मत्वाज्जन्मान्तरायोगः । ज्ञानमात्रेणाप्रारब्धकर्मनाशेऽपि येषामन्तकालेऽपि न भगवत्स्मरणं तेषां प्रारब्धकर्मभावादिति भावः । यदि मोक्षर्थं साक्षादन्तकाल एव भगवत्मृत्याद्यपेक्षितं तर्हि तस्य दुःसम्पादत्वेन कस्यापि मोक्षो न स्यात् । अतः साक्षादन्तकालस्मरणं सात्र भगवतोऽभिप्रेतमित्यत आह॥ प्रारब्धेति॥ न मोक्षर्थमन्तकालस्मरणापेक्षायां कस्यापि मोक्षप्रसङ्गः । प्रारब्धकर्मण एवान्तकालस्मरणप्रतिबन्धकत्वेन तन्नाशेऽन्तकाले स्मरणनियमात् । तद्भावे च मोक्षनियमादिति भावः । नन्वन्तकालस्मरणादेव मोक्षो नान्यथेति भगवदभिमतमिति निश्चयो यदि भवेत्तदैवमर्थकल्पना भवेत् । न एव कुत इत्यत आह॥ यं यमिति॥ “शान्तिर्मोक्षोऽथ निर्वाणम् " इत्यादेर्निर्वाणशब्दस्य मोक्षेऽपि प्रसिद्धेर्ब्रह्म निर्वाणमिति कथं सामासाधिकरणम् । न च ब्रह्म निर्वाणं चेति योजना । ब्रह्मप्राप्त्यतिरिक्तमोक्षानिरूपणादित्यत आह॥ बाणमिति॥ बाणशब्दस्य शरीरवाचित्वान्निर्वाणपदेन कार्यब्रह्मव्यावृत्त्यर्थं ब्रह्मणोऽशरीरत्वमेवोच्यते । न मोक्ष इति भावः । ननु कथमशरीरत्वं ब्रह्मणः । सहस्रशीर्षेत्यादिविरोधादित्याशङ्कां स्मृत्यैव परिहरति॥ अभावादिति॥ ७२॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां द्वितीयोऽध्यायः॥ २॥
पूर्वाध्यायसङ्गतत्वेनैतदध्यार्थं हर्शयितुं पूर्वाध्यायप्रतिपाद्यमाह॥ ज्ञानमिति॥ “एषा तेऽभिहिता " इत्यन्तेन ज्ञायत इति ज्ञानमीश्वरादिस्वरूपं निरूपितम् । ततोऽध्यायपरिसमाप्तिपर्यन्तं तत्स्वरूपज्ञानोपयश्चोक्तः पूर्वाध्याय इत्यर्थः तत्सङ्गतत्वेनैतदध्यायार्थमाह॥ तत्रेति॥ तयोर्ज्ञानयोगयोर्मध्ये योगोऽपि द्विविधो भवति । कर्मध्यानयोगभेदात् । तत्र प्रागुक्तमेव कर्मयोगं प्रपञचयत्यनेनाध्यायेन भगवानित्यर्थः । ननु “कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा " इत्यादिना पूर्वत्रापि कर्मयोगस्य प्रपञ्चितत्वात् किमन्नाध्यायेनेत्यत उक्तम्॥ विशेषत इति॥ नन्वत्रापि “इन्द्रियाणि पराणि " इत्यादिना ज्ञानस्याप्युक्तेः कथं कर्मयोगं प्रपञ्चयतीत्युच्यत इत्यतो वाऽह॥ विशेषत इति॥ प्राचुर्येणेत्यर्थः । ननु कर्मणः सकाशाद्बुद्धेर्ज्यायस्त्वं प्राक् कुत्रोक्तम्? यद्बीजोऽयं “ज्यायसी चेत्कर्मणः " इत्यर्जुनप्रश्न इत्यत आह॥ दूरेणेति॥ १-२॥ “लोकेऽस्मिन् " इति परिहारवाक्ये केषाञ्चिदधिकारिणां ज्ञानमेव केषाञ्चित् कर्मैवानुष्ठेयमुच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ ज्ञानेति॥ नात्र ज्ञानयोगपदेन ज्ञानमात्रं विवक्षितं, कर्मयोगपदेन च कर्ममात्रमुच्यते । किन्तु प्रत्येकमुभयम् । र्ह्युभावपि ज्ञानकर्मयोगाविति बक्तव्यौ । कथं कश्चिज्ज्ञानयोगः कश्चित्कर्मयोग उच्यत इति चेन्न । एकैकत्र ज्ञानकर्मणोः प्रचुर्याभिप्रायेणाल्पजलमिश्रेऽपिक्षीरे क्षीरशब्दप्रयोगवत् प्रयोगोपपत्तेरिति भावः । साङ्ख्यानां ज्ञानमेव योगिनां कर्मैवेति प्रतीत एवार्थः किं न स्यादिति चेत्तथाऽङ्गीकारे स्मृतिविरोधः स्यादिति भावेनाह॥ साङ्ख्याइति॥ देवानां बहुकर्मसद्भावात्कथं मुख्यहाङ्ख्यत्वमित्यत आह॥ बह्विति॥ ततोऽपि कर्मणोऽपि । गृहस्थादीनामपि किं केवलकर्मैवेत्यपेक्षायामाह॥ ज्ञानिनोऽपीति॥ तर्हि कथं कर्मयोगिन इत्यत आह॥ अतीति॥ साङ्ख्यानां केवलं ज्ञानमेव योगिनां केवलं कर्मैवेति तिं न स्यादित्यत आह॥ नोभयमिति॥ साङ्ख्यानां ज्ञानेन योगिनां कर्मणापुरुषार्थो भवतीति श्रुत्यादौ श्रूयते । न चैकैकेन पुरुषार्थो युज्यते । अतो नैकैकग्रहणं युक्तमिति भावः । कर्माभावे कुतो न पुरुषार्थ इति चेत्किं कर्मपदेन कर्ममात्रं विवक्ष्यते अथ यज्ञादिकर्म वा । आद्यं दूषयति॥ न हीति॥ द्वितीयं दूषयति॥ न चेति॥ ज्ञानमात्रं कर्म विना संसारनिवृत्तिसाधनमपि न सम्पूर्णपुरुषार्थकरमिति भावः । तर्ह्यस्तु केवलं कर्मैव पुरुषार्थकरमित्यत आह॥ न चेति ॥ “न कर्मणा न प्रजया " इत्यादिश्रुतिविरोधादिति भावः । अनेन “न कर्मणामनारम्भात् " इत्यादेश्च तात्पर्यमुक्तं भवति । भवेदत्र ज्ञानकर्मणोः समुच्चयकल्पनं, यद्यत्र साङ्ख्ययोगादेः पुरुषार्थहेतुत्वमुच्येत । एकैकस्य पुरुषार्थसाधनत्वाभावोक्तेः न च तदत्रोच्यत इत्यत आह॥ निष्ठेति॥ ष्ठा गतिनिवृत्तावित्यतो निष्ठा पर्यवसितिः । गतेरिति शेषः । कथमनेन चोद्यपरिहार इत्यत आह॥ मुक्तिरिति॥ अत्र निष्ठापदेन गतिपर्यवसितिवाचिना संसारगतिपर्यवसानं मुक्तिरभिप्रेतेत्यर्थः । नन्वेवं ज्ञानकर्मभ्यां मोक्ष इत्यङ्गीकारे “न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः " इत्यादिश्रुतिविरोधः स्यादित्यत आह॥ ज्ञानिन इति॥ ज्ञानकर्मभ्यां मोक्षसिद्ध्यङ्गीकारेऽपि नैतच्छ्रुतिविरोधः । कर्मरहितज्ञानमात्रस्य मोक्षसाधनत्वाभिधानात् । अस्माभिरपि तदङ्गीकारात् । कर्मणस्तु ज्ञानमात्रेणैव सिद्धे मोक्षे सुखाधिक्यहेतुत्वेनाङ्गीकारात् । ज्ञानादेव मोक्षः कर्मणा आनन्दवृद्धिरित्येतत् कुत इत् चेत् ज्ञानिन इति श्रुतेरेवेति भावः । इतश्च “ज्ञानयोगेन " इत्यत्र कर्मापि संयोज्यम् । न ज्ञानमात्रमित्याह॥ अन्यथेति॥ अन्यथा ज्ञानमात्रेणैव पुरुषार्थाङ्गीकारे । कर्मयोगिनामपि प्रकृतत्वात्तेषां कर्मानारम्भे पुरुषार्थासम्भवाभिधायकमेतद्वाक्यं किं न स्यादित्यत उक्तम्॥ उभयेति॥ न केवलमेतत्कर्मयोगिविषयमपि तूभयविषयमित्यर्थः कुत्ऽस्योभयविषयत्वं ज्ञायत इत्यत आह॥ समत्वं चेति॥ मोक्षे कर्मणा आनन्दवृद्धिर्भवतीत्ययुक्तम् । “नान्यः पन्था " इति श्रुतौ कर्मणो मोक्षसम्बन्धस्यैव निराकरणादित्यत आह॥ नान्य इति॥ ज्ञानायोगमेवेयं श्रुतिर्व्यवच्छिनत्ति । न तु कर्मसम्बन्धं निराकरोति । तथात्वे “ज्ञानिनो मोक्षनियमः " इति श्रुतिविरोधादिति भावः॥ ३॥ ४॥ कार्यत इत्यत्र स्वतन्त्रकर्तुरन्यस्याप्रतीतेः प्रकृतिगुणानामेव स्वतन्त्रकर्तुत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ कर्तृत्वमिति॥ अत्र गुणानां विकारकर्तृत्वमेवोच्यते । न तु स्वतन्त्रकर्तृत्वम् । अवश इति विष्णोः स्वतन्त्रकर्तृत्वोक्तेः । अवशपदेन स्वानधीनत्वं गृतीत्वा गुणानां स्वतन्त्रकर्तृत्वमेव किं न गृह्यत इति चेन्न । “कर्तृत्वम् " इति श्रुतिविरोधादिति भावः । श्रुतिरिति कुत्रचित्पाठः । तत्रान्यथाप्रतीतिनिरासाय श्रुत्यैव व्याख्यातं विष्णोः स्वतन्त्रकर्तृत्वमत्र न प्रतीयत इत्यत उक्तम्॥ अवश इति॥ अवशपदं कथं विष्णुवशत्वं वक्तीत्यत आह॥ अः इति॥ ५-८॥ ननु “कर्मणा बध्यते जन्तुः " इत्यादेः कर्मणो बन्धकत्वात्कथं “कुरु कर्म " इति विधीयत इत्याशङ्कापरिहाराय श्लोकामवतारयति॥ कर्मणेति॥ अयज्ञर्थं कर्म बन्धकमित्येवात्र प्रतीयति, न त्ववैष्णवं कर्मबन्धकमित्यतो यज्ञशब्दार्थं श्रुत्यैवाह॥ ज्ञ इति॥ नात्र यज्ञ पदेन प्रसिद्धयज्ञ उच्यते । अपि तु यातो विषयीकृतो ज्ञानरूपत्वाज्ज्ञो भगवान् येनोद्देशेन स एवेत्यर्थः । य एष उद्देश इति योजना॥ ९॥ कर्म कर्तव्यमित्यत्र हेत्वन्तरमुच्यते " अन्नादिति " । अत्र कथमन्नस्य पर्जन्याद्देवविशेषादवत्पत्तिः । कथं च तस्य यज्ञादुत्पत्तिः। कथं चान्नादिति परम्पराया एवोक्तत्वात् चक्रमित्युच्यत इत्याशङ्कां परिहर्तुं ब्रह्माक्षरशब्दयोरन्यार्थकल्पनां च निराकर्तुं स्मृत्यैव व्याचष्टे॥ जननादिति॥ परं जन्यं यस्यासौ तथोक्तः । यज्ञादिति॥ यज्ञसमाराधितदेवताया भवतीत्यर्थः । यज्ञो देवतोद्देशेन द्रव्यपरित्यागः । कर्म तदितरक्रिया । वाक्याज्जायते । कथं नित्यो जायते गम्यते अवगम्यत इत्यर्थः । वेदेन यथावदवगत एवेश्वरः सत्कर्म कारयतीति भावः । यत एवं परम्परया यज्ञाभिव्यङ्ग्यस्तस्मात् । भगवतो यज्ञे प्रतिष्ठितत्वाद्यज्ञानुष्ठानेन चक्रप्रवृत्तौ भगवदभिव्यक्तिनिमित्तं च सुकृतं भवति, न केवलं भूतस्थितिहेतुत्वनिमित्तमिति भावः॥ चक्रं नानुवर्तयतीति॥ कर्म न करोतीत्यर्थः । विश्वस्य चक्रान्तर्भावात्कर्माकरणेन चक्राप्रवृत्तौ विश्वहन्तृत्वं चेत् गार्हस्थ्येतराश्रमाननुष्ठानं प्रसज्येत । कर्मणां यज्ञदानतपोरूपेण त्रैविद्यदाश्रमान्तरे च यज्ञाद्यभावादित्यत आह॥ वाचिक इति॥ वाचिकः स्वध्यायादिः । मानसो ध्यानादिः॥ विशेषत इति॥ सर्वसाधारण्येऽपि अन्येषामन्येऽपि सन्त्येषामयमेवेत्यर्थः । अन्येषां यज्ञान्तरमाह॥ वनस्थस्येति॥ अक्रतुः पश्वालम्भनहीनः । शुश्रूषाद्यात्मक इत्यादिपदेनाग्निपूजा । विद्याभयादीत्यादिपदेन स्वभोक्तव्यान्नदानम् । अन्नपूर्वकं विद्याभयादिदानम् । स्वभोक्तव्यादधिकमापाद्यान्नदानमिह विवक्षितम् । अन्नं तु मूलफलादि । " ब्रह्माक्षरसमुद्भवम् " इतत्र ब्रह्मपदेन वेदोऽक्षरपदेन ब्रह्मोच्यत इत्यपव्याख्यानं हेत्वन्तरेण प्रत्याख्याति॥ ब्रह्मेति॥ यद्यत्र ब्रह्मपदेन वेदोऽक्षरपदेन ब्रह्मोच्यते तर्हि उपिर ब्रह्मणः " तस्मात्सर्वगतं ब्रह्म " इति ब्रह्मपदेन प्रत्यभिज्ञा न स्यात् । यत्पदेन यन्न प्रकृतं तस्य तत्पदेन कारणविशेषं विना परामर्शादनात् । न च तत्र वेदपरामर्शः । तस्य यज्ञे प्रतिष्ठितत्वोक्तेरनुपयुक्तत्वादिति भावः । दोषान्तरं चाह॥ चक्रेति॥ वेदात्कर्मणामुत्पत्त्यभावाद्ब्रह्मणो वेदस्योत्पत्त्यभावात् भूतेभ्यो ब्रह्मणो जननाभावादर्थान्तरकल्पने वेदादेश्चक्राप्रवेशः स्यात् । व्यक्त्यर्थाङ्गीकारे बहूनां पदानाममुख्यार्थतापात इति भावः॥ १४॥ १५॥ १६॥ कर्म कर्तव्यमित्यत्र युक्त्यन्तरमुच्यते॥ यस्त्विति॥ तत्र सन्तोषस्तुप्तिरापूर्तिरित्यादेस्तृप्तिसन्तोषशब्दयोरेकार्थत्वात् " आत्मतृप्तः " इत्वक्तत्वात् " आत्मन्येव च सन्तुष्टः " इति पुनरुक्तिरित्यत आह॥ तृप्तिति॥ विशेषोऽर्थ इति शेषः । कुत एवमर्थकल्पनेत्यतः श्लोकं स्मृत्यैव व्याचष्टे॥ विष्ण्विति॥ एवं तृप्तिसन्तोषशब्दयोरेकार्थत्वमङ्गीकृत्य विग्रहभेदेनार्थभेद उक्तः । अथ तृप्तिसन्तोषशब्दयोरेवार्थभेदाच्च न पुनरुक्तिरिति भावेन तयोरर्थभेदे प्रमाणमाह॥ रतिरिति॥ आनन्दः स्वरूपभूतः । कर्मज उपकारादिजातः । रतितृप्तिप्रीतिशब्दानां भिन्नर्थत्वे किमायातं तृप्तिसन्तोषशब्दयोरर्थभेदे इत्यतः प्रीतिसन्तोषशब्दयोः पर्यायत्वात् तृप्तिप्रीतिशब्दयोरर्थभेदे तृप्तिसन्तोषशब्दयोरर्थभेदः सिद्ध एवेति भावेन तत्पर्यायत्वे प्रमाणमाह॥ सन्तोष इति॥ पर्यायवाचकाः पर्यायेष वाचकाः॥ १७॥ १८॥ ननु मुक्तस्य कार्यं न विद्यत इत्वक्त्वा " तस्मादसक्तः " इत्युच्यते । तत्र कर्मकरणे हेतोरनुक्तत्वात् " तस्मात् " इति किं परामृश्यत इत्यत आह॥ यस्मादिति॥ यथा मुक्तस्य प्रयोजनाभावात्कार्याभावः एवं मुमुक्षोरपि कर्मणा प्रयोजनाभावात्कार्याभावः किं न स्यादित्यत उच्यते॥ असक्त इति॥ तत्र कर्मणैव मोक्षप्राप्तिरुच्यत इत्यन्यथाप्रतीतिनिरासाय तद्व्याचष्टे॥ असक्त इति॥ कर्म्ऽचरन्नेवेत्येवार्थो न तु कर्मैवात्तरन्निति भावः । तस्मादमुक्तस्य कर्मणा फलसद्भावादस्त्येव तस्य कार्यमिति वाक्यशेषः । नन्वमुक्तस्य कार्यमस्तीत्यनुक्तत्वात्कथं तस्मादिति तत्परामर्शः स्यादिति चेन्न । मुक्तस्यैव कार्यं नास्तीत्युक्त्याऽमुक्तस्य कारयमस्तीति प्राप्तत्वात् । ननु मुक्तस्यैव कार्यं नास्तीत्येवकाराभावात् कथममुक्तस्य कार्यसद्भावप्रापितिरित्यत आह॥ मुक्तस्यैवेति॥ एवकाराभावेऽपि तदर्थावधारणस्य तुशब्देनावगतत्वात् तेनामुक्तस्य कार्यसद्भावः प्राप्यत इति भावः । केचित्तु " यस्तु " इति वाक्यं ज्ञानिमात्रविषयतया व्याकुर्वते । न तद्युक्तम् । " यस्त्वेवात्मरतो मुक्तो " " विष्णुप्रसादाद्रतिमान् " इत्यादिस्मृत्या मुक्तिविषयतया गृहीतत्वात् ज्ञानिनामपि कार्यसद्भावस्योक्तत्वाच्चेत्यभिप्रेत्य दोषान्तरं आह॥ तस्मादिति॥ यद्यत्र ज्ञानिमात्रस्य कार्याभावोऽभिप्रेतः स्यात्तर्ह्यर्जुनं प्रति " तस्मादसक्तः " इत्युपरंहारवाक्ये कर्मविधानं विरुद्धं स्यात् । तस्यापि ज्ञानित्वादिति भावः । अर्जुनस्य ज्ञानित्वे प्रमाणाभावेनाज्ञत्वात् कर्माधिकारित्वमेवातस्तं प्रति कर्मविधानं न विरुद्धमित्यत आह॥ ब्रह्मेति॥ ये तेषामिति योज्यम् । मुक्तविषयत्वेऽप्यस्यार्जुनं प्रति कर्मविधानं विरुद्धम् । पाण्डवानामेतद्वचनबलात् ब्रह्मरतत्वादिमुक्तलक्षणवत्तया मुक्तसाम्यादित्यत आह॥ आत्मेति॥ न पाण्डवानां मुक्तानां चातिसाम्यम् । " आत्मरतिरेव " इति मुक्तानामरतिव्यावर्तैवशब्देन पाण्डवेभ्यो विशेष इत्यत आह॥ एषामिति॥ १९॥ ननु ज्ञानादेव मोक्षसिद्धेः कथमसक्तः कर्माऽचरन्नेव परमाप्नोतीत्यक्तमित्यत उच्यते॥ कर्मणैवेति॥ तत्र कर्मणैव मोक्ष उच्यत इत्यन्यथाप्रतीतिनिरासाय तत्समृत्यैव व्याचष्टे॥ सहैवेति॥ कार्यं कर्म ज्ञानिनामपीति शेषः । कर्म कर्तव्यमित्यत्र हेत्वन्तरमुच्यते॥ लोकेति॥ तत्र लोकसङ्ग्रसम्भवेऽपि तेन प्रयोजनाभावात्कथं ज्ञानिनो लोकसङ्ग्रहार्थं कर्म विधीयत इत्यतो लोकेत्यादिश्लोकान् स्मृत्यैव व्याचष्टे॥ अज्ञानमिति॥ सा तुष्टिः॥ २०॥ २१॥ किञ्च प्रयोजनमात्ररहितेनापि मया केवलानुग्रहेण लोकसङ्ग्रहार्थं कर्म क्रियते, अतो मुक्तावानन्दवृद्धिप्रयोजनवता ज्ञानिना तत्कर्तव्यमिति किं वक्तव्यमित्युक्तं " न मे पार्थ " इति । अस्यार्थो ममैवेति॥ अस्यार्थो ममैवेति॥ नन्वीश्वरः प्रयोजनाभावेऽपि लोकरक्षादि करोतीति न युज्यते । प्रयोजनाभावे प्रवृत्त्ययोगादित्याशङ्कां श्रुत्यैव परिहरति॥ रक्षयेति॥ प्रयोजनाभावेऽपीश्वरस्य कर्तृत्वस्वभाववत्त्वात् रक्षादिकर्मकरणं युक्तमित्यर्थः । ननु तादृशस्वभावत्वेन प्रवृत्तिरचेतनेष्वेव दृष्टा । यथा दहनपवनादीनां प्रयोजनं विना स्वभावादेव दहनगमनादिप्रवृत्तिः । चेतनप्रवृत्तेः प्रयोजनहीनाया अदर्शनात्कथमीश्वरस्यापि प्रयोजनानुद्देशेन प्रवृत्तिरित्यत आह॥ मत्त इति॥ २२-२६॥ अज्ञवदाग्रहेण ज्ञानिनामपि करम कार्यं चेद्विद्वदविद्वत्कर्मणोरविशेषप्रसङ्ग इत्यतः " सक्ताः " इति सक्त्यसक्तिपूर्वकत्वविशेष उक्तः प्रपञ्च्यते " प्रकृतेरिति " । विद्वदविद्वत्कर्मविशेषमुक्त्यवा विद्वत्कर्मकरणं विधीयते " मयि " इति । तत्र कर्माणि सन्न्यस्य युध्यस्वेति व्याहतमित्यतः तत्स्मृत्यैव व्याचष्टे॥ नाहमिति॥ " नाहं कर्ता " इति निर्ममत्वम् । " हरिः कर्ता तत्पूजा कर्म चाखिलम् " इति हरौ कर्मन्यासः । हरिरेव कर्ता चेत्कथं तत्पूजेत्यादिनिरूपणं युक्तमित्यत आह॥ तथापीति॥ यद्यपि हरिरेव कर्ता, तथापि तत्प्रेरणेनैव ममापि कर्तृत्वात् तत्पूजेत्यादिनिरूपणं युक्तमिति भावः । तद्भक्तिरिति निराशीस्त्वम् । तत्फलं पूजाफलम् । कर्मन्यासो निर्ममत्वादियुक्तः विष्णोस्तृप्तिकर इत्यनेन " ये मे कतम् " इत्यादेस्तात्पर्यमुक्तं भवति । एवं निर्ममत्वादियुक्तेन हरौ कर्मन्यासेन कुतो विष्णोस्तृप्तिरित्यत आह॥ यस्मादिति॥ यस्मादेवमर्थस्थितिः तस्मात्तथा भावनं विष्णोस्तृप्तिकरं भवत्येव । यथार्थज्ञानप्रियत्वाद्विष्णोरिति भावः । स्वतन्त्रकर्तृत्वमेव कर्तृत्वम्, अतः कथं जीवादेः कर्तृतोच्यत इत्यतः परतन्त्रादिकर्तरि कर्तृशब्दप्रयोगं दर्शयति॥ पुमीनिति॥ ननु क्वचिदीश्वर एव कर्ता न जीवादिरित्युच्यते । क्वचिज्जीव एव कर्ता नेश्वरादिरिति । क्वचिच्च प्रकृतिरेव कर्त्री नेश्वरादिरिति । अतः कथमीश्वर एव कर्ता, नाहम्, अहं तु तदधीनकर्तेति कर्मन्यासाद्युपपद्यत इत्यत आह॥ इतीति॥ यत्रेश्वरादीनां कर्तृत्वमुच्यतते तत्रेश्वरस्य स्वतन्त्रकर्तृत्वमित्यादि विभागेनैव ज्ञातव्यम् । यत्रेश्वरादीनामकर्तृत्वमुच्यते तत्रेश्वरस्य परतन्त्रकर्तृत्वमस्वकीयं नास्तीत्यादि विभागेनैव ज्ञातस्यं, न तु यत्र कर्तृत्वमुच्यते तत्र सर्वेषां स्वतन्त्रकर्तृत्वमेव । यत्राकर्तृत्वमुच्यते तत्र सर्वेषां सर्वथा कर्तृत्वराहित्यं ज्ञातव्यम् । स्वतन्त्रकर्तृत्वं विष्णोरेवेत्यादिवचनादेवेत्यर्थः । " प्रकृतेः " इत्यादि व्याकरिष्यन् तत्रस्थप्रकृतिशब्दादीन् स्वभावादिपरतया व्याख्यातुं तदर्थत्वे प्रमाणं तावदाह॥ क्वचिदिति॥ स्वभावो जीवस्य । मयीत्यादिवाक्यव्याख्यानरूपाया " यस्मात्स्वतन्त्रकर्तृत्वम् " इत्यादिस्मृतेः " प्रकृतेः " इत्यादिवाक्यव्याख्यानोपयोगित्वात् व्यात्यासेन व्याख्यानम् । प्रकृतेरित्यादावीश्वरादित्रयस्य कर्तृत्वाभिधानात् पुनर्जीवस्याकर्तृत्वाभिधानात् कर्तृत्वादिविभागस्य स्मृतावुक्तत्वात् प्रकृतेरित्याद्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे॥ स्वभावत इति॥ अत्र " स्वभावतः " इत्यादि साक्षाद्व्याख्यानाय पीठीकारचनम् । देवादीनामन्यथाभावसद्भावात्कथं देवत्वादिः स्वभाव इत्यत आह॥ नैषामिति॥ जयादीनामन्यथाभावदर्शनात्कथं नास्तीत्यत आह॥ शरीरेति॥ देवत्वादेः स्वाभाविकत्वेऽपि देवा एवोत्तमा इत्यादि कुत इत्यत आह॥ उत्तमा इति॥ फलस्योत्तमत्वादिना देवादीनामुत्तमत्वादिसिद्धिरिति भावः । देवादीनां मुक्त्यादियोग्यत्वे किमर्थं ते संसारे वर्तन्त इत्यत आह॥ प्राप्तिरिति॥ स्वयोग्यफलस्येति शेषः । पूर्तयभावेन साधनस्येति शेषः । साधनपूर्तितः प्राप्तिश्चेत् नित्यं संसारानुवृत्तिर्न स्याति । अनादित्वात् संसारस्येतः पूर्वमेव साधनपूर्तिसम्भवेन सर्वचेतनानां परिसमाप्तेरित्यत आह॥ नैवेति॥ नित्यकाले संसारोऽनुवर्ततामिति हरीच्छया अनादिमान् यद्यपीति शेषः । स्वभावतस्त्रिधा जीवाश्चेत् किं तत इत्यत आह॥ अत इति॥ देवत्वादेः स्वाभाविकत्वात्तदनुसारिगुणाश्च स्वाभाविका इत्यर्थः मिश्रिताः स्वाभाविका इत्यादि योज्यम् । ततश्च किमित्यत आह॥ कार्यत इति॥ अवशो विष्णुवशः । प्राकृतैः स्वाभाविकैः । किञ्चात इत्यत ज्ञाह॥ स्वाभाविकेति॥ अनेनाविद्वत्कर्माभिधायकस्य " प्रकृतेः " इत्यस्यार्थ उक्तो भवति॥ स्वाभाविकगुणान् हेतुं कृत्वेति॥ यस्योत्तमगुणास्तानपेक्ष्य सत्कर्म कारयतीत्यादि । विष्णुना विष्णोरिच्छादिगुणैः । अनेन प्रकृतेर्गुणैरित्यस्यार्थद्वयमुक्तं भवति । उपादानतया सत्त्वादयः प्रकृतिगुणाश्चात्रभिमताः । कर्ता स्वातन्त्र्येणेति शेषः । एवमविद्वान् करोति चोत् कथं विद्वानित्यत आह॥ तत्त्वेति॥ अनेन तत्त्वविदित्यस्यार्थ उक्तो भवति । अविदुषामहङ्कारे को हेतुरित्यत आह॥ स्वभावेति॥ स्वभावगुणानामुत्तमत्वे तेष्वपरप्रेरिता एवैत इति सम्मूढाः । मिश्रादित्वे तैः सम्मूढाः । ज्ञानादिगुणसद्भावे ज्ञानादिगुणवत्तरं स्वातन्त्र्येण प्रतिजानत इति योज्यम् । अभावे स एव दोषः । तान् गुणान् विष्ण्वधीनान्न विदुः सद्भावे । अभावे न सन्तीति न विदुरिति ज्ञेयम् । ते ज्ञानिना बोध्यन्तामित्यत आह॥ तेष्विति॥ अयोग्याश्चेन्न प्रकाशयेत्, अन्यथा परीक्ष्य प्रकाशयेदिति भावः । अव्यक्तिकृदिति॥ स्ववचनं यथा तत्त्वव्यकितिकृन्न भवेत्तथेत्यर्थः । अनेन प्रकृतेरिति व्याख्यातं भवति । मन्दानित्यस्यार्थोऽयोग्येष्विति । अयोग्येषु तत्त्वं कुतो न वक्तव्यमित्यत आह॥ बुद्ध्वेति॥ मनोनिग्रहे स्वभावानुगतचेष्टोपरतिः स्यादित्यत आह॥ स्वभावमिति॥ एतेन सदृशमिति व्याख्यानं भवति॥ ३५॥ " तयोर्न वशमागच्छेत् " इत्युक्ते पृच्छ्यते " अथ " इति । तत्र " प्रकृतेः " इत्यादौ भगवतः प्रेरकत्वस्योक्तत्वात्, स्वयं देवत्वेन देवानां च कथितत्वात् सिद्धप्रश्नोऽयमित्यत आह॥ परमेश्वरादिति॥ अर्वाक्तनं बलवन्तमिति शेषः । प्रश्नवाक्ये नैतदुच्यत आह॥ अथेति॥ आनन्तर्यवाचिनाऽथशब्देन परमेश्वराद्देवेभ्यश्चानन्तरमित्यर्थो ज्ञायत इति भावः॥ ३६॥ " काम एषः " इत्यादिपरिहारवाक्यमुक्तार्थेऽपि संवादरूपस्मृत्यैव व्याचष्टे॥ अखिलेति॥ तत्रेति " कामः " इत्यस्य व्याख्यानम् । कामः प्रबल इति योज्यम् । " अशुभेषु " इत्यनेनैव " वैरिणम् " इत्येतद्व्याख्यातं भवति । कथं कामोऽशुभप्रेरकेषु प्रबल इत्यत आह सर्वमिति॥ अग्न्यादर्शमर्भान् यथा धूमाद्यावृणोति तथेत्वर्थः॥ क्रमादिति॥ शुभजनं धूमोऽग्निमिव किञ्चिदावृणोतीत्यादि द्रष्टव्यम् । कामश्च तदपेक्षितं दत्त्वा जेतव्य इत्यत आह॥ महाशनस्येति॥ महदपि दीयतामित्यत आह॥ तस्येति॥ अनेन " धूमेन " इत्यादि व्याख्यातं भवति । तर्हि कथं जेतव्य इत्यतस्तदधिष्ठानं तावदाह॥ भुञ्जान इति॥ एतेन " इन्द्रियाणि " इत्यस्यार्थ उक्तो भवति । अस्त्विदमधिष्ठानं, किमायुधं तद्वधायेत्यत आह॥ ज्ञानेति॥ अनेन " इन्द्रियाणि " इत्यादेस्तात्पर्यमुक्तं भवति । ननु " धूमेन " इति कामस्य सर्वावरणत्वमुक्तं, तत्पुनः किमर्थम् " आवृतं " इत्युच्यत इत्यत आह॥ ज्ञानेति॥ पूर्वं ज्ञानोत्पत्तिप्रतिबन्धकत्वेनाऽवरणत्वं कामस्योक्तम्, इदानीं तूत्पन्नज्ञानस्यापरोक्षज्ञानसाधनत्वप्रतिबन्धकतायाऽऽवरणत्वमुच्यते । अतो न पौनरुक्त्यामिति भावः । " दुष्पूरेणानलेन " इति पुनरुक्तमित्यत आह॥ न केवलमिति॥ कामो नालमिति मन्यते चेति कुत इत्यत आह॥ अग्नेरिति॥ ३७-४१॥ " इन्द्रियाणि " मनो बुद्धिः " इत्यादिना इन्द्रियमनोबुद्धीनामुक्तं प्रपञ्च्यत इत्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे॥ सर्वेभ्य इति॥ सर्वेभ्योऽर्थाद्यभिमानिभ्यः । " ततो ब्रह्मा " इत्यादि तु " बुद्धेरात्मा महान् परः । महतः परमव्यक्तम् अस्यक्तात् पुरुषः परः । पुरुषान्न परं किञ्चित् " इति श्रुतिव्याख्यानम् । परमात्मनोऽत्र बुद्धिपरत्वमात्रोक्तावप्यन्यत्रोक्तमत्र संयोज्यमिति ज्ञापयितुमुदाहृतम् । यदुक्तमर्थाभिमानिभ्योऽपून्द्रियाभिमानिनामुत्तमत्वं न तद्युक्तम् । " इन्द्रियेभ्यः परा ह्यर्थाः " इति श्रुतिविरोधात् । नापि रुद्रस्य मनोऽभिमानित्वं युक्तम् । " रुद्रोऽहङ्कृतिरूपकः " इति वाक्यविरोधात् । एवं सरस्वत्या बुद्ध्यभिमानित्वं च न युक्तम् । विज्ञानाभिमानित्वोक्तिविरोधादित्यत आह॥ न चेति॥ कुतो न विरोध इत्यत आह॥ सर्वेति॥ तर्हि श्रीरव्यक्तस्य, ब्रह्मा महत इत्यादिपृथगभिमन्यमानस्थानोक्तिः ळक्ष्म्यादीनां शास्त्रेषु कथमित्यत आह॥ उत्तरेति॥ अव्यक्तादीनां क्रमेणाधिकत्वात् तदभिमानित्वोक्तत्याभिमानिनामप्युत्तरोत्तराधिक्यं ज्ञापयितुं पृथगभिमन्यमानस्थानान्युच्यन्त इत्यर्थः । किमर्थमुत्तरोत्तराधिक्यं ज्ञाप्यमित्यत आह॥ आधिक्येति॥ सर्वेऽपि सर्वाभिमानिन इत्युक्तस्यापवादमाह॥ स्थानेष्विति॥ अधमानामुक्तेष्वभिमन्यमानस्थानेष्वभिमानित्वेनोत्तमा वर्तन्ते । न तूत्तमाभुमन्यमानत्वेनोक्तस्थानेष्वधमा इत्यर्थः । एवं चेदव्याक्ताभिमानित्वं सरस्वत्यादीनां पुराणादौ कथमुच्यत इत्यत आह॥ तथापीति॥ उपचर्यते, यस्मादिति शेषः । अतिर श्रुतिं चाह॥ यत्रेति॥ यस्मिन् वस्तुनि पुत्रस्य स्वाम्यमस्ति तस्मिन् वस्तुनि पितुः स्वाम्यमस्त्येव । यस्मिन् वस्तुनि पितुः स्वाम्यमस्ति तस्मिन् पुत्रस्य स्वाम्यमुपचारेणास्तीत्येतत् तत्र आपा इति चोद्ये समाधानमुक्तं भवतीत्यक्तं भवतीत्यर्थः । अनेनेन्द्रादिभ्य इन्द्रियाभिमानिभ्योऽधमानां उत्तमानां सौपर्ण्यादीनां चार्थाभिमानित्वात्सौपर्ण्यादिविवक्षया इन्द्रियोभ्योऽर्थानामुत्तमात्वं श्रुतिराह । इदं तु वाक्यं शिवसुतविवक्षयाऽर्थेभ्य इन्द्रियाणामुत्तमत्वं वक्तीत्यविरोधः । रुद्रादीनां च मनोऽहङ्काराद्यभिमानित्वादुभयोक्तेरविरोध इत्युक्तं भवति । ननु सर्वेऽपि सर्वाभिमानिनश्चेदव्यक्तादिशब्दार्थनिर्णयो न युज्यते । सर्वेषामप्यर्थतयाऽन्यतरापोहानुपपत्तेरित्याशङ्कां स्मृत्यैव परिहरति॥ बह्विति॥ क्वचिल्लिङ्गप्रकरणादिसाम्ये कथं निर्णय इत्याशङ्कां च स्मृत्यैव परिहरति॥ लिङ्गेति॥ ४२॥ इति श्रुमदानन्दतीर्थविरचितगीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां तृतीयोऽध्यायः॥ ३॥
उक्तार्थसङ्गतत्वेन एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ उक्तयोरिति॥ ज्ञानकर्मणोर्मध्येऽन्यतरस्येति प्रतीतिनिरासाय उभयोरित्युक्तम् । कर्मणोऽतीताध्याये विवृतत्वात् किमनेनेत्यतो विशेषेत्युक्तम् । उक्तकर्मयोगे रुचिजननाय पूर्वानुष्ठितोऽयं धर्म इत्युच्यते " इममिति " तत्तात्पर्यं स्मृत्यैवाह॥ ब्रह्मेति॥ गीता पञ्चरात्रसङ्क्षेपश्चेत्तर्हि तस्याः सर्वोत्तमशास्त्रत्वहानिरित्यतः शब्दत एव सङ्क्षेपो सार्थत इत्याह॥ यथेति॥ सर्वपञ्चरात्रार्थत्वे गीतायाः पञ्चरात्रादधमत्वमात्रं मास्तु । तावता सर्वशास्त्रोत्तमत्वं कथमित्यत आह॥ वेदेति॥ सर्वशास्त्रेभ्योऽतिशयेन वेदार्थपूरकपञ्चरात्राशेषार्थत्वेन गीतायाः सर्वशास्त्रोत्तमत्वं युक्तमिति भावः॥ १॥ ३॥
इदानीन्तनत्वाद्भगवतो विवस्वतः प्राचीनत्वात् कथं तदुपदेष्ट्रत्वमिति पृच्छति " अपरमिति " । तत्रार्जुनस्य भगवदज्ञानित्वप्रतीतेः प्रागुक्तानुपपत्तिरित्यत आह॥ जानन्तोऽपीति॥ नैवं प्रश्नेनार्जुनो भगवन्तमनादिनित्यं न जानातीति कल्प्यम् । जानन्तोऽपीति वचनात् प्रश्नस्य विशेषज्ञानाद्यर्थत्वोपपत्तेरिति भावः । स्थापनाय ज्ञातस्य दृढीकरणाय॥ ४॥ ५॥
जन्मान्यतीतानि चेत्तर्हि न जननमरणराहित्यं भवतः । तथाच " अविनाशि तु " इत्युक्तविरोध इत्यत उच्यते " अजोऽपि " इति । तत्र " आत्ममायया " इत्येतदज्ञानवशादित्यन्यथाप्रतीतिनिरासाय व्याचष्टे॥ आत्मेति॥ नात्रात्ममाययेत्यज्ञानवशादित्युच्यते । सर्वमानविरोधात् । अपि तु अवतारे परप्रेरणानिवारणाय महामायेत्यादिना मायापदोदितस्वेच्छानिबन्धनत्वमेवोच्यत इत्यर्थः । " प्रकृतिं स्वामधिष्ठाय " इत्येतत् प्राकृतशरीरलाभेनेत्यन्यथाप्रतीतिनिरासायानुद्य प्रकृतिपदं व्याचष्टे॥ प्रकृतिमिति॥ नात्र प्राकृतशरीरलाभोऽभिधीयते । श्रुत्यादिविरोधस्योक्तत्वात् । किन्तु " अवतरसि चेत् प्रयोजनेन भाव्यम् । तथाच नानवाप्तमित्युक्तविरोधः " इत्याशङ्कापरिहाराय प्रयोजनाभावेऽप्यवतारादिकं तादृशस्वभावत्वाद्युज्यत इत्येवोच्यत इति भावः । भवेदयमर्थो यदि हरेरवतारादि प्रयोजनं विना स्वभावादेवेति सिद्धं स्यात्तदेव कुत इत्यत आह॥ देवस्येति॥ स स्वभावश्च अयं देव एव न तु ततो भिन्न इत्यर्थः ।
अस्तु विष्णोः स्वभावादेव व्यापारः । तथाप्यत्र प्रकृतिपदं कुतः स्वभाववाचीत्यत आह॥ अत एवेति॥ यतोऽत्र प्रकृतिपदं सावभाववाच्यत एव स्वामिति विशेषणं प्रयुक्तम् । केवलमन्यार्थत्वे स्वाधीनत्वस्य ममेत्यसाधारणशब्देनाभिधानं विनोभयसाधारणमेतन्न स्यादित्यर्थः । एतमेव न्यायमस्यत्राप्यतिदिशति॥ प्रकृतिमिति॥ इत्यादिषु च स्वशब्देन विशेषणमत एवेत्यर्थः । यदि प्रकृतिपदं स्वभाववाचि तर्हि " मयाऽध्यक्षेण प्रकृतिः " , " प्रकृतिं विद्धि " इत्यत्रापि किं स्वभाववाचीत्यपेक्षायामाह॥ मयेति॥ अतः स्वभावादन्यैव तत्र प्रकृतिरिति शेषः । अन्यत्वे हेत्वन्तरं चाह॥ प्रकृतिमिति
॥ अत्राऽदिपदेन " मया " इत्यस्य सङ्ग्रहः । " मयाऽध्यक्षेण " इत्यत्राधीनत्या सम्बन्धित्वप्रतीतेः " प्रकृतिं " इत्यत्र " मे " इति ष्ठ्या सम्बन्धित्वप्रतीतेश्चेति योज्यम् । सम्बन्धित्वेन प्रतीतेरन्या चेदत्रापि स्वामिति सम्बन्धित्वेन प्रतीतेरन्या स्यादित्यत आह॥ अत्रेति॥ भवेदिदं यदि स्वशब्दः सम्बन्धसवाच्येव स्यात् । न चैवम् । अत्र स्वशब्दस्य मुख्यतः स्वरूपवाचित्वादिति । बाधकाभावत् स्वरूपवाच्येव न तु सम्बन्धवाचीति भावः । स्वशब्दस्य स्वरूपवाचित्वं कुत्र दृष्टमित्यतः स्वभावपदगतस्वशब्दस्य तदृष्टमिति भावेनाह॥ स्वभाव इति॥ स्वभावपदगतस्वशब्दस्य स्वेति शब्दस्यान्यत्वमात्रापादने नानिष्टम् । अर्थद्वयाङ्गीकारात् । अन्यैवेत्यापादनमयुक्तम् । स्वशब्दस्य स्वरूपवाचित्वस्यापि भावेन " मे " इतिवदितराव्यावर्तकत्वादिति भावः । स्वभावपदगतस्वशब्दस्य स्वरूपवाचित्वे तेनैव पूर्तेः भावशब्दो व्यर्थ इत्यत आह॥ भावेति॥ यदि स्वशब्दमात्रं प्रयुज्ये तदा स्वशब्दस्य स्वीयोऽपि प्रयोगात् तदाशङ्का स्यात् । तां निवारयितुं भावशब्दः प्रयुज्यते । भावशब्दयुक्तस्वशब्दस्य स्वरूप एव प्रतीतिजनकत्वादिति भावः ।
नन्वत्र प्रकृतिपदं स्वभाववाचकं चेत्तर्हि प्रकृतिमित्युक्ते स्वस्वभावमित्युक्तं भवति । स्वशब्दद्वयं च स्वरूपवाचीत्युक्तम् । तथाच पुनरुक्तिरित्यत आह॥ स्वति॥ यथा अस्वरूपेऽप्युपचारेण स्वरूपपदप्रवृत्तेस्तत्परिहराय स्वस्वरूपमित्युच्यते । न च तत्र स्वरूपवाचिस्वशब्दद्वयसद्भावेऽपि पुनरुक्तिदोषः । एवमस्वभावेऽप्युपचारेण स्वभावपदप्रवृत्तेस्तदाशङ्कानिवारणाय स्वस्वभाव इत्युच्यते । अतो न पुनरुक्तिदोष इत्यर्थः ।
अजोऽपीति श्लोकत्रयं श्रुत्यैव व्याचष्टे॥ ६॥ ७॥ ८॥
एवं स्वभावादेवावतारादिव्यापारमुक्त्वा तज्ज्ञानफलमुच्यते “जन्मेति " । तत्रेश्वरजन्मकर्मज्ञानमात्रेण मोक्षो भवतीत्यन्यथाप्रतीतिं निराचष्टे॥ येषामिति॥ समुच्चयादेव भवतीति ज्ञातव्यमिति शेषः । शमादीनां समुच्चयादेव ज्ञानं भवतीति ज्ञातव्यम् । पृथक्पृथग्ज्ञानसाधनत्वोक्तावपीत्यर्थः । उक्तो ग्राह्य इति शेषः॥ ९॥
एतज्ज्ञानस्य मोक्षसाधनत्वं कुत इत्यत उच्यते “वीतेति " । तत्र “मन्मयाः “, “मद्भावमागताः " इत्येतदन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे॥ मयमिति॥ यद्यपि भगवान् प्रधानो येषां ते भगवन्मया इति साक्षादर्थः तथापि सर्वेषां भगवान् प्रधानो भवति । ज्ञानिनां को विशेष इत्यतः “प्राधान्यं यैर्हरेर्मतम् " इत्युक्तम् । “मद्भावमागताः “इत्यस्यार्थ “ते मुच्यन्ते " इति । मद्भावपदं कथं मोक्षवाचकमित्यत आह॥ मयीति॥ मयि भावः सायुज्यादिः॥ १०॥
त्रैविद्यानामपि मोक्षसद्भावात् को विशेषस्त्वामुपाश्रितानामित्यत उच्यते “इति । तत्र नमन्तं नमतीत्याद्यन्यथाप्रतीतिनिरासायाऽह॥ तथैवेति॥ न ज्ञानिनां त्रैविद्यानां च फलसाम्यम् । सेवानुसारेणैव मम फलदत्वात् । सेवायाश्च वैषम्यादिति भावः । त्रैविद्यानामन्यदेवतायाजित्वात् कथमुच्यते तां प्रपद्यन्त इतीत्यतो देवता यजन्तो यदि कर्मणां सिद्धिमाकाङ्क्षन्तो भवन्ति तर्हि मम वर्त्मानुवर्तन्त एव । अन्यथा कर्मफलाभावादित्युच्यते “मम “इति । तत्र त्रैविद्या अपि चेद्भगवद्वर्त्मानुवर्तन्ते तर्ह भागवतत्रैविद्यभेदो न स्यादित्यतः श्लोकं व्याचष्टे॥ अन्येति॥ मत्समर्पणेन अन्त इति शेषः । अत्र स्मृतिसम्मतिं चाह॥ अन्येति॥ ११॥ १२॥
भगवद्भजनं विना कुतो न फलमित्यतस्तस्य पितृत्वाद्युज्यत इत्युच्यते “चातुर्वण्यं " इति । अत्र गुणानां त्रित्वात् कथं चातुर्वर्ण्यस्य गुणविभाग इत्याशङ्कां स्मृत्यैव परिहरति॥ सत्त्वेति॥ राजननात्त्विकेषु सात्त्विको ब्राह्मणः । सत्त्वमधिकं यतो रजसस्तद्वान् क्षत्रियः । समसत्त्वरजोवान् वैश्यः । सजोपेक्षयाऽधिकतमोवान् शूद्र इत्यर्थः । अनेन सत्त्वप्रधानत्वं ब्राह्मणादीनामुक्तम् । तस्यापवादमाह॥ सात्त्विका एवेति॥ वैष्णवा एव सात्त्विकाः सत्त्वप्रधानाः । न ब्राह्मणत्वादिप्रयुक्तं सात्त्विकत्वादीत्यर्थः ।
कर्मविभागः कीदृश इत्यत आह॥ कर्मेति॥ यदि वैष्णवा एव सात्त्विकास्तर्हि ब्राह्मणाः सात्त्विकाः इत्याद्युक्तिः किन्निमित्तेत्याशङ्कां स्मृत्यैव परिहरित॥
वैष्णवा इति॥ अपरे द्वेषिणः ।
वैष्णवानां शूद्रादिषु दौर्लभ्यात्
ब्राह्मणा एव सात्त्विका इत्यादिरूपेण
सात्त्विकत्वादीनां वर्णाश्रमभेदेन भिन्नतोच्यत इत्यर्थः ।
यथा सात्त्विकत्वादिकं न वर्णामात्रलक्षणं तथा शमादिकमपि न वर्णमात्रलक्षणम् । किन्तु स्वाभाविकवर्णलक्षणमित्यत् स्मृतिमाह॥ स्वाभाविक इति॥ नन्वस्वाभाविकं ब्राह्मणत्वादिकं कीदृशमित्यत आह॥ योनीति॥ अयमिति प्रसिद्धः ।
स्वाभाविकब्राह्मणस्यैव शमादिकम् । स्वाभाविकक्षत्रियस्यैव शौर्यादीत्याद्युक्तम् । तत्रापवादमाह॥ विष्ण्विति॥ शमपदोदिता विष्णुभक्तिः न केवलं ब्राह्मणस्यैव, अपि तु सर्ववर्णेष्वनुगतेत्यर्थः । उपलक्षणं चैतत् । दमादिकमप्येवं द्रष्टव्यम् । क्षत्रिये शमवति राष्ट्रविप्लवः स्यादित्यतो नायं शमः प्रसिद्धः । अपि तु विष्णुभक्तिरिति शम इति वक्तव्ये तदर्थ एवोक्तः । शमादीनां क्षत्रियादिष्वपि सद्भावे कथमयं ब्राह्मणोऽयं नेति स्वाभाविकवर्णभेदज्ञानमित्यत आह॥ विश्वपतिमिति॥ ब्राह्मणे शमादीनां बाहुल्यात् क्षत्रियादिषु क्रमेणाबहुलत्वात् शमादीनां बाहुल्याबाहुल्यतोऽयं ब्राह्मणोऽयं नेति स्वाभाविको वर्णभेदो ज्ञातव्य इत्यर्थः ।
यथा भवान् सर्वस्च कर्ता एवं भवतोऽप्यन्यः कर्ताऽस्ति किमित्यपेक्षायामुच्यते “तस्येति " । तत्र कर्तारमप्यकर्तारं विद्धि, कर्तृत्वस्य मायिकत्वादित्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे॥ कर्तेति॥ एवंविधकर्तृत्वाकर्तृत्वयोरविरुद्धत्वात् कर्तारमप्यकर्तारं विद्धीत्यत्रापिशब्दो व्यर्थ इत्यत आह॥ अपीति॥ तत्प्रकारं दर्शयति॥ कर्तेति॥ १३॥
सर्वकर्तृत्वे भगवतः कर्मलेपः स्यादित्यत उच्यते “न मामिति " । तत्र मामित्यस्य सिद्धत्वात् “इति माम् " इति पुनरस्मच्छब्दः किमर्थ इत्यत आह॥ जीवेति॥ स्वस्येश्वराभेदाभिप्रायेण स्वात्मानमुद्दिश्य “न मां कर्माणि लम्पन्ति " इत्यादि यो जानातीत्यन्यथप्रतीतिः स्यात् । तन्निराकरणार्थम् इति मां योऽभिजानाति, न स्वात्मानमिति भावेन मामिति विशेषणं प्रयुक्तमित्यर्थः॥ १३-१६॥
“तत्ते कर्म प्रवक्ष्यामि " इति प्रतिज्ञातमुच्यते “कर्मणः " इति । तद्दवर्गमार्थत्वाद्व्याचष्टे॥ कर्मेति॥ मत्त एव भवतीति बोद्धव्यम् । असमानपदस्थस्य रेफोत्तरस्य नस्य णत्वं दृष्टं “ब्रह्म ण इन्द्र उपयाहि विद्वान् " इत्यादौ । आदिपदेन “बोद्धव्यं च " इत्यादेरपि पूर्ववद्योजनां सूचयति॥ १७॥
एतद्बोधनं स्तूयते “कर्मणि " इति । तत्र पूर्वार्धं दुर्गमार्थत्वाद्व्याचष्टे॥ कर्मणीति॥ कर्मविधिफलयोरभावात् अकर्मेत्यनेन तद्भावाज्जीवः कर्मेति सूचितम् । जीवेश्वरयोरेवं व्युत्पत्त्या व्युत्पत्त्या कर्माकर्मपदवाच्यत्वं कुत इत्यत आह॥ कर इति॥ अमितत्वादविषयीकृतत्वादित्यर्थः । कोऽयं करो नामेत्यत आह॥ कर इति॥ करशब्दस्य हस्तादिवाचित्वमेव दृष्टं, नागृष्टादिवाचित्वमित्यत उक्तम् । सकारान्त इति॥ हन्तादिवाचिनोऽयं सकारान्तोऽन्य एवेति भावः । कर्मविधिवाची चेति द्रष्टव्यम् । अत एव कर्मविधीत्याद्युक्तम् । अनेन विधिशब्देनामित्वम् अकर्मपदेन कथमुच्यत इति परास्तम् । अकर्तरि जीवे कथं करो मीयत इत्यत आह॥ तदिति॥ नाकर्तरि क्रियादर्शनं विरुद्धं, स्वातन्त्र्येणाकर्तृत्वेऽपि भगवदधीनकर्तृत्वादिति भावः । अत एव पूर्वमस्वातन्त्र्यादित्याद्युक्तम् । कर्मशब्दस्य जीवे विद्वद्रूढिं च द्शयति॥ प्रसिद्धश्चेति॥ ननु ज्ञानिनः स्वातन्त्र्येण पारतन्त्र्येण वा कृत्स्नकर्माकरणात् कथं कृत्स्नकर्मकृत्त्वमुच्यत इत्यत आह॥ कृत्स्नेति॥ स्वयोग्याशेषकर्मफलमोक्षस्य नियतत्वादिति भावः॥ १८॥
न केवलं कर्तृत्वाभिमानपरित्यागेन कृत्स्नकर्मकृत्त्वादि । अपि तु कामादिपरित्यागेनापि भाव्यमित्युच्यते -यस्येत्यादिश्लोकपञ्चकेन । तत्र निराश्रय इत्यन्यथा पदविभागप्रतीतिनिरासायाह॥ अनिराश्रय इति॥ प्रतीतप्रकारेणैव पदविभागः किं न स्यादित्यत आह॥ भगवदिति॥ ज्ञानिनोऽपि भगवदाश्रयत्वेन “अज्ञानां चैव " इत्यादावुक्तत्वात् निराश्रयत्वानुपपत्तेर्न प्रतीतप्रकारेण पदविभाग इत्यर्थः । नन्वत्र ज्ञानिनः शरीरसम्बन्धसद्भावात् कथं मुक्तत्वमुच्यत इत्यत आह॥ मुक्तस्येति॥ १९-२३॥
ननु कुत्र स्वातन्त्र्याभिमानत्यागो विवक्षितः? किञ्च यज्ञर्थत्वमिति पृच्छति “कथमिति " । तत्परिहारायोत्तरप्रघट्टकमवतारयति॥ ब्रह्मेति॥ अत्रार्पणादीनां ब्रह्मैक्यमुच्यते, नाभिमानपरित्यागप्रकार इत्यन्यथाप्रतीतिनिरासायाह॥ ब्रह्मणीति॥ प्रतीतार्थ एव किं न स्यादित्यतः स्वोक्तार्थे स्मृतिसम्मतिमाह॥ एक इति॥ अनेन हविरादिषु स्वस्य स्वातन्त्र्यमनिरूप्य ब्रह्माधीनतां ज्ञात्वा होमादिकरणं स्वातन्त्र्याभिमानपरित्यागः । ब्रह्मार्पणं तु यज्ञार्थत्वमित्युक्तं भवति॥ २४॥
तत्प्रपञ्च्यते “दैवम् " इत्यादिना॥ तत्र पूर्वार्धे कस्यचिद्देवस्योपासनमेवोच्यते न तु ब्रह्मार्फणबुद्ध्या यजनम् । अतो नायमर्धः पूर्वसङ्गत इत्यत आह॥ दैवमिति॥ भगवन्तं यज्ञ इत्युपासत इत्यनेन भगवानेव यज्ञः तस्य तथोपासनमेव यज्ञकरणमित्युक्तं भवति । कथं भगवतो यज्ञत्वम्? येन तथोपासनं यज्ञकरणं स्यादित्यत आह॥ स्वेति॥ स्वरूपमेवानन्दादिहविः स्वयमेवाग्निर्भगवान् भुङ्क्ते, अतोऽयं यज्ञ इत्यर्थः । “ब्रह्माग्नौ " इत्येतद्दुर्गमार्थत्वात् पूर्वसङ्गतत्वेन व्याचष्टे॥ ब्रह्मेति॥ यज्ञाख्येनेत्यस्य सर्वं तदधीनं ज्ञात्वेत्यर्थः॥ २५॥
ननु “श्रोत्रादीनि " इत्यादौ श्रोत्रादिहविषः संयमाख्याग्न्यादौ होम एवोच्यते, न तु तस्य ब्रह्मर्पणम् । अतो नैतत्पूर्वसङ्गतमित्यत आह॥ तदिति॥ अत्रापि ब्रह्मार्पणस्य “एवं बहुविधाः " इति वक्ष्यमाणपर्यालोचनया विवक्षितत्वावगमात् नासङ्गतिरिति भावः॥ २६॥
॥ इन्द्रियादिसंयममिति॥ कर्मेन्द्रियाणां प्राणापानादीनां च संयममित्यर्थः । नन्वत्र क्रियायज्ञ एव यज्ञेनैवेत्यभिमानत्यागोक्तेः कथं दैवमित्यादि पूर्वसङ्गतमित्यत आह॥ यज्ञेनैवेति॥ स्वयमेव यज्ञ इत्याद्यपूर्वार्थोऽयं कुत इत्यत आह तेनैवेति॥ २७-३१॥
“ब्रह्मणो मुखे " इत्यस्य वेदादावित्यन्यथाप्रतीतिनिरासायाह॥ श्रोत्रेति॥ इति शङ्का स्यात् तामिति शेषः । प्रतीत एवर्थः किं न स्यादित्यत उक्तार्थे स्मृतिसम्मतिमाह॥ सर्वेति॥ ३२॥
द्रव्यमयाद्यज्ञात् ज्ञानयज्ञस्योत्तमत्वे हेतुरुच्यते " सर्वमिति " । तत्र सर्वाखिलशब्दयोरेकार्थत्वप्रतीतेः ज्ञानानन्तरं कर्म नास्तीन्यथाप्रतीतेश्च निरासायाह॥ सर्वमिति॥ पूर्यते सफलं भवतीत्याशयः । समाप्तिशब्दस्य पूर्तिवाचित्वादर्शनात् कथमत्र लूर्तवाचित्वमित्यत आह॥ समाप्तेति॥ धनुर्विद्याविषये सम्पूर्णविद्यान् कृष्णसात्यकियुक्तपञ्चयवचनम् । अस्तु पूर्तावपि समाप्तिशब्दप्रयोगः । तथाप्यत्र पूर्तिवाचित्वं कुतः? प्रतीतार्थ एव किं न स्यादित्यत आह॥ ज्ञानेति॥ पुनर्योगकथनात् ज्ञानानन्तरमपि कर्मानुष्ठानकथनात्॥ ३३॥
ज्ञानस्य कर्मणोऽधिकत्वमुक्त्वा तदापादनं विधीयते “तदिति " तत्र स्वयं ज्ञानोपदेशायैव प्रवृत्तत्वात् “न त्वेवाहम् " इति ज्ञानस्योपदिष्टत्वाच्च कथम् “उपदेक्ष्यन्ति ते ज्ञानम् " इत्युच्यत इत्यत आह॥ ज्ञानमिति॥ उपदेक्ष्यन्तीति निश्चितत्वाभिप्रायेण । परोक्षतयोपदेक्ष्याम इत्येवोच्यमानत्वात् न ज्ञानोपदेशार्थं प्रवृत्तत्वविरोधः । न च ज्ञानस्योपदिष्टत्वविरोधः सङ्क्षेपेणोपदिष्टत्वेऽपि “ज्ञानं तेऽहं " इत्यादिना पुनरुपदेक्ष्यमाणत्वादिति भावः॥ ३४॥
ज्ञानं स्तूयते “यत् इति । तत्र स्वस्मिन्, मयि चेत्यन्यथाप्रतीतिनिरासायाह॥ आत्मनीति॥ ईश्वरमन्तरेण सर्वभूताधारत्वस्यान्यत्रानुपपत्तेर्न प्रतीत एवार्थ इत्यर्थः । एवं चेत् “अथो " इति समुच्चयवाची शब्दो व्यर्थ इत्यत आह॥ अथो इति॥ ३५-४०॥
ज्ञानफलमुच्यते “योग " इति । तत्र “आत्मवन्तं " इत्यात्मा जीवश्चेत् स्वसम्बन्धोक्तिरयुक्ताऽनुपयुक्ता च । परमात्मा चेत्सर्वेषामपि तद्वत्त्वसाम्यात् को विशेषो ज्ञानिन इत्यत आह॥ आत्मेति॥ ४१-४३॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां चतुर्थोऽध्यायः॥ ४॥
हरिः ॐ॥ एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ योगेति॥ पूर्वं समुच्चितः कर्मयोगो निरूपितः । सच योगसन्न्यासभेदेन द्विविधः । द्विविधयोश्च स्वरूपं सङ्क्षेपेण “कुरु कर्मणि “, “सङ्गं त्यक्त्वा " इत्यादावुक्तम् । तदेवानेनाध्यायेन स्पष्टयतीत्यर्थः ।
प्रश्नवाक्यं साभिप्रायमवतारयति॥ योगेति॥ “योगसन्न्यस्तकर्माणम् " इत्यादौ पठितो न्यासशब्दो यत्याश्रमविषयो “योगमातिष्ठ " इत्यादौ श्रुतो योगशब्दो गृहस्थाश्रमविषय इति कल्पयित्वा यतीनां सर्वकर्मत्यागेन ज्ञानमात्राधिकारित्वात् गृहिणां ज्ञानपरित्यागेन कर्ममात्राधिकारित्वात् तयोरेकपुन्निष्ठत्वं न युज्यत इति भावेन योगसन्न्यासयोर्मध्ये श्रेयः पृच्छति । उभयस्यापि कर्तव्यतया विहितत्वादेकेनैवानुष्ठातुमशक्यत्वात् अन्यतरपरित्यागेनान्यतरग्रहणे श्रेयस एव ग्राह्यत्वादिति भावः॥ १॥
ननु योगसन्न्यासयोर्मध्ये श्रेयोमात्र एवायं प्रश्नो, न तूक्तरीत्या विरोधाभिप्रायेण । तथात्वे परिहाराभावादित्यतः परिहारवाक्याभिप्रायमाह॥ एकेति॥ उभयोरेकपुंयोग्यत्वात् निःश्रेयसकरत्वाच्च अनुष्ठेयत्वादन्यतरस्य श्रेष्ठत्वे प्रश्नो व्यर्थ एव । अथ स्वरूपज्ञानमात्रार्थः प्रश्नश्चेद्योग एव विशिष्ट इति भावः । योगसन्न्यासयोरेकपुंयोग्यत्वाभिधायकं पदमत्र न श्रूयत इत्यतस्तत्पठित्वा व्याचष्टे॥ उभाविति॥ द्वावपि प्रत्येकं श्रेयस्करावित्यर्थः किं न स्यादित्यत आह॥ सन्न्यासस्त्विति॥ योगरहितसन्न्यासस्य अनर्थकरत्वोक्तेः सन्न्यासरहितयोगस्यैवासम्भवात् समुच्चितयोरेव निःश्रेयसकरत्वमुच्यते न प्रत्येकमिति भावः॥ २॥
कथं योगसन्न्यासयोः समुच्चयो युज्यते? यतिगृस्थयोरधिकारभेदादित्याशङ्कापरिहाराय श्लोकमवतारयति॥ द्वेषादीति॥ अत्र “सन्न्यस्तकर्माणम् " इत्यादौ । एवं “योगमातिष्ठ “इत्यादौ भगवदर्पणादीयोग एवाभिप्रेतो न गृहस्थाश्रम इत्यपि द्रष्टव्यम् । ननु कथं द्वेषादिवर्जनस्य सन्न्यासत्वमत्रोच्यते? “काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः " इति काम्यकर्मपरित्यागस्य सन्न्यासत्वाभिधायकवाक्यविरोधादित्यत आह॥ न चेति॥ भवेत्तद्विरोधो यद्यत्र द्वेषादिवर्जनमात्रं सन्न्यासत्वेन विवक्षितं स्यात् । नैतदस्ति । काम्यकर्मपरित्यागेनापि सहितस्य द्वेषादिवर्जनस्य सन्न्यासत्वेनाभिप्रेतत्वादित्यर्थः । कथमत्र काङ्क्षादिवर्जनस्य सन्न्यासत्वमुच्यते? “सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणः " इति तस्य त्यागत्वेनोक्तत्वात् । न च सन्न्यासत्यागयोरैक्यादविरोधः । “काम्यानां " इति श्लोके न्यासात्त्यागस्य पृथक्त्वेनोक्तेस्तद्विरोधादित्यत आह॥ न चेति॥ भवत्येवाकाङ्क्षादिवर्जनं न्यासः । न च तस्य त्यागत्वोक्तिवरोधः । न्यासत्यागयोरैक्यात् । न च पृथक्त्वोक्तिविरोधः । यथा खलु पाण्डवानां कुरुत्वेऽपि “सन्तानबीजं कुरुपाण्डवानाम् " इति पृथगुक्तिर्युज्यते, पाण्डवानां कुर्ववान्तरभेदत्वेन कुरुपाण्डवानां साक्षादैक्याभावात्, एवं त्यागस्य न्यासत्वेऽपि न्यासावान्तरभेदत्वेन त्यागन्यासयोः साक्षादैक्याभावात् पृथग् वचनोपपत्तेरिति भावः । न्यसादिशब्दस्य यत्याद्याश्रमार्थत्वं गृहीत्वा तयोरधिकारभेदात् समावेशायोगो यश्चोदितोऽसौ न्यासादिशब्दस्य तदर्थत्वानङ्गीकारेण परिहृतः॥ ३॥
अथासावधिकारभेदोऽपि न युज्यत इत्युच्यते “साङ्ख्य “इति । दुर्गमार्थत्वात् श्लोकं व्याचष्टे॥ बाला इति॥ ज्ञानमार्गं सम्यगास्थित एव ज्ञानफलं प्राप्नोति । कर्मकार्गं च सम्यगास्थित एव कर्मफलं प्राप्नोतीत्यर्थः ।
ज्ञानैकगम्ययतिप्राप्यस्थानप्राप्तिसद्भावाच्च गृदिणां ज्ञानाधिकारोऽस्तीत्युक्त्वा उपसंह्रियते “यत् " इति । तत्र " एकं साङ्ख्यं " इत्युपसंहारवाक्ये ज्ञानकर्मणोरैक्यं किमर्थमुच्यत इत्यतो यथावद्व्याचष्टे॥ तस्मादिति॥ ज्ञानिनां यतीनामिति शेषः । सम्यक्कर्मानुष्ठानेनैव कर्मी कर्मफलं प्राप्नोति चेत्तथापि कुतस्तस्य ज्ञानमित्यत आह॥ न हीति॥ एवं सम्यग्ज्ञानमार्गानुष्ठानैनैव ज्ञानफलं प्राप्नोति चेत्तथापि कुतो ज्ञनिनः कर्मेति शङ्कायां न हि कर्म विना ज्ञानमार्गस्थ सम्यगनुष्ठानं भवति । सम्पूर्णफलसाधनत्वाभावादिति परिहारो द्रष्टव्यः । अत्र स्मृतिसम्मतिं चाह॥ निष्काममिति॥ अनेन कर्मिणां ज्ञानमुच्यते । " बुद्ध्या " इति ज्ञानसद्भावे हेत्वन्तरमाह॥ एतस्मादिति॥ " मुक्तिः " इत्युभयम् ।
कर्मिणां ज्ञानसद्भावादेवेत्यर्थः । अनेन " यत्साङ्ख्यैः " इति व्याख्यातं भवति । उभयोरपि ज्ञानकर्मसद्भावे कथमाश्रमभेद इत्यत आह॥ तस्मादिति॥ उभयोरप्युभयसद्भावस्य युक्त्यादिसिद्धत्वादिति भावः । सङ्कोचविकास सम्भवः॥ ४॥ ५॥
समुच्चितयोरेव योगसन्न्यासयोर्निःश्रेयसकरत्वमुक्तम् । असमुच्चये बाधकमुच्यते " सन्न्यासस्तु " इति । तत्स्मृत्यैव व्याचष्टे॥ मोक्षेति॥ योग इति॥ उच्यत इति शेषः । विष्ण्वर्पिततया तद्रूप इति सम्बन्धः । पादत्रयम् उत्तरार्धव्याख्यातम् । " नान्यः " इति पूर्वार्धस्य । तद्विवृणोति॥ विष्ण्विति॥ आदिपदेन स्वोचितकर्मणां विष्ण्वर्पणादिकं न कार्यमिति बुद्ध्या कृतो नरकफल इति ज्ञातव्यम् । " अयोगतः " इति योगरूपत्वं विनेति किमर्थमुच्यते । योगं विनेत्येव किं न स्यादित्यत आह॥ यमिति॥ यं सन्न्यासम् " इति योगसन्न्यासयोरैक्यस्य वक्ष्यमाणत्वात् सन्न्यासस्य योगरूपत्वमेव वाच्यमित्यर्थः । योगसन्न्यासयोरैक्ये " सन्न्यासः कर्मयोगश्य " इति पृथगुक्तिः कथमित्यत आह॥ योगेति॥ योगो न्यासश्चेत्येक एवार्थः । अपि तु न्यासो योगावान्तरभेदः । अतः कुरुपाण्डववत् पृथगुक्तिरुपपन्नेत्यर्थः॥ ६॥
योगरूपतां विना न्यासस्यानर्थसाधनत्वमुक्त्वा । " योगयुक्तः " इत्यनेन योगरूपसन्न्यासस्योक्तं मोक्षसाधनत्वं प्रपञ्च्यते॥ योगयुक्त इति॥ तत्र योगसन्न्यासयोरेव वक्तव्यत्वात् तयोश्च योगयुक्तादिपदैरुक्तत्वात् " सर्वभूतात्मभूतात्मा " इति किमुच्यत इत्यत आह॥ रर्वेति॥ अनेनापि योग एवोच्यत इति नासङ्गतिः । नापि योगयुक्तपदेन योगस्योक्तत्वाद्वैय्यर्थ्यम् । योगयुक्तपदेन कर्मयोगस्योक्तत्वात् , अनेन ध्यानयोगस्योक्तत्वादिति भावः ।
अत्राधिकारिणः सर्वभूतैक्यमुच्यते । अतः कथमियं ध्यानयोगोकितिरित्युच्यत इत्यतः स्मृत्यैव व्याचष्टे॥ आदानादिति॥ भूतमनाः स्थितमनाः॥ ७॥
योगरूपसन्न्यासस्य मोक्षहेतुत्वमुक्तम् । तत्र सन्न्यासस्य योगरूपत्वं केन प्रकारेणेत्यतन्तत्परिहारत्वेन श्लोकद्वयमवतारयति॥ यथेति॥ तत्रेन्द्रियाणामेव स्वतन्त्र्येण कर्तृत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे॥ विष्णुनति॥ ८॥ ९॥
योगरूपसन्न्यासवतो मुक्तिर्भवतीति नोपचारमात्रमिति भावेन पुनः फलमुच्यते " ब्रह्मणि " इति । तत्र कर्मणां ब्रह्मण्याधानं नामाकरणमेवेत्यन्यथाप्रतीतिनिरासायाह॥ तत्पूजेति॥ आधानं कर्मणामिति शेषः । अन्यथा करोतीत्यस्य व्याघातादिति भावः । भवत्पक्षेऽपि यदि कर्माणि भगवत्कृतानि तर्हि जीवस्याकत्रृत्वं स्यात् । तथाच करोतीति व्याहतं स्यात् । मम शुभार्थमिति चासम्भवीत्यत आह॥ स्वातन्त्र्येति॥ कर्मणां भगवत्कृतत्वे जीवस्याकर्तृत्वं स्यादिति सत्यमेव । न च तावता जीवस्य कर्तृत्वफलसम्बन्धानुपपत्तिः । स्वतन्त्र्याभावविवक्षयैव अकर्तृत्वस्याभ्युपगतत्वेन भगवदधीनतया कर्तृत्वोपपत्तेरिति भावः । अस्वतन्त्रत्वे च जीवस्य भगवत्पूजाकर्तृत्वं शुभयोगश्च न युज्यते । अस्वतन्त्रे कर्तृशब्दप्रयोगस्य फलसम्बन्धस्य चादर्शनादित्याशङ्कां स्मृत्यैव परिहरति॥ स्ववन्दनमिति॥ कारितं शिशुनेति शेषः । शिशुकर्तृकं भवेदिति सम्बन्धः॥ १०-१२॥
इतश्च कर्मणां ब्रह्मण्याधानं नाम तत्र स्वस्य स्वातन्त्र्याभिमानत्याग एव । न तु स्वरूपपरित्याग इत्याह॥ अत इति॥ " ब्रह्मण्याधाय कर्माणि " इति सन्न्यासो ह्युच्येत । तल्लक्षणं च " सर्वकर्माणि " इत्यनेन प्रपञ्च्यते । तत्र कर्मणां स्वरूपपरित्यागाभावादेव हि मनसैव त्यागोऽभिहितः । अतश्च नात्रापि कर्मणां स्वरूपत्यागोऽर्थ इति भावः । मनसैव त्यागाभिधाने कथं स्वरूपत्यागाभाव इत्यह आह॥ अस्वातन्त्र्येति॥ मनसैव कर्मन्यासो नाम स्वातन्त्र्याभिमानपरित्याग एव । न तु स्वरूपत्यागः । तथात्वे मनसेति विशेषणवैय्यर्थ्यादिति भावः॥ १०-१३॥
यदुक्तं जीवानां स्वातन्त्र्याभावापेक्षयैवाकर्तृत्वं, परतन्त्रकर्तृत्वं त्वस्त्येवेति न तद्युक्तम् । " न कर्तृत्वं " इत्युत्तरवाक्यविरोधादित्यत आह॥ यथेति॥ स्वतो जीवानां स्वतन्त्रकर्तृत्वाद्यभावेऽपि परमात्मदत्तं तदस्ति । अतः कथं ब्रह्मण्याधानमुच्यत इत्याशङ्कामेवात्र परिहरति । न तु जीवानां सर्वात्मना कर्तृत्वाभावं वक्तीति भावः । कर्मफलसंयोगे च स्वातन्त्र्यमित्यपि संयोज्यम् । अनेन " न कर्तृत्वं न कर्माणि " इति पौनरुक्त्यं च परिदृतम् । नन्वत्र कर्तृत्वाद्यभाव एवोच्यते, न तु तत्रास्वातन्त्र्यम् । अतः कथमनेनैषा शङ्का परिह्रियत इत्यत आह क्रियायामिति॥ कर्तृत्वादिकं न सृजतीत्यस्य तत्र
स्वातन्त्र्यं न सृजतीत्येवार्थः । अतो भवत्येतदाशङ्कापरिहार इत्यर्थः । नन्वत्रेश्वरस्यैव कर्तृत्वाद्यभाव उच्यत इति किं न स्यादित्यत आह॥ अन्यथेति॥ यद्यत्रेश्वरस्यैव कर्तृत्वाद्यभव उच्यते तदा लोकस्य कर्तृत्वादिकं न सृजतीति व्यर्थं स्यादित्यर्थः ।
यदुक्तं जीवस्य पारतन्त्र्येण कर्तृतवाद्यस्तीति न तद्युक्तम् । कर्तृत्वादि ईश्वरो लोकस्य न सृजतीत्युक्तत्वात् । न च त्र तस्य स्वातन्त्र्यं न सृजतीत्यर्थः । कर्तृत्वादिसद्भावेऽपि स्वातन्त्र्याप्रदानाभिप्रायेण कर्तृत्वादिकं न सृजतीत्येवञ्जातीयप्रयोगादर्शनादित्यत आह॥ जनपद इति॥ यद्यत्र जीवानां सर्वात्मनेश्वरस्य च कर्तृत्वं न निषिध्येत तर्हि " स्वभावस्तु प्रवर्तते " इति स्वभावदेव प्रवृत्तिकथनं न युज्यत इत्यत आह॥ स्वयमेवेति॥ नात्र स्वभावपदेन प्रसिद्धस्वभावोऽभिधीयते । योनोक्तविरोधः । किन्तु स्वस्थितावन्यकरणे च परनिरपेक्षत्वाद्भगवानेवेत्यर्थः । प्रसिद्धपदपरित्यागेनाप्रसिद्धपदप्रयोगः किमर्थमित्यतो हेतुसूचनार्थमिति भावेन वाक्यार्थमाह॥ स्वभावत्वादिति॥
ननु किमर्थमेवमर्थान्तरं कल्पनीयम्? जीवस्येवेश्वरस्य च कर्तृत्वादिकं नास्त्येव । विश्वप्रवृत्तिस्तु स्वभावादेवेत्यर्थः किं न स्यात्? लोकस्येत्यस्य लोकविषय इत्यर्थोपपत्तेरित्यतः स्वोक्तार्थे स्मृतिसम्मतिमाह॥ स्वातन्त्र्यादिति॥ नास्यस्य सृजति । अपि तु स्वयमेव प्रवर्तत इति शेषः । ईश्वरस्यैव कर्तृत्वे कर्मलेपः स्यादित्यत आह॥ स्वातन्त्र्यादेवेति॥ अनेन " नादत्ते " इत्यस्यार्थोऽप्युक्तो भवति । एवं सर्वेषु स्थित्वा स्वातन्त्रेण कर्ता ईश्वरोऽस्ति चेत् कथं न दृश्यत इत्यत आह॥ अज्ञानेति॥ एतेनाज्ञानेति व्याख्यातं भवति ।
यदुक्तमीश्वरः स्वयमेव भावयतीति न तद्युक्तम् । तस्य कर्तृत्वाभावात् । तस्य कर्तृत्वसद्भावेऽपि तस्यास्वाभावविकत्वादित्यत आह॥ अहमिति॥ अहं सर्वस्येति वचनद्वयं कर्तृत्वसद्भावे मानम् । परास्येत्यादिकं कर्तृत्वस्य स्वाभाविकत्वे । त्वदृते दूरे समीपे वा किञ्चन केनापि न क्रियत इत्यर्थः । अत्र भगवदितरस्य कर्तृत्वाभावोक्त्या ईश्वरकर्तृत्वस्यापराधीनत्वसम्भवेन स्वाभाविकत्वमेवोच्यते । लोकवदित्यत्रापि फलाद्यपेक्षाऽभावेन कर्तृत्वोक्त्या तस्य स्वाभाविकत्वमेवोच्यते । इतश्च नेश्वरस्य अकर्तृत्वमस्वाभाविकं कर्तृत्वं चेत्याह॥ विपरीतेति॥ नन्वस्माभिरीश्वरस्य कर्तृत्वमस्वाभाविकपदेनानिर्वाच्यमभिप्रेयते । न तु फलापेक्षं पराधीनं वा । अतो नोदाहृतवचनविरोध इत्यत आह॥ अनिर्वाच्येति॥ ईश्वरस्य कर्तृत्वमनिर्वचनीयमिति पक्षो द्वितीयाध्यायेऽनिर्वाच्यवस्तुनो निरस्तत्वादेव निरस्तः । अतो न पुनरत्र निरसनीय इति भावः ।
ननु ब्रह्मणः सर्वविशेषरहितत्वात् कथं परमार्थतः कर्तृत्वं स्यादित्यत आह॥ न चेति॥ भवेद्ब्रह्मणः कर्तृत्वस्यापारमार्थिकत्वें, यदि तस्य सर्वविशेषराहित्यं स्यात् । न च तद्युक्तम् । तथात्वे ब्रह्मणः शून्यत्वापत्त्या तदभ्युपगन्तृणां शून्यवादित्वापातादिति भावः । सर्वविशेषरहितत्वेऽपि न ब्रह्मणः शून्यत्वापत्तिः, अस्तित्वादित्यत आह॥ न हीति॥ न भवेद्ब्रह्मणः शून्यत्वापत्तिः, यदि तस्यास्तित्वं सिध्येत् । न च तत्सिद्धिः । सर्वविशेषरहितमित्यङ्गीकारादिति भावः । सर्वविशेषरहितत्वेऽपि कुतोऽस्तित्वं न सिद्ध्यतीत्यत आह॥ वाच्यत्वेति॥ अस्तित्वे ब्रह्मणः अस्तित्वमस्तिशब्दवाच्यत्वं वा स्यात् । तस्य च विशेषत्वात् न तत्सर्वविशेषरहितस्य युज्यत इति भावः ।
भवेन्निर्विशेषत्वेऽस्तित्वासिद्धिः, यद्यस्तित्वं ब्रह्मणो विशेषतया अङ्गीक्रयते । नैतदस्ति । तस्य ब्रह्मस्वरूपमात्रत्वादित्यत आह॥ अन्यथेति॥ यद्यस्तित्वादिकं ब्रह्मणः स्वरूपमात्रं न तद्विशेषस्तर्हि ब्रह्म ब्रह्मेतिवदस्ति ब्रह्मेत्यादिशब्दानां पर्यायत्वं स्यात् । ततश्च " अस्ति ब्रह्मेति चेद्वेद " इत्यादिसहप्रयोगानुपपत्तिः स्यात् । तथा चोपनिषदां पुनरुक्तिदोषेण उन्मत्तवाक्यवदनादरणीयत्वं स्यादिति भावः । ब्रह्मण्यस्तित्वादिविशेषाभावेऽपि आरोपितासत्त्वादिविशेषव्यावृत्तिकथनद्वारा अस्त्यादिपदानि तल्लक्षयन्ति । अतो न शब्दानां पर्यायत्वादीत्यत आह॥ व्यावर्त्येति॥ भवेदस्त्यादिपदानामपर्यायत्वं, यद्यस्त्यादिपदानि ब्रह्मणोऽसत्त्वादि व्यावर्तयन्ति । न च तद्युक्तम् । व्यावर्त्यासत्त्वादिविशेषव्यावृत्तेः व्यावृत्ततयाऽङ्गीकृतब्रह्मगतास्तित्वादिविशेषनिवन्धनत्वात् । तेषां चानङ्गीकारात् । ब्रह्मण्यस्तित्वादिविशेषभावेऽपि असत्त्वादिव्यावृत्तावसतोऽपि तद्व्यावृत्तिप्रसङ्गात् । गङ्गापदलक्ष्योऽपि तीरे गङ्गात्वाभावेऽपि अगघ्गात्वव्यावृत्तिप्रसङ्गादिति भावः ।
इतोऽप्यस्त्यादिपदानि अस्तित्वादिविशेषबोधकानि नेति न युक्तमित्याह॥ अन्यथेति॥ यद्यस्त्यादिपदानि न अस्तित्वादिब्रह्मविशेषबोधकानि तर्हि तेषां वैय्यर्थ्यमेव स्यात् । ब्रह्मजिज्ञासुं प्रति ब्रह्मकथनस्यैव सार्थक्यात् । ब्रह्मणश्च ब्रह्मपदादेवावगतत्वात् । न चासत्त्वादिव्यावृत्तिः प्रयोजनम् । तदसम्भवस्योक्तत्वात् । ब्रह्म कुतो व्यावृत्तमित्यजिज्ञासितत्वाच्च । अजिज्ञासितत्वेऽपि ब्रह्मण्यसत्त्वादिभ्रान्तिः निवार्यत इति चेन्न । विकल्पासहत्वात् । भ्रान्तिः किं प्रतीतेऽप्रतीते वा ब्रह्मणि भवेत्? । नाद्यः । ब्रह्मप्रतीतौ तन्मात्रस्य सत्त्वादेरपि प्रतीतत्वेन भ्रान्त्यनवकाशात् । ब्रह्मप्रतीतावपि सत्त्वाद्यप्रतीतौ तन्मात्रत्वानुपपत्तेः । न द्वितीयः । अदृष्टकल्पनाप्रसङ्गादिति भावः ।
इतश्च न अस्त्यादिपदैरसत्त्वादिव्यावृत्तिद्वारा ब्रह्म लक्ष्यम् । तस्य सर्वशब्दावच्यत्वाङ्गीकारात् । शब्दवाच्यस्यैव
लक्ष्यत्वद्सनादित्याह॥ न चेति । अस्तित्वाङ्गीकारे ब्रह्मणः सविशेषत्वप्रसङ्गात् न तत्सिद्ध्यतीत्युक्तम् । इतोऽपि न ब्रह्मणोऽस्तित्वं सिद्ध्यति । तत्प्रमाणाभावात् । प्रमाणं विनाऽर्थसिद्धेः क्वाप्यदर्शनात् । प्रमाणकथने च सर्वप्रमाणागोचरत्वाङ्गीकारभङ्ग इति भावः । यद्यस्तित्वे प्रमाणाभावात् न तत्सिद्ध्यतीत्युच्यते तर्हि ब्रह्मणो नास्तित्वमपि न सिद्ध्यति । तत्र प्रमाणाभावात् । तथाच न शून्यवादाविशेषापादनं ब्रह्मवादस्य युज्यत इत्यत आह॥ नास्तित्वमिति॥ ब्रह्मणो न नास्तित्वेऽस्माभिः पृथक् प्रमाणं वक्तव्यम् । तस्यास्तित्वप्रमाणाभावेनैव सिद्धेः । यथा खलु सप्तमरसाद्यस्तित्वे प्रमाणाभावात् नास्तित्वं सिद्ध्यति तथैवेत्यर्थः । अनेनानुपलब्धिलिङ्गकमनुमानं सूचितं भवति ।
ननु प्रमाणावेद्यत्वेऽपि ब्रह्मणो न नास्तित्वं वाच्यम् । स्वप्रकाशतयैव तस्तिद्धेरिति येन्न, विकल्पानुपपत्तेः । तथाहि-स्वप्रकाशत्वे ब्रह्मणः प्रमाणमस्ति न वा? न तावाद्द्वितीयः । प्रमामाभावे तदसिद्धेरित्याह॥ स्वप्रकाशत्वं चेति॥ आद्ये स्वप्रकाशत्वं ब्रह्मातिरिक्तं तत्स्वरूपमेव वा? प्रथमं दूषयति॥ स्वयम्प्रकाशत्वामिति॥ यदि ब्रह्मणः स्वतिरिक्तं स्वयम्प्रकाशत्वं प्रामाणिकं स्यात्तदा तस्य सविशेषत्वं प्रसज्यत इत्यर्थः । द्वितीयं दूषयिति॥ न चेदिति॥ यदि स्वयम्प्रकाशत्वं न ब्रह्मातिरिक्तं, किन्तु तत्स्वरूपमेव तर्हि स्वयम्प्रकाशत्वे प्रमाणसद्भावाङ्गीकारे ब्राह्मैव प्रमाणगम्यामङ्गीकृतं स्यात् । तथाचाप्रमेयत्वभङ्ग इत्यर्थः ।
न स्वप्रकाशपदेन स्वविषयप्रकाशत्वमुच्यते । येन तस्य ब्रह्मातिरिक्तत्वे ब्रह्मणः सविशेषत्वं स्यात् । किन्तु परप्रकाशत्वाभाव एवेत्यत आह॥ परेति॥ यदि स्वप्रकाशपदेन परप्रकाशनिरासमात्रमभिप्रेयते तर्हि ब्रह्मणः प्रकाशराहित्यमेव स्यात् । परप्रकाशस्यानभिमतत्वात् । स्वविषयप्रकाशत्वाख्यास्य स्वप्रकाशत्वस्योक्तरीत्या प्रमामाभावेन, भावे च सविशेषत्वप्रमेयत्वप्राप्त्या निरस्तत्वादिति भावः ।
तथापि न नास्तित्वं ब्रह्मणो वक्तृं शक्यते । " अस्ति ब्रह्म " इत्यादिश्रुत्या असत्त्वादिव्यावृत्तिद्वारा ब्रह्मणि लक्षितेऽर्थतस्तस्यास्तित्वसिद्धेरिति चेन्न । दूषितत्वात् । अभ्युपगम्याप्याह॥ अर्थत इति॥ तत्प्रमाणत इति॥ अस्ति ब्रह्मेति श्रुतिप्रमाणत इत्यर्थः । यदुक्तं स्वप्रकाशत्वेन ब्रह्म सिद्ध्यतीति तद्व्याहतं चेत्याह॥ स्वप्रकाशेति॥ न स्वप्रकाशपदेन स्वविषयप्रकाशत्वमङ्गीक्रियते । किन्तु परप्रकाशत्वानङ्गीकारमात्रमेव । अतः स्वपरप्रकाशून्यतया स्वप्रकाशत्वेन ब्रह्मणोऽसिद्धिरेव स्यान्न तु तेन तत्सिद्धिरित्यर्थः ।
किञ्च भवेद् ब्रह्मणः स्वप्रकाशता यदि प्रकाशत्वमेव सम्भवेत् । न च तत्सम्भवति । ब्रह्माख्याप्रकाशस्य प्रकाश्यरहितत्वात् । न तावत् स्वयं प्रकाश्यम् । अनङ्गीकारात् । नाप्यन्यत् । तदभावात् । न च प्रकाश्यरहितप्रकाशरूपं ब्रह्मेति वाच्यम् । स्वमन्यं वा प्रकाश्यं विना प्रकाशस्यादृष्टत्वात् । यथा भोज्यरहितं भोजनं न दृष्टं तथैवेत्याह॥ प्रकाश इति॥ नन्वेकस्यां कियायामेकस्यैव कर्तृत्वं कर्मत्वं च विरुद्धम् । अतः कथं प्रकाश्यं विना प्रकाशो न दृष्ट इत्युच्यते । स्वस्यैव प्रकाश्यते स्वयमेव प्रकाशयति प्रकाशते चेत्येकस्यैव कर्तृत्वकर्मत्वापत्तेरित्यत आह॥ कर्तृकर्मेति॥ मामहं जानामीत्येकस्यैवैकस्यां विरुद्धमिति भावः ।
ननु प्रकाशो नाम द्रव्यम् । अतः कथं तस्य भोजनादिवत् कर्मापेक्षेत्याशङ्कां परिहरन् अधिकं च दोषमाह॥ ज्ञानं चेति॥ ब्रह्मणः प्रकाशत्वं नाम ज्ञानत्वमभ्युपगतम् । न च ज्ञानत्वं ब्रह्मणो युक्तम् । ज्ञातृज्ञेयरहितत्वात् । तद्रहितज्ञानस्यादृष्टत्वादित्यर्थः । उपसंहरति॥ अत इति॥ यतः सर्वविशेषरहितत्वेनाप्रमेयत्वेन च ब्रह्मणो न अस्तित्वं सिद्ध्यत्यत इत्यर्थः । भगवतः कर्तृत्वाभावादिनिराकरणमुपसंहरति॥ अत इति॥ दुष्टत्वात्॥ कर्तृत्वं नास्ति, सद्भावे वाऽस्वाभाविकमिति मतस्य । पुनरीश्वरस्य स्वभावतः कर्तृत्वे श्रुतिं चाह॥ हरिरिति॥ १४॥
" ज्ञानेन " इति प्रकृततज्ञानस्य साधनान्तरमुच्यते " विद्या " इति । तत्र न ब्राह्मणादिविषये समबुद्धित्वं विवक्षितम् । किन्तु तद्गतपरब्रह्मविषय एव । ब्राह्मणादीनां विषमत्वात् तद्गतब्रह्मण एव समत्वात् विपरीतज्ञानस्य च ज्ञानासाधनत्वादिति भावेन जीवानां बैषम्ये ब्रह्मणः साम्ये च प्रमाणमाह॥ विषमेष्विति॥ अनेन " निर्दोषं हि समं ब्रह्म " इत्येतदपि व्याख्यातं भवति॥ १८-२०॥
यदुक्तं योगरूपसन्न्यासस्य निःश्रेयकरत्वं तदुपपाद्यते " बाह्य " इति । तद्दुर्गमार्थत्वाद्व्याचष्टे॥ संसारेऽपि परमात्मस्मरणाद्यल्पयोगयुक्तः सन्न्यासी सुखं विन्दति यदा तदा ध्यानादिमहायोगयुक्तो मोक्षादिनिःश्रेयसं विन्दतीति किमु वाय्यमित्यर्थः॥ २१-२३॥
ज्ञानिलक्षणमुच्यते " योऽन्तःसुखः " इति । तत्र ब्रह्मभूतपदं ब्रह्मणैकीभूत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे॥ ब्रह्मणीति॥ मनसेति शेषः । प्रतीत एवार्थः किं न स्यादिति चेन्न । ज्ञानिनोऽपि ब्रह्मभेदस्य साधितत्वात् । दोषान्तरं चाह॥ अन्यथेति॥ यद्यत्र ज्ञानिनो ब्रह्म भावोऽभिधीयते तर्हि ब्रह्माधिगच्छतीति विरुद्धं स्यात् । न हि कश्चित् स्वयं स्वात्मानं गच्छतीत्यर्थः । नन्वत्र अन्तःसुखत्वादिकं भवतु ज्ञानिलक्षणम् । अन्तर्ज्योतिष्ट्वं कथं ब्रह्मदर्शिनो लक्षणं स्यात् । यावता ब्रह्मदर्शित्वमेव तदित्यत आह
॥ अन्तःसुखत्वादिकमिति॥ नात्रान्तर्ज्योतिष्ट्वं ज्ञानिलक्षणमुच्यते । किन्तु अन्तःसुखत्वाद्येव । तत्र कारणत्वेनान्तर्ज्योतिष्ट्वमुच्यत इति भावः॥ २४-२७॥
ब्रह्मयोगादिपदेन प्राकृतध्यानप्रकार उच्यते " स्पर्शान् " इति । तत्र ध्यानिनोऽमुक्तस्य कथं " मुक्त एव सः " इति मुक्तत्वमुच्यत इत्याशङ्कां स्मृत्यैव परिहरति॥ अमुक्त इति॥ मुक्तसादृश्यमभिमानादिपरित्यागः । मुक्त एवोच्यत इति शेषः । यस्मात् ज्ञानसामर्थ्येन एवं फलं भवति तस्मात्॥ २८-२९॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपाकायां पञ्चमोऽध्यायः॥ ५॥
हरिः ॐ॥ एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ ध्यानमिति॥ " योगे त्विमां श्रृणु " इति प्रतिज्ञातम् । योगश्च कर्मयोगो ध्यानयोगश्चेति द्वेधा भावति । तत्र सङ्क्षेपविस्तराभ्यां कर्मयोगो निरूपितः । ध्यानयोगप्रकारश्च सङ्क्षेपेण पञ्चमान्ते निरूपितो विस्तरेणास्मिन्नध्याये उच्यत इति भावः ।
प्रकृतं ध्यानमग्न्यादिपरित्यागेन निस्सङ्गतया सर्तमानस्य भवतीत्याशङ्का निरस्यते " अनाश्रित " इति । तत्र निरग्नेः सन्न्यासित्वं योगित्वं च नास्तीत्युक्तं नोपपद्यते । तथासति यत्याश्रमस्याननुष्ठेयत्वप्रसङ्गात् । यतेर्निरग्नित्वेन योगसन्न्यासाभावप्राप्तेः । तयोरेव श्रेयःसाधनत्वादित्यत आह॥ स इति॥ भवेदनेन यत्याश्रमस्याननुष्ठेयत्वप्रसङ्गो यदि यतेर्निरग्नित्वं स्यात् । न च तदस्ति । स ब्रह्मनिष्ठ इति तस्याप्यग्निश्रवणादिति भावः । इतश्च न यतेरग्नित्वमित्याह॥ आत्मेति॥ यत्यश्रमस्वीकारकाले पूर्वाश्रमस्वीकृताग्नेरात्मनि समारोपणाच्च न यतेरनग्नित्वमित्यर्थः । अनेन न केवलं निरग्निरक्रियो यतिरेव सन्न्यासी योगी च । किन्त्वनाश्रितः कर्मफलं कार्यं कर्म करोति यः सोऽपीत्यपव्याख्यानं च निराकृतं भवति॥ १॥
सन्न्यासी योगी चेत्युक्त्या प्राप्ता सन्न्यासयोगयोः पृथक्त्वाशङ्का निवार्यते " सन्न्यासम् " इति । तत्र सन्न्यासयोगसोरैक्ये कथं पृथगुक्तिरित्यत आह॥ योगेति॥ २॥
कर्मयोगमध्ये कीदृशो योगो ज्ञानार्थिनोऽवश्यापेक्षित इत्यत उच्यते " आरुरुक्षोः " इति । तत्र योगरूढपदस्य दुर्गमार्थत्वादर्थमाह॥ सम्पूर्णेति॥ अत्र ज्ञानार्थिनः कर्म अपेक्षितमित्युक्त्वात् ज्ञनिनः कर्मोपशमोऽपेक्षित इत्युच्यते । तथाच न निरग्निर्न चाक्रिय इत्यादिविरोध इत्यत आह॥ नानेति॥ नानाजनस्य उत्तमाधममध्यमस्य॥ करवन्मितेरिति॥ राजादिकरवदावश्यकतया प्रमितत्वादित्यर्थः । योगस्थेनापि शुश्रूषायाः कार्यत्वे को विशेषो योगार्थियोगस्थयोरित्यत आह॥ तेनापीति॥ अन्यैर्योगार्थिभिः । योगारिथियोगस्थयोर्विशेषे वक्तव्ये असिद्धसिद्धयोर्विशेषः किमर्थमुच्यत इत्यत आह॥ प्राप्तेति॥ नानाजनस्य शुश्रूषा कथं ज्ञानस्य साधनमित्यतो भगवत्प्रसादद्वारेत्याह॥ तस्येति॥ नन्वज्ञानामपि हरौ स्थितत्वाद्योगस्थेन हरौ स्थितिः कार्येति किमुच्यत इत्यत उक्तं विवृणोति॥ सिद्धेति॥ अन्यत् नानाजनशुश्रूषादि । ज्ञानिनो मोक्षनियमात् किं ध्यानादिनेत्यत आह॥ तस्येति॥ ततश्च मुक्तावानन्दपूर्तिरिति भावः । अत्र कर्मपदेन नानाजनशुश्रूषैवोच्यते न तु सन्ध्यावन्दनादि । शमपदेन च नानाजनशुश्रूषोपशम एवोच्यते । भगवद्ध्यानादिकं च । न सन्ध्यावन्दनादिकर्मोपशमः । नानाजनस्येति स्मृतिसमाख्यानात् । अतो नास्य पूर्योक्तविरोध इति भावः । शमपदस्य विष्णुध्यानादिवाचित्वे स्पष्टर्थां स्मृतिं चाह॥ शम इति॥ ३॥
योगरूढलक्षमुच्यते " यदा हि " इति । तत्र न कर्मस्वनुषज्यत इति ज्ञानिनः कर्माभावकथनान्न चाक्रिय इत्यादिविरोध इत्यत आह॥ कथमिति॥ नात्र ज्ञानिनः स्वरूपतः कर्मानुषङ्गोऽभिधीयते । किन्तु सर्वकर्मसु सङ्कल्पन्यानेनैव । तथा स्वयमेव व्याख्यातत्वादिति भावः । यदि सर्वकर्मसु सङ्ल्पन्यासस्तर्हि कर्मस्वरूपन्यास एव प्राप्नोति । स्वरूपात्यागे सङ्कल्पत्यागायोगादित्यत आह॥ मयीति॥ भवेत्कर्मस्वरूपत्यागप्राप्तिर्यदि सङ्कल्पस्वरूपत्यागोऽभिप्रेतः स्यात् । न चासावस्ति । सङ्कल्पसन्न्यासपदेन सङ्कल्पादेर्भगवदधीनताज्ञानस्यैवाभिप्रेतत्वात् । मयी सर्वाणि कर्माणि सन्न्यस्यैत्यत्र सन्न्यासपदस्य भगवदधीनताज्ञानार्थतायाः समर्थितत्वादिति भावः । प्रकाणान्तरं चाह॥ मदधीनमिति॥ ४॥
योगारोहस्य भगवत्प्रसादो मुख्यसाधनमित्युच्यते " उद्धरेत् " इति । तत्राऽत्मपदं जीवादिमात्रविषयं न परमात्मविषयमित्यन्यथाप्रतीतिनिरासाय स्मृत्वैव व्याचष्टे॥ उद्धरेतेति॥ कीदृशाः सन्तः कीदृशा असन्त इत्यत उक्तं विवृणोति॥ तदिति॥ तदन्यस्य भक्त्याऽवशीकृतपरमात्मनः पुरुषस्य । इतोऽप्यत्र आत्मपदेन परमात्मग्रहणं युक्तमित्याह॥ परमात्मेति॥ येन आत्मा वशीकृतस्तस्यासौ बन्धुतया किं करोतीत्यपेक्षायां वाक्यशेषे वशीकृतोऽसौ परमात्मा तस्य हृदि सम्यगाहितो भवतीत्युक्तत्वात् पूर्वमप्यात्मापदेन परमात्मैवोच्यत इति ज्ञायत इति भावः॥ ५॥ ६॥
योगारूढलणं प्रपञ्च्यते " शीतोष्ण " इति । तत्र ज्ञानविज्ञानशब्दयोरर्थभेदं स्मृत्यैवाह॥ सर्वत्रेति॥ सर्वत्र वेदादौ॥ ७॥ ८॥
ननु सुहृदादीनां विषमत्वात् कथं तेषु ज्ञानिनः समबुद्धित्वमुच्यत इत्याशङ्कां स्मृत्यैव परहरति॥ यस्येति॥ सुहृन्मित्रपदयोः अरिद्वेष्यपदयोः उदासीनमध्यस्थपदयोश्च एकार्थत्वप्रतीतिनिरासाय स्मृत्यैव तदर्थमाह॥ अनिमित्तेति॥ ज्ञात्वोपकारकृदिति॥ स्वयमेव तस्य क्लेशस्थानं निरूप्योपकारकर्तेत्यर्थः॥ ९-१९॥
योगसम्पूर्तिस्वरूपमुच्यते " यदा " इत्यादिना । तत्र आत्मनाऽऽत्मानमित्यात्मशब्दयोर्जीवादिविषयत्वप्रतीतिनिरासायाह॥ आत्मानमिति॥ अन्यथा तोषायोगादिति भावः॥ २०-२६॥
योगफलमुच्यते " प्रशान्त " इति । तत्र ब्रह्मभूतपदस्य अन्यार्थप्रतीतिनिरासायार्थमाह॥ ब्रह्मणीति॥ अन्यथा बहुप्रमाणविरोधदिति भावः॥ अनेन पूर्वोक्तं मत्संस्थापदमपि व्याख्यातं भवति॥ २७-२८॥
ध्येयमुच्यते " सर्वभूतस्थम् " इति । तत्रात्मपदेन जीव उच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ सर्वेति॥ भोक्तारमिति सङ्क्षेपोक्तौ परमात्मन एव ध्येयत्वोक्तेः, यो मामित्यनुवादाच्चेति भावः॥ २९-३०॥
परमात्मध्यानफलमुच्यते " सर्वं " इति । तत्र " णकत्वमास्थितः " इत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे॥ सर्वत्रते॥ अन्यथा सर्वभूतस्थितमिति स्ववचनविरोधादिति भावः॥ ३१॥
योगिन एव इत्थम्भावान्तरमुच्यते " आत्मा " इति । तत्सर्वप्राणिविषयमित्यन्यथाप्रतीतिनिरासाय व्याचष्टे॥ अत इति॥ अत्र भगवदीयोष्वेव स्वस्मिन्निव स्नेहो विधीयते, न त्ववैष्णवेषु । वन्धुरात्मेति वैष्णवानानमेव भगवत्प्रियत्वस्योक्तत्वात् , अनात्मन इत्यवैष्णवानां भगदप्रियत्वस्योक्तत्वादिति भावः॥ ३२-३६॥
अयतिरित्यर्जुनप्रश्नवाक्यगतायतिपदस्य गृहस्थादिरित्यन्यथाप्रतीतिनिरासायार्थमाह॥ अयतिरिति॥ गृहस्थादिरेवार्थः किं न स्यादित्यत आह॥ प्रयत्नादिति॥ अयतेस्तत्र श्रद्धावशात् चतुर्थाश्रमी भवतीति परिहारप्रसङ्गादिति भावः । ननु योगशब्दस्य ज्ञानोपायार्थत्वात् श्रद्धावान् लभते ज्ञानमित्यादेः श्रद्धाया अपि ज्ञानोपायत्वात् श्रद्धयोपेतो योगाच्चलितमानस इति परस्परविरोध इत्यत आह॥ योगेति॥ भवेदयं विरोधो यदि योगशब्देनात्र सामान्यतो ज्ञानोपयोऽभिधीयते । न च तदस्ति । ध्यानस्यैव विवक्षितत्वात् । न च योगशब्दस्य ज्ञानोपायवाचित्वविरोधः । ध्यानस्यापि ज्ञानोपायविशेषत्वादिति भावः ।
योगाच्चलितमानसस्य " प्राप्य पुण्यकृतान् लोकान् " इत्यादिफलमुपपाद्यते " जिज्ञासुः " इति । तत्र योगजिज्ञानोः विधिनिषेधाभावप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे॥ मोक्षेति॥ तदास्थित इति॥ तत्राल्पप्रवृत्तिमानित्यर्थः॥ ४४-४५॥
योगः स्तूयते " तपस्विभ्य " इति । तत्र योगस्य ज्ञानार्थत्वात् कथं ज्ञानादुत्तमत्वमुक्तमित्यतः तत्स्मृत्यैव व्याचष्टे॥ तपस इति॥ अज्ञानिध्यानन इति॥ सम्यग् ध्यानप्रकाराज्ञस्य ध्यानतो ध्यानप्रकारज्ञानमेवोत्तमम् । ध्यानप्रकारज्ञानसहितं ध्यानं ध्यानप्रकारज्ञानमात्रतोऽधिकमित्यर्थः । ध्यानिष्वपि तारतम्यमाह॥ तत्रापीति॥ कीदृशोऽभक्त इत्यत आह॥ अन्येति॥ न भक्तिर्येषु तेऽभक्तयः । अन्यान् मदधीनान् जानन्नित्यनन परिवारतया अन्योपासनमुच्यते । मदुपासकेष्वपि विषुद्धधीः निष्कामो वर इत्यर्थः अनेन योगिनामिति श्लोको व्याख्यातो भवति । तथाहि-सर्वेषां योगिनां मध्ये यः श्रद्धाशब्दोदितमद्भक्तिमान् स एव युक्तो मतः । तत्रापि यो मां भजते स एव युक्ततरो मतः । तत्रापि फलकामनां विना यो मां भजते न युक्ततमो मत इति॥ ४६-४७॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां षष्ठोऽध्यायः॥ ६॥
हरिः ॐ॥ एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ भगवदिति॥ यत्पूर्वोक्तं ध्यानं तद्भक्तिपूर्वकमेव ज्ञानसाधनं, नान्यथा । अतो भक्त्यर्थं भगवन्महिमाऽस्मिन्नध्यायेऽभिधीयत इत्यर्थः । न त्वेवाहमित्यादिना प्रागपि भगवन्महिम्नो वर्णतत्वात् किमननेत्यत उक्तम्॥ विशेषत इति॥ प्राक् सङ्क्षेपेणोक्तोऽत्र विस्तरेणोच्यत इत्यर्थः । उपरितनाध्यायानामपि भगवन्महिमाभिधायकत्वादर्तेत्याहि नोक्तम् ।
प्रतिज्ञाते ज्ञाने लिप्सामुत्पादयितुं दौर्लभ्यं तस्योच्यते “मनुष्याणाम् " इति॥ तत्मृतिभिर्व्याचष्टे॥ अनन्तानामिति॥ केचनैव चेत् सम्यग्विदुस्तर्हि कथमितरेषां मोक्ष इत्यत आह॥ अन्येषामिति॥ अनेन यततामपि केचित् सिद्धा भवन्तीति व्याख्यातं भवति । जीवन्मुक्तानां सर्वेषामपि सिद्धिपदोदिता मुक्तिर्भवति । सिद्धिं गताः सर्वेपि नारायणायनाः, तज्ज्ञानादिमत्त्वात् । नारायणपरायणस्तु सुदुर्लभ इत्यर्थः । जीवघनो जीवसारः । अनेन न केवलं महाज्ञानिनो दौर्लभ्यमपि तु महाभक्त्यादिमानपि दुर्लभ इत्युक्तं भवति॥ ३॥
प्रतिज्ञातं ज्ञानमुच्यते " भूमिः " इत्यादिना । तत्मृत्यैव व्याचष्टे॥ अचेतनेति॥ चेतना श्रीरित्यनेन जीवभूतामिति व्याख्यातं भवति । ते उभे इत्यनेन मे प्रकृतिरित्यस्यार्थ उक्तो भवति । एतद्योनीनीत्यस्यार्थो जगत इति । विष्णोरेव जगत्कारणत्वात् कथमेतदित्यत आह॥ पितेति॥ पितृत्वेनैव विष्णुः कारणमित्यर्थः । अनेनाहं कृत्स्नस्येति व्याख्यातं भवति । तर्हि प्रकृत्योः
कीदृशं कारणत्वमित्यत्र आह॥ मातेति॥ अचेतनप्रकृतेरुपादानत्वशक्तिरपि भगवदधीनेत्युच्यते॥ विष्णुबलेरितेति॥ ४-६॥
त्वद्वत्सर्वोत्तमान्तरस्यपि पितृत्वाद्युपपत्तेः कथं कृत्स्नस्येत्याद्युक्तमित्यत उच्यते " मत्त " इति । तत्र स्वव्यतिरिक्तमात्रं निषिध्यत इत्यन्यथाप्रतीतिनिरासायाऽह॥ मत्त इति॥ नात्र स्वव्यतिरिक्तनिषेधः, किन्तु मत्तोऽन्यद्वस्तु परतरं न भवति । किन्त्वहमेव परतरः । अतः " अहं कृत्स्नस्य " इत्यादि युक्तमेवोच्यत इति भावः । स्वातिरिक्तनिषेधोऽयं किं न स्यादित्यत आह॥ अन्यथेति॥ यद्यत्र स्वातिरिक्तनिषेधस्तर्हि परतरपदेनैव स्वातिरिक्तस्योक्तत्वादन्यादिति व्यर्थं स्यात् । अन्यदिति पदस्य स्वातिरिक्तार्थताभ्युपगमे च परतरमिति व्यर्थं स्यादित्यर्थः । यदि विष्णुरेव परतरस्तर्हि परावरादिना भाव्यम् । तत्किमित्यत उक्तार्थे स्मृतिमाह॥ अवरा इति॥ दुःखसम्बन्धित्वान्न परो, दुःखेन सम्यगपीडितत्वाच्च नावरः । अतो मध्यम इत्यर्थः । विष्णुः परतरश्चेत् कः परतम इत्यत आह॥ अभावादिति॥ अत्र परतरपरतमपदाभ्यां विष्णुरेक एवोच्यते । न त्वसौ परतम एव । परभूतश्रीतत्त्वस्य परतमभूतविष्मोश्च मध्ये परतरस्यान्यस्याभावात् । नापि विष्णुः परतर एव । परतमस्यान्यस्याभावादिति भावः । ननु जडप्रकृतेरपि नित्यनिर्दुःखत्वात् कथं श्रीरेकैव परेत्यत आह॥ यस्या इति॥ निर्दुःखत्वेऽपि दुःखकारणत्वेन जडप्रकृतेरसन्दिग्धमवरत्वमेवेत्यर्थः ।
यदुक्तं जीवा अवरा इति तस्यापवादमाह॥ अथेति॥ अत्रापि तरप्तमपावेकार्थौ । नन्वचेतनादपि चेतनस्योत्तमत्वात् ईश्वरविमुखानामवरतरत्वे कथं प्रकृतेरवरत्वमित्यत आह॥ न हीति॥ जीवानां दुःखसम्बन्ध उक्तस्तर्हि मोक्षः कथं स्यादित्यत आह॥ अत इति॥ उक्तप्रकारेणेत्यर्थः । ननु भगवज्ज्ञानेन दुःखमोक्षो भवति चेत् मुक्तस्य परत्वं स्यात् । तथा च श्रीरेकैव परेत्ययुक्तमित्यत आह॥ मुक्त इति॥ सुनित्यसुखभोजनादवरत्वाभावेऽपि प्राक् दुःखाभावसाम्येऽपि न सुखादावपि साम्यमित्याह॥ तत्रापीति॥ ननु श्रुत्यादौ ज्ञानविज्ञानाभ्यां मोक्षोक्तेः कथं विष्णोः परतरत्वज्ञानेन मोक्षोऽभिहित इत्यत आह॥ विष्मोरिति॥ उच्यते श्रुत्याहाविति शेषः । एवं श्र्यादीनां परत्वादिज्ञानेन । अनेन " ज्ञानं तेऽहं सविज्ञानम् " इत्यस्याप्यर्थ उक्तो भवति । ज्ञानविज्ञानयोर्दौलभ्यं लिप्सोत्पादनायाऽह॥ एतच्चेति॥ मुक्तानां तारतम्ये वाऽनेन हेतुरुच्यते । अनेन मनुष्याणामित्येतदपि व्याख्यातं भवति॥ ७॥
विष्णुतन्त्रत्वात् सर्वस्यासौ परतर इति तदधीनत्वप्रदर्शनेनाह॥ स इति॥ अनेन विज्ञानप्रदर्शकं रसोऽहमित्यादि व्याख्यातं भवति । रसयति रसमादत्ते रसं प्रेरयति । प्रभासनात् स्वयं प्रभासमानत्वात्, प्रभाप्रेरणाच्च । प्रणौति स्तौति स्तावकत्वं प्रेरयति च । शब्दयति वक्ति शब्दं प्रेरयति च॥ ८॥
सुरभ्यसुरभितया गन्धं प्रेरयति, स्वयं सुरभिश्चेति पुण्यगन्धः । स्वयं पुण्यगन्धप्रदत्वाच्च । तेजस्वी वर्तते, तेजः प्रेरयति चेति तेजः । जीवनप्रदः तस्माज्जीवनम् । तपयति तपः कुरुते प्रेरयति चेति तपः॥ ९॥
व्यञ्जनाद् व्यञ्जकत्वात् प्रेरकत्वाच्च । बोधनात् बोद्धृत्वद् बुद्धिप्रेरकत्वाच्च॥ १०॥
विषयभोगनिरपेक्षतया नित्यपूर्णबसत्वात् कामवर्जितं बलम् । अस्थानेऽप्रयुज्यमानत्वाद् रागविवर्जितं लसम् । रागिणो
ह्यस्थानेऽपि बलं प्रयुञ्जते । कामरागविवर्जितबलदश्चति वा । अर्थान्तरमुच्यते॥ एतादृशेति॥ एतादृशबलात्मेत्यनुवादः । अर्थान्तरं चोच्यते॥ वेति॥ तद्गतेः पूर्णरतित्वात् । अत्रापि कामरागराहित्यं पूर्ववत् । धर्माविरुद्धेच्छाप्रेरकत्वाच्चेति ज्ञातव्यम् । अप्सु रस इत्यादिव्यावस्थयाऽबादिसर्वेषां रसादिसर्वदोऽतो रसादिनामेत्यर्थः । रसाद्यभेदात्तन्नामा किं न स्यादित्यत आह॥ सर्वत इति॥ तत्र स्वातन्त्र्यं हेतुः । रसादेरस्वातन्त्र्यं प्रसिद्धमिति भावः॥ ११॥
न केवलं रसादिधर्मप्रेरकः किन्नामाऽबादिप्रेरकश्चेत्याह॥ ये चेति॥ यथा भगवदधीनमिदमेवं भगवानेतदधीनोस्तु, भूभूधरादिवदित्यत आह॥ तदायत्तमिति॥ इदमेव तदायत्तं न त्वसावेतदायत्त इति भावः । अनेन " न त्वहं तेषु ते मयि " इत्यस्य वैलोम्येनार्थ उक्तो भवति॥ १२॥
एवं सर्वप्रेरकः परमात्मा कुतो लोकेन न ज्ञायत इत्यत आह॥ अचेतनयोति॥ प्रकृत्येति शेषः॥ तन्मेयत्वादिति॥ विष्णुनैव सम्यक् ज्ञातत्वात् । लक्ष्य्मा चेत्यर्थः । अनेन त्रिभिरित्यादेरर्थ उक्तो भवति । ममेत्यस्यार्थो वशगयेति । विष्णुनैवेत्यनेनाचेतनप्रकृत्याद्याहितं स्वविषयमोहं भगवान् कुतो न बारयतीत्याशङ््कानिवारकस्य नाहं प्रकाश इत्यस्यार्थ उक्तो भवति । यदि साक्षाद्भगवत्या लोको मोहितस्तर्हि न कस्यापि ज्ञानमित्यत आह॥ ये त्विति॥ अनेन मामेवेत्येतद्व्याष्यातं भवति । भगवत्प्रपत्त्या कथं मायातरणमित्यत आह॥ लक्ष्मीरिति॥ ननु पूर्वं लक्ष्म्या एव भगवद्वशत्वस्योक्तत्वात् कथं ते उभे अपि विष्णोर्वशे उच्यते इत्यत उक्तम्॥ लक्ष्मीः सा जडमाया या देवतेति॥ लक्ष्म्या भगवद्वशत्वं भवति । अचेतनप्रकृतेर्लक्ष्मीवशत्वात् । अतो मोहकप्रकृत्योर्भगवद्वशत्वात् तत्प्रपत्त्या मायातरणं युक्तमेवातस्तं प्रपद्येतेत्यर्थः । अनेन गुणमयीत्येतद् व्याख्यातं भवति । ततोऽनन्यभक्त्येत्यनेनैकभक्तिरित्यादेः तात्पर्यमुक्तं भवति । अनन्यभक्तिर्नाम कीदृशीत्यत
आह॥ यादृशीति॥ तत्र भक्तिविषये । अनेनैकस्मिन् भक्तिर्यस्येति विग्रहः सूचितः । तेन सामानाधिकरण्याङ्गीकारे भक्तिशब्दस्य प्रियादित्वेन पुंवद्भावाप्राप्तिश्च परिहृता ।
विष्णोः सर्वोत्तमत्वमन्येषां तद्वशत्वं च ज्ञात्वा भक्तिं कुर्वतां किं फलमित्यत आह॥ एवमिति॥ एवं जानन्निति॥ ज्ञात्वा भजन्नित्यर्थः । अनेन " ज्ञानी त्वात्मैव मे मतम् " इत्याद्युक्तार्थं भवति । अवधारणार्थतुशब्दस्यार्थो नान्यथेति । भगवज्ज्ञानिनामेव मोक्षो नान्येषामिति कुत इत्यत आह॥ पूर्णमिति॥ भगवत एव पुर्णत्वेन मोक्षदानशक्तिर्नान्येषामित्यर्थः । अनेन वासुदेव इत्यस्यर्थ उक्तो भवति । यदि भगवज्ज्ञानेन मोक्षस्तर्हि सर्वेषां स्यादित्यत आह॥ एवंवीदिति॥ वासुदेवज्ञानेन मोक्षसद्भावेऽपि तज्ज्ञानिनो न सर्व इति न सर्वेषां मोक्ष इत्यर्थः । एतेन स इति व्याकृतं भवति । लोके भगवज्ज्ञानिनां बहूनां दृश्यमानत्वात् कथं दौर्लभ्यमित्यत आह॥ यदिति॥ मिश्रयाजिन इति॥ वैपरीत्येन यजन्त इत्यर्थः । एतेन कामैरित्यादेस्तात्पर्यमुक्तं भवति । किं तेषां फलमित्यत आह॥ विष्णुमिति॥ तत्परं रमादिभ्यः परम् । अज्ञात्वा विपरीतं ज्ञात्वा च । कारणविशेषाज्ज्ञानरहितस्य विपरीतज्ञानाभावेनान्यदेवताराधनेन किं स्यादित्यत आह॥ अज्ञानामिति॥ उपलक्षणं चैतत् । निर्णेत्रभावादिकारणान्तरं च द्रष्टव्यम् । समर्चनं कर्तव्यमितीति शेषः । पृथक् सेवा परिवारतां विनैव अन्यदेवतायजनं विद्यादि तद्विषयज्ञानं स्तवनादि चेत्यर्थः । एतच्च फलं नाज्ञानिमात्रस्य, अपि तु ज्ञानानन्तरं यः पूर्वमार्गं त्यक्त्वा भगवद्भजनमेव कुर्यात्तस्यैव । केषाञ्चित्तमोयोग्यानामपि कदाचिदज्ञत्वसम्भवादिति भावेनाह॥ यदीति॥ इदं च तमोयोग्यव्यावृत्तिमात्रम् । नित्यत्रैविद्यानामपि फलसद्भावात् । प्राजीनापराधसद्भावात् कथमुत्तरापेक्षया फलमित्यत आह॥ अजानतेति । स्वतो भगवत एव यदि विष्णुतत्त्वं ज्ञात्वाऽपि कारणविशेषात् पूर्वमार्गं न जहाति तस्य किं स्यादित्यत आह॥ अत्याग इति॥ ज्ञापयति त्यक्तुमिति शेषः । जन्मान्तर इत्युपलक्षणम् । यदि स्वीय इति सम्बन्धः । केचन गुर्वादिकं निमित्तीकृत्य, न तु साक्षात् । अनेन लभते चेत्यादेर्विषय उक्तो भवति । एवं रसादिकारणत्वाद्गसादिनामकत्वं विष्णोर्नाभेदेनेति प्रमाणवचनेनोक्तम् । उपक्रमोपसंहारयोः सर्वस्य भगवदधीनत्वोक्तेश्च तज्ज्ञायत इत्याह॥ मत्त एवेति॥ ज्ञानी त्वात्मैव मे मतम् " इत्येतत् " एवं जानंस्तमाप्नोति " इति प्रमाणवचनेन व्याख्यातम् । युक्त्या च तदुक्तार्थमेव न त्वभेदार्थमिति साधयितुमाह॥ आप्नोतीति॥ आत्मशब्दस्याप्तिवाचित्वं कुत इत्यत आह॥ यच्चेति॥ " यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते॥ " इति भारतवाक्यम् । कुतोऽयमात्मशब्द आप्त्यर्थः, स्वरूपार्थः किं न स्यादित्यत आह॥ आस्थित इति॥ एतदर्थविवरणात्मके वाक्यशेषे परमां गतिमुद्दिश्यभगवन्तमुपासीनस्य ज्ञानिनस्तत्प्राप्तेरुक्तत्वात् अत्रापि प्राप्यर्थं एवाऽत्म शब्दो न स्वरूपार्थ इत्यर्थः । ननु ज्ञानानन्तरं मोक्षस्य कर्मक्षयमात्रावधित्वाद् " बहूनां जन्मनाम् " इति बहुजन्मनियतिः कथमुच्यत इत्यत आह॥ बहूनामिति॥ वासुदेव इत्येतत् पूर्णं वस्त्विति प्रमाणवचनेन व्याख्यातम् । युक्त्या चैतमर्थं साधयितुमाह॥ वासुदेव इति
॥ अत्र वासुदेवस्य पूर्णत्वमेवोच्यते, न तु सर्वाभेद इत्यर्थः । प्रमाणवचनेन भगवज्ज्ञानिनामेवानुत्तमगतिर्भवतीत्यत्र हेत्वभिधायकतयैव एतद्योजितम् । अथ बहूनां डन्मनामन्ते वासुदेवः सर्वमिति ज्ञानवान् भवतीत्यपि योजनां सूचयति॥ जानन्निति॥ अभेदार्थमेवेदं वाक्यं किं न स्यादित्यत आह॥ प्रपद्यन्त इति॥ " देवान् देवयजो यान्ति " इत्येतद् " विष्णुं तत्परमज्ञात्वा " इत्यादिना विवृतम्॥ २१-२२॥
वाक्यान्तरेणापि विवृणोति॥ ज्ञात्वेति॥ किमज्ञानमात्रेण तम इति, नेत्याह॥ तथापीति॥ यद्यप्येवमुच्यते तथापीत्यर्थः । तावदिति संयोज्यम् । केचन भागवताः पुरुषाः । केचन त्रैविद्याः सन्ति । तेषां च मोक्षादिकं फलमित्युक्तम्॥ २३॥
अथ केचन द्वेषिणोऽपि सन्तीत्युच्यते " अव्यक्तम् " इति॥ तदर्थं पूर्ववदेषां फलस्यानुक्तत्वात् फलं च स्मृत्यैवाह॥ अन्यक्त इति॥ एवं सर्वप्रेरकत्वादिमहिमवांश्चद्भगवान् तत्कथं भगवतः केचिज्जीवाभेदं मन्यन्त इत्यतो वैतदुच्यते । सर्वात्मना ज्ञेयत्वाज्ञेयत्वाभ्यां जीवेश्वरयोर्व्यक्ताव्यक्तत्वम्॥ २४-२५॥
यदि मायावशादज्ञानं लकस्य भगवद्विषयं तर्हि भवतोऽपि लोकविषयं तदस्ति किं, कुड्योभयभागावस्थितयोरन्योन्यादर्शनवदित्यत उच्यते॥ वेदाहमिति॥ तत्र कस्यापि भगवज्ज्ञानाभावे र्वेदादिवैय्यर्थ्यापत्तेः कथं " मां तु वेद न कश्चन " इत्युच्यत इत्यतस्तत्स्मृत्यैव व्याचष्टे॥ यथेति॥ २६॥
यत्केषाञ्चिदद्वैतज्ञानं तदपि मदिच्छयेत्युक्तं नाहं प्रकाश इति । तदयुक्तम् । " ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः । कामक्रोधाभिभूतत्वादहङ्कारयशं गताः॥ " इत्यादाविच्छाद्वेषादेरेवाद्वैतज्ञानहेतुत्वोक्तेरित्यत उच्यते॥ इच्छेति॥ तत्र मोहसम्मोहशब्दयोरर्थभेदप्रदर्शनाय द्वन्द्वमोहपदमनूद्य मोहशब्दार्थमाह॥ द्वन्द्वेति॥ मोहशब्दस्य मिथ्याज्ञानवाचित्वं कुत इत्यत आह॥ तम इति॥ शर्वरीसम्बन्धितमोवदावरकमज्ञानमित्यर्थः । अस्तु मोहो मिथ्याज्ञानं, द्वन्द्वमोहो नाम क इत्यत आह॥ जीवेति॥ आदिपदेन सर्वज्ञत्वाल्पज्ञत्वादितद्धर्मग्रहणम् । मोहशह्दागतार्थतया सम्मोहशब्दं व्याचष्टे॥ सम्मोह इति॥ तदाग्रहो
मिथ्याज्ञानदार्ढ्यमित्यर्थः । कुतोऽयं सम्मोहशब्दर्थ इत्यत आह॥ तदग्रह इति॥ " मोहश्चैव विपर्ययः " इति प्रकृतविपर्ययः तदिति परामृश्यते । क्रोधो यथार्थज्ञानिषु । उक्तशङ्कापरिहारायोक्तं सर्गपदं तदाशङ्कापरिहारकं यथा स्यात्तथा व्याचष्टे॥ सर्ग इति॥ सत्यमिच्छाद्वेषादिना मिथ्याज्ञानं भवतीति॥ तथापि तदवान्तरकारणमेव । सर्गकालमारभ्यैव तस्य कारणत्वात् । शरीरानुत्पत्ताविच्छाद्यभावात् । विष्णोस्तु सर्वदा कारणत्वादुक्तं युक्तमिति भावः । नन्वत्र जीवेश्वरादि विषयद्वन्द्वमोहस्येच्छाद्यवान्तरकारणत्वमुच्यते । न तु जीवेश्वराभेदज्ञानस्य । न हि विशेष्यैक्यज्ञानमेव द्वन्द्वमोह इति नियामकमस्तीत्यत आह॥ जीवेति॥ २७॥
भगवज्ज्ञानेन किं भवतीत्यत उच्यते-जरेति । तत्र भगवता तद्ब्रह्मेत्युक्तेऽपि न ब्रह्मणो भगवतः सकाशादन्यत्वं शङ्कनीयम् । तदाशङ्कापरिहारायैव साधिभूताधिदैवं ब्रह्मेति वक्तव्ये मामित्युक्तत्वादिति भावेनाह॥ तदिति॥ इत्युक्ते जातामिति शेषः॥ ३०॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपाकायां सप्तमोऽध्यायः॥ ७॥
पूर्वाध्यायसङ्गतत्वेनैतदध्यायप्रतिपाद्यमर्थं दर्शयिति॥ उक्तेति॥ यदुक्तं"ते ब्रह्म तद्विदुः” इत्यादि तद्व्याख्यानमत्रादौ क्रियते॥ “प्रयाणकालेऽपि च माम्” इत्युक्तव्याख्यानप्रसङ्गेन अन्तकालस्मरणफलं, तदुपायप्रकारो, ब्रह्मप्राप्तिमार्गश्चेत्येतदुच्यत इत्यर्थः । अन्तकालस्मरणादीनां ब्रह्म प्राप्यते एभिरिति ब्रह्मप्राप्तिशब्दाभिधेयत्वं ज्ञातव्यम् ।
नन्वर्जुनस्य ज्ञानित्वाज्जानात्येवासौ भगवानेव ब्रह्मेति । अतः “किं तद्ब्रह्म” इत् प्रश्नः कथं युज्यते, कारणाभावादित्यत आह॥ तदिति॥ अर्जुनस्य ज्ञानित्वेऽपि युक्तोऽयं प्रश्नः । तद्ब्रह्मेत्यत्र ब्रह्मणो भगवता तदिति पारोक्ष्येणोक्तत्वाद् भगवतोऽन्यदेवताऽऽत्रोक्तं ब्रह्मेति प्रतीयते । वासुदेवात्मकं ब्रह्मेत्यादेर्भगवान् ब्रह्मेति प्रतीयते । एवमुभयथाप्रतीतिजनितसंशयस्य प्रश्नकारणस्य सद्भावादिति भावः । ननु ब्रह्मशब्दस्य भगवन्मात्रवृत्तित्वात् कथं तदिति विशेषितत्वेऽप्यन्यत्वप्रतीतिरित्यत उक्तम्॥ प्रकृतीति॥ ब्रह्मशब्दस्य भगवति मुख्यत्वेऽपि प्रकृतिवेदादेरप्यमुख्यतया तदर्थत्वात्तदिति विशेषितत्वेन मुख्यार्थासम्भवेऽप्यमुख्यार्थः प्रकृत्यादीनां मध्ये यत्किञ्चिदत्र स्यादिति प्रतीतिर्युक्तेति भावः । ननु तदिति विशेषणेन प्राप्ता विशेषणेन प्राप्ता ब्रह्मणो भगवदन्यत्वशङ्का “साधिभूताधिदैवं माम्” इत्युपरितनवाक्ये भगवतैव परिहृता । ब्रह्मेति वक्तव्ये मामित्युक्तत्वात् । अतः कथं ब्रह्मणो भगवदन्यत्वप्रतीतिरित्यत उक्तम्॥ उपरीति॥ यद्यप्येषा प्रतीतिरुपरितनवाक्ये परिहृता, तथापि पुनर्भवत्येव । तत्र “साधियज्ञं च” चशब्दस्य साधिभूताधियज्ञं मां चेति
संयोजनेनाधिभूतादिसहितत्वेन ब्रह्मज्ञानादन्यदेव विष्णुज्ञानमुच्यत इति तदिति विशेषणादेव प्रतीतिसम्भवादिति भावः । यत्किञ्चिदित्यत्र अन्यदेवेत्यत्र च इति प्रतीत्या जात इति शेषः ।
ननु “साधिभूताधिदैवं माम्” इति भगवत एव ब्रह्मत्वोक्तेः किं तद्ब्रह्मेति प्रश्नेऽहं ब्रह्मेति परिहारो बक्तव्यः । “अक्षरं ब्रह्म परमम्” इति कथमुच्यत इत्यत आह॥ परमेति॥ तथैव परमाक्षरं ब्रह्मेत्येव । भवतु परमाक्षरं ब्रह्मेत्युक्तिफलं, परमाक्षरशब्दस्य विष्णौ प्रसिद्धत्वात् । तथाप्यहमिति साक्षादनुक्त्वा एवं कथने को हेतुरित्यत आह॥ अज्ञानामिति॥ तदपि स्वस्य परमाक्षरत्वमपि । ननु ये परमाक्षरं विष्णुरिति न जानन्ति तेषामहं ब्रह्मेति नोक्तम् । अक्षरं ब्रह्मेत्येवोक्तम् । अतो ब्रह्म अक्षरं च भगवतोऽन्यदेवेत्याशङ्कैव स्यान्न तु परमाक्षरं ब्रह्म च भगवानिति ज्ञानमित्यत आह॥ पुनरिति॥ सत्यमेव शङ्का भवतीति । सा च “अव्यक्तोऽक्षर इत्युक्तः” इत्युपर्यक्षरस्याव्यक्तत्वोक्त्या परिह्रियते । “अव्यक्तं व्यक्तिमापन्नं मन्यन्ते माम्” इत्यव्यक्तशब्दस्य भगवति प्रयुक्तत्वात् । अतः “अक्षरं ब्रह्म परमम्” इति परिहारे अहमित्युक्तादपि लाभसम्भवात् तथा परिहारो युक्त इति भावः ।
यद्यक्षरशभ्दो विष्णावेन मुख्यस्तर्हि “ये चाप्यक्षरमव्यक्तम्” इत्यत्र, “कूटस्थोऽक्षर उच्यते” इत्यत्र च अक्षरशब्दवाच्यो विष्णुः स्यादित्यत आह॥ ये चेति॥ अक्षरशब्दस्य विष्णौ मुख्यत्वेऽपि “ये चाप्यक्षरमव्यक्तम्” इत्यत्र तावद्विष्णोरन्यदेव अक्षरशब्दवाच्यमित्येवावसीयते । “ये भक्तास्त्वं पर्युपासते”, “ये चाप्यक्षरम्” इति भगवदक्षरयोः पृथक्त्वेन तदपासकयोस्तारतम्यस्य पृष्टत्वात् । ये त्वक्षरमनिर्देश्यम्”, “ये तु सर्वाणि कर्माणि” इत्यादिनाऽक्षरोपासकानां भगवदुपासकानां च फलतारतम्यस्य कथनाच्च । तथा “कूटस्थोऽक्षर उच्यते” इत्यत्रापि विष्णोरितदेवाक्षरमित्यवसीयते” । “अहमक्षररादपि चोत्तमः” इति विष्णोरक्षरादुत्तमत्वकथनात् मुख्यार्थासम्भवे गौणाङ्गीकारस्यन्याय्यत्वात् । प्रकृते तु बाधकाभावाद्विष्मुवषयत्वमेवेति भावः ।
नन्वधियज्ञब्रह्मणोऽपि विष्णुत्वे तत्र ब्रह्माहमेवेत्यनुक्त्वा अधियज्ञोऽहमेवेति किमर्थमुच्यते । कारणविशेषमन्तरेणोक्तिभेदासम्भवात् । अतोऽधियज्ञ एव विष्णुर्न ब्रह्मेत्यत आह॥ अधियज्ञ इति॥ ब्रह्माधियज्ञयोरुभयोर्विष्णुत्वेऽपि ब्रह्माहमेवेत्यनुक्त्वाऽधियज्ञोऽहमेवेति कथनं युज्यते । “साधियज्ञं माम्” इति भगवता स्वस्याधियज्ञसाहित्येनोक्तत्वात् अधियज्ञो
भगवतो भिन्न एवेत्याशङ्का प्राप्ता । तन्निवृत्त्यार्थत्वादहमेवेत्युक्तेः । तदित्युक्त्या ब्रह्मणो भगवदन्यत्वशङ्काप्राप्तावपि मामित्यनेन तस्याः प्राज्ञबुद्धिमपेक्ष्य निरस्तत्वेन त्राहमेवेत्युक्त्यभावादिति भावः । एतेन “एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे” इत्युक्तत्वादधियज्ञप्रश्नपरिहारौ प्राप्तिशून्याविति च निरस्तं भवति । भगवानेवाधियज्ञश्चेत् कथं तत्साहित्यं प्रागुक्तमित्यत आह॥ तस्यैवेति॥ भगवत एवाधियज्ञत्वेऽपि तत्साहित्यं युज्यते । अधियज्ञस्य सर्वप्राणिदेहगतरूपान्तरत्वादिति भावः । अनेन देह इत्यस्याभिप्रायो वर्णितो भवति ।
अत्र प्रमाणं दर्शयन् भगवत एव ब्रह्मत्वे कथं तदित्युक्तिरित्याशङ्कां च पिरहरन् श्लोकद्वयं स्मृत्यैव व्याचष्टे॥ प्राणिनामिति॥ ब्रह्मणः सर्वगतरूपान्तरत्वात् तदित्युक्तिर्युक्तेति भावः । तैस्तैः सर्वप्राणिभिरधिकयाज्यत्वादधियज्ञो, बृंहितत्वात् ब्रह्मेत्यर्थः । भूताधिकत्वत इत्यत्र भूतपदेन पृथिव्यादीनि । पुरुप्राणाऽतः पुरुषाख्येति शेषः । “षकारः प्राण आत्मा” इति श्रुतेः । ननु “अधियज्ञः कथं कोऽत्र” इत्यत्र कुतोऽधियज्ञः कथम्पूप इति प्रश्नः कस्मान्न परिहृत इत्यत आह॥ कथंरूप इति॥ तल्लक्षणोक्त्येति॥ “कविं पुराणम्” इति भगवल्लक्षणोक्येत्यर्थः । भगवल्लक्षणोक्त्या कथमधियज्ञस्वरूपप्रश्नः परिहृत इत्यत उक्तम्॥ अहमेवेति॥ “अधियज्ञोऽहमेव” इत्यधियज्ञस्य भगवदभिन्नत्वेनोक्तत्वादित्यर्थः॥ ४॥
प्रयाणकाले च कथं ज्ञेयोऽसीत्यस्य किमर्थं कथम्भूतः केन प्रकारेण स्मर्तव्योऽसीत्यर्थः । तत्र किमर्थं स्मर्तव्योऽसीत्यस्य परिहार उच्यते “अन्तेति” । तत्र मद्भावपदस्य अन्यथाप्रतीतिनिरासायार्थमाह॥ मद्भावमिति॥ अन्यथा तं तमेवैतीति वाक्यशेषविरोध इति भावः । नन्वन्तकाले स्मरणादेव तत्प्राप्तेः सदा तद्भावभावितत्वं किमर्थमुच्यत इत्यत आह॥ सदेति॥ न तत्प्राप्त्यर्थं सदा तद्भावभावितत्वमुच्यते । किन्तु स्मरन् त्यजतीत्युक्तं साक्षादन्तकालस्मरणं सदा तद्भावभावितानामेव भवतीति साक्षादन्तकालस्मरणोपाय एवोच्यत इति भावः । ननु अन्तकाल एव महता प्रयत्नेन भगवत्स्मरणस्य कर्तुं शक्यत्वात् किं सदा तद्भावभावितत्वेनेत्यत आह॥ न चेदिति॥ सदा तद्भावभावितत्वाभावे महता प्रयत्नेन स्मरतोऽप्यन्यविषय एव प्रारब्धकर्मवशात् स्मृतिर्भवति । ततश्च तत्प्राप्तिरेव भवति । यथा खलु महता प्रयत्नेन समाधिं कुर्वतोऽपि प्रारब्धकर्मवशात् ततः स्खलनं भवति । अतः सदा तद्भावभावितत्वेन भाव्यमिति भावः । यदि प्रारब्धकर्मवशादन्तकाले ब्रह्मस्मृतिर्न भवेत् तर्हि ज्ञानिनामपि प्रारब्धकर्मभावादन्तकाले ब्रह्मस्मृत्यभावेन मोक्षाभावः प्रसज्यत
इत्यत आह॥ अपरोक्षेति॥ अपरोक्षज्ञानिनां स्मरन् त्यजतीत्युक्तं साक्षादन्तकालस्मरणं भवुत्येवातो नामोक्षः । तस्याप्रारब्धपूर्वोत्तरकर्मनाशाश्लेषसद्भावात् प्रारब्धकर्मणां परिमितत्वेन भोगेनावसानसम्भवादिति भावः ।
एवं व्याख्याने भगवद्वाक्यसम्म्तिमाह॥ प्रयाणेति॥ नन्वेवं सति अन्तकालस्मरणस्य प्रारब्धकर्मावसानमेव कारणं, तत्कारणतयाऽपरोक्षज्ञानं चेति प्राप्तम् । तथाच किं सदा तद्भावभावितत्वेनेत्यत आह॥ युक्तेति॥ सत्यं साक्षादन्तकालस्मरणस्य प्रारब्धकर्मावसानमेव कारणम् । कत्कारणत्वादपरोक्षज्ञानं चेति । तथापि सदा तद्भावभावितत्वं च अन्तकालस्मरणकारणं भवत्येव । अपरोक्षज्ञानसाधनत्वात् । सदा तद्भावभावितत्वस्यापरोक्षज्ञानसाधनत्वेन युक्तचेतस इत्युक्तत्वादिति भावः । अनेन युक्तचेतसो मामाश्रित्य यतन्ति ये ते तद्ब्रह्म विदुरिति योजना सूच्यते । यन्नित्यस्मरणं भगवदपरोक्षज्ञानसाधनमुक्तं तद्भक्त्यादियुक्तमेव तथा । न स्वयमेवेति स्मृत्याऽऽह॥ भक्त्येति॥ ५॥
कथम्भूतः स्मर्तव्योऽसीत्यस्य परिहार उच्यते " कविम् " इति॥ तत्राऽदित्यवर्णश्चेच्छरीरित्वेन जन्मादिप्रसङ्ग इत्यत उक्तं " तमस " परस्तात् " इति । तदनूद्य व्याचष्टे॥ तमस इति॥ “अव्यक्तं वै तमः " इति हि श्रुतिः॥ ९॥
केन प्रकारेण स्मर्तव्योऽसीत्यस्य परिहार उच्यते " यदक्षरम् " इति । तत्र पूर्वमन्तकालस्मरणस्य सदा तद्भावभावितत्वं साधनमुक्त्वा ब्रह्मचर्ये तथा कथमुच्यत इत्यतो ब्रह्मचर्यपदं तत्परतया व्याचष्टे॥ मन आदीनामिति॥ " तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये " इत्यत्र तत्स्मरणप्रकारं प्रवक्ष्य इत्यर्थः॥ ११॥
" एकाक्षरं ब्रह्म " इत्येतदेकमक्षरं शब्दब्रह्मेति प्रतीतिनिरासाय व्यायष्टे॥ एकेति॥ आओमित्येकमक्षरं वाचकं यस्य तदेकाक्षरमित्यर्थः । ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वात् न प्रतीत एवार्थः॥ १३॥
ब्रह्मादीन् प्राप्तानामपि पुनर्जन्माभावात् किं विशिष्याभिधीयते मामुपेत्य पुनर्जन्म नामुवन्तीति । अत उच्यते " आब्रा्मेति " । तत्राऽजनान्नजनिर्भुवीति वचनात् जनलोकादिस्थितानामपि जन्माद्यभावात् कथं ब्रह्मभवनमारभ्य पुनरावृत्तिरुच्यत इत्याशङ्कां स्मृत्यैव परिहरति॥ नियमीदिति॥ अत्र जन्मपदं मरणस्याप्युपलक्षकम्॥ अंसलयाविति॥ अंशेन भूमौ जननं, लयान्ते च जननं, तदादौ मरणं चेत्यर्थः । अंशस्य मरणं चास्तीत्याह॥ तत्रापीति॥ अंशतोऽवतीर्णत्वेऽपि नैतदयुक्तम् । मुक्तस्यैव मुख्यतया जननाद्यभावात् जनादावल्पजननादिभावादेतद्वाक्यस्य च तदर्थत्वादित्युक्तं भवति॥ १६॥
मत्प्राप्तावेवापुनरावृत्तिरित्युक्तस्थापनाय अशेषसृष्टिप्रलयादिकर्तृत्वमात्मन उच्यते " सहस्र " इति । तत्र सहस्रपदं दशशतवाचीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे॥ सहस्रमिति॥ बह्वेव प्रसिद्धसहस्रादिति शेषः । ननु " चतुर्युगसहस्राणि
ब्रह्मणो दिनमुच्यते " इत्यादौ युगसहस्रमत्रस्य विरिञ्चदिनादित्वेनोक्तत्वात् कथं सहस्रपदं ततोऽपि बह्वर्थमित्यत आह॥ ब्रह्मण इति॥ नात्र चतुर्मुखस्याहोरात्रमुच्यते, येन सहस्रपदं ततोऽपि बह्वर्थं न स्यात् । किन्तु परब्रह्मणो द्विररार्धात्मकमहोरात्रमिति भावः । कुतो ब्रह्मपदेन परब्रह्मेत्यङ्गीकृत्य तदहोरात्रपरत्वमुच्यते, विरिञ्चाहोरात्रपरत्वं किं न स्यादित्यत आह॥ अव्यक्तादिति॥ एवं वाक्यशेषसद्बावेऽपि कुतो नास्य विरिञ्चाहोरात्रपरत्वमित्यत आह॥ न हीति॥ आहनीति॥ तदवसान इत्यर्थः । एवं न अहरागमे सर्वव्यक्तिप्रभव इत्यपि द्रष्टव्यम् । ननु कथं भगवतोऽहोरात्रसद्भावः । कालकृतविकाराभावात् । " परनामनिमेषकान्ते " इत्यादौ द्विपरर्धकालस्य निमेषत्वेनोक्तत्वाच्चेत्याशङ्कां स्मृत्यैव परिहरति॥ नित्यस्येति॥ निर्विकारस्येत्यर्थः । उपचारे बीजमप्रवृत्त्येति । रात्राविव प्रलयकाले प्रवृत्त्याभावादन्हीवान्यदा प्रवृत्तिसद्भावात् प्रलयादिकालो रात्र्यादित्वेनोपचर्यत इत्यर्थः॥ १७-२२॥
भगवन्तं प्राप्तानामपुनरावृत्तिः, अन्येषां पुनरावृत्तिरित्युक्तम् । तत्र पुनरावृत्तिमतामन्येषां च केन पथा़ऽऽगमनमित्यत उच्यते " यत्र " इति । यत्र यन्मिन् काले मृता अनावृत्तिं गच्छन्ति, यस्मिंश्च पुनरावृत्तिं गच्छन्ति, यस्मंश्च पुनरावृत्तिं गच्छन्ति तं कालं वक्ष्यामीत्यन्यथाप्रतीतिनिरासाय व्याचष्टे॥ यत्रेति॥ नन्वग्निज्योतिर्धूमानाम् अकालाभिमानिनामपि मार्गे मम्यत्वेन वक्ष्यमाणत्वात् कथं प्रतिज्ञावाक्ये यत्र काले तं कालमित्युच्यत इत्यत आह॥ अग्नीति॥ अग्निज्योतिर्धूमानां गम्यतया वक्ष्यमाणानामिति शेषः । गम्यतया वक्ष्यमाणेषु कालाभिमानिनां बाहुल्यात् अल्पसलिलयुतपयसी पयःपदस्य सलिलोपलक्षकत्ववत् कालपदस्येतरोपलक्षकत्वादिति भावः ।
ननु " तेऽर्चिषमभिसम्भवन्ति " , " अर्चिरादिना तत्प्रथितेः " इत्यादौ ज्योतिषः प्रथमप्राप्यतयोक्तत्वात् कथमत्र जोयतिषः प्रथममग्नेः प्राप्तिरुच्यते । कुतश्चाहरादिपदस्य देवताविषयत्वमित्याशङ्कां स्मृत्यैव परिहरति॥ अग्निरिति॥ एवं स्मृतिसमाख्यानादुक्त एवार्थो नाहरादिकाले मृतानामपुनरावृत्त्यादिरिति समर्थितम् । विपक्षे बाधकं चाह॥ तत्कालेति॥
यद्यत्राहरादिकालमरणे अपुनरावृत्त्यादि स्यादिति विवक्षा भवेत्तर्हि अग्निज्योतिर्धूमकथनस्याहङ्गतिः स्यात् । न ह्यहरादाविव अग्निच्योतिर्धूमोषु मरणं नामास्तीति भावः । इतश्च न प्रतीतोऽर्थ इत्याह॥ अथेति॥ " य एवं विद्वानुदगयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते " इति श्रुतावुत्तरायमे कृतस्य ज्ञानिनोऽपुनरावृत्त्या ब्रह्मप्राप्तिं, दक्षिणायने मृतस्य कर्मिणः पुनरावृत्त्या चन्द्रप्राप्तिं चोक्त्वा पुनर्ज्ञानिन उत्तरायणे दक्षिणायने वा मृतस्यापुनरावृत्त्या ब्रह्मप्राप्तिरुच्यते । अत उत्तरायणे मृतानां पुनरावृत्तिर्दक्षिणायने मृतानां पुनरावृत्तिरिति नियमाभावान्नान्योऽर्थ इति भावः ।
महिमानं पूजाम् । मह पूजायामिति धातः । " आदित्याच्चन्द्रमसम् " इति श्रुतेः ब्रह्ममार्गेऽपि सूर्याचन्द्रमसोः विद्यमानत्वात् सूर्याचन्द्रमसोः महिमानमाप्नोतीति युक्तम् । अत्र ज्ञानिन उत्तरायणे मृतस्य ब्रह्मप्राप्तिकथनं फलाधिक्याभिप्रायमिति ज्ञातव्यम् । अत्र स्मृतिं चाह॥ विद्वानिति ॥ यत्र तत्रेत्यस्याहरादिषु वा रात्र्यादिषु वेत्यर्थः॥ २३-२६॥
मार्गकथनस्य प्रयोजनमुच्यते " नैते " इति । तत्र परोक्षतः सृतिज्ञानमात्रेणेदं फलमित्यन्यथाप्रतीतिनिरासाय स्मृतेयैव व्याचष्टे॥ मार्गाविति॥ योगीत्यस्यार्थो ब्रह्म च पश्येदिति ।
वेदेष्वित्यस्यार्थः " सर्वपुण्यातिगो यात्यसौ ब्रह्म तत्परम् " इति॥ २७-२८॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां अष्टमोऽध्यायः॥ ८॥
एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ सप्तमेति॥ भगवन्महिमानमिति शेषः । न चैवमस्याष्टमत्वेन भवितव्यमिति वाच्यम् । अर्जुनप्रश्नपरिहारेणान्तरितत्वात् ।
प्रतिज्ञातं ज्ञानमुच्यते " मया " इति । तत्र " मत्स्थानि सर्वभूतानि " , " न च मत्स्थानि भूतानि " इति व्याहतमित्याशङ्कां स्मृत्यैव परिहरति॥ विष्णुगानीति॥ विष्मोः स्पर्शरहितत्वात् स्पृष्ट्वा तत्रस्थत्वाभावादविरोध इत्यर्थः । ननु " मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः " इत्युक्तत्वात् " भूतभृन्न च भूतस्थो ममात्मा " इति पुनरुक्तिरित्यत आह॥ ममेति॥ पूर्वं स्वस्य भूताधारत्वाद्युक्तम् । इदानीं स्वदेहस्येत्यपौनरुक्त्यमिति भावः । ननु भगवल्लक्षणं भूताधारत्वादिकं कथं तद्देहे सम्भवतीत्यत आह॥ तदिति॥ भगवदनन्यत्वाद्देहस्य तत्र भगवल्लक्षणं युक्तमित्यर्थः । नन्वेवं भगवतस्तद्देहस्य चाभेदे पुनः पुनरुक्तिरापन्नेत्यत आह॥ देहस्येति॥ भगवतस्तद्देहस्य च भेदमङगीकृत्य देहत्वेन या लोकस्य भगवद्देहेष़प्यचेतनत्वशङ्का जायेत तन्निवृत्तयेऽप्र भगवल्लक्षणयुक्ततया तदैक्येन चेतनत्वमुच्यते । अतो न पुनरुक्तिरिति भावः । यद्यत्र देहो विवक्षितस्तर्हि मम देह इति प्रसिद्धशब्दं विहायात्मशब्दप्रयोगे को देतुरित्यतो वाऽह॥ देहस्येति॥ यद्यत्र मम देह इत्येवोच्येत तर्हि कथमचेतनस्य देहस्य भगवल्लक्षणं स्यादित्याशङ्का स्यात् । तत्परिहासाय तस्य चेतनत्वं च पृथग्वक्तव्यं स्यात् । आत्मशब्दप्रयोगे तूभयमुक्तं स्यात् । द्व्यर्थो ह्ययमात्मशब्दो देहार्थस्तस्य चोतनत्वार्थश्च । अतो ममात्मेत्युक्तमिति भावः॥ ४-९॥
जगत्प्रकृतिवशं त्वमुदासीनश्चेत् तर्हि प्रकृतेरेव स्वातन्त्र्यं प्राप्तमित्यत उच्यते " मया " इति । तत्राप्यध्यक्षपदेनौदासीन्यमेवोच्यत इत्यन्यथाप्रतीतिनिरासाय तत्स्मृत्यैव व्याचष्टे॥ अध्यक्ष इति॥ एतदधिकृत्याक्षाणि यस्यासावध्यक्ष इत्यर्थः॥ १०॥
यद्येवंविधो भवांस्तर्हि कथं केचित्त्वामवजानन्ति, का च तेषां मतिरित्यत उच्यते " अवजानन्ति " इति । तत्र भगवतो मानुषशरीरोक्तेः " भूतभृन्न च भूतस्थः " इत्युक्तिविरोध इत्यत आह॥ मानुषीमिति॥ नात्र भगवद्देहस्य मानुषत्वमुच्यते, येन विरोधः स्यात् । किन्तु मूढानामवज्ञानकारणतया मानुषसादृश्येन प्रतीयमानत्वमेवेत्यर्थः । तथाप्यत्र " तनुमाश्रितम् " इति भगवतस्तद्देहस्य च भेदोक्तेः पूर्वोक्तविरोध इत्याशङ्कां स्मृत्यैव परिहरति॥ तन्वेति॥ यथा देवदत्तशरीरं तदधीनमेवं भगवद्देहस्यापि तदधीनत्वात् भगवतस्तताश्रितत्वप्रयोगो गौण इत्यर्थः । अवज्ञानं च न केवलमवरतया ज्ञानं किन्त्वन्यदप्यस्तीति भावेन श्लोकं स्मृत्यैव व्याचष्टे॥ ब्रह्मेति॥ " अनन्यता " , " अपुर्णता " इत्यत्र दृष्टिरिति संयोज्यम् । अवतारेषु सङ्करो नाम अनवताराणामवतारत्वेन, अवताराणामनवतारत्वेन ज्ञानम् । सर्वस्माद्भिन्नः सर्वोत्तमः स्वगतभेदविवर्जितो यथावदिति च ज्ञातव्यम्॥ ११-१४॥
भगवतो दोषित्वादेवावजानन्तीति किं न स्यादित्यतः तथात्वे देवप्रकृतयोऽप्यवज्ञां कुर्युः, न च तदस्तीत्युच्यते " महात्मानः " इति । तत्रैकत्वेनेत्येतदन्यथाप्रतीतिनिरसाय स्मृत्यैव व्याचष्टे॥ एकेति॥ एकतेवेनेत्यादिपदचतुष्टयस्य एकमूर्तरित्यादि
यथाक्रमं व्याख्यानम्॥ १५॥
प्रतिज्ञातं विज्ञानमुच्यते " अहं क्रतुः " इति । तत्र हरेः क्रत्वादिस्वरूपत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे॥ अर्च्यत्वादिति॥ ऋगञ्चन इति धातुः । " सर्वदा समः, तेन साम " इति स्वधा । मानात् त्रातीति मन्त्रो, ज्ञातो रक्षतीत्यर्थः । उष प्लुष दाह इति धातोस्तापत्रयदग्धा उष्टाः । दर्भशब्दो दरं बिभर्तीत्यन्यर्तस्थो व्याक्रियते । आहूतत्वाद्यज्ञादाविति शेषः । अगतेः स्वशक्त्या गन्तुमशक्तस्य जगतः ।
क्रत्वादिभिन्नस्यैव हरेर्योगवृत्त्या तत्तन्नामकत्वमित्रत्र स्मृत्यन्तरं चाह॥ ततत्तदिति॥ एतत्स्मृतावपि पूर्वमेवास्यार्थस्योक्तत्वं द्योतयत्येवंशब्दः । तत्तत्पदार्थभिन्नत्वे हेतुः स्वातन्त्र्यं सर्वकर्तृत्वं च । भिन्नत्वे कथं तत्तन्नामवाच्यत्वम्? केवलं तत्तच्छब्दप्रवृत्तिनिमित्तानन्तगुणत्वादेवेत्यर्थः । तदधीनत्वादर्थवदिति न्यायेन स्वातन्त्र्यादिकं च तत्तच्छब्दवाच्यत्वे कारणम् । ऒङ्कार इत्यादेरर्थं स्मृत्यन्तरेणाह॥ ओमिति॥ आक्रियते आहूयते । पाति पालयति । मानात् ज्ञानात्॥ पितुर्महानिति॥ जगत्पितुः विरुञ्चादपि महानित्यर्थः । निधातृत्वात् धारकत्वात् । व्याञ्जनात् जगदभिव्याञ्जकत्वात् । प्रलयमृत्युशब्दसोरर्थभेदं पप्रमाणकमाह॥ प्रलयेति॥ प्रलयादन्यदाऽपि संहर्तृत्वादित्यर्थः । इन्द्रियेषु स्थित्वा तेषां देहधारणेन मृतिं परिहरति यस्मात्तस्मादमृतमित्यर्थः । प्रविलापयन् प्रलय इति शेषः । अहं क्रतुरित्यादेरशेषक्रत्वादिभोक्तृत्वं चार्थः॥ १६-१९॥
तत्र भगवतः सर्वयज्ञादिभोक्तृत्वे त्रैविद्यभागवतयोः फलभेदो न स्यादित्याशङ्क्य परिह्रियते " त्रैविद्याः " इति । तदेव प्रपञ्च्यते " येऽपीति " । तत्र त्रैविद्याभागवतयोः भगवद्याजित्वसाम्येऽपि फलभेदः सहेतुकमुक्तः । तस्य स्फुटमप्रतीतेः स्मृत्यैव तद्व्याचष्टे॥ अनन्येति॥ अन्यदेवताभक्ता यजन्त इति त्रैविद्यानामन्यदेवतायाजित्वमुक्तम् । भागवतानां तत्प्रतियोगितयोक्तस्य " अनन्याः " इत्यस्यार्थः " अनन्यदेवतायागात् " इति । " न तु मामभिजानन्ति तत्त्वेन " इति त्रैविद्यस्यातिशयभक्तिज्ञानाभाव उक्तः । तत्त्वज्ञानाभावे भक्त्यभावात् । तत्प्रतियोगित्योक्तस्य " पर्युपासते " इत्यस्यार्थो " भक्त्युद्रेकात् " इति । भक्युद्रेकेणोपासनस्यैव पर्युपासनत्वात् । " स्वर्गतिं प्रर्थयन्ते कामकामाः " इति त्रैविद्यानां कामनमुक्तम् । तत्प्रतियोगितयोक्तस्य " चिन्तयन्तो माम् " इत्यस्यार्थः " अकामनात् " इति । मामेव चिन्तयन्तो न तु काममित्यर्थः । " मामिष्ट्वा मामैव यजन्ति " इति त्रैविद्यानामन्ते समर्पणमुक्तम् । तत्प्रतियोगितयोक्तस्य " नित्याभियुक्तानां " इत्यस्यार्थः " सदायोगात् " इति । सर्वदा स्मरणोद्देशादियोगादित्यर्थः । वैशिष्ट्यं फलेनाधिक्यम् । " योगक्षेमं वहामि " इत्यपुनरावृत्तिपुरुषार्थदानस्योक्तत्वात् । वैष्णवादपि भगवद्याजित्वेऽपीत्यर्थः । " पशून् देवताभ्यः प्रत्यौहत् " इत्यादौ ब्रह्मादीनामप्यन्यदेवतायाजित्वं श्रूयत इत्यत आह॥ वैष्णवा इति॥ न तु देवतात्वेनेत्यर्थः ।
ननु त्रैविद्यानामविधिपूर्वकत्वविवरणपूपेण " न तु ममाभिजानन्ति " इति पदेन तत्त्वाज्ञानाभाव उक्तः । तत्प्रतियोगितया भागवतस्य तत्त्वाज्ञानं किमिति नोक्तमित्यतः पर्युपासनपदेनैवौक्तमिति भावेन तत्स्मृत्यैव व्याचष्टे॥ २०-२३॥
" न तु मामभिजानन्ति तत्त्वेनातः च्यवन्ति ते " इत्यत्र भगवन्तमजानतां तत्त्वेनेति विशेषणात् विपरीतं जानतां वाऽत्रैविद्यानां स्वर्गभोगानन्तरं च्यवनमुच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ मामिष्ट्वेति॥ न चात्र " न तु मामभिजानन्ति तत्त्वेन " इत्युक्तत्वात् भगवन्तमजानतां मिथ्याज्ञानां वा त्रैविद्यानां स्वर्गात् च्यवनमुच्यत इति कल्प्यम् । " न तु मामभिजानन्ति तत्त्वेन " इत्यस्य सर्वदेववरत्वेन जानन्तोऽपि ब्रह्मरुद्रादीनां तत्परिवारत्वादिकं सम्यङ् न जानन्तीत्यर्थोपपत्तेः । कुतोऽयमर्थः कल्प्यते? " त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते " इति त्रैविद्यस्यान्ते सर्वसमर्पणेन भगवद्यजनप्रार्थनयोरुक्तत्वात्
सर्वदेववरत्वाज्ञाने तदसम्भवात् । अभिशब्दबलाच्चेति भावः ।
इतश्च स्वर्गभोगानन्तरं च्यवनं नात्र केवलाज्ञानां मिथ्याज्ञानिनां चोच्यत इत्याह॥ सर्वेति॥ सर्वदेववरत्वनेति केवलाज्ञानां यज्ञादिकर्माणि मोघानि मिथ्याज्ञानिनां विपरीतफलानि भवन्तीत्युक्तत्वात् " भोगानन्तरं च्यवनमत्र केवलाज्ञास्य मिथ्याज्ञनिनो वोच्यत इत्यर्थः । मिथ्याज्ञानी चेद् याति चान्धन्तमो ध्रुवमिति । उक्तं विवृण्वन्नुपसंहरति॥ २४-२८॥
भक्त्युपहृतमश्नामीति भक्तप्रियत्वमुक्तम् । तथासत्यभक्तेष्वप्रीतिश्च स्यात् । ततश्च भगवतो वैषम्यमापन्नमित्यत उच्यते " समोऽहं " इति । तदस्फुटार्थत्वात् स्मृत्यैव व्याचष्टे॥ नास्येति॥ भक्तोऽपि यो देवेष्योऽसौ नास्ति । अभक्तोऽपि यः प्रियोऽसौ नास्तीत्यर्थः । अनेन " न मे द्वेष्योऽस्ति न प्रियः " इत्यत्रापि भक्तोभक्तश्चेति संयोज्यमित्युक्तं भवति । भक्त्यनुसारेण फलद इति भक्तेष्वेव प्रीतिं करोम्यभक्तेष्वेवाप्रीतिमित्यर्थः । यदि भक्तेषु द्वेषम् अभक्तेषु प्रीतिं कुर्यात्तर्ह्येव विषमः स्यात् । न चैवम् । अतः सम एवेति भावः । ये भजन्ति तु मां भक्त्या तेषु प्रीतिं करोमीति वक्तव्यम् ।
किमेतदभक्तसाधारणं मयि त इत्याद्युच्यत इत्यत आह॥ प्रीत्येति॥ वर्तन्त इत्यादि । शेषः । तदेवोच्यत इति भावः॥ २९-३१॥
ननु भगवदाश्रिताः सर्वेऽपि पुण्या एव । " सत्त्वाधिकः पुल्कसोऽपि यस्तु भागवतः सदा " इत्यदेः । अतः कथं " मां हि पार्थ " इति स्त्रीवैश्यशूद्राणां पापयोनय इति विशेषणं, ब्राह्मणराजर्षीणां पुण्या इति विशेषणमुच्यत इत्यत आह॥ पापादीति॥ स्वतो विप्राद्युत्तमसर्णानां क्षत्रियाद्यमवर्णित्वं पापकारितम् । स्वतः शूद्राद्यधमवर्णानां वैश्याद्युत्तमवर्णित्वं पुण्यकारितमित्यर्थः । अत्रादिपदेन कामश्च भवति । स्वाभाविकविप्रत्वाद्याः पुण्या इत्युच्यन्त इत्यर्थः । तल्लक्षणमाह॥ मुक्तिगा इति॥ मुक्ताववशिष्यामाणविप्रत्वाद्याः स्वाभाविका इत्यर्थः ।
यथा स्वतो विप्रादीनां क्षत्रियादित्वं स्वतः क्षत्रियादीनां विप्रादित्वं भवति तथा स्वाभाविकपुंसां स्त्रीत्वं, स्वाभाविकस्त्रीणां पुंस्त्वं स्यात्किमित्याशङ्कायामाह॥ यान्तीति॥ पापतो यथा सुद्युम्नस्य इलात्वं, कामतो यथाऽग्निपुत्राणामप्सरस्त्वम् । इलायाः सुद्युम्नत्व दर्शनात् कथं " न स्त्रियो यान्ति पुंस्त्वं " इत्युच्यत इत्यत आह॥ स्वभावादिति ॥ स्वभावादेव स्त्रिया अम्बायाः शिखण्डित्वं स्थूणाकर्णवरेण दृष्टमित्यत आह॥ पुंसेति॥ अम्बायाः स्थूणाकर्णवरेण तद्देहे तेन सह तस्मिन् जन्मनि स्थितिरेवासीन्न तु स्वातन्त्र्येण पुरुषदेहः । तावन्मात्रं त्वङ्गीक्रयत इति भावः । स्वभावात् पुंसां पापतः स्त्रीत्वे तासां स्वाभावतः स्त्रीणां च मध्ये कासां श्रेष्ठत्वमित्यपेक्षायामाह॥ वरा इति॥ पापजातभ्य इत्यनेन कामतो जातानां वरत्वं सूचितम् । स्वभावतः स्त्रीणां पापजाताभ्यः श्रेष्ठतायाम् इलादिभ्य आसुरीणां श्रेष्ठत्वं प्रसज्यते । तन्निरासार्थमुक्तं-सत्स्त्रिय इति । अत्रावरत्वमौपाधिकमभिप्रेतम् । स्वाभाविकावशेषस्य कालान्तरं चाह॥ सर्वेषामिति॥ चरमदेहः स्वभावानुसारीत्यर्थः । पूर्वानुवादेन कालान्तरं चाह॥ मुक्तौ त्विति॥ इति वचनानुसारेण अविरुद्धतया व्याख्यातुं शक्यत्वादेतद्विशेषणं युक्तमित्यर्थः । अनेन एतदेवं व्याख्यातं भवति । ये पापादियोनयोऽस्वाभाविकाः स्त्रियो वैश्यास्तथा शूद्रा ब्राह्मणा राजर्षयश्च तेऽपि यान्ति परां गतिम् । किं पुनः पुनः पुण्याः स्वाभाविका एते स्त्रीवैश्यादयः । अत्र पापयोनयः स्त्रिय इतिवत् पुमांस इत्यनुक्तिः पापादिकारितपुंसामभावादिति॥ ३२-३३॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां नवमोऽध्यायः॥ ९॥
हरिः ॐ॥ षष्ठे ध्यानमुक्तम्॥ तत्र ध्येयतया भगवद्विभूतिरूपाण्यत्रोच्यन्त इत्यध्यायार्थस्यातिरोहितत्वादनुक्तिः ।
भूयो महिमानं श्रृण्विति प्रतिज्ञातमुच्यते " न मे विदुः " इति । तत्र मे महिमानं सुरगणाः महर्षयश्च न विदुरित्येवोक्तत्वाद् गन्धर्वादयो विदुरित्यन्यथाप्रतीतिनिरासायाह॥ उपलक्षणार्थमिति॥ सुरगणा महर्षय इति पदद्वयं सर्वोपलक्षकम् । सुरगणादीनामज्ञानेऽन्येषां सुतरां तद्भावादिति भावः॥ १-२॥
स्वज्ञानान्मोक्षाख्यमहिमाऽत्रोत्यते " यो माम् " इति । तत्र अजमित्युक्तत्वादनादिमिति पुनरुक्तिरित्यत आह॥ अनस्येति॥ अनो मुख्यप्राणः॥३॥
स्वज्ञानान्मोक्षाख्यमहिमा चोच्यते " बुद्धिः " इति । तत्र बुद्धिज्ञानशब्दयोरेकार्थत्वमित्यतो बुद्धिशब्दस्यार्थान्तरत्वे स्मृतिमाह॥ बुद्धिरिति॥ भुत् बोधः । तदाश्रयत्वात् जलधिरितिवत् तज्ज्ञानाश्रयोऽन्तः करणं बुद्धिरित्युच्यत इत्यर्थः॥ ४॥
न केवलं भूतानां बुद्ध्यादिकं मत्तो प्रतिमन्वन्तरं सप्तर्षिभेदोक्तेरत्र के विवक्षिता इति चेत्पूर्वमन्वन्तरस्था एव । पूर्व इति विशेषणात् । के पूर्वमन्वन्तरस्था इत्यतस्तान् स्मृत्यैव दर्शयति॥ मरीचिरिति॥ चतुर्दशमनुषु चत्वारोऽत्र के विवक्षिता इत्यतो न केवलमत्र मनुपदेन प्रसिद्धमनवोऽपि तु सर्वदेवाः । तेषां चतुष्ट्वं विप्रादिवर्णविवक्षयेत्येत्र स्मृतिमाह॥ मनव इति॥ मनु अवबोधन इति धातोः बोधवत्त्वान्मनव इत्युक्ते बोधस्य सर्वप्राणिसाधारणत्वात् को विशेषो देवादीनामित्यतो
बोधवैशेष्यादित्युक्तम् । ननु देवा इति वा ब्रह्माद्या इति वा प्रसिद्धप्रयोगं विहाय किमप्रसिद्धप्रयोगेणेत्यत आह॥ दीनत्वादिति॥ देवादिशब्दानामसुरसाधारणत्वात् मनुशब्दस्यैव देवेष्वसाधारणत्वात् तस्यैव प्रयोग इति भावः । द्विविधदेवानां कुत्र विनियोग इत्यत आह॥ अवैष्णवेति ॥ एतेनैव " एषां लेक इमाः प्रजाः " इत्यस्याप्यभिप्रायो वर्णितो भवति॥ ६॥
उक्तमाहात्म्यज्ञाने फलमुच्यते " एतां " इति । तत्र कर्मसमाधियोगयोरत्रानुक्तेः कथमेतं योगमित्युच्यत इत्यतो नात्र कर्मयोगादिर्विवक्षित इति भावेन योगशब्दस्यार्थान्तरं स्मृत्या दर्शयति॥ युज्यत इति॥ युज्यते उपेयं सम्भवतीत्यर्थः । शक्तिश्च, युज्यते शक्यमनयेति योग इत्यर्थः । नन्वत्राणिमाद्यैश्वर्यस्यानुक्तत्वात् कथमेतां विभूतिमित्युच्यत इत्यत आह॥
विशिष्टेति॥ अभिप्रायमाह॥ महत्त्वमिति॥ महत्त्वं च सुरगणाद्यविज्ञेयतयोक्तमिति भावः । " वक्तुकर्हस्यशेषेण दिव्या ह्यात्मविभूतयः " इति पृष्टे महत्त्वस्यानुक्तत्वात् कथं विभूतिशब्दो महत्त्वार्थ इत्यत आह॥ विविधेति॥ तत्र विविधभवनं विभूतिशब्देनाभिप्रेतमिति भावः । अस्तु योगशब्दस्योपायादिवाचित्वं तथाप्यत्र कोप्युपायो नोक्त इत्यतोऽत्र शक्तिरेवार्थः । सा चोक्तेति भावेनाह॥ योग इति॥ ७॥
उक्तार्थे विश्वासोत्पादनार्थं सन्ति च तथा भजन्त इत्युच्यते " अहम् " इति । तत्र " अहं सर्वस्य प्रभवः " इत्यादिनैव मामित्यस्य सिद्धत्वात् किं पुनः " भजन्ते माम् " इत्युच्यत इत्यत आह॥ भजन्ते मामिति॥ मामित्यनुक्ते जीवैश्वरैक्याभिप्रायेण स्वात्मानमुद्दिश्याहमेव सर्वस्य प्रभव इत्यादि मत्वा भजन्त इति प्रतीतिः स्यात् । तन्निवृत्त्यर्थं मामित्युक्तमित्यर्थः॥ ८॥
प्राणानां भगवद्गतत्वं कथमित्यत आह॥ मद्गतेति॥ ९-२०॥
अत्र विभूतिरूपप्रश्ने " अहं ज्योतिषां सविः " इत्याद्युच्यते । तत्र स्वजात्यादिविशिष्टवस्तून्येव भगवतो विभूतिरूपाणीत्यन्यथाप्रतीतिं स्मृत्यैव निवारयति॥ येषामिति॥ स्वजातेरिति स्वजात्येकदेशाद्युपलक्षणम् । तदेव प्रपञ्चयति॥ ब्रह्मेति॥ आधिक्यहेतुरित्यादौ ब्रह्मण इत्यादि शेषः । इतश्च न रव्यादिकमेव भगवतो विभूतिरूपं किन्तु तत्रस्थमेवेत्याह॥ केष्विति॥ यद्यत्र सव्यादिकमेव विभूतिरूपं न तु तदन्तर्गतमिति स्यात् तदा " केषु केषु च भावेषु चिन्त्योऽसि " इति प्रश्नाननुगुणत्वं परिहारस्य स्यादिति भावः । जीवपदं जडस्याप्युपलक्षणम् । यदि तत्तत्पदार्थगतमेव विभूतिरूपं तर्हि " सिद्धानां कपिलो मुनिः " , " मुनीनामप्यहं व्यासः " , " वृष्णीनां वासुदेवोऽस्मि " , " रामः शस्त्रभृतामहम् " , " आदित्यानामहं विष्णुः " , इत्युक्तानां कपिलादीनामपि भगवद्रूपत्वाभावः स्यादित्याशङ्कां स्मृत्यैव परिहरति॥ द्विविधमिति॥ वैभवं रूपं विभूतिरूपम् । अत्रापि स्वजातिपदमन्योपलक्षकम् । केषु केष्विति प्रश्नस्तिरोहितरूपविषय इति भावः ।
तत्तन्नामकं तत्तद्वस्तुगतं विभूतिरूपमित्युक्तम् । तत्र तत्तत्पदार्थैक्याभावे कथं तत्तन्नामकत्वमित्यतो योगवृत्त्या विभूतिरूपाणां तत्तन्नामकत्वं न्मृत्यैव दर्शयति॥ आत्मेति॥ रवेण वेदशब्देन ईयते ज्ञायत इति रविः । इण् गताविति धातुः । मरशब्दोदितोदकवान् मेघो मरी । तं चालयतीति मरीचिः । सुखात्सुखमतिसुखं शशम् । तद्वान् शशी । साम साम्यतः, वेदो वेदनतः इत्यनेन सामवेदोऽस्मीत्येतद् व्याख्यातम् । वासः सर्वदेशः । तत्र वर्तत इति वासवः । पाः पालकाः, तैर्वननीयत्वाद् भजनीयत्वात् पवनः । वन षण सम्भक्ताविति धातुः । पव शुद्धाविति धतोः शोधनात्पावकः । मा नास्ति ईशः प्रेरको यस्येति मेरः । तच्छीलत्वान्मेरुः । ताच्छील्यार्थादुनस्तथेत्युक्तेः । सारस्य सारविषयस्य गरघाद् भोक्तृत्वादित्यर्थः । स्कन्दनं स्वतो निष्कासनमिति यावत् । भर्जनाद्विरोधिनामिति शेषः । जाः जाताः । तान् पादिति जपः, याज्यत्वाद् यज्ञ इति जपयज्ञः । अश्ववत् स्थिति इत्यश्वत्थः । " तदैरं मदीयं सरः " इत्यादेः ऐरं श्रीः । ताम् अवतीत्यैरावतः । नराणामपेक्षितं नारं, तद्ददातीति नारदः । ह्रीमाऽऽलय एव हिमालयः । विशेषेण नता विनताः । तदास्पदतया तत्सम्बन्धी वानतेयः । वासस्य कं सुखं वासकम् । तदेवाधिक्येऽधिकमित्यतो वासुकम् । दातृत्वेन तद्वान् वासुकिः । कस्य सुखस्य दराः प्रभेदाः कन्दराः । तान् पिबति अनुभवतीति कन्दर्पः । पा पान इति धातुः । ऋगताविति धातोरर्थं ज्ञेयम् । तन्माति जानातीत्यर्यमा । कल ज्ञान इति धातोराकलनं ज्ञानम् । वरं णं सुखं यस्यासौ वरुणः । " णो हि निर्वृतिवाचकः " इत्युक्तेः । वृणोतीति वरुण इति वा । माङ् मान इति धातोर्मा ज्ञानम् । ऊनार्थे चोनमिष्यत इत्यतो लोकस्याल्पं मां करोतीति मकरः । स्वात्मानं मृगयन्तो भक्ता मृगाः । तदधिपतित्वात् मृगेन्द्रः । असारतया संसारं जहतो वृणोतीति जाह्नवी । स्थानमाश्रयः । आत्मनोऽधिकृत्य पतित्वेन वर्तत इत्यध्यात्मम् । कीर्त्यत्वात् कीर्तिः । वक्तृत्वाद् वाक् । श्रयत इति श्रीः । तथेर्यते मेघा क्षमेतीर्यते । दिवु क्रीडेत्यादिधातोः क्रीडापरत्वाद् द्यूतम् । गायकान्, स्वस्येति शेषः । बृहत्सारो बृहत्सः । अमेयत्वादम इति बृहत्साम् । उशतेः स्वर्गादीच्छावत्त्वात् । उश इच्छायामिति धातोः । कुत्सितां सुष्टुभूतां च मां ज्ञानं लोकस्य करोतीति कुसुमाकरः । ईड्यत्वेन मुनिसम्बन्धित्वात् मौनम् । " सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् " इति श्रुतेः । मार्गाणां शीर्षस्तानत्वान्मार्गः । कं सुखं पिबत्यनुभवति लीलयेति कपिलः । विशिष्टा आसा स्थितिर्यस्यालौ व्यासः । " षकारः प्राणः " इति श्रुतेः, ण शब्दस्य निर्वृतिवाचकत्वाद्
विशिष्टसुखचेष्टाशीलत्वाद् विष्णुः । शश्यादिषु विजातीयस्वाम्यदो नक्षत्रादीनां विजातीयत्वात् । सत्त्वं सत्त्ववतामहमित्यादौ धर्मिषु सत्त्वादिसारदत्वेनोक्तः । रुद्राणां शङ्कर इत्यादौ शङ्रादीनां सजातीयश्रैष्ठ्यदत्वेनोक्तः । देवानामस्मि वासवः, कवीनामुशना कविः, पाण्डवानां धनञ्जयः, यज्ञानां जपयज्ञोऽस्मि, आयुधानामहं बज्रं, वेदानां सामवेदोऽस्मीत्यादौ स०जातीयैकदेशतः श्रैष्ठ्यदो वासवादीनामुक्तः
वासादीनां सजातीयैकदेशतः एव श्रैष्ठ्यं कुत इत्यत आह॥ देवेष्विति॥ देवादिषु ब्रह्मादीनामेव श्रेष्ठात्वाद् वासवादीनां सजातीयैकदेशत एव श्रैष्ठ्यमित्यर्थः ।
यदुक्तं वेदेषु ऋग्वेदस्याधिक्यात्साम्नः सजातीयैकदेशत एव श्रेष्ठत्वमिति तदयुक्तम् । क्वचित्सामवेदस्य ऋग्वेदादप्याधिक्यस्योक्तत्वादित्यत आह॥ क्वचिदिति॥ यत्र सामवेदस्य ऋग्वेदादाधिक्यमुच्यते तत्र सामवेदाभिमानिदेवताया एव ऋग्वेदाभिमानिदेवताधिक्यविवक्षयैवोच्यते, न तु वेदस्वरूपविवक्षया । अतो न विरोध इति भावः । भवेदेतद्यदि सामवेदाभिमानिदेवताभ्यो ऋग्वेदाभिमानिदेवता अन्या भवेत्तदेव कुत इत्यत आह॥ ऋच इति॥ ननु सामवेदाभिमानिनां प्राणशिवादीनां ऋग्वेदाभिमानिलक्ष्म्यादिभ्यः श्रैष्ठ्याभावात् कथं सामवेदस्य ऋग्वेदादाधिक्योक्तिरभिमानिदेवतापेक्षयाऽप्युपपद्यत इत्यत आह॥ तत्रापीति॥ अभिमानिष्वपि यथासम्भवमाधिक्यं ग्राह्यमित्यर्थः । यदा सामवेदस्य ऋग्वेदाधिक्यमुच्यते तदा सामवेदाभिमानिनः प्राणस्य विवक्षायाम् ऋग्वेदाभिमानिसरस्वत्याद्याधिक्यं ग्राह्यम् । यदा शिवस्य विवक्षा तदोमाद्याधिक्यं ग्राह्यमित्याद्युक्तं भवति॥ २०-४०॥
विभूतीनां सङ्क्षेपमुक्त्वा विस्तर उच्यते॥ यद्यदिति॥ तत्र यद्यद्विभूत्यादिमत्तत्तन्मयाऽधिष्ठितमित्यनुक्त्वा मम तेजोंऽशासम्भवमिति स्वंशजातत्वं तस्य किमर्थमुच्यत इत्यत आह॥ ममेति॥ प्रकाशरूपांशेन संयुक्तं भवतीति तेजोंऽशसम्भवं न तु तेजोंऽशात् सम्भवो यस्यति । येनासङ्गतिरिति भावः॥ ४१॥
ततोऽपि विभूतिविस्तर उच्यते " अथवा " इति । तत्रोक्तेन बहुना ज्ञातेन किमपि फलं नास्तीत्यन्यथाप्रतीतिनिरासायाह॥ किमिति॥ किं ज्ञातेनेति वचनमुक्तज्ञानादपि वक्ष्यमाणज्ञानस्याधिकफलत्वज्ञापनार्थमेव न तूक्तज्ञानस्य निष्फलत्वज्ञापकमित्यर्थः । उक्तज्ञानस्य निष्फलत्वज्ञापकमेव किं न स्यादित्यत आह॥ अन्यथेति॥ ननु पूर्वोक्तविज्ञानस्यापि साफल्ये ततोऽपि वक्ष्यमाणज्ञानमधिकफलमित्येव वक्तव्यम् । किं ज्ञानेनेत्युक्ताक्षेपो न युक्त इत्यतो वक्ष्यमाणस्याधिक्यज्ञापनेऽप्युक्तशुभाक्षेपसम्भवनियामिकां स्मृतिमाह॥ अन्येति॥ निन्द्यत्वनं हेयत्वं ज्ञेयमिति शेषः । किं त्वस्मादन्यस्य वरिष्ठतैव ज्ञेयेत्यर्थः । यद्यन्यद्वरिष्ठं तर्ह्याक्षिप्तं हेयमेव । वरिष्ठलाभेऽल्पस्याप्रयोजकत्वादित्यत आह॥ उभयमिति॥ न वरिष्ठलाभेऽल्पस्य हेयत्वम् । उभयलाभे अधिकशोभनप्राप्तेरित्यर्थः॥ ४२॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीगद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां दशमोऽध्यायः॥ १०॥
अत्र ध्यानार्थं विश्वरूपस्थितिरुच्यत इत्यध्यायप्रतिपाद्यस्य स्फुटं प्रतीयमानत्वादनुक्तिः । तत्र विश्वरूपस्य प्रागुत्तरं चादृष्टत्वात् तदानीमेव किञ्चित्प्रधानादिकं उपादानीकृत्य भगवता निर्मायार्जुनाय प्रदर्शय विश्वरूपं नाशितमिति शङ्कां निवारयति॥ आत्मानमिति॥ दर्शयात्मानमव्ययमित्यात्मप्रदर्शनप्रार्थनानन्तरं दर्शयामास पार्थाय परमं रूपमैश्वरमिति विश्वरूपप्रदर्शनस्योक्तत्वात् विश्वरूपस्य साक्षादीश्वरस्वरूपत्वं सिद्धम् । अन्यथा प्रदर्शनस्य प्रार्थनाननुगुणत्वप्रसङ्गात् । देवमित्युक्त्या साक्षादपि तत्सिद्धम् । अव्ययं परमं सर्वाश्चर्यमयम् अनन्तं विश्वतोमुखम् । इत्यादीश्वरविशेषणयुक्ततया विश्वरूपस्योक्तत्वाच्च तस्य साक्षादीश्वरस्वरूपत्वं सिद्धम् । साक्षादीश्वरस्वरूपत्वे च तस्य नित्यत्वं चिदानन्दाद्यात्मकत्वं च सिद्धम् । भगवतो नित्यत्वाच्चिदानन्दाद्यात्मकत्वात् । अतो विश्वरूपमचेतनोपादानकं निर्मायोत्युक्तमयुक्तमिति भावः ।
ननु विश्वमेव रूपं विश्वरूपम् । शशिसूर्यनेत्रमित्यादेः । अतः कथं साक्षाद्भगवत्स्वरूपं स्यादित्यत आह॥ ममेति॥ " पश्यादित्यान् वसून् पुद्रानश्विनौ मरुतस्तथा । मम देहे गुडाकेश " इत्यदिना विश्वस्य विश्वरूपाश्रितत्वेनोक्तत्वात् ततस्तस्य भेदसिद्धेर्युक्तं विश्वरूपस्य साक्षाद्भगवत्स्वरूपत्वमिति भावः । शशिसूर्यनेत्रमित्यस्य शशिसूर्याश्रयनेत्रत्वमर्थः । ननु विश्वरूपस्यानन्तरूपसमुदायत्वात् न भगवत्स्वरूपत्वं युक्तम् । एकेनानेकभेदस्य विरुद्धत्वादित्यत आह॥ मे रूपाणीति ॥ न विश्वरूपस्यानन्तरूपसमुदायत्वात् ईश्वररूपत्वायोगः । " पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः " " पश्यामि त्वां सर्वतोऽनन्तरूपम् " इत्यादेरनन्तरूपाणां प्रदर्शितत्वावगमाद् " द्रष्टुमिच्छामि ते रूपम् " इत्यादेरेकरूपप्रदर्शनस्यैव प्रार्थितत्वावगमाच्चैकस्यैवानन्तरूपत्वासिद्धेः । न चैतद्विरुद्धम् । तेषामनन्तरूपाणामपि परस्परमभिन्नत्वादिति भावः ।
अनन्तरूपाण्यभिन्नानीत्ययुक्तम् । रूपाणामैक्येऽनन्तत्वायोगादित्याशङ्कां ब्रह्मतर्कवाक्येन परिहरति॥ एकमिति॥ " विशेषादेव केवलम् " इत्युपपादकान्तरम् । भेदाभावे कथं विशेषमात्रेण व्यवहारविशेष इत्यत आह॥ अभाव इति॥ यत्र
वस्तुनि भेदाभावः प्रमाणावसितो भवेत्तत्र व्यवहारविशेषनिर्वाहक एव हि विशेषो नामतः । अतो विशेषादेव प्रमाणावसितभेदाभावेषु भगवद्रूपेषु व्यवहारविशेषो युक्त इति भावः । बेदाबावेऽपि विशेषादेव भगवद्रूपेषु व्यवहरविशेषो
भवति चेत् गवाश्वादावपि विशेषादेव व्यवहारविशेषः स्यादित्यतो वाऽऽह॥ अभाव इति॥ यत्र भेदाभावः प्रमाणावसितो भवेत्तत्रैव विशेषो व्यवहारविशेषनिर्वाहकोऽङ्गीक्रियते । गवाश्वादौ तु भेदस्यैव प्रमाणावसितत्वात् न व्यवहारविशेषनिबन्धन इति भावः ।
नन्वयं विशेषो विशेषिणो भिन्नोऽभिन्नो वा? आद्ये भेदानवस्था । द्वितीये विशेषविशेषिव्यवहारो न स्यात् । न च तत्र विशेषादेव व्यवहारविशेषनिर्वाहः । विशेषानवस्थाप्रसङ्गादित्यत आह॥ विशेषोऽपीति॥ विशेषोऽपि विशेरषिस्वरूपमतो न भेदानवस्था । भेदाभावेऽपि विशेषादेव विशेषव्यवहारसिद्धिः । विशेषस्य स्वस्यैव स्वस्मिन् व्यवहारविशेषनिर्वाहकत्वेन विशेषान्तरानङ्गीकारान्न विशेषानवस्थाऽपीति भावः ।
तमेव विशेषं विभज्य निरूपयति॥ द्रव्येति॥ एतच्च चेतनाचेतनसाधारणं वाक्यं यथाक्रमं योजनीयम् । चेतने कश्चिद्विशेषो जायते, कश्चिन्नित्य इत्येवं विशेषो द्विविधो भवति । न च वाच्यं द्रव्यात्मकत्वेन विशेषस्य नित्यत्वान्न जननमिति । चेतनद्रव्यात्मकत्वेन नत्यस्यापि व्यक्तिविशेषविवक्षया जननोक्तिसम्भवात् । अचेतने च विशेषिद्रव्यस्यैव विशेषोपादानत्वाद् उपादानविशेषिद्रव्यात्मनाऽयावद् द्रव्यभाव्यपि कार्यरूपेण कश्चिद्विशेषो जायते । कश्चिद् यावद्द्रव्यभावीति द्विविधो विशेष इति भावः । चेतनाचेतनयोः प्रत्येकं द्विविधविशेषान् तत्तत्स्थलेषूदाहरति॥ वस्त्विति॥ चेतनवत्सुस्वरूपमस्तीत्यत्र चेतनत्ववस्तुत्वस्वरूपत्वास्तित्वविशेषा नित्याभिव्यक्ताः । चेतनः करोति भुङ्क्ते गच्छतीत्यत्र करणगमनभोजनविशेषा व्यक्त्यव्यक्तियुताः । ते द्विविधा अपि विशेषिणाऽत्यन्ताभेदिनः । तथा चूतफलस्वरूपमस्तीत्यत्र चूतत्वफलत्वादिविशेषा यावद्द्रव्यभाविनो विशेषिणाऽत्यन्ताभिन्नाः । पीतं चूतफलमित्यत्र पीतत्वादिविशेषाः कादाचित्का विशेषिणाभिन्नाभिन्ना इति भावः ।
एवंविधविशेषसद्भावे किं मानमित्यत आह॥ विशेष इति॥ तदेव स्फुटीकरोति॥ न चेति॥ ननु वस्तुनि यावान् विशिष्टाकारस्तस्य विशेष्यस्वरूपान्यत्वेन विशेष्यस्वरूपस्य निर्विशेषत्वात् कथं विशेषः सर्ववस्तुषु ज्ञायत इत्युक्तमित्यत आह॥ विशिष्टस्येति॥ भवेदेतद्यदि विशिष्टं विशेष्यस्वरूपादन्यद् भवेत् । न चैतदस्ति । विशिष्टस्य विशेष्यस्वरूपादसिन्यदत्वे विशेष्यस्वरूपस्यामेयत्वप्रसङ्गात् । विशेषवत्येव प्रमाणप्रत्तेरुक्तत्वात् । विशेष्याज्ञाने च विशिष्टाज्ञानं च प्रसज्यते । व्यावर्तकाज्ञाने व्यावर्त्यस्य सम्यग् ज्ञातुमश्क्यत्वात् । विशेष्यस्य विशिष्टव्यावर्तकत्वादिति भावः । विशेष्यस्वरूपस्यामेयत्वे बाधकान्तरं चाह॥ मानेति॥ वस्तुसिद्धेर्मानाधीनत्वाद् विशेष्यस्वरूपस्यामेयत्वे तदभावश्च स्यादिति भावः । इतोऽपि न विशेष्यस्वरूपं निर्विशेषमित्याह॥ स्वयमिति॥ यद्विशेष्यस्वरूपं तस्य तावद्विशेष्यस्वरूपत्वं विशेषोऽङ्गीकार्य एव । विशेष्यस्वरूपत्वविशेषवर्जितस्य विशेष्यस्वरूपमिति ज्ञातुं व्यवहर्तुं वाऽशक्यत्वात् । अतो विशेष्यस्वरूपमपि न निर्वशेषमिति भावः । ननु यद्विशेष्यस्वरूपत्वविशेषविशिष्टं तस्मिन् विशिष्टे यद्विशेष्यस्वरूपं तद्विशिष्टादन्यदेव । अतो निर्विशेषमेवेत्यत आह॥ तदिति॥ यत्तस्मिन् विशिष्टे विशेष्यस्वरूपं तद्विशिष्टादन्यदपि विशेष्यस्वरूपत्वविशेषसहितमेव । अतो न निर्विशेषमिति भावः । तस्मिन्नपि विशिष्टे यद्विशेष्यस्वरूपं तद्विशिष्टान्यदेव । अओतो निर्विशेषमित्यङ्गीकारेऽनवस्थामाह॥ इतीति॥ यथा विशिष्टविशेष्यस्वरूपयोर्भेदाभ्युपगमेऽनवस्थोच्यते तथा तयोरभेदाङ्गीकारेऽपि तत्प्रप्तौ सोऽपि पक्षस्त्याज्य एव स्यात् । विशिष्टविशेष्यस्वरूपयोरभेदे च विशेष्यस्वरूपज्ञाने विशिष्टाकारस्यापि ज्ञातत्वप्रसङ्गेन विशेष्यस्वरूपानुवादेन विशिष्टाकारप्रश्नानुपपत्तिः स्यादित्यत आह॥ अभेद इति॥ एकमेव वस्तु अनूद्याकरेण ज्ञानं पृच्छ्यमानाकारेणाज्ञातमिति प्रत्येकमखिलवस्तूनां ज्ञातत्वाज्ञातत्वात् न प्रश्नानुपपत्तिः । विशिष्टाकारस्य विशेष्यस्वरूपाभिन्नत्वेन न भेदसापेक्षानवस्थाऽपीति भावः । अभिन्नस्य विशिष्टत्वादिति॥ यद्विशेष्येणाभिन्नं तत्स्वरूपं तस्यैव विशिष्टत्वादित्यर्थः । विशिष्टविशेष्ययोरत्यन्ताभेदे कथमाकारभेदेनापि ज्ञातत्वाज्ञातत्वमित्याशङ्कां परिहरन्नुक्तं विवृरणोति॥ एकत्वेति॥ विशिष्टवशेष्ययोरेवत्वानुभवात् नानवस्थादोषः । अभेदेऽपि विशेषानुभवात् तद्बलेनैकस्यैव ज्ञातत्वाज्ञातत्वानुभवात् न प्रश्नासम्भवदोषोऽपीत्यर्थः ।
ननु विशिष्टविशेष्ययोः भेदाभेदौ किं न स्याताम् । तथात्वे भेदेन प्रश्नासम्भवस्य परिहर्तुं शक्यत्वादभेदे नानवस्थादेश्च परिहर्तुं शक्यत्वादिति चेत् । किं विशिष्टविशेष्ययोः क्वचिद्भेदाभेदावङ्गीक्रियेते उत सर्वत्रापि ? आद्ये सम्प्रतिपत्तिः । अयावद्द्रव्यभाविविशेषणविशिष्टस्य विशेष्येण भेदाभेदाङ्गीकारात् । द्वितीयं दूषयति॥ भेदाभेदाविति॥ तौ परेणाङ्गीकृतौ । सर्वत्र विशिष्टविशेष्ययोरिति शेषः । कर्तृभोक्तृविशेषण इति॥ कर्तृत्वभोक्तृत्वे विशेषणे यस्य विशिष्टस्य तस्मिन्नित्यर्थः । कर्तृत्वभोक्तृत्वादियावद्द्रव्यभाविविशेषणविशिष्टविषये कर्ता भोक्ता मदन्योऽहं चेति विशेषेण भेदाभेदानुभवाभावादिति
भावः । एतेन कर्तृभोक्त्रादिविशिष्टविशेषययोरभेदप्रतिपादनेनैव यदुक्तं चेतनविशेषाणामाविर्भावतिरोभाववतां कर्तृत्वदीनां
विशेषिणाऽभिन्नत्वं तदपि समर्थितं भवति ।
अथ नित्याभिव्यक्तानां स्वरूपत्वादीनां चाभेदं साधयति॥ भेद इति॥ नित्याभिव्यक्तस्येति शेषः॥ आन्तरस्येति॥ देहोपाधित्वं विना चेतनगतस्येत्यर्थः । शुद्धस्वरूप इत्यादौ शुद्धस्वरूपत्ववस्तुत्वादीनां नित्याभिव्यक्तविशेषाणां शुद्धस्वरूपो मुक्त इति सामानाधिकरण्येनाभेदस्यैव दर्शनाद्विशिष्टविशेष्ययोरभेदे विशेषणाभेदस्य नियतदत्वादिति भावः । आविर्भावतिरोभाववतां कर्तृत्वादिविशेषाणां विशेषिचैतन्यैक्यज्ञानादिविशेषाणामपि विशेष्यैक्यं साधयति॥ अपृथगिति॥ पृथक्त्वेन दर्शनाभावनियमादित्यर्थः ।
ननु यथोच्यते शुद्धस्वरूप इत्यादि यथा च कर्ता भोक्ता बलवान् विद्वानिति तथा कृष्णः स्थूल इत्यादि योच्यते । अतो देहनिमित्तानां कार्ष्ण्यादिविशेषाणामपि चैतन्यैक्यं स्यादित्यत आह॥ बाह्येति॥ नास्माभिरुभयविधविशेष्टविशेष्ययोः सामानाधिकण्यमात्राद्विशेषाणां चैतन्यैक्यमुच्यते । किन्तु भेदादर्शने सति सामानाधिकरण्येन । न चात्र कृष्णदेवदत्तयोः भेदादर्शनं, येन च कार्ष्ण्यं देवदत्तस्वरूपं स्यात् । भेदस्यैव दृष्टत्वादिति भावः ।
एके तु शुद्धस्वरूपत्वादीनां नित्याभिव्यक्तानामेव विशेषाणां चैतन्यैक्यं, न तु कर्तृत्वादीनामिति मन्यन्ते । नान् निराकरोति॥ विशेषेति॥ शुद्धस्वरूपत्वादीनामेव चैतन्यैक्यं न तु कर्तृत्वादीनामिति देवैविध्यं किं यत्किञ्चिद्धेतुबलेन कल्प्यते तद्विना वा? नाद्यः । तददर्शनात् । न द्वितायः । रकर्तृत्वादीनामप्यैक्योपपत्तौ वृथा द्वैविध्यकल्प्ने कल्पनागौरवप्रसङ्गात् । अप्रामाणिकप्रमाणविरुद्धकल्पनप्रसक्तेश्च । यदि कल्पनागौरवादिदोषानङ्गीकृत्यापि कर्तृत्वादीनां भिन्नत्वमुच्यते तर्हि शुद्धस्वरूपत्वादयोऽपि विशेषा भिन्ना एवेत्यतिप्रसङ्गः स्यात् । परस्य दोषभयाभावादिति भावः । एवं चेतने विशेषादेरत्यन्ताभेदः समर्थितः । तन्न्यायेनाचेतनेऽपि यावद्द्रव्यभाविनो विशेषादेर्विशेषिणाऽत्यन्ताभेदो द्रष्टव्यः ।
अयावद्द्रव्यभाविविशेषस्य यौ भेदाभेदावुक्तौ तौ समर्थयति॥ नैकत्वमिति॥ एकत्वं नानात्वं च नास्तीत्यक्तेऽनिर्वचनीयत्वशङ्का स्यात् । तन्निरासाय नियमादित्युक्तम् । अत एकैकस्याभावादिति भावः । अनुभवादन्तथा गत्यभावाच्च नैकत्वम्, नापि नानात्वमिति सम्बन्धः । ननु चेतनेऽपि भेदाभेदसद्भावेन चेतनाचेतनयोरेकप्रकारत्वात् अचेतन इति किं विशिष्याभिधीयत इत्यत आह ॥ एक इति॥ अहं मदभिन्नो घटादेर्भिन्न इति चेतने भिन्नप्रतियोगिकावेव भेदाभेदावनुभूयेते । अचेतने त्वेकप्रतियोगिकावेव । अतो न चेतनाचेतनयोरेकप्रकारतेत्यर्थः । कथमचोतने भेदाभेदावनुभवसिद्धावित्यतः तन्त्वाद्यवयवेभ्यः पटाद्यवयविनो भेदाभेदसद्भावेऽनुभवकथनेन तन्त्वादीनां पटत्वादिविशेषैर्भेताभेदसद्भावेऽनुभवः प्रदर्शित एव भवतीति मन्वान आह॥ एकमिति॥ तन्तूनां पटरूपेणैकत्वस्य परस्परं भेदस्य चानुभवादेरकैकतन्तोः पटेन भेदाभेदावनुभूयेते । एकैकतन्तोः पटेनात्यन्ताभेदेऽन्योन्यभेदानुभवायोगादिति भावः । गत्यन्तराभावं चाह॥ तन्तुभ्य इति॥ यद्येकैकतन्तोः पटोऽत्यन्तभिन्नस्तर्ह्येकैकतन्तुभ्यः पटः पृथग् दृश्यत । न चैतदस्ति । नाप्येकैकतन्तुना पटोऽत्यन्ताभिन्नः । यथास्वसंस्थानविशेषेणावस्थितैकैकतन्तुभावे पटाभावानुपपत्तेरिति भावः । सर्वावयवसमुदायस्य स्वयमबहुत्वात् तद्भावेऽवयव्यभावाभावात् संस्थानविशेषेणावस्थितानामेवावयवत्वात् अवयविनाऽत्यन्ताभेदो द्रष्टव्यः । यथाऽऽत्मगतानां कर्तृत्वादिविशेषाणां बहुत्वेऽप्येकेनाऽत्मनाऽत्यन्ताभेदः तथा बहुत्वेपि तन्तूनां एकेन पटेनात्यन्ताभेदः किं न स्यादित्यत आह॥ न चेति॥ किमन्नोक्तस्य व्यभिचारश्चोच्यते उतात्मगतविशेषदृष्टान्तेन जडेऽप्यन्ताभेदसाधनमात्रम्? नाद्यः । अत्र कर्तृत्वादीनां बहुत्वाभावात् । व्यवहारविशेषस्य स्वनिर्वाहकविशेषेणैवोपपत्तेरुक्तत्वात् । नापि द्वितायः । कर्ताऽहं भोक्ताऽहमित्येकैकविशेषविशिष्टस्यात्मनो भेदानुभवेनैकैकविशेषस्यापि केवलाभेदानुभवात् । एकैकस्मिंश्च तन्तौ पटप्रत्ययाभावादिति भावः । किमचेतने पटादावन्त्यावयविन्येव अवयवावयविनोर्भेदाभेदाविति ? नेत्याह॥ अत्रेति॥ अचेतने पटादौ स्वावयवैर्भेदाभेदौ तदवयवस्यापि स्वावयवैर्भेदाभेदावित्येवम् अपर्यवसानमेव भवेदित्यर्थः । परमाणोर्नित्यत्वेन तत्र पर्यवसानसम्भवात् कथमनवस्थितिरित्यत आह॥ न चेति॥ न केवलं निरवयवत्वे प्रमाणाभावात् कथमनवस्थितिरित्य आह॥ न चेति॥ न केवलं निरवयवत्वे प्रमाणाभावात् परमाणोः सावयवत्वम् । अपि तु पूर्वापरादिभागभेदेन सावयवत्वावगमाच्चेत्याह॥ पूर्वेति॥ स्वतः परमाणोरवयवाभावेऽपि पूर्वादिदिगुपाधिकृतावयवसद्भावात् तद्विषयोऽसाववगम इति चेत् किमुपाधिः परमाणोरेकदेशसम्बद्धो भवेत् तर्ह्येकदेशस्य प्रागेव सत्त्वात् प्रागेव सन्तमवयवभेदं ज्ञापयेदित्येव प्राप्तमित्यर्थः । द्वितीयं दूषयति॥ अखिलमिति॥ ननु गुणादीनां निरवयवत्वात् कथं “न चानवयवं वस्तु क्वचित् स्यात् " इत्युच्यत इत्यत आह
॥ तस्मादिति॥ पूर्वापरादिभागभेदेन अंशावगमादौपाधिकांशस्य निरस्तत्वादित्यर्थः ।
एवमवयवायवयविनोर्भेदाभेदसमर्थनेन पटत्वादीनामयावद्द्रव्यभाविनां विशेषाणां तन्त्वादिविशेषिणा भेदाभेदौ समर्थितौ । अथ गुणादित्वेन पराभ्युपगतानाम् अयावद्द्रव्यभाविनां रूपादिविशेषाणां तन्त्वादिविशेषिणा भेदाभेदौ साधयति॥ भावेति॥ जडे
वस्तुनि गुणक्रियादीनामयावद्द्रव्यभाविविशेषाणां स्वसद्भावदशायां भेदाभेदावेव युक्तौ । नीलं फलमिति तेषां सामानाधिकरण्येन भावव्यवहृतरभेदस्याङ्गीकार्यत्वात् । वस्तुनि विद्यमानेऽपि कदाचिन्न नीलं फलमित्यभावव्यवहृतेर्भेदस्याप्यङ्गीकार्यत्वात् । अत्यन्ताभेदे वस्तुनि सति तद्विनाशासम्भवादिति भावः विनाशानन्तरं तु भेद एवेति ज्ञातव्यं, स्वयमसतोऽभेदायोगात् । ननु यथा चेतने सुप्त्यादावविद्यमानानामपि बलज्ञानादीनामत्यन्ताभेदस्तथा अत्राप्यत्यन्ताभेद एव किं न स्यादित्यत आह॥ चेतन इति॥ सुप्तोऽयं बलवानित्यादिव्यवहारबलेन सुप्त्यादावपि बलादीनां शक्तिरूपेणावस्थानसिद्धेः । युक्तोऽत्यन्ताभेदो, न तु श्यामतादीनाम् । तेषामत्यन्तोच्छेदादित्यर्थः । श्यामतादीनामपि शक्तिरूपेणावस्थानं किं न स्यादित्यत आह॥ न चेति॥ मन्यामहे नीसत्वादीनां शक्तिरूपेणावस्थानं यदि बलादीनामिव शक्तिरूपाभिप्रायेण तेषां व्यवहारो भवेत् । न हि पीते चूतफले नीलमिति व्यवहारोऽस्तीति भावः ।
यदुक्तं विशेषबलादेकं पूपं हरेर्बहुव्यवहारविषयतां यातीति तद्भवेद्यदि रूपाभेदः प्रमाणावसितो भवेत् । " अभावो यत्र " इत्युक्तत्वात् । न च तत्प्रमाणमुपलभ्यत इत्यत आह॥ एकमेवेति॥ यदुक्तमचिन्त्यैश्वर्ययोगतो दुर्घडमप्येतद् घटत इति तदयुक्तम् । तथासति परमैश्वर्यबलेन जीवाभेदादेरपि घटनापातादित्यत आह॥ परमेति॥ यत्कल्याणगुणात्मकं तत्सर्वं प्रतीत्या दुर्घटमपि हरौ परमैश्वर्ययोगतो घटत इत्येवाङ्गीक्रियते न तु जीवैक्यादिकमपीति । तथा सति परमैश्वर्यस्यैवानुपपत्तेरिति भावः॥ १-१४॥
दृष्टविश्वरूपो दृष्टानुवादव्याजेन स्तौति “पश्यामि " इति । तत्र कमसरूपासने स्थितं ब्रह्माणमित्यल्पार्थत्वाप्रतीतिनिरासाय कमलासनस्थपदं व्याचष्टे॥ कमलेति॥ कथं ब्रह्मणो ब्रह्मणि स्थितत्वमित्यतो रुद्रस्येशपदोदितस्येदं विशेषमिति भावेनाह॥ रुद्रमिति॥ भवेदिदं व्याख्यानं यदि रुद्रस्य ब्रह्मणि स्थितत्वं भवेत्, तदेव कुत इत्यत आह॥ विष्णुमिति॥ १५-१८ । । “द्यावापृथिव्योः " इत्यत्र त्वयेत्युक्त्यैवेकेनेति सिद्धत्वात् किमर्थं पुनरेकेनेत्युच्यत इत्यतस्तस्य सार्थक्यमाह॥ द्यावापृथिव्योरिति॥ “अनादिमध्यान्तम् " इति परिमाणानन्त्यमुच्यत इत्यन्यथाप्रतीति सम्भवात् किमर्थमुच्यते किमर्थमुच्यते प्रायो भीता इत्यत आह॥ अर्जुनादिति॥ एतद्वचनबलेन लोकत्रयशब्दस्य तत्र स्थितविश्वरूपदर्शनयोग्यप्रतिबन्धकहीनभक्तविषयत्वात् भगवतः किञ्चिदुग्रत्वात्तद्दर्शनां भयस्यापि सम्भवात् “दृष्ट्वाऽद्भुतं " इत्यादिवाक्यमुपपन्नमिति भावः । “पश्यामि देवांस्तव देहे " इत्युक्तत्वात् “अमी हि त्वा सुरसङ्घा " इति पारोक्ष्येण निर्दिष्टा मुक्ताः । तत्रामुक्ता इत्यपौनुरुक्त्यमिति भावः । भवेदपुनरुक्तिर्यद्येतत् मुक्तविषयं स्यात् । तदेव कुतः? परोक्षनिर्देशस्यामुक्तेष्वपि सम्भवादिति चेन्न । “त्वां विशन्ति " इति स्वेच्छयैव भगवत्प्रवेशोक्तेरिति भावेनाह॥ विशन्तीति॥ तथापि कुतो मुक्तविषयत्वमस्येत्यत आह॥ प्रवेश इति॥ २१-२५॥
ननु धृतराष्ट्रपुत्रादीनां भगवन्मुखप्रवेशोन्मुखचेष्टाऽभावात् कथं “अमी च त्वा धृतराष्ट्रस्य पुत्राः " इत्याद्युच्यत इत्यत आह॥ अन्यति॥ भगवन्मुखप्रवेशानुन्मुखचेष्टानामपि भगवन्मुखचेष्टयैव तत्र प्रवेशादुपचारेण विशन्तीति प्रयोगो युज्यते । प्रलयोदकप्रवेशानुन्मुखचेष्टानां प्रजानां तच्चेष्टयैव तत्र प्रवेशे “प्रविष्टा उदकं प्रजाः " इति प्रयोगवदित्यर्थः । भगवन्मुखचेष्टयैव तत्र प्रवेशश्चेत् धार्तराष्ट्रसेनाया एव भवेत् । भगवन्मुखानां तदभिमुखत्वात् । अतः “सहास्मदीयैः " इत्ययुक्तं स्यादित्यत आह॥ सेनेति॥ ननु युद्धोपक्रम एव चूर्णितोत्तमाङ्गतयाऽन्यैरदृष्टाः कथमर्जुनेन मया तथा सन्दृश्यन्त इत्युच्यते “केचिद्बिलग्नाः " इत्यादिनेत्यत आह॥ ये त्विति॥ तन्मिन्नेव मुहूर्ते मरिष्यमाणानामेवात्र ग्रहणाद् युद्धोपक्रम एवैवमुक्तिर्युक्ता । विशीर्णत्वेनापतितस्य सूक्ष्मदृष्टिगोचरत्वादन्येषां तथा दर्शनं च युक्तम् । “दिव्यं ददामि ते चक्षुः " इत्यादेरर्जुनस्य दिव्यदृष्टित्वादन्यादृष्टदर्शनं च युक्तमिति भावः । अन्येषां तददर्शने दृष्टान्तमाह॥ यथेति॥ दिव्यदृष्टित्वादर्जुनस्यान्यदृष्टदर्शने दृष्टान्तमाह॥ यथेति॥ एतच्च विष्णुधर्मे विस्तरेणोक्तम्॥ २६-३०॥
“आख्याहि मे को भवान् " इत्यत्र को देवो भवानिति पृच्छतीत्यन्यथाप्रतीतिनिरासायाऽह॥ विशेषेति॥ गुणादेः स्वयमेवोक्तत्वात् किं पुनः प्रश्नेनेत्यतो विशेषेत्युक्तम् । स्वज्ञातविषय इत्यर्थः । स्वरूपविषय एव किं न स्यादित्यत आह॥ विष्णुरिति पूर्वमेव ज्ञातत्वात् विशेषगुणकर्मादिविषय एवायं प्रश्नो न स्वरूपमात्रविषय इत्यर्थः॥ ३१॥
परिहारे गुणादेरनुक्तत्वात् नायं तद्विषय इत्यतः कालशब्द एव गुणादिवाचीति भावेन स्मृत्यैव तं व्याचष्टे॥ काल इति॥
कलिताः स्वसम्बद्धाः । कल बन्धने, कल संहरणे, कल ज्ञाने, कल विद्रावण इतदि पठन्ति । उग्ररूपः किमर्थमिति प्रश्नपरिहारायोक्तं “लोकक्षयकृत् " इत्यादि । तदुपपद्यते “ऋतेऽपि " इति । तत्र युधिष्ठिरादीनामप्युर्वरितत्वात् कथं त्वामृते सर्वे मरिष्यन्तीत्युच्यत इत्यत आह॥ अपीति॥ नात्रार्जुनमेकमृते सर्वे मरिष्यन्तीत्युच्यते । किन्तु अर्जुनभ्रातृनश्वत्थामादींश्च विना । अपिपदेन तेषां समुच्चितत्वादिति भावः । ३२-३३॥
यतोऽहमेव लोकान् समाहर्तुमिह प्रवृत्तोऽतो वैरिचये सन्देहायोगाद् युध्यस्वेत्युच्यते “तस्मात् “इति । तत्र द्रोणं च भीष्मं चेति
जयद्रथस्य द्रोणादिवद्विशिष्योक्तिः कथम्? तावत्सामर्थ्याभावादित्यत आह॥ जयद्रथस्येति॥ योऽस्य शिरः छिन्नं भूमौ पातयेत्तच्छिरो भिद्यतामिति पितृदत्तातिबलिष्ठवरादेवास्य विशेषोक्तिर्न तु द्रोणादिवत् सामर्थ्यविशेषादित्यर्थः । ननु जीवन्त एव कथं “मयैवेति निहताः " इत्युच्यते । तथात्वे च कथं “जेताऽसि " इत्युच्यत इत्यत आह॥ निहता इति॥ निहताप्रायत्वं नामापहृतायुष्ट्वेन सन्निकृष्टमरणत्वम् । यदि साक्षान्न निहतास्तर्हि हन्ता भवेति वक्तव्यम् । निमित्तमात्रं भवेति कथमुच्यत इत्यत आह॥ पश्चादिति॥ तस्य स्वातन्त्र्येण हन्तृत्वाभावात् निमित्तमात्रमित्युक्तमिति भावः मृतमारणायोगात् “मया हतांस्त्वं जहि “इति कथमुच्यत इत्यतो वाऽह॥ पश्चादिति॥ अर्जुने स्थित्वा तस्यैव हन्तृत्वात् मया हतेषु त्वमपि हन्तेति व्यवहारविषयो भवेत्येव भगवतोच्यत इति भावः॥ ३४-३८॥
वायुर्यमोऽग्निरित्याद्यर्जुनस्तुतिवाक्ये वाय्वादिशब्दानां भगवति योगवृत्तिं स्मृत्यैव दर्शयति॥ वायुर्ति॥ वबयोरभेदाद् वकारो बलवाची । अयपय गताविति धातोः आयुशब्दो ज्ञानवाची । इदि परमैश्वर्य इति धातुः॥३९-४१॥
“असत्कृतोऽसि विहारशय्यासनभोजनेषु ।एकोऽथवाऽपि " इत्यत्र यद्यप्यहं त्वमेक एव । तथापि लोकव्यवहारानुसारेण क्षामय इत्यन्यथाप्रतीतिनिरासायाह॥ एक इति॥ तर्ह्यन्वयो नोपपद्यत इत्यतस्तं दर्शयति॥ अपीति॥ सर्वोत्तमत्वेनासत्कारायोग्योऽप्यसत्कृतोऽसीत्येवोच्यते । नान्यत् । अर्जुनस्य भगवदैक्ये मानाभावादिति भावः । एकशब्दः कथं सर्वोत्तमवाचीत्यत आह॥एक इति॥ एकत्वाद् एः, करोतीति क इत्यर्थः । अन्यनिरपेक्षतया हि कर्ता सर्वोत्तमः॥ ४२-४५॥
“तेनैव रूपेण भव " इत्यर्जुनप्रर्थनावाक्ये विश्वरूपं विहाय पूर्वतनं गृहाणेत्युच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ तेनैवेति॥ यदा रूपान्तरं प्रतीयते तदा विश्वरूपत्यग एव किं न स्यात्, किं तद्गोपनेनेत्यत आह॥ पञ्चाननमिति । नरसिंहरूपेऽपि गोपितविश्वरूपत्वोक्तेर्न रूपन्तरप्रतीतौ विश्वरूपत्याग इति भावः॥ ४६॥
भक्त्यतिशयोत्पादसाय विश्वरूपदर्शनस्य दौर्लभ्यमुच्यते “मया " इति । तत्र “तेजोमयं विश्वं " इति विश्वात्मकत्वं भगवद्रूपस्योच्यत इत्यन्यथाप्रतीतिनिरासाय विश्वशब्दं स्मृत्यैव व्याचष्टे॥ विश्वेति॥ “यन्मे त्वदन्येन न दृष्टपूर्वं " इत्यर्जुनेतरैर्विश्वरूपस्यादृष्टत्वमुच्यते इत्यन्यथाप्रतीतिनिरासायाह॥ त्वदिति॥ नात्र विश्वरूपलस्यार्जुनेतरैरदृष्टत्वमुच्यते । प्रत्युतेतः पूर्वं केनापि न दृष्टमित्यनुक्त्वा त्वदन्येनेत्युक्तत्वात् तैनैवेतः पूर्वम् इन्द्रशरीरेण दृष्टमित्येवोच्यते इत्यर्थः । तर्हि ब्रह्मादिभिरपि न दृष्टमित्यपि नाशङ्कनीयम् । त्वदन्येनेत्यर्जुनादधमविवक्षयोक्तत्वादित्याह॥ त्वदिति॥ नैतावत्ऽर्जुनाधमैर्न दृष्टमिति कल्पनीयम् । अधमैरप्यर्जुनवन्न दृष्टमित्यभिप्रायेणैवादृष्टत्वस्योक्तत्वादित्याह॥ तैरिति॥ भवेदेवैतद् व्याख्यानं यदि विश्वरूपं ब्रह्मादिभिरिन्द्रेणार्जुनादधमैश्च दृष्टं, इन्द्रेण चार्जुनवदेव दृष्टं, अर्जुनादधमैन्तद्वन्न दृष्टमित्येतत्सिध्येत्, तदेव कुत इत्यत आह॥ विश्वरूपमिति॥ इन्द्रस्याधिकदर्शत्वेऽल्पदर्शित्वे वा विशिष्य त्वयेन्द्रशरीरेण द्रष्टमित्युक्तिर्न नम्भवति । आधिक्येऽनुक्तेराधम्ये निषेधस्य चादर्शनात्॥ ४७॥
यद्यन्येषामपि वश्वरूपदर्शनमत्राभिप्रेतं स्यात्तर्हि “न वेदयज्ञाध्ययनैर्न दानैः " इत्युत्तरवाक्यविरोध इत्यत आह॥ वेदेति॥ नोत्तरवाक्येऽर्जुनादन्येषां विश्वरूपदर्शनाभाव उच्यते । किन्तु त्वदवरैस्त्वद्वन्न दृष्टमित्युक्तेः स्वतस्तथा दर्शनाभावेऽपि वेदादिसाधनैस्तथा तैर्दृश्यतामित्याशङ्क्य त्वदवरैर्वेदादिसाधनैरपि त्वद्वन्न द्रष्टुं शक्यत इत्येवोच्यत इति भावः । विश्वरूपस्यार्जुनादन्येनादृष्टत्वमेवार्थः किं न स्यादिति चेन्न । उदाहृतस्मृतिविरोधात् । अत्रापि “दृष्ट्वाऽद्भुतं पूपं “, “दृष्टा लोकाः " इत्यादिपूर्ववाक्यविरोधः स्यादित्यत आह॥ अन्यथेति॥ ४८-४९॥
“स्वकं रूपं दर्शयामास " इति कृष्णरूपस्य विशिष्य स्वीयत्वोक्तेः यदुक्तं विश्वरूपस्य साक्षादीश्वरस्वरूपत्वं तदयुक्तमित्यत आह॥ स्ववदिति॥ नात्र स्वकशब्देन कृष्णरूपस्य स्वकीयत्वमुच्यते, येन विश्वरूपस्य स्वकीयत्वं न स्यात् । किन्तु स्ववत् स्वकीयवत् क्रियते प्रदर्श्यत इति व्युत्पत्त्या स्वकीयतया प्रदर्शनीयत्वमेवेत्यर्थः । ननूभयोरपि भगवदीयतया प्रदर्श्यमानत्वात् कृष्णरूपस्यैव कुतो विशेषोक्तिरित्यत आह॥ विश्वरूपमिति॥ सत्यमुभयं पूपं भगवदीयतया प्रदर्श्यत,
इति, किन्तु ज्ञानिनामेव । अज्ञानिनां तु कृष्णरूपमेव भगवदीयतया प्रदर्श्यते । न तु विश्वरूपमतोऽज्ञविवक्षया विशेषोक्तिर्युक्तेति भावः । अत एवाल्पज्ञानिविवक्षया स्ववदित्युक्तम् । किमर्थमेवं व्याख्येयम्? विश्वरूपं भगवदीयमेव किं न स्यादित्यत आह॥ अन्यथेति॥
कृष्णरूपविश्वरूपयोः स्वकीयत्वास्वकीयत्वप्रतीतिनिराकरणप्रसङ्गेन परमं पूपं दर्शयामासेति विश्वरूपस्य परत्योक्त्या कृष्णरूपस्यापरत्वं स्मृत्यैव निराकरोति॥ परेति॥ अन्यथा स्वभावतः । तर्हि विश्वरूप एव परत्वं विदुषामपि कथं दृश्यत इत्यत आह॥ व्यक्तिरिति॥ विश्वरूपे परत्वव्याक्तिर्नावताररूपेषु॥ अतस्तथा दृष्टिर्युक्तेति भावः । इयं च व्यक्तिरल्पज्ञानिविवक्षयोच्यते । न तु ब्रह्मादिमहाज्ञानिविवक्षयटा । तेषां कृष्णादावपि परत्वस्य प्रतीतेरित्याह॥ अज्ञेति॥ ५०
॥
ननु “दृष्ट्वेदं मानुषं रूपं " इति कृष्णरूपस्य मानुषत्वोक्तेः कथं नावरत्वमित्यत आह॥ किञ्चिदिति॥ अन्यथोदाहृतवाक्यविरोधः स्यादित्यर्थः॥ ५१॥
ननु “सुदुर्दर्शमिदं रूपं " इत्यत्र अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिण एव वर्तन्ते, न तु पश्यन्तीत्युक्तत्वात् कथमर्जुनादुत्तमैरधमैश्च विश्वरूपस्य दृष्टत्वमुच्यत इत्यतस्तद्वाक्यं यथावद्योजयति॥ य इति॥ अनेन यन्मम रूपं दृष्टवानसि, अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणो ये देवास्तेऽपि यद्दृष्टन्तस्तदिदं सुदुर्दर्शमिति योजनासूचिता भवति । अन्यथोक्तविरोध इति भावः॥ ५२॥
इति श्रीमदानन्दतिर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितयां न्यायदीपिकायां एकादशोऽध्यायः॥ ११॥
॥ अथ द्वादशोऽध्यायः॥
ॐ॥ एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ साधनेति॥ मोक्षसाधनयोरव्यक्तभगवदुपासनयोर्मध्ये प्रागुक्तभगवदुपासनस्याधिक्यनिर्णयोऽस्मिन् अध्याये क्रियत इत्यर्थः । ननु भगदुपासनस्येवाव्यक्तोपासनस्यापि यदि मोक्षसाधनत्वं क्वचिदुक्तं स्यात्तदा “एवं सततयुक्ताः” इति सन्दिह्य प्रश्नो युज्यते । न च तदस्तीत्यतः कथं प्रश्न इत्यत आह॥ श्रिय इति॥ यः पुरुषः श्रीसमाराधनार्थं जातोऽसौ तदर्थमेव गृहान्निर्गतो भवति स श्रियं उपदेष्ट्रभ्यो गुरुभ्य एव स्वस्य वयो धत्ते । एवं श्रियमुपासीनाः पुरुषा अमृतत्वं यान्ति । तस्मिन् गुरुशिष्याख्ये मिथुने समीहितानि सत्यानि भवन्तीत्यर्थः । किं श्रिय उपासनं स्वातन्त्र्येणैव मोक्षसाधनमित्यतः श्रीप्रसादमुत्पाद्य ततो भगवत्प्रसादद्वारेणैवेति भावेन स्मृतिमाह॥ श्रीरिति॥ श्रीप्रसादस्य भगवत्प्रसादोत्पादकत्वं कुत इत्यतः श्रियोऽतिमानमाह॥ अव्यक्तमिति॥ एवम्भूता चेत् श्रीस्तर्हि तत्प्रसादः स्वयमेव पुरुषार्थहेतुः किं न स्यात्? ईश्वरप्रसादसाधनत्वं तस्य किमर्थमुच्यत इत्यत आह॥ तस्या इति॥ श्रियोऽपि विष्णोः परमत्वान्न तत्प्रसादस्य स्वातन्त्र्येण पुरुषार्थसाधनत्वं, किन्तु विष्णुप्रसादत्वेनैवेत्यर्थः । विष्णोः महद्ब्रह्मभूतश्रिय उत्तमत्वे हेतुमाह॥ य इति॥ एवं श्रुतिपुराणवाक्येभ्यो विष्णूपासनस्येवाव्यक्तोपासनस्यापि मोक्षसाधनमिति शङ्कयोत्तमसाधनं पृच्छतीत्यर्थः ।
यदि भगवदुपासनस्येव श्रिय उपासनस्यापि मोक्षसाधनत्वं प्रतीयेत तर्हि तद्विषय एव प्रश्नः कर्तव्यः । अव्यक्तोपासनविषये किमर्थं क्रियत इत्यत आह॥ कूटस्थ इति॥ “कूटस्थोऽक्षर उच्यते” इत्युपरितनवाक्ये चित्प्रकृतावेव प्रयुक्तकूटस्थाक्षरशब्दयोरत्राप्यव्यक्ते प्रयुक्तत्वेनाव्यक्तं चित्प्रकृतिरेव । अतः चित्प्रकृत्युपासनस्य मोक्षसाधनत्वप्रतीत्याऽव्यक्तोपासनविषये प्रश्नो युक्त एवेति भावः । एतेन “इत्यादिश्रुतिभ्यः”, “अव्यक्तोपासनात्” इत्यस्याप्यनवद्यत्वं सिध्यति । नन्वव्यक्तादिशब्दानां परब्रह्मणि मुख्यत्वादत्र तत्किं विवक्षितं न स्यादित्यत आह॥ अन्यथेति॥ यद्यत्राव्यक्तशब्देन परब्रह्मोच्येत तर्हि त्वदुपासकाव्यक्तोपासकानां मध्ये क उत्तम इति भगवतोऽव्यक्तस्य च भेदेनार्जुनप्रश्नोऽनुपपन्नः स्यादित्यर्थः । कुतोऽनुपपन्न इत्यतोऽर्जुनेनैव भगवतः परब्रह्मत्वस्योक्तत्वादित्याह॥ परमिति ।
अन्ये त्वत्राव्यक्तपदेन यत्किञ्चिच्छून्यापरनामकं निर्गुणं ब्रह्मोच्यत इति मन्वानाः तदुपानकेश्वरोपासकयोः कोऽधिक इति प्रश्नार्थं कल्पयित्वाऽव्योक्तोपासकानामेवाधिक्यं परिहारे कथ्यत इति वदन्ति । तान् प्रत्याह॥ ये त्विति॥ “ते मे युक्तातमा मताः” इति भगवता स्वोपासकनामुत्तमत्वमुक्त्वा “मय्येव” इति मदुपासकानामेवोत्तमत्वात् मदुपासक एव भवेति स्फुटमुक्तत्वादव्यक्तोपासकानामाधिक्यं वदतामपलापकत्वमेव । ततश्च साहसिकत्वात् “अहो नष्टा एते” इति शोकविषयत्वमेव न तु परिहारं वक्तं प्रतिवादित्वमित्यर्थः ।
ननु चेष्टावत्याः श्रियोऽचलत्वम् “अचलं ध्रुवम्” इति कथमुच्यत इत्यतः स्मृत्यैव तद्घटयति॥ नेति॥ “अनिर्देश्यमव्यक्तमचिन्त्यं पर्युपासते” इति व्याहतम् । अनिर्देश्याव्यक्ताचिन्तयस्योपासनायोगादित्यतः अनिर्देश्यत्वादिकमुपास्यत्वाविरोधेन स्मृत्यैव घटयति॥ सूक्ष्मत्वादिति॥
मदुपासका एवोत्तमा इत्युच्यते “मयि’’ इति । त्वदुपासकानामिवाव्यक्तोपासकानामपि मोक्षसद्भावात् कथं तेषामुत्तमत्वमित्यतोऽव्यक्तोपासकानां मोक्षमङ्गीकृत्य सहेतुकं स्वोपासकानामुत्तमत्वमुच्यते “ये त्वक्षरम्’ इति । तत्रोच्यमानभगवत्प्राप्तिः न केवलशाक्तेयानामिति भावेन मयीत्यादिकं श्रुत्यैव व्याचष्टै॥ अविष्णुज्ञैरिति॥ अत्र “ध्यायीत नित्यदा” इत्यन्तेन परीत्युपसर्गाभिप्राय उक्तो भवति । “तेन तुष्टा"इत्यनेन “ते प्राप्नुवन्ति मामेव” इत्यस्याभिप्राय उक्तो भवति । एवमव्यक्तोपासनस्य मोक्षसाधनत्वेऽपि न तदेवोत्तमं मन्तव्यमिति भावेनाह॥ तथापीति॥ उपासते श्रिया सहेति शेषः । अनेन “मय्यावेश्य” इत्युक्तार्थं भवति । अव्यक्तोपासकानामपि मोक्षसद्भावे कथं भगवदुपासकानामुत्तमत्वमित्यत आह॥ यत इति॥ अनेन “क्लेशः” इति व्याख्यातं भवति । अनेन उक्तप्रकारेण पर्युपासनम् इन्द्रियग्रामातिनियमनं, सर्वत्र समबुद्धित्वं,
सर्वभूतहितेरत्वादिसुष्ट्वाचारमन्तरेण अव्यक्तप्रसादाभावात् परमश्रद्धामात्रयुक्तानां सुष्ट्वाचारादेरौन्येऽपि भगवत्प्रसादसम्भवात् क्लेशाधिकयं ज्ञातव्यम् । इतश्च भगवदुपासनमेवोत्तममित्याह॥ विष्णुनेति॥ श्रिया सह भगवदुपासने द्वयोरपि परमप्रसादसम्भवेनाचिरात् मोक्षो भवति । पृथगव्यक्तोपासनपक्षे तु किञ्चिद्भगवदुपासनं कृत्वा बहुकालं पृथक् श्रियमुपास्य पुनः श्रिया सह निरन्तरं भगवदुपासनं कर्तव्यम् । ततो मुक्तिरिति चिरेणैव भवतीत्यतोऽपि भगवदुपासनमेवाधिकमिति भावः । अनेन “ये तु सर्वाणि” इत्येतदुक्तार्थं भवति । हेतुद्वयेनोक्तं विष्णूपासनस्याधिक्यमुपसंहरति॥ तस्मादिति॥ तेषामाधिक्यं चेति शेषः॥
ये नित्ययुक्तास्ते युक्ततमा इत्ययुक्तम् । एकार्थत्वादित्यत आह॥ युक्तेति॥ नित्युयुक्तपदं नित्योद्युक्तार्थमिति च द्रष्टव्यम् । ननु ‘ये तु सर्वाणि’इत्यत्रानन्ययोगेन भगवदुपसनस्योत्तमत्वमुच्यते । अतः कथं श्रिया सहितभगवदुपासनस्य आधिक्यकथनपरतयैतद्व्याख्यायत इत्याशङ्कां प्रमाणवाक्येनैव परिहरति॥ विष्णोरिति॥ नात्रानन्ययोगपदेन अन्योपासनस्म्बन्धो निषिद्ध्यते । किन्त्वन्यस्य भगवदधीनत्वं तत्परिवारत्वं विनोपासनम् । अतो युक्तं प्राजीनव्याख्यानमिति भावः । ननु यदि भगवदुपासकानामिवाव्यक्तोपासकानामपि मोक्षश्रवणात् तदुपासनविषये किमुत्तममिति प्रश्नः क्रियते तर्हि ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति’, ‘हरिं हरं विरञ्चं च ज्ञात्वा मुच्येत संसृतेः’ इत्यन्यदेवतोपासनस्यापि मोक्षहेतुत्वश्रवणात् तद्विषये किमिति प्रश्नो न क्रियत इत्याशङ्कां सिंहावलोकनन्यायेन परिहरति॥ अन्तवदिति॥ अन्यदेवतोपासनाया मोक्षसाधनत्वस्य पूर्वमेव निषिद्धत्वेन श्रुत्यादौ तदुक्तावपि तस्यान्यार्थत्वं कल्पयित्वाऽव्यक्तोपासनविषय एव प्रश्नः कृतो नान्यदेवतोपासनविषय इति भावः । तर्हि नामान्यतो भगवदन्योपासनस्य मोक्षसाधनत्वस्य पूर्वमेव निषिद्धत्वेनाव्यक्तोपासनस्यापि तदभावप्राप्तेस्तद्वचनानामप्यर्थान्तरम् अकल्पयित्या किमिति तद्विषये प्रश्नऋ कियत इत्यत उक्तम्॥ लक्ष्म्या इति॥ सामान्यतो भगवदन्योपासनस्य मोक्षसाधनत्वमिषेधेऽपि लक्ष्म्याः भगवदतिप्रियत्वेनान्येभ्यो विशेषसद्भावात् तदुपासनस्य मोक्षसाधनत्वसम्भवेन निष्धस्य तदतिरिक्तोपासनविषयत्वं कल्पयित्वाऽर्जुनेनान्योपासनविषयप्रश्नमकृत्वाप्यव्यक्तोपासनविषय एव प्रश्नः कृत इति भावः ।
मदुपासनस्याधिकत्वात्तदेव कुरु । तदलाभे मां जानीही । तदभावे चाभ्यासयोगेन मां जानिही । तदभावे च मत्कर्मपरो भव । तदशक्तौ च मद्योगमाश्रितः कर्मफलत्यागं कुर्वित्युच्यते- ‘मयि’ इति । तत्र मत्कर्मकृत्त्वमेव मद्योगः । अतः कथमेतदित्यतः स्मृत्यैव व्याचष्टे॥ वाष्णवानीति॥ सर्वकर्माणि वैष्णवानि करोतीति योजना । विष्णुविषयतया करोतीत्यर्थः । अर्चामार्जनं प्रतिमास्नापनम् । आदिपदेन ध्यानं च ग्राह्यम् । तद्योगमात्रवान् तत्कर्मत्वोपायमात्रवान् । अनेन मद्योगमिति मत्कर्मत्वयोगमिति व्याख्यातम् । यदि भगवत्कर्मत्वं कामयते तर्ह्येव तद्योगो भवति । न तु काम्येनान्योपासनादिनेत्यर्थः । अनेन ‘सर्वकर्म’ इत्युक्तार्थं भवति । भगवदुपासनेऽपि तारतम्यमाह॥ असम्यगिति॥ ध्यानालाभे ज्ञानं, तदलाभेऽभ्यास इत्येतत्समर्थ्यते-‘श्रेयो हि’ इति । तदनेन व्याख्यातं भवति । ज्ञानपूर्वध्यानेऽपि सकामान्निष्काममेवाधिकमित्याह॥ तस्मात्॥ इति । तत्र हेतुमाह॥ तस्मादिति॥ अनेन ‘ध्यानात्’ इत्येतद् व्याख्यातं भवति । नन्वत्र त्यागाच्छान्तिः फलमुच्यते । अतः कथमुच्यते तस्मान्मुक्तिरित्यत आह॥ शान्तिरिति॥ नन्वत्र कर्मफलत्यागमात्रस्यैव ध्यानाधिक्यमुच्यत इति किं नेष्यते? ज्ञानपूर्वं ध्यानसाहित्यं किमुच्यते? इत्यतो वाऽऽह॥ शान्तिरिति॥ अत्र त्यागस्य शान्तिपदोदितमुक्तिहेतुत्वमिच्यते । न च तत्केवलत्यागग्रहणे युक्तम् । ‘सन्न्यासस्तु महावाहो दुःखमाप्तुमयोगतः’ इत्युक्तत्वात् । ज्ञानपूर्वकध्यानसहितत्यागस्य
तत्सम्भवात् स एवत्र विवक्षित इति भावः॥ ४-१५॥
‘ये तु सर्वाणि कर्माणि इत्यादि प्रपञ्च्यते-‘अद्वेष्टा’ इति । तत्र ‘सर्वारम्भपरित्यागी’ इत्येतदन्यथाप्रतीतिनिरासाय चतुर्धा व्याचष्टे॥ अवैष्णवेति॥ उक्तार्थानुपपादयति॥ सर्वेति॥ सर्वकर्मफलत्यागमित्यनेन सर्वारम्भफलपरित्यागेन सर्वारम्भपरित्यागीत्युक्तं सिद्ध्यति । मयीत्यनेन सर्वाम्भाभिमानत्यागेन सर्वारम्भाणां भगवति समर्पणेन च सर्वारम्भपरित्यागीत्युक्तं सिद्ध्यति । ‘मयि’ इति वाक्यस्य स्मृत्यैव तथा व्याख्यातत्वात् । आदिपदगृहीतेन ‘सर्वधर्मान् परित्यज्य’ इत्यादिनाऽवैष्णवारम्भपरित्यागेन सर्वारम्भपरित्यागीत्युक्तं सिद्ध्यति । तस्य तथा सयुक्तिकं व्याकरिष्यमाणत्वात् । ननु ‘सर्वारम्भपरित्यागी’ इत्यस्य ‘शुभाशुभपरित्यागी’ इति प्रपञ्च्यमानत्वात् अवैष्णवारम्भपिरित्यागीत्यादिकं किं विशिष्याभिधीयत इत्यतस्तत्स्मृत्यैव उक्ताविरुद्धतया व्याचष्टे॥ भक्तिमिति॥ उपलक्षणे चैतत् । तत्साधनतया वैष्णवारम्भांश्चेति ज्ञातव्यम् । ‘समदुःखसुखः’, ‘हर्षामर्षभयोद्वेगैर्मुक्तः’ इत्येतन्नियमप्रतीतिनिरासाय स्मृत्यैव व्याचष्टे॥ प्राय इति॥ तथोच्यते सुखादिषु समो हर्षादिवर्जित उच्येत । एवं चेदल्पवैषम्यादेर्विद्यमानत्वात् कथं तदभावोक्तिरित्यत आह॥ यथेति॥ मुख्यार्थ एव किं न स्यादित्यत आह॥ न हीति॥ ननु हर्षस्य गुणत्वात् कथं तत्परित्यागोऽपेक्षिततयोच्यत इत्यतो हर्षशब्दस्य हेयार्थतां स्मृत्यैव दर्शयति॥ हृतिरिति॥ मनस इति शेषः । ननु ‘अद्वेष्टा’ इत्यादावद्वेषादिमतां प्रियत्वमात्रमुक्त्वा ’ ये तु धर्म्यामृतम् ’ इत्यत्र श्रद्धादिमतामतिप्रियत्वं
किं निमित्तमुच्यत इत्यत आह॥ व्यस्तेनेत्॥ ’ अद्वेष्टा ’ इत्यादौ यत् पृथक् पृथक् साधनमुक्तं तत्तन्मात्रेण प्रियत्वमुक्तम् । ’ ये तु ’ इत्यत्राद्वेष्टेत्यादिप्रागुक्तसमस्तसाधनेनातीवप्रियत्वम् । व्यस्तात् समस्तस्याधिक्यादिति भावः । ननु ’ अद्वेष्टा ’ इत्यादावद्वेषादिसाधनेन प्रियत्वमुच्यते, ’ ये तु ’ इति भक्त्याऽतीव प्रियत्वमुच्यत इति किं न स्यात भक्तेः सर्वसाधनोत्तमत्वादित्यत आह॥ भक्तिरिति॥ अद्वेषादिकथनेऽपि भक्तेरुक्तत्वात् नायं विभागो युक्त इति भावः । ’ यन्मान्नोद्विजते लोकः ’ इति व्यस्तसाधनकथने भक्तेरनुक्तत्वात् कथं भक्तिस्तु व्यस्तेष्वयुक्तैवेत्युच्यत इत्यत आह॥ यस्मादिति॥ १७-१९॥
धर्म्यामृतपदस्य दुर्गमार्थत्वादर्थमाह॥ धर्मेति॥ २०॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां द्वादशोऽध्यायः॥ १२॥
॥ अथ त्रयोदशोऽध्यायः॥
एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ सर्वेति॥ यत् प्रथमषट्के प्राचुर्येण ज्ञानसाधनमुक्तं, यच्च द्वितीये भगवत्स्वरूपं निरूपितं, ’ न त्वेवाहं ’ इत्यादौ यज्जीवस्वरूपं प्रदर्शतं, ’ भूमिरापोऽनल ’ इत्यदौ यत् क्षेत्रमभिहितं तद्विप्रकीर्णतयोक्तं सर्वं बुद्ध्यारोहार्थं सङ्क्षिप्यास्मिन्नध्याये प्रदर्शयतीत्यर्थः । सर्वेषामध्यायानामर्थान् सङ्क्षिपति सङ्क्षिप्य दर्शयतीति सर्वार्थसङ्क्षेपः ।
तत्र ’ तत् क्षेत्रं यच्च ’ इति प्रतिज्ञातम् । भगवज्ज्ञानस्यैव मोक्षहेतुत्वात् क्षेत्रं भगवत्स्वरूपं चोभयं किमर्थमुच्यत इत्याशङ्का तावत्परिह्रियते ’ इदं ’ इति । तत्र ’ सङ्घातश्चेतना ’ इति क्षेत्रविकारत्वेनोक्तशरीरस्य कथं समस्तक्षेत्रत्वमुच्यत इत्याशङ्कापरिहाराय श्रुत्यैतद्व्याचष्टे॥ हिंसेति॥ जीवस्य स्वतो नित्यत्वात् देहादितया परिणतैतदुपघातदेव चीवो हिंसित इत्यतुच्यते । अव्यक्तादिकं हिंसाहेतुजींवस्य भवति । श्रृ हिंसायामिति धातोर्हिंसाहेतुत्वात् शर् । परेणेर्यत्वादीरमिति शरीरमित्यर्थः । क्षि निवासगत्योरिति धातोः । अव्यक्तादीत्यनेन महाभूतानीत्यस्यार्थ उक्तो भवति । तद्धिकाराः क्षेत्रविकाराः । अनेन ’ इच्छाद्वेष ’ इत्युक्तार्थं भवति । विकारित्वं च न चिद्रूपेच्छादीनामिति भावेनाह । चिद्रूपेति॥ अनेन स्वयमचिद्रूपा इति लभ्यते । वर्तन्त इति शेषः । किमेतेषां सदा मिश्रतयाऽवस्थानमित्यतः संसार एव न सर्वदेति भावेनाह॥ विकारेति॥ मुक्तौ द्वेषदुःखाभावात् कथं चिन्मात्रेच्छादिसंयुतो मुक्तः स्यादित्यत आह॥ मुक्तिश्चेति॥ आसुरी दैवी चेति शेषः । तर्हि दैवमुक्तौ द्वेषाद्ययोगादासुरमुक्तौ च सुखाद्ययोगादधिकं सङ्कटमेवेत्यतः प्रत्येकमिच्छाद्यशेषासम्भवेऽपि विभागेन तत्सम्भवादविरोध इति भावेऽनाह॥ चिन्मात्रेति॥ यत्र स्युरुत्युत्तरत्रापि सम्बद्ध्यते । इच्छादिष्वपठिताऽपि विष्णुभक्तिर्द्वेषस्य पठितत्वेन तत्प्रतियोगितया गृह्यते ।
’ एतद्यो वेत्ति ’ इत्येतज्जीवविषयतया प्रतीतिनिरासाय वचनान्तरेण व्याचष्टे॥ क्षेत्रज्ञ इति॥ यः क्षेत्रं जानाति स सर्वोऽपि क्षेत्रज्ञः, अतो विष्णुरिति किं विशिष्योच्यत इत्यत आह॥ न हीति॥ किमयं स्वयं क्षेत्रान्तर्भूतः सन् तज्जानातीत्यपेक्षायामाह॥ असाविति॥ अनेन ’ न सत्तत् ’ इति व्याख्यातं भवति । सर्वासन्निहितत्वात् कथं सर्वज्ञानं
हरेरित्यत आह॥ स इति॥ एतेन ’ बहिरन्तश्च ’ इति व्याख्यातं भवति । विष्णोः सर्वजीवाभिन्नत्वात् कथं तेषु स्थितिरित्यत आह॥विलक्षणश्चेति॥ कथं वैलक्षण्यमित्यत आह॥ सर्वत इति॥ केशादिषु पाण्यादिशक्तिमत्त्वं युक्तिविरुद्धमित्यतः प्रतीतत्वान्न युक्तिविरुद्धमिति भावेनाह॥ कृष्णेति॥ अनेन ’ सर्वतः ’ इत्युक्तार्थं भवति । का नाम भगवत्पाण्यादिशक्तिरित्यत आह॥ सर्वेति॥ वेत्तीत्येतत् कर्मणोऽप्युपलक्षकम् । अनेन ’ सर्वेन्द्रियगुण ’ इति व्याख्यातं भवति । सर्वेन्द्रियगुणा आभास्यनतेऽनु यन्तेऽनेनेति । भगवतः पाण्यादिमत्त्वे श्रुत्यादावनिन्द्रियत्वोक्तिः कथमित्यत आह॥ स इति॥ अनेन ’ सर्वेन्द्रियविवर्जितं ’ इत्युक्तार्थं भवति । ज्ञानादिगुणसद्भावे कथं तस्य निर्गुणत्वोक्तिरित्यत आह॥ गुणैरिति॥ कुत एवं निर्गुणत्वश्रुतेरर्थान्तरं कल्प्यते सर्वथा गुणराहित्यमेव किं न स्यादित्यतः तस्य सर्वकल्याणगुणमूर्तिमत्त्वेन प्रमाणसिद्धत्वादित्याह॥ सर्वेति॥ अनेन ’ निर्गुणं ’ इत्युक्तार्थं भवति । हरेः पाणिपादादिमत्त्वेऽचरत्वोक्तिः कथमित्यत आह॥ अन्यथेति॥ क्वचिच्चरत्वोक्तेः कथं विकारित्वाभाव इत्यत आह॥ चर इति॥ अनेन ’ अचरं चरमेव च ’ इति व्याख्यातं भवति । कथं सर्वगतस्य चरणमित्यतो न तस्य सर्वगतत्वमेव किन्त्वणुत्वं मध्यमत्वं चास्तीत्याह॥ व्याप्त इति॥ अनेन ’ सर्वमावृत्य तिष्टति ’ , ’ हृदि सर्वस्य विष्ठितम् ’ इत्याद्युक्ततात्पर्यं भवति । तद्दूरे तद्वन्तिक इत्यादौ विरुद्धधर्मोक्त्येश्वरस्य निःस्वभावत्वोक्तेः कथमुक्तं युक्तं स्यादित्यतस्तद्घटयति॥ सर्वगत्वादिति॥ अनेन ’ दूरस्थं ’ इति व्याख्यातं भवति । व्याप्तत्वाणुत्वादीनां वस्त्वन्तरे सहानवस्थानात् कथं हरौ सह स्थितिरित्यतत आह॥ अनन्तेति॥ अनन्ताव्ययशक्तित्वेऽपि विरोधिनः कथं तेऽतिर सन्तीत्यत आह॥ न चेति॥ क्षेत्रज्ञनाम्नो जीवे प्रसिद्ध्यभावाच्च नात्रासावुच्यत इत्याह॥ न चेति॥ क्वचित् सद्भावेऽपि भावः । न च विष्णावपि क्षेत्रज्ञनाम्नो न प्रसिद्धिरिति वाच्यम् । उक्तवचन एव प्रसिद्धत्वात् । वचनान्तरेऽपि
तत्प्रसिद्धिं दर्शयति॥ क्षेत्रज्ञ इति॥ मनसो विभूतीर्मनसो विकारान् । मायारचिताः निमित्तभूतस्वेच्छारचिताः ।
इतश्च ’ एतद्यो वेत्ति ’ इत्येतन्न जीवपरमित्याह॥ अत इति॥ यतोऽत्र न जीवो विवक्षितोऽत एव एतद्यो वेत्तीति भगवदभिप्रायेण । सामान्यतः क्षेत्रज्ञशब्दस्य व्युत्पादितत्वात् जीवस्यापि किञ्चित्क्षेत्रज्ञानसद्भावात् त्सय क्षेत्रज्ञत्वप्राप्तेस्तन्निराकरणाय क्षेत्रज्ञं मामित्युक्तमित्यर्थः । जीवस्य क्षेत्रज्ञत्वनिराकरणाय क्षेत्रज्ञं मामित्युक्तमिति कुत इति चेत्? किम् ’ एतद्यो वेत्ति ’ इत्यस्येश्वरपरत्वमभ्युपगम्येदमुच्ते उत जीवविषयत्वम्? पक्षद्वयं दूषयति॥ अन्यथेति॥ ’ एतद्यो वेत्ति ’ इत्यस्येश्वरपरत्वमङ्गीकृत्य ’ क्षेत्रज्ञं मां ’ इत्यस्य जीवव्यावर्तकत्वानङ्गीकारे परमेश्वरस्य ’ एतद्यो वेत्ति ’ इत्यनेनैव क्षेत्रज्ञत्वसिद्धेः क्षेत्रज्ञं मामिति पुनस्तद्वचनस्य वैय्यर्थ्यं स्यात् ।एतद्यो वेत्तीत्यस्य जीवपरत्वमङ्गीकृत्य क्षेत्रज्ञं मामित्यसय जवव्यावर्तकत्वानङ्गीकारे वक्तव्यस्य जीवक्षेत्रज्ञत्वस्यैतद्यो वेत्तीत्युक्तेनैव पूर्णत्वात् क्षेत्रज्ञं मामिति निरर्थकं विरुद्धार्थं च स्यादिति भावः ।
एतद्यो वेत्तीत्यस्य जीवपरत्वेऽपि नोत्तरवाक्यवैय्यर्थ्यम् । जीवस्य क्षेत्रज्ञत्वमुक्त्वा ईश्वरस्याप्युच्यत इति क्षेत्रज्ञत्वेनोक्तजीवस्य क्षेत्रस्य चेश्वरैक्यमुच्यत इति सार्थक्योपपत्तेः । प्रत्युतैवमनभ्युपगम्येश्वरस्यैव क्षेत्रज्ञत्वसिद्धेरित्यत आह॥ भेदेति॥ जीवस्य क्षेत्रज्ञत्वमुक्त्वा तस्येश्वरभेद उच्यत इत्यादियोजनामनङ्गीकृत्येश्वरस्य क्षेत्रज्ञत्वाङ्गीकारेऽप्येतद्यो वेत्तीति सार्थकमेव । क्षेत्रज्ञनामनिरुक्त्यर्तत्वादित्यर्थः । क्षेत्रं जानातीति क्षेत्रज्ञ इति क्षेत्रज्ञनामनिरुक्तेः प्रसिद्धत्वात् क्षेत्रज्ञं चापि मामित्येतावतैवालं किं निरुक्त्येत्यत आह॥ सर्वेति॥ ’ क्षेत्रज्ञं चापि मां विद्धि ’ इत्येवोक्ते क्षेत्र च ज्ञश्चेति क्षेत्रज्ञ इति व्युत्पत्त्या जडजीवात्मकत्वमीश्वरस्यैवोच्यत इति प्रतीतिः स्यात् । तन्निराकरणाय प्रसिद्धाऽपि व्युत्पत्तिरुच्यते । न च प्रसिद्धव्युत्पत्तिं परित्यज्यैवं व्युत्पत्त्या शङ्काप्राप्तिरेव नास्तीति वाच्यम् । जडजीवात्मकस्य सर्वस्यापीश्वरेणाभेदमङ्गीकुर्वतां तथा प्रतीतिसम्भवादिति भावः ।
ईश्वरस्य क्षेत्रज्ञनामनिरुक्तिः, जीवस्य तदभाव इत्येतत्सर्वस्य एतद्यो वेत्तीश्वरस्तं क्षेत्रज्ञं प्राहुरित्यादिवाक्य एव ईश्वरवाचिपदप्रक्षेपेण वक्तुं शक्यत्वात् तदर्थं पृथग् वाक्यकल्पने गौरवमित्यत आह॥ क्षेत्रज्ञमिति॥ नोत्तरवाक्ये जीवव्यावृत्त्यर्थमेव स्वस्य क्षेत्रज्ञत्वमात्रमुच्यते । येन गौरवं स्यात् । किन्तु जीवव्यावृत्त्यर्थमिश्वरस्यास्फुटमुक्तं क्षीयतेऽत्र ईश्वरेणेति क्षेत्रमित्यर्थसूचानाय स्वस्य क्षेत्रे स्थितिश्चोच्यत इति भावः ।
यदुक्तमेतद्यो वेत्तीति जीवस्य क्षेत्रज्ञत्वमुक्त्वा क्षेत्रज्ञं चापीति ईश्वरस्यापि तदुच्यतेऽतो न वैय्यर्थ्यमिति तन्निराचष्टे॥ तत्पक्ष इति॥ एतद्यो वेत्तीत्यस्य जीवविषयत्वपक्षे क्षेत्रं जानातीति क्षेत्रज्ञ इति व्युत्पत्तेर्जीव इव ईश्वरेऽपि साम्येन एतद्यो वेत्तीत्युक्त्यैवेश्वरस्यापि क्षेत्रज्ञत्वं सिद्ध्यत्येव । अतः क्षेत्रज्ञं चापीति वाक्यं व्यर्थमेवेति भावः । क्षेत्रज्ञतयोक्तजीवस्य क्षेत्रस्य
चेश्वराभेदकथनाय क्षेत्रज्ञं चापि मां विद्धीति सार्थकमित्युक्तं दूषयति॥ सर्वेति॥ यदि क्षेत्रज्ञं चापि मां विद्धीति सार्थकमित्युक्तं दूषयति॥ सर्वेति॥ यदि क्षेतिरज्ञं चापि मामित्यत्र क्षेत्रक्षेज्ञरूपस्य सर्वस्याभेदो विवक्षितः स्यात्तर्हि सर्वक्षेत्रं क्षेत्रज्ञं चापि मां विद्धीति वक्तव्यम् । सर्वक्षेत्रेष्विति सप्तमीप्रयोगोऽनुपपन्नः स्यादिति भावः । तर्हि क्षेत्रज्ञस्यैवेश्वराभेदोऽत्रोच्यताम् । तथात्वे बाधकाभावादित्यत आह॥ न चेति॥ यदि क्षेत्रज्ञतयोक्तजीवस्येश्वरस्य चैक्यमात्र विवक्षितं स्यात्तर्हि क्षेत्रज्ञोऽहं चैक एवेति वक्तव्यम् । न तु क्षेत्रज्ञमनूद्येश्वरत्वविधानं युज्यते । जीवमनूद्य मां विद्धीति विधातुमस्येश्वरस्यापि जीववत् कल्पितत्वेन विशेषाभावादिति भावः॥ ३॥
’ तत्क्षेत्रं यत् ’ इत्युक्तत्वात् ’ यतश्च यत् ’ इति पुनरुक्तिरित्यत आह॥ यतश्चेति॥ तर्हि ’ सा च या ’ इति वक्तव्यमित्यतस्तत्प्रतिज्ञान्तरमिति भावेनाह॥ स चेति॥ केयमनुमतिरित्यत आह॥ अनुसारिणीति॥ कार्योत्पादस्येति शेषः । अनेनानुमन्तृशब्दार्थोऽप्युक्तो भवति । अत्र प्रमाणमाह॥ प्रेरणेति॥ ’ यतश्च यत् ’ , ’ स च यः ’ इति प्रतिज्ञाद्ययं चेत्तर्हि तदुभयमुत्तरत्रोच्यते । न चोभयोक्तिः श्रूयत इत्यत आह॥ उपद्रष्टेति॥ अत्र प्रमाणमाह ‘‘उपद्रष्टाऽनुमन्ता ’’ इत्यादिनाऽनुमन्तुरुक्तत्वात् तद्धर्मतयाऽनुमतिरप्युक्तैवेति भावः । ‘‘यत्प्रभावश्च ’’ इति प्रतिज्ञातं कुत्रोच्यत इत्यत आह॥ ज्ञेयमिति॥ ननु चैतन्यस्याविकारित्वात् कथं विकारेषु चेतना पठ्यत इत्यत आह॥ चेतनेति॥ ननु महाभूतानीत्यादिनोक्तानां सङ्घातस्य क्षेत्रत्वात कार्यत्वं कथमुच्यत इत्याशङ्कां परिहरन् उक्तर्थं प्रमाणमाह॥ सुङ्घात इति॥ ७॥
ज्ञेयं वक्तुं ज्ञानमुच्यते ‘‘अमानित्वं ’’ इति । तत्र तत्त्वज्ञानार्थदर्शनपदस्यास्फुटार्थत्वात् तदर्थमाह॥ तत्त्वेति॥ नन्वमानित्वमित्यादिना ज्ञानसाधनं तत्त्वज्ञानार्थदर्शनमिति ज्ञानं चोक्त्वोपसंहारे कथम् ‘‘एतज्ज्ञानमिति प्रोक्तं ’’ इत्युच्यत इत्यत आह॥ ज्ञायत इति॥ प्रोक्तमित्यत्र ज्ञानशब्देनेति शेषः । उक्तमित्युच्यत इति वा॥ १२॥
ननु ‘‘अनादिमत्परं ब्रह्म ’’ इत्यत्रानादीत्येतावता पूर्णत्वात् अनादिमदिति किमर्थमुच्यत इत्यत आह॥ अनादीति॥ न चात्र
भाष्यविरोधः तत्रोक्तस्य मतुपो मुख्यार्थस्यानङ्गीकारे भाष्ये दोषस्योक्तत्वात् । अत्र पुनस्तमङ्गीकृत्यैव प्रयोजनान्तरं मतुपा चिनोतीति॥ परम्ब्रह्म न सत्तन्नासदुच्यत इत्येतत् प्रमाणवाक्येनैव व्याचष्टे॥ मुख्यत इति॥ कथं मूर्तामूर्तयोः सदसच्छब्दवाच्यत्वं, कथं च भगवतस्तद्विलक्षणत्वमित्त आह॥ मूर्तमिति॥ परं अमूर्तम्॥ १७॥
ज्ञानगम्यमिति ज्ञानविषयत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायह॥ स्वयमेवेति॥ अत्र स्वज्ञेयत्वमेवोच्यते, न तु परज्ञेयत्वम् । न च भगवतः स्वज्ञेयत्वाभावः । स्वयमिति तस्योक्तत्वादित्यर्थः । अन्यज्ञेयत्वमर्थः किं न स्यादिति आह॥ अन्येति॥ ज्ञानं ज्ञेयमिति ज्ञेयशब्देनैकस्यां क्रियायां कर्तृकर्मणोरैक्यविरोधान्नेश्वरस्य ज्ञेयत्वमुक्तमिति बदतां वादिनां मतनिरासाय स्वज्ञेयत्वमेवोच्यते । न त्वन्यज्ञेयत्वम् । तस्य ‘ज्ञेयं यत्तत् प्रवक्ष्यामि ’ इत्युपक्रमवाक्य एवोक्तत्वेन पुनरुक्तिप्रसङ्गादिति भावः । स्वज्ञेयार्थत्वे प्रभावोक्तिरियं कथमित्यत आह॥ कर्तृकर्मेति॥ अघटितमप्येकस्यां ज्ञानक्रियायां कर्तृर्मभावमात्मनि ईश्वरो घटयतीत्येवमभिप्रायेणेदमुच्यते । अतो भवति प्रभावोक्तिरियमिति भावः ।
ईश्वरस्व ज्ञेयत्वे प्रमाणान्तरं चाह॥ स्ववेत्ता स्वतन्त्रवेत्ता । तस्य वेदनं च स्वतन्त्रम् । कस्य वेत्तेत्यत आह॥ स्वेनेति॥ यच्च तस्य वेदनं स्वतन्त्रमुक्तं तदपि न तस्माद्भिन्नमित्याह॥ वित्तिश्चेति॥ किं स्वेनैव वेद्य इत्यत आह॥ वेद्यश्चेति॥ क्वचिदिति किमर्थमुच्यते, सर्वथा परैर्वेद्यः किं न स्यादित्यत आह॥ तदिति॥ यथाऽन्येषां भगवज्ज्ञाने तत्प्रसादसापेक्षता तथा भगवतोऽपि स्ववेदनादो परसापेक्षता नास्तीति स्वातन्त्र्यं विवृणोति॥ स्वेति॥ तेन स्ववेत्तृत्वादिना । तथाहि- स्वः स्वतन्त्रः प्रकाशो यस्यासौ प्रकाशश्चेति स्वप्रकाशः । परस्य वेत्ता वेद्यश्च स्यादिति न स्वप्रकाशशब्दार्थकथनम् । जीवानामपि स्वप्रकाशत्वात् कथमेक इत्युच्यत इत्यत आह॥ जीवानामिति॥ जीवानां स्वतन्त्रत्वेत्तृत्वाभावादेक इति युक्तमिति भावः॥ १८॥
उक्तमुपसंहृत्यत तज्ज्ञानं स्तूयते इतीति॥ तत्र मद्भावपदमन्यथाप्रतीतिनिरासाय व्याचष्टे॥ मद्भावायेति॥ १९॥
यतश्च यत् स च य इति प्रतिज्ञातं वक्तुं प्रकृत्यादिस्वरूपमुच्यते ‘प्रकृतिमिति ’ । तत्र प्रकृतिं पुरुषं चेत्युक्तमिति शेषः । उभाविक्युक्तस्य पुल्लिङ्गेनान्वयाय व्युत्क्रमः । अनेनोभावित्येतत् पृथग्वाक्यमित्युक्तं भवति । उभे अपीति सङ्ग्रहश्च । विकारांश्च गुणांश्चेत्यत्र विकारादीनां प्रकृतिः स्वतन्त्रं कारणमित्यन्यथाप्रतीतिम् इच्छादयो विकारा इत्युक्तत्वाद् गुणशब्दार्थमेव वदन् निराकरोति॥ विकाराणामिति॥ उपद्रष्टाऽनुमन्ता चेतीश्वरस्यैव स्वातन्त्र्यस्य वक्ष्यमाणत्वात् न प्रकृतेः स्वातन्त्र्यं, किन्तूपादानत्वमेवेत्यर्थः । नन्विच्छादिवत् सत्त्वादिगुणानामपि विकारत्वाद् विकारांश्च गुणांश्चेति पृथगुक्तिः किनिमित्तेत्यत
आह॥ गुणानां चेति॥ सत्त्वादिगुणानां विकारत्वेऽपि विकानांश्च गुणांश्चेति पृथगुक्तिः सत्त्वादीनामल्पविकारत्वादिच्छादीनां ततोऽधिकविकारत्वात्तद्विवक्षया युक्तेत्यर्थः ।
‘कार्यकारणकत्रृत्वे ’ इति श्लोकमचेतनप्रकृतिजीवविषयत्वप्रतीतिनिरासाय चेतनप्रकृतीश्वरविषयतया प्रमाणेनैव व्याचष्टे॥ स्वदेहेति॥ विष्णुतत्त्वमावृत्येति॥ विष्णोर्यथास्थितिमज्ञायित्वेत्यर्थः । विष्णुतत्त्वाज्ञस्यैव बन्धकर्मसम्भवेन देहेन्द्रियहेतुत्वादज्ञानहेतुचित्प्रकृतेर्जीवस्य शरीरेन्द्रियहेतुत्वम् । ईश्वरपरतयोत्तरार्धं व्याचष्टे॥ जीवस्येति॥ सर्वकत्तृत्वादीश्वरस्य भोगशक्तिकर्तृत्वं किं विशिष्योच्यत इत्यत आह ॥ सर्वेति॥ यथा सर्वपालोऽपि विकुण्ठपो विशिष्योच्यते, स्थानान्तरस्येव विण्ठस्य पालकान्तररहितत्वात् तथा सर्वकर्ताऽपि हरिः केषाञ्चिद्भोक्तृत्वादीनां कर्ता विशिष्योच्यते । कार्यान्तर इव भोक्तृत्वादावन्येषां प्रवृत्त्यभावादित्यर्थः । विशेषेण स्वकर्मणा केवलेन स्वकर्मणा । एतेन भगवतः कार्यकारणकर्तृत्वहेतुत्वेऽपि चित्प्रकृतेर्भोक्तृत्वप्रदाने स्वप्रवृत्तिमपेक्ष्य कार्यकारणकर्तृत्वेऽधिकप्रवृत्तिरिति कार्यकारणकतृत्वे हेतुत्वोक्तिरिति सूचितं भवति ।
एतदुभयं गीतायामेव सूचितमित्याह॥ परमेश्वरस्येति॥ परमेश्वरस्यैव कार्यकारणकर्तृत्वे हेतुत्वेऽपि चित्प्रकृतेस्तदुक्तिर्युक्ता । भोक्तृत्वदाने तस्या अल्पप्रवृत्तित्वेन तदपेक्षया कर्तृत्वेऽधिकप्रवृत्तिमत्त्वात् । तथा परमेश्वरस्य सर्वकर्तृत्वेऽपि विशिष्य भोक्तृत्वदानोक्तिर्युक्ता । भोक्तृत्वदाने चित्प्रकृत्यादीनामन्यत्र प्रवृत्तिमपेक्ष्याल्पप्रवृत्तित्वेन भगवत एवाधिकप्रव-त्तित्वादित्येतत्सूचयितुमस्य श्लोकस्य पूर्वोत्तरार्धयोरुच्यत इत्युक्तमित्यर्थः । कथमनेनैतत्सूचितमित्यत आह॥ कर्तृत्वेऽपीति॥ भोक्तृत्वापेक्षयेति॥ स्वस्या भोक्तृत्वदाने प्रवृत्त्यपेक्षयेत्यर्थः । अधिकप्रवृत्तिः कार्यकारणकर्तृत्व इति शेषः । भोक्तृत्वे हेतुरुच्यते । विशेषेणेति शेषः ।
‘पुरुषः प्रकृतिस्थो हि ’ इत्यत्रेश्वर उच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ पुरुष इति॥ ईश्वरस्य ‘पुरुषः सुखदुःखानां ’ इति पुरुषशब्देन प्रकृतत्वात् कथमत्र जीवे पुरुषशब्द इत्यत आह॥ उभयोरिति॥ यद्यप्यत्र पुरुषशब्देनेश्वरः प्रकृतस्तथाप्यत्र पुरुषशब्दस्य जीवविषयत्वग्रहणं युक्तम् । ‘प्रकृतिं पुरुषं चैव ’ इत्यत्र पुरुषशब्देनेश्वरवत् जीवस्यापि पिरकृतत्वात् । अन्यथा ‘उभौ ’ इत्यस्य वैय्यर्थ्यादिति भावः । अस्तु जीवः प्रकृतस्तथापि समीपप्रकृतं परित्यज्य दूरप्रकृतग्रहणं नोपपन्नमित्यत आह॥ यथेति॥ समीपप्रकृतत्वेऽपीश्वरस्य तत्परित्यागन्न दूरप्रकृतजीवग्रहणमुपपद्यते । अस्य पुरुषस्य प्रकृतिजगुणभोक्तृत्वप्रतीतेः ।
ईश्वरस्य तदयोगात्, जीवस्य तद्योग्यत्वात् । यथायोग्यमेवार्थाश्रयणस्योपपन्नत्वादिति भावः । उभयोः प्रकृतत्वे जीवमात्रग्रहणं कथमित्यतो वाऽह॥ यथेति॥ २१॥
यद्यत्र पुरुषपदं जीवपरं तर्हि पुनरुक्तिः स्यात् । जीवस्य ‘कार्यकारणकर्तृत्वे ’ इत्यनेनोक्तकार्यकारणसम्बन्धस्यैव प्रकृतिस्थपदेनोक्तेः । सुखदुःखानां भोक्तृत्वे इत्यनेनोक्तसुखदुःखादिभोगस्यैव ‘भुङ्क्ते प्रकृतिजान् गुणान् ’ इत्युक्तत्वादित्यत आह॥ कार्येति॥ कार्यकारणसम्बन्धस्य सुखादिभोगस्य च प्रागुक्तत्वेऽपि तन्मिथ्यात्ववादिनां निरासाय ‘पुरुषः प्रकृतिस्थो हि ’ इत्युक्तत्वान्न पुनरुक्तिदोष इति भावः । निसाकरणस्य प्रमाणसापेक्षत्वात् तदनुक्तोक्ताभिधानमात्रेण कथं निराकरणमित्यत आह॥ हीति॥ अत्र कार्यकारणसम्बन्धस्य सुखादिभोगस्य च हिशब्देनानुभवप्रसिद्धिकथनेन तन्मिथ्यात्ववादिनामनुभवविरोधस्य तर्शितत्वात् नैतदुक्ताभिधानमात्रमिति भावः ।
अहं सुखीदुःखीत्याद्यनुभवस्य भ्रान्तित्वसम्भवात् सुखादिभोगस्य मिथ्यात्वाङ्गीकारे कथं तद्विरोध इत्यत अह॥ न हीति॥ सुखादिविषयानुभवो न भ्रमः आन्तरार्थानुभवत्वात् । आन्तरार्थानुभवस्य भ्रमत्वार्शनादिति भावः । बाधकाभावाच्च नायमनुभवो भ्रम इत्याह॥ न चेति॥ नन्वात्मादौ जैनादीनां मध्यमपरिमाणत्वादिज्ञानस्य भ्रमत्वदर्शनात् कथमान्तरार्थानुभवत्वादभ्रत्वमुच्यत इत्याशङ्कां परिहरन् व्याप्तिमाह॥ शरीरमिति॥ नात्राऽन्तरानुभवत्वमेव हेतुः । येन व्यभिचारः स्यात् । अपि त्वपरोक्षत्वविशिष्टम् । अपरोक्षानुभवस्य च वहिरेव भ्रमत्वदर्शनादान्तरानुभवस्य तदभावः सिद्ध्यति॥ जैनादीनां चानुमानादिनैव मध्यमपरिमाणत्वादिभ्रम इति भावः । बाधकाभावेऽपि सुखाद्यनुभवस्य भ्रमत्वं किं न स्यादित्यत आह॥ तत्रापीति॥ यत्र बहिरर्थानुभवस्य भ्रमत्वं तत्रापि बलवत्प्रमाणविरोधादेव तत् कल्प्यते । अतः सुखादिविषयानुभवस्य बाधकाभावेनाभ्रमत्वं युक्तमिति भावः ।
इतश्च न सुखादिविषयानुभवस्य भ्रमत्वेन सुखादेर्मिथ्यात्वं वाच्यमित्याह॥ साक्षीति॥ साक्षियनुभवसिध्धस्यापि सुखादेर्भ्रान्तिकल्पितत्वे सर्वं मिथ्या, आत्मा सत्य इति व्यवस्थाऽपि न सिद्ध्यति । एतद्व्यवस्थाया अपि साक्ष्यनुभवसिद्धत्वेन मिथ्यात्वापातादिति भावः । भ्रान्तित्वमभ्रान्तित्वमिति॥ भ्रान्तिकल्पितत्वमभ्रान्तिकल्पितत्वमित्यर्थः
। सर्वं मिथ्या आत्मा सत्य इति व्यवहारत एवास्ति, न तु परमार्थतः । अतस्तदसिद्धिर्नानिष्टेत्यत आह॥ व्यवहारत इति॥ व्यवहारत एवेयं व्यवस्थाऽस्तीत्यपि न सिद्ध्यति । साक्षिणोऽप्रामाण्ये तत्र प्रमाणाभावादिति भावः । किञ्च साक्ष्यनुभवस्याप्रामाण्ये स्तम्भादौ स्थाण्वादिमनोवृत्तिर्भ्रान्तिः । स्तम्भादिमनोवृत्तिरभ्रान्तिरित्यप न सिद्ध्यति । साक्षिण एव ज्ञानस्य भ्रान्तित्वाभ्रान्तित्वग्राहकत्वात् । तदसिद्धौ च व्यवहारमात्रं च न सिद्ध्यतीति भावेनाह॥ भ्रान्तिरिति॥ एतेन सर्वं मिथ्या आत्मा सत्य इति व्यवस्था व्यवहारतोऽस्तीत्येतदागमादिना सिद्ध्यतीत्येतदपि निरस्तम् । आगमादिप्रामाण्यस्यापि साक्षिग्राह्यत्वात् । ‘साक्षिसिद्धस्य ’ इत्यादेरेकग्रन्थत्वे भ्रान्तिरित्यस्य साध्याभिधानपरतया तच्छेषत्वं ज्ञातव्यम् ।
यदुक्तं सुखादिविषयसाक्ष्यनुभवस्य न भ्रान्तित्वं, बाधकाभावादिति तदयुक्तम् । ‘विमुक्तश्च विमुच्यते ’ इत्यादिप्रमाणसद्भावादित्यत आह॥ अनुभव इति॥ नानेन सुखादिविषयस्यानुभवस्य भ्रान्तित्वं सिद्ध्यति । तत्स्वरूपप्रामाण्ययोः सिद्ध्यभावात् । साक्ष्यनुभवस्यैव तत्साधकत्वात् । तस्य च भ्रान्तित्वाभिधानादिति भावः । न च सुखादिविषय एव साक्ष्यनुभवस्य भ्रमत्वं, प्रमाणस्वरूपादावभ्रमत्वमिति युक्तम् । विशेषप्रमाणाभावेनानाश्वासात् । साक्ष्यनुभवस्य भ्रमत्वेऽपि प्रमाणस्वरूपप्रमाण्ये लोकव्यवहारादेव सेत्स्यत इत्याशङ्क्याह॥ व्यवहारत इति॥ न लोकव्यवहारतः प्रमाणस्वरूपादिसिद्धिः । लोकस्य च तद्व्यवहारस्य चासिद्धेः । साक्षिण एव तद्ग्राहकत्वात् । तस्य च भ्रान्तित्वाङ्गीकारादिति भावः । साक्षिणो भ्रान्तित्वेऽपि व्यवहारव्यवहर्तृसिद्धिः प्रतीतित एव भविष्यतीत्याशङ्क्य परिहरति॥ प्रतीतित इति॥ भवेत् प्रतीत्यैव व्यवहारादिसिद्धिः यदि सैव सिद्ध्येत् । न च तत्साधकं वक्तुं शक्यत इति भावः । साक्षिण एव प्रतीतिसिद्धेः कथं तत्साधकाभाव इत्याशङ्क्य परिहरति॥ स्वत इति॥ न साक्षिणा प्रतीतिसिद्धिः । तस्य सुखादौ भ्रान्तित्वाङ्गीकारेण प्रतीत्यभावेऽपि प्रतीतिरस्तीति भ्रमोऽयमिति शङ्काकुण्ठितशक्तित्वादिति भावः ।
इतश्च न सुखादिविषयानुभवस्य भ्रमत्वमित्याह॥ स्वेति॥ सुखादिविषयानुभवस्य भ्रमत्वाङ्गीकृतावात्माभावोऽपि स्यात् । आत्मसाधकाभावादिति भावः । नन्वहमिति प्रत्यक्षत एवात्मोपलभ्यते । अतः कथं तत्साधकाभाव इत्यत आह॥ स्वयमिति॥ नाहमित्यनुभवेनात्मसिद्धिः, अनुभवस्य सुखादौ भ्रान्तित्वाभ्युपगेमेनात्मन्यपि भ्रमत्वशङ्कावारकाभावादिति भावः । निरधिष्ठानभ्रमासम्भवात् सुखादि्रमान्यथानुपपत्त्याऽधिष्ठानभूतात्मसिद्धिरित्यत आह॥ निरालम्बन इति॥ नानेन तर्केणात्मसिद्धिः । एतत्तर्कानुभवस्यापि सुखानुभववत् भ्रमत्वशङ्कायाः प्रसङ्गादिति भावः । श्रुतिरात्मनि प्रमाणमित्यत आह॥ तदिति॥ यच्छ्रुतिः प्रमाणमात्मन्युच्यते तच्छ्रुतिप्रामाण्यसाधकाभावेनाप्रमाण्यस्यापि वक्तुं शक्यत्वात् न तेनात्मसिद्धिरिति भावः । श्रुतेः प्रामाण्यानुभवात् कथमप्रामाण्यमित्यत आह॥ प्रमाणत्वेति॥ नानुभवेन श्रुतेः प्रामाण्यसिद्धिः ।
सुखानुभववदस्याप्यप्रामाण्ये प्रमाणत्वभ्रमत्वसम्भवादिति भावः । साक्षिसिद्धस्येत्याद्युक्तमुपसंहरति॥ इतीति॥ एवमुक्तप्रकारेण साक्ष्यनुभवस्य भ्रमत्वे सर्वं मिथ्या आत्मा सत्य इति व्यवस्थादि किञ्चिदपि न सिद्ध्यतीत्यर्थः ।
सुखाद्यनुभवो भ्रम इत्यर्थसाधकश्रुतेः प्रामाण्यासिद्धेर्न तया सुखाद्यनुभवस्य भ्रमत्वसिद्धिरित्युक्तम् । अथ तस्य श्रौतानुभवस्यापि भ्रमत्वोपपत्त्या सुखाद्यनुभवस्याभ्रमत्वमेव भवति । न तु तेन तस्य भ्रमत्वसिद्धिः । परस्परविरुद्धयोरन्यतरनिषेधस्येतरविधिनान्तरीयकत्वादिति भावेनाह॥ भ्रम इति॥ इतोऽपि न सुखाद्यनुभवस्य भ्रमत्वमित्याह॥ सुखेति॥ यदि लसुखाद्यनुभवो भ्रमस्तर्हि यत् प्रच्छन्नं नैरात्म्यमतमङ्गीकृतं तत्परकटितं स्यात् । सुखादिविषयानुभवस्य आत्मस्वरूपत्वादित्यर्थः । सुखादिविषयानुभवस्यात्मरूपत्वं भवन्मत एव नास्मन्मते । किन्तु मनोवृत्तिरूपत्वमेवेत्यतोऽपसिद्धान्त इत्याह॥ न हीति॥ नन्वस्तु सुखाद्यनुभवस्य भ्रमत्वमात्मस्वरूपत्वं च । तथापि कथमात्माभावप्रसङ्ग इत्यत आह॥ भ्रमस्येति॥ सुखादिविषयानुभवस्य भ्रमत्वेऽविद्याकार्यत्वं स्यात् । भ्रमस्याविद्याकार्यत्वाङ्गीकारात् । तथाचात्म नोऽप्यविद्याकार्यत्वं स्यात् । सुखादिविषयानुभवस्यात्मस्वरूपत्वात् । अविद्याकार्यत्वे चात्मनो मिथ्यात्वं दुर्निवारमिति भावः ।
अस्त्वेवमात्मनो युक्त्या दुर्घटत्वम् । तथापि न तद्बाधकम् । आत्मनः प्रमाणसिद्धत्वात् । न हि प्रमाणसिद्धस्य युक्त्या दुर्घटत्वमात्रेण बाधोऽस्तीत्याशङ्क्य परिहरति॥ दुर्घटत्वमिति॥ यद्यात्मनः प्रामाणिकत्वाद्युक्त्या दुर्घटत्वमपि न बाधकमित्युच्यते तर्हि सुखादीनामपि दुर्घटत्वं सुघटत्वं वाऽस्तु । न तद्बाधकं, प्रमाणसिद्धत्वादिति वक्तव्यमित्यर्थः । युक्त्या दुर्घटत्वमस्तु । न तद्बाधकमिति कथमित्यत आह॥ न हीति॥ अङ्गीकृत्य चेदमुक्तम् । युक्त्या दुर्घटत्वमपरिहृत्य तस्याबाधकत्वाभ्युपगमेऽतिप्रसङ्गः स्यादित्याह॥ दुर्घटत्वमिति॥ यदि युक्त्या दुर्घटत्वं न बाधकमित्यात्मास्तित्वं दुर्घटतयाऽङ्गीक्रियते तर्ह्यात्मनोऽविद्यात्वं दुर्घटमप्यङ्गीक्रियतामविशेषादित्यर्थः । प्रामाणिकस्यैव युक्त्या दुर्घटत्वं न
बाधकमित्युच्यते । न चात्मनोऽविद्यात्वं प्रामाणिकं, येन युक्त्या दुर्घटत्वमबाधकं स्यादित्यत आह ॥ अतीति॥ नात्मनोऽविद्यात्वमप्रामाणिकम् । किञ्चिच्चेतनं किञ्चिदचेतनमित्यङ्गीकारे गौरवप्राप्तेः । सर्वस्याचेतनत्वाङ्गीकृतेरेव ज्यायस्त्वमिति युक्तिसिद्धत्वादिति भावः । न केवलं प्रामाणिके युक्त्या दुर्घटत्वमबाधकम् । किन्तु यदङ्गीकारे प्रमाणाविरोधस्तत्रैव । आत्मनोऽविद्यात्वं प्रमाणविरुद्धमतो युक्त्या विरुद्धत्वं तत्र बाधकमेवेत्यत आह॥ न चेति॥ अत्मनोऽविद्यात्वं वदतां प्रतिपक्षिणामुक्तरीत्या न कोऽपि प्रमाणविरोधोऽस्तीति भावः । नन्वेवमनुभवबलेन कार्यकारणसम्बन्धस्य सुखदुःखादिभोगस्य च सत्यत्वं वदता भगवताऽनुभवस्य भ्रमत्वमभ्युपगच्छतां मतमेवं किमिति न निराकृतमित्याशङ्कां परिहरन्नुक्तमुपसंहरति॥ अत इति॥ अनुभवभ्रमत्वस्य स्फुटमुक्तरीत्या अनन्तदोषदुष्टत्वप्रतीतेर्न स्वयं भगवता तन्निराकृतिः कृतेति भावः ।
पुरुषः प्रकृतिस्थ इत्युक्तम् । तत्र स्वतः शुद्धस्य जीवस्य प्रकृतिस्थत्वे किङ्कारणमित्यत उच्यते ‘कारणम् ’ इति॥ तत्र परमात्मनो जीवभावेन शरीरसम्बन्धाद्युक्तौ शुद्धस्य किं कारणं शरीरसम्बन्धादेरित्यतः सगुणत्वं तत्कारणमुच्यत इत्यन्यथाप्रतीतिनिरासायाऽह॥ अस्येति॥ २२॥
अत्र जीवस्य शरीरसम्बन्धे सत्त्वादिगुणसङ्गः कारणमुच्यते, न तु परमात्मनस्तत्र सगुणत्वम् । परमार्थतस्तदनुपपत्तेः । तन्मिथ्यात्वस्य दूषितत्वादिति भावः । किं जीवस्य सत्त्वादिगुणसङ्गः सदसद्योनिजन्मसु स्वतन्त्रकारणमुत निमित्तमात्रम्? नाद्यः । जडत्वेन तदनुपपत्तेः । द्वितीये स्वतन्त्रकारणं वाच्यमिति शङ्कापरिहारत्वेन श्लोकमवतारयति॥ स्वतन्त्रेति॥ कथमनेन हरेः स्वतन्त्रकारणत्वमुच्यत इत्यतः प्रमाणवाक्येन श्लोकं व्याचष्टे॥ सर्वेभ्य इति॥ उपरि उपरि वर्तमानः, उत्तम इति यावत् । स्वानुकूल्येन स्वात्मनोऽविक्षेपकतया । मत्या बुद्धिपूर्वकम् । स्वातन्त्र्यं तत्र हेतुत्वेनैवोक्तम् । परमत्वादित्यनेन परमात्मेत्युक्तार्थं भवति । उपद्रष्टेत्यादौ सर्वत्रेतिशब्दान्वयोनानुमन्तृत्वे हेत्वभिधायकत्वं द्रष्टव्यम् । देहिनोन्य इत्यनेन परशब्दो व्याख्यातो भवति । नन्वनुमन्तुः प्राग्देहस्थितत्वेनानुक्तत्वादप्युक्तो देहेऽस्मिन्निति कथमुच्यत इत्यत आह॥ मामिति॥ ’ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ’ इति प्रागनुमन्तुर्देहगतत्वेनोक्तत्वादप्युक्तो देहेस्मिन्नित्युक्तिर्युक्तेति भावः । ननूपद्रष्टृत्वादिकमनुमन्तृत्वे हेतुत्वेनोच्यताम् । अनुमन्तुर्देहस्थतयोक्तत्वं किमर्थमुच्यत इत्यत आह॥ तेनेति॥ कोऽयमनुमन्तेत्यतो देहेऽप्युक्त इत्यनेनाहमेवानुमन्तेति दर्शयति॥ देहस्थत्वेनात्मनः कथितत्वादिति भावः॥ २३॥
‘प्रकृतिं पुरुषं चैव’ इत्याद्युक्तार्थं बुभुत्सातिशयोत्पादनाय तज्ज्ञानफलमुच्यते-‘य एनं’ इति । तत्प्रमाणवचनेनैव व्याचष्टे॥ द्विविधमिति॥ ज्ञात्वा परोक्षतः । ‘सर्वथा वर्तमानः’ इत्यस्य प्रमादादन्यायेन वर्तमानोऽपि नियतमोक्ष इत्यर्थः । परमपुरषादिदर्शने किं साधनमित्यत आह॥ अनादीति॥ कथं नानात्वमित्यत आह॥तत्रेति॥ स्वयमिति॥ स्वप्रतिभया॥ तथेति॥ उक्तप्रकारद्वयेन । अनेन ‘ध्यानेन’ इत्युक्ताक्तें भवति । ‘किञ्चित्’ इत्युक्त्यातेषां ध्यानातिरिक्तसाधनसद्भावेऽपि तस्याल्पत्वादनुक्तिरित्युक्तं भवति । ऋषयोऽन्तःप्रकाशा इत्यादौ ऋषीणामन्तर्दर्शननियमोक्तेः केचनेत्युक्तिः किमर्थेत्यत आह॥ केचिदिति॥ ऋष्यन्तरविषया श्रुतिरिति भावः । ‘देवाः’ इत्यनेन ‘अन्ये साङ्ख्येन’ इत्युक्तार्थं भवति । क्रमेण कालक्रमेण ।
देवानां ध्यानाभावे दर्शनं भवति चेत्तर्हि दर्शनविरोधिध्यानं किमर्थं ते कुर्वन्तीत्यत आह॥ येषामिति॥ साङ्ख्यं प्रतिभा योगो दर्शनोपायो येषां ते साङ्ख्ययोगाः । ‘प्रतिभा स्पष्टताक्रमात्’ इत्युक्तम् । तत्र सर्वोत्तमप्रतिभा देवेषु कस्य मुख्येत्यत आह॥ ब्रह्मेति॥ केचिदित्यनेन ‘कर्म’ इति व्याख्यातं भवति । अत्रापि श्रवणप्रतिभयोल्पत्वं द्रष्टव्यम् । अन्य इत्यनेन ‘अन्ये तु’ इत्युक्तार्थं भवति ।
ऋषिदेवराज्ञां प्रतिभोक्ता । तत्र किमेतेषामेकविद्यैव प्रतिभाऽस्ति, अथ तारतम्येनेत्यपेक्षायामाह॥ ऋषीनिति॥ ब्रह्मणः प्रतिभाप्रमाणमाह॥ ब्रह्मण इति॥ तर्हि तस्य हरेः सकाशात् श्रवणं किमर्थमित्यत आह॥ विष्णोरिति॥ प्रीत्यर्थमेव, न तु ज्ञानार्थम् । केषां तर्हि ज्ञानार्थं श्रवणमित्यत आह अन्येषामिति॥ मानुषेत्तरमिति॥ मानुषाणां प्रायः श्रवणादेव ज्ञानमित्यर्थः । नन्वेवं ध्यानादियोगिनामपि श्रवणादिसद्भावे कथं मानुषाणां श्रुतवेदित्वं क्वचिदुच्यत इत्यत आह॥ अत्यल्पेति॥ एवं दर्शनसाधनं नानाविधमुक्त्वा प्रकृतमनुसन्धत्ते॥ सर्व इति॥
यदुक्तं ध्यानादियोगिनामपि श्रवणाद्यस्तीति तदयुक्तम् । तथासति केषाञ्चित् ‘श्रुत्वाऽन्येभ्यः’ इति विशिष्योक्त्यसम्भवादित्यत आह॥ अन्येषामिति॥ ध्यानादियोगिनां श्रवणादिसद्भावेऽपि मनुष्याणां ‘श्रुत्वाऽन्येभ्यः’ उपासते इति विशेषोक्तिर्युक्ता । तेषामत्यल्पप्रतिभानत्वेन श्रवणबाहुल्य।सद्भावादिति भावः । अनेनात्यल्पप्रतिभानत्वादिति विवृतं भवति । कथं मनुष्याणामत्यल्पाऽपि प्रतिभा युज्यते । श्रुतिपरायणा इति श्रवणैकाश्रयत्वोक्तेरित्यत आह॥ मनुष्याणामिति॥
मनुष्याणामत्यल्पप्रतिभासद्भावेऽपि श्रुतिपरायणा इति विशेषणं युक्तम् । तत्प्रतिभाया मूलप्रमाणापेक्षत्वेन स्वातन्त्र्याभावात् प्रायेणासम्यक्त्वाच्च । अस्वतन्त्रेऽसाधुनि चासत्त्वोक्तिदर्शनादिति भावः ।
यदुक्तं मनुष्याणां पिरतिभा मूलप्रमाणसापेक्षा प्रायो न सम्यगुत्पद्यते, अल्पा चेति तदयुक्तम् । पाण्डवादिमनुष्याणामश्रुतार्थेऽपि सम्यक् बहुप्रतिभादर्शनादित्याशङ्कां प्रमाणेनैव परिहरति॥ अश्रुतेति॥ विश्रुता व्याप्ता बहुलेत्यर्थः । तल्लक्षणान्तराणि चाह॥ यश्चेति॥ यः पुरुषः स्वमुखपरिमाणेननवपरिमाणाधोदेहवान्, या च स्त्री स्वमुखपरिमाणेनाष्टपरिमाणवती तौ पुनः स्वस्वाङ्गुलिपरिमाणेन षण्णवत्यङ्गलौ, स्वस्वतालपरिमाणेन दशतालौ, स्वस्वपादपरिमाणेन सप्तपादौ तौ च सुरोत्तमौ विद्यादित्यर्थः । अत्र तालो नाम मध्यमाङ्गुल्यग्रात् मणिबन्धपर्यन्तः कर उच्यते । देवोत्तमलक्षणमुक्त्वा देवमात्रलक्षणमाह॥ यावदिति॥ तत् षण्णवत्यङ्गुलं क्रमेण ह्रसदेकनवत्यङ्गुलपर्यन्तमुत्तमावरसुरावधिकदेवमानं भवति । अत्र सप्तपादपरिमाणं क्रमेण ह्रसदेकाङ्गुलोनमेव भवतीत्यर्थः । मन्धर्वादिलक्षणमाह॥ तदूनमिति॥ तदेकनवत्यङ्गुलं सप्ताशीत्यङ्गुलपर्यन्तं क्रमेण ह्रसद्गन्धर्वादिपरिमाणं भवति । अत्रापि सप्तपादपरिमाणं क्रमेण ह्रसत्पुनरेकाङ्गुलोनं भवतीत्यर्थः॥मनुष्यलक्षणमाह॥ तावदिति॥ सप्ताशीत्यङ्गुलं मनुष्यपरिमाणमित्यर्थः । असुरलक्षणमाह॥ तत इति॥ सप्ताशीतेरधस्तात् असुरपरिमाणमित्यर्थः । देवोपदेवानां मानस्य सम्भूय कियतीप्वङ्गुलादुपरि देवोत्तमपरिमाणात् । षण्णवत्यङ्गुलादधो यदष्टचाङ्गुलं तद्देवोपदेवपरिमाणं ज्ञातव्यमित्यर्थः । ऋष्यादिलक्षणमाह॥ देवेष्विति॥ च्यवनादीनां पृथ्वादीनामवरदेववत् परिमाणं ज्ञातव्यमित्यर्थः । एतल्लक्षणतारतम्ये हेतुमाह॥ यावदिति॥ अनेनैतत् स्वाभाविकमिति चोक्तं भवति॥ २५-२६॥
यदुक्तं हरिरेव सर्वजीवानां सदसद्योनिजन्मसु स्वतन्त्रकारणमिति तत्प्रपञ्च्यते ‘यावदिति’ । तत्र क्षेत्रज्ञस्य हरेः क्षेत्रसंयोगो नाम जडदेहसंयोग इत्यन्तथाप्रतीतिनिरासायाह॥ क्षेत्रेति॥ ‘यावत् सञ्जायते’ इत्येतद्विवरणरूपे ‘मम योनिः’ इत्युत्तराध्यायगतवाक्ये लक्ष्मीनारायणसंयोगात्सर्वभूतसम्भवस्योक्तत्वात् अत्रापि क्षेत्रपदेन श्रीरेवोच्यत इति भावः । अव्यक्ततत्वे प्रसिद्धः क्षेत्रशब्दः श्रीवाचीत्येतत्कुत इत्यतः श्रियः श्रेत्रशब्दवाच्यत्वं, प्रसङ्गात् महाभूतानीत्याद्युक्ताहङ्कारादिशब्दानां च देवतावाचित्वं प्रमाणेन दर्शयति॥ अव्यक्तमिति॥ सरस्वत्यादीनामपि श्रीशब्दवाच्यत्वात् तद्व्यावृत्त्यर्थमाह॥ सदेति॥ किं जडाव्यक्ताभेदात् तच्छब्दवाच्येत्यत आह॥ निर्दोषेति॥ कथं तर्हि अव्यक्तादिपदवाच्यत्वमित्यत आह॥ सा हीति॥ न व्यज्यत इत्यव्यक्तम् । विष्णुरस्यां निवसतीति क्षेत्रम् । महागुणेति महद्ब्रह्म, जीवोत्तमेति प्रधानमुच्यत इत्यर्थः । अत्र महतोऽनुक्तत्वेप्यादिकार्यत्वात् ग्राह्य एव । क्रियाः उद्दिश्य । उक्तं विवृणोति॥ जीवेति॥ शब्दादि बोधयतीति बुद्धिरित्यर्थः । तत्सुतोऽनिरुद्धोऽपि॥ स्पर्शयतीति स्पर्शः । हृञ् हरण इति धातोः रसाहरणहेतुत्वात् जिह्वेत्यर्थः । आघ्रातेर्गन्धाघ्राणहेतुत्वात् । वचनात् वचनप्रवर्तकत्वात् । हानिलाभयोर्निमित्तत्वात् । सन लाभ इति धातुः । क्वचिद्विष्णोः पाददेवत्वोक्तेः विष्णुनेत्युक्तम् । यज्ञशम्भू च न हरिहरावित्युक्तम्॥ शचीति॥ पदनात् गतिप्रवर्तकत्वात् । पद गताविति धातुः । निरावृत्या प्रतिबन्धाभावेन । वातीति वायुः । अदनादग्निः । प्रथनाद् विस्तृतत्वात् पृथिवी । जन्मलयहेतुत्वात् जलमित्यर्थः । पृथु विस्तार इति धातुः । उत्पत्तिलययोर्जलाधीनत्वदर्शनात् तन्नियामकदेवतायास्तत्सिद्धम् । शब्दनादित्यादेः शब्दादिप्रवर्तकत्वादित्वात्यर्थः । मुख्यवायुः सुखनात् सुखमित्यादि द्रष्टव्यम् । सा श्रीरेव । एवं सरस्वतीवद्वायोः पत्नीविर्धृतिर्मतेत्यर्थः ।
श्रीरेवेच्छेत्युक्तम् । तदुपपादयति । इच्छेति॥ यद्यव्यक्तचेतनेच्छादिशब्दैः लक्ष्म्यादिदेवता उच्यन्ते तर्हि क्वचिदव्यक्तमुक्त्वा
पुनश्चेतनादिकं कथमुच्यत इत्यत आह॥ स्थानेति॥ अव्यक्तपदोक्तश्रियः चेतनादिपदेन पुनरुक्तिर्युक्ता । ऐभिमान्यमानस्थानभेदेन रूपभेदादित्यर्थः । एवं देवतान्तरेऽपि द्रष्टव्यम् । कथं तर्हि जडपदार्थेष्वव्यक्तादिशब्दाः प्रवर्तन्त इत्यत आह॥ एतैरिति॥ अव्यक्तादिनामकदेवताभिमन्यमानत्वात् जडानामव्यक्तादिशब्दवाच्यत्वमिति भावः । क्षिणोति नाशयति । क्षितिं कृत्वा त्राति स्वनिवासनिमित्तेन रक्षति । क्षीणम् अधमम्॥ विशेषविकृतिस्थिता इति॥ महदादिभ्योऽतिशयेन विकारितयाऽवस्थिता इत्यर्थः । घटादावप्येतदेव विकारशब्दप्रवृत्तिनिमित्तमित्याह॥ विशेषादिति॥ विगतमित्यादेः अत्रान्तिमकार्ये नाशं विना कार्यान्तरोत्पादकत्वं नास्तीत्यर्थः । अभिमानिनामपीच्छादिशब्दवाच्यत्वात् कथं विकारत्वमित्यत आह॥ तदिति॥ सम्बन्धो नियम्यनियामकभावः ।
यदुक्तं चेतनाचेनतं सर्वं क्षेत्रमिति, तदुक्तम् । चेतनस्य ‘इदं शरीरं’ इत्युक्तशरीरत्वानुपपत्तेः । हिंसाहेतुरित्यादिनिर्वचनस्य तत्रासम्भवादित्यत आह॥ यस्येति॥ चेतनस्य क्षेत्रत्वेऽपि न तस्योक्तशरीरत्वासम्भवः । ‘यस्यात्मा शरीरम्’ इत्युक्तत्वात्
। उक्तनिरुक्त्यसम्भवेऽपि भगवत्तन्त्रत्वेन शरीरत्वोपपत्तेरिति भावः । ‘यावत्सञ्जायते किञ्चित् सत्त्वं’इत्यत्र सत्त्वशब्दो जीववाचीति ‘मम योनिः’ इति वाक्यस्योदाहरणेनैव सूचितम् । तत्र सत्त्वशब्दस्य जीववाचित्वे प्रमाणमाह॥ सत्त्वमिति॥ तयोरन्य इति यदुच्यते स जीव इति वक्तव्ये सत्त्वमिति श्रुत्योच्यते । सत्त्वशब्देन जीवग्रहणे तस्यानादित्वात् सञ्जायत इत्युक्तजननं न युज्यत इत्यत आह॥ जनीप्रादुर्भाव इति॥ २७॥
परमेश्वरस्य सर्वशरीरस्थात्वमुक्तम् । तर्ह्यधिष्ठानतारतम्यात्तस्य तारतम्यं दुःखिसहावस्थानात् दुःखं च स्यादित्यत उच्यते-‘समं’ इति । तत्र ‘विनश्यत्स्वविनश्यन्तम्’ इत्ययुक्तम् । जीवानां विनाशाभावात् । न च तस्याचेतनविषयत्वम् । चशब्दाद्यभावादित्यत आह॥ जीवेष्विति॥ एवं विजानन्नेव ज्ञानीत्युक्तम् । तज्ज्ञानफलमुच्यते ‘समं’ इति । श्लोकद्वयं स्मृत्यैव व्याचष्टे॥ दुःखेति॥ न हिनस्तीत्यस्यार्थः ‘स एव’ इति॥ २८-२९॥
ईश्वरः सदसद्योनिजन्मसु कर्मानपेक्ष्यैव कारणं चेत्तर्हि तस्य वैषम्यादि स्यात् । कर्मापेक्षायां स्वातन्त्र्यप्रच्युतिः । तथा तस्यापि डनकसद्भावाच्च न स्वातन्त्र्यमित्यत उच्यते-‘प्रकृत्य’ इति । तत्र प्रकृतिरेव कत्रीं न परमात्मेत्यन्यथाप्रतीतिनिरासायाह॥ प्रकृत्येति॥ स्वयमेव प्रारभ्येति॥ पूर्वकर्मादिकं स्वयमेव प्रबोध्येत्यर्थः । अभिप्रायं वक्ति॥ विष्णोरिति॥ कर्मसापेक्षत्वेऽपि न भगवतः स्वतन्त्र्यप्रच्युतिः । यावताऽसौ स्वयमेव पूर्वकर्मादिकमुद्बोध्य तदपेक्ष्येदानीं कर्माणि कारयति । न तु कर्मादिकं विष्णोरुद्बोधकमिति भावः । कुत एतदित्यत आह॥ पूर्वमिति॥ अस्तु कर्मादि हरिरुद्बोधयति, न तु द्धरिमुद्बोधयतीति । तथापि हरेस्तदपेक्षत्वादस्वातन्त्र्यमित्यतः कर्मादिसत्ताया अपि भगवदधीनत्वात् तदपेक्षायामपि नास्वातन्त्र्यमिति भावेन कर्मादिसत्ताया भगवदधीनत्वे प्रमाणमाह॥ द्रव्यमिति॥ कुत एवमर्थकल्पनेत्यत उक्तर्थे स्मृतिसमाख्यां दर्शयति॥ स्वयमिति॥ नन्वत्र ईश्वरेणेत्यश्रवणात् कथमयमर्थः स्यादित्यत आह॥ तेनेति॥ ‘समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्’ इति ईश्वरस्य प्रसतुतत्वात् तेनेश्वरेणेत्यनुक्तेऽपि सिद्ध्यतीत्यर्थः । किमनया कल्पनया? प्रकृतेरेव कर्तृत्वं नेश्वरस्येत्येवार्थः किं नस्यादित्यत उदाहृतः स्मृतिविरोधस्तावत् वाक्यान्तरविरोधं च दर्शयति॥ अहमिति॥ तेनेश्वरेणेत्यत्र सूचितं चेत्याह॥ प्रकृत्येति॥ चशब्देन कथमेतत्सिद्ध्यतीत्यत आह॥ प्रकृतेनेति॥ उच्यमानक्रियायाः प्रकृतकर्तृत्वमीरयेदित्यर्थः ।
ईश्वरस्य कर्तृत्वाभिधायकवचनविरोधान्नार्थान्तरकल्पना युक्तेत्युक्तम् । प्रकृतेः कर्तृत्वस्य श्रुत्यादिविरुद्धत्वाच्च नासौ युक्तेत्याह॥ प्रकृतेरिति॥ त्वदृते दूरेऽपि किञ्चन केनापि न क्रियत इत्यर्थः । इतश्च नार्थान्तरकल्पना युक्तेत्याह॥ केवलेति॥ ईश्वरसमुच्चचार्थश्चशब्द इत्यतः केवलेत्युक्तम् आत्मानमकर्तारमित्यत्र परेणेश्वरस्याकर्तृत्वाङ्गीकारात् न तत्समुच्चयार्थश्चशब्द इति भावः । इतश्च नेश्वरस्याकर्तृत्वमेतदर्थं इत्याह॥ तत एवेति॥ इतोऽपि नार्थान्तरकल्पना युक्तेत्याह॥ अहमिति॥ अत्र यावत्सञ्जायत इतीश्वरस्य सर्वकर्तृत्वं प्रकृतमिति तेनापीश्वराकर्तृत्वव्याख्यानं विरुद्धम् । न च वाच्यं पूर्ववाक्येऽपि प्रकृतेरेव कर्तृत्वं क्षेत्रज्ञस्य तत्संयोगात् कर्तृत्वोपचार इति । मम योनिर्महद्ब्रह्मेत्यादिना उत्तराध्यायेऽन्यथैतद्वाक्यार्थस्य वक्ष्यमाणत्वादित्यर्थः । इतोऽपि न प्रकृतेरेव कर्तृत्वमिति अस्यार्थ इत्याह॥ अचेतनमिति॥ कथं स्वोक्तिविरोध इत्यत आह॥ इच्छेति॥ इच्छापूर्वक्रियास्वीकारो हि कर्तृत्वम् । तथा श्रुतेः । अचेतनं नामेच्छारहितम् । अतोऽचोतनं च करोति चेति व्याहतिरिति भावः । ननु प्रकृतेः स्वतन्त्रकर्तृत्वाभावेऽपि परिणामरूपं कर्तृत्वमङ्गीक्रियत एव सिद्धान्तिनाऽपि । अतन्तदर्थोऽयं श्लोकः किं न स्यादित्यत आह॥ विकारेति॥ यद्यपि प्रकृतेः परिणामरूपं कर्तृत्वमङ्गीकृतं, तथापि न तदर्थोऽयं श्लोकः । अत्र सर्वकर्मणां प्रकृत्यैव क्रियमाणत्वोक्तेः । एतदर्थत्वे च परमेश्वरादिकर्मसु प्रकृतिविकारत्वाभावात् सर्वश इति पदस्यार्थसङ्कोत्तप्राप्तेरित्यर्थः ।परमेश्वरादिकर्मणः प्रकृतिविकारत्वाभावः कुत इत्यत आह॥ अचेतनेति॥ ३०॥
न केवलं भगवतः सर्वप्रेरकत्वादिज्ञानमात्रेणालम् । किन्तु तस्य सर्वाधारत्वाद्यपि ज्ञातव्यमित्युच्यते- " यदा " इति । तत् तिरोहितार्थत्वात् प्रमाणवाक्येनैव व्याचष्टे॥ एकेति॥ भूतपृथग्भावस्य परमात्मस्थत्वोक्त्या पृथग्भूतानां तत्स्थत्वमभिप्रेतम् ।
तदेवात्रोक्तम्॥ ३१॥
सर्वचेतनाचेतनात्मकत्वात् परमात्मनः कथं भूतानां ततः पऋथग्भाव इत्यत उच्यते- " अनादित्वात् " इति । तत्र परमात्मनोऽकर्तृत्वप्रतीतिं च निराकर्तुं शरीरस्थपदं व्याख्याति॥ शरीरस्थ इति॥ शरीरस्थशब्दस्य कुतो जीववाचित्वमित्यतः तत्परयोगं दर्शयति॥ स्वप्नेनेति॥ ननु जीववदीश्वरस्यापि शरीरस्थितेः जीवस्यैव तत्पदवाच्यत्वं कुतैत्यत आह॥ शरीरस्थ इति॥ विष्णोरपि मयेदं सृष्टं, मदधीनमित्यभिमानोऽस्त्येव । अतः कथं तदनभिमान इत्यत
आह॥ तद्गतानामिति॥ शरीरस्थपदं जीववाचकं चेत् कथं योजनेत्यत आह॥ अनादित्वादिति॥ इति वाच्यमिति शेषः । जीवस्याप्यनादित्वात् किं विशिष्येश्वरस्यैव तदुच्यते, येनास्य जीवाभेदनिवारणे हेतुत्वं स्यादित्यत आह॥ शरीरेति॥ एवम्भूतादिमत्त्वाभावेऽपि कथं परमात्मनो जीवाद्विशेष इत्यत आह॥ जीवस्येति॥ इतिशब्दो हेतौ । ननु निर्गुणत्वं कथमीश्वरस्य जीवभेदे हेतुर्भवति जगत्कर्तृत्वादिगुणानाम् ईश्वरे भावेन हेतोरसिद्धेरित्यत आह॥ सत्त्वेति॥ नात्र गुणपदेन जगत्कर्तृत्वादयो विवक्षिताः । किन्तु सत्त्वादय एव । तत्सम्बन्धश्चेश्वरे नास्ति, जीवेऽस्तीति भवति हेतुरिति भावः । करोति न लिप्यत इति जीवेश्वरभेदे हेत्वन्तरम् । तद्व्याचष्टे॥ सर्वमिति॥ जीवो न करोति लिप्यत एवेति द्रष्टव्यम् । लेपश्च तत्फलेन । नन्वत्र जीवाद्यभेदस्याप्राप्तत्वात्कथं निषेधो युक्त इत्यत आह॥ वादीति॥ यथा शून्यवादिसिद्धत्वात् शून्यकारणत्वस्य " तद्धैक आहुः " इत्यादिना निषेधः क्रियते तथा सर्वाद्वैतवादिप्राप्तत्वात् अद्वैतनिषेधो युज्यते । यथा च ज्ञानद्वारा मोक्षार्थं कर्मभिरीश्वर एवाराध्य इति कर्मश्रुत्यभिप्रायापरिज्ञानप्राप्तस्य केवलकर्मणैवस्वर्गादिपुरुषार्थलाभो भवतीत्यस्य " इष्टापूर्तं " इत्यादिना निषेधः क्रियते तथा भगवता सर्वं व्याप्तमिति " सर्वं खलिदं ब्रह्म " इत्यादिश्रुत्याभिप्रायापरिज्ञानप्राप्तस्याद्वैतस्य निषेधो युक्त इति भावः । प्रातीतिक एवर्थः किं न स्यादित्यत उक्तार्थे वाक्यान्तरसम्मतिमाह॥ कुर्वाण इति॥ मृत्यादिरहित इत्यनेनाव्ययपदं व्याख्यातं भवति । ईश्वरस्य चेतनाचेतनभिन्नत्वे श्रुतिसम्मतिं चाह॥ स एष इति॥ ३२-३४॥
अध्यायार्थ उपसंह्रियते॥ क्षेत्रेति॥ तत्र भूतप्रकृतिमोक्षपदं तिरोहितार्थत्वात् व्याचष्टे॥ जीवानामिति॥ मोक्षं मोक्षसाधनममानित्वमित्याद्युक्तम्॥ ३५॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचतस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां त्रयोदशोऽध्यायः॥ १३॥
॥ अथ चतुर्दशोऽध्यायः॥
हरिः ॐ॥ एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ क्षेत्रेति॥ प्राधान्येनोत्तराध्यायैः साधनमेवोच्यते । तत्र बन्धप्रकारपरिज्ञान एव तन्मोक्षसाधनानुष्ठानं युज्यते । बन्धश्च त्रिगुणात्मकः । अतो " यावत्सञ्जायते " इत्युक्तविवरणपूर्वकं त्रिगुणविकारस्थितिं तदत्ययोपायं च दर्शयत्यनेनाध्यायेनेति भावः । " कार्यते ह्यवशः कर्म " इत्यादौ त्रैगुण्यस्य सङ्क्षेपेणोक्तत्वात् विविच्येत्युक्तम् ।
" परं भूयः प्रवक्ष्यामि " इति प्रतिज्ञातमुच्यते " मम योनिः " इति । तत्र योनिशब्दस्य कारणार्थत्वप्रतीतिनिरासाय भार्याद्यर्थत्वे प्रमाममाह॥ योनिरिति॥ स्थानं गुह्यस्थानम् । अस्त्वेवं योनिशब्दो भार्याद्यनेकार्थः । प्रकृतः किमर्थ इत्यत आह॥ अत्रेति॥ योनिशब्दस्यानेकार्थत्वात् कथमयमेवार्थ इत्यत आह॥ तस्मिन्निति॥ ३॥
त्रैगुण्ये विविच्योक्ते सति तर्हि गुणा एव सर्वोत्तमाः, न तु ततोऽन्यः सर्वोत्तम इति शङ्का स्यात् । सा निराक्रियते-नान्यमिति । अत्र गुणानानमेव कर्तृत्वं, नेश्वरस्यैत्यन्यथाप्रतीतिनिरसायाह॥ एतभ्य इति॥ अज्ञस्यापि पुरुषत्वात् को विशेषो ज्ञानिन इत्यत आह॥ अन्थेति॥ एवं योजनायां " मद्भावं सोऽधिगच्छति " इति व्यर्थं स्यात् । वाक्यस्य तद्विनैव समाप्तत्वादित्यतः तत्सार्थक्यं दर्शयति॥ कथमिति॥ भगवति भावप्राप्तियोग्यस्यैव पुरुषत्वं " पुरुषत्वे वा विस्तरादात्मा " इत्यादिश्रुतिसिद्धम् । प्रतीत एवार्थः किं न स्यादित्यतो " मम योनिः " इत्यादि स्मृत्यैव व्याचष्टे॥ महालक्ष्मीरिति॥ परा षड्भ्योऽधिका । द्गुणत्वात् सत्, त्विष दीप्ताविति धातोः प्रभारूपत्वात् त्वमिति सत्त्वमित्यर्थः । सृष्ट्या हि रञ्जनं भवति । किमियं प्रसिद्धा पृथिवीदेवताऽसावित्यत आह॥ यदिति॥ तमु ग्लपन इति धतुः । ग्लपनं संसारेण ग्लानिदानम् । अमुक्तिगा इत्यनेन " देहे देहिनं " इत्यस्यार्थ उक्तो भवति । केषां को बन्धिकेत्यत आह॥ सर्वानिति॥ अनेन तत्र सत्त्वमित्यादिना तारतम्येनोक्तबन्धत्रैविध्यस्य विषयः प्रदर्शितो भवति । एवमेतासां सर्वबन्धकत्वेनातिसामर्थ्यात् सर्वोत्तमत्वमिति न मन्तव्यमित्याह॥ एताभ्य इति॥ विष्णुं सर्वोत्तमत्वेन जानन्नेव यतो विमुच्यतेऽतः स एव पुरुषः । अतो नैताभ्यो विद्यते परः इति जानन् नृपशुरित्यर्थः॥ १६-१९॥
" रजसस्तु फलं दुःखम् " इत्यत्र दुःखशब्दः केवलदुःखार्थ इत्यन्यथाप्रतीतिनिरासायाह॥ रजस इति॥ दुःखशब्दः कथं दुःखमिश्रसुखवाचीत्यत आह॥ दुःखमिति॥ अत्र केवलदुःखवाची किं न स्यादित्यतो रजसो मिश्रफलत्वे स्मृतिमाह॥ कर्मण
इति॥ अज्ञानजमित्यनेन अज्ञानमिति व्याख्यातं भवति । तेन केवलदुःखस्य तमःफलत्वोक्तिश्चार्थान्तरे बाधिकेति सूचितं भवति॥ २०-२१॥
गुणात्ययोपायादिप्रश्नस्य परिहार उच्यते " प्रकाशं " इति । तत्र स्वस्मिन् प्रकाशं नेच्छति, स्वगतमोहं न द्वेष्टि, दुःखादिसाम्यं च स्पृहाद्यभावमात्रं, सर्वारम्भपरित्यागश्च सर्वत्रोदासीनत्वमित्यन्यथाप्रतीतिनिरासाय प्रमाणान्तरेण तद्व्याचष्टे॥ लोकेति॥ पुरुषान्तरे स्थितं प्रकाशादि साधु न द्वेष्टि । तत्र मोहाद्यसाधु नेच्छतीत्यर्थः । स्वस्य प्राप्तप्रकाशत्वात् मोहोज्ज्ञितत्वात् स्वस्मिन्नेव तदिच्छाद्यभावः किं न स्यादित्यत आह॥ स्वयमिति॥ मोहं द्वेष्टि चेति द्रष्टव्यम् । तं चापीत्यनेन मां चेत्युक्तार्थं भवति । सुखदुःखादीत्यस्य विष्णुभक्तिपरित्यागे सुखस्य, अन्यथा दुःखस्य भावेऽपीत्यर्थः । अर्थार्थमित्यादिना समलोष्ठेत्याद्युक्तर्थं भवति । अवैष्णवेत्यनेन सर्वारम्भेत्युक्तार्थं भवति । विष्णु यातीत्यनेन सगुणानित्यादेः तात्पर्यमुक्तं भवति॥ २२॥
इतश्च सर्वारम्भपरित्यागीति न केवलोदासीनत्वमुच्यते । उदासीनवदिति पूर्ववाक्ये केवलोदासीनत्वाभावस्योक्तेः । नेङ्गत इति पूर्ववाक्ये कर्माभावस्योक्तत्वात् कथं केवलोदासीनत्वाभाव इत्यत आह॥ नेङ्गत इति॥ नेङ्गत इति न सर्वप्रवृत्तिनिषेधः, किन्तु भगवदुदासीनप्रवृत्तिनिषेध एवेत्यर्थः । तर्हि नेङ्गत इत्यनेनैव अवैष्णवकर्माकरणस्योक्तत्वात् सर्वारम्भपरित्यागीति पुनरुक्तिरित्यत आह॥ इति वक्तीति शेषः । नेङ्गत इति सामान्योक्तिरिति द्रष्टव्यम् । नेङ्गत इत्यल्पावैष्णवप्रवृत्त्यभाव उच्यते । सर्वारम्भपरित्यागीति दीर्घावैष्णवप्रवृत्त्यभाव उच्यत इत्यतश्च न पुनरुक्तिरिति भावेन इङ्गनारम्भशब्दयोः अल्पमहत्कर्मार्थत्वे प्रमाणमाह॥ इङ्गनमिति॥ २३-२५॥
ननु गुणशब्देन श्र्यादीनां विवक्षितत्वात् " सगुणान् समतीत्यैतान् " इति तदत्ययः कथमुच्यते । अशक्यत्वादित्यत आह॥ लक्ष्म्यादिभिरिति॥ लक्ष्मीति श्रीरुच्यते । स्मृत्युक्तार्थानुवादेव अर्थान्तरं चाह॥ तदिति॥ उभयत्र प्रयोगं दर्शयति॥ यथेति॥ यथा द्वारपालकृतबन्धात्ययेन गच्छन् द्वारपालमतीत्य राजानं गच्छतीत्युच्यते, यथा च यो राजानं गच्छति स द्वारपालमतीत्य गच्छतीत्युच्यते तथैवेत्यर्थः । ब्रह्मभूयाय इत्यस्य ब्रह्मभावायेत्यन्यथाप्रतीतिनिरासायाह॥ ब्रह्मेति॥ ‘मम योनिर्महद्ब्रह्म’ इति महालक्ष्म्या एव ब्रह्मशब्देन प्रकृतत्वात् अत्रापि सैवोच्यत इत्यर्थः । प्रमाणान्तरसमाख्यानेनाप्येतत् साधयति॥ अतीत्येति॥ गुणातीतस्य भगवत्प्राप्त्याद्येव वक्तव्यं, लक्ष्मीप्राप्त्या भगवत्प्राप्तिः । येन तदुक्तिः सङ्गता स्यादित्यतोऽभिप्रायमाह॥ मदिति॥ तत्स्थत्व इति शेषः । लक्ष्मीनारायणयोरवियोगश्चेत् गुणतीतो मामाप्नोतीत्येव वक्तव्यम् । किं परम्परोक्त्येत्यत आह॥ तथापीति॥ यद्यपि तयोरवियोगस्तथापि लक्ष्मीसमीपं प्राप्य तदनुज्ञया भगवत्प्राप्तिर्भवतीति परम्परोक्तिर्युक्तेत्यर्थः । ‘सुखस्यैवकान्तिकस्य’ इति तिरोहितार्थत्वाद्व्यायष्टे॥ एकान्तिकस्येति॥ एकमेवास्मादधिकमिति गणनेऽन्ते स्थितमेकान्तिकम् । तत्तु मोक्ष एवेति भावः॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां चतुर्दशोऽध्यायः॥ १४॥
एतदध्यायप्रतिपाद्यं दर्शयति॥ त्रयोदशेति॥ यत् त्रयोदशाध्याये जगत्स्वरूपं वर्णितं तदस्मिन् अध्याये विविच्य दर्शयति । तस्यैव संसाररूपत्वात् । संसारं जिहासता तत्स्वरूपस्य ज्ञातव्यत्वात् । यश्च तत्र संसारात्ययोपायो निरूपितस्तं चात्र दर्शयतीत्यर्थः । तत्राप्रतिपत्त्यन्यथाप्रतिपत्तिनिरासाय श्रुत्यैवाध्यायो व्याख्यायते॥ पृथगिति॥ तत्रोर्ध्वमुलमित्यस्यार्थः पृथगिति । जगद्वृक्षस्य हरिर्मूलं चेत्तर्हि तस्य जगदेकदेशत्वं स्यादित्यतः पृथगित्युक्तम् । यथा प्रसिद्धस्य वृक्षस्य भूमिरतदेकदेशत्वेन मूलं तथैवेत्यर्थः । प्रकारान्तरेणोर्ध्वमूलत्वं दर्शयति॥ सत्त्वादीति॥ मूलभागवदिति॥ प्रसिद्धवृक्षस्यैकदेशभूतमूलवन्मूलमित्यर्थः । सत्त्वादियुक्ते इत्यनेन त्रिमूलो जगद्वृक्ष इत्युक्तं भवति । गुणप्रवृद्धा इत्यस्य तात्पर्यं चोक्तं भवति । मूलैर्हि शाखा प्रवर्धन्ते । ननु जगतोऽचेतनत्वात् अचेतनप्रकृतेरेव एतन्मूलत्वं, तर्हि तस्य जगद्रूपेण परिणामः स्यात् । भूम्यंशानां लोके परिणामित्वदर्शनादित्यत आह॥ पृथिवीति॥ तत्तत्र जगद्वृक्षे हरिः प्रसिद्धवृक्षस्य पृथिवीदेवतावन्निमित्तत्वेनैव मूलं न तु मृद्वदुपादानतयेत्यर्थः । तर्हि तद्वत्परिणामितया मूलं किमित्यत आह॥ मृद्वदिति॥ अचेतना अचेतनप्रकृतिः । एवं चेज्जगद्वृक्षो विष्ण्वादिमूलः स्यात्, ऊर्ध्वमूलः कथमित्यत आह॥ उत्तमत्वादिति॥ विष्णोः सर्वोत्तमत्वात्, श्रियः परतन्त्रेषूत्तमत्वात्, अचित्प्रकृतेरचेतनेषूत्तमत्वात् ऊर्ध्वानि उत्तमानि विष्णवादिमूलानि यस्यासावूर्ध्वमूल इत्यर्थः । अधःशाखमित्यस्यार्थो नीचा इति । अधो भगवदपेक्षया नीचा महदादयः शाखा यस्यासावधः शाख इत्यर्थः । जगद्वृक्षस्येति सम्बध्यते । छन्दसां पर्णत्वमुपपादयति । कामेति॥ लोके पर्णोत्पत्त्यनन्तरमेव फलदर्शनादत्रापि फलहेतुत्वाच्छन्दनां पर्णत्वमिति भावः । अनेन धर्मार्थयोः काममोक्षार्थत्वात् काममोक्षाख्यद्विफलो जगद्वृक्ष इत्युक्तं भवति । अधश्चोर्ध्वं चेत्यस्यार्थः अन्योन्येति॥ अनेनाधोभूताः शाखा ऊर्ध्वमूलेषु प्रसृताः, मूलानि चाधः शाखासु सन्ततानीत्युक्तं
भवति । तस्योपपादनं कारणेष्विति ।
कारणेषु कार्यस्य स्थितत्वात् शाखानां मूलेषु प्रसृतिर्युज्यते । कार्येषु कारणस्य व्याप्तत्वान्मूलानां शाखासु सन्ततिर्युक्तेत्यर्थः । वृक्षमात्रसाम्यस्योक्तत्वात् ’ अश्वत्थं प्राहुः’ इत्यादावश्वत्थोक्तिः कथमित्यत आह॥ जगदिति॥ अश्ववत् स्थितोऽश्वत्थ इत्यर्थः । चञ्चलश्चेत् किं सर्वात्मनोच्छिद्यत इत्यत आह॥ अव्यय इति॥ किमतो यद्येवं जगद्वृक्ष इत्यत आह॥ स्वसक्तीति॥ सङ्गराहित्यसहितज्ञानासिनेत्यर्थः । अस्य विष्णोः पृथक्त्वमेव कुतः? तज्रानेन च किमित्यत उक्तं विवृण्वन्नाह॥ अव्यक्तादीति॥ नेति नेतीत्यादेः पृथक्त्वज्ञानेन च भगवन्मार्गणं भवति । जगतो भगवद्वैलक्षण्ये ज्ञाते हि तत्स्वरूपं ज्ञातुं शक्यत इति भवः । अनेन ‘तमेव’ इति विवृतं भवति । वृक्षच्छेदार्थमिति शेषः । ननु जगद्वक्षच्छेदो ब्रह्मादिप्रतिपत्त्याऽपि भवति । अतः ‘तमेव’ इति किमवधर्यत इत्यत आह॥ यदिति॥ ब्रह्मादीनां भगवदंशाभासत्वेनासमर्थत्वात् जगद्वृक्षच्छेदाय भगवन्तमेव प्रपद्येतेत्याशयः॥ १-४॥
अंश एव किं न स्यादिति चेन्न । भिन्नत्वात् । तर्ह्यंशाभावसोऽपि कथमित्यत आह॥ किञ्चिदिति॥ अनेन ‘ममैव’ इत्युक्तार्थं भवति । किञ्च जीवस्य विषयान् प्रति इन्द्रियप्रेरणादिकमपीश्वराधीनमिति तत्प्रपत्तिर्जगद्वृक्षच्छेदनोपाय इति भावेन भगवन्महिमानं दर्शयत् । भुङ्क्त इत्यनेन ‘श्रोत्रं’ इत्यस्यार्थ उक्तो भवति । शुभानित्यनेन ‘गुणान्’ इत्युक्तार्थं भवति । ईश्वरस्य पूर्णानन्दत्वात् किं विषयभोगेनेत्यत आह॥ पूर्णेति॥ ९-१२॥
उपजीव्यतया विश्वनरसम्बन्धो वैश्वानर इत्यर्थः । क्षरणं विनाशः । क्षर विनाशसन्ततदानयोरिति धातोः । अत्रात्मपदप्रयोगेण ‘द्वाविमौ पुरुषौ’ इति पुरुषशब्दः चेतनार्थ इत्युक्तं भवति । ततश्च न श्रियः पुरुषत्वविरोधः॥ १३-२०॥
इति श्रीआदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीतातात्पर्यनिर्णये पञ्चदशोऽध्यायः॥ १५॥
॥ अथ षोडशोऽध्यायः॥
हरिः ॐ॥ एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ देवेति॥ अभयादिदेवतालक्षणानां मोक्षहेतुत्वात् तदापादनाय दम्भाद्यसुरलक्षणानां तद्विरोधित्वात् तत्परित्यागाय तदुभयमस्मिन्नध्याये निरूप्यत इति भावः ।
तत्र ‘अभिमानशच’, ‘ईश्वरोऽहं’, ‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । ‘अपरस्परसम्भूतं’, ‘मामात्मपरदेहेषु प्रद्धिषन्तः’, ‘ततो यान्त्यधमां गतिं, ‘त्रिविधं नरकस्येदं’ इत्यादिना चार्वाकाणामसुरत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे॥ य इति॥ परेभ्यो न च जायते । भ्रमजत्वादेव । कुत एतेऽसुरा इत्यत आह॥ अक्षेति॥ सती पृथिवीत्यादिप्रत्यक्षस्य, विश्वं सत्यमित्याद्यागमस्य, प्रमाणदृष्टत्वाद्यनुमानस्य सर्वस्य मिथ्यात्वे सर्वमिथ्यात्वस्यापि मिथ्यात्वप्राप्त्या सर्वस्य त्वमिति स्वोक्तिविरोधः । न केवलं परमेश्वरोऽहमित्यादि मन्वाना असुराः, किन्तु योऽन्ये प्रत्यक्षादिविरुद्धवादिनस्ते सर्वेऽप्यसुरा इत्याह॥ एवमिति॥
देवलक्षणमाह॥ ये त्विति॥ अनेन ‘ज्ञानयोगव्यवस्थितिर्दानं’ इत्यादि व्याख्यातं भवति । कुत एवंविधानां देवत्वमित्यत आह॥ प्रत्यक्षेति॥ वमुक्तिगा इत्यनेनैव देवीत्युक्तार्थं भवति ।
ननु ‘ततो यान्त्यधमां गतिं’ इत्यासुरसम्पदोऽन्धतमसहेतुत्वस्य वक्ष्यमाणत्वात् कथं ‘निबन्धायसुरी मता’ इति बन्धहेतुत्वमुच्यत इत्यत आह॥ निबन्धाय नीचेति॥ नात्र संसारहेतुत्वमुच्यते, किन्त्वतिनीचान्धतमससाधनत्वमेवेति भावः । ननु भूतसर्गाणामतिबहुप्रकारत्वात् ‘द्वौ भूतसर्गौ’ इत्यादि कथमुच्यत इत्यत आह॥ सर्गाणामिति॥ सर्गाणां सुबहुत्वेऽपि द्वाविति वक्तुं शक्यते । शुभाशुभफलाधिक्यविवक्षयेति भावः । गन्धर्वमनुष्याधमादीनामपि शुभाशुभफलाधिकत्वात् को विशेषो देवादीनामित्यत आह॥ गन्धर्वेति॥ तदुभयफलान्तर्वर्तमाना एवेत्यर्थः । तद्विवृणोति॥ मुक्तिगा इति॥ एवं तमोगा एवेति च द्रष्टव्यम् । तर्हि देवादीनामपि मुक्त्यादिगत्वादेभ्यः को विशेष इत्यत आह॥ देवा इति॥ एवमसुरा एवातिदारुणतमोगा इति द्रष्टव्यम् ।
यदुक्तं द्वावित्युक्तिघटनाय मोक्षस्यानेकविधत्वात् देवानामेबाधिकमोक्षो नान्येषामिति तद्गीतायामपि ज्ञायत इत्याह॥ विमोक्षायेति॥ ननु देवत्वादेः कारणविशेषेण हानोपादानदर्शनात् द्वौ भूतसर्गाविति निसर्गत्वोक्तिः कथमित्यत आह॥ देवेति॥ निसर्गत्वादेव नान्यथा भवतीत्यर्थः । ननु प्रह्लादाद्यसुराणां देवत्वदर्शनात्कथमन्यथाभावाभाव इत्यत आह॥ देवा इति॥ प्रह्लादादीनां स्वतो देवानामेव कारणविशेषेणैवासुरत्वम् । अतस्तद्विहाय देवत्वं युक्तमिति भावः । ननु तत्राप्यसुरत्वं नष्टमित्यस्त्येवेत्यत आह॥ हेतुत इति॥ औपाधिकत्वादसुरत्वस्य नाशो युक्त एव । न तेन स्वाभाविकासुरत्वानाशमतस्य विरोध इति भावः । मास्त्वसुराणां देवत्वं, देवानां तु देवत्वपरित्यागेनासुरत्वं प्राप्तमित्यत आह॥ नापीति॥ नासुरभावः
प्रह्लादादीनां देवत्वस्वभावनिवर्तकः । औपाधिकत्वात् । स्फटिकशौक्ल्यानिवर्तकलौहित्यवदिति भावः । तर्हि शापादिवैयर्थ्यमित्याशङ्क्य परिहरति॥ किन्त्विति॥ ततो देवानामसुरत्वाभावात् । देवत्वस्यानपगमेऽपि कुतोऽशोच्यत्वमित्यत आह॥ मोक्षेति॥ तदुपपादयति॥ हरेरिति॥ अनेनैव मा शुच इत्यस्य तात्पर्यं चोक्तं भवति॥ १-२४॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य षोडशोऽध्यायः॥ १६॥
॥ अथ सप्तदशोऽध्यायः॥
एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ सदिति॥ सत्कर्मण एव पुरुषार्थसाधनत्वेनानुष्ठेयत्वात् असत्कर्मणस्तद्विरुद्धत्वेन त्याज्यत्वात् अनुष्ठानत्यागयोश्च विविच्याज्ञानेऽसम्भवात् सदसत्कर्मणी विविच्यात्रोच्येते इति भावः॥ १-२॥
‘ये शास्त्रविधिमुत्सृज्य’इति प्रश्नस्योत्तरमुच्यते-त्रिविधेति । तत्र नाज्ञानाच्छास्त्रविधिमुत्सृज्य यजनं सात्त्विकत्वादिज्ञापकम् । किन्तु सात्त्विकत्वादिभेदेन श्रद्धा त्रिविधा भवति । तत्र यो यजमानो याद्रशश्रद्धः स ताद्रश इति श्रद्धयैव तज्ज्ञानमित्युक्तस्योपपादसायोक्तम्॥ सत्त्वानुरूपेति॥ तत्र श्रद्धायाः सत्त्वगुणानुरूपत्वोक्त्या कथं यो यच्छ्रद्धः स एव स इत्यस्योपपादनमित्यत आह॥ सत्त्वेति॥ सत्त्वशब्दस्य जीववाचित्वं पूर्वमेव साधितम् । किमतो यद्येवमित्यत आह॥ अत इति॥ श्रद्धाया जीवानुरूपत्वात् तया तत्स्वरूपं ज्ञायत इत्यर्थः । श्रद्धाया जीवस्वरूपत्वं कुत इत्यत आह॥ श्रद्धामय इति॥ तत्र मयट्शब्दस्यानेकार्थत्वादत्रोपयुक्तमर्थमाह॥ श्रद्धेति॥
‘तां श्रृणु’इति प्रतिज्ञानं ‘यो यच्छ्रद्धः’इत्यस्य विवरणेनोच्यते॥ यजन्त इति॥ तत्रान्तःकरणवृत्तिश्रद्धाया अपि विद्यमानत्वेन स्वरूपभूताया विवेक्तुमशक्यत्वात् तया कथं जीवस्वरूपज्ञानम् सर्वेषामपि देवतायाजित्वात् कथं यक्षरक्षांसीत्यादि? कथं च नित्याकृशमीश्वरं तामसाः कर्शयन्ति? इत्यादिशङ्कापरिहाराय सत्त्वानुरूपेत्यादि प्रमाणवाक्येनैव व्याचष्टे॥ श्रद्धेति॥ किं श्रद्धा स्वरूपभूतैव उत भिन्नाऽप्यस्तीत्यत आह॥ स्वरूपेति॥ तर्हि स्वरूपश्रद्धाया एव ज्ञातुमशक्यत्वात् न तया जीवस्वरूपविवेक इत्यत आह॥ तत्रते॥ व्यज्यतेऽन्तःकरणे । एवं राजसत्वापि सात्त्वकी तामसी क्वचिदेव भवतीति ज्ञातव्यम्॥ किं तत इत्यत आह॥ भूयस्त्वादिति॥ एवं स्वरूपश्रद्धाया एवाधिक्येनाभिव्यक्तेर्ज्ञातुं शक्यत्वात् तया जीवस्वरूपं विविच्यत इत्यर्थः॥ ३॥
कथं श्रद्धया जीवस्वरूपविवेक इत्यत आह॥ श्रद्धेति॥ अनेन यजन्त इत्युक्तार्थं भवति । व्यामिश्रयाजिनोऽक्रमेण याजिनः । अखिलं जगन्मिथ्येति मन्यन्त इत्यर्थः । अनेन सर्वयाजिनां देवतायाजित्वसाम्येऽपि भोक्तृविवक्षया देवानित्याद्युक्तिरित्युक्तं भवति । ‘अध्यक्षविद्याख्या’, ‘दीनत्वात्’, ‘शिवस्कन्दादि’इत्यनेन क्वचित्तथोक्तीनां गतिरुक्ता स्यात् । त्रिविधानां तेषां यजनफलमाह॥ मोक्ष इति॥ स्वर्गप्रतिनिधित्वेन कल्पितः साङ्कल्पिकः स्वर्गः । उक्तरीत्या सात्त्विकानां किं शास्त्रविधिं जानतामजानतामपि मोक्ष इत्यत आह॥ त्यक्त्वेति॥ अनेन शास्त्रविध्युत्सर्गाद्यप्रयोजकीकृत्य श्रद्धाया एव प्रयोजकत्वकथनस्याभिप्रायोऽपि वर्णितो भवति । तामसानां भूतादित्वमवान्तरफलमेव । मुख्यं तु तम एवेत्युपपादयति॥ अशास्त्रेति॥ ज्ञेयाश्चेत्यनेन ‘तान् विद्धि’इत्युक्तार्थं भवति । अन्नैश्चेत्यनेन ‘आहारः’इत्यादेस्तात्पर्यमुक्तं भवति । श्रद्धाया जीवस्वरूपत्वेन तया तज्ज्ञानमुपपद्यते । आहाराद्यैस्तत्कथमित्यत आह॥ सात्त्विका इति॥ अत्र जीवानां सात्त्विकत्वादि उत्तमत्वादीति ज्ञेयम् । सात्त्वियज्ञादीनामित्थम्भावान्तरविधानायाह॥ ओमिति॥ अनेन ॐ तत्सत्’ च इत्यादि व्याख्यातं भवति । केन हेतुना विष्णोरोमिति नामेत्यत आह॥ विप्रा इति॥ तस्मादोङ्कारस्य भगवन्नामत्वात्, ओमित्युच्चार्येति शेषः॥ प्रवर्तन्त इति॥ प्रवर्तयन्तीत्यर्थः । अनेन ब्राह्मणा इत्याद्युक्तार्थं भवति । भगवन्नामान्तरसद्भावात् कथमेतदुच्चारणनियतिरित्यतोऽस्य विशेषमाह॥ अनोङ्कृतमिति॥ ओङ्कारोच्चारणं तदर्थज्ञानपूर्वकमेव कार्यमिति भावेनाह॥ ओङ्कृतं त्विति॥ किन्निमित्तं विष्णोस्तदिति नामेत्यत आह॥ फलमिति॥ अनेन तदित्युक्तार्थं भवति । ननु मयट्प्रत्ययस्य विकारैकार्थत्वात् कथं श्रद्धामय इत्यस्य श्रद्धास्वरूप इति व्याख्येत्यत आह॥ मटमिति॥ श्रद्धैव प्रयोजिका न तु शास्त्रविधानानुसारित्वादीति यत्परिहारवाक्याभिप्रायवर्णनं तत्कुत इत्यत आह॥ शास्त्रेति॥ भगवतैव श्रद्धाभावे शास्त्रविधानानुसारिणोऽप्यसत्त्वस्यैवोक्तत्वात् श्रद्धैव प्रयोजिका नान्यदिति ज्ञायत इति भावः । हुतमित्यत्र शास्त्रविधानानुसारेणेति सिद्धम् । विधानोक्तिप्रसङ्गात् । अङ्गीकृत्य चेदमुक्तम् । भगवच्छ्रद्धाभावे शास्त्रविधानानुसारित्वं च नास्ति । ततोऽपि श्रद्धैव सात्त्विकत्वादौ प्रयोजिकेत्याशयेनाह॥ भगवदिति॥ तत्कुत इत्यत आह॥ विष्णुभक्तीति॥ विष्णुभक्तिविधानार्थमेव शास्त्रप्रवृत्तिश्रुतेः तदभावे न शास्त्रविधानानुसारित्वं भवतीत्यर्थः । शास्त्रविधानास्याप्रयोजकत्वे
कथम्मशास्त्रविहितमिति तामसत्वे प्रयोजकत्वमुच्यत इत्यतो आह॥ भगवदिति ।
‘रस्याः स्निग्धाः स्थिराः’इत्याहाराणां किन्नाम स्थिरत्वं, केषां चोच्यत इत्यत आह॥ स्थिरा इति॥ बहुकालं गुणप्रदा इत्यर्थः । कट्वाम्ललवणेति कटूवादीनां यद्राजसत्वमुक्तं तन्न नियतं, कदाचित् सात्त्विकत्वमपि स्यादित्याह॥ कटूवादीनामिति॥ रसो रसायनम् । एवं रस्याः स्थिग्धाः स्थिरा हृद्या इति सात्त्विकत्वेनोक्तानां रस्यादीनां सात्त्विकत्वं न नियतं, कदाचित् राजसत्त्वमपि भवतीत्याह॥ रस्येति॥ कटूवादीनां राजसत्त्वनियमः किं न स्यात् कदाचित्सात्त्विकत्वं कुत इत्यत आह॥ दुखेःति॥ दुःखादिप्रदाश्चेत् राजसा इत्युक्तत्वादारोग्यादिहेतुत्वे कटूवादीनां सात्त्विकत्वावगतेर्न राजसत्त्वनियम इत्यर्थः । रस्यादीनां सात्त्विकत्वानियमे चायुःसत्त्वेत्याद्युदाहर्तव्यम् । बलशब्दात् सत्त्वशब्दस्यानतिभिन्नार्थत्वात् पुनरुक्तिरित्यत आह॥ सत्त्वमिति॥
नात्रायं सत्त्वशब्दार्थः साधुभावः । तस्यान्नोत्पन्नत्वाभावादित्यत आह॥ भवतीति॥ ‘सुखप्रीतिविवर्धनाः’ ‘हृद्य’इति शब्दस्यैकार्थत्वप्रतीति निरासायाह॥ हृद्यमिति॥ सेवानन्तरमपि यत्पुर्भूयादिति मनो हरति तद् हृद्यम् । उपयोगकाल एव सौख्यप्रदं प्रियम् । सकृदुपयुक्तं दीर्घकालं सुखं ददत् सुखदम् । बहुवारोपभोग एव सौख्यदं रस्यमित्यर्थः॥ ८॥ रूक्षशब्दस्यानेकार्थत्वादत्र विवक्षितमर्थमाह॥ रूक्षमिति॥ अन्नस्य तीक्ष्णत्वं घटयन्नाह॥ तीक्ष्णमिति॥ ९॥ पङ्क्तिपावनपुरुषशेषान्नस्य सात्त्विकत्वप्रसिद्धेः कथं यातयामं तामसमित्यतः प्रकारान्तरेण प्रमाणत एव व्याचष्टे॥ यामेति॥ यामं याम्यं नियम्यम् अपेक्षितांशः सार इति यावत् । तर्हि गतरसमिति पुनरुक्तिरित्यत आह॥ पुर्वमिति॥ यो वा को वा यस्य रसस्तदपगमे यातयामं, स्वदुत्वापगमे गतरसमित्यर्थभेद इति भावः । रूक्षशब्देन राजसतयोक्तनीरसस्य कथं तामसत्वमुच्यत इत्यतो वाऽह॥ पूर्वमिति॥ स्वत एव नीरसं रूक्षम्, पूर्व स्वद्वेव पश्चादन्यथा जातं गतरसमित्यदोष इति भावः । अपगतस्वदुत्वं तामसत्त्वमिति दुर्गमम् । एकस्यैव वस्तुनः पुरुषभेदेन स्वादुत्वास्वादुत्वसम्भवेन स्वाद्वादेरनिश्चयादित्यत आह॥ शुद्धेति॥ यदुक्तं राजसयजनेन साङ्कल्पिकः स्वर्ग एवेति तन्न युज्यते । ‘अभिसन्धाय तु फलं’इति तत्र फलाभिसन्धिना प्रवृत्तेः, राजसयागेन इन्द्रादिदेवलोकः स्वर्गो भवतीति क्वचिद्वचनाच्चेत्याशङ्कां स्मृत्यन्तरेण परिहरति॥ यागादिति॥ स्वर्गाभिसन्धानात्तत्र प्रवृत्तेः कथं तदभाव इत्यत आह॥ विष्णाविति॥ स्वर्गकामनेन प्रत्युत नरक एव भवति, न स्वर्गः । तेषां विष्णावश्रद्धासद्भावेन स्वर्गयोग्यानां तत्कामस्यायोग्यत्वादिति भावः । राजसानां सकामयज्ञाभावेऽपि नरकसद्भावात् कथमयोग्यकामादि तत्कारणमित्यत आह॥ विनेति॥ क्वचिन्नरकदर्शनस्य गतिमाह॥ निषिद्धमिति॥ अत्र नरकलोकप्रचुरत्वोक्त्या राजसोषु मध्यमा विवक्षिताः न तु नित्यत्रैविद्या इति ज्ञातव्यम् । यदि राजसकर्मणा नरकः स्यात्तर्हि सात्त्विकानामपि तत्करणसम्भवात् नरकप्राप्तिः स्तादित्यत आह॥ कदाचिदिति॥ यद्यपि सात्त्विका राजसतामसे, राजसाः सात्त्विकतामसे, तामसाश्च सात्त्विकराजसे कर्मणी यद्यपि कुर्वन्ति । तथापि तत्कादाचिदेव । स्वाभाविककर्मण्येव प्राधान्येन स्थितिः । महता चाल्पाभिभव इति न फलसङ्कर इति भावः । स्वाभाविकं महाफमस्वाभाविकम् अल्पफलमित्यतोऽपि स्वाभाविकेनान्याभिभवसम्भवान्न फलसङ्कर इत्याह॥ स्वमिति॥ यदि सात्त्विकादीनां स्वाभाविकास्वाभाविककर्मकरणं स्यात्तर्हि इदं स्वाभाविकं कर्म, इदं नेति कथं ज्ञायत इत्यत आह॥ बाहुल्यमिति॥ स्वाभाविकादिकर्मसु यद् बहुलं तत् स्वाभाविकम्, अल्पमस्वाभाविकमिति बाहुल्यादिज्ञापकमिति भावः॥ १०-१५॥
‘मनःप्रसादः सौम्यत्वं मौनं’ इत्यत्र मौनशब्दस्यान्यर्थत्वप्रतीति निरासायाह॥ मौनमिति॥ कथम्मन्यथा मानसं तपः स्यादिति भावः । ‘अफलाकाङ्क्षिभिर्युक्तैः’ इत्यत्र युक्तत्वं नाम किमित्यत आह॥ युक्तैरिति॥ ननु सात्त्विकयज्ञदानयोर्भगवदर्पणमनुक्त्वा तपस्येव किमुच्यत इत्यत आह॥ युक्तैरिति॥ न केवलं तपस्येवैतदुच्यते किन्तु यज्ञदानतपस्स्वपि एतदनुषञ्जनीयमिति भावः ।
‘ओन्तत्सदिति निर्देशः’ इत्येतद्वाक्यान्तरेण व्याख्यातम् । तद्वाक्यविवरणेनैतद्वाक्यं विवृणोति॥ १६-२२॥ सदिति॥ ततश्च किमित्यत आह॥ ओमिति॥ कर्मादीनां सत्सम्बन्धित्वादेव हि सत्त्वम् । तच्च पदं ब्रह्मैव । ओन्तत्सदिति नाम्नां विष्णौ प्रसिद्धत्वात् । अतो विष्णुसम्बन्ध्येव कर्मादि सदिति भावः । अनेन ‘ॐ तत्सदिति यद्विष्णोः’ इति विवृतं भवति । अनोङ्कृतं ह्यासुरं स्यात् इत्यनोङ्कृतस्यासुरत्वप्रसिद्धिः तदुच्चारणे हेतुतयोक्ता । काऽसावित्यतो वैदिकीत्याह॥ स्रवतीति॥ ‘ओङ्कृतं त्वपि’इत्युक्तार्थे श्रुतिं चाऽह॥ अनर्थज्ञेति॥ निरर्थो निष्प्रयोजनः । कुतः? यस्मादर्थज्ञानत एव ज्ञातारं त्राति तेन हि मन्त्रः कथितः । नन्वस्मिन्नध्याये सदसत्कर्मविवेखः कार्यः । तं विहाय ॐ तत्सदित्यादिना किमुच्यत इत्यतोऽभिप्रायमाह॥ तदर्थत्वेनेति॥ अत्र ह्योङ्करार्थस्मरणपूर्वकं तमुच्चार्य भक्त्या भगवदर्थत्वेन निष्कामतया कृतमेव
कर्म सात्त्विकमन्यद्राजसादीत्युच्यते । ततश्चैतादृशमेव सत्कर्म अन्यदसत्कर्मेति सदसत्कर्म विविच्योक्तमेवेति भावः । न च वाच्यमत्रैवंविधकर्मणः सत्त्वमन्यस्यासत्त्वं स्वयमेवोच्यत इति । अन्यथा प्रसङ्गाननुगुणत्वप्रसङ्गेन सदादिशब्दस्य सात्त्विकाद्यर्थत्वात् । एतेन ‘अफलाकाङ्क्षिभिः’ इत्यादेरप्येवमेवाध्यायसङ्गतिः सूचिता भवति ।
ननु ‘कर्म चैव तदर्थोऽयं’ इति सात्त्विकं कर्मोक्त्वा राजसमनभिधाय ‘अश्रद्धया हुतं’ इति तामसमेव किमुच्यत इत्यत आह॥ राजसस्येति॥ नात्र तामसमेवासच्छब्देनोच्यते अपि तु राजसमपीति भावः । तकुत इत्यतोऽश्रद्धयेत्युक्तासल्लक्षणस्य राजसेऽपि भावादित्याह॥ विष्णिवति॥ ‘न च तत्प्रेत्य नो इह’ इति यद्राजसतामसकर्मणोः फलमुक्तं तद्विविच्य स्मृत्या दर्शयति॥ सात्त्विकमिति॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां सप्तदशोऽध्यायः॥ १७॥
॥ अथ अष्टादशोऽध्यायः॥
हरिः ॐ॥ एतदध्यायप्रतिपाद्यमर्थं दर्शयति॥ सर्वेति॥ यत्सर्वेष्वध्यायेषु विप्रकीर्णतया पुरुषार्थसाधनमुक्तं तन्मन्दानां बुद्ध्यारोहार्थं सङ्क्षेपेणास्मिन्नध्याये निरूप्यते । चतुर्दशाद्यनुक्तं त्रैगुण्यं चोच्यत इत्यर्थः॥ १-२॥
‘सर्वकर्मफलत्यागं’ इति स्वोक्तत्यागस्वरूपावधारणाय प्रातीतिकी विद्वन्मतविप्रतिपत्तिरुद्भाव्यते-‘त्याज्यम्’ इति । अत्र यज्ञदानतपःकर्म न त्याज्यं, कार्यमेव तदिति भगवन्मतविरोधित्वात् त्याज्यं दोषवदिति त्यागपक्षिणो निन्द्या इत्यन्यथाप्रतीतिनिरासायाह॥ मनीषिण इति॥ अत इति॥ ‘कार्यमित्येव वत्कर्म’ इत्यत्र यथा कर्मणि सङ्गफलत्यागेन कर्मत्यागो वर्ण्यते, न तु कर्मस्वरूपत्यागेन, तथा त्याज्यमित्येतदर्थो वर्णयितुं शक्यते । अतो न तस्य भगवन्मतविरोधः । कुतोऽर्थान्तरकल्पनेति चेत् मनीषिण इत्युक्तत्वादेवेति भावः॥ ३-४॥
निश्चयं श्रृण्विति प्रतिज्ञातमुच्यते-यज्ञेति । तत्र ज्योतिष्टोमादियज्ञेषु हिरण्यादिदानेषु यतीनां शूद्रादीनां चाधिकाराभावात् ऊर्ध्वरेतस्त्वादितपस्सु गृहस्थादीनाम् अधिकाराभावात् कथं सर्वेषां यज्ञादिविधीयत इत्यत आह॥ द्रव्येति॥ नात्र सर्वेषां ज्योतिष्टोमादियज्ञः, हिरण्यादिदानानि, ऊर्ध्वरेतस्त्वादितपांस्येव विधीयन्ते, किन्तु द्रव्ययज्ञादियज्ञाः, विदायादिदानानि, सत्यवचनादितपांसि । तेषां च यत्यादीनामप्युचितत्वात् युक्तं सर्वेषां तद्विधिरिति भावः । ‘नाग्निर्न यज्ञः’ इत्यादेः त्रिवर्णबाह्यानां न क्वापि यज्ञेऽधिकार इत्यत आह॥ विष्ण्विति॥ द्रव्यादियज्ञाभावेऽपि तेषां स्वाध्याययज्ञेऽधिकारोऽस्त्येव । न च वेदानधिकारेण तदभावः । विष्णुनामस्वाध्याययज्ञेऽधिकारसम्भवादिति भावः । तेषां किं तप इत्यत आह॥ सत्येति॥ ५-६॥
‘त्यागो हि’ इत्युक्तं प्रपञ्च्यते-‘नियतस्य’ इति । तत्र कर्मत्यागस्य स्वयमेव स्तूयमानत्वात् कथं मोहनिमित्तत्वमुच्यत इत्यत आह॥ सङ्गेति॥ स्वरूपत्यागस्यापि मोहनिमित्तत्वं कुतः? योनायमर्थः स्यादित्यत आह॥ स्वेति॥ ननु पुरुषार्थसाधने।पि कर्मणि दुःखसाधनमिति मिथ्याज्ञानेन तत्स्वरूपपरित्यागस्य राजसत्वकथनात् कथं तामसत्वमित्यत आह॥ मोहमिति॥ नोहं विनेति॥ परत्रापीदं दुःखसाधनमिति मिथ्याज्ञानं विनेत्यर्थः । दुःखशब्देन शरीरायास उच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ दुःखेति॥ केवलमिति॥ शरीरायासद्वारा प्राप्तं न चेत्यर्थः । शरीरायास एवार्थः किं न स्यादित्यत आह॥ कार्येति॥ न केवलमन्यथा पुनरुक्तिप्रसङ्गादत्र दुःखशब्दो मानसदुःखार्थः । किन्तु तथा वचनाच्चेत्याह॥ दुःखमिति॥ अर्थविशेषविवक्षायामेवं ज्ञेयम् । तदभावे द्वयमपि शब्दद्वयेनोच्यत इति भावः॥ ८-९॥
सात्त्विकत्यागी पुनर्निरूप्यते-’ न द्वेष्टि’ इति । तत्र कथं सात्त्विकत्यागिनोऽकुशलकर्माद्वेषः कुशलकर्मासङ्गश्चोच्यते । ‘कार्यमित्येव’ इत्युक्तिविरोधादित्यतः प्रमाणान्तरेण तद्व्याचष्टे॥ न द्वेष्टीति॥ पुण्य इति॥ तत्फल इति यावत्॥ तमेव स्तौति॥ य इति॥ सम्यगित्यनेन मोधावीत्याद्युक्तार्थं भवति । तदर्पणेनेत्यनेन त्यागीत्युक्तार्थं स्यात् । तस्येत्यनेनानिष्टमित्यस्य तात्पर्यमुक्तं भवति । किं तस्य सर्वथा बन्धकं कर्म न बन्धाय भवतीत्यत आह॥ बहुलं चेदिति॥ बहुलं चेत् सर्वत्यागिनामप्यत्यल्पदोषकरं कियत्पर्यन्तमित्यत आह॥ यावदिति॥ १०-११॥
‘अनिष्टमिष्टं मिश्रं च’ इत्यत्र बन्धकं कर्मफलं त्यागिन इष्टमित्यन्यथाप्रतीतिनिरासायाह॥ अन्येषामिति॥ त्यागिन एवेष्टं किं न स्यादित्यत आह॥ अस्येति॥ न त्यागिनो बन्धकं कर्मफलमिष्टम् । त्यागित्वादेव ‘यस्तु कर्मफलत्यागी’ इति कर्मफलेच्छात्यागिन एव त्यागित्वेनोक्तत्वादिति भावः । भवेदेवं यदि ‘अनिष्टमिष्टं मिश्रं च’ इत्यत्र बन्धककर्मफलं विवक्षितं स्यात् । न चैवमबन्धककर्मफलस्यापि ग्रहणे बाधकाभावादित्यतस्त्यागिनो बन्धककर्मफलस्यैवाभावेऽत्यागिनो
बन्धककर्मफलभावे प्रमाणमाह॥ ज्ञानादेरिति॥ त्यागिमात्रस्य ज्ञानभक्त्यादेः । तस्यैवापरोक्षतस्तत्त्वसंवेत्तुः मोक्षभोग्यानन्दातिशयात् । तदृते ज्ञानादिकमृते । अनेन ‘भवत्यत्यागिनां’ इत्युक्तार्थं भवति । भवत्यत्यागिनां प्रेत्य न तु त्यागिनामित्यत्यागिनां प्रतियोगित्वेन त्यागिन एव वक्तव्याः । सन्न्यासिनस्तु किमित्युच्यन्त इत्यत आह॥ केवलेति॥ अत्यागिप्रतियोगितया सन्न्यासिकथनं नानुपपन्नम् । स्वार्थे फलेच्छाभावेऽपि परोपकारार्थं कारीर्यादिकेवलकाम्यकर्मकरणस्ति त्यागिनाम् । तदपि न्यासिनां नास्तीत्येतावन्मात्रविशेषवत्त्वात् त्यागिभ्यो विशेषो न्यासिनामित्यर्थः । एतावानेव चेद्विशेषः तत् किं तयो- साम्यम्? येन त्यागिषु वक्तव्येषु न्यासिनामुक्तिरित्यत आह॥ त्यागित्वमिति॥ कर्मफलेच्छाभावो द्वयोरपि सम इत्यर्थः । त्यागिभ्यो न्यासिनामुक्त एव विशेष इत्येतत् कुत इत्यत आह॥ परेति॥ १२॥
कर्मण्यभिमानत्यागोऽपि सन्न्यास इति भावेन कर्मकारणान्युच्यन्ते-‘पञ्च’ इति । तत्र साङ्ख्यकृतान्तपदेन परमसाङ्ख्यसिद्धान्त एवोच्यते, न तु प्रसिद्धसाङ्ख्यमेव । अत्र दैवशब्देनेश्वरस्य गृहीतत्वात् परमसाङ्ख्यस्य च सेश्वरत्वात् प्रसिद्धसाङ्ख्यस्य निसीश्वरत्वात्, तथा परमसाङ्ख्यस्य वैदिकत्वेनात्रोपादानसम्भवात् अन्यस्यावैदिकत्वेन तदसम्भवादिति भावेन तयोः सेश्वरत्वादौ प्रमाणमाह॥ कथितमिति॥ १३॥
अधिष्ठानपदस्यात्र विवक्षितमर्थमाह॥ अधिष्ठानमिति॥ १४-१६॥
तज्ज्ञानं स्तूयते-‘यस्य’ इति । एतच्च सर्वानहङ्कारादिमतां सममित्यन्यथाप्रतीतिनिरासाय वचनान्तरेणैव व्याचष्टे॥ स्वातन्त्र्यमिति॥ आत्मन् आत्मनि॥ लक्षम्यादेश्च स्वातन्त्र्यं वेत्तीत्यनुषज्यते । तदर्थं लोकहननार्थम् । तदर्थं जातत्वेनैवालं, किमीश्वरस्यातन्त्र्यादिज्ञानेनेत्यत आह॥ अज्ञ इति॥ लोकान् हन्ति चेदिति शेषः । तर्हि ज्ञानेनैवालं, किं तदर्थं जातत्वेनेत्यतः परोक्षापरोक्षज्ञानिनोरपि तदर्थमजातयोर्लोकहनेन विभागेन बाधकामह॥ अपरोक्षेति॥ परोक्षज्ञस्तदर्थजातो यदि लोकान् हन्ति तर्हि किञ्चिद्दोषेण लिप्यत इत्यर्थः । अपरोक्षेत्युक्त्या ज्ञानं चापरोक्षमपेक्षैतमिति सूचितम् । परोत्रआनेन तदर्थं जातत्वेनैवालं, किमपरोक्षज्ञानेनेत्यतो वाऽऽह॥ परोक्षेति॥ अत्र तदर्थं जातैति ग्राह्यम् । ननु सर्वोषामप्यस्वतन्त्रत्वेनाहन्तृत्वात् अस्यैव न हन्तीति किं विशिष्योच्यत इत्यत आह॥ अस्वातन्त्र्येति॥ भावोऽस्य नास्तीत्यन्यस्य भावोऽस्तीति हेतोर्न हन्तीति विशेषो युक्त इति योज्यम् । न हन्तीत्युच्यत इत्यतो न पौनरुक्त्यम् । ननु बुद्धेरलोपो नाम स्वातन्त्र्याभिमानपरित्यागः । अतः पुनरुक्तिरित्यत आह॥ बुद्धिरिति॥ भवेदेवं, ‘यस्य नाहङ्कृतो भावो’ ‘बुद्धिर्यस्य न लिप्यते’ इत्यनयोरर्थभेदो यदि स्वातन्त्र्याभिमानफलरागयोरुभयोरपि बन्धकत्वं स्यात् । तदेव कुत इत्यत आह॥ स्वातन्त्र्यमिति॥ १७॥
‘दैवं चैव’ इतीश्वरस्य कर्मसु प्रेरकत्वमुक्तम् । तत्प्रेरणास्वरूपं निरूप्यते-‘ज्ञानम्’ इति । तत्स्मृत्योपपादयति॥ सम्प्रेरयितुरिति॥ प्रेरणाया भगवद्धर्मत्वात् कथं ज्ञातृत्वादीत्यत आह॥ सेति॥ प्रेरणाया ज्ञानादिरूपभगवत्स्वरूपत्वेन तथात्वमुपपद्यत इत्यर्थः । प्रेरणायास्तदा तदा जायमासायाः कथं भगवत्स्वरूपत्वमित्यत आह॥ स्वरूपेणेति॥ न प्रेरणा तदा तदोत्पद्यते॥ किन्तु भगवत्स्वरूपतया सर्वदा विद्यमानैव व्यक्तिरूपेण जायते । अतो भगवत्स्वरूपत्वमुपपन्नमिति भावः ।
योऽय प्रेरणाया व्यक्तिरूपो विशेषः सोऽपि नानित्य इति शङ्कनीयम् । तस्य नित्यप्रेरणारूपत्वेन सदा विद्यमानस्यैव विशेषतो जायमानत्वादित्याह॥ विशेषोऽपीति॥ एवं विशेषस्यापि विशेषस्तस्यापीत्यनवस्था स्यादित्यत आह॥ स्वनिर्वाहकतेति॥ भवेदनवस्था, यदि प्रेरणाया भिन्नो विशेषस्तस्यापि तथेत्यङ्गीक्रियते । न चैवम् । सा प्रेरणा स्वरूपमेव स्वात्मानं विशेषतया विशेषितया निर्वहति । स विशेषोऽप्येवमित्यङ्गीकारादित्यर्थः । एतद् दृष्टान्तेनोपपादयति॥ विशिष्टवदिति॥ तदेव विवृणोति॥ विशेष्यस्येति॥ अस्ति तावद् विशेष्यविशिष्टयोरविप्रतिपन्नोऽभेदः । धर्मधर्मिभेदवादिनाऽपि तस्याङ्गीकृतत्वात् । न च विशेष्यविशिष्टयोर्निर्विशेषाभेदः । तथासति ज्ञातृदेवदत्तशभ्दयोः पर्यायत्वापत्तेः । न चैवं विशेष्यस्यापि विशेषाङ्गीकारेणानवस्थाऽस्ति । विशेष्यवस्तुनस्तद्विशेषाणां च स्वनिर्वाहकत्वात् । एवं ईश्वरप्रेरणाया विशेषस्तस्यापि विशेष इत्यङ्गीकारे न कश्चिद्दोष इति भावः । भवेदेतद्विशेष्यविशिष्टयोरभेदसिद्धौ, स एव कुत इत्यत आह॥ ज्ञातुरिति॥ विशेष्यविशिष्टयोर्भेदानुभवाभावात् अभेदानुभवसद्भावाच्च न भेद इति भावः । विशेष्यविशिष्टयोरभेदेऽनुभवान्तरं च दर्शयति॥ पश्यामीति॥ म इति विशेष्यमुच्यते । विशेषः समुत्थित इति तस्यैव विशिष्टत्वम् ।
विशेषणयुक्तं विशिष्टम् । तद्विशेषणं निरूपयति॥ विशेषुणमिति॥ विशेषाख्यं यथा ‘यस्तुनोऽस्तित्वं’, फलस्य नीलत्वम्’
इति । इतहदत्यन्तभिन्नं दण्डादि । तदुभयमपि विशेषणमिति कस्मादुच्यत इत्यत आह॥ विशेषमिति॥ अणयेत् गमयेत् । ननु दण्डादिविशेषणं वस्तुनि दण्डत्वादिविशेषं गमयति, विशेषः किं गमयेदित्यत आह॥ विशेषेति॥
पूर्वोक्तकर्मकारणानि सङ्क्षिप्यत्रोच्यन्ते-‘करणं’ इति । तत्र कर्मसङ्ग्रहकथनं क्वोपयुज्यत इत्यतस्तदनूद्य मध्यमपदलोपिसमासोऽयमिति भावेन व्याचष्टे॥ सङ्ग्रह इति॥ कथमधिष्ठानादिपञ्चकस्य करणादित्रित्वमित्यत आह॥ अधिष्ठानस्येति॥ ननु पूर्वानुक्तकर्मणोऽत्र कथनात् कथं तेषामयं सङ्क्षेपः स्यादित्यत आह॥ कर्मेति॥ १८॥
सात्त्विकज्ञानादिसाधनानुष्ठानाय गुणभेदा उच्यन्ते-‘ज्ञानम्’ इति । तत्र, गुणाः सङ्ख्यायन्तेऽस्मिन्निति गुणसङ्ख्यानपदेन प्रसिद्धसाङ्ख्यशास्त्रमुच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ एवमिति॥ प्रसिद्धसाङ्ख्यशास्त्रमेवात्र किं न स्यादित्यत एवमित्युक्तम् । एवं सर्वगतस्येश्वरस्य सर्वतो भेदादिविषयं ज्ञानं सात्त्विकमित्यादि गुणसङ्ख्याने प्रोच्यत इति ह्यत्रोच्यते । तच्च परमसाङ्ख्यशास्त्रग्रहण एवोपपद्यते, न निरीश्वरसाङ्ख्यग्रहण इति भावः॥ १९॥
तत्र प्रतिज्ञातं ज्ञानत्रैविध्यमुच्यते-‘सर्व’ इति । तदप्रतीत्यादि निरासाय स्मृत्यैव व्याचष्टे॥ अस्तित्वादिति॥ पृथक्त्वेनेत्यन्तेन सर्वभूतेष्विति सप्तम्या अभिप्रायोऽप्युक्तो भवति । विष्णोरित्यादिना अविभक्तमित्युक्तार्थं भवति । तारतम्येनेत्यनेन विभक्तेष्विति द्वेधा व्याख्यातं भवति । अथ भूतशब्देन भवतीति जडं चोच्यत इत्यभिप्तेत्य विभक्तेष्वित्यस्यार्थ उच्यते॥ जडेभ्य इति॥ तेभ्यो जडेभ्य इत्यनेन सप्तम्यर्थ उक्तो भवति॥ सम्यगिति॥ विष्णुः सर्वोत्तमः जीवास्तदधीनज्ञानादिमन्तः, जडं तद्रहितमित्यतो विष्ण्वादीनां भेद इत्यर्थः । अनेनैकमित्युक्ताभिप्रायं भवति॥ २०॥
विष्णोरित्यनेन पृथक्त्वेनेत्युक्ततात्पर्यं भवति । सात्त्विकज्ञानस्यापि विष्णोरन्यथ्र यथार्थत्वेनोक्तत्वात् कथं राजसत्वमस्य स्यादित्यत आह॥ यदीति॥ मिश्रतत्त्ववित् सन्दिग्धतया भगवत्स्वरूपं जानन्नित्यर्थः । अन्यथेत्यनेन यत्त्वित्युक्तार्थं भवति । यत्किञ्चिदेकं कृत्स्नं जानातीति चादौ द्रष्टव्यम् । जानातीत्यन्तेन कार्ये कृत्स्नवत् सक्तमित्यस्य तात्पर्यमुक्तं भवति ।
कृत्स्नमकार्यत्वादिगुणपूर्णं ब्रह्म यथा विषयीकरोति ब्रह्मेति तथेत्यर्थः । स एवेत्यनेन कार्ये कृत्स्नयत् सक्तमित्यस्य कृत्स्नपदमखिलजगद्विषयमङ्गीकृत्य अर्तान्तरमुक्तं भवति । एकेत्यनेन एकस्मिन् कार्ये कृत्स्नवत्सक्तमित्युक्ततात्पर्यं भवति । युक्तीत्वनेनाहैतुकमित्यस्य युक्तिराहित्यच्च तथा मन्यत इत्यर्थः । अल्पेत्यनेनाल्पमित्युक्तार्थं भवति । अल्पसम्यग्ज्ञानं इत्यर्थः । भ्रान्तस्याप्यधिष्ठानादि विषयसम्बग्ज्ञानवत्त्वात् । अतत्त्वार्थमित्यनेनातत्त्वार्थवदित्युक्तार्थं भवति । यथावस्थिताकाराद् विपरीताकारमित्यर्थः । तत्त्वार्थज्ञानवर्जनादिति॥ यथास्थिताकारज्ञानाभावादित्यर्थः ।
ननु सर्वेषु भूतेषु पृथक्तेवेन यज्ज्ञानमित्येतदेव नानाभावान् पृथग्विधानित्युच्यते । अतः पुनरुक्तिदेष इत्यत आह॥ पृथक्त्वेनेति॥ व्याख्यानव्याख्येयभावात् न पुनरुक्तिदेष इति भावः । ननु सर्वेषु भूतेषु पृथक्त्वाज्ञानविषयस्य सात्त्विकत्वेनोक्तत्वात् कथं राजसत्वमत्रोच्यत इत्यत आह॥ सर्वेति॥ न केवलं सर्वेषु भूतेषु पृथक्त्वविषयं सात्त्विकज्ञानमुक्तम् । किन्तु तद्गतेश्वरमपृथक्त्वेन सर्वोत्तमत्वेन च विषयीकुर्वत् । तदभावाद्भूतेषु पृथक्त्वविषयत्वेऽप्यस्य राज्ञसत्वं युक्तमिति भावः । अनेन यदीति स्मृतिर्विवृता भवति ।
‘यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तं ज्ञानं तदहैतुकं, अतत्त्वार्थवदल्पसज्ज्ञानयुक्तम्’ इति नियतमेवातः तदुक्तौ पुनरुक्तिरित्यत उक्तं विवृण्वन्नाह॥ एकस्येति॥ यस्य कस्यचिदेकस्य नास्तीत्यन्तमुक्तार्थःविवरणम् । न पूर्वोक्तस्यैवाहैतुकत्वादिविशेषणानि विधीयन्ते, येन पुनरुक्तिः स्यात् । किन्त्वहैतुकत्वादीनां स्वयमेव तामसानामुक्तविशेषणयोगितया अतितामसत्वज्ञापनाय उक्तविशेषणान्युच्यन्त इति भावः । सदसद्वैलक्षण्याद्यविद्यमानाकारकल्पनायुक्तमित्यर्थः । एवमेषां पदानां सामानाधिकरण्यमङ्गीकृत्यैव पुनरुक्तिं परिहृत्यानेकाधिकरण तयाऽपि तां परिहरति॥ एकस्मिन्निति॥ कार्ये सर्वं जगदिति, सक्तमेकस्मिन् कार्ये सर्वं जगदिति चैतानि पदानि योज्यानीति वा न पुनरुक्तिरिति सम्यद्ध्यते । नन्वेवंविधज्ञानस्य क्वाप्यभावात् तस्य तामसत्वकथनं कथम्मित्यत आह॥ मायेति॥ २१-२२॥
गुणभेदेन कर्मत्रैविध्यमुच्यते-‘नियतं’ इति । तत्र नियतपदेन स्ववर्णाश्रमोचितमात्रमुच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ मयीति॥ विष्णोः सर्वोत्तमत्वज्ञानपूर्वकं तद्भक्त्या तदर्पणबुद्ध्या क्रियमाणमेव कर्म नियतमित्यत्रोच्यते । न तु स्ववर्णाश्रमोचितत्वमात्रम् । कुतः? ‘मयि सर्वाणि कर्माणि’ इति भगवत्सर्वोत्तमत्वज्ञानपुर्वकं तदर्पणबुद्ध्या कर्मकरणं विधाय ‘ये मे मतमिदम्’ इति तस्य मोक्षाधनत्वोक्तेः । ‘ये त्वेतत्’ इति तदकरणे प्रत्यवायस्य चोक्तेः । यत्करणे फलप्राप्तिः, यदकरणे प्रत्यवायः तस्यैव नियतत्वादिति भावः । भवतु भगवदर्पणबुद्ध्य क्रियमाणं कर्म नियतम् । तस्य भगवत्सर्वोत्तमत्वज्ञानादिपूर्वकत्वं कुतः मयि सर्वाणि कर्माणि इत्यत्र तदनुक्तेरित्यत आह॥ अध्यात्मेति॥ सर्वाधिके परमात्मनि चेतः अध्यात्मचेतः । अपेक्षिततया ज्ञायत इति सम्बद्ध्यते । भवेदेतत्, यद्यध्यात्मचेतसेति पदं भगवत्सर्वोत्तमत्वज्ञानार्थं स्यात् । तदेव कुत इत्यत आह॥ ये त्विति॥ मयि सर्वाणि इति श्लोकार्थानुवादरूपे ये तु सर्वाणि इत्यन्मिन् श्लोकेऽध्यात्मचेतसेति पदस्य ‘मत्पराः’ इत्यादिना भगवत्सर्वोत्तमत्वज्ञानतत्स्मरणाद्यर्थतया व्यख्यातत्वात् भवेदेवैतत्पदं तदर्थमिति भावः । अहं परः सर्वोत्तमो येषां ते मत्पराः । न च वाच्यमेतच्छ्लोकस्य तच्छ्लोकानुवादरूपत्वं कुत इति । ‘एवं सततयुक्ता ये ’ इत्यर्जुनेन प्रागुक्तप्रकारानुवादेन पृष्टस्य भगवतस्तथैव परिहारोक्तेर्युक्तत्वात् । समाख्यावशाच्च एतच्छ्लोकार्थानुवादित्वं विज्ञायते । किमेतन्नियतत्वं कर्मण एव सात्त्विकत्वे प्रयोजकमुत ज्ञानादीनामपीत्यत आह॥ एवमिति॥ भगवदर्पणादिकं चात्र द्रष्टव्यम्॥ २३-२५॥
गुणभेदतः कर्तुस्त्रैविध्मुच्यते- ‘मुक्त ’ इति । तत्र कर्ता चेदनहंवादीति कथमित्यत आह॥ सर्वस्येति॥ कर्ताऽप्यहमेव कर्तेति सात्त्विको न वदति । तेन स्वकर्तृत्वादेः सर्वस्य भगवदधीनतया निश्चितत्वादित्यर्थः॥ २६-२७॥
ननु सात्त्विकस्यापि प्रकाकृतत्वदीर्घसूत्रित्वयोः सद्भावात् कथं तत्तामसस्यैवोच्यत इत्यतः तत्पदद्वयस्यार्थं स्मृत्यैव दर्शयति॥ भगवदिति॥ स्मरन्निति । चिन्तयन्नित्यर्थः । पश्चात् कुर्यामिति चिन्तनं सात्त्विकेऽपि सममित्यत आह॥ प्राप्तेति॥ यस्य कर्मणो यः कालो विहितः तस्मिन् काले प्राप्तेऽपि पश्चात् कुर्यामिति चिन्तयन् दीर्घसूत्रीत्यर्थः । अनेन अलसादप्यस्य वैलक्षण्यं सूचितम् । सः प्राप्तकालं कर्म उदास्त एवेति । नन्वेवं चेद्दीर्घसूत्रितः स्तब्धादीनां उत्कृष्टत्वात् कथं तामसतया गणनमित्यतः गणनमित्यतः प्रमाणवाक्येनैव तामसेष्वेव तान् विभज्याह॥ अलस इति॥ अयुक्तो भगवदर्पणादियोगरहितः । स्तब्धो नाम आत्मसम्भावनया क्वाप्यनतः । नैकृतिको नीचकर्मा । शठो गूढद्वेषी । त्रिविधतामसानां फलमाह॥ दुर्नरत्वमिति॥ २९-३०॥
‘बुद्धेः ’ इति प्रतिज्ञातमुच्यते- ‘प्रवृत्तिं ’ इति । तत्र ‘यया दर्ममधर्मं ’ इत्युक्तद्ध्योरेकप्रकारत्वात् कथं राजसतामसत्वमित्यतः तद्विभागं वाक्यान्तरेण दर्शयति॥ किञ्चिदिति॥ अनेन ‘अयथावत् ’ इति नियमेन यथावन्नेत्युक्तं भवति । ‘योगेन ’ इति उपायबलेनेत्यल्पार्थप्रतीतिनिरासाय तद् वाक्यान्तरेण व्याचष्टे॥ वैष्णव इति॥ अनेन योगेन युक्त्येति पूरितं भवति । धृतिश्चेद् व्यभिचारशून्यैवातोऽव्यभिचारिण्येति विशिष्यास्या एव किमुच्यत इत्यत आह॥ विहितेति॥ न
चात्राव्यभिचारित्वमस्खलितत्वमिति भावः । यया स्वप्नमित्युक्तमात्रं यया न मुञ्चति सा तामसीति प्रतीतिनिरासायाह॥ स्वप्नमिति॥ सर्वनिषिद्धं भगवद्द्वेषादि । भगवद्द्वेषादेः वृद्धानिषिद्धत्वेन तामसत्वात् तद्विषयधृतेरपि तामसत्वमिति भावः । वृद्धनिषिद्धत्वेऽपि कुतस्तामसत्वमित्यत आह॥ तदिति॥ ननु भगवद्द्वेषादेः कैश्चन वृद्धैर्विहितत्वात् कथं तन्निन्दितत्वमित्यत आह॥ महात्मान इति॥ ये भगवद्द्वेषादिविधायका न ते वृद्धाः, किन्तु भगवन्तं भजन्त एव । तथोक्तत्वादित्यर्थः॥ ३५-३६॥
‘सुखं ’ इति प्रतिज्ञातमुच्यते- ‘अभ्यासात् ’ इति । तत्र ‘आत्मबुद्धिप्रसादजं ’ इत्यस्य स्वमनःप्रसादजमित्यन्यथाप्रतीतिनिरासाय स्मृत्यैवार्थमाह॥ विष्णोरिति॥ जातमिति शेषः । मनःप्रसादो नाम मनसः स्वतोऽपि प्रायो विषयागति ः॥ ३७-३९॥
सर्वजीवानामपि गुणतस्त्रैविध्यमुच्यते- ‘न तत् ’ इति । तत्र सत्त्वस्यापि गुणविशेषत्वात् कथं गुणबद्धत्वमुच्यत इत्यत आह॥ सत्त्वमिति॥ ननु गुणातीतं सत्त्वं नास्तीत्येतावता पूर्णत्वात् पृथिव्यां दिवीति विशेषोक्तिः किमर्थेत्यत आह॥ मुक्तानामिति॥ मुक्तानां गुणबद्धत्वाभावात् गुणातीतं सत्त्वं नास्तीत्युक्ते तेषामपि तत्प्रसक्तेस्तद्व्यावृत्त्यर्थं पृथिव्यामित्यादिविशेषोक्तिर्युक्तेत्यर्थः ।
‘इमान् लोकान् कामान्नी कामरूप्यनुसञ्चरन् ’ इत्यादेः मुक्ताः नामपि पृथिव्यादौ सञ्चरणात् कथमनेन तद्व्यावृत्तिरित्याशङ्कां परिहरन् वाक्यान्तरेण जीवानुगुणभेदतो बहुधा विभज्य दर्शयति॥ यथेष्टमिति॥ तद्गतदोषसम्बन्धाभावादिति शेषः । अतो भूम्यादिस्था एव गुणबद्धा इत्युक्ते तद्व्यावृत्तिः सिद्ध्यतीति चात्र द्रष्टव्यम् । अमुक्ताः कथं गुणबद्धा इत्यतस्तद्विभज्याह॥ नरेति॥ सात्त्विकराजसतामसास्त्रिविधा जीवाः । तेषु तामसाः त्रिविधाः । त उच्यन्ते- ‘नराधमाः ’ इति । तत्र तामसेषु तामसभेदमुक्त्वा राजसान् सामान्येनाह॥ राजसा इति॥ नरा उत्तमा मध्यमा अधमाश्चेति । तेऽपि त्रिविधाः । तत्र भगवता विप्रादिपुल्कसान्ताः राजससात्त्विकाः । वर्णभेदेन तेष्वप्यनेकविधतामाह॥ तत्रेति॥ तेषु राजससात्त्विकसात्त्विकेषु विप्रेष्वप्याश्रमभेदेन अनेकविधतामाह॥ तत्रस्थेति॥ राजससात्त्विकसात्त्विकेषु शुद्धसात्त्विका
इत्यर्थः । परमहंसाः शिखायज्ञोपवीतहीनाः एकदण्डिनः । यज्ञोपवीतनान् एकदण्डी शिखारहितो हंसः । त्रिदणडी शिखायज्ञोपवीतवान् ग्रामैकरात्रिः बहूदः । त्रिदण्डी शिखायज्ञपवीतवान् यावज्जीवं पुत्रदत्तान्नादः कुटीतकः । अधिकं क्रमादिति सम्बद्ध्यते । तत् परमहंसानामपि समं किमित्यत आह॥ धर्मा इति॥ शमो दम इत्यादौ ब्राह्मकर्मतयोक्ता इत्यर्थः । कर्मबाहुल्याद् हंसादीनां राजसत्वे देवादीनामपि तद्भावाद् राजसत्वं स्यादित्यत आह॥ देवादेरिति॥ कुतो नेत्यत आह॥ न हीति॥ कर्मणि मनश्चलतु मा वा, तथाप्यस्ति तावद् वहुलं कर्म । अतो हंसादिवद्राजसत्वमेव देवादेरित्यत आह॥ अन्येषामिति॥ न हंसादिष्वपि कर्म स्वरूपत एव रजोऽनुमापकम् । किन्तु चित्तचलनहेतुत्वेनैव । देवादिकर्मणस्तु तदभावान्न राजसत्वे लिङ्गत्वमिति भावः । कर्मणः स्वरूपत एव रजोऽनुमापकत्वं किं न स्यादित्यत आह॥ यदीति॥ भगवत्स्मरणहेतुकर्मणः सत्त्वानुमापकत्वदर्शनान्न कर्म स्वरूपत एव राजसत्वानुमापकमिति भावः । अत एव प्रायः स्यादित्युक्तम् ।
परमहंसादर्वाग् गृहस्थान्तानां यत् क्रमेण कर्मबाहुल्यमुक्तं तल्लेशतो विभज्य दर्शयति॥ धर्मेति॥ हंसादिषु कर्मबाहुल्यक्रमोऽनेयतो द्रष्टव्यः । चतुर्विधयतितो ब्रह्मचारिणः समिदादिच्छेदनमग्निपूजा श्राद्धकरणमिति विशेषः । ब्रह्मचारितो गृहस्थस्य दारसङ्ग्रहो विशेषः । अपत्यानुत्पादनं, ग्रामभववस्तुसेवाभावः, पश्वहिंसेति गृहस्थाद् वनस्थस्य विशेष इत्यर्थः र। ग्राम्यसन्त्यागोक्त्या वनस्थस्य ब्रह्मचार्तोऽपि कर्माल्पत्वमुक्तं भवति । इतरत् स्वोचितं यज्ञादि ।
राजससात्त्विकेषु भागवतेषु वर्णभेदेनानेकप्रकारेषु विप्रस्वरूपमुक्तम् । क्षत्रियादिस्वरूपं राजसराजसादिस्वरूपं च वाक्यान्तरेण दर्शयति॥ सात्त्विका इति॥ राजससात्त्विकेष्विति द्रष्टव्यम् । सत्त्वराजसा इति॥ समसत्त्वराजसा इत्यर्थः । अतिस्वल्पसत्त्वाधिक्येनेति॥ तमसोऽप्यतिस्वल्पतया सत्त्वमधिकं यथा तथैवेत्यर्थः । क्षत्रियादिमात्रस्यैवं स्थितिः किमित्यत आह॥ य इति॥ वर्णबाह्या भागवताश्चेत् किमित्यत आह॥ सत्त्वेति॥ यः पुल्कसोऽपि भागवतोऽसौ राजसेष्वपि सत्त्वाधिक इत्यर्थः । राजससात्त्विकानुक्त्वा राजसराजसादीनाह॥ त्रैविद्येति॥ कालतो भागवतान् जायमानान् व्यवच्छिनत्ति॥ त्रैविद्यमात्रा इति॥ सर्वाधिक्य इति॥ सर्वप्रकारेणाधिक्ये इति गमयितव्यम् । सात्त्विकप्रभेदमाह॥ पितृगन्धर्वेति॥ श्रेष्टा एवेत्यनेन पितृगन्धर्वपूर्वकाः सात्त्विकतामसाः, मुनयः सात्त्विकराजसाः, देवा सात्त्विकसात्त्विका इत्युच्यन्ते ।
देवान् विभज्याह॥ देवा इति॥ क्रमोत्तरा इति॥ सात्त्विकसात्त्विकेषु बृहस्पत्यादयस्तामसाः, इन्द्रो राजसो, ब्रह्मादिरुद्रावसानाः सात्त्विका इत्युच्यन्ते । विरिञ्चादीन् विभज्याह॥ शिव इति॥ उत्तरोत्तरा इति॥ सात्त्विकसात्त्विकेषु रुद्रस्य तामसत्वं, सरस्वत्या राजसत्वं, ब्रह्मणः सात्त्विकत्वमुक्तं भवति । एवं चेद्विरिञ्चः किमुच्यत इत्यत आह॥ सत्त्वेति॥ तस्मादुक्तरीत्या गुणनिबन्धनमेव तेषां तारतम्यं किमित्यत आह॥ मुक्ताविति॥ गुणाभावेऽप्युक्तप्रकारावसितनुखक्रमेणैव तारतभ्योपपत्तिरिति भावः । ‘नराधमास्तामसेषु सात्त्विकाः ’ इत्युक्तम् । ते कीद्रशा इत्यतस्तद्विवृणोति॥ विष्णाविति॥
‘राजसास्तु सरास्तत्र विप्रा राजससात्त्विकाः ’ इत्युक्तम् । तत्र ‘ये तु भागवता वर्णाः ’ इति वचनान्तरबलेन राजससात्त्विकानां भागवतत्वं ग्राह्यमिति सूचयन् भागवतविप्राणां राजससात्त्विकत्वमेवेत्यन्यथाप्रतीतिनिरासाय अनुक्तं पूरयति॥ राजसानामिति॥ राजससात्त्विकेषु वाक्यद्वयेनोक्तं वर्णभेदं बुद्ध्यारोहार्थमेगीकृत्य दर्शयति॥ राजसस्थेति॥ अनेन ‘विप्रा राजससात्त्विकाः ’ इत्यादि प्रागुक्तरीत्या विवृतं भवति । राजससात्त्विका न साधारणविप्रादयः । अपि तु भागवता एवेति वाक्यान्तरानुसारेणोक्तं हेत्वन्तरं चाह॥ सत्त्वेति॥ राजससात्त्विकानारभ्य हिरण्यगर्भावसानाः सर्वेऽपि हि मोक्षयोग्याः । गुणान्तरापेक्षया येषु सत्त्वाधिक्यान्मोक्षयोग्यता च भागवतानामेव । अतो राजससात्त्विकादयः सर्वेऽपि भागवता एवेति भावः । सत्त्वप्रधानत्वेऽपि कुतो मोक्षयोग्यतेत्यत आह॥ सत्त्वादिति॥ ‘रजस्तमश्चाभिभूय सत्त्वं भवति ’ इत्यधिकगुणस्येतराभिभवेन स्वफलप्रदत्वस्योक्तत्वात् सत्त्वप्रधान्ये रजस्तमसोरभिभवेन मोक्षसाधनज्ञानस्य सम्भवात् सत्त्वाधिक्ये मोक्षो भवति । ज्ञानस्य सत्त्वफलताया उक्तत्वादिति भावः । अत्र स्फुटार्थं वाक्यान्तरं चाह॥ सत्त्वाधिक इति॥ सत्त्वाधिको राजससात्त्विकादिः । तमौत्तरो नराधमादिः । रजोभूयान् त्रैविद्यः । समः एकप्रकारेण गुणत्रयोऽज्ञः॥ ४१॥
ब्राह्मणेत्युक्तं प्रपञ्च्यते- ‘शमः इति । तत्र शमादयो ब्राह्मणस्यैवेत्यन्यथाप्रतीतिनिरासाय तत् प्रमाणान्तरेण व्याचष्टे॥ शम इति॥ अनेन ब्राह्मणे तदुक्तिराधिक्यविवक्षयेत्युक्तं भवति । तपो ब्रह्मचर्यादि । शौचं शुद्धिः । क्षान्तिः क्रोधासमुत्थितिः । आर्जवं मनोबाक्कायकर्मणामवैपरीत्यम् । ज्ञानं सामान्यतः । विज्ञानं विशेषतः । आस्तिक्यं धर्मादौ ‘अस्त्येवानेन मम
प्रयोजनम् ’ इति भावः । कार्तवीर्यादिक्षत्रियेषु ब्राह्मणोभ्योऽप्याधिक्येनैतद्गुणदर्शनात् कथमेतदित्यत आह॥ अधिका वेति॥ सत्यं क्षत्रियेषु ब्राह्मणाधिकाः शमादयः सन्तीति, तथापि नोक्तविरोधः । तेषाम् ऋषित्वात् । तदितरक्षत्रियाणामत्र विवक्षितत्वादिति भावः । शौर्यमभीरुत्वम् । तेजः शरीरगतम् । धृतिर्थैर्यम् । दाक्ष्यं पाटवम् । क्षत्रियादूनाः ब्राह्मगुणाः शमादयो यस्यासौ तथोक्तः । ततो वैश्यात् । शुश्रूषुः शुश्रूपाजीवनः । नेयं नियतिर्युक्ता । शूदरस्याप्यधिकगुणत्वदर्शनादित्यत आह॥ अधिकाश्चेदिति॥ ब्राह्मणादिरिति॥ ब्राह्मणसमशमादिगुण इत्यादि द्रष्टव्यम् । शूद्र एवेत्युपलक्षणम् । तत्तत्समगुणोऽसाविति ज्ञतव्यम् । जातिमनपेक्ष्य गुणमात्रेण कथं ब्राह्मणत्वादिकल्पनेत्यत आह॥ नरोऽपीति॥ यथेति शेषः । एवं प्रमाणान्तरेण क्षत्रियादिष्वपि शमाद्यनुवृत्तिरस्तीत्युक्त्वा वाक्यशेषबलेनाप्येतदुपपादयति॥ स्वकर्मणेति॥ अत्र सर्वेषां भगवदभ्यर्चनमेवोच्यते, न तु शमादिकमित्यत आह॥ न हीति॥ यदा सर्वेषां भगवदभ्यर्चनमेवोच्यते, तदा शमादिकमुक्तमेव । तद्विनाऽभितोऽर्चनस्यैवायोगादिति भावः । तत्कुत इत्यत आह॥ सम्यगिति॥ सम्यगर्चनं ह्यभितोऽर्चनं च शमादिभिरर्चनमेवेत्यर्थः । शमादिकं विनाऽपि साधनसम्पूर्त्याऽर्चनमात्रमत्र विवक्षैतं किं न स्यादित्यत आह॥ न चेति॥ शमादिभिरर्चनमेवात्राभ्यर्चनं विवक्षितम् । न तु शमादिकं विनाऽन्यत् । एतदभ्यर्चनस्य मोक्षौलत्वश्रवणात् । शमाद्यभावे तदयोगादिति भावः । उपक्रमबलेन क्षत्रियादिषु ब्राह्मणध्रमानुवृत्तिर्ज्ञायत इत्याह॥ यज्ञेति॥ शमाद्यभावे कुतो मोक्षाभाव इत्यत आह॥ शम इति॥ भगवन्निष्ठादिकं हि शमादिकं नाम । भगवन्निष्ठाद्यभावे च मोक्षाभावः सुप्रसिद्ध इति भावः । निषेधाभावाच्च क्षत्रियादिषु शमाद्यङ्गीकार्यमित्याह॥ न चेति॥ निषेधश्च भवंस्तद्धर्मकथन्नस्थल एव भवतीति तत्तद्धर्मेष्वत्युक्तम् । इतोऽपि क्षत्रियादिषु शमाद्यङ्गीकार्यमित्याह॥ युक्ता हीति॥ तुलाधारो वैश्यः । आदिपदेन दण्डधारादिशूद्रसङ्ग्रहः । हीति भारतादिप्रसिद्धिं सूचयति । एवं चेत् स्वपरधरमविवेकः कथमित्यत आह॥ अत इति॥ उक्तन्यायेनान्येषां साधारणत्वादित्यर्थः । एवं कृष्यादयो वैष्यस्य जीवनार्थम् । शूश्रूषा शूद्रस्य । याजनं जीवनार्थमध्यापनं प्रतिग्रहश्च विप्रस्येति द्रष्टव्यम् । परधर्मानाह॥ तौ येति॥
शमादीनां साथारणत्वेऽपि क्षत्रियस्य शौर्यादयः सर्वेऽपि विशेषधर्माः किं न स्युः ब्राह्मणस्याध्यापनादिमात्रं, शूद्रस्य शुश्रूषामातेरं च स्वधर्मः किं न स्यात्? इत्यतस्तेषां साधारण्यं प्रमाणेन दर्शयति॥ शौर्यमिति॥ एतेन क्षत्रिये शौर्याद्युक्तिराधिक्यविषयेति चोक्तं भवति । सतामध्यापनं च शुश्रूषेति सम्बन्धः । शूद्रस्याध्यापनं विना किमुक्तं भवतीत्यत आह॥ तस्मादिति॥ शुश्रूषायाः सर्वधर्मत्वादित्यर्थः । सतामिति सम्बद्ध्यते । शौर्यादीनां साधारणत्वे क्षत्रियादीनां के विशेषगुणा इत्यत आह॥ एत इति॥ साधारणतयोक्तेभ्योऽन्ये युद्धेऽपलायनैश्वर्यादय इत्यर्थः । नैसर्गिका असाधारणाः । किमेते पुंसामसाधारणा एव धर्मा नियत्या भवन्तीत्यत आह॥ स्यादिति॥ एतेषामसाधारणत्वादवश्यानुष्ठेयत्वमिति च नाशङ्कनीयमित्याह॥ बलादिति॥ यथा ब्राह्मणस्य जीवनार्थं याजनमित्यादि । एवमसाधारण्येनात्मीयत्वाभावेऽपि त्याज्यत्वं च न मन्तव्यमित्याह॥ अनिसर्ग इति॥ यथा ब्राह्मणस्य जीवनार्थमध्यापनमित्यादि । उक्तस्यापवादमाह॥ याजनेति॥ अस्वाभाविकाः शुभा अपि साधारणा एव वर्धनीयाः । न तु विप्राद्यसाधारणा याजनादय इत्यर्थः । शौर्यादीनामसाधारणत्वोक्त्या युद्धेऽपलायनमैश्वर्यं च क्षत्रियस्य विशेषधर्मावित्युक्तम्॥ तस्यापवादमाह॥ अपलायनमिति॥ विप्रक्षत्रार्थमिति विशेषोक्त्या सामान्यतः क्षत्रियस्यैव सिद्ध्यति । ततो नोक्तविरोधः ।
यथा क्षत्रियैकधर्मतयोक्तं युद्धेऽपलायनं कारणविशेषादन्येषामपि स्यात्तथैवैश्वर्यमप्यन्यधर्मः स्यात् किम्? इत्यतः तत्स्वरूपनिरूपणपूर्वकं तस्य क्षत्रियेतरेष्ववृत्तिं प्रमाणेन दर्शयति॥ प्रसह्येति॥ प्रसह्य वित्तहरणादि केषामित्यतः तद्वदनूनकार्यः क्षत्रियेतरैरित्यस्य व्यावर्त्यमाह॥ सर्व इति॥ तर्हि किं ब्राह्मणादिभिर्विधर्मिणां शासनमेव न कार्यमित्यत आह॥ अङ्गादीति॥ शिष्यो नाम कीदृश इत्यत आह॥ शिष्यश्चेति॥ तर्हि पुत्रादीनामशासनप्रसङ्ग इत्यत आह॥ पुत्रेति॥ अनिसर्गशिष्यस्वरूपं तदिति भावः । न केवलं ब्राह्मणादेयैः शिष्या एव शास्याः किन्तु गुर्वादयोऽपीत्याह॥ गुरव इति॥ शिक्षणीयेषु भावेष्विति॥ शिक्षणीयार्थविषय इत्यर्थः । न केवलं गुर्वादय एव शास्याः किन्त्वज्ञाता अपीत्याह॥ पापमिति॥ अत्र सर्वत्र अङ्गाद्यहानिकृद्दण्डः शिष्येषु गुरवश्च देशकालानुसारत इति विशेषोक्त्या क्षत्रियाद्विशेषो द्रष्टव्यः । पापं चरन्तो वारणीया इत्युक्तम् । यदि स्वोत्तमविरोधाख्यं महापापं कुर्युस्तर्हि किं कार्यमित्यत आह॥ तदिति॥ किं सहसा त्याज्या एवेत्यत आह॥ यथेति॥ स्वोत्तमविरोद्धारो गुर्वादयः किं सर्वथा त्याज्या एवेत्यत आह॥ विष्णाविति॥ तच्छिक्षाप्रकारमाह॥ शिक्षयन्निति॥ विष्णौ परमभक्तः स्वोत्तमविरोधेतरपापमाचरति चेत् किं कार्यमित्यत आह॥ महान्त इति॥
प्रसङ्गाद्विप्रादीनाम् आपद्धक्मान् स्मृत्या दर्शयति॥ आपत्स्विति॥ क्षात्रियस्य विप्रधर्माचरणे विशेषमाह॥ क्षत्रिय इति॥ भिक्षेतरहिरण्यादिप्रतिग्राही स्यादित्यर्थः । शौद्रं तु धर्ममाचरेदिति सम्बद्ध्यते । न शूद्रस्तु विप्रक्षत्रिययोर्धर्ममाचरेदित्युक्तम् । तर्ह्यापत्सु तेन को धर्म आश्रयणीय इत्यत आह॥ शूद्र इति॥ शूद्रस्य वैश्यधर्मत्वे विशेषमाह॥ शूद्र इति॥ वेदाक्षरादिश्रवणादिमान् न भवेद्त्यर्थः । क्षत्रियो ब्राह्ममापत्सु, तदापत्सु विशां धर्ममाचरेदित्युक्तम् । ततोऽप्यापदि किं कार्यमित्यत आह॥ अत्यापदीति॥ विप्रक्षत्रियेषु शूद्रधर्मं शुश्रूषणं चरन्नित्यर्थः । न केवलं क्षत्रियः शूद्रधर्मं चरन् न दुप्यतीत्येव, किं तर्हीत्यत आह॥ येष्विति॥ यदि क्षत्रियस्य स्वधर्मकृतावापदो भवन्ति तर्हि तस्य सानुबन्धात् स्वमिनो बलाधिक्येऽपि धर्मार्थं तमनभिभूय येषु कर्मसु नियुक्तः स्वमिनाऽपि याच्यः स्यान्न तु स्वयं याचिता । तानि शौद्राण्यपि कर्माण्यर्थाद्यर्थं सेवमानस्य विप्रादिधर्मोपजीवनादिपि वरो धर्मो भवतीत्यर्थः । तत्र स्वाम्यनभिभवादपि स्वामिना याच्यत्वं विशेषेण धर्मकारणमित्याह॥ प्रभुणेति॥ विप्रधर्माद्याश्रयणे परोपजीवनाभावात् शूद्रधर्मे दद्भावात् कथं सानुबन्धात् प्रभोर्बलाधिक्यादौ सत्यपि ततोऽस्य वरत्वमित्यत आह॥ बाह्वोरिति॥ सर्वस्य तदीयत्वान्न परोपजीवनमिति भावः॥ ४८॥
‘स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते ’ इत्युक्तस्यैव इत्थम्भावान्तरमुच्यते- ‘असक्त ’ इति । तत्र नैष्कर्म्यसिद्धिपदस्य मोक्षार्थत्वप्रतीतिनिरासायार्थमाह॥ नैष्कर्म्येति॥ सर्वपदमप्रारब्धविषयम्॥ ४९॥
असक्तेत्यादिना नैष्कर्म्यसिद्धिसाधनविवरणप्रतिज्ञापूर्वकं तदनन्तरफलमुच्यते- ‘सिद्धिं ’ इति । तत्र नैष्कर्म्यसिद्ध्यनन्तरं च येनोपायेन परम्ब्रह्माप्नोति तं प्रकारं निबोधेत्यन्यथाप्रतीतिनिरासायाह॥ वक्ष्यमाणेति॥ अत्र यथा येन वक्ष्यमाणप्रकारेण वर्तमानो नेष्कर्म्यसिद्धिं प्राप्तो भूत्वा महालक्ष्मीं प्राप्नोति तं प्रकारं निबोधेत्येवोच्यते । न तु नैष्कर्म्यसिद्ध्यनन्तरं परब्रह्मप्राप्तिसाधनं निबोधेत्यर्थः । ब्रह्मशब्दस्य लक्ष्मीवाचकत्वमेव कुत इत्यत आह॥ ममेति॥ अत्र ब्रह्मपदेन परब्रह्मैव किं न स्यादित्यत आह॥ ब्रह्मेति॥ एतद्ब्रह्मप्राप्त्यनन्तरमपि परब्रह्मैव किं न स्यादित्यत आह॥ ब्रह्मेति॥ एतद्ब्रह्मप्राप्त्यनन्तरमपि भक्त्यादिलाश्रवणात् लक्ष्मीतत्त्वमेवेदं, न तु परं ब्रह्मेत्यर्थः । भवेदेतद्यदि नैष्कर्म्यसिद्धिं प्राप्तस्य लक्ष्मीप्राप्त्यनन्तरमपि भक्त्यादिलाभोऽस्ति, न तु परब्रह्मप्राप्त्यनन्तरमिति सिद्ध्यति । तदेव कुत इत्यत आह॥ सर्वेति॥ पापपदम् अप्रारब्धानिष्टकर्मपरम् । नन्वपरोक्षज्ञानिनो हि नैष्कर्म्यसिद्धिः । तत्कथं तदनन्तरमपि ज्ञानादिलाभः? तथात्वे मुक्तावापि तत्प्रसङ्गादित्यत आह॥ अपरोक्षेति॥ पुरा देहत्यागात् । अपरोक्षज्ञानानन्तरमपि ज्ञानादिवृद्धिर्भवेदेव । न चातिप्रसङ्गः । प्रमाणानुगुणेन मुक्तौ तदभावोपपत्तेरिति भावः॥ ५०-५२॥
यदुक्तं नैष्कर्म्यसिद्धिसाधनं निबोधेत्येवोच्यते, न तु तदनन्तरं ब्रह्मप्राप्तिसाधनमिति । तदयुक्तम् । बुद्ध्या विशुद्धयेत्यादिसाधनमुक्त्वा ब्रह्मभूयाय कल्पत इत्युक्तत्वात् । अन्यथा नैष्कर्म्यसिद्धिं प्राप्तो भूत्वेति वक्तव्यत्वादित्याशङ्कां परिहरन् ब्रह्मभूयपदस्यान्यथाप्रतीतिनिरासायार्थमाह॥ विमुच्येति॥ ज्ञानानन्तरं लक्ष्मीप्राप्तौ साधनानामनावश्यकत्वात् नैष्कर्म्यसिद्धिं प्राप्तो भूत्वेत्यत्राभिप्रेतमेवेति भावः॥ ५३-५५॥
‘यतः प्रवृत्तिः ’ इत्युक्तमेव विशिष्यते- ‘सर्व ’ इति । तत्र मद्व्यपाश्रयश्चेत् यथेष्टतो निषिद्धान्यनिषिद्धानि वा सर्वमर्माणि कुर्वाणः शाश्वतं पदं प्राप्नोतीत्यन्यथाप्रतीतिनिरासाय तद्व्याचष्टे॥ विहितानीति॥ मद्व्यपाश्रय इति॥ मय्येव समर्पयन्नित्यर्थः । प्रतीतार्थ एव किं न स्यादित्यत आह॥ न हीति॥ नात्र यथेष्टतो निषिद्धानिषिद्धकर्माचरणे तात्पर्यं कल्प्यम् । तथासति भगवदाश्रयस्य विहिताकारणेऽप्यत्र तात्पर्यप्रसङ्गात् । निषिद्धकरणविहिताकरणयोः समानत्वदित्यर्थः । अत्र भगवदाश्रितस्य विहिताकरणेऽपि तात्पर्यं स्यादेवेत्यत आह॥ मामिति॥ यद्यत्र भगवदाश्रितस्य विहिताकरणेऽपि तात्पर्यं तर्हि भगवदाश्रितस्यैवार्जुनस्य ‘मामनुस्मर उध्य च ’ इत्यादौ विहितयुद्धाकरणे ‘अथ चेत्त्वमिमं धर्म्यं ’ इत्यादौ प्राक् प्रत्यवाय उक्तः । तद्विरोधः स्यादिति भावः
। प्रतीतार्थानङ्गीकारेऽपिशब्दवैय्यर्थ्यमित्यत आह॥ अपीति॥ ५५॥
यदि भगवदाश्रिततया विहितकर्म कुर्वतो कुर्वतो मुक्तिस्तिर्हि त्रैविद्यस्यापि स्यात् । तस्यापि विहितकर्माणि कृत्वा भगवदर्पणसद्भावेन भगवदाश्रिताविशिष्टत्वादित्याशङ्कापरिहाराय श्लोकमवतारयति॥ भगवदिति॥ भगवदाश्रितत्रैविद्ययोर्विहितकरणादिसाम्येऽपि मोक्षभावाभावावुपपद्येति । विहिताशेषकर्माणि चेतसा भगवति सन्न्यस्य भगवदाश्रितः करोति । न तथा त्रैविद्य इति तयोश्चैतसैव विशेषसद्भावादिति भावः । मत्पर इति त्रैविद्याद्भागवतस्य विशेष उच्यते । तत्र भगवति तात्पर्यवानित्यर्थाङ्गीकारे तत् त्रैविद्यस्यापि समम् । अहं परः सर्वोत्तमो यस्येत्यभ्युपगमे वा वस्युनि विकल्पायोगात् तदपि त्रैविद्ये सममित्यत आह॥ स एवेति॥ परः सर्वप्रकारेणेति शेषः । भावः सर्वदेति च द्रष्टव्यम् ।
एवं चेन्मच्चित्त इति पुनरुक्तिः स्यात् । न हि भगवत्सर्वोत्तमत्वभावादन्यत् तच्चित्वमस्तीत्याशङ्कापरिहाराय तदर्थमाह॥ तत्रेति॥ तत्र भगवति । त्रैविद्याद् भागवतस्य विशेष इति शेषः । तर्हि बुद्धियोगमुपाश्रित्येति पुनरुक्तिः स्यात् । भगवति बुद्धेर्योगो हि बुद्धियोग इत्यत आह॥ बुद्धीति॥ बुद्धेर्ज्ञानस्य योगः प्रत्याहाराद्युपाय इत्यर्थः । अथ चेत्त्वमहङ्कारादित्यभ्युपगम्योक्तम्॥ ५७-५८॥
तदुक्ताकरणमशक्यं च तवेत्युच्यते-‘यदि’ इति । तत्र प्रकृतिपदेन स्वभावाद्युच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ प्रकृतिरिति॥ ईश्वरेच्छायाः प्रकृतिशब्दवाच्यत्वं कुत इत्यत आह॥ प्रकृतिरिति॥ प्रसङ्गादत्रोक्तार्थमन्यत्राप्यतिदिशति॥ एषेति॥ अत्र प्रकृतिशब्दः परमेश्वरेच्छावाची कुतः? स्वभावाद्यर्थ एव किं न स्यादित्यत आह॥ तस्या एवेति॥ प्रकृतिस्त्वां नियोक्ष्यतीत्यत्र प्रकृतेः जीवानियोक्तृत्वमुच्यते । तच्चेश्वरेच्छाया एव मुख्यमिति सैवात्रोच्यत इति भावः । ननु स्वाभावजेनेत्येतद्विवरणात्मकोत्तरश्लोके प्रकृतिशब्दस्य स्वभावार्थत्व ग्रहणात् कथं नेत्यत आह॥ स्वभावेति॥ जीवमिति सेषः । नेयं प्रकृतिरुत्तरत्र स्वभावपदेनोच्यते, किन्त्वस्या जीवनियोगे साधनतया स्वभावाद्युत्तरत्रोच्यत इति भावः । इतोऽप्यत्रेश्वरेच्छैव प्रकृतिशब्दार्थ इत्याह॥ तदेवेति॥ एतद्विवरणात्मकोत्तरश्लपोके भगवदिच्छाया एव सर्वनियोक्तृत्वस्योक्तत्वाच्च अत्र प्रकृतिपदं तदर्थमिति भावः । मायेतीश्वरेच्छैवोच्यते॥ ५९-६१॥
ईश्वरः सर्वभूतानामित्यादौ भगवतेश्वरस्य पारोक्ष्येण निर्दिष्टत्वादयमीश्वरो भगवतोऽन्य इति प्रतीतिनिरासायाह॥ निश्चितेति॥ परोक्ष्येणोक्तेः अन्यथाऽप्यपपत्तेर्न तन्मात्रेणेश्वरस्य भगवदतिरितक्तत्वं कल्प्यमिति भावः । इतश्च तन्न कल्प्यमित्याह॥ मदिति॥ अत्र तमेव शरणं गच्छ इत्यन्यव्यावृत्त्या ईश्वरशरणप्राप्तिमुद्दिष्योपसंहारे ‘मन्मना भव’ इत्यादिना स्वशरणप्राप्त्युपदेशाच्च न भगवदितरोऽयमीश्वरः । अन्यथा व्याहतेरिति भावः । स्थानं प्राप्स्यसि शाश्वतं’ इत्युक्तं शाश्वतस्थानं किमित्यत आह॥ शाश्वतमिति॥ सर्वस्थानानां प्रलये विनाशात् कथं वैकुण्ठादेः शाश्वतत्वमित्यत आह॥ श्रीरेवेति॥ ६३॥
‘इदं तु ते गुह्यतमं’ इति प्रतिज्ञाय यज्ज्ञानादिपदोदितं गुह्यतमं तत्त्वमुक्तं तदेवात्र सर्वगुह्यतमं इति पुनरुच्यत इत्यन्यथाप्रतीतिनिरासायाह॥ तत्त्वेति॥ नात्र ‘इति गुह्यतमं’ इति वाक्यशेषादुपसंहृतत्वं ज्ञातव्यम् । तर्हि किमत्र गुह्यतममुच्यत इत्यत आह॥ अत्रेति॥ ननु ‘एतद्बुद्ध्वा बुद्धिमान् स्यात्’ इति साधनसारस्योपसंहृतत्वात् कथमत्र तदुक्तिरित्यत उक्तम्॥ तत्त्वेति॥ न तत्र साधनसारस्योपसंहाररूपेण भगवत्सर्वोत्तमत्वज्ञानप्रशंसा कृता । किन्तु तज्ज्ञानमात्रेण मोक्षसद्भावात् किमस्य महिमा वर्णनीय इति भगवत्प्रशंसार्थमेवेति भावः । तत्रोक्तगुह्यतमस्यात्रानुक्तत्वेवर्णनीय इति व्यर्थमित्यत आह॥ मन्माना इति॥ साधनसारस्य प्रागुक्तत्वात् तदपेक्षया भूय इत्युपपद्यत इति भावः । तर्हि पुनरुक्तिः स्यादित्यतः साधनसारोपसंहार इत्युक्तम् । ननु ‘मन्मना भव’ इत्यादिनाऽन्यव्यावृत्तिपूर्वकं स्वभजनस्यात्रोपदिष्टत्वेन भगवत्सार्वोत्तमत्वमेवोक्तमिति कथं तत्त्वसारकथनं नेत्यत आह॥ अर्थत इति॥ सत्यमत्र विष्ण्वाधिक्यमुक्तमिति । तथाप्यन्यभजननिरासपूर्वकं स्वभजनोपदेशान्यथानुपपत्त्यैवोक्तम् । न तु मुखतः । अतो नात्र तत्त्वसारकथनमिति भावः॥ ६४-६५॥
अन्यभजननिरासत्त्यात्र अकृतत्वात् कथमर्थतोऽपि विष्ण्वाधिक्यमुक्तमित्यत आह॥ अनेति॥ अन्यधर्मान् सर्वान् परित्यज्य मन्मान भवेत्येवं प्रकारेण सर्वधर्मान् परित्यज्येति वचनं मन्मना इत्याद्युक्तशेषत्वेन हि वर्तते । अतोऽन्यव्यावृत्तिपूर्वकं स्वभजनमत्रोपदिष्टमेवेति भावः । नन्वत्र मन्मना इत्याद्युक्तसर्वधर्मान् परित्यज्य मामेकं शरणं व्रजेत्युपदिश्यत इति किं न स्यादित्यत आह॥ मामिति॥ ‘मामेकं शरणं व्रज’ इत्यनेननापि मन्मना इत्याद्युक्तस्यैव व्याख्यायमानत्वादन्यथाऽर्थकल्पने मन्मनस्त्वादिकं परित्यज्यानुतिष्ठस्य चेति व्याहतोक्तिः स्यीदिति भावः व्यर्थमिदमुक्तव्याखयानमित्यतो निगमनात्मनेत्युक्तम् । मन्मना भवेत्यादिना किमुक्तं भवति मामेकं शरणं व्रज इति व्याख्यानत्वं द्रष्टव्यम् ।
भवेदेतद्यदि भगवन्मनस्त्वादिकं शरणागतिः स्यात्, तदेव कुत इत्यत आह॥ सर्वोत्तमत्वेति॥ अत्र यथासम्भवं मन्मना इत्याद्युक्तार्थेनैकार्थत्वं द्रष्टव्यम् । त्रिविधा मनोवचनशरीरभवा । स्वभावतः न फलान्तरापेक्षया । मोक्षफलप्रदेत्यनेन
मामेवैष्यसीत्युक्तार्थे भवति । मामेकमिति सर्वधर्मानित्यस्य व्याख्यानं द्रष्टव्यम् । ‘अहं त्वा सर्व इत्यर्थः । नन्वर्जुनेन स्वोक्तमद्यापि नाङ्गीकृतम् । तत्कथं भगवता तद्बोधनं समाप्यत इत्याशङ्कां ‘यथेच्छसि तथा कुरु’ इति यथेषटाचरणमनुज्ञायत इत्यन्यथाप्रतीतिं पराकुर्वन् परिहरति॥ यथेति॥ भगवदुक्तानुसरणमर्जुनेन कृतमित्यत्रैवोक्तत्वात्
ततः प्रागेव तज्ज्ञस्य भगवतः तद्बोधनोपरमो युक्त इति भावः॥ ७३-७८॥
अथ समापितग्रन्थोऽयं भगवानाचार्यः स्वप्रतिपादितप्रकारमेव वासुदेवं नमति॥ नम इति॥ स्वस्वरूपपरिज्ञानस्यापि कैवल्याद्यखिलपुरुषार्थहेतुत्वात् स्वकृतां ग्रन्थनिर्माणरूपपरिचर्यां केशवे समर्पयन् तदाह॥ यस्येति॥ अथ तमेव हरिमादरविशेषात् पुनः स्तौति॥ निःशेषेति॥ भूतिर्महालक्ष्मीः ।
श्रीमदानन्दतीर्थार्यहृदयामलमन्दिरः ।
इन्दिरारमणः प्रीतिं यातु दीनदयापरः॥
इति श्रीमदानन्दतीरिथभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीतातात्पर्यनिर्णयस्य टीकायां जयतीर्थमुनिविरचितायां न्यायदीपिकायां अष्टादशोऽध्यायः॥ १८॥