[[श्रीमद्भगवद्गीता मध्वभाष्यम् प्रमेयदीपिकाटीका Source: EB]]
[
मदानन्दतीर्थभगवत्पादाचार्यविरचित श्रीमद्गीताभाष्यम् ।
जयतीर्थमुनिविरचिता प्रमेयदीपिका-टीका ।
प्रथमोऽध्यायः ।
न विद्यते ।
********************************************************************
द्वितीयोऽध्यायः
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः (श्रीगीता प्र.दी. मूरने भाग) ऎरडने अध्याय श्लोक 25 रिन्द श्लोक 47रवरॆगॆ.
(गी. 2/25)
भा – अत एवाव्यक्तादिरूपः ॥ 25 ॥
प्र.दी. – ननु भगवान् ज्ञानिभिर्दृश्यते चिन्त्यते च । तत् कथमुच्यते ``अव्यक्तोऽयमचिन्त्योऽयं" इति । तत्राह – अत एवेति ॥ अचिन्त्यशक्तित्वादेव । यथोक्तं `अतोऽनन्तेन तथा हि लिङ्गं’ इति ॥ 25 ॥
(गी. 2/26)
भा – अस्त्वेवमात्मनो नित्यत्वं तथापि देहसंयोगवियोगात्मकजनिमृती स्त एवेत्यत आह – अथ चेति ॥ 26 ॥
प्र.दी – ननु सर्वशङ्कोद्धारेणात्मनित्यत्वं प्रतिपाद्य `तस्मादेवं’ इत्युपसंहृतम् । तत्किं `अथ च’ इति पुनरुच्यत इत्यतोऽङ्गीकृत्यात्मनित्यत्वं प्रकारान्तरेण शोकशङ्केयमित्याशयवानाह - अस्त्वेवमिति ॥ युद्धे च मृतिर्नियता । जनिमृतिनिमित्तं च दुःखं मदीयानां भविष्यतीति मे शोक इति शङ्काशेषः । अनेन पूर्वार्धोऽपि व्याख्यातः । अत एव देहसंयोगवियोगात्मकजनिमृती इत्युक्तम् । अन्यथा देहसंयोगवियोगावित्येव वा जनिमृती इत्येव वा ब्रूयात् । `स्त एव’ इत्यनेन नित्यशब्दोऽवधारणार्थ इत्युक्तम् । अस्त्वेवमात्मनो नित्यत्वमिति वदता `आत्मनोऽनित्यत्वमभ्युपगम्येदमुच्यते’ इति मायावादिनोऽपव्याख्यानं निरस्तं भवति । `ध्रुवं जन्म मृतस्य’ इत्युत्तरवाक्यविरोधात् । `अव्यक्तादीनि’ इत्यनेनापि विरोधात् ॥ 26 ॥
(गी. 2/27)
भा – कुतोऽशोकः । नियतत्वादित्याह – जातस्येति ॥ 27 ॥
प्र.दी – अनेनैवाभिप्रायेणैतदेकवाक्यतयोत्तरं श्लोकद्वयं क्रमेणावतारयति – कुत इति ॥ शङ्कामनूद्य `तथापि त्वं न शोचितुमर्~हसि’ इत्युक्तम् । तत्र को हेतुरित्यर्थः ॥ 27 ॥
(गी. 2/28)
भा – तदेव स्पष्टयति — अव्यक्तादीनीति ॥ 28 ॥
प्र.दी. – स्पष्टनं च जन्ममरणस्वरूपनिरूपणेन ॥ 28 ॥
(गी. 2/29)
भा – देहवियोगस्य नियतत्वादात्मनश्चेश्वरस्वरूपत्वात् सर्वथाऽनाशान्न शोकः कार्य इत्युपसंहर्तुमैश्वरं सामर्थ्यं पुनर्दर्शयति – आश्चर्यवदिति ॥ दुर्लभत्वेनेत्यर्थः । तद्धि आश्चर्यं लोके । दुर्लभोऽपीश्वरस्वरूपत्वात् सूक्ष्मत्वाच्चात्मनस्तद् द्रष्टा ॥ 29 ॥
प्र.दी.– आश्चर्यवदिति श्लोकस्य न प्रकृतसङ्गतिर्दृश्यते । तदुत्तरश्लोकश्च पुनरुक्त इत्यत आह – देहयोगेति ॥ द्वन्द्वैकवद्भावोऽयम् – सर्वथेति ॥ बिम्बनाशाभावादिभिः सर्वैः प्रकारैः । इत्युपसंहर्तुमुत्तरेण श्लोकेन । ईश्वरसरूपत्वेऽपि कथमनाश इत्याशङ्कापरिहारहेतुत्वादुपसंहर्तुमित्युक्तम् । `अप्रमेयस्य’ इत्यादिना प्रागुक्तत्वात् पुनरिति । एनं यः कश्चित् पश्यति स आश्चर्यवदित्याद्युक्त्वा चतुर्थपादेन तदुपपादनं क्रियते । तं व्याचष्टे – दुर्लभत्वेनेति ॥ दुर्लभत्वमाश्चर्यशब्दप्रवृत्तौ निमित्तमित्यर्थः । तत्कथमित्यत आह – तद्धीति ॥ `आश्चर्यमनित्ये’ इत्यादि स्मृतिं हिशब्देन सूचयति । सर्वेषामात्मद्रष्टृत्वात् कथमात्मद्रष्टा दुर्लभोऽपि येनाश्चर्य इत्युच्यत इत्यत आह – दुर्लभोऽपीति ॥ ईश्वरसरूपत्वादिनाऽत्मद्रष्टा दुर्लभ इति भावः । अनेनाश्चर्य एवाश्चर्यवदित्युच्यत इत्युक्तं भवति । यत्प्रतिबिम्बस्य जीवस्य द्रष्टाऽपि दुर्लभः किं तत्सामर्थ्यं वर्णनीयमितीश्वरसामर्थ्यप्रदर्शनम् । `देहयोगवियोगस्य’ इत्यादिना `देही नित्यं’ इति श्लोको व्याख्यातः । `स्वधर्मं’ इत्यादयः श्लोका अतिरोहितार्थत्वान्न व्याख्याताः । एवमुत्तरत्रापि ॥ (29-38)
(गी. 2/29-38) ;
(गी. 2/39)
भा – साङ्ख्यं ज्ञानम् । `शुद्धात्मतत्त्वविज्ञानं साङ्ख्यमित्यभिधीयते’ इति भगवद्वचनात् व्यासस्मृतौ । योग उपायः । `दृष्टा योगाः प्रयुक्ताश्च पुंसां श्रेयः प्रसिद्धये’ इति प्रयोगात् भागवते । नेतरौ साङ्ख्ययोगौ उपादेयत्वेन विवक्षितौ कुत्रचित् सामस्त्येन । `कर्मयोगः’ इत्यादि प्रयोगाच्च । निन्दितत्वाच्चेतरयोर्मोक्षधर्मेषु भिन्नमतत्वमुक्त्वा पञ्चरात्रस्तुत्या । वेदानां त्वैकार्थत्वात् न विरोधः । पार्थक्यं तु साङ्ख्याद्यपेक्षया युक्तम् । तत्रैव चित्रशिखण्डिशास्त्रे पञ्चरात्रमूले वेदैक्योक्तेश्च । एवमेव सर्वत्र साङ्ख्ययोगशब्द उपायवाचको वर्णनीयः । युक्तेश्च । ज्ञानं हि जैवमुक्तम् । उपायश्च वक्ष्यते । बुद्ध्यतेऽनयेति बुद्धिः । साङ्ख्यविषयो यया वाचा बुद्ध्यते सा वागभिहितेत्यर्थः ॥ 39 ॥
प्र.दी – पूर्वप्रकरणोपसंहारपूर्वकं तत्सङ्गतत्वेनोत्तरप्रकरणारम्भप्रतिज्ञार्थं ``एषा तेऽभिहिता" इत्युक्तम् । तत्र साङ्ख्ययोगशब्दौ कापिलपातञ्जलवचनाविति प्रतीति निरासाय व्याचष्टे - साङ्ख्यमिति ॥ प्रतीतार्थावेव किं न स्यातामित्यत आह – नेतराविति ॥ इतरौ शास्त्रलक्षणौ । कुत्रचिदागमे । एतौ तूपादेयौ । ``बुद्ध्या युक्तः" इत्यादि वचनात् । अतो न तावत्र विवक्षिताविति वाक्यशेषः । प्रकृतिपुरुषविवेकादेस्तदुक्तस्योपादेयत्वात् कथमेतदित्यत उक्तम् – सामस्त्येनेति ॥ एकदेशस्योपादेयतया तदुपादेयत्वे सौगतादेरपि तत्प्रसङ्ग इति भावः । इतोऽपि न योगः पातञ्जलं शास्त्रमित्याह – कर्मेति ॥ अस्मिन्नेव योगे ``कर्मयोगो विशिष्यते’ इत्यादिप्रयोगाच्च । न हि शास्त्रे कर्मयोगशब्दोऽस्तीति । न केवलमुपादेयत्वाभावान्नेतराविह विवक्षितौ । किं त्वित्यत आह – निन्दितत्वाच्चेति ॥ कथं निन्दितत्वमित्यत आह – भिन्नेति ॥
``साङ्ख्यं योगः पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नानि नात्र कार्य विचारणा … " इति साङ्ख्यादीनां (विरुद्ध) भिन्नमतत्वमुक्त्वा,
``पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्यते ॥" इति पञ्चरात्रस्तुत्या । विरुद्धानां गमयतीति प्रसिद्धमेवेति भावः । एवं तर्~हि वेदारण्यकस्यापि निन्दा स्यादित्यत आह – वेदानान्त्विति ॥ एकार्थत्वात् पञ्चरात्रेण । ``ज्ञानान्येतानि भिन्नानि" इति पार्थक्योक्तेः कथमेकार्थत्वमित्यत आह – पार्थक्यन्त्विति ॥ युक्तमित्यनेन तेषामेव प्रकृतत्वादित्यभिप्रैति । तथाचाद्यवाक्ये वेदारण्यकपदेन पञ्चरात्रमुत्तरवाक्ये च पञ्चरात्रपदेन वेदारण्यकमुपलक्ष्यत इति भावः । वेदपञ्चरात्रयोरेकार्थत्वं कुत इति चेत् । उदाहृतमोक्षधर्मवाक्यार्थान्यथानुपपत्त्या तावत् । अपरं च प्रमाणमाह – तत्रैवेति ॥ मोक्षधर्म एव ।
``ये हि ते यतयः सप्तचित्रशिखण्डिनः । तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् ।
वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ ॥" इत्यादिना चित्रशिखण्डिशास्त्रसस्य वेदैक्योक्तेश्च । असङ्गतमेतदित्यत आह – पञ्चरात्रेति ॥ पञ्चरात्रमूलकस्येत्यर्थः । एतच्च वैखानससंहितोपक्रम एव प्रसिद्धम् । एतद् व्याख्यानं `ज्ञानयोगेन साङ्ख्यानां ‘, `साङ्ख्ययोगौ पृथग्बालाः’ इत्यादावप्यतिदिशति – एवमेवेति ॥ शब्द इति जात्यभिप्रायमेकवचनम् । इतोऽप्यत्र साङ्ख्ययोगशब्दौ ज्ञानोपायावाचिनावित्याह – युक्तेश्चेति ॥ तामेव युक्तिं दर्शयति – ज्ञानं हीति ॥ अत्रोक्तवक्ष्यमाणयोरर्थयोः साङ्ख्ययोगशब्दौ प्रयुक्तौ । उक्तवक्ष्यमाणार्थौ च ज्ञानोपायावेवेति तदर्थावेतौ युक्ताविति –जैवं ज्ञानमिति ॥ जीवस्य तत्त्वमित्यर्थः । यद्यपीश्वरत्वं चोक्तम् । तथापि तादर्थ्येनेत्यदोषः । ननु बुद्धिर्ज्ञानं, तदुत्पाद्यत एव । न त्वभिहितम् । नापि श्राव्यते । तत्कथमुच्यते `साङ्ख्ये बुद्धिरभिहिता, योगे त्विमां श्रुणु’ इति । तत्राह – बुध्यत इति ॥ वागिति शेषः । ननु साङ्ख्यं न वाचोऽधिकरणम् । तत् कथं सप्तमी । किमर्थं च प्रसिद्धवाक् शब्दपरित्यागेनाप्रसिद्धबुद्धिशब्दोपादनमित्यत आह — साङ्ख्येति ॥ साङ्ख्यं चासौ विषयश्च । अनेन विषयसप्तमीयमित्याह । नाविशदं वा~घ्मात्रमुक्तम् । किन्तु तव बोधो यथोत्पद्यते तथेत्यप्रसिद्धपदोपादानप्रयोजनमित्युक्तं भवति ॥ 39 ॥
(गी. 2/40-41)
भा – `योग इमां बुद्धिं श्रुणु’ इत्युक्तम् । बह्वयो हि बुद्धयो मतभेदात् । तत् कथमेकत्र निष्ठां करोमीत्यत आह — व्यवसायात्मिकेति ॥ सम्यग्युक्तिनिर्णीतानां मतानामैक्यमेवेत्यर्थः ॥ 41 ॥
प्र.दी.– ननु व्यवसायात्मिकेति श्लोके न प्रतिज्ञातो योग उच्यते । नापि `बुद्ध्या युक्त’ इत्यादिवत्तत्प्रशंसा । तत् किमर्थोऽयमित्यत आह – योग इति ॥ ज्ञानोपायविषयामिमां वक्ष्यामाणां वाचं श्रुणु । श्रुत्वा तत्र निष्ठां कुर्वित्युक्तमित्यर्थः । श्रवणमात्रस्य विधिना विनाऽपि सम्भवात् । बह्वयो बुद्धयः ज्ञानोपायविषया वाचः परस्परविरुद्धाः सन्ति । कथम् । मतभेदात् । एकं मतमवलम्बमानाः किञ्चिद् ज्ञानसाधनमाचक्षते । अपरं मतमाश्रिताः तत्प्रतिषेधेनान्यदाहुः । तत्र चेदमेव तत्वं नेदमिति विनिगमकं नास्ति । तत्तस्मात् कथमेकत्र त्वदीयायामेव वाचि निष्ठां विश्वासं करोमि । ननु सर्वाण्यपि मतानि व्यवसायात्मकान्येव । स्वे स्वेऽर्थे सर्वेषां सन्देहाभावात् । अतः कथमुच्यते ``व्यवसायात्मिका एकाऽव्यवसायिनां बुद्धय" इति । तत्राह – सम्यगिति ॥ युक्तिरिति प्रमाणसामान्यमुच्यते । प्रमाणेन निर्णीतत्वमेवात्र व्यवसायशब्दार्थो न निश्चयमात्रमित्यर्थः । प्रामाणिकमेव मतं ग्राह्यम् । तत्र च न काचित् विप्रतिपत्तिः । यतस्तवैकत्र निष्ठाऽभावः । अप्रामाणिकेषु विद्यमानाऽपि विप्रतिपत्तिः किं करिष्यतीति भावः ॥ 41 ॥
(गी. 2/42-44)
भा – स्युरवैदिकानि मतान्यव्यवसायात्मकानि । नतु वैदिकानि । तेऽपि हि केचित् कर्माणि स्वर्गादिफलान्येवाहुरित्यत आह – यामिमामिति ॥ यामाहुस्तयेत्यन्वयः । मोक्षफलमपेक्ष्य स्वर्गादिपुष्पयुक्तां वाचं प्रवदन्ति । वेदवादरताः कर्मादिवाचकवेदवादरताः । वेदैर्यन्मुखत उच्यते तत्रैव रताः । नान्यदस्तीति वादिनः । `परोक्षविषया वेदाः’ । `परोक्षप्रिया इव हि देवाः’ । `मां विधत्तेऽभिधत्ते मां’ इत्यादिभिः पारोक्ष्येण प्रायो भगवन्तं वदन्ति । भोगैश्वर्यगतिं प्रति तत्प्राप्तिं प्रति । तत्प्राप्तिफला एव वेदा इति वदन्तीत्यर्थः । तेषां सम्यग्युक्तिनिर्णयात्मिका बुद्धिः समाधौ समाध्यर्थे न विधीयते । सम्यग् निर्णीतार्थानां हीश्वरे मनस्समाधानं सम्यग्भवति । तद्धि मोक्षसाधनम् । उक्तं चैतदन्यत्र ॥
`` न तस्य तत्त्वग्रहणाय साक्षात् वरीयसीरपि वाचः समासन् ।
स्वप्ने निरुक्त्या गृहमेधसौख्यं न तस्य हेयानुमितं स्वयं स्यात् " इति ॥ 42-44)
प्र. दी – `यामिमां’ इति श्लोकत्रयस्य प्रकृतोपयोगादर्शनात् सङ्गतिमाह – स्युरिति ॥ न तु वैदिकान्यव्यवसायात्मकानि । ततः किं प्रकृत इत्यत उक्तम् – तेऽपीति ॥ व्यवसायात्मकं मतं वैदिकमवलम्बमाना अपि केचित् वैदिकान्यपि सर्वाण्येव कर्माणि स्वर्गादिफलान्याहुः । भवांस्तु काम्यार्थान्येव कर्माणि स्वर्गादिफलानि । निष्कामानीश्वरार्पणबुद्ध्याऽनुष्ठितानि तु ज्ञानार्थानीत्यभिप्रैति । तथा च त्वद्वचने निष्ठाऽनुपपत्तिस्तदवस्थेति भावः । आह । तेषां वैदिकाभासताप्रदर्शनाय निन्दामिति शेषः । भोगैश्वर्यगतेरपि प्रकृतत्वात् `तया’ इति तत्परामर्शभ्रान्तिं वारयति – यामिति ॥ अन्यथा यच्छब्दः साकाङ्क्षोऽनन्वितः स्यादिति भावः । वाचः पुष्पितत्वं कथमित्यत आह– मोक्षेति ॥ अत्यल्पत्वेनोपमा । `वेदवादरताः’ इत्येतत् कथं निन्दावचनमित्यत आह – वेदेति ॥ कथमेतदस्मात् पदाल्लभ्यते । कथं चैषाऽपि निन्देत्यत आह – वेदैरिति ॥ वादशब्दोऽत्रापाततः प्रतिपादने वर्तते । वक्ष्यते चात्राभिधानात् । आपाततः प्रतिपाद्यं च कर्मादि । सावधारणं च तत् । अब्भक्षो वायुभक्ष इति यथेत्यर्थः । सावधारणत्वं प्रतीतार्थादन्यस्य सद्भावे भवेदेषा निन्दा । कोऽसौ कुतश्चेत्यत आह – परोक्षेति ॥ क्वचित् प्रकटवचनात् `इव’ इत्युक्तम् । अत एव `प्रायः’ इत्याह । देवा वेदाभिमानिनः तत्प्रकारसूचनार्थं `मां विधत्ते’ इत्याद्युदाहृतम् । वदन्ति वेदाः । गतिशब्दस्यावगतिरप्यर्थः प्रतीयते । अत आह – भोगेति ॥ अन्यथाऽसदनुवादत्वप्रसङ्गादिति भावः । एषाऽपि कथं निन्देत्यत आह – तत्प्राप्तीति ॥ मोक्षं वेदफलं न मन्यन्त इत्यर्थः । `तयाऽपहृत’ इत्यादेरप्रतीतिनिरासायार्थमाह – तेषामिति ॥ तेषां बुद्धिः मनोवृत्तिः व्यवसायात्मिका सम्यग्युक्तिनिर्णयात्मिका न भवति । तत एवेश्वरे सम्यक्समाधानार्थं न विधीयत इत्यर्थः । सम्यग्युक्तिनिर्णयात्मकत्वाभावे कुतः समाध्यभाव इत्यत आह – सम्यगिति ॥ अनेन समाधिशब्दार्थोऽपि विवृतो भवति । किमीश्वरे मनस्समाधानेन । येन तदभावो निन्दा स्यादित्यत आह – तद्धीति ॥ मोक्षाभावश्च महानिन्देति वक्ष्यति । `सम्य~घX निर्णीतार्थानां’ इत्युक्तं केवलमानुभाविकम् । किन्तु पुराणेऽप्युक्तमित्याह – उक्तञ्चेति ॥ वरीयसीः वरीयस्यः । `सुपां सुलुक्’ इत्यादिना जसः पूर्वसवर्णः । वाचो वेदवाचः । स्वप्ने निरुक्त्या स्वप्नप्रतीतार्थदृष्टान्तेन । हेयानुमितं हेयत्वेनानुमितम् । इदमेव हि सम्य~घX निर्णीतार्थत्वं यत् हेयोपादेयविवेकेन हेयहानं उपादेयोपादानं च । तद्धि मोक्षसाधनमित्येतद् श्रुत्यादिप्रसिद्धमेव ॥ 42 - 44 ॥
(गी. 2/45)
भा – तां योगबुद्धिमाह ``त्रैगुण्यविषयाः" इत्यादिनेतरदपोद्य । वेदानां परोक्षार्थत्वात् त्रिगुणसम्बन्धि स्वर्गादि प्रतीतितोऽर्थ इव भाति । परोक्षवादी वेदोऽयं इति ह्युक्तम् । अतः प्रातीतिकेऽर्थे भ्रान्ति मा कुर्वित्यर्थः ।
``वादो विषयकत्वं च मुखतो वचनं स्मृतम्" इत्यभिधानात् । न तु वेदपक्षो निषिध्यते ।
``वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते। "
``सर्वे वेदा यत्पदमामनन्ति", ``वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम्" `‘आचारश्बैव साधूनामात्मनो रुचिरेव च" ``वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः" इति वेदानां सर्वात्मना विष्णुपरत्वोक्तेः । तद्विहितस्सय तद्विरुद्धस्य च धर्माधर्मत्वोक्तेश्च ॥ 45 ॥
प्र.दी. – यथैषा चतुश्लोकी न प्रतिज्ञातं योगमाह तथा `त्रैगुण्य’ इत्येतदपीति प्रतीति निरासामाह – तामिति ॥ प्रतिज्ञातम् । आदिग्रहणेनाषष्ठपरिसमाप्तेरिति सूचयति । सप्तमोपक्रमे पुनः प्रतिज्ञानात् । तर्~हि प्रतिज्ञानान्तरमेव कुतो नावोचदिति मन्दाशङ्कानिरासायोक्तम् – इतरदिति ॥ स्वोक्तौ निष्ठाऽभावे कारणमेवमपोद्येदानीं प्रतिज्ञातमाह । अन्यथा तत्प्रतिबन्धेनास्यावसराभावादिति भावः । अथवा वक्ष्यमाणानां वाक्यानां द्वेधा वृत्तिमनेनाचष्टे ``कैश्चित् वाक्यैरितरद्योगविरुद्धमपोद्य कैश्चिद्योगमाह" इति । यद्वा ``बहूनि मे व्यतीतानि" इत्यादि प्रासङ्गिकं विहायान्यद्योगविषयं ज्ञातव्यम् । तथा च वक्ष्यति ``साधनं प्राधान्येनोक्तं" इति । ``वेदाः त्रैगुण्यविषयाः त्वं तु निस्त्रैगुण्यो भव" इत्यनेन वेदपरित्यागो विधीयत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे – वेदानामिति ॥ ``त्रिगुणसम्बन्धि" इत्यनेन तस्येदमित्यर्थे तद्धितोऽयं (ष्यञX) । ``विचित्रा हि तद्धितगतिः" इति वचनादिति सूचयति । सम्बन्धि कार्यम् । प्रतीततः आपातप्रतीतितः । अर्थः प्रतिपाद्यं प्रयोजनं च । वेदानां परोक्षार्थत्वं कुत इत्यत आह – परोक्षेति ॥ यत एवं भ्रान्तिरतः प्राप्तिसद्भावात् प्रसक्तां भ्रान्तिं मा कार्षीः । कथमेतदनेन लभ्यत इत्यत आह – वाद इति ॥ ``वेदवादरताः" इत्यत्राप्येतदेवाभिधानम् । प्रतीत एवार्थोऽस्त्वित्यत आह – न त्विति ॥ पक्षः परमसिद्धान्तः । उत्तानार्थो वेदो निषिध्यत एव योगविरुद्धत्वादित्यत `पक्ष’ इत्युक्तम् । कुत इत्यत आह – वेद इति ॥ धर्ममूलं धर्मज्ञप्तेः कारणम् । तद्विदां वेदविदां मन्वादीनाम् । स्मृतिर्ग्रन्थः । शीलं मनोगतिः । आचारो धर्मबुद्ध्याऽनुष्ठानम् । आत्मनो मनसो रुचिर्विकल्पविषये । प्रणिहितो विहितः । तद्विपर्ययः प्रतिषिद्धः । विवक्षितयोगविरोधे हि वेदसिद्धान्तो निषेध्यः स्यात् । न चैवम् । प्रत्युत तदनुगुण एवेति भावः । धर्मशब्दोऽत्र निवृत्तिधर्मपरः ॥ 45 ॥
(गी. 2/46)
भा – तथापि काम्यकर्मिणां फलं ज्ञानिनां न भवतीति साम्यमेवेत्यत आह – यावानर्थ इति ॥ यथा यावानर्थः प्रयोजनमुदपाने कूपे भवति तावान् सर्वतः सम्प्लुतोदकेऽन्तर्भवत्येवैवं सर्वेषु वेदेषु यत् फलं यत् विजानतोऽपि ज्ञानिनो ब्राह्मणस्य फलेऽन्तर्भवति । ब्रह्म अणतीति ब्राह्मणोऽपरोक्षज्ञानी । स हि ब्रह्म गच्छति । `विजानतः’ इति ज्ञानफलत्वं तस्य दर्शयति ॥ 46 ॥
प्र. दी – योगोपदेशप्रसङ्गे ज्ञानफलकथनस्य क उपयोग इत्यत आह – तथापीति ॥ ``यामिमां" इत्यत्र काम्यकर्मिणां निन्दा कृता । ``निस्त्रैगुण्यो भव" इति च तत्त्यागो विहितः । तत्र प्रष्टव्यं किन्निमित्तमेतदिति । ननूक्तं काम्यकर्मिणां समाध्यभावेन ज्ञानाभावात् मोक्षो न भवतीति । अत्रेदमुच्यते । यद्यपि ज्ञानफलं काम्यकर्मिणां न भवति । तथाऽपि तन्निन्दादि नोपपद्यते । यतः काम्यकर्मिणां फलं स्वर्गादिकं ज्ञानिनां न भवतीति ज्ञानकर्ममार्गयोः साम्यमेवेति योगानुष्ठाननियमाक्षेपे सत्याहेत्यर्थः । केचिदस्य श्लोकस्य कर्ममात्रत्यागे तात्पर्यमाहुः । अपरे तु यत्कर्मसमुच्चित्तं ज्ञानं मोक्षसाधनं तत्कर्मपर एव वेदभागोऽधिगन्तव्यः । न तु समस्तवेदाभ्यासेनायुः समापनीयमित्यत्र । तन्निरासाय व्याचष्टे – यथेति ॥ सामर्थ्यात् यथैवंशब्दयोरध्याहारः । `यावान्’ `तावान्’ इत्येतयोरावृत्तिश्च ॥ सर्वेषु वेदेष्विति ॥ तदुक्तकाम्यकर्मिणामित्यर्थः । `ब्राह्मणस्य’ इति न क्षत्रियादिव्यावृत्तिः शङ्क्येति भावेनाह – ब्रह्मेति ॥ वर्णविपर्ययो निरुक्तत्वात् । एवं तर्~हि ब्राह्मणशब्दो मुक्तवाची स्यात् । नच मुक्तस्य फलमस्तीत्यत आह – अपरोक्षेति ॥ तदुपपादयति – स हीति ॥ तर्~हि ``विजानतः" इति पुनरुक्तिरिति चेन्न । तस्य परोक्षज्ञानिवाचित्वात् । उभयग्रहणमनुपपन्नमित्यत आह – विजानत इति ॥ तस्यापरोक्षज्ञानस्य परोक्षज्ञानफलत्वम् । एतच्च स्वरूपकथनम् । यद्यपि ज्ञानिनः कर्मिणश्चान्योन्यफलाभावः । तथाऽपि ज्ञानिनः फलं महासमुद्रोदकमिव महत् । कर्मिफलं तु कूपोदकमिवात्यन्ताल्पम् । अतः कुतस्तयोः साम्यम् । तथा चाल्पास्थिरफलकर्मनिन्दया महानन्तफलज्ञानसाधने योगे प्रेरणं युक्तमेवेति भावः । अपव्याख्यानं तूक्तवक्ष्यमाणन्यायनिरस्तम् ॥ 46 ॥
(गी. 2/47)
भा – कामात्मनां निन्दा कृता । कथम् । एषां `स्वर्गकामो यजेत’ इत्यादौ कामस्यापि विहितत्वादित्यत आह – कर्मण्येवेति ॥ `ते’ इत्युपलक्षणार्थम् । तव ज्ञानिनोऽपि न फलकामकर्तव्यता । किम्वन्येषाम् । नन्वस्ति केषाञ्चित् न तेऽस्तीति । स हि ज्ञानी नरांश इन्द्रश्च । मोहादिस्त्वभिभवादेः । यदि तेषां शुद्धसत्त्वानां न स्यात् ज्ञानं, क्वान्येषाम् । उपदेशादेश्च सिद्धं ज्ञानं तेषाम् । ``पार्थार्ष्टिसेण" इत्यादिज्ञानिगणनाच्च ।
प्र.दी. – ज्ञानिनां कर्माभावमुक्त्वा इदानीमज्ञानिनः कर्म चोच्यत इत्यन्यथाव्याख्यान निरासायाह – कामात्मनामिति ॥ एषां कर्मिणाम् । सकामतया कर्मकुर्वतां या निन्दा कृता ``यामिमां" इत्यादिना सा न युक्तेत्यर्थः । कुतः । ``स्वर्गकामो यजेत" इत्यादौ यजनवत् स्वर्गकामस्यापि विहितत्वात् । न हि विहितं कुर्वतां निन्द्यत्वम् । तथात्वे यजनस्यापि निन्द्यत्वप्रसङ्गादिति वदन् विशिष्टविधित्वं मन्यते पूर्वपक्षी । `ते’ इत्येतदर्जुनमात्रविषयमित्यन्यथा प्रतीति निरासायाह – त इति ॥ सर्ववर्णाश्रमोपलक्षणमर्थः प्रयोजनमस्येति तथोक्तम् । वक्तर्यायत्ते शब्दप्रयोगे वाचकमेव प्रयुज्यताम् । किं लक्षणयेत्यत आह – तवेति ॥ फलकामः कर्तव्यो यस्यासौ तथोक्तः । तस्य भावः तत्ता । फलकामस्य कर्तव्यता तव कर्तुरिति वा । कृतोऽपि फलकामो न ज्ञानिनोऽत्यन्तबाधकः । तत्प्रतिबन्धनीयस्य ज्ञानस्याप्तत्वात् । मोक्षस्य च नियतत्वात् । तथापि मोक्षविलम्बहेतुत्वात्तस्यापि न कर्तव्यः । किम्वन्येषामज्ञानिनामिति प्रदर्शनायोपलक्षकपदप्रयोग इति भावः । ननु ``कर्मण्येवाधिकारो मा फलेषु" इति द्वयमुक्तम् । तत्कथं न फलकामकर्तव्यतेत्येकस्यैव ग्रहणम् । उच्यते । फलकामकर्तव्यतानिषेधस्यैवात्र प्राधान्यात् । ``कर्मण्यधिकारः" इति हि तदर्थोऽनुवादः । तथापि फलकामाधिकार इति वक्तव्यम् । मैवम् । अधिकारभावाभावयोः कर्तव्यत्वाकर्तव्यत्वसमर्थनार्थमुक्तत्वेन साध्यस्यैवोपादानात् । तथा च वक्ष्यति । `ते’ इत्युपलक्षणार्थमित्युक्तस्य व्यावर्त्यमाह – न त्विति ॥ केषाञ्चित् फलकामकर्तव्यताऽस्ति , केवलं ते नास्तीत्यर्थस्तु नेत्यर्थः । ``कामान् यः कामयते" इत्यादौ सर्वेषां निषेधादिति भावः । नन्वर्जुनस्य ज्ञानित्वे स्यादिदम् । तदेव कुत इत्यत आह – स हीति ॥ हि शब्दसूचितां प्रमाणप्रसिद्धिमेव दर्शयति – नरांश इति ॥ कथं तर्~हि ``यद् ज्ञात्वा न पुनर्मोऽहं" इत्यर्जुनस्य मोह उच्यते । कथं च प्रश्नकरणमित्यत आह – मोहादिस्त्विति ॥ बलवता प्रारब्धकर्मादिना ज्ञानस्याभिभवान् मोहः, विशेषज्ञानाद्यर्थः प्रश्न इति भावः । नन्विन्द्रादीनामेव कुतो ज्ञानित्वमित्यत आह – यदीति ॥ सत्वं हि ज्ञानकारणम् । ``सत्वात् सञ्जायते ज्ञानं" इति वचनात् । देवाश्च शुद्धसत्वाः । अतः कारणसद्भावाद्युक्तं तेषां ज्ञानम् । अन्यथा न कस्यापि स्यात् । इतश्चेन्द्रादयो ज्ञानिन इत्याह – उपदेशेति ॥ ``एतदु हैवेन्द्रो विश्वामित्राय प्रोवाच" इत्यादिरुपदेशः । आदिपदेन प्रजापतौ ब्रह्मचर्यम् । अर्जुनस्य ज्ञानित्वे प्रमाणान्तरमाह – पार्थेति ॥ ज्ञानिषु गणनात् । एतेनापव्याख्यानमपि निरस्तम् ॥
भा – कामनिषेध एवात्र । फलानि ह्यस्वातन्त्र्येण भवन्ति । न हि कर्मफलानि कर्माभावे यत्नतो भवन्ति । भवन्ति च काम्यकर्मिणो विपर्ययप्रयत्नेऽप्यविरोधे ।
प्र.दी. – नन्वत्र ``मा फलेषु" इति फलविषयो निषेधः कृतः । तत्कथमुक्तं फलकामेति । तत्राह – कामेति ॥ फलशब्देन तद्विषयकं काममुपलक्ष्य तद्विषयो निषेधोऽत्र क्रियते । न फलविषय इत्यर्थः । कुतो लक्षणाश्रयणमित्यत आह – फलानि हीति ॥ यत्र हि पुरुषस्य कतुमकर्तुं वा स्वातन्त्र्यं तत्रैव निषेधो नान्यत्र । प्रसक्तेरभावात् । न च फलेषु स्वातन्त्र्यमस्ति । अतो मुख्ये बाधकाल्लक्षणाश्रयणमित्यर्थः । कथमस्वातन्त्र्यमित्यतः करणे तावदाह – न हीति ॥ अकरणेऽपि तदाह – भवन्ति चेति ॥ चोऽवधारणे । अविरोधे ब्रह्मदर्शनादितद्विरोध्यभावे । तदनेन `ते’ इति `फलेषु’ इति च पदद्वयं व्याख्यातम् ॥
भा – अतः कर्माकरण एव प्रत्यवायो न तु ज्ञानादिना वाऽकामनया फलाप्राप्तौ । अतः कर्मण्येवाधिकारः । अतस्तदेव कार्यम् । न तु कामेन ज्ञानादिनिषेधेन वा फलप्राप्तिः । कामवचनानां तात्पर्यं भगवतैवोक्तं ``रोचनार्थं फलश्रुतिः" । ``यथा भैषज्यरोचनम्" इति भागवते । अत एव कामी यजेतेत्यर्थः । न तु कामी भूत्वेत्यर्थः । निष्कामं ज्ञानपूर्वं चेति वचनात् । वक्ष्यमाणेभ्यश्च । ``वसन्ते वसन्ते ज्योतिषा यजेत" इत्यादिभ्यश्च । अतो मा कर्मफलहेतुर्भूः । कर्मफलं तत्कृतौ हेतुर्यस्य स कर्मफलहेतुः । स मा भूः । तर्~हि न करोमीत्यत आह – मा त इति ॥ कर्माकरणे स्नेहो मास्त्वित्यर्थः । अन्यफलाभावेऽपि मत्प्रसादाख्यफलभावात् । इच्छा च तस्य युक्ता । ``वृणीमहे ते परितोषणाय" इति महदाचारात् । अनिन्दनाद्विशेषत इतरनिन्दनाच्च । सामान्यं विशेषो बाधत इति च प्रसिद्धं ``सर्वान् आनय, नैकं मैत्रं" इत्यादौ । अतो ``नैकात्मतां मे स्पृहयन्ति केचित् भक्तिमन्विच्छन्तः", ``ब्रह्मजिज्ञासा", ``विज्ञाय प्रज्ञां", ``द्रष्टव्यः" इत्यादि वचनेभ्यः स्वार्थसेवकं प्रति न तथा स्नेहः । किं ददामीत्युक्ते सेवादियाचकं प्रति बहुतरस्नेह इति लोकप्रसिद्धन्यायाच्च भक्तिज्ञानादिप्रार्थना कार्येति सिद्धम् ॥ 47 ॥
प्र.दी. – स्यादेतत् । ``स्वर्गकामो यजेत" इत्यादौ स्वर्गादिकामनाविशिष्टं यजनादिकं कर्म कर्तव्यतयोच्यते । अतो न कामात्मनां निन्दोचितेति शङ्कायां किमेतत् ``कर्मण्येवाधिकारः" इत्यसङ्गतमुच्यते । यश्च कर्मवत् कामनाया अपि कार्यतां मन्यते, कुतस्तस्य फलकामनायामधिकारभावः सिद्धः । ``फलेतु" इति लाक्षणिकपदप्रयोगे च किं निमित्तमित्याशङ्क्य पूर्वार्धं व्याचष्टे – अत इति ॥ अत इत्यस्य वक्ष्यमाणेन `भूत्वा’ इत्यतः परेण `इत्यर्थः’ इत्यनेनान्वयः । अत उक्तन्यायेन पदद्वयस्य लाक्षणिकत्वे सतीत्यर्थः श्लोकार्धस्य सम्पद्यत इति शेषः । तत्र तावत् कर्मण्येवाधिकारः सर्ववर्णाश्रमिणां, न फलकामनायां इत्युक्तेऽर्थद्वये हेतुद्वयमाह – कर्माकरण एवेति ॥ ``कुर्वन्नेवेह कर्माणि" इत्युक्त्वा `‘एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे" इत्युक्तत्वात् कर्माकरण एव प्रत्यवायोऽनिष्टप्राप्तीष्टाप्राप्तिलक्षणः । नन्वकामनया प्रत्यवायः । प्रमाणाभावात् । ननु कामाभावे तत्फलानवाप्तेः कथं प्रत्यवायाभाव इत्यत उक्तम् – फलाप्राप्ताविति ॥ काम्यफलाप्राप्तावपि न प्रत्यवाय इत्येतदुपपादनायोक्तम् – ज्ञानादिना चेति ॥ वा शब्द उपमायाम् । यथा ज्ञानादिना साधनेन मोक्षं गच्छतः स्वर्गाद्यलाभो न खेदहेतुः । महाफललाभेऽल्पहानेरकिञ्चित्करत्वात् । तथाऽकामनया फलाप्राप्तावपि न खेदः । निष्कामेन कर्मणा महाफलस्यज्ञानादेर्लाभादिति भावः । ततः किमित्यत उक्तस्य हेतुद्वयस्य गीतोक्तं साध्यद्वयमाह – अत इति ॥ ``न तु फलकामनायां" इति च वक्तव्यम् । यत एवं कर्माकरणे प्रत्यवायोऽतः कर्मण्येवाधिकारः । यतः कामाकरणे न प्रत्यवायोऽतो न कामेऽधिकार इत्यर्थः । ततः किं प्रकृत इत्यतः परमसाध्यद्वयमाह – अत इति ॥ यतः कर्मण्येवाधिकारोऽतस्तदेव कार्यम् । विधिविषय इत्यर्थः । यतः कामे नाधिकारोऽतः कामेन फलप्राप्तिः, फलप्राप्तये काम इति यावत्, न कार्यः । तत्र दृष्टान्तो ज्ञानादिनिषेधेन वेति । अत्रापि वाशब्द उपमायाम् । यथा प्रेक्षावता ज्ञानादिकं परित्यज्य फलप्राप्तिर्न क्रियते तथेत्यर्थः । पूर्वोक्त एवाभिप्रायः । यदि कर्मैव विधिविषय न कामः तर्~हि ``स्वर्गकामो यजेत" इत्यादि वाक्यानां हि तात्पर्यमित्यत आह – कामवचनानान्त्विति ॥ अनादिविषयवासनावासितान्तःकरणा न सहसा ज्ञानसाधने कर्मणि प्रवर्तयितुं शक्यन्ते । अतस्तेषां कर्मण्यभिरुचिजननार्थं ``स्वर्गकामः" इत्यादि फलश्रुतिः प्रवृत्ता । कर्मणि प्रवृत्तांस्तु शनैः कामं त्याजयिष्यामीत्यभिप्रायवती । यथा फलेन प्रलोभ्य बालानां भैषज्यरोचनं क्रियते तथेत्यर्थः । अस्त्वेवं तात्पर्यं, योजना तु कथमित्यत आह – अत एवेति ॥ यत एवं न्यायेन कर्मण एव कार्यत्वं न कामस्येति प्राप्तमतः ``कामी यजेत" इत्येव श्रुतेरर्थः । कामानुवादेन यजनं विधीयत इति यावत् । एव शब्दव्यावर्त्यमाह – न त्विति ॥ कामविशिष्टयजनविधानं तु नेत्यर्थः । एतदुक्तं भवति । विशिष्टविधानशङ्कायां नेदं विशिष्टविधानं किन्तु कामानुवादेन यजनस्यैवेति परमसाध्यमत्राध्याहार्यम् । तत्कुत इत्यपेक्षायां कर्मण एव कार्यत्वात् कामस्य तदभावादिति हेतुवचनं चोपस्कर्तव्यम् । तदपि कुत इत्यपेक्षायां कर्मण्येवाधिकारो न फलकाम इति गीतोक्तयोः हेत्वोरुपस्थानम् । एतदपि कुत इत्यपेक्षायां कर्मकामाकरणयोः प्रत्यवायभावाभावयोः हेत्वोरध्याहारः । एतदुपपादनाय लाक्षणिकफलशब्दोपादानमिति ।
भास्करस्त्वाह । नित्यनैमित्तिकान्येव कर्माणि मुमुक्षुणा निष्कामतया कर्तव्यानि । न तु ज्योतिष्टोमादीनि कामाधिकारे विहितानि । तेषां निष्कामतया करणे प्रमाणाभावात् । अतोऽसदिदं व्याख्यानमिति । तत्राह – निष्काममिति ॥ यज्ञादिकमेव प्रक्रम्य तस्य निष्कामतयाऽनुष्ठानवचनाद्युक्तमिदं व्याख्यानम् । ``एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा" इत्यादि वक्ष्यमाणवचनेभ्यश्च । न चैतानि नित्यनैमित्तिकविषयाणि । तत्र कामप्रसक्त्यभावेन तत्प्रतिषेधानुपपत्तेः । किं च नित्यनैमित्तिकातिरिक्तस्य ज्योतिर्नामकस्य यज्ञस्य फलकामनया विना विधानाच्च । ज्योतिष्टोमस्यैवायं गुणविधानायानुवाद इति तु न सम्मतम् । आदिपदेन ``विश्वजिता यजेत" इत्यादेर्ग्रहणम् । तत्रापि स्वर्गकामपदाध्याहारो निर्णीत इति चेत्सत्यम् । कामिनां तु तथा । स्ववचनेनानुक्तौ तु कारणमिहोक्तमिति ।
ननु पूर्वार्धेनैव शङ्काया निरस्तत्वात् किमुत्तरार्धेनेत्यतः क्रमेण पादद्वयोपयोगमाह – अत इति ॥ फलकामस्याकर्तव्यत्वात् । कर्मफलहेतुत्वमप्रसक्तं किमिति निषिध्यत इत्यत आह – कर्मफलमिति ॥ शाकपार्थिवादिवत् तत्कृतिपदलोपोऽत्रेति भावः – तर्~हीति ॥ यदि फलं नाकाङ्क्ष्यमित्यर्थः । न करोमि स्वयं क्लेशरूपत्वादिति भावः । अकर्मशब्दस्य निषिद्धेऽपि प्रवृत्तेः सङ्गशब्दस्य चानेकार्थत्वात् प्रकृतोपयुक्ततया व्याचष्टे – कर्मेति ॥ सोपपत्तिकमाक्षिप्ते कथमिदमुत्तरमित्यतो भगवदभिप्रायमाह – अन्येति ॥ प्रसादशब्देन भक्तिज्ञानादिकमुपलक्ष्यते । एवं तर्~हि भगवत्प्रसादादीच्छया कर्म कर्तव्यमित्युक्तं स्यात् । न च तद्युक्तम् । कामस्य निन्दितत्वात् । अन्यथा स्वर्गादिकामनाया अप्यनिषिद्धत्वप्रसङ्गात् । अतो नेदं भगवदभिप्रायवर्णनं युक्तमित्यत आह – इच्छा चेति ॥ ते तव परितोषणाय सकलं कर्म वृणीमह इति महदाचारेण भगवत्परितोषणस्य कर्तव्यतावगमात् । नन्वकर्तव्यतायामपि कामनिन्दावचनं प्रमाणमस्तीत्युक्तमित्यत आह – अनिन्दनाद्विशेषत इति ॥ यथा महदाचारो विशेषविषयो न तथा कामनिन्दावचनम् । किन्तु सामान्यविषयमेव । अतो महदाचारेण बाध्यत इति भावः । तर्~हि तद्वत् स्वर्गादिकामनाऽपि कार्येति यदुक्तं तत्राह – विशेषत इति ॥ च शब्देन प्रमाणाभावं समुच्चिनोति । अस्त्वाचारो विशेषविषयः । कामनिन्दावचनं च सामान्यविषयम् । तथापि कुतो बाध्यबाधकभाव इत्यत आह – सामान्यमिति ॥ सामान्यविशेषशब्दौ तद्विषयप्रमाणपरौ । च शब्दाद्विरोधे सति । उक्तं प्रमाणमुपसंहरन् प्रमाणान्तराण्यप्यत्राह – अत इति ॥ एकात्मतां सायुज्यम् । अस्यैव विशेषोऽयं भक्तिमन्विच्छत इति । ननु ब्रह्मजिज्ञासोशब्दो न ज्ञानेच्छापरः । किन्तु विचारस्योपलक्षकः । सत्यम् । तथापि तत्पूर्वको विचारो लक्ष्यते । अन्यथा सम्बन्धाभावात् । लोकेसिद्धन्यायाल्लोकसिद्धव्याप्तिकानुमानम् ॥ 47 ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः ( प्रमेयदीपिका भाग 5 गी 2ने अध्याय श्लोक 48 रिन्द 53 रवरॆगॆ)
(गी. 2/48)
भा– पूर्वश्लोकोक्तं स्पष्टयति – योगस्थ इति ॥ योगस्थः उपायस्थः । सङ्गं फलस्नेहं त्यक्त्वा तत एव सिद्ध्यसिद्ध्ययोः समो भूत्वा । स एव च मयोक्तो योगः ॥ 48 ॥
प्र.दी. – ``कर्मण्येव" इत्यनेन ``योगस्थः" इत्यस्य गतार्थतापरिहारार्थमाह – पूर्वेति ॥ निष्कामतादिविशिष्टानि कर्माण्येव योगः । अतो ``योगस्थः" इत्यनेनैव लब्धं पुनः ``कुरुकर्माणि" इति किमर्थमुच्यत इत्यत आह – योगस्थ इति ॥ ज्ञानोपायमनुतिष्ठन्नित्यर्थः । ``कर्मसम्बन्धं त्यक्त्वा कर्माणि कुरु" इत्येद्व्याहतमित्यत आह – सङ्गमिति ॥ ``ईश्वरो मे प्रसीदतु" इत्यभिसन्धिमपि त्यक्त्वेति व्याख्यानं पूर्वमेव निरस्तम् । ``तत एव" इति परामर्शसौकर्याय त्यक्त्वेत्यनुवादः कृतः । `सङ्गं त्यक्त्वा’ , `सिद्ध्यसिद्ध्योः समो भूत्वा’ इति द्वयमुक्त्वा ``समत्वं योग उच्यते" इत्येकस्यैव ग्रहणमयुक्तम् । तथा सति सङ्गत्यागस्यायोगत्वप्रसङ्गादित्यत आह – तत एवेति ॥ सङ्गत्यागादेव । एतयोः कार्यकारणाभावात् कार्ये गृहीते कारणमर्थाद् गृहीतमेवेति भावः । ननु समत्वयोगयोर्भेदः केन शङ्कितो येन ``समत्वं योग उच्यते" इति तयोरैक्यमुच्यत इत्यत आह – स एव चेति ॥ ``योगस्थः" इत्युक्ते को योग इत्यपेक्षायां भगवता ``सङ्गं त्यक्त्वा", ``सिद्ध्यसिद्ध्योः समो भूत्वा" इति योगो व्याख्यातः । मन्दास्तु पृथगेव ते विशेषणे कल्पयिष्यन्तीति तदनुजिघृक्षयेदमुदितमिति भावः । स एव एतत्समत्वमिति शेषः । योगैकदेशे योगशब्दः ॥ 48 ॥
(गी . 2/49)
भा – इतश्च योगाय युज्यस्वेत्याह – दूरेणेति ॥ बुद्धियोगात् ज्ञानलक्षणादुपायात् । दूरेणातीव । अतो बुद्धौ शरणं ज्ञाने स्थितिम् । फलं कर्मकृतौ हेतुर्येषान्ते फलहेतवः ॥ 49 ॥
प्र.दी.– ननु योगोपदेशमुपक्रम्य कर्मणो बुद्धियोगादवरत्वं किमर्थमुच्यत इत्यत आह – इतश्चेति ॥ युज्यस्व प्रयतस्व । ``यावानर्थः" इति कर्मफलस्य ज्ञानफलापेक्षयाऽल्पत्वात् ``योगाय युज्यस्व" इत्युक्तम्, अत्र तु तत्रैव हेत्वन्तरमुच्यते । बुद्धियोगादिति षष्ठीसमासप्रतीतिनिरासायाह – बुद्धियोगादिति ॥ लक्षणशब्दः स्वरूपार्थः । पुरुषार्थसम्बन्धिना कर्मणा सह निर्देशे तथाभूतस्य ज्ञानस्यैव ग्रहणं युक्तमिति भावः । उपायात्पुरुषार्थस्य । दूरशब्दो विप्रकर्षवाची । तस्यात्र कथमन्वय इत्यत आह – दूरेणेति ॥ उक्तं ज्ञानात् कर्मणोऽतीवावरत्वमिदानीमुपपादनीयम् । तद्विहाय किमिदं तृतीयपादेनोच्यत इत्यतः साध्यनिर्देशोऽयमिति सूचयन् व्याचष्टे – अत इति ॥ ज्ञाने स्थितिं तदुपाययोगानुष्ठानलक्षणम् ॥ फलहेतूनां कृपणत्ववर्णनमनुपयुक्तमित्यत आह – फलमिति ॥ 49 ॥
(गी. 2/50)
भा– ज्ञानफलमाह – बुद्धियुक्त इति ॥ सुकृतमप्यप्रियं मानुष्यादिफलं जहाति । न बृहत्फलमुपासनादिजनितम् । ``न हास्य कर्म क्षीयते" ``अविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तपते बहूनि वर्षसहस्राण्यन्तदेवास्य तद्भवति" इत्यादि श्रुतिभ्यः । अतः कर्मक्षयश्रुतिरज्ञानिविषया सर्वत्र । उभयक्षयश्रुतिरप्यनिष्टविषया । नहीष्टपुण्यक्षये किञ्चित् प्रयोजनम् । नचेष्टनाशो ज्ञानिनो युक्तः । इष्टाश्च केचिद्विषयाः । ` स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति’ , ` प्रजापतेस्सभां वेश्म प्रपद्ये’, `यशोऽहं भवानि ब्राह्मणानां’ , `स्त्रीभिर्वा यानैर्वा’, `अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते’ `कामान्नी कामरूप्यनुसञ्चरन्’, `स एकधा भवति’ इत्यादि श्रुतिभ्यः । बहुत्वेऽप्यात्मसुखस्य पुनरिष्टत्वात् कर्मसुखे न विरोधः । अनुभवशक्तिश्चेश्वरप्रसादात् । श्रुतेश्च । नच शरीरपातात् पूर्वमेव तत् । ``तत्र पर्येति", ``एतमानन्दमयमात्मानमुपसङ्क्रम्य" इत्याद्युत्तरत्र श्रवणात् ॥
प्र.दी.– प्रेक्षावान् काम्यं सुकृतं दुष्कृतं च जह्यादिति योगस्वरूपनिरूपणपरतां निराकर्तुमाह – ज्ञानेति ॥ कथं कर्मणो ज्ञानादतीवावरत्वमित्यतः काम्यकर्मिणः कृपणा दीनाः, ``इमं लोकं हीनतरं वा विशन्ति" इत्युक्तेरित्युक्तम् । तथापि कथं दूरेणावरमित्यपेक्षायां, कर्मफलाद्विलक्षणं ज्ञानफलमाहेत्यर्थः । प्रतीतार्थेऽनुपपत्तिं तूत्तरत्र दर्शयिष्यति । अत्र दुष्कृतवत्सुकृतस्यापि सर्वात्मना हानं प्रतीयते । तत्सङ्कोचेन व्याचष्टे – सुकृतमपीति ॥ अप्रियं सुकृतं कीदृशमित्यत आह – मानुष्यादीति ॥ व्यावर्त्यमाह – नेति ॥ बृहत् प्रा~घX मुक्तेः ज्ञानादिगुणविवृद्धिलक्षणं, तदनन्तरं चानन्दवृद्धिरूपं फलं यस्य तद् बृहत् फलम् । तथाभूतं सुकृतमेव नास्ति कारणाभावादित्यत आह – उपासनेति ॥ आदिपदेन निवृत्तं कर्म । कुतः सङ्कोच इत्यत आह – न हास्येति ॥ यजते ददाति । तप्यतेऽनेन । अत्रापि ``अविदित्वा" इति विशेषणात् ज्ञानिनः सुकृताक्षयः प्रतीयते । उत्तरत्र वाऽस्या श्रुतेरुपयोगः । ननु ``नास्त्यकृतः कृतेन" इति श्रवणात् सत्प्रतिपक्षा एताः श्रुतय इत्यत आह – अत इति ॥ विशेषश्रुतेर्बलवत्त्वादिति भावः । श्रुतिः श्रवणम् । ``क्षीयन्ते चास्य कर्माणि" इति ज्ञानिनोऽप्युभयक्षयश्रुतिरस्तीति आह – उभयेति ॥ उक्तैव युक्तिः । युक्तिविरुद्धं च ज्ञानिनः सर्वसुकृतहानम् । तथाहि । उपसनादिजनितं सुकृतं ज्ञानिनः किमिष्टमुतानिष्टम् । आद्ये किं तत्तदिच्छया क्षीयत उत ज्ञानस्वभावात् । आद्यं दूषयति – न हीति ॥ येन ज्ञानी तत्क्षयमिच्छेदिति शेषः । द्वितीयं निराकरोति – नचेति ॥ ज्ञानस्यापुरुषार्थताप्रसङ्गादिति भावः । नान्त्यः । अनिष्टत्वे कारणाभावात् । निष्फलत्वादनिष्टमित्यत आह – इष्टश्चेति ॥ केचिदित्यलौकिकाः । मुक्तौ अलौकिका विषया इष्टा भवन्ति । तत्प्राप्तिः सुकृतफलमिति भावः । मुक्तो विषयानिच्छतीत्येतत्कुत इत्यत आह – स यदीति ॥ यशः यशस्वी । ब्राह्मणानां सकाशात् । मुक्तो यद्यत्कामयते तत्तत्कर्माऽस्मात् परमात्मनः सृजते । इष्टविषयप्राप्तिः सुकृतफलमित्येतदप्यनया श्रुत्योच्यते ॥ उपासनादिकमेव ज्ञानी न करोति । कृतेन वा सुकृतं न जायत इत्येतदप्यनया निराकृतम् ।
ननु मुक्तः किमर्थं विषयानिच्छेत् । न तावत् सुखार्थम् । ज्ञानेनावरणरूपाविद्यानिवृत्तावात्मस्वरूपस्य व्यक्तत्वात् । पृथक् सुखस्यानङ्गीकारात् । नापि दुःखनिवृत्त्यर्थम् । अविद्यानिवृत्तैव तत्सिद्धेरिति । मैवम् । नाविद्यैवात्मस्वरूपावरणम् । किन्त्वीश्चरेच्छापि । तथा च वक्ष्यति । तथा च ज्ञानेनाविद्यायां निवृत्तायामशेषानिष्टनिवृत्तिर्भवति । स्वरूपसुखं च बहुतरं व्यज्यते । न तु सर्वम् । ज्ञानोत्तरमनुष्ठितेन निवृत्तकर्मणा प्रसन्नः परमेश्वरो मुक्तौ विषयानुत्पाद्य तद्भोगेन ज्ञानाभिव्यक्तमपि स्वरूपसुखं व्यक्तीकरोति । अत्र च भाष्यकृतैव तत्र तत्र प्रमाणान्युक्तानि । अनेनैवाभिप्रायेण श्रुत्यादिषु मुक्तेर्ज्ञानमात्रसाध्यत्वं ज्ञानकर्मसमुच्चयसाध्यत्वं चोच्यते ।
ननु ज जानमात्रसाध्यं यत्स्वरूपसुखं तदेव बहुतरमस्ति । अतः कर्मसाध्यविषयभोगव्यङ्ग्यसुखाङ्गीकारः किमर्थं इत्यत आह – बहुत्वेऽपीति ॥ कर्मसुखे अङ्गीकृत इति शेषः । शरीरेन्द्रियरहितस्य मुक्तस्य कथं विषयानुभवे शक्तिरित्यत आह – अनुभवेति ॥ तदुक्तं ``ब्राह्मेण जैमिनिः" इति । किञ्च `कामरूप्यनुसञ्चरन्’ इत्यादि लीलाविग्रहग्रहणश्रुतेश्च मुक्तस्य विषयानुभवो युज्यत इत्याह – श्रुतेश्चेति ॥ ननु यदेतदुदाहृतासु श्रुतिषु विषयेच्छादिकं श्रूयते तच्चरमशरीरपातात् पूर्वकालीनं किं न स्यादित्यत आह – नचेति ॥ ``अस्माच्छरीरात् समुत्थाय स तत्र पर्येति", ``अस्माल्लोकात् प्रेत्य", ``एतमानन्दमयं" इत्याद्युत्तरत्र श्रवणात् । इत्यादीति क्रियाविशेषणम् ।
भा – न चैकीभूत एव ब्रह्मणा सः । ``मग्नस्य हि परेऽज्ञाने किन्न दुःखतरं भवेत्" इत्यादिनिन्दनान्मोक्षधर्मे । परिहारे पृथग्भोगाभिधानाच्च । शुकादीनां पृथग्दृष्टेश्च । ``जगद्व्यापारवर्जं" इत्यैश्वर्यमर्यादोक्तेश्च । ``इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः" इति च । उपाधिनाशे नाशाच्च प्रतिबिम्बस्य । न चैकीभूतस्य पृथग् ज्ञाने मानं पश्यामः । आसं दुःखी नासमिति ज्ञानविरोधाच्चेश्वरस्य । अनेन रूपेणेति च । भेदाभावात् ।
प्र. दी – अद्वैतवादिनस्तु आहुः । ब्रह्मैकमेव तत्वम् । तदेवोपाधिभेदभिन्नं जीवभावं प्रतिपद्यते । गगनमिव घटाद्युपाधिभिन्नं घटाकाशादित्वम् । तत्र यस्य जीवस्य ज्ञानमुत्पन्नं स ब्रह्मणैकीभवति । घटनाशे घटाकाश इव महाकाशेनेति । तत्रैके जीवब्रह्मभेदस्योपादेश्च मिथ्यात्वं मन्यन्ते । अन्ये च सत्यत्वम् । यदा च स ज्ञानी ब्रह्मणैकीभूतः तदा सकलस्य क्रियाकारकफललक्षणस्य भेदस्य प्रविलयात् कुतो विषयभोगो यदर्थं सुकृतस्यावस्थानमिति ।
तद्दूषयति – न चेति ॥ एवशब्देन भेदाभेदौ निराकरोति ॥
``परमात्मानमासाद्य तद् भूता यतयोऽमलाः । अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभि गोः ।" इति भीष्मेण तस्मिन् भूताः तद्भूता इत्यभिप्रायेणोक्ते मुक्तास्तद् ब्रह्मैव भूता इत्यर्थान्तरमाशङ्क्य युधिष्ठिरेण – ``आजन्ममरणं वा ते स्मरन्त्युत न वाऽनघ" इति विकल्प्य पृष्टं यदि ज्ञानिनो मुक्तौ ब्रह्मणैकीभवन्ति तदैवं वाच्यम् । किं ते संसारेऽनुभूतं दुःखं स्मरन्त्युत नेति । आद्यस्य दूषणमुक्तं –
``मोक्षे दोष महानेष प्राप्य सिद्धिं गतानृषीन् । यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥" इति । पूर्वं सिद्धिं गतान् ऋषीन् प्राप्य परेऽपि यतयो यदि तत्र मुक्तौ , विज्ञाने विज्ञानेन, प्रागनुभूतदुःखस्य स्मरणेन युक्ता वर्तन्ते, तर्~हि मोक्षे महानेष प्रसिद्धो दोषः । दोषं च भाष्यकार एव स्फुटीकरिष्यति । द्वितीयोऽपि दूषितः – मग्नस्य हीति ॥ पूर्वानुभूतस्मरणाभावे परेऽज्ञाने मग्नस्य चेतनस्य दुःखतरं दुःखातिशयो न भवेत् किं, भवेदेवेति । तदेवं मोक्षधर्मेऽस्य पक्षस्य निन्दितत्वान्न ज्ञानी ब्रह्मणैकीभूत इत्यर्थः । ननु पूर्वपक्षस्थेन युधिष्ठिरेण निन्दितत्वेऽपि कथं भीष्मेणाचार्येणोक्तमसत्स्यात् । परिहारे तदुक्तदोषस्योद्धारसम्भवादित्यत आह – परिहार इति ॥ न मयैतदुक्तम् । किन्तु त्वमन्यथा गृहीत्वा दूषितवानसीत्याशयेन परिहारे, भीष्मेण परमात्मनः पृथक्त्वेन मुक्तानां भोगाभिधानाच्च न ज्ञानी ब्रह्मणैकीभूत इत्यर्थः । तथा हि भीष्मवचनं —
``तथाऽपि तत्त्वं परमं श्रुणु सम्य~घX मयेरितम् । इन्द्रियाणि च बुद्ध्यन्ते स्वदेहं देहिनो नृप । करणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः " इति । यद्यपीदं दुर्बोधं तथापि स्वः स्वरूपभूतो देहः यस्य तं स्वदेहं परमात्मानं मुक्तान् अन्यान् देहिनो विषयांश्च मुक्तस्येन्द्रियाणि बुद्ध्यन्ते । किं तानि कर्तरूणि ? नेत्याह – करणानीति । कस्तर्~हि पूर्वार्धस्यार्थ इत्यत आह `सूक्ष्मः’ इति । इतश्च न ज्ञानिनो ब्रह्मैक्यमित्याह – शुकादीनामिति ॥
अनेन वाक्यत्रयेण मुक्तानां ब्रह्मभेदे क्रमेण प्रत्यक्षानुमानागमा उपन्यस्ताः । तत्र प्रत्यक्षं न बाधकम् । शुकादयोऽपि यद्यपि ज्ञानिनः । तथापीदानीमविनष्टोपाधित्वात्, तन्निमित्तभेदवत्तया दृश्यन्ते । प्रारब्धकर्मक्षयादुपाधिनाशे ब्रह्मैव संवृत्ता न पृथग् दृश्यन्त इत्यत आह – उपाधीति ॥ जीवास्तावद् ब्रह्मणः प्रतिबिम्बा इति समर्थितम् । तत्र यदि तदीयस्योपाधेर्नाशोऽङ्गीक्रियते तदा तेषां नाशः प्रसज्यते । दर्पणाद्युपाधिनाशे मुखादिप्रतिबिम्बनाशदर्शनादित्यर्थः । यच्चोक्तं शुकादयोऽविनष्टोपाधित्वाद् ब्रह्मणः पृथग् दृश्यन्त इति । तदप्यसदित्याह – न चेति ॥ वस्तुत एकीभूतस्योपाधिनापि पृथग् ज्ञाने न मानं पश्यामः । गगनादिदृष्टान्तस्यासम्मतत्वात् । सत्योपाधिभेदमतस्य चेदं दूषणम् ।
किञ्चौपाधिक एव जीवब्रह्मणोर्भेदो वास्तवं त्वैक्यमिति वदन् प्रष्टव्यः । किं ब्रह्म निर्दुःखं स्वरूपमेवानुसन्धत्ते न जीवगतं दुःखम् । तत्तु जीव एवानुसन्धत्त इति पक्षः । उत तदपीति । आद्यं दूषयति – न चैकीभूतस्येति ॥ हस्तपादाद्युपाधिभेदेऽपि भोक्तुरेकत्वदर्शनादिति भावः । द्वितीयं निराकरोति – आसमिति ॥ ल~घत्र सर्वकालोपलक्षणार्थः । जीवरूपेण दुःख्यासं स्वरूपेण तु नेति व्यवस्थयाऽनुसन्धानान्न विरोध इत्यत आह – अनेनेति ॥ इति च न युक्तमिति शेषः । कुत इत्यत आह – भेदेति ॥ उपाधेरभेदकत्वस्योक्तत्वादिति भावः ।
अपरे तु ब्रह्मणैक्यमापन्नस्य मुक्तस्य पूर्वदुःखानुस्मरणमस्ति न वा । नेति पक्षे ``मग्नस्य हि" इत्युक्तो दोषः । आद्ये किमसौ पृथक् स्मरत्युत ब्रह्मात्मक एव । प्रथमस्य दूषणम् – न चैकीभूतस्येति ॥ द्वितीयस्य ``आसम्" इत्यादीति व्याचक्षते । अनेन ``मोक्षो दोषो महानेषः" इत्युक्तो दोषः प्रदर्शितो भवति ॥
भा – नच प्रतिबिम्बस्य बिम्बैक्यं लोके पश्यामः । उपाधिनाशे मानं वा । ``मग्नस्य हि परेऽज्ञाने" इति दुःखात्मकत्वोक्तेश्च । `यावदात्मभावित्वात्’ इत्युपाधिनित्यताऽभिधानाच्च । अतोऽन्यवचनं प्रतीयमानमप्यौपचारिकम् ।
प्र.दी.– ननु `उपाधिनाशे नाशाच्च प्रतिबिम्बस्य’ इति यदुक्तम् तदसत् । भेदे हि बिम्बप्रतिबिम्बयोरेतत्स्यात् । न चैवम् । किन्तु बिम्बमेव प्रतिबिम्बम् । तदेवेदमिति प्रत्यभिज्ञात् ।
``नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपरक्तं न वारिस्थं न मध्यं नभसो गतम् ॥" इति स्मृतावुद्यदादाविव वारिस्थप्रतिबिम्बेऽप्यादित्यशब्दप्रयोगात् । भेदस्तु दर्पणाद्युपाधिकृतः । तथाचोपाधिनाशे भेद एव नश्यति । प्रतिबिम्बस्य कुतो नाशः । एवं जीवस्यापीत्याशङ्क्य प्रत्यभिज्ञानं तावदसिद्धमित्याह – न चेति ॥ न पश्यामो न प्रत्यभिजानीमः । प्रत्युत प्रत्यक्पराग्भावादिना तयोर्भेदमेव पश्यामः इति चार्थः । यच्चोक्तं जीवब्रह्मणोर्बिम्बप्रतिबिम्बयोरौपाधिको भेद इति तन्नास्माकमनिष्टम् । किन्तु परस्यैव । जीवोपाधिनाशे प्रमाणाभावेन नित्यत्वात् । तन्निमित्तस्यापि भेदस्य मुक्तौ स्थितेरित्याशयवानाह – उपाधीति ॥ ``न पश्यामः" इत्यनुवर्तते । न केवलमुपाधिनाशे प्रमाणाभावः । किन्तु तन्नाशाङ्गीकारे बाधकञ्चास्तीत्याह – मग्नस्येति ॥ उपाध्यभावे स्मरणादिविलोपात् । न केवलमेतावत् । उपाधिनित्यत्वे प्रमाणं चास्तीत्याह – यावदिति ॥ अस्तु तर्~ह्युदाहृतं स्मृतिवाक्यं बिम्बप्रतिबिम्बयोरैक्ये प्रमाणमित्यत आह – अत इति ॥ प्रत्यक्षेण भेदस्य प्रतीयमानत्वात् । प्रतीयमानमपीत्यनेन प्रत्यभिज्ञायामिव वचनस्वरूपे न विवादोऽस्तीत्याह । वारिस्थमिति च वचनं न परस्य मुख्यं सम्भवति । अनौपचारिकैः सहपाठेऽपि बाधकवशादौपचारिकत्वं ``ब्रह्मज्ञानेन वा मुक्तिः" इत्यादौ दृष्टमिति ।
भा – दृष्टाश्च ते भगवतो भिन्ना नारदेन । प्रतिशाखं च ``स एकधा" इत्यादिषु भेदेन प्रतीयन्ते । विरोधे तु युक्तिमतामेव बलवत्त्वम् । युक्तयश्चात्रोक्ता ``मग्नस्य हि" इत्यादयः । अतो जले जलैकीभाववदेकीभावः । उक्तं च ``यथोदकं शुद्धे शुद्धम्", ``यथा नद्यः" इत्यादौ । तत्राप्यन्योन्यात्मकत्वे वृद्ध्यसम्भवः । अस्ति चेषत् समुद्रेऽपि द्वारि । महत्त्वादन्यत्रादृष्टिः । ``ता एवापो ददौ तस्य स ऋषिः शंसितव्रतः" इति महाकौर्मे समर्थानां भेदज्ञानाच्च ।
``नैव तत् प्राप्नुवन्त्येते ब्रह्मेशानादयः सुराः । यत् ते पदं हि कैवल्यम्॥" इति निषेधाच्च नारदीये । सविचारश्च निर्णयः कृतो मोक्षधर्मेषु । बलवांश्च सविचारो निर्णयो वाक्यमात्रात् । अतो ``यत्र नान्यत्पश्यति" इत्याद्यपि तदधीनसत्तादिवाचि । अन्यथा कथमैश्वर्यादि स्यात् । न च तन्मायामयमित्युक्तम् । अन्यथा कथं तत्रैव `` स एकधा" इत्यादि ब्रूयात् ।
प्र.दी. – एवं शुकादीनामित्युक्तं प्रत्यक्षमुपपादितम् । अधुनाऽस्तां तावदुपपादनसापेक्षं प्रत्यक्षम् । तन्निरपेक्षं चास्तीत्याह – दृष्टाश्चेति ॥ ते निवृत्तसकलकर्माणो मुक्ताः । एतच्च मोक्षधर्मे स्पष्टमुक्तम् । प्रा~घX मुक्तेश्वरभेदे स्मृतिरुदाहृता । श्रुतिं चोदाहरति – प्रतिशाखञ्चेति ॥ ननु भेद इवाभेदेऽपि ``परेऽव्यये सर्व एकीभवन्ति" इत्यादिवाक्यानि सन्ति । तत्कथं निर्णय इत्यतः सामान्यन्यायं तावदाह – विरोधे त्विति ॥ बलवद्विरोधेन दुर्बलं बाध्यत इति भावः । ततः किं प्रकृत इत्यत आह – युक्तयश्चेति ॥ अत्र भेदपक्षे उपलक्षणमेतत् । प्रत्यक्षानुकूल्यं च भेदवाक्यानां प्राबल्याय ग्राह्यम् । तर्~हि ``एकीभवन्ति" इत्यस्य का गतिरित्यत आह – अत इति ॥ उभयत्र एकीभावशब्देन तद्वादिवाक्यं गृह्यते । स्थानैक्यविषयमैक्यवाक्यमित्यर्थः । इयं च रूढलक्षणेति न प्रयोजनमन्वेषणीयमिति दृष्टान्तोक्तिः । न केवलमियं गतिर्न्यायप्राप्ता । किन्तु श्रौती चेत्याह – उक्तं चेति ॥ उदकेऽप्यैक्यादसम्मतो दृष्टान्त इत्यत आह – अस्ति चेति ॥ समुद्रेऽपि वृद्धिरिति शेषः । अनुपलम्भस्यासिद्धिमाह – द्वारीति ॥ नदीनां द्वारि । दृश्यते चेति शेषः । अन्यत्र कुतो न दृश्यते इत्यत आह – महत्त्वादिति ॥ समुद्रोदकस्य महत्त्वात् । न केवलं वृद्धिलिङ्गकादनुमानादुदके भेदसिद्धिः । किं तर्~हि प्रत्यक्षादपीत्याह – ता एवेति ॥ ``या इन्द्रकमण्डलोरादाय स्वकमण्डलूदके क्षिप्तास्ता एवापस्तस्येन्द्रस्य ददौ वसिष्ठ " इति महाकौर्मवचनात् समर्थानां वासिष्ठादीनां जलभेददर्शनाच्च । भेदादर्शने विभज्य कथं दद्यादिति । इतश्च मुक्तभेदवाक्यमेव प्रबलम् । अभेदनिषेधात्मकत्वादित्याह – नैवेति ॥ कैवल्यं सर्वोत्तमत्वम् । इतोऽपि भेदपक्षो बलवानिति वक्तुमाह – सविचारश्चेति ॥ पूर्वोत्तरपक्षबलाबलचिन्ता विचारः । निर्णयो जीवेशभेदावधारणम् । ``बहवः पुरुषा ब्रह्मन्" इत्यादिनेति शेषः । न हि भिन्नयोर्मुक्तावभेदः सम्भवतीति भावः । ततः किमित्यत आह – बलवांश्चेति ॥ निर्णयश्चेति सम्बन्धः । वाक्यमात्रादेकीभवन्तीत्यादेः । कथं तर्~हि ``यत्र" इत्यादि भूमलक्षणमुच्यत इत्यत आह – अत इति ॥ सविचारनिर्णयविरोधादेव विद्यमानस्याप्यन्यस्य भगवदधीनसत्तादि वाचि । इतश्बैवमित्याह – अन्यथेति ॥ यद्यन्यदेव न स्यात्, तर्~हि कथमीश्वरस्य सर्वेश्वरत्वसार्वज्ञादिकं श्रुत्यादिसिद्धं स्यात् । मायामयमेव तत् श्रुत्यादावुच्यत इत्यत आह – न चेति ॥ बाधकान्तरमाह – अन्यथेति ॥ यदि भूमाऽद्वितीयः स्यात् तर्~हि कथं तद् ज्ञानान्मुक्तस्य, ``स एकधा" इत्यादि भेदेनावस्थानं श्रुतिर्ब्रूयात् । न तद् भूमज्ञानलक्षणम् । किन्तु सगुणविद्योपासनफलमित्यत उक्तम् — तत्रैवेति ॥ भूमप्रकरण एव ॥
भा – नच ``न ह वै सशरीरस्य" इत्यादि विरोधः । वैलक्षण्यात् शरीराणाम् । अभौतिकानि हि तानि नित्योपाधिविनिर्मितानीश्वरशक्त्या । तथाचोक्तम् – ``शरीरं जायते तेषां षोडश्या कलयैव च " इति नारायणाष्टाक्षरकल्पे । वदन्ति च लौकिकाद् वैलक्षण्येऽभावशब्दं ``अप्रहर्षमनानन्दं सुखदुःखबाह्यः" इत्यादिषु । निरुक्त्यभावाच्च न तानि शरीराणि । तथाहि श्रुतेः । ``अशारीतीं तच्छरीरमभवत्" इति । न हि तानि शीर्णानि भवन्ति । `‘सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च" इत्यादि वचनात् । साम्यात् प्रयोगः । प्रयोगाच्च – ``अनिन्द्रिया अनाहारा अनिष्पन्दास्सुगन्धितः । देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम्" इत्यादि दृष्टदेहेष्वेव ॥
प्र.दी. – ननु नारदेन ये श्वेतद्वीपे भगवतो भिन्ना दृष्टास्ते मुक्ता एव न भवन्ति । सशरीरत्वात् । सशरीराणामपि मुक्तत्वाङ्गीकारे – `` न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति" इत्यादि श्रुतिविरोध इत्यत आह – नचेति ॥ कुतो नेत्यत आह – वैलक्षण्यादिति ॥ किं तदस्मदादिशरीरेभ्यस्तेषां वैलक्षण्यमित्यत आह – अभौतिकानीति ॥ अजडानीत्यर्थः । तर्~हि किमात्मकानीत्यत आह – नित्येति ॥ विकारित्वाद् विनाशस्सयादित्यत उक्तम् – ईश्वरशक्त्येति ॥ कुत एतदित्यत आह – तथा चेति ॥ नित्योपाधिरेव षोडशी कला ।
एतदुक्तं भवति – यच्छ्रुतौ सशरीरस्य दुःखानपहतिवचनं तत्कर्माधीनजडशरीराभिप्रायम् । श्वेतद्वीपे नारदेन दृष्टानि तु शरीराणि चिन्मयानि । जडान्यपि न कर्माधीनानि । अतो न दुःखकारणानि । तथा च न तेषां सशरीराणामपि मुक्तत्वे श्रुतिविरोध इति । यदि मुक्ताः सशरीरस्तर्~हि कथं तेषु ``अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः ।" इति शरीराभाववचनमित्यत आह – वदन्ति चेति ॥ लौकिकाद्वैलक्षण्ये सति । तद्वत् अत्रापीति शेषः । इतश्चाशरीरत्वोक्तिर्युक्तेत्याह – निरुक्तीति ॥ निरुक्तिलभ्यार्थस्य तत्राभावादित्यर्थः । काऽसौ निरुक्तिरित्यतः प्रक्रियासम्प्रदानगौरवपरिहाराय श्रुतिमेव तत्परां दर्शयति – तथा हीति ॥ अशारि शीर्णमभवत् । इति हेतोः तच्छरीरशब्दमभवदित्यर्थः । कथं निरुक्तिलभ्योऽर्थः तेषु नास्तीत्यत आह – नहीति ॥ एवं तर्~हि कथं तेषु ``शरीरं जायते तेषां" इति शरीरशब्दप्रयोग इत्यत आह – साम्यादिति ॥ अस्मदादिशरीरैः करचरणादिमत्त्वसाम्याद्गौण इत्यर्थः । कुतोऽयमशरीरशब्दस्याभिप्रायः । सर्वथा विग्रहराहित्यमेव किं न स्यादित्यत आह – प्रयोगाच्चेति ॥ नारदादिभिः दृष्टदेहेष्वेव मुक्तेषु एतद् वाक्यद्वये देहाभावप्रयोगान्यथानुपपत्त्याऽयमर्थः सिद्धो न केवलं सम्भावनामात्रेणेति चार्थः । इत्यादीति क्रियाविशेषणं `प्रयोगात्’ इत्यनेन सम्बद्ध्यते ।
भा – नचैषाऽन्या गौणी मुक्तिः । ``बहुनाऽत्र किमुक्तेन यावत् श्वेतं न गच्छति । योगी तावन्न मुक्तस्सयादेष शास्त्रस्य निर्णयः ॥" इत्यादित्यपुराणे तदन्यमुक्तिनिषेधात् । ये त्वत्रैव भगवन्तं प्रविशन्ति तेऽपि पश्चात्तत्रैव यान्ति । योग्यत्वं चात्र विवक्षितम् । युधिष्ठिरप्रश्न इतरनिन्दनाच्च । सायुज्यं च ग्रहवत् । तदुक्तेश्च – ``भुञ्जते पुरुषं प्राप्य यथा देवग्रहादयः । तथा मुक्तावुत्तमायां बाह्यान् भोगांस्तु भुञ्जते ।" इति नारायणाष्टाक्षरकल्पे । अतोऽनिष्टस्यैव वियोगः ।
प्र.दी.– सन्तु नारदेन दृष्टाः श्वेतद्वीपवासिनो मुक्ताः । तथाऽपि नास्माकं प्रत्यक्षविरोधः । यत एषा श्वेतद्वीपप्राप्तिरूपा निर्गुणमुक्तेरन्या गौणी मुक्तिः । निर्गुणायामेव तु मुक्तौ वयमैक्यं ब्रूम इत्यत आह – न चेति ॥ श्वेतद्वीपप्राप्तिव्यतिरिक्तमुक्तिनिषेधादियमेव मुक्तिरित्यर्थः । ननु शिशुपालादयः श्वेतद्वीपगमनेन विनाऽत्रैव भगवन्तं प्रविश्य मुच्यन्ते । तत्कथमेतदित्यत आह – ये त्विति ॥ ततो मुच्यन्त इति शेषः । ननु ``केचिदत्रैव मुच्यन्ते" इत्याद्युक्त्वा ``महाज्ञाना गच्छन्ति क्षीरसागरं" इति महायोग्यतावतामेव श्वेतद्वीपगमनोक्तेः, कथमयं नियम इत्यत आह – योग्यत्वञ्चेति ॥ अत्र निवास इति शेषः । अस्ति सर्वेषां श्वेतद्वीपप्राप्तिः । महाज्ञानत्वलक्षणं योग्यत्वं त्वत्र निवासे विवक्षितमित्यर्थः । नन्विदं वाक्यं श्वेतद्वीपप्राप्ति विना सगुणमुक्तिः नास्तीत्येतत्परम् । निर्गुणमुक्तिस्त्वन्याऽस्तीत्यत आह – युधिष्ठिरेति ॥ सायुज्यं तावत् प्रसिद्धम् । सैव निर्गुणमुक्तिः । तत्रात्मनो ब्रह्मणैकत्वमित्यत आह – सायुज्यञ्चेति ॥ यथा ग्रहस्य पुरुषान्तरं प्रविश्य भोगः, तथा मुक्तस्येश्वरं प्रविश्य भोग एव सायुज्यम् । नन्वैक्यमित्यर्थः । कुत एतत् ? सायुज्यशब्दसामर्थ्यादागमवाक्याच्चेत्याह – तदुक्तेश्चेति ॥ उत्तमायां मुक्तौ सायुज्यलक्षणायाम् । ईश्वरं प्रविश्येति शेषः । ईश्वरानन्दादिव्युदासाय – बाह्यानिति ॥ बाह्येष्वपि विभागो वचनान्तरादवसेयः । ``सुकृतमप्यप्रियं" इत्यादिनोक्तमर्थमुपसंहरति – अत इति ॥
भा – सोऽस्त्येव सर्वात्मना । `अदुःखं’, `सर्वदुःखविवर्जिताः’ , `अशोकमहिमम्’, `यत्र गत्वा न शोचति’ इत्यादि श्रुतिभ्यः । विशेषवचनाभावाच्च । येषां त्वीषद्दृश्यते ते न सायुज्यं प्राप्ताः । सामीप्याद्येव तेषाम् । अतः प्रारब्धकर्मशेषभावात् तद्भुक्त्वा सायुज्यं गच्छन्ति । तच्चोक्तं ``सङ्कर्षणादयस्सर्वे स्वाधिकारादनन्तरम् । प्रविशन्ति परं देवं विष्णुं नास्त्यत्र संशयः " इति व्यासयोगे । अतोऽनिष्टस्य सर्वात्मना वियोगः । ``परब्रह्मत्वमिच्छामि परब्रह्मन् जनार्दन" इत्यादिना ब्रह्मादिभिरपि प्रार्थितत्वात् ।
``न मोक्षसदृशं किञ्चिदधिकं वा सुखं क्वचित् । ऋते वैष्णवमानन्दं वा~घ्मनोऽगोचरं महत्" इत्यादेश्च ब्रह्मादिपदादप्यधिकतमं सुखं च मोक्ष इति सिद्धम् । अतो योगाय युज्यस्व । ज्ञानोपायाय । तद्धि कर्मकौशलम् ॥ 50 ॥
प्र.दी – यथा सुकृतत्यागे सङ्कोचस्तथाऽनिष्टत्यागेऽप्यस्ति किमिति जिज्ञासायामाह – सोऽस्त्येवेति ॥ प्राचुर्याभिप्रायाण्येतानि वाक्यानि किं न स्युरित्यत आह – विशेषेति ॥ सङ्कर्षणादयः समष्टिजीवाः तावन्मुक्ताः । तेषां च बललक्ष्मणादिरूपेषु दुःखं दृश्यते । तदेव विशेषप्रमाणमित्यत आह – येषान्त्विति ॥ न सायुज्यं प्राप्ताः न मुक्ता इत्यर्थः । सायुज्ययोग्यानां तदभावे मुक्त्यभावात् । तेषां मुक्तत्वोक्तेस्तर्~हि का गतिरित्यत आह – सामीप्यादीति ॥ मुक्तत्वोक्तौ बीजमिति शेषः । कुतस्ते न मुक्ता इत्यत आह – अत इति ॥ दुःखदर्शनात् तद्धेतुभूतप्रारब्धकर्मभावान्न ते मुक्ताः । कदा तर्~हि ते मुच्यन्त इत्यत आह – तद् भुक्त्वेति ॥ अत्रागमसम्मतिं चाह – तच्चेति ॥ `सोऽस्त्येव’ इत्याद्युक्तमुपसंहरति – अत इति ॥ तत्किमनिष्टनिवृत्तिमात्रं मुक्तिरित्यतोऽनुमानागमाभ्यां परमसुखं चेत्याह – तत्किमनिष्टनिवृत्तिमात्रं मुक्तिरित्यतोऽनुमानागमाभ्यां परमसुखं चेत्याह – परब्रह्मत्वमिति ॥ मुक्तत्वम् । ब्रह्मादिभिः दुःखहीनैरपि । मोक्षे सक्तिस्सतुत्यर्थमेतदित्यतो न ब्रह्मण एकान्तित्वविरोधः । समासान्तविधेरनित्यत्वात् वा~घ्मनोऽगोचरमित्युक्तम् । महदित्येतत् सुखमित्यनेन सम्बध्यते – ब्रह्मादिपदादप्यधिकतममिति ॥ ब्रह्मणो ब्रह्मपदादप्यधिकं शेषस्य शेषपदादप्यधिकमित्यादि ज्ञेयम् । एवं ज्ञानफलप्रदर्शनपरत्वेन पूर्वार्धो व्याख्यातःः । उक्तविधया योगस्वरूपनिरूपणपरः किं न स्यादित्यतो अस्मदुक्तेऽर्थे तृतीयपादसङ्गतेरन्यथा तदसङ्गतेरित्यभिप्रेत्य तं पठति – अत इति ॥ न दूरस्थहेतुपरामर्शोऽयमिति ज्ञापयितुं तस्मादिति पठितव्ये `अतः’ इत्युक्तम् । ज्ञानस्य महाफलत्वात् `योगाय युज्यस्व’ इति कथं हेतुहेतुमद्भाव इत्यतः ``योगाय" इत्येतद् व्याचष्टे – ज्ञानेति ॥ ननु `` समत्वं योग उच्यते" इति योगो व्याख्यातः । ``योगः कर्मसु कौशलं" इत्यादि किमिति पुनर्व्याख्यायत इत्यतः स्तुतिरियं योगस्य क्रियत इति भावेनाह – तद्धीति ॥ तत् योग इति शेषः ॥ 50 ॥
(गी. 2/51)
भा – तदुपायमाह – कर्मजमिति ॥ कर्मजं फलं त्यक्त्वा । अकामनयेश्वराय समर्प्य । बुद्धियुक्ताः सम्यग् ज्ञानिनो भूत्वा पदं गच्छन्ति । सयोगकर्म ज्ञानसाधनम् । तन्मोक्षसाधनमिति भावः ॥ 51 ॥
प्र.दी. – ननु कर्मजमिति श्लोकः पूर्वोक्त्वान्न विशिष्यत इत्यत आह – तदुपायमिति ॥ तस्य ज्ञानस्योपायं योगं, तद् ज्ञानमुपायो यस्य तं मोक्षं चाह विवृणोतीत्यर्थः । व्यवहितत्वादन्वयमाह – कर्मजमिति ॥ अप्राप्तस्य फलस्य कथं त्याग इत्यतो व्याचष्टे – अकामनयेति ॥ प्रकृत्यादिभ्य उपसङ्ख्यानात्तृतीया । एतत् प्रागुक्तमित्यतः प्रकारान्तरेण व्याचष्टे – ईश्वरायेति ॥ ``बुद्धियुक्ताः , मनीषिणः" इति पौनरुक्त्यपरिहारायाह – बुद्धियुक्ता इति ॥ सम्यग् ज्ञानिनः शास्त्रजनिततत्वज्ञानिनः । अनेन `मनीषिणः’ इत्यपरोक्षज्ञानिन इति सूचितम् । प्रशंसायां मत्वर्थीयस्य विधानात् । नन्विदमेकं वाक्यं कथं वाक्यार्थद्वयस्य विवरणं । मोक्षस्वरूपविवरणेऽपि योगो न सम्यग् विवृतः । अङ्गिनः कर्मण एवानभिधानात् । अङ्गानां च सङ्कल्पत्यागादीनामित्यत आह – स योगेति ॥ समस्ताङ्गसङ्ग्रहाय योगग्रहणम् । तद् ज्ञानम् । यद्यपि योजनावशादिदमेकं वाक्यम् । तथाप्यर्थवशाद् द्वे वेदितव्ये । योगश्च ``कर्मजं फलं त्यक्त्वा" इत्यनेन समग्रो लक्षित इति भावः ॥ 51 ॥
(गी. 2/52)
भा – कियत्पर्यन्तमवश्यं कर्तव्यानि मुमुक्षुणैवं कर्माणीत्याह – यदेति ॥ निर्वेदं नितरां लाभम् । प्रयोगात् – ``तस्माद् ब्रह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्" इत्यादि । न हि तत्र वैराग्यमुपपद्यते । तथा सति ``पाण्डित्यात्’ इति स्यात् । नच ज्ञानिनां भगवन्महिमादिश्रवणे विरक्तिर्भवति ।
``आत्मारामा हि मुनयो निर्ग्राह्या अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिः " इति वचनात् । अनुष्ठानाच्च शुकादीनाम् । नच तेषां फलं सुखं नास्ति । तस्यैव महत्सुखत्वात्तेषाम् ।
`` या निर्वृतिस्तनुभृतां तव पादपद्मध्यानाद् भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्किम्वन्तकासिलुलितात् पततां विमानात्" इत्यादि वचनात् । तेषामप्युपासनादिफलस्य साधितत्वात् ।
प्र.दी. – `यदा ते’ इति श्लोके योगसम्बन्धि न किमप्युच्यत इत्यतस्तत्सङ्गतिमाह - कियदिति ॥ एवं फलकामनादिवर्जितानीश्वराराधनरूपाणि । इत्याकाङ्क्षायामाहेत्यर्थः ।
नन्वियमाकाङ्क्षैवानुपपन्ना । योगो हि ज्ञानसाधनतयोपदिष्टः । साधनं च साध्यप्राप्तिपर्यन्तमनुष्ठेयमिति प्रसिद्धमेव । नियतपूर्वक्षणवृत्तिकारणमिति हि तल्लक्षणम् । उच्यते । योगो हि न साक्षाद् ज्ञानसाधनम् । किन्तु श्रवणादिकमेव । प्रमितेः प्रमाणफलत्वात् । योगस्त्वदृष्टद्वारा सत्वशुद्धिमुत्पाद्य श्रवणादीनामुपकरोति । उपकारस्य च द्वयी गतिर्दृष्टा । अतो युक्तैवेयमाकाङ्क्षेति । तथापि जिज्ञासुनेति वक्तव्यम् । सत्यम् । मोक्षसाधनज्ञानार्थिनेत्येतावतोऽर्थस्य ग्रहणाय मुमुक्षुणेत्युक्तम् ।
निर्वेदं वैराग्यमित्यन्यथाप्रतीतिनिरासायाह – निर्वेदमिति ॥ ननु निष्पूर्वो विदिर्वैराग्ये रूढः । तत्कुतो लाभार्थतेत्यत आह – प्रयोगादिति ॥ अस्यामपि श्रुतौ वैराग्यार्थता किं न स्यादित्यत आह – नहीति ॥ कुतो नोपपद्यत इत्यत आह – तथा सतीति ॥ `जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्’ इति कात्यायनवचनात्पाण्डित्यस्य विरामार्थधातुयोगेनापादनत्वप्राप्तावापादाने च पञ्चमी स्यान्न द्वितीयेत्यर्थः । इदमत्राभिप्रेतम् । निरुपसर्गः सत्तार्थस्यैव विदेरर्थं बाधित्वा तं वैराग्यार्थं व्यवस्थापयति । निर्विद्यत इति कर्तरि प्रयोगदर्शनात् । लाभार्थस्य विदेरर्थं तु विशिष्ट्येव । केवलं निर्विदन्ति निर्विदन्त इति वैराग्ये तत्प्रयोगदर्शनादिति । अथवाऽस्तु सर्वत्र निरोधात्वर्थबाधकत्वम् । विशेषकत्वमपि क्वचित् किं न स्यात् । ``व्याददाति" इत्यादावुभयदर्शनादिति । न केवलं गीतायां प्रयोगाल्लाभार्थता । किन्तु वैराग्यार्थानुपपत्तेश्चेत्याह – न चेति ॥ अनेनान्तःकरणस्य मोहकलिलातिक्रमो नाम ज्ञानप्राप्तिरिति सूचितं भवति । आदिपदेन तदुपयुक्तं गृह्यते । कुतो न भवतीत्यत आह – आत्मेति ॥ भक्तिं श्रवणादिलक्षणां ``कस्य वा बृहतीमेतामात्मारामः समभ्यसत्" इत्यस्योत्तरत्वात् । अनुष्ठानाच्च श्रवणादेरिति शेषः ।
ननु शुक्लादीनां श्रवणाद्यनुष्ठानेऽपि फलं नास्ति । तत्फलस्य ज्ञानस्य प्राप्तत्वात् । फलाभावानुसन्धानमेवात्र वैराग्यशब्देनाभिप्रेतम् । यथाऽह मायावादी – ``तदा श्रोतव्यं च श्रुतं च निष्फलं प्रतिपद्यत इत्यभिप्रायः ’ इति । अनुष्ठानं तु लोकसङ्ग्रहार्थं संस्काराद्वा इत्यत आह – न चेति ॥ कुतो नेत्यत आह – तस्यैवेति ॥ तस्यैव श्रवणादेरेव । स्थान्यादेशोक्तिव्यत्ययेन द्वन्द्वेऽल्पाच्तरस्य परनिपातेन च ``आत्महतः समानाधिकरणजातीययोः" इत्यस्य विधेरनित्यत्वज्ञापनात्, ``महत्तत्वाद् विकुर्वाणात्" इत्यादिप्रयोगदर्शनाच्च महत्सुखत्वादिति युक्तम् । तथाऽपि श्रवणादिकमेव कथं सुखम् । उत्तरक्षण एव महासुखोदयादैक्योपचार इत्यदोषः । तिष्ठतु तावत्कालान्तरभाविफलमित्येवशब्दः । नन्वस्मदादीनां श्रवणोत्तरक्षणे सुखं नोत्पद्यत इत्यत आह – तेषामिति ॥ रसिकानामित्यर्थः । नहि पितृजीवनादिवार्ताश्रवणेनान्येषामिव पुत्रस्यापि न सुखेनोत्पत्तव्यमिति । अस्तु सम्भावना । निश्चयस्तु कुत इत्यत आह – येति ॥ भवतो भवज्जनानां च स्वमिहमन्याविर्भूतस्वरूपे । आब्रह्मणि अल्पमुक्तेऽपि । न केवलं तात्कालिकं सुखं तत्फलम् । किन्तु मुक्तावानन्दवृद्धिश्चेत्याह – तेषामपीति ॥ ज्ञानिनामपि ।
भाष्यम् – तारतम्याधिगतेश्च । तथाहि - यदि तारतम्यं न स्यात् । ``नाऽत्यन्तिकं विगणयन्त्यपि ते प्रसादं", ``नैकात्मतां मे स्पृहयन्ति केचित्", ``एकत्वमप्युत दीयमानं न गृह्णन्ति" । इति मुक्तिमप्यनिच्छतां मोक्ष एव फलं, तमिच्छतापि स भवति सुप्रतीकादीनामिति कथमनिच्छतां स्तुतिरुपपन्ना स्यात् । वचनाच्च ।
`` यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने । योगिनां भिन्नलिङ्गानामाविर्भूतस्वरूपिणाम् । प्राप्तानां परमानन्दं तारतम्यं सदैव हि " इति ॥
``न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन ।
मद्भक्तियोगाद् ज्ञानाच्च सर्वानतिशयिष्यसि ॥" इति च । साम्यवचनं तु प्राचुर्यविषयं दुःखाभावविषयं च । तथा चोक्तं –
``दुःखाभावः परानन्दो लिङ्गभेदस्समा मताः ।
तथाऽपि परमानन्दो ज्ञानभेदात्तु भिद्यते ॥" इति नारायणाष्टाक्षर कल्पे । अतो न वैराग्यं श्रुतादावत्र विविक्षितम् । न च सङ्कोचे मानं किञ्चिद्विद्यमान इतरप्रयोगे । महद्भिः श्रवणीयस्य श्रुतस्य च वेदादेः प्राप्स्यसीत्यर्थः ॥ 52 ॥
प्र.दी. – ज्ञानोत्तरस्याप्यनुष्ठानस्य यदि फलं स्यात् तर्~ह्यनुष्ठानस्यैकविध्यनियमासम्भवात् स्वर्गवदपवर्गेऽपि तारतम्यं प्रसज्येत । नच तद्युक्तम् । अप्रामाणिकत्वात्प्रमाणविरुद्धत्वाच्चेत्यतो नेदमनिष्टमिति भावेनाह – तारतम्येति ॥ प्रमाणविरोधाभावाच्चेति चार्थः । कुतः प्रमाणान्मुक्ततारतम्याधिगतिरित्यतोऽर्थापत्तिं तावदाह – तथाहीति ॥ यदि मुक्तानां तारतम्यं न स्यात् तदा मुक्तिमप्यनिच्छतामेकान्तिनां मोक्षमात्रं फलम् । तं मोक्षमिच्छतां सुप्रतीकादीनां स मोक्षो भवतीत्यङ्गीकार्यं स्यात् । तथा च `नात्यन्तिकं’ इति मोक्षमनिच्छतां स्तुतिः कथमुपपन्ना स्यात् । निमित्ताभावात् । अतः स्तुत्यन्यथाऽनुपपत्त्येच्छतां मुक्तेरनिच्छतां मुक्तिरधिकेति गम्यत इत्यर्थः । आत्यन्तिकं मुक्तिहेतुम् । एकात्मता सायुज्यम् । एकत्वमपि तदेव । आगमाच्च तारतम्याधिगतिरित्याह – वचनाच्चेति ॥ आविर्भूतस्वरूपिणामिति कर्मधारयादतिशयार्थ इनिः । अनेन जीवन्मुक्तावैश्वर्यतारतम्येनार्थापत्तेरन्यथोपपत्तिः परिहृता । ``लिङ्गभेदेन’, ``भिन्नलिङ्गानां" इत्याद्युक्तेः । ``परमं साम्यमुपैति" इत्यादि वचनविरुद्धं मुक्ततारत्म्यमित्यत आह – साम्येति ॥ प्राचुर्यं पूर्णत्वम् । कुत एतत् । उक्तप्रमाणविरोधाद्विशेषवचनाच्चेत्याह – तथा चेति ॥ यद्यपि परानन्दोऽलम्बुद्धिगोचरत्वमात्रेण समस्तथापीत्यन्वयः । `नच ज्ञानिनां’ इत्यादिनोक्तमर्थमुपसंहरति – अत इति ॥
अस्तु तर्~हि भगवन्महिमादिव्यतिरिक्तश्रुतादौ वैराग्यमत्रविवक्षितमित्यत आह – न चेति ॥ निर्वेदशब्दस्य वैराग्यैकार्थकत्वे निश्चिते तद् बलात् श्रोतव्यादिशब्दस्यार्थसङ्कोचः क्रियेतापि । इतरत्र, नितरां लाभे तस्य श्रौतप्रयोगे विद्यमाने तु निर्मूलं सङ्कोचकल्पनमित्यर्थः । ननु लाभार्थतायामप्यसच्छास्त्रादिव्युदासाय सङ्कोचः कार्य एवेत्यत आह – महद्भिरिति ॥ अयोग्यतयैव तन्निरासः प्रकरणाद्वेति भावः ॥ 52 ॥
(गी. 2/53)
भा – तदेव स्पष्टयति – श्रुतिविप्रतिपन्नेति ॥ पूर्वं श्रुतिभिर्वेदैर्विप्रतिपन्ना विरुद्धा सती यदा वेदार्थानुकूलेन तत्त्वनिश्चयेन विपरीतवाग्भिरपि निश्चला भवति । ततश्च समाधावचला ब्रह्मप्रत्यक्षदर्शनेन भेरीताडनादावपि परमानन्दमग्नत्वात् । तदा योगमवाप्स्यसि । उपायसिद्धो भवसीत्यर्थः ॥ 53 ॥
प्र.दी. – ननूत्तरश्लोकेऽपि योगानुष्ठानावधिरेवोच्यते । अतः पुनरुक्ति दोषः इत्यत आह – तदेवेति ॥ किं तन्मोहकलिलम् । कीदृशं च तदतितरणमित्याशङ्कायां पुंसामधममध्यमोत्तमावस्थादिप्रदर्शनेन पूर्वश्लोकोक्तमेव योगानुष्ठानावधिमनेन स्पष्टं करोतीत्यर्थः ।
नन्वत्र `श्रुतिविप्रतिपन्ना’ इति श्रवणादितो वैराग्यमुच्यते । यथाह भास्करः ``वस्त्वन्तरश्रवणाद्विरक्ता" इति । ततः पूर्वत्रापि वैराग्यमर्थस्सयात् । `निश्चला’, `अचला’, इति पुनरुक्तिश्च । योगावाप्तेरुत्तरा चेयमवस्था । तत्कथमुच्यते `तदा योगमवापत्स्यसि’ इतीति शङ्कायां श्लोकं व्याचष्टे – पूर्वमिति ॥ पूर्वावस्थात उत्तरावस्थायाः सामर्थ्यलब्धं वैलक्षण्यं दर्शयितुमुक्तम् – वेदार्थेति ॥ चलनप्रसक्तिं दर्शयति – विपरीतवाग्भिरिति ॥ असच्छास्त्रैरित्यर्थः । अनेन परोक्षज्ञानाकाष्ठा दर्शिता । परोक्षतत्वनिश्चयानुवृत्तिव्युदासायोक्तम् – ब्रह्मेति ॥ अत्रापि चलनप्रसक्तिमाह – भेरीति ॥ तत्कथमित्यत आह – परमेति ॥ एतेनापरोक्षज्ञानाकाष्ठा दर्शिता । उपायेन सिद्धः प्राप्तफलः । योगशब्देन तत्फलमुपलक्ष्यत इति भावः । श्लोकद्वयेऽप्येतदवस्थाप्राप्तिः योगानुष्ठानावधिरिति तात्पर्यम् ॥ 53 ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः ( प्रमेयदीपिका भाग 6 गी 2ने अध्याय श्लोक 54 रिन्द 2ने अध्याय पूर्ता)
(गी. 2/54)
भा– स्थिता प्रज्ञा ज्ञानं यस्य स स्थितप्रज्ञः । भाष्यतेऽनयेति भाषा । लक्षणमित्यर्थः । उक्तं लक्षणमनुवदति लक्षणान्तरं पृच्छामीति ज्ञापयितुम् – समाधिस्थस्येति ॥ कं ब्रह्माणमीशं रुद्रं च वर्तयतीति केशवः । तथा हि निरुक्तिः कृत्वा हरिवंशेषु रुद्रेण कैलासयात्रायाम् ।
``हिरण्यगर्भः कः प्रोक्त ईशश्शङ्कर एव च । सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान् ॥" इति वचनान्तराच्च । किमासीत किं प्रत्यासीत । न चार्जुनो न जानाति तल्लक्षणादिकम् । ``जानन्ति पूर्वराजानो देवर्षयस्तथैव च । तथापि धर्मान् पृच्छन्ति वार्तायै गुह्यवित्तये । न ते गुह्याः प्रतीयन्ते पुराणेष्वल्पबुद्धिनाम् ॥" इति वचनात् ॥ 54 ॥
प्र.दी – ज्ञानिनि प्रकृते लब्धावसरोऽर्जुनः लब्धावसरोऽर्जुनः पृच्छतीति सङ्गतेः स्फुटत्वात्तामनुक्त्वा प्रज्ञाशब्दस्य बुद्धिमात्रार्थत्वप्रतीतिनिरासाय स्थितप्रज्ञशब्दार्थमाह – स्थितेति ॥ प्रतिष्ठां प्राप्ता । ज्ञानमपरोक्षम् । `किं प्रभाषेत’ इत्यतः `का भाषा’ इत्यस्यार्थान्तरमाह – भाष्यत इति ॥ ज्ञानीति व्यवह्रियत इत्यर्थः । भाषाशब्दस्य स्त्रीलिङ्गत्वादनयेत्युक्तम् । व्यवहारकारणानामनेकत्वात्कस्यायं प्रश्न इति न ज्ञायते । अत आह – लक्षणमिति ॥ सास्नादिमत्वं लक्षणं दृष्ट्वा हि गौरिति व्यवह्रियते ।
ज्ञानिमात्रव्युदासाय `समाधिस्थस्य’ इति विशेषणमिति प्रतीयते । समाधिं कुर्वत इति । यथाह शङ्करः ``लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सयाऽर्जुन उवाच’ इति । तदसदिति भावेनाह – उक्तमिति ॥ ज्ञानिसामान्यलक्षणविषय एवायं प्रश्नः । किमर्थं तर्~हि `समाधिस्थस्य’ इत्युक्तमिति चेत् `समाधावचला बुद्धिः’ इत्यनेनोक्तं ज्ञानिसामान्यलक्षणमनेनानुवदतीति ब्रूमः । न हीदं न लक्षणम् । ज्ञानिमात्रनिष्ठधर्मत्वात् । किमर्थोऽनुवाद इति चेत्, तद् ज्ञातं मयेति ज्ञापनार्थमिति वदामः । एतद् ज्ञापनेऽपि किं प्रयोजनमिति चेल्लक्षणान्तरं पृच्छामीति ज्ञापयितुम् । अन्यथा सिद्धप्रश्नोऽयमित्युपेक्षः प्रसज्येतेति भावः । लक्षणान्तरप्रश्नस्य चेदं प्रयोजनम् । अयावल्लक्ष्यभावित्वान्न तत्सम्यग्व्यवहारोपयोगि । यावल्लक्ष्यभावि तु सार्वत्रिकव्यवहारोपयोगि ज्ञास्यामीति । अत एव प्रसिद्धलक्षणपदपरित्यागेनाप्रसिद्धभाषापदोपदानमिति ।
कश्च अश्च ईशश्च केशाः ब्रह्मविष्णुमहेश्वराः । ते यस्यावयवभूताः स केशवः परमात्मोच्यत इति भास्करो निरुक्तवान् ``एतत् श्रुत्वा केशवस्य" इत्यत्र । तदसदिति भावेनाह – कमिति ॥ कुत इयं निरुक्तिरित्यत आह – तथाहीति ॥
``को ब्रह्मेति समाख्यात ईशोऽहं सर्वदेहिषु । आवां तवाङ्गे सम्भूतौ ततः केशवनामवान् ॥" इति हरिवंशवचनम् । वचनान्तराच्चेयमेव निरुक्तिः स्वीकार्येत्याह – हिरण्यगर्भ इति ॥ अत इति लभ्यते । तेनैव शब्दस्यान्वयः । हिरण्यगर्भ एव नत्वन्यः प्रजापतिः । शङ्कर एव नत्वन्यः समर्थ इति वा । अनेन केशयोः कर्मणोरुपपदयोरन्तर्णीतण्यर्थात् `वृतु वर्तने’ इत्यस्माद्धातोः `डोऽन्यत्रापि दृश्यते’ इति डप्रत्यय इत्युक्तं भवति । आसेरकर्मकत्वात् कथं कर्मप्रश्न इत्यत आह – किमिति ॥ अध्याहृतप्रतियोगनिमित्ता द्वितीया । न कर्मणीत्यर्थः ।
प्रश्नकरणादर्जुनस्याज्ञत्वं प्रतीतम् । तन्निवारयति – न चेति ॥ तल्लक्षणादिकं ज्ञानिलक्षणं, तत्प्रवृत्त्यनुपपत्तिसमाधानं च । प्रश्नस्यान्यथोपपत्तेरिति भावः । कुत इत्यत आह – जानन्तीति ॥ समासान्तो विधिरनित्यः । अतः ``पूर्वराजानः" इति साधु । देवर्षयश्च तथैव जानन्त्येव । धर्मानित्युपलक्षणम् । वार्तायै गुरोरात्मनां च ख्यात्यै । लोकस्य गुह्यार्थवित्तये च । एतेषां प्रश्नकरणं लोकानां कथं गुह्यार्थवित्तये भवतीत्यतो व्यतिरेकमुखेनोपपादयति – न त इति ॥ ``छन्दस्युभयथा" इत्यतोऽल्पबुद्धीनामिति नामि दीर्घत्वाभावः । गुह्यास्तेऽर्थाः, पुराणादिषु प्रश्नोत्तरनिबन्धनेन विनोक्तिमात्रेणाल्पबुद्धिनां व्यक्तं न प्रकाशन्ते । नच प्रश्नाकरणे तदुपनिबन्धनं सम्भवतीत्यर्थः । एतेन ``मोहादिस्त्वभिभवादेः" इत्येतद् प्रपञ्चितं भवति ॥ 54 ॥
(गी. 2/55)
भा – गमनादिप्रवृत्तिर्नात्यभिसन्धिसूचिपूर्विका । मत्तादिप्रवृत्तिवदिति ``या निशा" इत्यादिना दर्शयिष्यन् लक्षणं प्रथमत आह – प्रजहातीति ॥ एवं परमानन्दतृप्तः किमर्थं प्रवृत्तिं करोतीति प्रश्नाभिप्रायः । प्रारब्धकर्मणेषत्तिरोहितब्रह्मणो वासनया प्रायोऽल्पाभिसन्धिपूर्विका प्रवृत्तिस्सम्भवतीत्याशयवान् परिहरति । प्रायः सर्वान् कामान् प्रजहाति । शुकादीनामपीषद्दर्शनात् ।
``त्वत्पादभक्तिमिच्छन्ति ज्ञानिनस्तत्त्वदर्शिनः" इत्युक्तेस्तामिच्छन्ति । यदा त्विन्द्रादीनामाग्रहो दृश्यते तदाभिभूतं तेषां ज्ञानम् । तच्चोक्तम् –
``आधिकारिकपुंसां तु बृहत्कर्मत्वकारणात् । उद्भवाभिभवौ ज्ञाने ततोऽन्येभ्यो विलक्षणा " इति । अत एव वैलक्षण्यादनधिकारिणामाग्रहादि चेदस्ति न ते ज्ञानिन इत्यवगन्तव्यम् ।
प्र.दी. – लक्षणप्रश्नस्यैवोत्तरं प्रतीयते । न तु `स्थितधीः’ इत्यादेरित्यतस्तदुत्तरस्थानं दर्शयन्ननन्तरप्रकरणार्थं दर्शयति – गमनादिति ॥ अभिसन्धिः प्रयोजनोद्देशः । ईषदभिसन्धिसूचनायाति- शब्दः । प्रवृत्तिमात्रमिहाभिप्रेतम् । न भाषणादिकमेवेति ज्ञापनाय ``भाषणादि" इति नोक्तम् । व्यवहारस्य लक्षणप्रश्नो घटते । प्रवृत्त्युद्देश्यप्रश्नस्तु व्यर्थ एव । नच शक्यः प्रतिवक्तुम् । अनेकेषां प्रवृत्त्युद्देश्यस्यैकरूपस्याभावादित्यभिप्रायेण भगवतोपेक्षितोऽसाविति किं न स्यात् । किं तदुत्तरस्थानप्रदर्शनेन । अन्यथाऽल्पमप्युद्देश्यं वक्तव्यमित्यत आह – एवमिति ॥ भेरीताडनादावप्यचलेत्युक्तप्रकारेण परमानन्दतृप्तश्चेत् किमर्थं प्रवृत्तिं करोति । न कुर्यात् । करोति च । तस्मादुक्तमसदित्युक्ताक्षेप एवात्राभिप्रेतः । प्रश्नस्तु मुखत एव । अतो नोपेक्षामर्~हतीति भावः । एतच्चार्जुनस्य प्रेक्षावत्त्वाद् गम्यते । एवं चेत् ``गमनादिप्रवृत्तिः" इत्युक्तः परिहारो न पूर्णः । प्रवृत्तिकारणानुक्तेरित्यत आह – प्रारब्धेति ॥ ईषत् तिरोहितं ब्रह्म यस्यासौ तथोक्तः । परिहरति द्वितीयं प्रश्नं ``या निशा" इत्यादाविति शेषः ।
ननु सर्वकामप्रहाणिर्ज्ञानिलक्षणत्वेनोच्यते । तत्कथमल्पाभिसन्ध्यङ्गीकार इत्यत आह – प्राय इति ॥ कुतस्सर्वशब्दसङ्कोच इत्यत आह – शुकादीनामपीति ॥ विरुद्धकामस्येति शेषः । तच्च प्रवृत्तिलिङ्गेन आगमाच्च ज्ञातव्यम् । अनुकूलकामस्तु सर्वथाऽस्त्येव । अतोऽपि सङ्कोच इत्याह – त्वत्पादेति ॥ तां भक्तिम् । उपलक्षणमेतत् । प्रायेण विरुद्धकामत्यागो ज्ञानिलक्षणं चेदिन्द्रादीनां ज्ञानित्वं न स्यात् । बहुतरविरुद्धकामदर्शनात् । तथाभूता अपि चेद् ज्ञानिनस्तर्~हि देवदत्तादयोऽपि किं न स्युरित्यत आह – यदा त्विति ॥ आग्रहो विरुद्धकामाभिनिवेशः । एतत्प्रमाणेन स्थापयति – तच्चेति ॥ ``आधिकारिकाः" इति पुरुषनिवेशसञ्ज्ञा । ``प्रजापाश्च तथा देवाः" इत्यादि वचनात् । देवदत्तादि प्रतिबन्दी मोचयति – अत एवेति ॥ एतदागमोक्तादेव । आदिपदेन विरुद्धक्रोधादिग्रहणम् । अनेन कामशब्दः क्रोधादीनामप्युपलक्षणार्थ इति सूचितं भवति ।
भा – न चात्र समाधिं कुर्वतो लक्षणमुच्यते । ``यस्सर्वत्रानभिस्नेहः" इति स्नेह निषेधात् । नहि समाधिं कुर्वतस्तस्य शुभाशुभप्राप्तिरस्ति । असम्प्रज्ञातसमाधेः । सम्प्रज्ञाते त्वविरोधः । तथापि न तत्रैवेति नियमः ।
``कामादयो न जायन्ते ह्यपि विक्षिप्तचेतसाम् ।
ज्ञानिनां ज्ञाननिर्धूतमलानां देवसंश्रयात् ॥" इति स्मृतेः । मनोगता हि कामाः । अतस्तत्रैव तद्विरुद्धज्ञानोत्पत्तौ युक्तं हानं तेषामिति दर्शयति – मनोगतानिति ॥ विरोधश्चोच्यते ``रसोऽप्यस्य परं दृष्ट्वा निवर्तते" इति । न चैतददृष्ट्याऽपलपनीयम् । पुरुषवैशेष्यात् । आत्मना परमात्मना । परमात्मन्येव स्थितस्सन् । आत्माख्ये तस्मिन् स्थितस्य तत्प्रसादादेव तुष्टिर्भवति ।
``विषयांस्तु परित्यज्य रामे स्थितिमतस्ततः । देवाद्भावति वै तुष्टिर्नान्यथा तु कथञ्चन ॥" इत्युक्तं हि नारायणाष्टाक्षरकल्पे । अतो नात्मा जीवः ॥ 55 ॥
प्र. दी .– ननु समाधिं कुर्वतो ज्ञानिनो लक्षणमेतदिति व्याक्रियताम् । तथा सति प्रश्नवाक्यस्थं `समाधिस्थस्य’ इति पदं समञ्जसं स्यात् । इन्द्रादिविषयाक्षेपाप्रसक्तिश्चेत्यत आह – न चेति ॥ समाधिं कुर्वतस्सनेहनिषेधोऽनुगुण एवेत्यत आह – न हीति ॥ नात्र स्नेहनिषेधमात्रमुच्यते । किन्तु ``तत्तत्प्राप्य शुभाशुभं" इति शुभाशुभार्थप्राप्तिपूर्वकम् । नच तत्प्राप्तिस्समाधिं कुर्वतो ज्ञानिनोऽस्ति । कुत इत्यत उक्तम् – असम्प्रज्ञातेति ॥ असम्प्रज्ञातः समाधिः यस्यासौ तथोक्तः । बाह्यार्थानुसन्धानं यत्र नास्ति सोऽसम्प्रज्ञातसमाधिः । इतरः सम्प्रज्ञातसमाधिरिति योगशास्त्रे प्रसिद्धः । तथा च लक्षणमसम्भवति प्रसज्येत । सावकाशेभ्यो बहुभ्यो निरवकाशस्यैकस्यैव बलवत्त्वमिति भावः । एवं तर्~हि सम्प्रज्ञातसमाधिस्थस्यैतल्लक्षणमस्तु । तत्रोक्तदोषाभावादित्यत आह – सम्प्रज्ञाते त्विति ॥ यद्यपि सम्प्रज्ञातसमाधौ शुभाशुभप्रतीतिसम्भवेनासम्भवित्वं नाम लक्षण विरोधो नास्ति । तथापि कामादिहानं समाधिस्थ एव पुंसीति नियमो नास्ति । असमाधिस्थेऽपि ज्ञानिनि विद्यमानत्वात् । तथाचातिव्याप्तिः स्यादित्यर्थः । असमाधिस्थेऽपि ज्ञानिनि कामाद्यभावः । कुत इत्यत आह – कामादय इति ॥ तदर्थं ``सर्वथा" इति विशेषणप्रक्षेपेऽपि पुरुषविशेषेऽतिव्याप्तिपरिहारो दुर्घट एव । नच अस्मन्मतेप्यव्याप्तिदोषः । असम्प्रज्ञातसमाधिस्थव्यतिरिक्तविषयत्वात् । सम्भवतस्तु तद्विषयत्वादिति ।
कामानां मनोगतत्वाद्व्यभिचाराद्व्यर्थं विशेषणमित्यतो नेदं विशेषणम् । किन्तु सर्वकामत्यागस्यासम्भवित्वमाशङ्क्य तदुपपादनाय युक्तिरियमुक्तेत्याह – मनोगता हीति ॥ तत्रैव मनस्येव । कामज्ञानयोर्विरोधः कुत इत्यत आह – विरोधश्चेति ॥ रसो राग इति वक्ष्यति । ननु सर्वकामप्रहाणमस्मदादिषु न दृष्टम् । तद् दृष्टान्तेन ज्ञानिष्वपि तदभावादनुमानादसम्भवित्वं लक्षणस्येत्यत आह – न चेति ॥ कुतः ? उदाहृतप्रमाणविरोधात् । प्रमाणविरुद्धार्थानुमाने च पण्डितमूर्खादिवैचित्र्यालापप्रसङ्गादित्याह – पुरुषेति ॥ `अत्मनि’, `आत्मना’ इति पदद्वयेन जीव एवोच्यत इति कश्चित् । तृतीयान्तेन मन इत्यपरः । तदुभयमसदिति भावेनाह – आत्मनेति ॥ स्थितस्सन्निति शेषोक्तिः । वाक्यार्थं वदन् स्वव्याख्यानोपपत्तौ परव्याख्यानानुपपत्तौ च युक्तिमाह – आत्माख्य इति ॥ तस्मिन् स्थितस्य तदेकाग्रचित्तस्य । अत्र त्यक्तविषयस्यापि तुष्टिरुच्यते । सा च परमात्मपरिग्रहे सम्भवति । नान्यथेत्यर्थः । कुत इत्यत आह – विषयांस्त्विति ॥ ततः किमित्यत आह – अत इति ॥ 55 ॥
(गी . 2/56)
भा – तदेव स्पष्टयति उत्तरैस्त्रिभिः श्लोकैः । एतान्येव ज्ञानोपायानि । तच्चोक्तम् –
``तद्वै जिज्ञासुभिः साध्यं ज्ञानिनां यत्तु लक्षणम् ।" इति । शोभनाध्यासो रागः । ``रसो रागस्तथा रक्तिः शोभनाध्यास उच्यते" इत्यभिधानात् ।
प्र.दी. – ननु लक्षणस्यानेनैवोक्तत्वात् किं `दुःखेषु’ इत्यादिनेत्यत आह – तदेवेति ॥ उक्तं लक्षणमेव । स्पष्टनं च कामशब्दोपलक्षितदोषान्तरत्यागकथनादिनेति ज्ञेयम् । ननु कामत्यागादीनि ज्ञानसाधनतयोतच्यन्त `अमानित्वं’ इत्यादौ ॥ ततो ज्ञानिलक्षणस्य जिज्ञासावतिव्याप्तिरित्यत आह – एतान्येवेति ॥ उप समीपे आयः फललाभो येषां तान्युपायानि साधनानि । सत्यमेतत् । तथापि जिज्ञासौ प्रयत्नसाध्यानि, ज्ञानिनि तु स्वभावसिद्धानीति न दोष इति भावः । अत्र प्रमाणमाह – तच्चेति ॥ समुच्चयवादी त्वाह – ``यानीह स्थितप्रज्ञलक्षणान्युच्यन्ते तान्येवापवर्गसाधनानि’ इति । तद्वाऽनेन दूषयति । ``ज्ञानसाधनान्येव नापवर्गसाधनानि’ । यथोक्तं ``कामकारेण चैके" (ब्र.सू.) इति । आनन्दवृद्ध्यर्थता त्वङ्गीकृतैव । `योगे त्विमां श्रुणु’ इत्युक्त्वा कथं योगादन्यदुच्यत इत्यतो वेदमुदितमिति । विगतस्पृहपदेनैव `वीतरागः’ इत्येतद् गतार्थमित्यत आह – शोभनेति ॥ अशोभनेषु विषयेषु शोभनत्वभ्रान्तिः । रसो रागो रक्तिरित्येतैः काम उच्यते । तथा शोभनाध्यास उच्यत इत्यर्थः ॥ 56 ॥
(गी. 2/57-58)
भा – सर्वत्रानभिस्नेहत्वाच्छुभाशुभं प्राप्य नाभिनन्दति न द्वेष्टि ॥ 57 ॥ 58 ॥
प्र.दी. – वीतक्रोध इत्युक्तत्वान्न द्वेष्टीति पुनरुक्तिरित्यत आह – सर्वत्रेति ॥ सकारणकं द्वेषवर्जनमत्रोच्यत इत्यर्थः ॥ 57 ॥ 58 ॥
(गी 2/59)
भा – नचैतल्लक्षणं ज्ञानमयत्नतो भवतीत्याहोत्तरैः श्लोकैः । निराहारत्वेन विषयभोगसामर्थ्याभाव एव भवति । इतरविषयकाङ्क्षाभावो वा । रसाकाङ्क्षादिर्न निवर्तते । स त्वपरोक्षज्ञानादेव निवर्तत इत्याह – विषया इति ॥
``इन्द्रियाणि जयन्त्याशु निराहारा मनीषिणः । वर्जयित्वा च रसनामसौ रस्ये तु वर्धते ॥"
इति वचनाद् भागवते । रसशब्दस्य रागवाचित्वाच्च ॥ 59 ॥
प्र.दी. – ``विषया विनिवर्तन्त" इत्यादि श्लोकत्रयान्तेऽपि `तस्य प्रज्ञा प्रतिष्ठिता" इत्युक्तत्वादिदमपि लक्षणविवरणमिति भ्रान्तिस्सयात् । तन्निराकरणार्थमाह – नचेति ॥ एतल्लक्षणं यस्माद्भव ति तदेतल्लक्षणम् । अयत्नतः अल्पयत्नतः । अनुदरा कन्येति यथा । यद्येवं लक्षणं ज्ञानं तर्~हि सर्वोऽपि जनः कस्मान्न तत्साधयति । कामाद्युपद्रवपरिहारार्थं किं दन्दह्यमानशिरा इव बम्भ्रमीति । अतो नास्त्येवेदं ज्ञानिषु लक्षणमित्याशङ्कापरिहारार्थमिति शेषः । त्रिभिरित्यनुवर्तते । ज्ञानस्याल्पप्रयत्नासाध्यत्वमत्र न प्रतीयत इत्याशङ्क्योपोद्घातप्रक्रिययेन्द्रियजयस्य तावन्महाप्रयत्नसाध्यत्वमाद्येन श्लोकेनोच्यत इति भावेन तं व्याचष्टे – निराहारत्वेनेति ॥ तेन `रसवर्जं’ इत्येतदन्तस्य वाक्यस्यार्थ उक्तः । एव शब्देन `रसवर्जं’ इत्येतद् व्याचष्टे । तथाहि निराहारस्य देहिनः तेन निराहारत्वेनेति यावत् । विषया रूपादयः । तद्भोगसमर्थानीन्द्रियाण्यनेनोपलक्ष्यन्ते । तानि विनिवर्तन्ते । `रसवर्जं’ रसो रागः तं वर्जयित्वा । विषयाभिलाषः चैतसिको निराहारत्वेन न विनिवर्तत इति । अस्यैवार्थान्तरमाह – इतरेति ॥ आकाङ्क्षशब्देन भोगशक्तयोऽपि लक्ष्यन्ते । `रसवर्जं’ इत्यस्यार्थो रसाकाङ्क्षादिरिति ॥ ततश्चेयं योजना । निराहारत्वेन रसादितरे विषयाः तद्भोगशक्तयः तदाकाङ्क्षाश्चेति यावत् । विनिवर्तन्ते रसं वर्जयित्वा । मनसो रसविषयाकाङ्क्षा रसनेन्द्रियस्य तद्भोगशक्तिश्च न निवर्तत इति । रसोऽपीत्यस्यार्थमाह – स त्विति ॥ आद्येऽर्थे स रसः सर्वविषयविषयको रागः । द्वितीये स रसस्तद्भोगशक्तिस्तदाकाङ्क्षा च । उक्तमर्थं श्लोकारूढं करोति – इत्याहेति ॥ द्वितीयार्थे प्रमाणमाह – इन्द्रियाणीति ॥ जयन्ति भोगशक्तिक्षयेण, रागक्षयेण च । असौ रसना तु । रस्ये विषये । प्रकारद्वयेन च वर्धते । आद्यमर्थमुपपादयति – रसशब्दस्येति ॥ `उक्तं युक्तं’ इत्युभयत्र शेषः । रसशब्दस्य रागवाचित्वं तूक्ताभिधानादवगन्तव्यम् । अचेतने चेतनवदुपचारात् ``रसः परं दृष्ट्वा निवर्तते" इति युक्तम् ।
अयमर्थसङ्ग्रहः । यदा बाह्येन्द्रियाणि विषयैस्सन्निकृष्यन्ते तदा तद् द्वारा मनस्तत्र प्रवर्तते । प्रवृत्ते च मनसि रागो भवति, तत आत्मनः क्षोभ इत्येष इन्द्रियाणामविजयः । यो हि यं व्याकुलं करोति स तेन विजित इत्युच्यते । यदा तु बाह्येन्द्रियाणि विषयसन्निधानेऽपि न तैस्सन्निकृष्यन्ते, सन्निकृष्टान्यपि न मनस्तदाभिमुख्येनाहरन्ति, आहृतेऽपि मनसि न विषयरागो जायते तदा नात्मनः क्षोभो भवतीत्येष इन्द्रियजयः । सोऽयं सङ्ग्रहेण द्वेधा । बाह्येन्द्रियाणां शक्तिक्षयान्मनसो रागक्षयाच्च । एतद् द्वयं च पुरुषभेदेनोक्तप्रकारद्वयेन निराहारत्वब्रह्मसाक्षात्काराभ्यां भवतीत्येवमिन्द्रियजयस्य महाप्रयत्नसाध्यत्वमिति ॥ 59 ॥
(गी. 2/60)
भा – अपरोक्षज्ञानरहितज्ञानिनोऽपि साधारणयत्नवतोऽपि मनो हरन्तीन्द्रियाणि । पुरुषस्य शरीराभिमानिनः । को दोषस्ततः । प्रमाथीनि प्रमथनशीलानि पुरुषस्य ॥ 60 ॥
प्र.दी. – ननु यत्नज्ञानाभ्यामिन्द्रियजयमुक्त्वा ``यततो ह्यपि" इति तद्विरुद्धं कथमुच्यत इति चेन्न । इन्द्रियजयार्थं किं निराहारत्वलक्षणेन महाप्रयत्नेन । प्रत्याहारादिना साधारणप्रयत्नेन तत्सम्भवात् । तथा किमपरोक्षज्ञानेन । नित्यानित्यविवेकज्ञानेनापि तदुपपत्तेरित्याशङ्क्य तन्निषेधोऽत्र क्रियत इत्याशयवान् व्याचष्टे – अपरोक्षेति ॥ ज्ञानस्य प्राधान्यसूचनाय ``विपश्चितोऽपि" इत्येतद् पश्चादुक्तमपि ``अपरोक्ष" इत्यादौ व्याख्यातम् । यततोऽपीत्यस्यार्थः साधारणेति – हरन्ति विषयसन्निकृष्टानि तदभिमुखं कृत्वा तद्रागीकुर्वन्तीत्यर्थः । पुरुषस्येति व्यर्थम् । स्त्रीणामप्येवम्भावादित्यत आह – पुरुषस्येति ॥ एतच्चोक्तोपपादनार्थम् । ``प्रमाथीनि" इत्यस्य प्रयोजनं वक्तुमाह – क इति ॥ एतावताऽऽत्मनस्तदविजयः कथमित्याशयघः । मनोहृतवन्ति पुरुषस्य क्षोभणशीलानीति न तेन जितानीति भावः । `पुरुषस्य’ इत्यनेन उभयत्रास्यान्वयं दर्शयति ॥ 60 ॥
(गी. 2/61)
भा – तर्~ह्यशक्यान्येवेत्यत आह – तानिति ॥ बहुयत्नवतः शक्यानि । अतो यत्नं कुर्यादित्याशयः । युक्तो मयि मनोयुक्तः । अहमेव परः सर्वस्मादुत्कृष्टो यस्य स मत्परः । फलमाह – वशे हीति ॥ 61 ॥
प्र.दी. – उपोद्घातस्य साध्ये वक्तव्ये `तानि सर्वाणि’ इति किमुच्यत इत्यतो अन्तरापतितां शङ्कां निवर्तयितुमेतदिति भावेनाह – तर्~हीति ॥ यदि साधारणयत्नविवेकज्ञानाभ्यां न जीयन्त इत्यर्थः । अशक्यान्येव जेतुमिति शेषः । निराहारस्य देहावस्थानासम्भवाद् ब्रह्मापरोक्षज्ञानस्य चेन्द्रियजयसाध्यतयाऽभिप्रेतत्वेनेतरेतराश्रयप्रसङ्गादिति भावः । तथा च तज्जयस्य ज्ञानसाधनत्वं यद्विवक्षितं तन्न सम्भवतीति शङ्काशेषः । इन्द्रियसंयमोऽशक्य एवेति शङ्कायां `तानि सर्वाणि संयम्यासीत’ इति किमेतदुच्यत इत्यत आह – बहुयत्नवत इति ॥ यत्नं बहुमिति शेषः । यद्यपि तज्जये न परोक्तं साधनमस्मदुक्तं च शक्यम् । तथापि तत्प्रतिनिधिना महता प्रयत्नेन जय्यानीत्यर्थः । एतदप्युपोद्घातत्वेनैवोक्तमिति ज्ञातव्यम् । `युक्त’ इति नैतद्युजिरो रूपम् । येन प्रतिसम्बन्ध्याकाङ्क्षायां तदनुक्तिर्दोषः स्यात् । किन्तु समाध्यर्थस्य युजेरिति भावेनाह – युक्त इति ॥ `मत्परः’ इत्युत्तरत्र श्रवणान्मयीत्युक्तम् । `मत्परः’ इत्यद्वैतज्ञानमन्यैर्व्याख्यातम् । तन्नाक्षरानुसारीत्याशयवान् व्याचष्टे – अहमेवेति ॥ भगवानेव सर्वस्मादुत्कृष्ट इति ज्ञात्वा तस्मिन्नेव निरन्तरं मनसो योजनमिन्द्रियजये परं साधनमिति भावः । निराहारत्वादिकं तु वस्तुगतिप्रदर्शनपरतयोत्तरार्धतात्पर्यमाह – फलमिति ॥ यद्येवं ततः किमित्याकाङ्क्षायामिन्द्रियजयस्य ज्ञानं फलमाहेत्यर्थः । यत एवं ज्ञानं महायाससाध्येन्द्रियजयफलमत एवायासभीरुर्जनो न तत्साधयति । नतु ज्ञानस्योक्तलक्षणत्वाभावादिति श्लोकत्रयतात्पर्यार्थः ॥ 61 ॥
(गी. 2/62-63)
भा – रागादिदोषकारणमाह परिहाराय श्लोकद्वयेन । सम्मोहोऽकार्येच्छा । तथा हि मोहशब्दार्थ उक्त उपगीतासु
``मोःसज्झितम् । अधर्मलक्षणश्बैव नियतं पापकर्मसु" इति । तथाचान्यत्र `सम्मोहोऽधर्मकामिका’ इति । स्मृतिविभ्रमः प्रतिषेधादि बुद्धिनाशः । बुद्धिनाशः सर्वात्मना दोषबुद्धिनाशः । विनश्यति नरकाद्यनर्थं प्राप्नोति । तथा ह्युक्तम् – ``अधर्मकामिनः शास्त्रे विस्मृतिर्जायते यदा । दोषादृष्टेस्तत्कृतेश्च नरकं प्रतिपद्यते" इति ॥ 62,63 ॥
प्र.दी – `ध्यायत’ इत्यादिना प्रकृतानुपयुक्तं किमेतदुच्यत इत्यत आह – रागादीति ॥ रागादिदोषस्य कारणं रागादिदोषकारणम् । तथा रागादिदोषः कारणं यस्य तद्रागादिदोषकारणम् । परिहाराय रागादिदोषस्य । इदमुक्तं भवति । `मत्परो युक्त आसीत’ इतीन्द्रियजयस्य परमसाधनमुक्तम् । रागादिदोषपरिहारोऽप्यपरं साधनमिति वक्ष्यति । तत्र स एव कथं स्यादित्याकाङ्क्षायामुपोद्घातप्रक्रिययेदमुच्यत इति । सम्मोहो मूर्च्छाऽत्र न सङ्गच्छत इत्यतोऽन्यथा व्याचष्टे – तथा हीति ॥ संशब्दस्तु तस्यैव विशेषक इति भावः । अदृष्टरूपाधर्मविषयं तद्धेतुषु पापकर्मसु च नियतं कामनं मोहसञ्ज्ञितमित्यर्थः । स्पष्टं चात्र प्रमाणमाह – तथा चेति ॥ यत्किञ्चिद्विषयस्य स्मृतिविभ्रमस्य प्रकृतानुपयोगात् सम्यग्व्याचष्टे – स्मृतीति ॥ विभ्रमोऽनवस्थानम् । नाश इति यावत् । चेतनस्य कथं बुद्धिनाश इत्यत आह – बुद्धीति ॥ स्मृतिविभ्रम एवायमित्यतः सर्वात्मनेत्युक्तम् । नित्य आत्मेत्युक्तम् । तत्कथं विनश्यतीत्यत आह – विनश्यतीति ॥ उक्तेऽर्थे प्रमाणमाह – तथाहीति ॥ तदा दोषादृष्टेः । एतदुक्तं भवति । रागद्वेषयोः परम्परया नरकाद्यनर्थप्राप्तिः कार्यमिति ज्ञानेन तत्परिजिहीर्षायां विषयध्यानं परम्परया तत्कारणमिति ज्ञानेन तदकरणात्तयोरनुत्पादो भवतीति ॥ 62 , 63 ॥
(गी. 2/64)
भा – इन्द्रियजयफलमाहोत्तराभ्यां श्लोकाभ्याम् । विषयाननुभवन्नपि । विधेय आत्मा मनो यस्य सः । जितात्मेत्यर्थः । प्रसादं मनः प्रसादम् ॥ 64 ॥
प्र.दी.– रागद्वेषेति श्लोकद्वयस्य तात्पर्यमाह – इन्द्रियेति ॥ इन्द्रियजयश्च तत्फलं चेन्द्रियजयफलम् । इन्द्रियजयस्य फलं इन्द्रियजयफलम् । अस्त्वेवं रागद्वेषपरिहारः । ततः किमित्याकाङ्क्षायां रागद्वेषपरिहारस्येन्द्रियजयाख्यं फलमाह । इन्द्रियजयेन किं भवति । (वशे हि यस्येन्द्रियाणि इति) ज्ञानं भवतीत्युक्तमिति चेत्सत्यम् । तत्किं साक्षादिन्द्रियजयफलमुत व्यवहितमित्याकाङ्क्षायामिन्द्रियजयस्य फलं ज्ञानं यथा स्यात्तथाऽऽहेत्यर्थः । रागद्वेषपरिहारवद्विषयचरणस्यापीन्द्रियजयसाधनत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह – विषयानिति ॥ निराहारत्वमिन्द्रियजये कारणम् । तच्चाशक्यम् । अतः कथमिन्द्रियजय इत्याशङ्क्य देहधारणमात्रोपयुक्तविषयानुभवो न दोषायेति तदभ्युपगममात्रमनेन क्रियत इति भावः । इन्द्रियजयवाचकं पदमत्र न श्रूयत इत्यतस्तद् व्याचष्टे – विधेय इति ॥ स विधेयात्मेति शेषः । किमनेनापीत्यत आह – जितेति ॥ अनेन पादत्रयेण रागद्वेषपरिहारस्येन्द्रियजयाख्यं फलमुक्तम् । यद्यप्यनुवादोऽयं प्रतीयते । तथाप्यप्राप्तत्वादन्यथावाक्यवृत्तिः । तथा हि । य उक्तविधया त्यक्तरागद्वेषः । स रागद्वेषवियुक्तैस्ताभ्यामप्रयुक्तैः केवलं शरीरधारणार्थं विषयान् चरति । स विधेयात्मा भवति । तत एव बाह्येन्द्रियाण्यपि तस्य वश्यानि भवन्तीति । अत एव क्रमेण वाक्यद्वयस्य पृथक् तात्पर्यं नोक्तम् । द्वितीयाकाङ्क्षोत्तरत्वेनेन्द्रियजयस्य ज्ञानं व्यवहितफलमिति दर्शयितुं साक्षात् फलमुक्तं विधेयात्मा प्रसादमधिगच्छतीति ॥ तत्र प्रसादो नामात्मधर्म इति प्रतीयते । तन्निवृत्त्यर्थमाह – प्रसादमिति ॥ ``प्रसन्नचेतसः" इति वक्ष्यमाणत्वादिति भावः ॥ 64 ॥
(गी.2/ 65)
भा – कथं प्रसादमात्रेण सर्वदुःखहानिः । प्रसन्नचेतसो हि बुद्धिः पर्यवतिष्ठति । ब्रह्मापरोक्ष्येण सम्यक् स्थितिं करोति । प्रसादो नाम स्वतोऽपि प्रायो विषयागतिः ॥ 65 ॥
प्र.दी – प्रसादे सति किं स्यादित्यत उक्तं प्रसाद इति । तदाक्षिपति – कथमिति ॥ `तरति शोकमात्मवित्’ इत्यादि विरोधादिति भावः । किं च प्रसादे सति ज्ञानं भवतीति वा व्यवधानान्तरं वा वक्तव्यम् । तन्नोक्तम् । सर्वदुःखहानिस्त्ववक्तव्यैवोक्तेति चाक्षेपशेषः । एतत्परिहारत्वेनोत्तरार्धं व्याख्याति – प्रसन्नेति ॥ एतेन प्रसादस्य फलद्वयमुच्यत इत्यपि प्रतीतिर्निरस्ता भवति । प्रसादे सति ब्रह्मापरोक्षज्ञानं भवति । तच्च व्यवधानेनेति भविष्यति । ततो भवन्ती सर्वदुःखहानिः प्रसादफलतयोक्तेति न वक्तव्यानुक्तिः । नाप्यवक्तव्योक्तिः । `बुद्धियुक्तः’ इति श्लोके सुकृतदुष्कृतहानं ज्ञानफलमुक्तम् । तदयुक्तम् । अपुरुषार्थत्वादित्याशङ्कां परिहर्तुं प्रसङ्गादिदमुक्तमिति । ननु यस्यानासायेनाभिलषितविषयोपनतिस्तस्य मनोऽव्याकुलं प्रसन्नमित्युच्यते । ततः कथं प्रसादस्येन्द्रियजयफलत्वं ज्ञानफलकत्वं चोच्यत इत्यत आह – प्रसादो नामेति ॥ `अत्र विवक्षिता’ इति शेषः । स्वतोऽपि प्रयत्नं विनाऽपि । विषयागतिर्विषयान् प्रत्यप्रवृत्तिः ॥ 65 ॥
(गी. 2/66)
भा – प्रसादाभावे दोषमाहोत्तराभ्यां श्लोकाभ्याम् । न हि प्रसादाभावे युक्तिश्चित्तनिरोधः । अयुक्तस्य च बुद्धिः सम्यग् ज्ञानं नास्ति । तदेवोपपादयति – न चायुक्तस्येति ॥ शान्तिर्मुक्तिः । `शान्तिर्मोक्षोऽथ निर्वाणं’ इत्यभिधानात् ॥ 66 ॥
प्र.दी. – वक्तव्यस्योक्तत्वात् `नास्ति बुद्धिः’ इत्यादिकं किमर्थमित्यत आह – प्रसादेति ॥ श्रवणमननाभ्यामुपकृतेन ध्यानेनैव ब्रह्मापरोक्षज्ञानसिद्धेः किमनेन प्रसादेन । यदर्थमिन्द्रियजयोऽपेक्षित इत्याशङ्क्येति शेषः । नन्वत्र प्रसादाभाव इदं स्यादिति नोच्यते । अतः कथमेतदुक्तमित्यतः प्रकरणप्राप्तमध्याहरति – न हीति ॥ ननु प्रसादरहिता अनुमिमत इत्यत आह – चित्तेति ॥ एकाग्रतेत्यर्थः । एवमध्याहारे सति `नास्ति बुद्धिः’ इत्येतत्सम्बध्यत इति भावेनाह – अयुक्तस्य चेति ॥ ज्ञानमात्रं प्रकृतानुपयुक्तमयुक्तं चेत्यत आह – सम्यगिति ॥ ब्रह्मापरोक्षज्ञानमित्यर्थः । एतावता प्रसादाभावे दोष उक्तः । तत्किमर्थं `न चायुक्तस्य’ इत्येतदित्यत आह – तदेवेति ॥ ध्यानेनैव ज्ञानोत्पादात् कथं नास्ति बुद्धिरयुक्तस्येत्याशङ्क्येति शेषः । भावना ध्यानम् । अत एव न चाभावयतो ज्ञानम् । न चाज्ञानिनः शान्तिरिति योज्यम् । ननु शान्तिः प्रसादः । तस्य ज्ञानसाधनत्वेनोक्तत्वात् कथं ज्ञानोत्तरत्वमुच्यत इत्यत आह – शान्तिरिति ॥ एतच्च न केवलं मुक्तौ सर्वदुःखहानिः । किन्तु संसारिभिरलभ्यं परमसुखं चेति ज्ञापयितुं प्रसङ्गादुक्तम् । एतदेवावेक्ष्य भाष्यकृता `ब्रह्मादिपदात्’ इत्याद्युक्तम् ॥ 66 ॥
(गी. 2/67)
भा – कथमयुक्तस्य भावना न भवति । आह – इन्द्रियाणामिति ॥ अनुविधीयते क्रियते । नन्वीश्वरेणेन्द्रियाणामनु बुद्धिर्ज्ञानमिति वक्ष्यमाणत्वात् । प्रज्ञां ज्ञानम् । उत्पत्स्यदपि निवारयतीत्यर्थः । उत्पन्नस्याप्यभिभवो भवति ॥ 67 ॥
प्र.दी. – एकेनैव श्लोकेन प्रमेयस्य मुद्रितत्वात् `श्लोकाभ्यां’ इति किमर्थमुक्तं इत्यत आह – कथमिति ॥ कृतश्रवणमननस्य ध्यानोपपत्तेरिति भावः । न भवतीत्याशङ्क्येति शेषः । अनुविधानं सदृशभवनम् । तदत्रासङ्गतम् । कर्ता चात्र जीव इति प्रतीयत इत्यत आह – अनुविधीयत इति ॥ विपूर्वो दधातिः करोतीत्यर्थे वर्तते । कर्ता चात्रेश्वर एवेत्यर्थः । अत्रानुः पृष्ठभावित्वार्थो न लक्षणाद्यर्थ इति कर्मप्रवचनीयो न भवति । नन्विति सम्प्रतिपत्तिरुक्ता । सा कुत इत्यत आह – बुद्धिरिति ॥ ग्रहणशक्तिः प्रज्ञा । तद् ग्रहणमत्रायुक्तमित्यत आह – प्रज्ञामिति ॥ परोक्षनिश्चयम् । यस्य प्रज्ञानं नोत्पन्नं तस्य युक्त्यभावः किं करिष्यति । विद्यमानस्य हि हरणमित्यत आह – उत्पत्स्यदिति ॥ तर्~ह्युत्पन्नपरोक्षज्ञानस्य युक्त्यभावोऽकिञ्चित्कर इत्यत आह – उत्पन्नस्यापीति ॥ चित्तनिरोधरहितश्रवणमनने अपि न ध्यानोपयोगिनी तत्त्वनिश्चयवेदार्थनियमौ कुरुत इति भावः ॥ 67 ॥
(गी 2/68)
भा – तस्मात्सर्वात्मना निगृहीतेन्द्रिय एव ज्ञानीति निगमयति तस्मादिति ॥ 68 ॥
प्र.दी. – अत्र परमं प्रमेयं ज्ञानिलक्षणं प्रकृतम् । तस्यासम्भवपरिहाराय ज्ञानस्य महाप्रयत्नसाध्येन्द्रियनिग्रहसाध्यत्वं च । तत्र कस्यायमुपसंहार इति न ज्ञायते । अत आह – तस्मादिति ॥ ज्ञानी जायत इति शेषः । यत एवं निगृहीतेन्द्रियस्यैव प्रसादः , प्रसादवत एव युक्तिर्युक्तिमत एव श्रवणमननाभ्यां तत्वज्ञानं, तत्वज्ञानवत एवापरोक्षज्ञानसाधनं ध्यानं नान्यथा तस्मादित्यर्थः ॥ 68 ॥
(गी. 2/69)
भ अ – उक्तलक्षणं पिण्डीकृत्याह – या निशेति ॥ या सर्वभूतानां निशा परमेश्वरस्वरूपलक्षणा । यस्यां सुप्तानीव न किञ्चिज्जानन्ति, तस्यामिन्द्रियसंयमयुक्तो ज्ञानी जागर्ति । सम्यगापरोक्ष्येण पश्यति परमात्मनमित्यर्थः । यस्यां विषयलक्षणायां भूतानि जाग्रति तस्यां निशायामिव सुप्तः प्रायो न जानाति । मत्तादिवद्गमनादिप्रवृत्तिः । तदुक्तं `देहं तु तं न चरमं’, `देहोऽपि दैववशगः’ इति श्लोकाभ्याम् । मननयुक्तो मुनिः । `पश्यतः’ इत्यस्य साधनमाह ॥ 69 ॥
प्र.दी.– ज्ञानिनः सर्वकर्मपरित्यागप्रतिपादनार्थो `या निशा’ इत्ययं श्लोक इति कश्चित् । तन्न । तत्प्रतिपादकाक्षराश्रवणात् । प्रमाणविरोधाच्चेत्याशयेन तत्प्रतिपाद्यमाह – उक्तमिति ॥ चतुःश्लोक्या विक्षिप्योक्तम् । नन्वत्रोक्तं किमपि न प्रतीयत इत्यत आह – येति ॥ परमेश्वररूपस्य निशासाम्यमुपपादयति – यस्यामिति ॥ अत्रापि पूर्ववत्साम्यम् । यदि न किञ्चित्पश्यति कथं तर्~हि तस्य गमनादिप्रवृत्तिरित्यत आह – मत्तादिवदिति ॥ कुत एतदित्यत आह – तदुक्तमिति ॥ मुनेरित्युक्तत्वाच्चतुर्थाश्रमिण एव ज्ञानमिति व्याख्यानमसदिति भावेनाह – मननेति ॥ याज्ञवल्क्यादीनामयतीनामपि ज्ञानश्रवणादिति भावः । मननस्य प्रा~घ्निवृत्तत्वात् `पश्यतो मुनेः’ इति कथमित्यत आह – पश्यत इति ॥ दर्शनसाधनत्वेन मननमिहोक्तम् । न तु तत्समकालीनतयेत्यर्थः । एतच्च प्रा~घ्मननादेः स्पष्टं दर्शनसाधनत्वानुक्तेः प्रसङ्गादिहोक्तम् ।
ननु `स्थितधीः किं प्रभाषेत’ इत्यादेरुत्तरमयं श्लोक इति प्रागुक्तम् । तत्कथमिदानीं लक्षणपरतया व्याख्यानः । अन्यपरादपि तल्लाभ इत्याशयेनेति ब्रूमः । अन्यथा `किं प्रभाषेत’ इत्यादेरुत्तरमाहेत्यत्रैवावक्ष्यत् । किं तत्र स्थानप्रदर्शनादिनेति ॥ 69 ॥
(गी 2/70)
भा – तेन विषयानुभवप्रकारमाह – आपूर्यमाणमिति ॥ यो विषयैरापूर्यमाणोप्यचलप्रतिष्ठो भवति, नोत्सेकं प्राप्नोति, नच प्रयत्नं करोति नचाभावे शुष्यति । न हि समुद्रः सरित्प्रवेशाप्रवेशनिमित्तवृद्धिशोषौ बहुतरौ प्राप्नोति । प्रयत्नं वा करोति । स मुक्तिं प्राप्नोतीत्यर्थः ॥ 70 ॥
प्र.दी – पृष्टस्य समस्तस्योत्तरमुक्तम् । तत्किमापूर्यमाणमित्यनेनेत्यत आह – तेनेति ॥ क्रियमाणेत्युपस्कर्तव्यम् । नित्यसापेक्षत्वादसामर्थ्याभावः । बाह्यानुसन्धानरहितस्य युज्येतापि कथञ्चिद् गमनादिकम् । विषयानुभवस्तु दृश्यमानः कथं स्यात् । तस्य नियतसाधनसाध्यस्यानुसन्धानेन विनाऽनुदयादित्याशङ्कापरिहारार्थमिति शेषः । `तद्वत्कामा यं प्रविशन्ति’ इति सङ्क्षेपेणोक्तम् । तद्विवृणोति – य इति ॥ कामशब्दस्यार्थो विषयैरिति । अन्यथा `विहाय कामान्’ इत्युत्तरविरोधात् । `अचलप्रतिष्ठं’ इत्यस्यैव व्याख्यानं नोत्सेकमित्यादि ॥ कुत एषोऽर्थ इत्यतः समुद्रदृष्टान्तोपादानसामर्थ्यादिति भावेनाह – नहीति ॥ `स शान्तिमाप्नोति’ इत्यस्यार्थमाह – स इति ॥ ज्ञानिप्रशंसार्थमेतत् । तद् दृष्ट्वा केचित् `ज्ञानिन एव मुक्तिरित्यनेनाह’ इत्याहुः । तदसत् । गतार्थत्वात् ॥ 70 ॥
(गी. 2/71)
भा – तदेव प्रपञ्चयति – विहायेति ॥ कामान् विषयान् । निस्पृहतया विहाय यः चरति भक्षयति । भक्षयामीत्यहङ्कारममकारवर्जितश्च । स हि पुमान् । स एव च मुक्तिमधिगच्छतीत्यर्थः ॥ 71 ॥
प्र.दी. – `विहाय’ इत्यनेनायमेवार्थ उच्यते । अतः पुनरुक्तिरित्यत आह – एतदेवेति ॥ यद्यत्र कामा इच्छाविशेषास्तर्~हि `निस्पृहः’ इति पुनरुक्तिः । यदि काम्यन्त इति विषयास्तदा चरतिर्यदि भक्षणार्थः तदा व्याघातः । अथ गत्यर्थस्तदा व्यर्थ इत्यतो व्याचष्टे – कामानिति ॥ `निर्ममो निरहङ्कारः’ इत्येतदसम्भवपरिहाराय व्याचष्टे – भक्षयामीति ॥ कर्तृत्वाभिमान एवाहङ्कारः । स्वामित्वाभिमान एव ममता । नत्वहम्प्रत्ययादिमात्रमिति भावः । स हि पुमानित्यनेनान्वयसमाप्तिं वदता ज्ञानिन एव मुक्तिरित्येषोऽर्थो नात्र प्रतिपाद्यत इति दर्शितम् । स्त्रीव्यावृत्त्यभावश्च ॥ 71 ॥
(गी. 72)
भा– उपसंहरति – एषेति ॥ ब्राह्मी स्थितिः ब्रह्मविषया स्थितिः लक्षणम् । अन्तकालेऽप्यस्यां स्थित्वैव ब्रह्म गच्छति । अन्यथा जन्मान्तरं प्राप्नोति । `यं यं वाऽपि’ इति वक्ष्यमाणत्वात् । ज्ञानिनामपि सति प्रारब्धकर्मणि शरीरान्तरं युक्तम् । `भोगेन त्वितरे’ इति ह्युक्तम् । सन्ति हि बहुशरीरफलानि कर्माणि । `सप्तजन्मनि विप्रस्सयात्’ इत्यादेः । दृष्टेश्च ज्ञानिनामपि बहुशरीरप्राप्तेः । तथा ह्युक्तम् –
``स्थितप्रज्ञोऽपि यस्तूर्ध्वः प्राप्य रौद्रं पदं ततः ।
साङ्कर्षणं ततो मुक्तिमगाद् विष्णुप्रसादतः “॥ इति गारुडे ।
`महादेव परेजन्मंस्तव मुक्तिर्निरूप्यते’ इति नारदीये । निश्चितफलं च ज्ञानम् । `तस्य तावदेव चिरं’, `यदु च नार्चिषमेवाभिसम्भवति’ इत्यादिश्रुतिभ्यः ।
प्र.दी.– ज्ञानी स्तूयत `एषा’ इत्यनेनेत्यसत् । प्रथमवाक्ये तददर्शनादिति भावेनाह – उपसंहरतीति ॥ प्रकरणं समापयतीत्यर्थः । ब्रह्मधर्मभूतेति प्रतीतिनिरासायाह– ब्रह्मीति । स्थितिर्नोक्ता । तत्कथमेवमुच्यत इत्यत आह – लक्षणमिति ॥ ब्रह्मविषयज्ञानवतो लक्षणमुक्तमित्यर्थः । `किं प्रभाषेत’ इत्यादिप्रश्नपरिहारस्यार्थादुक्तत्वादनुपसंहारः ।
`अन्तकाले चरमे वयस्यपि यः परिव्रज्यास्यां स्थितौ तिष्ठति सोऽपि ब्रह्माप्नोति । किमु ब्रह्मचर्यादेव प्रव्रज्य’ इति व्याख्यानमसत् । अप्रकृतत्वादित्याशयवान् व्याचष्टे – अन्तकालेऽपीति ॥ ज्ञानिनो ब्रह्मप्राप्तिरुक्ता । सा किं तद्देहपातानन्तरमेवोतान्यथेत्यपेक्षायामिदमुच्यते । कुतोऽस्यार्थस्य भगवदभिप्रेतत्वमित्यत आह - यं यमिति ॥
ननु ज्ञानमेव मोक्षसाधनम् । कारणपौष्कल्ये च कार्यं भवत्येव । अतः कथं ज्ञानिनः शरीरान्तरप्राप्तिरित्यत आह – ज्ञानिनामपीति ॥ प्रारब्धकर्म सामग्र्याः प्रतिबन्धकम् । तदेवान्तकाले ब्रह्मानुसन्धानं प्रतिबध्नातीति भावः । ननु ज्ञानादेव सर्वं कर्म क्षीणमित्यत आह – भोगेनेति ॥ अस्तु प्रारब्धकर्मणां भोगादेव क्षयः । स च ज्ञानं यच्छरीरे जातं तत्रैवाभूत् । अतः कथं शरीरान्तरारम्भ इत्यत आह – सन्तिहीति ॥ तानि कथमेकेनैव शरीरेण भुज्येरन्निति शेषः । सप्तजन्मनीति द्विगुः । इतश्बैतदेवमित्याह – दृष्टेश्चेति ॥ बह्वित्यनेकोपलक्षणम् । कथं ज्ञानिनां बहुशरीरप्राप्तिर्दृश्यत इत्यत आह – तथा हीति ॥ ननु ज्ञानिनोऽपि यदि शरीरान्तरप्राप्तिस्तर्~हि गर्भवासादिदुःखैर्विलुप्तशक्तिकं ज्ञानं न मोक्षाय पर्याप्तं स्यादित्यत आह – निश्चितेति ॥ तस्य ज्ञानिनः । तावदेव चिरम् । तावानेव विलम्बः । यावन्न विमोक्ष्ये विमोक्ष्यते । प्रारब्धेन कर्मणा । अथावसिते कर्मणि । ब्रह्म सम्पत्स्यत इत्यर्थः । अवसितकर्मणि ज्ञानिनि विषये पुत्रादयो यदि शव्यं कर्म कुर्वन्ति यदु च न यदि वा न कुर्वन्ति । सर्वथार्चिषमभिसम्भवति प्राप्नोत्येवेत्यर्थः । तदिदमुक्तं नैनां प्राप्य विमुह्यतीति ॥
भा – नच कायव्यूहापेक्षा । `तद्यथेषीकातूलं’, `तद्यथा पुष्करपलाशे’, `ज्ञानाग्निस्सर्वकर्माणि’ इत्यादि वचनेभ्यः । प्रारब्धे त्वविरोधः । प्रमाणाभावाच्च । नच तच्छास्त्रं प्रमाणम् ।
``अक्षपादकणादानां साङ्ख्ययोगजटाभृताम् । मतमालम्ब्य ये वेदं दूषयन्त्यल्पचेतसः ॥” इति निन्दनात् । यत्र तु स्तुतिस्तत्र शिवभक्तानां स्तुतिपरत्वमेव न सत्यत्वम् । न हि तेषामपीतरग्रन्थविरुद्धार्थे प्रामाण्यम् । तथा ह्युक्तम् –
`एषं मोहं सृजाम्याशु यो जनान् मोहयिष्यति ।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥’
`अतथ्यानि वितथ्यानि दर्शयस्व महाभुज ।
प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु’ – इति वाराहे ॥
``कुत्सितानि च मिश्राणि रुद्रो विष्णुप्रचोदितः ।
चकार शास्त्राणि विभु ऋ#240;षयस्तत्प्रचोदिताः ।
दधीच्याद्याः पुराणानि तच्छास्त्रसमयेन तु ।
चक्रुर्वेदैश्च ब्राह्माणि वैष्णवान् विष्णुवेदतः ।
पञ्चरात्रं भारतं च मूलरामायणं तथा ।
तथा पुराणं भागवतं विष्णुवेद इतीरितः ।
अतः शैवपुराणानि योज्यान्यन्याविरोधतः ॥" – इति नारदीये । अतो ज्ञानिनां भवत्येव मुक्तिः ॥
प्र.दी. – पाशुपतवैशेषिकादयस्त्वाहुः – अनियतकालविपाकान्यपि कर्माणि ज्ञानी योगसामर्थ्यात् समाहृत्यानेकशरीरफलान्यपि कायव्यूहनिर्माणेन क्षपयित्वाऽपवृज्यते । तत्कुतोऽस्य देहान्तरमिति । तत्राह – न चेति ॥ ज्ञानिनः कर्मक्षयार्थमिति शेषः । तथाहि । अप्रारब्धकर्मक्षयार्थं वा सा स्यात् । प्रारब्धक्षयार्थं वा । नाऽद्यः । तेषां ज्ञानेनैव क्षीणत्वादिति भावेनाह – तद्यथेति ॥ द्वितीये तु यः कश्चिद् ज्ञानी तथा करोति, सर्वो वा । आद्ये सम्प्रतिपत्तिमुत्तरमाह – प्रारब्धे त्विति ॥ द्वितीयासम्भवे हेतुमाह – प्रमाणेति ॥ च शब्दात् प्रागुदाहृतप्रमाणविरोधाच्च । पाशुपतादिशास्त्रेषु तथोक्तत्वात् कथं प्रमाणाभाव इत्यत आह – नचेति ॥ तच्छिष्या अपि तच्छब्देनोच्यन्त इति बहुवचनम् ।
``उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणस्सुतः ।
उक्तवानिदमव्यग्रं ज्ञानं पाशुपतं शिवः ॥" इत्यादौ तत्स्तुतिरपि दृश्यत इत्यत आह – यत्र त्विति ॥ वैष्णवशास्त्रोक्तप्रकारेण शिवभक्तानाम् । लक्षणयेति शेषः । सत्यत्वं तदुक्तार्थस्येति शेषः । उक्तनिन्दाविरोधादिति भावः । तर्~हि शैवपुराणानि कायव्यूहनिर्माणनियमादौ प्रमाणानीत्यत आह – न हीति ॥ तेषामिति बुद्धिस्थशैवपुराणपरामर्शः । इतरग्रन्था उदाहृत गारुडादयः ।
शैवपुराणानां गारुडादिवैष्णवग्रन्थानां च को विशेषो येन बाध्यबाधकभाव इत्याशङ्क्य, दुर्जनव्यामोहनार्थप्रणीतपाशुपतादिमूलानि शैवपुराणानि, सम्यग् ज्ञानार्थप्रणीतपञ्चरात्राद्यनुसारिणो गारुडादिग्रन्था इत्याशयवान् पाशुपतादिशास्त्राणां मोहनार्थत्वे तावत्प्रमाणमाह – तथा हीति ॥ कारयेति स्वार्थे णिच् । अतथ्यानि सर्वथाऽप्यविद्यमानानि । वितथ्यानि व्यधिकरणानि च तेषु दर्शयस्व । प्रकाशं प्रसिद्धम् । इदानीं तन्मूलत्वं शैवपुराणामितरेषां पञ्चरात्रादिमूलत्वमित्यत्र प्रमाणमाह – कुत्सितानीति ॥ तच्छास्त्रसमयेन तच्छास्त्रसिद्धान्तमनुसृत्य । वेदैरिति वेदानामापातप्रतीतिमनुसृत्य । भागवतं भगवद्विषयम् । उक्तमुपसंहरति – अत इति ॥ ज्ञानिनां मुक्तिर्भवत्येव । नतु तद्देहपातानन्तरमिति नियम इत्युपसंहारार्थः ।
भाष्यम् – भीष्मादीनां तत्क्षणे युक्त्यभावः । स्मरन् त्यजतीति वर्तमानापदेशो हि कृतः । तच्चोक्तम् –
``ज्ञानिनां कर्मयुक्तानां कायत्यागक्षणो यदा । विष्णुमाया तदा तेषां मनो बाह्यं करोति हि " इति गारुडे । न चान्येषां तदा स्मृतिर्भवति ।
`बहुजन्मविपाकेन भक्तिज्ञानेन ये हरिम् । भजन्ति तत्स्मृतिं त्वं ते देवो याति न चान्यथा " इत्युक्तेर्ब्रह्मवैवर्ते ।
प्र.दी. – ननु भीष्मादयो ज्ञानिनोऽन्तकाले ब्राह्म्यां स्थितौ स्थिताश्च न मुक्ताः । तत्कथमेतदुक्तमित्यत आह – भीष्मादीनान्त्विति ॥ साक्षाद् देहत्यागक्षणे । युक्त्या परमेश्वरे मनोयोगेन भाव्यमित्येव कुत इत्यत आह – स्मरन्निति ॥ ``यं यं वाऽपि" इत्यत्र । भीष्मादीनां तस्मिन् क्षणे युक्त्यभाव इत्येतद् कुत इत्यत आह – तच्चेति ॥ ननु तत्क्षणे युक्त्या मुक्तिश्चेदज्ञानिनामपि तत्सम्भवेन मुक्तिप्रसक्तिरित्यत आह – न चेति ॥ भक्तिज्ञानेनेति द्वन्द्वैकवद्भावः । भक्तिसहितं ज्ञानं भक्तिज्ञानमिति वा ।
भाष्यम् – निर्वाणमशरीरम् । `कायो बाणं शरीरं च’ इत्यभिधानात् । `एतद् बाणमवष्टभ्य’ इति प्रयोगाच्च । निर्वाणशब्दप्रतिपादनं `अनिन्द्रयाः’ इत्यादिवत् । कथमन्यथा सर्वपुराणादिप्रसिद्धा कृतिर्भगवत उपपद्यते । न चान्यद्भगवत उत्तमं ब्रह्म ।
`ब्रह्मेति परमात्मेति भगवानिति शब्द्यते’ इति भागवते ।
`भगवन्तं परं ब्रह्म परं ब्रह्म जनार्दनः ।’
``परमं यो महद् ब्रह्म ॥" , ``यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः", ``योऽसावतीन्द्रियग्राह्याः" , ``नास्ति नारायणसमं न भूतो न भवतिष्यति", ``न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः" इत्यादिभ्यः । न च तस्य ब्रह्मणोऽशरीरत्वादेतत्कल्प्यम् । तस्यापि शरीरश्रवणात् `आनन्दरूपं’, `सुवर्णज्योतीः’ `दहरोऽस्मिन्नन्तराकाशः’ इत्यादिषु । यदि रूपं न स्यादानन्दमित्येव स्यात् । न त्वानन्दरूपमिति । कथं च सुवर्णरूपत्वं स्यादरूपस्य । कथं च दहरत्वम् । दहरस्थश्च `केचित् स्वदेह’ इत्यादौ रूपवानुच्यते । `सहस्रशीर्षा पुरुषः’, `रुक्मवर्णं कर्तारं’, `आदित्यवर्णं तमसः परस्तात्’, `सर्वतः पाणिपादं तत्’, `विश्वतश्चक्षुः’ इत्यादि वचनात्, विश्वरूपाध्यायादेश्च रूपवानवसीयते ।
प्र.दी. – ब्रह्मनिर्वाणं ब्रह्मस्वरूपानन्दमिति व्याख्यानं सर्वप्रमाणविरुद्धमित्याशयवान्निर्वाणमिति भिन्नं पदं व्याचष्टे – निर्वाणमिति ॥ कथमेतदित्यत आह – काय इति ॥ कार्यब्रह्मव्यावृत्त्यर्थमेतत् । अनेन ब्रह्मणो निराकारत्वं प्राप्तम् । तत्प्रतिषेधार्थमाह – निर्वाणेति ॥ प्रतिपादनं व्याख्यानम् । इत्यादिवदित्यादेरिव । प्राकृतादिविग्रहराहित्यार्थत्वेनेत्यर्थः ।
किमनेन व्याख्यानेन निराकारमेव ब्रह्म किं न भवेदित्यत आह – कथमिति ॥ भगवतो विष्णोः साकारत्वेऽपि ब्रह्मणो निराकारत्वमेव । नच भगवानेव ब्रह्म । तस्य तदुत्तमत्वेन ततोऽन्यत्वात् । अतो न पुराणादिविरोध इत्यत आह – नचेति ॥ महद् ब्रह्मेत्यन्तानि वाक्यानि भगवतो ब्रह्मत्वप्रतिपादकानि । यस्मादित्यादीनि तस्यैव सर्वोत्तमत्वेन तदुत्तमाभावप्रतिपादकानि । इन्द्रियग्राह्यमतिक्रान्तः तदुत्तमः । सर्वमेव योगीन्द्रियग्राह्यम् ।
उत्तमाधमभावेन ब्रह्मेश्वरयोर्भेदो माभूत् । ब्रह्माशरीरात् । ईश्वरस्तु सविग्रह इत्यतो भेदोऽस्तु । अभेदस्यापि सत्त्वाद् ब्रह्मशब्दोपपत्तिरित्यत आह – नचेति ॥ तस्य पराभिमतस्य । एतत् भगवतोऽन्यत्वम् । कुत इत्यत आह – तस्यापीति ॥ ``दहरोऽस्मिन्नन्तराकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यम्" इत्यन्तं वाक्यमिह विवक्षितम् । इत्यादिषु ब्रह्मविद्यात्वेन सम्मतेष्विति शेषः । कथमत्र शरीरश्रवणमित्यत आह – यदीति ॥ रूपं विग्रहः । ``विज्ञानमानन्दं ब्रह्म" इत्यानन्दशब्दस्य नपुंसकत्वदर्शनात् तथोपादानम् । ज्योतिःशब्दो भास्वररूपस्य वाचकः । अत उक्तं सुवर्णरूपत्वमिति । दहरत्वं दहरस्थत्वम् । अविग्रहस्येति वर्तते । दहरस्थत्वं कथमविग्रहस्यानुपपन्नमित्यत आह – दहरस्थश्चेति ॥ एवमुपपत्तिसापेक्षाणि वाक्यान्युदाहृत्य स्पष्टान्यप्युदाहरति – सहस्रेति ॥ अवसीयते परमात्मा ।
भा – अतिपरिपूर्णतमज्ञानैश्वर्यवीर्यानन्दश्रीशक्त्यादिमांश्च भगवान् । `पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च", ``यः सर्वज्ञः", ``आनन्दं ब्रह्मणः", ``एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति", ``अनादिमध्यान्तमनन्तवीर्यं सहस्रलक्षामितकान्तिकान्तम्", ``मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे", ``विज्ञानशक्तिरहमासमनन्तशक्तेः", ``तुर्यं तु सर्वदृक् सदा", ``आत्मानमन्यं च स वेद विद्वान्", ``अन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थः", ``ैश्वर्यस्य समग्रस्य" , ``अतीवपरिपूर्णं ते सुखं ज्ञानं च सौभाग्यम् । यच्चात्ययुक्तं स्मर्तुं वा शक्तः कर्तुमतः परः" इत्यादिभ्यः ॥
प्र.दी. – प्राक् भगवतोऽन्यस्योत्तमत्वं वाक्यविरुद्धमित्युक्तम् । इदानीं व्याहतं च तदिति भावेनाह – अतीति ॥ अत्यादिशब्दैः निरतिशयत्वं द्योत्यते । ऐश्वर्यं वशित्वम् । श्रीः कान्तिः । परमेश्वरे भगवच्छब्दस्यौपचारिकत्वपरिहारायैषां गुणानां सद्भावे प्रमाणान्याह – पराऽस्येति ॥ `आनन्दं ब्रह्मणः’ इत्यत्र `यतो वाचः’ इति पूर्ववाक्यमप्यभिप्रेतम् । अमितशब्दात् परं चन्द्रशब्दोऽध्याहार्यः । द्रष्टृपुरुषयोग्यताभेदात् त्रिधोक्तिः । ऐश्वर्याद्यनन्तगुणत्वे `मयि’ इति प्रमाणम् । सङ्ख्यापरिमाणाभ्यां गुणानामानन्त्यमनेनोच्यते । शक्तेः परत्वं प्रागुक्तम् । तदस्पष्टमित्यतो – विज्ञानेति ॥ ज्ञानस्यापरोक्षरूपताप्रतिपादनाय – तुर्यमिति ॥ ईश्वरो नात्मानं वेत्ति, कर्तृकर्मभावविरोधादित्येतन्निरासाय – आत्मानमिति ॥ ईश्वरे भगवच्छब्दस्यौपचारिकत्वासम्भवं प्रदर्शयितुं तदन्यस्य तच्छब्दार्थतानिरासाय – अन्यतम इति ॥ अन्य एवान्यतमः । भगवच्छब्दस्यायमर्थ इत्यत्र ऐश्वर्यस्येति प्रमाणम् । अत्र षण्णामित्युपलक्षणम् । षाड्गुण्ये सर्वगुणान्तर्भावो वा । तद्वान् भगवानिति सिद्धमेव । भगवत्त्वात् स एव सर्वोत्तम इति । समग्रार्थेऽतीवेति । यदन्येन करिष्यामीति स्मर्तुं बुद्धिस्थीकर्तुं वाऽयुक्तम् । तच्च त्वं कर्तुं शक्यः ।
भाष्यम् – तानि च सर्वाण्यन्योन्यस्वरूपाणि । `विज्ञानमानन्दं ब्रह्म’, `आनन्दो ब्रह्मेति व्यजानात्’, `सत्यं ज्ञानमनन्तं ब्रह्म’, `यस्य ज्ञानमयं तपः’, `समा भग प्रविश स्वाहा’,
`` न तस्य प्राकृता मूर्तिः मांसमेदोऽस्थिसम्भवा ।
न योगित्वादीश्वरत्वात् सत्यरूपाच्युतो विभुः ॥
सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुःखः स विष्णुः परमोऽक्षरः" इति पैङ्गिखिलेषु ॥
`देहोऽयं मे सदानन्दो नायं प्रकृतिनिर्मितः ।
परिपूर्णश्च सर्वत्र तेन नारायणोऽस्म्यहम् ॥" इत्यादि ब्रह्मवैवर्ते । तदेव लीलया चासौ परिच्छिन्नादिरूपेण दर्शयति मायया ।
`न च गर्भेऽवसद्देव्या न चापि वसुदेवतः ।
न चापि राघवाज्जातो नचापि जमदग्नितः । नित्यानन्दोऽव्ययोऽप्येवं मोघदर्शनः" इति पाद्मे ।
``न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः ।"
``सर्गादेरिशिताऽजः परमसुखनिधिर्बोधरूपोऽप्यबोधं
लोकानां दर्शयन् यो मुनिसुतहृतात्मप्रियार्थे जगाम"
``स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार ।"
``पूर्तेरचिन्त्यवीर्यो यो यश्च दाशरथिः स्वयम् ।
रुद्रवाक्यमृतं कर्तुमजितो जितवत्स्थितः ।
योऽजितो विजितो भक्त्या गाङ्गेयं न जघान ह ।
न चाम्बां ग्राहयामास करुणः कोऽपरस्ततः ॥" इत्यादि स्कान्दे । न तत्र संसारधर्मा निरूप्याः । यत्र परावरभेदोऽवगम्यते तत्राज्ञबुद्धिमपेक्ष्यावरत्वं विश्वरूपमपेक्ष्यान्यत्र । तच्चोक्तम् – ``परिपूर्णानि रूपाणि सामान्यखिलरूपतः । तथाऽप्यपेक्ष्य मन्दानां दृष्टिं त्वामृषयोऽपि हि । परावरं वदन्त्येवं ह्यभक्तानां विमोहनम् ॥" इति गारुडे । न चात्र किञ्चिदुपचारादिति वाच्यम् । अचिन्त्यशक्तेः । पदार्थवैचित्र्याच्चेत्युक्तम् ।
``कृष्णरामादिरूपाणि परिपूर्णानि सर्वदा । न चाणुमात्रं भिन्नानि तथाऽप्यस्मान् विमोहसि" इत्यादेश्च नारदीये । तस्मात् सर्वदा सर्वरूपेष्वपरिगणितानन्तगुणगणं नित्यनिरस्ताशेषदोषं च नारायणाख्यं परं ब्रह्मापरोक्षज्ञान्यृच्छतीति सिद्धम् ॥ 71 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये द्वितीयोऽध्यायः ॥
प्र.दी. – मतुपा ज्ञानादीनां भगवतो भेदः प्रतीतः । षण्णामित्यादिना परस्परं च । तथा ``आकृतिर्भगवतः" इत्युक्त्याऽकृतेश्च । तन्निरासार्थमाह – तानीति ॥ तत्र प्रमाणान्याह – विज्ञानमिति ॥ तप आलोचनक्रिया । ज्ञानमयं ज्ञानात्मकमिति धर्माणां परस्परभेदोक्तिः । प्राकृतेति ~घीबभावः छान्दसः । अणञX भ्यामन्यो वा प्रत्ययः । मांसमेदोऽस्थिभिः सम्भवो यस्यासा तथोक्ता । एतच्च न योगित्वात् । किन्त्वीश्वरत्वात् । अत एव विभुः । निर्दोषगुणात्मकविग्रहादच्युतः । `ज्ञानज्ञानः’ इत्यादेरतिशयितज्ञानादिरित्यर्थः । तेन निर्दोषत्वादिना ।
भगवद्रूपस्यैवं भावे कथं परिच्छिन्नत्वम् । गर्भवासादिसंसारिधर्माश्च तत्र दृश्यन्त इत्यत आह – तदेवेति ॥ किमर्थमित्यत उक्तम्– लीलयेति ॥ मायया व्यामोहकशक्त्या । अत्र प्रमाण माह – नचेति ॥ देव्या देवक्याः । एवं गर्भवासादि प्रदर्शनेन । मोघं दर्शनं यस्मिन् विषये स तथा । आत्मवतां भागवतानाम् । आत्मा निरुपाधिकप्रिय इति यावत् । मुनिसुतो रावणः । ब्रह्मवाक्यवद् रुद्रवाक्यमप्यतुलं प्रत्यस्तीत्यतो रुद्रवाक्यमित्युक्तम् । करुणः करुणावान् । (अर्श आदित्वादच्) `तदेव’ इत्याद्युक्तमुपसंहरति – न तत्रेति ॥ अत इत्युपस्कर्तव्यम् ।
यद्येवं तर्~हि विश्वरूपं परं, तदपेक्षया कृष्णादिरूपाण्यवताराणीति कथं ग्रन्थेषूच्यत इत्यत आह – यत्र चेति ॥ यत्र ग्रन्थे । तत्र विश्वरूपमपेक्ष्यान्यत्र कृष्णादाववरत्वमज्ञबुद्धिमपेक्ष्योक्तं ज्ञातव्यमित्यर्थः । कुत एतदित्यत आह – तच्चेति ॥ अखिलरूपतोऽखिलधर्मैः । विमोहनं कर्तुम् । नन्वयमुपचारो वा स्तुतिर्वा किं न स्यादित्यत आह – न चेति ॥ असम्भवे ह्येषा कल्पना । अचिन्त्यशक्त्यैकस्यैवानेकपरिमाणत्वादिकं सम्भवति । अन्यत्रादर्शनेन त्वपलापेऽतिप्रसङ्ग इत्यर्थः । अत्रैव प्रमाणमाह – कृष्णेति ॥ विमोहसि विमोहयसि । श्लोकार्थमुपसंहरति – तस्मादिति ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां द्वितीयोऽध्यायः ॥ 2 ॥
(डि.टि.पि. ऎण्ट्रि मुगिदद्दु. ता॥ जुलै 19 - आषाढकृष्ण षष्ठी श्रीजयतीर्थर उत्तराराधनॆ दिवसदन्दु)
॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥
****************************************************************************************************************************
तृतीयोऽध्यायः
अर्जुन उवाच–
ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत् किं कर्मणि घोरे मां नियोजयसि केशव ॥ 1 ॥
व्यामिश्रेणैव वाक्येन बुद्धिं मोहसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ 2 ॥
भा – हरिः ॐ ॥ आत्मस्वरूपं ज्ञानसाधनं चोक्तं पूर्वत्र । ज्ञानसाधनत्वेनाकर्म विनिन्द्य कर्मविधीयत उत्तराध्याये ।
कर्मणो ज्ञानमत्युत्तममित्यभिहितं भगवता `दूरेण ह्यवरं कर्म’ इत्यादौ । ऎवं चेत्किमिति कर्मणि घोरे युद्धाख्ये नियोजयसि निवृत्तधर्मान् विहायेत्याह – ज्यायसीति ॥ कर्मणः सकाशाद् बुद्धिर्ज्यायसी चेत्ते तव मता तर्~हि ॥ 1 ॥ 2 ॥
प्र.दी.– हरिः ॐ ॥ पूर्वोत्तराध्यायेभ्योऽस्य भेदं, स्वस्मिन्नेकवाक्यतां च दर्शयन्नेतदध्यायप्रतिपाद्यमर्थं पूर्वाध्यायार्थसङ्गतत्वेन विवक्षुः तत्प्रतिपाद्यं तावदाह – आत्मेति ॥ जीवेश्वररूपं साङ्ख्याख्यमित्यर्थः । ज्ञानसाधनमात्मज्ञानसाधनं योगाख्यम् । पूर्वत्र पूर्वस्मिन्नध्याये । न चैवं द्वितीयाध्यायस्यैक्यानुपपत्तिः । साधनस्यैव प्राचुर्यात् । प्रचुरेण च व्यपदेशात् । तथा च सप्तमादौ वक्ष्यति ``साधनं प्राधान्येनोक्तमतीतैरध्यायैः" इति । `आत्मस्वरूपं’ इत्यादि तु प्रकरण भेदप्रदर्शनायोक्तमिति । ऎतत्स्ङ्गतत्वेन तृतीयाध्यायार्थमाह – ज्ञानेति ॥ योगो द्विविधः । कर्मसमाधिभेदात् । तत्र तावद् ज्ञानसाधनत्वेन कर्म विधीयते कर्तव्यमेवेति ज्ञाप्यते कैश्चन वाक्यैः । अकर्म कर्माकरणम् । विनिन्द्य अस्मिन्नध्याये । अकर्मनिन्दाऽपि कर्मविध्यर्थेत्येकार्थता । तथापि प्रकरणभेदार्थमेवमुक्तम् । ज्ञानसाधनत्वेनेति वदता मोक्षसाधनता निरस्ता । तेन प्रश्नप्रतिवचनापव्याख्यानमप्यपहस्तितम् । आनन्दवृद्ध्यर्थता त्वनुज्ञायत ऎव । बीजं प्रदर्शयन् प्रश्नवाक्यतात्पर्यमाह – कर्मण इति ॥ आदिपदेन ``कृपणा फलहेतवः" इत्यादेर्ग्रहणम् । घोरे रागद्वेषाद्युपेते । अत्रोभयत्र कर्मशब्देन काम्यं कर्माभिप्रेतम् । निवृत्तधर्मान् निष्कामधर्मान् । यत्याश्रमविहितान् शमदमादीन् । अत्र `कर्मणि किमिति नियोजयसि’ इत्येकः प्रश्नः । `घोरे’ इति द्वितीय इत्यवधेयम् ।
इदमुक्तं भवति । आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च कर्माणि काम्यान्येव । फलश्रवणात् `सर्व एते पुण्यलोका भवन्ति’ इत्यादि । तथाऽत्रापि `हतो वा प्राप्स्यसि स्वर्गं’ इत्यादि । चतुर्थाश्रमविहितानि शमदमादीन्यकाम्यानि । फलाश्रवणात् । ``शान्तो दान्तः" इत्युपक्रम्य ``आत्मानं पश्येत्" इति ज्ञानार्थत्वश्रवणाच्च । ज्ञानं च काम्यात् कर्मणोऽत्युत्तममित्यभिहितम् । ततश्च काम्ये कर्मणि युद्धे `युद्धस्व भारत’ इति नियोजनमयुक्तम् । किन्तु चतुर्थाश्रमं स्वीकृत्य तद्धर्मनिष्ठो भवेति नियोक्तव्यम् । ननु युद्धमपि `कर्मबन्धं प्रहास्यसि’ इत्युक्तत्वात् ज्ञानार्थं भवतीति मतम् । तदा व्यामिश्रेण वाक्येन बुद्धिमोहनमिवापद्यते । अथैवं मतम् । युद्धादीनि कर्माणि काम्यन्यकाम्यानि च । तत्र यः सकामः तं प्रति `हतो वा’ इत्याद्युक्तम् । यः पुनर्ज्ञानार्थी तमुद्दिश्य `कर्मण्येवाधिकारः’ इत्युक्तम् । तत्र का व्यामिश्रतेति । तथापि शुद्धेषु निवृत्तलक्षणेषु यत्याश्रमधर्मेषु सत्सु वैकल्पिकेषु नियोजनमयुक्तमेव । तत्र मनोविक्षेपाभावात् । अत्र तद्भावादिति । किं च कामक्रोधादीनां नरकफलत्वमुक्तम् । युद्धे च कामादयोऽवर्जनीयाः । ततोऽपि तत्र नियोजनमयुक्तम् । नन्वस्योत्तरं `सुखदुःखे समे कृत्वा’ इत्युक्तम् । सत्यम् । तथापि रागादिप्रसक्तिहीनेषु शक्यानुष्ठानेषु यति धर्मेषु सत्स्वशक्यानुष्ठेये युद्धे नियोजनमयुक्तमेवेति ।
प्रथमश्लोके पदानां व्यवहितत्वादन्वयं दर्शयन् किञ्चिद् व्याचष्टे – कर्मण इति ॥ षष्ठीभ्रान्तिनिरासाय `सकाशात्’ इत्युक्तम् । बुद्धिरात्मज्ञानम् । ज्यायसी प्रशस्ततरा ॥ 1 ॥ 2 ॥
श्रीभगवानुवाच -
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ 3 ॥
भा – ज्यायस्त्वेऽपि बुद्धेराधिकारिकत्वात्तं कर्मण्यप्यधिकृत इति तत्र नियोक्ष्यामीत्याशयवान् भगवानाह – लोक इति ॥ द्विविधा अपि जनास्सन्ति । गृहस्थादिकर्मत्यागेन ज्ञाननिष्ठाः सनकादिवत् । तत्स्था ऎव ज्ञाननिष्ठाश्च जनकादिवत् । मद्धर्मस्था एवेत्यर्थः । साङ्ख्यानां ज्ञानिनां सनकादीनाम् । योगिनामुपायिनां जनकादीनाम् । ज्ञाननिष्ठा अप्याधिकारिकत्वादीश्वरेच्छया लोकसङ्ग्रहार्थत्वाच्च ये कर्मयोग्या भवन्ति तेऽपि योगिनः । निष्ठा स्थितिः । त्वं तु जनकादिवत्सकर्मैव ज्ञानयोग्यो न तु सनकादिवत्तत्त्यागेनेत्यर्थः । सन्ति हीश्वरेच्छयैव कर्मकृतः प्रियव्रतादयोऽपि ज्ञानिन ऎव । तथा ह्युक्तम् ``ईश्वरेच्छया विनिवेशितकर्माधिकारः" इति (भा. 5-1-23) ॥ 3 ॥
प्र.दी. – ऎवं चेत् प्रश्नस्तर्~हि कथं परिहारवाक्यं सङ्गच्छते । तत्र निष्ठाद्वैविध्यकथनादित्यतस्तदभिप्रायं वदन्नवतारयति – ज्यायस्त्वेपीति ॥ बुद्धिः काम्यकर्मभ्यो ज्यायसीति यदुक्तं तत्तथैवेत्यर्थः । तथापि त्वां तत्रैव वैकल्पिके युद्धादिकर्मणी प्रेरयामि । कुतः ? आधिकारिकत्वात् । त्वं कर्मण्यपि विक्षेपकारिण्यपि वैकल्पिकेऽधिकृत इति कृत्वा ।
अयमत्रोत्तरक्रमः । आश्रमत्रयविहितानि यज्ञादीनि युद्धादीनि च न शुद्धकाम्यानि । किन्तु कर्तुरिच्छया स्वर्गाद्यर्थानि ज्ञानाद्यर्थानि च भवन्ति । अतो बुद्धेः काम्यकर्मणो ज्यायस्त्वेऽपि युद्धस्य बुद्ध्यर्थत्वसम्भवात्तत्र नियोगो नानुपपन्नः । यति धर्मान्विना किमेतेन नियोगेनेति चेदनधिकारिकाणामेव यत्याश्रमस्वीकारो नाधिकारिकाणाम् । तैर्गृहस्थाद्याश्रममपरित्यज्यैव तद्विहितानि कर्माणि निष्कामतयाऽनुष्ठेयानीतीश्वरनियमात्तव चाधिकारिकत्वादिति । ``स्वराद्यन्तोपसृष्टाच्च" इति कात्यायनवचनमनित्यम् । अत्र ऎव न पाणिनिरभाणीत् । अयमाशयः श्लोकात्कथं लभ्यत इत्यतो व्याचष्टे – द्विविधा अपीति ॥ निष्ठा द्विविधेति व्याख्याने क्रमेणैकस्यैव पुरुषस्य तत्सम्भवान्नोक्ताभिप्रायो लभ्यत इत्येवं व्याख्यानम् । न केवलमेकविधाः साङ्ख्या एवेत्यपेरर्थः । द्वैविध्यमेव सोदाहरणमाह – गृहस्थादीति ॥ यत्याश्रमपरिग्रहेणेत्यपि ग्राह्यम् । ज्ञाननिष्ठा यत्याश्रमविहितैरेव कर्मभिर्ज्ञानसाधनेऽभियुक्ताः । सनकादिभिस्तुल्यं वर्तन्त इति सनकादिवत् । ऎवं जनकादिवदित्यपि । तत्स्था ऎव गृहस्थाद्याश्रमस्था ऎव । तद्धर्मैर्युद्धादिभिर्ज्ञानसाधनेऽभियुक्ताः । द्विविधा अपि जनास्सन्तीत्युक्ते कर्ममार्गस्था ज्ञानमार्गस्थाश्चेति द्वैविध्यं प्रतीयते । तन्निवृत्यर्थमाह – मद्धर्मेति ॥ ज्ञानमार्गस्था ऎव । ततश्च मद्धर्मस्था ऎव जना द्विविधा अपि सन्तीत्यन्वयः । तत्कथमित्याकाङ्क्षायामुत्तरं वाक्यद्वयम् । साङ्ख्यानां योगिनामिति पदद्वयमन्यथाप्रतीति निरासाय व्याचष्टे – साङ्ख्यानामिति ॥ सम्यक् ख्यातिर्ज्ञानं सङ्ख्या । तत्र भवाः साङ्ख्याः । तेषां, ज्ञानिनाम् । ज्ञाननिष्ठानामित्यर्थः । ननु जनकादयोऽपि ज्ञाननिष्ठाः । तत्कथं योगिन इत्यत आह – ज्ञाननिष्ठा अपीति ॥ कर्मयोग्याः गृहस्थादि कर्मयोग्याः । साङ्ख्ययोगशब्दौ प्रसिद्धार्थौ किं न स्यातामित्यतो मुक्तिवचनादिति भावेनाह – निष्ठेति ॥ स्थितिः स्वरूपेणेति शेषः । अस्त्वेवं श्लोकार्थः । तथाप्याधिकारिकत्वादिकमत्र न श्रूयत इत्यतोऽध्याहृत्याह – त्वन्त्विति ॥ सकर्मा गृहस्थादिकर्मवान् । भवेदिदं व्याख्यानं यदि ते जनाः प्रमिताः स्युर्येषां ज्ञाननिष्ठानामपि गृहस्थादिकर्मस्वेवाधिकारो न यत्याश्रमकर्मसु । जनकादयस्तु यत्याश्रमं नानुष्ठितवन्त इत्येव प्रमितम् । न तु तत्रानधिकारिण इति तत्राह – सन्ति हीति ॥ निवेशितः कर्माधिकारो गृहस्थकर्माधिकारो यस्मिन् स तथोक्तः । प्रियव्रतो हि यत्याश्रमं स्वीचिकीर्षुराधिकारिकत्वयुक्त्या हिरण्यगर्भेण निवारित इत्यनेनोच्यते ॥ 3 ॥
न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ 4 ॥
भा – इतश्च नियोक्ष्यामीत्याह – न कर्मणामिति ॥ कर्मणां युद्धादीनामनारम्भेण नैष्कर्म्यं निष्कर्मतां काम्यकर्मपरित्यागेन प्राप्यत इत मोक्षं नाश्नुते । ज्ञानमेव तत्साधनं. न तु कर्माकरणमित्यर्थः । कुतः पुरुषार्थत्वात् । सर्वदा स्थूलेन सूक्ष्मेण वा पुरेण युक्तो ननु जीवः । यदि कर्माकरणेण मुक्तिः स्यात् स्थावराणां च । न चाकरणे कर्माभावान्मुक्तिर्भवति । प्रतिजन्मकृतानामनन्तानां कर्मणां भावात् । नच सर्वाणि कर्माणि भुक्तानि । ऎकस्मिन् शरीरे बहूनि हि कर्माणि करोति । तानि चैकैकानि बहुजन्मफलानि कानिचित् । तत्र चैकैकानि कर्माणि भुञ्जन् प्राप्नोत्येव शेषेण मानुष्याम् । ततश्च बहुशरीरफलानि कर्माणीत्यसमाप्तिः । तच्चोक्तम् –
``जीवंश्चतुर्दशादूर्ध्वं पुरुषो नियमेन तु ।
स्त्री वाऽप्यनूनदशकं देहं मानुषमार्जते ।
चतुर्दशोर्ध्वजीवीनि संसारश्चादिवर्जितः ।
अतोऽवित्त्वा परं देवं मोक्षाशा का महामुने ॥" इति ब्राह्मे । यदि सादिः स्यात्संसारः पूर्वकर्माभावादतत्प्राप्तिः । अबन्धकत्वं त्वकामेनैव भवति । तच्च वक्ष्यते – `अनिष्टमिष्टं’ इति ॥
प्र.दी. – `न कर्मणाम्’ इति मोक्षस्य कर्मसाध्यत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह – इतश्चेति ॥ स्ववर्णाश्रमोचिते युद्धादाविति शेषः । प्रागाधिकारिकत्वात्त्वया कर्म कर्तव्यमित्युक्तम् । इदानीं कोऽपरो हेतुरुच्यत इत्यतो व्याचष्टे – कर्मणामिति ॥ अयमभिप्रायः । कर्माणि न कार्याणीति वदन् प्रष्टव्यः । किं ज्ञानं न मोक्षसाधनम् । अपि तु कर्माकरणमेवेति मत्वा कर्माणि त्यज्यन्ते । उत ज्ञानं मोक्षसाधनं भवत्येव । किन्तु `कर्मणा बध्यते जन्तुः’ इत्यादेः कर्माणि तत्प्रतिबन्धकानीति मत्वा । आद्येऽपि किं मोक्षस्य नैष्कर्म्यशब्दवाच्यत्वमात्रमाश्रित्येदमुच्यते । अथवा क्रियाकारकफलरूपस्य संसारस्य कर्मैव बीजम् । अकरणे च बीजाभावात्संसारो न भविष्यतीति युक्तिमाश्रित्य । आद्यस्य दूषणं – न कर्माणमिति ॥ नैष्कर्म्यशब्दस्यान्यथापि व्याख्यानान्नाऽद्य इत्यर्थः । ततः किमित्यत आह – ज्ञानमेवेति ॥ उक्तमाक्षिप्य समाधत्ते – कुत इति ॥ नैष्कर्म्यशब्दस्यान्यार्थतामङ्गीकृत्य कर्माकरणस्य मोक्षसाधनत्वनिराकरणे को हेतुरित्यर्थः । कथमस्य हेतुत्वमित्यतो व्याचष्टे – सर्वदेति ॥ प्रलयेऽपि सम्भवार्थं स्थूलेन सूक्ष्मेण वेत्युक्तम् । तथापि कथं हेतुत्वमित्यत आह – यदीति ॥ `स्यात्’ इत्यस्य पूर्वोत्तराभ्यां सम्बन्धः । `स्थावराणां’ इत्यनधिकृतोपलक्षणम् । ततश्चानादौ संसारेऽनधिकृतदेहस्य सम्भवेन युक्तिप्रसङ्गादधुनापि दृश्यमानं पुरुषत्वं न स्यादिति भावः । द्वितीयनिरासेप्यस्यैवार्धस्य तात्पर्यमाह – न चेति ॥ कर्माभावात्संसारबीजाभावात् । अत्र नैष्कर्म्यमिति मुक्तिनामैव । नतु परप्रमाणानुवादः । कुतो न भवतीत्यतोऽत्रापि पुरुषत्वादिति हेतुमभिप्रेत्याह – प्रतीति ॥ जन्मनि कृतानामित्यर्थः । पुरुषत्वेनानादौ संसारेऽधिकृतानन्तजन्मसम्भवात्तत्र कृतानामनन्तकर्मणां भावात् किमद्याकरणमात्रेण भवतीत्यर्थः । ननु पूर्वपूर्वशरीरकृतानि कर्माण्युत्तरोत्तरशरीरे भुक्तानि । तत्कुतोऽनन्तकर्मणां भाव इत्यत आह – न चेति ॥ कुतो नेत्यत आह – ऎकस्मिन्निति ॥ हि शब्दौ हेतौ । बहून्यपि भुज्यतां को दोष इत्यत आह– तानि चेति ॥ तानि च कानिचिदिति सम्बन्धः ॥ ऎकैकानीति ॥ प्रत्येकमित्यर्थः । तथाविधान्यप्यनधिकृतजन्मभिर्भुक्तानीत्यत आह – तत्र चेति ॥ तेषु कर्मसु । भुञ्जन् भुञ्जानः । शेषेण कर्मशेषेण । मानुष्ये चाकरणमसम्भावितमित्याह – ततश्चेति ॥ असमाप्तिर्भोगेनैव कर्मणामिति शेषः । सम्भावनामात्रेणेदमुदितं न तु प्रमितमित्यत आह – तच्चेति ॥ चतुर्दशाद्वर्षात् । अनूने दशको यस्येति विग्रहः । ह्रस्वदीर्घव्यत्ययेन ``चतुर्दशोर्ध्वजीविनी" इति स्त्रिया विशेषणम् । संसारश्चेति कर्मणामनन्तत्वोपपादनम् । अतो भोगेन क्षयासम्भवात् । अवित्त्वा अविदित्वा । पुरुषशब्देनानादिदेहसम्बन्ध उक्तः । सोऽसिद्ध इत्यत आह – यदीति ॥ अतत्प्राप्तिराकस्मिकस्य संसारस्याप्राप्तिः स्यात् । अतः पुरुषत्वं सिद्धमिति । ननु सन्तु प्राग्भवीयान्यनन्तकर्माणि । तथापि बन्धकानि कथं प्रेक्षावता क्रियेरन् । न ह्यनन्तानि पापानि प्राक्तनानि सन्तीत्येतावताऽद्य क्रियन्त इत्यत आह – अबन्धकत्वं त्विति ॥ कर्मणा बन्धहेतुत्वं त्वकामादिनैव भवति । न त्वकरणेन । प्रत्यवायस्यैव प्राप्तेरित्यर्थः । अकामेऽबन्धकत्वं भगवत्सम्मतमिति भावेनाह – तच्चेति ॥
सङ्करस्त्वकरणमसन्न सन्तं प्रत्यवायं जनयति । ``कथमसतस्सज्जायत" इति श्रुतेरित्यवादीत् । तद्भास्करः प्रत्यषेधीत् । द्रव्यविषया श्रुतिः । गुणस्त्वसतोऽपि जायत इति । उभावपि स्थूलदृश्वानौ । न ह्यकरणमसत् । तथा सति करणप्रसङ्गात् । किन्त्वभावः । सच भाववत्तत्वमेवेति कथमकरणम् । गुणं प्रति कारणत्वे च द्रव्यकारणत्वं कुतो न भवेत् । न ह्यत्रोपादानत्वं विवक्षितम् । किन्तु निमित्तत्वमेवेत्यलम् ॥
भा – ननु निष्कामकर्मणः फलाभावान्मोक्षः स्मृतः –
``निष्कामं ज्ञानपूर्वं तु निवृत्तमपि चोच्यते ।
निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् " इति मानवे । अतस्तत्साम्यादकरणेऽपि भवतीत्यत आह – न चेति ॥ संन्यासः काम्यकर्मपरित्यागः । ``काम्यानां कर्मणां" इति वक्ष्यमाणत्वात् । अकामकर्मणामन्तः करणशुद्ध्या ज्ञानान्मोक्षो भवति । तच्चोक्तम् – ``कर्मभिश्शुद्धसत्वस्य वैराग्यं जायते हृदि" इति भागवते विरक्तानामेव च ज्ञानमित्युक्तम् ।
``न तस्य तत्वग्रहणाय साक्षाद् वरीयसीरपि वाचस्समासन् ।
स्वप्ने निरुक्त्या गृहमेधिसौख्यं न तस्य हेयानुमितं स्वयं स्यात्" ॥ (भा 5-11-3) इति ॥ न तु फलाभावात् । कर्माभावात् । अतो न कर्मत्याग ऎव मोक्षसाधनम् । यत्याश्रमस्तु प्रायत्यार्थो भगवत्तोषणार्थश्च । अप्रयतत्वमेव हि प्रायो गृहस्थादीनामितरकर्मोद्योगात् । अप्रयतानां च न ज्ञानम् । तथा हि श्रुतिः – ``नाशान्तो नासमाहितः " तथा ह्याह – ``यत्याश्रमतुरीयं तु दीक्षां मम सुतोषिणीम्" इति नारायणाष्टाक्षरकल्पे । आधिकारिकास्तु तत्स्था ऎव प्रायत्वे समर्थाः । स ऎव च महान् भगवतस्तोषः । तच्चोक्तम् – ``देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः । विष्णोश्चलति तद् भोगोऽप्यतीव हरितोषणम् ॥" इति पाद्मे ॥ 4 ॥
प्र.दी.– ``नच संन्यसनादेव" इति पुनरुक्तम् । अत्रापि कर्मसंन्यसनस्यामोक्षसाधनत्वोक्तिरित्यत आह – नन्विति ॥ `निष्कामं ज्ञानपूर्वं च" इति मानवे वाक्ये तावन्निष्कामकर्मणा मोक्षः स्मृतः । स चोपपत्त्यन्तरादर्शनान्निष्कामकर्मणः फलाभावादित्येव तत्रोपपत्तिरङ्गीकार्या । यत ऎवं फलाभावस्यैव प्राधान्यमतोऽकरणेऽपि फलाभावस्यैव साम्यान्मोक्षो भवत्येव । यत् प्राग्भवीयकर्मफलमुक्तं निष्कामकर्मपक्षेऽपि तत्समानम् । न च विनिगमने कारणाभावः । आयासाभावस्य सत्त्वात् । नच प्रत्यवायप्राप्तिः । अमुमुक्षुविषयत्वसम्भवात् । अतो न कर्माणि करोमीति भावः । अनेन कथमस्य परिहार इत्यत आह – संन्यास इति ॥ तेन च निष्कामकर्मकरणमुपलक्ष्यत इति भावः । निष्कामकर्मकरणान्मोक्षं न प्राप्नोति । अतो न तत्प्रतिबन्दीग्रहणं युक्तमित्यनेनोक्तम् । तथा च स्मृतिविरोध इत्यतस्समृतेरभिप्रायमाह – अकामेति ॥ सकाशादिति शेषः । पुंसामिति वा । अकामकर्मभिरन्तःकरणशुद्धिद्वारा ज्ञानं जायत इत्येतद् कुत इत्यत आह – तच्चेति ॥ नन्वत्र वैराग्यं जायत इत्युच्यते, न तु ज्ञानमिति । तत्राह – विरक्तानामवेवेति ॥ प्रागपि वैराग्यद्वारेत्यभिमतमिति भावः । तथापि कथं विरोध परिहारः । गीतायामकामकर्मणां मोक्षसाधनत्वाभावावधारणादित्यतस्तदभिप्रायमाह – न त्विति ॥ फलाभावोपपत्तिकं मोक्षसाधनत्वं निषिध्यते । नतु सर्वथाऽपीत्यर्थः । प्रतिबन्दी मोचयति – कर्माभावादिति । अतः कर्माभावान्न मोक्ष इत्यर्थः । श्लोकतात्पर्यमुपसंहरति – अत इति ॥
ननु यत्याश्रमो मोक्षसाधनत्वेन श्रुत्यादिप्रसिद्धः । तत्र चेयमेवोपपत्तिर्यत्तद्धर्माणां फलाभावः । अतः तत्साम्यादकरणेऽपि मोक्षो भवतीत्येतच्छङ्कानिरासार्थं चोक्तम् ``नच संन्यसनादेवेति" ऎवं तर्~हि श्रुत्यादिविरोध इत्यत आह – यत्याश्रमस्त्विति ॥ प्रायत्यं प्रयतत्वम् । ईश्वरे मनःसमाधानम् । ऎतद् द्वारद्वयेन मोक्षसाधनत्वं श्रुत्यादेरभिप्रेतम् । फलाभावोपपत्तिकं तु गीतायां निवारितमतो न विरोध इति भावः । आश्रमान्तरेऽपि प्रायत्यसम्भवात्किं तदर्थं यत्याश्रमेणेत्यत आह – अप्रयतत्वमेवेति ॥ इतरकर्मसु यजनादिषु । प्रायत्यं कथं मोक्षसाधनमित्यतो व्यतिरेकमुखेनोपपादयति – अप्रयतानां चेति ॥ ``प्रज्ञानेनैनमाप्नुयात्" (कठ 2-26) इति श्रुतिशेषः । अशान्तोऽश्रमान्तरेण सम्भवात्किं यत्याश्रमेणेत्यत आह – महांश्चेति ॥ तुरीयं परमहंसाख्यम् । वाक्यशेषेणान्वयः । यत्याश्रम ऎव चेत्प्रायत्यं महान् भगवत स्तोषश्च तर्~हि तद्रहितानामाधिकारिकाणां तदुभयाभाव इत्यत आह – आधिकारिकास्त्विति ॥ तत्स्थाः अधिकारस्थाः । स ऎव अधिकार ऎव । तुष्यत्यनेनेति तोषः । समासान्तविधेरनित्यत्वादादिराज्ञामिति युक्तम् । यथोक्तं महाभाष्ये– ``शुच्यम्पि तटाकानि" इति ॥ 4 ॥
नहि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 5 ॥
भा– न तु कर्माणि सर्वात्मना त्यक्तुं शक्यानीत्याह – न हीति ॥ 5 ॥
प्र.दी. – ज्ञानराहित्यात् कर्मत्यागरूपान् यत्याश्रमात्सिद्धिं न समधिगच्छतीति किल पूर्वमुक्तम् । तत्र हेत्वाकाङ्क्षायां ``न हि कश्चित्" इत्युच्यत इति व्याख्यानमसदिति भावेन श्लोकतात्पर्यमाह – न त्विति ॥ न ह्यत्र ज्ञानस्यावश्यकत्वे किञ्चिदुच्यते । नापि यज्ञादिकर्माकरणस्यासम्भवोऽभिधीयते । येन प्रकृतसङ्गतिस्सयात् । किन्तु शरीरयात्राद्यर्थानां कर्मणामपरिहार्यत्वम् । अतो नेदं व्याख्यानम् । अपि तर्~हि ``कर्मणाबध्यते जन्तुः" इति स्मृतिमाश्रित्य यस्तृतीयः पक्षस्तमाशङ्क्य `यज्ञार्थात्’ इति स्मृतेरर्थसङ्कोचं वक्ष्यति । तत्र कुतः स्मृतेरर्थसङ्कोच इत्याकाङ्क्षा स्यात् । तामपाकर्तुमुपोद्घातन्यायेन कर्मशब्दस्तावदसङ्कुचितार्थः परेणाप्यङ्गीकर्तुमशक्य इति प्रतिपादयितुं कर्माणि सर्वात्मना त्यक्तुं नैव शक्यानीत्यनेनेनाहेति भावः ॥ 5 ॥
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ 6 ॥
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगमनस्कः स विशिष्यते ॥ 7 ॥
भा – तथाऽपि शक्तितस्त्यागः कार्य इत्याह – कर्मेन्द्रियाणीति । मन ऎव प्रयोजकमिति दर्शयितुमन्वयव्यतिरेकावाह मनसा स्मरन् मनसा नियम्येति ॥ कर्मयोगं स्ववर्णाश्रमोचितम् । न तु गृहस्थकर्मैवेति नियमः । संन्यासादिविधानात् । सामान्यवचनाच्च ॥ 6 ॥ 7 ॥
प्र.दी. – तथापि ``कर्मेन्द्रियाणि" इत्यसङ्गतम् । तृतीयपक्षस्थेन मनसेन्द्रियार्थस्मरणस्यानुक्तत्वादित्यत आह – तथाऽपीति ॥ यद्यपि शरीरयात्राद्यर्थानि कर्माणि त्यक्तुमशक्यानि । तथापि शक्तितः शक्यत्वाद् यज्ञानिकर्मणां त्यागः कार्यः । ऎतदुक्तं भवति । नाशक्यविषये शास्त्रप्रवृत्तिरित्यतस्तद्व्यतिरिक्तकर्मार्थः स्मृतौ कर्मशब्दो भविष्यतीति । ऎतद् शङ्कापरिहारः श्लोके न दृश्यते । द्वितीयश्लोकश्च व्यर्थ इत्यत आह – मन एवेति ॥ मन ऎव बन्धमोक्षयोः प्रयोजकम् । न कर्मकरणाकरणे । अतस्तन्निग्रह ऎव कार्यो न कर्मत्याग इति ज्ञापयितुमित्यर्थः । अनिगृहीतत्वे मनसो बन्धापेक्षयाऽद्योऽन्वयः । द्वितीयो व्यतिरेकः । मोक्षापेक्षया तु व्यत्यास इति । एतेन स्मरणस्य मानसत्वाव्यभिचारात् `मनसा’ इति व्यर्थमिति परास्तम् । `कर्मयोगेन योगिनां’ इत्यत्र कर्मयोगशब्दस्य गृहस्थादिकर्मविषयत्वेन प्रकृतत्वादत्रापि तद्विषयत्वप्रतीतिः स्यात् । तन्निरासार्थमाह – कर्मयोगमिति ॥ गृहस्थकर्मैव वनस्थकर्मैव ब्रह्मचारिकर्मैवेति नियमो न विवक्षित इत्यर्थः । ``संन्यासादि" इत्यादिपदेन यो नियम्यते तद् व्यतिरिक्तग्रहणम् । कर्मयोगशब्दस्य सामान्यवाचित्वाच्च । पूर्वं ``ज्ञानयोगेन साङ्ख्यानाम्" इति यत्याश्रमकर्मणः पृथगुक्तत्वात्सामान्यशब्दोऽपि विशेषे व्यवस्थितः । न चात्र तथाविधं किञ्चिदस्तीति भावः ॥ 6 ॥ 7 ॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ 8 ॥
भा – अतो नियतं वर्णाश्रमोचितं कर्म कुरु ॥ 8 ॥
प्र.दी. – उत्तरश्लोकपर्यालोचनया चैवमिति भावेन सङ्गतिं सूचयन् व्याचष्टे – अत इति ॥ अतश्शब्दपरामर्श्यं `कर्म ज्यायः’ इत्यादिनैवोच्यते ॥ 8 ॥
यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्मकौन्तेय मुक्तसङ्गस्समाचर ॥ 9 ॥
भा- ``कर्मणाबध्यते जन्तुः" इति कर्मबन्धकं स्मृतमित्यत आह – यज्ञार्थादिति ॥ कर्मबन्धनं यस्य लोकस्य स कर्मबन्धनः । यज्ञो विष्णुः । यज्ञार्थं सङ्गरहितं कर्म न बन्धकमित्यर्थः । ``मुक्तसङ्गः" इति विशेषणात् । ``कामान्यः कामयते" (मुं. 3.2.2) इति श्रुतेश्च ॥ `अनिष्टमिष्टं’ इति वक्ष्यमाणत्वाच्च । `एतान्यपि तु कर्माणि’ इति च `तस्मान्नेष्टियाजुकः स्यात्’ (बृ. 1.5.2) इति च । विशेषवचनत्वे समेऽपि विशेषणं परिशिष्यते ॥ 9 ॥
प्र.दी.– इदानीं तृतीयपक्षमाशङ्क्य तत्परिहाराय श्लोकमवतारयति – कर्मणेति ॥ बन्धकं मोक्षस्य प्रतिबन्धकम् । अतो न करोमीति शेषः । तत्पुरुषभ्रान्तिनिरासायाह – कर्मेति ॥ तत्पुरुषत्वेऽसङ्गतिः स्यादिति भावः । यज्ञशब्दस्य यागार्थत्वप्रतीतिमपाकर्तुमाह – यज्ञ इति ॥ अवैष्णवयागस्यापि बन्धकत्वादिति भावः । तधर्थमित्युत्तरवाक्यस्यासङ्गतिपरिहारायार्थात्सिद्धं पूर्ववाक्यार्थमाह – यज्ञार्थमिति ॥ सङ्गतिरहितमित्यनुक्तं कस्मादुक्तमित्यत आह – मुक्तेति ॥ इष्टि याजुकः फलेच्छया यष्टा ।
ननु कर्मणा बध्यते जन्तुरित्यपि विशेषवचनम् । अविद्यादीनामनेकेषां बन्धकत्वेनाविद्यादिभिरिति सामान्यस्यानुपातत्तत्वात् । गीतावाक्यं `न कर्म बन्धकं’ इतीदमपि विशेषवचनम् । तत्कथं तत्परिहारायावतार्य व्याख्यातमित्यत आह – विशेषेति ॥ यद्यप्युक्तविधया द्वयोर्विशेषवचनत्वं समम् । अतस्तदपेक्षया तत्सामान्यवचनमेव । अतो युक्तमेतद् व्याख्यानमिति भावः ।
अयमत्र प्रत्युत्तरक्रमः । ``कर्मणाबध्यते" इति वाक्यमाश्रित्य न युद्धादिकर्मत्यागः कार्यः । तस्यावैष्णवकाम्यकर्मविषयत्वात् । कुतः सङ्कोच इति चेत् । परेणापि परिस्पन्दमात्रस्य त्यक्तुमशक्यत्वेनासङ्कुचितार्थतायाः स्वीकर्तुमशक्यत्वात् । तर्~ह्यत ऎव बाधकाच्छरीरयात्रार्थकर्मव्यतिरिक्तविषयत्वं कल्प्यत इति चेन्न । वैयर्थ्यात् । ऎवमपि मनोव्यापारस्यात्यक्तत्वेन प्रतिबन्धकाभावो न सिद्ध्यति । तस्यैवान्वयव्यतिरेकाभ्यां प्रयोजकत्वावधारणात् । बाधकात्सङ्कोचमङ्गीकुर्वतां चायमपि सङ्कोचोऽङ्गीकार्यः । विधानसामर्थ्याद्युद्धादीनामपि तत्तद्वर्णाश्रमोचितत्वात् । नच विधानस्यामुमुक्षुविषयत्वम् । कल्पकाभावात् । न चेदमेव वाक्यं कल्पकम् । तस्यावैष्णवत्वादिधर्मत्यागेन चरितार्थत्वात् । धर्मिपरित्यागाद्धर्ममात्रपरित्यागस्य ज्यायस्त्वात् । अतो न कर्मस्वरूपं त्याज्यमिति ॥ 9 ॥
<लन्ग्=सन्> सहयज्ञाः प्रजास्सृष्ट्वा पुरोवाचप्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ 10 ॥
देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ 11 ॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन ऎव सः ॥ 12 ॥
यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ 13 ॥
भा – अत्रार्थवादमाह – सहयज्ञा इति ॥ 10-13 ॥
प्र.दी. – ``सहयज्ञा" इत्यादेर्न प्रकृतेन सङ्गतिर्दृश्यते । अत आह – अत्रेति ॥ वर्णाश्रमोचितस्य कर्मणः सर्वथा कर्तव्यत्वे । स्तुतिर्निन्दा परकृतिः । पुराकल्पोऽर्थवादः ॥ 10 -13 ॥
अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 14 ॥
भा – हेत्वन्तरमाह – अन्नादिति ॥ यज्ञः पर्जन्यान्नत्वात् तत्कारणमुच्यते । पूर्वयज्ञविवक्षायां चक्रप्रवेशो न भवति । तद्ध्यापाद्यं कर्मविधये । नतु साम्यमात्रेणेदानीं कार्यम् । मेघचक्राभिमानी च पर्जन्यः । तच्च यज्ञाद् भवति ।
``अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठति ।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥" इति स्मृतेः । उभयवचनादादित्यात्समुद्राच्चाविरोधः । अतश्च यज्ञाद् पर्जन्योद्भवस्सम्भवति । यज्ञो देवतामुद्दिश्य द्रव्यत्यागः कर्मेतरक्रिया ॥ 14 ॥
प्र.दी. ``अन्नात्" इत्यादेः सङ्गतिमाह – हेत्वन्तरमिति ॥ अत्रेत्यनुवर्तते । अत्र पर्जन्यो मेघ आदित्यश्च विवक्षितौ । तत्रादित्यस्य पूर्वसिद्धस्य कथं ``यज्ञाद् भवति पर्जन्यः" इति यज्ञः कारणत्वेनोच्यत इत्यत आह – यज्ञ इति ॥ यद्यपि यज्ञो देवानामुद्दिश्य द्रव्यत्याग इति वक्ष्यति । तथाऽप्यत्र परित्यज्यमानं द्रव्यं गृह्यते । तस्य पर्जन्यान्नत्वात् पर्जन्योपभोग्यत्वात् । उपभुक्तेन च तस्य बलाद्युपचयाद् यज्ञः तस्य पर्जन्यस्य कारणमुच्यते । ननु पर्जन्यो देवतात्मा येन यज्ञेन पर्जन्यत्वं प्राप्तः स यज्ञो विविक्षितोऽत्रासु । तथा सति यज्ञाद् पर्जन्योद्भवो मुख्य ऎव सम्पत्स्यत इति । नेत्याह – पूर्वेति ॥ तस्य पर्जन्यत्वपदप्राप्तिहेतोर्यज्ञस्येति शेषः । ननु तदा चक्रं प्रवृत्तमेव । अतः कथं पूर्वयज्ञस्य चक्राप्रवेश इत्यत आह – तद्धीति ॥ तच्चक्रमापाद्यं ह्यत्र विविक्षितम् । न तु प्रागापादितम् । कुतः ? कर्मविधये ह्येतदुच्यते । यदि विहितं कर्म करिष्यसि तदा जगच्चक्रप्रवृत्तिर्भविष्यति ॥ अन्यथा तद् विघातः । अतस्त्वया कर्म कर्तव्यमिति । कर्मविध्युपयोगिता चापाद्यस्यैव । न त्वापादितस्य । आपाद्ये च यज्ञव्यक्तिविशेषस्य पर्जन्यपदप्राप्तिहेतोर्न प्रवेश इत्यर्थः ।
प्राक् पर्जन्येन कर्मकृतम् । तेन च यज्ञादिद्वारा चक्रं प्रवृत्तम् । अतस्त्वयापि कर्मकर्तव्यमित्येवं प्रागापादितचक्रोक्तिरपि कर्मविध्युपयोगिनी भवतीति चेन्मैवम् । अत इति कोऽर्थः । त्वत्कर्मणापि चक्रप्रवृत्तिसम्भवादिति वा कर्मत्वादिति वा । नाद्यः । इदानीन्तन पुरुषकर्मजयज्ञेन पर्जन्योत्पत्त्यसम्भवेन चक्राप्रवृत्तेः । न हि सर्वेऽपि कर्मकारिणः पर्जन्यत्वं प्राप्नुवन्ति । द्वितीयं दूषयति – न त्विति ॥ फलरहितेन कर्मत्वसाम्येनेदानीं कर्म कार्यं न भवति स्वयं क्लेशरूपत्वादिति ।
प्रकारान्तरेणापि ``यज्ञाद्भवति पर्जन्य" इत्येतद् घटयितुमाह– मेघेति ॥ चक्रं समूहः । ततः किमित्यत आह – तच्चेति ॥ मेघचक्रम् । कुत इत्यत आह – अग्नाविति ॥ ``ननु स्वकीयमुदकं नद्यः" इति समुद्राद् वृष्टिरुच्यते । अत आदित्याद् वृष्ट्यङ्गीकारे तद् विरोधः स्यादित्यत आह – उभयेति ॥ वृष्ट्यङ्गीकारादिति शेषः । वर्षुका मेघा इह वृष्टिशब्देनोच्यन्ते । अतोऽपि किमित्यत आह – अतश्चेति ॥ प्राक् पर्जन्यस्य भवनं गौणमङ्गीकृत्य व्याख्यातम् । इदानीं त्वभिमन्यमानगतस्याभिमन्यमाने लक्षणामाश्रित्येति भेदः । यद्वाऽभिमानिगतस्य पर्जन्यशब्दस्याभिमन्यमाने लक्षणामाश्रित्य द्वितीयं व्याख्यानम् । तात्पर्यनिर्णये तु मेघसन्ततौ पर्जन्यशब्दो यौगिकोऽङ्गीकृतः । ननु यज्ञः कर्मात्मकः । तत्कथमुच्यते ``यज्ञः कर्मसमुद्भवः" इति । तत्राह – यज्ञ इति ॥ इतरक्रिया यज्ञाङ्गभूता । अपूर्वाङ्गीकारे रूढित्यागेन लक्षणाश्रयणं स्यात् ॥ 14 ॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ 15 ॥
भा– कर्मब्रह्मणो जायते ``एष ह्येव साधु कर्म कारयति" ``बुद्धिर्ज्ञानं" इत्यादिभ्यः । नच मुख्ये सम्भाव्यमाने पारम्पर्येणौपचारिकं कल्प्यम् । नच जडानां स्वतः प्रवृत्तिस्सम्भवति । ``एतस्य वाऽक्षरस्य" इत्यादिसर्वनियममनुश्रुतेश्च । `द्रव्यं कर्म च कालश्च’ इत्यादेश्च । अचिन्त्यशक्तिश्चोक्ता । जीवस्य च प्रतिबिम्बस्य बिम्बपूर्वैव चेष्टा । `न कर्तृत्वं’ इत्यादि निषेधाच्च ।
प्र.दी. – कर्म ब्रह्मोद्भवं ब्रह्मणा वेदेन प्रकाश्यमिति परेषां व्याख्यानमसदिति भावेनाह – कर्मेति ॥ ब्रह्मणः परब्रह्मणः । कुत इत्यत आह – एष हीति ॥ अपव्याख्यानं प्रत्याख्याति – न चेति ॥ उद्भवशब्दस्य मुख्येऽभिधेये जन्मनि सम्भाव्यमाने सत्यौपचारिकं प्रकाशनमर्थतया न कल्प्यम् । तथा ब्रह्मशब्दस्य मुख्येऽभिधेये परे ब्रह्मणि सम्भाव्यमाने सत्यौपचारिकममुख्यं वेदाख्यं ब्रह्मशब्दार्थतया न कल्प्यम् ।
किं चैवं व्याचक्षाणेनापि वेदस्य कर्मप्रकाशकत्वमन्तर्यामिद्वारा परम्परयाऽङ्गीकार्यम् । तथा चानन्ततोऽपि परब्रह्मण्यङ्गीकार्ये शब्दत ऎव प्राप्तस्य तस्य परित्यागोऽनुपपन्नः । ननु वेदः स्वयमेव कर्म प्रकाशयति । किं परब्रह्मणा । अतो न परम्परेत्यत आह – न चेति ॥ न केवलं वेदस्य जडत्वादन्याधीनत्वं, किं त्वागमाद् विष्ण्वधीनत्वं सिद्धमित्यत आह – ऎतस्येति ॥ विष्णोरिति शेषः । ननु शब्दस्यार्थप्रकाशनं स्वभावः । न त्वागन्तुको व्यापारः । यथाऽग्नेरौष्ण्यम् । ततो जडत्वेऽपि न परापेक्षत्यतः स्वभावस्यापि भगवदधीनत्वे प्रमाणमाह – द्रव्यमिति ॥ ऎतद् प्रमाणसिद्धमपि स्वभावनियमं विष्णोरसम्भवावितमित्यत आह – अचिन्त्येति ॥ यदि जडस्य न स्वतः प्रवृत्तिः तर्~ह्यभिमानिदेवताद्वाराऽस्तु । तथा च नान्ततोऽपि परब्रह्माङ्गीकार इत्यत आह – जीवस्य चेति ॥ ततश्चाधिक्येन परम्परेति भावः । न केवलं प्रतिबिम्बत्वाज्जीवस्य स्वतः प्रवृत्त्यभावः । किन्त्वागमाच्चेत्याह – नेति ॥
भा –अक्षराणि प्रसिद्धानि । तेभ्यो ह्यभिव्यञ्जते परं ब्रह्म । अन्यथाऽनादिनिधनमचिन्त्यं परिपूर्णमपि ब्रह्म को जानाति । न च रूढिं विना योगाङ्गीकारो युक्तः । परामर्शाच्च ``तस्मात्सर्वगतं ब्रह्म" इति । न ह्येकेन शब्देन द्विरुक्तेन भेदश्रुतिं विना वस्तुद्वयं कुत्रचिदुच्यते ।
प्र.दी. – ``ब्रह्माक्षरसमुद्भवं" इत्यस्य ``ब्रह्मवेदो अक्षरात्परब्रह्मणो जायते" इति परेषां व्याख्यानमसदिति भावेनाह – अक्षराणीति ॥ प्रसिद्धाकारादीनि नियतानुपूर्वीविशिष्टानि । वेद इति यावत् । ननु समुद्भवशब्दस्य मुख्यार्थाङ्गीकारे किं बाधकम् । येनाभिव्यज्यत इत्यमुख्योऽर्थः । स्वीक्रियते । किञ्च प्रमाणान्तरेणापि ब्रह्माभिव्यक्तिसम्भवात् ``तेभ्यः" इति किमर्थमुक्तमित्यत आह – अन्यथेति ॥ व्यक्त्यर्थत्वानङ्गीकारे । अनादिनिधनं ब्रह्म कथं जायेत इति शेषः । तथा वेदस्य तदभिव्यञ्जकत्वानङ्गीकारे परिपूर्णत्वादचिन्त्यं ब्रह्म को जानाति । वाक्यार्थद्वयसमुच्चयेऽपि शब्दः । समुद्भवशब्दस्य मुख्यार्थलाभाद् परोक्तार्थः किं न स्यादित्यत आह – नचेति ॥ ब्रह्मशब्दो हि परब्रह्मणि रूढः । वेदे तु बृहत्त्वयोगेन प्रवृत्तः । तथाऽक्षरशब्दो वर्णेषु रूढः । ब्रह्मणि त्वक्षरयोगेन प्रवृत्तः । तथा चान्यथा व्याकुर्वता रूढि परित्यज्य योगोऽङ्गीकृतः स्यात् । तच्च न्यायबाह्यमित्यर्थः । इतश्च ब्रह्मशब्दः परब्रह्मवाचीत्याह – परामर्शाच्चेति ॥ उत्तरवाक्ये ब्रह्मशब्देन परब्रह्मणः परामर्शाच्च पूर्ववाक्यस्थो ब्रह्मशब्दः परब्रह्मार्थो ज्ञायते तथाचाक्षरशब्दोऽप्यर्थाद् वेदवचनो भविष्यतीति भावः । प्रागक्षरशब्दोक्तं परब्रह्मेदानीं ब्रह्मशब्देन परामृश्यते । अतः पूर्वो ब्रह्मशब्दो वेदार्थ एवेत्यत आह – न हीति ॥ ऎतस्मिन्नेव प्रकरण इति शेषः । ``अन्नाद् पुरुषः । स वा एष पुरुषोऽन्नरसमयः" इत्यादि व्यावृत्त्यर्थं ``भेदश्रुतिं विना" इत्युक्तम् । श्रुतिशब्दश्च प्रमाणोपलक्षणार्थः । अत्रापि सर्वगतमिति विशेषणमस्तीति चेन्न । वर्णानामपि सर्वगतत्वात् । विकारत्वान्नेति चेन्न । अनन्तरमेव निराकरणात् । इदं च भास्करं प्रत्यभिहितम् ।
भा – तानि चाक्षराणि नित्यानि । ``वाचा विरूप नित्यया" । ``अनादिनिधना नित्या वागुत्सृषा स्वयम्भुवा" । ``अत ऎव च नित्यत्वं" इत्यादि श्रुतिस्मृतिभगवद् वचनेभ्यः । दोषाश्चोक्ताः सकर्तृकत्वे । न चाबुद्धिपूर्वमुत्पन्नानि । तत्प्रमाणाभावात् । निश्वसितशब्दस्त्वक्लेशाभिप्रायो ना बुद्धिपूर्वाभिप्रायः । ``सोऽकामयत" इत्यादेश्च । इष्टं हुतमित्यादिरूपप्रपञ्चेन सहाभिधानाच्च । महातात्पर्यविरोधाच्च । तच्चोक्तं पुरस्तात् । न ह्यस्वातन्त्र्येणोत्पत्तिकर्तुः प्राधान्यम् । अस्वातन्त्र्यं च तदमतिपूर्वकत्वेन भवति । यथा रोगादीनां पुरुषस्य तज्जत्वेऽपि ।
प्र.दी. – मायावादिना तु प्राक् ब्रह्मशब्दोक्तस्य वेदस्यैवायं परामर्श इत्यङ्गीकृतत्वाद्यदप्यन्यथाव्याख्याने समुद्भवशब्दस्य मुख्यार्थतालाभ इत्यभिप्रेतं तदपि दुराशामात्रमित्याह – तानि चेति ॥ यान्यस्माभिः प्रसिद्धानि व्याख्यातानि । अनेनाभिधानादि बलाद् ब्रह्माक्षरशब्दौ द्वावप्युभयत्र योगरूढाविति प्रत्यवस्थानमपि परास्तम् । परामर्शस्य वर्णनित्यत्वस्य चापरिहार्यत्वात् ।
न केवलं श्रुत्यादिभ्यो वेदस्य नित्यत्वं, किं तर्~हि विपक्षे बाधकाच्चेत्याह – दोषाश्चेति ॥ ``रचितत्वे च धर्मप्रमाणस्य" इत्यत्र । ननु वेदाक्षराणि ब्रह्मणोऽबुद्धिपूर्वमुत्पन्नानि । अतो न विपर्ययादिमूलत्वशङ्केत्यत आह – न चेति ॥ ``निश्वसितमेतद्दयदृग्वेदो यजुर्वेदः" इति श्रुतिर्वेदानां ब्रह्मणोऽबुद्धिपूर्वमुत्पन्न त्वे प्रमाणमिति चेत् । किमयं निश्वसितशब्दोऽबुद्दिपूर्वमुत्पन्नस्य वाचक उत निश्वसितमिव निश्वसितं, इवार्थश्चाबुद्धिपूर्वमुत्पन्नत्वमिति गौण्या वृत्त्या तदभिप्रायः । नाद्यः । प्रमाणाभावात् । द्वितीयं दूषयति – निश्वसितेति ॥ अक्लेशेन निस्सरणस्यापीवार्थस्य सम्भवेन निश्वसितशब्दस्य तदभिप्रायतोपपत्तौ नाबुद्धिपूर्वोत्त्यभिप्रायत्वनिश्चय इत्यर्थः । नच परस्येवास्माकमपि निश्चयायोग इति भावेनाह – स इति ॥ ``सोऽकामत स इदं सर्वमसृजत" इति ब्रह्मणः सर्वसृष्टेरिच्छापूर्वकत्वमुच्यते । इच्छा च बुद्ध्यविनाभूता । अतो न किञ्चिद् ब्रह्मणोऽबुद्धिपूर्वमुत्पन्नमिति । ननु `निश्वसितमेतत्’ इति श्रुतिः नामप्रपञ्चस्याबुद्धिपूर्वमुत्पत्तिं वक्ति । `‘सोऽकामयत" इति रूपप्रपञ्चस्येच्छापूर्वमित्यतो न विरोध इत्यत आह – इष्टमिति ॥ ऎवं सति ``निश्वसितं" इति श्रुतौ ``इष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः" इति नाम प्रपञ्चस्य रूपप्रपञ्चेन सहाभिधानाद् रूपप्रपञ्चस्यापि निश्वसितशब्देनाबुद्धिपूर्वोत्पन्नत्वप्राप्तौ ``सोऽकामयत" इति श्रुतिर्निर्विषयैवापाद्येतेति भावः । इतोऽपि नाबुद्धिपूर्वा ब्रह्मणः सृष्टिरित्याह – महातात्पर्येति ॥ ब्रह्मणः सर्वोत्तमत्वे यत्सर्ववेदानां महातात्पर्यं तद्विरोधाच्चेत्यर्थः । तदेव कुत इत्यत आह – तच्चेति ॥ उक्तं साधितम् । कथं तद्विरोध इत्यत आह – न हीति ॥ प्राधान्यं सर्वोत्तमम् । अस्वातन्त्र्येणोत्पत्तिकर्तृत्वस्य प्राधान्यविरोधित्वेऽप्यबुद्धिपूर्वमुत्पादकत्वस्य किमायातमित्यत आह – अस्वातन्त्र्यं चेति ॥ कार्यस्य पुरुषमतिपूर्वकत्वाभावे तत्र तस्य पुरुषस्यास्वातन्त्र्यं भवति । तत्र दृष्टान्तमाह – यथेति ॥ रोगादीनां पुरुषजत्वेऽपि बुद्धिपूर्वकत्वाभावात्तत्र पुरुषस्यास्वातन्त्र्यं यथेत्यर्थः । ततश्चाबुद्धिपूर्वमुत्पादकत्वादस्वातन्त्र्यम् । अस्वातन्त्र्यादप्राधान्यं प्रसज्येत । तथा च महातात्पर्यविरोध इत्युक्तं भवति । साक्षाद् प्रसङ्गसम्भवेऽपि व्युत्पादनार्थमेवमुक्तम् ।
भा – उत्पत्तिवचनान्यभिव्यक्त्यर्थान्यभिमानिदेवताविषयाणि च । नित्येत्युक्त्वा उत्सृष्टेति वचनात् । अभिव्यञ्जके कर्तृवचनं चास्ति । ``कृत्स्नं शतपथं चक्रे" इति । कथमादित्यस्था वेदाः तेनैव क्रियन्ते । वचनमात्राच्च निर्णयात्मकशरीरकोक्तं बलवत् । शास्त्रं योनिः प्रमाणमस्येति तु शास्त्रयोनित्वम् । ``जन्माद्यस्य" इत्युक्ते प्रमाणं हि तत्रापेक्षितं, न तु तस्य जातत्वं वेदकारणत्वं वा । न हि वेदकारणत्वं जगत्कारणत्वे हेतुः । न हि विचित्रजगत्सृष्टेर्वेदसृष्टिरशक्या सृज्यते । नच सर्वज्ञत्वे । यदि वेदस्रष्टा सर्वज्ञः किमित न जगत्स्रष्टा । तस्माद् वेदप्रमाणकत्वमेवात्र विवक्षितम् । अतो नित्यान्यक्षराणि । यत ऎवं परम्परया यज्ञाभिव्यङ्ग्यं ब्रह्म तस्मान्नित्यं यज्ञे प्रतिष्ठितम् ॥ 15 ॥
प्र.दी. – ननु वेदनित्यत्ववत्तदुत्पत्तावपि ``ऋचः सामानि जज्ञिरे" इत्यादि वचनानि सन्ति । तत्कथं निर्णय इत्यतो विपक्षे बाधकोपेतानां नित्यत्ववाक्यानां प्राबल्यादुत्पत्तिवचनान्यथा व्याख्येयानीत्याह – उत्पत्तीति ॥ उत्पत्तिवाची शब्दोऽभिव्यक्तौ क्व दृष्ट इत्यत आह – नित्येति ॥ अनादिनिधनतया नित्या न तूपचारेणेति मुख्यं नित्यत्वमुक्त्वा पुनरुत्सृष्टेत्युच्यते । तत्र गत्यन्तराभावाद् व्यक्तिरेव ग्राह्येत्यर्थः । अन्यत्रापि प्रयोगं दर्शयति – अभिव्यञ्जक इति ॥ शतपथाभिव्यञ्जकतया निश्चिते याज्ञवल्क्ये कर्तृशब्दोऽस्तीत्यर्थः । याज्ञवल्क्यः शतपथस्य कर्तैव किं न स्यादित्यत आह – कथमिति ॥ प्रागादित्ये स्थितास्ततो याज्ञवल्क्येनाधीता इत्येतत्प्रमितमित्यर्थः । इतोऽपि नित्यत्वपक्ष ऎव बलवानित्याह – वचनेति ॥ ``ऋचः सामानि" इत्यादिकं वचनमात्रम् । ``अत ऎव च नित्यत्वं" इति शारीरकोक्तं वाक्यं निर्णयात्मकम् । वचनं च वृत्त्यन्तरेणापि सम्भवति । न तूपचरितो वाक्यार्थावधारणात्मकोऽपि निर्णयः । अतस्तस्मादिदं बलवदित्यर्थः ।
ननु शारीरक ऎव ``शास्त्रयोनित्वात्" इति ब्रह्मणो वेदकारणत्वमुच्यत इत्यत आह – शास्त्रमिति ॥ ननु तत्पुरुषं परित्यज्य को बहुव्रीहिरङ्गीक्रियते । तथात्वे च ब्रह्मणो वेदाज्जातत्वं प्रसज्येतेत्यत आह – जन्मादीति ॥ लक्षणप्रमाणाभ्यां हि वस्तुनिर्णयः । तत्र ``जन्माद्यस्य" इति सूत्रेण लक्षणेऽभिहिते कुतः प्रमाणादेवं प्रतिपत्तव्यमिति ब्रह्मणो जगज्जन्मादिकारणत्वे प्रामाणाकाङ्क्षा स्यात् । न तु तस्य वेदाज्जातत्वं वेदकारणत्वं वाऽऽकाङ्क्षितम् । आकाङ्क्षादिवशाच्च वाक्यार्थोऽवसेयः । अतो योनिशब्दं प्रमाणवचनमङ्गीकृत्य बहुव्रीहिरेवायं प्रतिपत्तव्यो न तत्पुरुषः । वेदकारणत्वं जगत्कारणत्वे हेतुत्वेनात्रोच्यते । तेन नानाकाङ्क्षिताभिधानमेतदित्यत आह– न हीति ॥ अन्वयाभावादेकदेशकारणत्वेन समुदायकारणत्वानुमानेऽतिप्रसङ्गाच्चेति हेरर्थः । मा भूदयं निश्चयहेतुः । तथाऽप्यशक्यसृष्टेर्वेदस्य कर्तुर्ब्रह्मणो जगत्सृष्टिकर्तृत्वं सम्भवतीति सम्भावनाहेतुरयं स्यादित्यत आह – न हीति ॥ सम्भावना ह्यधिकेनाल्पस्य भवति । यथा सहस्रेण शतस्य । नच समुदायसृष्टेस्तदेकदेशसृष्टिरधिकेति भावः । सृज्यत्वे वेदस्य । कार्यत्वपक्ष इत्यर्थः । जगत्कारणत्वोक्त्या ब्रह्मणः सर्वज्ञत्वं प्रतीतम् । तद् स्फुटीकर्तुं तत्र वेदकारणत्वं हेतुरनेनोच्यते । अतो नासङ्गतिरित्यत आह – न चेति ॥ वेदकारणत्वं हेतुरित्यनुवर्तते । अबुद्धिपूर्वमुत्पन्नत्वाङ्गीकारादिति भावः । किं च यदि जगदेकदेशस्य वेदस्य स्रष्टा सिद्ध्येदेव । तथा चार्थादपि जन्मादिसूत्रेणैव सार्वज्ञस्य स्फुटं प्रतीतत्वाद् पुनर्~हेत्वाकाङ्क्षाऽभावेनासङ्गतिस्तदवस्थेति भावेनाह – यदीति ॥ सूत्रार्थमुपसंहरति – तस्मादिति ॥ ब्रह्मण इति शेषः । ``तानि च" इत्यादिनोक्तमुपसंहरति – अत इति ॥ तथा च समुद्भवशब्दस्य मुख्यार्थत्वलाभाय न ब्रह्माक्षरशब्दार्थव्यत्ययः कार्य इति । तस्मादिति परामर्शविषयाप्रतीतेस्तद्दर्शयन् वाक्यं व्याख्याति – यत इति ॥ प्रतिष्ठितमित्युच्यत इति शेषः ॥ 15 ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥
श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशायनमः
(अध्याय 3 श्लोक 16रिन्द– पूर्ति)
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघाऽयुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ 16 ॥
तानि चाक्षराणि भूताभिव्यङ्ग्यानीति चक्रम् । तदेतज्जगच्चक्रं यो नानु वर्तयति । स तद् विनाशकत्वाद् अघाऽयुः । पापनिमित्तमेव यस्याऽयुः सोऽघायुः ॥ 16 ॥
प्र.दी. – नन्वत्र कार्यकारणपरम्परैवोक्ता, न चक्रम् । तत्कथमुच्यते ``एवं प्रवर्तितं चक्रं" इति तत्राह – तानि चेति ॥ तानि वेदाख्यानि । चक्राप्रवृत्तौ कथमघाऽयुष्ट्वादिकमित्यतो व्याचष्टे - तदेतदिति ॥ आयुषोऽघत्वाभावात्कथमघाऽयुरित्यत आह – पापेति ॥ तादर्थ्यात्ताच्छब्द्यमित्यर्थः ॥ 16 ॥
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ 17 ॥
भा – तर्~ह्यतीव मनस्समाधानमपि न कार्यमित्यत आह – यस्त्विति ॥ रमणं परदर्शनादिनिमित्तं सुखम् । तृप्तिरन्यत्रालम्बुद्धिः । सन्तोषस्तज्जनकं सुखम् । ``सन्तोषस्तृप्तिकारणं" इत्यभिधानात् । परमात्मदर्शनादिनिमित्तं सुखं प्राप्तः । अन्यत्र सर्वात्मनाऽलम्बुद्धिम् । महच्च तत्सुखम् । तेनैवान्यत्रालम्बुद्धिरिति दर्शयति । आत्मन्येव च सन्तुष्ट इति तत्स्थ एव सन् सन्तुष्ट इत्यर्थः । नान्यत्किमपि सन्तोषकारणमित्यवधारणम् । आत्मना तृप्तः । न ह्यात्मन्यलम्बुद्धिर्युक्ता । तद्वाचित्वं च ``वयं तु न वितृप्त्याम उत्तमश्लोकविक्रमैः " इति प्रयोगात्सिद्धम् । अध्याहारस्त्वगतिका गतिः ।
प्र.दी. – एवमज्ञानिनः कर्म कर्तव्यमित्युक्तम् । इदानीं ज्ञानिनः कर्तव्याभावमाहेति परव्याख्यानमसदिति भावेन सङ्गतिमाह– तर्~हीति ॥ यद्येवं कर्माकरणे हानिस्तत्करणे लाभस्तर्~हीत्यर्थः । परमेश्वरेऽतीवमनस्समाधानमसम्प्रज्ञातसमाधिरित्यर्थः । न कार्यं प्रसज्येतेति शेषः । तत्र कर्मलोपस्यावश्यम्भावादिति भावः । अत्र रतितृप्तिसन्तोषशब्दांस्तावद् व्याचष्टे- रमणमिति ॥ परेति स्वरूपकथनम् । न शब्दार्थान्तर्भूतम् । तथा च पञ्चमेऽभिधानं वक्ष्यते । तथात्वे आत्मशब्देन जीवनिराकरणं च व्यर्थं स्यात् । यद्दर्शनादिनिमित्तं सुखं ततोऽन्यत्र । तज्जनकं तृप्तेर्जनकम् । तृप्तिकारणं सुखमिति शेषः । इदानीमात्मशब्दस्य जीवविषयत्वप्रतीतिनिरासार्थं ``आत्मरतिः" इति समस्तं पदं व्याख्याति – परमात्मेति ॥ प्राप्त आत्मरतिरिति शेषः । अनेन आत्मरतिः रतिः यस्येति विग्रहः सूचितः । आत्मनो रतिः यस्येति वा । एवमुत्तरावप्यात्मशब्दौ परमात्मार्थौ ज्ञातव्यौ । नन्वेवं सति तृप्तिशब्दस्य परमात्मनोऽन्यत्रालम्बुद्धिरर्थः स्यात् । ततश्चेदं न वक्तव्यम् । ``आत्मरतिरेव" इत्यवधारणेनान्यरतिनिरासेन पौनरुक्त्यप्रसङ्गादित्यत आह– अन्यत्रेति ॥ अलम्बुद्धिं च प्राप्तः तृप्तशब्देनोक्त इति शेषः । अलम्बुद्धिरिति पाठे तृप्तिशब्दार्थ इति शेषः । अवधारणेनैवात्र रत्यभावे लब्धेऽपि सर्वात्मनाऽन्यत्रालम्बुद्धिं वक्तुं ``तृप्त" इति पुनर्वचनम् । अवधारणस्यान्यत्रालम्बुद्धिमात्रद्योतनेन चरितार्थस्य ``सर्वात्मना" इत्यत्राप्रवृत्तेरितिभावः । ननु `सन्तुष्ट’ इत्यनेनालम्बुद्धिजनकं सुखं प्राप्त इत्युच्यत इत्युक्तम् । तत्किं विषयजन्यमुतात्मरत्याख्यम् । नाद्यः । विरोधात् । न द्वितीयः । तस्यात्मरतिशब्देनोक्ततया पुनरुक्तिप्रसङ्गात् । कथं च तस्यान्यत्रालम्बुद्धिजनकत्वमित्यत आह – महच्चेति ॥ चशब्दो हेतौ । तदात्मरत्याख्यम् । प्रागुक्तमेव सुखं पुनरन्यत्रालम्बुद्धिकारणत्वेनोच्यते । अतो न दोषः । तस्य च महत्त्वं संशब्देनोक्तम् । अतस्तत्कारणत्वं चोपपन्नमित्यर्थः । आत्मरतिः सन्तोषशब्देन गृह्यते चेत्पुनरात्मनीति व्यर्थमित्यत आह – तत्स्थ एवेति ॥ सन्तोषाख्यात्मरतिः केनास्य जायत इत्यपेक्षायामसम्प्रज्ञातसमाधिलक्षणया परमात्मनि स्थित्येति ज्ञापयितुं ``आत्मनि" इत्युक्तमित्यर्थः । अवधारणस्य प्रयोजनमाह– नान्यदिति ॥ अन्यदसम्प्रज्ञातसमाधिरूपात् तत्स्थत्वात् । एतेनात्मरतिरेवेत्यवधारणेनास्य पुनरुक्तता परिहृता । नन्वात्मतृप्त इति कोऽयं समास इत्यत आह – आत्मनेति ॥ न केवलेनात्मरत्याख्येन सुखेन किन्तु प्रसन्नेन परमात्मनैवेत्यर्थः । पञ्चमी समासः कथं न स्यादिति चेन्न । असामर्थ्यात् । अन्यत्रेत्यनेन ह्यस्य सामर्थ्यम् । न तु तृप्तशब्दार्थेन । तृप्तशब्दार्थ एवान्यत्रार्थोन्तर्भूतोऽस्तीति चेन्न । तस्य प्रकरणलब्धस्य तदन्तर्भावाभावात् । अन्यथा ``वयं तु न वितृप्यामः", इत्यत्र ततोन्यत्रालम्बुद्धिं न प्राप्नुम इत्यर्थप्रसङ्गात् । अस्तु तर्~हि सप्तमीसमास इति नेत्याह – न हीति ॥ पूर्वविशेषणविरोधात् । प्रमाणान्तरविरोधाच्चेति भावः । स्यादयं दोषो यदि तृप्तिशब्दस्यालम्बुद्धिवाचित्वं स्यात् । तदेव कुत इत्यत आह – तद्वाचित्वं चेति ॥ नन्वत्र तृप्तिशब्दः प्रीत्यर्थः । न चैवं सत्यर्थानुपपत्तिः । उत्तमश्लोकविक्रमैः श्रूयमाणैर्निमित्तैरन्यत्र प्रीतिं न प्राप्नुम इत्यध्याहारेणोपपत्तेरित्यत आह – अध्याहारस्त्विति ॥ गत्यन्तरहिता गमनिका । अध्याहारो ह्यश्रुतशब्दकल्पनम् । तच्च कल्पकसद्भावे न दोषः । अन्यथा दोष एव । कल्पकं च गत्यन्तरराहित्यम् । अन्यथाऽनुपपत्तिरिति यावत् । अत्र त्वलम्बुद्ध्यर्थत्वे गृहीते विनाऽप्यध्याहारेण वाक्यार्थोपपत्तेरयुक्तोऽसाविति भावः । षष्ठीसमासस्तु ``पूरणगुणसुहितार्थ" इति प्रतिषिद्धः ।
भाष्यम् – आत्मरतिरेवेत्यवधारणादसम्प्रज्ञातसमाधिस्थस्यैव कार्यं न विद्यते ।
``स्थितप्रज्ञस्यापि कार्यो देहादिर्दृश्यते यदा ।
स्वधर्मो मम तुष्ट्यर्थः सा हि सर्वैरपेक्षिता ॥" इति वचनाच्च पञ्चरात्रे । अन्यदाऽन्यरतिरपीषत् सर्वस्य भवति । नच तत्रालम्बुद्धिमात्रमुक्तम् । ``आत्मतृप्त" इति पृथगभिधानात् । कर्तृशब्दः कालावच्छेदेऽपि चायं प्रसिद्धो ``यो भुङ्क्ते स तु न ब्रूयात्" इत्यादौ । अतोऽसम्प्रज्ञातसमाधावेवैतम् । मानव इति ज्ञानिन एवासम्प्रज्ञातसमाधिर्भवतीति दर्शयति `मनु अवबोधने’ इति धातोः । परमात्मरतिश्चात्र विविक्षिता ।
``विष्णावेव रतिर्यस्य क्रिया तस्यैव नास्ति हि" इति वचनात् ॥ 17 ॥
प्र.दी. – अपव्याख्यानं व्याचष्टे – आत्मरतिरेवेति ॥ न ज्ञानिमात्रस्येत्येवार्थः । इतोऽपि न ज्ञानिमात्रस्य कार्याभाव इत्याह – स्थितप्रज्ञस्यापीति ॥ स्वधर्मः कार्य इति सम्बन्धः । ``आत्मरतिरेव" इत्यवधारणेऽपि कुतो न ज्ञानिमात्रविषयमेतदित्यत आह – अन्यदेति ॥ अवधारणेन ह्यनात्मरतिर्व्यावर्त्यते । असम्प्रज्ञातसमाधिकालादन्यदा सर्वस्य ज्ञानिनोऽपीषदन्यरतिरपि भवतीत्युपपादितम् । अतोऽसम्प्रज्ञातसमाधिस्थव्यतिरिक्तानां ज्ञानिनामप्यवधारणेन व्यावर्तितत्वान्न तद्विषयमेतदिति भावः । ननु ज्ञानिनामन्यरतौ विद्यमानायामपि तत्रालम्बुद्धिरप्यस्तीति ``आत्मरतिरेव" इत्यवधारणमुपपद्यत इत्यत आह – न चेति ॥ तत्र श्लोके । तत्र कार्याभावे । प्रयोजकत्वेनात्मनोऽन्यत्रालम्बुद्धिमात्रमल्पालम्बुद्धिः । रतिसहचरितालम्बुद्धिरिति यावत् । नोक्ता किं तर्~हि ? सर्वात्मनाऽलम्बुद्धिः । कुत इत्यत आह – आत्मेति ॥ अवधारणेनान्यत्रालम्बुद्धौ लब्धायामपि यद् पृथक् ``आत्मतृप्त" इत्यभिधत्ते तेन सर्वात्मनाऽलम्बुद्धिरवधारणेनाभिप्रेतेति ज्ञायत इति प्रागुक्तम् । अतो ज्ञानिमात्रे नेदमुपपद्यत इति भावः ।
अस्त्वात्मरतिरेव इत्येतदसम्प्रज्ञातसमाधिस्थ एव सम्भवतीति । तथाऽपि `यत् पतति कदाचित् तद् गुरु’ इतवद्य एवंविधः कदाचित्तस्य कार्यं सर्वदा न विद्यत इत्येवं व्याख्याने ज्ञानिमात्रस्य कार्याभावः सेत्स्यति । न ह्यत्र यदैवं तदेति कालावच्छेदकशब्दोऽस्ति । आत्मरतिरिति समासस्तु रतेः कर्तारमेवाचष्ट इत्यत आह – कर्तृशब्द इति ॥ अयं च, यदा तदेति रहितोऽपीत्यर्थः । आदिग्रहणेन ``यो दारान् प्रतिगृह्णाति स गृही" इत्यादेः परिग्रहः । अयं भावः । ``तस्यकार्यं न विद्यत" इत्युक्तेऽतिप्रसक्तौ सत्यामन्यव्यावर्तकं ``यस्त्वात्मरतिरेव स्यात्" इत्यनेनोक्तम् । व्यावर्तकं च द्विविधं भवति । विशेषणमुपलक्षणं च । तत्र व्यवच्छेद्यसमानकालं विशेषणम् । तथा सिद्धान्त्युदाहृतं भोजनम् । अन्यथा तूपलक्षणम् । यथा पूर्वपक्ष्युदाहृतं पतनम् । तत्र विशेषणं मुख्यम् । विशेषज्ञानहेतुत्वात् । अन्यदमुख्यम् । वैपरीत्यात् । मुख्यामुख्ययोश्च मुख्ये सम्प्रत्ययः । नचात्र विशेषणत्वग्रहणे बाधकमस्ति । येनोपलक्षणमेतदिति प्रतीम इति । कर्तृशब्द इत्युक्तस्य फलमाह – अत इति । एतत्कार्यराहित्यम् । ``समाधावेव" इत्युक्त्या समानकालतां सूचयति ॥
नन्वसम्प्रज्ञातसमाधिस्थस्य कार्याभावे व्याख्यायमाने कदाचिदपरोक्षज्ञानरहितस्याप्यसम्प्रज्ञातसमाधिसम्भवात्कार्याभावप्रसङ्ग इति चेन्न । अपरोक्षज्ञानिन एवासम्प्रज्ञातसमाधिर्भवति, नान्यस्येवेत्यस्यार्थस्य `मानव’ इति पदेन भगवतैव दर्शितत्वादित्याह – मानव इति ॥ मानव इति कथं ज्ञानिनो वाचकमित्यत आह – मन्विति ॥ धातोः व्याख्यानादिति शेषः । अस्माद्धातोः भाव उप्रत्ययः । ततो मनुरवबोधः अस्यास्तीत्यर्थे, मनोरयमाश्रय इत्यर्थे वाऽण् प्रत्ययः । यद्वा धातोरेवाऽण् प्रत्ययः । मनुष्य इति व्याख्यायां ऋष्यादिव्यावृत्तिवैयर्थ्यं चापद्येत । आत्मशब्दस्याप्यन्यथा व्याख्यां निराकरोति – परमात्मेति ॥ चशब्दोऽवधारणे । न स्वात्मरतिरित्यर्थः । तस्यैवेत्यवधारणात् ॥ 17 ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ 18 ॥
भा – तस्य कर्मकाले वक्तव्योऽहमिति कश्चित्प्रत्युक्त्वा तत्कृतावात्मरत्यधिकस्समो वार्थो नास्ति ॥ नच सन्ध्याद्यकृतौ कश्चिद्दोषोऽस्ति । न चेतदपहाय सर्वभूतेषु कश्चित्प्रयोजनाश्रयः । अर्थो येन दर्शनादिना भवति सोऽर्थव्यपाश्रयः । ज्ञानमात्रेण यद्यपि प्रत्यवायो न भवति । तदर्जुनस्यापि सममिति न तस्य कर्मोपदेशोपयोग्येतद् भवति । ईषद् प्रारब्धसूचकं च तद् भवति । महच्चेद् वृत्रहत्यादिवत् ॥ 18 ॥
प्र.दी. – यद्ययं कार्याभावो न ज्ञानिमात्रस्य । किन्त्वसम्प्रज्ञातसमाधिस्थस्यैव । तर्~हि ``नैव तस्य कृतेनार्थो" इत्युत्तरं वाक्यं न सङ्गच्छते । असम्प्रज्ञातसमाधेः करणस्यैवाभावेन तत्प्रयोजनाभावकथनस्यायोगात् । ज्ञानिनस्तु करणसम्भवेन तत्प्रयोजनप्रतिषेधस्योपपत्तेरिति चेन्न । तर्~ह्यतीव मनस्समाधानमपि न कार्यमित्याक्षेपस्य ``तस्य कार्यं न विद्यत" इत्युत्तरं कस्मादुक्तम् । कर्मकृतिकाले त्वयाऽहमुद्बोधनीय इति कश्चिद् प्रत्युक्तः समाहितः तेन योगशास्त्रोदितोपायैरुद्बोधितः कर्मकरोतीति कुतो नोक्तमित्याशङ्कानिरासायेदमेवमुच्यत इत्यभिप्रेत्य व्याचष्टे – तस्येति ॥ तस्याऽसम्प्रज्ञातसमाधिस्थस्य । अर्थो नास्तीति सम्बन्धः । उक्त्वोद् बोधितस्येति शेषः । एवं तर्~हि ``तस्यैव महत्सुखत्वात्" इत्याद्युक्तिविरोध इत्यत उक्तमात्मेति । समो वाऽऽत्मरत्या । समप्रतिषेधः कैमुत्यार्थः । नतु समव्ययफलं कर्मानुष्ठीयते ।
नन्वत्र कश्चनेत्यस्य विशेष्याकाङ्क्षायां सन्निधानादर्थ इति सम्बध्यते । तथा चेदमयुक्तम् । न हि कर्माकरणेऽर्थप्राप्तिरस्ति । येन प्रतिषेधः सङ्गच्छेत । अत सन्निधानादपि योग्यताया बलवत्त्वाद् कश्चन दोष इत्यध्याह्रियते । तथाप्यश्वमेधाद्यकृतौ प्रत्यवायाप्राप्तेः प्रतिषेधोऽसङ्गत एवेत्यतो ``नाकृतेन" इत्येतद् व्याचष्टे – न चेति ॥ मा भूद् यज्ञादिकरणार्थमुत्थानम् । नित्यनैमित्तिकाकरणे प्रत्यवायप्राप्तेः तदर्थं तु स्यादित्याशङ्कानिरासार्थमेतत् । सन्ध्येति तत्कालेऽनुष्ठेयं कर्मोच्यते ।
माभूदल्पस्य यज्ञादेरनुष्ठाने प्रयोजनाभावः, सन्ध्याद्यकृतौ प्रत्यवायश्च । तथाऽपि गुरुदेवतादिपूजाकरणाकरणयोरर्थप्रत्यवायौ स्यातामेव । अतस्तद् सन्निधिप्राप्तावुत्थानमावश्यकमेवेत्याशङ्कानिरासार्थं `न चास्ये’त्युक्तम् । तदयुक्तम् । उक्तविरोधादेवेत्यतो व्याचष्टे - न चैतादिति ॥ एतदसम्प्रज्ञातसमाधानम् । अपहाय उत्थितस्येति शेषः । अपहायेत्यनेन गुर्वादिपूजायामाधिक्यं निषेधति । आधिक्यस्यैव पूर्वत्यागोपयोगित्वात् । सर्वभूतेषु गुर्वादिषु । नन्वर्थव्यपाश्रयः प्रयोजनप्राप्तिः । तथा च सर्वभूतेभ्य इति स्यादित्यत आह – अर्थ इति ॥ अनेनार्थस्य व्यपाश्रयः प्राप्तिर्येन दर्शनादिना व्यापारेण भवतीति व्यधिकरणो बहुव्रीहिरयमित्युक्तं भवति । तथा च दर्शनादेर्विषया गुर्वादय इति सप्तम्युपपत्तिः । अनेनार्थव्यपाश्रयोऽप्युपलक्ष्यते । स्यादेतत् । किमनेनायासेन । ज्ञानिमात्रविषयमेतद् किं न स्यात् । ज्ञानमात्रेण प्रत्यवायाभावात् । तत्राप्यस्यार्थस्य सम्भवात् । अवधारणादेश्चोपचरितार्थसम्भवादित्यत आह – ज्ञानेति ॥ तद् ज्ञानमात्रम् । इति शब्दो हेतौ । एतद् कार्याभाववचनम् । प्रत्युत विरोधीति हृदयम् । ``प्रत्यवायो न भवति" इत्यङ्गीकृत्यैवोक्तम् । वस्तुतस्तु ज्ञानिनोऽप्यस्ति प्रतिषिद्धकरणादिनाऽनिष्टप्राप्तिरित्याह – ईषदिति ॥ सूचिते च तदैव चित्तखेदः । उपलक्षणं चैतत् । मुक्तावानन्दह्रास इत्यपि द्रष्टव्यम् । तथा विहितकरणेनानन्दवृद्धिरपीति ॥ 18 ॥
तस्मादसक्तस्सततं कार्यं कर्म समाचर ।
असक्तोह्याचरन् कर्म परमाप्नोति पूरुषः ॥ 19 ॥
भा – यतोऽसम्प्रज्ञातसमाधेरेव कार्याभावस्तस्माद् कर्म समाचर ॥
प्र.दी. – ``तस्मादसक्त" इति परामर्शविषयो न प्रतीयते । तं दर्शयन् व्याख्याति – यत इति ॥ त्वं चेदानीमसम्प्रज्ञातसमाधिर्न भवसीति शेषः । कर्मणोऽवश्यकर्तव्यत्वेऽसम्प्रज्ञातसमाधिविलोपप्रसङ्गान्नेदमवश्यं कर्तव्यमित्यतोऽहमपि न कुर्यामिति परिचोदनायामसम्प्रज्ञातसमाधिस्थप्रतिबन्दी मोचयितुं तस्य वैलक्षण्यमुक्त्वा तत्फलमिदमुच्यत इति नासङ्गतिः ॥ 19 ॥
कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्~हसि ॥ 20 ॥
भा – आचारोऽप्यस्तीत्याह – कर्मणैवेति ॥ कर्मणा सह कर्मकुर्वन्त एवेत्यर्थः । कर्म कृत्वैव । ततो ज्ञानं प्राप्य वा । न तु ज्ञानं विना । प्रसिद्धं हि तेषां ज्ञानित्वं भारतादिषु । ``तमेवं विद्वान्" इत्यादि श्रुतिभ्यश्च । अत्रापि कर्मणां ज्ञानसाधनत्वोक्तेश्च `बुद्धियुक्ता’ इति । गत्यन्तरं च `नान्यः पन्था’ इत्यस्य नास्ति । इतरेषां ज्ञानद्वाराऽप्यविशेषः । यत्र तीर्थाद्येव मुक्तिसाधनमुच्यते ``ब्रह्मज्ञानेन वा मुक्तिः प्रयागमरणेन वा । अथवा स्नानमात्रेण गोमत्यां कृष्णसन्निधौ " इत्यादौ, तत्र पापान्मुक्तिः । स्तुतिपरता च । तत्रापि कुत्रचिद् ब्रह्मज्ञानसाधनत्वमेवोच्यतेऽन्यथा मुक्तिं निषिध्य ``ब्रह्मज्ञानं विना मुक्तिर्नकथञ्चिदपीष्यते । प्रयागादेस्तु या मुक्तिर्ज्ञानोपायत्वमेव हि" इत्यादौ । नच तीर्थस्तुतिवाक्यानि तत्प्रस्तावेऽप्युक्तं ज्ञाननियमं घ्नन्ति । यथा कश्चिद् दक्षं भृत्यं प्रत्युक्तानि ``अयमेव राजा किं राज्ञा" इत्यादीनि । यथाह भगवान् –
``यानि तीर्थादिवाक्यानि कर्मादिविषयाणि च ।
स्तावकान्येव तानि स्युरज्ञानां मोहकानि वा ।
भवेद् मोक्षस्तु मद् दृष्टेर्नान्यतस्तु कथञ्चन " इति नारदीये ॥ अतोऽपरोक्षज्ञानादेव मोक्षः । कर्म तु तत्साधनमेव ॥ 20 ॥
प्र.दी. – कर्मण एव मुक्तिसाधनत्वमुच्यत इत्यन्यथाप्रतीतिनिरासाय ``कर्मणैव हि" इत्यस्य तात्पर्यं तावदाह – आचारोऽपीति ॥ विहितस्य कर्मणः कर्तव्यतायां प्रमाणमिति शेषः । अपि पूर्वोक्तहेतुसमुच्चये । कर्मण एव मोक्षकारणत्वं तृतीययोच्यत इति प्रतीति निरासाय व्याचष्टे – कर्मणेति ॥
नन्वेवं सहयोगे तृतीयायां व्याख्यायमानायां जनकादयः कर्मणा सहैव मुक्तिमास्थिता इति वाक्यार्थः स्यात् । न चायं युक्तः । ``पुत्रेण सहैवागतः पिता" इत्यत्र यथा पुत्रस्याप्यागमनान्वयः प्रतीयते, तथा कर्मणोऽपि मुक्तिमास्थितत्वप्रसङ्गादित्यत आह – कर्मेति ॥ यद्यपि श्रूयमाणक्रियायां सहयोगो नोपपद्यते । तथाप्यध्याहृतावान्तरक्रियायामुपपद्यत एव । ततश्च यथा `सहैव दशभिः पुत्रैर्भारं वहति गर्दभी’ इत्यत्र दशभिः पुत्रैः सहैव वर्तमानाप्येकैव भारं वहतीत्यर्थः । तथाऽत्रापि कर्मणा सहैव वर्तमानाः कर्म कुर्वन्त एव इत्यर्थ उपपद्यत इति भावः । द्विविधं हि सहयोगमभिप्रेत्य समासविधौ पाणिनिरपि विशेषणमभाणीत् `तेन सहेति तुल्ययोग’ इति । कर्मसाहित्यं च मुक्तावानन्दवृद्ध्यर्थमिति ज्ञातव्यम् । उपपदविभक्तेः कारकविभक्तिर्बलीयसीति चेत् सत्यम् । वक्ष्यमाणबाधात्तत्परिग्रहोपपत्तेः । अथवा करणे तृतीया । तथापि ``लाङ्गलेन वयं जीवाम" इतिवत्पारम्पर्येण कर्मणो मुक्तौ कारणत्वमित्याह – कर्मेति ॥ सिद्धिमास्थिता इति वेत्यर्थः । सिद्धिशब्दौ ज्ञानार्थो । वेत्यस्याप्युपलक्षणमेतत् ।
यथाप्रतीतार्थः किं न स्यादित्यत आह – न त्विति ॥ ज्ञानं विना केवलेन कर्मणा जनकादयः सिद्धिं गता इत्यर्थस्तु नेत्यर्थः । कुत इत्यत आह – प्रसिद्धं हीति ॥ हि शब्दो हेतौ । अस्तु तेषां ज्ञानित्वम् । मुक्तौ तु कर्मैव कारणमित्यत आह – तमेवेति ॥ अत्रापि गीतायामपि – ``कर्मजं बुद्धियुक्ता हि" इत्यादावित्यर्थः । प्राक् ज्ञानाद् ज्ञानसाधनं पश्चाद् मुक्तिसाधनमिति समुच्चयवादिनां मतम् । नतु केवलकर्मवादिनाम् । न चात्र प्रमाणमस्ति । ननु यथा मोक्षस्य ज्ञानसाध्यत्वे `तमेवं’ इत्याद्यागमास्सन्ति, तथा कर्मसाध्यत्वेऽपि ``अपामसोमं" इत्यादयोऽपि विद्यन्ते । तत्कथं निर्णय इत्यतस्सावकाशत्वनिरवकाशत्वबलादित्याह – गत्यन्तरं चेति ॥ ज्ञानद्वारेति व्याख्यानेऽपीत्यर्थः । ननु कर्मवाक्यान्यपि ``ब्रह्मज्ञानेन वा" इत्यादीनि निरवकाशानि सन्ति । तत्र ब्रह्मज्ञानसमकक्ष्यतया तीर्थस्नानादेरुक्तत्वेनोक्तव्याख्यानायोगात् । अतः पुनरनिर्णय एवेत्याशङ्क्य तेषामपि सावकाशत्वमाह – यत्रेति ॥ तीर्थादीति ॥ तत्स्नानादीत्यर्थः । पापदिमुक्तिः मुक्तिशब्दार्थ इत्यर्थः । नच सर्वत्र मुक्तिशब्द एवास्ति । संसारमुक्तिरित्यादेरपि सम्भवात् । अतो गत्यन्तरमाह– स्तुतीति ॥ प्रशस्तत्वोपलक्षणेत्यर्थः । प्रशस्तत्वसादृश्येन गौणी वा । दुष्टजनमोहनार्थत्वस्याप्युपलक्षणमेतत् । कुत एतद् कल्प्यत इत्यत आह – तत्रापीति ॥ यत्र तीर्थस्नानादिकं मुक्तिसाधनमुच्यते तत्रैव प्रस्तावे । साधनत्वं तीर्थस्नानादीनाम् । अन्यथा ज्ञानं विना । या मुक्तिः । यन्मुक्तिसाधनत्वम् । वाक्यत्वाविशेषात् ``ब्रह्मज्ञानेन वा" इत्यादिभिरेव `ब्रह्मज्ञानं विना’ इत्यादीनां बाधः किं न स्यादित्यत आह – न चेति ॥ असाधारणसाधारणप्रसङ्गोक्तत्वादिनेति भावः । अत्र दृष्टान्तमाह – यथेति ॥ इत्यादीनि ``नायं राजा किन्तु तद् भृत्य एव" इत्यादीनि तत्प्रस्तावेऽप्युक्तानि न निघ्नन्तीति शेषः । आगमसिद्धा चेयं व्यवस्थेत्याह – यथेति ॥ मद् दृष्टेरित्येतदर्थप्रतिपत्त्यर्थं भगवानित्युक्तिः ॥ तीर्थादिवाक्यानीति ॥ तीर्थक्षेत्रवासादीनां मोक्षसाधनत्ववाक्यानीत्यर्थः । कर्मेति यज्ञादेर्ग्रहणम् । आदिपदेन ध्यानादेस्सङ्ग्रहः । पूर्ववदर्थः । अज्ञानां सम्यग् ज्ञानायोग्यानाम् । उपसंहरति – अत इति ॥ 20 ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ 21 ॥
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 22 ॥
यदि ह्ययं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 23 ॥
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ 24 ॥
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वान् तथाऽसक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ॥ 25 ॥
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान् युक्तस्समाचरन् ॥ 26 ॥
भा – स यद्वाक्यादिकं प्रमाणीकुरुते । यदुक्तप्रकारेण तिष्ठतीत्यर्थः ॥ 21-26 ॥
प्र.दी. – ``स यत्प्रमाणं कुरुते" इत्यत्र यच्छब्देन प्रमाणमप्रमाणं वा विवक्षितम् । आद्ये प्रमाणं कुरुत इत्ययुक्तम् । स्थितस्य करणाभावात् । द्वितीयेऽप्येवमेव । अशक्यत्वादित्यत आह – स इति ॥ प्रमाणमेव सद्यद् वाक्यादिकं लोके प्रमाणतयाऽनवगतं तत्प्रमाणतया ज्ञापयतीत्यर्थः । यद्वा एकमेवेदं पदम् । यद् प्रमाणकं लौकिकं वैदिकं वा कर्म कुरुत इत्यनेनाभिप्रायेण तात्पर्यार्थमाह – यदुक्तेति ॥ 21-26॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते ॥ 27 ॥
भा – विद्वदविदुषोः कर्मभेदमाह – प्रकृतेरिति ॥ प्रकृतेर्गुणैरिन्द्रियादिभिः । प्रकृतिमपेक्ष्य गुणभूतानि हि तानि ॥ तत्सम्बन्धीनि च । नहि प्रतिबिम्बस्य क्रिया ॥ 27 ॥
प्र.दी. – ``प्रकृतेः क्रियमाणानि" इति श्लोकद्वयस्य सङ्गतेरस्फुटत्वाद् तात्पर्यमाह – विद्वदिति ॥ यथायोगं सम्बन्धो न यथाक्रमम् । कर्मभेदं कर्मवैलक्षण्यम् । प्रपञ्चयतीत्यर्थः । ``सक्ताः कर्मणि" इत्यादिनोक्तत्वात् । व्यवहितत्वादन्वयं दर्शयन् गुणशब्दस्यानेकार्थत्वाद् विवक्षितमर्थमाह – प्रकृतेरिति ॥ आदिपदेन शरीरमनसोर्ग्रहणम् । कथमिन्द्रियादीनां द्रव्याणां प्रकृतिगुणत्वमित्यत आह – प्रकृतिमिति ॥ गुणभूतान्यप्रधानानि । प्रकारान्तरेण व्याचष्टे – तदिति ॥ प्रकृतिकार्याणि चेत्यर्थः । गुणशब्दः कार्यार्थ इत्युक्तं भवति । ननु जीवस्यापि कर्तृत्वात् ``अहङ्कारविमूढात्मा कर्ताहमिति मन्यते" इति कथमुच्यत इत्यत आह – न हीति ॥ स्वातन्त्येणेति शेषः ॥ 27 ॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ 28 ॥
भा – कर्मभेदस्य गुणभेदस्य च तत्ववित् । गुणा इन्द्रियादीनि । गुणेषु विषयेषु ॥ 28 ॥
प्र.दी. – गुणानां कर्मणां चान्योन्यं यो विभागस्तस्मिन् वक्तव्ये एक वचनेनालम् । कथं द्विवचनम् । केन वाऽस्यान्वय इति शङ्कां विभागशब्दस्यार्थं वदन् परिहरति – कर्मेति ॥ जीवेश्वरप्रकृतिलक्षणसम्बन्धिभेदात्कर्मणामिन्द्रियादीनां च भेदोऽत्र विवक्षितो ग्रन्थान्तरादवगन्तव्यः । `गुणाः गुणेषु’ इति पदद्वयस्य विवक्षितमर्थमाह – गुणा इति ॥ 28 ॥
प्रकृतेर्गुणसम्मूढास्सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥ 29 ॥
भा – प्रकृतेर्गुणेष्विन्द्रियादिषु सम्मूढाः । इन्द्रियाद्यभिमानाद्धि विषयादिसङ्गः । गुणकर्मस्विन्द्रियेषु विषयेषु च ।
``शब्दाद्या इन्द्रियाद्याश्च सत्वाद्याश्च शुभानि च । अप्रधानानि च गुणा निगद्यन्ते निरुक्तिगैः ॥" इत्यभिधानात् । सत्वाद्यङ्गीकारे गुणागुणेषु इत्ययुक्तं स्यात् ॥29 ॥
प्र.दी. – ``प्रकृतेर्गुणसम्मूढाः" इत्यत्र गुणशब्दस्य विवक्षितमर्थं वदन् विग्रहं च दर्शयति – प्रकृतेरिति ॥ नित्यसापेक्षत्वाद् गुणशब्दस्य नासामर्थ्यमिति प्रदर्शनाय प्रकृतेरित्यनुवादः । देवदत्तस्य गुरुकुलमिति यथा । प्रकृतेर्गुणसम्मूढत्वाद् सज्जन्ते गुणकर्मसु इति हेतुहेतुमद् भावोऽत्र विवक्षितः । अन्यथा वैयर्थ्यापत्तेः । तमुपपादयति – इन्द्रियादीति ॥ अभिमानः ममैवैतानि स्वातन्त्र्येण करणानीति भ्रमः । `विषयादि’ इत्युक्त्या गुणशब्दोऽत्र विषयार्थ इति दर्शयति । आदिशब्देन कर्मग्रहणम् । विषयेषु सङ्गः स्नेहादिः । कर्मसु स्वातन्त्र्यभ्रमः । `गुणानां कर्मसु’ इति केनचिद् व्याख्यातम् । तदसदिति भावेन द्वन्द्वोऽयमिति दर्शयति – गुणेति ॥ द्वन्द्वपरिग्रहेऽधिकार्थलाभात् । अनेन `विषयादि’ इत्येतदपि समर्थितं भवति । गुणशब्दस्योक्तानेकार्थत्वं कुत इत्यत आह – शब्दाद्या इति ॥ निरुच्यत इति निरुक्तिः शब्दार्थः । निरुक्तिं गच्छन्त्यवगच्छन्तीति निरुक्तिगाः । अस्तु गुणशब्दस्यानेकेष्वर्थेषु शक्तिः । तथापि विवक्षाऽत्रस्यैवार्थस्य युक्ता । अन्यथा ``न ह्येकशब्देन" इत्युक्तविरोधात् । शब्दो हि यमर्थमादौ स्मारितवान् स एवार्थो बुद्धौ सन्निहितः पुनरुच्चरितेन स्मारयितुं युक्तः । तथा चात्र सर्वत्र सत्वादय एव ग्राह्याः । तद् ग्रहणे शब्दादीनामपि तदात्मकानां ग्रहणसम्भवादित्यत आह – सत्वादिति ॥ कर्तृत्वाधारत्वयोरेकत्र विरोधादिति भावः । तदात्मकानामिन्द्रियानामुपलक्षणे वृथा प्रयासः । अनयैवानुपपत्त्या अनेकार्थग्रहणोपपत्तेः ॥ 29 ॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ 30 ॥
भा – अतस्सर्वाणि कर्माणि मय्येव संन्यस्य भ्रान्त्या जीवेऽध्यारोपितानि मय्येव विसृज्य भगवानेव सर्वाणि कर्माणि करोतीति, मत्पूजेति चात्मानं मामधिकृत्य यच्चेतः तदध्यात्मचेतः । संन्यासस्तु भगवान् करोतीति । निर्ममत्वं नाहं करोमीति ॥ 30 ॥
प्र.दी– ``मयि सर्वाणि" इत्यस्य सङ्गतिं दर्शयति – अत इति ॥ यतो विद्वद् कर्मैवंविधं, त्वं च विद्वानस्यतः । ननु संन्यासो विसर्गः । स च स्वकीयस्य भवति । नच जीवस्य कर्माणि सन्तीत्युक्तम् । तत्कथं तेषां विसर्गो विधीयत इत्यत आह – भ्रान्त्येति ॥ कर्मणां परमेश्वरे संन्यासो नाम तदात्मकत्वज्ञानमिति कश्चित् । तदसत् । अशब्दत्वादप्रामाणिकत्वाद् प्रमाणविरुद्धत्वाद् चेति भावेन स्वपक्षे तदभिप्रायमाह – भगवानेवेति ॥ इति ज्ञात्वेति शेषः । प्रकारान्तरं चाह – मदीति ॥ इति समर्पणं च कर्मणां मयि संन्यास इति शेषः । कर्माणि परमेश्वरात्मकत्वं प्रतिपद्य तत्प्राप्तये कल्प्यन्त इत्यध्यात्मचेतसेति व्याख्यानमशाब्दमिति भावेन व्याचष्टे – आत्मानमिति ॥ अनेनाव्ययीभावगर्भः कर्मधारय इत्युक्तं भवति । अस्य ``निराशीः" इत्यनेनान्वयः । परमात्मलाभेनेतराशारहित इत्यर्थः । ननु निर्ममत्वं न मम कर्माणि सन्तीति ज्ञानम् । तच्च ``मयि सर्वाणि कर्माणि संन्यस्य" इत्यनेन गतार्थमित्यतो द्वयोर्भेदमाह – संन्यासस्त्विति ॥ उभयत्रेति शब्दात्परं ज्ञानमिति शेषः ॥ 30 ॥
ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ 31 ॥
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ 32 ॥
भा– फलमाह – ये म इति ॥ ये त्वेवं निवृत्तकर्मणस्तेऽपि मुच्यन्ते ज्ञानद्वारा । किम्वपरोक्षज्ञानिनः । न तु साधनान्तरमुच्यते ।
``निवृत्तादीनि कर्माणि ह्यपरोक्षेशदृष्टये ।
अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते ।
सर्वं तदन्तराधाय मुक्तये साधनं भवेत् ।
न किञ्चिदन्तराधाय निर्वाणायापरोक्षदृक् ॥" इति नारायणाष्टाक्षर कल्पे । अत एव समुच्चयनियमो निराकृतः ॥ 31 ॥ 32 ॥
प्र.दी. – अन्यथाप्रतीतिं निराकर्तुं तावदुत्तरश्लोकद्वयप्रतिपाद्यमाह- फलमिति ॥ किं विद्वांस एवं कुर्वन्तीत्येतावता मया कार्यमित्याशङ्क्य स्वोक्तकरणाकरणयोः फलमाहेत्यर्थः । मुच्यन्ते तेऽपि कर्मभिरित्यपि शब्देन ज्ञानमिव निवृत्तं कर्मापि मोक्षसाधनमुच्यत इत्यन्यथाप्रतीतिनिरासाय व्याचष्टे – ये त्विति ॥ कैमुत्यद्योतनार्थोऽपि शब्दो न समुच्चयार्थ इत्यर्थः । प्रासङ्गिकं चैतत् । समुच्चये यद्यपि शब्दः स च द्वेधा । ज्ञानमिव कर्मापि पृथक्साधनम् । ज्ञानकर्मसमुच्चय एवेति ॥ अत्राद्यं पक्षं निराकरोति – न त्विति ॥ निष्कामत्वादिनाऽनुष्ठितानि यज्ञादीनि निवृत्तानि । आदिपदेन नित्यनैमित्तिकानां ग्रहणम् । अपरोक्षाच सा ईशदृष्टिश्च । तादर्थ्ये चतुर्थी । मुक्तौ मुक्तिसाधने । किञ्चिद् सहकारि । कर्मापि मुक्तिसाधनमित्यत उक्तम् – सर्वमिति ॥ तत्सर्वं निवृत्तादिकम् । अन्तरा मध्ये । ज्ञानमाधाय मुक्तये । मुक्तेः । ``अहल्यायै जार" इत्यादि यथा । साक्षात् साधनत्वेन श्रुतमपि कर्म यथा व्यवहितं जातं किं ज्ञानमपि तथा । नेत्युक्तम् – न किञ्चिदिति ॥ द्वितीयमपि प्रकारमतिदेशेन निराचष्टे – अत एवेति ॥ ``अपरोक्षेशदृष्टिस्तु मुक्तौ किञ्चिन्न मार्गते" इत्युक्तत्वादेवेत्यर्थः ॥ 31 ॥ 32 ॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ॥
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ 33 ॥
भाष्यम्- एवं चेत्किमिति तेमतं नानुतिष्ठन्ति लोका इत्यत आह – सदृशमिति ॥ प्रकृतिः पूर्वसंस्कारः ॥ 33 ॥
प्र.दी. – सदृशमिति लोकस्य सङ्गतिर्न प्रतीयते । अतस्तामाह । एवं चेदिति ॥ यदि त्वन्मतानुष्ठाने मोक्षोऽन्यथा नाश इत्यर्थः । मूलप्रकृतेरेकत्वाद् कथं `स्वस्याः’ इति प्रातिस्विकत्वमुच्यत इत्यत आह – प्रकृतिरिति ॥ तत्कार्यो रागद्वेषावुपलक्ष्येते ॥ 33 ॥
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ 34 ॥
भा – तथाऽपि शक्तितो निग्रहः कार्यः । निग्रहात्सद्यः प्रयोजना भावेऽपि भवत्येवातिप्रयत्नत इत्याशयवानाह – इन्द्रियस्येति ॥ तथा ह्युक्तम् – ``संस्कारो बलवानेव ब्रह्माद्या अपि तद्वशाः ।
तथाऽपि सोऽन्यथा कर्तुं शक्यतेऽतिप्रयत्नतः ॥" इति ॥ 34 ॥
प्र.दी. – ``इन्द्रियस्य" इत्यस्य सङ्गतिमाह – तथाऽपीति ॥ एवं तर्~हि ``मयि सर्वाणि कर्माणि" इति विधानं, फलकथनं च व्यर्थमित्याशङ्क्येति भावः । यद्यपि `प्रकृतिं यान्ति भूतानि’ इति निग्रहोऽकिञ्चित्करस्तथापि व्याहतमेतदुच्यत इत्यत उक्तम् – निग्रहादिति ॥ निग्रहादित्याशयवान् तथापीत्याहेति योजना । अत्राऽऽगमसम्मतिमाह – तथा हीति ॥ 34 ॥
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 35 ॥
भा – तथाप्युग्रं युद्धकर्मेत्यत आह – श्रेयानिति ॥
प्र.दी. – श्रेयानित्यस्य सङ्गतिमाह – तथापीति ॥ ``ज्यायसी चेत्" इत्यत्र द्वावाक्षेपावर्जुनेन कृतौ । तत्राद्यो ``लोकेऽस्मिन्" इत्यादिना परिहृतः । इदानीं ``युध्यस्व विगतज्वरः" , ``तयोर्न वशमागच्छेत्" इत्युक्त्या स्मारितं द्वितीयमाक्षेपमाशङ्क्य परिहरतीत्यर्थः । यद्यपि कर्म कर्तव्यम् । तथाप्युग्रमवर्जनीयरागद्वेषम् । न कुर्यामिति शेषः ॥ 35 ॥
अर्जुन उवाच - -
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वाष्णॆ #195;#240;य बलादिव नियोजितः ॥ 36 ॥
भाष्यम् – बहवः कर्मकारणास्सन्ति । क्रोधादयः कामश्च । तत्र को बलवानिति पृच्छति – अथेति ॥ अथेत्यर्थान्तरं ``तयोर्न वशमागच्छेत्" इति प्रश्नप्रापकम् ॥ 36 ॥
प्र.दी. – ``अथ केन" इत्यर्जुनप्रश्नोऽनुपपन्नः । ``तौ ह्यस्य परिपन्थिनौ" इति रागद्वेषयोः परिपन्थित्वस्योक्तत्वात् । नहि पापप्रयोजकत्वादन्यद्रागादेः पुरुषपन्थित्वमित्यतः प्रश्नाभिप्रायमाह – बहव इति ॥ कारणशब्दः करोतेर्ण्यन्ताद् करणे ल्युडन्तःः । सच त्रिलिङ्गः । `अयमनुमानः’ इति भाष्ये प्रयोगात् । अथवा ``ण्यासश्रन्थो युच्" इति करणे युच् । अयं च स्त्रीलिङ्गः । बहव इत्यपि स्त्रीलिङ्ग एव । ``वेतो गुणवचनात्" इति विकल्पविधानात् । कर्मेति पापं विवक्षितम् । द्वयोरेवोक्तत्वाद् कथं बहव इत्यनुवाद इत्यत आह – क्रोधादय इति ॥ पूर्वं भगवता द्वेषशब्देन मदमत्सरादयोऽप्युपलक्षिताः । अरिषड्वर्गप्रसिद्धेः । तदेतद् विदित्वैवमनुवदतीति भावः । रागशब्देन कामः , द्वेषशब्देन क्रोधादयश्च त्वयोक्ता इत्यर्थः । अस्य प्रश्नस्य प्रकृते क उपयोग इत्यत आह – अथेति ॥ नास्य प्रकृतेन हेतुहेतुमद् भावादिलक्षणासङ्गतिरिति स्वयमेव सूचितमित्यर्थः । ``अथ" इति शब्देनार्थान्तरमिदमिति सूच्यते । तर्~ह्यसङ्गतं न प्रष्टव्यमित्यतस्सङ्गत्यन्तराभावेऽपि प्रासङ्गिकी सङ्गतिरस्तीत्याशयवान् प्रसङ्गं दर्शयति – तयोरिति ॥ तत्रापि यो बलवांस्तं प्रति महान्तं यत्नं करिष्यामीति भावेन प्रश्नो युक्त एवेति भावः ॥ 36 ॥
श्रीभगवानुवाच –
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ 37 ॥
भा – यस्तु बलवान् प्रवर्तकस्स एष कामः । क्रोधोऽप्येष एव । तज्जन्यत्वात् । ``कामाद् क्रोधोऽभिजायते" इति ह्युक्तम् । यत्रापि गुरुनिन्दादिनिमित्तः क्रोधस्तत्रापि भक्तिनिमित्तनिन्दाकामनिमित्त एव । ये त्वन्यथा वदन्ति ते सङ्करान्न सूक्ष्मं जानन्ति । उक्तं च ``ऋते कामं न कोपाऽद्या जायन्ते हि कथञ्चन" इति । महाशनः । महद्धि कामभोग्यम् । महाब्रह्महत्यादिकारणत्वाद् महापाप्मा । सर्वपुरुषार्थविरोधित्वाद् वैरी ॥ 37 ॥
प्र.दी. बलवद् विषयश्चेद् प्रश्नस्तर्~हि परिहारो न सङ्गच्छत इत्यतः परिहारं व्याचष्टे - यस्त्विति ॥ प्रवर्तकः पापेषु पुरुषस्य त्वया पृष्ट इति शेषः । एवं योजनायां क्रोधस्यापि कामसाम्यं स्यात् । तथाचोत्तरत्र कामस्यैवानुवृत्तिर्विरुध्येतेत्यतः ``क्रोध एषः" इत्येतद् अन्यथा व्याचष्टे – क्रोधोऽपीति ॥ काम एव किं मुख्यया वृत्त्या एवमुच्यते । नेति ब्रूमः । किन्तूपचारेणेति भावेनाह – तदिति ॥ तदेव कुत इत्यत आह – कामादिति ॥ नायमस्ति नियमः । यदा गुरुनिन्दाऽदिश्रवणे निन्दकाय क्रुध्यति तदा कामाभावेऽपि क्रोधोदयदर्शनादित्यत आह – यत्रापीति ॥ भक्तिनिमित्तश्चासौ अनिन्दाकामश्चेति विग्रहः । ``सङ्गात्सञ्जायते कामः" इत्येतद् दर्शयितुं ``भक्तिनिमित्ता" इत्युक्तम् । काम एव केनचिद् प्रतिहतः क्रोधत्वेन परिणमत इति परेषां व्याख्यानं दूषयति – ये त्विति ॥ एकान्तः करणोपादानत्वलक्षणदानन्तर्यलक्षणाच्च सङ्करात्सूक्ष्मं कामक्रोधयोरत्यन्तभेदम् । नहि गुणो गुणस्योपादानम् । किन्तु निमित्तमेव । प्रागन्वये प्रमाणमुक्तम् । इदानीं व्यतिरेकेऽप्याह –उक्तं चेति ॥ ``महाशनः" इति कामे दुर्घटत्वाद् गौणमित्याह – महाशन इति ॥ भोग्यं विषयः । यस्मात् कामभोग्यं महत्तस्मादसौ ``महाशनः" इति हेरर्थः । ``काम एषः" इति पापकारणत्वेनोक्त्वा कथं ``महापाप्मा" इत्युच्यत इत्यतो न कर्मधारयोऽयम्, किन्तु महान् पाप्मा यस्मादिति बहुव्रीहिरिति भावेनाह – महाब्रह्मेति ॥ महत् शब्दात् परतः पाप्मशब्दोऽध्याहार्यः । वधादिकर्तृत्वाभावाद् कथं वैरीत्यत आह – सर्वेति ॥ सर्वः सम्पूर्णः । पुरुषार्थो मोक्षः ॥ 37 ॥
धूमेनाव्रियते वह्निर्यथाऽऽदर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ 38 ॥
भा – कथं विरोधी सः । इदमनेनावृतम् । यथा धूमेनाग्निरावृतः प्रकाशरूपोऽप्यन्येषां न सम्यग् दर्शनाय तथा परमात्मा । यथाऽऽदर्शोमलेनावृत्तोऽन्यस्याभिव्यक्तिहेतुर्न भवति । तथान्तःकरणं परमात्मादेर्व्यक्तिहेतुर्न भवति कामेनावृतम् । यथोल्बेनावृत्य बद्धो भवति गर्भस्तथा कामेन जीवः ॥ 38 ॥
प्र.दी. – ननु प्रश्नस्योत्तरं जातं, किमुत्तरेणेत्यतः श्लोकद्वयस्य सङ्गतिमाह – कथमिति ॥ सः कामः । ``कथं मोक्षस्य विरोधी" इति जिज्ञासायामाह धूमेनेत्यादीति शेषः । विवक्षितार्थस्यास्फुटत्वाद् व्याख्याति – इदमिति ॥ ईश्वरान्तःकरणजीवलक्षणं वस्तुत्रयम् । केन किमित्येवेत्याकाङ्क्षायामाद्यपादं व्याचष्टे – यथेति ॥ परमात्मा कामेनावृतः । स्वयं सर्वज्ञोऽपि अन्यैर्न ज्ञायत इति शेषः । अन्यस्य मुखादेः । परमात्मादेरित्यादिपदेन जीवो गृह्यते । बन्धापेक्षयाऽऽवरणस्य समानकतृकत्वम् । बद्धः सङ्कुचितः । व्यापारक्षम इति यावत् । उल्बो गर्भवेष्टनम् । कामेनावृतो जीवो नेश्वरादिज्ञाने क्षम इत्यर्थः ॥ 38 ॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ 39 ॥
भा – शास्त्रतो जातमपि ज्ञानं परमात्माऽपरोक्ष्याय न प्रकाशते कामेनावृतम् । ज्ञानिनोऽपि किम्वल्पज्ञानिनः । कामरूपेण कामाख्येन । नित्यवैरिणा । दुष्पूरेण । दुःखेन हि कामः पूर्यते । न हीन्द्रादिपदं सुखेन लभ्यते । यद्यपीन्द्रादिपदं प्राप्तः पुनर्ब्रह्मादिपदमिच्छतीत्यलम्बुद्धिर्नास्तीत्यनलः । उक्तं च –
``ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमो बुद्धेर्मलं तथा ।
आदर्शस्याथ जीवस्य गर्भस्योल्बो हि कामकः " इति ।
प्र.दी. – एवं ज्ञेयज्ञानकारणज्ञातृप्रतिबन्धकत्वोक्त्या ज्ञानप्रतिबन्धकत्वमुक्तम् । `आवृतं ज्ञानं’ इत्यनेन पुनः किमुच्यत इत्यत आह – शास्त्रत इति ॥ पूर्वं ज्ञानोत्पत्तिप्रतिबन्धकत्वमुक्तम् । इदानीं तु कथञ्चिद् जातमपि ज्ञानं न स्वकार्याय प्रभवतीत्युच्यते । अतो न पुनरुक्तिदोष इति भावः । ``कामकारेण चैक" इति वचनाद् अपरोक्षज्ञानस्य मोक्षसाधने न केनापि प्रतिबन्ध इत्यत उक्तम् – शास्त्रत इति ॥ परमात्माऽपरोक्ष्यायेति च ॥ न प्रकाशते न प्रभवति । `ज्ञानिन’ इति व्यर्थम् । ज्ञानस्य ज्ञानिसम्बन्धाव्यभिचारादित्यत आह – ज्ञानिनोऽपीति ॥ शास्त्रजनितज्ञानवतोऽपि । अल्पज्ञानिनः गुरूपदेशमात्रजनितज्ञानवतः । अपरे तु ज्ञानिनो नित्यवैरिणा । न मूर्खस्य । ज्ञानी हि नाशयिष्यामि काममिति यतते । मूर्खस्तु तमनुवर्तते इति वर्णयन्ति । तदनेनैव निरस्तम् । अपकारित्वं खल्वत्र वैरित्वं विवक्षितम् । तच्च ज्ञान्यपेक्षया मूर्खेऽधिकम् । न हि मूर्खस्तन्नानुसन्धत्त इत्येतावता तन्नास्ति । इच्छानुरूपं रूपं यस्यासौ कामरूप इत्युच्यते । न चैतद् कामेऽन्तःकरणधर्मे सम्भवतीत्यत आह – कामेति ॥ रूप्यतेऽनयेति रूपमाख्याऽत्र विवक्षितेत्यर्थः । तर्~हि विशेषणपदमिदं जातम् । किमस्य विशेष्यमित्यत आह – नित्येति ॥ यो न पूरयितुं शक्यः कथं दुष्पूर इत्यतोऽन्यथा व्याचष्टे – दुष्पूरेणेति ॥ न नञर्थे दुश्शब्दः । किन्तु कृच्छ्रार्थ इत्यर्थः । तदुपपादयति – न हीति ॥ कामविषयोपलक्षणमेतत् । ननु प्रज्वलनात्मकत्वाद् क्रोधोऽनलो युक्तः । कामस्तु कथमनल इत्यतः सोपपत्तिकमन्यथा व्याचष्टे – यद्यपीति ॥ इदमपि प्राप्तादाधिक्यस्योपलक्षणम् । श्लोकद्वयार्थे प्रमाणसम्मतिमाह – उक्तं चेति ॥ कामकः कुत्सितः कामः । ज्ञानस्य ब्रह्मणश्चाग्नेर्धूमः । तथा बुद्धेरन्तःकरणस्य । आदर्शस्य मलम् । अथ जीवस्य गर्भस्योल्ब इति सर्वत्र गूढोपमा । एतेनेदमित्युक्तस्य विवरणं द्वितीयश्लोक इति व्याख्यानमपाकृतं भवति ॥ 39 ॥
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ 40 ॥
भा – वधार्थं शत्रोरधिष्ठानमाह – इन्द्रियाणीति ॥ एतैर्ज्ञानमावृत्य बुद्ध्यादिभिर्~हि विषयैः ज्ञानमावृतं भवति ॥ 40 ॥
प्र.दी. – ``इन्द्रियाणि" इत्यादिकमपृष्टं किमर्थमुच्यत इत्यत आह – वधार्थमिति ॥ एतदर्थमेव ह्यर्जुनेन बलवान् पृष्टः । क्रियाद्वयश्रवणाद् कं प्रतीन्द्रियादीनां करणत्वमिति न प्रतीयते । सन्निधानाद् विमोहनं प्रतीत्यन्यथा च प्रतीयते । अत आह – एतैरिति । तदुपपादयति– बुद्ध्यादिभिरिति ॥ इन्द्रियादित्वेनोक्तानामपि बुद्ध्यादित्वेन ग्रहणं प्राधान्यक्रमज्ञापनार्थम् ॥ 40 ॥
तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ 41 ॥
भा – हृताधिष्ठानो हि शत्रुर्नश्यति ॥ 41 ॥
प्र.दी. – तस्मात्त्वमितीन्द्रियाणां निग्रहः कामहननोपायतयोपदिश्यते – हृतेति ॥ नश्यति नाशयितुं शक्यो भवति ॥ 41 ॥
इन्द्रियाणी पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ 42 ॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ 43 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद् गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः ॥
भा – शत्रुहनन आयुधरूपं ज्ञानं वक्तुं ज्ञेयमाह – इन्द्रियाणीति ॥ असङ्गज्ञानासिमादाय तरति पारमिति ह्युक्तम् । शरीरादिन्द्रियाणि पराण्युत्कृष्टानि । न केवलं बुद्धेः परः । श्रुत्युक्तप्रकारेणाव्यक्तादपि । ``अव्यक्ताद् पुरुषः परः" इति श्रुतिः । नच तत्रोक्तैकदेशज्ञानमात्रेण भवति मुक्तिः । सार्वत्रिकगुणोपसंहारो हि भगवता गुणोपसंहारपादेऽभिहितः । ``आनन्दादयः प्रधानस्य" इत्यादिना । तथा चान्यत्र –
``अपौरुषेयवेदेषु विष्णुवेदेषु चैव हि ।
सर्वत्र ये गुणाः प्रोक्ताः सम्प्रदायगताश्च ये ।
सर्वैस्तैस्सह विज्ञाय ये पश्यन्ति परं हरिम् ।
तेषामेव भवेन्मुक्तिर्नान्यथा तु कथञ्चन " इति गारुडे । तस्मादव्यक्तादपि परत्वेन ज्ञेयः । न चात्र जीव उच्यते । ``रसोऽप्यस्य परं दृष्ट्वा निवर्तते" इत्युक्तत्वात् ।
``अविहाय परं मत्तो जयः कामस्य वै कुतः" इति च । अतः परमात्मज्ञानमेवात्र विवक्षितम् । आत्मानं मनः । आत्मना बुद्ध्या ॥ 42 ॥ 43 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्गीताभाष्ये तृतीयोऽध्यायः ॥
प्र.दी. – ``इन्द्रियाणि पराणि" इत्यस्य पूर्वेण सङ्गतिर्न दृश्यते । अत आह – शत्रुहनन इति ॥ `एवं बुद्धेः परं’ इत्यनेन वक्तुम् । ज्ञानस्यात्राऽऽयुधत्वे प्रमाणमाह – असङ्गेति ॥ असङ्गं वैराग्यसहितम् । तरति पारम् । पारमतितर । ``छन्दसि परेऽपि" इति वचनात् । परत्वस्यावधिसापेक्षत्वाद् कस्मादिन्द्रियाणि पराणीत्यत आह – शरीरादिति ॥ सन्निधानादिति भावः । किं परत्वमन्यत्वम् । नेत्याह – उत्कृष्टानीति ॥ ``यो बुद्धेः परतस्तु सः" इति परमात्मोच्यते । तस्य बुद्धेः परत्वे महताऽत्मना साम्यं स्यादित्यत आह – न केवलमिति ॥ काऽसौ श्रुतिर्यद् बलादध्याहार इत्यत आह – अव्यक्तादिति ॥ अस्तु भगवानव्यक्तादपि परः । तथाऽपि कामादिजयार्थं बुद्धेः परत्वेनैव ज्ञातेनालम् । किं प्रमाणान्तरसिद्धाध्याहारेणेत्यत आह – न चेति ॥ कामादिजयो हि मुक्तिद्वारम् । नच मुक्तिरेकदेशज्ञानमात्रेण भवति । कुत इत्यत आह – सार्वत्रिकेति ॥ तस्यान्यथाव्याख्यानेऽपि स्पष्टं प्रमाणमाह – तथा चेति ॥ सर्वत्रैवेति सम्बन्धः । वेदाद्यनुक्ता अपि भगवत्सम्प्रदायगताः । तैः सह । तैः सहितम् । नच तत्रेत्युक्तमुपसंहरति – तस्मादिति ॥
मायावादी तु ``यो बुद्धेः परतस्तु सः" इत्यनेन जीव उच्यत इत्याह । तन्निराकरोति – नचेति ॥ कुत इति चेत् `‘एवं बुद्धेः परं" इत्येतद् ज्ञानस्य कामविनाशसाधनत्वोक्तेः, तस्याश्च भगवत्परिग्रहे घटनादन्यथाऽघटनादिति भावेनोभयत्र प्रमाणमाह – रसोऽपीति ॥ न चात्रेत्युक्तमुपसंहरति – अत इति ॥ भास्करस्तु कामोऽत्रोच्यत इत्याह । तदतीव मन्दम् । ``कामः सङ्कल्पः" इत्यादिश्रुतेस्तस्य मनोधर्मस्य तत्परत्वानुपपत्तेः पक्षद्वयेऽपि ``इन्द्रियाणि पराणि" इत्यादि तारतम्योक्तेः न प्रयोजनमस्तीति ॥ 42 ॥
`‘संस्तभ्यात्मानमात्मना" इत्यस्य जीवात्मानं परमात्मनैकीकृत्येति व्याख्यानं शब्दबाह्यमित्याशयवान् आत्मशब्दद्वयं व्याख्याति – आत्मानमिति ॥ 43 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनि विरचितायां प्रमेयदीपिकायां तृतीयोऽध्यायः ॥ 3 ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु ॥
*******************************************************************************************************************************************
चतुर्थोऽध्यायः
श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशायनमः
श्रीभगवानुवाच ॥
इमं विवस्वते योगं प्रोक्तवानयमव्यम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् ॥1 ॥
एवं परम्पराप्राप्तमिमं राजर्षयोविदुः ।
सकालेनेह महता योगो नष्टः परन्तप ॥2 ॥
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥3 ॥
भा – बुद्धेः परस्य माहात्म्यं कर्मभेदो ज्ञानमाहात्म्यं चोच्यतेऽस्मिन्नध्याये । पूर्वानुष्ठितश्चायं धर्म इत्याह – इममिति ॥ 1, 2,3 ॥
प्र.दी.– उक्तयोर्ज्ञानकर्मणोरुभयोर्विशेषविस्तरात्मकोऽ- यमध्याय इति पूर्वसङ्गताध्यायार्थस्थिताविह प्रकरणभेदप्रतिपादनार्थमाह – बुद्धेरिति ॥ ``एवं ज्ञात्वा" इत्यतः प्राक्तनेन ग्रन्थेन बुद्धेः परस्य विष्णोर्माहात्म्यमुच्यते । आद्यस्य प्रकरणस्य पूर्वेण सङ्गतिं सूचयितुं बुद्धेः परस्येत्युक्तम् । ``श्रेयान्" इत्यतः पूर्वेण कर्मभेदः । निवृत्तस्य कर्मणोऽन्यस्माद्भेदः । निवृत्त एव कर्मण्युपासनायज्ञादिरूपेण वा भेदः । ज्ञानमाहात्म्यं शेषेणेति । ``इमं विवस्वते योगं" इत्युपदेशपरम्पराकथनं प्रकृतानुपयुक्तमित्यतस्तात्पर्यमाह – पूर्वेति ॥ पूर्वैरनुष्ठितः । ये मे मतमित्युक्तेन हेतुना सहास्य समुच्चयार्थश्चशब्दः । अयं धर्मः ``मयि सर्वाणि" इत्यनेनोक्तः । योगशब्दोऽप्यनेन व्याख्यातः । न केवलमुपदेशपरम्पराऽत्रोच्यते । किन्तु तेषामनुष्ठानमप्युपलक्ष्यते । तच्चेतोऽपि त्वयाऽनुष्ठेयमिति प्रतिपादनार्थमिति भावः । ``कर्मणैव हि संसिद्धि" इत्यनेनैतद्गतार्थमिति चेन्न । गृहस्थकर्म त्वया न त्याज्यमित्यस्योपपादनायाचारस्य तत्रोक्तत्वात् । अत्र तु निवृत्तधर्मानुष्ठाने सदाचारस्योच्यमानत्वात् । अत एव तत्राऽऽचार इत्येवोक्तम् । इह तु `अयं धर्म’ इति । ``लोकेऽस्मिन् द्विविधा" इत्यत्रोक्तस्य ``कर्मणैव" इत्याद्युदाहरणमुक्तमिति तत्रापि न दोषः ॥
अर्जुन उवाच ॥
अपरं भवतो जन्मपरं जन्म विविस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥4 ॥
श्रीभगवानुवाच-
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥5 ॥
भा – ``मयि सर्वाणि" इत्युक्तं तन्माहात्म्यमादितो ज्ञातुं पृच्छति – अपरमिति ॥ 4, 5 ॥
प्र.दी – ननु ``न त्वेवाहं" इत्यादिना सर्वप्रकारेणोत्पत्तिनाशराहित्यमुक्तं भगवतः । तत् श्रुत्वा कथं ``अपरं" इति पृच्छतीत्यत आह – मयीति ॥ तन्माहात्म्यमित्युपलक्षणम् । आदितः प्रमितिकारणतः । ``मयि सर्वाणि" इत्यत्र परमेश्वरस्य माहात्म्यं पूज्यत्वादिलक्षणमुक्तम् । अर्जुनस्य च पूजकत्वादिकम् । तमिममीश्वरजीवयोः पूज्यपूजकत्वादिना भगवताऽङ्गीकृतं भेदं प्रमाणेन ज्ञातुमेवं पृच्छतीत्यर्थः । अत एव ज्ञाताशयो भगवान् ``तव च", ``न त्वं वेत्थ" इति परिहरति । अन्यथाऽनुपयुक्तं तन्न वक्तव्यमेव ॥ 4 ॥ 5 ॥
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥6 ॥
भा – न तर्~ह्यनादिर्भवानित्यत आह – अजोऽपीति ॥ अव्यय आत्मा देहोऽपीत्यव्ययात्मा । ``अनन्तं विश्वतो मुखं" इति हि रूपविशेषणमुत्तरत्र ।
``एतन्नानावताराणां निधानं बीजमव्ययं" इति च । जगृह इति तु व्यक्तिः । युक्तयस्तूक्ताः । आत्माऽनादित्वं तु सर्वसमम् । कथमनादिनित्यस्य जनिः । प्रकृतिं स्वामधिष्ठाय । प्रकृत्या जातेषु वसुदेवादिषु । तयैव तेषां जात इव प्रतीयत इत्यर्थः । न तु स्वतन्त्रामधिष्ठायेत्याह – स्वामिति ॥ ``द्रव्यं कर्म च" इति ह्युक्तम् । सा हि तत्रोक्ता । ततः सर्वसृष्टेः । आत्ममाययाऽऽत्मज्ञानेन । प्रकृतेः पृथगभिधानात् । ``केतुः केतश्चितिश्चित्तं मतिः क्रतुर्मनीषा माया" इत्यभिधानात् । सृष्टिकारणया तेषां शरीरादि सृष्ट्वा विमोहिकयाऽजात एव जात इव प्रतीयते वा । उक्तं च -
``महदादेस्तु माता या श्रीर्भूमिरिति कल्पिता ।
विमोहिका च दुर्गाख्या ताभिर्विष्णुरजोऽपि हि ।
ईश्वरः ईशेभ्योऽपि वरः । तच्चोक्तम् –
``ईशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवान् ।
वरोऽत ईश्वराख्या ते मुख्या नान्यस्य कस्यचित् ॥" इति ब्रह्मवैवर्ते ।
``समर्थ ईश इत्युक्तः तद्वरत्वात् त्वमीश्वरः" इति च ॥ 6 ॥
प्र.दी. – प्रश्नस्य परिहृतत्वात् ``अजोऽपि" इति किमर्थमित्यत आह – न तर्~हीति ॥ यदि जन्मानि व्यतीतानि तर्~हीत्यर्थः । अनादिर्देहतोऽपि । उपलक्षणं चैतत् । मरणरहितः, सर्वभूतानामीश्वरश्चेत्यपि द्रष्टव्यम् । तथाचोक्तविरोध इति भावः । ननु देहतोऽप्यनादित्वादेराक्षेपेऽजत्वादिमात्रं कथमुच्यत इत्यतः ``अव्ययात्मा" इत्येतत्तावद्देहतोऽप्यविनाशमाचष्टे । तत्साहचर्यात् ``अजोऽपि" इत्येतदपि तथैव व्याख्येयमिति भावेनाह – अव्यय इति ॥ अपि पदात्परं `अस्य’ इत्यध्याहार्यम् । स्यादेवं व्याख्यानं यदि भगवद् विग्रहस्याप्यव्ययत्वं गीताचार्यस्याभिमतं स्यात् । तदेव कुत इत्यत आह – अनन्तमिति ॥ इति च रूपविशेषणमिति वर्तते । एवं तर्~हि कथं तत्रैव ``जगृहे पौरुषं रूपं" इति रूपग्रहणमुच्यते । गृहीतस्य च त्यागो नियत एवेत्यत आह – जगृह इति ॥ युज्यत एभिरिति युक्तयः प्रमाणानि । असम्भावनापरिहारार्था अचिन्त्यशक्तित्वाद्या युक्तयो वा । उक्ता द्वितीये । अस्तु भगवद्विग्रहस्याप्यव्ययत्वम् । अत्र तु स्वरूपस्यैवोच्यत इति किं न स्यादित्यत आह – आत्मेति ॥ स्वरूपस्वविग्रहस्याप्यव्ययत्वोपपादेनेनाजत्वमपि साहचर्यात्तस्यैवेति येऽभिप्रायस्तं प्रकटयितुमव्ययत्वमुपक्रम्यानादित्वमित्युक्तम् । सर्वसमं जीवानामप्यस्ति । अतस्तद्विषय आक्षेपः परिहारो वा न सम्भवतीति भावः । आत्मशब्दोऽप्यन्यथा व्यर्थः । अस्मत्पक्षे स्वरूपदेहयोरुपादानार्थः । अत एव `देहोऽपि’ इत्युक्तम् । एवं तर्~हि `प्रकृतिं स्वामधिष्ठाय’ इति कथमुक्तमित्यस्तदन्यथा व्याख्यातुमाह – कथमिति ॥ स्वरूपतो देहतश्चचानादिनित्यस्य `सम्भवामि’ इति जनिः कथमुच्यते । व्याहतत्वादित्यत आहेति शेषः । `अधिष्ठाय’ इत्यतः परं इति शब्दश्च । कथमनेन परिहार इत्यतो व्याचष्टे – प्रकृत्येति ॥ वसुदेवादिषु प्रादुर्भूतत्वादिति शेषः । अनेन जन्मभ्रान्तेर्निमित्तमुक्तम् । यथोक्तम् - `स्त्रीपुम्प्रसङ्गात्’ इत्यादि । भ्रान्तेरुपादानमाह- तयैवेति ॥ तमो रूपया । यदि मातापितृसम्बन्धोऽङ्गीकृतस्तर्~हि तन्निमित्तदुःखादिकमपि प्रसज्यत इत्याशङ्कानिरासाय स्वामिति पदं व्याख्याति – नत्विति ॥ प्रकृतेर्भगवदधीनत्वं कुत इत्यत आह – द्रव्यमिति ॥ अत्र वाक्ये प्रकृतिर्न श्रूयत इत्यत आह – तत इति ॥ सर्वसृष्टिकारणानि ह्यत्र निर्दिश्यन्ते । तच्च प्रकृतेरेव सम्भवति । न पृथिव्यादेरित्यर्थः । आत्ममाययाऽऽत्मविद्ययेति प्रतीतिनिरासायाह – आत्मेति ॥ कुतो हेतोरेवं जीवविलक्षणं ते जन्मेत्याशङ्कानिरासार्थमेतत् । अन्यथाप्रतीतिरप्यनेन परिहृता । सर्वज्ञस्याविद्याऽयोगात् । प्रकृतिरत्र माया किं न स्यादित्यत आह - प्रकृतेरिति ॥ मायाशब्दस्य ज्ञानवाचित्वं कुत इत्यत आह – केतुरिति ॥ ``इति प्रज्ञाया नामधेयानि" इति वाक्यशेषात् ।
प्राक् ``प्रकृतिं स्वामधिष्ठाय" इत्यनेनैव भ्रमनिमित्तत्वमुपादानत्वं च प्रकृतेरुक्तमिति मायाशब्दो न प्रकृतिवाची । पुनरुक्तिप्रसङ्गादित्युक्तम् । इदानीं तस्य निमित्तमात्रपरत्वे मायाशब्दस्य प्रकृत्यर्थतायामपि न दोषः । उपादानार्थत्वमिति भावेनाह – सृष्टीति ॥ प्रकृत्येति शेषः । तेषां वासुदेवादीनाम् । सृष्ट्वा तत्र प्रादुर्भूतः । विमोहिकया मायाख्यया । अत्रागमसम्मतिमाह – उक्तं चेति ॥ आत्मचिद् बलादजात एव । नन्वीशानशीलानामपि ब्रह्मादीनामुत्पत्तिमरणदर्शनेन विरोधाभावात् ``ईश्वरोऽपि सम्भवामि" इति कथमुच्यत इत्यतः ``स्थेशभासपिसकसो वरच्" इत्येतद् विहायान्यथा व्याचष्टे – ईश्वर इति ॥ कुत एतदित्यत आह – ईशेभ्य इति ॥ एतदागमबलादेव समासाकारलोपावनुमन्तव्यौ । अजत्वादेस्सम्भवेन शाब्दो व्याघातोऽस्य तु व्याप्त्येति ज्ञापनाय क्रममुल्लङ्घ्य व्याख्यातात् ॥ 6 ॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृXृजाम्यहम् ॥7 ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे ॥8 ॥
भा – न जन्मनैव परित्राणादिकं कार्यमिति नियमः । तथाऽपि लीलया स्वभावेन च यथेष्टचारी । तथा ह्युक्तं ``देवस्यैष स्वभावोऽयं", ``लोकवत्तु लीलाकैवल्यं"
``क्रीडतो बालकस्येव चेष्टां तस्य निशामय "
``अरिभयादिव स्वयं पुराद् व्यवात्सीद्यदनन्तवीर्यः “,
``पूर्णोऽयमस्यात्र न किञ्चिदाप्यं तथाऽपि सर्वाः कुरुते प्रवृत्तीः ।
अतो विरुद्धेषुमिमं वदन्ति परावरज्ञा मुनयः प्रशान्ताः ॥” इत्यादि ऋग्वेदखिलेषु ॥ 7 ॥ 8 ॥
प्र.दी. – ``परित्राणाय साधूनां" इति साधुपरित्रणादिकं भगवदवतारस्य प्रयोजनमुक्तम् । तत्र किं जन्मनैव परित्राणादिकं कार्यमिति नियम इत्यपेक्षायामाह – नेति ॥ जन्मना विनाऽपि कर्तुं समर्थत्वादिति भावः । तर्~हि किमर्थं जन्मेत्यत आह – तथाऽपीति ॥ यथेष्टचारी इच्छयैव तथा चरति । तथेच्छैव किमर्थेति उक्तम् – लीलयेति ॥ लीलाऽप्यालस्यपरिहाराद्यर्था न भवतीत्युक्तम् । स्वभावेन चेति – अत्रैव प्रमाणान्याह – तथा हीति ॥ अयमेषः इयमिच्छा । अत्र प्रवृत्तिषु । विरुद्धेषु लोकविपरीतेच्छम् ॥ 7 ॥ 8 ॥
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥9 ॥
भा– पृथक् मुक्त्युक्तिस्सर्वज्ञाननियमदर्शनार्थम् । न तु तावत् मात्रेण मुक्तिरित्युक्तम् ।
``वेदाद्युक्तं तु सर्वं यो ज्ञात्वोपास्ते सदा हि माम् ।
तस्यैव दर्शनपथं यामि नान्यस्य कस्यचित् ॥"
इत्युक्तेश्च महाकौर्मे । अत्रोक्तस्यैतद् ज्ञा त्वैव जन्म नैतीति गतिः । इतरवाक्यानां नान्यथा गतिः । नान्यस्य कस्यचिदिति विशेषणात् । ``तत्त्वतः" इति विशेषणाच्च सर्वज्ञानमापतति । यत्रैवं भवति तत्र तत्त्वत इति विशेषणे न विरोधः । उक्तं च –
``एकं च तत्त्वतो ज्ञातुं विना सर्वज्ञतां नरः ।
न समर्थो महेन्द्रोऽपि तस्मात्सर्वत्र जिज्ञसेत् ॥" इति स्कान्दे ॥
प्र.दी. – जन्म कर्म चेति भगवद् जन्मादिज्ञानमात्रेण मुक्तिरुच्यत इति प्रतीति निरासायाह – पृथगिति ॥ एकदेशज्ञानेनेत्यर्थः । दर्शनार्थमुपलक्षणार्थम् । यथाप्रतीतार्थः किं न स्यादित्यत आह – न त्विति ॥ उक्तं तृतीये । प्रमाणान्तरं चाह – वेदादीति ॥ वाक्यत्वाविशेषादेतस्य गीताबाधकत्वं कुत इत्यतस्सावकाशत्वनिरवकाशत्वाभ्यामित्याह – अत्रेति ॥ अयोग व्यवच्छेदमात्रपरत्वमित्यर्थः । एतच्च पूर्वोक्तादर्थान्तरमिति ज्ञेयम् । इतरवाक्यान्यधिकारिविशेषापेक्षया सावकाशानीति कुतो नान्या गतिरित्यत आह – नेति ॥ विशेषणाद् पक्षान्तरव्यवच्छेदात् । इतोऽप्यत्र सर्वज्ञानमङ्गीकार्यमित्याह – तत्त्वत इति ॥ आपततीत्यनेनाऽर्थापत्तिमभिप्रैति ॥ एतमेव न्यायमन्यत्राप्यतिदिशति – यत्रेति ॥ एवं भवति सर्वज्ञाने प्रमितेऽप्येकदेशज्ञानोक्तिर्भवति । तत्त्वतो ज्ञानं कुतस्सार्वज्ञमाक्षिपतीत्यत आह – उक्तं चेति ॥ जिज्ञसेत् जिज्ञासेत । अन्यत्रापि – ``एको भावः तत्वतो येन दृष्टः सर्वेभावाः तत्वतस्तेन दृष्टाः" इति । सर्वत्र सार्वज्ञं यथाशक्ति विवक्षितमिति ध्येयम् ॥ 9 ॥
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो #101;XञXानतपसा पूता मद्भावमागताः ॥10 ॥
भा – सन्ति च तथा मुक्ता इत्याह – वीतरागेति ॥ मन्मयाः मत्प्रचुराः । सर्वत्र मां विना न किञ्चिद् पश्यन्तीत्यर्थः ॥ 10 ॥
प्र.दी. – किं चोत्तरश्लोकेऽधिकानुवादान्नात्रेतावन्मात्रं विवक्षितमिति भावेन तत्तात्पर्यमाह – सन्ति चेति ॥ तथोक्तज्ञानेन । आह श्रद्धोत्पादनार्थमिति शेषः । मन्मया मदात्मका इति प्रतीतिनिरासार्थमाह – मन्मया इति ॥ सर्वेषां भगवान् प्रचुरः । को विशेषो ज्ञानिनामित्यत आह – सर्वत्रेति ॥ सर्वेषु पदार्थेषु । किञ्चिद् सत्तादिकम् । मदायत्तमेव सर्वं पश्यन्तीत्यर्थः ॥ 10 ॥
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तते मनुष्याः पार्थ सर्वशः ॥11 ॥
भा – न च मद् भजनमात्रेण मुक्तिर्भवत्यन्यदेवतादिरूपेण । तथाऽपि सर्वेषामानुरूप्येण फलं ददामीत्याह – ये यथेति ॥ भजामि सेवयामि फलदानेन । नतु गुणाभावेन । कथमयं विशेष इत्यत आह – मम वर्त्मेति ॥ अन्यदेवता यजन्तोऽपि ममवर्त्मैवानुवर्तन्ते । सर्वकर्मकर्तृत्वाद् भोक्तृत्वाच्च मम । ``येऽप्यन्यदेवताभक्ताः" इति वक्ष्यति । ``यो देवानां नामधा एक एव " इति हि श्रुतिः । भगवानेव च तत्राभिधीयते । अजस्य नाभावध्येकमर्पितम् इत्यादि लिङ्गात् ॥ 11 ॥
प्र.दी. – `ये यथा’ इति वाक्यं न प्रकृतेन साक्षाद् सङ्गतम् । अतस्तत्सङ्गमयितुं मध्ये शङ्कान्तरं निराकरोति – न चेति ॥ मामुपाश्रिता मद्भावमागता इत्युक्त्याऽन्यदेवतादिरूपेण मद्भजनमात्रेण त्रैविद्यानामपि मुक्तिर्भवतीति नाऽऽशङ्कनीयमित्यर्थः । विष्णुं सामान्यतः सर्वोत्तमं ज्ञात्वा ऽन्यदेवताः पितरूंश्चेष्ट्वाऽन्ते विष्णौ समर्पणमन्यदेवतादिरूपेण भगवद् भजनम् । उपपत्तिं तूत्तरत्र वक्ष्यामीति भगवतोऽभिप्रायः । तत्किं त्रैविद्यानां त्वद् भजनं निरर्थकमेवेत्यत आह – तथाऽपीति ॥ यद्यपि न मुक्तं ददामि । तथाऽपि तदभिप्रेतं स्वर्गादिकं ददामीति शेषः । एवं तर्~हि ज्ञानिभ्यो मुक्तिं त्रैविद्येभ्योऽल्पफलं ददद्विषमो भगवान् स्यादित्याशङ्कानिरासार्थत्वेनोत्तरवाक्यं सङ्गमयन्नाह – सर्वेषामिति ॥ आनुरूप्येण सेवानुसारेण । सर्वेषां ज्ञानिनां त्रैविद्यानां चेति चतुर्थ्यर्थे षष्ठी । तथैव भजामीत्येतदन्यथाप्रतीतिनिरासाय व्याचष्टे – सेवयामीति ॥ `बहुलमेतन्निदर्शनं’ इति वचनाद् स्वार्थे णिच् । ``मम वर्त्म" इत्यस्य सङ्गत्यप्रतीतेस्तामाह – कथमिति ॥ यः फलतारतम्ये हेतुरयं ज्ञानिभ्यस्त्रैविद्यानां सेवायां विशेषःकथम् । किं प्रकार इत्यर्थः । कथमनेनैतच्छङ्कापरिहार इत्यतो व्याचष्टे – अन्येति । न केवलं ज्ञानिनः । किन्त्वन्यदेवता यजन्तोऽपि । तैविद्या इति यावत् । किं तत्सर्वेषां तद्वर्त्मानुवर्तनमित्यत आह – सर्वेति ॥ भोक्तृत्वाद्धविरादीनाम् । एतद् द्वयमेव भगवद् वर्त्मानुवर्तनम् । तथा व्यवहारे निमित्तत्वात् पञ्चमी । इदमुक्तं भवति । अहमेव सर्वयज्ञानां भोक्ता च प्रेरकश्च । तदेतद् ज्ञात्वा भागवता निष्कामा मामेव यजन्ते । त्रैविद्यास्त्वेतत्तत्वतोऽजानानाः कर्मणां सिद्धिं काङ्क्षन्तोऽन्यदेवता यजन्ते । एवं सेवादिशेषाद्युक्तं फलतारतम्यमिति । कुत इदं भगवतोऽभिप्रेतमित्यत आह – येऽपीति ॥ अनेन श्लोकद्वयमुपात्तम् । तत्र च स्पष्टमेषोऽर्थः प्रतीयते । नन्विन्द्रादीनामवद्भिर्मन्त्रैर्दत्तं हविरादिकं कथं भगवान् भुङ्क्ते । भगवतस्सर्वनामवत्त्वेन मन्त्राणां तत्परत्वादिति भावेनाह – य इति ॥ ननु विश्वकर्मा एवमुच्यत इत्यत आह – भगवानेवेति ॥ तत्र चेति सम्बन्धः । अनेन भगवतः सर्वयज्ञादिभोक्तृत्वे बाधकं परिहृतम् ॥ 11 ॥
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥12 ॥
भा – कुतो मम वत्मानुवर्तन्ते – क्षिप्रं हि ॥ अत एव हि फलप्राप्तिः । ``तस्मात्ते धनसनयः" इति श्रुतिः ॥ 12 ॥
प्र.दी – साधकं तु प्रमाणं पृच्छति – कुत इति ॥ ``मम वर्त्मानुवर्तन्ते" इति यत्सर्वयज्ञादिभोक्तृत्वं भगवत उक्तं तत्कुतः प्रमाणाद् ज्ञायत इत्यर्थः । सर्वकर्तृत्वं तु जीवानामस्वातन्त्र्यदर्शनाद् सिद्धम् । इत्यत आहेति शेषः । हीत्यतः परमितिशब्दश्च । किमनेन प्रमाणमुक्तमित्यत आह – अत एवेति ॥ कर्मजा सिद्धिः । फलप्राप्तिस्तावत् क्षिप्रं प्रत्यक्षोपलभ्याऽस्ति । सा चाऽत एव कर्मणां भगवता भुक्तत्वादेव हि युज्यते । नान्यथेत्यर्थः । इन्द्रादिभ्योऽपि फलप्राप्त्युपपत्तेरुपक्षीणाऽर्थापत्तिरित्यत आह – अत एव हीति ॥ भगवत एव । अत्र हीति सूचितं प्रमाणमाह – तस्मादिति ॥ धनसनयः धनलाभवन्तः ॥ 12 ॥
चातुर्वण्यं मया सृXृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥13 ॥
भा – अहमेव हि कर्तेत्याह – चातुर्वर्ण्यमिति ॥ चतुर्वर्णसमुदायः । सात्त्विको ब्राह्मणः । सात्त्विकराजसः क्षत्रियः । राजसतामसो वैश्यः । तामसः शूद्र इति गुणविभागः । कर्मविभागस्तु ``शमो दम" इत्यादिना वक्ष्यते । क्रियायां वैलक्षण्यात् कर्ताऽप्यकर्ता । तथा हि श्रुतिः ``विश्वकर्मा विमनाः" इत्यादि । ``तनुर्विद्या क्रियाऽऽकृतिः" इति च ॥ साधितं चैतत्पुरस्तात् ॥ 13 ॥
प्र.दी. – ``चातुर्वण्यं" इत्यस्य सङ्गतिं सूचयंस्तात्पर्यमाह – अहमेव हीति ॥ यस्मादहमेव चातुर्वर्ण्यस्य कर्ता त्रैविद्याश्च तदन्तर्भूतास्तस्मात् स्वपितरं मां परित्यज्याऽन्यदेवता यजन्तः कथं महाफलभाजो भवेयुरित्याहेत्यर्थः । ``विचित्रा हि तद्धितगतिः" इति वचनादतिरिक्तार्थसम्भवे ``चतुर्वर्णादिभ्यः स्वार्थ उपसङ्ख्यानं" इति नाऽदरणीयमिति भावेनाह – चतुर्वर्णेति ॥ वर्णाश्चत्वारो गुणास्त्रयः । तत्कथं तेषु गुणविभाग इत्यत आह – सात्विक इति ॥ राजसस्थसात्विकेष्वेवायं विभाग इति ज्ञातव्यम् । निर्देशप्राथम्यात् क्षत्रिये रजस्सत्वमधिकम् । तत एव वैश्ये तमसो रजः । तच्च समसत्वयुतम् । रजोऽपेक्षया तमोऽधिकं शूद्र इत्यसौ तामसः । सत्वं तु तमसोऽप्यधिकम् । कर्मविभागः कीदृश इत्यत आह – कर्मेति ॥
यदि चातुर्वर्ण्यं त्वयासृष्टं तर्~हि कर्तृत्वात्तवापि जीववद् कर्मलेपः प्रसज्यत इत्यतः कर्मलेपाभावं वक्तुं हेतुस्तावदुच्यते – तस्येति ॥ तदेतद् व्याहतमित्यत आह – क्रियायामिति ॥ कथं वैलक्षण्यमित्यतः श्रुत्यैव दर्शयति – तथा हीति ॥ विश्वकर्माऽपि विमनाः तत्राभिनिवेशरहित इत्यर्थः । प्रकारान्तरेण वैलक्षण्यं पुराणेन दर्शयति – तनुरिति ॥ क्रियाया मिथ्यात्वाद् कर्ताऽप्यकर्तेति परव्याख्यां प्रत्याख्याति – साधितं चेति ॥ एतद् क्रियायाः सत्यत्वम् । पुरस्ताद् द्वितीये ॥ 13 ॥
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृXृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥14 ॥
भा – अत एव न मां कर्माणि न लिम्पन्ति । इतश्च न लिम्पतीत्याह – न मे कर्मफले स्पृहा ॥ इच्छामात्रं त्वस्ति । न तु तत्राभिनिवेशः । तच्चोक्तम् – ``आकाङ्क्षन्नपि देवोऽसौ नेच्छते लोकवत्परः ।
न ह्याग्रहस्तस्य विष्णोर्ज्ञानकामो हि तस्य तु ॥" इति । नच केचिन्मुक्ता भवन्तीति क्रमेण सर्वमुक्तिः । तथा हि श्रुतिः –
``ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाति विद्वान्" इति ॥ ``कथं वा इत्यनन्ता वा इत्यनन्तवदिति होवाच" इति ॥ 14 ॥
प्र.दी. – अपव्याख्यानस्य दूषणान्तरं सूचयन् क्रियावैलक्षण्यकथनस्य का सङ्गतिरित्यत उत्तरेण सङ्गतिमाह – अत एवेति ॥ एवशब्देनास्मद् व्याख्यान एव हेतुहेतुमद् भावो युज्यते न परव्याख्यान इति सूचयति ॥ जीवानां कर्मलेपेऽभिनिवेशादिकं कारणं तदस्य नास्तीति । मिथ्यात्वं तु जीवक्रियाणामपि समानमिति । तेषामपि लेपाभावे किमाश्रय आक्षेपः स्यात् । ज्ञानेन विशेष इति चेन्न । तस्याश्रवणात् । लेपनिवारणं च व्यर्थम् । तस्यापि मिथ्यात्वेन ज्ञातव्यत्वात् । हेतुहेतुमतोरुक्तत्वात् ``न मे कर्म" इति किमर्थमित्यत आह – इतश्चेति ॥ नन्वात्मार्थं भगवतः फलस्पृहाभावेऽपि परार्थमस्त्येव । तत्कथमेवमुच्यत इत्यत आह – इच्छेति ॥ तत्र कर्मफले । येन तत्प्राप्तिपर्यन्तं मनसो विक्षेपः सोऽभिनिवेशः । अत्र प्रमाणमाह – तच्चेति ॥ ``व्यत्ययो बहुलं" इति व्यत्ययः ।
ज्ञानं ज्ञानमिव । ``इति मां" इत्येवं ज्ञानिनो मुक्तिः फलमुच्यते । सा च वर्तमानप्रत्ययेन । प्राक् च भूतप्रत्ययेन ``मद्भावमागता" इति ॥ तत्रैकजीववादिनामाक्षेपमुद्भाव्य प्रतिषेधति – न चेति ॥ केचिदिदानीं मुक्ता भवन्ति, केचिद् भूता इति पक्षेऽतीत एव काले क्रमेण सर्वमुक्तिस्सयात् । तथा चेदानीं संसारानुपलम्भस्सयादिति न शङ्कनीयम् । कस्मात् । यतः श्रुतिरेवैवमाशङ्क्य पर्यहार्षीदित्याह – तथा हीति ॥ हृदा बुद्ध्या च । इत्येतद् कथं वै युज्यते । उक्ताऽक्षेपादिति शङ्कायां ``अनन्ता जीवाः" इत्युत्तरम् । ननु कालोऽप्यनन्तोऽत इत्यस्योत्तरं `अनन्तवत्’ इति । यथा भगवान् कालक्षणेभ्योऽप्यतिशयेनानन्तस्तथाऽनन्ताः । कुतः ? इति होवाच श्रुत्यन्तरमिति ॥ 14 ॥
एवं #101;XञXात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्वं पूवैः#240; पूर्वतरं कृतम् ॥15 ॥
भा – एवं ज्ञात्वाऽपि कर्मकरण आचारोऽप्यस्तीत्याह – एवमिति ॥ पूर्वतरं कर्म पूर्वभावीत्यर्थः ॥ 15 ॥
प्र.दी. – ननु ``एवं ज्ञात्वा" इति पुनरुक्तम् । कर्मकरण आचारस्य प्रागेवोक्तत्वादित्यत आह – एवमिति ॥ यदि ज्ञानी कर्मभिर्न बध्यते तर्~हि ममापि ज्ञानित्वेन कर्मबन्धाभावात्कथं कर्मविधानमित्याशङ्क्य ज्ञानिनामप्यधिकमोक्षाकाङ्क्षायां कर्मकरण आचारोऽत्रोच्यते । प्राक् तु जनकादीनां विवस्वदादीनां च विद्यमानमपि ज्ञानित्वं भगवता न विवक्षितमिति भावः । अत एव भाष्यकारेण तत्र ``कर्म कृत्वैव" इत्याद्युक्तम् । न हि ज्ञानिनां कर्म ज्ञानद्वारा मुक्तिहेतुः । मुमुक्षुभिरिति तत्साधुकारिण्युप्रत्ययः । ``पूर्वैः कृतं" इत्यनेनैव पूर्वतरत्वस्योक्तत्वाद् पुनरुक्तिरित्यत आह – पूर्वतरमिति ॥ तैरपि ततोऽपि पूर्वभावि कृतमित्यर्थः । कर्मणः क्षणिकत्वाद् कथं तदेव कर्तव्यमित्यतो वा इदमुक्तम् । पूर्वमिव भवतीति पूर्वभावि । अत एव कर्मेत्यनुवादः ॥ 15 ॥
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्षामि यद् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥16 ॥
भा – ``कर्म कुरु" इत्युक्तम् । तस्य कर्मणो दुर्विज्ञेयत्वमाह सम्यग्वक्तुम् – किं कर्मेति ॥
प्र.दी. – ``किं कर्म" इत्यस्य सङ्गतिर्नप्रतीयते । अत चाह – कर्मेति ॥ तस्य कर्तव्यतयोक्तस्य । किमर्थं ? सम्यग्वक्तुम् । एतदेव सम्यग् वचनं यज्जिज्ञासवे कथनम् । जिज्ञासा च दुर्विज्ञेयत्वोक्तौ भवतीति भावः । अत एव प्रकर्षेण वक्ष्यामीत्याह । ननूत्तरश्लोके विकर्मणोऽपि गृहीतत्वादिहाप्यकर्मशब्दस्तदुपलक्षणार्थ इति स्थिते कर्मादीनामिति वक्तव्यम् । ``कर्मण" इति कथम् । अनुष्ठेयत्वात् । अकर्मादिकं हि हेयतया ज्ञेयम् । अत एव ``तत्ते कर्म प्रवक्ष्यामि" इत्याह । तत्राप्यकर्मादेरुपलक्षणात् ॥ 16 ॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥17 ॥
भा – न केवलं तद् ज्ञात्वा मोक्ष्यसे । ज्ञात्वैव इत्याशयवानाह – कर्मण इति ॥ तच्चोक्तं —
``अज्ञात्वा भगवान् कस्य कर्माकर्मविकर्मकम् । दर्शनं याति हि मुने कुतो मुक्तिश्च तद्विना " इति । अकर्म कर्माकरणम् । कर्माकर्मान्यद् विकर्म । निषिद्धम् । बन्धकत्वात् । ततो विविच्य कर्मादि बोद्धव्यमित्यादि । नच शापादिना । कवयोऽप्यत्र मोहिताः । अशक्यं चैतद् ज्ञातुमित्याह – गहनेति ॥ 17 ॥
प्र.दी. – ननु `यद् ज्ञात्वा मोक्षसेऽशुभात्’ इत्यनेनैव कर्मादिस्वरूपं मुमुक्षुणा ज्ञातव्यमिति लब्धम् । तत्किर्मर्थं ``कर्मणो हि" इत्याद्युच्यत इत्यत आह – न केवलमिति ॥ तत्कर्मादिवत् । सिद्धे सत्यारम्भो नियमार्थ इति भावः । अत्रैव प्रमाणमाह – तच्चेति ॥ दर्शनापेक्षया समानकर्तृत्वात् क्त्वानिर्देशः । कर्मशब्दार्थो भगवतैव वक्ष्यते । अकर्मविकर्मशब्दार्थावाह – अकर्मेति ॥ किं तद्विकर्मेत्यत आह – निषिद्धमिति ॥ एवं चेत्कामाद्युपेतस्य कुत्रान्तर्भाव इति चेद्विकर्मणीति ब्रूमः । कथं तस्य निषिद्धत्वमित्यत आह – बन्धकत्वादिति ॥ अस्त्वेवं शब्दार्थः । योजनातु कथमित्यतो लाघवार्थं द्वितीयपादयोजनां तावदाह – तत इति ॥ ततः विकर्मणः । कर्मादि कर्माकर्म च । इत्यादीत्यनेनाद्यतृतीयपादयोजनां सूचयति । कर्मणो विविच्य विकर्मादि बोद्धव्यम् । अकर्मणश्च विविच्य कर्मादि बोद्धव्यमिति । ननु ``कवयोऽप्यत्र मोहिताः" इत्यनेन कर्मादेदुर्ज्ञेयत्वमुक्तम् । तत्पुनः किमर्थमुच्यत इत्यत आह – न चेति ॥ ज्ञातुं स्वभावेनेति शेषः । एतच्च श्रोतुरधिकादरजननार्थमिति ज्ञेयम् ॥ 17 ॥
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥18 ॥
भा – कर्मादि स्वरूपमाह – कर्मणीति ॥ कर्मणि क्रियमाणे सति । अकर्म यः पश्येत् । विष्णोरेव कर्म, नाहं चित्प्रतिबिम्बः किञ्चित् करोमीति । अकर्मणि सुप्त्यादावकरणादवस्थायाम् । परमेश्वरस्य कर्म यः पश्यति `अयमेव परमेश्वरः सर्वदा सर्वसृष्ट्यादि करोति’ इति स बुद्धिमान् ज्ञानी । स एव च युक्तः योगयुक्तः । सर्वाकरणात्स एव कृत्स्नकर्मकृत् । कृत्स्नफलवत्त्वात् ॥ 18 ॥
प्र.दी. – ``कर्म प्रवक्ष्यामि" इति प्रतिज्ञातम् । कर्मादि प्रवचनं च क्वापि नोपलभ्यते । ``कर्मणि" इति श्लोकस्य यत्किञ्चिद् दर्शनस्तुतिरूपत्वादित्यत आह – कर्मादीति ॥ यद्यप्ययं श्लोकोऽन्यथा प्रतीयते । तथाऽप्यविहितस्य स्तुत्ययोगाद् वाक्यभेदेन कर्मादिकं प्रतिपाद्य तत्स्तुतिः क्रियत इति भावः । कथमनेन तत्स्वरूपमुच्यत इत्यतो व्याचष्टे – कर्मणीति ॥ वर्णाश्रमोचिते । अकर्म कर्माभावं स्वस्य । तद् विवृणोति – विष्णोरेवेति ॥ `चित्प्रतिबिम्ब’ इत्यनेन तदधीनः करोमीत्यपि सूचयति । सुप्त्यादिकं कथमकर्मेत्यत उक्तं अकरणेति । जीवापेक्षयेदम् । एतदपि विवृणोति – अयमेवेति ॥ सर्वदा जीवव्यापाराभावे भावे च । सर्वस्य महदादेः स्वाप्नगजादेश्च । आनेन भगवतः परानपेक्षया कर्तृत्वं स्वस्य तदधीनं च ज्ञात्वा वर्णाश्रमविहितानुष्ठानं कर्मेत्युक्तं भवति । अनेनैवोक्तलक्षणे विकर्माकर्मणी प्रोक्तप्राये । यः पश्येत्सुबुद्धिमानिति कोऽर्थभेदः । कथं च स्तुतिरित्यत आह – स इति ॥ ज्ञानिशब्दो हि पामरविलक्षणे प्रसिद्धः । मतुबादीनां प्रशंसार्थत्वात् । `स युक्त’ इत्येतद् स्तुतिर्यथा स्यात्तथा व्याचष्टे – स एव चेति ॥ ``कृत्स्नकर्मकृत्" इत्येतन्मुख्ये बाधकं प्रदर्शयन् गौणं व्याख्याति – सर्वेति ॥ सर्वस्याश्वमेधादेः । कृत्स्नकर्मणां फलस्य ज्ञानस्य मोक्षस्य च प्राप्तप्रायत्वादित्यर्थः ॥ 18 ॥
यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ।
#101;X~JaXAnAgnidagdhakarmANaM tamAhuH paMDitaM budhAH \।\।19 \।\।
भा – एतदेव प्रपञ्चयति यस्येत्यादिना श्लोकपञ्चकेन । उक्तप्रकारेण ज्ञानाग्निदग्धकर्माणम् ॥ 19 ॥
प्र.दी – ननु प्रतिज्ञातमुक्तम् । तत्किमुत्तरैः श्लोकैरित्यत आह – एतदेवेति ॥ कर्मस्वरूपमेव । अनेनात्रापि वाक्यभेदेन कामादिवर्जनविषयास्तुतिः क्रियत इति सूचितम् । मिथ्यात्वज्ञानेन कर्मणामुपमर्दो ज्ञानाग्निदग्धकर्मत्वमिति व्याख्यानमसदिति भावेनाह – उक्तेति ॥ परमेश्वरस्यैव कर्तृत्वं ज्ञात्वा स्वस्य स्वातन्त्र्येण कर्माभावज्ञानमेव ज्ञानाग्निदग्धकर्मत्वमित्यर्थः ॥ 19 ॥
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥20 ॥
भा – नच कामसङ्कल्पाभावेनालम् । आसङ्गं स्नेहं च त्यक्त्वा । ज्ञानस्वरूपमाह पुनर्नित्यतृप्त इति । नित्यतृप्तनिराश्रयेश्वरसरूपोऽस्मीति तथाविधः ॥ 20 ॥
प्र.दी. – ``यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः" इत्यनेन यदुक्तं तदेव ``त्यक्त्वा कर्मफलाऽसङ्गं" इत्यनेनोच्यते । सङ्कल्पो हि कर्माऽसङ्गः । कामश्च फलाऽसङ्ग इत्यतः सङ्गतिपूर्वमन्यथा व्याचष्टे – न चेति ॥ नैतावता कर्मस्वरूपं सम्पूर्णमित्यर्थः । किं तर्~हीत्यध्याहारः । ``ननु नित्यतृप्तो निराश्रय" इति साध्योऽर्थः । स कथं साधने निवेश्यत इत्यत आह – ज्ञानेति ॥ `कर्मण्यकर्म’ इत्यपेक्षया पुनरिति । मिथ्याज्ञानमेतदित्यतोऽभिप्रायमाह – नित्येति ॥ इति हेतोरयमपि तथा विधः । किन्त्वविद्यया तथा न प्रतीयत इति जानन्नित्यर्थः ॥ 20 ॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाऽप्नोति किल्बिषम् ॥21 ॥
भा – कामादित्यागोपायमाह – निराशीति ॥ यतचित्तात्मा भूत्वा निराशीरित्यर्थः । आत्मा मनः । परिग्रहत्यागोऽनभिमानम् । ``नैव किञ्चित् करोति" इत्यस्याभिप्रायमाह – नाऽप्नोति किल्बिषमिति ॥ 21 ॥
प्र.दी. – कामादिवर्जितत्वमेव ``निराशीः" इत्यनेनोच्यत इत्यत आह – कामादीति ॥ आदिपदेन सङ्कल्पादिपरिग्रहः । कथमित्यतो योजयति – यतेति ॥ निराशीः त्यक्तसर्वपरिग्रहश्च भवतीति शेषः । सेन्द्रियं शरीरमात्मेत्यसत् । अन्तःकरणवृत्तिनियमेनैव तन्नियमसिद्धेरिति भावेनाह – आत्मेति ॥ ननु परिग्रहो देहादिः । तत्त्यागः कथं साधकस्येत्यनेन आह – परिग्रहेति ॥ अनभिमानमिति स्थितिरित्यादि क्रियाविशेषणम् । अर्थाभावेऽव्ययीभावो वाऽयम् । अभिमानाभाव इत्यर्थः । पूर्वश्लोके ``कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चिद् करोतीति कर्मणां मिथ्याज्ञानात्" इति व्याख्यानमसत् । अत्र श्लोकेऽन्यथा तदभिप्रायस्य वर्णितत्वादिति भावेनाह – नैवेति ॥ गौण्या वृत्त्येदमभिप्रायकथनमित्यवधेयम् ॥ 21 ॥
यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबद्ध्यते ॥22 ॥
भा – यतचित्तात्मनो लक्षणमाह – यदृच्छालाभेति ॥ कथं द्वन्द्वातीतत्वमित्याह – समस्सिद्धाविति ॥ 22 ॥
प्र.दी. – कामादिवर्जने यदृच्छालाभसन्तुष्टत्वादिकमर्थात्सिद्धम् । तत्किमर्थमुच्यत इत्यत आह – यतेति ॥ द्वन्द्वातीत इत्युक्तमेव ``समस्सिद्धावसिद्धौ" इत्यनेनोच्यत इत्यत आह – कथमिति ॥ किम्प्रकारमित्यर्थः । इति जिज्ञासायामिति शेषः । व्याख्यानव्याख्येयत्वेन न पुनरुक्तिदोष इत्यर्थः ॥ 22 ॥
गतसङ्गस्य मुक्तस्य #101;XञXानावस्थितचेतसः ।
य#101;XञXायाचरतःकर्म समग्रं प्रविलीयते ॥23 ॥
भा – उपसंहरति – गतसङ्गस्येति ॥ गतसङ्गस्य फलस्नेहरहितस्य । मुक्तस्य शरीराद्यनभिमानिनः । ज्ञानावस्थितचेतसः परमेश्वरज्ञानिनः ।
प्र.दी. — यदुक्तं कामादिवर्जनं तदेव ``गतसङ्गस्य" इत्यनेनोच्यते । `त्यक्तसर्वपरिग्रह’ इत्येतद् `मुक्तस्य’ इत्यनेन, `कर्मणि’ इति `नित्यतृप्त’ इति च `ज्ञानावस्थितचेतस’ इत्यनेन । अतः पुनरुक्तिरित्यत आह – उपसंहरतीति ॥ विक्षिप्तं पिण्डीकरोतीत्यर्थः । गतसङ्गस्येति विषयसापेक्षम् । अतस्तद् प्रदर्शनेन व्याख्याति – गतेति ॥ `मुक्तस्य’ इत्येतद् साधके घटयति – मुक्तस्येति ॥ अनेनाभिमानाद् मुक्तस्येति वा मुक्तसदृशस्येति वा व्याख्यातं भवति । ज्ञानस्य विषयसापेक्षत्वात्तं प्रदर्शयन् व्याचष्टे – ज्ञानेति ॥ आत्मज्ञानस्याप्युपलक्षणमेतत् ॥ 23 ॥
ब्रह्मार्पणं ब्रह्महविब्रह्मणाग्नौ ब्रह्मणाहुतं ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना ॥24 ॥
भा – ज्ञानवास्थितचेतस्त्वं स्पष्टयति – ब्रह्मार्पणमिति ॥ सर्वमेतद् ब्रह्मेत्युच्यते । तदधीनसत्ताप्रतीतित्वात् । नतु तत्स्वरूपत्वात् । उक्तं हि –
``त्वदधीनं यतस्सर्वमतस्सर्वो भवानिति । वदन्ति मुनयस्सर्वे नतु सर्वस्वरूपतः " इति पाद्मे । ``सर्वं तत्प्रज्ञानेत्रं" इति च । ``एतं ह्येव बह्वृचा" इत्यादि च । समाधिना सह ब्रह्मैव कर्म ॥ 24 ॥
प्र.दी.– ननु कर्मस्वरूपं प्रतिज्ञाय सङ्क्षेपविस्तराभ्यां प्रतिपाद्योपसंहृतम् । किमिदं ``ब्रह्मार्पणं" इत्यनेनोच्यत इत्यत आह – ज्ञानावस्थितेति ॥ एतेन ``इति यो जानाति" इत्यध्याहारोऽत्र सूचितो भवति । अत्रार्पणादेर्ब्रह्मस्वरूपत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह– सर्वमिति ॥ प्रज्ञा ब्रह्म नेत्रं नेतृ यस्य तत्तथोक्तम् । एतं हीत्यनेन सर्वान्तर्यामित्वमुच्यते । ब्रह्मकर्म ब्रह्मविषयः समाधिर्यस्यासौ तथोक्त इति व्याख्यानं प्रक्रमविरुद्धमिति भावेनान्यथा व्याख्याति – समाधिनेति ॥ समाधिरपि ब्रह्मेत्यर्थः ॥ 24 ॥
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं य#101;XञXेनैवोपजुह्वति ॥25 ॥
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति ॥26 ॥
भा – यज्ञभेदानाह – दैवमित्यादिना ॥ दैवं भगवन्तम् । स एव तेषां यज्ञः । भगवदुपासनं यज्ञमिति क्रियाविशेषणम् । नान्यत्तेषामस्ति यतीनां केषाञ्चित् । यज्ञं भगवन्तम् । ``यज्ञेन यज्ञम्" । ``यज्ञो विष्णुर्देवता" इत्यादि श्रुतिभ्यः । यज्ञेन प्रसिद्धेनैव । यज्ञं प्रति जुह्वतीति सर्वत्र समं ``तं यज्ञं" इत्यादौ । उक्तं च – ``विष्णुं रुद्रेण पशुना ब्रह्मा ज्येष्ठेन सूनुना । अयजन्मानसे यज्ञे पितरं प्रपितामहः ॥" इति ॥ 25 ॥ 26 ॥
प्र.दी. – उत्तरप्रकरणप्रतिपाद्यं बुद्ध्यारोहार्थमाह – यज्ञेति ॥ सामान्यतः कर्मस्वरूपमुक्तम् । तच्च यज्ञादि भेदभिन्नम् । तत्र ``नायं लोकोऽस्ति" इति वक्ष्यति । तदनुपपन्नम् । यत्याश्रमविलोपप्रसङ्गादित्याशङ्कानिरासार्थमिति शेषः । अत्र ``दैवं देवविषयं’ इति व्याख्यानमसत् । ``द्रव्ययज्ञा" इत्यस्य पुनरुक्तत्वादिति भावेनाह – दैवमिति ॥ एवं तर्~हि केचिद् भगवन्तमुपासत इत्युक्तं स्यात् । तथा च नेयं यज्ञोक्तिरित्यत आह – स एवेति ॥ स इति परामृष्टं दर्शयति – भगवदिति ॥ भगवदुपासनस्य यज्ञत्वमिह कथं लभ्यत इत्यत आह – यज्ञमिति ॥ भगवदित्यादिकं क्रियाविशेषणत्वप्रदर्शनार्थमेकमेव वाक्यम् । साधनं परित्यज्य धात्वर्थमात्रस्य विशेषणं हि क्रियाविशेषणम् । अवधारणार्थं दर्शयति – नान्यदिति ॥ अन्यद् भगवदुपासनात् । अनेनैव शब्दो भिन्नक्रम इत्युक्तं भवति । दैवमेवोपासते नान्यदिति तु प्रकृतासङ्गतम् । केषाञ्चिद् परमहंसानाम् । अन्येषां बाह्यकर्मणोऽपि भावात् । यद्वा केषाञ्चिदित्यस्यैव व्याख्यानं यतीनामिति । ब्रह्माग्नावित्यस्य ``आत्मानमात्मनैव मनसा वा ब्रह्मणैकीभावयन्ति" इति व्याख्यानमसदिति भावेन ``यज्ञं" इत्येतद् व्याचष्टे – यज्ञमिति ॥ भगवतो यज्ञशब्दार्थत्वं कुत इत्यत आह – यज्ञेनेति ॥ यज्ञेनेत्यस्यार्थमाह – यज्ञेनेति ॥ एवशब्देनापव्याख्यानं निराकरोति । एवं चेद्यज्ञमित्यस्य कथमन्वय इत्यत आह – यज्ञमिति ॥ एतद् व्याख्यानमन्यत्रातिदिशति – इति सर्वत्रेति ॥ अतिप्रसङ्गनिवारणाय सर्वत्रेत्युक्तं विवृणोति – तमिति ॥ एवं तर्~ह्यग्रतो जातं तं पुरुषं यज्ञं भगवन्तं प्रति बर्~हिषि प्रौक्षन्नित्यर्थः स्यात् । स च निर्मूल इत्यत आह – उक्तं चेति ॥ 25 ॥ 26 ॥
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥27 ॥
भा – आत्मसंयमाख्योपायाग्नौ ॥ 27 ॥
प्र.दी. – ``आत्मसंयम" इत्येतद् दुर्गमार्थत्वाद् व्याख्याति – आत्मेति ॥ आत्मनो मनसः । आत्मसंयमाख्यो य उपायः स एवाग्निः ॥ 27 ॥
द्रव्यय#101;XञXास्तपोय#101;XञXा योगय#101;XञXास्तथाऽपरे ।
स्वाध्याय#101;XञXानय#101;XञXाश्च यतयः संशितव्रताः ॥28 ॥
भा – द्रव्यं जुह्वतीति द्रव्ययज्ञाः । तपः परमेश्वरार्पणबुद्ध्या तत्र जुह्वतीति तपोयज्ञाः इत्यादि । इदं तपो हविस्तद् ब्रह्माग्नौ जुहोमि तत्पूजार्थमिति होमः । तदर्पण एव च होमबुद्धिः ॥ 28 ॥
प्र.दी – ननु द्रव्यं यज्ञो न भवति । तत्कथं बहुव्रीहिः । तत्पुरुषत्वे च कथं पुरुषसामानाधिकरण्यमित्यत आह – द्रव्यमिति ॥ अनेन नायं यज्ञशब्दो भावार्थः । किन्तु कर्त्रर्थः । तथा च द्रव्यस्य यज्ञा याजका इत्युक्तं भवति । एतदाशङ्कापरिहारायैव `तपोयज्ञाः’ इत्येतदप्येवमेव व्याचष्टे – तप इति ॥ तत्र परमेश्वरे । `योगयज्ञाः’ इत्यादिकमप्येवमेव व्याख्येयमिति दर्शयति – इत्यादीति ॥ तपसो होमः कथमित्यत आह – इदमिति ॥ तपश्चरणमेव तपोयज्ञः किं न स्यादित्यत आह – तदर्पण एवेति ॥ अनेनैव प्रकारेण यज्ञत्वसम्पादनम् ॥ नान्यथेत्यर्थः ॥ 28 ॥
अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।
प्राणापानागती रुद् ध्वा प्राणायामपरायणाः ॥29 ॥
भा – अपरे प्राणायामपरायणाः प्राणमपाने जुह्वति , अपानं च प्राणे । कुम्भकस्था एव भवन्तीत्यर्थः ॥ 29 ॥
प्र.दी. – `अपाने जुह्वति’ इत्येतद् पूरकरेचककुम्भकपरतया केचिद् व्याचक्षते । तदसत् । अध्याहारादिप्रसङ्गात् । पूरकरेचकयोः कुम्भकार्थत्वेन पृथक् प्राणायामत्वाभावाच्चेति भावेन कुम्भकमात्रपरतया योजयति – अपर इति ॥ परायणा इत्यतः परं ``प्राणापानगती रुद् ध्वा’ इति द्रष्टव्यम् । अभिप्रायमाह – कुम्भकस्था एवेति ॥ एव शब्देनापव्याख्यानं व्यावर्तयति ॥ 29 ॥
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥30 ॥
यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥31 ॥
भा – नियताहारत्वेनैव प्राणशोषात्प्राणान् प्राणेषु जुह्वति – ``यच्छेद्वा~घ्मनसि प्राज्ञः" इत्यादि श्रुत्युक्तप्रकारेण वा । अन्यदपि ग्रन्थान्तरे सिद्धम् । ``यद्यस्याल्पाशनं तेन प्राणाः प्राणेषु वै हुताः" इति ॥ 30 ॥ 31 ॥
प्र.दी. – ``अपरे नियत" इत्यत्र प्राणानां प्राणेषु कीदृशो होमः । नियताहारत्वस्य कथमत्रोपयोग इत्यत आह – नियतेति ॥ प्राणशोषादिन्द्रियवृत्तीनां वृत्तिमस्त्विन्द्रियेषु सङ्कोचात् । जुह्वति `इत्युच्यत’ इति शेषः । एव शब्देन श्रोत्रादीनीत्यतो भेदं दर्शयति । तत्र प्रत्याहारेणात्र नियताहारत्वेनैवेति । ``प्राणान्" इत्यादिकं प्रकारान्तरेण व्याख्याति – यच्छेदिति ॥ वाक् वाचम् । मनसी मनसि । यच्छेत् तन्नियतां ध्यायेत् । अवराणामिन्द्रियदेवतानामुत्तमेन्द्रियदेवतानियतत्वचिन्तनं प्रकारार्थः । वा प्राणानां प्राणेषु होम इति शेषः । अस्मिन् पक्षे नियताहारा इति पृथग् यज्ञो ज्ञातव्यः । इदमेवास्तु व्याख्यानम् । श्रौतत्वात् । किं पूर्वेणेत्यत आह – अन्यदपीति ॥ 30 ॥ 31 ॥
एवं बहुविधा य#101;XञXा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं #101;XञXात्वा विमोक्ष्यसे ॥32 ॥
भा – ब्रह्मणः परमात्मनो मुखे । ``अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च" इति वक्ष्यति । मानसवाचिककायिककर्मजा एव हि ते सर्वे । एवं ज्ञात्वा तानि कर्माणि कृत्वा विमोक्ष्यसे । युद्धं परित्यज्य यद् मोक्षार्थं करिष्यसि तदपि कर्म । अतो विहितं न त्याज्यमिति भावः ॥ 32 ॥
प्र.दी. – `ब्रह्मणो मुखे वितताः’ इत्यस्य वेदे प्रतिपादिता इति व्याख्यानमसत् । मुखशब्दवैयर्थ्यादित्यभिप्रायेणाह – ब्रह्मण इति ॥ परमात्मनः सर्वयज्ञभोक्तृत्वं कुतो भगवत्सम्मतमित्यत आह – अहं हीति ॥ उपासनादीनां कर्मजत्वाभावाद् कथं ``कर्मजान् विद्धि तान् सर्वान्" इत्युक्तमित्यत आह – मानसेति ॥ अत्र ``विमोक्ष्यसे" इति सन्नन्तान्मुचः कर्मकर्तरि लट् । तस्य प्रकृतोपयुक्ततयार्थमाह – एवमिति ॥ एवं ज्ञात्वा यदि सर्वेपि यज्ञाः कर्मजा इति जानासि तर्~हि तानि युद्धादीनि स्वविहितानि कर्माणि कृत्वैव विमोक्ष्यसे । संसारादात्मानं मोक्तुमिच्छसि । सर्वेषां कर्मजत्वज्ञाने तवैव मोक्षार्थं युद्धादिकं कर्तव्यमितीच्छा भविष्यतीत्यर्थः । तत्कथमित्यत आह – युद्धमिति ॥ यद्येवमनेके यज्ञाः तर्~हि किं कर्मात्मकेन युद्धेन । उपासनादिनैवाहं कृती स्यामित्यर्जुनस्य हार्दं ज्ञात्वा भगवतेदमुक्तम् । अस्यायं भावः । मोक्षार्थं यदुपासनादिकं युद्धं परित्यज्य करिष्यसि तदपि कर्म । तथा च त्वया विहितातिक्रम एव कृतः स्यात् । नतु कर्मत्यागः । अत एवं जानतस्तव विहितं युद्धादिकं न त्याज्यमिति बुद्धिर्भविष्यतीत्यर्थः । विमोक्ष्यसे इति लृडन्तत्वपक्षेऽयमर्थः । किं सर्वयज्ञानां कर्मजत्वज्ञानमात्रेण मोक्षः । तथा च ``कुरु कर्मैव" इति विधानं व्यर्थमित्यत आह – एवमिति ॥ ``कर्मजान् विद्धि" इत्यनेन कथमर्जुनस्य शङ्कायाः परिहार इत्यत आह – युद्धमिति ॥ 32 ॥
श्रेयान् द्रव्यमयाद्य#101;XञXाजानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ #101;XञXाने परिसमाप्यते ॥33 ॥
भा – अखिलं उपासनाद्यङ्गयुक्तम् । ज्ञानफलमेवेत्यर्थः ॥ 33 ॥
प्र.दी. – सर्वं कर्मेत्युक्तत्वात् ``अखिलं" इति पुनरुक्तिरित्यत आह – अखिलमिति ॥ कर्मसमृद्ध्यर्थान्युपासनानि वेद एवोच्यन्ते । खिलं सशेषं न भवतीत्यखिलमित्यर्थः । ``ज्ञाने परिसमाप्यते" इत्यस्य ज्ञाने जाते न कर्म कार्यमित्यन्यथाप्रतीतिनिरासाय तात्पर्यमाह – ज्ञानेति ॥ परिसमाप्तिः सम्पूर्णता सफलता । सा च ज्ञाने सतीति सन्निधानाद् ज्ञानलक्षणेनैव फलेनेति भावः ॥ 33 ॥
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्वदर्शिनः ॥ ॥34 ॥
भा – इदानीमपि ज्ञान्येव । तथाऽप्यभिभवान्मोहः । मा तूक्ता ॥ 34 ॥
प्र.दी. – `तद्विद्धि’ इत्युक्तत्वादिदानीमर्जुनो न जानातीति प्रतीतिं निवारयति – इदानीमपीति ॥ तद्विद्धीत्यधिकज्ञानार्थमुक्तमिति भावः । ज्ञानीचेत्तर्~हि `यद् ज्ञात्वा’ इति तस्य मोहः कथमुच्यत इत्यत आह – तथाऽपीति ॥ अभिभवाद् ज्ञानस्य । अर्जुनस्य ज्ञानित्वे सिद्धे भवेदेतत् । तत्रैव किं प्रमाणमित्यत आह – मा त्विति ॥ 34 ॥
यज्जञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥35 ॥
भा – येन ज्ञानेन मय्यात्मभूते सर्वभूतान्यथो तस्मादेव मोहनाशात् पश्यति ॥ 35 ॥
प्र.दी. – ``येन भूतानि" इत्यस्य येन मोहेन सर्वाणि भूतान्यात्मनि स्वस्मिन् अथो मयि च द्रक्ष्यसीत्यन्यथाप्रतीतिनिरासार्थमाह – येनेति ॥ आत्मभूते सर्वान्तर्यामिणि । द्रक्ष्यसीत्येतत्पश्यसीति व्याख्यातमिदानीमपि ज्ञान्येवेति ज्ञापयितुम् ॥ 35 ॥
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं #101;XञXानल्पवेनैव वृजिनं सन्तरिष्यसि ॥36 ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
#101;X~JaXAnAgniH sarvakarmANi BasmasAtkurutE tathA \।\।37 \।\।
न हि #101;XञXानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धिः कालेनात्मनि विन्दति ॥38 ॥
भा – करणभूतं ज्ञानं स्तौति पुनः श्लोकत्रयेण ॥ 36-38 ॥
प्र.दी. – `येन’ इति ज्ञानस्यैव निर्देश इति स्थापयन् `अपि च’ इत्यादेः प्रतिपाद्यमाह – करणेति ॥ येनेति करणतया निर्दिष्टमित्यर्थः । `श्रेयान्’ इत्याद्यपेक्षया पुनरिति ॥ 36 ॥ 37 ॥ 38 ॥
श्रद्धावान् लभते #101;XञXानं मत्परः संयतेन्द्रियः ।
#101;X~JaXAnaM labdhvA parAM SAMtimacirENAdhigacCati \।\।39 \।\।
अज्ञश्चश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥40 ॥
योगसंन्यस्तकर्माणं #101;XञXानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥41 ॥
तस्माद#101;XञXानसम्भूतं हृत्स्थं #101;XञXानासिनाऽऽत्मनः ।
छित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥42 ॥
तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु योगशास्त्रे श्रीकृष्णार्जुनसंवादे #101;XञXानयोगो नाम चतुर्थोऽध्यायः ॥
भा – तत्साधनं विरोधिफलं च तदुत्तरैरुक्त्वोपसंहरति ॥ 39-42 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्थोऽध्यायः ॥
प्र.दी. – उत्तरश्लोकस्य सङ्कीर्णार्थत्वादेकोक्त्यैव तात्पर्यमुक्त्वा ``तस्मात्" इति चतुर्थस्य प्रतिपाद्यमाह – तदिति ॥ तस्य ज्ञानस्य साधनमन्तरङ्गं श्रद्धादिकम् । विरोध्यज्ञानादिकम् । ज्ञानस्य फलं परशान्त्यादिकम् । विरोधिनः फलं विनाशादिकमिति ॥ 39-42 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां श्रीजयमुनिविरचितायां प्रमेयदीपिकायां चतुर्थोऽध्यायः ॥ 4 ॥
श्रीवादिराजान्तर्गत श्रीमध्वेशाभिन्न श्रीकृष्णार्पणमस्तु ॥
*************************************************************************************************************************************
पञ्चमोऽध्यायः
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः
हरिः ॐ श्री अर्जुन उवाच –
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेयः एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ 1 ॥
भा– तृतीयाध्यायोक्तमेव कर्मयोगं प्रपञ्चयत्यनेनाध्यायेन । ``यदृच्छालाभसन्तुष्ट" इत्यादिना संन्यासम् । ``कुरु कर्मैव" इत्यादिना कर्मयोगं च । नियमनादिना सकललोककर्षणात् कृष्णः । तच्चोक्तम् –
`यतः कर्षसि देवेश नियम्य सकलं जगत् । अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः’ इति महाकौर्मे । संन्यासशब्दार्थं भगवानेव वक्ष्यति । अयं प्रश्नाभिप्रायः । यदि संन्यासः श्रेयोऽधिकस्सयात्तर्~हि संन्यासस्येषद् विरोधि युद्धमिति ॥ 1 ॥
प्र.दी – पूर्वसङ्गतत्वेनैतद् अध्यायप्रतिपाद्यमाह – तृतीयेति ॥ कर्मयोगो नाम कर्माणि कृत्वा तेषां ब्रह्मात्मकत्वज्ञानमिति कश्चित् । तद् व्यावर्तयितुमेवशब्दः । फलकामनादित्यागेनेश्वरार्पणबुद्ध्या वर्णाश्रमविहितानुष्ठानमेव कर्मयोगोऽत्र प्रपञ्च्यते । तस्यैव पूर्वमुक्तत्वात् । नान्यः । तस्याप्रकृतत्वात् । द्व्यंशश्चायं कर्मयोगः । कर्मादिवर्जनमीश्वरार्पणबुद्ध्या कर्मानुष्ठानं चेति । तत्राद्यं संन्यासशब्दोक्तम् । द्वितीयमुपचारेण कर्मयोगशब्दोक्तम् । तदभिप्रायेण योगसंन्यासयोर्लक्षणं स्पष्टयतीत्यत्रोक्तमिति ।
संन्यासमित्यादिना कुत्रोक्तमर्जुनोऽनुवदतीत्यत आह – यदृच्छेति ॥ कर्मयोगमिति वदता ``कर्मणां" इत्येतद्योगशब्देन सम्बध्यत इत्युक्तं भवति । तथा च कर्मणां संन्यासं त्यागमिति व्याख्यानमसदिति सूचितम् । शंससीत्यन्वयः । चतुर्थाध्यायोक्तस्यार्थस्यैतदध्यायोत्थानबीजत्वाद् तृतीयाध्यायप्रपञ्चनात्मकस्याप्यस्य चतुर्थानन्तर्यं युक्तमित्यनेन ज्ञापितम् । कृष्णशब्दो वर्णविशेषमात्रवचन इति प्रतीति निरासायाह – नियमनादिनेति ॥
नित्यनैमित्तिककाम्यनिषिद्धरूपसर्वकर्मपरित्यागः संन्यासशब्दार्थ इति व्याख्यानं दूषयति – संन्यासेति ॥ ``ज्ञेयः स नित्यसंसारी" इति संन्यासशब्दस्य भगवतैवान्यथाव्याख्यातत्वाद् तद्विरुद्धं परव्याख्यानमित्यर्थः । यदि सर्वकर्मपरित्यागो न संन्यासशब्दार्थः किन्तु द्वेषादिवर्जनमेव तर्~हि तस्य योगेन विरोधाभावाद् संन्यास योगयोर्विरोधाभिप्रायेण श्रेयः प्रश्नोऽनुपपन्नः स्यादित्यत आह – अयमिति ॥ अत्र श्रेय इति यथास्थितगीतापदमनूद्य संन्यासपदानुगुण्येनाधिक इति व्याख्यातम् । नन्वेतत् `घोर’ इति चोदितम् । `श्रेयान्’ इति परिहृतं च । सत्यं । अत एवात्रेषदित्युक्तम् । अतस्तत्त्यक्त्वा संन्यास एव कर्तव्ये किं वैगुण्यमङ्गीकृत्यापि युद्धं विधीयत इत्याशयशेषः ॥ 1 ॥
श्रीभगवानुवाच –
संन्यासः कर्मयोगश्च निश्शरेयसकरावुभौ
तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥ 2 ॥
भा – नायं संन्यासो यत्याश्रमः । ``द्वन्द्वत्यागात्तु संन्यासान्मत्पूजैव गरीयसी" इति वचनात् । ``तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्" इति च ।
`संन्यासस्तु तुरीयो यो निष्क्रियाख्यस्सधर्मकः ।
न तस्मादुत्तमो धर्मो लोके कश्चन विद्यते ।
तद्भक्तोऽपि हि यद् गच्छेद् तद्गृहस्थो न धार्मिकः ।
मद्भक्तिश्च विरक्तिस्तदधिकारो निगद्यते ।
यदाधिकारो भगवति ब्रह्मचार्यपि प्रव्रजेत् ॥" इति नारदीये ।
``ब्रह्मचर्यादेव प्रव्रजेत् यदहरेव विरजेत्" इति च ।
`संन्यासे तु तुरीये वै प्रीतिर्मम गरीयसि ।
येषामत्राधिकारो न तेषां कर्मेति निश्चयः ॥" इत्यादेश्च ब्राह्मे ।
अतो नात्राश्रमस्संन्यास उक्तः ॥ 2 ॥
प्र.दी. – संन्यासमिति प्रश्नवाक्ये संन्यास इति परिहारवाक्ये च संन्यासयोगशब्दौ यतिगृहस्थाश्रमविषयावेव । तयोः
सर्वकर्मत्यागतदनुष्ठानरूपत्वात् । `ज्ञेय’ इति वचनं तु न संन्यासशब्दव्याख्यानपरम् । किन्तु यो द्वेषादिवर्जितो गृही सोऽपि संन्यासी ज्ञातव्य इति स्तुतिपरमेवेत्यत आह – नायमिति ॥ अयं परिहारवाक्यस्थः । प्रश्नवाक्यस्थस्य तात्पर्यनिर्णये तथाऽभ्युपगतत्वात् । योगश्च न गृहस्थाश्रम इत्यपि द्रष्टव्यम् । कुतो नेति चेत्, अत्र `तयोस्तु’ इति संन्यासात् कर्मयोगस्य विशिष्टत्ववचनात् । तस्य चास्मत्पक्ष एव सम्भवात् । अन्यत्रासम्भवादिति भावः । कुतो भवत्पक्षे सम्भव इत्यत आह – द्वन्द्वेति । मत्पूजा मदर्पणबुद्ध्या कर्मानुष्ठानम् । आश्रमार्थत्वे कुतोऽसम्भव इत्यत आह – तानीति ॥ तान्याधानादीनि । अन्यरेचयत् (अत्यरिच्यत।) अतिरिच्यते । इति वचनादिति वर्तते । न्यस्यतेऽस्मिन् सर्वमिति ब्रह्मैव न्यास इति कश्चित् । तदसत् । तपोऽपेक्षयोत्तमत्वाभिधानस्यासङ्गतत्वात् । उपायोपेयभावेन सङ्गतिरिति चेत्तर्~हि तत्सिद्धौ लोकत एवोत्तमत्वसिद्धेरभिधानवैयर्थ्यात् ।
गृहस्थाश्रमाद्यत्याश्रमस्योत्तमत्वमयुक्तम् । गृहस्थाश्रमो हि सर्वधर्मोपपन्नः । तत्समर्थे मध्यमे वयस्यनुष्ठेयो महाफलश्च । यत्याश्रमस्तु निष्क्रियश्चरमे वयसि गृहस्थकर्मानधिकृतैरन्धपङ्ग्वादिभिरनुष्ठेयोऽल्पफलश्चेति केचित् । तन्निरासार्थमाह – संन्यासस्त्विति ॥ काम्यकर्मरहितत्वान्निष्क्रियाख्योऽपि सधर्मकः । न केवलं सधर्मकः । किन्तु न तस्माद्यत्याश्रमानुष्ठेयाद्यतिभक्त्यापि यत्फलं प्राप्नयान्न तत् सर्वैर्गृहस्थधर्मैरित्यर्थः । ब्रह्मचर्यादेव ब्रह्मचर्यं विसृज्यैव । विरजेत् विरक्तो भवेत् । ``तदहरेव
प्रव्रजेत्" इति श्रुतिशेषः । कर्मेत्याश्रमान्तरम् । यदुक्तं नायमित्यादि तदुपसंहरति – अत इति ॥ अत्र परिहारवाक्ये ॥ 2 ॥
ज्ञेयस्य नित्य संन्यासी योनद्वेष्टी न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ 3 ॥
भा – संन्यासशब्दार्थमाह – ज्ञेय इति ॥ संन्यासस्य निःश्रेयसकरत्वं ज्ञापयितुं तच्छब्दार्थं स्मारयति – ज्ञेय इति ॥ 3 ॥
प्र.दी. – `ज्ञेय’ इत्यस्यापव्याख्यानं दूषयंस्तत्तात्पर्यमाह – संन्यासेति ॥ अर्थान्तरस्याप्रतीतेरिति भावः । ननु ``यदृच्छालाभसन्तुष्ट" इत्यादिनोक्तं कामादिपरित्यागं संन्यासं कर्मणामित्यनूद्यार्जुनस्यायं प्रश्न इत्युक्तम् । ततश्च जानात्येवासौ संन्यासशब्दार्थमिति न तं प्रति स वक्तव्यः । तथा च पूर्वपक्ष्युत्प्रेक्षित एवस्यार्थ इत्यत आह – संन्यासस्येति ॥ `संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ’ इति यत्संन्यासस्य निःश्रेयस्करत्वमुक्तं तदुपपादयितुं ज्ञातमपि संन्यासशब्दार्थं स्मारयत्यनेन । द्वेषादिवर्जनं हि संन्यासः । तस्य निःश्रेयसकरत्वं श्रुत्यादिप्रसिद्धमेवेति । अतः संन्यासशब्दार्थकथन एव तात्पर्याभावान्नानुपपत्तिरित्यर्थः । ज्ञापकं चास्यार्थस्यास्तीत्याह – ज्ञेय इतीति ॥ ज्ञेयः स्मर्तव्य इति ह्यनेनोक्तमित्यर्थः । योगस्य
तु निःश्रेयसकरत्वमुत्तरवाक्य एव सेत्स्यति ॥ 3 ॥
साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एक मप्यास्थितस्सम्यगुभयोर्विन्दते फलम् ॥ 4 ॥
भा – संन्यासो हि ज्ञानान्तरङ्गत्वेनोक्तः ``न तस्य तत्वग्रहणाय" इत्यादौ । अत कथं सोऽवम इत्यत आह – साङ्ख्ययोगाविति ॥ उभयोरप्यन्तरङ्गत्वेनाविरोधः ।
``अग्निमुग्धो ह वै धूमतान्तः स्वं लोकं न प्रत्यभिजानाति" ``मावः पदव्यः पितरस्मादाश्रिता या यज्ञशालासनधूमवर्त्मनां" इत्यादौ काम्यकर्मविषयमिति भावः । ये त्वन्यथा वदन्ति ते बालाः ॥ 4 ॥
प्र.दी. – संन्यासं गृहीत्वा योगं त्यक्ष्यामीत्याशयेन द्वयोः श्रेयसि पृष्टे द्वावपि निःश्रेयसकरौ । तत्रापि संन्यासाद्योगो विशिष्टः । अतो न युद्धं त्वया त्याज्यमिति परिहारो जातः । किमर्थं `साङ्ख्ययोगौ’ इत्युच्यत इत्यत आह – संन्यासो हीति ॥ हि शब्दो हेतौ । ज्ञानान्तरङ्गत्वेन ज्ञानोत्पत्तावत्यावश्यकत्वेन । न तस्येत्यत्र विषयवैराग्याभावे ज्ञानानुत्पत्तिवचनेन तत एव तदुत्पत्तिरिति हि लभ्यते । एवं कर्मयोगस्तु ज्ञानविरोधित्वेनोक्तोऽग्निमुग्ध इत्यादावित्यपि ग्राह्यम् । अवमो योगात् । अनेन योगस्य निःश्रेयसकरत्वमप्याक्षिप्तम् ।
ननु साङ्ख्यं ज्ञानम् । योगः कर्म । तयोः कथमत्र
पृथक्त्वाभाव उच्यते । कथं वाऽनेनोक्ताक्षेपपरिहार इत्यत आह – उभयोरपीति ॥ न केवलं संन्यासस्य । किन्तु योगस्यापीत्युभयोरपि ज्ञानान्तरङ्गत्वान्नोक्तो विरोध इत्यर्थः । अनेन साङ्ख्ययोगौ पृथक् साध्यसाधनभावहीनाविति न पण्डिता मन्यन्त इत्येवं व्याख्यातं भवति ।
ननु श्रुतिपुराणाभ्यामेव कर्मणो ज्ञानविरोधित्वमुच्यत इत्युक्तम् । अतः कथमेवमभिधीयत इत्यत आह – अग्नीति ॥ अग्न्युपलक्षिते कर्मणि मुग्धः श्रेयस्करमेतदिति भ्रान्तः । धूमतान्तो होमधूमेन ग्लानः । धूमतो धूमादित्वमेवाऽन्तःपर्यवसानं यस्येति वा । स्वलोकं स्वीयमाश्रमम्, परमात्मानम् । यज्ञशालासनेन धूमोपलक्षितमार्गवतां वः पदव्योऽस्मदाश्रिता नैवेत्यर्थः । नन्वकाम्यमपि नित्यं नैमित्तिकं च कर्मप्रत्यवायपरिहारार्थमेव । न ज्ञानान्तरङ्गमिति विद्वांस एव मन्यन्त इत्यत आह – ये त्विति ॥ बाला अविवेकिनः ॥ 4 ॥
यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ 5 ॥
भा – एकमपीत्यस्याभिप्रायमाह – यत्साङ्ख्यैरिति ॥ योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यत इत्यर्थः ॥ 5 ॥
प्र.दी. – योगस्य ज्ञानसाधनत्वे प्रमिते भवेदेतत् । तदेव
कथमित्यत उक्तम् – एकमपीति ॥ तदनुपपन्नम् । उभयोर्मध्ये सम्यगेकमप्यास्थितः फलं विन्दतीति हि योजनायां द्वयोः साफल्यमात्रमुच्यते । एकमपि सम्यगास्थित उभयोः फलं विन्दत इति पक्षे तु द्वयं किञ्चित् फलं प्रतिस्वतन्त्रं साधनमित्युच्यते । पक्षद्वयेऽपि न प्रकृतोपयोग इत्यत आह – एकमपीति ॥ एवमनुपयोगेऽपि भगवानेव स्ववाक्याभिप्रायमाह । स ग्राह्य इत्यर्थः । अनेनापि योगस्य ज्ञानसाधनत्वे किं प्रमाणमुक्तमित्यतो व्याचष्टे – योगिभिरपीति ॥ `तरति शोकमात्मवित्’ इत्यादिना यद् ज्ञानफलं मोक्षाख्यं प्रमितं तत्तावद्योगिभिरपि प्राप्यत इत्युच्यत ``अपाम सोमं" इत्यादिना । तत्र विचार्यम् । किं द्वयमपि स्वतन्त्रं मुक्तिसाधनमुत समुच्चितम् । अथचैकं साक्षात् साधनमपरं तत्साधनत्वेनेति । न प्रथमद्वितीयौ । ``नान्यः पन्थाः" इत्यादि विरोधात् । तृतीयेऽपि चिन्त्यं किं कस्य साधनमिति । तत्र न तावद् ज्ञानं कर्मसाधनत्वेन मोक्षहेतुः । ``न किञ्चिदन्तराधाय" इत्यादि विरोधात् । अतः परिशेषाद्योगिभिरपि ज्ञानद्वारा ज्ञानफलं प्राप्यत इति सिध्यति । तथा च योगस्य ज्ञानसाधनत्वं सिद्धमित्यर्थः । अत्र योगिभिरपि वदता योगशब्दो धर्मिणामुपलक्षकोऽर्श आद्यजन्तो वेति सूचितम् ॥ 5 ॥
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ 6 ॥
भा – इतश्च संन्यासाद्योगो वर इत्याह – संन्यासस्त्विति ॥ योगाभावे मोक्षादिफलं न भवति । अतः कामजयादिदुःखमेव तस्य । मोक्षाद्येव हि फलम् । अन्यत्फलमल्पत्वादफलमेवेत्याशयः । तच्चोक्तं–
``विना मोक्षफलं यत्तु न तत्फलमुदीर्यते " इति पाद्मे । यत्तु महाफलयोग्यं तस्याल्पत्वं फलमेव न भवति । यथा पद्मरागस्य तण्डुलमुष्टिः । महाफलश्च योगयुक्तश्चेत् संन्यास इत्याह – योगयुक्त इति ॥ मुनिः संन्यासी । तच्चोक्तम् –
``स हि लोके मुनिर्नामः यः कामक्रोधवर्जितः" इति ॥ 6 ॥
प्र.दी. – ``संन्यासस्तु" इत्यस्य सङ्गतिमाह – इतिश्चेति ॥ ननु प्राक् संन्यासाद्योगस्य वरत्वे न कोऽपि हेतुरुक्तः । तत्कथमेवमुच्यते । मैवम् । संन्यासस्य योगावरत्वे बाधकं परिहृतम् । साधकमिदानीमुच्यते । बाधकाभावसहितमेव साधकं वस्तुनो व्यवस्थापकम् । तस्मादितश्चेति युक्तम् । पूर्वं संन्यासस्य निःश्रेयसकरत्वमुक्तम् । इदानीं कथं दुःखहेतुत्वमुच्यते । किञ्चानेन साधकमुक्तमित्यतो व्याचष्टे – योगेति ॥ विष्ण्वर्पणबुद्ध्या कर्मकरणाभावे । संन्यासमात्रेणेति शेषः । आदिपदेन ज्ञानं गृह्यते । तस्य केवलसंन्यासिनः ।
योगाभावे संन्यासो निष्फल एवेत्येतन्न युज्यते । मोक्षाद्यभावे तात्कालिकापमानादिदुःखाभावादेर्भावादित्यत आह – मोक्षादिति ॥ तत्र पुराणसम्मतिमाह – तच्चेति ॥ ननु मोक्षफलाभावेऽपि धान्यादिनैव कृष्यादिकं सफलमित्युच्यते । तत्कथमेवमभिहितमित्यत उक्तं विवृणोति – यत्त्विति ॥ महाफलं
साधयितुं योगमित्यर्थः । मोक्षादिग्रहणं प्रकृतापेक्षयैव कृतमिति भावः । ननु संन्यासाद्योगस्य वरत्वमनेन साधितम् । तत्किमुत्तरार्धेनेत्यत आह – महाफलश्चेति ॥ महत् फलं यस्मात् स तथोक्तः । योगाङ्गत्वेन संन्यासस्य ततोऽवरत्वं सिषाधयिषितम् । तच्चान्वयव्यतिरेकाभ्यां सिध्यति । तत्र पूर्वार्धेन व्यतिरेकमुक्त्वाऽनेनान्वयमाचष्ट इति भावः । ननु योगोऽप्येवमेवेति चेत्सत्यम् । तथाऽपि चरमभावित्वेन विशेषः । नन्वत्र संन्यासवाचकं न श्रूयते । तत्कथमेवमुच्यत इत्यत आह – मुनिरिति ॥ मुनिशब्दस्य कामादिवर्जनलक्षणसङ्ख्यासवचनत्वं कुत इत्यत आह – तच्चेति ॥ 6 ॥
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ 7 ॥
भा – एतदेव प्रपञ्चयति – योगयुक्त इति ॥ सर्वभूतात्मभूतः परमेश्वरः । यच्चाप्नोतीत्यादेः । स आत्मभूतः स्वसमीपं प्रत्यादानादिकर्ता यस्य स सर्वभूतात्मभूतात्मा ॥ 7 ॥
प्र.दी. – प्रकृतप्रमेयस्य समाप्तत्वादुत्तरस्य वैयर्थ्यमाशङ्क्याह
– एतदेवेति ॥ योगयुक्तस्य संन्यासस्य महाफलत्वमेव । प्रपञ्चनं च ``यो न द्वेष्टी" इत्यत्रोक्तद्वेषादिवर्जनकारणोपन्यासेन ``ब्रह्माधिगच्छति" इत्युक्तब्रह्मज्ञानावान्तरफलोपन्यासेन चेति ज्ञातव्यम् ।
सर्वभूतात्मभूतात्मेत्यनेन जीवस्य परमात्मस्वरूपत्वमुच्यत इत्यन्यथाप्रतीतिनिरासायाह – सर्वेति ॥ सर्वभूतानामात्मभूतः कथमित्यत उक्तम् – यच्चेति ॥ एतन्निर्वचनमाश्रित्य न स्वरूपत्वमित्यर्थः । ``स आत्मभूतः" इति सर्वभूतात्मभूत इत्युक्तस्यानुवादः । स्वसमीपमित्यादि द्वितीयात्मशब्दार्थः । एवं जानन्नत्र विवक्षितः ॥ 7 ॥
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्गच्छन्स्वपन् श्वसन् ॥ 8 ॥
प्रलपन्विसृजन् गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ 9 ॥
भा – संन्यासं स्पष्टयति पुनः श्लोकद्वयेन ॥ 8 ॥ 9 ॥
प्र.दी.– ``नैव किञ्चित्" इत्यादेः प्रतिपाद्यमाह – संन्यासमिति ॥ ज्ञेय इत्यादिना विशुद्धात्मेत्यादिना च स्पष्टीकृतत्वात् ``पुनः" इति ॥ स्पष्टनं च प्रागनुक्तसङ्कल्पत्यागस्याभिधानात् ॥ 8 ॥ 9 ॥
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ 10 ॥
भा – संन्यासयोगयुक्त एव च कर्मणा न लिप्यत इत्याह – ब्रह्माणीति ॥ साधननियमस्योपचारत्वनिवृत्त्यर्थं पुनः पुनः फलकथनम् ॥ 10 ॥
प्र.दी. – ननु ``योगयुक्त" इत्यनेन यत्संन्यासयोगयुक्तस्य कर्मालेपलक्षण फलमुक्तं तदेव तस्य मुक्तस्य ``ब्रह्मण्यधाय" इति किमर्थं पुनरुच्यत इत्यत आह – संन्यासेति ॥ प्रागुक्तस्यैव नियमोऽत्र क्रियते । सिद्धे सत्यारम्भस्य नियमार्थत्वादिति भावः । योगविवरणं च किञ्चिदधिकमिति चार्थः । ननु `संन्यासस्तु’ इत्यनेनैव संन्यासयोगौ मिलितावेव फलं साधयत इति नियमोऽपि लब्ध एव । तत्किमर्थमिदं संन्यासयोगयुक्तस्य ``कुर्वन्नपि न लिप्यते", ``लिप्यते न स पापेन" इति पुनः पुनः
फलकथनमित्यत आह – साधनेति ॥ साधननियमस्येति तदुक्तेरित्यर्थः । संन्यासयोगौ मिलितावेव फलसाधनमिति नियमोक्तेरुपचारत्वमपि सम्भवति लोकवत् । तन्निवृत्त्यर्थमित्यर्थः ॥ 10 ॥
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्मकुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ॥ 11 ॥
भा – एवं चाचार इत्याह – कायेनेति ॥ 11 ॥
प्र.दी. – कायेनेत्यनेनापि संन्यासयोगयुक्तस्याऽऽत्मशुद्धिलक्षणः पापालेप उच्यत इत्यत आह – एवं चेति ॥ उभयसमुच्चयरूप एवेत्यर्थः । अन्यत्र तात्पर्यान्न पुनरुक्तिरिति भावः । आचारकथनमपि नियमसमर्थनार्थमिति ज्ञातव्यम् ॥ 11 ॥
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ 12 ॥
भा – पुनर्युक्त्यादिनियमनार्थं युक्तायुक्तफलमाह – युक्त इति ॥ युक्तो योगयुक्तः ॥ 12 ॥
प्र.दी.– तथाऽपि ``युक्त" इत्येतद् पुनरुक्तमित्यत आह – पुनरिति ॥ युक्तिः योगः । आदिपदेन संन्यासः । युक्तायुक्तेत्युपलक्षणम् । संन्यास्यसंन्यासीत्यपि ग्राह्यम् । प्राक् संन्यासयोगौ मिलितावेव फलं साधयतो नान्यतरपरित्यागेनान्यतर इति नियमज्ञापनार्थं तयोः फलमुक्तम् । इदानीं तु तावेव मोक्षसाधनं न तु तदुभयपरित्यागेनान्यदिति नियमज्ञापनाय योगसंन्यासवतः तदुभयाभाववतश्च मुक्तिसंसारविस्तारलक्षणं फलमाहेत्यर्थः । युक्तशब्दस्य सहिताद्यर्थनिवारणार्थमाह – युक्त इति ॥ 12 ॥
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ 13 ॥
भा – पुनः संन्यासशब्दार्थं स्पष्टयति – सर्वकर्माणीति ॥ `मनसा’ इति विशेषणादभिमानत्यागः ॥ 13 ॥
प्र.दी. – ``सर्वकर्माणि" इत्यस्य स्वरूपेण सर्वकर्मत्यागोऽर्थ इति प्रतीतिनिवारणाय प्रतिपाद्यमाह – पुनरिति ॥ प्राक् कर्तृत्वाभिमानत्याग उक्त, इदानीं तु कारयितृत्वाभिमानत्यागोऽपि स्पष्टनम् । स्वरूपेण सर्वकर्मत्यागोऽत्र उच्यत इत्येतद् निराचष्टे – मनसेति ॥ अन्यथा तद्व्यर्थं स्यादिति भावः ॥ 13 ॥
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ 14 ॥
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ 15 ॥
भा – नच करोति वस्तुत इत्याह – न कर्तृत्वमिति ॥ प्रभुर्~हि जीवो जडमपेक्ष्य ॥ 14 ॥ 15 ॥
प्र.दी. – ननु ``न कर्तृत्वं" इत्येतद् प्रागुक्तान्न विशिष्यत इत्यत आह – न चेति ॥ दर्शनादिकं कुर्वन्नेव नैव किञ्चित्करोमीति मन्येतेत्युक्तम् । तर्~हि मिथ्याज्ञानी प्रसज्येतेत्याशङ्कानिरासाय
परमेश्वरप्रेरितः कुर्वन् कारयन्नपि वस्तुतः स्वातन्त्र्येण न करोति न कारयति चेत्यनेनाहेत्यर्थः । अस्य जीवविषयत्वे ``प्रभुः" इत्येतन्न सम्भवति इत्यत आह – प्रभुर्~हीति ॥ अनेन विभुरित्येतद् उपपादितप्रायम् ॥ 14 ॥ 15 ॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवद् ज्ञानं प्रकाशयति तत्परम् ॥ 16 ॥
भा – ज्ञानमेवाज्ञाननाशकमित्याह – ज्ञानेनेति ॥ प्रथमज्ञानं परोक्षम् ॥ 16 ॥
प्र.दी. – ननु ज्ञानस्याज्ञाननाशकत्वमर्थप्रकाशकत्वं च प्रसिद्धमेव । तत्किमर्थमुच्यत इत्यत आह – ज्ञानमेवेति ॥ ``अज्ञानेनावृतं ज्ञानं" इत्युक्तम् । एवं तर्~हि तस्याविनाश एव स्यात् । तथा च न कदाचिद् ब्रह्मप्रकाशः । विनाशकान्तराङ्गीकारे च ज्ञानार्थयोः संन्यासयोगयोर्वैयर्थ्यमित्याशङ्क्य ज्ञानमेवाज्ञानस्य नाशकमतो नोक्तदोषः । किन्तु स्वरूपज्ञानमविद्ययाऽऽवृतम् । वृत्तिज्ञानं त्वविद्यां शिथिलयति ब्रह्म प्रकाशयति इत्येतद् अनेनाहेत्यर्थः ।
अत्र केचित् यथैक एवादित्योऽन्धकारं नाशयति भूमण्डलं च प्रकाशयति तथैकमेव ज्ञानमज्ञानं निवर्तयति परं च प्रकाशयतीति व्याचक्षते । तदसदिति भावेनाह – प्रथमेति ॥
तृतीयान्तपदोक्तम् । द्वितीयमपरोक्षमिति शेषः । अन्यथा द्विर्ज्ञानग्रहणं व्यर्थं स्यादिति भावः ॥ 16 ॥
तद् बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ 17 ॥
भा – अपरोक्षज्ञानाव्यवहितसाधनमाह – तद् बुद्धय इति ॥ 17 ॥
प्र.दी. – तद् बुद्धित्वादिकं यद्यपुनरावृत्तिसाधनत्वेनोच्यते तदाऽपरोक्षज्ञानादेव मोक्ष इति गतः पक्षः । अथ तद् बुद्धयो ज्ञाननिर्धूतकल्मषा इति ज्ञानसाधनत्वेन । तदसत् । ज्ञानेनेति परोक्षज्ञानस्यापरोक्षज्ञानसाधनत्वेनोक्तत्वादित्यत आह – अपरोक्षेति ॥ सत्यम् । परोक्षज्ञानमपरोक्षज्ञानस्य साधनम् । किन्तु व्यवहितम् । न हि श्रवणमननानन्तरमेवाऽपरोक्षज्ञानमुत्पद्यते । इदं चाव्यवहितसाधनमाहेत्यर्थः ॥ 17 ॥
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ 18 ॥
भा – परमेश्वरस्वरूपाणां सर्वत्र साम्यदर्शनं चापरोक्षज्ञानसाधनमित्याशयवानाह – विद्येति ॥ 18 ॥
प्र.दी. – ``विद्याविनय" इत्यादिना प्रकृतानुपयुक्तमयुक्तं च कथमुच्यत इत्यत आह – परमेश्वरेति ॥ सर्वत्र ब्राह्मणादिषु स्थितानाम् । सर्वत्र गुणेषु दोषाभावेषु वा । साम्यं तारतम्याभावः । तद् बुद्धित्वादिना सहास्य समुच्चयार्थश्चशब्दः । परमेश्वरविषयता ``निर्दोषं हि" इत्युत्तरवाक्यगम्या । अपरोक्षज्ञानसाधनता च प्रकरणगम्येत्यत ``आशयवान्" इत्युक्तम् । पण्डितशब्दस्तु परोक्षज्ञानवचनः । ``पाण्डित्यमागमज्ञानं" इति वचनात् ॥ 18 ॥
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ 19 ॥
भा – तदेव स्तौति – इहैवेति ॥ 19 ॥
प्र.दी. – ननूत्तरवाक्ये साम्यदर्शनं मुक्तिसाधनमेवोच्यते । तत्कथमुच्यतेऽपरोक्षज्ञानसाधनमिति । प्राक् ज्ञानिनोऽपि जन्मान्तरसद्भाव उक्तः । तत्कथमिहैवेति तद्देह एव मुक्तिरुक्तेत्यत आह – तदेवेति ॥ स्तुतावधिकोक्तिः सम्भवतीति भावः ॥ 19 ॥
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ 20 ॥
भा – संन्यासयोगज्ञानानि मिलित्वा प्रपञ्चयत्यध्यायशेषेण ॥ 20 ॥
प्र.दी. – अत्र कश्चिदाध्यायपरिसमाप्तेर्ज्ञानिनः कर्माभावः प्रतिपाद्यत इत्याह । अपरस्तु ज्ञानस्वरूपं तत्सहकारिसाधनं च प्रतिपाद्यत इति । तदुभयमसत् । अप्रतीतेरिति भावेनाध्यायशेषप्रतिपाद्यमाह – संन्यासेति ॥ मिलित्वा मेलयित्वा । शङ्कानुसारेणैव, नतु प्रकरणभेदेनेत्यर्थः । पुनरुक्तिपरिहारार्थं प्रपञ्चयतीत्युक्तम् । संन्यासस्यादौ ग्रहणेन ``न प्रहृष्येत्" इति संन्यासप्रपञ्चनमिति सूचितम् ॥ 20 ॥
बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्नुते ॥ 21 ॥
भा – पुनर्योगस्याधिक्यं स्पष्टयति – बाह्यस्पर्शेष्विति ॥ कामरहित आत्मनि यत्सुखं विन्दति स एव ब्रह्मयोगयुक्तात्मा चेत्तदेवाक्षयं सुखं विन्दति । ब्रह्मविषयो योगो ब्रह्मयोगः । ध्यानादियुक्तस्यैवात्मसुखमक्षयम् । अन्यथा नेत्यर्थः ॥ 21 ॥
प्र.दी. – प्रकृतस्य संन्यासिन एवाक्षयसुखप्राप्तिरुच्यत इति परव्याख्यानमसदिति भावेनाह – पुनरिति ॥ `संन्यासस्तु’ इत्यादिना प्रागुक्तत्वात्पुनरिति । आधिक्यं संन्यासात् । प्राग्योगाभावे संन्यासस्य वैयर्थ्यमुक्तम् । तदसत् । कामाद्युपद्रवक्षये स्वरूपसुखस्याविर्भावादित्याशङ्कानिराकरणात्स्पष्टनम् । नैतदत्र प्रतीयत इत्यतो व्याचष्टे – कामेति ॥ बाह्यस्पर्शेष्वसक्तात्मेत्यस्यार्थः – कामरहित इति ॥ आत्मस्वरूपस्यापि सुखस्य न निर्विशेषत्वमिति ज्ञापनाय ``आत्मनि" इत्युक्तम् । स एव कामरहित एव । तदेव आत्मसुखमेव । ब्रह्मणा योग इति प्रतीतिनिरासायाह – ब्रह्मेति ॥ कथमनेन संन्यासाद्योयस्याधिक्यं स्पष्टीकृतमित्यतो ब्रह्मयोगशब्दार्थं विवृण्वन् तात्पर्यमाह
– ध्यानादिति ॥ ज्ञानद्वारेति शेषः । अक्षयं पुनस्तिरोभावरहितम् । अन्यथा संन्यासमात्रेण । तिरोभावोपेतं त्वल्पत्वादफलमेवेत्युक्तमेव । व्याख्यानान्तरे तु बहूनां पदानां वैयर्थ्यमिति भावः ॥ 21 ॥
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ॥
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ 22 ॥
भा – संन्यासार्थं कामभोगं निन्दयति – ये हीति ॥
प्र.दी. – ननूत्तरश्लोके संन्यासादित्रितयान्तर्गतं न किञ्चिदुच्यत इत्यत आह – संन्यासार्थमिति ॥ निन्दयतीति स्वार्थे णिच् । संन्यासार्थिनेति वा ॥ 22 ॥
शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ 23 ॥
भा – तत्परित्यागं प्रशंसयति – शक्नोतीति ॥ कामक्रोधोद्भवं वेगं सोढुं शक्नोति । शरीरमोक्षणात् प्राक् । यथा मनुष्यदेहे सोढुं सुशकः तथा नान्यत्रेति भावः । ब्रह्मलोकादिषु जितकामानामेव भवति ॥ 23 ॥
प्र.दी. – उत्तरश्लोकमप्यन्तर्भावयितुमाह – तदिति ॥ कामभोगपरित्यागं संन्यासार्थमिति वर्तते । इहैव
शरीरमोक्षणात्प्रागिति प्रशंसायामनुपयुक्तमिति भावेन तद्विहायान्यद्योजयति – कामेति ॥ वेगं मनसोऽनवस्थानम् । एवं तर्~हि इहैव शरीरविमोक्षणात्प्रागिति किमर्थमुक्तमित्यतस्तदनूद्य तात्पर्यमाह – शरीरेति ॥ इहेवेत्यनुवादे ग्राह्यमस्मिन्नेव लोक इति । अत एवोक्तं मनुष्यशरीर इति । अतोऽत्रैव तत्सहनाय प्रयतितव्यमित्यभिप्रायशेषः । ननु ब्रह्मलोकादौ तत्सहनमत्यन्त सुशकम् । तत्कथमेवमुच्यत इत्यत आह – ब्रह्मेति ॥ तथाचान्योन्याश्रय इति भावः । अन्यत्रेति पश्वादिशरीरं व्युदस्तमिति हृदयम् । एतेनात्रवाक्यभेदः कार्य इति सूचितम् । शरीरविमोक्षणपर्यन्तं न सकृदिति कश्चित् । तदसत् । तथा सत्यशरीरविमोक्षणादिति स्यात् । इहैवेति च व्यर्थम् ॥ 23 ॥
योऽन्तः सुखोऽन्तरारामस्तथाऽंतर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ 24 ॥
भा – ज्ञानिलक्षणं प्रपञ्चयत्युत्तरैः श्लोकैः । आरामः परदर्शनादिनिमित्तं सुखम् । अत्र तु परमात्मदर्शनादिनिमित्तं तत् । सुखं तूपद्रवक्षये व्यक्तम् । अत्र तु कामादिक्षये व्यक्तमात्मनः सुखम् । स्वयं ज्योतिष्ट्वाद्भगवतः । तद्व्यक्तेरन्तर्ज्योतिः । सर्वेषामन्तर्ज्योतिष्ट्वेऽपि व्यक्तेर्विशेषः । असम्प्रज्ञातसमाधीनां बाह्यदर्शनात् । दर्शनेऽप्यकिञ्चित्करत्वादेव शब्दः । उक्तं चैतत् –
``दर्शनस्पर्शसम्भाषाद्यत्सुखं जायते नृणाम् । आरामः स तु विज्ञेयः सुखं कामक्षयोदितम्" इति नारदीये । `स्वज्योतिष्ट्वान्महाविष्णोरन्तर्ज्योतिस्तु तत्स्थितः" इति च । अन्तः
सुखत्वादेः कारणमाह ब्रह्मणि भूत इति ॥ 24 ॥
प्र.दी. – ननु योगिनो ब्रह्माधिगतिः प्रागुक्ता । तत्किं पुनरुच्यत इत्यत आह – ज्ञानीति ॥ द्वितीये कथितत्वात्प्रपञ्चयतीत्युक्तम् । यथा योगस्याधिक्यकथनं योगनिरूपणमेव । संन्यासार्थे निन्दास्तुती च संन्यासनिरूपणमेव । तथा ज्ञानिलक्षणकथनं च ज्ञानिनिरूपणमिति । आरामशब्दार्थं तावदाह – आराम इति ॥ इदानीमन्तरारामशब्दलब्धमर्थमाह – अत्र त्विति ॥ तत्सुखम् । एवं तर्~हि ``अन्तःसुख" इत्यनेनैव गतार्थमेतदित्याशङ्क्य सुखशब्दस्य तावदर्थभेदमाह – सुखन्त्विति ॥ व्यक्तमात्मसुखमिति सम्बन्धः । तर्~ह्यन्तःसुख इति कथमित्यतस्तल्लब्दार्थमाह – अत्र त्विति ॥ अनेनारामसुखशब्दार्थान्तर्गतयोः परोपद्रवक्षययोरन्तरित्येतद् सामर्थ्याद्विशेषणमित्युक्तं भवति । ज्योतिःशब्दार्थं तावदाह – स्वयमिति ॥ ज्योतिष्ट्वमिति शेषः । यद्यपि ज्योतिःशब्दः प्रकाशमात्रे प्रवर्तते । तथाऽपि भगवत एव परानपेक्ष्यप्रकाशत्वान्मुख्ये च सम्प्रत्ययात् स एव ज्योतिरित्यर्थः । इदानीमन्तर्ज्योतिश्शब्दार्थमाह – तद्व्यक्तेरिति ॥ तस्य भगवतोऽन्तर्~हृदये व्यक्तेरित्यर्थः । नन्वन्तर्ज्योतिर्यस्यासावन्तर्ज्योतिः । व्यक्तेरिति तु कथं लभ्यत इत्यत आह – सर्वेषामिति ॥ शब्दतः प्राप्तमन्तर्ज्योतिष्ट्वं सर्वसाधारणम् । अत्र तु ज्ञानिविशेषणत्वेनोच्यते । तत्सामर्थ्यादिदं लब्धमिति भावः । यद्वा तद्व्यक्तेरित्यध्याहारेण तात्पर्यमुक्तम् । अध्याहारस्येदानीं प्रयोजनमुच्यते । नन्वेवशब्दो यदि धर्मान्तरनिवृत्त्यर्थः तदान्तःसुखमित्यादि व्याहतम् । अथ वस्त्वन्तरदर्शननिवृत्त्यर्थः तदाऽसम्भवित्वमित्यत
आह – असम्प्रज्ञातेति ॥ बाह्यं भगवतोऽन्यत् । दर्शनेऽप्यन्यदेति शेषः । अकिञ्चित्कराद्विक्षेपकरणाभावादित्यर्थः । एव शब्दः सम्भवदर्थ इति शेषः । एतेन लक्ष्यमेवेदं कथं लक्षणत्वेनोच्यत इति परिहृतम् । व्यवच्छेदप्रधानत्वात् । एवशब्दस्य सामर्थ्याज्जयोतिषा सम्बन्ध इति । आरामसुखशब्दयोरुक्तार्थत्वं कुत इत्यत आह – उक्तं चेति ॥ न केवलं पुनरुक्तिबलादिति चार्थः । द्वन्द्वैकत्वादेकवचनम् । कामेत्युपद्रवोपलक्षणम् । उदितं व्यक्तम् । अन्तर्ज्योतिरित्यस्योक्तार्थत्वे प्रमाणमाह – स्वेति ॥ स स्थितो यस्मिन्निति तत्स्थितः । अन्तरेव ज्योतिर्दर्शनं यस्येत्येवं व्याख्यातम् । ब्रह्मैव भूत इत्यन्यथाप्रतीतिनिरासाय ब्रह्मभूतशब्दस्य विग्रहं दर्शयन् प्रकृतसङ्गतिमाह – अन्तरिति ॥ ब्रह्मणि भूत इत्येवं विग्रहो न तु ब्रह्मैव भूत इति । प्रमाणविरोधात् । ननु ब्रह्मणि भूतत्वं साधकधर्मः । तत्कथं ज्ञानिलक्षणत्वेनोच्यते । मैवम् । यतोऽन्तःसुखत्वादेः कारणत्वेनोच्यते । नन्वेवं सत्यर्थादिदं ज्ञानसाधनत्वेनोच्यते । तच्च `तद्बुद्धय’ इत्यनेनैवोक्तम् । सत्यम् । तद्बुद्धित्वादिकं ब्रह्मणि भूतत्वं यस्य कारणं तद्वानेवंलक्षणक इत्येवं सङ्गतिसूचनार्थोऽयमनुवाद इति भावः । एवं चाधिगच्छतीत्यस्य जानातीत्यर्थो ज्ञातव्यः ॥ 24 ॥
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधाऽऽयतात्मानः सर्वभूतहिते रताः ॥ 25 ॥
भा – पापक्षयाच्बैतद् भवतीत्याह – लभन्त इति ॥ क्षीणकल्मषा भूत्वा छिन्नद्वैधा यतात्मनः । द्वेधा भावो द्वैधम् । संशयो विपर्ययो वा । तच्चोक्तम् –
``विपर्ययः संशयो वा यद्दवैधं त्वकृतात्मनाम् । ज्ञानासिना तु तच्छित्वा मुक्तसङ्गः परिव्रजेत् ॥" इति च । छिन्नद्वैधास्त एवायतात्मानः । दीर्घमनसः । सर्वज्ञा इत्यर्थः । तत एव छिन्नद्वैधाः । तच्चोक्तम् – `क्षीणपापा महाज्ञाना जायन्ते गतसंशयाः’ इति । छिन्नद्वैधा यतात्मान इति वा ॥ 25 ॥
प्र.दी. – उत्तरश्लोके ज्ञानिनो ब्रह्मप्राप्तिः पुनः किमर्थमुच्यत इत्यत आह – पापेति ॥ ब्रह्मभूतत्वेन सहास्य समुच्चयार्थश्च शब्दः । एतदुक्तलक्षणं ज्ञानम् । अतो लभन्त इत्यस्योपलभन्त इत्यर्थः । कथं तर्~हि ज्ञानिलक्षणप्रपञ्चार्थत्वं श्लोकत्रयस्योक्तमिति । उच्यते । ज्ञानप्रतिबन्धकपापक्षयाख्यमसाधारणं कारणं कार्यस्य लक्षणं भवत्येवेति । अत्र कार्यकारणभावो न प्रतीयत इत्यत आह – क्षीणेति ॥ भवन्ति ततो ब्रह्मोपलभन्त इत्यर्थः । छिन्नद्वैधशब्दार्थं ज्ञापयन् द्वैधशब्दं व्याचष्टे – द्वैधेति ॥ विषयापेक्षयाऽन्यप्रकारत्वमयथार्थत्वमिति यावत् । तेन च तज्जञानमुपलक्ष्यत इति भावेनाह – संशय इति ॥ वाशब्दश्चार्थे । अत्रैव प्रमाणमाह – तच्चेति ॥ अकृतात्मनामशुद्धबुद्धीनाम् । छिन्नेत्यादेः समासत्वमभिप्रेत्य विग्रहमाह – छिन्नेति ॥ आयतशब्दस्यात्मशब्दस्य चानेकार्थत्वात् ``आयतात्मानः" इत्येतद् व्याचष्टे – दीर्घेति ॥ अणुनो मनसः कथं दीर्घत्वमित्यत आह – सर्वज्ञा इति ॥ बहुविषयत्वमुपलक्ष्यत इति भावः । श्रवणादिना विदितवेद्या इत्यर्थः । समासेनोक्तयोरप्यर्थयोर्बुद्ध्या विविक्तयोर्~हेतुहेतुमद्भावोऽस्तीति भावेनाह – तत एवेति ॥ आयतात्मत्वादेव । क्षीणकल्मषत्वायतात्मत्वच्छिन्नद्वैधत्वानां
हेतुहेतुमद्भावे प्रमाणमाह – तच्चेति ॥ व्यस्ते वा एते पदे इत्याह – छिन्नेति ॥ नियतमनस इत्यर्थः ॥25 ॥
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ 26 ॥
भा – सुलभं च तेषां ब्रह्मेत्याह – कामक्रोधेति ॥ अभितः
सर्वतः ॥ 26 ॥
प्र.दी. – यतीनां सर्वं ब्रह्मतयैव प्रतीयत इत्यन्यथाप्रतीतिनिरासायाह – सुलभं चेति ॥ न केवलमुक्तलक्षणा इति चार्थः । इदं च साधारणधर्मत्वाद् ज्ञानिलक्षणं भवत्येव । सौलभ्यवाचि किमप्यत्र न प्रतीयत इत्यतस्तदुपादाय व्याचष्टे – अभित इति ॥ सर्व देशकालेष्वित्यर्थः ॥ 26 ॥
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्बैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यान्तरचारिणौ ॥ 27 ॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ 28 ॥
भा – ध्यानप्रकारमाह – स्पर्शानित्यादिना ॥ बाह्यान् स्पर्शान्बहिः कृत्वा, श्रोत्रादीनि योगेन नियम्येत्यर्थः । चक्षुभ्रुवोरन्तरं कृत्वा भ्रुवोर्मध्यमवलोकयन्नित्यर्थः । उक्तं च – ``नासाग्रे वा भ्रुवोर्मध्ये ध्यानी चक्षुर्निधापयेत्" इति । प्राणापानौ समौ कृत्वा कुम्भके स्थित्वेत्यर्थः ॥ 27 ॥ 28 ॥
प्र.दी. – ध्यायिनां मुक्तत्वं साक्षाच्चेद् प्रमाणविरोधः । ज्ञानद्वारा चेत्पुनरुक्तिरित्यतः श्लोकद्वयतात्पर्यमाह – ध्यानेति ॥ ``मुक्त एव सः" इति स्तुतिरिति भावः । पदानां व्यवहितत्वादन्वयमाह – बाह्यानिति ॥ स्पृश्यन्त इति स्पर्शा शब्दाद्याः । स्पर्शा बाह्या एव । तेषां किं बहिष्करणमित्यत आह – श्रोत्रादीनीति ॥ योगेन प्रत्याहारेण श्रोत्रादीनामनियमे पट्वभ्यासादरप्रत्ययवशात् शब्दाद्या अन्तरा इव भवन्ति । तन्नियमे तु बाह्या बहिष्कृताः स्युरिति भावः । ``कृत्वा" इत्यस्यानुवृत्त्या योजयति – चक्षुरिति ॥ दुर्घटमेतदित्यत आह – भ्रुवोरिति ॥
चक्षुर्वृत्तौ चक्षुःशब्द इत्यर्थः । ``सम्प्रेक्ष्य नासिकाग्रं स्वं" इति वक्ष्यमाणविरोध इत्यत आह – उक्तं चेति ॥ न्यूनाधिकभावराहित्यं समीकरणमित्यन्यथाप्रतीतिनिरासायाऽनूद्य व्याचष्टे – प्राणेति ॥ कुम्भके प्राणायामे ततश्च समौ निर्विकारौ निश्चलावित्यर्थः । इतरत्समीकरणं कुम्भकार्यमेवेति भावः ॥ 27 ॥ 28 ॥
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ 29 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे कृष्णार्जुनसंवादे संन्यासयोगो नाम पञ्चमोऽध्यायः ॥ 5 ॥
भा – ध्येयमाह – भोक्तारमिति ॥ 29 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चमोऽध्यायः ॥ 5 ॥
प्र.दी. – भगवद् ज्ञानस्य शान्तिसाधनत्वं पुनः किमर्थमुच्यत इत्यत आह – ध्येयमिति ॥ ततश्च ``ज्ञात्वा" इत्यस्य ध्यात्वेत्यर्थः । शान्तिसाधनज्ञानत्वमपि भोक्तृत्वादिवत् ध्येयविशेषणमेवेति भावः ॥ 29 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां पञ्चमोऽध्यायः समाप्तः ॥ 5 ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशार्पणमस्तु श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः॥
********************************************************************************************************************************************
षष्ठोऽध्यायः
अथ श्री मद्भगवद्गीता षष्ठोऽध्यायः (पूर्ति)
गी –श्रीभगवानुवाच -
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1 ॥
भा – ॐ ॥ ज्ञानान्तरङ्गं समाधियोगमाहानेनाध्यायेन । विवक्षितं संन्यासमाह योगेन सह ॥ अनाश्रित इति ॥ चतुर्थाश्रमिणोऽप्यग्निः क्रिया चोक्ता दैवमेवेत्यादौ ।
``अग्निर्ब्रह्म च तत्पूजा क्रिया न्यासाश्रमे स्मृता" इति च । तस्मान्निरग्निरक्रियः संन्यासी योगी च न भवत्येव ॥ 1 ॥
प्र.दी. – हरिः ॐ ॥ सङ्गतिं सूचयन् एतदध्यायप्रतिपाद्यर्थमाह – ज्ञानान्तरङ्गमिति ॥ ``योगे त्विमां श्रुणु" इति प्रतिज्ञाय द्वितीयषट्के वक्ष्यमाणं भगवद् ज्ञानं प्रति कर्मयोगस्य बहिरङ्गत्वात् स प्राधान्येनातीते ग्रन्थे प्रतिपादितः । तत् साध्यत्वाज्जञानान्तरङ्गत्वाच्चावसरप्राप्तं समाधियोगमाहानेन षष्ठाध्यायेनेत्यर्थः । आसनादीनामङ्गानां वक्ष्यमाणत्वेऽपि तेषां समाध्यर्थत्वात् प्राधान्येन समाधियोगस्य ग्रहणम् । पञ्चमान्तोक्तस्य प्रपञ्चोऽयमित्यदोषः । गृहस्थस्यापि स्तुत्यर्थमुपचरितं संन्यासित्वं योगित्वं चाऽद्येन श्लोकेनोच्यत इति परकीयतात्पर्यकथनमसदिति भावेनाह – विवक्षितमिति ॥ समाधियोगं विधातुं तत्राधिकारिणं ज्ञापयिष्यन् साङ्ख्याद्यभिमततदधिकारिनिरासाय तद्विशेषणं प्राग्विवक्षितं कर्मादिवर्जनलक्षणं संन्यासमीश्वराराधनस्वकर्मानुष्ठानलक्षणेन योगेन सहाऽहेत्यर्थः । यदि हि संन्यासो यत्याश्रमोऽत्र विवक्षितः स्याद्योगश्च कश्चिद् गृहस्थासम्भवीस्यात्, तदोपचारेण तत् स्तुतिरियम् । न चैवमिति भावः ।
न केवलं निरग्निक्रियश्चतुर्थाश्रमिसंन्यासी योगी च किन्त्वनाश्रित इत्याद्युक्तो गृहस्थोऽपीति परकीयां योजनां निराकरोति – चतुर्थेति ॥ अत्रैव स्पष्टं वाक्यान्तरं पठति – अग्निरिति ॥ चस्त्वर्थः । अतो न परकीया योजना युक्तेति शेषः । तर्~हि कथमित्यत आह – तस्मादिति ॥ परकृतयोजनायाः निरस्तत्वात् । ननु निरग्नेरक्रियस्य चतुर्थाश्रमिणोऽपि संन्यासित्वाद् योगित्वाच्च कथं न निरग्निरित्याद्युक्तमित्यतो वाऽह – चतुर्थाश्रमिणोऽपीत्यादि ॥ न भवत्येवेति युक्तमिति शेषः । अनग्नित्वादिप्रवादश्च बाह्याग्न्याद्यभावनिबन्धन इति भावः ॥ 1 ॥
गी– यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ 2 ॥
भा – संन्यासोऽपि योगान्तर्भूत इत्याह – यं संन्यासमिति ॥ कामसङ्कल्पाद्यपरित्यागे कथमुपायवान् स्यादित्याशयः ॥ 1 ॥
प्र.दी. – ननु संन्यासयोगौ भिन्नलक्षणौ । तत्कथं तयोरैक्यमुच्यत इत्यत आह – संन्यासोऽपीति ॥ ``संन्यासी च योगी च" इत्युक्त्या प्राप्तात्यन्तभेदशङ्कानिवृत्त्यर्थमिति शेषः । अमुख्ययोगापेक्षया पृथगुक्तोऽपीत्यपेरर्थः । योगशब्देन मुख्योऽत्राभिहितः । अत एव वक्ष्यत्युपायवानिति । अन्तर्भूतत्वादैक्योक्तिरित्यर्थः । संन्यासस्य योगान्तर्भूतत्वमुपपाद्यते ``न हि" इति । तदसत् । सङ्कल्पत्यागमात्रस्यासंन्यासत्वात्, ईश्वराराधनाय स्वकर्मकरणमात्रं योगः, तस्य संन्यासाभावेऽप्युपपत्तेरित्यत आह – कामेति ॥ सङ्कल्पशब्दस्य कामाद्युपलक्षणत्वाद्योगशब्दस्य ज्ञानोपायरूपमुख्ययोगार्थत्वान्नानुपपत्तिरिति भावः ॥ 2 ॥
गी – अरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3 ॥
भा – कियत्कालं कर्म कर्तव्यमित्यत आह – आरुरुक्षोर्मुनेरिति ॥ योगमारुरुक्षोरुपायसम्पूर्तिमिच्छोः । योगमारूढस्य सम्पूर्णोपायस्य । अपरोक्षज्ञानिन इत्यर्थः । कारणं परमसुखकारणम् । अपरोक्षज्ञानिनोऽपि समाध्यादिफलमुक्तम् । तस्य सर्वोपशमन समाधिरेव कारणं प्राधान्येनेत्यर्थः । तथाऽपि तदा भोक्तव्योपरमः तदैव सम्यगसम्प्रज्ञातसमाधिर्जायते । अन्यदा तु भगवच्चरितादौ स्थितिः । तच्चोक्तम् –
``ये त्वां पश्यन्ति भगवस्त एव सुखिनः परम् ।
तेषामेव तु सम्यक्च समाधिर्जायते नृणाम् ॥
भोक्तव्यकर्मण्यक्षीणे जपेन कथयाऽपि वा ।
वर्तयन्ति महात्मानः तद्भक्ताः तत्परायणाः " इति ।
प्र.दी. – नन्वेवं समाधियोगस्याधिकारिणि निरूपिते तं प्रति समाधिरभिधेयः । ``आरुरुक्षो" इत्यादि किमर्थमुच्यत इत्यत आह – कियदिति ॥ समाधियोगाधिकारत्वेनोक्तं कर्म किं सकृदनुष्ठेयम् । उताऽफलप्राप्तेरिति प्रश्नार्थः । ननु योगो नाम नाश्वादिरिवारोढव्यः । तत्कथमुच्यते ``योगमारुरुक्षोः", ``योगमारूढस्य" इति । तत्राऽह – योगमिति ॥ उपरिभवनसादृश्यादुपचार इत्यर्थः । उपायः समाधिरेव । समाधेः फलपरिमाणाद्यवच्छेदाभावात् कीदृशी सम्पूर्णता इत्यत आह – अपरोक्षेति ॥ साधनस्य हि पूर्णता साध्याय पर्याप्तत्वम् । अतो यावताऽपरोक्षज्ञानं सम्पद्यते तावत्त्वं सम्पूर्णत्वमिति भावः । ननु योगमारुरुक्षोः कर्म कारणम् । सन्निधानाद्योगारोहस्येति लभ्यते । कारणत्वाच्च तत्पर्यन्तं कर्तव्यमिति । कार्यापेक्षया नियतपूर्वभावित्वात् कारणस्य । योगारूढस्य तु शमः किं प्रति कारणम् । ज्ञानस्य तत एव सिद्धेरित्यत आह – कारणमिति ॥ परमसुखं मुक्तिगतम् ।
नन्वयं प्रश्नो ``यदा ते मोहकलिलं" इति परिहृतः । मैवम् । तत्र ज्ञानार्थिनोऽत्र तु योगारोहार्थिन इति भेदात् । तयोश्च साध्यसाधनयोः पृथक्त्वात् । अपरोक्षज्ञानिन इति चानतिविप्रकर्षेणोक्तत्वात् । तथोक्तमैहिकमप्रस्तुतप्रतिबन्ध इति । अथवा योगारूढस्यापि कर्तव्यं वक्तुं प्रश्नोत्तरानुवादोऽयमिति ।
नन्वपरोक्षज्ञानिनोऽनाधेयातिशयस्य कथं शमः परमसुखकारणमुच्यत इत्यत आह – अपरोक्षेति ॥ उक्तं समर्थितं द्वितीये । समाध्यादीत्यनेन शमशब्दार्थः समाधिरिति सूचितम् । तत्किं तस्यान्यत् कर्तव्यमेव नास्तीत्यत आह – तस्येति ॥ सर्वोपशमेन सर्वविषयोपरतिलक्षणेनेति समाधौ शमशब्दं समर्थयितुमुक्तम् । कारणं सुखाभिवृद्धेः । तदविरोधेनान्यत् कार्यमिति भावः । यदि ज्ञानिनः समाधिरानन्दवृद्धेः कारणं तर्~हि तमेव कुतो न कुर्युः । कुतश्च व्याख्यानादौ प्रवर्तन्त इत्यत आह – तथाऽपीति ॥ भोक्तव्योपरमः प्रतिबन्धकप्रारब्धकर्मोपरमः । अन्यदा सम्यक् समाधिप्रतिबन्धककर्मानुपरमकाले । अत्राऽगमसम्मतिमाह – तच्चेति ॥ परं केवलम् । तेषामेव सम्यगेव समाधिश्च जायत इति योजना । वर्तयन्ति वर्तन्ते कालं नयन्तीति वा ॥ 3 ॥
गी – यदि हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ 4 ॥
भा – योगरूढस्य लक्षणमाह – यदेति ॥ सम्यगननुषङ्गस्तस्यैव भवति । उक्तं च
``स्वतो दोषलयो दृष्ट्वा त्वितरेषां प्रयत्नतः" इति ॥ 4 ॥
प्र.दी. – स्फुटमपि तात्पर्यं मन्दानुजिघृक्षयाऽऽह – योगेति ॥ अपरोक्षज्ञानं तु योगारोहस्य कार्यं सति प्रतिबन्धे विलम्बत इति न लक्षणम् । नन्विदं साधकेऽपि विद्यते । ``वशे हि यस्येन्द्रियाणि" इत्यादेः । अतोऽतिव्यापकमित्यत आह – सम्यगिति ॥ प्रयत्नं विनेत्यर्थः । तस्यैव योगारूढस्यैव । अत्र प्रमाणमाह – उक्तं चेति ॥ परमात्मानं दृष्ट्वा त्वाप्यत इति शेषः । मुख्य एव चाननुषङ्गोऽत्र विवक्षित इति भावः ॥ 4 ॥
गी – उद्धरेदात्मनाऽऽत्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ 5 ॥
भा – स च योगारूढः प्रयत्नेन कर्तव्य इत्याह – उद्धरेदित्यादिना ॥ 5 ॥
प्र.दी. – नन्वेवं विध्युपयुक्तमुक्त्वा समाधियोगे विधेये किमर्थमात्मोद्धारकर्तव्यतोच्यत इत्यतोऽनया वाचोभङ्ग्या योग एव विधीयत इत्याह – स चेति ॥ यस्याधिकार्यादिकमुक्तं स एव च योग इति वक्तव्ये यदारोहग्रहणं कृतं तत् तावत्पर्यन्तं योगः कर्तव्यः । न मध्य एव त्याज्य इति ज्ञापनार्थम् । प्रयत्नेनाभियोगेन ॥ 5 ॥
गी – बन्धुरात्माऽऽत्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6 ॥
भा – कस्य बन्धुरात्मेत्याह – बन्धुरात्मेति ॥ आत्मा मनः । आत्मनो जीवस्य । आत्मना मनसा । आत्मानं जीवम् । आत्मैव मनः । आत्मना बुद्ध्या, जीवेनैव वा । सहि बुद्ध्या विजयति । उक्तं च – ``मनः परं कारणमामनन्ति"। ``मन एव मनुष्याणां कारणं बन्धमोक्षयोः", ``उद्धरेन्मनसा जीवं न जीवमवसादयेत् । जीवस्य बन्धु शत्रुश् च मन एव न संशयः", ``जीवेन बुद्ध्या हि यदा मनो जितं तदा बन्धुः शत्रुरन्यत्र चास्य । ततो जयेद् बुद्धिबलो नरस्तद्देवे च भक्त्या मधुकैटभारौ ॥" इत्यादि ब्रह्मवैवर्ते । अनात्मनः अजितात्मनः पुरुषस्य, अजितमनस्कस्य । सदपि मनोऽनुपकारीत्यनात्मा । सन्नपि भृत्यो न तस्य भृत्यपदे वर्तते स ह्यभृत्यः । तस्यात्मन एव शत्रुवच्छत्रुत्वे वर्तते ॥ 6 ॥
प्र.दी. –``आत्मैव हि" इत्युक्तमेवोत्तरश्लोके किमिति कथ्यत इति मन्दाशङ्कानिरासार्थमाह – कस्येति ॥ ``किं विशेषणश्च" इत्यपि ग्राह्यम् । तस्यैव तमेव प्रति बन्धुत्वं रिपुत्वं च विरुद्धम् । तद्विशेषणभेदेन व्यवस्थाप्यम् । तथा च किं विशेषणस्यात्मनः किं विशेषणो वाऽत्मा बन्धू रिपुश्चेत्यर्थः । इति पृच्छायामिति शेषः । ``आत्मा", ``आत्मनः" इति पदद्वयमात्मशब्दस्यानेकार्थत्वाद् व्याचष्टे – आत्मेति ॥ नन्वाद्यश्लोके स्वपर्याय एवात्मशब्दः प्रकृतः । तदुपपादकद्वितीये कथमन्योऽर्थ इत्यत आह – आत्मनेति ॥ अनयैव रीत्याऽद्यश्लोकोत्तरार्धगतात्मशब्दव्याख्यानं द्रष्टव्यम् । ``येनात्मैवात्मना जितः" इत्यत्रात्मशब्दौ व्याचष्टे – आत्मैवेति ॥ एवशब्दोपादानं व्याख्येयविवेकार्थम् । ``जीवेनैव" इत्यवधारणं प्राधान्यज्ञापनार्थम् । यदाऽऽत्मशब्दो जीवे तदा कर्तरि तृतीया । यदा बुद्धौ तदा करण ज्ञापयन्नुपपादयति – स हीति ॥ विजयति विजयते मन इति शेषः । स्वेनैवेत्यादिव्याख्याननिरासार्थमुक्तेऽर्थे प्रमाणान्याह – उक्तं चेति ॥ `अनात्मन’ इति नञX समासो बहुव्रीहिर्वा स्यात् । नाद्यः । आत्मनः आत्माऽन्यत्वानुपपत्तेः । आत्मान्तरादन्यत्वस्य च प्रकृतेऽनुपयोगात् । न द्वितीयः । आत्मशब्दस्य जीववाचित्वे वा मनोवाचित्वे वा संसारिणि तदभावस्यासम्भवादित्यत आह – अनात्मन इति ॥ बहुव्रीहिपरिग्रहसूचनाय ``पुरुषस्य" इत्यन्यपदार्थो दर्शितः । अनात्मशब्दार्थं दर्शयितुमाह – अजितेति ॥ ननु अविद्यमान आत्मा यस्यासावनात्मा । तत्कथमुच्यतेऽजितात्मन इति । तत्राह – सदपीति ॥ विद्यमानमपि मनो अजितमनुपकारीति अविद्यमानसादृश्यात् अविद्यमानतामुपचर्य अजितात्मा अनात्मोक्त इत्यर्थः । गौणप्रयोगे किं प्रयोजनमिति चेन्न, रूढोपचारे प्रयोजनानपेक्षणादिति भावेनाह – सन्नपीति ॥ भृत्यपदे सेवादौ । पदानां व्यवहितानाम् ``अनात्म" इत्यर्थं व्याचष्टे – तस्येति ॥ तस्याजितमनस्कस्य । बन्धुरेवेत्येवार्थः । शत्रुवत् प्रसिद्धशत्रुरिव । शत्रुत्वेऽपकारित्वे ॥ 6 ॥
गी– जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ 7 ॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ 8 ॥
भा – जितात्मनः फलमाह – जितात्मन इति ॥ जितात्मा हि प्रशान्तो भवति । न तस्य मनः प्रायो विषयेषु गच्छति । तदा च परमात्मा सम्यगाहितः । हृदि सन्निहितो भवति, अपरोक्षज्ञानी भवतीत्यर्थः । अपरोक्षज्ञानिनो लक्षणं स्पष्टयति – शीतोष्णेत्यादिना ॥ शीतोष्णादिषु कूटस्थः । `ज्ञानविज्ञानतृप्तात्मा’, `विजितेन्द्रियः’ इति कूटस्थत्वे हेतुः । विज्ञानं विशेषज्ञानम् । अपरोक्षज्ञानं वा । तच्चोक्तम् –
``सामान्यैर्ये त्वविज्ञेया विशेषा मम गोचराः ।
देवादीनां तु तज्जञानं विज्ञानमिति कीर्तितम् ॥" इति ।
``श्रवणान्मननाच्बैव यद् ज्ञानमुपजायते ।
तद् ज्ञानं दर्शनं विष्णोर्विज्ञानं शम्भुरब्रवीत् ।
विज्ञानं ज्ञानमङ्गादेर्विशिष्टं दर्शनं तथा ॥" इत्यादि । कूटस्थो निर्विकारः । कूटवत् स्थित इति व्युत्पत्तेः । कूटं आकाशः ।
`कूटं खं विदलं व्योम सन्धिराकाश उच्यते’ इत्यभिधानात् । योगी योगं कुर्वन् । युक्तो योगसम्पूर्णः । एवम्भूतो योगानुष्ठाता योगसम्पूर्ण उच्यत इत्यर्थः ॥ 7 ॥ 8 ॥
प्र.दी. – योगो विहितः । तत्किं `जितात्मनः’ इत्यनेनोच्यत आह – जितात्मन इति ॥ उपकारी बन्धुरुच्यते । तत्र जितं मनः कमुपकारं करोति । येन बन्धुः स्यात् । आत्मोद्धारं करोतीति चेत् । स एव च क इत्याशङ्क्येति शेषः । जितात्मनः फले वक्तव्ये ``प्रशान्तस्य" इत्यनुवादः किमर्थमित्यत आह – जितात्मा हीति ॥ वाक्यभेदेनेदमेव फलमकथनमिति भावः । ननु जितात्मत्वमेव प्रशान्तत्वम् । तत्कथं तत्फलं स्यादित्यत आह – नेति ॥ तस्य जितात्मनः स्वत एवेति शेषः । तर्~हि निराकाङ्क्षत्वादुत्तरं वाक्यं व्यर्थमित्यतः परमफलं दर्शयितुं तदिति भावेन निराकाङ्क्षत्वादुत्तरं वाक्यं व्यर्थमित्यत परमफलं दर्शयितुं तदिति भावेन न्यूनमध्याहारेण पूरयन् व्याचष्टे – तदा चेति ॥ प्रशान्तत्वे सति परमात्मा सर्वेषां हृदि सन्निहित एव । तत्कुतः प्रशान्तस्य विशेष इत्यतः सम्यक्पदसूचितार्थं विवृणोति – अपरोक्षेति ॥ योगारूढ इत्यर्थः । यदा हीति योगारूढस्य लक्षणमुक्तम् । तत्किमर्थं पुनरुच्यत इत्यत आह – अपरोक्षेति ॥ सार्धश्लोकद्वयग्रहणायादिपदम् । अत्र सप्तम्या अन्वयो न दृश्यते । अत आह – शीतेति ॥
अत्र भास्करोऽन्वयमपश्यन् परमात्मा समाहित इति सम्प्रदायगतं पाठं विसृज्य `परमात्मसमा मतिः’ इति पाठान्तरं प्रकल्प्य समा मतिरिति त्वावृत्त्या सप्तम्या अन्वयमुक्त्वा पूर्वपाठेऽन्वयाभाव इत्यवादीत् । तदनेनापहस्तितं भवति । कृत्रिमेऽपि पाठे सुहृदित्यादिकं आत्मौपम्येनेत्यादिकं च पुनरुक्तं स्यात् ।
ननु यः शीतोष्णादिषु कूटस्थः तस्य ज्ञानविज्ञानतृप्तमनस्त्वं विजितेन्द्रियत्वं चार्थात् सिद्धमेव । तत्किमर्थं पुनरुच्यत इत्यत आह – ज्ञानेति ॥ प्रत्येकमन्वयादेकवचनम् । ननु शिल्पादिविषया बुद्धिर्विज्ञानम् । `मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः’ इत्यभिधानात् । तत्कथं विज्ञानेन तृप्तात्माऽयं स्यादित्यत आह – विज्ञानमिति ॥ अनेन सामान्यज्ञानं परोक्षज्ञानं वा ज्ञानमिति सूचितम् । कुत एतदित्यत आह – तच्चेति ॥ प्रसिद्धाभिधानार्थोऽप्यङ्गीक्रियत इति चशब्दः । सामान्यैः साधारणैः पुरुषैः । सामान्यविषयं तु ज्ञानमित्यपि द्रष्टव्यम् । तदेव ज्ञानमिति सम्बन्धः । अङ्गादेः व्याकरणादेः । शिल्पस्य च विशिष्टं दर्शनं वैष्णवशास्त्रम् । कूटस्थशब्दो नित्यादिपर्यायः । तेन कथमन्वयः सप्तम्या इत्यत आह – कूटस्थ इति ॥ तत्कथमित्यत आह – कूटवदिति ॥ `सुप्तिस्थ’ इति वचनात् कूटशब्दोऽनृतवाद्यादिवाची । तत्परिग्रहे निर्विकारत्वं न लभ्यत इत्यत आह – कूटमिति ॥ एतैः शब्दैराकाश उच्यत इत्यर्थः । ``युक्तो", ``योगी" इति पुनरुक्तिरिति मन्दाशङ्कानिरासार्थमाह – योगीति ॥ इनेरस्त्यर्थत्वात् कुर्वन्नित्युक्तम् । निष्ठाया भूतार्थत्वात् ``सम्पूर्ण" इति । वक्ष्यमाणान्वयापेक्षया क्रमोल्लङ्घनम् । तर्~हि विरुद्धार्थयोः कथं सामानाधिकरण्यमित्यत आह – एवम्भूत इति ॥ धातुसम्बन्धे प्रत्यया इति ह्युक्तम् ॥ 7 ॥ 8 ॥
गी – सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ॥
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 9 ॥
भा – स एव स सर्वस्माद्विशिष्यते, साधुपापादिषु समबुद्धिः । जीवचितः परमात्मनः सर्वस्य तन्निमित्तकत्वस्य च सर्वत्रैकरूप्येण । चिद्रूपा एव हि जीवाः । विशेषस्त्वन्तःकरणकृतः । सर्वेषां साधुत्वादिकं सर्वमीश्वरकृतमेव । स्वतो न किञ्चिदपि । उक्तं चैतत् सर्वम् –
``स्वतः सर्वेऽपि चिद्रूपाः सर्वदोषविवर्जिताः ।
जीवास्तेषां तु ये दोषास्त उपाधिकृता मताः ।
सर्वं चेश्वरतस्तेषां न किञ्चित् स्वत एव तु ।
समां एवं ह्यतः सर्वे वैषम्यं भ्रान्तिसम्भवम् ।
एवं समानजीवास्तु विशेषो देवतादिषु ।
स्वाभाविकस्तु नियमादत एव सनातनाः ।
असुरादेस्तथा दोषा नित्याः स्वाभाविका अपि ।
गुणदोषौ मानवानां नित्यौ स्वाभाविकौ मतौ ।
गुणैकमात्ररूपास्तु देवा एव सदा मताः ॥" इति ब्राह्मे ।
प्र.दी. – मध्ये लक्ष्यस्योक्तत्वात् ``सुहृत्" इत्यादिकं न योगारूढलक्षणमिति प्रतीतिनिरासायाह – स एवेति ॥ साधुपापादिषु समबुद्धिश्च स योगारूढ एवेति न, किन्तु सर्वस्मादयोगिवर्गाद्विशिष्यत इत्येतद्वक्तुं पृथगन्वय इति भावः । साधुत्वं धर्मित्वम् । पापत्वं पापवत्त्वं च नियतं, नतु सुहृत्त्वादिवदव्यवस्थितमित्यतः ``सुहृदादिषु" इत्यनुक्त्वा ``साधुपापादिषु" इत्युक्तम् । समबुद्धित्वं नाम पूजादिसाम्यमित्यन्यथाप्रतीतिनिरासायाह – जीवचित इति ॥ ``एष चेतनया युक्तो जीव इत्यभिधीयत" इति चेतनाचेतनपिण्डे जीवशब्दप्रयोगात् `चित’ इत्युक्तम् । सुहृदादिचैतन्यस्य तथा सर्वत्र सुहृदादिषु स्थितस्य परमात्मनः । एवं सर्वत्र सुहृदादिषु स्थितस्य सुहृत्त्वादेः परमात्मनिमित्तकत्वस्य चैकरूपेण कारणेन तद्दर्शी समबुद्धिरित्यर्थः । तत्राऽद्यं प्रकारं विवृणोति – चिद्रूपा एवेति ॥ मनुष्येषु यदेकं एकं प्रति सुहृदित्यादि तन्न जीवस्वभावान्तर्गतम् । किन्तु चिद्रूपत्वादिकमेवेत्यर्थः । तर्~हि सुहृत्वादिधर्मः किमात्मक इत्यत आह – विशेषस्त्विति ॥ अन्तःकरणयोपादानको बाह्यधर्मः । एतदुक्तं भवति । मुक्ताववशिष्यमाणं यज्जीवरूपं तत् ``त्रिविधाः जीवसङ्घाः" इत्यादि प्रमाणात् विषममेव । किन्तु देहेन्द्रियान्तःकरणधर्मैः यद्वैषम्यं तत्तत्स्वरूप एवारोप्य विषमबुद्धित्वं योगारूढस्य नास्तीति । द्वितीयः प्रकारः स्फुटः । तृतीयं विवृणोति – सर्वेषामिति ॥ स्वतः स्वातन्त्र्येण । अत्र प्रमाणमाह – उक्तं चेति ॥ स्वतः स्वरूपेण । दोषैररित्वादिभिः । एवं सुहृत्त्वादिगुणैरित्यपि ग्राह्यम् । आगन्तुकधर्मा न स्वरूपान्तर्गता इत्यर्थः । किं तर्~हीत्यत आह – तेषां त्विति ॥ दोषाः गुणाश्च उपाधिरन्तःकरणादि सर्वं सुहृत्त्वादिकम् । अत एव प्रकारद्वयेन यदनात्मधर्मानात्मस्वन्तर्भाव्य वैषम्यं यच्च क्वचित् परमेश्वरानधीनरूपत्वं तद् भ्रान्तिप्रतीतम् । योगे प्रवर्तमानं प्रति यत्सृहृत्त्वादिकं तन्मनुष्येष्वेव स्वरूपवैषम्यकारणं न भवति । न तु देवादिषु इत्युक्तस्यापवादमाह – एवमिति ॥ तुशब्दोऽवधारणे । अवधारणार्थं विवृणोति – विशेष इति ॥ विशेषो योगिनं प्रति सुहृत्त्वादिः । तदेव प्रपञ्चयति – असुरादेरिति ॥ तथाशब्दो वक्ष्यमाणसमुच्चये । दोषा योगिनं प्रत्यरित्वाद्याः । तथा चोक्तम् –``विद्ध्येनमिह वैरिणं" इति । गुणदोषौ सुहृत्त्वारित्वादी अनागन्तुकौ । गुणैः सुहृत्त्वादिभिरेकमात्रं गुणैकमात्रम् । तथा च श्रुतिः `यथा ह वै बहवः पशवः’ इत्यादिका ॥
भा – न तु साधुपापादीनां पूजादिसाम्यम् । तत्र दोषस्मृतेः ।
``समानां विषमा पूजा विषमानां समा तथा ।
क्रियते येन देवोऽपि स्वपदात् भ्रश्यते पुमान् ॥" इति ब्राह्मे ।
``वित्तं बन्धुर्वयः कर्म विद्या चैव तु पञ्चमी ।
एतानि मान्यस्थानानि गरीयो ह्युत्तरोत्तरम् ॥" इति मानवे ।
``गुणानुसारिणीं पूजां समां दृष्टिं च यो नरः ।
सर्वभूतेषु कुरुते तस्य विष्णुः प्रसीदति ।
वैषम्यमुत्तमत्वं तु ददाति नरसञ्चयात् ।
पूजाया विषमा दृष्टिः समा साम्यं विदुःखजम् ॥" इति ब्रह्मवैवर्ते । सुहृदादिषु शास्त्रोक्तपूजादिकृतिः अन्यूनानधिका या सापि सम्मता । तदप्याहुः –
``यथा सुहृत्सु कर्तव्यं पितृशत्रुसुतेषु च ।
तथा करोति पूजादि समबुद्धिः स उच्यते ॥" इति गारुडे ।
प्र.दी. – ``सुहृत्" इत्यादि श्लोकेन प्रतितार्थ एवार्थः किं न स्यादित्यत आह – न त्विति ॥ सर्वशब्दपर्यायस्य समशब्दस्यैव सर्वनामसञ्ज्ञा । न साधारणार्थस्य ``समे देशे यजति" इति यथा । न केवलं समपूजायां दोषः । किन्तु विषमपूजाविधानं चास्तीत्याह – वित्तमिति ॥ बन्धुरिति बन्धुत्वं मान्यानि च तानि स्थानानि च । वित्तादिशब्दैः तद्वन्त उपलक्ष्यन्ते । दृष्टिरेवोक्तप्रकारत्रयेण समा कार्या, पूजा तु विषमैवेत्यत्र प्रमाणान्तरमाह – गुणेति ॥ या विषमा पूजा सा वैषम्यम् । तस्यैव व्याख्यानमुत्तमत्त्वम् । साम्यं ददाति । विदुःखत्वनिमित्तम् । समबुद्धित्वं प्रकारान्तरेण व्याचष्टे – सुहृदादिष्विति ॥ एतन्न योगारूढविषयमिति तत्रैव नोक्तम् । न हि योगारूढो लौकिकेष्वरिष्वपकारं करोति । करोति यः ।
भा – प्रत्युपकारनिरपेक्षयोपकारकृत् सुहृत् । क्लेशस्थानं निरूप्यं यो रक्षां करोति स मित्रम् । अरिर्वधादिकर्ता । कर्तव्ये उपकारे अपकारे च य उदास्ते स उदासीनः । कर्तव्यमुभयमपि यः करोति स मध्यमः । अवासितकृत् द्वेष्यः । आह चैतत् –
``द्वेष्योऽवासितकृत् कार्यमात्रकारी तु मध्यमः ।
प्रियकृत् प्रियो निरूप्याऽपि क्लेशं य परिरक्षति ।
स मित्रमुपकारं तु अनपेक्ष्योपकारकृत् ।
यस्ततः स सुहृत् प्रोक्तः शत्रुश्चापि वधादिति ॥ 9 ॥
प्र.दी. – सुहृन्मित्रशब्दयोः, अरिद्वेष्यशब्दयोः, उदासीनमध्यस्थशब्दयोश्चार्थभेदो न प्रतीयते । अत आह – प्रत्युपकारेति ॥ निरपेक्षयाऽनपेक्षया । अवासितमप्रियम् । ततः उपक्रियमाणात् ॥ 9 ॥
गी – योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 10 ॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥ 11 ॥
भा – समाधियोगप्रकारमाह – योगी युञ्जीत इत्यादिना ॥ समाधियोगयुक्तं कुर्यात् । आत्मानं मनः ॥ 10 ॥ 11 ॥
प्र.दी. – ननु ``उद्धरेत्" इत्यनेनैव योगो विहितः । तत्किं पुनर्विधीयत इत्यत आह – समाधीति ॥ प्रकारकथनाय विध्यनुवाद इत्यर्थः । `युञ्जीत’ इति योगमात्रमुच्यते । तत्कथं समाधीत्युक्तमित्यत आह – युञ्जीतेति ॥ सामान्यशब्दोऽपि प्रकरणाद्विशेषेऽवतिष्ठत इत्यर्थः । आत्मशब्दस्यात्र विवक्षितमर्थमाह – आत्मानमिति ॥ 10 ॥ 11 ॥
गी – तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ 12 ॥
समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयत् ॥ 13 ॥
प्रशान्तात्मा विगतभीर्ब्रह्मचारीव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 14 ॥
भा – योगं समाधियोगं युञ्जात् ॥ 12 ॥ 13 ॥ 14 ॥
प्र.दी. – `उपविश्यासने’ इत्यत्रापि योगशब्द एवमेव व्याख्येय इत्याह – योगमिति ॥ स्थानविवेकार्थं युञ्ज्यादित्युक्तम् । कुर्यादिति यावत् ॥ 12 ॥ 13 ॥ 14 ॥
गी– युञ्जन्नेव सदाऽऽत्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 15 ॥
भा – निर्वाणपरमां शरीरत्यागोत्तरकालीनाम् ॥ 15 ॥
प्र.दी. – ननु शान्तिः निर्वाणमिति मोक्षपर्यायौ । तत्कथं शान्तेर्निर्वाणपरमत्वमित्यत आह – निर्वाणेति ॥ उपशान्तेर्योगकारणत्वाद्योगफलत्वमनुपपन्नम् ॥ 15 ॥
गी– नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ 16 ॥
भा – अनशनादिनिषेधोऽशक्तस्य । उक्तं हि –
``निद्राशनभयश्वासचेष्टातन्द्रादि वर्जनम् ।
कृत्वाऽऽनिमीलिताक्षस्तु शक्तो ध्यायन् प्रसीदति ॥" इति नारदीये ॥ 16 ॥
प्र.दी.– ``न चैकान्तमनश्नतः" ``जाग्रतो नैव च" इति युञ्जानस्यानशनजागरणनिषेधः क्रियते । स सर्वविषय इति प्रतीतिनिरासायार्थमाह – अनशनादीति ॥ कुत इत्यतः शक्तस्य तद् विधानादित्याह – उक्तं हीति ॥ आनिमीलिताक्ष ईषन्निमीलिताक्षः । शक्तस्त्विति सम्बन्धः ॥ 16 ॥
गी – युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखदा ॥ 17 ॥
भा – युक्ताहारविहारस्य सोपायाहारादेः । यावता श्रमाद्यभावो भगवति तावदाहारादेरित्यर्थः ॥ 17 ॥
प्र.दी. – आहारादीनां केन युक्तत्वमित्यत आह – युक्तेति ॥ उपायः समाधिः । समाधिर्~हि धात्वर्थः । तद्वत्ता च प्रत्ययार्थः । अत सोपायेत्युक्तम् । आहारादेः सोपायत्वं नाम कीदृशमित्यत आह – यावतेति ॥ आदिपदेनेन्द्रियोत्सेकाऽलस्यादेः सङ्ग्रहः । उपायेन साहित्यं नाम तदविरोधित्वम् । तच्बैवम्भूतमित्यर्थः ॥ 17 ॥
गी – यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 18 ॥
भा – आत्मनि भगवति ॥ 18 ॥
प्र.दी. – ``आत्मन्येवावतिष्ठते" इत्यत्र स्वस्मिन्नेवेति प्रतीतिनिरासायाह – आत्मनीति ॥ अन्यथा ``ज्ञात्वा मां" इत्यादिविरोधः ॥ 18 ॥
गी – यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ 19 ॥
भा – आत्मनो भगवद्विषयं योगम् ॥ 19 ॥
प्र.दी. – ``युञ्जतो योगमात्मनः" इत्यत्राऽत्मशब्दस्य षष्ठ्याश्च विवक्षितमर्थमाह – आत्मन इति ॥ योगिन आत्मन इत्यन्वयनिरासाय योगमित्युक्तम् । अन्यथा वैयर्थ्यात् ॥ 19 ॥
गी – यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
यत्र चैवात्मनाऽऽत्मानं पश्यन्नात्मनि तुष्यति ॥ 20 ॥
भा – आत्मना मनसा । आत्मनि देहे । आत्मानं भगवन्तं पश्यन् ॥ 20 ॥
प्र.दी. – ``यत्र चैवाऽत्मना" इत्यत्र पदत्रयं व्याख्याति – आत्मनेति ॥ अन्वयापेक्षया व्युत्क्रमः । पश्यन्निति स्थानविवेकार्थमुक्तम् ॥ 20 ॥
गी – सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 21 ॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणाऽपि विचाल्यते ॥ 22 ॥
भा – तत्वतो भगवद्रूपात् ॥ 21 ॥ 22 ॥
प्र.दी. – तत्वतः तद्भावात् ब्रह्मत्वादिति प्रमाणविरुद्धं व्यावर्तयितुमाह – तत्वत इति ॥ 21 ॥ 22 ॥
गी – तं विद्याद् दुःखसंयोगवियोगं योगसञ्ज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्ण चेतसा ॥ 23 ॥
भा – दुःखसंयोगो येन वियुज्यते स दुःखसंयोगवियोगः । न केवलमुत्पन्नं दुःखं नाशयति । उत्पत्तिमेव निवारयतीति दर्शयति – संयोगशब्देन । निश्चयेन योक्तव्यः योक्तव्य एव बुभूषुणेत्यर्थः ॥ 23 ॥
प्र.दी.– ननु दुःखसम्बन्धस्य वियोग ध्वंसः । स कथं योगः स्यादित्यत आह – दुःखेति ॥ करणेऽपि घञः स्मरणात् । एवं तर्~हि दुःखवियोगमित्यत वक्तव्यम् । किं संयोगशब्देनेत्यत आह – न केवलमिति ॥ वियोगशब्दो निवारणे वर्तत इति भावः । एतच्च पदाधिक्यादेव लभ्यते । नान्यथा । ननु ``स निश्चयेन योक्तव्यः" इति पुनर्विधानं किमर्थम् । निश्चयेनेत्यादिविशेषविधानार्थमिति चेन्न । महाफले सन्देहात् प्रवृत्त्यभावेन ``निश्चयेन" इत्यस्य वैयर्थ्यादित्यत आह – निश्चयेनेति ॥ अयोगव्यवच्छेदे निश्चयशब्द इत्यर्थः । कुत्रायोगो व्यवच्छिद्यत इत्यत उक्तम् – बुभूषुणेति ॥ मुमुक्षुणेत्यर्थः ॥ 23 ॥
गी – सङ्कल्पप्रभावान् कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 24 ॥
भा – सर्वान् सर्वविषयान् । अशेषतः एकैकविषयोऽपि कामः स्वल्पः कादाचित्कोऽपि न कर्तव्य इत्यर्थः । मनसैव नियन्तुं शक्यते नान्येनेत्येवशब्दः ॥ 24 ॥
प्र.दी. – `सर्वान्’, `अशेषतः’ इत्येतयोस्तात्पर्यमाह – सर्वानिति ॥ कामः स्वल्पः कादाचित्कोऽपीति मूलपाठः । नन्विन्द्रियग्रामनियमनमेवावश्यकम् । नतु करणनियमः । कथमुच्यते `मनसैवेन्द्रियग्रामं’ इति । तत्राह – मनसैवेति ॥ स्वरूपकथनमेतदिति भावः । इति ज्ञापयितुमिति शेषः ॥ 24 ॥
गी – शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 25 ॥
भा – बुद्धेः कारणत्वं मनोनिग्रहे । आत्मरमणे च ॥ 25 ॥
प्र.दी. – ``शनैः शनैरुपरमेद् बुद्ध्या" इति बुद्धेरपीन्द्रियग्रामनियमने कारणत्वस्य वक्ष्यमाणत्वात् कथमेतदित्यत आह – बुद्धेरिति ॥ अनेनोपरमेदित्यस्यार्थद्वयमुक्तं भवति ॥ 25 ॥
गी – यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ 26 ॥
भा – यतो यतो यत्र यत्र । ``यतो यतो धावति" इत्यादि प्रयोगात् । आत्मन्येव वशं नयेत् । आत्मविषय एव वशीकुर्यादित्यर्थः ॥ 26 ॥
प्र.दी. – यतो यतः श्रोत्रादेरिति प्रतीतिनिरासायाह – यत इति ॥ शब्दादावित्यर्थः । कुतः सप्तम्यर्थे तसिर्लभ्यत इत्यत आह – यत इति ॥ तथाचोक्तं ``आद्यादिभ्य उपसङ्ख्यानं" इति । अन्यथा द्वारमात्रनियमे स्मरणस्य को निवारयिता । षष्ठ्या ह्यत्र भाव्यं, सप्तमी तु कथमित्यत आह – आत्मनीति ॥ 26 ॥
गी – प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ 27 ॥
युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ 28 ॥
भा – पूर्वश्लोकोक्तं प्रपञ्चयति – एवं युञ्जन्निति ॥ 27 ॥ 28 ॥
प्र.दी. – ``प्रशान्तमनसं" इत्युक्तमेव पुनः कस्मादुच्यत इत्यत आह – पूर्वेति ॥ 27 ॥28 ॥
गी – सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्ष्यते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 29 ॥
भा – ध्येयमाह – सर्वभूतस्थमिति ॥ सर्वभूतस्थमात्मानं परमेश्वरम् । सर्वभूतानि चाऽत्मनि परमेश्वरे तं च परमेश्वरं ब्रह्मतृणादौ ऐश्वर्यादिना साम्येन पश्यति । तच्चोक्तम् –
``आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।
अपश्यत् सर्वभूतानि भगवत्यपि चाऽत्मनि ॥" इति । ``समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं" इति च ॥ 29 ॥
प्र.दी. – ``एवं युञ्जन्" इति योगप्रकरणस्य फलकथनेनोपसंहृतत्वात् किमुत्तरेणेत्यत आह – ध्येयमिति ॥ ननु ``मच्चित्तो युक्तः" इत्यादिना ध्येयमुक्तमेव । सत्यम् । तथाऽप्युत्तमाधिकारिणां ध्येयमनेनोच्यत इत्यदोषः । आत्मानं स्वात्मानमित्यादिप्रतीतिपराकरणार्थमाह – सर्वेति ॥ कुतोऽयमर्थ इत्यतः पुराणसमाख्यानादित्याह – तच्चेति ॥ `सर्वत्र समदर्शनः’ इत्यस्योक्तार्थतां गीतासम्मत्योपपादयति – सममिति ॥ 29 ॥
गी – यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ 30 ॥
भा – फलमाह – यो मामिति ॥ तस्याहं न प्रणश्यामीति सर्वदा योगक्षेमवहः स्यामित्यर्थः । स च मे न प्रणश्यति, सर्वदा मद्भक्तो भवति । सत्यपि स्वामिन्यरक्षत्यनाथः । एवं भृत्येऽप्यभजत्यभृत्य इति हि प्रसिद्धिः । उक्तं च ``सर्वदा सर्वभूतेषु समं मां यः प्रपश्यति । अचला तस्य भक्तिस्सयात् योगक्षेमं वहाम्यहम् " इति गारुडे ॥ 30 ॥
प्र.दी. – किञ्चैतदर्थानुवादेन फलप्रतिपादकमुत्तरवाक्यमप्यस्य भगवद्विषयत्वं ज्ञापयतीति भावेनाह – फलमिति ॥ अस्य ध्यानविषयस्येति शेषः । ननु भगवान् तद्ध्यायी च सर्वान् प्रति नित्यौ । तत्कथमेतदित्यत आह – तस्येति ॥ कथमयमर्थो लभ्यत इत्यत आह – सत्यपीति ॥ अविद्यमानभृत्योऽयमिति भृत्ये प्रसिद्धिः । एवं सत्यपि भृत्ये अभजति अविद्यमानोभृत्योऽयमिति स्वामिनि प्रसिद्धिः । एतदुक्तं भवति । विद्यमानस्यापि स्वयोग्यव्यापाराकरणसादृश्यादुपचारेणाविद्यमानता । प्रकृते तु तथात्वाभावान्न प्रणश्यामीत्यादि । रूढोपचारश्चायम् । अतो न प्रयोजनान्वेषणमिति । अत्र पुराणसम्मतिमाह – उक्तं चेति ॥ 30 ॥
गी – सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 31 ॥
भा – एतदेव स्पष्टयति – सर्वभूतस्थितमिति ॥ एकत्वमास्थितः सर्वत्र एक एवेश्वर इति स्थितः । सर्वप्रकारेण वर्तमानोऽपि मय्येव वर्तते । एवमपरोक्षं पश्यतो ज्ञानफलं नियतमित्यर्थः । तथाऽपि प्रायो नाधर्मं करोति । कुर्वतस्तु महच्चेद्दुःखसूचकं भवतीत्युक्तं पुरस्तात् । आह च –
``कदाचिदपि नाधर्मे बुद्धिर्विष्णुदृशां भवेत् ।
प्रमादात्तु कृतं पापं स्वल्पं भस्मीभविष्यति ।
आदिराजैः तथा देवै ऋ#240;षिभिः क्रियते कियत् ।
बाहुल्यात् कर्मणस्तेषां दुःखसूचकमेव तत् ॥" इति ॥ 31 ॥
प्र.दी. – ``यो माम्" इत्युक्तमेव पुनः किमर्थमुच्यत इत्यत आह – एतदेवेति ॥ एकत्वमास्थित इत्यस्यान्यथाप्रतीतिनिरासार्थमर्थमाह – एकत्वमिति ॥ मयि वा मद्विकारे वा वर्तमानोऽपीत्यपव्याख्याननिरासार्थमाह – सर्वेति ॥ न्यायेन वाऽन्यायेन वेत्यर्थः । अपव्याख्याने थाल् प्रत्ययो न युक्त इति भावः । भगवन्तं भजतोऽधर्माचरणं सर्वथाऽप्यकिञ्चित्करमिति प्रतीति निरासायाह – एवमिति ॥ अधर्माचरणेऽपीति शेषः । ज्ञानफलं मोक्षः । आनन्दह्रासादिकं तु विद्यत एवेति भावः । ननु ज्ञानिनो मोक्ष एवापेक्षितः । सोऽधर्माचरणेऽपि न प्रतिबध्यते इति चेत् तत्किमधर्मं करोतीत्यत आह – तथाऽपीति ॥ सर्वथाऽप्यकरणे ``सर्वथा वर्तमानोऽपि" इत्युक्तमयुक्तमित्यत उक्तम् – प्राय इति ॥ एतेन न हीदृशस्य यथेष्टचेष्टता सम्भवतीत परकीयमस्मद् व्याख्यानदूषणमपि निरस्तं भवति । प्रारब्धवशेन कदाचित्तथाभावदर्शनात् । कुतो न करोतीत्यत आह – कुर्वतस्त्विति ॥ अत्र प्रमाणमाह – आह चेति ॥ कियन्महदिति शेषः । कर्मणः प्रारब्धस्यबाहुल्यात् प्राबल्यात् । लोके प्रवृत्तिकर्मणो बाहुल्येन चित्तविक्षेपादिति वा ॥ 31 ॥
गी – आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ 32 ॥
भा – साम्यं प्रकारान्तरेण व्याचष्टे – आत्मौपम्येनेति ॥ 32 ॥
प्र.दी. – ``सर्वत्र समदर्शनः" इत्यस्यान्यथाव्याख्यानमितोऽप्यसदिति भावेनाह – साम्यमिति ॥ साम्यदर्शनम् । ``समदर्शनः" इत्युक्ते किं गो गवयादिवत् भवति साम्यदर्शनमित्याकाङ्क्षायां ``एकत्वमास्थितः" इति स्वयमेव व्याख्यातम् । इदानीं तु भगवदनुवर्तिविषयतयाऽपि व्याचष्ट इत्यर्थः ॥ 32 ॥
गी – अर्जुन उवाच –
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ॥ 33 ॥
भा – एतस्य योगस्य स्थिरां स्थितिं न पश्यामि । मनसः चञ्चलत्वात् ॥ 33 ॥
प्र.दी. – साम्यस्य योगस्य च प्रकृतत्वात् `एतस्य’ इति कस्य परामर्श इति न ज्ञायते । अतः तत्प्रदर्शनाय व्यवहितानां पदानामन्वयमाह – एतस्येति ॥ योगस्य प्राधान्येन साम्यस्य तु तृतीययाऽप्राधान्येन प्रकृतत्वादिति भावः । ``चञ्चलत्वात्" इत्यस्यान्यो धर्मी न प्रतीयते । अतो योग एव सम्बध्यते । तथाच साध्याविशिष्टतेत्यत आह – मनस इति ॥ एतच्चोत्तरवाक्यादवगम्यत इति भावः ॥ 33 ॥
गी – चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 34 ॥
श्रीभगवानुवाच -
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ 35 ॥
भा – उक्तं च - ``मनसश्चञ्चलत्वाद्धि स्थितिर्योगस्य वै स्थिरा । विनाऽभ्यासान्न शक्या स्यात् वैराग्याद्वा न संशयः " इति व्यासयोगे ॥ 34 ॥ 35 ॥
प्र.दी. – अत्राऽगमं चाऽह – उक्तं चेति ॥ एतेन ``असंशयं" इति परिहारवाक्यमपि व्याख्यातम् ॥ 34 ॥ 35 ॥
गी – असंयतात्मना योगो दुष्प्राप्य इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ 36 ॥
भा – नच कदाचित् स्वयमेव मनो नियम्यते । ``शुभेच्छारहितानां च द्वेषिणां च रमापतौ । नास्तिकानां च वै पुंसां सदा मुक्तिर्न युज्यते" इति निषेधात् ब्राह्मे ॥ 36 ॥
प्र.दी.– ``असंयत" इति श्लोको व्यर्थ इव प्रतीयते । तन्निवर्त्यामाशङ्कां सूचयन् तात्पर्यमाह – नचेति ॥ यथा मत्तमातङ्गः स्वयमेव श्रान्तः शान्तो भवति तथा विषयैः तृप्तं मनः कदाचित् स्वयमेव नियतं भवति । किमभ्यासादिना इत्येतद् नैवेत्यर्थः । कुत इत्यत आह – शुभेति ॥ सदेति पूर्वेण सम्बन्धः । अनेनात्र शुभेच्छादिकमप्युपलक्षितमिति सूचितम् । मुक्तिबीजत्वादात्मनोनियमस्य मुक्तिरित्युक्तम् ॥ 36 ॥
गी – अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ 37 ॥
कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 38 ॥
एतन्मे संशयं कृष्ण छेत्तुमर्~हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 39 ॥
श्रीभगवानुवाच –
पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ 40 ॥
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ 41 ॥
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ 42 ॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ 43 ॥
भा – अयतिरप्रयत्नः ॥ 37-43 ॥
प्र.दी. – अचतुर्थाश्रमीति प्रतीतिनिरासायाह – अयतिरिति ॥ 37-43 ॥
गी – पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 44 ॥
भा – योगस्य जिज्ञासुरपि, ज्ञातव्यो मया योग इति यस्यातीवेच्छा सोऽपि शब्दब्रह्मातिवर्तते । परं ब्रह्म प्राप्नोतीत्यर्थः ॥ 44 ॥
प्र.दी।. – उप्रत्ययप्रयोगे ``न लोकाव्यय" इति षष्ठीनिषेधाद्योगस्य स्वरूपमित्यध्याहृत्य कश्चिद्व्याख्यातवान् । स श्रमो वृथैव । ``नञानिर्दिष्टमनित्यं" इत्यस्यानित्यत्वात् । अतः कात्यायनः ``द्विषयः शतुर्वा वचनं" इत्याद्यवोचदित्यभिप्रेत्याह – योगस्येति ॥ ``ब्रह्मजिज्ञासा" इत्यादाविव विचारार्थताशङ्कानिरासाय व्याचष्टे – ज्ञातव्य इति ॥ `अतीव’ इत्युप्रत्ययस्यार्थः । ``सनाशंसभिक्ष उः" इति तच्छीलादौ तस्य विहितत्वात् । इच्छाऽर्थे बाधकाभावादिति भावः । ``शब्दब्रह्मातिवर्तते" इत्येतद् वेदोक्तकर्मकारिभ्योऽतिरिच्यत इति कश्चिद् व्याचष्टे । तदसत् । ``ततो याति परां गतिं" इत्यस्यार्थस्य परामर्शादिति भावेनाह – शब्देति ॥ शब्दब्रह्मशब्देन वैदिकविधिनिषेधावत्रोच्यते । तदतिवर्तनं परब्रह्मप्राप्तस्यैवेत्यत एवमुक्तम् ॥ 44 ॥
गी – प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ 45 ॥
भा – नैकजन्मनीत्याह – प्रयत्नादिति ॥ जिज्ञासुर्ज्ञात्वा प्रयत्नं करोति । एवमनेकजन्मभिः संसिद्धोऽपरोक्षज्ञानी भूत्वा परां गतिं याति । आह च –
``अतीव श्रद्धया युक्तो जिज्ञासुर्विष्णुतत्परः ।
ज्ञात्वा ध्यात्वा तथा दृष्ट्वा जन्मभिर्बहुभिः पुमान् ।
विशेन्नारायणं देवं नान्यथा तु कथञ्चन " इति नारदीये ॥ 45 ॥
प्र.दी. – योगजिज्ञासामात्रेण परब्रह्मप्राप्तिश्चेद् योगानुष्ठानवैयर्थ्यं स्यादित्यत एतदेवाशङ्क्य भगवतैवोत्तरं दत्तमित्याह – नैकेति ॥ न योगजिज्ञासामात्रेणेत्यभिप्रायः । अत्र योगजिज्ञासोरपरामर्शात् कथं तद्विषयमेतदित्यतोऽध्याहारेण व्याचष्टे – जिज्ञासुरिति ॥ ज्ञात्वा योगमिति शेषः । यतनानन्तरमनेकजन्मसंसिद्ध इत्यन्यथाप्रतीतिनिरसायाह – एवमिति ॥ योगे सम्पूर्णे संसिद्धेर्विलम्बे कारणाभावादिति भावः । व्याख्यातार्थे पुराणसम्मतिमाह – आह चेति ॥ 45 ॥
गी – तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ 46 ॥
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ 47 ॥
॥ओं तत्सदिति श्रीमद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अभ्यासयोगोनाम षष्ठोऽध्यायः ॥
भा – ज्ञानिभ्यो योगज्ञानिभ्यः । तपस्विभ्यः कृच्छ्रादिचारिभ्यः । उक्तं च
``कृच्छ्रादेरपि यज्ञादेर्ध्यानयोगो विशिष्यते ।
तत्रापि शेषश्रीब्रह्मशिवादिध्यानतो हरेः ।
ध्यानं कोटिगुणं प्रोक्तमधिकं वा मुमुक्षुणाम् " इति गारुडे ।
`अज्ञात्वा ध्यायिनो ध्यानाद् ज्ञानमेव विशिष्यते ।
ज्ञात्वा ध्यानं ज्ञानमात्रात् ध्यानादपि तु दर्शनम् ।
दर्शनादपि भक्तेश्च न किञ्चित् साधनाधिकम् " इति च नारदीये ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये षष्ठोऽध्यायः ॥ 6 ॥
प्र.दी. – ननु ज्ञानं योगस्य फलम् । तत्कथं ज्ञानिभ्योऽप्यधिको मत इत्यत आह – ज्ञानिभ्यो । यद्यपि ``ज्ञानतपसा पूता" इति ज्ञानमपि तपः । तथापि तदतिरिक्तमेवात्र विवक्षितमित्याह – तपस्विभ्य इति ॥ ब्रह्मज्ञानादाधिक्यस्यासम्भवाद्योगज्ञानाधिक्यस्य पृथगुक्तत्वादिति भावः । अत एव पूर्वं तद् व्याख्यातम् । उक्तार्थमुपपादयन् श्लोकद्वयार्थं पुराणवाक्येनाऽह – उक्तं चेति ॥ मुमुक्षूणाम् । एतेन सर्वेषामपि योगिनां मध्ये यो मां भजते स युक्ततरो मतः । तत्रापि मद्गतेनान्तरात्मना यो भजते स युक्ततमो मत इति व्याख्यानं भवति । ``ज्ञानिभ्योऽपि मतोऽधिकः" इत्येतद्योगज्ञानविषयमेव, न तत् ब्रह्मज्ञानविषयमित्येतत् पुराणवाक्येन स्थापयति – अज्ञात्वेति ॥ योगमिति शेषः । साधनाधिकं साधनेष्वधिकम् ॥ 46 ॥ 47 ॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां षष्ठोऽध्यायः समाप्तः ॥ 6 ॥
॥श्रीवादिराजगुर्वन्तर्गत अश्विनीहयग्रीवात्मकमध्वेशाभिन्नकृष्णार्पणमस्तु ॥
********************************************************************************************
सप्तमोध्यायः
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः
॥अथ सप्तमोध्यायः ॥
गी - श्रीभगवानुवाच–
मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छ्रुणु ॥ 1
॥
भा – हरिः ॐ ॥ साधनं प्राधान्येनोक्तमतीतैरध्यायैः । उत्तरैस्तु षड्भिर्भगवन्माहात्म्यं प्राधान्येनाऽह । आसक्तमनाः अतीव स्नेहयुक्तमनाः । मदाश्रयः भगवानेव सर्वं मया कारयति । स एव मे शरणम् । तस्मिन्नेवाहं स्थित इति स्थितः । ``
असंशयं", ``
समग्रं" इति क्रियाविशेषणम् ॥ 1
॥
प्र.दी. – ज्ञानसाधनादन्यदुत्तराध्याय प्रतिपाद्यं वक्तुं ``
योगे त्विमां श्रुणु" इति प्रतिज्ञातमसमाप्य कथमर्थान्तरमुच्यत इत्याशङ्कां तावत्परिहरति – साधनमिति ॥ ज्ञानस्येति शेषः । तत्र तत्र भगवन्महिम्नोऽपि वर्णितत्वेन प्राधान्येनेत्युक्तम् । प्राचुर्येणेत्यर्थः । उक्तमित्यनेन प्रतिज्ञातसमाप्तिं सूचयति । तच्च प्रतिज्ञान्तरकरणादवगम्यते । इदानीमुत्तरग्रन्थप्रतिपाद्यमाह – उत्तरैस्त्विति ॥ अध्यायैरिति वर्तते । अनेन ज्ञानविज्ञानशब्दौ ज्ञेयभगवन्माहात्म्यपराविति सूचितम् । अत्रापि क्वचित्साधनस्योक्तत्वाद् प्राधान्येनेत्युक्तम् । सङ्गतिस्तु प्रथमश्लोक एवोक्ता । अनेन द्विविधेन योगेन यद् ज्ञातव्यं तच्छ्रुणु इत्युक्तत्वात् । आसक्तमनाः सम्बद्धमना इति प्रतीतिनिरासायाह – आसक्तेति ॥ `
अतीव’
इत्या~
घोऽर्थः । सम्बन्धमात्रस्य योगानङ्गत्वादिति भावः । भगवदाश्रयत्वं सर्वसाधारणं कथं योगिनो विशेषणमित्यत आह – मदाश्रय इति ॥ शरणं रक्षकः । इति स्थित इति जानन्निति यावत् । असंशयं समग्रमित्युभयं भगवद्विशेषणत्वेन भास्करो व्याख्यातवान् ``
संशयरहितं समग्रं कृत्स्नं मां" इति । अपरस्तु समग्रमित्येव ``
समग्र समस्तविभूतिबलशक्त्यैश्वर्यादिगुणसम्पन्नं मां संशयमन्तरेण" इति । तन्निरासार्थमाह – असंशयमिति ॥ तव समग्रं यथा भवति तथेत्यर्थः । नहि भगवतः संशयराहित्यमिदानीं वक्तव्यम् । नच भगवान् समग्रोऽन्येन केनचिद् शक्यो ज्ञातुम् । `
स्वयमेवाऽत्मनाऽऽत्मानं वेत्थ त्वं’
इति वक्ष्यमाणत्वादिति भावः ॥ 1
॥
गी -ज्ञानं तऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यद् ज्ञात्वा नेह भूयोऽन्यज्जञातव्यमवशिष्यते ॥ 2
॥
भा – इदं मद्विषयं ज्ञानम् । विज्ञानं विशेषज्ञानम् ॥ 2
॥
प्र.दी. – ननु ज्ञानं वक्ष्यते । न तूक्तम् । तत्कथमिदमिति परामर्श इत्यत आह – इदमिति ॥ `
मां’
इति स्वस्य प्रकृतत्वात्तत्सम्बन्धित्वेन ज्ञानमपि प्रकृतमिति भावः । `
सविज्ञानं स्वानुभवसंयुक्तं’
इत्येतद् अपाकर्तुं विज्ञानपदार्थमाह – विज्ञानमिति ॥ अस्यैव वक्ष्यमाणत्वात् । अपरस्य तदभावादिति भावः ॥ 2
॥
गी- मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ 3
॥
भा – दौर्लभ्यं ज्ञानस्याह – मनुष्याणामिति ॥ 3
॥
प्र.दी. – ननु ज्ञानादिवचनं प्रतिज्ञाय यत्किञ्चिद् कथमुच्यत इत्यत आह – दौर्लभ्यमिति ॥ श्रोतुरादरजननार्थमिति शेषः । ज्ञानस्य दौर्लभ्ये विज्ञानस्य तत्सुतराम् ॥ 3
॥
गी -भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ 4
॥
भा – प्रतिज्ञातं ज्ञानमाह – भूमिरित्यादिना । महतोऽहङ्कार एवान्तर्भावः ॥ 4
॥
प्र.दी. – `
मनुष्याणां'
इविवदुत्तरमप्यन्यार्थमिति प्रतीतिनिरासार्थं प्रतिज्ञातयोरुभयोः किमादावुच्यत इत्यपेक्षायाञ्चाह – प्रतिज्ञातमिति ॥ असङ्गतिपरिहारायानन्यार्थताज्ञापनाय च ज्ञानस्य प्राथम्ये हेतुसूचनाय च प्रतिज्ञातमित्युक्तम् । प्रतिज्ञातत्वेन सङ्गतं प्रतिज्ञातमेव । नतु तदर्थं प्राथम्येन प्रतिज्ञातम् । `
रसोऽहं'
इत्यतः प्राक्तनग्रन्थसङ्ग्रहायाऽदिपदम् । महत्तत्वमत्र नोपात्तम् । तत्किं नास्त्येवेत्यत आह – महत इति ॥ अहङ्कारे अहङ्कारशब्दार्थेऽन्तर्भावः । कार्यवाचिनाऽहङ्कारशब्देन कारणस्य महतोऽप्युपलक्षणमेव । न त्वभाव इत्यर्थः ॥ 4
॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ 5
॥
भा – अपराऽनुत्तमा । वक्ष्यमाणमपेक्ष्य । जीवभूता श्रीः । जीवानां प्राणधारिणी । चिद्रूपभूता सर्वदा सती । ``
एतन्महद्भूतं" इति श्रुतेः । जगाद च –
``
प्रकृती द्वे तु देवस्य जडा चैवाजडा तथा ।
अव्यक्ताख्या जडा सा च सृष्ट्या भिन्नाऽष्टधा पुनः ।
महान् बुद्धिर्मनश्बैव पञ्चभूतानि चेति ह ।
अवरा सा जडा श्रीश्च परेयं धार्यते तया ।
चिद्रूपा सा त्वनन्ता च अनादिनिधना परा ।
यत् समं तु प्रियं किञ्चिन्नास्ति विष्णोर्महात्मनः ।
नारायणस्य महिषी माता सा ब्रह्मणोऽपि हि ।
ताभ्यामिदं जगत्सर्वं हरिः सृजति भूतराट्" इति नारदीये ॥ 5
॥
प्र.दी .– अपरशब्दस्यानेकार्थत्वाद् विवक्षितमर्थमाह – अपरेति ॥ अनुत्तमत्वस्य सापेक्षत्वात् किमपेक्षयेत्यत आह – वक्ष्यमाणामिति ॥ सन्निधानादिति भावः । ``
जीवलक्षणां जीवत्वं प्राप्तां" इति व्याख्याननिरासार्थमाह – जीवभूतेति ॥कथं सा जीवभूतेत्यत आह – जीवानामिति ॥ ``
प्राणधारिणी" इत्येवोक्ते स्वप्राणधारिणीति प्रतीतिः स्यात् । तन्निरासार्थमुक्तं जीवानामिति ॥ सर्वजीवदेहेषु स्थित्वातदीयान्प्राणान् तत्र धारयतीत्यर्थः । स्वप्राणधारिणी कुतो न स्यादित्यत आह – चिद्रूपेति ॥ ज्ञानात्मकविग्रहवती । यद्वा जीवप्राणधारण इत्यतो जीवशब्दस्य यौगिकार्थमुक्त्वा गौणीं वृत्तिमाश्रित्यार्थान्तरमनेनोक्तम् । भूतशब्दस्य सर्वदा सत्यवाचित्वे प्रयोगं दर्शयति – एतदिति ॥ प्रकृतिमपेक्ष्य श्रियः परत्वोपादानदार्थमेतत् । ``
भूमिः" इत्यादेरभिमतमर्थं पुराणवाक्येन स्थापयति – जगाद चेति ॥ देवस्यैव । सृज्यत इति सृष्टिः कार्यम् । कार्यरूपेणेत्यर्थः । अनेन भूम्यादिशब्दैः पञ्चतन्मात्राण्येवोच्यन्ते । न स्थूलानि भूतानि । मन इति तत्कारणमहङ्कारः । बुद्धिरिति महत्तत्वम् । अहङ्कार इत्यविद्यासहितमव्यक्तम् । ``
भिन्ना प्रकृतिरष्टधा" इति वचनादिति व्याख्यानं निरस्तम् । ``
कार्यरूपेणाष्टधा भिन्ना" इति व्याख्यानसम्भवेन प्रसिद्धार्थपरित्यागायोगात् । महत्यहङ्कारस्यान्तर्भाव इत्येवेति सम्बन्धः । `
जडा'
इत्यवरत्वोपपादनम् । ``
श्रीः परा" इत्यस्योपपादनं ``
इयं धार्यते तया" इत्यादि । अनन्ता देशतः गुणतश्च । परा मुख्या । अनादिनिधना न त्वव्यक्तवद् विक्रियावती ॥ 5
॥
गी – एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ 6
॥
भा – न केवलं ते जगत्प्रकृती मद्वशे इत्येतावन्महदैश्वर्यमित्याह – अहमिति ॥ प्रभवादेः सत्ताप्रतीत्यादेः कारणत्वात् तद्भोक्तृत्वाच्च प्रभव इत्यादि । तथा च श्रुतिः — ``
सर्वकामः सर्वकर्मा सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः " इति । आह च –
``
स्रष्टा पाता च संहर्ता नियन्ता च प्रकाशिता ।
यतः सर्वस्य तेनाहं सवोऽस्मीत्यृषिभिः स्तुतः ।
सुखरूपस्य भोक्तृत्वान्न तु सर्वस्वरूपतः ।
आगमिष्यत्सुखं चापि तच्चास्त्येव सदाऽपि तु ।
तथाप्यचिन्त्यशक्तित्वाज्जातं सुखमतीव च " इति नारदीये ॥ 6
॥
प्र.दी – नन्वत्रापरपरनिरूपणपूर्वकं भगवतो यत्परत्वं वक्तुमभिप्रेतं तत्र शरीरेन्द्रियविषयलक्षणाख्यकार्यस्य जीवानां च तयोरेवान्तर्भाव इति दर्शयितुं ``
एतद्योनीनि" इत्युक्तम् । इदानीमहं परतर इति वक्तव्यम् । इदन्तु किमर्थमुच्यत इत्यत आह – न केवलमिति ॥ पूर्वं वाक्यभेदेन प्रकृत्योरवरत्वं,
परत्वं, `
मे'
इति स्ववशत्वं चोक्त्वा ``
ययेदं धार्यते जगत्", `
एतद्योनीनि'
इति जगदाधारत्वकारणत्वे कथिते । तत्र प्रकृती एव भगवद्वशे,
जगज्जन्मस्थितिलयास्तु प्रकृत्यधीना एव,
न भगवदधीना इति प्रतीतम् । तन्निरासार्थमेतदित्यर्थः । जगत्प्रति ममैश्वर्यमित्येतावत्प्रकृतिद्वारकमुपचरितमिति यावत् । प्रकृत्योः कारणत्वादिकं मदायत्तमिति भावः । जगद्धर्मयोः प्रभवप्रलययोः साक्षाद् भगवदैक्यमुच्यत इति प्रतीतिनिरासार्थमाह – प्रभवादेरिति ॥ यथा पुत्रादिप्रभवो रिपुप्रलयश्चोपलब्धः सुखहेतुरित्युपलब्धुः पित्रादेः तद्भोक्तृत्वं तथा तद्भोक्तृत्वात् । भगवतः सर्वभोक्तृत्वं कुत इत्यत आह – तथा चेति ॥ `
सर्वकामः'
इत्यादेः द्विरुक्तत्वादेकं भोगविषयमिति ज्ञायते । काम्यन्त इति कामा द्रव्याणि । गन्धरसशब्दौ गुणान्तरस्याप्युपलक्षकौ । सर्वमिदमभि अभितः । आत्तो धृतः स्थित इत्यर्थः । न विद्यते वाक्यमनुग्रहमन्तरेण यस्यासाववाक्यः । न विद्यते आदरः आश्चर्यबुद्धिः यस्यासौ नादरः । अवाक्यश्चासौ नादरश्चेति अवाक्यनादरः । कारणत्वादिनैवैक्यव्यपदेश इत्येतद् कुत इत्यत आह – आह चेति ॥ सुखरूपस्य सुखकारणस्य । ननु `
स्रष्टा पाता'
इत्यादिकमयुक्तम् । कादाचित्कक्रियाऽवेशे विकारित्वप्रसङ्गात् । भोगेन यद्भाव्यं सुखं तस्य पूर्वमभावेनापूर्णत्वप्रसङ्गाच्चेत्यत आह – आगमिष्यदिति ॥ यद्भोगेनागमिष्यत्सुखं तच्च सदाऽप्यस्त्येव क्रियाश्च शक्तिरूपेण चेति चार्थः । तर्~
हि कथं `
भोगेन जातं'
इत्युच्यत इति भावेन पृच्छति – अपि त्विति ॥ उत्तरमाह – तथाऽपीति ॥ सदा सद्भावेऽपि । यद्यपि प्रभवत्यस्मादिति प्रभवः ,
प्रलीयतेऽस्मिन्निति प्रलय इति शक्यते व्याख्यातुम् । तथाऽपि महिमातिशयलाभायैवं व्याख्यातम् । एतेन यस्मान्मम प्रकृती योनी सर्वभूतानां ततोऽहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा इति व्याख्यानमपहस्तितं भवति ॥ 6
॥
गी – मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ 7
॥
भा – अहमेव परतरः । मत्तोऽन्यत्परतरं न किञ्चिदपि ॥ 7
॥
प्र.दी. – नन्वपरं परं च तत्त्वमुक्त्वा परतरोऽहमिति वक्तव्यम् । मत्त इति किमुच्यत इत्यतस्तात्पर्यमाह – अहमेवेति ॥ परापरप्रकृत्योः स्वाधीनत्वोक्त्यैव स्वस्य परतरत्वमुक्तप्रायम् । किन्त्वपरतत्वं यथाऽनेकं भूम्यादिभेदेन,
यथा च परतत्वं `
मुक्तस्तु स्यात् पराभास'
इति वचनात्,
तथा परतरपि किमनेकमुत त्वेकमेवेति जिज्ञासायां `
अहमेव परतरः'
इत्यनेनोच्यत इत्यर्थः । कथमनेनेदं लभ्यते । भगवत्प्रतियोगिकाधिक्यवन्निषेधस्य च वैयर्थ्यादिति भावः ॥ 7
॥
रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ 8
॥
पुण्योगन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ 9
॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ 10
॥
भा – इदं ज्ञानम् । रसोऽहमित्यादि विज्ञानम् । अबादयोऽपि तत एव । तथाऽपि रसादिस्वभावानां साराणां च स्वभावत्वे सारत्वे च विशेषतोऽपि नियामकः । न त्वबादिनियमानुबद्धो रसादिः तत्सारत्वादिश्चेति दर्शयति `
अप्सु रसः'
इत्यादिविशेषशब्दैः । भोगश्च विशेषतो रसादेरिति चोपासनार्थं च । उक्तं च गीताकल्पे –
`
रसादीनां रसादित्वे स्वभावत्वे तथैव च ।
सारत्वे सर्वधर्मेषु विशेषेणापि कारणम् ।
सारभोक्ता च सर्वत्र यतोऽतो जगदीश्वरः ।
रसादिमानिनां देहे स सर्वत्र व्यवस्थितः ।
अबादयः पार्षदा ध्येयः स ज्ञानिनां हरिः ।
रसादिसम्पत्त्याऽन्येषां वासुदेवो जगत्पतिः " इति च ।
`
धर्माविरुद्धः’, `
कामादिवर्जितं'
इत्याद्युपासनार्थम् । उक्तं च गीताकल्पे –
``
धर्माविरुद्धकामेऽसावुपास्यः काममिच्छता ।
विहीने कामरागादेर्बले च बलमिच्छता ।
ध्यातस्तत्र त्वनिच्छद्भिर्ज्ञानमेव ददाति च " इत्यादि ।
प्र.दी. – ``
भूमिरित्यादिना" इत्यत्रावधेरनुक्तेः `
रसोऽहं'
इत्याद्यपि ज्ञानप्रकरणमिति प्रतीतिः स्यात् । तन्निरासाय तत्समाप्तिमाह – इदमिति ॥ एतावता ग्रन्थेन ज्ञानं निरूपितमित्यर्थः । कुतोऽत्र ज्ञानप्रकरणस्य समाप्तिरित्यत आह – रसोऽहमिति ॥ इति शब्दाद्यभावेऽपि प्रकरणान्तरारम्भ एव समाप्तिं गमयिष्यति । अलौकिकमाहात्म्यप्रतिपादनादस्य विज्ञानप्रकरणत्वं ज्ञायत इति भावः । प्रभावादेरित्युक्तन्यायेनैव `
रसोऽहं'
इत्यादेरपि व्याख्यानं सिद्धम् । `
रसादीनां सत्तादिकारणत्वाद्भोक्तृत्वाच्च भगवान् रसादिः'
इति । नन्वबादयोऽपि धर्मिणो भगवदधीनाः,
तद्भोग्याश्चेत्यङ्गीक्रियते न वा । नेति पक्षे `
अहं कृत्स्नस्य'
इत्युक्ति विरोधः । आद्ये `
त्वप्सु रसः'
इत्यादेर्धर्मिभ्यो निष्कृष्य धर्माणां ग्रहणस्यानुपपत्तिरित्यतः प्रथमं पक्षं तावदङ्गीकरोति – अबादयोऽपीति ॥ धर्मिणोऽपि तदधीना एव तद्भोग्याश्बैव । ननु तत्रोक्तो दोष इत्यतः कारणत्वे तावद्विशेषशब्दोपादाने प्रयोजनमाह – तथाऽपीति ॥ यद्यपि धर्मिणोऽपि भगवदधीना एव । तथाऽपि धर्मिभ्यो निष्कृष्य धर्माणामुपादानं युज्यत इति शेषः । कथमित्यत आह – रसादीति ॥ रसादयश्च ते स्वभावाः अबादीनामनागन्तुकधर्माश्चेति रसादिस्वभावाः । तेषां साराणामबादिधर्मेषु सङ्ख्यादिषु श्रेष्ठानां च तेषामेवाबादिस्वभावभूतानां तद्धर्मेषु श्रेष्ठानां च रसादीनामिति यावत् । स्वभावत्वेऽबादीनामिति शेषः । सारत्वेऽबादिधर्मेष्विति शेषः । रसादित्वे चेति चार्थः । तथा लोके कुविन्दादिः पटादिद्रव्येष्वेव व्यापारवाननुभूयते नतु तदीयेषु गन्धरसादिषु गुणेषु तद्धर्मेषु च गन्धत्वादिषु पृथक् व्यापारवान् । किन्तु ते पटादिजन्मानुषङ्गिजन्मान एव । न तथा भगवान् । अपि त्वबादेर्धर्मेषु रसादिषु तद्धर्मेषु च स्वभावत्वादिषु पृथक् प्रयत्नवान् । न त्वबादिनियमानुषङ्गिसत्तादिकास्त इति दर्शयितुं विशेषशब्दा उपात्ता इत्यर्थः । भोगपक्षेऽपि प्रयोजनमाह – भोगश्चेति ॥ अबादिभोगादप्यतिशयेन रसादेर्भोगः परमेश्वरस्येति दर्शयति विशेषशब्दैरिति सम्बन्धः । रसोऽहमित्याद्यभेदोक्तेरर्थान्तरं विशेषतो रसादेरिति वर्तते । अर्थवशाद्रसादेरिति सप्तमीत्वेन विपरिणम्यते । रसादयः परमेश्वरोपासने प्रतिमात्वेनात्र विवक्षिताः । प्रतिमायां चाभेदोक्तिः प्रसिद्धा । प्रतिमात्वमबादीनां समानम् । `
योऽप्सु तिष्ठन्'
इत्यादेः । अतः किं विशेषशब्दग्रहणेनेति चेत् । अबादिभ्यो विशेषतो रसादिषु भगवदुपासनार्थं तदुपपत्तिरिति । उक्तेऽर्थत्रये प्रमाणमाह – उक्तं चेति ॥ तथाचशब्दौ अन्योन्यसमुच्चये । एवशब्दस्य `
ईश्वरः'
इत्यनेन सम्बन्धः । सर्वत्राबादिषु । ईश्वरो रसादिकं जगदित्युच्यत इत्यर्थः । अबादयोऽबाद्यभिमानिनः । ज्ञानिनां ज्ञानार्थिनां सम्पत्त्यै प्राप्त्यै अन्येषां रसार्थिनाम् । `
अबादयः'
इति `
रसादि'
इति च पादयोः सप्तनवाक्षरत्वेऽपि `
नवा एकेनाक्षरेण छन्दांसि वियन्ति'
इति वचनाददोषः । स्वभावस्य भगवदधीनत्वमलौकिकमित्यतस्तत्रान्यान्यपि वाक्यानि पठति – स्वभाव इति ॥ अस्त्वेवं धर्मिभ्यो निष्कृष्य धर्माणामुपादानम् । धर्माणां विशेषणोपादानं तु किमर्थमित्यत आह – धर्मेति ॥ आदिपदेन `
पुण्यो गन्धः'
इत्यस्य ग्रहणम् । कामादिषु विशिष्टेष्वेव भगवानुपास्यो न धर्मविरुद्धेष्वशुचिष्विति ज्ञापनाय कामादीनां धर्माणां धर्माविरुद्धत्वादि विशेषणोपादानमित्यर्थः । अत्र प्रमाणमाह – उक्तं चेति ॥ कामं पुरुषार्थम् । कामरागादेः कामरागादिना । अनिच्छद्भिः कामादिकम् ।
भाष्यम् –
``
पुण्यो गन्धः" इति भोगापेक्षया । तथाहि श्रुतिः । `
पुण्यमेवामुं गच्छति न ह वै देवान् पापं गच्छति’, ``
ऋतं पिबन्तौ सुकृतस्य लोके" इत्यादिका । ऋतं च पुण्यम् ।
``
ऋतं सत्यं तथा धर्मः सुकृतं चाभिधीयते" इत्यभिधानात् । ``
ऋतं तु मानसो धर्मः सत्यं स्यात् सप्रयोगगः" इति च । नच ``
अनश्नन्नन्यो अभिचाकशीति", ``
अन्यो निरन्नोऽपि बलेन भूयान्" इत्यादि विरोधि । स्थूलानशनोक्तेः । आह च सूक्ष्माशनम् –
``
प्रविविक्ताऽहारतर इव वै भवत्यस्माच्छारीरादात्मनः" । न चात्र जीव उच्यते । ``
शरीरादात्मान" इति भेदाभिधानात् । स्वप्नादिश्च शारीर एव । ``
शारीरस्तु त्रिधा भिन्नो जागृदादिष्ववस्थितेः" इति वचनात् गारुडे । अस्मादिति त्वीश्वरव्यावृत्त्यर्थम् । `
शारीरौ तावुभौ ज्ञेयौ जीवश्चेश्वरसञ्ज्ञितः । अनादिबन्धनस्त्वेको नित्यमुक्तस्तथाऽपरः" इति वचनात् नारदीये । भेदश्रुतेश्च । सति गत्यन्तरे पुरुषभेद एव कल्प्यो न त्ववस्थाभेदः । आह च – ``
प्रविविक्तभुग्यतो ह्यस्माच्छरीरात्पुरुषोत्तमः । अतोऽभोक्ता च स्थूलाभोगात्स एव तु" इति गीताकल्पे ।
प्र.दी – गन्धस्य विशेषणोपादाने प्रयोजनान्तरमाह – पुण्य इति ॥ पुण्यगन्धस्यैव भगवतो भोगो न दुर्गन्धस्येति ज्ञापयितुमत्र विशेषणोपादानमित्यर्थः । ननु दुर्गन्धं भगवाननुभवति न वा । नेति पक्षे सार्वज्ञाभावः । आद्ये कथं भोगाभावः । उच्यते । अनुभूयमाना अपि दुर्गन्धादयो न फलहेतव इत्यभिप्रायः । सुगन्धस्तु सुखहेतुरित्युपपादितम् । शुचिवस्त्वेव भगवतो भोग्यमित्यत्र प्रमाणमाह – तथाहीति ॥ अमुमुपासकम् । कुतः ?
तस्य देवत्वात् । तथापि कुतः ?
न ह वै देवमात्रस्य पुण्यभोगनियमे देवोत्तमस्य सुतरां तत्सिद्धिः । ``
ऋतं" इति श्रुतिः कथं प्रकृतोपयोगिनीत्यत आह – ऋतं चेति ॥ कुत इत्यतः सामान्यविशेषाभिधानादित्याह – ऋतमिति ॥ प्रयोगगः शब्दजन्यः । तथा च श्रुतावृतशब्दः पुण्यफलस्योपलक्षक इति भावः । स्यादिदं व्याख्यानं यदि भगवतो विषयभोगो युक्तः स्यात् । न चैवम् । तदङ्गीकारे श्रुत्यादि विरोधात् । ``
ऋतं पिबन्तौ" इति चात एव छत्रिन्यायेनोपचरितमित्यत आह – स चेति ॥ कुतो नेत्यत आह – स्थूलेति ॥ श्रुत्यादिषु स्थूलस्य जीवभोग्यस्य विषयस्याभोगोक्तेः सूक्ष्मभोगस्य चाङ्गीकारादिति भावः । सूक्ष्माशने प्रमिते भवेदियं व्यवस्था । तदेव कुत इत्यत आह – आह चेति ॥ गन्धादिषु यो जीवेन्द्रियागोचरः सारभागस्तस्य भोगं परमेश्वरोऽस्माच्छारीरादात्मनो जीवादतिशयेन विलक्षणभोग एव भवति । अवतारेषु स्थूलमपि भुङ्क्त इतीवशब्दः । ननु प्रविविक्ताऽहारतरोऽयं जीव एवेत्यत आह – नचेति ॥ नहि जीवो जीवादेव विलक्षणाऽहार इति युज्यत इत्यर्थः ।
ननु शारीराज्जागरावस्थाज्जीवात् स्वप्न सुषुप्त्यवस्थः स एव प्रविविक्ताऽहार इत्यवस्थाभेदोपाधिकं जीवस्य भेदमङ्गीकृत्य व्याख्यास्यामीत्यत आह – स्वप्नादिश्चेति ॥ स्वपोनन्निति स्वप्नशब्दः कर्तरि । स्वप्नः सुषुप्तश्च शारीर एव न केवलं जाग्रत् । तथा च त्र्यवस्थस्यापि शारीरशब्देन गृहीतत्वान्न ततो भेदः स्वप्न सुषुप्तयोरित्यर्थः । अवस्थात्रयवतोऽपि शारीरत्वं कुत इत्यत आह – शारीरस्त्विति ॥ जाग्रदादिष्ववस्थासु । अस्तु त्र्यवस्थोऽपि शारीरः । तथाऽप्यस्मादिति विशेषणेनात्र शारीरादिति जाग्रदवस्थो गृह्यते । तस्माच्च स्वप्नाद्यवस्थस्य भेदोक्तिरुक्तविधया सम्भवति । भवत्पक्षेऽपि शारीरादिति जीवे सिद्धे `
अस्मात्'
इति विशेषणं व्यर्थं स्यादिति । तत्राह – अस्मादिति ॥ नैतद् विशेषणसार्थक्यायेश्वरं परित्यज्य जीवोऽत्र ग्राह्यः । शारीरादित्येवोक्तावीश्वरस्यापि प्राप्तावीश्वरादेवेश्वरस्य भेदानुपपत्तेस्तद् व्यावृत्त्यर्थं जीवमात्रपरिग्रहाय विशेषणमिति सार्थक्योपपत्तेरित्यर्थः । भवेदेवं यदि शारीरत्वमीश्वरस्यापि स्यात् । तदेव कुत इत्यत आह – शारीराविति ॥ नन्वेवं पक्षद्वयेऽप्युपपत्तौ ईश्वर एवात्रोच्यते न जीव इति कुतो विनिगमनमित्यत आह – भेदेति ॥ चो हेतौ । भेदश्रुतेः स्वाभाविकभेदरूपे गत्यन्तरे सम्भवति पुरुषभेद एवार्थतया ग्राह्यो न त्ववस्थोपाधिको भेदः । मुख्यामुख्ययोर्मुख्ये सम्प्रत्ययात् । अतो युक्तं विनिगमनम् । न केवलमुक्तव्यवस्था न्यायप्राप्ता । किन्त्वागमसिद्धा चेत्याह – आह चेति ॥ अभोक्ता च भोक्ता चेत्येतयोर्व्युत्क्रमेणान्वयः ॥ 8
॥ 9
॥ 10
॥
गी – बलं बलवतां चाहं कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ 11
॥
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ 12
॥
भाष्यम् – `
न त्वहं तेषु'
इति तदनाधारत्वमुच्यते । उक्तं च ``
तदाश्रितं जगत्सर्वं नासौ कुत्रचिदाश्रितः" इति गीताकल्पे ॥ 11
॥ 12
॥
प्र.दी. – ``
सर्वभूतस्थमात्मानं" इत्युक्तत्वात् `
न त्वहं तेषु'
इति कथमुच्यत इत्यत आह – न त्वहमिति ॥ तदनाधारत्वं तदुपजीवनेन स्थित्यभावः । कुत एतदित्यत आह – उक्तं चेति ॥ न केवलमुक्तविरोधादिति चार्थः ॥ 11
॥ 12
॥
गी – त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ 13
॥
भा – तर्~
हि कथमेवं न ज्ञायस इत्यत आह – त्रिभिरिति ॥ तदात्म्यार्थे मयट् । तच्चोक्तम् – ``
तादात्म्यर्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा" इति । नहि गुणकार्यभूता माया । `
गुणमयी'
इति च वक्ष्यति । सिद्धं च कार्यस्यापि तादात्म्यम् ।
``
तादात्म्यं कार्यधर्मादेः संयोगो भिन्नवस्तुनोः" इत्यादि व्यासयोगे । भावैः पदार्थैः । सर्वे भावा दृश्यमाना गुणमया एत एवेति दर्शयति – एभिरिति ॥ ज्ञानिव्यावृत्त्यर्थमिदमिति । गुणमयदेहादिकं दृष्ट्वा ईश्वरदेहोऽपि तादृश इति मायामोहित इत्यर्थः । जगाद च व्यासयोगे – ``
गौणान् ब्रह्मादिदेहादीन् दृष्ट्वा विष्णोरपीदृशः ।
देहादिरिति मन्वानो मोहितोऽज्ञो जनो भृशम् ॥" इति । एभ्यो गुणमयेभ्यः । ``
गुणेभ्यश्च परं" इति वक्ष्यमाणत्वात् । `
केवलो निर्गुणश्च'
इत्यादि श्रुतिभ्यश्च । `
त्रैगुण्यवर्जितं'
इति चोक्तम् ॥ 13
॥
प्र.दी.– ननु विज्ञाननिरूपणं प्रारभ्य `
त्रिभिः'
इत्यादिकं किमर्थमुच्यत इत्यत आह – तर्~
हीति ॥ ये चैवेति विज्ञाननिरूपणोपसंहारवाक्ये सत्त्वादिगुणनिर्वृतानां भगवान् कारणमाश्रयश्च तदनाश्रयश्चेत्युक्तम् । तेनैव गुणातीत इति चोक्तप्रायम् । तस्यायमाक्षेपः । एवं गुणातीततया सगुणश्च ज्ञायस इति शेषः । एवमनुपलभ्यविपरीतोपलम्भाभ्यामुक्तमसदिति भावः । विकारार्थतानिरासार्थमाह – तादात्म्येति ॥ मयटः तादात्म्यार्थत्वं कुत इत्यत आह – तच्चेति ॥ तदात्म्ये प्रयोगं दर्शयितुमुपोद्घातमाह – न हीति ॥ `
कार्यभूता'
इत्युपलक्षणम् । गुणप्राचुर्यादिकमपि तस्यां न सम्भवति । ततः किमित्यत आह – गुणेति ॥ ``
देवी ह्येषा गुणमयी मम माया" इति मायाया गुणमयीत्वमुच्यते । नच तत्र विकाराद्यर्थता सम्भवति । ततः परिशेषतः तादात्म्यार्थता ग्राह्येत्यर्थः ।
अस्तु मयटः तादात्म्ये शक्तिः । अत्र विकारार्थतां परित्यज्य तद् ग्रहणे को हेतुरिति चेदुच्यते । विकारार्थताग्रहणे मामेभ्यः परमित्यत्र गुणकार्येभ्य एव भगवतः परत्वमुक्तं स्यान्न तु गुणेभ्यः । अतः तत् सङ्ग्रहाय तादात्म्यार्थताग्रहणम् । एवं तर्~
हि गुणेभ्य एव परत्वमुक्तं स्यान्न तु गुणकार्येभ्योऽपीति समानमित्यत आह – सिद्धं चेति ॥ सिद्धं प्रमितम् । ततश्च गुणात्मकैरित्युक्ते गुणानां तत्कार्याणाञ्चोपादाने सत्युभयपरत्वमुक्तं भवति ॥ कार्यधर्मादेरिति ॥ कार्यद्रव्यस्योपादानेन,
गुणक्रियाजातिपूर्वाणां धर्माणां गुण्यादिभिरित्यर्थः । भावशब्दस्यानेकार्थत्वात् तस्य विवक्षितमर्थमाह – भावैरिति ॥ एवं सति सर्वपरत्वलाभादिति भावः । नन्वेवमप्येभिरिति पुरोवर्तिनामेव ग्रहणान्न सर्वपरत्वसिद्धिरित्यत आह – सर्व इति ॥ प्रमितपरामर्शोऽयं न पुरोवर्तिमात्रस्येति भावः । `
जगन्मोहितं'
इत्यलं किं `
इदं'
इत्यनेनेत्यत आह – ज्ञानीति ॥ व्यवहारपतितमित्यर्थः । ननु भगवद्विषयस्य सगुणत्वमोहस्य कथं गुणात्मकाः पदार्थाः कारणमित्यत आह – गुणमयेति ॥ देहत्वादि हेतुनेति शेषः । मायेति गुणमयानां ग्रहणम् । मोहितो जनः । तत्र प्रमाणमाह – जगाद चेति ॥ आदिपदेनेन्द्रियादिग्रहणम् । यदर्थं तादात्म्यार्थग्रहणं कृतं तदाह – एभ्य इति ॥ ननु भगवतो गुणातीतत्वे प्रमिते तदर्थोऽयं श्रमः सफलः स्यात् । तदेव कुत इत्यत आह – गुणेभ्यश्चेति ॥ 13
॥
गी – देवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ 14
॥
भाष्यम् – कथमनादिकाले मोहानत्ययो बहूनामित्यत आह – दैवीति ॥ अयमाशयः । माया ह्येषा मोहिका । सा च सृष्ट्यादिक्रीडादिमत् देवसम्बन्धित्वादतिशक्तेर्दुरत्यया । तथा हि देवताशब्दार्थं पठन्ति ``
दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमदमोदस्वप्नकान्तिगतिषु'
इति । कथं दैवी । मदीयत्वात् । अहं हि देव इति । अब्रवीच्च –
``
श्रीभूदुर्गेति या भिन्ना महामाया तु वैष्णवी ।
तच्छक्त्यनन्ताशहीनाऽथापि तस्याश्रयात् प्रभोः ।
अनन्तब्रह्मरुद्रादेर्नास्याः शक्तिकलाऽपि हि ।
तेषां दुरत्ययाऽप्येषा विना विष्णुप्रसादतः " इति च व्यासयोगे । तर्~
हि न कथञ्चिदत्येतुं शक्यत इत्यत आह – मामेवेति ॥ अन्यत्सर्वं परित्यज्य मामेव ये प्रपद्यन्ते,
गुर्वादिवन्दनं च मय्येव समर्पयन्ति । स एव च तत्र स्थित्वा गुर्वादिर्भवतीत्यादि पश्यन्ति । आह च नारदीये – ``
मत्सम्पत्त्या तु गुर्वादीन् भजन्ते मध्यमा नराः । मदुपाधितया तांश्च सर्वभूतानि चोत्तमाः" इति । `
आचार्यचैत्यवपुषा स्वगतिं व्यनङ्क्षि'
इति च ॥ 14
॥
प्र.दी. – उपायाभावानुमानाभासाभ्यामनुपलम्भो विपरितोपलम्भश्चेत्युक्तम् अतः किमुत्तरेण वाक्येनेत्यत आह – कथमिति ॥ भगवान् गुणमयविग्रह इत्ययं न मोहः । बाधकप्रत्ययाभावात् । ज्ञानिनां सम्यक् प्रत्ययो बाधक इत्युक्तमिति चेन्न । बहुतरज्ञानविरोधेन कतिपयज्ञानानामेवायथार्थत्वापत्तेः । ननूत्तरकाले बाधकप्रत्ययो भविष्यतीति चेन्न । अनादौ कालेऽजातस्योत्तरत्राप्यसम्भवादिति भावः । ननु बाधकप्रत्ययाभावाद्यथार्थ एवायं प्रत्यय इति शङ्कायां किमेतदसङ्गतमुच्यत इत्यत आह – अयमिति ॥ एषेत्यनुवादेन `
मोहिका'
इति व्याख्यातम् । मोहितमिति धात्वर्थमात्रं परामृश्य योग्यप्रत्ययसम्बन्धेन व्याख्यानात् । गुणमयी तदभिमानिनी दुर्गा या हि तमोगुणेनैवंविधं मोहं जनयति । अनुमानं तु निमित्तमात्रम् । ततः किमित्यत आह – सा चेति ॥ सा दुरत्यया । तत्कृतमोहं कोऽपि नात्येतुं शक्नोति । न कस्यापि बाधकप्रत्ययो भवति । कुतो दुरत्ययेत्यतोऽतिशक्तेरिति हेतुरध्याहृत्योक्तः । कुतोऽतिशक्तित्वमित्यतो `
दैवी'
इत्येतद् हेतुगर्भमिति व्याख्यातम् ॥ देवसम्बन्धित्वादिति ॥ सम्बन्धित्वं परमप्रियत्वम् । सति देवस्यातिशक्तित्वे तत्सम्बन्धिन्याः तत्स्यात् । तदेव कुत इत्यतो देवशब्दार्थो निरुक्तः – सृष्ट्यादीति ॥ सृष्ट्यादिश्च सा क्रीडा च । प्रथमादिपदेन स्थित्यादेः सङ्ग्रहः । द्वितीयेन विजिगीषादेः । क्रीडादिमत्वेनातिशक्तिर्न सिध्यतीति क्रीडा व्याख्याता । देवशब्दस्य क्रीडादिमत्वमर्थः कुत इत्यत आह – तथाहीति ॥ देवशब्दे या प्रकृतिः तदर्थमित्यर्थः । प्रत्ययस्त्विगुपधलक्षणस्य कस्य बाधकः पचाद्यच् । दैवीत्यनेन निराकाङ्क्षत्वात् `
मम'
इति व्यर्थमित्यत आह – कथमिति ॥ तस्यैव व्याख्यार्थमेतदिति भावः । त्वदीयत्वेऽपि कथं दैवीत्यतः शेषं पूरयति – अहं हीति ॥ आशयवर्णनसमाप्तौ इति शब्दः । अत्र प्रमाणमाह – अब्रवीच्चेति ॥
उत्तरस्य प्रकृतोपयोगितया सङ्गतिमाह – तर्~
हीति ॥ यदि न केवलमनुमानं,
किन्तु भगवतोपोद् बलिता माया मोहहेतुः तर्~
हीत्यर्थः । ततश्च ज्ञानिव्यावृत्यर्थं यदिदमित्युक्तं तदसदिति भावः । ननु मायाऽत्ययोपायस्यासम्भावनाशङ्कायां तदुपाय एव वक्तव्यो न तूपायान्तरप्रतिषेधः । अतोऽनुपपन्नमवधारणमित्यत आह – अन्यदिति ॥ स्वप्रतिपत्तावित्थं भावसूचक एवैवशब्दो नोपायान्तरप्रतिषेधपर इत्यर्थः । एवं तर्~
हि गुर्वादिवन्दनाभावः प्राप्त इत्यतोऽभिप्रायमाह – गुर्वादीति ॥ ``
भगवता एते" इत्यादि बुद्ध्या वन्दनादि कुर्वन्तीति यावत् । एतत् मध्यमभक्तानां चरित्रमुक्तम् । उत्तमानां तु आह– स एवेति ॥ भगवानेव तत्र गुर्वादिषु । द्वयं प्रमाणेनोपपादयति – आह चेति ॥ अहं च सा सम्पत्तिश्च । मदुपाधितया मत्प्रतिमात्वेन । चैत्यं चित्तस्थम् । स्वगतिं स्वज्ञानम् । व्यनङ्क्षि व्यञ्जयसि ॥ 14
॥
गी– न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ 15
॥
चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 16
॥
भा – तर्~
हि सर्वेऽपि किमिति नात्यायन्नित्यत आह – न मामिति ॥ दुष्कृतित्वात् मूढाः । अत एव नराधमाः । अपहृतज्ञानत्वाच्च मूढाः । अत एवाऽसुरं भावमाश्रिताः । स च वक्ष्यते – ``
प्रवृत्तिं च निवृत्तिं च" इत्यादिना । अपहारोऽभिभवः । उक्तं चैतत् व्यासयोगे ।
``
ज्ञानं स्वभावो जीवानां मायया ह्यभिभूयते" इति । असुषु रताः असुराः । तच्चोक्तं नारदीये – `
ज्ञानप्रधाना देवास्तु असुरास्तु रता असौ'
इति ॥ 15
॥ 16
॥
प्र.दी. – उत्तरवाक्यं प्रकृतानुपयुक्तमित्यत आह – तर्~
हीति ॥ यदि त्वत्प्रपत्तिर्मायातरणोपायः तर्~
हीत्यर्थः । त्वं प्रपद्येति शेषः । तथा च मामेवेत्युक्तमसदिति भावः । दुष्कृतित्वादीनां प्रयोजनान्तराभावात् हेतुत्वेनान्वये स्थिते किं ते पञ्चापि साक्षात् भगवदप्रपत्तिहेतवः किं वा हेतुहेतुमद् भावेनेत्यपेक्षायामाह – दुष्कृतित्वादिति ॥ मूढा मिथ्याज्ञानिनः । विपर्ययस्याधर्मकार्यत्वप्रसिद्धेः । अत एव मूढत्वादेव । देवानामुत्तममध्यममनुष्याणां च केवलमिथ्याज्ञानित्वाभावात् । अधिष्ठानयाथात्म्याज्ञानस्य विपर्ययहेतुत्वप्रसिद्धेरपहृतज्ञानत्वाच्च मूढाः । अत एव नराधमत्वादेव । जीवत्रैविध्यविवक्षायां नराधमानामसुरेष्वन्तर्भावस्य प्रसिद्धत्वात् । आसुरभावाश्रयणान्न मां प्रपद्यन्त इत्यर्थः । नन्वासुरो भावो हि हिंसानृतादिलक्षणोऽन्यैर्व्याख्यातः । तद्रहिताश्च क्षपणकादयो न भगवन्तं प्रपद्यन्ते । तत्कथमस्य हेतुत्वमित्यत आह – स चेति ॥ एतेषामन्यतमः सर्वेष्वप्यस्तीति भावः । ननु मुक्तौ योग्यानामयोग्यानां च भगवन्तमप्रतिपद्यमानानां एते धर्मा वक्तव्याः । तत्र मुक्तियोग्यानां सम्यग् ज्ञानस्वभावात् तत्कथमपहृतज्ञानत्वमित्यत आह – अपहार इति ॥ आगमवाक्यमपि सज्जीवविषयम् । मुक्तियोग्यानामासुरभावाश्रयणं प्रवृत्त्याद्यज्ञानेनोक्तम् । प्रकारान्तरेण घटयितुमाह – असुष्विति ॥ इन्द्रियेषु तत्प्रीणन एव रताः । असाविति जातावेकवचनम् । पदसन्धेर्विवक्षाऽधीनत्वादसन्धिर्नदोषः । त्रिभिरित्यत्र भगवतो गौणविग्रहत्वज्ञानस्य कारणमुक्तम् । अत्र तु स्वदोषादेव न मां प्रपद्यन्ते । नतु मत्प्रपत्तेर्मायातरणोपायत्वाभावादित्यतो महान् भेदः ॥ 15
॥ 16
॥
गी – तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं सच मम प्रियः ॥ 17
॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ 18
॥
भा – एकस्मिन्नेव भक्तिरित्येकभक्तिः । तच्चोक्तं गारुडे – ``
मय्येव भक्तिर्नान्यत्र एकभक्तिस्स उच्यते" इति ॥ 17
॥ 18
॥
प्र.दी.– एका भक्तिर्यस्येति विग्रहे भक्तिशब्दस्य प्रियादित्वात्तस्मिन् परतः पूर्वपदस्य पुंवद्भावो न सिद्ध्यतीत्यालोच्याह – एकस्मिन्नेवेति ॥ अस्येत्यध्याहार्यम् । तथापि वैयधिकरण्याद् बहुव्रीहिर्न सिध्यतीति चेन्न । आगमसिद्धत्वाच्च इत्याह – तच्चेति ॥ यस्येत्युपस्कर्तव्यम् ॥ 17
॥ 18
॥
गी – बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ 19
॥
भा – बहूनां जन्मनामन्ते ज्ञानवान् भवति । तच्चोक्तं ब्राह्मे – `
बहुभिर्जन्मभिर्ज्ञात्वा ततो मां प्रतिपद्यते'
इति ॥ 19
॥
प्र.दी. – ``
बहूनां जन्मनां" इत्यत्र ज्ञानोत्पत्त्यनन्तरं भगवत्प्रपत्तौ बहुजन्मव्यवधानमुच्यत इति निरासार्थमाह – बहूनामिति ॥ प्रतीतमेव किं न स्यादित्यत आह – तच्चेति ॥ ततः तदैव ॥ 19
॥
गी – कामैस्तैस्तैर्~
हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ 20
॥
भा – प्रकृत्या स्वभावेन ।
``
स्वभावः प्रकृतिश्बैव संस्कारो वासनेति च" इत्यभिधानात् ॥ 20
॥
प्र.दी. – ननु मूलप्रकृतेः सर्वत्रैकत्वात् कथं `
स्वया'
इति प्रातिस्विकत्वमुच्यत इत्यत आह – प्रकृत्येति ॥ स्वभाव एवेत्येवशब्दसम्बन्धः ॥ 20
॥
गी – यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ 21
॥
स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान् हि तान् ॥ 22
॥
भा – यां यां ब्रह्मादिरूपां तनुम् । उक्तं च नारदीये – `
अन्तो ब्रह्मादि भक्तानां मद्भक्तानामनन्तता'
इति । `
मुक्तश्च कां गतिं गच्छेन्मोक्षश्बैव किमात्मकः'
इत्यादेः परिहारसन्दर्भाच्च मोक्षधर्मेषु । ``
अवतारे महाविष्णोर्भक्तः कुत्र च मुच्यते" इत्यादेश्च ब्रह्मवैवर्ते ॥ 21
॥ 22
॥
प्र.दी. – रामकृष्णादिरूपां भगवत्तनुमिति प्रतीतिनिरासायाऽह – यां यामिति ॥ कुत एतत् । `
अन्तवत्तु फलं तेषां'
इति तद् भक्तानामन्तवत् फलवचनात् । तस्य च ब्रह्मादिग्रहणे सम्भवात् भगवद् ग्रहणे चासम्भवादिति भावेनाऽह – उक्तं चेति ॥ फलस्येति शेषः । गम्यत इति गतिः । इत्यादेः प्रश्नस्य परिहाररूपवाक्यसन्दर्भाच्च । बहुत्वादनुदाहरणमिति भावः । अनन्तफलत्वं मूलरूपभक्तानामस्तु । अवतारतनुभक्तानामन्तवत्फलाङ्गीकारे को विरोध इत्यत आह – अवतार इति ॥ कुत्र चावतारे ॥ 21
॥ 22
॥
गी – अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ 23
॥
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ 24
॥
भा – कोविशेषस्तवान्येभ्य इत्यत आह – अव्यक्तमिति ॥ कार्यदेहादिवर्जितम् । तद्वानिव प्रतीयस इत्यत आह – व्यक्तिमापन्नमिति ॥ कार्यदेहाद्यापन्नम् । तच्चोक्तम् – `
सदसतः परम्’, `
न तस्य कार्यम्’, `
अपाणिपादः'
। ``
आनन्ददेहं पुरुषं मन्यन्ते गौणदेहिकम्" इत्यादौ । भावं याथार्थ्यम् । तथाऽब्रवीत् । ``
यथातथ्यमजानन्तः परं तस्य विमोहिताः" इत्यादि ॥ 23
॥ 24
॥
प्र.दी. – अव्यक्तमिति श्लोकस्य प्रकृतेन साक्षात् सङ्गत्यभावात् तं सङ्गमयितुमाह – क इति ॥ अन्येभ्यो ब्रह्मादिभ्यः । येन तान् प्राप्तानामन्तवत् फलत्वेऽपि त्वां प्राप्तानामनन्तफलतेति शङ्काशेषः । कथमनेनोक्तशङ्कापरिहार इत्यत आह – कार्येति ॥ अनेन यथाश्रुतं पदं पठित्वा व्याख्यातम् । वस्तुतस्त्वव्यक्तं मामित्यनुवादात् अव्यक्तोऽहमिति यत्सिद्धं तस्येदं व्याख्यानमिति ज्ञातव्यम् । इदानीमुत्तरस्य सङ्गतिमाह – तद्वानिति ॥ कार्यदेहादिमान् इवेति मृदूक्तिः वस्तुतस्त्वेवेति । अतो न तद्वर्जित इति शेषः । प्रकृतोपयोगितया व्याचष्टे – कार्येति ॥ भगवतः कार्यदेहादिवर्जितत्वं तद्वत्ताप्रतीतिश्चाज्ञानमूलेत्येतत् कुतः ?
येन वाक्यद्वयमुक्तार्थं स्यादित्यतोऽर्थद्वये क्रमेण प्रमाणान्याह – तच्चेति ॥ कार्यात् कारणाच्चेदमपरं रूपं परं तु रूपमजानन्त इति प्रतीति निरासार्थमाह – भावमिति ॥ याथार्थ्यं प्रमाणाव्यभिचरितस्वरूपम् । अत एव परम् । कुतोऽयमर्थः । समाख्यानादित्याह – तथेति । यद्यप्ययमर्थः ``
त्रिभिः" इत्यत्रोक्तः । तथापि प्रसङ्गात् पुनरुक्त इत्यदोषः ॥ 23
॥24
॥
गी – नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ 25
॥
भा – अज्ञानं च मदिच्छयेत्याह – नाहमिति ॥ योगेन सामर्थ्योपेतेन । मायया च । मयैव मूढो नाभिजानाति । तथा हि पाद्मे –
``
आत्मनः प्रावृतिं चैव लोकचित्तस्य बन्धनम् । स्वसामर्थ्येन देव्या च कुरुते स महेश्वरः" इति च ॥ 25
॥
प्र.दी. – तथापि `
नाहं प्रकाशः'
इति पुनरुक्तिरित्यतः तात्पर्यमाह – अज्ञानं चेति ॥ येनाज्ञानेन मामन्यथा मन्यन्ते तदज्ञानं च मदिच्छाधीनमेव,
न स्वतन्त्रम् । येन तया निन्दया मम खेदः स्यादिति भावः । योग एव माया इति व्याख्यानमसदिति भावेनाह – योगेनेति ॥ सामर्थ्यमेवोपायः ।
``
युज्यते येन योगोऽसावुपायश्शक्तिरेव च" इति वचनाद्योगशब्दस्योभयार्थत्वेन द्वन्द्वैकवद्भावः किं न स्यादिति चेन्न । माययाचेत्यस्य वैयर्थ्यापत्तेः । तस्या अप्युपायविशेषत्वात् । अत एवोपायार्थत्वं गृहीत्वा सामार्थ्येति तद् व्याख्यानं कृतम् । इदं तात्पर्यं श्लोके न प्रतीयत इत्यत आह – मयैवेति ॥ उक्तार्थस्थापनाय पुराणसम्मतिमाह – तथेति ॥ 25
॥
गी – वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ 26
॥
भा – न मां माया बध्नातीत्याह – वेदेति ॥ न कश्चनातिसमर्थोऽपि स्वसामर्थ्यात् ॥ 26
॥
प्र.दी. – अकस्मात् स्वस्य सार्वज्ञं किमित्युच्यत इत्यत आह – नेति ॥ यवनिकाद्युभयभागवर्तिनोः परस्पराज्ञानवत्तवापि भूतविषये ज्ञानं न स्यादिति शङ्कानिरासार्थमिति शेषः । तथापि ``
मां तु वेद न कश्चन" इति पुनरुक्तमित्यत आह – न कश्चनेति ॥ असमर्थो लोको न जानातु । अतिसमर्थस्तु ब्रह्मादिर्ज्ञास्यतीति शङ्कानिरासार्थमेतदुक्तम् । कश्चनेति विशेषणादिति भावः । तर्~
हि ``
ज्ञानी च भरतर्षभ" इत्यादि विरोध इत्यत उक्तम् – स्वेति ॥ 26
॥
गी – इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥ 27
॥
भा – द्वन्द्वमोहेन सुखदुःखादिविषयमोहेन । इच्छाद्वेषयोः प्रवृद्धयोर्न हि किञ्चिज्जञातुं शक्यम् । कारणान्तरमेतत् । सर्गे सर्गकाले आरभ्यैव । शरीरे हि सतीच्छादयः । पूर्वं त्वज्ञानमात्रम् ॥ 27
॥
प्र.दी. – इच्छाद्वेषौ द्वन्द्वम् । तज्जन्यो मोहो द्वन्द्वमोहः । तेनेति कश्चित् । तदसदिति भावेनाह – द्वन्द्वेति ॥ अन्यथा इच्छाद्वेषसमुत्थेन मोहेनेत्येव स्यादिति भावः । व्याख्यानव्याख्येयभावश्चागतिका गतिः । द्वन्द्वमोहस्येच्छाद्वेषसुमुत्थत्वं कथमित्यत आह – इच्छेति ॥ किञ्चित्सुकादिकं हेयत्वादिनेति शेषः । ननु ``
नाहं प्रकाशः" इति भगवतो `'
दैवी ह्येषा" इति तदधीनायाः गुणमय्या मायायाश्च मोहकत्वमुक्तम् । तत्कथं भगवद् विषयस्य सम्मोहस्येच्छाद्वेषसमुत्थो द्वन्द्वमोहः कारणमुच्यत इत्यत आह – कारणान्तरमिति ॥ इच्छाद्वेषसमुत्थद्वन्द्वमोहलक्षणमेतद् भगवद् विषयस्य सम्मोहस्यावान्तरकारणमुच्यत इत्यर्थः । कुत एतदित्यतः तत्सूचकं पदं पठति – सर्ग इति ॥ सर्गः क्रिया । कथं तस्या अधिकरणत्वमित्यतो लक्षणामाश्रित्य व्याचष्टे – सर्गेति ॥ तदुत्तरकालं किं तन्न कारणमित्यतः पुनर्लक्षणाऽऽश्रयणेनाह – आरभ्येति ॥ सर्गकालमिति सम्बन्धः । कथमनेनावान्तरकारणत्वं ज्ञायत इत्यतः सावधारणमेतदित्युक्तमेवेति । उक्तमुपपादयन्नाह – शरीर इति ॥ आदिपदेन द्वेषस्य द्वन्द्वानां च ग्रहणम् । अतः सर्गकालमारभ्यैवैतत् कारणमिति सिद्धम् । एतावता कथमवान्तरकारणत्वसिद्धिरित्यत आह – पूर्वं त्विति ॥ सर्गात्पूर्वं त्विच्छादिना विनाऽज्ञानमस्त्येव भगवदिच्छाद्यधीनम् । अत एतदवान्तरं कारणमिति सिद्धमित्यर्थः ॥ 27
॥
गी – येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ 28
॥
भा – विपरीताश्च केचित् सन्तीत्याह – येषामिति ॥ 28
॥
प्र.दी. – ``
चतुर्विधाः" इत्यनेन गतार्थमुत्तरं वाक्यमित्यत आह – विपरिताश्चेति ॥ त्वत्प्रपत्तेर्मायातरणकारणत्वात् स्वदोषाद्वा त्वां न प्रपद्यन्त इत्यत्र कथं निर्णय इत्यतस्तदुक्तम् । सर्वभूतानि सम्मोहं यान्ति चेल्लुप्तो मुक्तिमार्ग इत्याशङ्क्यात्र द्वन्द्वमोहरहिताश्च केचित्सन्तीत्याहेत्यर्थः ॥ 28
॥
गी – जरामरणमोक्षाय ममाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ 29
॥
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ 30
॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥
भा – ``
जरामरणमोक्षाय" इत्यन्यत्कामव्यावृत्त्यर्थं मोक्षे सक्तिस्तुत्यर्थं वा । न विधिः ।
``
मुमुक्षोरमुमुक्षुस्तु वरो ह्येकान्तभक्तिभाक्" इतीतरस्तुतेर्नारदीये । ``
नात्यन्तिकं" इति च ।
``
देवानां गुणलिङ्गनामानुश्राविककर्मणाम् । सत्व एवैकमनसो वृत्तिः स्वाभाविकी तु या । अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा" इति लक्षणाच्च भागवते । आह च – ``
सर्ववेदास्तु देवार्थाः देवा नारायणार्थकाः । नारायणस्तु मोक्षार्थो मोक्षो नान्यार्थ इष्यते । एवं मध्यमभक्तानामेकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत्तदर्थकम्" इति गीताकल्पे । त एव च विदुः । ``
यमैवेष वृणुते" इति श्रुतेः ॥ 29
॥ 30
॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तमोऽध्यायः ॥ 7
॥
प्र.दी.– ``
मां भजन्ते" इत्युक्तानुवादेन फलमुच्यते । तत्र ``
जरामरणमोक्षाय" इत्यनुक्तस्यानुवादसम्भवादप्राप्तत्वेन विध्यर्थं मद्भजनं च जरामरणमोक्षोद्देशेन कार्यमित्येवं प्रतीतिनिरासार्थमाह – जरेति ॥ लक्षणया स्वर्गादिकामनिवृत्तिरर्थोऽस्येति तथोक्तम् । मोक्षविषयासक्तिरन्यसक्तेः प्रशस्तेति तत्स्तुत्यर्थं वा । सर्वथा न विधिः । कुत इत्यत आह – मुमुक्षोरिति ॥ इतरस्यामुमुक्षोर्भक्तस्य । न हि प्रशस्ते सत्यप्रशस्तं नियन्तुं युक्तमिति भावः । इति चेतरस्तुतेरिति सम्बन्धः । प्रकारभेदात् पृथगुक्तिः । इतश्च न मोक्षकामविधिरित्याह – देवानामिति ॥ सत्व एवैकमनसः शुद्धसात्त्विकस्य पुंसो देवानामिन्द्रियाणाम् । गुणलिङ्गानां गन्धाद्युपलब्धिलक्षणगुणानुमेयानाम् । तथा वचनादिक्रियाऽनुमेयानां च । आनुश्राविककर्मणाम् वैदिकानुष्ठाने कारणानाम् । या भगवत्यनिमित्ता फलोद्देशरहिता केवलं स्वाभाविकी निरवधिकस्नेहरूपस्वभावनिर्वृत्ता वृत्तिः सा भक्तिः । सा च सकामभक्त्या जातायाः सिद्धेः मुक्तेरपि गरीयसी । या सा कामनाऽभावेऽपि कोशं लिङ्गशरीरं स्वभावादेव जरयत्यनलवदित्यनिमित्तत्वस्य भक्तिलक्षणत्वेनोक्तत्वाच्चेत्यर्थः । नहि लक्षण वैकल्यं विधेयमिति भावः ।
आह च स्पष्टमेतदन्यत्र । देवार्था देवप्रतिपत्त्यर्थाः । प्रतिपन्ना देवा नारायणज्ञानार्थाः । मोक्षार्थे ज्ञातव्यः । नान्यार्थः । परः पुरुषार्थः । मध्यमभक्तानां । चित्तवृत्तिः । एकान्तानां नियतानामुत्तमभक्तानां न कस्यचिदर्थे । स एव परमपुरुषार्थः । ननु मामेव ये प्रपद्यन्ते इत्युक्तत्वात् ``
ते ब्रह्म तद्विदुः" इति पुनरुक्तमित्यत आह – त एवेति ॥ अन्योपायनिवृत्त्यर्थमेतदित्यर्थः । स्यादेवं व्याख्यानम् । यदि भगवद्भजनेन विना ज्ञानस्यान्योपायाभावः प्रमितः स्यात् स एव च कुत इत्यत आह – यमिति ॥ भक्तमेव च वृणुत इति च प्रसिद्धम् ॥ 29
॥ 30
॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां सप्तमोऽध्यायः समाप्तः ॥
॥ श्रीमदानन्दतीर्थगुर्वन्तर्गत श्रीलक्ष्मीहयग्रीवाभिन्नकृष्णार्पणमस्तु ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः ॥
**********************************************************************************************************
अष्टमोध्यायः
अर्जुन उवाच –
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 1
॥
अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ 2
॥
श्रीभगवानुवाच -
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद् भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ 3
॥
भा – मरणकालकर्तव्यगत्याद्यस्मिन्नध्याय उपदिशति ।
परमक्षरं ब्रह्म । वेदादिशङ्काव्यावृत्त्यर्थमेतत् । आत्मन्यधि यत् तदाध्यत्मम् । आत्माऽधिकारे यत् तदिति वा । तथा हि । जैवस्वभावः । स्वाख्यो भावः स्वभाव इति व्युत्पत्त्या जीवो वा स्वभावः सर्वदा अस्त्येवैकप्रकारेणेति भावः । अन्तःकरणादिव्यावृत्त्यर्थो भावशब्दः । न ह्येकप्रकारेण स्थितिरन्तःकरणादेः । विकारित्वात् । स्वशब्द ईश्वरव्यावृत्त्यर्थः ।
भूतानां जीवानां भावानां जडपदार्थानां चोद्भवकरीश्वरक्रिया विसर्गः । विशेषेण सर्जनं विसर्ग इत्यर्थः ॥ 1
॥ 2
॥ 3
॥
प्र.दी. – अध्यायस्यावान्तरप्रतिपाद्यर्थमाह – मरणेति ॥ गम्यति इति गतिः । आदिपदेन मार्गादिकम् । मरणकालकर्तव्यं च गतिश्च ते आदी यस्य तत् तथोक्तम् । कर्तव्यस्मरणविषयत्वगम्यत्वादिरूपो भगवन्महिमैव वर्ण्यत इति षट्कान्तर्भावसिद्धिः । उक्तव्याख्यानपूर्वकमिति चोपस्कर्तव्यम् । तेनाऽनन्तर्यलक्षणाऽपि सङ्गतिः सिद्धा । तत्प्रसङ्गेनैव मरणकालकर्तव्याद्युपदेशात् । ननु पूर्वाध्याये ते ब्रह्म इति निर्विशेषेणमेवोपक्षिप्तम् । अत एवात्र ``
किं तद् ब्रह्म" इति तथैव पृष्टम् । उत्तरे तु कस्मात् `
अक्षरं परमं ब्रह्म'
इति सविशेषणमुपादीयत इत्यत आह – परममिति ॥ अक्षरस्यैव परमत्वविशेषणम् । न ब्रह्मण इत्यर्थः । तर्~
हि ``
अक्षरं" इत्येवालम् । किं विशेषणेन इत्यत आह – वेदेति ॥ आदिपदेन प्रकृतिः गृह्यते । तयोरपि ब्रह्माक्षरशब्दवाच्यत्वात् प्रसक्तिः । ``
स्वभावोऽध्यात्मं" इति शब्दद्वयस्यैकविषयत्वसिद्धयेऽध्यात्मशब्दं तावद् द्वेधा व्याचष्टे – आत्मनीति ॥ आत्मानं जीवमधिकृत्य तदुपकारित्वेन वर्तमानं वस्त्वित्यर्थः । `
आत्माऽधिकारे'
इति ग्रन्थविशेषस्य सञ्ज्ञा । यत्प्रतिपाद्यं तदध्यात्मं इति वा इत्यर्थः । अत्राध्यात्मशब्दं प्रथमान्तं गृहीत्वा प्रथमं व्याख्यातम् । सप्तम्यन्तमुपादाय द्वितीयम् । आत्मशब्दं देहविषयमादाय व्याख्याने परमेश्वरप्रसक्तेः न तथा व्याख्यातम् । एवं तर्~
हि `
स्वभाव'
इत्युभयस्य कथमुत्तरमित्यतः तावत् तद् व्याख्यानं प्रतिजानीते – तथा हीति ॥ तत्राऽद्योत्तरत्वेनाऽदौ व्याचष्टे – जैव इति ॥ जीवस्यायं जैवः अन्तःकरणादिः देहपर्यन्तः स्वभावः । स्वस्य भाव इति व्युत्पत्त्या । ते ब्रह्म तद् विदुः इति जीवानां प्रकृतत्वात् स्वशब्दो जीववाची । तथा चात्मन्यधि यत् तत् इत्येवं व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीति भावः ।
इदानीं द्वितीयोत्तरत्वेन व्याख्याति – स्वाख्य इति ॥ पूर्ववदत्रापि स्वशब्दो जीववाची । तथा च ``
आत्माऽधिकारे" इति व्याख्याताध्यात्मशब्दार्थप्रश्नस्येदमुत्तरं भवतीत्याशयः । ननु जैववाचित्वे भावशब्दः सार्थकः । षष्ठ्याः साकाङ्क्षत्वात् । जीववाचित्वे तु पदार्थत्वाव्यभिचारात् स्वशब्देनैवालं,
किं भावशब्देनेत्यतो भावशब्दं तावदन्यथा व्याचष्टे – सर्वदेति ॥ यद्यपि भवनकर्ता भावः । तथाऽपि विशेषानुपादाने मुख्यस्य ग्राह्यत्वात् सर्वदेत्यादि सिध्यति । तथाऽपि तस्य किं प्रयोजनमित्यत आह – अन्तःकरणादीति ॥ स्वशब्दमात्रोपादाने तस्याऽत्मीयेऽपि प्रयोगादन्तःकरणादिकमपि प्रसज्येत । तथा च न द्वितीयस्येदमुत्तरं स्यात् । आत्मैव ह्यात्माऽधिकारे प्रतिपाद्यो वक्तव्यो नान्तःकरणादिकम् । अतस्तद् व्यावृत्त्यर्थो भावशब्दः प्रयुक्तः । कथं तेन तद् व्यावृत्तिरित्यत आह – न हीति ॥ ``
अन्नमयं हि सोम्य मनः" इत्यादेरिति भावः । तथा चान्तःकरणादौ व्यावृत्ते स्वशब्द आत्मार्थतया व्याख्यातो भवतीति हृदयम् । एवं तर्~
हि भाव इत्येवास्तु किं स्वशब्देनेत्यत आह – स्वशब्द इति ॥ ईश्वरोऽपि हि सर्वदैकप्रकारेणास्त्येव । अतो भाव इत्येवोक्ते तत्प्रसक्तौ पूर्ववद् द्वितीयोत्तरत्वासम्भवे तद् व्यावृत्त्यर्थः स्वशब्दः । न हीश्वरो जीवानां स्वः । भेदप्रमाणविरोधात् । अत एव ईश्वरस्वभावो जीव इति व्याख्यानमपास्तम् ।
नन्वेवमपि स्वशब्दयाऽत्मीयार्थत्वादीश्वरप्रसक्तिः । मैवम् । द्विष्ठो यद्यपि सम्बन्धः ``
षष्ठ्युत्पत्तिः प्रधानतः" इति वचनात् । तस्यात्मीयत्वाभावात् । षष्ठ्यान्तात् खल्वयं छः । सकलकार्योत्पत्तिनिमित्तभूतो देवतोद्देशेन च पुरोडाशादिद्रव्यत्यागः तज्जन्यमपूर्वमिति यावदिति व्याख्यानमसत् । तस्याध्यात्मपदेनैव गृहीतत्वादिति भावेन भूतभाव इत्यादिकं व्याख्याति – भूतानामिति ॥ उद्भवकारी च सा ईश्वरक्रिया चेति विग्रहः । ईश्वरक्रियाग्रहणं कर्मशब्देनैकार्थ्यप्रतिपत्त्यर्थम् । एवं लक्षणो यो विसर्गः स कर्मसञ्ज्ञितो न तु कुलालादिसम्बन्धीत्यर्थः । ननु विसर्गशब्दः त्यागार्थः । तत्कथमेवं व्याख्यानमित्यत आह – विशेषेणेति ॥ 1
॥ 2
॥ 3
॥
गी – अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ 4
॥
भा – भूतानि सशरीरान् जीवानधिकृत्य यत् तदधिभूतम् । क्षरो भावो विनाशी कार्यपदार्थः । अव्यक्तान्तर्भावेऽपि तस्याप्यन्यथाभावाख्यो विनाशोऽस्त्येव । तच्चोक्तम् –
``
अव्यक्तं परमे व्योम्नि निष्क्रिये सम्प्रलीयते" इति ।
``
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम" इति च । ``
विकारोऽव्यक्तजन्म हि" इति च स्कान्दे । पुरिशयनात्पुरुषो जीवः । स च सङ्कर्षणो ब्रह्मा वा । स सर्वदेवानधिकृत्य तत्पतिरित्यधिदैवतम् । देवाधिकारस्य इति वा ।
प्र.दी. – परिहारं सङ्गमयितुमधिभूतशब्दार्थं तावदाह – भूतानीति ॥ अधिकृत्य तदुपकारित्वेन यद्वर्तते । ``
क्षरः सर्वाणि भूतानि" इति वक्ष्यमाणं क्षरं व्यावर्तयितुं व्याचष्टे – क्षर इति ॥ क्षरशब्दव्याख्या विनाशीति । भावशब्दस्यार्थद्वयं कार्य इति पदार्थ इति । भवति उत्पद्यत इति भावः । उत्पत्तिमान् पदार्थो नाशवान् पदार्थ इति प्रत्येकमुत्तरम् । सर्वभूतानामध्यात्मत्वान्न ग्रहणम् । नन्वव्यक्तमपि सशरीरान् जीवानधिकत्य वर्तत इति तस्याप्यधिभूतेऽन्तर्भावोऽस्त्येव । न चैतद् विनाशि कार्यं वा । नासत इत्युक्तत्वात् । ततोऽव्यापकमुत्तरमित्यत आह – अव्यक्तेति ॥ अव्यक्तस्याऽधिभूतान्तर्भावेऽपि नाव्यापकमुत्तरमिति शेषः । कुत इत्यत आह – तस्यापीति ॥ अन्यथाभावो वैषम्यपरित्यागेन साम्यावस्थापत्तिः । यत इति शेषः । तथा विक्रियालक्षणं जन्म चेत्यपि ग्राह्यम् । उभयत्र क्रमेण प्रमाणान्याह – तच्चेति ॥ व्योम्नि व्याप्ते । प्रलये प्रचुरव्यापाराभावात् निष्क्रिये । ननु पुरुषः परमात्मा । स ब्रह्माधियज्ञशब्दाभ्यां उक्त इत्यत आह – पुरीति ॥ शरीरे । `
अधिकरणे शेतेः'
इति डः `
वर्णागमो वर्णविपर्ययश्च'
इत्यादिना साधुः । तथाऽप्यध्यात्मशब्देन गतार्थतेत्यत आह – स चेति ॥ सर्वबीजाभिमानित्वादिति भावः । तस्याधिदैवत्वं कथमित्यतो द्वेधाऽऽह – स इति ॥ अधिकृत्य वर्तते इत्यस्यैव विवरणं पतिरिति । देवाधिकारस्थः तत्प्रकरणेषु मुख्यतः प्रतिपाद्यः । सर्वदेवतासङ्ग्रहार्थं वा द्वितीयं व्याख्यानम् । अक्षरार्थस्तु पूर्ववत् ।
भा– सर्वयज्ञभोक्तृत्वादेरधियज्ञः । अन्योऽधियज्ञोऽग्न्यादिः प्रसिद्ध इति ``
देहे" इति विशेषणम् । ``
भोक्तारं यज्ञतपसाम्", ``
त्रैविद्या माम्" । ``
ये त्वन्यदेवताभक्ताः" । `
एतस्य वा अक्षरस्य प्रशासने गार्गि'
। ``
ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः" इत्यादेः ।
``
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो नैश्रेयसं पदं" इत्यादिपरिहाराच्च मोक्षधर्मे । भगवान् चेत् भोक्तृत्वादेरधियज्ञत्वं सिद्धमिति कथमित्यस्य परिहारः पृथक् नोक्तः । सर्वप्राणिदेहस्थरूपेण स अधियज्ञः ।
प्र.दी. – अधियज्ञः कथमित्यस्योत्तरं भगवताऽनुक्तं भाष्यकृदाह – सर्वेति ॥ आदिपदेन तत् प्रवर्तकत्वादि । नाध्यात्मशब्दवदधियज्ञशब्देऽव्ययीभावः । किन्त्वधिगतो यज्ञमिति प्रादिसमासः । अधिष्ठितो यज्ञोऽनेनेति बहुव्रीहिर्वा । अधियज्ञः क इति प्रश्ने तत्परिहारे च देह इत्यस्य प्रयोजनमाह – अन्य इति ॥ अन्यो भगवत इति सिद्धार्थतापरिहारार्थं प्रश्नवाक्ये देह इति विशेषणं प्रयुक्तम् । कर्तृभोक्तृफलदातरूणां देहप्रेरकत्वेन वर्तमान इति । अतः परिहारवाक्येऽपि यथाप्रश्नं तदुपात्तमिति वाक्यशेषः । भगवतः सर्वयज्ञभोक्तृत्वं कुतो,
येनैवमुत्तरमध्याह्रियत इत्यत आह – भोक्तारमिति ॥ त्रैविद्यानुष्ठितयज्ञभोक्तृत्वाभावात् `
सर्व'
इत्यनुपपन्नमित्यत आह – त्रैविद्या इति ॥ प्रवर्तकत्वे श्रुतिमाह – एतस्येति ॥ यज्ञफलदातृत्वादौ प्रमाणमाह – कुतो हीति ॥ ध्रुवः चिरन्तनः । नैश्रेयसं मुक्तौ भवं पदं सुखं इत्यादेः प्रश्नस्य । नन्वेष परिहारो भगवतैव कुतो नोक्त इत्यत आह – भगवान् चेदिति ॥ चेत् शब्दः यदाशब्दार्थे । अधियज्ञोऽहमिति यदाऽधियज्ञत्वेन भगवानुक्तः तदा तस्य सर्वयज्ञभोक्तृत्वादेरधियज्ञत्वमर्जुनस्य सिद्धमेव । `
भोक्तारं'
इत्यादेरर्थस्य तेन श्रुतत्वात् । अन्यत्वपक्ष एव कथमिति पृष्टत्वात् । एवमालोच्य भगवता `
कथं'
इत्यस्य प्रश्नस्य परिहारो `
अधियज्ञोऽहं'
इत्यतः पृथ~
घX
नोक्तः । अस्माभिस्तु मन्दान् बोधयितुमुक्त इति भावः । ननु यद्यधियज्ञः स्वयमेव,
कथं तर्~
हि ``
साधियज्ञं मां" इति प्रागेवोचदित्यत आह – सर्वेति ॥ रूपविशेषापेक्षया साहित्यमुक्तमिति भावः । अनेन परिहारवाक्यस्थस्य ``
देहे" इति विशेषणस्य प्रयोजनान्तरं चोक्तं भवति ।
भा– ``
अत्र" इति स्वदेहनिवृत्त्यर्थम् । न हि तत्रेश्वरस्य नियन्तृत्वं पृथगस्ति । नात्रोक्तं ब्रह्म भगवतोऽन्यत् । ``
ते ब्रह्म" इत्युक्त्वा ``
साधिभूताधिदैवं मां साधियज्ञं च ये विदुः" इति परामर्शात् । तस्यैव च प्रश्नात् । `
साधियज्ञं'
इति भेदप्रतीतेः तन्निवृत्त्यर्थं ``
अधियज्ञोऽहं" इत्युक्तम् । ``
मां" इत्यभेदप्रसिद्धेः ``
अक्षरं" इत्येवोक्तम् । आह च गीताकल्पे –
``
देहस्थ विष्णुरूपाणि अधियज्ञ इतीरितः ।
कर्मेश्वरस्य सृष्ट्यर्थं तच्चापीच्छाद्यमुच्यते ॥
अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते ।
हिरण्यगर्भोऽधिदैवं देवः सङ्कर्षणोऽपि वा ॥
ब्रह्मनारायणो देवः सर्वदेवेश्वरेश्वरः " इति ।
``
यथा प्रतीतं वा सर्वमत्र नैव विरुद्ध्यते" इति ।
स्कान्दे च –
`
आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते ।
देहाद् बाह्यं विनाऽतीवबाह्यत्वादधिदैवतम् ॥
देवाधिकारगं सर्वं महाभूताधिकारगम् ।
तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्'
इति ॥
महाकौर्मे च –
``
अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम् ।
सदेहबीजभूतानि यत् तेषामुपकारकृत् ॥
अधिभूतं तु मायान्तं देवानामधिदैवतम्" इति ॥ 4
॥
प्र.दी. ``
अत्र" इति देहविशेषणं किमर्थमित्यत आह – अत्रेति ॥ इह लौकिके देह इत्यर्थः । कुत ईश्वरदेहो व्यावर्तनीय इत्यत आह – न हीति ॥ तत्र स्वदेहे । पृथक् पृथग् भावेन । यथा ``
अधियज्ञोऽहमेव" इत्युक्तं न तथा ``
ब्रह्माहं" इति । अतो भगवतोऽन्यदेवेदम् । ``
ब्रह्म परमं" इति तु स्वरूपकथनम् । नतु विशेषणमिति शङ्कां निवारयति – नात्रेति ॥ पूर्वाध्याये ``
ते ब्रह्म तद्विदुः" इत्युक्त्वा कथम्भूतं ब्रह्म इत्याकाङ्क्षायां ``
साधिभूताधिदैवं साधियज्ञं च ब्रह्म" इति वक्तव्ये ``
मां" इति ब्रह्मणः परामर्शात् । तत्रास्तु भगवानेव ब्रह्म । अत्र तु कुत इत्यत आह – तस्यैवेति ॥ पृष्टस्यैव वक्तव्यत्वात् । तर्~
ह्यधियज्ञस्य ब्रह्मणश्च भगवत्त्वादेकत्राहमेवेत्युक्तिरपरत्र तदनुक्तिः किन्निबन्धनेत्यत आह – साधियज्ञमिति ॥ शेषं तात्पर्यनिर्णये । एतेनाऽपव्याख्यानमपि निरस्तम् । द्वादशादौ च विस्तरेण । आगमसम्मत्योक्तं स्थापयति – आह चेति ॥ यानि देहस्थ विष्णुरूपाणि सः अधियज्ञ इतीरितः । तदपीच्छाप्रयत्नाद्यमेव । नतु परिणामरूपम् । जडं देहाद् बाह्यम् । न केवलमेषां पदानामेतावन् मात्रार्थत्वं किं तु यथाप्रतीतं प्रतीतिमनतिक्रम्य शब्दशक्त्या यावत्प्रतीतं प्रमाणविरुद्धं च तदत्र व्याख्यायमानं वक्तुरभिप्रायं न व्यभिचरतीत्यर्थः । किञ्चिद् व्यवहितत्वात् मध्येऽपीतिशब्दः । एतदेव वाक्यान्तरेण स्पष्टयति – स्कान्दे चेति ॥ आत्मनोऽभिमानस्य विषयः । आत्माधिकारस्थं तत्र प्रतिपाद्यम् । देहाद् बाह्यं विनेति सामर्थ्यात् आत्माभिमानस्थेन सम्बध्यते । तत्र युक्तिरतीव बाह्यत्वात् अत्यभिमानविषयत्वाभावात् । महाभूताधिकारगं महाभूतम् । कार्यकारणग्रहणहेतुः । तदन्तिकात् तत् तादात्म्यात् । देवानामुपकारकृत् ॥ 4
॥
गी – अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 5
॥
भा – मद्भावं मयि सत्ताम् । निर्दुःखनिरतिशयानन्दात्मिकाम् । तच्चोक्तं – ``
मुक्तानां च गतिर्ब्रह्मात् क्षेत्रज्ञ इति कल्पितः" इति मोक्षधर्मे ॥ 5
॥
प्र.दी. – ``
मद्भावं" इत्यस्य मदात्मकत्वं इत्यन्यथाप्रतीतिनिरासायाऽह – मद्भावमिति ॥ ननु भगवति स्थितिः सर्वदाऽस्ति । सा कथं फलमित्यतो विशिनष्टि – निर्दुःखेति ॥ क्वचित् पाठो मद्भावं मद्वद्भावं इति । तत्र भगवत्प्रतिबिम्बानां जीवानां तत् सादृश्यं सदाऽस्ति । तत् कथं प्राप्यमुच्यत इत्यत उक्तम् – निर्दुःखेति ॥ अत्राऽत्मकमिति पाठः । अभिव्यक्तमिति शेषः । प्रतीत एवार्थः किं न स्यादिति चेन्न । मुक्तानां भगवदाश्रितत्वेन तद्भावायोगात् । तदपि कुत इत्यत आह – तच्चेति ॥ क्षेत्रज्ञः परमात्मा गतिरिति समर्थितः ॥ 5
॥
गी– यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमैवैति कौन्तेय सदा तद्भावभावितः ॥ 6
॥
तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ 7
॥
भा – स्मरन् पुरुषः त्यजतीति भिन्नकालीनत्वेऽप्यविरोध इति मन्दमतेः शङ्का मा भूदित्यन्त इति विशेषणं । सुमतेः नैव शङ्काऽवकाशः । स्मरन् त्यजतीत्येककालीनत्वप्रतीतेः । दुर्मतेः दुःखान्न स्मरन् त्यजतीति शङ्का ।
``
त्यजन् देहं न कश्चित्तु मोहमाप्नोत्यसंशयम्" इति स्कान्दे । `
तस्य ह एतस्य हृदयस्याग्रं प्रद्योतते । तेन प्रद्योतनेन एष आत्मा निष्क्रामति" इति हि श्रुतिः । सदा तद्भावभावित इत्यन्तकालस्मरणोपायमाह । भावोन्तर्गतं मनः । तथाऽभिधानात् । भावितत्वमतिवासितत्वम् । ``
भावना त्वतिवासना" इत्यभिधानात् ॥ 6
॥ 7
॥
प्र.दी. – ननु कलेवरत्यागस्यान्ताव्यभिचारात् ``
अन्त" इति व्यर्थमित्यत आह – स्मरन् इति ॥ न ``
अन्ते" इत्येतत् ``
कलेवरं त्यजति" इत्यस्य विशेषणम् । येन व्यर्थं स्यात् । किन्त्वन्ते स्मरन् इति स्मरणस्यैव । तत्रापि किं प्रयोजनमिति चेदुच्यते । ``
लक्षणहेत्वोः क्रियायां" इति लक्षणेऽपि शतुर्विधानात् स्मरन् पुरुषः कलेवरं त्यजतीति स्मरणकलेवरत्यागयोः भिन्नकालत्वेऽपि न कश्चिद् शब्दविरोध इति मन्दमतेः शङ्का स्यात् । सा मा भूदित्येवमर्थं अन्ते इति स्मरणस्य विशेषणमुपात्तम् । तेनात्र स्मरणकलेवरत्यागयोरेककालत्वसिद्धिरिति । मन्दमतेरित्यस्य कृत्यमाह – सुमतेरिति ॥ कुत इत्यत आह – स्मरन् इति । ``
लटः शतृशानचौ" इति लडादेशत्वेनाऽपि शतुर्विधानमस्ति । स च लडिति वर्तमाने पुनः लङ्ग्रहणसामर्थ्यात् क्वचित् प्रथमासामानाधिकरण्येऽपि भवति । लक्षणे विहितत्वाच्च लडादेशो बलीयान् । तत्र क्रियायामित्युपपदसापेक्षत्वात् । अस्यानपेक्षत्वात् । अप्रथमासमानाधिकरण इत्यस्यातिप्रसक्तिपरिहारमात्रार्थत्वात् । तथा च बलवतो ग्राह्यत्वे स्मरन् त्यजतीत्यस्य स्मरति च त्यजति चेत्यर्थः स्यात् । एवं चान्त इत्यनुक्तेऽपि स्मरणत्यागयोः एककालीनत्वप्रतीतेः सुमतेर्नैव शङ्काकाश इति भावः । ननु दुर्मतिरपि शाब्दं न्यायं जानात्येव अन्यथाशास्त्रे नाधिक्रियेत । केवलमध्यात्मविषये न प्रवीणः । तत्कथं तस्याऽप्येषा शङ्का स्यात् । ततश्च तं प्रत्यपि `
अन्ते'
इत्येतद् व्यर्थमित्यत आह – दुर्मतेरिति ॥ दुर्मतेर्भविष्यति शङ्का भिन्नकालत्वविषया ?
कुतः ?
मरणकाले महद्दुःखं जायते । दुःखस्य च संस्कारविलोपहेतुत्वं प्रसिद्धम् । अतो दुःखात् कारणात् मूर्छितो न स्मरन् त्यजति । कलेवरत्यागसमये स्मरणमसम्भवीति यावत् । एतामनुपपत्तिं पश्यन् बलवन्तमपि लडादेशं विहाय लक्षणार्थमेव हि मन्यत इति भावः । ननु सुमतेरप्येवं शङ्का स्यादेव । कथं चेयं शङ्का तत्वप्रतीतिरेवेति चेन्न । अज्ञानिन एव देहाभिमानिनो देहत्यागमात्मत्यागमिव मन्यमानस्य मरणकाले दुःखं भवति । तदपि मरणक्षणात् पूर्वमेव ज्ञानी तु सर्वदा देहं हेयमेव मन्यमानः न मनागपि दुःखायते । किं तु विशिष्टमेव तस्योत्क्रमणमित्यध्यात्मशास्त्रमनुसन्दधानस्य सुमतेः शङ्काऽनवकाशात् । किं तदध्यात्मशास्त्रमित्यत आह – त्यजन् इति ॥ कश्चित् विद्वान् । अविद्वानपि तत्काले । तस्येति मरणवैशिष्ट्यमात्रपरम् ।
नन्वन्त इत्येतत् स्मरणविशेषं चेत् ``
सदा तद्भावभावितः" इत्यनेनैव गतार्थं स्यात् । अन्यथा तद्व्यर्थं भवेदित्यत आह – सदेति ॥ अनन्तकालस्य स्मरणमेव तत्प्राप्तिसाधनं । नच तदकस्मात् भवति । अतस्तदुपायत्वेन सदा तद्भावभावितत्वमुच्यत इति भावः । कथमित्यतो यथाऽयं तदुपायः स्यात् तथा व्याचष्टे – भाव इति ॥ तथाऽभिधानात् इति । ``
स्यात् भावोऽन्तर्गतं मनः" इत्येवं रूपाभिधानादित्यर्थः । वासितत्वं संस्कृतत्वम् । तस्मिन् भावः तद्भावः । तेन भावित इति मनोधर्मेणात्मोपचर्यते ॥ 6
॥ 7
॥
गी – अभ्यासयोगयुक्तेन चेतसाऽनन्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ 8
॥
भा – सदा तद्भावभावितत्वं स्पष्टयति – अभ्यासेति ॥ अभ्यास एव योगो अभ्यासयोगः दिव्यं पुरुषं पुरिशयं पूर्णं च ।
``
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्" इति श्रुतेः । दिव्यं सृष्ट्यादिक्रीडायुक्तम् । `
दिवु क्रीडा'
इति धातोः ॥ 8
॥
प्र.दी. – कुतोऽयमर्थ इत्यत उत्तरत्रैवमेव वाख्यानादिति भावेनाऽह – सदेति ॥ द्वन्द्वादिशङ्काव्युदासार्थमाह – अभ्यास एवेति ॥ अभ्यासातिरिक्तस्य योगस्य प्रकृते उपयोगिनोऽभावादिति भावः । पुरुषश्चाधिदैवतमिति प्रकृतो हिरण्यगर्भोऽत्रोच्यत इति प्रतीति निरासार्थमाह – दिव्यमिति ॥ दिव्यत्वेन विशेषणादीश्वर एवायमित्यर्थः । ``
पृ पालनपूरणयोः" इत्यतो `
विदिपुरोश्च'
इति कुषन् प्रत्ययविधानात् पूर्णं चेति सिध्यति । सर्वासु पूर्षु वर्तमान इति स्वरूपानुवादेन पुरुष इति विधेयम् । तस्य व्याख्यानं पुरिशयमित्यादि । आवरणमन्तर्व्याप्तिः । संवरणं बहिराच्छादनम् । ननु दिवि भवो दिव्यः । सच सूर्यमण्डलस्थत्वात् हिरण्यगर्भोऽपि भवतीति कश्चित् । अत आह – दिव्यमिति ॥ ौणादिको यक् प्रत्ययः । `
परमं'
इति विशेषणादिति भावः ॥ 8
॥
गी – कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ 9
॥
भा – ध्येयमाह – कविमिति ॥ कविं सर्वज्ञं ``
यः सर्वज्ञः" इति श्रुतेः । ``
त्वं कविः सर्ववेदानाम्" इति च ब्राह्मे । धातारं धारणपोषणकर्तारम् । डु धाञX
धारणपोषणयोः इति धातोः ।
``
धाता विधाता परमोत सन्दृक्" इति च श्रुतिः । ``
ब्रह्मा स्थाणुः" इत्यारभ्य ``
तस्य प्रसादादिच्छन्ति तदादिष्टफलां गतिं" इति च मोक्षधर्मे । ``
तमसोऽव्यक्तात् परतः स्थितम्"। तमसः परस्तात् इति ॥ ``
अव्यक्तं वै तमः" । ``
परस्तात् हि स ततः" इति पिप्पलादशाखायाम् । ``
मृत्युर्वा व तमो मृत्युर्वै तमो ज्योतिरमृतम्" इति श्रुतेः ॥ 9
॥
प्र.दी. – उत्तरश्लोकगतविशेषणबलाच्च परमात्मैवायमिति भावेन तत्तात्पर्यमाह – ध्येयमिति ॥ आह विशिनष्टीत्यर्थः । ननु कवित्वमन्येषामप्यस्ति । तत्कथं भगवतो विशेषणमित्यत आह – कविमिति ॥ परमेश्वरस्य सार्वज्ञे प्रमिते भवेदिदं व्याख्यानम् । तदेव कुत इत्यत आह – य इति ॥ सर्वज्ञः कविशब्दार्थ इत्येतद् कुत इत्यत आह – य इति ॥ अन्येषां तु ``
सर्वे विमोहितधियः" इत्यादिना सर्वज्ञाभावः प्रमितः । ननु धाता विरिञ्चोऽपि प्रसिद्धः । तत्कथमेतद्भगवतो विशेषणमित्यत आह – धातारमिति ॥ कुतोऽयमर्थ इत्यत आह – डु धाञिति ॥ तृचः कर्तृवाचित्वं प्रसिद्धमेव । परमेश्वरस्य धातृत्वसद्भावे किं प्रमाणमित्यत आह – धातेति ॥ विधाता कर्ता । परमा सन्दृक् परमज्ञानरूपः । ``
सर्वस्य धातारं" इत्येतद् भगवत एव नान्येषामित्यत्र प्रमाणमाह – ब्रह्मेति ॥ तेन भगवता दिष्टं दत्तं फलं सुखं यस्यां सा तथोक्ता । मोक्षधर्मे कथितमिति शेषः । ``
तमसः परस्तात्" इत्येतद् आदित्यादिसाधारणमित्यतो द्वेधा सप्रमाणकं व्याचष्टे – तमस इति ॥ स्थितमिति शेषोक्तिः । अप्राकृतविग्रहमित्यर्थः ॥ 9
॥
गी – प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ 10
॥
भा – वायुजयादियोगयुक्तानां मृतिकाले कर्तव्यमाह विशेषतः – प्रयाणकाल इति ॥ वायुजयादिरहितानामपि ज्ञानभक्तिवैराग्यादिसम्पूर्णानां भवत्येव मुक्तिः । तद्वतां त्वीषद् ज्ञानाद्यसम्पूर्णानामपि निपुणानां तद्बलात् कथञ्चिद् भवतीति विशेषः । उक्तं च भागवते –
``
पानेन ते देवकथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्यबोधं यथाऽञ्जसा त्वापुरकुण्ठधिष्ण्यम् ॥
तथाऽपरे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते " इति ।
``
ये तु तद्भाविता लोकाः एकान्तित्वं समाश्रिताः । एतदभ्यधिकं तेषां तत् तेजः प्रविशन्त्युत" इति मोक्षधर्मे ।
``
सम्पूर्णानां भवेन्मोक्षो विरक्तिज्ञानभक्तिभिः ।
नियमेन तथाऽपीरजयादियुतयोगिनाम् ।
वश्यत्वात् मनसस्त्वीषत् पूर्वमप्याप्यते ध्रुवम्" इति च व्यासयोगे ॥ 10
॥
प्र.दी. – उत्तरश्लोकोक्तं सर्वं सर्वोच्चिक्रमिषुसाधारणमिति प्रतीतिनिरासार्थमाह – वायुजयादीति ॥ साधकाः द्विविधाः भक्त्यादिप्रधाना वायुजयादिप्रधानश्चेत्यतो विशेषणम् । ``
विशेषतः" इत्यनेन भक्त्यादीनां साधारण्यमाह । ननु च ``
अनुस्मरेत् यः स तं परं पुरुषमुपैति" इत्यन्वयादेकस्य वाक्यस्य कथं भिन्नविषयत्वमुच्यते । एकस्मिन्नपि वाक्ये योगबलेनैव ``
भ्रुवोर्मध्ये प्राणमावेश्य" इत्येतन्न सर्वविषयमित्येतावन्मात्रमत्र प्रतिपाद्यते । यथा ``
प्रातरुत्थाय" इति श्रुतौ न भृशं वदेदित्यादिकं किञ्चित् साधारणं किञ्चिदसाधारणम् । कुतोऽस्याऽसाधारण्यं कल्प्यत इत्यत आह – वायुजयादीति ॥ अतो न तत्सर्वसाधारणमिति शेषः । तर्~
हि को विशेषोऽन्येषां येन वायुजयादिक्लेशमधिकमनुभवन्तीत्यत आह – तद्वतां त्विति ॥ निपुणानां वायुजयादौ कथञ्चिदल्पा इत्यर्थः । किञ्चित् शीघ्रं चेत्यपि ग्राह्यम् । अत्र प्रमाणान्याह – उक्तमिति ॥ यथा यथार्थं बोधं धिष्ण्यम् । मन्दिरं इन्द्रियम् । त्वां विशन्त्येव न तु त इवाञ्जसा तद्भाविता तेन भगवता वासिताः । एतन्मुक्तिलक्षणं फलम् । तेजो नारायणाख्यम् । ईरः समीरः । ध्रुवं ब्रह्म आप्यते तैः ॥ 10
॥
गी – यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ 11
॥
भा – तदेव ध्येयं प्रपञ्चयति – यदक्षरमित्यादिना ॥ प्राप्यते मुमुक्षुभिरिति पदं स्वरूपं, ``
पद गतौ" इति धातोः । ``
तद्विष्णोः परमं पदं" इति च श्रुतेश्च ।
``
गीयसे पदमित्येव मुनिभिः पद्यसे यतः" इति वचनात् नारदीये ॥ 11
॥
प्र.दी. – क्रममुक्त्यर्थमोङ्कारोपासनमुच्यत इत्यन्यथाव्याख्यानमपाकर्तुमाह – तदेवेति ॥ वायुजययुतानां मरणकाले कर्तव्यमेव । मामनुस्मरन् इत्यादिविरोधादिति भावः । ननु पदत्वं शब्दस्यैवोङ्कारस्य सम्भवति न विष्णोरित्यत आह – प्राप्यत इति ॥ कर्मण्यकारप्रत्ययः । पदं स्वरूपमिति प्रयोगदर्शनम् तद्विष्णोरिति ॥ 11
॥
गी – सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणम् ॥ 12
॥
ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ 13
॥
भा – ब्रह्मनाडीं विना यत् अन्यत्र गच्छति तर्~
हि विना मोक्षं स्थानान्तरं प्राप्नोतीति सर्वद्वाराणि संयम्य । ``
निर्गच्छन् चक्षुषा सूर्यं दिशः श्रोत्रेण चैव हि" इत्यादि वचनात् व्यासयोगे मोक्षधर्मे च । हृदि नारायणे ।
``
ह्रियते त्वया जगद्यस्मात् हृदित्येव प्रभाषसे" इति पाद्मे । न हि मूर्धनि प्राणे स्थिते हृदि मनसः स्थितिः सम्भवति । `
यत्र प्राणो मनस्तत्र जीवः परस्तथा'
इति व्यासयोगे । योगधारणमास्थितः योगभरण एवाभियुक्त इत्यर्थः ॥ 12
॥ 13
॥
प्र.दी. – ननु मनो निरुध्येत्यनेनैव सर्वेन्द्रियसंयमनं लब्धम् । तत्किं पुनरुच्यते । मैवम् । वायुसञ्चरणद्वाराणां नाडीनामत्र ग्रहणात् । तन्नियमनं किमर्थमित्यत आह – ब्रह्मेति ॥ इति हेतौ । इत्युक्तमिति शेषः । अत्र प्रमाणमाह – निर्गच्छन्निति ॥ सूर्यं गच्छति । मोक्षधर्मे चायमेवार्थ उक्त इति शेषः । ``
हृदि" इत्यस्य प्रसिद्धार्थतानिरासार्थमाह – हृदीति ॥ ``
हरतेः क्विप् च" इति क्विप् । प्रसिद्धार्थ एव किं न स्यादित्यत आह – नहीति ॥ कुतो न सम्भवतीत्यत आह – यत्रेति ॥ आदौ हृदि निरुध्येत्यध्याहारो दोषः । मरणवेलायां अखण्डस्मृतिर्वक्तव्या । तत्कथं धारणोच्यत इत्यत आह – योगेति ॥ 12
॥ 13
॥
गी –अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ 14
॥
भा – नित्ययुक्तस्य नित्योपायवतः । योगिनः परिपूर्णयोगस्य ॥ 14
॥
प्र.दी. – `
नित्यमुक्तस्य’ `
योगिनः'
इत्येतयोः एकार्थतानिरासार्थमाह – नित्येति ॥ नित्योपायवत्वेन सम्पूर्णयोगस्येत्यर्थः ॥ 14
॥
गी – मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ 15
॥
भा – तत् प्राप्तिं स्तौति – मां इति ॥ परमां सिद्धिं गता इति हि तत्र हेतुः ॥ 15
॥
प्र.दी. – ``
स याति परमां गतिम्" । ``
तस्याहं सुलभः" इति द्वेधा वचनात् परमागतिः भगवल्लाभश्च पृथगिति न मन्तव्यम् । भगवत् प्राप्तेरेवोत्तरत्र स्तुतेः । अन्यथोभयस्तुतिप्रसङ्गात् इत्यभिप्रायेणाऽह – तत्प्राप्तिमिति ॥ तर्~
हि कथं ``
मामुपेत्य" इत्युक्त्वा `
संसिद्धिं परमां गताः'
इति पृथगुक्तिरित्यत आह – परमामिति ॥ ये मामुपेताः ते परमां सिद्धिं मोक्षलक्षणां हि गताः । नच मुक्तानां निर्बीजं जन्म सम्भवतीत्येवं तत्र स्वयं प्राप्तानां जन्माभावे हेतुरयमुच्यते । नतु भगवत्प्राप्तेरन्या परमसंसिद्धिप्राप्तिरित्यर्थः ॥ 15
॥
गी – आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ 16
॥
भा – महामेरुस्थब्रह्मसदनमारभ्य न पुनरावृत्तिः । तच्चोक्तं नारायणगोपालकल्पे –
``
आमेरुब्रह्मसदनादाजनान्न जनिर्भुवि । तथाऽप्यभावस्सर्वत्र प्राप्यैव वसुदेवजम्" इति ॥ 16
॥
प्र.दी. – ``
आब्रह्मभुवनाल्लोकाः पुनरावर्तिन इति सत्यलोकसहितानां पुनरावृत्तिरुच्यत" इत्येतदपव्याख्यानमिति भावेनाऽह – महामेरुस्थेति ॥ परतः स्थितानाम् । एवं जनोलोकमारभ्येत्यपि ग्राह्यम् । कुत एतदित्यतः श्लोकमागमेनैव व्याचष्टे – तच्चेति ॥ पृथिवीसम्बन्धिनां तदसम्बन्धिनां लोकानां ग्रहणायोभयोपादानम् । परतः स्थितानाम् । यद्यपीति शेषः । अभावो जनेर्लभ्यत इति शेषः । अनेनैवं व्याख्यातं भवति । महामेरुस्थब्रह्मसदनं जनोलोकं चारभ्य न पुनरावृत्तिः । अतो ``
मामुपेत्य पुनर्जन्म" इति किमुच्यत इति चेत् । सत्यं आब्रह्मभवनादेवमाजनाच्चार्वाग् भवा एव लोकाः पुनरावर्तिनः । परे न पुनरावर्तिन इति यावत् । तथाऽपि नोक्तमयुक्तम् । यतस्तेषु लोकेषु स्थितं मामुपेत्यावस्थितस्य पुनर्जन्म न विद्यत इति । अन्यथा ``
मामुपेत्य पुनर्जन्म" इत्युक्तत्वात् उत्तरार्धवैयर्थ्यं च ॥ 16
॥
गी – सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः ।
रात्रि युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ 17
॥
अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ 18
॥
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ 19
॥
परस्तस्मात्तु भावोऽन्योव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ 20
॥
भा – मां प्राप्य न पुनरावृत्तिरिति स्थापयितुमव्यक्ताख्यात्मसामर्थ्यं दर्शयितुं प्रलयादि दर्शयति – सहस्रयुगेत्यादिना ॥ सहस्रशब्दोऽनेकवाची । ब्रह्म परम् । `
सा विश्वरूपस्य रजनी'
इति श्रुतिः । द्विपरार्धप्रलय एवात्र विवक्षितः । `
अव्यक्ताद् व्यक्तयः सर्वाः'
इत्युक्तेः । उक्तं च महाकौर्मे –
``
अनेकयुगपर्यन्तमहर्विष्णोस्तथा निशा ।
रात्र्यादौ ली ऐते सर्वमहरादौ तु जायते" इति । ``
यः स सर्वेषु भूतेषु" इति वाक्यशेषाच्च ॥ 17
॥ 18
॥ 19
॥ 20
॥
प्र.दी. – उत्तरप्रकरणस्यासङ्गतिमाशङ्क्याऽह – मां प्राप्येति ॥ अवस्थितानामिति शेषः । प्रतिज्ञामात्रेण हि तदुक्तम् । अव्यक्तसामर्थ्यस्यात्र कथनात् कथं ``
आत्म" इत्युच्यत इत्यत उक्तम् – अव्यक्ताख्येति ॥ प्रलयादीति ॥ तत्कारणत्वं आत्मनः । सृष्टिप्रलययोरिदम्पूर्वत्वाभावज्ञापनाय गीतामुल्लङ्घ्योक्तम् । अत्र सहस्रशब्दो दशशतवाचीति प्रतीतिनिरासायाऽह – सहस्रेति ॥ बहुशब्दपर्यायोऽयम् । नतु प्रसिद्धार्थः । विरिञ्चाहोरात्रयोः प्रसिद्धस्य सहस्रचतुर्युगपर्यन्तत्वात् कथमेतदित्यत आह – ब्रह्मेति ॥ तथा च द्विपरार्धप्रलयस्याऽदिसृष्टेश्चात्र विवक्षितत्वादुक्तं युक्तम् । ननु परस्य ब्रह्मणो नित्यत्वादहोरात्रे न स्तः । तत्कथं तत्परमेतदित्यत आह – सेति ॥ सा निर्व्यापारावस्था परिपूर्णरूपस्यापि हरेः रजनीत्यर्थः । अनेनाहरपि सिद्धम् । भवेदेतत् यद्यत्र द्विपरार्धप्रलयस्याऽदिसृष्टेश्च विवक्षेत्यत्र प्रमाणं स्यादित्यत आह – द्विपरार्धेति ॥ एवमादिसृष्टेश्चेत्यपि ग्राह्यम् । न ह्यवान्तरसृष्टिप्रलययोः सर्वकार्योत्पत्तिविनाशाविति भावः । आगमान्तरसम्मतेश्बैवमित्याह – उक्तं चेति ॥ इतोऽप्येवमित्याह – य इति ॥ न ह्यवान्तरप्रलये सर्वेषामाकाशादीनां भूतानां नाशः । नापि विरिञ्चस्य पञ्चभूतनाशेऽप्यविनाशित्वमिति भावः ॥ 17
॥ 18
॥ 19
॥ 20
॥
गी – अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ 21
॥
भा – अव्यक्तो भगवान् । ``
यं प्राप्य न निवर्तन्ते" इति ``
मामुपेत्य" इत्यस्य परामर्शात् । ``
अव्यक्तं परमं विष्णुः" इति प्रयोगाच्च गारुडे । धाम स्वरूपम् । तेजः स्वरूपम् । ``
तेजः स्वरूपं च गृहं प्राज्ञैर्धामेति गीयते" इत्यभिधानात् ॥ 21
॥
प्र.दी. – इदानीं `
अव्यक्ताख्यात्म'
इति यदुक्तं तत्साधयितुमाह – अव्यक्त इति ॥ `
मामुपेत्य'
इत्युक्तार्थस्य ``
यं प्राप्य न निवर्तन्ते" इत्यव्यक्तविषयतया परामर्शात् । न केवलमव्यक्तशब्दो युक्तिबलाद् भगवति नीयते । किन्तु वाचकश्च तस्येत्याह – अव्यक्तमिति ॥ कथं तर्~
हि भगवताऽव्यक्तस्य स्वस्थानत्वमुच्यत इत्यत आह – धामेति ॥ 21
॥
गी – पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ॥ 22
॥
भा – परमसाधनमाह – पुरुष इति ॥ 22
॥
प्र.दी. – ``
भक्त्या युक्त" इति भक्तेः भगवत्प्राप्तिसाधनत्वस्योक्तत्वात् पुनरुक्तमुत्तरं वाक्यमित्यत आह – परमेति ॥ अन्यैः साधनैः सहोक्तत्वेन तत्साम्यशङ्कायां साधनेषु भक्तेः परमत्वमनेनाऽह । तच्च पुनर्वचनेनैव दोत्यमिति भावः ॥ 22
॥
गी – यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ 23
॥
भा – यत्कालाद्यभिमानिदेवतागता आवृत्त्यनावृत्ती गच्छन्ति ता आह – यत्रेत्यादिना ॥ काल इत्युपलक्षणम् । अग्न्यादेरपि वक्ष्यमाणत्वात् ॥ 23
॥
प्र.दी. – यस्मिन् काले मृता आवृत्त्यनावृत्ती यान्ति तत्प्रतिपादनार्थमुत्तरोग्रन्थ इत्यन्यथाप्रतीतिनिरासार्थमाह – यदिति ॥ याश्च ताः कालाभिमानिन्यश्चेति विग्रहः । देवतागता इति ॥ तदधिष्ठितमार्गाभ्यां गता इत्यर्थः । काल इत्युक्तत्वात् कथमादिपदप्रक्षेपेण व्याख्यानमित्यत आह – काल इति ॥ कुत इत्यत आह – अग्न्यादेरिति ॥ अग्निज्योतिर्धूमानाम् ॥ 23
॥
गी – अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ 24
॥
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ 25
॥
शुक्लकृष्णो गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥ 26
॥
भा – ज्योतिः अर्चिः । ``
ते अर्चिषमभिसम्भवन्ति" इति हि श्रुतिः । तथा च नारदीये – ``
अग्निं प्राप्य ततश्चार्चिः ततश्चाप्यहरादिकम्" इति । अभिमानिदेवताश्चाग्न्यादयः । कथमन्यथा `
अह्न आपूर्यमाणपक्षं'
इति युज्यते ।
`
दिवादिदेवताभिस्तु पूजितो ब्रह्म याति हि'
इति । अहरभिजिता शुक्लं पौर्णमास्या अयनं विषुवा सह । तच्चोक्तं ब्रह्मवैवर्ते – ``
साह्ना मध्यन्दिनेनाथ शुक्लेन च सपूर्णिमा । सविष्वा चायनेनासौ पूजितः केशवं व्रजेत् ॥" इति ॥ 24
॥ 25
॥ 26
॥
प्र.दी. – ज्योतिश्शब्दस्यानेकार्थत्वात् विवक्षितमर्थमाह – ज्योतिरिति ॥ अभिसम्भवन्ति प्राप्नुवन्ति । श्रुतिपुराणयोरह्नः प्रागर्चिषः प्राप्तेरुक्तेः तत्समाख्यानादित्यर्थः । प्रातीतिक एवार्थः किं न स्यात् । कुतोऽभिमानिदेवताग्रहणमित्यत आह – अभिमानीति ॥ आदिशब्दसमर्थनेन सह समुच्चयार्थश्चशब्दः । अन्यथा मरणकालपरिग्रहे । इति श्रुतिः । उपलक्षणमेतत् । ``
अहः शुक्ल" इति गीताऽपि । अहोरात्रव्यतिरिक्तपक्षाभावादिति भावः । समाख्यानाच्बैवमित्याह - दिवादीति ॥ किञ्च ``
षण्मासा उत्तरायणं" ``
षण्मासा दक्षिणायनं" इत्येतदप्यभिमानिदेवतां गमयति । मासातिरिक्तायनाभावात् । अभिमानिनां च पृथक्त्वेन पृथगुक्तिसम्भवादिति भावेनाह – मासेति ॥ अनेन षण्मासा एवायनमिति व्याख्यानं निरस्तं भवति । पुराणविरोधात् । अत्रानुक्तमपि किञ्चिदध्याहरति – अहरिति ॥ सहस्थितं यातीत्यप्यत्र द्रष्टव्यमिति भावः । एतदप्यभिमानिदेवतापरिग्रहसमर्थनार्थम् । प्राधान्यादेवविवक्षितत्वात् `
साह्ना'
इत्युक्तम् । सपूर्णिमा सपूर्णिमेन `
सुपां सुलुक्'
इत्यादेः । विषुशब्दस्योव~
घX
यणादेशविकल्पश्छान्दसः ॥ 24
॥ 25
॥ 26
॥
गी – नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ 27
॥
वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ 28
॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे अक्षरपरब्रह्मयोगो नाम अष्टमोऽध्यायः ॥
भा – एते सृती सोपाये ज्ञात्वाऽनुष्ठाय न मुह्यति । तच्चाह स्कान्दे – ``
सृती ज्ञात्वा च सोपाय अनुष्ठाय च साधनम् । न कश्चित् मोहमाप्नोति न चान्या तत्र वै गतिः " इति ॥ 27
॥ 28
॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये अष्टमोऽध्यायः ॥
प्र.दी. – ``
नैते सृती पार्थ" इति मार्गज्ञानमात्रेण मोहाभावोऽभिधीयत इति प्रतीतिनिरासायार्थमाह – एत इति ॥ अनुष्ठायोपायमिति शेषः । कुत एतत् ? `
योगी'
इत्युक्तत्वात् । पुराणसंवादाच्चेत्याह – तच्चेति ॥ मोहो भगवद् विस्मृतिरूपः । अन्या भगवत्प्राप्तेः । भाष्ये पुराणे चानुष्ठायेत्याकारस्थाने क्वचिदीकारो लेखकदोषेण पतितः । मूलपुस्तकेष्वदर्शनात् ॥ 27
॥ 28
॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां अष्टमोऽध्यायः समाप्तः ॥ 8
॥
श्रीमध्वेशार्पणमस्तु ॥
*************************************************************************************************
नवमोऽध्यायः
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नश्रीलक्ष्मीहयग्रीवाय नमः ॥
गी – श्रीभगवानुवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यद् ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ 1
॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ 2
॥
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ 3
॥
भा – हरिः ॐ ॥ सप्तमाध्यायोक्तं स्पष्टयत्यस्मिन्नध्याये । राजविद्या प्रधानविद्या । प्रत्यक्षं ब्रह्मावगम्यते येन तत् प्रत्यक्षावगमम् । अक्षेष्विन्द्रियेषु प्रति प्रति स्थित इति प्रत्यक्षः । तथा च श्रुतिः – ``
यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरम् । यः प्राणमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" । ``
यो वाचि तिष्ठन्", ``
यः चक्षुषि तिष्ठन्" इत्यादेः । ``
य एषोऽन्तरक्षिणि पुरुषो दृश्यते" इति च । ``
अङ्गुष्ठमात्रः पुरुषः अङ्गुष्ठं च समाश्रितः" इति च । ``
त्वं मनस्त्वं चन्द्रमास्त्वं चक्षुरादित्यः" इत्यादेश्च मोक्षधर्मे । `'
स प्रत्यक्षः प्रति प्रति हि सोऽक्षेष्वक्षवान् भवति य एवं विद्वान् प्रत्यक्षं वेद" इति सामवेदे ब्राभ्रव्यशाखायाम् । धर्मो भगवान् । तद्विषयम् धर्म्यम् । सर्वं जगद्धत्त इति धर्मः । ``
पृथिवी धर्ममूर्धनि" इति च प्रयोगात् मोक्षधर्मे । ``
भारभृत् कथितो योगी" इति च । ``
भर्ता सन् भ्रियमाणो बिभर्ति" इति च श्रुतिः । ``
धर्मो वेदमग्र आसीन्न पृथिवी न वायुर्नाकाशो न ब्रह्मा न रुद्रो न देवा न ऋषयः सोऽध्यायत्" इति च सामवेदशाखायाम् ॥ 1
॥ 2
॥ 3
॥
प्र.दी. – पूर्वसङ्गतत्वेनाध्यायार्थमाह – सप्तमेति ॥ भगवन्माहात्म्यमिति शेषः । पदार्थज्ञानपूर्वकं वाक्यार्थज्ञानमिति सप्तमोक्तपदार्थानष्टमे व्याख्याय नवमे तद् वाक्यार्थं स्पष्टीकरोतीत्यर्थः । ``
राज्ञामश्वपतिजनकादीनां विद्या राजविद्या" इति कश्चित् । तदसत् । ब्राह्मणादीनामनधिकारप्रसङ्गादिति भावेनाह – राजेति ॥ राजेव राजा । राजा चासौ विद्या चेति राजविद्येत्यर्थः । प्रत्यक्षेणावगमो यस्येति व्याख्यानमसत् । भगवन्माहात्म्यस्य शास्त्रैकसमधिगम्यत्वात् । अद्वैतोद्गारस्य प्रमाणविरुद्धत्वादिति भावेनाह – प्रत्यक्षमिति ॥ शास्त्रैकवेद्यं ब्रह्म कथं प्रत्यक्षमित्यत आह – अक्षेष्विति ॥ प्रत्यक्षः परमात्मा । प्रादिसमासोऽयं नाव्ययीभाव इति ज्ञापनाय नपुंसके प्रकृतेऽपि पुल्लिङ्ग निर्देशः । अन्यथा षष्ठी न श्रूयेत । परमात्मनोऽक्षेषु स्थितत्वे किं मानमित्यत आह – तथा चेति ॥ प्राण इति प्राणाभिमानिनी देवतोच्यते । प्राणादन्तरो भिन्नः । अङ्गुष्ठेति कर्मेन्द्रियाधिष्ठातृत्वमुच्यते । मन इत्यादेः मन आदित्य इत्यर्थः । प्रत्यक्षशब्दस्यायमर्थ इत्यत्र श्रुतिमाह – स इति ॥ प्रति स्थितः । अक्षवान् प्रशस्तेन्द्रियः । यो विद्वानेवं प्रत्यक्षशब्दार्थं वेद । धर्मादनपेतं धर्म्यमिति निर्वचनेऽपि न प्रसिद्धधर्माविरुद्धत्वमर्थः । निवृत्तधर्मस्य ब्रह्मज्ञानाविरुद्धतायाः प्रसिद्धत्वात् । प्रवृत्तिलक्षणस्य तु तद्विरुद्धत्वादिति भावेनाह – धर्म इति ॥ तस्मादनपेतमित्यर्थस्तद्विषयमिति । कथं भगवान् धर्म इत्यत आह – सर्वमिति ॥ धृञो मन् प्रत्यय ओणादिकः । धारके धर्मशब्दप्रवृत्तिः कुत इत्यत आह – पृथिवीति ॥ पर्वतोपरीत्यर्थः । भगवतः सर्वाधारकत्वे किं मानमित्यत आह – भारभृदिति ॥ सर्वत्र स्थितो भगवान् सर्वेण ध्रियते । स कथं सर्वस्य धारक इत्यत आह – भर्तेति ॥ भर्ता सन्नेव भ्रियमाणः । न स्वकीयस्थित्यै । धर्मशब्दस्य भगवद् वाचित्वं कुत इत्यत आह – धर्मो वेति ॥ इदमग्रे अस्याग्रे । अत्र पुण्यं धर्मः किं न स्यादिति शङ्कानिरासार्थं `
सोऽध्यायत्'
इति वाक्यशेषोदाहरणम् ॥ 1
॥ 2
॥ 3
॥
गी – मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ 4
॥
भा – प्रत्यक्षावगमशब्देनापरोक्षज्ञानसाधनत्वमुक्तम् । तद् ज्ञानाद्याह – मयेति ॥ तर्~
हि किमिति न दृश्यत इत्यत आह – अव्यक्तमूर्तिनेति ॥ 4
॥
प्र.दी. – एवं तर्~
हि पुनरुक्तिः स्यात् । ब्रह्मविषयं ज्ञानमित्यस्य ब्रह्मावगम्यते विषयीक्रियत अनेन ज्ञानेनेत्यस्य च भेदाभावादित्यत आह – प्रत्यक्षेति ॥ नावगमशब्देन विषयीकरणमुच्यते । किं त्ववगतिसाधनत्वम् । नच ज्ञानस्य तद् विरुद्धम् । परोक्षज्ञानस्यापरोक्षज्ञानसाधनत्वोपपत्तेरिति भावः । ज्ञानं विज्ञानसहितं प्रवक्ष्यामीति प्रतिज्ञाय ``
यज्जञात्वा" इत्यादिना तत्प्रशंसादिकमुक्तम् । अतो ``
मया ततं" इत्यादिकमपि तथाभूतमेव किञ्चित्,
उत प्रतिज्ञातमुच्यत इति शङ्कायामाह – तदिति ॥ प्रतिज्ञातमित्यर्थः । यस्यापरोक्षज्ञानसाधनत्वमुक्तं तदिति वा । कृत्स्नाध्यायप्रतिपाद्योक्तिरियम् । विशेषण वैयर्थ्यमाशङ्क्याह – तर्~
हीति ॥ सर्वव्यापी चेदित्यर्थः । न दृश्यते सर्वत्रेति शेषः ॥ 4
॥
गी – न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ 5
॥
भा – मत्स्थत्वेऽपि यथा पृथिव्यां स्पृष्ट्वा स्थितानि न तथा मयीत्याह – न चेति ॥ ``
न दृश्यश्चक्षुषा चासौ न स्पृश्यः स्पर्शनेन च " इति हि मोक्षधर्मे । `
सञ्ज्ञासञ्ज्ञ'
इति च । ममाऽत्मा देह एव भूतभावनः ।
``
महाविभूतेर्माहात्म्यशरीर" इति हि मोक्षधर्मे ॥ 5
॥
प्र.दी. – ``
मत्स्थानि सर्वभूतानि" इत्युक्त्वा पुनः कथं ``
नच मत्स्थानि" इति व्याहतमुच्यत इत्यत आह – मत्स्थत्वेऽपीति ॥ सृष्ट्वेति ॥ स्पर्शनेन्द्रियेण तां ज्ञात्वाऽन्योन्यधर्मसङ्क्रान्तिमासाद्य चेत्यर्थः । परमेश्वरस्य स्पर्शनाद्यवेद्यत्वे प्रमाणमाह – नेति ॥ सञ्ज्ञया शब्देनैव सञ्ज्ञा सम्यक् ज्ञानं यस्यासौ तथोक्तः । मत्स्थानीत्यादेरुक्तत्वाद् भूतभृत्त्वादिकं पुनरुक्तमित्यत आह – ममेति ॥ प्राक् भूतधारत्वादिकं स्वस्योक्तम् । अत्र पुनरव्यक्तमूर्तिनेति मूर्तावुक्तायां साऽस्मदादीनामिव भिन्नेति भ्रान्तिनिरासार्थं स्वलक्षणं स्वदेहस्योच्यत इत्यर्थः । भूतभावनत्वस्याधिकस्योक्तेश्च न पुनरुक्तिरिति भावेनोक्तम् – भूतेति ॥ स्यादिदं व्याख्यानं यदि भगवद् देहस्येदं भवेत् । तदेव कुत इत्यत आह – महाविभूतेरिति ॥ माहात्म्यमेव शरीरं यस्यासौ तथोक्तः ॥ 5
॥
गी – यथाऽऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ 6
॥
भा – ``
मत्स्थानि", ``
नच मत्स्थानि" इत्यत्र दृष्टान्तमाह – यथाऽऽकाशस्थित इति ॥ न हि आकाशस्थितो वायुः स्पर्शाद्याप्नोति ॥ 6
॥
प्र.दी. – एकमेकत्राश्रितमित्यत्रासम्भावनाऽभावात् किं तद् दृष्टान्तत्वोक्त्येत्यत आह – मत्स्थानीति ॥ तत्र स्थितत्वेऽप्यन्योन्यधर्मासङ्क्रान्त्यादावित्यर्थः । तदत्र न प्रतीयत इत्यतो व्याचष्टे – न हीति ॥ स्पर्शादीति तद्धर्मोपलक्षणम् ॥ 6
॥
गी – सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ 7
॥
भा – ज्ञानप्रदर्शनार्थं प्रलयादि प्रपञ्चयति – सर्वभूतानीत्यादिना ॥ 7
॥
प्र.दी. – यथा ``
मया ततं" इत्याद्युक्तोपपादनार्थान्युत्तरवाक्यानि,
न तथा ``
सर्वभूतानि" इत्यादि । किन्तु स्वतन्त्रमेव ज्ञानप्रतिपादकमिति भावेनाह – ज्ञानेति ॥ प्रलयादीति ॥ तत्कारणत्वम् ॥ 7
॥
गी – प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ 8
॥
भा – प्रकृत्यवष्टम्भस्तु यथा कश्चित् समर्थोऽपि पादेन गन्तुं लीलया दण्डमवष्टम्भ गच्छति । `'
सर्वभूतगुणैर्युक्तं नैव त्वं ज्ञातुमर्~
हसि" इति । ``
सर्वभूतगुणैयुक्तं देवं मां ज्ञातुमर्~
हसि" इति च मोक्षधर्मे । ``
विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् । प्रधानविनियोगस्थः परं ब्रह्माधिगच्छति" इति च ॥ ``
न कुत्रचित् शक्तिरनन्तरूपा विहन्यते तस्य महेश्वरस्य । तथापि मायामधिरुह्य देवः प्रवर्तते सृष्टिविलापनेषु " इति ऋग्वेदखिलेषु । ``
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे" इति भागवते । ``
अथ कस्मादुच्यते परं ब्रह्मेति,
बृंहति बृहयति" इति च अथर्वणे ।
``
पराऽस्य शक्तिर्विविधैव श्रूयते" इति च । ``
विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि" । ``
नते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप" इत्यादेश्च । प्रकृतेर्वशादवशम् । ``
त्वमेवैतत्सर्जने सर्वकर्मण्यप्यनन्तशक्तोऽपि स्वमाययैव । मायावशं चावशं लोकमेतत् तस्मात् स्रक्षस्यत्सिपासीश विष्णो" । इति गौतमखिलेषु ॥ 8
॥
प्र.दी. – ``
प्रकृतिं स्वामवष्टभ्य" इति वचनात् तद्विकलस्य भगवतो न सामर्थ्यमिति प्रतीतिनिरासार्थमाह – प्रकृतीति ॥ तथा लीलयैव न तु केवलस्य सामर्थ्याभावादिति शेषः । कुत एतत् । भगवतः सर्वसामर्थ्यसम्पूर्णस्य प्रमितत्वादित्याह – सर्वेति ॥ सर्ववस्तुसामर्थ्यैः । एवं भूतवत् पारतन्त्र्याद्युपेतम् । किन्तु दैवं देवोत्तमम् । पञ्चभूतानि महदहङ्कारौ च सप्त सूक्ष्माणि । `
सर्वज्ञता तृप्तिः" इत्युक्तप्रकारेण षडङ्गम् । प्रधानस्य मूलप्रकृतेः विनियोगः कार्येषु यो व्यापारः । तत्स्थः तद् ज्ञानी । मायामधिरुह्य प्रकृतिमवष्टभ्य । कं कः,
प्रावोचं प्रवोचत् । प्रकृतेर्वशात् विसृजामीति आविद्यकमेवेश्वरस्य कर्तृत्वम् । वस्तुतस्तु निष्क्रियत्वमित्युच्यत इत्यन्यथाप्रतीतिनिरासायाऽन्यथाऽन्वयमाह – प्रकृतेरिति ॥ कुत एतदित्यतः पूर्वोक्तार्थसहितेऽत्र प्रमाणमाह – त्वमेवेति ॥ एतत्सर्जने एतस्य लोकस्य सृष्ट्याम् । अन्यस्मिन्नपि पालनादौ सर्वकर्माणि । तस्मात् मायावशत्वादेवावशम् । एतत् एतं स्रक्ष्यसि सृजसि ॥ 8
॥
गी – नच मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ 9
॥
भा – उदासीनवत् । न तु उदासीनः । तदर्थमाह – असक्तमिति ॥ ``
अवाक्यनादर" इति श्रुतिः । ``
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया" इति भागवते । यस्यासक्त्यैव सर्वकर्मशक्तिः कुतस्तस्य सर्वकर्मबन्ध इति भावः । ``
न कर्मणा वर्धते नो कनीयान्" इति हि श्रुतिः । यः कर्माणि नियामयति कथं च तं कर्म बध्नाति ॥ 9
॥
प्र.दी. – स्वतः कर्तृत्वे कथमुदासीनत्वमुच्यत इति चेन्न । वतिना तस्य निषिद्धत्वादिति भावेनाह – उदासीनवदिति ॥ आनुदासीनत्वेऽपि वतिर्व्यर्थः स्यात् । अन्यस्य तदर्थस्याभावादित्यत आह – तदर्थमिति ॥ वत्यर्थं सादृश्यं स्वयमेव विवृणोतीत्यर्थः । परमेश्वरस्य कर्मसु सक्त्यभावे प्रमाणमाह – अवाक्येति ॥ सर्वथोदासीन एवं किं न स्यादिति चेन्न । तथा सति प्रकृत्यादीनामसत्त्वप्रसङ्गादिति भावेनाह – द्रव्यमिति ॥ यदीश्वरस्य स्वतः कर्तृत्वं स्यात् तदोदासीनमित्येतत् ``
नतु मां तानि कर्माणि निबध्नन्ति" इत्यत्र कथं हेतुः स्यादित्यत आह – यस्येति ॥ असक्त्याऽनादरेणाऽनायासेनेति यावत् । भगवतोऽपि कर्मबन्धोऽस्ति इति केषाञ्चित् प्रलापो यथा विष्णुर्येनेत्यादि । तन्निरासाय श्रुत्युपपत्ती प्राह – न कर्मणेति ॥ नियामयति नियच्छति ॥ 9
॥
गी – मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनाऽनेन कौन्तेय जगद्विपरिवर्तते ॥ 10
॥
भा – उदासीनवदिति चेत् स्वयमेव प्रकृतिः सूयत इत्यत आह – मयेति ॥ प्रकृतिसूतिद्रष्टा कर्ता अहमेवेत्यर्थः । तथा च श्रुतिः – ``
यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम्" इति ॥
प्र.दी. – कथं तर्~
ह्यहं केवलं द्रष्टैव । प्रकृतिरेव चराचरं सूयत इत्युत्तरवाक्यमित्यतः तन्निवर्त्याशङ्कां प्रदर्श्य व्याचष्टे – उदासीनवदिति ॥ भगवतोदासीनसादृश्यं स्वयमेव व्याख्यातम् । तदज्ञात्वा क्रियाऽभाव एवोक्त इति मत्वा शङ्कितम् । पुरा प्रकृतिं स्वामवष्टभ्य विसृजामीत्युक्तम् । इदानीं तूदासीनवदिति निष्क्रियत्वमुच्यते । एवं तर्~
हि प्रकृतिरेव सूयते । त्वयि तु तत्सन्निधानात् कर्तृत्वोपचारमात्रमित्यापन्नमिति तन्निवृत्त्यर्थमिदं वाक्यम् । तत्राध्यक्षेणेत्यनेन प्रकृतिसूतेः द्रष्टाऽहमेवेत्युच्यते । तृतीयया च तत् प्रयोजककर्ता चाहमेव । न तु तस्याः स्वातन्त्र्यमिति दर्शनपूर्वकत्वात् प्रयोजकत्वस्य तदुक्तिः । अन्यथा तृतीया व्यर्था स्यादिति भावः । प्रकृतिप्रयोजकत्वं परमेश्वरस्य कुत इत्यत आह – यत इति ॥ प्रसूता सृष्टावभिमुखीभूता । प्रसूती प्रसूतिः । तोयेन कर्मणा । व्यससर्ज विससर्ज । बहुलग्रहणात् ॥ 10
॥
गी – अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥ 11
॥
भा – तर्~
हि केचित् कथं त्वामवजानन्ति । का च तेषां गतिरित्यत आह – अवजानन्ति इत्यादिना ॥ मानुषीं तनुं मूढानां मानुषवत् प्रतीतां तनुम् । नतु मानुषरूपाम् । उक्तं च मोक्षधर्मे –
``
यत् किञ्चिदिह लोकेऽस्मिन् देहबद्धं विशां पते । सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः । ईश्वरो हि जगत् स्रष्टा प्रभुर्नारायणो विराट् । भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च । भूतप्रलयमव्यक्तं शुश्रूषुर्नृपसत्तम" इति ॥ अवतारप्रसङ्गे चैतदुक्तम् । अतो नावताराः पृथक् शक्याः । ``
रूपाण्यनेकान्युसृजत् प्रादुर्भावभवाय सः । वाराहं नारसिंहं च वामनं मानुषं तथा" इति । तत्रैव प्रथमसर्गकाल एवावताररूपविभक्त्युक्तेश्च । अतो न तेषां मानुषत्वादिर्विना भ्रान्तिम् । भूतं महदीश्वरं चेति भूतमहेश्वरम् । तथा हि ब्राभ्रव्यशाखायाम् – ``
अनाद्यनन्तं परिपूर्णरूपमीशं वराणामपि देववीर्यम्" इति । ``
अस्य महतो भूतस्य निश्वसितम्" इति च । ``
ब्रह्मपुरोहित ब्रह्मकायिक महाराजिक" इति च मोक्षधर्मे ॥ 11
॥
प्र.दी. – उत्तरवाक्यस्य सङ्गत्यप्रतीतेस्तामाह – तर्~
हीति ॥ यदि त्वमेव जगतः सृष्टिस्थितिसंहाराणां कर्ता । कैश्चिदवज्ञानात् । तेषां चानर्थाभावादुक्तमसदिति शङ्काभिप्रायः । ``
मानुषीं तनुमाश्रितं" इत्येतत् अन्यथाप्रतीतिनिरासाय व्याचष्टे – मानुषीमिति ॥ भ्रान्त्यनुवाद एवायमिति भावः । कुतो नेत्यत आह – उक्तं चेति ॥ चो हेतौ । शरीराणि हि भौतिकानि भवन्ति । भूतानि चेश्वरस्य बुद्धिजानि । तत्कथं तानि बध्नीयुरित्यर्थः । अत्रैव ``
ईश्वरो हि" इत्यादिनाऽन्येहेतवोऽभिधीयन्ते । विराट् नित्याभिव्यक्तरूपः । वरदो मोक्षप्रदः । सगुणः स्वातन्त्र्यादिगुणवान् । भूतानि प्रलीयन्ते यस्मिन् तत् । अव्यक्तं तदभिमानिनी देवता । तस्य शुश्रूषुः । लिङ्गव्यत्ययश्छान्दसः । अस्त्वेतन्मूलरूपविषयम् । अवतारस्य तु कृष्णस्य मानुषत्वं भवत्वित्यत आह – अवतारेति ॥ ``
यत् तत् ददृशिवान् ब्रह्मा रूपं हयशिरोधरम्" इति हयग्रीवावतारप्रसङ्गेऽस्तु हयग्रीवस्यैवम् । कृष्णस्तु मानुषशरीर एव किं न स्यादिति चेन्न । युक्तिसाम्यात् । विशेषप्रमाणाच्चेत्याह – रूपाणीति ॥ असृजत् व्यभजत् । प्रादुर्भावभवायोत्तरत्र सः नारायणः । मानुषं कृष्णादिकम् । तत्रैव मोक्षधर्म एव । प्रथमसर्गकाल एव । मानुषादिजात्युत्पत्तेः प्रागेवेत्यर्थः । उपसंहरति – अत इति ॥ तेषामवताराणाम् । उत्तरपदविरोधश्चान्यथेति भावेन तद्व्याचष्टे – भूतमिति ॥ भूतं सर्वदा विद्यमानमिति कालानन्त्यमाचष्टे । महदिति देशात्यनन्त्यम् । ईश्वरमिति गुणानन्त्यम् । भावं याथार्थ्यमिति व्याख्यानापेक्षया नपुंसकम् । अत्र श्रुतिं पठति – तथा हीति ॥ ईशं वराणामितीश्वरम् । षष्ठ्याः परनिपातः । देवाः वीर्यं पुत्रा यस्यासौ तथोक्तः । महतो भूतस्येति देशकालानन्त्यमुच्यते । वराणां देवानामीशत्वे ब्रह्म इति मोक्षधर्मवाक्यं प्रमाणम् । पुरोहितादिदेवनिकायास्त्वदधीना इत्यर्थः । ब्रह्मेति द्विरुक्तिरादरार्था ॥ 11
॥
गी – मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ 12
॥
भा – तेषां फलमाह – मोघाऽशा इति ॥ वृथाऽशाः ॥ भगवद् द्वेषिभिः आशासितं न किञ्चित् आप्यते । यज्ञादिकर्माणि च वृथैव तेषाम् । ज्ञानं च । केनापि ब्रह्मरुद्रादिभक्त्याद्युपायेन न कश्चित् पुरुषार्थ आमुष्मिकः तैराप्यत इत्यर्थः । वक्ष्यति च । ``
तानहं द्विषतः क्रूरान्" इत्यादि । मोक्षधर्मे च –
``
कर्मणा मनसा वाचा यो द्विष्यात् विष्णुमव्ययम् ।
मज्जन्ति पितरस्तस्य नरके शाश्वतीस्समाः ।
यो द्विष्यात् विबुधश्रेष्ठं देवं नारायणं हरिम् ।
कथं स न भवेत् द्वेष्यः आलोकान्तस्य कस्यचित्" इति ॥
``
सर्वोत्कृष्टे ज्ञानभक्ती हि यस्य नारायणे पुष्करविष्टराद्ये ।
सर्वावमे द्वेषयुतश्च तस्मिन् भ्रूणानन्तघ्नोऽस्य समो न चैव" इति सामवेदे शाण्डिल्यशाखायाम् ।
``
द्वेषात् चैद्यादयो नृपाः । वैरेण यन्नृपतयः शिशुपालपौण्ड्रसाल्वादयो गतिविलासविलोकनाद्यैः । ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यमीयुरनुरक्तधियः पुनः किम्" इति भागवते भक्तप्रियत्वज्ञापनार्थं नित्यध्यानस्तुत्यर्थं च स्वभक्तस्य कदाचित् शापबलात् द्वेषिणोऽपि भक्तिफलमेव भगवान् ददातीति ॥
प्र.दी. – किञ्च तेषां फलमित्यस्य परिहारो न दृश्यते । अत आह – तेषामिति ॥ अनर्थत्वप्रदर्शनाय व्याचष्टे – वृथेति ॥ सम्पदादिप्राप्तिदर्शनात् कथमित्यत आह – भगवदिति ॥ युद्धादिकर्मणां साफल्यदर्शनात् कथं मोघकर्माण इत्यत आह – यज्ञादीति ॥ ज्ञानं तत्वविषयं तेषां नास्त्येव । अतः कथं मोघत्वमुच्यत इत्यत आह – ज्ञानं चेति ॥ ज्ञानं च तेषां वृथैवेत्यस्य केनापीत्यर्थ इति सम्बन्धः । अनेन ज्ञानपदमुपलक्षणमिति चोक्तं भवति । न केवलं पुरुषार्थानवाप्तिः । अपि तु दुःखावाप्तिश्चेति भावेन तत्र प्रमाणान्याह – वक्ष्यति चेति ॥ आसम्यक् । लोकान्तस्य चण्डालादेः । पुष्करविष्टराद्ये पद्मासनस्य पितरि । भ्रूणानन्तघ्नो अनन्तभ्रूणघ्नः । यद्येवं कथं तर्~
हि भागवतादौ भगवद् द्वेषस्य मोक्षसाधनत्ववचनमित्यत आह – द्वेषादिति ॥ तद्गतिं गता इति सम्बन्धः । वैरेण ध्यायन्तः यदीयगत्यादिभिराकृतधियः आकृष्टबुद्धयः । ये पूर्वं भक्ताः शिशुपालादयः तद् विषये भवत्येषा गतिः । न तु पौण्ड्रसाल्वादिविषये । अत आह – नित्येति ॥ भक्तप्रियत्वज्ञापनार्थमित्युक्तं विवृणोति – स्वभक्तस्येति ॥ इति भक्तप्रियत्वज्ञापनार्थमिति योजना ।
भा – भक्ता एव हि पूर्वं शिशुपालादयः । शापबलाद् द्वेषिणः । तत् प्रश्नपूर्वं पार्षदत्वशापादिकथनाच्च एतद् ज्ञायते । अन्यथा किमिति तदप्रस्तुतमुच्यते । भगवतः साम्यकथनं तु द्वेषिणामपि द्वेषमनिरूप्य पूर्वतनभक्तिफलमेव ददातीति ज्ञापयितुम् । ``
न मे भक्तः प्रणश्यति" इति वक्ष्यति । न च भावो हि भवकारणं इत्यादि विरोधः । द्वेषभाविनां द्वेष एव भवतीति हि युक्तम् । अन्यथा गुरुद्वेषिणामपि गुरुत्वं भवतीत्याद्यनिष्टमापद्येत । न चाकृतधीत्वेऽविशेषः । तेषामेव हिरण्यकशिप्वादीनां पापप्रतीतेः ।
``
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विविक्षुरत्यगात् सूनोः प्रह्लादस्यानुभावतः " इति ॥ ``
यदानिन्दत् पिता मह्यं" इत्यारभ्य ``
तस्मात् पिता मे पूयेत दुरन्तात् दुस्तरादघात्" इति प्रह्लादेन भगवतो वरयाचनाच्च । बहुषु ग्रन्थेषु च निषेधः,
कुत्रचिदेव तदुक्तिरिति विशेषः । यस्मिन् तदुच्यते तत्रैव निषेधः उक्तः । महातात्पर्यविरोधश्चोक्तः पुरस्तात् । अयुक्तिमद्भ्यो युक्तिमन्त्येव बलवन्ति वाक्यानि । युक्तयश्चोक्ता अन्येषाम् । न चैषां काचित् गतिः । साम्येऽपि वाक्ययोः लोकानुकूलाननुकूलयोर्लोकानुकूलमेव बलवत् । लोकानुकूलं च भक्तप्रियत्वं नेतरत् । उक्तं च तेषां पूर्वं भक्तत्वम् –
``
मन्ये सुरान् भागवतान् त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान्" इत्यादि । अतो न भगवद् द्वेषिणां काचित् गतिरिति सिद्धम् । द्वेषकारणमाह – राक्षसीति ॥ 12
॥
प्र.दी. – स्यादेतत् । यदि तेषां स्वतो भक्तत्वं,
शापबलादेव द्वेषित्वमित्येतत् प्रमितं स्यात् । तदेव कुत इत्यत आह – भक्ता एव हीति ॥ प्रसिद्धमेवैतत् भागवतादावित्यर्थः । कुतो वचनानामर्थान्तरकल्पनेति चेत् ``
यो द्विष्यात्" इत्याद्युदाहृतवाक्यविरोधात् । हेत्वन्तरं चाह – तत् प्रश्न इति ॥ ``
अहो अत्यद्भुतं ह्येतत् दुर्लभैकान्तिनामपि । वासुदेवे भगवति गतिश्बैद्यस्य विद्विषः " इति युधिष्ठिरेन द्वेषिणः कथं मुक्तिर्जातेत्येवं रूपे तद्विषये प्रश्ने कृते सति नारदेन । ``
मातृष्वसेयो वश्बैद्यो दन्तवक्रश्च पाण्डव । पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ ॥" इति तदुत्तरत्वेन पूर्वपार्षदत्वादिकं कथ्यते । ततोऽपि द्वेषो न मोक्षसाधनमित्येतत् ज्ञायते । कथमित्यत आह – अन्यथेति ॥ यदि द्वेषो मोक्षसाधनं स्यात् तदा किमत्राद्भुतम् यतो द्वेषोऽप्येको मुक्तिमार्ग इत्युत्तरं वक्तव्यम् । पूर्वपार्षदत्वादिकमप्रस्तुतमनुपयुक्तं न वक्तव्यं स्यादित्यर्थः । ननु नारदेन ``
निन्दनस्तवसत्कारः" इत्यदिना भगवतो निन्दादौ साम्यमपि तदुत्तरत्वेन कथ्यते । यदि स्तुतेरिव निन्दाया न मोक्षसाधनत्वं स्यात् तदा तदनुपयुक्तं न वक्तव्यमिति सत् प्रतिपक्षाऽर्थापत्तित्यतोऽस्यान्यथोपपत्तिमाह – भगवत इति ॥ साम्यं निर्विकारत्वम् भक्तानामपराधं भगवान् न गणयतीत्येतत् कुत इत्यत आह – नेति ॥
द्वेषस्य मुक्तिसाधनत्वाभावे भावो यथाकथञ्चित् चिन्तनं भवस्य मोक्षस्य कारणमित्यादिवचनविरोधः स्यादित्यत आह – नचेति ॥ कुतो नेत्यत आह – द्वेषेति ॥ हि यस्मादेतत् वचनमिति युक्तं घटनोपेतं तस्मादित्यर्थः । यथोक्तम् –
``
यादृशी भावना ज्ञेया सिद्धिर्भवति तादृशी" इति । प्रतीत एवार्थः किं न स्यादित्यत आह – अन्यथेति ॥ भगवद् द्वेषिणो मुक्तिभाजस्तदाकृतधीत्वात् भगवद्भक्तवदित्यनुमानविरोध इत्यत आह – न चेति ॥ उभयोराकृतधीत्वे सति फलेऽप्यविशेष इति च नेत्यर्थः । कुत इत्यतः कालातीतत्वादित्याह – तेषामेवेति ॥ आकृतधीनामेव । विविक्षुः वेक्ष्यतीति सम्भावनाविषयः । आशङ्कायामचेतनेषूपसङ्ख्यानात् । मह्यं मम । ननु वचनत्वाविशेषात् यो द्विष्यादित्यादिभिः ``
द्वेषाच्बैद्य" इत्यादीनां कथं बाधनमित्यत आह – बह्विति ॥ निषेधो द्वेषस्य मुक्तिसाधनतायाः । न केवलं बहुत्वाबहुत्वरूपोऽनयोर्विशेषः । किन्तु स्वव्याहतत्वास्वव्याहतत्वरूपोऽपीत्याह – यस्मिन्निति ॥ भागवतादौ ग्रन्थे भगवन्निन्दयेत्यादिर्निषेधः । भगवद्गुणोत्कर्ष एव सर्ववेदानां यन्महातात्पर्यं तद्विरोधो द्वेषान्मुक्तिवाचिनाम् । इतरेषां तु तदानुकूल्यमिति च विशेष इति भावेनाह – महातात्पर्येति ॥ उक्तः उक्तप्रायः ।
इतोऽपि बाध्यबाधकभावो युक्त इति भावेन व्याप्तिं तावदाह – अयुक्तिमद्भ्य इति ॥ सप्तम्यर्थे मतुप् । ततः किमित्यत आह – युक्तयश्चेति ॥ महातात्पर्यविरोधश्चेत्यपेक्षया । अन्येषामनुकूलाः । अव्ययं विबुधश्रेष्ठम् । पुष्करविष्टराद्य इति । सावकाशत्वनिरवकाशत्वविशेषाच्बैवमित्याह – न चेति ॥ इतरेषां तूक्तैवेति शेषः । इतश्च बाध्यबाधकभावो युक्त इत्यभिप्रेत्य व्याप्तिं तावदाह – साम्येऽपीति ॥ गुणान्तरेण । साम्येऽपीति कैमुत्यार्थम् । लोकानुकूलशब्देन लोकदृष्टव्याप्तिकानुमानानुकूलत्वमुच्यते । ततः किमित्यत आह – लोकेति ॥ इतरत् द्वेषिप्रियत्वं,
भगवत्प्रीत्यैव मोक्ष इति तु प्रसिद्धमेव । शिशुपालादीनां पूर्वभक्तत्वं प्रसिद्धमित्युक्तम् । तत् कथमिति चेत् पार्षदत्वात् । वचनाच्चेत्याह – उक्तं चेति ॥ त्रयाणां लोकानामधीशे संरम्भेण मार्गमात्रेणाभिनिविष्टचित्तान् । उपसंहरति – अत इति ॥ गतिः सद्गतिः । स्वमौढ्यादेव मामवजानन्ति । न मद्दोषात् । तेषां च महाननर्थ इति सर्वं समाहितम् । ``
राक्षसीं" इत्यादि तु किमर्थमित्यत आह – द्वेषेति ॥ मौढ्यान्मिथ्याज्ञानं भवतु । प्रज्वलनात्मको द्वेषस्तु कुत इत्याशङ्कानिवृत्त्यर्थमिति शेषः । अन्येषामविद्यमानं मौढ्यमेव तेषां कुत इत्याशङ्कानिवृत्त्यर्थमिति वा । अत्र कारणमिति मूलकारणम् ॥ 12
॥
गी – महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ 13
॥
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ 14
॥
भा – नेतरे द्विषन्तीति दर्शयितुं देवानाह – महात्मान इति ॥ 13
॥ 14
॥
प्र.दी. – ननु कुतोऽयं विवेक इत्याशङ्कायां राक्षसादिभ्य इतरे न द्विषन्तीत्येतावदेव वक्तव्यम् । भजन्तीत्यादि तु व्यर्थमित्यत आह – नेतर इति ॥ सत्यमेतत् । तथापि देवानां स्वरूपकथनार्थमेतत् । तच्च द्वेषाभावोपपादनार्थमिति भावः । देवानित्युत्तमजीवोपलक्षणम् ॥ 14
॥
गी – ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ 15
॥
भा – सर्वत्रैक एव नारायणः स्थित इत्येकत्वेन पृथक्त्वेन सर्वतो वैलक्षण्येन । बहुधा हि तस्य रूपमाभाति । ``
शुक्लमिव लोहितमिव अथो नीलमथोऽर्जुनम् " इति सनत्सुजाते । `
दैवमेवापरे'
इत्युक्तप्रकारेण बहवो वा बहुधा ॥ 15
॥
प्र.दी. – `
एकत्वेनाद्वैतभावनया'
इति व्याख्यानमसत् । मिथ्याभावनत्वादिति भावेनाह – सर्वत्रेति ॥ सर्वत्र स्थितो नारायण एक एवेति योजना । ``
पृथक्त्वेनादित्यचन्द्रादिरूपेण" इत्यसदिति भावेनाह – पृथक्त्वेनेति ॥ अपरस्तु `
पृथक्त्वेन'
इत्येतत् सम्यक् व्याख्याय `
बहुधा'
इत्येतत् `
आदित्यादिरूपेण'
इति व्याख्यातवान् । अत आह – बहुधेति ॥ कथमित्यत आगमेनैव दर्शयति – शुक्लमिवेति ॥ इवशब्दोऽप्यर्थः । प्रकारान्तरेण व्याख्याति – दैवमेवेति ॥ 15
॥
गी – अहं क्रतुरहं यज्ञः स्वधाऽहमहमौषधम् ।
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ 16
॥
पिताऽहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ 17
॥
भा – प्रतिज्ञातं विज्ञानमाह – अहं क्रतुरित्यादिना ॥ क्रतवोऽग्निष्टोमादयः । यज्ञः देवतामुद्दिश्य द्रव्यपरित्यागः । ``
उद्दिश्य देवान् द्रव्याणां त्यागो यज्ञ इतीरितः" इत्यभिधानात् ॥ 16
॥ 17
॥
प्र.दी. – `
विश्वतो मुखं'
इत्युक्तं सर्वात्मकत्वं प्रपञ्चयत्युत्तरेणेत्यन्यथाव्याख्याननिरासार्थमाह – प्रतिज्ञातमिति ॥ अन्यथा प्रतिज्ञाताऽनुक्तिप्रसङ्ग इति भावः । व्याख्यानं तु ``
रसोऽहं" इत्यादेरिव द्रष्टव्यम् । क्रतव इति क्रतुयज्ञशब्दयोरर्थभेदमाह । सामान्यविशेषभावेन भेद इत्यर्थः ॥ 16
॥ 17
॥
गी – गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥ 18
॥
भा – गम्यते मुमुक्षुभिरिति गतिः । तथा हि सामवेदे वसिष्ठशाखायाम् – ``
अथ कस्मादुच्यते गतिरिति ब्रह्मैव गतिरिति तद्धि गम्यते पापविमुक्तैः" इति । साक्षादीक्षत इति साक्षी । तथा हि बाष्कलशाखायाम् – ``
स साक्षादिदिमद्राक्षीत्,
यदद्राक्षीत् तत् साक्षिणः साक्षित्वम्" इति । शरणमाश्रयः संसारभीतस्य । परं परायणं इत्याद्युक्तम् । ``
नारायणं महाज्ञेयं विश्वात्मानं परायणम्" इति च । संहारकाले प्रकृत्या जगदत्र निधीयत इति निधानम् । तथा हि ऋग्वेदखिलेषु – ``
अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः" इति ॥ 18
॥
प्र.दी. – ``
गतिः कर्मफलं" इति व्याख्यानमपाकर्तुमाह – गम्यत इति ॥ शरणमित्यतो भेदार्थमुक्तम् – मुमुक्षुभिरिति ॥ अत एव गम्यत इत्यस्यावगम्यत इत्यर्थः । कुत एतदित्यत आह – तथा हीति ॥ ``
किमुच्यते" इत्यपि प्रश्नोऽध्याहार्यः । ``
साक्षी" इत्यौदासीन्यं प्रतीयते । अत आह – साक्षादिति ॥ कुत एतदित्यत आह – तथा हीति ॥ यदद्राक्षीत् साक्षात् तत् साक्षिणः परमेश्वरस्य साक्षित्वं साक्षिशब्दप्रवृत्तिनिमित्तम् । तदुक्तं – ``
साक्षात् द्रष्टरिसञ्ज्ञायाम्" इति । निवासशब्दार्थगतार्थतया शरणशब्दार्थमाह – शरणमिति ॥ ``
संसारभीतस्य" इति मुक्तोपलक्षणम् । विष्णोर्मुक्ताश्रयत्वे प्रमाणमाह – परमिति ॥ परायणं मुक्तानामाश्रयः । तथाऽपि निधानमिति पुनरुक्तिरित्यत आह – संसारेति ॥ `
सर्वभूतानि प्रकृतिं यान्ति'
इत्युक्तत्वात् कथं भगवति निधीयन्त इत्यत उक्तम् – प्रकृत्येति ॥ प्रथमं प्रकृतिं यान्ति पश्चात् तत्र निधीयन्त इत्यर्थः । तत्कुत इत्यत आह – तथा हीति ॥ विश्वकर्मणीश्वरे,
शुभ्रचक्षुः शुद्धदृष्टिरहम् ॥ 18
॥
गी – तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ 19
॥
भा – सत् कार्यम् । असत् कारणम् । ``
सदाभिव्यक्तरूपत्वात् कार्यमित्युच्यते बुधैः । असदव्यक्तरूपत्वात् कारणं चापि शब्दितम् " इति ह्यभिधानात् । ``
असच्च सच्बैव यद् विश्वं सदसतः परं" इति च भारते ॥ 19
॥
प्र.दी. – असतो नियम्यत्वानुपपत्तेः `
सदसच्चाहं'
इत्ययुक्तमित्यत आह – सदिति ॥ कार्यं सदित्युच्यते । अभिव्यक्तिरूपत्वादित्यनेन सदेः गत्यर्थस्य क्विपि कर्मणि रूपमेतदित्युच्यते । कारणमपि अव्यक्तरूपत्वादेव असच्छब्दितम् । कार्यकारणयोः सदसच्छब्दप्रयोगं च दर्शयति – असच्चेति ॥ तस्मात् सदसतोर्विश्वस्मात् ब्रह्म परम् ॥ 19
॥
गी – त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगात् ॥ 20
॥
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणं पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ 21
॥
भा –तथापि मद् भजनमेवान्यदेवताभजनात् वरमिति दर्शयति – त्रैविद्या इत्यादिना ॥ 20
॥ 21
॥
प्र.दी. – ``
सदसच्चाहमर्जुन" इति विज्ञानस्योपसंहृतत्वात् उत्तरस्यासङ्गतिमाशङ्क्याह – तथाऽपीति ॥ ``
अहं क्रतुः" इत्यादिना सर्वक्रत्वादिभोक्तृत्वं यदुक्तं भगवतस्तदसदिति वक्ष्यामीति गूढाभिसन्धिना `
यदि सर्वत्रभोक्ता भगवान् तर्~
हि किं भागवतानां त्रैविद्यानां च फलसाम्यमेव'
इति पृष्टस्येदमुत्तरमित्याशयः । तथाऽपि सर्वत्र भगवतः भोक्तृत्वेऽपि मद्भजनं भागवतैरनुष्ठितम् । `
देवता'
इति पित्राद्युपलक्षणम् । त्रैविद्याद्यनुष्ठितात् वरमुत्कृष्टफलम् । इत्यादिना श्लोकत्रयेण ॥ 20
॥ 21
॥
गी – अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ 22
॥
भा – अनन्या अन्यदचिन्तयित्वा । तथा हि गौतमखिलेषु – ``
सर्वं परित्यज्य मनोगतं यद्विना देवं केवलं शुद्धमाद्यम् । ये चिन्तयन्तीह तमेव धीरा अनन्यास्ते देवमेवाविशन्ति" इति । ``
कामं कालेन महतैकान्तित्वात् समाहितैः । शक्यो द्रष्टुं स भगवान् प्रभासन्दृश्यमण्डलः" इति मोक्षधर्मे । नित्यमभितः सर्वतो युक्तानाम् ॥ 22
॥
प्र.दी. – अद्वैतज्ञानिनो अन्यथा इति प्रतीति निरासार्थमाह – अन्यथा इति ॥ अविद्यमानमन्यत् येषां ते अनन्याः । तच्च ``
अनन्याश्चिन्तयन्तो मां" इति प्रसङ्गात् चिन्तनीयमिति लब्धेऽन्यदचिन्तयित्वेति सिध्यति । प्रतीत एवार्थः किं न स्यादित्यत आह – तथा हीति ॥ `
देवमेवाविशन्ति'
इत्यनेन `
योगक्षेमं वहाम्यहं'
इत्युक्तार्थं भवति । अत्रैव `
कामं'
इत्यागमान्तरम् । प्रभया सन्दृश्यं मण्डलं स्वरूपं यस्यासौ तथोक्तः । दर्शनस्य योगक्षेमसाधनत्वं प्रसिद्धमेव । ``
नित्याभियुक्तानां" इत्यस्य ``
अपवादविषयाणां" इत्यन्यथाप्रतीतिनिरासार्थमाह – नित्यमिति ॥ सर्वतः सर्वस्मिन् देशे । शरीरेन्द्रियमनोभिर्वा युक्तानां भगवति सेवोद्युक्तानाम् ॥ 22
॥
गी – येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयाऽन्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ 23
॥
भा – तर्~
ह्ययं क्रतुरित्याद्यसत्यमित्यत आह – येऽपीति ॥ 23
॥
प्र.दी. – उक्तप्रश्नस्योत्तरं जातम् । तत् किमुत्तरेणेत्यतः प्रश्नाभिसन्ध्युद्घाटनस्येदमुत्तरमित्याह – तर्~
हीति ॥ भगवद्भोगनिमित्तं हि फलम् । स चेत् सर्वत्र समः तदा सर्वेषां फलसाम्येन भाव्यम् । तदभावश्चेत् तर्~
हि ``
अहं क्रतुः" इत्युक्तं सर्वत्र भगवतः भोक्तृत्वमप्यसत्यमित्यर्थः ॥ 23
॥
गी –अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ 24
॥
भा – कारणमाहाविधिपूर्वकत्वे – अहं हीति ॥ 24
॥
प्र.दी. – ``
अहं क्रतुः" इत्यादिनोक्तत्वात् ``
अहं हि" इति पुनरुक्तिरित्यत आह – कारणमिति ॥ त्रैविद्यादिकृतानां यज्ञानां भगवांश्चेत् भोक्ता कथं तर्~
ह्यविधिपूर्वकत्वमिति शङ्कायामिति शेषः ॥ 24
॥
गी – यान्ति देवव्रता देवान् पितरून् यान्ति पितृव्रताः ।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ 25
॥
भा – फलं विविच्याह – यान्तीति ॥ 25
॥
प्र.दी.– ``
ते पुण्यमासाद्य" इति ``
योगक्षेमं वहाम्यहं" इति च फलभेदस्योक्तत्वात् किं ``
यान्ति" इत्यादिनेत्यत आह ॥ फलमिति ॥
तस्यैवायं प्रपञ्च इति भावः ॥25
॥
गी –पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ 26
॥
भा –दुर्बलैस्त्वं पूजयितुमशक्यो महत्त्वादित्याशङ्क्याह–
पत्रमिति ॥ न त्वविहितपत्रादि । तस्यापराधत्वोक्तेर्वाराहादौ ।
भक्त्यैवाहं तृप्य इति भावः ।
``
भक्तप्रियं सकललोकनमस्कृतं च " इति भारते ।
एतावानेव लोकेऽस्मिन् पुंसः स्वार्थः परः स्मृतः ।
एकान्तभक्तिर्गोविन्दे यत् सर्वत्रात्मदर्शनम् ॥ 26
॥
प्र.दी. – ``
पत्रं" इत्यस्य सङ्गत्यप्रतीतेराह ॥ दुर्बलैरिति ॥ अतस्तद्भजनस्य महाफलत्वेऽपि तद् विहायाल्पानां देवानां भजनमल्पफलमपि सुशकत्वात् करोमीति प्रासङ्गिकशङ्काशेषः । साधनानादरस्योक्तत्वात् यत् किञ्चित् पत्रादिकमिति न मन्तव्यमित्याह – नत्विति ॥ तत् किं किमपि भगवते समर्पणीयमेवेति नियमोऽत्राभिप्रेत इत्यत आह – भक्त्यैवेति । कुत इत्यत आह - भक्तेति ॥ स्वार्थः स्वार्थसाधनोपायः ॥ 26
॥
गी –यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत् तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ 27
॥
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः ।
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ 28
॥
भा – अतो यत् करोषि ॥ 27
॥ 28
॥
प्र.दी. – आत्मनो गोविन्दस्यासाधनानादरस्य पूर्वमेवोक्तत्वात् व्यर्थमुत्तरमित्यत आह – अत इति ॥ सामान्यमुक्त्वा विशेषे निगमनमेतदिति भावः ॥ 27
॥ 28
॥
गी – समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ 29
॥
भा – तर्~
हि स्नेहादिमत्त्वात् अल्पभक्तस्यापि कस्यचित् बहुफलं ददासि । विपरीतस्यापि कस्यचित् विपरीतमित्यत आह – समोऽहमिति ॥ तर्~
हि न भक्तिप्रयोजनमित्यत आह – ये भजन्तीति ॥ मयि ते तेषु चाप्यहमिति ॥ मम ते वशाः तेषामहं वश इति । उक्तं च पैङ्गिखिलेषु – ``
ये वै भजन्ते परमं पुमांसं तेषां वशास्स तु ते मद्वशाच्च" इति । तद्वशा एव ते सर्वदा । तथाऽपि बुद्धिपूर्वाबुद्धिपूर्वकत्वेन भेदः । उद्धवादिवत् शिशुपालादिवच्च । तच्चोक्तं तत्रैव – ``
अबुद्धिपूर्वाद्यो वशस्तस्य ध्यानात् पुनर्वशो भवते बुद्धिपूर्वम्" इति ॥ 29
॥
प्र.दी. – भक्तप्रियत्वमुक्त्वा तद्विरुद्धं सर्वत्र साम्यं कथमुच्यत इत्यत आह – तर्~
हीति ॥ यदि त्वं भक्तप्रियस्तदा द्वेष्यप्रियश्च स्याः । ततश्च भक्तेषु द्वेषिषु यथासख्यं स्नेहद्वेषवत्त्वादल्पभक्तस्यापि कस्यचित् बहुफलं सुखरूपं ददासि । विपरीतस्याल्पद्वेषिणोऽपि कस्यचित् बहुफलं दुःखरूपं ददासीत्याद्यापाद्यते । राजादिषु तथा दर्शनात् । तथा च वैषम्यनैर्घृण्ये तवेति शङ्कार्थः । पूर्वार्धेनैव शङ्कायाः परिहृतत्वात् किमुत्तरार्धेनेत्यत आह – तर्~
हीति ॥ अहं हि सर्वभूतेषु समो न वैषम्यादिमान् यतो मे तदीयं द्वेषमपेक्ष्याधिकं द्वेष्यो नास्ति । तदीयां भक्तिमपेक्ष्याधिकं प्रियश्च नास्तीति भगवतोक्तेऽपि विपरीतमर्थं गृहीत्वा शङ्कते । यदि ते प्रियो नास्तीति भगवतोक्तेऽपि विपरीतमर्थं गृहीत्वा शङ्कते । यदि ते प्रियो नास्ति तर्~
हि न भक्तिः प्रयोजनं फलस्य । तथा चोक्तविरोध इति भावः । ``
मयि ते तेषु चाप्यहं" इत्येतन्न फलं स्वभावसिद्धत्वादित्यत आह – मयीति ॥ इत्यस्येत्यर्थः इति योजना । कुत एतदित्यत आह – उक्तं चेति ॥ ``
मम ते वशाः" इत्येतदपि तादृगेव भजनाभावेऽपि तद्वशत्वस्वाभाव्यादित्यत आह – तदिति ॥ यद्यपीति शेषः । अत्र दृष्टान्तं प्रमाणं चाह – उद्धवादीति ॥ अबुद्धिपूर्वं यो वशस्सः ॥ 29
॥
गी – अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ 30
॥
भा – न भवत्येव प्रायस्तद्भक्तः सुदुराचारः । तथापि बहुपुण्येन यदि कथञ्चित् भवति तर्~
हि साधुरेव स मन्तव्यः ॥ 30
॥
प्र.दी. – ``
अपि चेत्" इत्यादिना भक्तेः प्रशंसा क्रियते । तत्र विष्णुभक्तेस्सुदुराचारेणैकत्र समावेशप्रतीतौ यथावद् व्याचष्टे – न भवत्येवेति ॥ 30
॥
गी – क्षिप्रं भवति धर्मात्मा शश्वत् शान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ 31
॥
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ 32
॥
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ 33
॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यति युक्त्तैवमात्मानं मत्परायणः ॥ 34
॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥ 9
॥
भा – कुतः ?
क्षिप्रं भवति धर्मात्मा । देवदेवांशादिष्वेव च तद्भवति । उक्तं च शाण्डिल्यशाखायाम् – ``
नाविरतो दुश्चरितान्नाभक्तो नासमाहितः । सम्यग् भक्तो भवेत् कश्चित् वासुदेवेऽमलाशयः । देवर्षयस्तदंशाश्च भवन्ति क्व च ज्ञानतः" इति ॥ अतोऽन्यः कश्चित् भवति चेत् डाम्भिकत्वेन सोऽनुमेयः । साधारणपापानां सत्सङ्गात् महत्यपि कथञ्चिद्भक्तिर्भवति । साधारणभक्तिर्वेतरेषाम् । ``
स शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवैहि नास्य भक्तिः" इति श्रीविष्णुपुराणे । ``
सा श्रद्धधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः" इति च । ``
वेदास्त्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् । पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम् । गुप्तानि चत्वारि यथाऽऽगमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम् ।"
``
तं चापि देवं शरणं प्रपन्नं एकान्तभावेन भजाम्यजस्रम् । एतैरुपायैः परिशुद्धसत्वः कस्मान्न पश्येयमनन्तमेनम्" इति मोक्षधर्मे । आचारस्य ज्ञानसाधनत्वोक्तेश्च ज्ञानाभावे सम्यग् भक्त्यभावात् । तथा हि गौतमखिलेषु
``
विना ज्ञानं कुतो भक्तिः कुतो भक्तिं विना च तत्" इति ।
``
भक्तिः परे स्वेऽनुभवो विरक्तिरन्यत्र चैतत् त्रिकमेककालम्" इति च भागवते ॥ 31
॥ 32
॥ 33
॥ 34
॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये नवमोऽध्यायः ॥ 9
॥
प्र.दी. – बहुपुण्येन स्वयोग्याधिकेनार्जितेन सम्यग् व्यवसितो हि स इति हेतोरुक्तत्वात् ``
क्षिप्रं" इत्यादि व्यर्थमित्यत आह – कुत इति ॥ सम्यग् व्यवसायत्वेऽपि सुदुराचारः कुतस्साधुर्मन्तव्य इति शङ्कार्थः । सम्यग् व्यवसायवत्त्वात् क्षिप्रं भवति धर्मचित्तः । यदेतद्भक्तेः सुदुराचारेण सहैकत्र क्वचिदवस्थानमङ्गीकृतं तदपि न मनुष्यविषयमित्याह – देवेति ॥ देवाश्चेन्द्रादयस्तदंशाः सुग्रीवादयः । आदिपदेन विश्वामित्रादीनां ऋषीणां ग्रहणम् । एतच्च देवदेवांशादिष्वेव विषयेषु भवतीति योजना । कुत इत्यत आह – उक्तं चेति ॥ दुश्चरितादविरतो यः कश्चित् सोऽमलाशयो भूत्वा वासुदेवे सम्यग् भक्तो न भवेत् । तथाऽभक्तः,
श्रवणकीर्तनादिभक्तिलिङ्गरहितः । एवमसमाहितो विषय विक्षिप्तमनाश्च । देवादयश्च क्वचिदेवम्भूता अपि सम्यग् भक्ता भवन्ति । कुतः ज्ञानतः सम्यग् व्यवसायवत्त्वात् । ननु देवादिभ्योऽन्योऽपि सुदुराचारस्तद्भक्तो दृश्यते । शङ्खचक्राङ्कितबाहुमूलत्वादिलिङ्गवत्त्वात्,
तत्कथमेतदित्यत आह – अतोऽन्य इति ॥ भवति चेत् सुदुराचारोऽपि भक्तिलिङ्गवान् इति शेषः । माभूत् सुदुराचारो भक्तः । मध्यमदुराचारस्तु तथाविधः कथमित्यत आह – साधारणेति ॥ महतीति वक्ष्यमाणसाधारणभक्तिव्यवच्छेदार्थम् । सुदुराचाराणामपि भगवत् प्रेम्णोऽनुभवसिद्धत्वात् कथं डाम्भकत्वानुमानमित्यत आह – साधारणेति ॥ अल्पेत्यर्थः । प्रेमानुभवाभावेऽनुमानमुक्तम् । महाभक्त्यभावविषयं वेति भावः । सुदुराचारोऽपि भक्तिलिङ्गान्महाभक्त एवास्तु । किं डाम्भिकत्वादिकल्पनयेत्यत आह – स इति ॥ शठमतिर्डम्भबुद्धिः । महाभक्तेः दुराचारोपशमहेतुत्वोक्तेश्च न तयोरेकत्र समावेश इत्याह – सेति ॥ हरिभक्तिः । इतश्बैवमित्याह – वेदा इति ॥ मम मया परस्य गुह्यं न च भिन्नपूर्वं पिशुनत्वं नाऽचरितम् । उपस्थमुदरं पाणिः वाक् इति चत्वारि । मे मया । एकान्तभावेन नियतमनसा । सत्वमन्तःकरणम् । कारणसामग्र्यां सत्यां कार्यानुदयो ह्याश्चर्यहेतुः । नन्वाचारस्य ज्ञानसाधनत्वोक्त्या दुराचाराणां ज्ञानाभावः सिध्यतु । महाभक्त्यभावस्तु कुत इत्यत आह – ज्ञानेति ॥ कुत एतदित्यत आह – तथा हीति ॥ भक्तिज्ञानयोरविनाभूतत्वाच्च तदभावे तदभावसिद्धिरित्याह – भक्तिरिति ॥ 31
॥ 32
॥ 33
॥ 34
॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां नवमोऽध्यायः समाप्तः ॥ 9
॥
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवाभिन्नश्रीमध्वेशार्पणमस्तु ॥
**********************************************************************************************************
श्रीवादिराजगुर्वन्तर्गतश्रीमध्वेशायनमः
*
उपासनार्थं विभूतीर्विशेषकारणत्वं च केषाञ्चित् अनेनाध्यायेनाह ॥
//
प्रकृतसङ्गतत्वेनाध्याय प्रतिपाद्यं दर्शयति – उपासनार्थमिति ॥ षष्ठे ध्यानमुक्तम् । तन्नवमान्ते ``
मन्मना भव" इति स्मारितम् । तच्च ध्येयसापेक्षम् । विशिष्टाधिकारिणां च भगवद् विभूतिभूतय उपास्याः । अतस्ता आहानेन दशमाध्यायेन । तत्राऽदौ केषाञ्चित् बुद्ध्यादीनां महर्ष्यादीनां च विशेषकारणत्वमपि भगवत आहेत्यर्थः । विभूतिशब्दार्थस्तात्पर्यनिर्णयेऽभिहितः । तदुक्तेर्भूयस्त्वात् प्रथममुपादानम् । अत एवैकवाक्यता । ननु विभूतयो ``
रसोऽहं" इत्यादिनोक्ता एव । सत्यम् । अत एव विस्तरेणाऽत्मन इति वक्ष्यति । विशेषकारणत्वं नाम सामर्थ्यातिशयोपेततया निर्माणम् ।
श्रीभगवानुवाच –
((
भूय एव महाबाहो श्रुणु मे परमं वचः ।
यत्तेऽहं प्रियमाणाय वक्ष्यामि हितकाम्यया ॥ 1
॥
*
प्रियमाणाय श्रुत्वा सन्तोषं प्राप्नुवते ॥ 1
॥
//
प्राक् ``
शोकसंविग्नमानसः" इत्युक्तम् । तद्विरुद्धं कथं `
प्रियमाणाय'
इत्युच्यत इत्यतो व्याचष्टे – प्रियमाणायेति ॥ पूर्वं बन्धुस्नेहाच्छोक उक्तः । इदानीं भगवद्वचनश्रवणनिमित्ता सन्तोषप्राप्तिः श्रोतृत्वसम्पत् प्रतिपादनायोच्यत इति न विरोध इति भावः ॥ 1
॥
((
न मे विदुस्सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्~
हि देवानां महर्षीणां च सर्वशः ॥ 2
॥
*
प्रभवं प्रभावम् । मदीयां जगदुत्पत्तिं वा । तद् वशत्वात् तस्येत्युच्यते । यद्यस्ति तर्~
हि देवादयोऽपि जानन्ति सर्वज्ञत्वादतो नास्तीति भावः । ``
अहमादिर्~
हि" इति तु उत्पत्तिरपि यस्य वशा कुतस्तस्य जनिरिति ज्ञापनार्थम् । ``
अहं सर्वस्य जगतः प्रभवः प्रलयः" इति चोक्तम् । उक्तं चैतत् सर्वमन्यत्रापि ।
``
को अद्धा वेद क इह प्रावोचत् कुत आजाताकुत इयं विसृष्टिः । अर्वाग् देवा अस्य विसर्जनेन अथ को वेद यत आ बभूतव" इति । ``
न तत्प्रभावं ऋषयश्च देवा विदुः कुतोऽन्येऽल्पधृतिप्रमाणाः" इति ऋग्वेदखिलेषु । अन्यस्त्वर्थो ``
यो मामजं" इति वाक्यादेव ज्ञायते ॥ 2
॥
//
प्रभवशब्दः केनचित् सामर्थ्यमात्रवाचित्वेन व्याख्यातः । अन्येन तु भगवदुत्पत्तिवाचित्वेन । तदुभयमङ्गीकुर्वन्नधिकमपि विवक्षुराह – प्रभवमिति ॥ मदीयामुत्पत्तिमिति सम्बन्धः । जगदुत्पत्तिः ``
मे" इति कथं विशेष्यत इत्यत आह – तदिति ॥ जगदुत्पत्तिरिति वर्तते । एवं तर्~
हि भगवत्प्रभाववत् जगदुत्पत्तिवच्च भगवदुत्पत्तिरस्त्येव । किं तु दुर्ज्ञाना एवेत्यापन्नमित्यत आह – यदीति ॥ भगवदुत्पत्तिरिति शेषः । सर्वज्ञत्वात्सामान्यत इति शेषः । ततः परं ``
नच सामान्यतोऽपि जानन्ति" इत्यध्याहारः । अतः सर्वथा अनुपलम्भात् । प्रभावादिकं तु विशेषत एव न जानन्ति न तु सामान्यतोऽपीति भावः । ननु भगवदुत्पत्तेरभावश्चेदत्राभिप्रेतस्तदा ``
अहमादिर्~
हि" इति हेतुवचनं न सङ्गच्छते । अत्र हि देवादयो अर्वाक्तना मया सृष्टाः कथं पूर्वतनीमुत्पत्तिं जानीयुरिति प्रतीयत इत्यत आह – आहमिति ॥ अपिशब्दोऽध्याहृतेन ``
सर्वस्य" इत्यनेन सम्बध्यते । कुतो जनकात् । नन्वत्र सर्वस्याप्युत्पत्तिः भगवदधीनेति नोच्यते । किं तु देवादीनामेव । तत्कथमनेन कारणाभावः सिध्यतीति चेन्न । देवाऽदिशब्दस्योपलक्षणार्थत्वात् । तत्कुत इत्यत आह – अहमिति ॥ उक्तमर्थत्रयमुपपादयति – उक्तं चेति ॥ इयं विसृष्टिः विविधा जगत्सृष्टिः कुतः कारणात् आ जाता इति कः पुरुषः कुतः प्रमाणात् अद्धा वेद कश्च इह लोके प्रावोचत् । न कोऽपि कुतश्चित् । यतो देवा अस्य ईश्वरस्य विसर्जनेन निष्पन्ना अर्वाचीनाः । सर्वथाऽज्ञाने तदभावः स्यादित्यत उक्तं अथ अन्यत् यतो यस्मात् इयं आ बभूव स कः प्रजापतिः भगवान् अद्धा वेद इत्यर्थः । न तत् प्रभावं इत्यत्र अद्धा इति द्रष्टव्यम् । अत एव व्युत्क्रमः । प्रमाणं प्रमा । अन्यस्त्वर्थो भगवतः जन्माभावः ॥ 2
॥
((
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ 3
॥
*
अनः चेष्टयिता आदिश्च सर्वस्य इति `
अनादिः'
। अजत्वेन सिद्धेः इतरस्य ॥ 3
॥
//
अजशब्दागतार्थतया अनादिशब्दं व्याचष्टे – अन इति ॥ सर्वस्येत्युभयशेषः । अन्तर्णीतण्यर्थादनतेः पचाद्यच् । न विद्यते आदिः कारणमस्येत्यनादिरित्यन्ये । तदसत् । आर्थिकपुनरुक्तेरपरिहारादित्याह – अजत्वेनेति ॥ इतरस्य कारणराहित्यस्य । अजत्वे हेतुरयमुच्यत इति चेत् । मैवम् । तद् ज्ञापकविभक्त्याद्यभावात् । गत्यन्तराभावे हि गमनिकैषा । चेष्टकत्वं प्रागनुक्तं कथमनूद्यत इति चेन्न । प्रभावे सर्वस्यान्तर्भावात् ॥ 3
॥
((
बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोभावो भयं चाभयमेव च ॥ 4
॥
अहिंसा समता तुष्टिस्तपोदानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ 5
॥
*
तत् प्रथयति – बुद्धिरित्यादिना ॥ कार्याकार्यविनिश्चयो बुद्धिः । ज्ञानं प्रतीतिः । ``
ज्ञानं प्रतीतिर्बुद्धिस्तु कार्याकार्य विनिश्चयः " इति ह्यभिधानात् । दम इन्द्रियनिग्रहः । शमः परमात्मनिष्ठा । ``
शमो मन्निष्ठता बुद्धेः दम इन्द्रियनिग्रहः" इति भागवते । तुष्टिरलम्बुद्धिः । `
अलम्बुद्धिस्तथा तुष्टिः" इत्यभिधानात् ॥ 4
॥ 5
॥
//
तर्~
हि ``
आदिम्" इत्यनेन ``
बुद्धिः" इत्यादिकं गतार्थमित्यत आह – तदिति ॥ सर्वादित्यम् । ``
बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरं" इति गौतमवचनात् ``
बुद्धिर्ज्ञानं" इति पुनरुक्तिरित्यत आह – कार्येति ॥ कुत एतदित्यत आह – ज्ञानमिति ॥ ज्ञायते अनेनेति ज्ञानं शास्त्रमित्यसत् । आध्यात्मिकधर्मप्रसङ्गात् । दमो बाह्येन्द्रियोपशमः,
शमोऽन्तःकरणस्येति कश्चित् । तदसत् । एकेनैव शब्देन सिद्धत्वात् । किन्तु दमः क्रियासु विनयः । शमो बाह्यान्तःकरणसंयम इत्यपरः । तदप्यसदिति भावेनाह – दम इति ॥ कुत इत्यत आह – शम इति ॥ सुखशब्दागतार्थतया तुष्टिशब्दं सप्रमाणकं व्याचष्टे – तुष्टिरिति ॥ 4
॥ 5
॥
((
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ 6
॥
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ 7
॥
*
पूर्वे सप्तर्षयः । ``
मरीचिरत्र्यङ्गिरसौ पुलस्यः पुलहः क्रतुः । वसिष्टश्च महातेजाः" इति मोक्षधर्मोक्ताः । ते हि सर्वपुराणेषूच्यन्ते । चत्वारः प्रथमाः स्वायम्भुवाद्याः । तेषां हि इमाः प्रजाः । न हि भविष्यतां इमाः प्रजा इति युक्तम् । विभागः प्राधान्यं च प्राथमिकत्वादेव भवति । गौतमखिलेषु चोक्तम् – ``
स्वायम्भुवं स्वारोचिषं रैवतं च तथोत्तमम् । वेद यः स प्रजावान्" इति । पूर्वेभ्यो ह्युत्तरा जायन्त इत्येषां प्राधान्यम् । अजातेषु ज्येष्ठ्यम् । तापसस्य भगवदवतारत्वात् अनुक्तिः । तच्च भागवते प्रसिद्धम् । मानसत्वं च सर्वेषां मनूनामुक्तं भागवते – ``
ततो मनून् ससर्जान्ते मनसा लोकभावनान्" इति । अन्यपुत्रत्वं त्वपरित्यज्यापि शरीरं तद्भवति । प्रमाणं चोभयविधवाक्यान्यथाऽनुपपत्तिरेव । `
पूर्वे'
इति विशेषणाच्बैतत्सिद्धिः ॥ मत्तो भावो येषां ते मद्भावाः । ये ते ब्रह्मणो मानसा जातास्ते मत्त एव जाता इति भावः ॥ 6
॥ 7
॥
//
महर्षयः सप्त भृग्वादय इति शङ्करः । तदसत् । पूर्व इति विशेषणेन प्रथममन्वन्तरस्थानामेव ग्रहणस्योचितत्वात् । मोक्षधर्मसंवादाच्चेति भावेनाह – पूर्व इति ॥ इतोऽपि मरीच्यादय एवेत्याह – ते हीति ॥ निरुपपदेन सप्तर्षिशब्देनेति शेषः । पूर्व इत्यस्योत्तरत्र सम्बन्धेऽप्येतत् सिद्धमिति भावेनानेकप्रमाणोपन्यासः । ब्रह्मसावर्ण्यो रुद्रसावर्ण्यो दक्षसावर्ण्यो धर्मसावर्ण्य इति भविष्यन्तश्चत्वारो मनव इत्यन्ये । तदसदिति भावेनाह – चत्वार इति ॥ स्वायम्भुवस्वारोचिषरैवतोत्तमाः । प्रथमातिक्रमे कारणाभावादिति भावः । किञ्च ``
येषां लोक इमाः प्रजाः" इति विशेषणमेष्वेव सम्भवति । नेतरेषु अतोऽप्येवमित्याह – तेषां हीति ॥ इमा वर्तमानाः प्रजा अपत्यानि । ननु चतुर्दश मनवः । तेषु चतुर्णां यत् पृथक्करणं तत्र कारणेन भाव्यम् । अस्ति च तत्परोक्तेषु सञ्ज्ञासाम्यम् । नतु स्वायम्भुवादिषु । अतः कथमेतदित्यत आह – विभाग इति ॥ प्राधान्यादेवेति शेषः । सञ्ज्ञासाम्यस्याप्रयोजकत्वात् । अन्यथा मेरुसावर्णेरपि ग्रहणप्रसङ्गादिति भावः । अस्त्वेवम् । प्राधान्यं च परोक्तानामेवेत्यत आह – प्राधान्यं चेति ॥ स्वायम्भुवादीनामिति शेषः । किञ्च श्रुतौ स्वायम्भुवादीनामेवं पृथक् करणात् त एवात्रेत्याह – गौतमेति ॥ पृथक्करणे न फलमिति शेषः । प्राथमिकत्वादेव प्राधान्यं भवतीत्युक्तम् । तत्कथमित्यत आह – पूर्वेभ्यो हीति ॥ तत्सन्ततावित्यर्थः । तेषां पूर्वेषामुत्तरान् प्रति । तत्सन्ततावजातान् प्रति प्रथमानां कथं प्राधान्यमित्यत आह – अजातेष्विति ॥ विषयसप्तमीयम् । ज्यैष्ठ्यं प्रथमानां प्रधान्यमित्यर्थः । इदमुक्तं भवति । प्रधानगुणाभावो हि सति सम्बन्धे भवति । अयुगपत् भाविषु चैतेषु प्रथमानामेव प्रधान्यमुत्तरेषां गुणत्वमुक्तविधया सम्भवति । न त्वन्यथा कथमपीति । प्रथमाश्चेत् गृह्यन्ते तदा चतुर्थस्तापसो गीताऽभिप्रेततया कुतो न व्याख्यान इत्यत आह – तापस्येति ॥ अनुक्तिरव्याख्यानम् । भगवति च ``
मद्भावा मानसा जाताः" इति विशेषणासम्भवादिति भावः । तापसस्य भगवदवतारत्वं कुत इत्यत आह – तच्चेति ॥ ``
चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तापसः । हरिरित्याहृतो येन गजेन्द्रो मोचितो ग्रहात्" इत्यादिना । ननु यदि विशेषणासम्भवात् प्रथमप्राप्तातिक्रमेण तत्सम्भवतां ग्रहणम्,
तर्~
हि ``
मानसा जाताः" इति विशेषणासम्भवादेतान् परित्यज्य ब्रह्मसावर्ण्यादय एव ग्राह्याः । तेषु तत्सम्भवादिति भास्करः । तत्राह – मानसत्वं चेति ॥ चतुर्णां दक्षदुहितरि किल भावो युगपदासीदित्येवंविधं मानसत्वं न सर्वेषामिति चेन्न । अत्रार्थे तद्धितोत्पत्तेरस्मरणात् । ननु ब्रह्मपुत्रास्सन्तु मानसाः । नतु तदा ते मनवः । किन्तु तच्छरीरं परित्यज्य प्रियव्रतादिपुत्रा जातास्तदैव । अतो मनुषु मानसत्वमसम्भाव्यमित्यत आह – अन्येति ॥ तन्मानसं शरीरमपरित्यज्य स्थितानामप्यन्यपुत्रत्वं सम्भवतीति योजना । द्वितीये शरीरे जाते तत्पूर्वशरीरेणैक्यमापद्यत इति सम्प्रदायविदः । किमत्र प्रमाणमित्यत आह – प्रमाणं चेति ॥ मनूनामेव मानसब्रह्मपुत्रत्ववाक्यं प्रियव्रतादिपुत्रत्ववाक्यं चेत्युभयविधवाक्यम् । उपचारत्वकल्पना क्लिष्टैव । किञ्च ``
पूर्व" इति विशेषणं पूर्वेणैव सम्बध्यते परेणैव वा उभाभ्यामपीति त्रयः पक्षाः । पक्षत्रयेऽपि चत्वारो मनवः प्रथमा एवेति सिध्यति । आद्ये सप्तर्षीणां प्रथमत्वेन तत्साहचर्यात् । द्वितीयतृतीययोर्वचनादेवेति भावेनाह – पूर्व इति ॥ मयि भावो येषामिति व्याख्यानं प्रकृतासङ्गतं,
कारणत्वस्यात्र प्रकृतत्वादिति भावेनाह – मत्त इति ॥ भावो जन्म । ननु `
मानसा जाता'
इत्यनेन भगवतस्तत्कारणत्वमुच्यते । मैवम् । ततो मनूनिति वचनस्य सत्त्वेन ``
ब्रह्मणो मानसा जाताः" इति व्याख्येयत्वात् । तर्~
हि कथं न व्याहतिरित्यत आह – ये त इति ॥ मत्त एव ब्रह्मान्तर्यामिणः । ब्रह्मा तु द्वारमात्रमिति भावः ॥ 6
॥ 7
॥
((
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ 8
॥
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ 9
॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ 10
॥
तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ 11
॥
*
सन्ति च भजन्तः केचिदित्याह – अहमित्यादिना ॥ 8 - 11
॥
//
ननु `
एतां विभूतिं" इति परिज्ञातुः फलमुक्तम् । तत्किमर्थं पुनरुच्यत इत्यतस्तात्पर्यान्तर माह – सन्ति चेति ॥ उक्तफले विश्वासजननार्थमिति शेषः ॥ 8- 11
॥
((
अर्जुन उवाच –
परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ 12
॥
आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ 13
॥
सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ 14
॥
स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥ 15
॥
*
ब्रह्म परिपूर्णम् । ``
अथ कस्मादुच्यते परं ब्रह्म । बृहति बृंहयति" इति च श्रुतिः । बृह बृहि वृद्धाविति (बृह बृंह बृहि वृद्धाविति पाठान्तरम्) पठन्ति । ``
परमं यो महद् ब्रह्म" इति च । विविधमासीदिति विभुः । तथा हि वारुणशाखायाम् – ``
विभुः प्रभुः प्रथमं मोहनावत इति स ह्येव प्राभवत् विविधोऽभवत्" इति । ``
सोऽकामयत बहुः स्यां प्रजायेय" इत्यादेश्च ॥ 12 - 15
॥
//
ब्रह्म विभुशब्दौ ऐक्यार्थपरिहाराय क्रमेण सप्रमाणकं व्याचष्टे – ब्रह्मेति ॥ परं वस्तु ब्रह्मेति कस्मादुच्यते । बृहति पूर्णं भवति । बृंहयति पूरयति चान्यान् । बृहते र्मन् प्रत्ययोऽमागमश्च । ईश्वरो ब्रह्मणोऽन्यः । स कथं परं ब्रह्मेत्युच्यत इत्यत उक्तम् – परममिति ॥ विविधमनेकरूपत्वेनाभवत् । मेहनावतः सेचकस्य भगवतः प्रथमं रूपं विभु प्रभुचेत्येतदनूद्य व्याख्यायते । प्राभवत् समर्थोऽभवदिति प्रभुः । विविधोऽभवदिति विभुः । ``
सोऽकामयत" इति विविधभवने श्रुत्यन्तरम् । `
विप्रसम्भ्यो ~
घ्व सञ्ज्ञायां" इति च स्मृतिः ॥ 12-15
॥
((
वक्तुमर्~
हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ 16
॥
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ 17
॥
*
विभूतयो विविधभूतयः ॥ 16
॥ 17
॥
//
विभूतयः ऐश्वर्याणि पृष्टानि । नानारूपाणि वक्ष्यन्ते । किं केन सङ्गतिमित्यत आह – विभूतय इति ॥ विविधभूतयो नानाभूतानि रूपाणि ॥ 16
॥ 17
॥
((
विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्~
हि श्रुण्वतो नास्ति मेऽमृतम् ॥ 18
॥
श्रीभगवानुवाच –
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ 19
॥
अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥ 20
॥
*
न जायते अर्दयति च संसारमिति जनार्दनः । तथा बाभ्रव्यशाखायां ``
स भूतः स जनार्दनः इति । स ह्यासीत् स नासीत् सोऽर्दयति " इति ॥ 18-20
॥
// ``
अर्द गतौ याचने च" इति वचनादासुरजनानां नरकादिगमयितृत्वात्,
जनैः याच्यत्वाद् वा जनार्दन इति शङ्करः । तदप्रामाणिकं व्याख्यानम् । इदं तु श्रौतत्वादुपादेयमिति भावेनाह – न जायत इति ॥ नञः परनिपातः । अत एव नलोपाभावः । उत्तरपदे तस्य स्मरणात् । अर्दयति गमयति । स ह्यासीदिति ॥ भूतः । अनादितः सत्तवानित्यर्थः । स नासीत् न जन्मवान् । सोऽर्दयतीति जनार्दनः ॥ 18 - 20
॥
((
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ 21
॥
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ 22
॥
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षराक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ 23
॥
पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ 24
॥
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ 25
॥
*
विष्णुः सर्वव्यापित्वप्रवेशित्वादेः । ``
विष्लृ व्याप्तौ", `
विश प्रवेशने'
इति च पठन्ति ।
``
गतिश्च सर्वभूतानां प्रजानां चापि भारत ।
व्याप्तौ मे रोदसी पार्थ कान्तिश्चाभ्यधिका मम ।
अधिभूतनिविष्टश्च तदिच्छुश्चास्मि भारत ।
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञितः" इति मोक्षधर्मे ॥ 21 - 25
॥
//
द्विविधं विभूतिरूपम् । प्रत्यक्षं तिरोहितं च । अत्र विष्ण्वादिकं प्रत्यक्षमिति ज्ञापयितुं तच्छब्दान् व्याकुर्वन् ``
आदित्यानामहं विष्णुः" इति विष्णुशब्दं तावत् सप्रमाणकं व्याकरोति – विष्णुरिति ॥ सर्वेति योग्यतया सम्बध्यते । आदिपदेन वक्ष्यमाणार्थसङ्ग्रहः । चशब्दो धात्वन्तर समुच्चयार्थः । गच्छत्यनेनेति गतिः । भूतानां पृथिव्यादीनां,
प्रजानां ब्रह्मादीनाम् । ``
वी गतिप्रजनकान्त्यशनखादनेषु" इत्यतो गत्यर्थात् क् स्नुप्रत्ययः । धातोर्~
ह्रस्वश्च । मे मया । रोदसी द्यावापृथिव्यौ । व्याप्तौ व्याप्ते । विष्लृ व्याप्तावित्यतः क्नुः । कान्तिः कमनीयता । वश कान्तावित्यतो नुः । धातोरकारस्येकारः शकारस्य षकारः । ``
वी गति" इत्यतो वा कान्तिकर्मणः क् स्नुः । षत्वं च । तदिच्छुः अधिभूतस्य जन्मादीच्छुः । कान्तिरिच्छा । अतो वयतेर्वष्टेश्च पूर्ववद्रूपम् । क्रमणात् त्रिविक्रमरूपेण पादविक्षेपात् । पूर्ववद्वयगतेर्गत्यर्थात् कर्तरि प्रत्ययः ॥ 21 - 25
॥
((
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ 26
॥
उच्बैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ 27
॥
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ 28
॥
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितरूणामर्यमा चास्मि यमः संयमतामहम् ॥ 29
॥
प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ 30
॥
*
सुखरूपः पाल्यते लीयते च जगदनेनेति कपिलः । ``
प्रीतिः सुखं कं आनन्दः" इत्यभिधानात् । ``
प्राणो ब्रह्म कं ब्रह्म. खं ब्रह्म" इति च । ``
ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैः बिभर्ति जायमानं च पश्येत् । सुखादनन्तात् पालनात् लीयनाच्च यं वै देवं कपिलमुदाहरन्ति" इति बाभ्रव्यशाखायाम् ॥ 26 -30
॥
// ``
सिद्धानां कपिलो मुनिः" इति कपिलशब्दं व्याचष्टे – सुखेति ॥ सुखरूप इति कः । पाल्यते जगदनेनेति पिः । पारक्षणे इत्यतः किः । लीयते जगदनेनेति लः । ली श्लेषणेत्यस्मात् डः । ला आदान इत्यतो वा कः । ततः कर्मधारयः । कशब्दस्य सुखवाचित्वेऽभिधानं प्रयोगं च पठति – प्रीतिरिति ॥ समग्रार्थे श्रुतिमाह – ऋषिमिति ॥ तं भगवन्तं ऋषिं कपिलं च पश्येत् । कथं ऋषिः सर्वज्ञत्वादित्युच्यते । यः प्रसूतं पूर्वकल्पेषु जातम् । जायमानं वर्तमानं च एवमागामि च । जगत् ज्ञानैः बिभर्ति जानाति इति यावत् । कथं कपिल इत्यत उक्तम् – सुखादिति ॥ यत् शब्दद्वयस्य ``
तं" इत्यनेनान्वयः ॥ 26-30
॥
((
पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्चास्मि स्त्रोतसामस्मि जाह्नवी ॥ 31
॥
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ 32
॥
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥ 33
॥
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ 34
॥
बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः ॥ 35
॥
द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ 36
॥
*
आनन्दरूपत्वात् पूर्णत्वात् लोकरमणत्वाच्च रामः । ``
आनन्दरूपो निष्परीमाण एष लोकश्बैतस्माद्रमते तेन रामः " इति शाण्डिल्यशाखायाम् । रश्च अमश्चेति व्युत्पत्तिः ॥ 31 - 36
॥
// ``
रामः शस्त्रभृतामहं" इति रामशब्दं व्याख्याति – आनन्देति ॥ आनन्दरूपत्वात् पूर्णत्वात् इत्येकोऽर्थः । रमत इति रः । रमुक्रीडायामित्यतो ``
ञमन्ताड्डः" इति डः । न विद्यते मा प्रमापरिच्छेदो अस्येति अमः । ``
लोक" इत्यपरोऽर्थः । रमतेः घञX
। अत्र श्रुतिमाह – आनन्देति ॥ आद्यऽर्थे विग्रहं दर्शयति – रश्चासावमश्चेत्यर्थः ॥ 31 -36
॥
((
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ 37
॥
दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ 38
॥
*
आच्छादयति सर्वं वासयति वसति च सर्वत्रेति वासुः । देवशब्दार्थ उक्तः पुरस्तात् । ``
छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः । सर्वभूतादिवासश्च वासुदेवस्ततोऽस्म्यहम्" इति मोक्षधर्मे । विशिष्टः सर्वस्मात् आ समन्तात्स एवेति व्यासः । तथा चाग्निवेश्यशाखायाम् – `'
स व्यासो वीति तमप् वै विः सोऽधस्तात् स उत्तरतः पश्चात् स पूर्वस्मात् स दक्षिणतः स उत्तरत इति" इति । ``
यच्च किञ्चित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप नारायणः स्थितः" इति च ॥ 37
॥ 38
॥
// `
वृष्णीनां वासुदेवोऽस्मि'
इति वासुदेवशब्दं व्याचिकीर्षुः वासुशब्दार्थं तावदाह – आच्छादयतीति ॥ वस आच्छादन इत्यत उण् । वासयति सर्वमिति वर्तते । वस निवासे इत्यतो ण्यन्तादुण् । वसति चेति केवलादुणेव । ततः किमायातं वासुदेवशब्दस्येत्यत आह – देवेति ॥ ``
तथा हि देवशब्दार्थं" इत्यत्र,
ततः कर्मधारयः । विश्वं समस्तं भूत्वा प्राप्य । ``
भू प्राप्तौ आत्मनेपदी" इति वचनात् सर्वभूताधिवासश्चेति तत्पुरुषो बहुव्रीहिश्च । अत्रापि देवशब्दार्थो ग्राह्यः ।
``
मुनीनामप्यहं व्यासः" इति व्यासशब्दं व्याचष्टे – विशिष्ट इति ॥ ``
सर्वस्मात् विशिष्टः" इति विशब्दार्थः । आ इत्यनुवादेन समन्तात् इति व्याख्यानम् । स इत्यस्य स एवेति । ``
सृ गतौ सृप्लृ गतौ" इत्यतो वा डे रूपमेतत् । न तु तदः । व्यासमित्याद्यनुपपत्तेः । समन्तात् गतः सर्वगतः इत्यर्थः । स व्यासः । कुतः ?
वीति हेतोः । कोऽर्थः । तमपो अर्थो हि विशब्दः । उत्तरतः उपरिष्टात् । ``
यच्च किञ्चित्" इति भगवतः सर्वगतत्वे प्रमाणम् ॥ 37
॥ 38
॥
((
यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ 39
॥
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ 40
॥
*
मया विना यद्भूतं स्यात् तन्नास्ति । ``
विश्वरूप अनन्तगतिः अनन्तभाग अनन्तग अनन्तः" इत्यादि मोक्षधर्मे ॥ 39
॥ 40
॥
// ``
न तदस्ति विना" इत्यत्र पदानां व्यवहितत्वादन्वयमाह – मयेति ॥ भगवतो अनन्तै रूपैः । सर्वपदार्थव्यापित्वे प्रमाणमाह – विश्वेति ॥ विश्वं रूपं प्रतिमा यस्यासौ विश्वरूपः । अनन्तानां गतिः आश्रयोऽनन्तगतिः । आनन्ता भागाः अवताराः यस्यासावनन्तभागः । अनन्तान् पदार्थान् गतोऽनन्तगः । अनन्तः कालाद्यपरिच्छिन्नः ॥ 39
॥ 40
॥
((
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥ 41
॥
*
यद्यद्विभूतिमदिति विस्तरः । विष्ण्वादीनि तत् स्वरूपाण्येव । अन्यानि तु तेजो युक्तानि । तथा च पैङ्गिखिलेषु – ``
विशेषिका रुद्रवैन्येन्द्रदेवा राजान्याद्या अंशयुताऽन्यजीवाः । कृष्णव्यासौ रामकृष्णौ च रामकपिलयज्ञप्रमुखाः स्वयं सः" इति । ``
स एवैको भार्गवदाशरथिकृष्णाद्यास्तु अंशयुताऽन्यजीवाः " इति गौतमखिलेषु ।
``
ऋषयो मनवो देवा मनुपुत्रा महौजसः । कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः । एते स्वांशकलां पुंसः कृष्णस्तु भगवान् स्वयम् " इति भागवते । ऋष्यादीन् अंशयुतत्वेनोक्त्वा वराहादीन् स्वरूपत्वेनाह । तु शब्द एवार्थे । अन्यस्तु विशेषो न कुत्राप्यवगतः । अंशत्वं तत्राप्यवगतम् ``
उद् बबर्~
हात्मनः केशौ" । मृडयन्ति इति च बहुवचनं चायुक्तम् । न ह्यन्तराऽन्यदुक्त्वा पूर्वमपरामृश्य तत् क्रियोच्यमाना दृष्टा कुत्रचित् ॥ 41
॥
// `
एष तूद्देशतः'
इत्येतद् शब्दोऽनुक्रान्तपरामर्शीऽति प्रतीति निरासार्थमाह – यद्यदिति ॥ वक्ष्यमाणं बुद्धिस्थमेतत् शब्देन परामृश्यते । शृङ्गिग्राहिकयोक्तेरपि लक्षणोक्तेर्विस्तरत्वादिति भावः । विभूतिमदादिकं मम तेजोरूपेणांशेन सह भवतीत्युक्त्या विष्ण्वादीनामपि भगवदंशयुक्तत्वं प्रतीयते । तेषामप्येतत् लक्षणोपेतत्वात् । तन्निवृत्त्यर्थमाह – विष्ण्वादीनीति ॥ तर्~
हि किं विषयमेतद् वाक्यमित्यत आह – अन्यानि त्विति ॥ कुत एतदित्यत आह – तथा चेति ॥ विशेषिकाः गरुडानन्तविरिञ्चाः । वैन्यः पृथुः । राजन्यग्रहणेन गृहीतस्यापि पुनरुक्तिः साक्षादवतारत्वविशेषोक्तिबाधनार्थम् । कृष्णो धर्मसूनुरपि । रामो भार्गवोऽपि । अंशयुक्तत्वेनोक्त्वा कला इत्यनेन कला इव कलाः । न स्वरूपत्वेन । `
एते स्वांशकला'
इत्यनेन स्वरूपांशरूपा एव कलाः । नतु पूर्ववदुपचारेणेति । नन्वत्रैते वराहाद्याः परमपुरुषस्य अंशा एव । कृष्णस्त्वंशी भगवान् स्वयमिति प्रतीयते । तत्कथमुक्तव्याख्यानम् । अन्यथा तु शब्दानुपपत्तेरित्यत आह – तुशब्द इति ॥ एते वराहाद्याः पुंसः स्वांशकलाः । कोऽर्थः । कृष्णः परमपुरुषो भगवान् स्वयमेव एत इति । कुत एतदिति चेदुदाहृतश्रुतिसंवादात् । अर्थान्तरस्य संवादाभावाच्चेत्याह – अन्यस्त्विति ॥ वराहादयो अंशाः । कृष्णोऽंशी इत्येवं रूपः । इतोऽप्ययं विशेषो न युक्त इत्याह – अंशत्वमिति ॥ तत्रापि कृष्णेऽपि । किं चास्मिन् व्याख्याने कृष्णस्यैकस्यैव प्रकृतत्वात् । ``
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगेयुगे" इत्युत्तरवाक्ये बहुवचनं नोपपन्नमित्याह – मृडयन्तीति ॥ ननु बहुवचनं पूर्वोक्तैः वराहादिभिः सम्बध्यते । न कृष्णेनेति चेन्न । ``
कृष्णस्तु भगवान् स्वयं" इति वाक्यार्थेन व्यवहितत्वात् । व्यवहितस्यापि पुनः सन्निधानाय परामर्शाभावात् । सति गत्यन्तरेऽध्याहारायोगात् । असन्निहितेनान्वयबोधस्य क्वाप्यदर्शनादिति भावेनाऽह – न हीति ॥ ``
क्रिया" इति प्रकृतापेक्षयोक्तम् । ननु सन्निधेरपि योग्यता बलवतीति चेत् । सत्यम् । सन्निधिमनतिक्रम्य योग्यान्वयस्यूक्तः ॥ 41
॥
((
अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत् ॥ 42
॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगोनाम दशमोऽध्यायः ॥ 10
॥
*
किं इति वक्ष्यमाणप्राधान्यज्ञापनार्थम् । न तूक्त निष्फलत्वज्ञापनाय । तथा सति नोच्येत । ``
अज्ञात्वैनं सर्वविशेषयुक्तं देवं वरं को विमुच्येत बन्धात्" इति ऋग्वेदखिलेषु । त्वं तु बहुफलप्राप्तियोग्य इति ``
तव" इति विशेषणम् । अन्यस्तुत्यर्थत्वेन प्रसिद्धश्च एकत्र किं शब्दः । ``
रागद्वेषौ यदि स्यातां तपसां किं प्रयोजनम् । तावुभौ यदि न स्यातां तपसा किं प्रयोजनम् " इत्यादौ । प्राधान्यं च सिद्धमेकत्र दर्शनात् सर्वत्र भगवत् दर्शनस्य ``
यो मां पश्यति सर्वत्र" इत्यादौ ॥ 42
॥
// ``
अथवा बहुनैतेन किं ज्ञातेन" इति पूर्वोक्तव्यस्तज्ञानाक्षेपात् तस्य निष्फलत्वमिति प्रतीतिनिरासार्थमाह – किमिति ॥ किमित्ययमाक्षेपो वक्ष्यमाणसर्वव्याप्तरूपज्ञानस्य उक्तरविप्रभृतिपरिच्छन्नवस्तुस्वरूपज्ञानापेक्षया प्राधान्यज्ञापनार्थमेव न तूक्तविशेषज्ञानस्य निष्फलत्वज्ञापनार्थम् । निष्फलत्वे तदुक्तिवैयर्थ्यापत्तिरित्यर्थः । ननु व्याप्तिज्ञानेनैव मुक्तिसम्भवाद् विशेषज्ञानं व्यर्थमेव किं न स्यादित्यत आह – अज्ञात्वेति ॥ प्रियशिरस्त्वाद्यप्राप्तिरित्यादिकं ध्यानापेक्षयोक्तम् । ज्ञानापेक्षया तु श्रुतिरित्यविरोधः । अथवा विशिष्टाधिकारिविषयेयं श्रुतिः । ननु व्याप्तज्ञानयोग्यानां विशेषज्ञानं निष्फलमेव । अन्यान् प्रति तु तदुक्तिरिति व्यवस्थाऽस्तु । ``
तव" इति विशेषणसामर्थ्यादित्यत आह – त्वं त्विति ॥ अतो न तव विशेषज्ञानमात्रेणालमिति ज्ञापयितुमिति शेषः । विशेषणस्यान्यथासिद्धत्वात् नोक्तव्यवस्थाकल्पकत्वमिति भावः । ननु किं ज्ञातेन,
न किमपीति शब्दादुक्तस्य नैष्फल्ये प्रतीते तदुक्तिवैयर्थ्यप्रसङ्गात् बाधकात् निष्फलाल्पफलयोः महाफलत्वाभावसादृश्यात् गौण्या वृत्त्या उक्तस्याप्राधान्यप्रतीतावर्थाद्वक्ष्यमाणस्य प्राधान्यप्रतीतिरित्युक्तम् । तत्र गौणप्रयोगे प्रयोजनं वाच्यमिति चेन्न । रूढोपचारत्वादिति भावेनाऽह – अन्येति ॥ स्तुतिः प्रशस्तताज्ञापनम् । अर्थः प्रयोजनम् । स्यादिदं व्याख्यानं यदि परिच्छिन्नज्ञानात् व्याप्तज्ञानस्य प्राधान्यं प्रमितं स्यात् । तदेव कुत इत्यत आह – प्राधान्यं चेति ॥ ``
यो मां" इति विशिष्टफलकथनात् । न्यायसिद्धोऽप्यर्थो वाक्यसम्मत्या दृढो भवतीत्येतत् उक्तम् ॥ 42
॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां दशमोऽध्यायः समाप्तः ॥ 10
॥
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवात्मकश्रीमध्वेशार्पणमस्तु ॥
श्रीवादिराजगुर्वन्तर्गतश्री अश्विनीहयग्रीवात्मक-श्रीमध्वेशायनमः
॥
**********************************************************************************************
एकादशोऽध्यायः
अर्जुन उवाच -
मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् ।
यत् त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ 1
॥
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ 2
॥
एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ 4
॥
*
श्रीहरिः ॐ ॥ यथा श्रुते ध्यानं शक्यं तथा स्वरूपस्थितिरनेन अध्यायेनोच्यते ॥ 1-3
॥
//
श्रीहरिः ॐ ॥ एतदध्यायप्रतिपाद्यर्थमाह – यथेति ॥ ``
दशमान्ते विष्टभ्यामहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति व्याप्तोपासनं सङ्क्षेपेणोक्तम् । नच सङ्क्षेपेणोक्तस्य ध्यानं शक्यम् । बुद्धावनारोहात् । अतो यथाभूते व्यासरूपे विस्तरेण श्रुते ध्यानं शक्यं भवति । तथाभूतस्य रूपस्थितिरर्जुनाय प्रदर्शितस्यानुवादेनानैकादशाध्यायेनोच्यते । स्वरूपग्रहणेन विश्वरूपस्य मायादिना तदैव निर्माय विसृष्टत्वं निवारयति ॥ 1-3
॥
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ 4
॥
श्रीभगवानुवाच –
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ 5
॥
पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ 6
॥
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥ 7
॥
नतु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ 8
॥
*
प्रभुः समर्थः ।
``
नास्ति तस्मात् परं भूतं पुरुषाद् वै सनातनात्" इति मोक्षधर्मे । ``
प्रभुरीशः समर्थश्च" इत्याद्यभिधानम् ॥ 4- 8
॥
``
मन्यसे यदि" इत्यत्र प्रभुशब्दो न स्वामित्वमात्रार्थः । किं तु तवातिसामर्थ्यात् त्वत्सामर्थ्येनैवातीन्द्रियस्यापि दर्शनमिति भावेन प्रयुक्त इत्याशयेनाह – प्रभुरिति ॥ ईश्वरस्य निरतिशयसामर्थ्ये प्रमाणमाह – नास्तीति ॥ भूतं समर्थम् । प्रभुशब्दस्य समर्थार्थत्वेऽभिधानमाह – प्रभुरिति ॥ 4-8
॥
सञ्जय उवाच –
एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ 9
॥
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ 10
॥
*
हरिः सर्वयज्ञभागहारित्वात् । ``
इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम् । वर्णो मे हरितः श्रेष्ठस्तस्माद्धरिरिति स्मृतः" इति मोक्षधर्मे ॥ 9-10
॥
// ``
महायोगेश्वरो हरिः" इत्यत्र हरिशब्दस्य प्रकृतोपयुक्तमर्थमाह – हरिरिति ॥ गेहेष्विष्टिगृहेषु । हरतेरिकारप्रत्ययः । श्रेष्ठोऽप्राकृतः । अप्राकृतविग्रहस्य साकारस्यैवानन्तपूजास्थानेषु स्वरूपेणैव युगपत् सन्निधाने किं वक्तव्यं महायोगेश्वरत्वमिति ॥ 9- 10
॥
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ 11
॥
*
सर्वाश्चर्यमयं,
सर्वाश्चर्यात्मकम् ॥ 11
॥
// ``
सर्वाश्चर्यमयं" इति केनचित् प्राचुर्यार्थो मयट् व्याख्यातः । तदसत् । सर्वशब्देन गतार्थत्वादिति भावेन आह – सर्वेति ॥ मयटस्तादात्म्यार्थत्वे प्रमाणमुक्तमेव ॥ 11
॥
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ 12
॥
तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा ।
अपश्येद्देवदेवस्य शरीरे पाण्डवस्थथा ॥ 13
॥
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ 14
॥
अर्जुन उवाच –
पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दिव्यान् ॥ 15
॥
*
सहस्रशब्दोऽनन्तवाची । तदपि ``
पाकशानविक्रम" इत्यादिवत् प्रत्यायनार्थमेव । तथा हि ऋग्वेदखिलेषु – ``
अनन्तशक्तिः परमोऽनन्तवीर्यः सोऽनन्ततेजाश्च ततस्ततोऽपि" इति । महातात्पर्याच्च । नच परिमाणोक्त्या किञ्चित् प्रयोजनम् ॥ 12 - 15
॥
// ``
दिवि सूर्यसहस्रस्य" इति विश्वरूपस्य सहस्रसूर्योपमप्रभत्वमुच्यते । तत्र सहस्रशब्दो दशशतवाचीति प्रतीतिनिरासार्थमाह – सहस्रेति ॥ अनन्तसूर्योपमप्रभत्वमपि भगवतो न वास्तवम् । निरुपमत्वात् । किं तर्~
हीत्यत आह – तदपीति ॥ प्रत्यायनार्थं बुद्धिप्रवेशनार्थमेवोच्यते । यथा भगवतो दाशरथेः पाकशासनोपमपराक्रमत्वमित्यर्थः । सहस्रशब्दस्य प्रसिद्धार्थपरित्यागः कुत इत्यत आह – तथा हीति ॥ ततस्ततः सूर्यादेरपि विलक्षण इति शेषः । कुतः श्रुत्या गीतावाक्यस्य बाध इति चेत् । शतं सहस्रं इत्यपरिमितनामानीति गीतावाक्यस्य सावकाशत्वेन दौर्बल्यात् । श्रुतेः निरवकाशत्वेन प्राबल्यात् । इतश्च श्रुतेः प्राबल्यमित्याह – महातात्पर्याच्चेति ॥ समस्तागमानां महाप्रयोजनाय यद्भगवति महातात्पर्यं,
श्रुतेस्तदानुकूल्यात्,
गीतावाक्यस्य तत्प्रातिकूल्यादित्यर्थः । कथं गीतावाक्यस्य तत्प्रातिकूल्यमिति चेत् । किं भगवतः परिमितप्रभत्वमेव वस्तुतः । उतापरिमितप्रभस्याऽप्यत्र सहस्रसूर्योपमप्रभत्वमुच्यते । नाद्यः । सकलश्रुतिस्मृतीतिहासपुराणविरोधात् । द्वितीये त्वपरिमितस्य परिमाणोक्त्या किञ्चिदपि प्रयोजनं न सिध्यति । कुतो महदित्याह – नचेति ॥ 12- 15
॥
((
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ 16
॥
*
अनेकशब्दोऽनन्तवाची । ``
अनन्तबाहुं" इति वक्ष्यति । ``
सर्वतः पाणिपादं तत्" इत्यादि । ``
विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन् देव एकः" इति ऋग्वेदखिलेषु ।
``
विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन् देव एकः" इति यजुर्वेदे च ।
// ``
अनेकबाहूदरवक्त्रनेत्रं" इत्यत्र अनेकशब्दस्य द्व्यादौ पर्यवसानात् विवक्षितमर्थमाह– अनेकेति ॥ `
अनेकवक्त्रनयनं" इत्यपि व्याख्यातम् । कुत एतदित्यत आह – अनन्तेति ॥ ``
सर्वत" इत्यस्यार्थः तात्पर्यनिर्णयेऽवगन्तव्यः । इत्यादि च वक्ष्यति । बाहुभ्यां प्रधानाभ्यां पतत्रैः पतत्रसदृशैरितरबाहुभिः सन्धमति अग्न्यादिभूतानि संयोजयति इति प्रत्येकमन्वयः । सं नमति इत्यस्याप्ययमेवार्थः ।
*
विश्वशब्दश्चानन्तवाची । ``
सर्वं समस्तं विश्वमनन्तं पूर्वमेव च" इत्यभिधानात् । ``
अनन्तबाहुमनन्तापादमनन्तरूपं पुरुवक्त्रमेकम्" इति च बाभ्रव्यशाखायाम् । महत्त्वाद्युक्तिस्तु तदात्मकत्वेनापि भवति । अन्यथा ``
अनादिमत्परं ब्रह्म" इत्याद्ययुक्तं स्यात् । एकत्र त्वनन्तान्यस्य रूपाणि इत्यननन्तरूपः । अन्यत्र त्वपरिमाण इति । उक्तं ह्युभयमपि ।
``
परात् परं यन्महतो महान्तं यदेकमव्यक्तमनन्तरूपम्" इति यजुर्वेदे । अव्यक्तस्यानन्तत्वादेव महतो महत्त्वेऽपरिमितत्वं सिध्यति । ``
महान्तं च समावृत्य प्रधानं समवस्थितम् । अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते" इत्यादित्यपुराणे । तानि चैकैकानि रूपाण्यनन्तानीति चैकत्र भवति । ``
असङ्ख्याताः ज्ञानकाः तस्य देहाः सर्वे परिमाणविवर्जिताश्च" इति ऋग्वेदखिलेषु । ``
यावान् वाऽयमाकाशस्तावानेषोऽन्तर्~
हृदय आकाशः " , ``
उभेऽस्मिन् द्यावापृथिवी अन्तरेव समाहिते । उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ" इति च । ``
कृष्णस्य गर्भजगतोऽतिभरावसन्नपार्ष्णिप्रहारपरिरुग्णफणातपत्रम्" इति च भागवते ।
//
एतयोर्मन्त्रयोः प्रकृतानुपयोगादयुक्तमुदाहरणमित्यत आह – विश्वशब्दश्चेति ॥ तथा च प्रथमार्थे तसिः इत्युक्तं भवति । स्पष्टार्थां चात्र श्रुतिमाह – अनन्तपादमिति ॥ यदि भगवाननन्तबाह्वादिः तदा परमहत्परिमाणस्सयात् । अन्यथा तदयोगात् । नच तद्युक्तम् । ``
रूपं महत्ते" इति महत्त्वमात्रोक्तेः । तथा ``
बहुवक्त्रनेत्रं" इति बहुत्वमात्रोक्तेरनन्तबाह्वादित्वोक्तिश्चानुपपन्नेत्यत आह – महत्त्वादिति ॥ स्यादयं विरोधो यदि भगवद्रूपस्य महत्त्वमात्रं तदवयवानां च बहुत्वमात्रमुच्येत । न चैवम् । अवच्छेदकाश्रवणात् । महत्त्वबहुत्वोक्तिस्तु परममहत्त्वात्मकत्वेनानन्तावयवत्वेन च सह सम्भवति । परममहति महत्त्वस्यानन्ते च बहुत्वस्यान्तर्भावादित्यर्थः । अवच्छेदकानुक्तावप्यवान्तरमहत्त्वादिग्रहणे को दोष इत्यत आह – अन्यथेति ॥ तत्र परममहत्त्वस्यानन्तावयवत्वस्य चोक्तेरिति भावः ।
``
पश्यामि त्वा सर्वतोऽनन्तरूपं त्वया ततं विश्वमनन्तरूप" इति अनन्तशब्दद्वयस्य माहात्म्यातिशयसूचनायार्थभेदमाह – एकत्रत्विति ॥ अपरिमाणोऽपरिच्छिन्न इति अनन्तरूप इति सम्बन्धः । स्यादिदं व्याख्यानं यदीदं द्वयं प्रामाणिकं स्यादित्यत आह – उक्तं हीति ॥ महान्तं महत् । `
महतो महान्तं'
इति अनन्तं अपरिच्छिन्नपरिमाणं रूपमस्येत्युक्तार्थे प्रमाणम् । एकं अभिन्नमपि । अनन्तरूपमित्यनन्तान्यसङ्ख्यानि अस्य रूपाणि इत्यर्थः । ननु `
महतो महान्तं इति महत्तत्त्वात् महत्त्वमेवोच्यते । न त्त्वनन्तत्तम् । ततश्च ``
यदेकमव्यक्तम्" इति इत्यव्यक्तस्यापित्ववचनात् तत्साम्यमेव सिध्यतीतित्यत आह – अव्यक्तस्येति ॥ महतो महत्त्वेऽव्यक्तव्यापित्वे चेत्यपि ग्राह्यम् । अव्यक्तस्यानन्तत्वं कुत इत्यत आह – महान्तं चेति ॥ अनन्तस्य विष्णोः प्रतिमाभूतस्य तस्यान्तः परिमाणं परिच्छेदः कार्यतः सङ्ख्यानं सङ्ख्यापरिच्छेदोऽपि न विद्यते । प्राकारान्तरेणानन्तरूपशब्दद्वयस्यार्थभेदमाह – तानि चेति ॥ एकस्यानन्तरूपशब्दस्यानन्तसङ्ख्यारूपार्थत्वे स्थिते सत्येकत्रानन्तरूपशब्दे । तानि चानन्तसङ्ख्यानि रूपाणि प्रत्येकमपरिच्छिन्नपरिमाणानीत्यर्थो भवतीत्यर्थः । अत्र प्रमाणमाह – असङ्ख्याता इति ॥ ज्ञानकाः ज्ञानानन्दात्मकाः । अयं बहिः व्याप्त आकाशः परमात्मा यावान् यावत्परिमाणः तावान् एवैषोऽन्तर्~
हृदयेस्थितः परमात्मेत्यर्थः । गर्भे जठरे जगत् यस्यासौ तथोक्तः । अवसन्नो अवनतः । गर्भजगत्त्वेनापरिच्छिन्नपरिमाणत्वं लभ्यते ।
*
न चैतदुक्तम् । अचिन्त्यशक्तित्वादीश्वरस्य । ``
अचिन्त्याः खलु ये भावा न तान् तर्केण योजयतेत्" इति च विष्णुपुराणे । ``
नैषा तर्केण मतिरापनेया" इति श्रुतिः । अतिप्रसङ्गस्तु महातात्पर्यवशात् वाक्यबलाच्चापनेयः । नहि घटवत् कश्चित् पदार्थो न दृष्ट इत्येतावता प्रमाणदृष्टः सन् निराक्रियते । केषुचित् पदार्थेषु वाक्यव्यवस्थाऽचिन्त्यशक्तित्वाभावादङ्गीक्रियते ।
``
गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का । चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्~
हि तथा प्रतीताः । एवं परेऽन्यत्र श्रुताश्रुतानां गुणागुणानां च क्रमात् व्यवस्था" इति जाबालखिलश्रुतेश्च । उपचारत्वपरिहाराय ``
न मध्यं" इति । अन्यथा आद्यन्ताभावेनैव तत्सिद्धेः । विश्वरूपः पूर्णरूपः ।
``
स विश्वरूपोऽनूनरूपोऽतोऽयं सोनन्तरूपो न हि नाशोऽस्ति तस्य" इति शाण्डिल्यशाखायाम् ॥ 16
॥
//
कृष्णादीनामप्यपरिच्छिन्नपरिमाणत्वं वदन्तो वक्तव्याः । तत्राल्पपरिमाणप्रतीतिः या सा किं भ्रान्तिरुत प्रमितिरिति । आद्ये क्रियादेः द्विभुजचतुर्भुजादेश्च मिथ्यात्वं स्यात् । न द्वितीयः । युगपदेकत्राल्पानल्पपरिमाणसमावेशस्यायुक्तत्वात् । अथोऽपरिच्छिन्नपरिमाणोक्तिरुपचारमात्रमिति चेत् । किमिदमनेकपरिमाणत्वस्यायुक्तत्वम् । किमन्यत्रादर्शनेनासम्भावितत्वम् । उत नायमल्पानल्पपरिमाणोपेतो द्रव्यत्वात् । नायं परममहत्परिमाणोऽल्पपरिमाणत्त्वात् पटवदित्यादियुक्तिविरुद्धत्वम् । अथातिप्रसङ्गदुष्टत्वम् । किं वाऽप्रामाणिकत्वम् । नाद्य इत्याह – न चेति ॥ अघटितघटनाशक्त्युपेते किं नामासम्भावितमिति भावः । न द्वितीयः । ईश्वरस्य युक्त्यगोचरत्वेन तदनवकाशादिति भावेनाऽह – अचिन्त्या इति ॥ एषा ब्रह्मविषया । अपनेया निराकार्या । अतिप्रसङ्गोऽपि किं यदीश्वरो विरुद्धपरिमाणद्वयोपेतः स्यात् तदा निर्दुःखो दुःखी च स्यात् इतीश्वरमधिकृत्य स्यात् । उत प्राणादयोऽपि तथा स्युः । ततश्च ``
अणुश्च" इत्यादिका तद्विषयवाक्यव्यवस्था नाङ्गीक्रियत इत्यन्यदधिकृत्य स्यात् । आद्यं दूषयति – अतिप्रसङ्गस्त्विति ॥ अविशेषमाश्रित्य ह्ययमतिप्रसङ्गः । न चासावस्ति । निर्दोषानन्तगुणत्वे हरेः श्रुतीनां महातात्पर्येण दुःखादेः तद्विरोधात्,
परिमाणद्वयस्य तु तदविरोधात् दुःखादेरप्रमाणिकत्वात् परिमाणद्वयस्य तूक्तवक्ष्यमाणवाक्यसिद्धत्वादिति भावः । विपर्ययापर्यवसायी चायं प्रसङ्ग इति भावेनाह – नहीति ॥ यदि घटः पृथुबुध्नोदराकारः स्यात् तर्~
हि पदार्थो न स्यात् । तथाविधस्य पदार्थस्य कस्याप्यदृष्टत्वादिति प्रसङ्गो यथा न युक्तः । भवति च पदार्थः तस्मात् पृथुबुध्नोदराकारो न भवतीति विपर्ययस्य प्रमाणबाधितत्वेनापर्यवसानात् । तथात्वेन तस्य धर्मिग्राहकप्रमाणदृष्टत्वात् । तथा प्रकृतेऽपीति । एतेनानुमानानां कालात्ययापदिष्टत्वं चोक्तं भवति । प्रामाणिकमधिकृत्यातिप्रसङ्ग इति द्वितीयं निराकरोति – केषुचिदिति ॥ अत्रापि सम्भावनाहेतुभावाभावाभ्यां विशेषादविशेषोऽसिद्ध इति भावः । चतुर्थं निरस्यति – गुणा इति ॥ श्रुता अश्रुता अपि सुविरुद्धा अन्यत्र सहादृष्टाः । अविरुद्धाश्च । तथा गुणा इव दोषाः श्रुता अश्रुताश्च नैव सन्ति । किन्त्वज्ञैः मिथ्यादृष्टिभिर्~
हि तथा सन्तीति प्रतीताः । एवं परे ईश्वरे स्थितिः । ततोऽन्यत्र तु श्रुतानां प्रमाणान्तरसिद्धानां च गुणादोषाणां व्यवस्थाऽवस्थानम् । तच्च क्रमादुत्तमेषु गुणबाहुल्यं दोषाल्पत्वं,
मध्यमेषूभयसाम्यं,
अवरेषु दोषबाहुल्यं गुणाल्पत्वमिति । तदेवमसम्भावनाद्यभावान्न भगवत्यपरिच्छिन्नपरिमाणत्वोक्तेरुपचरितत्वं कल्प्यम् । अर्जुनेनापि तन्निराकृतमिति भावेनाह – उपचारत्वेति ॥ नान्तं न पुनस्तवादिं पश्यामीति आद्यन्ताभावोक्तेरुपचरितत्वपरिहाराय ``
न मध्यं" इत्युक्तम् । मध्यनिराकरणार्थमेव तत् किं न स्यादित्यत आह – अन्यथेति ॥ उपचारत्वपरिहारार्थत्वाभावे । तद् वैयर्थ्यं स्यादिति शेषः । कुतः ?
आद्यन्तसापेक्षत्वात् मध्यस्य तदभावोक्त्यैव तदभावसिद्धेः । विश्वं महदादिकं रूपं स्वरूपमस्येति प्रतीतिं सप्रमाणकं निवारयति – विश्वरूप इति ॥ एतच्चाभ्यासरूपमिति मन्तव्यम् ॥ 16
॥
((
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् दीप्तानलार्कद्युतिमप्रमेयम् ॥ 17
॥
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ 18
॥
*
अनलार्कद्युतिमित्युक्ते मितत्वशङ्कामपाकरोति – अप्रमेयमिति ॥ 17
॥ 18
॥
//
ननु अनलार्कद्युतिमित्युक्तत्वात् ``
सहस्रशब्दोऽनन्तवाची" इत्याद्युक्तमयुक्तमिति चेन्न । एतदेवाऽशङ्क्य प्रत्यायनार्थमेवैतदुक्तम् । वस्तुतस्त्वपरिच्छिन्नद्युतिरेव भगवानिति स्वयमेवोक्तत्वादित्याह – अनलेति ॥ इत्युक्ते जातां द्युतेर्मितत्वशङ्काम् । एतच्च सविशेषणविशेषणत्वात् द्युत्या सम्बध्यते ॥ 17
॥ 18
॥
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ 19
॥
* ``
शशिसूर्यनेत्रं" इत्यप्यहं क्रतुरित्यादिवत् । ``
तदङ्गजा सर्वसुरादयोऽपि तस्मात्तदङ्गेति ऋषिभिस्तुतास्ते" इति ऋग्वेदखिलेषु । ``
चन्द्रमा मनसो जातश्चक्षोः सूर्योऽजायत" इति च । बहुरूपत्वाद् बह्वाश्रयत्वं तेषां युक्तम् ॥ 19
॥
// ``
शशिसूर्यनेत्रं" इत्युक्तत्वात् कथं विश्वरूपशब्दस्यान्यथा व्याख्यानमित्यत आह – शशीति ॥ इत्यादिवत् व्याख्येयम् । जन्यजनकभावेनाऽश्रयाश्रयिभावेन वाऽभेदोक्तिरित्यर्थः । कुत एतदित्यत आह – तदङ्गजा इति ॥ तदङ्ग इत्यविभक्तिको निर्देशः सम्बुद्धिर्वा । अभेदे बाधकं चाह – चन्द्रमा इति ॥ चक्षोः चक्षुषः । नन्वत्र चन्द्रमसो मनोजातत्वं तदाश्रयत्वं चोच्यते । गीतायां तु नेत्राश्रयत्वादिति । तथाऽन्यत्र ``
दंष्ट्राऽर्यमेन्दू" इति । तत्कुतो न विरोध इत्यत आह – बह्विति ॥ 19
॥
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥ 20
॥
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ 21
॥
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्बैव सर्वे ॥ 22
॥
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् ॥ 23
॥
नभः स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ 24
॥
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि ।
दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ 25
॥
अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथाऽसौ सहास्मदीयैरपि योधमुख्यैः ॥ 26
॥
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ 27
॥
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ 28
॥
यथाप्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ 29
॥
लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं भासस्त्ववोग्राः प्रतपन्ति विष्णो ॥ 30
॥
* ``
मातापित्रोरन्तरङ्गः स एकः रूपेण चान्यैः सर्वगतः स एकः" इति वारुणश्रुतेरेकेनैव द्यावापृथिव्योरन्तरं व्याप्तो भवति । ``
पश्य मे पार्थ रूपाणि" इति बहूनि रूपाणि प्रतिज्ञातानि । मातापितरौ च पृथिवीत्यादौ । ``
मा नो माता पृथिवी दुर्मतौ घात्", ``
मधु द्यौरस्तु नः पिता" इत्यादि प्रयोगात् । नतु नियमतो भयप्रदं तत्स्वरूपम् । नारदस्य तदभावात् । केषाञ्चित् तथा दर्शयति भगवान् । ``
प्रियन्ति केचित् तस्य रूपस्य दृष्टौ बिभेति कश्चिदभ्यसे सर्वतृप्तिः" इति वरुणशाखायाम् । नतु तं सर्वे पश्यन्ति । अदृष्ट्वाऽपि तन्निरूप्य भये द्रष्टुस्तथा प्रतिभाति । तथा च गौतमखिलेषु – ``
दृष्ट्वा देवं मोदमाना अदृष्ट्वाऽप्येतद्भयात् बिभ्यतो दृष्टवत्ते । पश्यन्ति ते न्यस्तचक्षुर्मुखांस्तु तस्मिन्नेवैते मनसो गतत्वान्" इति ॥ 20-30
॥
// ``
द्यावापृथिव्योरिदमन्तरं हि" इत्यत्र ``
त्वया" इत्यनेनैवैकत्वस्य सिद्धत्वात् ``
एकेन" इति व्यर्थमित्यतः प्रमाणपूर्वकं तदभिप्रायमाह – मातापित्रोरिति ॥ बहुत्वेऽपि स एकोऽभिन्नः । अनेन दिशश्च सर्वाः रूपान्तरैरित्युक्तं भवति । तदयुक्तम् । विश्वरूपस्य ``
द्रष्टुमिच्छामि ते रूपं" इत्यादिनैकत्वावगतेरित्यत आह – पश्येति ॥ ऐक्यापेक्षयैकवचनमिति भावः । ``
मातापित्रोः" इति श्रुतिः प्रकृतानुपयोगिनी कथमुदाहृता । द्यावापृथिव्योरित्यनभिधानादित्यत आह – मातापितरौ चेति ॥ माता पृथिवी नोऽस्मान् दुर्मतौ मा धात् न दध्यात् । नोऽस्माकं मधु सुखहेतुरस्तु । ``
दृष्ट्वाऽद्भुतं" इत्यादिना विश्वरूपदर्शनस्य भयहेतुत्वमुच्यते । तन्न सर्वेषां सर्वदा । किन्तु केषाञ्चित् कारणविशेषात् कदाचिदेवेति सप्रमाणकं तदभिप्रायमाह – न त्विति ॥ अभ्यसे अभ्यासे सति सर्वेषां तृप्तिरानन्द एवेत्यर्थः । एवं तद् दर्शनस्य भयहेतुत्वनियमाभावमभिधाय लोकत्रयस्य दर्शनाभावं चाह – नत्विति ॥ किन्तु त्रिलोकेषु स्थितैः भक्तैरित्युक्तप्रमाणेन कैश्चिदेव । तदभिप्रायश्च लोकत्रयशब्द इति भावः । प्रकारान्तरेण लोकत्रयमित्यस्याभिप्रायमाह – अदृष्ट्वापीति ॥ विश्वरूपदर्शनार्थं यतमानानां लोकत्रयस्थानां पुंसां तददृष्ट्वाऽपि चेतसि निरूप्य स्थितानां भये जाते सति तद् द्रष्टुरर्जुनस्य तथाऽहमिव एतेपि दृष्ट्वा बिभ्यतीति प्रतिभातीत्यतो लोकत्रयं दृष्ट्वा प्रव्यथितमित्याहेत्यर्थः । अत्र श्रुतिसम्मतिमाह – दृष्ट्वेति ॥ देवं विश्वरूपं दृष्ट्वा मोदमानाः त एतेऽर्जुनादयः तद् ध्यायिनः पश्यन्ति । कथम् ?
भूतानदृष्ट्वाऽपि तन्निरूप्यैतद् भयाद् बिभ्यतो भयचिह्नवतस्तस्मिन्नेव विश्वरूपे मनसो गतत्वात् तन्नयस्तचक्षुर्मुखांश्च दृष्टवत् दृष्टवन्त इवेत्यर्थः ॥ 20 - 30
॥
आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं नहि प्रजानामि तव प्रवृत्तिम् ॥ 31
॥
*
धर्मान्तरज्ञानार्थमेव को भवानिति पृच्छति । यथा कश्चित् कञ्चित् नामादिकम् । जानन्नपि जातिज्ञानार्थं पृच्छति ``
कस्त्वं" इति । यदि तमेव न जानाति तर्~
हि `
विष्णो'
इत्येवं सम्बोधनं न स्यात् । ``
त्वमक्षरं" इत्यादि च ॥ 31
॥
//
स्वरूपमेवाज्ञात्वा तद्धर्मात् वाऽयं पृच्छतीत्यन्यथाप्रतीतिनिरासार्थमाह – धर्मान्तरेति ॥ तर्~
हि किं धर्मान्तरो भवानिति प्रश्नेन भाव्यम् । को भवानिति तु न युज्यत इत्यत आह – यथेति । अन्येषां व्यवहारान्नाम,
प्रत्यक्षेण रूपादिकं जानन्नपि जातिज्ञानार्थं यथा कश्चित् कञ्चित् कस्त्वमित्येव पृच्छति । तथाऽर्जुनो भगवन्तं तद्धर्मांश्च जानन्नपि धर्मान्तरज्ञानार्थं को भवानित्येव पृच्छतीत्यर्थः । प्रश्नव्याख्यानस्य वर्तमानत्वात् वर्तमाननिर्देशः । उग्रं रूपं दृष्ट्वा रुद्रो वा यमो वाऽयमिति स्वरूप एव सन्दिहानस्य प्रश्नः किं न स्यादित्यत आह – यदीति ॥ तत्स्वरूपमेवेत्यर्थः । ``
भासस्तवोग्राः प्रतपन्ति विष्णो" इति । तर्~
हि धर्मविषयोऽयं प्रश्नोऽस्तु । ततश्चान्तरशब्दो न युक्त इत्यत आह – त्वमिति ॥ यदि भगवद्धर्मान्न जानीयात् तर्~
हि ``
त्वमक्षरं परमं" इत्यादि वर्णनं न स्यात् । अतो भगवन्तं तद्धर्मांश्चाक्षरत्वादीन् ज्ञात्वा तदन्यधर्मज्ञानार्थमेव प्रश्न इत्येवमुक्तमित्यर्थः ॥ 31
॥
श्रीभगवानुवाच –
कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ 32
॥
तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ 33
॥
*
कालशब्दो जगद् बन्धनच्छेदनज्ञानादिसर्वभगवद्धर्मवाची । कलबन्धने कल च्छेदने कल ज्ञाने,
कल कामधेनुः इति पठन्ति । प्रसिद्धश्च स शब्दो भगवति । ``
नियतं कालपाशेन बद्धं शक्र विकत्थसे । अयं स पुरुषः श्यामो लोकस्य हरति प्रजाः । बद् ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा" इति मोक्षधर्मे विष्णुना बद्धो बलिर्वक्ति । ``
विष्णौ चाधीश्वरे चित्तं धारयन् कालविग्रहे" इति भागवते ॥
//
एवं तर्~
हि कालोऽस्मीत्युत्तरमयुक्तं;
धर्मानुक्तेरित्यत आह – कालेति ॥ धर्मविशिष्टभगवद्वाचीत्यर्थः । कुत एतदित्यत आह – कलेति ॥ यथा कामधेनुः सर्वार्थान् ददाति तथाऽयमपि धातुः सर्वार्थवाचीत्यर्थः । तथा चास्मादण् । कर्तरि घ~
घX
वा । जगदिति योग्यतया सम्बध्यते । भवत्वयं बन्धनादिधर्मवद् वाची । भगवद् वाची तु कुतः । अन्यत्र रूढत्वादित्यत आह – प्रसिद्धश्चेति ॥ बद्धं मां प्रति विकत्थसे । आत्मानं तु श्लाघसे । सः कालः अयम् । कथम् । श्यामः । प्रजा हरति । बद्ध्वा तिष्ठति,
रौद्रश्चेति । अत्र कथं विष्णुवाचित्वनिश्चय इत्यत आह – विष्णुनेति ॥ कालनामा विग्रहो यस्यासौ तथोक्तः ।
*
प्रवृद्धः परिपूर्णोऽनादिर्वा । ऋतं च सत्यं चाभीद्धादिति हि श्रुतिः । ``
एतन्महद्भूतं" इति च । ``
प्रविष्णुरस्तु तवसस्तवीयान् त्वेषं ह्यस्य स्थविरस्य नाम" इति च । न तु वर्धनम् । ``
नासौ जजान न मरिष्यति नैधतेऽसौ" इति हि भागवते । ``
यस्य दिव्यं हि तद्रूपं क्षीयते वर्धते न च" इति मोक्षधर्मे । ``
न कर्मणा" इति तु,
कर्मणापि न,
किमु स्वयमिति । लोकान् समाहर्तुमिह विशेषेण प्रवृत्तः । भ्रात्रादींश्च ऋते इत्यपि शब्दः । प्रत्यनीकत्वं तु परस्परतया । सर्वेऽपि न भविष्यति । अक्षौहिण्यादिभेदेन बहुवचनं युक्तम् ॥ 32
॥ 33
॥
// ``
प्रवृद्ध" इति कादाचित्की वृद्धिः प्रतीयते । अत आह – प्रवृद्ध इति ॥ वृद्धिः धात्वर्थः । सा च प्रशब्देन देशतः कालतश्च सदातनी विवक्षितेति भावः । ``
अनादिः" इति नित्यस्याप्युपलक्षणम् । भूताधिकारे विहितस्य क्तस्य कुतः सार्वकालिकत्वम् । प्रयोगदर्शनादिति भावेनाह – ऋतं चेति ॥ इद्धात् भूतमितिवदित्यर्थः । अत्रापि सार्वकालिकत्वानिश्चय इत्यतो भगवतो दीप्तेः सत्तायाश्च सदातनत्वे श्रुतिसद्भावादित्याह – प्रविष्णुरिति ॥ विष्णुः तवसो देशकालपरिच्छिन्नात् सूर्यादेस्तेजसः स्तवीयान् अतिशयिततेजोरूपो भवति । अत एव ह्यस्य स्थविरस्यानादिकालीनस्य त्वेषमिति नाम । असाधारण्येन हि व्यपदेशाः भवन्तीत्यर्थः । अस्त्वेवं तथाऽपि प्रागल्पः सन्निदानीं वृद्धिं गतः इत्यत्रार्थः किं न स्यादित्यत आह – न त्विति ॥ तु शब्दो विशेषणार्थः । विक्रियारूपं वर्धनं प्रवृद्धशब्दप्रवृत्तिनिमित्तं न भवति । भगवति भावविकाराणां प्रतिषिद्धत्वात् । भगवतो विक्रियारूपवृद्ध्यभावेऽपि तद्रूपस्य भवतु इति । तत्राह – यस्येति ॥ ननु ``
न कर्मणा वर्धते नो कनीयान्" इति श्रुतौ कर्मनिमित्तवृद्धिप्रतिषेधनात् वृद्धिमात्रमस्तीति ज्ञायते । अन्यथा विशेषणवैयर्थ्यात् । तथा च सत्प्रतिपक्षमुक्तवाक्यमित्यत आह – नेति ॥ ``
न कर्मणा" इति विशेषनिषेधस्तु वृद्धिलक्षणविक्रियाकारणत्वेन । सम्भावितेन कर्मणाऽपि यदा न वर्धते तदा स्वयं कर्मणा विना न वर्धते इति किमुवक्तव्यमिति वृद्धिलक्षणविक्रियाकारणत्वमात्रनिषेधाय कैमुत्यप्रदर्शनार्थमित्यन्यथोपपन्नमित्यर्थः । ननु सर्वत्र भगवानेव लोकानां संहर्ता । तस्मात् `
इह'
व्यर्थमित्यत आह – लोकानिति ॥ युगपत् बहून् प्रत्यक्षत एवेति विशेषेण । युधिष्ठिरादीनामवशिष्टत्वात् कथं ``
त्वं ऋते" इत्येवोक्तमित्यत आह – भ्रात्रादींश्चेति ॥ अपि शब्दो द्योतयतीति शेषः । अस्मत्प्रतिकूलेष्वनीकेष्ववस्थिता योधा न भविष्यन्तीत्युक्ते का पाण्डवादीनां प्राप्तिः ;
येन ``
ऋतेऽपीत्वा" इत्युच्यन्त इत्यत आह – प्रत्यनीकत्वमिति ॥ सेनाद्वयस्यापीति शेषः । कुत एवं व्याख्यानमित्यत आह – सर्वेति ॥ सेनाद्वयगता अपीत्यर्थः । प्रत्यनीकेष्विति बहुवचनं कथमित्यत आह – अक्षौहिणीति ॥ भेदेन बहुत्वेन ॥ 32 -33
॥
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथाऽन्यानपि योधवीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ॥ 34
॥
सञ्जय उवाच –
एतत् श्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ 35
॥
*
योऽस्य शिरश्छिन्नं भूमौ पातयति तच्छिरो भेत्स्यतीति तत्पितुर्वरात् जयद्रथोऽपि विशेषेणोक्तः । सवरा वासवीशक्तिरिति कर्णः ॥ 34
॥ 35
॥
// ``
यद्वा जयेम यदि वा नो जयेयुः" इत्यस्य सन्देहेऽपि प्रवृत्तिर्युक्ता । पक्षद्वयेऽपि फललाभादिति ``
हतो" वेत्युत्तरमुक्तम् । इदानीं तव पराजयशङ्कापि नास्तीत्युच्यते – द्रोणं चेति ॥ तत्र द्रोणस्य धनुर्विद्याचार्यत्वेन भीष्मस्य स्वच्छन्दमृत्युत्वेन चाऽशङ्काविषयत्वाद्युक्तं योधवीरसमुदायात् पृथक् कृत्य स्वशब्देन ग्रहणम् । जयद्रथस्य कर्णस्य कुत इत्यत आह – योऽत्स्येति ॥ अस्य जयद्रथस्य तच्छिरः तस्य पातयितुः शिरो भेत्स्यति भेत्स्यते । तत्पितुः जयद्रथपितुः । शक्तिः अस्ति कर्णस्येति शेषः । कर्णो विशेषणोक्त इति वर्तते ॥ 34- 35
॥
अर्जुन उवाच –
स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्यनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ 36
॥
*
यदेतद् वक्ष्यमाणं तत् स्थाने युक्तमेवेत्यर्थः । अग्निषोमाद्यन्तर्यामितया जगद्धर्षणादेर्~
हृषिकेशः । केशत्वं त्वंशूनां तन्नियतत्वादेः । प्रमाणं तु ``
शशिसूर्यनेत्रं" इत्यत्रोक्तम् । हृषीकाणामिन्द्रियाणामीशत्वाच्च । तेषां विशेषतः ईशत्वं च ``
यः प्राणे तिष्ठन्" इत्यादौ प्रसिद्धम् ।
``
न मे हृषीकाणि पतन्त्यसत्पथे" इत्यादिप्रयोगाच्च । इतरोऽर्थो मोक्षधर्मे सिद्धः । ``
सूर्याचन्द्रमसौ शश्वत् केशैर्मे अंशुसञ्ज्ञितैः ।
बोधयन् स्थापयंश्बैव जगदुत्पद्यते पृथक् ।
बोधनात् स्थापनाच्बैव जगतो हर्षसम्भवात् ।
अग्नीषोमकृतैरेभिः कर्मभिः पाण्डुनन्दन ।
हृषिकेशो महेशानो वरदो लोकभावनः ॥" इति च ॥ 36
॥
//
स्थाने इत्येतद् युक्तमित्यर्थेऽव्ययं चास्ति । अस्ति च सप्तम्यन्तं पदम् । तत् किमत्राभिप्रेतम् । कथं चास्यान्वय इत्यत आह – यदिति ॥ स्थाने विषये एवेति वा बहुमानस्थाने त्वयीति वा योजनायां साध्याहारत्वमिति भावः । हृषिकेशशब्दस्य प्रकृतोपयुक्तमपूर्वमर्थमाह – अग्नीति ॥ अत्राऽद्येनादिशब्देन सूर्यो गृह्यते । द्वितीयेन बोधनस्थापने । अग्न्याद्यंशुभिः स्वकेशैरिति शेषः । जगद्धर्षणादेरिति बोधनस्थापनाभ्यां जगद्धर्षणादित्यर्थः । सूर्याद्यंशूनां कथं भगवत्केशत्वमित्यत आह – केशत्वं त्विति ॥ तन्नियतत्व तज्जन्यत्वादिना तादात्म्योक्तिरित्यत्र किं प्रमाणमित्यत आह – प्रमाणं त्विति ॥ इत्यत्र एतद् व्याख्यानावसरे । अनेन वक्ष्यमाणं वाक्यं विवृतं भवति । तथा च अग्न्यादिषु स्थित्वा स्वकेशनियतैस्तदंशुभिः जगतो बोधनस्थापनाभ्यां हर्षणादियुक्तं भवति । हृष्यतेः कीप्रत्ययः । हृष्यो हर्षहेतवः केशाः अस्येति हृषिकेशः । नानेन प्रसिद्धोऽर्थः त्याज्यः इति भावेन तमप्याह – हृषीकाणामिति ॥ ननु जगदीशस्य विशेषतः इन्द्रियेशत्वं कथमित्यत आह – तेषामिति ॥ पुरुषार्थोपयुक्तज्ञानक्रियाशक्तिप्रेरकत्वेनेति भावः । हृषीकशब्दस्येन्द्रियवाचित्वं कुत इत्यत आह – नेति ॥ पूर्वेण समुच्चितस्यास्य व्याख्यानसमर्थहेतुत्वाच्चशब्दः । आद्येऽर्थे प्रमाणमाह – इतरोऽर्थ इति ॥ अग्निश्च जगत् बोधयन्तो स्थापयन्तश्च पृथक् स्वावसरे उत्सद्यन्ते उदयं गच्छन्ति । सूर्यकृतैश्च । अत्रापि पूर्ववद् बोधनादेः हेतुहेतुमद्भावो ज्ञातव्यः । ईशानत्वादावप्युक्तो हेतुः ॥ 36
॥
कस्माच्च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ 37
॥
त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम् ।
वेत्ताऽसि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ 38
॥
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ 39
॥
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ 40
॥
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वाऽपि ॥ 41
॥
*
कथं स्थान इति । तदाह – कस्मादित्यादिना ॥ पूर्णश्चासावात्मा च इति महात्मा । आत्मशब्दश्चोक्तो भारते – ``
यच्चाप्नोति यदादत्ते यच्चाति विषयानिह । यच्चास्य सन्ततो भावः तस्मादात्मेति भण्यते" इति ॥ तत्परं सदसतोः परम् । ``
असच्च सच्बैव यद्विश्वं सदसतः परं" इति भागवते ॥ 37-41
॥
//
सर्वे नमस्यन्तीत्येतद्युक्तमिति स्वयमेवोक्त्या ``
कस्माच्च ते न नमेरन्" इति विरुद्धं कथं पृच्छतीत्यत आक्षेप एवायमिति ज्ञापयितुं तन्निवर्त्याशङ्काप्रदर्शनपूर्वकमवतारयति – कथमिति ॥ इति शङ्कायामिति शेषः । तत् तस्या उत्तरम् । महात्मन् अक्षुद्रचित्त इत्यल्पार्थप्रतीतिनिरासार्थमाह – पूर्णश्चेति ॥ आत्मा जीव इति प्रतीतिं निवारयितुमाह – आत्मेति ॥ उक्तो निरुक्तः । यत् यस्मात् । आप्रोतेः मन् । पकारस्य च तकारः । आ~
घX
पूर्वाददो मन् । तत्वं च । इह देहे । सन्ततो भावो नित्या सत्ता । आ~
घX
पूर्वात् तनोतेः ढ् मन् । सदसदात्मकं विश्वं त्वमेवेति सत्तादिप्रदत्वादेवोच्यते । न त्वन्यथा । तथा सति उत्तरवाक्यविरोधादिति भावेन तत्पठित्वा सप्रमाणकं व्याचष्टे – तत्परमिति ॥ 37-41
॥
((
यच्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ।
एकोऽथ वाऽप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ 42
॥
पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ 43
॥
तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीढ्यम् ।
पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्~
हसि देव सोढुम् ॥ 44
॥
अदृष्टपूर्वं हृषितोऽस्मि हृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ 45
॥
किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ 46
॥
श्रीभगवानुवाच –
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ 47
॥
न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवं रूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ 48
॥
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृ~
घX
ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ 49
॥
*
एकस्त्वमेव कारयिता नान्योऽस्त्यथापि ॥ 42 -49
॥
//
एकः परोक्ष इति क्लिष्टं व्याख्यानमिति ज्ञापयितुं तदर्थमन्वयं च दर्शयति – एक इति ॥ आद्याक्षरग्रहणेन `
ए'
शब्दः एकस्य द्योतकः । कशब्दः कारयितृत्वद्योतकः । अन्तर्णीतण्यर्थात् करोतेर्डः । अथाप्येवमसत्कारार्~
होऽप्यसत्कृतोऽसि ॥ 42-49
॥
((
सञ्जय उवाच –
इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा ॥ 50
॥
अर्जुन उवाच –
दृष्ट्वेवं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ 51
॥
श्रीभगवानुवाच –
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ 52
॥
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवं विधो द्रष्टुं दृष्टवानसि मां यथा ॥ 53
॥
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ 54
॥
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ 55
॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नाम एकादशोऽध्यायः ॥ 11
॥
*
स्वकं रूपं तु भ्रान्तप्रतीत्या । अन्यथा तदपि स्वकमेव । प्रमाणानि तूक्तानि पुरस्तात् ॥ 50-55
॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये एकादशोऽध्यायः ॥ 11
॥
// ``
स्वकं रूपं दर्शयामास" इति कृष्णरूपस्य स्वकत्वविशेषणात् विश्वरूपं न स्वकमिति प्रतीतिः स्यात् अत आह – स्वकमिति ॥ कृष्णः स्वकं रूपं न विश्वरूपमिति भ्रान्तप्रतीत्यनुवादेनोच्यत इत्यर्थः । कुत एतदित्यत आह – अन्यथेति ॥ प्रमाणप्रतीत्येत्यर्थः । कानि तानि प्रमाणानीत्यत आह – प्रमाणानीति ॥ द्वितीयान्ते ॥ 50-55
॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां श्रीजयतीर्थमुनिविरचितायां प्रमेयदीपिकायां एकादशोऽध्यायः समाप्तः ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशाभिन्नहयग्रीवात्मककृष्णार्पणमस्तु ॥
श्रीवादिराजगुर्वन्तर्गत श्रीमध्वेशायनमः
॥
************************************************************************************************
त्रयोदशोऽध्यायः
अर्जुन उवाच –
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ॥
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ 1
॥
श्रीभगवानुवाच –
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ 2
॥
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्जञानं मतं मम ॥ 3
॥
*
श्रीहरिः ॐ ॥ पूर्वोक्तज्ञानज्ञेयक्षेत्रपुरुषात् पिण्डीकृत्य विविच्य दर्शयत्यनेनाध्यायेन ॥ 1-3
॥
//
पूर्वसङ्गतत्वेनाध्यायप्रतिपाद्यं दर्शयति – पूर्वोक्तेति ॥ पूर्वमाषष्ठसमाप्तेः यज्जञानं ज्ञानसाधनमुक्तम् यच्च सप्तमादिभिः षड्भिर्ज्ञेयं ब्रह्मस्वरूपमुक्तम् यदपि ``
भूमिः आपः" इत्यादिना क्षेत्रमुक्तम्,
यच्च `
न त्वेवाहं'
इत्यादिना पुरुषभेद उक्तः,
तत्सर्वमनेनाध्यायेन दर्शयति भगवान् । किमर्थम् ?
पिण्डीकृत्य विक्षिप्तमेकीकृत्य । गौणोऽत्र क्त्वाप्रत्ययः । पिण्डीकरणार्थमित्यर्थः । पिण्डीकरणे मिश्रत्वादप्रतिपत्तिरेवेत्यत उक्तम् – विविच्येति ॥ प्रकरणशुद्ध्येत्यर्थः ॥ 1 -3
॥
तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ 4
॥
*
यद्विकारि येन विकारेण युक्तम् । यतश्च यद्यतो याति प्रवर्तते । स च प्रवर्तकः । यतश्च यदित्यस्मात् प्रवर्तते क्षेत्रमिति वचनम् । स च य इति स्वरूपमात्रम् ॥ 4
॥
//
यो विकारी यस्य तत् यद्विकारि इति कश्चित् । तदसत् । बहुव्रीहितायामिनेवैयर्थ्यात् । किन्तु यश्चासौ विकारश्चेति यद्विकारः । सोऽस्यास्तीति यद्विकारीति भावेनाह – यदिति ॥ अत्र येन विकारेणेत्यनेन कर्मधारयं सूचयति । युक्तमिति इनेरर्थम् । यतश्च यत् इत्येतद् यस्माच्च यत्कार्यमुत्पद्यते इति कश्चित् व्याख्यातवान् । तदयुक्तम् । यद् विकारीत्यनेन गतार्थत्वात् । साध्याहारत्वाच्च । विकारांश्च गुणांश्च इत्यस्यान्यथोपपत्तेः । अपरस्तु यतश्च अमानित्वमित्यादेरनादिमदित्यादेश्चान्यथासिद्धेरित्यन्यथा व्याचष्टे – यतश्चेति ॥ यतो यस्य प्रेरणया । यदिति इणः लडादेशशत्रन्तस्य रूपम् । इणो यातेश्चानतिभिन्नार्थत्वात् `
याति'
इत्युक्तम् । सर्वस्य क्षेत्रस्य गत्यभावात् गौणीं वृत्तिमाश्रित्य विवृणोति – प्रवर्तत इति ॥ ``
स च य" इति जीवप्रतिज्ञेति व्याख्यानमसत् । तस्याप्रकृतत्वात् । क्षेत्रज्ञशब्दस्यातद्विषयत्वादिति भावेनाह – सचेति ॥ ``
यतः क्षेत्रं प्रवर्तते" इति प्रवर्तकस्य प्रकृततवादित्याशयः । नन्वेवं चेदेतद्वक्तव्यम् । किं ``
यतश्च यत् सच य" इत्येकैव प्रतिज्ञा । उत द्वे । नाद्यः चशब्दद्वयानुपपत्तेः । तत्समासेनेत्यनेनान्वयात् । ``
स च य" इत्यस्य वैयर्थ्याच्च । न द्वितीयः । अर्थभेदाभावादित्यतो द्वितीयमङ्गीकृत्याह – यतश्चेति ॥ ``
यतश्च यत्" इति वचनमस्मादेवं धर्मविशिष्टात् क्षेत्रं प्रवर्तत इति वक्तुं प्रतिज्ञारूपम् । ``
स च य" इति वचनं प्रवर्तकस्य स्वरूपमात्रं वक्तुं प्रतिज्ञारूपं इत्यर्थभेद इत्यर्थः ॥ 4
॥
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्बैव हेतुमद्भिर्विनिश्चितैः ॥ 5
॥
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ 6
॥
*
ब्रह्मसूत्राणि शारीरकसूत्राणि ॥ 5
॥ 6
॥
//
ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि । ततश्च छन्दसां ऋषिवाक्यानां च तथात्वात् ``
ऋषिभिः" इत्यादिकं वृथा स्यादित्यतो रूढिमाश्रित्याह – ब्रह्मेति ॥ 5
॥ 6
॥
इच्छाद्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।
एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ॥ 7
॥
*
इच्छादयो विकाराः ॥ 7
॥
// ``
महाभूतानि" इत्यनुक्रम्य एतत् क्षेत्रं समासेन सविकारमुदाहृतं इत्युक्तम् । तत्र न ज्ञायते किं क्षेत्रं के च तद्विकारा इत्यत आह – इच्छादय इति ॥ पूर्वं क्षेत्रमिति भावः ॥ 7
॥
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ 8
॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ 9
॥
* ``
स च यो यत्प्रभावश्च" इति वक्तुं तद् ज्ञानसाधनान्याह – अमानित्वमित्यादिना ॥ आत्माल्पत्वं ज्ञात्वाऽपि महत्त्वप्रदर्शनं डम्भः ॥
``
ज्ञात्वाऽपि स्वात्मनोऽल्पत्वं डम्भो माहात्म्यदर्शनं" इति ह्यभिधानात् । आर्जवं मनोवाक्कायकर्मणामवैपरीत्यम् ॥ 8-9
॥
//
ननु षट्स्वर्थेषु प्रतिज्ञातेष्वमानित्वादिकमनन्तर्भूतं किमित्युच्यत इत्यत आह – स चेति ॥ इति प्रतिज्ञातमर्थद्वयं वक्तुं ज्ञेयं यत् तदित्यादिना । न यादृशतादृशेन श्रवणेन तदनुभवारूढं भवतीत्याशयेनेति शेषः । मानाहङ्काराभ्यां दम्भं पृथग्दर्शयति – आत्मेति ॥ आर्जवं ज्ञानसाधनं यथा स्यात्तथा व्याचष्टे – आर्जवमिति ॥ एतच्च सन्मार्गं इति ज्ञातव्यम् ॥ 8-9
॥
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ 10
॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ 11
॥
*
सक्तिः स्नेहः । स एवातिपक्वोऽभिष्वङ्गः । ``
स्नेहस्सक्तिस्स एवातिपक्वोऽभिष्वङ्ग उच्यते" इत्यभिधानात् ॥ 10
॥ 11
॥
//
सक्त्यभिष्वङ्गशब्दयोः अर्थभेदमाह – सक्तिरिति ॥ 10
॥ 11
॥
अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
एतद् ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ 12
॥
*
तत्वज्ञानार्थदर्शनं अपरोक्षज्ञानार्थं शास्त्रदर्शनम् ॥ 12
॥
//
ननु तत्वज्ञानार्थदर्शनं नाम ज्ञानमेव । तत्कथं ज्ञानसाधनेषूच्यत इत्यत आह – तत्वेति ॥ शास्त्रदर्शनं तत्पर्यालोचनम् । अत्र शास्त्रस्येत्यध्याहृत्य व्याख्यानमिति ज्ञातव्यम् ॥ 12
॥
ज्ञेयं यत्तत् प्रवक्ष्यामि यद् ज्ञात्वाऽमृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ 13
॥
* ``
परं ब्रह्म" इति ``
स च य" इति प्रतिज्ञातमुच्यते । अन्यत् `
यत्प्रभाव'
इति । आदिमद्देहवर्जितमनादिमत् । अन्यथा `
अनादि'
इत्येव स्यात् ॥ 13
॥
//
प्रतिज्ञातार्थद्वयप्रतिपादनाय ``
ज्ञेयं यत्तत्" इत्यादिकं वाक्यमितिसूचितम् । तत्र केन तु किमुच्यत इत्यत आह – परमिति ॥ इति नामोक्त्या । अन्यदनादिमदित्यादिकं ``
यत्प्रभाव" इति प्रतिज्ञातस्य प्रतिपादकमित्यर्थः । आदिरस्यास्तीत्यादिमत् । न आदिमत् अनादिमदिति व्याख्याने,
न विद्यते आदिः यस्येत्यनादिरिति बहुव्रीहित्वाश्रयणेनैव विवक्षितार्थसिद्धेः मतुपो वैयर्थ्यमिति दोषं पश्यन्तः केचित् ``
अनादिः" इति ``
मत्परं" इति च पदं विच्छिद्य अहं वासुदेवाख्या परा शक्तिः यस्य तत् मत्परमिति व्याचक्षते । तदसत् । अर्थासम्भवात् । न हि ``
ब्रह्म" इति वासुदेव इति कश्चिद् भेदः । ``
न चावतारेषु परावर्यं" इत्युक्तमिति भावेन यथा मतुपो न वैयर्थ्यं तथा व्याचष्टे- आदिमदिति ॥ आदिः एषामस्तीत्यादिमन्ति । न विद्यन्ते आदिमन्ति यस्य तदनादिमत् । सामथ्यात् तानि देहेन्द्रियगुणक्रियादीनीत्यर्थः । अथवा पूर्वोक्त एव विग्रहः । नच मतुपो वैयर्थ्यम् । वैदिकं लिङ्गव्यत्ययं विभक्तिलोपं वा मन्यमानस्य बहुव्रीहिर्वा नञX
समासो वाऽयमिति संशयः स्यात् । तथा च ब्रह्म स्वयं कारणं न भवतीति शङ्क्येत । तन्निवृत्त्यर्थं मतुबन्तेनाऽदिशब्देन नञX
समासस्याऽश्रयणात् । ये त्वेवं प्रयोजनमभिधाय मतुपः प्रयोगः श्लोकपूरणार्थमित्युक्तवन्तस्तान्निराचष्टे – अन्यथेति ॥ अस्मदुक्तप्रयोजनद्वयानङ्गीकार इत्यर्थः । सार्थकेन शब्दान्तरेण श्लोकपूरणसम्भवादिति भ अवः । ननु बहुव्रीहिमाश्रित्य पुनः मतुपः प्रयोगे दोषः स्यात् । न चैवम् । किं तु शब्दान्तरमेवैतत् । तत्कथमयं दोषः । अन्यथा `
यद्विकारि'
इत्यत्रापि दोषप्रसङ्गात् । मैवम् । बहुव्रीहिं विवक्षित्वाऽल्पेन शब्देनाभिमतार्थप्रतिपादनसम्भवे बहुयत्नाश्रयणस्य दोषत्वेनोक्तत्वात् ``
यद्विकारि" इत्यत्र गौरवाभावात् ॥ 13
॥
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 14
॥
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्बैव निर्गुणं गुणभोक्तृ च ॥ 15
॥
बहिरन्तश्च भूतानामचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ 16
॥
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तद् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ 17
॥
ज्योतिषामपि तज्जयोतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ 18
॥
*
सर्वेन्द्रियाणि गुणांश्चाभासयतीति सर्वेन्द्रियगुणाभासम् । इन्द्रियवर्जितत्वाद्यर्थ उक्तः पुरस्तात् विकारान्तर्भावात् ज्ञानसाधनं प्रथमत उक्तम् । बहुत्वात् साधनात्युपयोगात् प्रभावः ॥ 14 -18
॥
//
अहं पराशक्तिः यस्य इति व्याख्याने अर्थासम्भवं कश्चिदन्यथा प्राह । ``
ब्रह्मणस्सर्वविशेषप्रतिषेधेनैवात्र जिज्ञापयिषितत्वात् शक्तिमत्वप्रतिपादनं विरुद्धम्" इति । तदसत् । अत्र विशेषत्त्वस्य दर्शनादिति भावेनाऽह – सर्वेति ॥ गुणान् तद्विषयानाभासयति प्रत्याययति प्रत्येति वा । भासतेः पचाद्यच् । ``
एवं सर्वतः पाणिपादं तत्" ``
सर्वभृत्", ``
गुणभोक्तृ च" इत्यादिकमप्युदाहार्यम् । कथं तर्~
हि “``
सर्वेन्द्रियविवर्जितं”, ``
निर्गुणं", ``
अचरं" इत्याद्युक्तमित्यत आह – इन्द्रियेति ॥ आदिशब्दात् परं `
शब्द'
इत्यध्याहार्यम् । पुरस्तात् द्वितीये ॥
ननु ब्रह्मणि प्रतिपादिते केन साधनेदं बुद्ध्यारूढं भवेदित्याकाङ्क्षायां साधनं पश्चाद् व्यक्तम् । तत्कुतः प्रथमत उक्तमित्यत आह – विकारेति ॥ विकारिष्वन्तर्भावं ज्ञापयितुं तदनन्तरमुपोद्घातप्रक्रिययोक्तमिति भावः । उद्देशक्रमानुसारेण ``
यतश्च यत्" इति प्रथममनुक्त्वा ``
स च यो यत्प्रभावश्च" इत्येतत् कुत उक्तमित्यत आह – बहुत्वादिति ॥ सूचीकटाहनिर्माणादौ बहुत्वस्य प्राथम्यव्यभिचारात् हेत्वन्तरोक्तिः । अलौकिकस्य प्रभावस्य बुद्ध्यारोहे हि साधनानामत्युपयोगो न तु तावान् लौकिकस्य प्रेरकत्वस्यानुभवारोह इति ज्ञापयितुं ज्ञानसाधनान्तरमेव प्रभाव उक्तः । सूचीकटाहनिर्माणादौ बहुत्वस्य प्राथम्यव्यभिचारात् हेत्वन्तरोक्तिः । अलौकिकस्य प्रभावस्य बुद्ध्यारोहे हि साधनानामत्युपयोगो न तु तावान् लौकिकस्य प्रेरकत्वस्यानुभवारोह इति ज्ञापयितुं ज्ञानसाधनानन्तरमेव प्रभाव उक्तः । तत्प्रसङ्गेन चेति भावः ॥ 14 -18
॥
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ 19
॥
प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्बैव विद्धि प्रकृतिसम्भवात् ॥ 20
॥
* ``
यतश्च यत्" इति वक्तुं प्रकृतिविकारपुरुषान् सङ्क्षिप्याह – प्रकृतिमिति ॥ गुणाः सत्त्वादयः तेषामत्यल्पो विशेषो लयात् सर्ग इति विकाराः पृथगुक्ताः । ``
कार्यकार्यगुणास्त्रिस्रः यतस्सवल्पोद्भवो जनी इति माधुच्छन्दसशाखायाम् ॥ 20
॥
//
ननु ``
प्रकृतिं पुरुषं चैव विद्धि" इत्यादिकमप्रतिज्ञातं किमित्युच्यते । मैवम् । ``
यादृक् च" इति प्रतिज्ञातस्य सप्रकारस्य क्षेत्रस्य कथनात् । तत्प्रतिज्ञाक्रमेण प्रागेव कुतो नोक्तमित्यत आह – यतश्चेति ॥ ``
यतश्च यत्" इति प्रतिज्ञातं प्रेरकस्वरूपं तावत्प्रभावानन्तरं वक्तव्यं प्राप्तम् । तत्र प्रेरकस्य स्वरूपनिरूपणं प्रेर्यज्ञानमपेक्षते । प्रेर्यं च सप्रकारं क्षेत्रम् । प्रेरकस्वरूपं वक्तुमनेन प्रेरणीयं सप्रकारं क्षेत्रमुच्यते । तस्य प्रागपि वचने गौरवं स्यादिति भावः । तर्~
हि ``
प्रकृति" इत्यादि कथमुच्यते । ईश्वरातिरिक्तस्सर्वोऽपि चेतनाचेतनवर्गः क्षेत्रमित्युच्यते । तत्र प्रकृतिशब्देन ``
महाभूतानि" इत्यादिनोक्तानि चतुर्विंशतितत्वानि गृह्यन्ते । विकारशब्देनेच्छाद्युपलक्षिताः क्षेत्रान्तर्भूता अपि गुणत्रयाद्यास्सर्वे विकारा विवक्षाविशेषवशेन पृथगुपात्ताः । पुरुषशब्देन जीव इति । ``
यावत् सञ्जायते" इत्यादिना पुनर्वक्ष्यमाणत्वात् पुनरुक्तिदोषं परिहर्तुं ``
सङ्क्षिप्य" इत्युक्तम् । `
आह'
सप्रकारान् निरूपयति । गुणाः सुखदुःखमोहा इति कश्चित् । कार्यकारणलक्षणा इत्यन्यः । तदुभयं निराकर्तुं व्याचष्टे – गुणा इति ॥ ननु सत्वरजस्तमसामपि प्रकृतिविकारत्वात् विकारांश्च गुणांश्चेति पृथगुक्तिः किमर्थेत्यत आह – तेषामिति ॥ इति ज्ञापयितुमिति शेषः । विकाराः पृथगुक्ता इति । विकाराश्च गुणाश्च पृथगुक्ता इत्यर्थः । कार्याश्च ते अकार्याश्च । तिस्रः त्रयः । अनेन सुखाद्यङ्गीकारे विकारेभ्यः पृथक् ग्रहणमयुक्तमित्यपि सूचितम् ॥। 20
॥
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ 21
॥
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ 22
॥
*
कार्यं शरीरम् । ``
शरीरं कार्यमुच्यते" इत्यभिधानात् । कारणानि इन्द्रियाणि । भोगोऽनुभवः । स हि चिद्रूपत्वादनुभवति । प्रकृतिश्च जडत्वात् परिणामिनी । ``
कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुखदुःखानां पुरुषः प्रकृतेः परम्" इति भागवते ॥ 21 -22
॥
//
कारणानामपि कार्यत्वात् पृथगुक्तिः,
व्यर्थेत्यतो रूढिमाश्रित्य कार्यकारणशब्दौ व्याख्याति – कार्यमिति ॥ ``
भोक्तृत्व" इत्यत्र प्रकृत्यर्थो भोगः अभ्यवहारादिः सुखादिविषयो न सम्भवति । अत आह – भोग इति ॥ स्वीयतया साक्षात्कार इत्यर्थः । भोगः प्रकृतेरेव । न पुरुषस्य । अतः ``
पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुः" इति कथमुक्तमिति साङ्ख्याः । तत्राह – स हीति ॥ न तु प्रकृतिरचैतन्यादिति शेषः । ननु `
कार्यकारणकर्तृत्वे हेतुः प्रकृतिः'
इत्युक्तम् । कर्तृत्वं च ज्ञानेच्छाप्रयत्नयोगः । तत्कथं प्रकृतेर्भोगासम्भव इत्यत आह – प्रकृतिश्चेति ॥ चस्त्वर्थः । परिणामिकारणत्वात् कर्तृत्वमित्युपचर्यत इति भावः । श्लोकार्थे पुराणसम्मतिमाह – कार्येति ॥ ``
कारणं विदुः" इत्युत्तरार्धेनुवर्तते ॥ 21
॥ 22
॥
उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ 23
॥
य एवं वेत्ति पुरुषम्प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ 24
॥
* ``
यतश्च यत्" इत्याह - उपद्रष्टेति ॥ अनुमन्ता अवन्तु विशेषतो निरूपकः । ``
पुरुषस्सुखदुःखानां" इति जीव उक्तः । ``
पुरुषं प्रकृतिं" इति जीवेश्वरौ सहैवोच्यते । अन्यत्र महातात्पर्यविरोधः । उत्कर्षे हि महातात्पर्यम् । तथा हि सौकरायणश्रुतिः — ``
अवाच्योत्कर्षे महत्त्वात् सर्ववाचां सर्वन्यायानां च महत्तत्परत्वम् । विष्णोरनन्तस्य परात्परस्य तच्चापि ह्यस्त्येव न चात्र शङ्का । अतो विरुद्धं तु यदत्र मानं तदक्षजादावथवाऽपि युक्तिः । न तत्प्रमाणं कवयो वदन्ति न चापि युक्तिर्~
ह्यूनमतिर्~
हि दृष्टेः ।" इति । अतो युक्तिभिरप्येतदपलापो न युक्तः । अतो यया युक्त्याऽविद्यमानत्वादि कल्पयति साप्याभासरूपेति सदैव माहात्म्यं वेदैरुच्यत इति सिद्ध्यति । अवान्तरं च तात्पर्यं तत्रास्ति । उक्तं च तत्रैव – ``
अवान्तरं तत्परत्वं च सत्त्वे महद्वाप्येकत्वात्तयोरनन्ते" इति । इयामत्वाद्यभिधानाच्च । युक्तं च पुरुषमतिकल्पितयुक्त्यादेराभासत्वम् । अज्ञानसम्भवात् । न तु स्वतः प्रमाणस्य वेदस्याऽभासत्वम् । अदर्शनं च सम्भवत्येव पुंसां बहूनामप्यज्ञानात् । तर्~
ह्यस्मदनधीनश्रुत्यादौ विपर्ययोऽपि स्यादिति न वाच्यम् । यतस्तत्रैवाऽह – ``
नैतद्विरुद्धा वाचो नैतद्विरुद्धा युक्तयः इति ह प्रजापतिरुवाच" इति । तद्विरुद्धं च जीवसाम्यम् ।
// ``
यतश्च यत् इति वक्तुं" इत्युक्तम् । तत्केनोच्यत इत्यत आह – यतश्चेति ॥ इति प्रतिज्ञातमिति शेषः । अनुमन्ताऽनुज्ञाता इति कश्चित् । तदसत्। ौदासीन्यप्राप्तौ `
भर्ता’ `
भोक्ता'
इत्यादि विरोधादिति भावेन व्याचष्टे – अनुमन्तेति ॥ अनुशब्दः पुनरर्थे ॥ क्रियाऽऽवृत्तिश्च तदर्थ इति ज्ञापनाय द्विरुक्तिः । ``
विशेषत" इति तृनोऽर्थः । निरूपकः कर्तव्यस्याऽलोचकः । ``
य एनं वेत्ति पुरुषं" इत्यस्य पुरुषशब्दं व्याख्यातुमुपोद्घातमाह – पुरुष इति ॥ सुखदुःखभोक्तृलिङ्गादिति भावः । सुखदुःखानां भोक्तृत्वे भोगे हेतुः कर्तेति व्याख्यानमाश्रित्येदमुक्तम् । व्याख्यानवसरे तु भगवानेवात्र पुरुषः पुरुषः प्रकृतिस्थोहीति जीवः । उपलक्षणमेतत् उपद्रष्टेति । ईश्वर उक्त इत्यपि द्रष्टव्यम् । ततः किमित्यत आह – पुरुषमिति ॥ यत एवं उभावपि प्रकृतौ,
अतो ``
य एनं वेत्ति पुरुषं" इत्यत्र पुरुषशब्देन जीवेश्वरौ द्वावपि गृह्येते,
द्वयोरपि परामर्शसम्भवात् । तर्~
हि द्वयोः द्विवचनेन भाव्यमित्यत उक्तम् – सहैवेति ॥ तन्त्रेणेत्यर्थः । अत्र कश्चित् ``
य एनं वेत्ति पुरुषं" ``
साक्षादहमस्मि" इत्येवमध्याहारेण जीवेश्वरैक्यं व्याख्यातवान् । तद्दूषयति – अन्यत्रेति ॥ जीवेश्वरैक्ये सर्ववेदानां प्राधान्येन यत् प्रतिपादकत्वं तद्विरोधः । कथमित्यत आह – उत्कर्षे हीति ॥ सर्वागमानामीश्वरस्य सर्वोत्कर्षे हि महातात्पर्यमित्यर्थः । तत्कुतः ?
प्रागुक्त युक्तेः । श्रुतेश्चेत्याह – तथा हीति ॥ विष्णोः महत्त्वादेवावाच्यत्वेनोक्ते सर्वोत्कर्षे सर्वासां वेदवाचां,
सर्वन्यायानां,
न्यायव्युत्पादकस्य मीमांसाशास्त्रस्येति यावत् । महत्तत्परत्वं महातात्पर्यम् । अस्तूत्कर्षे महातात्पर्यम् । तथाऽप्युत्कर्षस्य सत्त्वं कुतः ?
न हि जैनवाक्यस्य क्वचित् महातात्पर्येऽपि तत्सत्त्वमस्तीत्यत आह – तच्चापीति ॥ न केवलं तत्र तात्पर्यम् । किन्तु तत्सत्त्वमपि चास्त्येव । धियां स्वतः प्रमाण्यादिति हेरर्थः । स्वतः प्रामाण्येऽपि बाधकात् विषयासत्त्वं भवति । तदप्यत्र नास्तीत्याह – न चात्रेति ॥ शङ्केति ॥ शङ्काहेतुः बाधकमिति यावत् । कथं बाधकाभाव इत्यत आह – अत इति ॥ `
अता इत्यस्योरत्रावन्वयः । तत्र,
ईश्वरस्य सर्वोत्कर्षे तु यद्विरुद्धं मानं शङ्क्यते,
तदपि किमक्षजादौ अक्षजागमयोरन्यतरत्,
अथवा युक्तिः । आद्यं निराकरोति – न तदिति ॥ कवयो न्यायविदः । कुतः ?
अतः उपजीव्यवेदविरोधात् । एतेन द्वितीयोऽपि निरस्तः । तथाऽपि विशेषं वक्तुमाह – न चेति ॥ युक्तिरपि नैवं मानं;
यतो दृष्टेः श्रुतेः ऊनमतिः जात्यैव दुर्बलज्ञानोत्पादिका । भगवदुत्कर्षे सर्वागमानां महातात्पर्यमित्यत्र पठितायाः श्रुतेः शेषेण योऽर्थो लब्धः सोऽपि प्रकृतोपयुक्त एव । उत्कर्षस्य सत्त्वाभावे जीवेश्वरैक्यस्य सद्विरोधाभावात् । अतस्तं स्ववाक्येनाप्याह – अत इति ॥ `
युक्तिभिः'
इत्युपलक्षणम् । एतदपलापः भगवदुत्कर्षस्याविद्यामानत्वादिकल्पनम् । अत इत्युक्तमेवार्थं विशदयति – अत इति ॥ वेदविरोधादित्यर्थः । आदिपदेनानिर्वाच्यत्वं गृह्यते । भगवदुत्कर्षस्येति शेषः । साऽपीत्यपिशब्देन प्रत्यक्षादेस्समुच्चयः । इतिशब्दो हेतौ । बाधकाभावादित्यर्थः । उत्कर्षस्य प्रकृतर्त्वेपि तच्चापीति श्रौततच्छब्दव्याख्यानाय `
माहात्म्यं'
इत्युक्तम् । ननु प्रतिपन्नस्य विद्यमानत्वादिकं बाधकाभावेन कल्प्यम् । स्वतः प्रामाण्यात् । न चोत्कर्षस्य सत्त्वं वेदात् प्रतिपन्नम् । उत्कर्षे तत्सत्त्वे च तात्पर्याङ्गीकारे वाक्यभेदप्रसङ्गादित्यत आह – अवान्तरं चेति ॥ च शब्दस्य तत्र सत्त्वे चेत्यन्वयः । उभयत्र महातात्पर्याभावान्न दोषः । एतत्कुत इत्यत आह – उक्तं चेति ॥ तत्रैव तस्यामेव श्रुतौ । अङ्गीकृत्य चेदमुक्तम् । वस्तुतस्तूत्कर्षसत्त्वे महदपि तत्परत्वम् । कुतः ?
अनन्तसम्बन्धिनोस्तयोरुत्कर्षस्य तत्सत्त्वस्य चैकत्वात् । अनन्त इति प्रकृतत्वादेवोक्तम् । एतदुक्तं भवति । प्रमाणं प्रवर्तमानं विधिरूपं निषेधरूपं वा,
न तूदासीनम् । तस्य च बाधाभावे स्वत एव सत्त्वासत्त्वलक्षणौ विधिनिषेधौ सिध्यतः,
किं तत्र तात्पर्यान्तरकल्पनयेति । ननु निराकारमेव ब्रह्मश्रूयते । तत्कथं तद्गुणोत्कर्षे सर्वश्रुतीनां महातात्पर्यं स्यादित्यत आह –श्यामत्वादीति ॥ एतच्चानन्तरातीताध्याये प्रपञ्चितम् । वेदविरोधात् युक्त्यादेराभासत्वमित्युक्तम् । तदयुक्तम् । नियामकाभावात् । विपर्ययस्यापि सुवचनादित्यत आह – युक्तं चेति ॥ युक्तं,
सम्भावितम् । अज्ञानसम्भवात्,
अज्ञानमूलत्वसम्भवात् । अज्ञानमुपाधिव्यभिचारादिविषयम् । स्वतः प्रमाणस्यापौरुषेयतया पुरुषगुणानपेक्षप्रमाणभावस्य । युक्तेरज्ञानमूलत्वसम्भावना निर्बीजेत्यत आह – अदर्शनं चेति ॥ सम्भवति शङ्कार्~
हमित्यर्थः । एतदुक्तं भवति । वेदस्य युक्त्यादेश्च,
परस्परविरोधे द्वयोः प्रामाण्यानुपपत्तावन्यतरस्याऽभासत्वे कल्पनेये,
युक्त्यादेरेव तत्कल्प्यं सम्भवात् । न तु वेदस्यासम्भवात् । निरवकाशेन सावकाशस्य बाधदर्शनादिति । पुरुषेष्वदर्शनमाशङ्कमानानामतिप्रसङ्गमाशङ्क्य निषेधति – तर्~
हीति ॥ विपर्ययो भगवद्गुणोत्कर्षस्य । ``
सर्ववाचां" इति श्रुत्यैवोक्तत्वादिति परिहारे स्थितेऽन्यमप्याह – यत इति ॥ तस्यामेव श्रुतावाह वेदपुरुषः । एतद् विरुद्धा ः भगवद्गुणोत्कर्षविरुद्धाः । ``
उत्कर्षे हि" इत्यादिनोक्तमुपसंहरति – तदिति ॥ सर्ववेदानां यद्भगवद्गुणोत्कर्षे महातात्पर्यमुक्तं तद्विरुद्धं जीवसाम्यं,
जीवस्यैकात्म्यम् ।
* ``
आभास एव च" इति चोक्तम् । ``
जनमेजय उवाच–
बहवः पुरुषा ब्रह्मन् उताहो एक एव तु ।
को ह्यत्र पुरुषश्रेष्ठः तं भवान् वक्तुमर्~
हति ।
श्रीवैशम्पायन उवाच –
नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्भव ।
बहूनां पुरुषानां हि यथैका योनिरुच्यते ।
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ।" इति मोक्षधर्मे । नचैतत्सर्वं स्वप्नेन्द्रजालवत् । ``
वैधर्म्याच्च न स्वप्नादिवत्" इति भगवद्वचनम् । नच स्वप्नवदेकजीवकल्पितत्वे मानं पश्यामः । विपर्यये मा चोक्ता द्वितीये । उक्तं च अयास्यशाखायां – ``
स्वप्नो ह वाऽयं चञ्चलत्वान्न स्वप्नो न हि विच्छेदो एतदिति" इति । नायं दोषः । न हीश्वरस्य जीवैक्यमुच्यते । जीवस्य हीश्वरैक्यं ध्येयम् । तदपि न निरुपाधिकम् । अतो न प्रतिबिम्बत्वस्य विरोधैक्यम् । तथा च माधुच्छन्दसश्रुतिः – `
ैक्यं चापि प्रतिबिम्बेन विष्णोः जीवस्यैतद्धृषयो वदन्ति" इति । अहङ्ग्रहोपासने च फलाधिक्यं आग्निवेश्यश्रुतिसिद्धम् –
``
अहङ्ग्रहोपासकस्तस्य साम्यं अभ्याशो ह वा अश्नुते नात्र शङ्का" इति । ``
तदीयोऽहमिति ज्ञानमहङ्ग्रह इतीरितः" इति वामने । ``
तद् वशत्वात् सोऽस्मीति भृत्यैरेव न तु स्वतः " इति च । प्रातिबिम्ब्येन सोऽस्मि भृत्यश्च इति भावना । तथा हि अयास्यशाखायाम् –
``
भृत्यश्चाहं प्रातिबिम्ब्येन सोऽस्मि इत्येवं ह्युपास्यः परमः पुमान् सः" इति । प्रातिबिम्ब्यं च तत्साम्यमेव ॥ 23 -24
॥
//
सूत्रेतिहासविरुद्धं चेत्याह – आभास इति ॥ बहव इति पक्षेऽपि किं सर्वे समाः उतैक श्रेष्ठः । द्वितीये कोऽसावत्र पुरुषेषु श्रेष्ठः । कथं च श्रेष्ठः तं तथा वक्तुमर्~
हतीति । एतत् एतस्मिन् जगति । किं तु बहवः । तेषां बहूनां पुरुषाणां मध्ये यो योनिः कारणभूतः सः श्रेष्ठः । तथा च तं पुरुषं तथा व्याख्यास्यामि । विश्वं व्याप्तम् ।
स्यादेतत् । सर्वं जगत् स्वप्नवदेकाज्ञानकल्पितमित्येके । इन्द्रजालवदनेकाज्ञानकल्पितमित्यपरे । अप्रकृष्टापेक्षश्चोत्कर्षः । तथा चापकृष्टस्य विश्वस्य मिथ्यात्वादुत्कर्षस्य सत्त्वं कथं स्यात् । कथं च तत्र सर्ववेदानां महातात्पर्यमित्यत आह – नचेति ॥ कल्पितत्वे विश्वस्य । एवं बहुजीवकल्पितत्वेऽपीति वाच्यम् । विपर्यये सत्यत्वे । तर्~
हि कथं विश्वस्य पुराणेषु स्वप्नादिसाम्यमुच्यत इत्यत आह – उक्तं चेति ॥ अयं प्रपञ्चः स्वप्न इवोच्यते । चञ्चलत्वादनित्यत्वात् विकारित्वाच्च । नतु स्वप्नः साक्षान्मिथ्या इति यावत् । कुतः ?
एतत् एतस्य विच्छेदो बाधो न हीत्यर्थः । यद्यपि स्वप्नः सत्यः । तथाऽप्यङ्गीकारवादोऽयम् । मिथ्यार्थप्राचुर्याद्वा ।
ननु जीवस्य ब्रह्मणि ``
अहं ब्रह्मास्मि" इत्यहङ्ग्रहोपास्तिस्तावत् कर्तव्या । जीवश्च न सर्वोत्कृष्टः । ततश्च तेनैकीभूतस्येश्वरस्य कथं सर्वोत्कर्षं इत्यत आह – नायमिति ॥ बुद्धिस्थस्य `
अयं इति'
परामर्शः । कुत इत्यत आह – न हीति ॥ किं तर्~
ह्युच्यत इत्यत आह – जीवस्य हीति ॥ स्यादयं दोषः,
यदि ``
अहं ब्रह्मास्मि" इत्यादिनेश्वरमुद्दिश्य तस्यानुत्कृष्टजीवैक्यमुच्येत । न चैवम् । किन्तु जीवमुद्दिश्य तस्येश्वरैक्यम् । अन्यथा ब्रह्म मदात्मकं भवतीति निर्देशप्रसङ्गादिति । तस्यमेतज्जीवस्येश्वरैक्यमुच्यत इति । तथाऽपि नोक्तदोषपरिहारः । यदीश्वरः वस्तुतः सर्वोत्कृष्टः स्यात् तदा कथं जीवस्य तदैक्यं स्यात् । तस्यानुत्कृष्टत्वेनानुभवात् । अतो जीवस्य ब्रह्मणि श्रुतस्याहङ्ग्रोपासनास्यान्यथानुपपत्त्येश्वरस्य सर्वोत्कृष्टत्वं मिथ्येत्यङ्गीकार्यमित्यत आह – तदिति ॥ यज्जीवस्येश्वरेनैक्यमुच्यते तदपि न निरुपाधिकं निरुपचरितम् । किं तूपचारेणैवमुच्यते । उपचारबीजं सहेतुकमाह – अत इति ॥ यतः साक्षादैक्यं नार्थः । अतः ``
अहं ब्रह्मास्मि" इत्यादावुच्यमानमैक्यं प्रतिबिम्बत्वविरोधि प्रतिबिम्बत्वादन्यन्न भवति । किन्तु प्रतिबिम्बत्वमेवेत्यर्थः । ननु साक्षादैक्यं कुतो नार्थः । कुतश्चोपचारोऽपि प्रतिबिम्बत्वनिमित्त इत्यत आह – तथा चेति ॥ जीवस्यापि विष्णोरैक्यं यद् ऋषयो वदन्ति तद् प्रतिबिम्बेनैव निमित्तेन हीत्यर्थः । इतश्चोपचारेणैवाहङ्ग्रहोपासनमित्याह – अहमिति ॥ फलाधिक्यं,
मुख्यं फलम् । अहङ्ग्रहोपासनस्य हि परमं प्रयोजनमीश्वरसारूप्यापत्तिरेव श्रुत्योच्यते । यदि च निरुपचरितमैक्यमुपास्यं स्यात् तदा तन्नोपपद्येत । ``
तं तथा यथोपासने तदेव भवति" इति श्रुतेरिति भावः । अभ्याशः समीपम् । अल्पेनैव कालेनेत्यर्थः । इतोऽप्युपचारेणैवाहङ्ग्रह इत्याह – तदीय इति ॥ भृत्यैरेवोपास्यत इति शेषः । स्वतः साक्षादैक्यात् । ननु ``
अग्निः माणवकः" इत्याद्युपचारो भेदज्ञानसहचारितो दृष्टः । नच प्रकृते तदस्ति । तत्कथमुपचारेणाहङ्ग्रहोपासनमित्यतोऽत्रापि भेदज्ञानसाहित्यमस्तीति सप्रमाणकमाह – प्रातिबिम्ब्येनेति ॥ ननु बिम्बत्वमङ्गीकृतं चैदैक्यमेवापन्नमित्यत आह – प्रतिबिम्ब्यं चेति ॥ तदधीनत्वं च ग्राह्यम् । ``
तदीयोऽहं" इत्युक्तत्वात् । एवशब्दस्त्तैक्यस्य व्यवच्छेदार्थः । एतेन ``
क्षेत्रज्ञं चापि मां विद्धि" इत्यादेरपव्याख्यानमपास्तं भवति ॥ 23-24
॥
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ 25
॥
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ 26
॥
*
साङ्ख्येन वेदोक्तभगवत्स्वरूपज्ञानेन । कर्मिणामपि श्रुत्वा ज्ञात्वा ध्यात्वा दृष्टिः । श्रावकाणां च ज्ञात्वा ध्यात्वा । साङ्ख्यानां च ध्यात्वा । तथा च गौपवनश्रुतिः –
``
कर्मकृच्चापि तच्छ्रुत्वा ज्ञात्वा ध्यात्वाऽनुपश्यति ।
श्रावकोऽपि तथा ज्ञात्वा ध्यात्वा ज्ञान्यपि पश्यति ।
अन्यथा तस्य दृष्टिर्~
हि कथञ्चिन्नोपजायते" इति । अन्य इत्यशक्तानामप्युपायदर्शनार्थम् ॥ 25-26
॥
// ``
अन्ये साङ्ख्येन योगेन" इत्यत्र कापिञ्जलतन्त्रोक्तप्रकृतिपुरुषविवेकज्ञानं साङ्ख्यं इति व्याख्यानमसत् । कापिलतन्त्रस्यावैदिकस्यात्र ग्रहणायोगात् । तस्य भगवद्दर्शने प्रधानसाधनत्वायोगाच्चेति भावेनान्यथा व्याचष्टे – साङ्ख्येनेति ॥ ज्ञानेन परोक्षज्ञानेन । ध्यानेनेत्यत्र ध्यानादीनां केवलानामेवेश्वरदर्शनसाधनत्वमुच्यत इत्यन्यथाप्रतीतिनिरासार्थमाह– कर्मिणामिति ॥ दृष्टिः प्राप्येति शेषः । पाठक्रमादर्थक्रमस्य प्राधान्यात् व्युत्क्रमेणोक्तिः । कुत एतदित्यत आह – तथा चेति ॥ ``
ध्यात्वा" इत्येतत् ``
ज्ञान्यपि" इत्युत्तरेणापि सम्बध्यते । ननु सर्वत्र सर्वस्य संयोजने सत्येक एवायं प्रकारः स्यात् । तथा च `
केचित्’, `
अन्ये’, `
परे'
इत्युक्तमयुक्तं स्यादित्यत आह – अन्य इति ॥ ध्यानादावुत्तरोत्तरसाधने साक्षादशक्तानामपि तत्तदुपायज्ञानादिप्रदर्शनार्थमवस्थाभेदमाश्रित्य `
अन्य'
इत्याद्युक्तमित्यर्थः ॥ 25-26
॥
यावत् सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।
क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ ॥ 27
॥
समं सर्वेषु भूतेषु तिष्ठन्ति परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ 28
॥
समं पश्यन्ति सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम् ॥
*
पुनश्च प्रकृतिपुरुषेश्वरस्वरूपं साम्यादिधर्मयुक्तमाह – यावदित्यादिना ॥ 27-29
॥
// ``
तत् क्षेत्रं यच्च" इति प्रतिज्ञातस्य सर्वस्योक्तत्वात् किमुत्तरेणेत्यत आह – पुनश्चेति ॥ उक्तस्य पुनर्वचने को हेतुरित्यत आह – साम्यादीति ॥ ईश्वरधर्मस्योभयधर्मात् प्राधान्येन साम्यग्रहणम् । तच्च प्रकृतिपुरुषधर्मकथनं ``
यादृक्" इति प्रतिज्ञातेऽन्तर्भवति । ईश्वरधर्मकथनं च ``
यत्प्रभाव" इति ॥ 27-29
॥
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति ॥ 30
॥
*
आत्मानं चाकर्तारं यः पश्यति स पश्यति ॥ 30
॥
// ``
प्रकृत्यैव च" इत्यत्र यः प्रकृत्यैव च कर्माणि क्रियमाणानि पश्यति स आत्मानमकर्तारं पश्यतीति कश्चिदन्वयमाह । तदसत् । तथाशब्दवैयर्थ्यापत्तेरिति भावेनान्यथाऽऽह – आत्मानं चेति ॥ स पश्यति परमेश्वरम् ॥ 30
॥
यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ 31
॥
*
एकस्थं,
एकस्मिन् विष्णौ स्थितम् । तत एव च विष्णोः विस्तारम् ॥ 31
॥
// `
एकस्थं'
इत्यस्य एकस्थात्मकं इति व्याख्यानं सर्वप्रमाणविरुद्धमिति भावेनाह – एकस्थमिति ॥ ``
तत्त एव च विस्तारं" इत्यस्य स्वस्मादेव विश्वस्य विस्तारमिति व्याख्यानमसदिति भावेनाह – तत एवेति ॥ विस्तारमुत्पत्तिम् ॥ 31
॥
अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ 32
॥
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते ॥ 33
॥
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ 34
॥
*
नच व्ययादिस्तस्येत्याह – अनादित्वात् इति ॥ सादि हि प्रायो व्ययि गुणात्मकं च । `
न करोति'
इत्यादेरर्थः उक्तः पुरस्तात् । न लौकिकक्रियादिस्तस्य । अतो न प्रज्ञं इत्यादिवदिति ॥ 32-34
॥
// `
अव्यय'
इत्यनुवादेन लेपाभावमात्रं विधीयत इत्यन्यथाप्रतीति निरासार्थमाह – नचेति ॥ एतेनाव्ययत्वमपि साध्यमप्राप्तत्वादित्युक्तं भवति । तस्य,
विष्णोः । अनेन जीवविशेषणमेतत् । तस्य प्राप्तिसद्भावेन प्रतिषेधोपपत्तेरिति निरस्तम् । विष्णोरपि ``
शरीरस्थोऽपि" इति प्राप्तेरुक्तत्वात् । अनादिनिर्गुणत्वयोरव्यययत्वे हेतुत्वमुपपादयितुं व्याप्तिमाह – सादीति ॥ यत् व्ययि तत् प्रायः सादि गुणात्मकं चेति योजना । प्रागभावे व्यभिचारवारणाय `
प्रायः'
इत्युक्तम् । साद्येव गुणात्मकमेवेत्यवधारणेन यथास्थितयोजना वा । `
न करोति’, `
निर्गुणत्वात्'
इतीश्वरस्य क्रियागुणाभावः प्रतीयत इत्यत आह – न करोतीति ॥ पुरस्तादुक्तमेव स्मारयति – नेति ॥ इत्यादिवदक्रियत्वादिकं व्याख्येयमिति शेषः । यद्यप्यव्ययत्वमप्यत्र साध्यम् । तथाऽपि तल्लोकतो ज्ञातुं शक्यत इति लेपाभावमात्रं ``
यथा सर्वगतं" इत्युपपाद्यते ॥ 31 - 34
॥
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ 35
॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञयोगो नाम त्रयोदशोऽध्यायः ॥ 13
॥
*
भूतेभ्यः प्रकृतेश्च मोक्षसाधनममानित्वादिकम् ॥ 35
॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये त्रयोदशोऽध्यायः ॥ 13
॥
// ``
भूतप्रकृतिमोक्षं" इत्यस्य भूतानां प्रकृतिरविद्या,
तस्याः मोक्षमवसानलक्षणमिति व्याख्यानमसत् । भूतशब्दवैयर्थ्यात् । अविद्याध्वंसस्यानुक्तत्वेन `
एवं'
इति परामर्शायोगाच्चेति भावेनाह – भूतेभ्य इति ॥ अनेन ``
भूतप्रकृति" इति द्वन्द्वः । ततः,
पञ्चमी इति योगविभागात् पञ्चमीतत्पुरुष इत्युक्तं भवति । भूतेभ्यः पृथिव्यादिभ्यः । ननु मोक्षो न प्रागुक्त इत्यत उक्तम् – मोक्षसाधनमिति ॥ करणे घञX
इत्यर्थः । मोक्षसाधनमपि नोक्तमित्यत आह – अमानित्वादिकमिति ॥ ज्ञानसाधनमपि परम्परया मोक्षसाधनमिति भावः । मोक्षशब्दस्य नित्यसापेक्षत्वान्नासमर्थत्वम् । यद्वा `
भूतेभ्यः प्रकृतेश्च'
इति समासद्वयसूचनार्थं पृथगेव वाक्यम् । ततो मोक्षपदव्याख्यानं पृथगेवेति ॥ 35
॥
॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां त्रयोदशोऽध्यायः समाप्तः ॥ 13
॥
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवाभिन्नश्रीमध्वेशार्पणमस्तु ॥
श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवात्मकमध्वेशायनमः
**************************************************************************************************
चतुर्दशोऽध्यायः
परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्जञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ 1
॥
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥
*
॥हरिः ॐ॥ साधनं प्राधान्येनोत्तरैरध्यायैर्वक्ति ॥ 1-2
॥
//
॥हरिः ॐ॥ उत्तरेषां पञ्चानामध्यायानां प्रतिपाद्यमाह – साधनमिति ॥ ``
योगे त्विमां श्रुणु" इति प्रतिज्ञाय आषष्ठपरिसमाप्तेः कामवर्जनादीतिकर्तव्यतासहितं कर्मध्यानलक्षणं ज्ञानसाधनमुक्तम् । तत्र इति कर्तव्यतांशमुत्तरैरध्यायैः प्रपञ्चयतीत्यर्थः । ``
मम योनिर्महद्ब्रह्म", ``
न तद्भासयते सूर्यः" इत्यादिनेश्वरमाहात्म्यस्यापि वचनात् कथमेतदित्यत उक्तम् – प्राधान्येनेति ॥ प्राचुर्यापेक्षया सङ्ग्राहकमेतदित्यर्थः । अवान्तरप्रतिपाद्यभेदादध्यायभेदः । तत्र ``
यावत्सञ्जायते किञ्चित्" इत्युक्त विवरणपूर्वकं ``
कारणं गुणसङ्गोस्य" इत्युक्तं गुणसम्बन्धं प्रपञ्च्य तदत्ययसाधनमनेनाध्यायेनोच्यते ॥ 1-2
॥
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ 3
॥
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद् योनिरहं बीजप्रदः पिता ॥ 4
॥
*
महत् ब्रह्म प्रकृतिः । सा च श्रीभूदुर्गेति भिन्ना । उमासरस्वत्याद्यास्तु तदंशयुता अन्यजीवाः । तथा च काषायणश्रुतिः – ``
श्रीर्भूर्दुर्गा महती तु माया सा लोकसूतिः जगतो बन्धिका च । उमावागाद्या अन्यजीवास्तदंशाः तदात्मना सर्ववेदेषु गीताः" इति । ``
मम योनिः" इति गर्भदानार्था योनिः । नतु माता वाक्यशेषात् । तथा हि सामवेदे शार्कराक्षश्रुतौ – ``
विष्णुर्योनिः गर्भसन्धारणार्था महामाया सर्वदुःखैर्विहीना । तथाप्यात्मानं दुःखिवन्मोहनार्थं प्रकाशयन्ती सह विष्णुना सा" इति । अतः सीतादुःखादिकं मृषा प्रदर्शनमेव । तथा कूर्मपुराणे – ``
अन्या भूः भूरियं तस्य च्छाया भूताऽवमा सा हि भूतैकयोनिः " इति । ``
अवाप स्वेच्छया दास्यं जगतां प्रपितामही" इति अनभिम्लातश्रुतिः । मत्स्यपुराणोक्तमपि स्वेच्छयैव । महद् ब्रह्मशब्दवाच्याऽपि प्रकृतिरेव । ``
महति ब्रह्मणी द्वे तु प्रकृतिश्च महेश्वरः" इति तत्रैव ॥ 3-4
॥
//
अत्र ``
महद् ब्रह्म" इति जडाविद्योच्यत इति प्रतीतिनिरासार्थमाह – महदिति ॥ प्रकृतिः महालक्ष्मीः । ननु ``
सत्त्वं रजस्तम" इति जडाप्रकृतिः वक्ष्यते । तत्सन्निधानादत्रापि सैव युक्तेति चेन्न । तत्रापि चेतनप्रकृत्यभिधानात् । कथमस्याः सत्त्वादिभेदभिन्नत्वमित्यत आह – सा चेति ॥ जडप्रकृतेरभिमानिनी तत्कार्यसत्त्वादिगुणाभिमानिनी एतद् रूपत्रयवतीत्यर्थः । ननु भगवती ``
माहेश्वरी,
ब्राह्मी,
कौमारी,
माहेन्द्री,
श्री,
भू,
दुर्गा" इति सप्तधा भिन्ना आगमेषूच्यते । तत्कथं त्रिधा भिन्नोच्यत इत्यत आह – उमेति ॥ आद्याः चतस्रो भगवत्या अन्याः । कुतः ?
जीवाः । कथं तद्रूपत्वोक्तिः । तदंशयुताः तत्सन्निधानोपेताः । कुत एतदित्यत आह – तथा चेति ॥ ``
मम योनिः" इत्येतत्परे व्याचक्षते ``
मम स्वरूपभूता योनिः कारणं विश्वस्य । प्रतीत एव अन्वये `
मम माता'
इत्यापत्तेः" इति । तन्निरासार्थमाह- ममेति ॥ `
मम'
इत्यनुवादेनान्यथा प्रतीतान्वयबाधः स्यादिति सूचयति । प्रतीतान्वयाङ्गीकारे `
माता'
इत्यपि प्रतीयेत । तत्र कथं भार्येति निश्चय इत्यत आह – नत्विति ॥ इति प्रतीतिः प्रसज्यत इति शेषः । कुतो नेत्यत आह – वाक्येति ॥ ``
तस्मिन् गर्भं ददाम्यहं" इति वाक्यशेषात् भार्यार्थतानिश्चयात् । श्रुतिबलाच्चेत्याह – तथा हीति ॥ प्रकाशयन्ती प्रवर्तते । अनयैव श्रुत्याऽन्यदपि लब्धमिति प्रसङ्गादाह – अत इति ॥ मृषा अयथार्थं प्रदर्शनं यस्य तत्तथा । इतश्बैवमेवेत्याह – तथेति ॥ तत्र ह्येवमुक्तम् – ``
दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः । रामायादर्शयत् सीतां पावकोऽसौ सुरप्रियः ॥" इत्यादि । ननु महालक्ष्मीः `
श्री,
भू,
दुर्गा'
इति भिन्नेत्युक्तम् । भुवश्च ``
गौर्भूत्वाऽश्रुमुखी खिन्ना" इति दुःखं प्रतीयते । तत्कथं तदित्यत आह – न चेति ॥ इयं भूताभिमानिनी प्रसिद्धा भूः भगवत्या रूपं न भवति । किन्त्वन्यैव । कुत इत्यत आह – तथा चेति ॥ महालक्ष्मीरूपं भूः अन्या । इयं प्रसिद्धा तस्याः छाया प्रतिमा । ननु रावणहरणादिकं भवतु मायासीतायाः । वाल्मीकिदास्यं तावन्मत्स्यपुराणे साक्षात् सीताया एवोक्तम् । दास्ये च दुःखमवर्जनीयमित्याशङ्कां प्रमाणपूर्वकमपाकरोति – अवापेति ॥ श्रुतिरस्ति यतः,
अत इति शेषः । महद् ब्रह्म प्रकृतिरित्युक्तम् । तत्र प्रमाणं वक्तुं व्यवहितत्वात् पुनः प्रतिजानीते – महदिति ॥ `
महत् ब्रह्म'
इति भिन्ने पदे । ततः परं इति शब्दः अध्याहार्यः । कुत इत्यत आह – महतीति ॥ तत्रैव मत्स्यपुराणे । अर्थक्रमेण `
मम योनिः महत् ब्रह्म'
इत्यत्र व्युत्क्रमेण व्याख्यानम् । मत्स्यपुराणोदाहरणप्रसङ्गादत्रोपपादनमिति ॥ 3
॥ 4
॥
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ 5
॥
तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् ।
सुखसङ्घेन बध्नाति ज्ञानसङ्गेन चानघ ॥ 6
॥
*
बन्धप्रकारं दर्शयति साधनानुष्ठानाय – सत्त्वमित्यादिना ॥ 5
॥ 6
॥
//
ननु प्रतिज्ञातं ज्ञानं श्लोकद्वयेनोक्तम् । तत्किमुत्तरेण ग्रन्थेनाध्यायासङ्गतमुच्यत इत्यत आह – बन्धेति ॥ यो हि बद्धोऽस्मीति जानाति स एव तन्निवृत्तिसाधनं विजिज्ञास्य ज्ञात्वा अनुतिष्ठति । अतो बन्धोच्छेदसाधनानुष्ठानाय तद् ज्ञापनार्थं जिज्ञासामुत्पादयितुं गुणत्रयकृतबन्धप्रकारमादौ तावद् दर्शयतीति नासङ्गतिरित्यर्थः ॥ 5-6
॥
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ 7
॥
*
तृष्णासङ्गयोः समुद्भवं,
तयोः कारणम् ॥ 7
॥
//
अत्र रजः ``
तृष्णासङ्गसमुद्भवं" इत्यस्य तृष्णासङ्गाभ्यां समुद्भवो यस्येत्यपव्याख्यानमिति भावेन विग्रहप्रदर्शनपूर्वकमर्थमाह – तृष्णेति ॥ समुद्भवति अस्मादिति समुद्भवं कारणम् । अन्यथा ``
प्रकृतिसम्भवाः" इत्युक्तविरोधात् । समुद्भवशब्देनाविर्भावो विवक्षित इति चेत् । तथाऽपि गुणकार्यकथनप्रकरणविरोधात् ॥ 7
॥
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ॥
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ 8
॥
*
अज्ञानं जायते यतः तदज्ञानजम् । ``
प्रमादमोहौ तमसः" इति वाक्यशेषात् ॥ 8
॥
// `
तमस्तु अज्ञानजं'
इत्यस्य अज्ञानात् जातमित्यपव्याख्यां प्रत्याख्यातुमाह – अज्ञानमिति ॥ एतच्च ``
अन्येष्वपि दृश्यते" इति दृशिग्रहणसामर्थ्याल्लभ्यते । कुतः प्रतीत एवार्थो नेत्यत आह – प्रमादेति ॥ वाक्यशेषेऽज्ञानस्य तमः कार्यत्ववचनादित्यर्थः ॥ 8
॥
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ 9
॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्बैव तमः सत्त्वं रजस्तथा ॥ 10
॥
सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत ॥ 11
॥
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ 12
॥
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ 13
॥
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥ 14
॥
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ 15
॥
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ 16
॥
सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ 17
॥
ऊर्ध्वं तच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ 18
॥
*
रजसस्तु फलं दुःखमित्यल्पसुखं दुःखम् । तथा हि शार्कराक्षशाखायाम् – ``
रजसो ह्येव जायते मात्रया सुखं दुःखं तस्मात्तान् सुखिनो दुःखिन इत्याचक्षते" इति । अन्यथा दुःखस्यातिकष्टत्वात्तमोऽधिकत्वं रजसो न स्यात् ॥ 9-18
॥
//
दुःखशब्दः केवलदुःखवाचीत्यन्यथाप्रतीतिनिरासायाह – रजस इति ॥ दुःखशब्देनोच्यत इति शेषः । तत्कथमित्यत उक्तम् – अल्पेति ॥ अल्पत्वात् सुखस्याविवक्षेति भावः । कुत इत्यत आह – तथाहीति ॥ ``
रजस" इति पञ्चमी । `
मात्रया'
इति सुखविशेषणम् । स्तोकात्मकं सुखं दुःखं चेत्यर्थः । तान् राजसकर्मिणः । केवलदुःखार्थाङ्गीकारे बाधकं चाह – अन्यथेति ॥ अतिकष्टत्वादज्ञानादपि कष्टत्वात् । तत्फलकस्य रजसः । तथा च `
मध्ये तिष्टन्ति राजसाः’ , `
अधो गच्छन्ति तामसाः'
इत्याद्ययुक्तं स्यादिति भावः ॥ 9-18
॥
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ 19
॥
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ 20
॥
अर्जुन उवाच –
केर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो ।
किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ॥ 21
॥
*
परिणामिकर्तारं गुणेभ्योऽन्यं न पश्यति । अन्यथा ``
यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्" इति श्रुतिविरोधः । ``
नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः" इति मोक्षधर्मे ॥ 19-20
॥
// ``
नान्यं गुणेभ्यः कर्तारं" इति स्वतन्त्रकतृत्वं गुणानामेव नान्यस्येत्युच्यत इत्यपव्याख्याननिरासार्थमाह – परिणामीति ॥ कुत एतदित्यत आह – अन्यथेति ॥ गुणेभ्योऽन्यस्य कर्तृत्वाभावे । मोक्षधर्मे परमेश्वरस्य कर्तृत्वमुक्तं. तद्विरोधश्चेति वाक्यशेषः ॥ 19-21
॥
श्रीभगवानुवाच–
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ 22
॥
उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ 23
॥
समदुःखसुख स्वस्थः समलोष्टाश्मकाञ्चनः ।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ 24
॥
*
प्रायो न द्वेष्टि,
न काङ्क्षति । तथा हि सामवेदे भाल्लवेयशाखायाम् –
``
रजस्तमस्सत्त्वगुणान् प्रवृत्तान् प्रायो न च द्वेष्टि न चापि काङ्क्षेत् ।
तथाऽपि सूक्ष्मं सत्त्वगुणं च काङ्क्षेत् यदि प्रविष्टं सुतमश्च जह्यात् " इति ॥ ``
न हि देवा ऋषयश्च सत्त्वस्था नृपसत्तम । हीनास्सत्त्वेन सूक्ष्मेण ततो वैकारिका मताः । कथं वैकारिको गच्छेत् पुरुषः पुरुषोत्तमम् " इति मोक्षधर्मे । ``
सात्त्विकः पुरुषव्याघ्र भवेन् मोक्षार्थनिश्चितः" इति च ॥ 22-23
॥
// ``
प्रकाशं च प्रवृत्तिं च" इत्यनेन गुणातीतस्य सर्वथा सत्त्वादिगुणकार्येषु प्रकाशादिषु द्वेषाकाङ्क्षे न स्त इत्युच्यत इत्यन्यथाप्रतीतिनिरासार्थमाह – प्राय इति ॥ इदमुक्तं भवति । सत्त्वादयो गुणाः द्विविधाः स्थूलाः सूक्ष्माश्च । तत्र स्थूलेभ्यो लौकिकाः प्रकाशप्रवृत्तिमोहाः जायन्ते । सूक्ष्मेभ्यश्च परमेश्वरादिविषयाः । तत्राद्येषु गुणातीतस्य द्वेषाकाङ्क्षे प्रायो न स्तः । न तु सर्वथा;
प्रारब्धवशात् कदाचित् सम्भवात् । द्वितीयेषु त्वाकाङ्क्षादिकं विद्यत एवेति । कुत एतदित्यत आह – तथा हीति ॥ यद्यपि ``
न द्वेष्टि" इत्यादिकमुक्तम् । तथाऽपि यदि सुतमः सूक्ष्मतमः दैववशात्तं प्रविष्टं स्यात् । तदाऽसौ तज्जह्यात् द्विष्यात् । गुणातीतानां च सूक्ष्मसत्त्वसद्भावे भारतवाक्यं च पठति – न हीति ॥ यदि देवा ऋषयश्च सूक्ष्मेण सत्त्वेन हीनाः स्युः,
तदा सत्त्वस्था इति नोच्येरन् । किन्तु ततस्तदा वैकारिकाः स्मृताः प्रसज्येरन् । ततः किं,
कथं वैकारिको गच्छेत् पुरुषोत्तमम् । तेषां मोक्षो न स्यादिति यावत् । अस्ति च मोक्षो तेषाम् । अतः सूक्ष्मसत्त्ववन्तः एव त इत्यर्थः । सात्त्विकः सूक्ष्मसत्त्ववान् । ``
स सूक्ष्मसत्त्वसंयुक्तः संयुक्तस्त्रिभिरक्षरैः । पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकः" इति सूक्ष्मसत्त्वप्रकरणात् । मोक्षार्थनिश्चितो मोक्षलक्षणे पुरुषार्थे निश्चितः ॥ 22-24
॥
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः ।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ 25
॥
*
तुल्यत्वार्थः उक्तः पुरस्तात् ॥ 25
॥
// ``
समदुःखसुखः" इत्यादिना सर्वथा सुखादौ तुल्यत्वबुद्धिरुच्यत इत्यन्यथाप्रतीतिनिरासार्थमाह– तुल्यत्वेति ॥ तुल्यत्ववाचिनः शब्दस्यार्थ इत्यर्थः । ``
प्रायः सर्वान्" इत्यद्युक्तरीत्येति भावः ॥ 25
॥
मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ 26
॥
*
ब्रह्मवत् प्रकृतिवत् भगवत्प्रियत्वं ब्रह्मभूयम् । नतु तावत्प्रियत्वम् । किन्तु प्रियत्वमात्रम् । ``
बद्धो वापि तु मुक्तो न रमावत् प्रियो हरेः" इति पाद्मे । भूयाय भवाय ॥ 26
॥
//
ब्रह्मभूयायेत्यस्य परब्रह्मत्वायेति व्याख्यानं प्रमाणविरुद्धमिति भावेनान्यथा व्याचष्टे – ब्रह्मवदिति ॥ नात्र ब्रह्मशब्दं परम्ब्रह्म । किन्तु ``
मम योनिर्महद्ब्रह्म" इति प्रकृता प्रकृतिरेव । ``
ब्रह्मणो हि प्रतिष्ठाऽहं" इत्युत्तरवाक्यात् । तद्भूयं च न तादात्म्यं किन्तु तद्वत् भगवत्प्रियत्वमेव । अन्यस्यान्यभावायोगादिति भावः । तत्किं यावत् प्रकृतेः भगवत्प्रियत्वं तावत् गुणातीतस्येत्यतः सप्रमाणमाह – न त्विति ॥ तत्किं भूयशब्दः प्रियत्ववाची,
येनैवं व्याख्यान इत्यत आह – भूयाय इति ॥ ``
भुवो भावः" इति वचनात् भावो भवनं भूयशब्दार्थः । ब्रह्मवत् भावो ब्रह्मभूयम् । ``
वदः सुपि" इति सुबन्तमात्रस्योपपदस्यानुवृत्तेः । वत्यर्थस्य च वृत्तावन्तर्भावात् । मयूरव्यंसकादिवत् । वत्यर्थश्च प्रियत्वमिति तदुक्तमिति भावः ॥ 26
॥
ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ 27
॥
ॐ तत्सदिति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभक्तियोगोनाम चतुर्दशोऽध्यायः ॥ 14
॥
*
ब्रह्मणो मायायाः ॥ 27
॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये चतुर्दशोऽध्यायः ॥ 14
॥
// ``
ब्रह्मणो हि" इत्येतत् ``
परब्रह्मणो हि" इति व्याचक्षते । तदसत् । ``
प्रतिष्ठाऽहं" इति वचनात् । उपचारोऽसौ इति चेन्न । मुख्ये सम्भवति तदुपादानायोगादिति भावेनाह – ब्रह्मण इति ॥ मायेति प्रकृता महालक्ष्मीः ॥ 17
॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां चतुर्दशोऽध्यायः ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवात्मकश्रीमध्वेशार्पणमस्तु ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवात्मकश्रीमध्वेशायनमः ॥
********************************************************************************************
पञ्चदशोऽध्यायः
श्रीभगवानुवाच–
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ 1 ॥
* ॥हरिः ॐ॥ संसारस्वरूपतदत्ययोपायविज्ञानानि अस्मिन्नध्याये दर्शयति । ऊर्ध्वोः विष्णुः । ``ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मिद्रविणं सवर्चसम्" इति हि श्रुतिः । ऊर्ध्वः उत्तमः सर्वतः । अधो निकृष्टं शाखा भूतानि । श्वोऽपि एकप्रकारेण न तिष्ठतीत्यश्वत्थः । तथापि न प्रवाहव्ययः । पूर्वब्रह्मकाले यथा स्थितिः तथा सर्वत्रापीत्यव्ययता । फलकारणत्वात् च्छन्दसां पर्णत्वम् । न हि कदाचिदप्यजाते पर्णे फलोत्पत्तिः ॥ 1 ॥
// अध्यायप्रतिपाद्यमर्थमाह – संसारेति ॥ संसरति अनेनेति संसारः, प्रकृत्यादिकं क्षेत्रम् । पूर्वाध्याये संसारैकदेशानां गुणानामेव वृत्तं दर्शितम् । अत्र पुनः समग्रं संसारस्वरूपं प्रदर्श्य तदत्ययेच्छामुत्पाद्य तत्साधनजिज्ञासुं प्रति प्रागुक्तं साधनं प्रपञ्चयति । तत् प्रसङ्गादलौकिकं भगवन्महिमानं च दर्शयत्यनेनाध्यायेनेत्यर्थः । जगद् वृक्षस्योर्ध्वमूलत्वं घटयितुं ऊर्ध्वशब्दाभिधेयं तावदाह – ऊर्ध्व इति ॥ कुतः? निष्पापोऽस्मि ततो वाजिरूपश्च नेता च । वाजिनी सूर्यः । तत्र वसतीति वाजिनीवसुः । तेन वाजिनीवसुना विष्णुनाऽमृतं प्रारब्धकर्मनिर्मुक्तश्चास्मि । ``स तेजसि सूर्ये सम्पन्नः" इति श्रुतेः । ततश्च तेनैव सवर्चसं सप्रभमनुभूयमानमिति यावत् । द्रविणं धनं सुखं चास्मीत्यर्थः । वर्चसशब्दो अकारान्तोऽप्यस्ति । ``ब्रह्महस्तिभ्यां वर्चस" इत्यत्र योगविभागात्समासान्तो वा । विष्णुप्रसङ्गदर्शनाय श्रुतिशेषोदाहरणम् । इदानीं तस्य तत्र प्रवृत्तौ निमित्तमाह – ऊर्ध्व इति ॥ उन्नतो हि ऊर्ध्व उच्यते । अतो ब्रह्मादिलोकस्थत्वादिलक्षणा सूक्ष्मत्वादिगुणयोगो वा नाऽश्रयणीयः । सर्वतः सर्वस्मात् प्रपञ्चात् । सर्वैश्च गुणैः । अधःशाखं इत्येतद् घटयन् अधः शब्दार्थं तावदाह – अध इति ॥ शाखाः का इत्यत आह – शाखा इति ॥ तानि हि मूलापेक्षया अपकृष्टानि । ननु वृक्षमात्रस्य सारूप्यमभिदधता कथमश्वत्थत्वमस्योच्यत इत्यत आह – श्वोऽपीति ॥ `सुपि स्थ’ इति कः । श्वसः सकारस्य तकारो धातुसकारस्य लोपश्च निरुक्तत्वात् श्वःस्थाता श्वत्थः । श्वत्थो न भवतीत्यश्वत्थः । किमुत कालान्तरे इत्यपि शब्दः । ननु पदार्थानां बहुकालस्थायित्वदर्शनात् कथमेतदित्यत आह – एकेति ॥ ``तिष्ठति" इति लुडर्थे अनादरसूचनाय लट् । अथवा अपिशब्देन वर्तमानातीतयोः समुच्चयः । ततः क्रियाप्रबन्धे लट् । तर्~हि ``अव्ययं" इति व्याघात इत्यत आह – तथाऽपीति ॥ विकारित्वेऽपि । एतदपि नास्ति । जगत् प्रवाहस्य प्रलये व्ययादित्यत आह – पूर्वेति ॥ छन्दसां पर्णत्वं घटयति– फलेति ॥ फलकारित्वसादृश्यादित्यर्थः । तत्र फलं मोक्षादिकम् । छन्दसां वेदानाम् । स्यादिदं, यदि पर्णानां फलकारणत्वं स्यात् । तदेव कुतः ? अन्वयव्यतिरेकाभ्यामित्याह – न हीति ॥ किन्तु जात एवेत्यन्वयोऽपि वाच्यः ॥ 1 ॥
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ 2 ॥
* अव्यक्तेऽपि सूक्ष्मरूपेण सन्ति शरीरादौ भूतानीत्यधश्चोर्ध्वं च प्रसृताः । गुणैः सत्त्वादिभिः । प्रतीतमात्रसुखत्वात् प्रवाला विषयाः । मूलानि भगवद्रूपादीनि । भगवानपि कर्मानुबन्धेन हि फलं ददाति । तथा च भाल्लवेयशाखायाम्– ``ब्रह्म वा अस्य पृथ~घX मूलं, प्रकृतिः समूलं, सत्त्वादयो अर्वाचीनमूलम् । भूतानि शाखा छन्दांसिपर्णानि देवनृतिर्यञ्चश्च शाखाः । पत्रेभ्यो हि फलं जायते । मात्रा शिफाः । मुक्तिः फलममुक्तिः फलम् । मोक्षो रसः अमोक्षो रसः । अव्यक्ते च शाखाः । व्यक्ते च शाखाः । अव्यक्ते च मूलम् व्यक्ते च मूलम् । एषोऽश्वत्थो गुणालोलपत्रो न स्थीयते न नस्थीयते; न ह्येष कदाचनान्यथा जायते, नान्यथा जायते" इति ॥ 2 ॥
// ``अधश्च" इत्येतद् घटयति – अव्यक्तेऽपीति ॥ अनेन तस्य शाखा भूतान्यधश्च स्वापेक्षयाऽपकृष्टे शरीरादौ कार्ये चोर्ध्वं चोत्तमे कारणेऽव्यक्ते च प्रसृताः सूक्ष्मरूपेण सन्तीति व्याख्यानं भवति । प्रसृता इत्यनेनोच्यत इति शेषः । अधः पातालादौ ऊर्ध्वं स्वर्गादौ इति व्याख्याने प्रकृतपरित्यागाप्रकृतप्रक्रिये प्रसज्येते । गुणशब्दस्यानेकार्थत्वात् `गुणप्रवृद्धाः’ इत्यत्र विवक्षितमर्थमाह – गुणैरिति ॥ अर्वाचीनमूलैर्~हि शाखाः प्रवालत्वं घटयति – प्रतीतिमात्रेति ॥ प्रतीतिसमयमात्रसुखहेतुत्वादित्यर्थः । विमर्दनासहत्वसाम्यादिति भावः । विषयाः प्रवाला इति सम्बन्धः । ``अधश्च मूलानि" इत्यत्र रागद्वेषादि वासनामूलानीति व्याख्यानमसत् । प्रक्रमविरोधादिति भावेनाह – मूलानीति ॥ आदिपदेन जडाजडप्रकृत्योः सत्त्वादीनां च ग्रहणम् । तेषामपि ``ऊर्ध्वमूलं" इत्यत्र विवक्षितत्वात् । ननु भगवतः कथं कर्मानुबन्धित्वमित्यत आह – भगवानपीति ॥ अत्र कर्मानुबन्धित्वं नाम कर्मानुसारित्वम् । तच्च कर्मसम्बन्धेन फलदातृत्वात् भगवतोऽपि युक्तमित्यर्थः । यद्वा कर्म एवानुबन्धः चरमभाविकारणं कर्मानुबन्धः । तद्वत्तं कर्मानुबन्धित्वम् । तदपि कर्मानुबन्धेन फलदातृत्वात् भगवतो युज्यत इति । श्लोकद्वयार्थे श्रुतिसम्मतिं चाह – तथा चेति ॥ अस्य जगद् वृक्षस्य, पृथक् वृक्षानन्तर्गतम् । सहभूतं मूलं समूलम् । अर्वाचीनमूलं भूम्यन्तर्गतपादाख्यम् । ``छन्दांसि" इत्यस्योपपादनम् – पत्रेभ्यो हीति ॥ देवादिशरीराणि चोपशाखाः । मात्राः भूतसूक्ष्माणि । शिफाः जटाः । मुक्त्यमुक्तिशब्दाभ्यां मोक्षतदितरपुरुषार्थसाधने ज्ञानकर्मणी उच्यते । फलमवान्तरम् । मोक्षामोक्षाशब्दाभ्यां तु पुरुषार्थावेव । रसः श्रेष्ठ फलम् । गुणाः विषयाः । आलोलपत्राणि प्रवालपत्राणि यस्यासौ तथोक्तः । ``न स्थीयत" इत्यनेनाश्वत्थशब्दार्थकथनम् । तत्किं क्षणिकः ? न न स्थीयते प्रवाहव्ययो नास्तीत्यर्थः । तस्योपपादनम् – न हीति ॥ द्विरुक्तिस्तात्पर्यार्था ॥ 3 ॥
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ 3 ॥
* यथा स्थितस्तथा नोपलभ्यते । अन्तादिर्विष्णुः । ``त्वमादिरन्तो जगतोऽस्य मध्यं" इति भागवते । ``अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः " इति च मोक्षधर्मे । असङ्गशस्त्रेण, सङ्गराहित्यसहितेन ज्ञानेन । ``ज्ञानासिनोपासनया सितेन" इति भागवते । छेदश्च विमर्श एव । ततश्च तस्यैवाबन्धकं भवति । तथा हि मूलस्थं ब्रह्म प्रतीयते । तच्चोक्तं तत् श्रुतावेव – ``विमर्शो ह्यस्य च्छेदः । स तं न बध्नाति बध्नाति चान्यान् " इति ॥ 3 ॥
// अस्य रूपं नोपलभ्यत इत्युक्ते प्रमाणबाधः । अत उक्तम् – तथेति ॥ तत्सापेक्षमित्यतः पूरयति – यथेति ॥ विकारित्वादिनेत्यर्थः । जगतो देशकालाभ्यां परिच्छेदस्योपलभ्यमानत्वात् नान्त इत्याद्युक्तमयुक्तमित्यत आह – अन्तादिरिति ॥ संहर्तृत्वादेरिति शेषः । अत्र सम्मतिमाह – त्वमिति ॥ मध्यं स्थितेः कर्ता । तस्यानुपलभ्यमानत्वे प्रमाणमाह – अनादीति ॥ आद्यन्तररहितम् । असङ्ग एव शस्त्रमिति व्याख्यानमसदिति भावेनाह – असङ्गेति ॥ असङ्गः सङ्गराहित्यम् । तेन सहितं ज्ञानमसङ्गशस्त्रम् । दध्योदनादिवत् वृत्तौ साहित्यस्यान्तर्भावादप्रयोग इति भावः । प्रतीतार्थः कुतो नेत्यतो ज्ञानस्यैव तत्र कारणत्वेनोक्तेरित्याह – ज्ञानेति ॥ छित्वेत्यस्य सबीजमुद्धृत्येति व्याख्यानमसदिति भावेनाह – छेदश्चेति ॥ चस्त्वर्थः । विमर्शो विवेकः । व्याख्यानान्तरपरित्यागेनैवं व्याख्याने को हेतुरित्यत आह – ततश्चेति ॥ यतो विमर्श एव प्रकृत्यादेः विश्वस्य च्छेदः, न सर्वथोद्धरणम् । तत एव तस्यैकस्यैवेदमबन्धकं भवतीति युज्यते । अन्यथा एकेन छेदे कृते सर्वमुक्तिः स्यादिति भावः । इतश्चायमेव च्छेद इत्याह – तथा हीति ॥ अत्र ह्यश्वत्थमेनं छित्वा ``ततः परं तत् परिमार्गितव्यं" इति विश्वच्छेदस्य ब्रह्मप्रतीतावुपायत्वमुच्यते । तथा हि । विश्वस्य कार्यत्वादिना विमर्शे सति कार्यस्य कारणापेक्षत्वात् चेतनानधिष्ठितादुपादानादुत्पत्त्यसम्भवात् परतन्त्राणां मुख्यतो अधिष्ठातृत्वायोगात् मूलस्थमुपादानकारणाधिष्ठातृ ब्रह्म प्रतीयते न विश्वविनाशे । अतो योग्यतावशात् विमर्श एव च्छेदो न विनाश इति गम्यत इत्यर्थः । विश्वमिथ्यात्वज्ञानमेव च्छेद इति चेन्न । अस्य मिथ्याज्ञानत्वात् । श्रुतिसंवादाच्बैवमेवेत्याह – तच्चेति ॥ ``तं वै प्रपद्ये यं वै प्रपद्ये" इति तच्छ्रुतावेव । अतस्तं च्छेदकमेव ॥ 3 ॥
ततः परं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसूता पुराणी ॥ 4 ॥
* तदर्थं च तमेव प्रपद्ये, प्रपद्येत । तच्चोक्तं तत्रैव ``तं वै प्रपद्येत यं वै प्रपद्य न शोचति न हृष्यति न जायते न म्रियते तद् ब्रह्म मूलं तत् च्छित्सुः" इति ।
``नारायणेन दृष्टश्च प्रतिबद्धो भवेत् पुमान्" इति च मोक्षधर्मे । च्छेदनोपायो ह्यत्राकाङ्क्षितः । न च भगवतोऽन्यः शरण्योऽस्ति ॥ 4 ॥
// वाक्यार्थस्यासमाप्तत्वात् ``तमेव चाद्यं" इति व्यर्थमित्यतः सङ्गतिं सूचयन्नाह – तदर्थं चेति ॥ विमर्शार्थं चेति ॥ विश्वविमर्शाद् ब्रह्मज्ञानं भवतु । स विमर्श एव कथं स्यादित्याकाङ्क्षां तदर्थमित्यनेन सूचयति । तर्~हि चिच्छिदिषुं प्रति तदुपायो विधेयो न तु प्रपद्य इति वचनं सङ्गतमित्यतो ``व्यत्ययो बहुलं" इति वचनमाश्रित्याह – प्रपद्येतेति ॥ कुतो इत्यतः श्रुतिस्मृतिसंवादादित्याह – तच्चेति ॥ तद्विश्वं छित्सुः । अभ्यासलोपः इडभावश्च छान्दसः । चिच्छिदिषुः विश्वविमर्शार्थी यः तद् ब्रह्म विश्वस्य मूलं तमेव पुरुषं प्रपद्येत इत्यर्थः । प्रपत्त्या प्रसन्नेन नारायणेन दृष्टः पुमान् प्रतिबद्धो विश्वविमर्शक्षमो भवेदित्यर्थः । इतश्च पुरुषव्यत्ययोऽत्र व्याख्येय इत्याह – च्छेदेनेति ॥ अतस्तदुपायविधानमेव सङ्गतमिति शेषः । न केवलं उत्तमपुरुषोऽत्रानुपयुक्तः । किन्त्वयुक्तश्चेत्याह – न चेति ॥ ``तमेव प्रपद्य इत्येवं परिमार्गितव्यं" इति सम्बन्धस्त्वयुक्तः । अस्य परिमार्गणत्वाभावात् ॥ 4 ॥
((निर्मानमोहा जितसङ्घदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ 5 ॥
* साधनान्तरमाह – निर्मानेति ॥ 5 ॥
// तर्~हि ब्रह्मज्ञानसाधनं विश्वविमर्शः । तत्र साधनं च तत्प्रपत्तिरिति समस्तमुक्तं, किमुत्तरेणेत्यत आह – साधनान्तरमिति ॥ 5 ॥
(( न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ 6 ॥
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ 7 ॥
* स्वरूपं कथयति – न तदित्यादिना ॥
// उत्तरवाक्यानां सङ्गत्यप्रतीतेस्तां सूचयन्नाह – स्वरूपमिति ॥ अनेन कीदृशं तत्पदं यत् प्राप्तिः पुरुषार्थ इत्याकाङ्क्षायामिदमुच्यत इत्युक्तं भवति । `स्वरूपं’ इत्यनेन `पदं’ इत्युक्तस्य `धाम’ इति वक्ष्यमाणस्य चार्थोऽप्युक्तो भवति । स्थानतेजसोः असङ्गतत्वात् ॥ 6 ॥ 7 ॥
शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ 8 ॥
* कर्षति इत्युक्ते जीवस्य स्वातन्त्र्यं प्रतीतम् । तन्निवारयति – शरीरमित्यादिना ॥ यत् यदा शरीरमवाप्नोत्युत्क्रामति जीवः तदा ईश्वर एव एतानि गृहीत्वा संयाति । ``यत्र यत्र च संयुक्तो धाता गर्भं पुनः पुनः । तत्र तत्रैव वसति न तत्र स्वयमिच्छति" इति मोक्षधर्मे । ``भावाभावावपि जानन् गरीयो जानामि श्रेयो न तु तत् करोमि । आशासु हर्म्यासु हृदासु कुर्वन् यथा नियुक्तोऽस्मि तथा वहामि" इति च । ``हत्वा जित्वाऽपि मघवन् यः कश्चित् पुरुषायते । अकर्ता त्वेव भवति कर्ता त्वेव करोति तत्" इति च । ``तद्यथाऽनः सुसमाहितं उत्सर्जद्यायात् । एवमेवायं शारीर आत्मा प्राज्ञेनान्वारूढ उत्सर्जद्याति’ इति च श्रुतिः । ``वा~घX मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां" इति च । गन्धानिव सूक्ष्माणि ॥ 8 ॥
// पूर्ववाक्ये जीवस्य प्रकृतत्वात् तदुत्तरमपि तद्विषयमिति व्याख्यानमसत् । ईश्वरपदरूढार्थपरित्यागदोषादित्याशयवान् सङ्गतिं तावदाह – कर्षतीति ॥ शरीरावाप्तौ मूलकारणात्, उत्क्रमणे शरीरात्, स्थितौ गोलकादिभ्यो विषयान् प्रतीन्द्रियाणि जीवः कर्षतीति पूर्वोक्तम् । तथा च तस्य नियामकान्तरानुक्त्या इन्द्रियकर्षणे स्वातन्त्रं प्रतीतम् । तदयुक्तम् । पूर्वोक्तविरोधादित्याशङ्क्येश्वरस्यैव तत्प्रतिपादयन् तज्जीवस्य स्वातन्त्र्यं निवारयतीत्यर्थः । श्लोकद्वयोपादनायादिपदम् । अत्र शरीरावाप्त्युत्क्रमणयोरुक्तत्वादीश्वरस्य तदयोगात् कथमिदं तद्विषयमित्यतो व्याचष्टे – यदिति ॥ `जीव’ इति पूर्ववाक्यादनुवर्तते । `यदा’ इति श्रवणात् `तदा’ इति लभ्यते । एतानि इन्द्रियाणि संयाति शरीरम् । लोकान्तरं च । कुतोऽयमर्थ इत्यतो जीवस्य शरीरप्राप्तौ तावदीश्वराधीनत्वे प्रमाणसम्मतिमाह – यत्रेति ॥ संयुक्तः प्रेरकत्वेन संयुक्तः । यत्र यत्रैव योनौ गर्भदाता तत्र तत्रैव वसति जीवः । प्रवृत्तावपीश्वराधीनत्वे जीवस्य प्रमाणसंवादमाह – भावेति ॥ भावाभावौ लौकिके शुभाशुभे । गरीयः श्रेयो मोक्षमपि । तथाऽपि तन्न करोमि, साधयितुं न स्वतन्त्रोऽस्मि । किन्त्वाशासु, दिक्षु, हर्म्यासु हर्म्येषु, हृदासु हृदेषु । तास्ताः क्रियाः कुर्वन्निव प्रतीयमानोऽहं यथेश्वरेण नियुक्तोऽस्मि तथा ता वहामि । हननादिक्रियाः कृत्वा यः कश्चित् परमपुरुषवत् स्वातन्त्र्यात्मनो मन्यते सोऽप्यकर्तैव भवति । यतः तद्धननादिकर्ता ईश्वर एव करोति । शरीरोत्क्रमणमपीश्वराधीनमित्यत्र श्रुतिसम्मतिमाह – तद्यथेति ॥ आनः शकटम् । सुसमाहितं पुरुषेण सम्यगधिष्ठितम् । उत्सर्जत् ग्रामादिकं उत्सृजत् । शरीर आत्मा, जीवः । प्राज्ञेनात्मना परमात्मना अन्वारूढोऽधिष्ठितः । उत्सर्जत् शरीरं उत्सृजत् । `वाक्’ इत्यनेन उत्क्रमणे परदेवता वागादीन्याकर्षतीत्युच्यते । अनेकेष्वाकृष्यमाणेषु सत्सु गन्धोपादानेऽभिप्रायमाह – गन्धानिवेति ॥ गन्धवतः पुष्पाद्यवयवानित्यर्थः ॥ 8 ॥
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ 9 ॥
* भोगो अस्यापि साधितः पुरस्तात् । इन्द्रियद्वाराऽपि सोऽपि भुङ्क्ते । ``तद्य इमे वीणायां गायन्ति एतं ते गायन्ति" इति च श्रुतिः । गुणान्वितमेव भुङ्क्ते । ``न ह वै देवान् पापं गच्छति" इति श्रुतेः ॥ 9 ॥
// ननु श्रोत्रं इत्यादिना विषयभोगोऽस्योच्यते । न चेश्वरस्यासावस्ति । किन्तु जीवस्यैव । तत्कथमिदमीश्वरविषयमित्यत आह भोग इति ॥ पुरस्तात् सप्तमे । अस्तीश्वरस्य भोगः । किं तु जीवेन्द्रियैर्नास्तीत्यतो जीवविषयमेतदित्यत आह – इन्द्रियेति ॥ ``राजाद्यन्तर्गतं गायन्ति" इत्यनेन हि तद् श्रोत्रेण गानभोगो लभ्यते । विषयभोगाङ्गीकारे दुष्टस्यापि भोगः स्यादित्यत उत्तरवाक्यगतं विशेषणमाश्रित्याह – गुणेति ॥ गुणमेवेत्यर्थः । एतद्भुञ्जानस्य विशेषणमिति केचित् । तान् प्रत्याह – न ह वा इति ॥ 9 ॥
उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ 10 ॥
* तर्~हि किमिति न दृश्यत इत्यत आह – उत्क्रामन्तमित्यादिना ॥ 10 ॥
// उक्तमेव किमित्युच्यत इति मन्दाशङ्कानिरासार्थमुत्तरश्लोकद्वयस्य सङ्गतिमाह – तर्~हीति ॥ यदि जीवातिरिक्तो देहे नियामकः स्यादिति शेषः । उक्तानुवादेन विमूढत्वमनुपलम्भे कारणम्, न तदभाव इत्युच्यत इति भावः ॥ 10 ॥
यतन्तो योगिनश्बैनं पश्यन्त्यात्मन्यवस्थितम् ।
यततन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ 11 ॥
* यतन्तो ज्ञानं प्राप्य । अकृतात्मानोऽशुद्धबुद्धयः ॥ 11 ॥
// ``यतन्तो योगिनश्च" इति कारणान्तरमुच्यत इति प्रतीतिनिराकरणार्थमाह – यतन्त इति ॥ आत्मा जीवश्चेत् सर्वदा अकृत एव । शरीरं चेदसम्भव इत्यत आह – अकृतेति ॥ आत्मा बुद्धिः । अकृतत्वं चाशुद्धत्वम् । ``केशान् करोति" इत्यादौ शोधनेऽपि करोतेः प्रयोगादिति भावः ॥ 11 ॥
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ 12 ॥
* पूर्वोक्तमेव ज्ञानं प्रपञ्चयति – यदादित्यगतमित्यादिना ॥ 12 ॥
// ननु ``तद्भासयते" इत्यादिना स्वरूपं कथितम् । तत्किमुत्तरेणेत्यत आह – पूर्वोक्तमेवेति ॥ ``अधश्च मूलान्यनुसन्ततानि" इति यत्सर्वान्तर्यामिस्वरूपं विज्ञानमुक्तम्, यच्चोर्ध्वशब्देन सर्वोत्तमत्वं तदध्यायशेषेण प्रपञ्चयतीत्यर्थः ॥ 12 ॥
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ 13 ॥
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ 14 ॥
* गां भूमिम् ॥ 13 ॥ 14 ॥
// धेनोः आवेशेन भूतधारणे किं भूतधारणे किं कारणमित्यत आह – गामिति ॥ 13-14 ॥
सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ 15 ॥
* वेदनिर्णायात्मिका मीमांसा वेदान्तः । तथा च सामवेदे प्राचीनशालाश्रुतिः
`` स वेदान्तकृत् स कालक इति स ह्येव युक्तिसूत्रकृत् सालकः" इति ॥ 15 ॥
// ``वेदान्तकृत्" इत्युपनिषदां कर्तेत्यन्यथाप्रतीतिनिरासार्थमाह – वेदेति ॥ वेदो वेदार्थः । तस्यान्तो निर्णयः । तदात्मिका । तादर्थ्यात् ताच्छब्द्यम् । मीमांसा ब्राह्मी । तस्याः कर्तेति शेषः । कुत एतदित्यत आह – तथा चेति ॥ युक्तिसूत्रकृत् । वेदार्थनिर्णयार्थयुक्तिसूचकवाक्यकृत् । स कालक इति द्वितीयेन कलधातोः ज्ञानाद्यर्थतया प्रसिद्धत्वात् निगदव्याख्यानमेतदित्याचष्टे ॥ 15 ॥
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ 16 ॥
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ 17 ॥
यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ 18 ॥
यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ 19 ॥
इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ 20 ॥
ॐ तत्सदिति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुराणपुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ 14 ॥
*
क्षरभूतानि ब्रह्मादीनि । कूटस्थः प्रकृतिः । तथा च शार्कराक्षश्रुतिः –
``
प्रजापतिप्रमुखाः सर्वजीवाः क्षरोऽक्षरः पुरुषो वै प्रधानम् । तदुत्तमं चान्यमुदाहरन्ति जालाजालं मातरिश्वानमेकम्" इति ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये पञ्चदशोऽध्यायः ॥ 14
॥
//
क्षराक्षरशब्दौ जडजीवार्थावित्यपव्याख्याननिरासार्थमाह – क्षरेति ॥ भूतग्रहणं युक्तिसूचनार्थम् । नहि जडमात्रे भूतशब्दो रूढः । किन्तु जीवेष्वपि । पुरुषशब्दस्य चैतदुपलक्षणम् । प्रकृतिश्चेतना । ``
अक्षर" इति वक्तव्ये `
कूटस्थ'
इति वचनमपि युक्तिसूचनार्थमेव । न हि जीवानां कूटस्थत्वमस्ति । सुखादिमत्त्वेन विकारित्वात् । श्रुतिसम्मत्या चायमेवार्थ इत्याह – तथा चेति ॥ ``
क्षर" इत्यनुवादेन प्रजापति इत्यादि व्याख्यानम् । अन्यं परमात्मानम् । क्षरान्तर्भूतोऽपि मातरिश्वा विवक्षाविशेषणाक्षरोऽपि भवतीत्युच्यते – जालेति ॥ जालं संसारबन्धः । सोऽस्यास्तीति जालः । अर्श आदिभ्यो अच् । तद्रहिश्चाजालः । अभिमानाभावात् ॥ 16-20
॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां पञ्चदशोऽध्यायः ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवात्मकश्रीमध्वेशार्पणमस्तु ॥
******************************************************************************************************************************
षोडशोऽध्यायः
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवात्मकश्रीमध्वेशायनमः ॥
श्रीभगवानुवाच –
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ 1
॥
*
॥ हरिः ॐ ॥ पुमर्थसाधनविरोधीन्यनेनाध्यायेन दर्शयति । तपो ब्रह्मचर्यादि । ``
ब्रह्मचर्यादिकं तपः" इत्यभिधानात् ॥ 1
॥
//
॥ हरिः ॐ ॥ अध्यायप्रतिपाद्यं दर्शयति – पुमर्थेति ॥ यद्यपि पूर्वयोरध्याययोः,
साधनप्रतिपादन एव तात्पर्यम् । तथाऽपि तन्न प्रपञ्चितम् । किं नाम बन्धनस्वरूपं साधनमनुतिष्ठता च तद्विरोधिनां त्यागोऽवश्यं करणीयः । पूर्वाध्याये च `
निर्मान'
इत्यादिना पुमर्थयोर्ज्ञानमोक्षयोः साधनं, ``
यतन्तोऽप्यकृतात्मानः" इत्यादिना तद्विरोधि च सङ्क्षेपेणोक्तम् । तदुभयमिदानीं प्रपञ्चनीयम् । सुरासुरलक्षणं च तथेति तदनेनाध्यायेन दर्शयतीत्यर्थः । तपो वक्ष्यमाणमिति कश्चित् । तदसत् । `
देवद्विज'
इत्यादिनोक्तस्यात्र ग्रहणे शौचादेरपि तपोग्रहणेन गृहीतत्वात् पुनरुक्तिप्रसङ्गात् । अतो वक्ष्यमाणान्तर्गतं यदत्र पृथगुच्यते तद् व्यतिरिक्तमेव । तच्च प्रधानस्यैवोपलक्षणत्वोपपत्तेर्नोपवासादीति भावेन स प्रमाणकमाह – तप इति ॥ 1
॥
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुत्वं मार्दवं हीरचापलम् ॥ 2
॥
*
पैशुनं परोपद्रवनिमित्तदोषाणां राजादेः कथनम् ।
``
परोपद्रवहेतूनां दोषाणां पैशुनं वचः । राजादेस्तु मदाद्भीतेरदृष्टर्दर्प उच्यते ॥" इत्यभिधानात् । लौल्यं रागः । ``
रागो लौल्यं तथा रक्तिः" इत्यभिधानात् । अचापलं स्थैर्यम् । ``
चपलश्चञ्चलोऽस्थिरः" इत्यभिधानात् ॥ 2
॥
//
पैशुनाभावो अपैशुनम् । पैशुनं च परस्यापराधवचनमित्यसत् । शिष्यादिदोषानुवादस्य शिक्षार्थस्यापि तत्त्वप्राप्तेरित्याशयेनाऽह – पैशुनमिति ॥ राजादेः तच्छ्रावणम् । ``
परोपद्रवनिमित्त" इति दोषेषूपचारः । अनेन परोपद्रवायेति सूचयति । वचः कथनम् । मदात् कारणात् । भीतेरदृष्टिरनुत्पत्तिरिति यावत् । भीतेः भीतिकारणस्य तथात्वेनादृष्टिरिति वा । बालादीनां भीतेरदर्शनं व्यावर्तयितुं `
मदात्'
इत्युक्तम् । अनेन धात्वर्थोऽप्यनुगतः । एतेनासुरलक्षणं दर्पोऽपि व्याख्यातः । अलोलुत्वाचापलत्वयोर्भेदं क्रमेण सप्रमाणकं दर्शयति – लौल्यमिति ॥ लोलुत्वपर्यायोऽयमित्यत एवमुक्तम् ॥ 2
॥
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ 3
॥
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ 4
॥
दैवीसम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ 5
॥
द्वौ भूतसर्गो लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे श्रुणु ॥ 6
॥
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ 7
॥
*
क्षमा तु क्रोधाभावेन सहापकर्तुरनपकारः । ``
अक्रोधोऽदोषकृच्छत्रोः क्षमावान् स निगद्यते" इत्यभिधानात् । दैवीं सम्पदं अभिजातः प्रतिजातः ॥ 3-7
॥
// `
अक्रोध'
इत्युक्तत्वात् क्षमा इति पुनरुक्तिरित्यत आह – क्षमा त्विति ॥ क्रोधं दोषमपकारं च न करोति अक्रोधदोषकृत् । शत्रोरपकर्तुः । ``
सम्पदं अभिजातोऽसि" इत्यत्र अभिजात उत्तम जन्मा । नायं धातुः सकर्मकः । तत्कथं द्वितीयेत्याशङ्क्य ``
अभिलक्ष्य जात" इति केचिद् व्याचक्षते । तदसत् । अर्जुनस्य देवत्वेन देवत्वमुद्दिश्य जन्मायोगादित्याशयवानाह – दैवीमिति ॥ अननैतद् व्याचष्टे । नायं अभिरुपसर्गः । येन तस्य जनीसम्बन्धे द्वितीयाऽनुपपत्तिः ,
लक्षिसम्बन्धे चोक्तानुपपत्तिः स्यात् । किन्तु प्रत्यर्थे लक्षणे कर्मप्रवचनीयः । तथा च कर्मप्रवचनीययुक्ते द्वितीयोपपद्यते । यथा वृक्षमभिवृक्षं प्रतिविद्योतत इत्यत्र वृक्षो विद्योतनस्य लक्षणमित्यर्थः । एवं देवी सम्पत् जातस्य तव लक्षणमित्यर्थः सम्पद्यते । तथा चार्जुनस्य प्राप्तदेवत्वाविरोध इति । अत एव ``
सम्पदं दैवीं अभिजातस्य" ``
अभिजातस्य पार्थ सम्पदमासुरीं" इत्येतद्विहायेदं व्याख्यातम् । अर्जुनस्य देवत्वप्रसिद्धेः । एतद् साहचर्यात् तत्राप्येतदर्थत्वोपपत्तेः ॥ 3-7
॥
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ 8
॥
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ 9
॥
*
जगतः सत्यं प्रतिष्ठा ईश्वरश्च विष्णुः । तद् वैपरीत्येनाऽहुः । ``
तस्योपनिषत् सत्यस्य सत्यमिति । प्राणा वै सत्यम्,
तेषामेव सत्यं" इति हि श्रुतिः । ``
द्वे वा व ब्रह्मणो रूपे मूर्तं चामूर्तं च स्थितं च यच्च सच्च त्यच्चेति । तस्योपनिषत्सत्यस्य सत्यमिति,
एष ह्येव एतत् सादयति यामयति चेति" इति प्राचीनशालाश्रुतिः । परस्परसम्भवो ह्युक्तः ``
अन्नाद्भवन्ति भूतानि" इत्यादिना ॥ 9
॥
//
न केवलं जगतो मिथ्यात्वादि वदतामसुरत्वं ``
असत्यमप्रतिष्ठत्वं ते" इत्यनेनोच्यते । किन्तु जगज्जन्मादिकारणं विष्णुं ये न मन्यन्ते तेषां सर्वेषामपीति भावेनाह – जगत इति ॥ तद् वैपरीत्येनेति ॥ न विद्यते सत्यं अस्येत्यादि । जगतः सत्यं विष्णुरित्यत्र श्रुतिमाह – तस्येति ॥ तस्य विष्णोः सत्यस्य सत्यमित्युपनिषद्रहस्यं नाम । कथम्?
प्राणाः मूर्तामूर्तं,
जगदिति यावत्,
सत्यमित्युच्यते । तेषां प्राणानामेषविष्णुः सत्यमित्यर्थः । एवं चेज्जगतो मुख्यं सत्यत्वं न भवेत् । अन्यथा निर्धारणायोगादित्यतो मूर्तामूर्तात्मकस्य जगतः सत्यत्वं तावदन्यथा श्रुत्यैव व्याचष्टे – द्वै वावेति ॥ रूपे प्रतिमे । तत्र मूर्तं ``
स्थितं" इति `
सत्'
इति चोच्यते । अमूर्तं तु `
यत्'
इति `
तत्'
इति चोच्यत इत्यर्थः । तथा च सच्च त्यच्च सत्यमित्युक्तं भवति । इदानीं जगतः सत्यत्वं विष्णोः श्रुत्या व्याचष्टे – तस्येति ॥ सादयति विशरणादिकं प्रापयतीति सत् । यामयति नियच्छतीति यम् । सच्च तत् यच्च सत्यमित्यर्थः । प्रतिष्ठा ईश्वरश्चेति प्रसिद्धमेव अपरस्परसम्भूतमित्यस्य अपरं परस्मात् सम्भूतमिति व्याख्यानमसत् । प्रतिषेधप्रकरणात् । अतः परस्परसम्भूतं न भवतीत्याहुरित्येव व्याख्येयम् । स्यादेवं,
यदि परस्परसम्भवो भगवतोऽभिमतः स्यादित्यत आह – परस्परेति ॥ यद्वाऽनेन परव्याख्यानासाधुत्वमुपपादयति । भगवता परस्परसम्भवस्योक्तत्वात् तद्वचनं कथमासुरमिति । ईश्वराक्षेपे तात्पर्यमिति चेन्न । पुनरुक्तिप्रसङ्गात् ॥ 8-9
॥
काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद् गृहीत्वाऽसद्ग्राह्यान् प्रवर्तन्तेऽशुचिव्रताः ॥ 10
॥
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥ 11
॥
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ 12
॥
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदपि मे भविष्यति पुनर्धनम् ॥ 13
॥
असौ मया हतः शत्रुर्~
हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ 14
॥
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ 15
॥
अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ 16
॥
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ 17
॥
*
दुष्पूरो हि कामः । ``
पाताल इव दुष्पूरो मां हि क्लेशयते सदा" इति हि मोक्षधर्मे ॥
// ``
काममाश्रित्य दुष्पूरं" इति कामस्य दुष्पूरत्वं किं विशेषणम्?
नेति ब्रूमः । किं तर्~
हि ?
कामस्य दुष्पूरत्वाव्यभिचारादिति भावेनाह – पाताल इवेति ॥ 10-17
॥
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
ममात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ 18
॥
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ 19
॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ 20
॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतद् त्रयं त्यजेत् ॥ 21
॥
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ 22
॥
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ 23
॥
तस्मात् शास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्~
हसि ॥ 24
॥
ॐ तत्सदिति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पत्तियोगो नाम षोडशोऽध्यायः ॥ 14
॥
*
ममात्मपरदेहेष्विति ॥ न कस्यचित् विष्णुः कारयिता । यदि स्यान्मामपीदानीं कारयतु इत्यादि । ``
ईश्वरो यदि सर्वस्य कारकः कारयीत माम् । अद्येति वादिनं ब्रूयात् सदाऽधो यास्यसीति तु" इति सामवेदे यास्कश्रुतिः ॥ 18-24
॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये षोडशोऽध्यायः ॥ 14
॥
//
भगवद् द्वेषस्याऽत्मपरदेहाधिकरणत्वं कथमित्यत आह – मामिति ॥ कुतो न । कारयिता यदि स्यात् तर्~
हि इदानीमकुर्वाणं मामपि कारयतु । कुर्वाणं च निवारयत्वित्यर्थः । सदाऽधो नित्यनरकम् ॥ 18 -24
॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां षोडशोऽध्यायः ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवात्मकश्रीमध्वेशार्पणमस्तु ॥
*******************************************************************************************************
सप्तदशोऽध्यायः
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवात्मकश्रीमध्वेशायनमः ॥
अर्जुन उवाच –
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वबाहो रजस्तमः ॥ 1
॥
*
॥ हरिः ॐ ॥ गुणभेदात् प्रपञ्चयत्यनेनाध्यायेन । शास्त्रविधिमुत्सृज्य अज्ञात्वा । ``
वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना" इति विधिः उत्सृष्टो हि तैः । `
ये वै वेदं न पठन्ते न चार्थं वेदोज्झान् तान् विद्धि सानूनबुद्धीन्" इति माधुच्छन्दसश्रुतिः । अन्यथा तामसा इत्येवोच्येत । नतु विभज्य । यदि सात्त्विकास्तर्~
हि नोत्सृष्टशास्त्राः । नहि वेदविरुद्धो धर्मः । ``
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदां" इति हि स्मृतिः । ``
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः" इति च भागवते ॥ 1
॥
//
अध्यायार्थमाह – गुणेति ॥ गुणनिमित्ताः श्रद्धादीनां भेदाः । ``
नान्यं गुणेभ्यः कर्तारं" इत्युक्तत्वात् प्रपञ्चयतीत्युक्तम् । सात्त्विकानां पुमर्थसाधनत्वादनुष्ठेयत्वम् । अन्येषां तद्विरुद्धत्वात् त्याज्यत्वं च ज्ञापयितुमिति शेषः । ``
शास्त्रविधिमुत्सृज्य" इत्यस्य वेदविधानमप्रामाण्यबुद्ध्या परित्यज्येत्यर्थप्रतीतिं निवारयितुमाह – शास्त्रेति ॥ अज्ञानमेवात्रोत्सर्गः ,
न त्वप्रामाण्यबुद्ध्या त्याग इत्यर्थः । ननु प्राप्तपरित्याग उत्सर्गः । एवं च प्रतीतार्थ एव युक्तः । नतु ``
ज्ञात्वा" इति । तत्राह - वेद इति ॥ अर्थज्ञानपर्यन्तोऽयं विधिः । अयं च सर्वान् द्विजन्मनः प्राप्तः,
तैरज्ञानिभिरुत्सृष्टश्च । अतो `
अज्ञात्वा'
इति युक्तमित्यर्थः । अत्र श्रुतिसम्मतिं चाह – य इति ॥ न चार्थमाधिगच्छन्ति । सहानूनया वेदतदर्थाधिगतियोग्यया बुद्ध्या वर्तमानान् । सानूनबुद्धयोऽपि ये वेदं न पठन्त इति योज्यम् । अप्रामाण्यबुद्ध्या परित्यज्य इत्येवार्थः किं न स्यादित्यत आह – अन्येथेति ॥ यद्यत्र वेदविरोधिनां बौद्धादीनां निष्ठा पृच्छ्येत तदा ते तामसाः इत्येवोत्तरमुच्येत । तदीयतामसत्वस्याविकल्पितत्वादिति भावः । न केवलं वक्तव्यानुक्तिरेव दोषः । किन्तु तद्विरुद्धोक्तिश्च स्यादिति भावेनाऽह – न त्विति ॥ ``
त्रिविधा भवति श्रद्धा" इत्यादिना श्रद्धां विभज्योत्तरं नोच्येतेत्यर्थः । एवमुत्तरवचनेऽपि किं स्यादिति चेत्,
वेदाप्रामाण्यवादिनामपि पाक्षिकं सात्विकत्वं स्यात् । तथा च वक्ष्यामः । तदपि स्यादिति चेन्न । सात्त्विकत्ववेदविरोधित्वयोः सहानवस्थानादित्याह – यदीति ॥ सहानवस्थानमपि कुतो निश्चेयमिति चेत् । सात्विका हि धर्ममाचरन्ति । ``
सत्त्वान् धर्मो भवेत् पुंसां" इति वचनात् । तथा च वेदविरोधिनो धर्मिणश्च इत्युक्तं भवति । एवं च वेदविरोधी धर्म इत्यापद्यते । तच्चानुपपन्नमित्याह – न हीति ॥ कुतो नेत्यत आह – वेद इति ॥ 1
॥
((
श्रीभगवानुवाच –
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सात्त्विकी राजसी चैव तामसी चेति तां श्रुणु ॥ 2
॥
*
अतो विभज्याऽह – त्रिविधा इत्यादिना ॥ 2
॥
//
ननु ``
तेषां निष्टा का" इति पृष्टे सात्विकत्वादिकं वक्तव्यम् । ``
त्रिविधा" इत्यादिकं किमर्थमुच्यत इत्यत आह – अत इति ॥ यत एवं अर्जुनेन वेदविधिमजानतां निष्ठा पृष्टा । अज्ञानं च न भेदकं;
त्रयाणामपि सम्भवात् । न चाज्ञानस्य प्रभेदाः सन्ति । अतः ``
श्रद्धयान्विताः" इति तद्विशेषणत्वेनोक्तां श्रद्धां सात्त्विकत्वादिना विभज्य तदाश्रयेण तेषां स्वरूपमाहेत्यर्थः ॥ 2
॥
((
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषो यो यत् श्रद्धः स एव सः ॥ 3
॥
*
सत्वानुरूपा चित्तानुरूपा । यो यच्छ्रद्धः स एव सः,
सात्त्विकश्रद्धः सात्त्विक इत्यादि ॥ 3
॥
//
सात्त्विकत्वादिभेदेन श्रद्धा त्रिविधा इत्युक्ता । पुनः ``
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति" इति वचनं कथं न व्याहतमित्यत आह – सत्त्वेति ॥ चित्तं चैतन्यम् । जीव इति यावत् । ननु श्रद्धास्वरूपमेव निरूपितम् । न तु तदाश्रित्य जीवस्वरूपं,
अतो नासङ्गतमुत्तरमित्यतो येन तदुच्यते तत्पठित्वा वाचष्टे – य इति ॥ इत्यादि ज्ञातव्यमिति शेषः । राजसश्रद्धो राजसः । तामसश्रद्धस्तामस इत्यर्थः ॥ 3
॥
((
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ 4
॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ 5
॥
*
कः सात्विकश्रद्ध इत्यादि विभज्याऽह – यजन्त इत्यादिना ॥ 4
॥ 5
॥
// ``
तां श्रुणु" इति प्रतिज्ञातं नोच्यते । ``
यजन्ते सात्विका" इत्यादिकमप्रस्तुतं चोच्यत इत्यत आह – क इति ॥ इत्यादि जिज्ञासायामिति शेषः । विभज्य श्रद्धास्वरूपं प्रतिज्ञातं श्रद्धात्रैविध्यमेवोच्यते । अतो नासङ्गतिरिति भावः । एतेन ``
सात्त्विकाः" इत्यादेः ``
सात्त्विकश्रद्धाः" इत्यादिरर्थ उक्तो भवति ॥ 4
॥ 5
॥
((
कर्शयन्तः शरीरस्थं भूतग्रामचेतसः ।
मां चैवान्तः शरीरस्थं तान्विद्ध्यासुरनिश्चयाम् ॥ 6
॥
*
भगवत्कर्शनं नामाल्पदृष्टिरेव ।
``
यो वै महान्तं परमं पुमांसं नैवं द्रष्टा कर्शकः सोऽतिपापी" इत्यनभिम्लातश्रुतिः । आसुरो निश्चयो येषां ते आसुरनिश्चयाः । ``
देवास्तु सात्त्विकाः प्रोक्ता दैत्याः राजसतामसाः" इत्याग्निवेश्यश्रुतिः ॥
//
ननु निर्विकारस्य भगवतः कथं ``
मां चैवान्तःशरीरस्थं कर्शयन्तः" इति कर्शनमुच्यत इत्यत आह – भगवदिति ॥ ``
प्रातिपदिकात् धात्वर्थे बहुलं" इति वचनात् दृष्टिरपि णेरर्थ इति भावः । `
मां चैव जीवरूपेणान्तः शरीरस्थं" इति व्याख्यानं तु सम्यग् व्याख्यानेनैव परास्तम् । जीवरूपत्वदर्शनस्यैव कृशीकरणत्वात् । ``
मदनुशासनाकरणमेव मत्कर्शनं" इति व्याख्याननिरासार्थं ``
एव" इत्युक्तम् । आशब्दत्वात् । उक्तव्याख्याने श्रुतिसम्मतिं चाऽह – य इति ॥ नैवं,
महत्त्वविरुद्धम् । `
द्रष्टा '
इति तृन्नन्तम् । कर्शकः तस्योच्यत इति शेषः । कर्मधारयत्वशङ्कानिरासार्थमाह – आसुर इति ॥ निश्चयः श्रद्धा । कर्मधारयपक्षे हि सामानाधिकरण्यं गौणमिति कल्प्यम् । मत्वर्थीयप्रत्ययो वा । तथा च गौरवमिति भावः । ननु प्रकरणात् तामसनिश्चयानिति वक्तव्यम् । `
आसुरनिश्चयान्'
इति कथमुक्तमित्यत आह – देवास्त्विति ॥ सात्त्विका देवाः देवपर्यायवाच्याः प्रोक्ताः । राजसा तामसाश्च दैत्या दैत्यपर्यायवाच्याः प्रोक्ता इत्यर्थः ॥ 6
॥
((
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।
यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रुणु ॥ 7
॥
आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ 8
॥
कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ 9
॥
यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ 10
॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ 11
॥
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ 12
॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ 13
॥
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ 14
॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वा~
घ्मयं तप उच्यते ॥ 15
॥
*
प्रीतिः अनन्तरिका । हृद्यत्वं दर्शने । स्थिराश्च न तदैव पक्वा भवन्ति । तथा ह्याज्यादयः ॥ 7-15
॥
// ``
प्रीतिविवर्द्धनाः", ``
हृद्याः" इत्येतयोरर्थभेदमाह – प्रीतिरिति ॥ आनन्तरिकेति ॥ ठन् प्रत्ययान्तम् । सेवाव्यवहितकाल इत्यर्थः । ``
प्रियं तत्कालसौख्यदं" इति वचनात् । दर्शनेऽनुभवे सति पश्चादपि यन्मनोहारित्वं तत् हृद्यत्वम् । ``
हृद्यं पश्चात् मनोहारि" इति वचनादित्यर्थः । आहाराणां क्षणिकानामभावात् कथं `
स्थिरा'
इति विशेषणमित्यत आह – स्थिराश्चेति ॥ चस्त्वर्थः प्रसिद्धं स्थैर्यं व्यावर्तयति । तदैव अचिरकाल एव । पक्वाः निर्वृत्तपाकाः चिरकालं देहे गुणप्रदा इत्यर्थः । असम्भवपरिहाराय तानुदाहरति – तथा हीति ॥ 7-15
॥
((
मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ 16
॥
श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ 17
॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ 18
॥
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ 19
॥
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ 20
॥
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ 21
॥
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ 22
॥
*
सौम्यत्वं अक्रौर्यम् । ``
अक्रूरः सौम्य उच्यते" इत्यभिधानम् । मौनं मननशीलत्वम् । ``
बाल्यं च पाण्डित्यं च निर्विद्याय मुनिः" इति हि श्रुतिः । ``
एतेन हीदं सर्वं मतं,
यदनेन हीदं सर्वं मतं तस्मान्मुनिस्तस्मान्मुनिरित्याचक्षते" इति भाल्लवेयश्रुतिः । कथं चान्यथा मानसं तपः स्यात् ॥ 16-22
॥
//
नन्वङ्गसौष्टवं सौम्यत्वम् । तत्कथं मानसं तप उच्यत इत्यत आह – सौम्यत्वं इति ॥ मौनं वा~
घ्नियमनमित्यन्यथाप्रतीतिनिरासार्थमाह – मौनमिति ॥ कुत एतदित्यत आह – बाल्यमिति ॥ युक्तिबलोपेतत्वं बाल्यम् । आगमज्ञत्वं पाण्डित्यम् । अथ मुनिः मननशीलो भवतीत्यर्थः । ``
एतेन हीदं" इत्युक्तमर्थं ``
यदनेन" इति हेतुत्वेनोपादत्ते । यस्मादेवं मुनिस्तस्मात्तं मुनिरित्याचक्षते । `
मन ज्ञाने'
इत्यतः इकारप्रत्ययः । उपधाया उकारश्च । मुनेः भावश्च मौनम् । तच्च मननशीलत्वाख्यमागमार्थस्य युक्तिभिरनुसन्धानम् । उक्तार्थानङ्गीकारे बाधकमाह – कथमिति ॥ मौनमिति शेषः । वा~
घX
नियम एव न मौनम् । किन्त्वत्र तत्कारणमनोनियमो लक्ष्यत इति कश्चित् । तदसत् । ``
आत्मविनिग्रहः" इति पुनरुक्तिदोषात् । कथञ्चित् तत्परिहारेऽपि मुख्यार्थसम्भवे लक्षणाश्रयणस्यैव दोषत्वात् ॥ 16-22
॥
((
ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ 23
॥
तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रिया ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ 24
॥
*
पुनश्च कर्मादीतिकर्तव्यताविधानार्थमर्थवादमाह – ॐ तत् सत् इत्यादिना ॥ परस्य ब्रह्मणो ह्येतानि नामानि । ``
ओतं जगत् यत्र स्वयं च पूर्णो वेदोक्तरूपोऽनुपचारतश्च । सर्वैः शुभैश्चाभियुतो न चान्येः ॐ तत् सत् इत्येतमतो वदन्ति" इति हि ऋग्वेदखिलेषु । द्वितीयपादः तच्छब्दार्थः । `
सदेव सोम्य इदमग्र आसीत्'
इति च । ``
ओं इति ब्रह्म" इति च । तेन ब्रह्मणा । आत्मपूजार्थं वेदविधिः व्यञ्जनम् । मा तूक्ता पुरस्तात् ॥ 22
॥ 24
॥
//
ॐ इत्यादिकं प्रकृतासङ्गतं कथमुच्यत इत्यत आह – पुनश्चेति ॥ ``
कर्म" इति यज्ञ उच्यते । आदिपदेन तपोदाने । इतिकर्तव्यता इत्थम्भावः । विधानार्थं प्रतिपादनार्थम् । ``
अफलाकाङ्क्षिभिः" इत्यादिनोक्तत्वात् ``
पुनश्च" इत्युक्तम् । यज्ञतपोदानानां सात्त्विक्त्वादि हेतवो असाधारणधर्माः प्रागुक्ताः । साधारणांस्तु वक्तुं पुराकल्पादिरूपमर्थवादमाहेत्यर्थः । ब्रह्मशब्दस्य हिरण्यगर्भाद्यर्थतां निर्देशशब्दस्य च भावार्थतां वारयितुं व्याख्याति – परस्येति ॥ निर्दिश्यतेऽनेनेति निर्देशो नाम । कुत एतदित्यतो `
हि'
इत्युक्तम् । भावार्थत्वे `
ओं तत्सत्" इत्येतैः सामानाधिकरण्यानुपपत्तेः नामार्थत्वमेवाङ्गीकार्यम् । `
ओं'
आदिकं च परब्रह्मनामत्वेन प्रसिद्धमित्यर्थः । तामेव प्रसिद्धिं दर्शयति – ओतमिति ॥ ओतं प्रविष्टम् आश्रितं यत्र,
परमेश्वरे यः स्वयं जगति ओतः प्रविष्टः । पूर्णोऽनुपचारतः,
मुख्यया वृत्त्या । अत्र ``
ओतं जगत् यत्र" इत्यादिना ॐशब्दस्य निमित्तद्वयेन भगवति वृत्तिर्दर्शिता । ``
अवतेः टिलोपश्च" इति वचनात् । `
सर्वैः'
इत्यनेन सच्छब्दस्य । `
साधुभावे च'
इति वक्ष्यमाणत्वात् । तच्छब्दस्य तु न केनापि । अतः `
ओं तत् सत् इत्येतं'
इत्युक्तमित्यत आह – द्वितीयेति ॥ `
वेदोक्त'
इति द्वितीयपादः तच्छब्दार्थव्याख्यानपरः । `
तत्'
इति हि नित्यपरोक्षत्वमुच्यते । न चेश्वरस्वरूपमनुमातुं शक्यम् । अतो वेदैकवेद्यत्वात् ``
तत्" इत्युच्यत इति भावः । सदोंशब्दयोः परब्रह्मनामत्वे श्रुत्यन्तरं चाह – सदेवेति ॥ `
तेन'
इति निर्देशपरामर्श इति कश्चित् । तदसदिति भावेनाऽह – तेनेति ॥ कुत एतत् ?
निर्देशस्य ब्राह्मणादिविधानायोगात् । निर्देशस्तुत्यर्थमिदमुच्यत इति चेन्न । भूतोक्तिसम्भवेन तदयोगात् । ब्रह्मणाऽपि ब्राह्मणादिविधानानुपपत्तिः,
प्रयोजनाभावादित्यत आह – आत्मेति ॥ आत्मपूजया प्राणिनां सुखार्थं ब्राह्मणादयो विहिता इति सम्बन्धः । ब्राह्मणादिवत् वेदानामपि विधानं निर्माणमेवेति प्रतीतिनिरासार्थमाह – वेदेति ॥ व्यञ्जनमेव विधानं,
न निर्माणमित्यर्थः । सकृत् श्रुतस्य विहितशब्दस्य द्विधा अर्थकल्पनं कुत इति चेत्,
वेदापौरुषेयत्वस्य प्रमितत्वात् । किं तत्प्रमाणमित्यत आह – मा त्विति ॥ परमेश्वरस्य वेदव्यञ्जनं नाध्यापकवत् । किन्तु स्वातन्त्र्यमप्यस्तीति ज्ञापयितुं विधिग्रहणं कृतम् । वेदो हि विध्यात्मा अस्ति । `
विधिः’, `
प्रेरणं’, `
नियोगः'
इति चानर्थान्तरम् । नच नियोक्तारमन्तरेण नियोगः सम्भवति । नच शब्दादीनां नियोक्तृत्वं सम्भवति लोकविरोधात् । न चोच्चारक एव नियोक्ता ``
मां उपासीत" इत्यादावव्यवस्थापातात् । तस्मात् स्वतन्त्रेण वक्त्रा भाव्यम् न चैवं पौरुषेयत्वापत्तिः । अनादिसिद्धेनैव शब्दार्थसम्बन्धेन तस्य नियोक्तृत्वाभ्युपगमादिति – 23 -24
॥
((
तदित्यनभिसन्धाय फलं यज्ञतपः क्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ 25
॥
*
तत्फलं मे स्यादित्यनभिसन्धाय ॥ 25
॥
// ``
तदित्यनभिसन्धाय" इति वाक्यं ब्रह्मणीव यज्ञादावपि तच्छब्दप्रवृत्तिं प्रतिपादयतीति ज्ञापयितुं योजयति – तदिति ॥ वेदोक्तं स्वर्गादिकम् ॥ 25
॥
((
सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ 26
॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ 27
॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ नच तत्प्रेत्य नो इह ॥ 28
॥
ॐ तत्सदिति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे त्रिगुणविभागो नाम सप्तदशोऽध्यायः ॥ 14
॥
*
सद्भावशब्देन प्रजननं सूचितम् । ॐ इत्युक्त्वा,
अनभिसन्धाय फलं,
यज्ञदानतप आदिकृतां अतिप्रीतेः नामसाम्यात् ब्रह्मैव निष्पादितं भवतीत्याशयः । तथा च ऋग्वेदखिलेषु –
``
ओं यज्ञाद्या निष्फलं कर्म तत् स्यात् सत् वै तदर्थं कर्मेति वदन्ति देवाः ।
तच्छब्दानां सन्निधेर्ब्रह्मप्रीतेः तद्रूपत्वात् जनितं ब्रह्म तस्य" इति ॥ 26-28
॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्भगवद्गीताभाष्ये सप्तदशोऽध्यायः ॥ 14
॥
//
सद्भावे सत्तायामिति प्रतीतिनिरासार्थमाह – सद्भावेति ॥ प्रजननं प्रागसतः सत्ताऽपादनम् । यद्यपि सद्भावशब्दः सत्तामात्रवाची । तथाऽप्यत्र ब्रह्मणो जगज्जनकत्वस्य विवक्षितत्वात् सत्ताविशेषप्रजननपर इति ज्ञायत इति प्रतिपादयितुं ``
सूचितं" इत्युक्तम् । नन्वनेन यज्ञादीनां का इतिकर्तव्यता प्रतिपादिता भवतीत्यत आह – ॐ इति ॥ उक्तोङ्कारार्थज्ञानपूर्वकमनभिसन्धाय फलं ब्रह्माभिसन्धाय च ब्रह्मज्ञानभक्तिपूर्वकं तद्विषयत्वेन निष्ठया वेदोक्तप्रकारेण ब्राह्मणैः सहेत्यपि ग्राह्यम् । आदिपदेन जपादि ग्रहणम् । षष्ठी तृतीयार्थे । नामसाम्यात् नामसाम्येन अवगतात् तत्प्रतिमात्वात् । घटादीनामपि ब्रह्मप्रतिमात्वसाम्यात् को विशेषो यज्ञादेरित्यत उक्तम् । अतिप्रीतेरिति ॥ ब्रह्मणः यज्ञादिषु निष्पादितं प्रतिष्ठापितम् । अत एवं क्रियमाणे यज्ञादिकं सात्विकं,
अन्यद्राजसं तामसं वा इत्येवमितिकर्तव्यता प्रतिपादितेति वाक्यशेषः । अत्र हि ``
ओं तत् सत्" इत्यनेन ब्रह्मणो यन्नामत्रयं तद्यज्ञादेरपि वाचकमिति प्रतिपादितम् । तेन यज्ञादेः ब्रह्मप्रतिमात्वं सूचितम् । ब्राह्मणा इत्यादिना ॐ कारं ब्रह्मणि यज्ञादौ च व्युत्पाद्य तदुच्चरणाचार उक्तः । तेनार्थस्मरणपूर्वकं ॐकारमुच्चार्य वेदोक्तप्रकारेण ब्राह्मणैः सह यज्ञादिकं कार्यमिति सूचितम् । ``
तत्" इत्यनेन तच्छब्दो यज्ञादौ ब्रह्मणि च व्युत्पादितः । तेन फलमनभिसन्धाय ब्रह्माभिसन्धाय च इति लब्धम् । ``
सद्भावे" इत्यनेन सच्छब्दो ब्रह्मणि व्याख्यातः । तेन ब्रह्मज्ञानपूर्वकमिति लभ्यते ॥ 26
॥ ``
यज्ञे तपसि कर्म चैव" इत्यनेन यज्ञादिषु सच्छब्दो व्याख्यातः । तेन ब्रह्मविषयत्वेन निष्ठया चेति लब्धम् ॥ 27
॥ ``
अश्रद्धया" इत्यनेन ब्रह्मभक्तिरपीति ॥ अत्र श्रुतिसम्मतिमाह – तथा चेति ॥ ॐ यज्ञाद्याः वेदाद्योतत्वात् । निष्फलं फलोद्देशरहितत्वात् । तदर्थं ब्रह्मविषयम् । एवं तच्छब्दानां ब्रह्मशब्दानां,
यज्ञादिषु सन्निर्धेवगततद्रूपत्वात् तत्प्रतिमात्वात् । तस्योक्तप्रकारेण यज्ञादीनामनुष्ठातुः ॥ 26 -28
॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्भगवद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां सप्तदशोऽध्यायः ॥
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवात्मकश्रीमध्वेशार्पणमस्तु ॥
**************************************************************************************************************
अष्टादशोऽध्यायः
॥ श्रीवादिराजगुर्वन्तर्गत श्री अश्विनीहयग्रीवात्मकश्रीमध्वेशायनमः ॥
अर्जुन उवाच –
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषिकेश पृथक्केशिनिषूदन ॥ 1 ॥
* ॥ हरिः ॐ ॥ पूर्वोक्तं साधनं सर्वं सङ्क्षप्योपसंहरत्यनेनाध्यायेन ॥ 1॥
// ॥हरिः ॐ ॥ अध्यायप्रतिपाद्यमाह – पूर्वोक्तमिति ॥ साधनं ज्ञानसाधनम् । उक्तस्योक्तिर्व्यर्थेत्याशङ्कानिरासाय सङ्क्षिप्योपसंहरतीत्युक्तम् । अनुक्तं त्रैगुण्यं च वक्तीत्यपि द्रष्टव्यम् ॥ 1 ॥
श्रीभगवानुवाच –
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ 2 ॥
* फलानीच्छया अकरणेन वा काम्यकर्मणो न्यासः संन्यासः । त्यागस्तु फलत्याग एव । तथा हि प्राचीनशालश्रुतिः – ``अनिच्छयाऽकर्मणा वाऽपि काम्यकर्मन्यासो न्यासः फलत्यागस्तु त्यागः" इति ॥ 2 ॥
// ``काम्यानां कर्मणां" इत्येतं श्लोकं केचित् ``काम्यानां कर्मणां अश्वमेधादीनां स्वरूपेण त्यागः संन्यासः । नित्यनैमित्तिकादि सर्वकर्मफलत्यागः त्यागः" इति । तदसदिति भावेनाऽह – फलेति ॥ वैकल्पिककाम्यानां स्वर्गादिफलानिच्छया विशेषणत्यागेन त्यागः नियतकाम्यानां स्वरूपाकारणेन त्यागः संन्यासः । काम्यकर्मणामेव फलत्यागस्तु त्यागः, करणाकरणे तु न विवक्षिते इत्यर्थः । कुत एतदित्यत आह – तथा हीति ॥ अकर्मणा अकरणेन । जनकाश्वपत्यादिभिः मुमुक्षुभिः अश्वमेधादीनामनुद्दिष्टफलानामनुष्ठानान्न काम्यानां स्वरूप परित्याग एव । नित्यनैमित्तिकफलस्यान्तःकरणशुद्धेः सर्वापेक्षितत्वेन तत्त्यागो न युक्तः ॥ 2 ॥
(( त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपः कर्म न त्याज्यमिति चापरे ॥ 3 ॥
* मनीषिण इत्युक्तत्वात् पूर्वपक्षोऽपि ग्राह्य एव । फलत्यागेन त्यागो विवक्षितो यज्ञादेस्तत्पक्षे । ``यस्तु कर्मफलत्यागी" इति च वक्ष्यते । अत एक एवायं पक्षः ॥ 3 ॥
// ``त्याज्यं दोषवत्" इत्यनेन हेयः कापिलानां पक्षः उपन्यस्तः इति केचित् । तदसदिति भावेनाऽह – मनीषिण इति ॥ पूर्वपक्षः पूर्वोपन्यस्तः पक्षः । ननु यज्ञदानतपःकर्म न त्याज्यं, कार्यमेव तदिति भगवन्मतविरुद्धोऽसौ कथं ग्राह्य इत्यत आह – फलत्यागेनैवेति ॥ फलत्यागाभिप्रायेण यज्ञादेः त्यागो विवक्षितः तत्पक्षे न स्वरूपतः । कुतः ? `मनीषिण’ इति विशेषणादेव । अतो न भगवन्मतविरुद्धोऽसौ । कर्मत्यागशब्दः कथं फलत्यागेनार्थेनार्थवानित्यत आह – यस्त्विति ॥ नन्वेवं सति पूर्वोत्तरार्धोपन्यस्तयोः पक्षयोरविरोध आपद्यत इति चेत्, सत्यमित्याह - अत इति ॥ अतो मनीषिपक्षत्वात् एकोऽविरुद्धः । अयं पूर्वोत्तरार्धोपन्यस्तः । किन्त्वापातप्रतीतिमपेक्ष्य सन्देहबीजत्वेन विप्रतिपत्तिरियमुद्भावितेति भावः ॥ 3 ॥
निश्चयं श्रुणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ 4 ॥
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्बैव पावनानि मनीषिणाम् ॥ 5 ॥
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ 6 ॥
नियतस्य तु संन्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ 7 ॥
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ 8 ॥
कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥ 9 ॥
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते ।
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ 10 ॥
* तत्प्रकारं चाह – निश्चयमित्यादिना ॥ यज्ञभेद उक्तः ``द्रव्ययज्ञा" इत्यादिना । दाने त्वभयदानमन्तर्भवति । एतेषां मध्ये यत्किञ्चित् यज्ञादिकं कर्तव्यमेवेत्यर्थः । अन्यथा –
``ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तथा । यदीच्छेत् मोक्षमास्थातुमुत्तमाश्रममाश्रयेत् " इत्यादि व्यासस्मृतिविरोधः । ज्ञानयज्ञविद्याऽभयदानब्रह्मचर्यादितपसो हि ते । अतो यद्वचः अन्यथा प्रतीयते अधिकारभेदेन तद्योज्यम् । अन्यथा इतरेषां गत्यभावात् ॥ 4-10 ॥
// न केवलं ``मनीषिणः" इति विशेषणसामर्थ्यादेवमुच्यते । किं तु भगवताऽपि तदविरोधप्रकारस्य व्युत्पाद्यमानत्वादिति भावेनोत्तरवाक्यतात्पर्यमाह – तदिति ॥ ननु परमहंसानां यज्ञदानयोरभावात् कथमुच्यते ``न त्याज्यं कार्यमेव तत्" इति । तत्राह – यज्ञेति ॥ ननु ज्योतिष्टोमादिकमेव यज्ञः, धनदानादिकमेव दानं गृहीत्वा पारमहंस्यमेव कुतो न निराक्रियत इत्यत आह – अन्यथेति ॥ यतिः हंसादिः । आस्थातुं प्राप्तुम् । उत्तमाश्रयं पारमहंस्यम् । नन्वेतेषां मध्ये इत्येवं व्याख्यानेऽपि कथं परमहंसानां यज्ञादिसम्भव इत्यत आह – ज्ञानेति ॥ बहुव्रीहित्रयगर्भः कर्मधारयोऽयम् । विद्याऽभयविषयं दानं येषां ते तथोक्तास्ते परमहंसाः । ननु पारमहंस्ये हि प्रवृत्तः प्रियव्रतो हिरण्यगर्भेण निवारित इति पुराणेषूच्यते । तत्कथं पारमहंस्याकर्तव्यतेत्यत आह – अत इति ॥ उक्तवाक्यविरोधादेव । वाक्यत्वाविशेषात् पुराणवाक्येनैव स्मृतेर्बाधः किं न स्यादित्यत आह – अन्यथेति ॥ एवमयोजयते । इतरेषां ``ब्रह्मचारी" इत्यादीनाम् । गत्यन्तराभावादप्रामाण्यमेव प्रसज्यत इति शेषः । एवं परमहंसानामपि यज्ञादिकर्तव्यतासम्पादनेनेदमपि परास्तं यत् केनचिदुक्तं ``अज्ञान् कर्मणि अधिकारिणोऽधिकृत्य एतत् प्रकरणं प्रवृत्तं न परमहंसपरिव्राजकान्" इति ॥ 4-10 ॥
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ 11 ॥
* अन्यः त्यागार्थो न युक्त इत्याह – नहीति ॥ 11 ॥
// ननु ``इति मे पार्थ" इति भगवता स्वसिद्धान्तो निष्टङ्कितः । अतो ``न हि देहभृता" इति किमुच्यत इत्यत आह – अन्य इति ॥ सर्वकर्मपरित्यागलक्षणः । त्यागार्थः त्यागशब्दार्थः । पूर्वपक्षबीजनिरासार्थमिति शेषः ॥ 11 ॥
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ 12 ॥
* त्यागं स्तौति – अनिष्टमिति ॥ 12 ॥
// कर्मफलाभावो नाम संसारनिवृत्तिरेव । सा कथं त्यागफलत्वेनोच्यत इत्यत आह – त्यागमिति ॥ उपपादितमेतत् ``त्यागात् शान्तिः “इत्यत्र ॥ 12 ॥
पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ 13 ॥
* पुनः संन्यासं प्रपञ्चयितुं कर्मकारणान्याह – पञ्चेत्यादि ॥ साङ्ख्ये कृतान्ते ज्ञानसिद्धान्ते ॥ 13 ॥
// `पञ्च’ इत्यादेः प्रकृतेन सङ्गत्यप्रतीतेस्तामाह – पुनरिति ॥ न केवलं काम्यानां कर्मणां न्यासः संन्यासः किं तु कर्तृत्वाभिमानत्यागश्चेत्येवं प्रागुक्तं संन्यासं पुनः प्रपञ्चयितुमात्मनोऽकर्तृत्वे क्रियाऽनिष्पत्तिप्रसङ्गात्, अङ्गीकार्ये कर्तृत्वे कथं तदभिमानत्यागो युक्त इत्याशङ्कापरिहारार्थमात्मव्यतिरिक्तान्येव कर्मकारणान्याहेत्यर्थः । साङ्ख्यशब्दः कपिलतन्त्रे रूढः । ``कृतं कर्म तस्य अन्तो निवृत्तिर्यत्र उच्यते’ इत्युपनिषत्सु कृतान्तशब्दं कश्चिद्व्याख्यातवान् । तदुभयं निर्वयितुमाह – साङ्ख्य इति ॥ ज्ञानार्थः सिद्धान्तः ज्ञानसिद्धान्तः । ``सिद्धान्त” इति शास्त्रं लक्ष्यते । कापिलतन्त्रस्य निन्दितत्वात् । उपनिषत्स्वपि कर्मत्यागाप्रतिपादनात् ॥ 13 ॥
(( अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ॥ 14 ॥
शरीरवा~घX मनोभिर्यत् कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ 15 ॥
* अधिष्ठानं देहादिः । कर्ता विष्णुः स हि सर्वकर्ता इत्युक्तम् । जीवस्य चाकर्तृत्वे प्रमाणमुक्तम् । करणमिन्द्रियादि च । चेष्टाः क्रियाः हस्तादिक्रियाभिः होमकर्माणि जायन्ते । ध्यानादेरपि मानसी चेष्टा कारणम् । पूर्वतनी चेष्टाऽपि संस्कारकारणत्वेन भवति । दैवमदृष्टम् । तथा चायास्यश्रुतिः – ``देहो ब्रह्माथेन्द्रियाद्याः क्रियाश्च तर्थादृष्टं पञ्चमं कर्महेतुः" इति ॥ 14-15 ॥
// अधिष्ठानादि करण एवान्तर्भूतमिति वक्ष्यति । तत्प्रतिबोधनायाधिष्ठानं निर्दिशति – अधिष्ठानमिति ॥ आदिपदेन भूम्यादि । कर्ता जीव इति व्याख्यानमसदिति भावेनाह – कर्तेति ॥ शरीरवा~घX मनोभिः क्रियमाणानां कर्मणां कर्ता कथं विष्णुरित्यत आह – स हीति ॥ उक्तं, उपपादितम् । तथाऽपि जीवोऽत्र कर्ता किं न स्यादित्यत आह – जीवस्य चेति ॥ अपराधीनत्वाभिप्रायेणेदं निराकरणम् । पराधीनं कर्तृत्वमङ्गीकृत्यान्यत्र जीवो व्याख्यात इत्यविरोधः । भावसाधनताप्रतीतिनिरासार्थमाह – करणमिति ॥ आदिपदेन स्रुवादि । भावसाधनार्थस्य साध्यत्वात् । चेष्टाग्रहणेन च गृहीतत्वाच्च । वायवीयाः प्राणापानाद्याः चेष्टा इत्यसत् । द्रव्याभिधाने चेष्टत्वानुपपत्तेः । प्राणनाद्यभिधाने साध्यत्वात् कारकत्वानुपपत्तेरित्याशयवानाऽह – चेष्टा इति ॥ क्रियाणां साधकत्वात् कथं कारकत्वमित्यत आह – हस्तादीति ॥ सावान्तरव्यापारं हि कारणं कारकमुच्यते । तत्राधिष्ठानादिपदैर्व्यापारिणो निर्दिश्यन्ते । क्रियाशब्देन त्ववान्तरा व्यापाराः । कारकाश्रिताभिरवान्तरक्रियाभिः प्रधानक्रियाजननं च प्रसिद्धमेवेत्यर्थः । नन्वत्र कारकाभिधानप्रसङ्गे अधिष्ठानाद्येवोक्तम् । कर्मसम्प्रदानापादानानि कुतो नोक्तानि । अधिष्ठानादीनां सर्वक्रियानुगमात् । कर्मादीनां तदभावादिति ब्रूमः । तथा च वक्ष्यति ``शरीरवा~घ्मनोभिः यत्" इति । एवं तर्~हि चेष्टाऽपि न वक्तव्या । ध्यानादिजनने करणस्य मनसः चेष्टाभावेनाननुगमादित्यत आह – ध्यानादेरपीति ॥ आदिपदेन स्मरणं गृह्यते । ज्ञात एवार्थे ध्यानं भवति । ज्ञानं चाऽत्मेन्द्रियसन्निकृष्टेनैव मनसा जायते । सन्निकर्षश्च मानसचेष्टाजन्यः । अतो ध्यानादेरपि मनस्सम्बन्धिनी चेष्टा कारणं भवतीति भावः । ननु नियतपूर्वक्षणे सत् कारणम् । नच ध्यानादिपूर्वक्षणे मनसि क्रियाऽस्ति । चिरातीतत्वात् । मनोनैश्चलसाध्यत्वात् ध्यानादेः । नच सन्निकर्षज्ञानद्वारा करणम् । तस्यापि चिरातीतत्वादित्यत आह – पूर्वतनीति ॥ पूर्वतनी चिरातीताऽपि मानसी क्रिया सन्निकर्षद्वारा ध्यानादिहेतुसंस्कारकारणत्वेन भवति ध्यानादेः कारणम् । संस्कारस्य स्थायित्वादित्यर्थः । देवमन्तर्यामिव्यापार इति कश्चित् । तदसत् । `कर्ता’ इत्यनेनैवोक्तत्वात् । चक्षुराद्यनुग्राहकाः सूर्यादय इत्यपरः । तदप्यसत् । करणादिशब्दैरेव गृहीतत्वादिति भावेनाऽह – देवमदृष्टमिति ॥ उक्तमर्थं श्रुतिसम्मत्याऽपि समर्थयति – तथा चेति ॥ ``देहः" उपलक्षणम् । हेतुः कारणम् । `कर्म हेतु’ इति क्वचित् पाठः । तत्र छान्दसो लिङ्गव्यत्ययः ॥ 14-15 ॥
तत्रैवं सति कर्तारमात्मानं केवलं तु यः ।
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ 16 ॥
* केवलं निष्क्रियम् । ``एनं केवलमात्मानं निष्क्रियत्वाद् वदन्ति हि" इति तत्रैव ॥ 16 ॥
// न चैवं जीवस्य कर्मकारणेष्वनन्तर्भावे व्याख्यायमाने ``तत्रैवं सति" इत्युत्तरवाक्ये, `केवलं’ इति न युज्यते । एकाकिनमात्मानं करणत्वेन मन्यमानस्य निन्दयाऽस्य ससहायस्य कारणत्वप्रतीतेरित्यत आह – केवलमिति ॥ नात्र केवलशब्द एकाकिवचनः । किन्तु निष्क्रियत्ववाची । तदुक्तिश्च निन्दोपपादनार्थेति भावः । केवलशब्दस्य निष्क्रियार्थत्वं कुत इत्यत आह – एनमिति ॥ तत्रैवायास्य श्रुतावेवोक्तम् ॥ 16 ॥
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमांल्लोकान्न हन्ति न निबध्यते ॥ 17 ॥
* तज्जञानं स्तौति – यस्येति ॥ यस्त्वीषद् बध्यते स ईषदहङ्कारी च ॥ 17 ॥
// अवश्यं चैतदेवम्, यावतोत्तरश्लोके स्वात्मानमकारणं जानतस्तुतिः क्रियते । अन्यथा सहायस्य कारणत्वं जानतः स्तुतिः क्रियेतेति भावेनाऽह– तदिति ॥ स्वात्मनो निष्क्रियत्वज्ञानम् । ननु निरहङ्कारस्यापीन्द्रादेः वृत्रवधादिनेषत् बन्धो दृश्यते । तत्कथमेतदित्यत आह – यस्त्विति ॥ इयं च कल्पना वक्तराप्तत्वादिना युज्यते ॥ 17 ॥
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ 18 ॥
* एवं तर्~हि न पुरुषमपेक्ष्य विधिः; अकर्तृत्वादित्यत आह – ज्ञानमिति ॥ त्रिविधा कर्मचोदना, एतत् त्रिविधमपेक्ष्य कर्मविधिरिति ``त्रिविधा" इत्युच्यते । कारणानि सङ्क्षिप्याऽह – करणमिति ॥ कर्मसङ्ग्रहः कर्मकारणसङ्ग्रहः । अधिष्ठानादिः । कारण एवान्तर्भूतः । तथा हि ऋग्वेदखिलेषु- ``ज्ञानं ज्ञेयं ज्ञानिनं चाप्यपेक्ष्य विधिरुत्थितः । करणं चैव कर्ता च कर्मकारणसङ्ग्रहः " इति । अकर्तृत्वेऽपि विधिद्वारेश्वरप्रसादादिच्छोत्पत्त्योक्तकारणैः कर्मद्वारा पुरुषार्थो भवतीति । ईश्वराधीनत्वेऽपि विधिद्वारा नियतः तेनैव । यदि चेच्छादिर्जायते तर्~हि कारितमेवेश्वरेण । फलं च नियतं वस्तुतोऽकर्तृत्वेऽप्याभिमानिकं कर्तृत्वं तस्यैव । स्वातन्त्र्यं च जडमपेक्ष्यैवेति न प्रवृत्तिविधिवैयर्थ्यम् । सर्वं चैतदनुभवोक्तप्रमाणसिद्धमिति न पृथक् प्रमाणमुच्यते ॥ 18 ॥
// यदि न जीवस्य कारणत्वं कथं तर्~हि तद् ज्ञानादेरुत्तरवाक्ये कर्मणां मूलकारणत्वमुच्यते `ज्ञानादित्रयं कर्मणां प्रवर्तकमिति, इत्याशङ्क्य तस्यार्थान्तरं विवक्षुः, तन्निवर्त्यामाशङ्कामाह – एवं तर्~हीति ॥ यदि जीवो न कर्मणां कारणमित्यर्थः । विधिः श्रौतः स्मार्तश्च । न प्रवर्तेत, ततश्च तद् वैयर्थ्यप्रसङ्ग इति शेषः । `एवं तर्~हि’ इत्युक्तस्यैव विवरणम् – अकर्तृत्वादिति ॥ जीवस्य घटवदिति शेषः । ननु ज्ञानादिरूपेण कर्मचोदनायाः त्रैविध्यमयुक्तमनुपयुक्तं च कथमुच्यते । नियोक्तुः प्रेरणं हि विधिः । नच तद् ज्ञानादित्रयरूपम् । न चानेनोक्तशङ्कानिवृत्तिरित्यत आह – त्रिविधेति ॥ स्पष्टप्रतीत्यर्थोऽनुवादः । इत्यत्रेति शेषः । एतद् ज्ञानादिकम् । कर्मविधिः प्रवर्तते, जीवं प्रतीति शेषः । इति शब्दो हेतौ । त्रिविधा इत्युच्यते कर्मचोदना । निमित्तनैमित्तिकभावेनाभेदोपचार इत्यर्थः । कर्मकरणानामुक्तत्वात् किमिदं पुनरुच्यत इत्यत आह – कारणानीति ॥ तर्~हि `कर्मसङ्ग्रह’ इति कथम्, `कारणसङ्ग्रह’ इति वक्तव्यत्वादित्यत आह – कर्मेति ॥ कर्मशब्देन तत्कारणानि लक्ष्यन्त इत्यर्थः । यदि पञ्चानां कारणानामयं सङ्ग्रहस्तर्~हि कस्य कुत्रान्तर्भाव इत्यत आह – अधिष्ठानादीति ॥ आदिपदेन देवपदोक्तमदृष्टं गृह्यते । `कांस्यपात्र्या पात्र्या भुङ्क्ते देवेन कृतमन्यथा’ इत्यादिवत् साधकतमत्वेन विवक्षितत्वात् । `विवक्षातः कारकाणि’ भवन्तीति वचनात् । न चाऽदिपदेन चेष्टायाः सङ्ग्रहः । तत्र कारकान्तर्भावस्यैवौचितत्वात् । `कर्म’ इति पृथक् ग्रहणाच्च । नच कर्म अदृष्टम् । ``कर्म चेष्टा" इत्यन्यत्र व्याख्यातत्वात् । ``कर्तुरीप्सिततमं कर्म" इति कश्चित् । तदसत् । पञ्चसु कारणेषु तस्यागृहीतत्वात् । श्लोकार्थे श्रुतिसम्मतिं चाह – तथा हीति ॥ `कर्म’ इत्यावर्तनीयम् । तत्रैकं व्यस्तम् । परं समस्तम् । ननु `ज्ञानं ज्ञेयम्’ इत्यनेन कथमुक्तशङ्कानिरास इत्यत आह – अकर्तृत्वेऽपीति ॥ अपराधीनकर्तृत्वाभावेऽपि जीवस्य, न तं प्रति विधिवैयर्थ्यम् । कुतः ? `इति हेतोः’ इत्यन्वयः । विधिशब्देन तद् ज्ञानमुपलक्ष्यते । `इच्छा’ इत्यनेन प्रयत्नोऽपि । उक्तकरणैरधिष्ठानादिभिः । अनेन ज्ञानं विधिविषयं, ज्ञेयं च इच्छाप्रयत्नलक्षणमधिष्ठानादिलक्षणं पुरुषार्थलक्षणं च, परिज्ञाता सर्वज्ञ ईश्वरश्च सर्वप्रेरको जीवे सन्निहितोऽस्ति । अतस्तं प्रति कर्मचोदनेत्यर्थः सूचितो भवति ।
एतदुक्तं भवति । नापराधीनकर्तृत्वं विधिविषयत्वे प्रयोजकम् । येनं जीवं प्रति कर्मविधिवैयर्थ्यं स्यात् । तथा सतीश्वरस्यापि विधिविषयत्वापातात् । किं तु यस्य स्वसम्बन्धितया विधिज्ञानं कर्मतत्फलं चोद्दिश्येच्छा, तदनुगुणश्च प्रयत्नः, अधिष्ठानादिसन्निधानं, कर्मसम्बन्धः फलभाक्त्वं चास्ति तं प्रति कर्मविधयः प्रवर्तन्ते । अस्ति चेदं समस्तं परमेश्वरप्रसादायत्तं जीव इति कथं न तं प्रति कर्मविधयः स्युः इति । एतद् सङ्ग्रहवाक्यमुत्तरवाक्यैर्विव्रियते । नन्वीश्वरश्चेत् प्रेरको जीवशरीरेऽभ्युपगतः तदा तत्प्रसादादेवेच्छाप्रयत्नयोरुत्पादात् किं विधिज्ञानमङ्गीक्रियत इत्यत आह – ईश्वरेति ॥ इच्छति प्रयतति चेति शेषः । आनेन विधिद्वारेश्वरप्रसाददादिच्छोत्पत्त्येत्येतद् विवृतं भवति । उक्तकारणैः कर्म भवतीत्युक्तम् । तेनाधिष्ठानादीनां स्वव्यापारे स्वातन्त्र्यं प्राप्तम् । तन्निरासार्थमाह – यदि चेति ॥ ईश्वरेणैव कर्माधिष्ठानादीनि निमित्तमात्राणि कृत्वाकारितं भवति । अत्र णिचं प्रयुञ्जानस्य स्वातन्त्र्यमिति वक्ष्यमाणोऽभिप्रायः । कर्मद्वारा पुरुषार्थो भवतीति पुरुषार्थसाधने कर्मणां प्राधान्यं प्राप्तम् । अत आह – फलं चेति ॥ ईश्वरेणैवेति वर्तते । `यद्वा’ `यदि च’ इत्यादिना वाक्यद्वयेन विधिविषयतासिद्धये कर्मफलसम्बन्धस्य काकतालीयता निराक्रियते । इदं च नेश्वरमुक्तजडेषु विध्यविषयेष्वस्ति, किं तु संसारिष्वेवेति भवति प्रयोजकम् । एवमेकं गीतोक्तं कारणमुक्त्वा भाष्यकारः कारणान्तरं चाह – वस्तुत इति ॥ वस्तुतः परमार्थतः । आभिमानिकमहङ्कारकारितं भ्रान्तिप्रतीतम् । `तस्य जीवस्यैव’ इत्यवधारणेनास्य जीवं प्रति विधिप्रवृत्तौ प्रयोजकत्वं समर्थयते परमेश्वरकृतासु क्रियासु स्वस्य स्वातन्त्र्यं मन्यमानस्यापराधीनो विधिबन्धलक्षणो दण्ड इति भावः । प्रकारान्तरमाह – स्वातन्त्र्यं चेति ॥ तस्येति वर्तते । स्यादिदं विधिप्रवृत्तिवैयर्थ्यं यदि जीवस्य क्रियास्वातन्त्र्यलक्षणं कर्तृत्वं सर्वथा न स्यात् । न चैवम् । ईश्वरायत्तस्य तस्याङ्गीकारात् । अपराधीनापेक्षया तदभावोक्तेः । न चैवं जडतौल्यमित्याह – जडमपेक्ष्येति ॥ अधिकमिति शेषः । जडं हि तदा परकृतेन नोदनादिना क्रियावद्भवति । न त्वागन्तुककारणमन्तरेण स्वेच्छया । जीवस्त्वनादिसिद्धया परमेश्वरप्रसादायत्तया सत्तातुल्यया क्रियाशक्या कर्तेति युक्तस्तं प्रति कर्मविधिरिति ।
नन्वेतत् सर्वं कुतः प्रमाणात् प्रतिपत्तव्यमित्यत आह – सर्वं चेति ॥ अनुभवेनोक्तप्रमाणैश्च ``विधिज्ञाने सतीच्छोत्पत्तिः" इत्यादिकमनुभवसिद्धम् । ``ईश्वरप्रसादात्" इत्यादिकं तु ``यथा नियुक्तोऽस्मि" इत्याद्युदाहृतागमसिद्धम् । पृथक् पुनः ॥ 18 ॥
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुणसङ्ख्याने यथावद् शृणु तान्यपि ॥ 19 ॥
* पुनः साधनप्रथनाय गुणभेदानाह – ज्ञानमित्यादिना ॥ गुणसङ्ख्याने, गुणगणनप्रकरणे ॥ 19 ॥
// ``ज्ञानं कर्म" इत्यादेः प्रकृतोपयोगाप्रतीतेः तं दर्शयन्नाह – पुनरिति ॥ मोक्षसाधनप्रपञ्चनात् प्रागपि गुणभेदानामुक्तत्वात् `पुनः’ इत्युक्तम् । गुणसङ्ख्यानशब्देन कापिलं शास्त्रमुच्यत इति भावेनाऽह – गुणेति ॥ तच्च वैदिकमभिप्रेतम् ॥ 19 ॥
सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तद् ज्ञानं विद्धि सात्त्विकम् ॥ 20 ॥
पृथक्त्वेन तु यद् ज्ञानं नानाभावान् पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तद् ज्ञानं विद्धि राजसम् ॥ 21 ॥
यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् ।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ 22 ॥
नियतं सङ्गरहितमरागद्वेषतः कृतम् ।
अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ 23 ॥
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ 24 ॥
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ 25 ॥
मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ 26 ॥
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ 27 ॥
* एकं भावं, विष्णुम् ॥ 20-27 ॥
// `एकं भावं’ इति सामान्येनोक्तम् । कोऽसौ एको भावः इत्याकाङ्क्षायामाह – एकमिति ॥ 20-27 ॥
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 28 ॥
बुद्धेर्भेदं धृतेश्बैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ 29 ॥
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ 30 ॥
* परकृतदोषं दीर्घकालकृतमप्यनुचितं यः सूचयति स दीर्घसूत्री । ``परेण यः कृतो दोषः दीर्घकालकृतोऽपि वा । यस्तस्य सूचको दोषाद्दीर्घसूत्री च उच्यते" इत्यभिधानात् ॥ 28-30 ॥
// दीर्घसूत्रित्वं कथं तामसत्वहेतुरित्यतः सप्रमाणकं व्याचष्टे – परेति ॥ दीर्घकालकृतं चिरातीतकालकृतम् । अनुचितं वचनायोग्यम् । परोपद्रवहेतुत्वात् दोषात् मात्सर्यादेः ॥ 28-30 ॥
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अन्यथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ 31 ॥
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता ।
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ 32 ॥
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ 33 ॥
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ 34 ॥
यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ 35 ॥
सुखं त्विदानीं त्रिविधं श्रुणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ 36 ॥
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् ।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ 37 ॥
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ 38 ॥
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ 39 ॥
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ 40 ॥
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ 41 ॥
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ 42 ॥
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ 43 ॥
कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ 44 ॥
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तद् शृणु ॥ 45 ॥
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ 46 ॥
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ 47 ॥
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ 48 ॥
* यथार्थत्वनियमाभावो राजस्याः । अन्यथा तामस्याः भेदाभावात् ॥ 31-48 ॥
// ``यथा धर्ममधर्मं च" इति राजस्याः बुद्धेः धर्मादिविषयाया अयथार्थज्ञानहेतुत्वमुच्यते इत्यन्यथाप्रतीतिनिरासार्थमाह – यथार्थत्वेति ॥ ``अयथावत् प्रजानाति" इत्यस्य यथार्थज्ञानजनननियमाभावे तात्पर्यमित्यर्थः प्रतीत एवार्थः किं न स्यादित्यत आह – अन्यथेति ॥ `राजस्थाः’ इति षष्ठ्यन्तमनुवर्तते । `तामस्याः’ इति पञ्चमी । भेदाभावात्, भेदाभावप्रसङ्गात् ॥ 31-48 ॥
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः ।
नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ 49 ॥
* नैष्कर्म्यसिद्धिं नैष्कर्म्यफलां योगसिद्धिम् ॥ 49 ॥
// नैष्कर्म्यसिद्धिं मोक्षमिति केचित् । तदसत् । तदनन्तरं मां विशत इति वाक्यशेषविरोधादिति भावेनान्यथा व्याचष्टे – नैष्कर्म्यमिति ॥ नैष्कर्म्यार्था सिद्धिः नैष्कर्म्यसिद्धिः । सा च योगस्येत्यर्थः ॥ 49 ॥
(( सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ 50 ॥
बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ 51 ॥
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ 52 ॥
* यथा, येनोपायेन सिद्धिं ब्रह्माऽप्नोति तथा निबोध । या सिद्धिर्ज्ञानस्य परा निष्ठा ॥ 50 -52 ॥
// `सिद्धिं प्राप्तः’ इति योगसिद्धिप्राप्त्यनन्तरं ब्रह्मप्राप्तावुपायकथनं प्रतिज्ञायत इत्यन्यथाप्रतीतिनिरासार्थं व्याचष्टे – यथेति ॥ ``ब्रह्माऽप्नोति" इत्यनुवादमात्रम् । तथा तमुपायम् । प्रतीत एवार्थः किं न स्यादिति चेन्न । सिद्धेः ज्ञाननिष्ठाऽत्मकत्वेनाभिधानात् । ज्ञानस्य च ब्रह्मप्राप्तावनपेक्षत्वादिति भावेन `निष्ठा’ इत्येतद् व्याचष्टे – येति ॥ 50-52 ॥
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ 53 ॥
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ 54 ॥
भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ 55 ॥
* ब्रह्मभूयाय कल्पते । ब्रह्मणि भावो ब्रह्मभूयं ब्रह्मणि स्थितिः सर्वदा तन्मस्कतेत्यर्थः ॥ 53-55 ॥
// ``ब्रह्मभूयाय" ब्रह्मत्वाय इति प्रतीतिनिरासार्थं व्याचष्टे – ब्रह्मेति ॥ इत्यर्थ इति शेषः । भावो न जन्मादीत्याशयेन विवृणोति – ब्रह्मणीति ॥ इयमपि न मुक्तिः । `ब्रह्मभूत’ इति पुनर्भक्त्यादिलाभश्रवणादिति भावेनाऽह – सर्वदेति ॥ 53-54 ॥
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ 56 ॥
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ 57 ॥
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यति ॥ 58 ॥
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ 59 ॥
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ॥ 60 ॥
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ 61 ॥
* पुनरन्तरङ्गसाधनान्युक्त्वोपसंहरति – सर्वकर्माणीत्यादिना ॥ 56 - 61 ॥
// उत्तरग्रन्थस्य सङ्गतिं सूचयत् तात्पर्यमाह – पुनरिति ॥ उपसंहरति – शास्त्रमिति शेषः ॥ 56-61 ॥
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परं शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ 62 ॥
इति ते ज्ञानमाख्यातं गुह्यात् गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ 63 ॥
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ 64 ॥
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ 65 ॥
* परोक्षवचनं तु द्रोणं प्रति भीमवचनवत् ॥ 62-65 ॥
// ``ईश्वरस्सर्वभूतानां हृद्धेशेऽर्जुन तिष्ठति" । ``तमेव शरणं गच्छ" ``तत्प्रसादात्" इत्यादिरूपात् परोक्षवचनात् कृष्णस्यानीश्वरत्वं प्रतीयते । तन्निराकर्तुमाह – परोक्षेति ॥ निश्चितार्थत्वाभिप्रायेणान्यथा सिद्धमिति शेषः ॥ 62-65 ॥
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ 66 ॥
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 67 ॥
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 68 ॥
नच तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता नच मे तस्मादन्यः प्रियतरो भुवि ॥ 69 ॥
अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ 70 ॥
श्रद्धवाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभांल्लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥ 71 ॥
कच्चिदेतत् श्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥ 72 ॥
अर्जुन उवाच –
नष्टो मोहः स्मृतिर्लब्ध्वा त्वत्प्रसादान्मयाऽच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ 73 ॥
सञ्जय उवाच –
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ 74 ॥
व्यासप्रसादात् श्रुतवानेतद् गुह्यमहं परम् ।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥ 75 ॥
राजन् संस्मृत्य संस्मृत्य संवादमिममध्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ 76 ॥
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥ 77 ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिमम ॥ 78 ॥
॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ॥
* धर्मत्यागः फलत्यागः । कथमन्यथा युद्धविधिः? ``यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते" इति चोक्तम् ॥ 66-78 ॥
पूर्णादोषमहाविष्णोः गीतामाश्रित्य लेशतः ।
निरूपणं कृतं तेन प्रीयतां मे सदा विभुः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्गीताभाष्ये अष्टादशोऽध्यायः ॥ 18 ॥
// ``सर्वधर्मान् परित्यज्य" इति वर्णाश्रमविहितानामपि सर्वधर्माणां परित्यागो विधीयत इत्यन्यथा इत्यन्यथाप्रतीतिनिरासार्थमाह – धर्मेति ॥ प्रतीत एवार्थः किं न स्यादित्यत आह – कथमिति ॥ अस्मिन् शास्त्रे क्रियत इति शेषः । अशब्दोऽयमर्थ इति चेन्न धर्मशब्दस्य स्वकार्यफलोपलक्षणत्वात् । एवमेव भगवता व्याख्यातत्वाच्च इत्याह – यस्त्विति ॥ 66-78 ॥
इदानीं समापितभाष्यो भगवानाचार्यो भाष्यनिर्माणस्य फलं भगवत्प्रीतिमेवाऽशास्ते – पूर्णेति ॥ एतत् `गीतां’ इत्यनेन `निरूपणं’ इत्यनेन च सम्बध्यते । `तेन’ इति श्रवणात् यदिति लभ्यते ।
करतलकलितामलकमिव प्रभुणा येनेदमवगतं विश्वम् ।
स जयति जनकसुतायाः कान्तः श्रीरघुनन्दनो देवः ॥ 1 ॥
नमामि व्यासदासस्य पूर्णबुद्धेः पदाम्बुजे ।
नतामरशिरोरत्नराजिनीराजिते सदा ॥ 2 ॥
अक्षोभ्यतीर्थगुरुणा शुकवच्छिक्षितस्य मे ।
वचोभिरमृतप्रायैः प्रीयन्तां सततं बुधाः ॥ 3 ॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमद्गीताभाष्यस्य टीकायां जयतीर्थमुनिविरचितायां प्रमेयदीपिकायां अष्टादशोऽध्यायः समाप्तः ॥ 18 ॥
॥। समाप्तोऽयं ग्रन्थः ॥।
शर्वादिसर्वगीर्वाणनिर्वाणगतिहेतवः ।
पूर्णप्रज्ञपदाम्भोजपांसवः पान्तु नः सदा ॥
वाय्वजयुक्तलातव्यवादिराज नमोस्तुते ।
गव्यविपादिसंसेव्य पावय मां सदा विभो ॥
चित्रैपदैश्च गम्भीरैर्वाक्यैर्मान्यैरखण्डितैः ।
गुरुभावं व्यञ्जयन्ती भाति श्रीजयतीर्थवाक् ॥
मिथ्यासिद्धान्तदुर्ध्वान्तप्रध्वंसनविचक्षणः ।
जयतीर्थाख्यतरणिर्भासतां नो हृदम्बरे ॥
अर्थिकल्पितकल्पोऽयं प्रत्यर्थिगजकेसरी ।
व्यासतीर्थगुरुर्भूयादस्मदिष्टार्थसिद्धये ॥
मूकोऽपि यत्प्रसादेन मुकुन्दशयनायिते ।
राजराजायतेरिक्तः राघवेन्द्रं तमाश्रये ॥
श्रीकृष्णचरणाम्भोजमानसं कविपुङ्गवम् ।
श्रीमद्विद्याप्रसन्नाब्धिं गुरुं वन्दे निरन्तरम् ॥
श्रीनृसिंहकृपापात्रं सीतारामप्रपूजकम् ।
राघवेन्द्रदयापात्रं देवेन्द्राख्यगुरुं भजे ॥
पृथ्वीमण्डलमध्यस्थाः पूर्णबोधमतानुगाः ।
वैष्णवाः विष्णुहृदयाः तान् नमस्ये गुरून्मम ॥
`` इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥
अनेन लेखन यज्ञेन
श्रीवादिराजगुर्वन्तर्गत अश्विनीहयग्रीवात्मकमध्वेशाभिन्नकृष्णार्पणमस्तु ॥
*************************************************************
]