१८

श्रीहयग्रीवाय नमः । भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतासु अष्टादशोऽध्यायः । सर्वस्यैव गीताशास्त्रस्यार्थोऽस्मिन्नध्याये उपसंहृत्य सर्वश्व वेदार्थो वक्तव्य इत्येव - मर्थोऽयमध्याय आरभ्यते । सर्वेषु ह्यतीतेष्वध्यायेषुक्तोऽर्थोऽस्मिन्नध्यायेऽवगम्यते । अर्जुनस्तु सन्न्यासत्याग शब्दार्थयोरेव विशेषं बुभुत्सुरुवाच - अर्जुन उवाच- ’ सन्भ्यासस्य महाबाहो ! तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश ! पृथक्के शिनिषूदन ! ॥ १ ॥ सन्न्यासस्येति । सन्न्यासस्य सन्न्यासशब्दार्थस्येत्येतत्, हे महाबाहो ! तत्त्वं तस्य ‘प्रजहाति यदा कामान् सर्वान् पार्थ! मनोगतान्’, ‘मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्म- चेतसा ‘, ’ त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः’, ‘निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः’, ‘योगसन्न्यस्तकर्माणं’, ‘ज्ञेयस्स नित्यसन्न्यासी यो न द्वेष्टि न कांक्षति’, ’ सन्न्यासस्तु महाबाहो ! दुःखमाप्तुमयोगतः’, ‘ब्रह्मण्याधाय कर्माणि सङ्ग त्यक्त्वा करोति यः’, ‘युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्’, ‘सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी’, ‘अनाश्रितः कर्मफलं कार्य कर्म करोति यः, स सन्न्यासी च योगी च न निरग्निर्नचाक्रियः’, ‘यं सन्न्यास इति प्राहुर्योग त विद्धि पाण्डव ! न प्रसन्न्यस्तसङ्कल्पो योगी भवति कश्चन’, ‘सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते’, ‘सङ्कल्पप्रभववान्कामांस्त्यक्त्वा । सर्वानशेषतः ‘, सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि’, ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः’, ‘सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्’, ‘सर्वारम्भपरि- त्यागी यो मे भक्तरस मे प्रियः’, ‘शुभाशुभपरित्यागी भक्तिमान् यत्स मे प्रियः,’ सर्वारम्भपरित्यागी गुणातीतस्स उच्यत’ इति पूर्वाध्यायेषु तत्रतत्र सन्न्यासस्त्यागश्च निर्दिष्टः । तत्र सन्न्यासत्यागयोरेका- स्मत्वमेवावगम्यते । सम्पूर्वस्तु न्यासशब्दस्त्यागार्थो न निक्षेपार्थ इति । सन्न्यस्येत्यस्य परित्यज्ये - त्यर्थाच । पारिव्राज्यस्य परित्यागस्य सन्न्यासत्वाच्च । परित्यज्य सर्वे व्रजतीति परिव्राडिति व्युत्पत्तेः । एवं सन्न्यासत्यागयोरेकात्मत्वे सिद्धे सति त्यागसन्न्यासयोर्मोक्षं प्रति मार्गद्वयत्वं शिष्टैरुच्यमानां; २८० श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ‘न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः’, ‘वेदान्तविज्ञानसुनिश्चितार्थास्संन्यासयोगाद्यतय- शुद्धतत्त्वाः’ इत्यादिशास्त्रप्रमाणकं च; जनकादयस्त्यागान्मुक्ति गताः । याइयवरक्यादयस्तु सन्यासा - - दिति व्यवहारसिद्धं च कथं सङ्गच्छने ? ‘कुरु कर्मैव तस्मात्त्वं सङ्गं त्यक्त्वा धनञ्जय !’ इति च कथं भगवान्मही युगपदेव कर्मानुष्ठानं त्याग चोपदिष्टवान् ? कर्मानुष्ठानकर्मसन्न्यासौ हि विरुद्धौ । संन्यास एव हि त्यागः । अथ यदि सन्न्यासत्यागौ भिन्नाविति वेद्मि तर्हि तद्भेदो नैवावगम्यते - अर्थभेदा-. भावात् । नहि शब्द मेदमात्र प्रयोजक, तथा सति पटवस्त्रयोरपि भेदप्रसङ्गात् । तस्मादर्थभेदाभावा- त्कथं त्यागसन्न्यासयोर्मार्गिद्वयत्वम् ? मम वा कथं कर्मत्यागयोरेवाधिकारो नतु सन्न्यासे ? इत्याशक्य सन्न्यासत्यागयोर्याश्रार्थ्यबुभुत्सया पृच्छत्यर्जुनः – सन्न्यासस्येति । परिज्ञाते तु त्यागसन्न्यास मार्ग- द्वयभेदयाथार्थ्ये यथास्वाधिकारमन्यतरमार्गे प्रवृत्तस्सन् संसारादहं मोक्ष्य इत्यर्जुनस्य हृदयम् ।

L यद्यपि ‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचनेति त्यागमार्ग एवोपदिष्टोऽर्जुनाय भगवता । तथापि तदुपदिष्टं तं मार्ग त्यागमार्ग इति विशिष्य न जानात्यर्जुनः । विशिष्यानुक्तत्वाद्भगवता पूर्वम् । नहि फलमनभिसन्धाय कर्मकरणं त्यागः कर्मणां सर्वात्मना परित्यागस्सन्न्यास इति च पूर्वाध्यायेषु काप्युक्तम् । किंतु फलमनभिसन्धाय कर्मकरणं योग इत्युक्तं तं तु योगमनुष्ठानात्मक स्यागत्वेन कथं प्रतीयादुपदेशं विनाऽर्जुनोऽन्यो वा ? त्यागो हि परिवर्जनात्मकः । युज्यते क्रियत इति योगः कर्मानुष्ठानं, त्यजत इति तु त्यागः कर्मपरित्यागः । ततः कथं योगत्यागयोरेकात्मत्व- प्रतिपत्तिस्स्यात् ? नहि फलत्याग एवं त्यागो नतु कर्मत्याग इति गुरूपदेशं विना कोऽपि स्वबुद्धया निश्विनुयात् । तस्माद्यः पूर्वमुक्तस्साङ्ख्य मार्गो योगमार्गश्च तत्र योगमार्ग एवं त्यागमार्गः, साङ्ख्य- मार्ग एव सन्न्यासमार्गः, नतु त्यागसन्न्यासयोः परस्परविरुद्धयोरेकत्वं कर्मानुष्ठान कर्म सन्न्यासयो हिं विरोधः स्फुट: । कर्मानुष्ठानफलत्यागयोस्तु न विरोधः । फलत्यागपूर्वकं कर्मणोऽनुष्ठातुं शक्यत्वात् । नतु कर्मत्यागपूर्वकं कर्मानुष्ठातुं शक्यते, येन योगसन्न्यासयो र विरोधस्स्यात् । तस्मात्साङ्ख्ययोगावेव सन्न्यासत्यागा वित्यविदित्वा सन्न्यासत्यागयोरेकार्थकत्वेनाविशेषं मत्वा तद्विशेषबुभुत्सया पृच्छत्यर्जुन- रसन्न्यासस्येत्युपपन्नतरम् । अत एवातीताध्यायोक्त एवार्थोऽस्मिन्नध्यायेऽवगम्यत इत्याचार्यैरुक्तं पूर्वा- ध्यायेषूक्तयोरेव साङ्ख्ययोगयोरिह सन्न्यासत्यागरूपत्वेन वक्ष्यमाणत्वात् । अर्जुनस्त्विति तुशब्दा- च्छ्रीकृष्णोऽर्जुनेनापृष्टानप्यशानिह वक्ष्यतीति ज्ञायते । नहि त्याग सन्न्यासविशेष एक एवेह प्रति- पाद्यते, किंतु ब्राह्मणादिवर्णघर्मादिकमन्यदपि । नच वर्णधर्माः पूर्वमनुक्ता इति वाच्यं शमदमादयो धर्माः पूर्वमुक्ता एव । किं त्विमे ब्राह्मणधर्माः, इमे क्षत्रियधर्मा इत्येवं विशिष्य नोक्ताः । तदिह विशिष्योच्यन्त इति । अन्यथा हयुक्तस्य तथैव पुनः कथने पुनरुक्तिस्स्यात् । सन्न्यासेति । सन्न्यासशब्दार्थस्य त्यागशब्दार्थस्य च यो विशेषो वैलक्षण्यं मेद इति यावत् । तस्य बोद्धुं ज्ञातु- मिच्छुर्बु बुभुत्सुरसन्नर्जुन उवाचेति सम्बन्धः । हे महाबाहो ! हे हृषीकेश ! हे केशनिषूदन ! सन्न्या- सस्य त्यागस्य च तत्त्वं पृथग्वेदितुमिच्छामि । त्वं साक्षाद्भगवानेव भगवतो महापुरुषस्य यच्चिह्नं महा- ३६ अष्टादशोऽध्यायः । २८१. भावस्तत्त्वं याथात्म्यमित्येतत् । इच्छामि वेदितुं ज्ञातुं त्यागस्य च त्यागशब्दार्थस्येत्येतत् । हृषीकेश ! पृथगितरेतरविभागतः केशिनिषूदन ! केशिनामा हयच्छत्रा कश्चिदसुरस्तं निषू- दितवान् भगवान् वासुदेवस्तेन तन्नाम्ना सम्बोध्यतेऽर्जुनेन ॥१॥ सन्न्यासत्यागशब्दौ तत्र तत्र निर्दिष्टौ न निर्लुठितार्थी पूर्वेष्वध्यायेषु । अतोऽर्जुनाव पृष्टवते तन्निर्णयाय श्रीभगवानुवाच - श्रीभगवानुवाच - काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः || २ || काम्यानामिति । काम्यानामश्वमेधादीनां कर्मणां न्यासं परित्यागं सन्न्यासं सन्न्यासशब्दार्थ मनुष्ठेयत्वेन प्राप्तस्याननुष्ठानं कायः पण्डिताः केचिद्विदुर्विजानन्ति । नित्य- बाहुत्वं यो धर्मो दानवान्तकत्वं तदुभयस्य त्वयि दर्शनादिति सम्बुद्धिद्वयाभिप्रायः । त्वं साक्षादन्तर्यामी प्रत्यगभिन्नः परमात्मैवेति हृषीकेशसम्बुद्धयभिप्रायः । हृषीकाणांमिन्द्रियाणामीशः प्रेरको हृषीकेश- स्सर्वभूतेश्वर इति व्युत्पत्तेः । ततश्च सर्वे तत्त्वं यथावत्स्वयं वेत्तुमन्यस्मै बोधयितुमन्येन ग्राहयितुं च त्वमेव क्षमसे, अतस्त्वामेव पृच्छामीत्यर्जुनाशयः । वेदितुमिच्छामीत्येवोकं, नतु कथयेति । ततश्च सर्वेश्वरं भगवन्तं त्वां कथयेति नियन्तुं कोऽहम् ? परंतु ममेच्छा वर्तत एवमितीच्छामात्र प्रदर्शयति– सा चेच्छा सुहृदा स्वया परमकारुणिकेनावश्यं पूरयितव्यैवेत्यर्जुनाशयोऽवगम्यते । तस्येति । प्रकृतस्य सन्यासस्य त्यागस्य च भावो याथार्थ्य तत्त्वम् । फलितार्थमाह - याथात्म्यमिति, इतरेतरविभागत इति । इतरस्येतरस्माद्विभागतो विवेकतो विविक्तं यथातथेत्यर्थः । हयच्छद्मा अश्वमिषः अश्वरूपी- त्यर्थः । निषूदितवान्नाशितवान् तन्नाम्ना केशिनिषूदनाभिधानेन ॥१॥ काम्यानामिति । कवयः काम्यानां कर्मणां न्यासं सन्न्यासं विदुः । विचक्षणाः सर्वकर्म- फलत्याग त्याग प्राहुः । काम्यानां स्वर्गादिकामहेतून, काम्यन्त इति कामाः स्वर्गादिफलानि, तत्र साधूनि काम्यानि नित्यनैमित्तिकान्यपि काम्यान्येव तेषामपि फलवत्त्वात् । परन्तु येषामकरणे प्रत्यवायस्तानि नित्यानि नैमित्तिकानि च येषामकरणे प्रत्यवायो नास्ति तानि काम्यानीति व्यवहार- कृतो विवेकः । तत्र यान्यहरहः क्रियन्ते तानि नित्यानि यानि निमित्ते सति कदाचित्क्रियन्ते तानि “नैमित्तिकानि । यथा सन्ध्यावन्दनदेवर्षिपितृतर्पणादीनि नित्यानि पित्राब्दिकादीनि नैमित्तिकानीति विवेकः । एतेषां नित्यनैमित्तिक काम्यभेदभिन्नानां त्रिविधानामपि कर्मणां फलवत्त्वेन हेतुना काम्यानां परित्यागस्सन्यासशब्दार्थः । फलितमाह– अनुष्ठेयत्वेन प्राप्तस्याननुष्ठानमिति । सन्न्यास इति शेषः । नानुष्ठेयत्वेन काम्यकर्मैव प्राप्त कर्मिणः, किंतु नित्यं नैमितिकमपि च । तस्मादनुष्ठेयस्वेन प्राप्तस्य त्रिवेत्रस्यापि २८२ श्रीभगवद्गीता - माष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतालु नैमित्तिकानामनुष्ठीयमानानां सर्वकर्मणामात्मसम्बन्धितया प्राप्तस्य फलस्य परित्याग सर्व कर्म- फलत्यागस्तं प्राहुः कथयन्ति त्यागं त्यागशब्दार्थ विचक्षणाः पण्डिताः । यदि काम्यकर्म- परित्यागः फलत्यागो वाऽर्थो वक्तव्यः । सर्वथा परित्यागमात्रं सन्न्यासत्यागशब्दयो- रेकोऽर्थस्स्यात् ; न घटपटशब्दाविव जात्यन्तरभूतार्थो । ननु नित्यनैमित्तिकानां कर्मणां फलमेव नास्तीत्याहुः कथमुच्यते १ तेषां फल- त्याग इति । यथा वन्ध्यायाः पुत्रत्यागः । नैष दोषः – नित्यानामपि कर्मणां भगवता फलवत्त्वस्येष्टत्वात् । वक्ष्यति हि भगवान्- ‘अनिष्टमिष्टं मिश्र’ चेति, ‘न तु सन्न्यासिना’ - मिति च । सन्न्यासिनामेव हि केवलं कर्मफलासम्बन्धं दर्शयन्नसन्न्यासिनां नित्यकर्म- फलप्राप्तिं भवत्यत्यागिनां प्रे’ त्येति दर्शयति ॥ २ ॥ कर्मणोऽनुष्ठानं सन्न्यास इत्युच्यते । अननुष्ठानमेव हि कर्मणः परित्यागः, नतु धनादेखि कर्मण- स्स्वरूपतः परित्यागः कर्तुं शक्यते । नित्यनैमित्तिकानामिति । उपलक्षणमिदं काम्यानामपि । काम्यान्यपि श्वमेघादीनि कर्माणि चित्तशुद्धयाद्यर्थं फलमनभिसन्धाय क्रियन्ते जनकादिभिः । यद्वा फलत्यागिनां काम्यकर्मकरण प्रसक्त्यभावातैः क्रियमाणानां कर्मणां च फलाभिसन्ध्यभावेनाकाम्यत्वादुक्तं नित्यनैमित्तिकानामिति । सन्न्यासिभिस्सर्वमपि कर्म परित्याज्यमेव । त्यागि भिस्तु काम्यकर्माण्येव स्वरूपतः परित्याज्यानि ( अननुष्ठेयानीत्यर्थः) । नित्यनैमित्तिकानि तु कर्तव्यान्येव तदकरणे प्रत्य- वायात् । परं तु नित्यनैमित्तिकानां फलपरित्याग एव कर्तव्य इति भावः । · । 4 यदीति । यस्मादित्यर्थः । सन्न्यासत्यागशब्दयोः काम्यकर्मपरित्यागस्सर्व कर्मफलत्यागो वार्थो वक्तव्यस्तस्मादिति शेषः । परित्यागमात्र तद्रूप इत्यर्थः । एकार्थस्स्यात् । घटपटशब्दाविव जात्यन्तर- भूतार्थो न सन्न्यासत्यागशब्दौ न भवत इत्यर्थः । यथा घटपटशब्दौ भिन्नजातिपदार्थाभिधायिनौ तथा सन्न्यासत्यागशब्दौ न भवतः परित्यागमात्रवाचित्वादुभयोरपि । तस्मादेकार्थवाचिनोरपि सन्न्यास - त्यागशब्दयोः कर्मतत्फलविषयत्वेन भेद इति भावः । अनुष्ठेयत्वेन प्राप्तस्य सर्वस्य कर्मणोऽननुष्ठानं सन्न्यासः, अनुष्ठीयमानस्य कर्मणः फलाननुमन्धानं त्याग इति निष्कर्षः । फलवच्चस्येति । दुरित- क्षयादिरूपफलयुक्तत्वस्येत्यर्थः । ’ अनिष्टमिष्टं मिश्र च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य नतु सन्न्यासिनां कचिदिति वक्ष्यति । कर्मणस्त्रिविधस्येत्यर्थः । अत्यागिनां नित्यनैमित्तिकादिकर्म- फलप्रतिपादनेन नित्यनैमित्तिकानां फलमस्तीति गम्यत इति भावः । अत्यागिना मित्यस्यासन्न्यासिना- मित्यर्थः । नतु सन्न्यासिनामित्युत्तरवाक्यानुसारात् । ततश्च सन्न्यासिनामेव केवलं कर्मफलासम्बन्धः, असन्न्यासिनां तु कर्मानुष्ठानसत्त्वेन तत्फलसम्बन्धोऽस्त्येव । अत एवासन्न्या सिभि उत्फल परित्यागः कर्तव्यः, सन्न्यासिनां तु कर्मानुष्ठानाभावान्न फलपरित्यागावकाश इति बोध्यम् । अत एव सन्न्यासिना- मेव केवलमित्युक्तम् । । यत्तु रामानुजः – सन्न्यासत्यागौ पर्यायशब्दावे, नतु तयोरतोति भेदः । परंतु केचि - अष्टादशोऽध्यायः । त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे || ३ || २८३ त्याज्यमिति । त्याज्यं त्यक्तव्यं दोषवदोषोऽस्यास्तीति दोषवत् । किं तत् १ कर्म त्कवयः काम्यमेव कर्माननुष्ठेयं फलद्वारा मुमुक्षोबन्धकत्वात् । नित्यनैमित्तिके त्वनुष्ठेय एव फलाभावा- तयोस्तदकरणे प्रत्यवायाच्चेत्याहुः । अन्ये विचक्षणास्तु काम्यमपि कर्म न परित्याज्यं, किंतु नित्यनैमिचिकवत्कर्तव्यमेव । नच बन्धप्रसङ्गः - फलपरित्यागादिति कृत्वा त्रिविधमपि कर्तव्यं कर्म, तत्फलं तु परित्यक्तव्यमिति प्राहुः । नच नित्यनैमित्तिकयोः फलाभावश्चोदनीयः, ‘प्राजापत्य गृहस्थाना’ मित्यादिना दयोरपि फलावगमादिति व्याचख्यौ तदसत् - अर्जुनप्रश्नकृष्णप्रतिवचनयोरननु - रूपत्वात् । सन्न्यासत्यागयोस्तत्त्वं पृथग्वेदितुमिच्छामीति धर्जुनेन पृष्टं, नतु त्यागस्य विकल्पानई वेदितुमिच्छामीति । प्रकृतश्लोकश्च कर्मन्यास सन्न्यासं विदुरिति, कर्मफलत्याग त्यागं विदुरिति च बक्ति; नतु कर्मसन्न्यास केचिद्युक्तमिति विदुः । कर्मफलत्यागं तु केचिद्युक्तमिति विदुरिति वक्ति तस्मात्कृष्णार्जुनप्रश्नप्रति वचनश्लोकयोरनयोर्यथाश्रुतमर्थं विहायापार्थकल्पनमप्रमाणमेव । नात्र केचि - द्विदुरिति, अन्ये प्राहुरिति च विकल्पबोधक पदद्वयमप्यस्ति । नच ‘त्याज्यं दोषवदित्येके’ इत्युत्तर- श्लोकानुसारादिहापि तत्पदद्वयमध्याहियत इति वाच्यं तत्र कर्म त्याज्यमिति, न त्याज्यमिति च विकल्पार्थ एवं वर्णित इति तदनुसारायोगादस्य । नात्र काम्यं कर्म त्याज्यमिति, न त्याज्यमिति विकल्पार्थो वर्णितः, येनोत्तरश्लोकानुसारस्स्यादस्य । किंच सन्न्यासत्यागावे कार्थाविति किमर्जुनो वेद, उत न वेद ? आधे- सन्न्यासस्य त्यागस्य च पृथक्तत्त्वं वेदितुमिच्छामीति प्रश्नो न युज्यते । द्वितीये. कृष्णस्येदं प्रतिवचनं न युज्यते । त्वं हि सन्न्यासत्यागौ पृथगर्थाविति श्राम्यसि, नतु तथा पृथगर्थौ । किं त्वपृथगर्थावेवेति वक्तव्यत्वात्कृष्णेनोत्तरस्य । नच ‘निश्वयं शृणु मे तत्र त्यागे भरतसत्तमेति त्यागशब्देनैव निर्णयवचन: दयमर्थोऽवगम्यत इति वाच्यं साक्षात्कण्ठोकमर्थे विहायाऽऽनुमानि कार्थकल्पनस्यायुक्तत्वात् । त्याज्यं दोषवदिति वक्ष्यमाणश्लोकोक्त विकल्प विषये त्यागे मम निश्चयं शृण्विति तदर्थाश्च । तस्माच्छ्रीशङ्कराचार्योक्त एव श्लोकस्य यथाश्रुतार्थः । अर्जुन- प्रश्नानुरूपश्च । तत्प्रभमनुसृत्यैव सन्न्यासत्यागयोरिह तत्त्वस्य पृथङ्निर्दिष्टत्वात् । सर्वकर्मपरित्यागरसन्न्यासः; सर्व फलत्यागस्तु त्याग इति पृथगुभयोस्तत्त्वस्य निर्दिष्टत्वात् नच काम्यानामित्येवोक्तं नतु सर्वेषामिति वाच्यं, कामे साधूनि काम्यानीति व्युत्पत्त्या नित्यनैमि- चिककाम्यात्मक त्रिविधकर्मपरत्वात्काम्यशब्दस्य । तच्चोक्तं प्रागेव । न चैवं बादरायणेन सर्वेषां कर्मणां न्यासमिति कुतो नोक्तमिति वाच्यं सर्वाण्यपि कर्माणि काम्यत्वेन परित्याज्यान्येवेति सूचयितुं काम्यानामित्युक्तत्वात् । अन्यथा ‘यदहरेव विरजेत्तदहरेव प्रव्रजे ’ दित्यादिश्रुति सिद्धस्य सर्वकर्मपरि- त्यागरूपस्य सन्न्यासस्य कुतो नेह प्रतिपादनं स्यादिति बोध्यम् ॥२॥ . त्याज्यमिति । यदर्जुनेन पृष्टं तत्प्रत्युक्तं पूर्वश्लोकेन । अथ प्रसङ्गात्किमविदुषां सन्न्यास - २.८४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु बन्धहेतुत्वात्सर्वमेव । अथ वा दोषो यथा रागादिस्त्यज्यते, तथा त्याज्यमित्येके कर्म प्राहु- र्मनीषिणः पण्डितास्साङ्ख्या आत्मदृष्टिमाश्रिताः; अधिकृतानां कर्मिणामपीति । तत्रैव यज्ञ- दानतपः कर्म न त्याज्यमिति चापरें । कर्मिण एवाधिकृतास्तानपेक्ष्यैते विकल्पाः, न तु ज्ञाननिष्ठान्व्युत्थायि नस्सन्न्या- श्रेयस्करः, उत त्यागः ? इति शङ्कायां तावद्विकल्पं दर्शयति–त्याज्यमिति । न चा विदुषामपि कोऽयं नियमः ? विदुषामपि किं सन्न्यासरश्रेयस्करः, उत त्यागः ? इति शङ्का भवत्येवेति वाच्यं, विदुषां कर्माघिकाराभावस्य पूर्वमेव बहुशः प्रतिपादितत्वात् । यद्यपि ’ तयोस्तु कर्मसन्न्यासात् कर्म- योगो विशिष्यत’ इति पूर्वमेवायमर्थ उक्तस्तथापि तस्यैवेह पुनर्विमर्शनं क्रियते स्पष्टावगमार्थमिति बोध्यम् । उक्तं हि भाष्यकृद्भिस्सर्वो नीतेष्वध्यायेषूक्तोऽर्थोऽस्मिन्नवगम्यत इति । 4 यद्वा ये सन्न्यासाश्रम स्वीकृतवन्तस्तैस्सर्वकर्मणां परित्यक्तत्वान्न तेषां पुनः कर्माधिकारः । अतो न तद्विषयः कर्मविकरूपः प्रकृतः । किं तु येऽसन्न्यस्यापि यज्ञादिषु न प्रवर्तन्ते तद्विषयः कर्म विकल्प इह प्रकृत इति बोध्यम् । एके मनीषिणो दोषवत्कर्म त्याज्यमिति प्राहुः । अपरे मनीषिणो यज्ञदानतपः कर्म न त्याज्यमिति प्राहुः । कर्मणि दोषं दर्शयति- बन्धहेतुत्वादिति । सर्वमेवेति । नित्यं नैमित्तिकं काम्यं चेति त्रिविधमपि कर्मेत्यर्थः । कर्म त्याज्यं दोषवत्त्वात् यद्दोषवत्तत्त्यज्यते यथा कीटादिदुष्टं फलादि । तदस्यास्त्यस्मिन्निति मतुपि दोषवच्छन्दार्थ दर्शयित्वा तेन तुल्यं क्रियाचे- द्वतिरिति वतौ तं दर्शयति - अथ वेति । घनराग आदिपदात्क्रोधादिग्रहणम् । यद्वा स्त्रीरागादि- ग्रहणम् । अथवा घनं रागश्चति दोषद्वयं, घन ह्यार्जनादिक्लेशहेतुत्वाद्दुष्टं, रागत्र्यादिविषयः कामः तस्य संसारानर्थहेतुत्वाद्दोषवत्त्वं स्फुटमेव । त्यज्यत इति । विदुषेति शेषः त्याज्यमिति । मुमुक्षुभिरिति शेषः । क एवं वदन्तीत्यत आह- साङ्ख्या इति । कुतो वदन्तीत्यत आह- आत्मदृष्टिमाभिता इति । आत्मज्ञत्वादित्यर्थः । अकर्तारमभोक्तारमविक्रियमात्मानं विदन्तो हि ते साङ्ख्या आत्मनि क्रियाकारक फलाभावदर्शनान्नैव कार्ये कर्मेति ब्रुवन्तीत्यर्थः । केषां त्याज्यमत माह - अधिकृतानां कर्मिणामपीति । अज्ञा हि कर्मण्यधिकृतास्तैरपि कर्म न कर्तव्यम् । बन्ध- कत्वात्कर्मणः । किंतु तूष्णीं स्थातव्यं कर्माकरणस्य बन्धा हेतुत्वादिति भावः । । । तत्रैवेति । अधिकृत कर्मि विषय एवेत्यर्थः । यज्ञदानतपोरूपं कर्म यज्ञदानतपः कर्म । यज्ञो दानं तपश्चत्येतत्त्रयमित्यर्थः । न त्याज्यं त्यक्तुं योग्यं न भवति । सकामानां बन्धहेतुत्वेऽपि निष्का- मानां चित्तशुद्धयादिद्वारा मोक्ष हेतुत्वादिति भावः । एते विकल्पा इति । एतौ विकल्पावित्यर्थः । एवमादयो विकल्पा इति वा । कर्मिण एवेत्येवकारार्थमाह - नतु ज्ञाननिष्ठानिति । व्युत्थायिन - स्सर्वे परित्यज्य प्रयातानित्यर्थः । ’ व्युत्थायाथ भिक्षाचर्ये चरन्तीति श्रुतेः । संसारिणो हि गृहिण- संसारकूपे ममाः । एते तु संसारकूपादुद्गता इति व्युत्थायिन इत्युक्तम् । व्यथातुं शीलं येषां ते Aअष्टादशोऽध्यायः । ૨૮૫ सिनोऽपेक्ष्य- ‘ज्ञानयोगेन साङ्ख्यानां’ निष्ठा मया पुरा प्रोक्तेति कर्माधिकारादातपोद्धृता ये न तान्प्रति चिन्ता । ननु ‘कर्मयोगेन योगिना’ मित्यधिकृताः पूर्व विभक्तनिष्ठा अपीह सर्वशास्त्रार्थोपसंहार- प्रकरणे यथा विचार्यन्ते, तथा साङ्ख्या अपि ज्ञाननिष्ठा विचार्यन्तामिति । न तेषां मोह- (क्लेश) दुःखनिमित्तत्यागानुपपत्तेः न कायक्लेशनिमित्तं दुःखं साङ्ख्या आत्मनि पश्यन्ति– इच्छादीनां क्षेत्रधर्मत्वेनैव दर्शितत्वात् । अतस्ते न कायक्लेशदुःखभयात्कर्म परित्यजन्ति; नापि ते कर्माण्यात्मनि पश्यन्तिः येन नियतं कर्म मोहात्परित्यजेयुः । गुणानां कर्म ‘नैव किञ्चित्करोमीति हि ते सन्न्यस्यन्ति । ‘सर्वकर्माणि मनसा सन्यस्येत्यादिभिर्हि तत्त्व- विदरसन्न्यासप्रकार उक्तः । तस्माद्येऽन्येऽधिकृताः कर्मण्यनात्मविदो येषां च मोहनिमित्त- स्त्यागस्सम्भवति कायक्लेशभयाश्च त एव तामसाः, त्यागिनो राजसाचेति निन्द्यन्ते व्युत्थायिनः । के तेऽत आह— सन्न्यासिन इति । सन्न्यासिनां विदुषां ज्ञाननिष्ठा क्वोक्तेत्यत आह - ज्ञानयोगेनेति । तस्माद्ये कर्माधिकाररूपादातपादुद्धृतास्तान्प्रति किं कर्म कार्यमुत त्याज्यम् ? इति चिन्ता न भवति । आतपवत्तापहेतुत्वात्कर्माधिकारे आतपत्वरूपणम् । ਹਰ उद्घृताश्च विद्वांसस्सन्न्यासिन एव । अज्ञानामसन्यासिनां कर्मण्येवाधिकारादिति । ननु कर्मिणः प्रत्यपीय चिन्ताऽनुचितैव । पूर्वमेव ‘कर्मयोगेन योगिना’ मिति कर्मयोगस्थ कर्मि विषयस्य विचारितत्वादिति चेत्सत्यम् - तथापि सर्वशास्त्रार्थोपसंहारप्रकरणत्वादस्याध्यायस्य पूर्वोक्त एवार्थ इहापि स्पष्टीक्रियत इति । नन्वेवं ज्ञानिनः प्रत्यपि चिन्तोचितैवेति शङ्कते - नन्विति । यदि ज्ञानिनः प्रत्यपि चिन्तोचिता स्यादिह तर्हि यज्ञदानतपः कर्म साङ्ख्यानामपि कार्यमेव भवेदिति सन्न्यासस्य समूलोच्छेदः पूर्वपक्ष्यभिमतस्सिध्येदिति बोध्यम् । 1

परिहरति नेति । हेतुमाह — तेोषामिति । ज्ञाननिष्ठानां सन्न्यासिनां साङ्ख्यानां तेषां मोहदुःखनिमित्तकर्मत्यागस्यानुपपतेः । अनुपपत्तिमेव विवृणोति–न कायेति । साङ्ख्या: कायक्लेश- निमित्त दुःखमात्मनि न पश्यन्ति । अतो दुःखनिमित्तत्यागो नोपपद्यते तेषाम् । कुतो न पश्यन्ती- त्यत आह- इच्छादीनामिति । आदि पदात्सुखदुःखादिग्रहणम् । येनेति । कर्मणामात्मनि दर्शने - नेत्यर्थः । नियतमिति । नित्यमित्यर्थः । मोहादज्ञानात् । ननु यदि साङ्ख्यानां मोहदुःखनिमित्तो न कर्मत्यागस्तर्हि किनिमित्तोडत आह—गुणांना- मिति । देहेन्द्रियायाकारपरिणतसत्त्वादिगुणानामेव कर्म, अहं तु किंचिदपि नैव करोमीति हि ते साङ्ख्यास्सन्न्यस्यन्ति कर्माणि । ‘नैव किंचित्करोमीति युक्तो मन्येत तरववि’ दित्युक्तत्वादिति भावः । तस्मादिति । साङ्ख्यानां सन्न्यासिनां कर्माधिकाराभावादित्यर्थः । अन्ये साङ्ख्येभ्य इतरे । के ते ? मत माह– अधिकृताः कर्मणीति । के ते ? अधिकृता अत आह— अनात्मविद इति । कार्यवलेशभयाच्च त्यागस्सम्भवतीत्यन्वयः । त एवेति । कर्मण्यधिकृता अज्ञा एवेत्यर्थः | त्यागिन- २८६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु कर्मिणामनात्मज्ञानां कर्मफलत्यागस्तुत्यर्थम् | ‘सर्वारम्भपरित्यागी, मौनी सन्तुष्टो येन केनचित् अनिकेत स्थिरमति’ रिति गुणातीतलक्षणे च परमार्थसन्न्यासिनो विशेषितत्वात् । वक्ष्यति च ‘निष्ठा ज्ञानस्य या प’रेति । तस्माद्ज्ञाननिष्ठास्सन्न्यासिनो नेह विवक्षिताः । कर्मफलत्याग एव सात्विकत्वेन गुणेन तामसत्वाद्यपेक्षया सन्न्यास उच्यते, न मुख्य सर्व- कर्मसन्न्यासः । सर्वकर्मसन्न्यासासम्भवे च ’ नहि देहभृता’ इति हेतुवचनान्मुख्य एवेतिचेन्न; हेतु- इति । कर्म त्यक्तवन्त इत्यर्थात्तामसा राजसाश्चेति तमोरजः प्रायस्स्वभावाः, नतु सत्त्विकाः । ते हि मोहाद्दुःखभयाद्वा कर्म न परित्यजन्ति, किंतु कर्म कृत्वा तत्फलमेव परित्यजन्ति । वक्ष्यते चायमर्थ उत्तरत्र । निन्द्यन्त इति । कुतो निन्दनमत आह- कर्मिणामिति । अनात्मज्ञानां कर्मिणां कर्म- त्यागात्फलत्याग एवोचित इति फलत्यागस्तुत्यर्थे कर्मत्यागो निन्द्यत इत्यर्थः । अत आह— नन्वात्मज्ञानां साङ्ख्यानां कर्मत्यागादनात्मज्ञानां कर्मिणां फलत्याग उत्कृष्ट इति कुतो नोच्यते ? - सर्वारम्भेति । गुणातीतस्य सर्वोत्कृष्टत्वं सर्वसम्मतं गुणातीतश्च परमार्थसन्न्यासी विद्वान् साङ्ख्यः । सर्वारम्भपरित्यागो हि सर्वकर्मसन्यासो गुणातीवस्य प्रधानं लक्षणम् । एवं सति आत्मज्ञ- साङ्ख्यकर्मसन्न्यासापेक्षया कथं फलत्यागस्योत्कृष्टत्व सिद्धिर्न कथमपीत्यर्थः । प्रत्युतात्मज्ञसाङ्खयकर्तृक- सर्वकर्मसन्न्यास एव सर्वोत्कृष्ट इति भावः । सन्यास उच्यत इति, सन्न्यास इति । स्तूयत इत्यर्थः । ’ यस्तु कर्मफलत्यागी स त्यागी - त्यभिधीयत’ इति वाक्येनेति भावः । ननु कर्मफलत्याग एव मुख्यस्सन्न्यासः, कर्मत्यागरूपसन्न्यासस्तु अमुख्य एवेत्यत आह–नेति । सर्वकर्मफलत्यागो मुख्यस्सर्वकर्मसन्यासो न भवति । सर्वकर्म- सन्न्यास एवं मुख्यः, फलत्यागस्त्व मुख्य एव; फलत्यागस्य सन्न्यासत्वं स्तुतिरेवेत्यर्थः I

1

1 ननु ‘न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयत’ इति श्लोके यस्माद्देहधारिणा सर्वाणि कर्माणि त्यक्तुं न शक्यते तस्मात्फलत्याग्येव सन्न्यासी- त्युक्तत्वान्सु ख्यसन्न्या सित्वेन त्वदभिमतस्य सर्वकर्मसन्न्यासस्य सम्भवात्फलत्याग एव मुख्यस्सन्न्यास इत्याक्षिपति — सर्वेति । परिहरति-नेति । हेतुमाह — हेत्विति । यो हि देहात्माभिमानी अज्ञः कर्ताऽहमिति निश्चितप्रत्ययस्तस्यैव सर्वकर्मसन्न्यासा सम्भवः- देहभृतेत्युक्तत्वात् । तस्य च फलत्याग एव सन्यास इति स्तूयते । यदि पुनरात्मविदोपि सर्वधर्म सन्न्यासा सम्भवस्तर्हि सर्वारम्भपरित्यागी - त्यादिना पूर्वमुक्तः सर्वकर्म सन्न्यासो ‘निरालम्बनस्यात् । तस्मादनात्मज्ञस्य फलत्यग एवोचित इति स्तुत्यर्थमेव । नहि देहभृतेति हेतूपन्यासः, नत्वात्मज्ञस्य कर्मसन्न्यासात्फलत्याग उचित इति कथनार्थः । कर्तर्य विक्रिये आत्मनि दिदुषां कर्मादर्शनात्कथमात्मज्ञस्य कर्माधिकारः १ येन विहितं अष्टादशोऽध्यायः । २८७ वचनस्य स्तुत्यर्थत्वात् । यथा ‘त्यागाच्छान्तिरनन्तर’ मिति कर्मफलत्यागस्तुतिरेव यथो का - नेकपक्षानुष्ठानाशक्तिमन्तमर्जुनमज्ञ प्रति विधानात् । तथेदमपि ‘न हि देहभृता शक्य’ मिति कर्मफलत्यागस्तुत्यर्थं वचनम् । न ‘सर्वकर्माणि मनसा सन्न्यस्य नैव कुर्वन्न कारयन्नास्त’ इत्यस्य पक्षस्यापवादः केनचिद्दर्शयितुं शक्यः । तस्मात्कर्मण्यधिकृतान्प्रत्येवैष सन्न्यास- त्यागविकल्पः । ये तु परमार्थदर्शिनस्साङ्ख्यास्तेषां ज्ञाननिष्ठायामेव सर्वकर्मसन्न्यालक्षणाया- मधिकारः; नान्यत्रेति न ते विकल्पाः । तच्चोपपादितमस्माभिः ‘वेदाविनाशिन’ मित्यस्मिन् प्रदेशे तृतीयादौ च ॥३॥

कर्म कृत्वा फलं परित्यजेदात्मज्ञः । नहि देहभृतेत्यस्य स्तुत्यर्थत्वे दृष्टान्तमाह —यथेति । नहि कर्म- फलत्यागादनन्तरमेव शान्तिस्संसारो परमस्स्यात्, ज्ञानपूर्वकत्वाच्छान्तेः । ज्ञानादेव हि संसार निवृत्तिः । तस्मा’ त्यागाच्छान्तिरनन्तर’ मिति वचनं स्तुतिवचनमेवेति तद्भाष्य एव स्फुटम् । ननु स्तुत्यर्थे कुतः फलत्यागस्य वचनमत आह— यथोक्तेति । असमर्थमज्ञमर्जुनमुद्दिश्य ‘अथैतदप्यशको ‘सीति सर्व कर्म- फलत्याग कुर्विति विधानं, तथा विदधतस्तव त्यागादनन्तरमेव शान्तिर्भवतीति प्रतिपादनं स्तुत्यर्थमेव, नतु तत्त्वार्थमिति भावः । ननु त्यागाच्छान्तिरनन्वर’ मिति वचनमपि न स्तुत्यर्थ, भगवतो कत्वात्ततश्व कर्मफलत्याग एव सर्वाधिक इति शङ्कायामाह -नेति । अस्य पक्षस्यापवादः केनचिदपि दर्शयितुं न शक्य इत्यन्वयः । अस्य पक्षस्येति । सर्वकर्म सन्न्यासस्येत्यर्थः । अपवादो बाधः । भगवतैव सर्वकर्मसन्न्यासस्य मुख्यस्य प्रतिपादितत्वात्कथं तेनैव फलत्यागरूपसन्न्यास एवं मुख्य इति पुनः प्रति- पाद्येत ? एवं व्याहतवादिनो भगवतो वाक्यं किं वा कथं वा प्रमाण स्यात् ? नचैवं सर्वकर्मसन्न्यास एव तत्र तत्र स्तुत इत्युच्यतामिति वाच्यं, आन्मनि कर्माद्यभावेनात्मविदामकर्त्रात्मदर्शिनां कर्माधि- कारस्य दुस्सम्पादत्वादात्मज्ञानादपि फलत्याग एवोचित इति प्राप्तत्वाच्च । तस्मादिति । विदुषां सर्वकर्म सन्न्यासस्य मुख्यत्वादित्यर्थः । अविदुषां फलत्यागस्य स्तुत्यर्थ सन्न्यासत्वेनोक्तत्वादिति वा । विदुषां मुख्यस्य सर्वकर्मसन्यासस्य केनचिदपि प्रत्याख्यातुमशक्यत्वादिति वा । सन्न्यासत्याग - विकल्प इति । त्याज्यं दोषवदिति पूर्वार्थो तरसन्न्यासः, यज्ञदानेत्युत्तरार्थोक्तस्तु त्याग इति विवेकः । तयोर्विकल्प एके इति, अपरे इति च शब्दाभ्यां दर्शित इति बोध्यम् । किमनात्मज्ञैः कर्मण्यधिक्कतैः कर्मसन्न्यासः कार्य उत फलत्यागः ? इति विकल्प इति यावत् । न ते साङ्ख्या विकल्पाः, कि नाम- स्साइयैः कर्मसन्न्यासः कार्य उत फलत्याग इति विकल्पो न सम्भवतीत्यर्थः । तेषां कर्माधिकाराभावा- दिति भावः । तच्चेति । साङ्ख्न्यानां कर्माधिकारराहित्यमित्यर्थः । तृतीयादाविति । ‘यस्त्वात्मरति - रेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्य न विद्यते’, ‘सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं शशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन्’, ‘सर्वारम्भपरित्यागी गुणातीतस्स उच्यत’ इत्यादिस्थलेष्वित्यर्थः ॥ ३ ॥ २८८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तत्रैतेषु विकल्पभेदेषु- निश्वयं शृणु मे तत्र त्यागे भरतसत्तम ! त्यागो हि पुरुषव्याघ्र ! त्रिविधस्सम्प्रकीर्तितः ॥ ४ ॥ निश्चयमिति । निश्चयं शृण्ववधारय ! मे मम वचनात्तत्र त्यागे त्यागसन्न्यास- विकल्पे यथादर्शिते भरतसत्तम ! भरतानां साधुतम ! त्यागो हि त्यागसन्न्यासशब्द- वाच्यो हि योsर्थस्स एक एवेत्यभिप्रेत्याह – त्यागो हीति । पुरुषव्याघ्र ! त्रिविध- स्त्रिप्रकारस्तामसादिप्रकारैस्सम्प्रकीर्तितरशास्त्रेषु सम्यक्कथितः यस्मात्तामसादिभेदेन त्याग- सन्न्यासशब्दवाच्यार्थोऽधिकृतस्य कर्मिणोऽनात्मज्ञस्य विविधस्सम्भवति, न परमार्थदर्शिन इत्ययमर्थो दुर्विज्ञानः, तस्मादत्र तत्वं नान्यो वक्तुं समर्थः । तस्मान्निश्चयं परमार्थ - शास्त्रार्थविषयमध्यवसाय मैश्वरं मे मत्तशृणु || ४ || निश्चयमिति । यदि केचिदज्ञानां कर्मत्याग उचित इति ब्रुवन्ति, परे फलत्याग उचित इति, तर्हि तत्र कः पक्षस्तवेश्वरस्याभिमत इत्यत आह- निश्रयमिति, एतेष्विति । उक्तानुक्तसर्वविक- रूपापेक्षया बहुत्वम् । किमज्ञानां नित्यकर्मत्यागश्श्रेयानुत नैमित्तिकस्यागः ! यद्वा काम्यत्यागः ? आहोस्वित्सर्वकर्मत्यागः ? यद्वा सर्वकर्मफलत्यागः ? इत्यादयो विकल्पा ऊद्याः । सर्वेऽप्यमी विकल्पा दर्शितकर्मत्यागफलत्यागरूपविकल्पद्वय एवान्तर्भवन्तीति बोध्यम् । यद्वा तत्रेति त्यागविशेषण, तस्मिन् त्याग इति त्यागशब्दस्य च त्यागसन्न्यासविकल्पोऽर्थः । तस्यैव प्रकृतत्वात् । परित्यागमात्रांश- साम्यादुभयोरपि त्यागशब्देन निर्देशः । तत्रशब्दार्थमाह-यथादर्शित इति । पूर्वश्लोकेनोक्त इत्यर्थः विकल्पेन कर्मविषयः फलविषयश्च यस्त्यागः पूर्वश्लोकेन दर्शितस्तस्निस्त्यागे विषय इति यावत् । हि यस्मात्त्यागस्त्रिविधस्सम्प्रकीर्तितस्तस्मात्तत्र त्यागे निश्चयं मे मम वाक्याच्छृणु जानीहि । तामसादिप्रकारैरिति । वक्ष्यमग्णतामसराजससात्त्विकप्रकारैरित्यर्थः । परित्यागमात्रार्थकरुत्याग स्त्रिविधः । तामसो राजसस्सात्त्विकश्चत्यर्थः । तिस्रो विधाः प्रकारा यस्य स त्रिविधः । क प्रकीर्तितोऽत आह— शास्त्रेष्विति । यस्मादयमर्थो दुर्विज्ञानस्तस्मादत्र तत्त्वं नान्यो (मतो) वक्तुं समर्थ इत्यन्वयः । त्यागसन्न्यासशब्दवाच्योऽर्थ इति । परित्यागरूप इत्यर्थः । नेति । परमार्थदर्शिन: कर्मसन्न्यास एव मुख्येऽधिकारान्न तस्य तामसादिभेदभिन्नत्रिविधत्यागविष- यत्वमिति भावः । अत्रेति । अज्ञकर्मिविषयत्याग इत्यर्थः । तत्त्वं याथार्थ्यम् । अन्य इति । मत्त- स्सर्वेश्वरादपर इत्यर्थः । न समर्थ इति । असर्वज्ञत्वादिति भावः । तस्मादिति । ममैव त्याग- तत्त्वकथनसमर्थत्वादित्यर्थः । परमार्थशास्त्रं मोक्षशास्त्रं तदर्थत्याग सन्न्यासादिः । तद्विषयं तद्गोचर- मैश्वरमीश्वरस्य ममेदमैश्वरं मदीयं निश्वयं मत्त एवं सकाशाच्छृणु । 1 निश्चयशब्दार्थमाह — अध्यवसायमिति । अयं भावः — के चित्कर्मत्याग श्रेयांसनज्ञस्य वदन्ति के चित्कलल्याग मेति, तदुभयं श्रुत्वा मुमुझो रज्ञस्य शङ्का जायते– किपत्र प्रमाणमिति ! नच ३७ अष्टादशोऽध्यायः । २८९ शास्त्रात्तन्निर्णेतुं स शक्नोति द्विविधशास्त्रदर्शनातदुभयबलाबलनिर्णयाय तस्याशक्यत्वात् । तदश्च स मन्यते शास्त्रर्तुरीश्वरस्य यः पक्षोऽभिप्रेतस्स समीचीन इति । तं चेश्वराभिमतं पक्षं वेत्तुं न कश्चि- च्छक्नोति - परहृदयस्था प्रत्यक्षत्वात् । एवं सतीदमीश्वराभिमतं मतमितीश्वर एव साक्षाद्यान्न कोऽपि ततोऽन्य इति स निश्चिनोति । स चाज्ञो मन्दभाग्यत्वात्तस्य नेश्वरप्रत्यक्षं सम्भवति । ततस्स पक्षद्वये कश्श्रेयानित्यधुनापि सन्देग्ध्येव । स्वं तु महाभाग्य इति तवाहमीश्वरः प्रत्यक्षनयाऽवस्थित सन्ब्रवीमि । ममायं निश्चितः पक्ष इति । ततस्त्वं मत्त इमं निश्चयं शृत्वाऽज्ञस्य कर्मत्यागफलत्या गयोश्श्रेयांसमन्यव रं पक्षं निश्चयेन जानीहीति । यत्तु रामानुजः – त्यागस्त्रिविध:- कर्मविषयः, फलविषयः, कर्तृत्वविषयश्चेति । ममेदं कर्मेति कर्मणि ममतायास्त्यागः कर्मत्यागः ; मम फलं न स्यादिति फलत्यागः, ईश्वर एव कर्ता, न त्वहमिति कर्तृत्वत्यागः । सच पूर्वमेवोक्त:- ‘मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वर’ इति, तन्मन्दम् — उदाहृतश्लोके त्यागस्त्रिविध इत्यर्थस्यानुक्तत्वात् । नच कण्ठो तत्वाभावेऽप्यर्थातत्सिद्धिरिति वाच्यं, ‘यहच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समस्सिद्धा वसिद्धौ च कृत्वापि न निबध्यत’ इति श्लोकेन असन्तोषत्यागद्वन्द्वत्यागमात्सर्यत्यागसिद्ध्यसिद्धिप्रयुक्त - हर्ष विषादत्यागानामप्यर्थादुक्तत्वेन त्रिविधस्त्यागस्सम्प्रकीर्तित इति नियन्तुमशक्यत्वात् । एवं- ‘यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः, नित्यतृप्तो निराश्रय’ इत्यनेन च कामत्यागसङ्कल्प त्यागाश्रय- त्यागानामप्यर्थात्सिद्धत्वात् । तथा ‘छिवैनं संशयं योगमातिष्ठेत्यनेन संशयत्यागस्याप्यर्थतस्सिद्ध- त्वात् । तदेवं बहूनां त्यागानां पूर्व सम्प्रकीर्तितत्वात्कुतस्त्यागस्त्रिविधस्सम्प्रकीर्तित इत्युच्यते ? तस्मा- न्मयि सन्न्यस्येत्यादयश्श्लोकाः कर्मयोगमेव तैस्तैर्विशिषन्ति विशेषणैर्नतु त्यागभेदान् प्रदर्शयन्ति । मयि कर्माणि सन्न्यस्य निराशीर्निर्ममश्च भूत्वा युध्यस्वेति कर्मयोगधर्मसमुच्चयदर्शनात् । 1 1 किंच त्यागस्य कामसङ्कल्पममत्वादिविषय मेदाद्बहुविधत्वं पूर्वमुक्तमित्यवगम्यते नतु स्वरूपतो मेदः । तथासत्येकेन त्यागमेदेन युक्ते कर्मणि द्वितीयस्य त्यागभेदस्यानव काशप्रसङ्गात् । रूपं द्विविध- उद्भुतरूपमनुद्भूतरूपं चेत्युक्ते नहि उद्भूतरूपवति वस्तुन्यनुद्भूतरूपप्रसङ्गः । स्पर्शो द्विविध:- शीतोष्ण मैदादित्युक्ते नापि शीतस्पर्शवति वस्तुन्युष्णस्पर्शप्रसङ्गः । अत्र तु त्यागस्त्रिविध इ ते, स्वरूपतो भेद इव कण्ठोतः- रूपं द्विविधमित्यादिवत् । ते च भेदा वक्ष्यन्ते तामसो राजसस्सात्त्विकश्चेति । नहि तामसत्यागवति पुरुषे राजससात्त्विकत्यागयोः प्रसङ्गः । एवं राजसत्यागवति तामससात्त्विकत्यागयो नैव प्रसङ्गः । तथा सात्त्विकत्यागवति न राजसतामसयोः प्रसङ्गः । अत एव त्यागस्य त्रैविष्यकथनम् । यदित्वेकस्मिन्नेव पुरुषे युगपदेव त्यागत्रयं स्यात्तर्हि त्याग एकविध एव स्याद्भेदप्रमाणानुपपत्ते:- त्याग- मेदानां परस्परसामानाधिकरण्याभावो हि त्यागमेदे प्रमाणम् (प्रयोजकम् ) । अशस्त्यागममतात्यागा- दीनां तु सामानाधिकरण्यमस्ति, अतो विषयभेदाद्भित्र इव प्रतीयमानोपि स त्याग एकविध एव । २९० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कः पुनरसौ निश्चय इत्याह- यज्ञदानपतः कर्म न त्याज्यं कार्यमेव तत् । यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ||५|| यज्ञेति । यज्ञो दानं तप इत्येतत्त्रिविधं कर्म न त्याज्यं न त्यक्तव्यं, कार्ये कर- णीयमेव तत् । कस्मात् १ यज्ञो दानं तपश्चैव पावनानि विशुद्धिकराणि मनीषिणां फला- नभिसन्धीनामित्येतत् ॥ ५ ॥ अत्रोक्त एव ल्यागस्त्रिविध:- स्वरूपभेदसद्भावात् । नहि सात्त्विकादित्यागभेदानां परस्परसाङ्कर्ये परस्पर- सामानाधिकरण्यं वा विद्यते । कण्ठोक्तश्चायमेवेति तुच्छमेव रामानुजव्याख्यानम् । किंच ईश्वर एव कर्ता, नाहं कर्तेत्यनुसन्धानं चायुक्तं- ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यत इति गुणेष्वेव कर्तृत्वारोपो न त्वीश्वरे, नाप्यात्मनि ष्मविक्रियत्वादीश्वरस्यात्माभिन्नत्वाच्चेति । यदीश्वरे कर्तृत्वमारोपितं स्यात्तदात्मन्येव फलति, बिम्बे मुखे खारोपितस्तिलकः प्रतिबिम्बमुखवत् । तस्मान्नवेश्वरे कर्तृत्वमारोपितव्यं, किंतु गुणेष्वेव । नच ‘मयि सर्वाणि कर्माणि सन्न्यस्येति वचनस्य का गतिरिति वाच्यं, ईश्वरार्थमहं कर्म करोमि, स्वाम्यर्थं भृत्य इवेत्यनुसन्धानस्यैवेश्वरे कर्मसमर्पणरूपत्वादिति । नच गुणेष्वेव कर्तृत्वमारोपितव्यमिति स्थिते कथमहं करोमीत्यनुसन्धानमिति वाच्यं कर्माधिकृताऽनात्मविद्विषयत्वादेतद्वचनस्य । तत्त्वविद्धि गुणा एव कर्तारो न त्वहमिति मन्यते । तस्मादीश्वर एव कर्तेत्यनुसन्धानमति मूढ विषयमेवेति संक्षेपः ॥ ४ ॥ यज्ञेति । मनीषिणां यज्ञदानतपः कर्म न त्याज्यं प्रत्युत तत्कार्यमेव । मनीषिणां यज्ञो दानं तपश्चेत्येतानि पावनान्येव । नन्वज्ञविषयमिदं प्रकरणमिति प्रागुक्तं कथं सङ्गच्छेत ! मनीषिणा मिति पदस्य सत्त्वान्मनीषिणो हि विद्वांसोडत आह— फलानभिसन्धीनामिति । कर्मण्यधिकृतेष्त्रज्ञेषु मध्ये फलानभिसन्घयो विद्वांसः, फलाभिसन्धयस्तु तदपेक्षया मूढाः । यथा वैदिकेषु वेदार्थविदः प्राज्ञाः, केवलवेदपाठरता मूढाः । यथा वा द्विजेषु वेदपाठरताः प्राज्ञाः, सन्ध्यावन्दनमात्रविदो मूढाः । यथा वा विद्यार्थिषु शास्त्राध्यायिनः प्राज्ञाः, काव्याध्यायिनो मूढाः । यथा वा बालेषु पदवाक्यपाठकाः प्राज्ञाः, अकाराद्यक्षराभ्यासिनो मूढास्तद्वदिति भावः । तस्मादनात्मविदः कर्मण्यधिकृतास्तत्फलाभि- सन्धिराहित्येन मनीषिण इतीहोच्यन्ते स्तुत्यर्थमिति बोध्यम् । विशुद्धिश्वितशुद्धिः । अनेन च पाव- नानीतिवचनेन चित्तशुद्धिपर्यन्तमेव कर्मण्यधिकृतैरपि कर्म कार्ये, पश्चात्तु सन्न्यासस्स्वीकर्तव्य एवाश्रम- विशेषस्तत्त्वज्ञानार्थकश्रवणाद्यर्थः ’ अथातो ब्रह्मजिज्ञा’ सेति सुत्रात् । न हि ज्ञानं विना मुक्ति: । कर्माणि चित्तशुद्धिफलकान्येव धनभिसंहितफलानि । कर्मभिश्विते शुद्धे सति विविदिषा जायते । ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाश के’ नेति श्रुतेः । जातायां च विविदिषायां तद्वेदनार्थे गृहादिकं परित्यज्य तत्त्ववित्सकाशं यात्येवेति सिद्धसन्न्यासो मुमुक्षोर्विविदिषा जनकानां तु कर्मणां विविदिषाजननान्तरं नोपयोगः- जलदर्शनानन्तरं खनित्रस्येव । अष्टादशोऽध्यायः । एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ ! निश्चितं मतमुत्तमम् ॥ ६ ॥ २९१ एतानीति । एतान्यपि तु कर्माणि यज्ञदानतपांसि पावनान्युक्तानि सङ्गमासक्तिं तेषु त्यक्त्वा फलानि च तेषां त्यक्त्वा परित्यज्य कर्तव्यानीत्यनुष्ठेयानीति मे मम निश्चितं मतमुत्तमम् । ‘निश्चयं शृणु मे त’ले प्रतिज्ञाय पावनत्वं च हेतुमुत्क्वा ‘एतान्यपि कर्माणि कर्तव्यानी’ त्येतत् ‘निश्चितं मतमुत्तम’ मिति प्रतिज्ञातार्थोपसंहार एव । नापूर्वार्थं वचनं – ‘एतान्य’ पीति प्रकृतसन्निकृष्टार्थत्वोपपत्तेः । ससङ्गस्य फलार्थिनो बन्धहेतवः ‘एतान्यपि कर्माणि मुमुक्षोः कर्तव्या’ नीत्यपिशब्दस्यार्थः । न त्वन्यानि कर्माण्यपेक्ष्य ‘एतान्यपी’- त्युच्यते । 1 अन्ये तु वर्णयन्ति – नित्यानां कर्मणां फलाभावात्- ‘सङ्गं त्यक्त्वा फलानि चेति नोपपद्यते । अत: ‘एतान्य’ पीति यानि काम्यानि कर्माणि नित्येभ्योऽन्यानि, एतान्यपि कर्तव्यानि । किमुत यज्ञदानतपांसि नित्यानीति, तदसत् — नित्यानामपि कर्मणामिह एवं सति आप्रायणादहरहः कर्म कार्ये मुमुक्षुभिरिति वर्णयतो रामानुजस्याहो ! पाण्डित्यम् ! माप्रायणादिति मूलाद्वहि: पदकल्पनात् । ’ यदहरेव विरजेतदहरेव प्रव्रजेत्’, ‘व्युत्थायाथ भिक्षाचर्य चरन्ति’, ‘ब्राह्मणो निर्वेदमायात्, शान्तो दान्त्र उपरत’ इत्यादिश्रुति सिद्धस्य, सर्वारम्भपरित्यागी - त्यादिप्रकृतगीतासिद्धस्य च सर्वकर्मसन्न्यासस्य विद्वद्विषयस्य प्रत्याख्यानाच || ५ || 1 I एतानीति । हे पार्थ! एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च त्यक्त्वा कर्तव्यानीति में निश्चितमुत्तमं मतम् । क सङ्क्रमत आह— तेष्विति । यज्ञादिष्वित्यर्थः । हेतुमिति । यज्ञादीनां कर्तव्यत्वे हेतुमित्यर्थः । अपूर्वार्थवचनमिति । यज्ञादिभ्योऽन्यान्यपि कर्माणि कर्तव्यानीत्येवंरूपाऽ- पूर्वार्थवचनं न भवतीत्यर्थः । कुतो नापूर्वार्थवचनमत आह— एतान्यपीति । एतच्छब्दों हि प्रकृत- सन्निहितार्थवाची । ननु एतान्यपीत्यपिशब्दात्पूर्वोक्त कर्मभ्योऽन्यान्यप्येतानि कर्तव्यानीत्येवार्थोऽत आह- ससङ्गस्येति । संसग्रस्य फलार्थिनो बन्धहेतून्यप्येतानि पूर्वोक्तकर्माणि मुमुक्षोरज्ञस्य कर्मण्यधिकृतस्यं कर्तव्यानीत्यपिशब्दार्थः । नतु समुच्चयार्थोऽपिशब्दो ऽत्रेत्याह – नत्विति । एतानि पूर्वोक्तकर्माणि कर्तव्यान्यपिशब्दादन्यान्यपि कर्तव्यानीति नार्थ इति भावः । एतेन सङ्गं त्यक्त्वा फलं त्यक्त्वा च कृतान्येव यज्ञदानतपांसि पावनानि, नतु सकामानीति सिद्धम् । अत एव मनीषिणां फलानभिसन्धीनामिति भाष्यकारैरुक्तम् । यदुक्तं नापूर्वार्थवचनमिति तत्र कैः कथमिहापूर्वार्थो वर्णित इति शङ्कायां तन्मतमुपन्यस्य दूषयति - अन्येत्विति, अत इति । नित्यकर्मणां यज्ञादीनां फलत्यागकथनस्यायुक्तत्वादित्यर्थः । एतान्यपीति । तान्येतान्यपीत्यर्थः । काम्यान्यपि कर्माणि फलं त्यक्त्वा कर्तव्यानीत्येतानि कर्माणि कर्तव्यानीत्यस्यार्थः । अपिशब्दार्थमाह- २९२ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपैतासु फलवत्वस्योपपादितत्वात्- ‘यज्ञो दानं तपश्चैव पावना’ नीत्यादिना वचनेन । नित्यान्यपि कर्माणि बन्धहेतुत्वाशङ्कया जिहासोर्मुमुक्षोः कुतः काम्येषु प्रसङ्गः ? ‘दूरेण ह्यवरं कर्मेति च निन्दितत्वात्; ‘यज्ञार्थात्कर्मणोऽन्य’ वेति च काम्यकर्मणां बन्धहेतुत्वस्य निश्चितत्वात् ; ‘वैगुण्यविषया वेदा:’, ‘त्रैविद्या मां सोमपाः’, ‘क्षीणे पुण्ये मर्त्यलोकं विशन्तीति च दूर- व्यवहितत्वाच्च न काम्येषु ‘एतान्य’ पीति व्यपदेश: ॥ ६ ॥ तस्माद्यज्ञस्याधिकृतस्य मुमुक्षोः - नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ ७॥ नियतस्येति । नियंतस्य तु नित्यस्य सन्न्यासः परित्यागः कर्मणो नोपपद्यते– अज्ञस्य पावनत्वस्येष्टत्वात् । मोहादज्ञानात्तस्य नियतस्य परित्यागः- नियतं चावश्यं किमुतेति । यज्ञदानतपांसि कर्तव्यानीति किं पुनर्वक्तव्यमित्यर्थः । उपपादितत्वादिति । केन वच- नेनेत्यत आह—यज्ञ इति । पावनत्वफलस्योक्तत्वादिति भावः । ’ अनिष्टमिष्ट मिश्र च त्रिविध कर्मण: फल’ मित्यनेन वक्ष्यते चेति बोध्यम् । जिहासोर्हातुं त्यक्तुमिच्छोर्जिहासोः । कुतो न प्रसङ्गोऽत आह— दूरेणेति । ‘दूरेण वरं कर्म बुद्धियोगाद्धन ’ येति श्लोकेनेति भावः । ननु नित्यकर्म स्वेवास्य बन्धहेतुत्वशङ्का, नतु काम्यकर्म स्वित्यत आह - यज्ञार्थादिति । ‘यज्ञार्थात्कर्मणोऽ- न्यत्र लोकोऽयं कर्मबन्धन’ इति श्लोके ईश्वरार्थ कर्मैवाबन्धक, काभ्यं कर्म तु बन्धकमेवेति निश्वये- नोक्तत्वादिति भावः । 1 1 एवं काम्यकर्मणां बन्धकत्वादेव ’ त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जु’ नेत्युक्तमित्याह - वैगुण्येति । कम्यकर्मणां यज्ञादीनां स्वर्गादिफलप्रदानद्वारा जन्ममरणादिसंसारहेतुत्वं च स्फुटमुक्त- मित्याह - त्रैविद्या इति । ’ त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्ते । ते तं भुक्त्वा स्वर्गलोकं विशाल क्षीणे पुण्ये मर्त्यलोक विशन्तीति । नंनु काम्यानां कर्मणामिति प्रकृतत्वात्तत्परामर्श एतच्छब्दस्योचित इत्यत आह- दुरेति । अत्यन्तं व्यवहितत्वादित्यर्थः । अव्यवहितयज्ञादित्यागे कारणाभावाद्दूरव्यव हितकाम्यपरामर्शे प्रमाणाभावाचेति भावः । तस्मात्काम्येष्वेतान्यपीति न व्यप- देशः । एतान्यपीत्यनेन काम्यानि नोच्यन्त इत्यर्थः । तस्मादेतान्यपि यज्ञदिकर्माणि कर्तव्यानीत्ये- वार्थः । तुशब्दस्तु विशेषार्थः । फलाभिसन्धिरहितान्येव यज्ञादीनि कर्तव्यानि, नतु तत्सहितानीत्ययं विशेषस्तुशब्देनोच्यते; बन्धकान्यपि कर्तव्यान्येवेत्यपिशब्दार्थ इत्याचार्यैरेव दर्शितम् । एतेन ‘यज्ञ- दानतपः कर्म न त्याज्यमिति चापर’ इत्युक्तकर्मफलत्यागपक्ष एव श्रीकृष्णाभिमत इति सिद्धम् ॥६॥ नियतस्येति । अथ त्रिविधरसम्प्रकीर्तित इत्युक्तत्यागत्रैविध्यं दर्शयन् त्याज्यं दोषवदिति कर्मसन्न्यासपक्ष दूषयति — नियतस्येति । नियतस्य कर्मणस्सन्न्यासस्तु नोपपद्यते । कस्य नियत कर्मेत्यत आह-अज्ञस्येति । अज्ञोपि यः कर्मण्यधिकृतश्शूद्रादिर्यश्च द्विजोऽपि यमाद्यर्थं सन्न्यस्तवान अष्टादशोऽध्यायः । २९३ कर्तव्यं त्यज्यते चेति विप्रतिषिद्धम् । अतो मोहनिमित्तः परित्यागस्तामसः परिकीर्तितो मोहश्च तम इति ॥ ७ ॥ किंच- दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥८॥ दुःखमिति । दुःखमित्येव यत्कर्म कायक्लेशभयाच्छरीरदुःखभयात्त्यजेत्परित्यजेत्, तस्य नियतमित्याह – अधिकृतस्येति । कथमधिकृतोऽज्ञः कर्म नियतं त्यक्तुमिच्छतीत्यत आह- मुमुक्षोरिति । कर्मणो बन्धकत्वघिया बन्धान्मुमुक्षुर्नियत कर्म परित्यजेदज्ञानादिति भावः । यस्मा त्फलाभिसन्धिरहितं यज्ञादिकर्म पावनत्वात्कार्यमज्ञस्य तस्मादिति तस्माच्छब्दार्थः । नित्यस्येति । नैमित्तिकस्याप्युपलक्षणम् । यज्ञादीनि नित्यकर्माणि ब्राह्मणस्य देवयज्ञपितृयज्ञभूतयज्ञमनुष्ययज्ञब्रह्म- यज्ञाख्यपञ्चयज्ञानामहरहः कर्तव्यत्वात् । ‘वसन्ते वसन्ते ज्योतिषा यजे’ तेति ज्योतिष्टोमस्तु नैमित्तिकः । इज्याध्ययनदानानि त्रीणि ब्राह्मणस्य स्वधर्मतया विहितानीति । दानं च नित्यकर्मैव । अध्ययनं ब्रह्म- यज्ञो यज्ञेष्वन्तर्भूतम् । इज्या देवपूजा वैश्वदेवादिर्यज्ञत्वेन प्रसिद्धैव । तप एकादश्युपवासादिः । तथ नियतमेव, तदकरणे प्रत्यवायदर्शनात् । ’ एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि’ इत्यादिधर्मशास्त्रात् । एवं नित्यस्य यज्ञादिरूपस्य कर्मणः परित्यागो मुमुक्षोर्नोपपद्यते, परित्यागे प्रत्यवायसम्भवात् । करणे च पावनत्वरूपफलसम्भवात् । ननु फलानभिसन्धीनां किं पावनत्वफलेनेंत्यत आह-तस्येति । मुमुक्षोहि मोक्षफले तावदिच्छास्तीति मोक्षफलमिष्टं, तदर्थं ज्ञानं चेष्टं ज्ञानं विना मोक्षासम्भवात् । ज्ञानार्थं च चित्तशुद्धिलक्षणं पावनत्वमिष्टं पावनत्वार्थे च पावनं नित्यकर्मेष्टमिति, पावनस्य नित्य- कर्मणो मुमुक्षोरिष्टत्वादित्यर्थः । नचैवं कथं फलाभिसन्धिरा हित्यमिति वाच्यं स्वर्गादितत्तन्नियत- फलाभिसन्धिराहित्यस्यैव विवक्षितत्वात् । स्वर्गादिफलं हि बन्धकत्वादनपेक्षितव्यं, पाचनत्वादिकं तु मोचकत्वादपेक्ष्यमेव । नहि फलस्य फलत्वेन रूपेण दोषवत्त्वं, किंतु बन्धकत्वेन रूपेणैव । अन्यथा मोक्षोऽपि फलत्वाद्दोष एव स्यात् । अज्ञानादिति । नित्यं कर्म फलाभिसन्धिरहितं चेन्न बन्धकं त्यक्तं चेन्नरकावहमित्येवंरूप- विवेकाभावादित्यर्थः । एतेनात्मविदामात्मज्ञानान्नियतकर्मत्याग उचित एवेति ज्ञायते । विप्रतिषिद्ध विरुद्ध कर्तव्यत्वत्याज्यत्वयोस्सामानाधिकरण्यासम्भवादिति भावः । अत इति । कर्तव्यकर्म त्यागस्य विरुद्धत्वादित्यर्थः । विदुषां सन्न्यासिनां तु नैव कर्तव्यं कर्मेति तत्त्यागो न विरुद्धः प्रत्युत तत्करण मेव विरुद्धमिति भावः । मोहनिमित्त इति । मोहो निमित्तं कारणं यस्य स तथोक्तः । नतु विदुषां सन्न्यासिनामिवात्मज्ञाननिमित्त इति भावः । तामस इति । तमोगुणप्रवृत्तः । तमः कार्यत्वान्मोह- स्येति भावः ॥७॥ दुःखमिति । यः कर्म दुःखमिति मत्त्वैव कायवलेशभयात्यजेत् स राजसं त्यागं कृत्वा २९४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु स कृत्वा राजसं रजोनिर्वृत्तं त्यागं नैव तत्यागफलं ज्ञानपूर्वकस्य सर्वकर्मत्यागस्य फलं मोक्षाख्यं न लभेन्नैव लभेत ॥८॥ १. कः पुनस्सात्त्विकस्त्यागः : इत्याह- 1 — कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ! सङ्गं त्यक्त्वा फलं चैव स त्यागस्साच्चिको मतः ॥ ९ ॥ कार्यमिति । कार्ये कर्तव्यमित्येव यत्कर्म नियतं नित्यं क्रियते निर्वर्त्यतेऽर्जुन ! सङ्गं त्यक्त्वा फलं चैव । एतन्नित्यानां कर्मणां फलवत्वे भगवद्वचनं प्रमाणमवोचाम | अथ वा यद्यपि फलं न श्रूयते नित्यस्य कर्मणः; तथापि नित्यं कर्म कृतमात्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोत्यात्मन इति कल्पयत्येवाज्ञः । तत्र तामपि कल्पनां निवार- यति - ‘फलं त्यक्त्वा’ इत्यनेन । अतस्साधु उक्तं- ‘सङ्गं त्यक्वा फलं च’ इति । स त्यागो नित्यकर्मसु सङ्गफलपरित्यागस्साच्चिकस्सच्वगुणनिर्वृत्तो मत अभिप्रेतः । त्यागफलं नैव लभेत् । अज्ञानपूर्वकः कर्मत्यागस्तामसत्यागः, कायक्लेशभयदुःखपूर्वकः कर्मत्यागस्तु राजसत्यागः । अस्मिन्नेव त्यागद्वये ‘त्याज्यं दोषवदिति पक्षोऽन्तर्भूतः । अतस्स पक्षो दुष्ट एव । • ज्ञस्य कर्मण्यधिकृतस्य नियतकर्मपरित्यागेन प्रत्यवायसम्भवान्मोक्षासम्भवाच । तस्मादज्ञः कर्मण्यधि- छूतो नियतं कर्मावश्यं कुर्यात् । यज्ञस्यापि सन्न्यस्तस्थ न कर्माधिकारः । अधिकृतस्येति विशेष- णात् । अतोऽज्ञस्य सन्न्यासिनोपि नियतकर्मत्यागो न प्रत्यवायावहः । परं तु अज्ञस्य तस्य सन्न्यासा - पेक्षया कर्मयोग एव समीचीनः पावनत्वात्कर्मयोगस्य । ‘कर्मयोगो विशिष्यत’ इत्युक्तत्वाश्च । तस्मा- दयुक्त एवाज्ञस्य मोहात्कायवलेशभयाच्च कर्मत्यागः । सर्वकर्मत्यागस्येति । परमार्थसन्न्यासस्येत्यर्थः । विद्वत्सन्न्यासस्येति यावत् ॥८॥ कार्यमिति । हेअर्जुन ! नियतं यत्कर्म सङ्ग त्यक्त्वा फलं च त्यक्त्वा कार्यमित्येव क्रियते स स्यागस्सात्त्विको मतः । आत्मसंस्कारं चितशुद्धिं । प्रत्यवायो नरकादिः । आत्मनस्स्वस्य । अज्ञ इति । आत्मतत्त्वानभिज्ञ इत्यर्थः । आत्मविद्धि स्वस्य चितस्य चासम्बन्धं पश्यन् कथं चित्तशुद्धिं कामयेत् ? कथं वा अपहतपाप्मन्यात्मनि प्रत्यवायपरिहारं कामयेत् ? नित्यकर्मस्विति । प्रागुक्तं तेष्वित्यर्थः । एवं च स इत्यस्य तन्नित्यकर्म विषय इत्यर्थ इति सिद्धम् । फलविषय इति वा । एतेन सर्वकर्मफलत्यागरूपो यस्सात्त्विकत्यागस्स एव त्याज्यमिति चापर’ इति श्लोकपरार्थोक्तः पक्षस्स एव च भगवदभिमत इति सिद्धम् । ततश्च कर्म- व्यधिकतर सर्वोऽप्यज्ञो नित्य कर्म कृत्वा फलमेवं परित्यजेत् ननु त्याग स्त्रिविधस्सम्प्रकीर्तित इति त्यागशब्देन सन्न्यास’ इत्युत्तरानुरोधात् । सन्न्यासस्य प्रकृतत्वाच्च । यत्कर्म क्रियत इति तन्नित्यकर्मगतसङ्ग- ‘यज्ञदानतपः कर्म न नतु कर्म सन्न्यसेदिति फलितम् । सन्न्यास एवं ग्रहीतव्य:- ‘नियतस्य तु तथा सति सन्न्यासः कर्मत्यागरूप एवेतिअष्टादशोऽध्यायः । २९५ ननु कर्मपरित्यागस्त्रिविधः सन्न्यास इति च प्रकृतः । तत्र तामसो राजसथ त्याग उक्तः । कथमिह सङ्गफलत्यागः तृतीयत्वेनोच्यते १ यथा त्रयो ब्राह्मणास्समागताः, तत्र षडङ्गविदौ द्वौ, क्षत्रियस्तृतीय इति तद्वत् । नैष दोषः - त्यागसामान्येन स्तुत्यर्थत्वात् । अस्ति हि कर्मसन्न्यासस्य फलाभिसन्धित्यागस्य च त्यागत्वसामान्यम् । तत्र राजसताम- सत्वेन कर्मत्यागनिन्दया कर्मफलाभिसन्धित्यागस्साचिकत्वेन स्तूयते- ‘स त्यागस्साच्चिको मत’ इति ॥९॥ यस्त्वधिकृतस्तङ्गं त्यक्त्वा फलाभिसन्धि च कर्म नित्यं करोति, तस्य फलरागा- दिना अकलुषी क्रियमाणमन्तःकरणं नित्यैश्च कर्मभिः संस्क्रियमाणं विशुद्धयति, तद्विशुद्धं प्रसन्नमात्मालोचनक्षमं भवति । तस्यैव नित्यकर्मानुष्ठानेन विशुद्धान्तःकरणस्यात्मज्ञानाभि- मुखस्य क्रमेण यथा तनिष्ठा स्यात्तद्वक्तव्यमित्याह- — न द्वेष्टयकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ १० ॥ नेति । न द्वेष्टयकुशलमशोभन काम्यं कर्म शरीरारम्भद्वारेण संसारकारणं ‘किमनेन ?’ इत्येवम् । कुशले शोभने नित्ये कर्मणि सच्चशुद्धिज्ञानोत्पत्तितन्निष्ठा हेतुत्वेन ‘मोक्षकारण- मिदमित्येव नानुषज्जते, तत्रापि प्रयोजनमपश्यन्ननुषङ्गं प्रीतिं न करोतीत्येतत् । कः पुन- रसौ ? त्यागी पूर्वोक्तेन सङ्गफलपरित्यागेन तद्वान् त्यागी यः कर्मणि सङ्गं त्यक्त्वा तत्फलं कृत्वा कर्मत्यागविषया एषया एव त्रयः प्रकारा दर्शनीयाः, नतु कर्मत्यागविषयौ द्वौ फलत्याग विषय एकश्चेति । फलत्यागस्यासन्न्यासत्वात् । प्रकृते तु राजसतामसत्यागौ कर्मत्यागावेव दर्शितौ । सात्त्विकत्यागस्तु फलत्यागो दर्शित इति कथं सन्न्यासस्य कर्मत्यागरूपस्य त्रैविध्यमिति चोदयति- नन्विति । परिहरति — नैष दोष इति । हेतुमाह — त्यागेति, त्यागसामान्येनेति । परित्यागांश- मात्रसादृश्येनेत्यर्थः । सन्न्यासत्यागयोरिति भावः । तदेव सामान्यं दर्शयति — अस्ति हीति । स्तुतिं दर्शयति — तत्रेति । सन्न्यासत्यागयोर्मध्य इत्यर्थः । राजसातामसाच कर्मत्यागात्सात्त्विकः फलत्याग उत्कृष्ट इति स्तुत्यर्थे फलत्यागस्यापि सन्न्यासभेदान्तः प्रवेशनमिति भावः ||९||

नेति । राजसतामसत्यागिनौ निन्दितौ । यस्तु सात्त्विकत्यागी तस्य परमार्थसन्न्यासज्ञाननिष्ठा- प्राप्तिरनेन श्लोकेनोच्यत इत्याह- तस्येति । तन्निष्ठा आत्मज्ञाननिष्ठा । त्यागी सत्त्वसमाविष्टो मेघावी छिन्नसंशयश्च सन्नकुशलं कर्म न द्वेष्टि, कुशले कर्मणि नानुषज्जते । किं तदकुशल कर्मेत्यत आह - काम्यमिति । कुतस्तस्याशोभनत्वमत आह- शरीरेति । शरीरारम्भकत्वात्संसारकारण- मित्यर्थः । कथं द्वेष्टीत्यत आह- किमनेनेत्येवमिति, अनुषङ्गं न करोतीति । अनुषङ्गप्रकारं दर्शयति – सच्चशुद्धीति । संसारकारणमिदमिति काम्ये न द्वेषः, मोक्षकारणमिदमिति नित्ये नापि प्रीतिस्त्यागिन इत्यर्थः । द्विष अत्री प्राविति घातोषोऽपीतिः । कर्तुह्यांग। आकांक्षा पुनः २१६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु व नित्यकर्मानुष्ठायी सत्यागी । कदा पुनरसावकुशलं कर्म न द्वेष्टि, कुशले च नानुषज्जत इति । उच्यते - सच्चसमाविष्टो यदा सच्वेनात्मानात्मविवेकविज्ञानहेतुना समाविष्टस्संव्याप्त:– सत्त्वसंयुक्त इत्येतत् । अत एव च मेधावी मेधयाऽऽत्मज्ञानलक्षणया प्रज्ञया संयुक्तस्तद्वान् मेधावी । मेधावित्वादेव छिन्नसंशय:- छिन्नोऽविद्याकृतस्संशयो यस्य ‘आत्मस्वरूपावस्थान- मेव परं निश्श्रेयससाधनं, नान्यत्किचि’ दित्येवं निश्चयेन छिन्नसंशयः । योऽधिकृतः पुरुषः पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियमात्मानमात्मत्वेन सम्बुद्धस्स सर्वकर्माणि मनसा सन्न्यस्य नैव कुर्वन्न कारयन्नासीनो नैष्कर्म्यलक्षणां ज्ञाननिष्ठामश्नुत इत्येतत् । पूर्वोक्तस्य कर्मयोगस्य प्रयोजनमनेनैव श्लोकेनोक्तम् ॥१०॥ कोसौ त्यागी सत्त्वेन गुण- रसाविति त्यागेनेति । उपलक्षित इति शेषः । तद्वानिति । त्यागवानित्यर्थः । अत आह—य इति नित्यकर्मानुष्ठायीति । नित्यकर्मानुष्ठ/नशील इत्यर्थः । विशेषेण । कीदृशेनेत्यत आह- आत्मेति । आत्मानात्मविवेकज्ञानस्य हेतुना कारणभूतेन । ‘सत्त्वात्संजायते ज्ञान’ मित्युक्तत्वादिति भावः । नित्यकर्मानुष्ठानेन चिते परिशुद्धे सति सत्त्वगुणोद्रेको भवतीत्यर्थः । यद्वा चित्तशुद्धिरेव सत्त्वोत्कर्षः । अत एवेति । सत्त्वनिष्ठत्वादित्यर्थः । मेघा अस्या - स्तीति मेधावी, ‘अस्माया मे ‘थेति विनिः । मेधायास्स्वरूपमाह — आत्मज्ञानेति । आत्मज्ञानमिह मेघाशब्दार्थः । छिन्नस्संशयो यस्य स छिन्नसंशय:- नित्यकर्म बन्धकं वा नवेत्येवमादिरूप संशयः । यद्वा आत्मा कर्ता वा उताकर्तेत्येवमादिरूपः । केन कृतोऽयमत आह- अविद्याकृत इति । अज्ञान- जन्य इत्यर्थः । केन छिन्नोऽत आह— निश्चयेनेति । निश्चयज्ञानेनेत्यर्थः । निश्चयस्याकारमाह- आत्मेति । आत्मस्वरूपेणावस्थानमात्मज्ञाननिष्ठेति यावत् । एवकारार्थमाह - नान्यत्किञ्चिदिति । व्यन्यन्नित्यकर्मानुष्ठानादिकमित्यर्थः । फलितार्थमाह - य इति । यः कर्मण्यधिकृतोऽज्ञः पुरुषस्स पूर्वोक्तप्रकारेण कर्मयोगमनुष्ठाय तेन क्रमात्संस्कृतात्मा शुद्धचित सन् जन्मजरामरणादिविक्रियारहितत्वेन हेतुना निष्क्रियमात्मानं प्रत्यचमेवात्मत्वेन सम्बुद्धो जानन् सन् सर्वकर्माणि मनसा सन्न्यस्य, किंचिदपि कर्म स्वयं नैव कुर्वन्नन्यैरपि न कारयन् तूष्णीमासीनस्सन् नैष्कर्म्यलक्षणां परमार्थसन्न्यासस्वरूपां ज्ञाननिष्ठामश्नुते प्राप्नोति । इत्येतत्पूर्वश्लोकोक्तकर्मयोगस्य प्रयोजनमनेन श्लोकेनोक्तम् । पूर्वश्लो- कोक्तो यस्स्सात्त्विकत्यागस्स एव कर्मयोगः । यः पूर्वे ’ सन्न्यासः कर्मयोगश्च निश्श्रेयसकरावुभा’- वित्यादिनोक्तः, तस्य च कर्मयोगस्य चित्तशुद्धिज्ञानप्राप्तिद्वारा मोक्षः फलमिति तत्रैवोक्तम् । तदेव फलमिह साक्षादनेन श्लोकेनोक्तम् । किमिति ? त्यागात्सत्त्वसमावेशः, सत्त्वसमावेशादात्मज्ञान; तस्माच्च संशयनिरासः, ततो नित्यकाम्यकर्मप्रीति द्वेषाभावपूर्वक (त्मज्ञाननिष्ठेति । एवं कर्मयोगिनः क्रमेण ज्ञाननिष्ठाप्राप्तौ सत्यां ज्ञाननिष्ठस्य यत्फलं पूर्वमुक्तं गुणातीतत्वं विदेहकैवल्यं च तदुभयमस्य भवतीति कर्मयोगिनः फलं ज्ञाननिष्ठा प्राप्तिद्वारा मोक्ष एवेति कृत्वा ज्ञाननिष्ठैव कर्मयोगस्य फलं तचेह प्रतिपादितमिति भावः ॥ १० ॥ ૩૮ अष्टादशोऽध्यायः । २९७ यः पुनरधिकृत सन् देहात्माभिमानित्वेन देहभृदशो ऽवाधितात्मकर्तत्वविज्ञानतया ‘अहं कर्ता’ इति निश्चितबुद्धिस्तस्याशेषकर्मपरित्यागस्याशक्यत्वात्कर्मफलत्यागेन चोदितकर्मा- नुष्ठान एवाधिकारः, न तत्याग इत्येतमर्थ दर्शयितुमाह-

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ ११ ॥ नहीति । नहि यस्माद्देहभृता- देहं विभर्तीति देहभृत्, देहात्माभिमानवान्देहभृदि- त्युच्यते, न विवेकी । सहि - ‘वेदाविनाशिन’ मित्यादिना कर्तृत्वाधिकारान्निवर्तितः । अतस्तेन देहभृताऽज्ञेन न शक्यं त्यक्तुं सन्न्यसितुं कर्माण्यशेषतो निश्शेषेण । तस्माद्य- न हीति । हि देहभृताऽशेषतः कर्माणि त्यक्तुं न शक्यं, यस्तु कर्मफलत्यागी सत्यागी - त्यभिधीयते शिष्टैः । अत्राघितमात्मकर्तृत्वविज्ञानमहं कर्तेत्येवंरूपं ज्ञानं यस्य तत्तया हेतुना । तस्येति । कर्मण्यधिकृतस्य कर्त्वात्मदर्शिनोऽज्ञस्येत्यर्थः । कर्मफलत्यागेनेति । कर्मफलत्यागपूर्वकमित्यर्थः । चोदितकर्मानुष्ठान एवेति । विहितकर्मानुष्ठान इत्यर्थः । तत्याग इति । कर्मत्याग इत्यर्थः । देहभृदिति । न हि दण्डमिवात्मा देहं बिभर्ति येन देहभृदित्युच्येत, नापि पय इव घट आत्मा देई बिभर्ति । किंतु ममायं देह इति मनुष्योऽहमिति चाहं ममाभिमानपूर्वकं देहं बिभर्त्यांत्मा । यदा पुनरात्मनश्शरीरेऽहं ममाभिमानाभावः, तदा सुषुप्तौ शरीरं हि निश्चेष्टतया वर्ततेऽत आह— देहा- त्माभिमानवान् देहभृदित्युच्यत इति । कः पुनर्नोच्यते देहभृदित्यत आह-न विवेकीति । नन्विह देहभृच्छब्देन विवेक्य- प्युच्यतामत आह- स हीति, अत इति । विवेकिनः कर्माधिकाराभावादित्यर्थः । तेनेति अविवेकिनेत्यर्थः । शक्यमिति नेत्यस्यात्त्रान्वयान्न शक्यमित्यर्थः । विवेकिना तु त्यक्तुं शवयमेव । देहयात्रामात्रफलक भिक्षाटनादिकर्मणामपि गुणकृतत्वानुसन्धानेन त्यागोपपत्तेः । न यज्ञ द्रव प्राज्ञोऽ- प्यहं करोमीति मन्यते - अकर्त्रभोक्त्र विक्रियब्रह्माभिन्नात्मदर्शित्वं हि प्राज्ञत्वं । कथमकर्तारमात्मानं पश्य- विद्वान् कर्ताहमिति मन्येत ! यस्तु तथा मन्यते स नैव तत्त्ववित् । किंतु भ्रान्त एव रज्जुसर्पवत् । तस्माद्विवेकिना कर्म कर्तुमेव न शक्यते नतु त्यक्तुम् । कर्मकरणस्य देहादिष्वनात्मस्वात्माध्यास एव हि हेतुः । सुषुप्तावध्यासाभावेन कर्माभावदर्शनात् । स चाध्यासो विवेकिनः कथं जीवनादि - प्रवृत्तिरिति शङ्कायामुक्तं व्यासेनैव भागवते - ‘देहोऽपि दैववशगः खलु कर्म यावत्स्वारम्भकं प्रति- समीक्षित एव सासु’रिति । इहाप्युक्तं- ‘स्वभावस्तु प्रवर्तत’ इति । तस्माद्देहाद्याकारपरिणतगुणा एव कर्मसु प्रवर्तन्ते तत्तादात्म्याभ्यासेन चाविवेकिनः, नतु विवेकिनः । तस्यात्मत्वादात्मनश्चाकर्तृत्वादिति विवेकिनः कर्मकरणमेवासम्भवि, नतु निश्शेषतः कर्मत्यागः । देहादिभ्यो विलक्षणश्विन्मात्रोऽहं सदाशिव इति ज्ञानेन सर्वकर्म त्यागस्य सुकरत्वादेहादिगत कर्मणा सम्बन्धाभावाचात्मनो मेघग जले- नेव गगनस्य । २९८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु स्त्वज्ञोऽधिकृतो नित्यानि कर्माणि कुर्वन् कर्मफलत्यागी कर्मफलाभिसन्धिमात्रसन्न्यासी स त्यागीत्यभिधीयते, कर्म्यपि सन्निति स्तुत्यभिप्रायेण । तस्मात्परमार्थदर्शित्वेनैवाऽदेहभृता देहात्मभावरहितेनैवाशेषकर्म सन्न्यास शक्यते कर्तुम् ॥ ११ ॥ किं पुनस्तत्प्रयोजनं यत्सर्वकर्मसन्न्यासात्स्यादित्युच्यते- अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां कचित् ॥१२॥ अनिष्टमिति । अनिष्टं नरकतिर्यगादिलक्षणं, इष्ट देवादिलक्षणं, मिश्रमिष्टानिष्टसंयुक्तं मनुष्यलक्षणं च तत्त्रिविधं विप्रकारं कर्मणो धर्माधर्मलक्षणस्य फलं बाह्यानेककारकव्यापार- अतस्सर्व कर्म समूलं त्यक्तुं शक्यमेव विवेकिन इत्यविवेवयेवाल देहभृच्छब्देन प्रायः तस्यैव देहादितादाम्याध्यासवतः कर्मत्यागासम्भवात् । नहि पक्ष्मादिषुन्मेषनिमेषादिक्रियासु प्रवृतेषु सत्सु तत्तादात्म्याध्यासवानज्ञः कर्मत्यागं कर्तुं क्षमते । किं त्वहमेवोन्मिषामि निमिषामि चेति कर्मैव कुर्व- न्निव वर्तते । उक्तं हि पञ्चमाध्याये ‘नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् पश्यन्शृण्वन् स्पृशन् जिघून्नश्नन्गच्छन्स्वपन्श्वसन् । प्रलपन् विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ॥ इन्द्रियाणीन्द्रियार्थेषु बर्तन्त इति धारयन्निति । तथा ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यत’ इति च । तस्मादविवेकिन एव कर्मत्यागासम्भवः । नतु विवेकिन इति स्थितम् । 1 1 कर्मफलाभिसन्धिमात्रसन्न्यासीति । कर्मफलाभिसन्धिमात्रमेव सम्न्यसितुं त्यक्तुं शील- मस्यास्तीति तथोक्तः । नतु कर्मसन्यासीति मात्रपदार्थः । ननु यः कर्म न त्यक्तवान् फलमेव त्यक्तवान् कथं स त्यागीत्युच्यतेऽत आह- स्तुत्यभिप्रायेणेति । फलाभिसन्धिमात्र त्यागिनस्सन्न्या- सित्वं स्तुतिसिद्धम् । ज्ञानपूर्वक सर्व कर्म सम्न्यासिनरसन्यासित्वं तु पारमार्थिकं (मुख्य) मोहपूर्वक कर्म - सन्न्यासिनो दुःखादिपूर्वक कर्म सन्न्यासिनश्च सन्न्यासित्वं निन्द्यमिति भावः । कर्म्यपीत्यपिशब्दात्कर्मा- परित्यागरूपसन्न्यासविरुद्धांशसत्त्वेऽपीति गम्यते । अत एव तस्य सन्न्यासित्वममुख्यम् । तस्मादिति । अविवेकिना देहभृता सर्वकर्मत्यागस्य कर्तुमशक्यत्वादित्यर्थः । अदेहभृतैव कर्मसन्न्यासः कर्तुं शक्यते । तत्र हेतुमाह — परमार्थदर्शित्वेनेति । अकर्तात्मज्ञानेनेत्यर्थः । अदेहभृतेतिपदं स्वयमेव व्याख्याति - देहात्मभावरहितेनेति । देहात्माभिमानवान्हि देहभृदि- युच्यते ॥११॥ अनिष्टमिति । अत्यागिनां प्रेत्य अनिष्टमिष्टं मिश्रं चेति त्रिविधं कर्मणः फलं भवति । सन्न्यासिनां तु क्वचिदपि तन्न भवति । यज्ञादिलक्षणं नित्यनैमित्तिक काम्यभेदभिन्नं धर्मास्य कर्म यच्छास्त्रेण विहितं तस्य फलमिष्टं, यत्पुनहिंसादिलक्षणं शास्त्रेण प्रतिषिद्धं कर्माधर्माख्यं तस्य फलमनिष्टं, यत्कर्म धर्माधर्मोभयात्मकं तस्य फलं मिश्रम् । क्रियत इति कर्म । फलशब्दव्युत्पत्तिं दर्शयति - फल- अष्टादशोऽध्यायः । २९९ निष्पन्नं सदविद्याकृतमिन्द्रजालमा योपमं महामोहकरं प्रत्यगात्मोपसपत्र फल्गुतया लय- मदर्शनं गच्छतीति फलमिति फलनिर्वचनम् । तदेतदेवलक्षणं फलं भवति - अत्यागिना मज्ञानां कर्मिणामपरमार्थसन्न्यासिनां प्रेत्य शरीरपातादृर्ध्वं न तु सन्न्यासिनां परमार्थ- सन्न्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित् । न हि केवलसम्यग्दर्शन- निष्ठा अविद्यादिसंसारबीजं नोन्मूलयति कदाचिदित्यर्थः । अत एव परमार्थदर्शिन एवाशेष- मित्यादिना । फल्गुतया लीयत इति फलम् । पृषोदरादित्वात्साधुः । फल्गुना तुच्छत्वं मिथ्यात्व- मिति यावत् । कुतः फल्गुत्वमत आह- अविद्याकृतमिति । अविद्या हि मिथ्याभूतमज्ञानं तत्का- यत्वात्फलमपि मिथ्याभूतमेवेत्यर्थः । किमिव तुच्छमत आह— इन्द्रजालमायोपममिति । इन्द्र- जाल|ख्यमायाकृतगन्धर्वनगरादितुल्यमित्यर्थः । कुतोऽस्मिन् तुच्छे फले विदुषामप्यासक्तिरत आह- महामोहकरमिति ।

नन्वसमस्यात्मनः फलेन सह सङ्गाभावात्कथमस्मिन् मोहोत माह — प्रत्यगात्मोपसर्पी- वेति । प्रत्यगात्मानमुपसर्पति सम्बन्नातीति प्रत्यगात्मोपसर्पि । तदिव भासमानमिति शेषः । आत्मसङ्गीव भातीत्यर्थः । कथमस्य फलस्य निष्पत्तिरत आह— बाह्येति । बाबानामनेकानां कारकाणां व्यापारैः क्रियाभिर्निष्पन्नं निर्वृत्तमत एव नेदं प्रत्यगात्मोपसर्पि । वस्तुत इति भावः । एवं तुच्छत्वादेवास्य लय- स्सर्पाभासादिवदित्याह — फल्गुतयेति । हेतौ तृतीया । लयशब्दार्थमाह- अदर्शनमिति । नीश- मिति यावत् । गच्छति प्राप्नोति । लीयत इत्यस्यार्थकथनमिदं लयं गच्छतीति । फलनिर्वचन फलशब्दनिरुक्तिः । नचैवं मोक्षः फलं नैव भवतीति वाच्यं इष्टत्वात् । नहि वयं मोक्षं ब्रह्मभाव- लक्षणं फलं ब्रूमः, किंतु नित्यसिद्ध एव स इति ब्रूमः । फलवत्प्राप्त इव भातीति फलत्वं मोक्षस्य । नतु वस्तुतः फलत्वम् । अत एव मोक्षस्य नित्यत्वव्यवहारस्सङ्गच्छते । नचैवं सगुणमुक्तिक्षेत्रस्य हिरण्यगर्भलोकस्य कथं फलत्वमिति वाच्यं तस्यापि मायामयत्वेन तुच्छत्वात्फलत्वमिति । तद्धि नित्यकर्मणः फलं- ‘प्राजापत्यं गृहस्थाना’ मिति शास्त्रात् । यद्वा सगुणोपासनस्य फलम् । उपासनं हि क्रियेति । कर्मणः फलमिष्टमेव सगुणमुक्तिक्षेत्रम् । अत्यागिनामिति । कर्मफलत्यागिनामिति भ्रम- व्युदासायाह — अपरमार्थसन्न्यासिनामिति । स्वर्गादि लक्षण कर्मफलमात्रत्यागिना मिहजन्मनि ज्ञान- निष्ठाया अप्राप्तौ जन्मान्तरस्यावश्यंभावितया स्यादेवेष्टं मिश्रं वा कर्मफलमिति भावः । नहि फलत्याग- मात्रान्मुक्तिः । नच ‘त्यागाच्छान्तिरनन्तर’ मित्युक्तमिति वाच्यं, स्तुतिपरत्वात्तस्य ।

कदा भवति कर्मिणां कर्मफलमत आह- प्रेत्येति । शरीरं विहायेत्यर्थः । फलितमाह- शरीरपातादूर्ध्वमिति । प्रकृतदेहत्यागानन्तरमित्यर्थः । कुतो न सन्यासिनां कर्मफलमित्यत आह- नहीति । आदिपदाद्रागादिग्रहणम् । कदाचिदपि न नोन्मूलयन्ति हि, किंतु सर्वदाप्यवश्यमुन्मूल- यन्त्येवेत्यर्थः । सम्भाव्य निषेधनिवर्तने द्वौ नञौ । हिः प्रसिद्धौ । हि यस्मान्न नोन्मूलयन्ति तस्मान्न कर्मफलमिति वा । उन्मूलय् न्ति समूल नाशयन्ति । अत एवेति । विद्यया साङ्ख्यैर विद्यादिसंसार- ३०० श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपैतासु कर्मसन्न्यासित्वं सम्भवति, अविद्याध्यारोपित्वादात्मनि क्रियाकारकफलानां न त्वज्ञ- स्याधिष्ठानादीति क्रियाकर्तृकार काण्यात्मत्वेन पश्यतोऽशेषकर्मसन्न्यासस्सम्भवति ॥ १२ ॥ तदेतदुत्तरैश्श्लोकैर्दर्शयति- पञ्चैतानि महाबाहो ! कारणानि निबोध मे । साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥१३॥ पञ्चेति । पञ्चैतानि वक्ष्यमाणानि हे महाबाहो ! कारणानि निर्वर्तकानि निबोध, मे ममेत्युत्तरत्र चेतस्समाधानार्थ, वस्तुवैषम्यप्रदर्शनार्थ च । तानि च कारणानि ज्ञातव्य- तया स्तौति — साङ्ख्ये ज्ञातव्याः पदार्थास्सङ्ख्यायन्ते यस्मिन् शास्त्रे तत्साङ्ख्यं वेदान्तः कृतान्त इति तस्यैव विशेषणम् । कृतमिति कर्मोच्यते तस्यान्तः परिसमाप्तिर्यत्र स कृतान्तः कर्मान्त इत्येतत् । ’ यावानर्थ उदपाने, सर्व कर्माखिलं पार्थ ! ज्ञाने परिसमाप्यत’ इत्यात्म- ज्ञाने संजाते सर्वकर्मणां निवृत्ति दर्शयति । अतस्तस्मिन्नात्मज्ञानार्थे साङ्ख्ये कृतान्ते वेदान्ते बीजस्योन्मूलितत्वादेवेत्यर्थः । परमार्थदर्शिन एवेत्येवकारार्थमाह-न त्वज्ञस्येति । कस्मादज्ञस्य कर्मसन्न्यासो न सम्भवतीत्यत आह- अधिष्ठानादीति । अघिष्ठानमादिर्येषां तान्यधिष्ठानादीनि तानि च तानि क्रियाकर्तृकारकाणि च अधिष्ठानादिक्रियाकर्तृकारकाणि, अधिष्ठानं तथा कर्तेति श्लोकों- क्तानि क्रियाकर्तृकारकाणीत्यर्थः । यद्यपि कर्तृकारकाणामहङ्कार मन इन्द्रियशरीराणामात्मत्वेन दर्शन सम्भवति । महं करोमि, स्पृशामि, जिघ्रामि, गच्छामि, स्थूलोऽहं कृशोऽहमित्यादिव्यवहारात् । क्रियाया आत्मत्वेन दर्शनं तु न सम्भवति । अहं गमनमित्यादिव्यवहाराभावात् । तथाप्यात्मीयत्वेन क्रियाया दर्शनसम्भवादुक्तं क्रियाकर्तृकारकाणीति । क्रियामात्मीयत्वेन कर्तृकारकाण्यात्मत्वेन च पश्यत इत्यर्थः । अशेषकर्मसन्न्यासो न सम्भवतीत्यन्वयः । तदेतदिति । अज्ञस्य कर्मसन्न्यासासम्भवं, प्राज्ञस्य तत्सम्भवं चेत्यर्थः ॥१२॥ पञ्चेति । हे महाबाहो ! सर्वकर्मणां सिद्धये कारणानि कृतान्ते साङ्ख्ये प्रोक्तान्येतानि पश्च कारणानि मे वाक्यान्निबोध । साङ्ख्यशब्दार्थमाह - ज्ञातव्या इति । - ज्ञातव्याः पदार्थाः प्रकृतिमह- दहङ्कारादयो यस्मिन्सङ्ख्यायन्ते गण्यन्ते तच्छास्त्रं साङ्ख्यमित्युच्यते । कापिलसाङ्ख्यनिरासाबाह- वेदान्त इति । वेदान्तशास्त्रमित्यर्थः । उत्तरमीमांसेति यावत् । कथं कृतस्य साङ्ख्ये परिसमाप्तिरत आह— यावानिति । साङ्ख्यशास्त्रकात्मज्ञाने सर्वकर्मसमाप्तिसद्भावाच्छास्त्रमपि कृतान्तमित्युच्यत इत्यर्थः । कर्मसमाप्तिमद्ज्ञानप्रतिपादकत्वात्साङ्ख्यशास्त्रस्य कृतान्तत्वमौपचारिकमिति भावः । कृतस्यान्तस्समाप्तिर्ज्ञाने भवतीत्ययमर्थो यत्र प्रतिपाद्यते तत्कृतान्तमित्युच्यते । ज्ञाने कर्मणः परिसमाप्ति प्रतिपादयतीति साङ्ख्यशास्त्रं कृतान्तमित्युच्यत इति भावः । अत इति । ज्ञाने कर्म- समाप्तिप्रतिपादकत्वादित्यर्थः । तस्मिन् कृतान्ते साधे वेदान्ते । साङ्ख्यस्य फलितार्थमाह- अष्टादशोऽध्यायः । प्रोक्तानि कथितानि सिद्धये निष्पत्यर्थ सर्वकर्मणाम् ॥ १३ ॥ कानि तानीत्युच्यते- अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । I विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥१४॥ २०१ अधिष्ठानमिति । अधिष्ठान मिच्छाद्वेष सुखदुःखज्ञानादीनामभिव्यक्तेराश्रयोऽधिष्ठानं शरीरम् । तथा कर्ता उपाधिलक्षणो भोक्ता, करणं च श्रोत्रादिशब्दाद्युपलब्धये पृथग्विध नानाप्रकारं तद्वादशसङ्ख्य, विविधा च पृथक्चेष्टा वायवीया प्राणापानाद्या, दैवं चैव दैवमेव चालतेषु चतुर्षु पञ्चमं पञ्चानां पूरणमादित्यादिचक्षुराद्यनुग्राहकम् ॥१४॥ आत्मज्ञानार्थ इति । साङ्खयमात्मज्ञानं तत्प्रतिपादकत्वाच्छास्त्रमपि साङ्ख्यमित्युच्यत इत्यर्थः । आत्म- ज्ञानमेवार्थः फलमभिधेयो वा यस्य तदात्मज्ञानार्थं तस्मिन् । सिद्धय इति तादर्थे चतुर्थीत्याह– निष्पत्त्यर्थमिति । सर्वकर्मणां निष्पत्तौ हेतुभूतानि साङ्ख्यशास्त्र सिद्धानि पञ्च कारणानि सन्ति; तान्यहं वक्ष्यामि त्वं सावधानो भवेत्यर्थः । यत्तु रामानुजः - सङ्ख्या बुद्धिस्तयानु संहितस्साङ्ख्यः कृतान्तो निर्णय इति, तदसत् - साङ्ख्यशब्देनैव वैदिकबुद्धयनुसं हि तवेदान्तशास्त्रसिद्धान्तरूपार्थस्य सिद्धत्वेन कृतान्तशब्दवैयर्थ्यप्रसङ्गात् । ‘ज्ञानयोगेन साङ्खयाना’ मिति वेदान्तशास्त्रस्य साङ्ख्यत्वप्रसिद्धेश्व । सेश्वरसाङ्ख्यं हि वेदान्तशास्त्रम् । तन्निष्ठत्वाश्च ज्ञानिनस्साङ्ख्या इत्युच्यन्ते । नच वेदान्तेष्वपि कर्मान्वयस्य स्थापितत्वान्नास्ति कृतान्तत्वं वेदान्तशास्त्रस्येति वाच्यं, वेदान्तेषु कर्मान्वयस्याज्ञपरत्वेनैव स्थापितत्वात् । नहि परमार्थसम्न्यासिनां साङ्ख्यानां कोऽपि कर्मान्त्रयः । ’ सर्वारम्भपरित्यागी’ त्यादेरुक्तत्वादिहैव । ’ तत्र केन कं पश्ये ‘दि- त्यादिश्रुतेश्च । न चान्तशब्दस्य निर्णये रुढिरिति वाच्यं, ‘मृताववसिते रम्ये समाप्तावन्त इष्यत’ इति समाप्तावप्यन्तशब्दस्य रूढत्वात् । तस्मान्नात्र कृतान्तशब्दस्य निर्णयार्थ वर्णनद्वारा वैयर्थ्यापादनं न्याय्यम् ॥१३॥ अधिष्ठानमिति । अघिष्ठानमाश्रयः । कस्याश्रयोऽत आह—- इच्छेति । प्राणिना- मिच्छादयो हि शरीरेऽभिव्यज्यन्ते भोगायतनत्वाच्छरीरस्य । सुषुप्तिमृतिमूर्छा शरीररहितस्य जीवस्य सुखदुःखादिसम्भोगादर्शनात् । तस्मादिच्छाद्यभिव्यक्ति रूपसंसाराश्रयत्वादविष्ठांनं शरीरम् । उपाधि- लक्षण इति । अन्तःकरणस्वरूपः । अहंवृत्तिरिदंवृत्तिरित्यन्तःकरणं द्विघा तत्राहंवृत्तिर्विज्ञानमयो भोक्ता । इदंवृतिस्तु मनः करणमिति विवेकः । तस्मादहङ्कारः कर्ता । तेन हि चिदाभाससंयुक्तन देह। दितादात्म्याध्यासात्कर्माणि क्रियन्ते तत्फलानि भुज्यन्ते चेति कर्ता भोक्ता च सः । तचादा- त्यांध्यासात्तु प्रत्यगात्मनः कर्तृत्वभोवतृत्वापत्तिः । शब्दाद्युपलब्धिश्शब्दस्पर्शरूपाद्यनुभवः । द्वादश- सङ्खधमिति । दशेन्द्रियाणि मनोबुद्धिश्चेति । विविधा बहुविधा, पृथ्गसङ्कीर्णा, चेष्टा व्यापारः । कस्य चेष्टेत्यत आह- वायवीयेति । वायोः प्राणवायोरियं वायवीया । का सा चेष्टेत्यत ફ્。ર્ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतान शरीरखामनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥ शरीरेति । शरीरखाङ्मनोभिर्यत्कर्म त्रिभिरेतैः प्रारभते निर्वर्तयति नरः, न्याय्यं वा धर्म्य शास्त्रीयं, विपरीतं वाऽधर्म्य मशास्त्रीयं यच्चापि निमेषादिकं चेष्टितादिजीवनहेतुः तदपि पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्य विपरीतयोरेव ग्रहणेन गृहीतम् । पञ्चैते यथोक्ता- स्वस्य सर्वस्यैव कर्मणो हेतवः कारणानि । नन्वेतान्यधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानि । कथमुच्यते- ‘शरीरवाड्मनोभि- आह— प्रणापानाद्येति । प्राणः प्राणनमपानो विसर्जनमा दिपदादुदानादिवायुचेष्टा गिलनादयो प्रायाः । अनेन च चेष्टापदेन तदाश्रयः प्राणवायुर्ब्राद्यः । यद्वा चेष्टघतेऽनयेति चेष्टा वायोर्भूतस्येमा वायवीया वायुविकाराः प्राणापानाद्याः प्राणापानादिवायवो विविधा च पृथक्वेष्टेत्यनेनोच्यन्त इत्यर्थः । अन्नमयोऽधिष्ठानं प्राणमयश्चष्टा मनोमयः करणं विज्ञानमयः कर्तेति बोध्यम् । दैवमादित्यादि । आदिपदाद्दिग्वातप्रचेतोऽश्विवहीन्द्रोपेन्द्रमित्रादिग्रहणम् । चक्षुरादीत्यादिपदाच्च श्रोत्रादिग्रहणम् । आदित्यादिदेवतानुग्रहादेव चक्षुरादयस्स्वस्वकार्ये निर्वर्तयन्तीत्यनुग्राहकत्वं चक्षुरादीनां देवस्य । दैवमन्तर्यामीश्वर इति रामानुजः, तदसत् - अविक्रियप्रत्यगात्मस्वरूपत्वादन्तर्यामिणः । ‘निष्कलं निष्क्रियं शान्त’ मिति हि श्रूयते । नच प्रेरणरूपा क्रियास्तीश्वरस्येति वाच्यं, त्वमिदं कुर्वितीश्वरेणान्तरेण प्रेर्यमाणस्य यस्य कस्याप्यदर्शनात् । अयस्कान्तलोहदृष्टान्तेनाविक्रियादेवेश्वरा- न्ममष्यादिप्रेरणसम्भवात् । अविक्रियस्यैव निधेः पुरुषप्रेरणसम्भवाच । नहि निधिः पुरुषं त्वं मदर्थे भूखननादिकं कुर्विति प्रेरयन् दृष्टः । तथापि निधिप्रेरित एव भूखननादौ प्रवर्तते पुरुषः । निष्यर्थं तस्य तत्र प्रवृत्तत्वात् । तस्मादविक्रियस्येश्वरस्य नात्र कर्महेतुत्वेन ग्रहणमुचितम् ॥ १४ ॥ शरीरेति । नरश्शरीरवाङ्मनोभिर्न्याय्य वा विपरीतं वा यत्कर्म प्रारभते तस्यैते पञ्च हेतवो भवन्ति । यत्कर्मेति । शारीरं वाचिकं मानसिकं वेत्यर्थः । ननु न्याय्यविपरीताभ्यां धर्माधर्माभ्या- मन्यस्य निमेषादिकर्मणः का गतिरत आह- यच्चापीति । यच निमेषादिकं यच जीवन हेतु श्वष्टि- सादिकं कृष्यादिव्यापारात्मकं तदपि न्याय्यविपरीत शब्दाभ्यामेव गृह्यते । धर्माधर्म कार्यत्वात्तस्येत्यर्थः । जन्मान्तरकृतपापवशेन निमेषादिचेष्टाप्रतिबन्धसम्भवादन्वादीनां तचेष्टा जन्मान्तरकृतधर्म कार्य- भूता एवेति निश्चेतुं शक्यते । तथा पापवशात्कष्टजीदित्वस्य पुण्यवशात्सुखजीवित्वस्य च कृषी- वलादिषु राजादिषु च दर्शनाज्जीवनहेतुकर्मविशेषोऽपि पुण्यपापप्रयुक्त एवेति भावः । ननु शरीरवामनोभिर्यत्कर्म क्रियते शारीरं वाचिक मानसिकं वा तस्य कर्मणश्शरीरखामनांसि श्रीव्येव हेतवो नतु पश्चाधिष्ठानादीनि पूर्वोक्तानि देव इति कृत्वा कथमुक्तं ‘पश्चैते तस्य हेतव ’ इति चेन्मैवम् — नरस्य कर्तश्चतुर्थस्योतत्वाद्देवस्य पञ्चमस्य गम्यमानत्वाच्चेति । नन्विति । एता-

अष्टादशोऽध्यायः । ३०३ यत्कर्म प्रारभत’ इति ? नैष दोषः - विधिप्रतिषेधलक्षणं सर्वं कर्म शरीरादित्रयप्रधानं तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधैव राशीकृतमुच्यते शरीरादिभिरधिष्ठानादिभि- रारभ्यत इति । फलकालेऽपि तत्प्रधानस्साधनैर्भुज्यत इति पञ्चानामेव हेतुत्वं न विरु ध्यत इति ॥ १५ ॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ १६ ॥ तत्रेति । तत्रेति प्रकृतेन सम्बध्यते । एवंसति एवं यथोक्तैः पञ्चभिर्हेतुभिर्निर्वत्यै सति कर्मणि । तत्रैवंसतीति दुर्मतित्वस्य हेतुत्वेन सम्बध्यते । तत्र तेष्वात्मनोऽनन्यतमत्वे- न्यधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानीति पूर्वमुक्त्वा कथमिह शरीरखामनोभिर्यत्कर्म प्रारभत इत्युच्यत इति पूर्वपक्ष: । परिहति – नैष दोष इति । मघिष्ठनादिपश्च कहे तुकमपि विभिप्रतिषेघलक्षणं तदङ्ग- भूतदर्शनश्रवणादिरूपं जीवनलक्षणं च सर्वमपि कर्म शरीरादित्रयप्रधानं, ततश्च त्रिधैव राशीकृतं सच्छरी- रादिभिरारभ्यत इत्युच्यते । यच्छारीरं कर्म गमनादिकं तदधिष्ठानादिपश्ञ्चकनिर्वर्त्यमपि शरीरप्रधानतया शरीरेणारभ्यत इत्युच्यते । तथा वाचिकं भाषणादिकं यत्तदप्यधिष्ठानादिपश्च कनिर्वर्त्यमेव । तथापि वाक्प्रधानतया वाचाऽऽरभ्यत इत्युच्यते, तथा मानसिकं मननादिकर्म यत्तदधिष्ठानादिपञ्चक निर्वर्त्यमपि मनः प्रधानतया मनसाऽऽरभ्यत इत्युच्यते । एवं शारीरवाचिकमानसिक भेदात्त्रिविधमपि कर्म भविष्ठां- नादिपञ्चकनिर्वृत्तं भवतीति न कोऽपि दोष इत्यर्थः । न केवलं त्रिविधस्य कर्मणः करणकाल एव शरीरादित्रिक प्राधान्य, किंतु फलकालेऽपीत्याह – फलकालेऽपीति, तत्प्रधानैरिति । प्रधानैस्तैस्त्रिभि- रित्यर्थः । वागुपलक्षितैरिन्द्रियैश्शरीरेण मनसा च शब्दादिसुखादि विषयानुभवादिति मावः । तस्मा- च्छरीरादित्रयनिर्वश्र्यस्यापि कर्मणः पश्चापि पूर्वोक्ता हेतवो भवन्त्येवेत्याह— पञ्चानामिति । न विरुभ्यते विरुद्ध न भवति । अधिष्ठानादिपश्च कहे तुकमपि कर्म शरीरादिप्रधानतया शारीरादिभेदेन त्रिविधं भवतीति न कोऽपि विरोध इति भावः ॥ १५॥

" तवेति । एवं सति तत्र केवलमात्मानमकृतबुद्धित्वाद्यः कर्तारं पश्यति दुर्मतिस्स न पश्यति । कर्मणि निर्वर्थे सतीत्यन्वयः । दुर्मतित्वस्य हेतुत्वेनेति । आत्मनि कर्तृत्वदर्शनं दुर्मतित्वं- दुष्ट- बुद्धिर्हि कर्तर्यात्मनि कर्तृत्वदर्शनम् । एवंविधदर्शनस्य दुष्टत्वं प्रति हेतुस्तु अधिष्ठानादिपञ्च कस्य कर्तृत्वमेव । अधिष्ठानादिपञ्चकं क त्रित्यविद्वान्हि कर्ताहमिति पश्यति । तस्मादधिष्ठानादिपश्च के कर्तरि सति तत्तथाऽगृहीत्वा य आत्मानं कर्तारं पश्यति स दुर्मतिरेवेति दुर्मतित्वस्य हेतुभूतमेवं सतीति वाक्यम् । तत्रेति प्रकृतेन सम्बध्यत इत्युक्तं, तदेवाह - तेष्विति । प्रकृतेष्वधिष्ठानादिष्वित्यर्थः । मात्मनोऽनन्यतमत्वेनेति पदद्वयमध्याहर्तव्यं मूले इत्यभिप्रेत्य तथैवाध्याहृत्याह — आत्मन इति । ३०४ श्रीभगवद्गीतासु भाव्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतालु नाविद्यया परिकल्पितैः क्रियमाणस्य कर्मण: ‘अहमेव कर्तेति कर्तारमात्मानं केवलं शुद्धं तु यः पश्यत्यविद्वान् । कस्मात् ? वेदान्ताचार्योपदेशन्यायैरकृतबुद्धित्वादसंस्कृतबुद्धित्वात्, योऽपि देहादिव्यतिरिक्तात्मवादी आत्मानमेव केवलं कर्तारं पश्यति, असावप्यकृतबुद्धि- रेव । अतोऽकृतबुद्धित्वान्न स पश्यत्यात्मनस्तत्त्वं कर्मणो वेत्यर्थः । अतो दुर्मतिः कुत्सिता विपरीता दुष्टाऽजस्रं जननमरणप्रतिपत्तिहेतुभूता मतिरस्येति दुर्मतिः । स पश्यन्नपि न पश्यति यथा वैमिरिकोऽनेकं चन्द्रं, यथा वाभ्रेषु धावत्सु चन्द्रं धावन्तं यथा वा वाहने उपविष्टोऽन्येषु धावत्स्वात्मानं धावन्तम् ॥१६॥ +

कथमात्मानं कर्तारं पश्यतीत्यत आह- अहमेव कर्तेति । कस्य कर्तेत्यत आह- कर्मण इति । कीदृशस्य कर्मणोऽत आह अविद्ययाऽऽत्मत्वेन परिकल्पितैस्तैरधिष्ठानादिभिः पञ्चभिः क्रियमाण- स्येति । शुद्धमविक्रियमित्यर्थः । ततश्च कर्तृत्वविकारस्तत्प्रयुक्तभोक्तृत्वविकारश्च नात्मनस्सम्भवतीति भावः । कस्मादयमज्ञः केवलमात्मानं कर्तारं पश्यतीति पृच्छति - कस्मादिति । उत्तरयति— अकृतबुद्धित्वादिति । अनुताऽसंस्कृता बुद्धिर्यस्य तत्त्वात् । कैरसंस्कृतेत्यत आह-वेदान्तेति । वेदान्तशास्त्रमाचार्योपदेशो न्यायश्चेत्येतैस्त्रिभिः, नतु तर्कव्याकरणादिभिरिति भावः । ननु ये देहाद्यात्मवादिनो बौद्धादयस्ते आत्मानं कर्तारं पश्यन्तु नाम, कथं पुनरास्तिका वैदिकादयोऽत आह- योऽपीति । देहादिव्यतिरिक्तात्मवादी योऽप्यास्तिको वैदिकादिस्सोपि केवल- मात्मानं कर्तारं पश्यत्येव । तस्मादसावपि देहादिव्यतिरिक्तः कर्ताऽहमिति ज्ञानवानपीत्यर्थः अकृतबुद्धिरेवेति । देहादिविलक्षणा कर्त्रभोक्त्रात्मज्ञानाभावादिति भावः । किं न पश्यतीत्यत आह - आत्मनस्तत्त्वमिति । अर्थान्तरमाह - कर्मणो वेति । कर्मणस्वत्त्वं वेत्यर्थः । यद्वा वाशब्दस्समुच्चयार्थः । आत्मनः कर्मणश्च तत्त्वं न वेतीत्यर्थः । आत्मनस्तत्त्वमविक्रियत्वं कर्मणस्तत्त्वं त्वधिष्ठानादिपञ्चक निर्वत्र्यत्वमिति विवेकः । अत इति । अतत्त्ववित्त्वादित्यर्थः । दुष्टा मतिर्यस्य स दुर्मतिः । दुष्टशब्दार्थमाह- कुत्सितेति । फलितमाह - विपरीतेति । कुतोऽस्या मतेरहूँ कर्तेत्येवंरूपाया दुष्टत्वमत आह— अजस्रमिति । जननमरणप्रतिपत्तिस्संसारः । ननु पश्यन्नपि न पश्यतीति कथं विरुद्धमुच्यतेऽत आह-यथेति । तैमिरिकः तिमिरदोषदूषितनेत्र एकमेव चन्द्र- मनेकचन्द्रत्वेन यथा पश्यन्नपि न पश्यतीत्युच्यते तद्वत् । यद्वा अकर्तारमात्मानं कुतः कर्तारं पश्यती- त्यत आह— तैमिरिक इति । अविद्याह बुद्धिरयमकर्तारमव्यात्मानं कर्तारं पश्यति, यथा तैमिरिक एकमपि चन्द्रमनेकं पश्यति तद्वदित्यर्थः । ननु एकस्यैवात्मन अनेकत्वेन ग्रहणे भवतु स दृष्टान्तः; नस्विहेतिचेत्, मैवम् — यथावस्थि- तार्थस्यान्यथा ग्रहणांशे दृष्टान्तत्वात्तस्य । योग्यमेव दृष्टान्तान्तरमाह — यथा वेति । अत्रेषु घावत्सु सत्स्वधावन्तमपि चन्द्रं घावन्तं यथा पश्यति, तथाऽधिष्ठानादिषु कर्माणि कुर्वत्सु सत्स्वकुर्वाण- मप्यात्मानं कर्तारं पश्यतीति ।३९ अष्टादशोऽध्यायः । ३०५ ननु नायमपि दृष्टान्तस्समीचीनः परस्मिन् परकार्यदर्शनं दृष्टान्तार्थः, आत्मन्येव परकार्यदर्शनं दाष्टन्तिकार्थ इति भेदादिति चेन्नैवम् - अक्रिये सक्रियत्वदर्शनस्यैवेह साम्यत्वेन विवक्षितत्वात् । योग्यमेव दृष्टान्तान्तरमाह - यथेति । वाहने शिबिकादावुपविष्टः पुरुषोऽन्येषु शिविकावाहिषु घावत्सु सत्स्वात्मानमेव घावन्तं पश्यति । एवमन्येषु कुर्वत्सु सत्स्वात्मानमकर्तारमपि कर्तारं पश्यति । य एवं पश्यति स विपरीतबुद्धिरेव । यथावस्थितार्थादर्शनान्मिथ्यार्थदर्शनाच्चेति नास्य दुर्मतेस्सर्वकर्म- त्यागस्सम्भवति । ननु तत्रेति निर्धारणे सप्तमी । ततश्च तत्र तेषां मध्ये आत्मानं केवलमात्मानमेव यः कर्तारं पश्यति स दुर्मतिः । अधिष्ठानादिपञ्चकस्य कर्मनिर्वर्तकत्वेनात्मन एकस्यैव कर्तृत्वानुपपत्तेः । न चाधिष्ठानादिष्वात्माऽनुक्त इति वाच्यं कर्तेत्यनेनो कत्वात् । ’ कर्ता शास्त्रार्थवत्त्वादिति ह्यात्मनः कर्तृत्वं स्थापितं सूत्रकारैरिति द्वैतिनः पूर्वपक्षयन्ति । अत्रोच्यते - यदि कर्तेत्यनेन जीवात्मोच्यते तर्हि जीवात्मानं कर्तारं यः पश्यति स सुमति - रेवेति कथं दुर्मतित्वं तस्य ! न चात्मानमेकमेव यः कर्तारं पश्यति स दुर्मतिः; अधिष्ठानादिपञ्चक- स्यापि कर्तृत्वेन दर्शनीयत्वादिति वाच्यं, पूर्वे जीवस्यैव कर्तृत्वमुकं, न त्वधिष्ठानादेरिति । यद्यधिष्ठा- नादयः पञ्चापि कर्तारस्स्युस्तर्हि ‘अधिष्ठानं तथा कर्ता करणं’ चेति कर्तृशब्देन कथं जीवस्यैव ग्रहण स्यात् ? कथं वा सर्वसामान्येन कर्तृत्वेन तस्य निर्देशस्स्यात् ? अधिष्ठानं तथा जीवः करणं चेति हि नोक्तं व्यासेन । अधिष्ठानादयो हि कर्तुर्जीवस्य साहाय्यकारिण एव । यथा वास्यादयस्तक्षस्य । तस्मादात्मैक एव कर्तेति कर्ताहमिति यः पश्यति स सुमतिरेव । नचाधिष्ठानादिसहित एवात्मा कर्ता, नतु केवल इति कृत्वा केवलमात्मानं कर्तारं यः पश्यति स दुर्मतिरेवेति वाच्यं तथासत्य कर्तृत्वस्यैव प्राप्तत्वादात्मनः । नच शरीराधिष्ठातृत्वरूपं कर्तृत्वं स्वतोऽप्यस्तीति नाकर्ताऽऽत्मेति वाच्यं तथासति केवलमात्मानं यः कर्तारं पश्यति स सुमतिरेव । अधिष्ठानादिसाहाय्यकं विनापि कर्तृत्वस्य सत्वादात्मनः । नच शरीराधिष्ठानकर्तृत्वादात्मा कर्तेति निर्दिष्टः । गमनादिकं कर्म तु नात्मा केवलो निर्वर्तयितुमीष्टे अत उक्तं शारीरादिकर्मत्रये यः केवल- मात्मानं कर्तारं पश्यति स दुर्मतिरिति वाच्यम् । किमयं दुर्मतिः क्रियमाणं कर्म शारीरं वाचिक मानसिकं वेति वेद उत न ! माधे- शारीर- मिदं कर्म शरीरप्रधानमिति जानन् कथमात्मानं शरीरसहायरहितं केवलं कर्तारं पश्येत् ! एवं वाचिक मानसिकं चेन्द्रियप्रधानं मनः प्रधानमिति जानन् कथमात्मानमिन्द्रियमनस्सहायरहितं कर्तारं पश्येत् ! न कथमपि । द्वितीये- शरीरवाङ्मनांस्येवात्मत्वेन स वेदेति कथं शरीरादिविलक्षणे आत्मनि कर्तृत्वानु- सन्धानं तस्य ? तस्मादहं कर्तेति यः प्रत्येति स यदि बौद्धादिर्नास्तिकस्तर्हि देहादिसङ्घातात्माभिमानि त्वेन सङ्घातमेव कर्तारं पश्यति न केवलमात्मानम् । स यद्यास्ति कस्तर्हि देहादिविलक्षणमात्मानं कर्तारं जानत्रपि न केवलमात्मानं करिं जानाति किंतु मनइन्द्रियादेव मे । सब मन- ३०६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु इन्द्रियादीनि करणानि शरीरेण मनसा वाचा चेदं करोमीति मन्यते । तस्मान्न सिध्येदेव तव मते दुर्मतिः । य आत्मानं केवलं कर्तारं पश्यत्यतो व्यर्थ एव स्यात्सर्वोऽव्ययं श्लोकस्तव मते इत्यहो ! मूलच्छेदी तव पाण्डित्यप्रकर्षः !

यत्तु रामानुजः — एवं वस्तुतः परमात्मानुमतिपूर्वके जीवात्मनः कर्तृत्वे सति तत्र तत्र कर्मणि केवलमात्मानमेव यः कर्तारं पश्यति स दुर्मतिरिति तत्तुच्छम् — पूर्वोकार्थपरामर्शिना एवंशब्देन वस्तुत इत्याद्यर्थप्रतिपादनासम्भवात् । नहि सोऽर्थः पूर्वमुक्तः । नच ‘दैवं चैवात्र पञ्चम’ मित्यनेनोक्त इति वाच्यं, ‘पञ्चते तस्य हेतव’ इत्युक्तत्वादेवस्येश्वरस्य कर्तुर्जीवस्य च पञ्चकान्तःपातित्वेन कर्महेतु- त्वांशेऽविशेषात् । परमात्मानुमत्यापि जीवात्मन एकस्यैव कर्तृत्वेन तद्ज्ञानस्यादुष्टत्वाच्च । कथमन्यथा ‘अधिष्ठानं तथा कर्तेति कर्तृशब्देन जीवग्रहणं स्यात् ? नच केवलमात्मानं कर्तारं पश्यतीत्यस्य परमात्मानुमति विनापि जीवं कर्तारं पश्यतीत्यर्थ इति वाच्यं केवलशब्दादेतादृशार्थालाभात् । नच केवल प्रेरकेश्वररहितमर्थादीश्वर प्रेरणरहितमिति वाच्यं, ईश्वरप्रेरितोऽहमिदं करोमीति जानन्न पे तत्फल- मवश्यमनुभवेदेवेति किं फलं तद्ज्ञानस्य ! येन तद्ज्ञानरहितो दुर्मतिस्स्यात् । ईश्वरमभ्युपगच्छन्त- स्सर्वेऽप्यास्तिकाः स्वस्येश्वरप्रेरणं जानीयुरेवेति किं फलं तत्प्रतिपादनस्येह वेदान्तशास्त्र ? मोक्षाय हि वेदान्तशास्त्र प्रवर्तितमिदमीश्वरेण । नहि स्वस्येश्वरप्रेरणज्ञानात्कस्यापि मोक्षः, नापि वैदिकैर विदितोऽय- मर्थः । येनाज्ञातार्थज्ञापनं फलं स्यात् । नच नास्तिकस्य दुर्मतित्वमिहोच्यत इति वाच्यं नास्तिको हि देहाद्यतिरिक्तं कर्तारमात्मानं न वेत्ति । येनेह स निन्द्येत । किंच यः परमात्मानुमत्या कर्म करोतीत्युच्यते स जीवः किं वस्तुतः कर्ता उतोदासीनो ऽकर्ता ? आद्ये किं परानुमत्या तस्य ? द्वितीये- कथम कर्तुर्वस्तुतः कर्तृत्वम् ? नश्चचल आकाश ईश्वरानुमत्यापि चलति । नच वस्तुतः कर्ता सन्नपि जीवस्तत्तत्कर्मविशेषे ईश्वरप्रेरित - स्सन्नेव प्रवर्तते राजचोदितभृत्यवदिति वाच्यं तथासति परमात्मानुमतिपूर्वकं जीवात्मन: कर्तृत्वमिति वचनस्यायुक्तत्वात् । स्वाभाविकमेव हि जीवात्मनः तत्तत्कर्मकर्तृत्वमिति तद्वचनस्यार्थ इति वाच्यं धर्मा- धर्म संस्कारप्रयुक्तत्वात्तत्तत्कर्म कर्तृत्वस्य जीवात्मनः । नहि साक्षिभूतस्येश्वरस्यानुमतिरननुमतिर्वा कल्पयितुं शक्या । तथासति विकारित्वापत्तेः । साक्षित्वस्य निर्विकारत्वरूपत्वात् । हिंसादिकर्मसु प्रवर्तनोन्मु- खस्य जीवस्यानुमतिप्रदानेनेश्वरस्य नैर्घृण्यादिदोषप्रसङ्गाच्च । नच प्राचीनेषु कर्मसु जीवं तत्रत्र प्रेरयत्सु सत्सु ईश्वरोऽनुमन्यत इतीश्वरानुमत्यैव कर्मणां प्रेरकत्वमिति वाच्यं, ईश्वरानुमत्यभावे कर्मणामप्रेरकत्व- प्रसङ्गेन तत्तद्दुष्टकर्मप्रेरकत्वप्रसङ्गेन तत्तद्दुष्टकर्मप्रेरक स्वरूपनैर्घण्यस्य पुनरपीश्वरे प्रसङ्गात् । नच जडानां कर्मणां प्रेरकत्वासम्भवात्तत्तत्कर्मानुगुण्येनेश्वर एव प्रेरयतीति वाच्यं, जडाया अप्ययस्कान्त- शिलाया लोहप्रेरणदर्शनात् । ईश्वरस्यापि करणरहितस्य राजभृत्यादिवत्प्रेरणासम्भवाच्च । तस्मादीश्वरे साक्षिभूते सति तत्तत्कर्माण्येव तं तं तत्र तत्र प्रेरयन्ति । तच्च प्रेरणं साक्षिण्यारो- पितमज्ञानात देवारोपणमन्तर्यामिब्राह्मणेनाप्यनुवदितम् । कथमन्यथा निर्विकारस्येश्वरस्य साक्षिण : प्रेर- अष्टादशोऽध्यायः । कः पुनस्सुमतिर्यस्सम्यक्पश्यतीत्युच्यते- यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमान् लोकान हन्ति न निवध्यते ॥ १७॥ ३०७ यस्येति । यस्य शास्त्राचार्योपदेशन्याय संस्कृतात्मनो न भवति, अहंकृत: ‘अहं क’तें- त्येवंलक्षणो भावो भावनाप्रत्ययः, एत एव पञ्चाधिष्ठानादयोऽविद्ययाऽऽत्मनि कल्पिता - स्सर्वकर्मणां कर्तारो नाहमहं तु तद्व्यापाराणां साक्षिभूतः ‘अप्राणो ह्यमनाश्शुभ्र यक्षरा- कत्वरूपो विकारस्स्यात् ? एवं सति योऽहं कर्तेति मन्यते स दुर्मतिः । यः पुनरीश्वरप्रेरितोऽहं कर्तेति मन्यते सोऽतीव दुर्मतिरिति सिद्धम् । ईश्वरेपि प्रेरकत्व विकारस्यानेनारोपितत्वात् । अतः कथमुच्यते ! य ईश्वरानुमत्याऽऽत्मानं कर्तारं पश्यति स पश्यतीति । तस्माच्छङ्करभगवत्पादोक्तार्थ एवानवद्यः । ननु मात्मनोऽनन्यसमत्वेनेति मूलाद्बहिः पदकल्पनं तन्मतेप्ययुक्तमेवेति वाच्यं, शास्त्राद्यवि - रोधेन तत्कल्पनस्य युक्तत्वात् । यद्वा तत्रैवसतीति मूलान्वयः । तत्र प्रकृते अधिष्ठानादिपञ्चके एवं सति पूर्वोक्तविधया सर्वकर्मकारणे सतीति । अथवा तत्र प्रकृते शारीरादिभेदभिन्ने सर्वस्मिन् कर्मण्येवं सति यथोक्तैः पञ्चभिर्हेतुभिर्निर्वर्त्यं सतीत्यर्थः । आत्मकर्तृत्वदर्शनस्य दुष्टत्वे हेतुकथनं तेष्वात्मनोऽनन्य- तमत्वेनेति । यद्यधिष्ठानादिष्वन्यतमस्स्यादात्मा तर्हि तस्य कर्तृत्वदर्शनं युक्तमेव स्यान्नतु तथास्ति । अधिष्ठानादिष्वन्यतमत्वेनात्मा हि न निर्दिष्टः । अत एवात्मा केवलश्शुद्धः । नच कर्तेत्यनेनात्मा तेषु निर्दिष्ट इति वाच्यं, विज्ञानमयकोशस्योपा घिलक्षणस्य तत्र कर्तृत्वेन निर्देशात् । नच ‘द शास्त्रार्थ- वत्त्वा’ दित्यधिकरणविरोधः । अहङ्कारतादात्म्याभ्यासेन कर्तेति निर्दिष्टत्वात्तत्र । कथमन्यथा ‘साक्षी ‘वेता केवलो निर्गुणश्च’, निष्कलं निष्क्रियं शान्तम्’, ‘अविकार्योऽयमुच्यत’ इत्यादिश्रुतिस्मृतिविरुद्ध- मुच्येतात्मनः कर्तृखं परानुमतिपूर्वकं कर्मचोदनपूर्वकं वेति संक्षेपः ॥ १६ ॥ यस्येति । यस्याहंकृतो भावो नास्ति, यस्य बुद्धिर्न लिप्यते स इमान्दत्वापि न हन्ति न निबध्यते । भईंकृतभावाभावे हेतुप्रदर्शनाय यस्येत्येतद्विशिनष्टि — शास्त्रेति । अकृतबुद्धिर्दुर्मतिरिति पूर्वमुक्तत्वात्कृत बुद्धिस्सुमतिर्यच्छन्दार्थ इति भावः । प्रत्ययो ज्ञानं न भवति । अहं कर्तेति यो न प्रत्येतीत्यर्थः । तर्हि कः प्रत्ययस्तस्य भवतीत्यत आह - एत एवेति । यद्वाऽहं कर्तेति प्रत्ययः कुतोऽस्य न भवतीत्यत आह- एत एवेति । अथ वाऽहं कर्तेति प्रत्ययाभावमेवोपपादयति - एत एवेति । अविद्ययाऽऽत्मनि कल्पिता एते पूर्वोक्ता अधिष्ठानादयः पञ्चैव सर्वकर्मणां कर्तारो भवन्ति । हेतुत्वादिति भावः । अहं कर्ता न भवामि यस्मादहं तव्यापाराणामधिष्ठानादिकर्मणां साक्षिभूतः । नहि कर्तृव्यापारस्साक्षिण सम्भवतीति भावः । उपाध्यभावाच नाहं कर्तेत्याह- अप्राण इति । प्राणरहितो मनश्शून्यश्च उपलक्षणमिद- ३०८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु त्परतः परः, केवलोऽविक्रिय’ इत्येवं पश्यतीत्येतत् । बुद्धिरन्तःकरणं यस्यात्मन उपाधिभूता न लिप्यते नानुशयनीभवती ‘इदमहमकार्ष तेनाऽहं नरकं गमिष्यामीत्येवं यस्य बुद्धिर्न लिप्यते स सुमतिः, स पश्यति । हत्वापि स इमांल्लोकान् सर्वानिमान्प्राणिन इत्यर्थः । न हन्ति हननक्रियां न करोति, न निवध्यते नापि तत्कार्येणाधर्मफलेन सम्बध्यते । मिन्द्रियादिराहित्यस्य । अत एव शुभ्रः परतः कारणभूवादक्षरात्प्रकृतेः परो विलक्षणः । अत एव केवलः । अत एवाविक्रियश्च भवामीत्येवं पश्यतीत्येतज्जानातीति यावत् । यस्य बुद्धिरित्यात्मबुद्धयोः कस्सम्बन्धोऽत आह— उपाधिभूतेति । नानुशयनीभवति न तप्यत इत्यर्थः । तापप्रकारमेव दर्श- यति - इदमिति । बुद्धिर्देहादिव्यतिरिक्तात्मदर्शित्वान्नैवं तप्यत इत्यर्थः ।

नन्वनात्मनो मास्तु लेपः कथं बुद्धेरपि लेपाभावस्सम्भवति ? कर्तृत्वाद्धोक्तृत्वाच्च बुद्धेरिति चेन्मैवम् – संस्कृता हि बुद्धिरात्मानमविक्रियं पश्यन्ती स्वयमपि तत्तादाम्याभ्यासेनाविक्रियैव वर्तते, नतु देहादितादात्म्याभ्यासेनाहं करोमि भुञ्जामीति मन्यमाना सती विक्रियते । तस्माद्युक्त एव बुद्धेर्लेपाभावः । योऽहं करोमीति मन्यते तस्यैव बुद्धेर्लेपः । यो नाहं करोमीति मन्यते तस्य बुद्धि- निर्लेपा स्वच्छैव परिशुद्धत्वादिति बोध्यम् ।

वस्तुतस्तु — यो नाहं करोमीति मन्यते स एव नाहं साध्व करव मसाध्वेवाहमकरवं ततो नरकं गमिष्यामीत्येवं न मन्यते । स चैवं मन्यमानः पदार्थों नात्मा तस्य वृत्तिज्ञानायोगात् । किंतु बुद्धिरेव । इयं च बुद्धिः कदाचिदात्मतादात्म्याध्यासान्निर्लेपोऽहमिति मन्यते । कदाचित्पुनर्मम बुद्धिर्निर्लेपेति मन्यते । उक्तं हि - ‘अहंवृतिरिदंवृत्तिरित्यन्तः करणं द्विधेति । तस्मात् कर्तृभावापन्नस्य विज्ञानमयशब्दवाच्यस्यान्तःकरणस्य बुद्धिपर्यायस्य शास्त्रादिवशान्नाहं करोमीति प्रत्ययोत्पत्तिः । तस्यैव करणभावापन्नस्य मनोमयशब्दवाच्यस्यान्तःकरणस्य तापाभावश्चेत्युपपन्नम् । 1 ततश्वाहं नरकं गमिष्यामीति तापाभावो बुद्धेरितिवचनात् । स तापोऽपि बुद्धेरेव न त्वात्मन इति सूचितं । तेन चाविक्रियत्वमात्मनः फलितम् । निरहङ्कार बुद्धितादात्म्याभ्यासाद्यस्य नाहंकृतो भाव इत्युक्तम् । बुद्धावात्मीयत्वाध्यासात्तु यस्य बुद्धिर्न लिप्यत इत्युक्तमिति विवेकः । स इति । यस्या- न्तःकरणं निरहङ्कारं निर्लेपं च स इत्यर्थः । नाहं करोमीति, नाहं लिप्त इति च मन्यमानेनान्तःकरणेन तादात्म्याध्यास प्रपन्नो यस्स विद्वानिति यावत् । परिशुद्धान्तःकरणतादात्म्याध्यासं प्रपद्य नाहं कर्तेति, मम बुद्धिर्न लिप्तेति च यः प्रत्येति स विद्वानिति भावः । यद्वा यस्योपाधिभूता बुद्धिरहं करोमीति, अहं नरकं गमिष्यामीति च न मन्यते न तप्यते च स आत्मेत्यर्थः । अथ वा यस्यान्तः करणावच्छिन्नस्य प्रमातुरहं कर्तेति न प्रत्ययः, नाप्यन्तःकरण- स्यानुशयरस प्रमातेत्यर्थः । न स पश्यति दुर्मतिरिति पूर्वमुक्तत्वादाह-स सुमतिस्स पश्यति चेति । स एव सम्यग्दर्शीत्यर्थः । लोक्यन्ते दृश्यन्त इति लोकाः प्राणिनः । तत्कार्येण प्राणिहनन- मष्टादशोऽध्यायः । ३०९ ननु हत्वापि न हन्तीति विप्रतिषिद्धमुच्यते यद्यपि स्तुतिः । नैष दोषः - लौकिक- पारमार्थिकदृष्ट्यपेक्षया तदुपपत्तेः । देहाद्यात्मबुद्धया ‘हन्ताह’ मिति लौकिकीं दृष्टिमाश्रित्य ‘हत्वा ‘पीत्याह । यथादेर्शितां पारमार्थिकदृष्टिमाश्रित्य ‘न हन्ति न निबध्यत’ इत्येतदुभय- मुपपद्यत एव । कार्येणाधर्मफलेन नरकदुःखेन न सम्बध्यते सम्बद्धो युक्तो न भवति । नास्य हनन क्रियासम्बन्धः, नापि तत्फल सम्बन्ध इत्यर्थः । ’ एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन ! पापमेवाश्रयेदस्मान्हत्वैता - नाततायिनः || स्वजनं हि कथं हत्वा सुखिनस्स्याम माधव !’ इत्यर्जुनेन प्रथममुक्तत्वात्तत्प्रतिक्षेपायो कं भगवता - ‘हत्वापि स इमांल्लोकान्न हन्ति न निबध्यत’ इति । ननु हत्वापि न हन्तीत्येतत्स्तुतिवचनमपि विरुद्धमेवेत्याक्षिपति – नन्विति । परिहरति- नेति । एष हन्तुरपि हननाभावप्रतिपादनं न दोषः । कुतः ? लौकिकी च पारमार्थिकी च लौकिक- पारमार्थिक्यौ, ते च ते दृष्टी दर्शने तयो लौकिकपारमार्थिकदृष्ट्यो रपेक्षया तदुपपत्तेः । हत्वापि न हन्तीति- वचनस्योपपन्नत्वात् । तदेव विवृणोति - देहादीति । देहाद्यारमा बुद्धिप्रयुक्तां हन्ताहमित्या कारिकां लौकिकदृष्टिं व्यवहारमिति यावत् | आश्रित्य हत्वापीत्याह भगवानिति शेषः । यथादर्शितां पूर्व प्रपञ्चितां पारमार्थिकदृष्टिं सम्यग्दर्शनमाश्रित्य न हन्ति न निबध्यत इत्याह । , तस्मादेतदुभयमप्युपपद्यत एव । देहेन्द्रियादिषु शत्रुहननक्रियां निर्वर्तयत्सु सत्सु गुणा एव हनन क्रियाकर्तारो न त्वहमित्यनुसन्धानाद्विदुषो हननक्रियातत्फलाभ्यां न कोऽपि सम्बन्धगन्धः । परं तु प्राकृतजनाश्शत्रून् नन्तं देहेन्द्रियादिसङ्घातं विदुषो दृष्ट्ा विद्वानयं शत्रून् हन्तीति मन्यन्तेऽ.वि. वेकात् । तेषां दृष्टिमाश्रित्य हत्वापि स इमानू लोकानित्युक्तम् । विदुषो दृष्टिं पारमार्थिकीमाश्रित्य तु न हन्ति न निबध्यत इत्युक्तं श्रीकृष्णेनेति भावः । हत्वापीत्यनेनापिशब्देन किंपुनर्भुक्त्वा गत्वा यष्ट्रा दृष्ट्रा वा न भुंक्ते न गच्छति न यजते न पश्यतीत्यादिकं वक्तव्यमिति सूच्यते । ततश्च विदुषस्सर्व- कर्मसन्न्यासस्तत्फला सम्बन्धश्च सिद्धः । अत एव ’ नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत’ इत्यत्र देहभृताऽज्ञेनेति व्याख्यातमाचार्यैः । प्रकृतश्लोकेन विदुषस्सर्व कर्म सन्न्याससम्भवो वक्ष्यत इत्यभिप्रायेण । ननु विदुषः कर्माधिकार एव नास्तीति पूर्वं प्रतिपादितं तत्र तत्र । कथमिदानीं ‘हत्वापि स इमांल्लोका’ नित्युच्यत इतिचेन्नैष दोषः – विदुषः कर्मसन्यास एवाधिकारो नतु कर्मणीति यदुक्तं तत्सत्यमेव । परं तु ‘लोकसंग्रह मेवापि सम्पश्यन् कर्तुमर्ह’ सीति पूर्वोक्तविधया क्षत्रियस्यार्जुनस्य विदुषोभि जनकादेवि लोकसंग्रहार्थं कर्मणि प्रवृत्तेरुचितत्वेन हत्वापीत्यादिकमुक्तम् । अयं भाव:- यो देहादिविलक्षणब्रह्मात्मदर्शी विद्वान् स यदि ब्राह्मणस्तर्हि सर्वकर्म सन्न्यास एवाधिकारस्तस्य । ‘ब्राह्मणो निर्वेदमाया’ दित्यादिश्रुतेः । लोक संग्रहार्थमपि तेन कर्म सन्न्यासस्यैव कर्तव्यत्वात् । स यदि क्षत्रियादिस्तर्हि लोकसंग्रहार्थं स्वधर्मयुद्धाद्यनुष्ठान एव तस्याधिकारः । अर्जु नस्य तु क्षत्रियत्वेन विदुषोऽपि युद्ध एवाधिकारः, नतु सन्न्यास इत्यभिप्रेत्य तमुद्दिश्योक्तं हत्वा ऽ- ३१० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु पीति । त्वं देहेन्द्रियादिषु कर्तृत्वमारोप्य नाहं कर्तेति मन्यमानस्सन् नरकमहं गमिष्यामीति खेदं स्वर्गमहं गमिष्यामीति मोदं च चितेऽकुर्वाणस्सन् स्वधर्मत्वेन प्राप्तमिमं सर्वशत्रुसंहारं कुरु । नानेन तब कोऽपि बन्धरस्यादीश्वरेण मयोक्तश्चायमर्थो नान्यथा भवितुमर्हतीत्यर्जुनं प्रत्युपदेष्टुः कृष्णस्याशयः । इमान्सर्वान् लोकानित्यस्य च धार्तराष्ट्राद्यानिमान् दृश्यमानान् सर्वान् शत्रू नित्यर्थः । अत्र च सर्वानित्यनेन न केवलं शत्रुहननादेव विदुषस्तव बन्धाभावः । किंतु मित्रादिसर्वप्राणिहननादपि बन्धा - भाव एव अहं कर्तेति प्रत्ययाभावात् । अहं करोमीति प्रत्ययो हि बन्धहेतुः । अन्यथा बासुदेवस्य जनार्दनस्य भूभारापहरणार्थमवतीर्णस्य मम च सर्वजगत्संहारात्सर्वशत्रु संहारात्पुत्र मित्रादिस्वजनसंहाराश्च करिष्यमाणात्स्याद्धि महाननर्थः । तस्मान्नाहं कर्ता, गुणा एव कर्तार इतीमं विवेकमाश्रित्य यथाह प्रलयादौ सर्वजगत्संहारादिकं कुर्वन्नपि न तत्फलेन सम्बध्ये | तथा त्वमपीमान् सर्वान् शत्रून् संहर दर्शितविवेकशाली सन् । ततो न त्वं तत्फलेन सम्बध्यसे । यो हि कर्ताहमिति मन्यते स बध्यते तत्फलेन । यो हि नाहं कर्तेति, गुणा एव कर्तार इति च मन्यते स न लिप्यते । कुर्वन्नपि न लिप्यत इति हि पूर्वमेवोक्तम् । तस्माद्विदुषोऽपि तव वासुदेववज्जनकादिवच्च नेदं हननादिकं बन्धकं, नापि हननाद्यभावो मोचकः । हननादिवत्तदभावोऽपि देहाद्याश्रयः कर्मैवेति कर्मण्यकर्मेतिश्लोके स्थापितत्वात् । कर्मणो बन्धकत्वं हि तवाभिमतम् । तस्मान्न त्वं तूष्णींभावेन कर्मणा मुक्ति यास्यसि ’ नास्त्य - कृतः कृतेनेति श्रुतेः । ‘न कर्मणा न प्रज’ येति श्रुतेश्च । किं तर्हि ‘त्यागेनैकेऽमृतत्वमानशु’ रिति श्रुतेस्त्यागेनैव तव मोक्षलाभः, पूर्वेषां जनकादीनां त्वदीयानां त्यागेनैव मुक्तत्वात् । सच त्यागो नाई कर्तेत्यात्मकर्तृत्व परित्यागरूपो गुणा एव कर्तार इति गुणेषु कर्तृत्वारोपरूपश्च । अयमेव त्याग- स्सन्यासिनापि क्रियते । मोक्षहेतुश्व साक्षादयमेव परमार्थसन्न्यासश्चायमेव । कर्मफलत्यागस्तु परं - परया मोक्षसाधनः; तच्च दर्शितं नद्वेष्टीति श्लोकेन । यश्व मुण्डः काषायाम्बरभाग्दण्डी च स न परमार्थसन्न्यासी सन्न्यास्यहं भिक्षामटामीत्यहङ्कारसत्त्वादस्य । यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते स सुमतिर्हि परमार्थसन्न्यासी । नच परमहंसपरिव्राजका एव परमार्थसन्न्यासिन इति वाच्यं, लक्ष्मीशगौरीशवागीशादीनामपरमार्थसन्न्यासित्वापत्तेः । तेषामपि परमार्थसन्न्यासस्य स्वीकर्तव्यस्याव- शेषत्वेनाकृतकृत्यत्वापत्तेश्च । तस्माद्ये परमहंसपरिव्राजका निवृत्तिमार्गस्थाः, कर्मण्यनधिकृतास्सनकादयस्ते, ये च सृष्टयादि - कर्मस्वधिकृता यज्ञादिकर्मसु च ब्रह्मादयो जनकादयस्ते च विद्वांसः परमार्थसन्न्यासिन एव- अहङ्कारा- भावस्य परमार्थसन्न्यासलक्षणत्वात् । यज्ञादिकर्मपरित्यागस्तु बाह्य सन्न्यासलक्षणम् । नच सर्वारम्भपरि- त्यागित्वं गुणातीतलक्षणमिति पूर्वमुक्तमिति वाच्यं, सर्वारम्भेषु देहाद्याश्रयेषु स्वस्य कर्तृत्वानुसन्धान- स्यापि सर्वारम्भपरित्यागरूपत्वात् । कथमन्यथा निमेषोन्मेषाद्यारम्भपरित्यागित्वं स्यात्परमहंसपरिव्राजक - स्यापि ? मष्टादशोऽध्यायः । १११ नन्वधिष्ठानादिभिस्सम्भूय करोत्येवात्मा कर्तारमात्मानं केवलं ’ त्विति केवलशब्द- प्रयोगात् । नैष दोषः - आत्मनोऽविक्रियस्वभावत्वेऽधिष्ठानादिभिस्संहतत्वानुपपत्तेः । विक्रियावतो ह्यन्यैस्संहननं सम्भवति, संहत्य वा कर्तृकं स्यात् । न त्वविक्रियस्यात्मनः केनचित्संहननमस्तीति सम्भूय कर्तृत्वं नोपपद्यते । अतः केवलत्वमात्मनस्स्वाभाविकमिति तस्माद्विदुषो ज्ञाननिष्ठस्य परमहंसपरिव्राजकस्य परमार्थसन्न्यासिनो न कर्माधिकारः । विदुषो ज्ञाननिष्ठस्य गृहस्थस्यापि परमार्थसन्न्यासिनः कर्तृत्वाभिमानपूर्वको न कर्माधिकारः । अत एव हि जनकादिभिः कृतं कर्म न कर्म, वासुदेव कृतसृष्ट्यादिकर्मवदिति पूर्वमुक्तम् । तस्मात्परमार्थसन्न्यास्यपि विद्वान् भवान् यतो न परमहंस परिव्राजकस्तस्मात् हत्वापीमान् लोकान् न हन्ति न निबध्यते । भो पार्थ! तस्मात्त्वं निरहङ्कारो निस्तापश्च सन् युध्यस्व । उक्त हीदं प्रागेव - ‘युध्यस्व विगतज्वर’ इति । एतेन विदुषः कर्माधारो नास्तीति कृत्वा कथमुच्यते हत्वापीतीयमाशङ्का समाधापिता । कथम् ? विदुषः परमार्थसन्न्यासिनोऽप्यपरमहंसपरिव्राजकस्य स्वकर्माधिकारोऽस्तीति । विदुषः कर्तृ- स्वाभिमानपूर्वक एव कर्माधिकारो नास्ति, निरहङ्कारपूर्वकस्तु कर्माधिकारोऽस्तीति च विदुषा क्रियमाण कर्माकर्मैवेति न तस्य कर्माधिकार इति च प्रोक्तत्वादिति संक्षेपः ।

ननु कर्तारमात्मानं केवलं तु य इत्यस्य केवलमधिष्ठानादिभिरसंहतमात्मानं यः कर्तारं पश्यती- त्यर्थः । तथा च केवलात्मनोऽकर्तृत्वेऽपि अधिष्ठानादिसंहतात्मनः कर्तृत्वमस्त्येव । ततश्च संहतोऽय- मात्मा हन्त्येवेति कथमुक्तं ? न हन्तीति भगवानित्याक्षिपति – नन्विति । परिहरति — नेति । एष संहतस्यात्मनः कर्तुर्हननक्रियाकर्तृत्वाभावप्रतिपादनरूपो दोषो नास्ति । कुतः ? आत्मन इति । आत्मनोऽधिष्ठानादिभिस्सह संहतत्वानुपपतेर्मिलितत्वायोगात् । तत्र हेतुमाह - अविक्रियस्वभावत्वे- नेति । निर्विकारत्वेनेत्यर्थः । हेतुमेव व्यतिरेकमुखेनोपपादयति - विक्रियेति । हि यस्मादित्यर्थः । प्रसिद्धौ वा हिशब्दः । विक्रियावतस्सविकारस्य वस्तुन अन्यैस्सह संहननं सम्भवति । संहत्य वा कर्तृत्वं सम्भवति विक्रियावत इत्येव । सावयवस्य सविक्रियत्वं, सविक्रियस्य सहतत्वं, संहतस्य च कर्तृत्वं प्रसिद्ध सम्भविच । बहूनां संहतानां देहानां स्थूलोपलोत्क्षेपणादिकार्यकर्तृत्वस्य बहूनां संहतानां सूक्ष्ममृदवयवानां घटीभूताना - सुदकाहरणकर्तृत्वस्य च दर्शनात् । बहूनां तन्तूनां पटात्मना संहतानां देहावरणशीतवारणादिकार्य- कर्तृत्वदर्शनाच्च । तेषां च देहानां रेणूनां तन्तूनां च सविक्रियत्वं सावयवत्वं च प्रसिद्धमिति भावः । तर्हि संइननादिकमसम्भवीत्यत आह-न त्वात्मन इति । तत्र हेतुमाह — अविक्रियस्येति । संहननं हि विक्रिया, कथमविक्रियात्मनि तत्सम्भवो न कथमपीति भावः । तन्तवो हि संहतास्सन्तः पटात्मना विक्रियमाणा दृष्टाः । यद्येवमात्मापि संहतस्यात् तर्हि तस्यापि केनचिदूपेण परिणामस्यादिति भावः । इतिहेतो सहननासम्भवादित्यर्थः । सम्भूय संहत्य । अत इति । सम्भूय कर्तृत्वानुपपते- 1 ३१२ श्रीभगवद्गीतासु- माष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु केवलशब्दोऽनुवादमात्रम् | अविक्रियत्वं चात्मनश्श्रुतिस्मृतिन्यायप्रसिद्धं ‘अविकार्योऽय- मुच्यते’, ‘गुणैरेव कर्माणि क्रियन्ते’, ‘शरीरस्थोऽपि कौन्तेय! न करो ‘तीत्याद्यसकृदुपपादितं गीतास्वेव तावत् । श्रुतिषु च ’ ध्यायतीव लेलायती ’ वेत्येवमाद्यासु । न्यायतश्च निरवयव- मपरतन्त्रमविक्रियमात्मतत्त्वमिति राजमार्गः । विक्रियावत्त्वाभ्युपगमेऽप्यात्मनस्स्वकीयैव विक्रिया स्वस्य भवितुमर्हति नाधिष्ठानादीनां कर्माण्यात्मकर्तृकाणि स्युः । न हि परस्य रित्यर्थः । केवलत्वं शुद्धत्वं स्वाभाविकमेवेति नत्वागन्तुकमित्यर्थः । अधिष्ठानादिभिस्सह सम्भूत्यभाव- प्रयुक्तं नेति भावः । यद्यधिष्ठानादिभिस्सहात्मनस्सम्भूय कर्तृत्वं स्यात्तर्हि तन्निरासाय केवलमिति प्रयुज्येत, नतु तदस्तीत्यभिसन्धिः । नन्वेवं केrशब्दो व्यर्थोऽत आह- अनुवादमात्रमिति । स्वतस्सिद्धस्वरूपानुवादपर इत्यर्थः । केवलो निर्गुणश्चेतिवदिति भावः । नन्वविक्रियत्वमात्मनोऽप्रमाणं येनात्मनस्सम्भूयापि कर्तृत्वं न स्यादत माह — अविक्रियत्वं चेति । स्मृतिप्रसिद्धं दर्शयति — अधिकार्य इति । श्रुतिप्रसिद्धिं दर्शयति — ध्यायतीवेति । इवशब्दाद्धयानचलना दिविकारा नात्मनस्सन्तीति सूच्यते । न्यायप्रसिद्धि दर्शयति — निरवयवमिति । आत्मतत्त्वमात्मस्वरूपं चैतन्यमात्मेति यावत् । राजमार्गो घण्टापथः । तद्वन्निरवद्यो महाजनैः क्षुण्णश्चायमर्थ इत्यर्थः । आत्मतत्त्वमविक्रियं निरवयवत्त्वाद्यत्सावयवं तत्सविक्रियं यथा घटः । आत्मतत्त्वमपरतन्त्रम विक्रियत्वाद्यत्सविक्रियं तत्परतन्त्रं यथा घटः । आत्मतत्त्वमपरतन्त्रं निरवयवत्त्वाद्यत्सावयवं तत्परतन्त्रं यथा घट इति च प्रयोगा ऊद्याः । तुष्यतु दुर्जन इतिन्यायेनाह - विक्रियेति । आत्मनो विक्रियावत्वं यद्यभ्युपगम्यते तर्हि तस्य तत्किमात्मनिष्ठैः कर्मभिर्भवत्युताधिष्ठानादिनिष्ठैः ? नाद्यः- आत्मनि कर्माभावात् । अधिष्ठानादिपञ्चकं हि कर्म कारणमित्युक्तं, तत्रैवसतीत्यनेनाकर्तृत्वं ह्यात्मनः प्रतिपादितम् । तस्मादकर्तर्यात्मनि न कर्म - सम्भवः । द्वितीयं दूषयति – स्वकीयैवेति । कर्मभिरिति शेषः । न त्वधिष्ठानादिकर्मभिरित्याह- नाधिष्ठानादीनामिति । यद्यधिष्ठानादिकर्माण्यात्मकर्माणि स्युस्तधिष्ठानादिकर्मभिरात्मा विक्रियावान् कर्ता स्यात् नतु तथा भवतीत्यर्थः । 1 ननु परकर्म परस्य भवतु, को दोषस्तत्राह - न हीति । परेण कृतं कर्म परस्यागन्तुं नार्हति हि, अन्यथा चैत्रेण कृतस्य कर्मणः फलस्य मैत्रेणानुभवितव्यत्वप्रसङ्गात् । तस्मात्परकीयं धनं यथा चौर्यादिना परं प्रत्यागच्छति तथा न परकीयं कर्मागच्छति । ‘सुकृतं दुष्कृतं चैव गच्छन्तमनुगच्छ’ तीति वचनात् । तत्त्वविदः कर्म तु परं प्रत्यागच्छत्येव - ‘सुहृतस्साधुकृत्यां द्विषन्तः पापकृत्या’ मिति श्रुतेः । न तदिहोदाहरणमर्हति । ’ तद्विद्वान् पुण्यपापे विधूय’ इति श्रुत्या विदुषा विधूतस्यैव कर्मणः परं प्रत्यागन्तुकत्वं, नतु परेण कृतस्येति । विद्वदविधूतस्यैव परेण कृतस्य कर्मणः परं प्रत्यनागन्तुकत्व - मिति विवक्षितत्वात् । 1 ४० अष्टादशोऽध्यायः । ३.१३ कर्म परेणाकृतमागन्तुमर्हति यत्त्वविद्यया गमितं न तत्तस्य भवति । यथा रजतत्वं न शुक्तिकाया:; यथा वा तलमलिनत्वं बालैर्गमितमविद्यया नाकाशस्य, तथाऽधिष्ठानादि- विक्रियापि तेषामेव, नात्मनः । तस्माद्युक्तमुक्तं ‘अहंकृतत्वबुद्धिलेपाभावे विद्वान हन्ति न निवध्यत’ इति । ‘नायं हन्ति न हन्यत’ इति प्रतिज्ञाय ‘न जायत’ इत्यादिहेतुवचने- नाविक्रियत्वमात्मन उक्त्वा ‘वेदाविनाशिन’ मिति विदुषः कर्माधिकारनिवृत्तिं शास्त्रादौ संक्षेपत उक्त्वा मध्ये प्रसारितां च तत्र तत्र प्रसङ्गं कृत्वेहोपसंहरति शास्त्रार्थ पिण्डीकरणाय ‘विद्वान हन्ति न निवध्यत’ इति । एवं च सति देहभृत्त्वाभिमानानुपपत्तावविद्याकृताशेष- कर्मसन्न्यासोपपत्तेस्स्सन्न्यासिनामनिष्टादित्रिविधं कर्मणः फलं न भवतीत्युपपन्नम् । त- द्विपर्ययाच्चेतरेषां भवतीत्येतच्चापरिहार्यमित्येष गीताशास्त्रार्थ उपसंहृतः । स एष सर्ववेद-

ननु परकृतमपि कर्मे परस्य भवत्येवाज्ञानात् । अज्ञो हि देहादिकर्तृके कर्मणि स्वस्य कर्तृत्वं पश्यति गन्ताहं श्रोताहमिति । अत आह— यत्विति । अविद्यया गमितं प्रापितं तु यत्कर्म परकीय तत्तस्य स्वकीयं न भवति । अविद्यया आत्मन्यारोपितं देहाद्याश्रयं कर्म नात्माश्रयं भवितुमईतीत्यर्थः । तत्र दृष्टान्तमाह — यथेति । शुक्तिकायामविद्ययाध्यस्तं रजतत्वं यथा न शुक्तिकाया धर्मो भवति, तथा आत्मन्यविद्ययाध्यस्तं कर्तृत्वं नात्मन इत्यर्थः । ननु सरूपत्वाच्छुक्तिकायां रजतत्वाध्यासो ऽस्तुनाम, कथं नीरूपे आत्मनीत्यत आह-यथा वेति । बालैरविद्यया गमितं तलमलिनत्वं यथा नाकाशस्य भवति तद्वदिति । दान्तिकमाह — तथेति । अधिष्ठानादिगता विक्रिया अधिष्ठानादीनामेव धर्मः, न स्वात्मधर्म इत्यर्थः । । तस्मादिति । स्वगतविकाराभावात्परगतविकारैस्स्वस्य विक्रियावत्त्वाभावाचेत्यर्थः । अहंकृतत्व- महंकर्तेत्यहङ्कारो बुद्धिलेपश्च । तयोरभावे सति विद्वानविक्रियात्मदर्शी । न हन्ति, न निबध्यत इति युक्तमुक्तम् । आत्मनि कर्तृत्वादिविक्रियायोगादिति भावः । पिण्डीकरण क्रोडीकारः । नायं हन्ति न हन्यत इति यदादौ प्रतिज्ञातं तदिहोपसंहृतं न हन्ति न निबध्यत इति । उपक्रमोपसंहारयोरैक- रूप्यस्यावश्यकत्वादिति भावः । य एनं वेति हन्तारं यचैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यत’ इत्यत्रायमित्यनेनात्मन उक्तत्वादिह स इत्यनेन विदुष उक्तत्वाच्च विद्वान्प्रमातैव, वस्तुतः प्रत्यगात्मेति सिद्धम् । ततश्च विदुषोऽविक्रियस्यात्मनः कर्माघिकाराभावश्च सिद्धः । एवं च सतीति । विदुषोऽविक्रियात्मत्वेन कर्माधिकाराभावे सतीत्यर्थः । सन्न्यासिनां ज्ञाननिष्ठानां विदुषां देहभृत्त्वाभिमानानुपपत्तौ सत्यामविद्याकृतानामशेषकर्मणां सन्न्यासस्योपपत्तेस्तेषां त्रिविधं कर्मफलं न भवतीत्युपपन्नम् । अत एव - ‘अनिष्टमिष्टं मिश्र च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य नतु सन्न्यासिनां कचिदित्युक्तमिति भावः । इतरेषामविदुषां तद्विपर्ययः कर्मसन्न्यासाभावः कर्मफल- भोगश्चेत्यर्थः । भवतीति एतदिति । उक्तं मतमित्यर्थः । उक्तार्थ इति यावत् । अपरिहार्ये न केनापि परिहर्तुं शक्यम् । स एष इति । विदुष सर्व कर्म सन्न्यासोऽविदुषस्तदसम्भवश्चेत्यर्थः । प्रतिपत्तव्यो ३१४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु वेदान्तार्थसारो निपुणतरमतिभिः पण्डितैर्विचार्य प्रतिपत्तव्य इति तत्र तत्र प्रकरणे विभागेन दर्शितोऽस्माभिरशास्त्र न्यायानुसारेण ॥१७॥ अथेदानीं कर्मणां प्रवर्तकमुच्यते- ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः || १८ || ज्ञानमिति । ज्ञानं ज्ञायतेऽनेनेति सर्वविषयं ज्ञानमविशेषेणोच्यते । तथा ज्ञेयं ज्ञातव्यं, तदपि सामान्येनैव सर्वमुच्यते । तथा परिज्ञातोपाधिलक्षणोऽविद्याकल्पितो भोक्ते- त्येतत्त्रयमेषामविशेषेण सर्वकर्मणां प्रवर्तिका त्रिविधा त्रिप्रकारा कर्मचोदना । ज्ञानादीनां हि त्रयाणां सन्निपाते हानोपादानोपेक्षाप्रयोजनस्सर्वकर्मारम्भस्स्यात् । ततः पञ्चभिरधिष्ठाना- दिभिरारब्धं वाङ्मनः कायाश्रयभेदेन विधा राशीभूतं त्रिषु करणादिषु संगृह्यत इत्येत- ज्ञातव्यः । इतिशब्दस्समाप्तौ । ननु न वयं विचारणे क्षमास्त्वमेव ब्रहीत्यत आह-तत्रतत्रेति । वेद विनाशिनमित्यादिस्थलेष्वित्यर्थः । विभागेनेति । अज्ञप्राज्ञविभागपूर्वकमित्यर्थः । न स्वबुद्धधनु- सारेण दर्शित इत्याह-शास्त्रेति । ईश्वर एव करोति, नाहं करोमीति यो मन्यते स सुमतिरिति रामानुजः, तदयुक्तम् - ‘निष्कलं निष्क्रियं शान्त’ मिति श्रुत्युके निर्विकारे ब्रह्मणि कर्तृत्वदर्शनस्य रज्जौ सर्पत्वदर्शनस्येव मिथ्याज्ञानत्वात्तस्य च संसारानिवर्तकत्वातत्रज्ञानादेव मोक्षसम्भवात् अविक्रियब्रह्मात्मदर्शनस्यैव तत्त्वज्ञानत्वाच्चति ॥१७॥ ज्ञानमिति । कर्मचोदना ज्ञानं ज्ञेयं परिज्ञातेति त्रिविधा भवति । कर्मसंग्रहः करणं कर्म कर्तेति त्रिविधो भवति । ज्ञानमिह न चिन्मात्रमित्याह सर्वविषयमिति । वृत्तिज्ञानमित्यर्थः । तत्तद्विषयाकारपरिणत बुद्धिवृत्त्या हि ते ते विषया घटादयस्सर्वेऽवभास्यन्ते । अविशेषेणेति । नतु पुन- रमानित्वमदम्भित्वमित्यादिवद्विशेषेणेत्यर्थः । सामान्येनेति । अविशेषेणेत्यर्थः । सर्वमिति । सर्व- विषयजातमित्यर्थः । उपाधिलक्षणो ऽन्तःकरण विशिष्टः, अविद्याकल्पितश्चिदाभासश्चोद्यतेऽनयेति चोदना कर्मणां चोदना कर्मचोदना, कर्मप्रवर्तिका ज्ञानादित्रयं कर्मणां प्रवर्तकमित्यर्थः । कथं त्रयस्य प्रवर्त- कत्वमत आह— ज्ञानादीनामिति । सन्निपातस्सम्बन्धो मेलनमिति यावत् । हानं त्याग उपादानं स्वीकार उपेक्षा तदुभयाभावेन तूष्णींभावः । दुष्कृतादिहानार्थं सुकृताद्युपादानार्थमीश्वरार्पणबुद्धया च केवल त्रेघा कर्मारभ्यते पुरुषैरिति कर्मारम्भस्य हानादित्रयं प्रयोजनम् । 1 यद्वा प्रवृत्तिवन्निवृत्तिरपि कर्मैवेति प्रवृत्तेर्हानोपादाने प्रयोजने निवृतेस्तूपेशेति । अयं च कर्मा- रम्भकः पुरुषो जीवः । ज्ञेयं यज्ञादिस्वर्गादिकं शास्त्रादिजन्यज्ञानेन ज्ञात्वा कर्मारभत इति ज्ञानादि- त्रयसन्निपातः कर्मारम्भहेतुरित्यर्थः । तत इति । तथेत्यर्थः । राशीभूतमिति । कर्ते. ते शेषः ।• अष्टादशोऽध्यायः । ३१५ दुच्यते - करणं क्रियतेऽनेनेति बाह्यं श्रोत्रादि । अन्तस्स्थं बुद्ध्यादि, कर्मेप्सिततमं कर्तुः क्रियया प्राप्यमाणं कर्ता करणानां व्यापारयुतोपाधिलक्षण इति त्रिविधस्त्रिप्रकारः कर्म- संग्रह: संगृह्यतेऽस्मिन्निति संग्रहः, कर्मणस्संग्रहः कर्मसंग्रहः; कर्म एषु हि त्रिषु समवैति, तेनायं त्रिविधः कर्मसंग्रहः ॥ १८ ॥ करणादिषु करणकर्मकर्तृषु । उच्यत इति श्लोकस्योत्तरार्थेनेति शेषः । बाह्य बहिर्विषयप्रहण समर्थ- मित्यर्थः । कर्णशष्कुलीरसनात्वगादिबहिः प्रदेशस्थितमिति वा । व्यन्तरस्थं हृत्पुण्डरीकस्थित सुखाद्यन्त- विषयग्रहणसमर्थत्वादिति भावः । बुद्धघादीत्यादिपदान्मनसो ग्रहणम् । कर्तुरीप्सिततमं कर्मेति पाणिनिना सूत्रितं कर्मेह कर्मशब्देन मायमित्याह — कर्मेति । ईप्सिततमशब्दार्थमाह – क्रियया प्राप्यमाणमिति । स्वर्गादिरूपं फलमिति भावः । तद्धि द्वितीयान्तपदवाच्यं, ज्योतिष्टोमेन स्वर्ग गच्छतीति प्रसिद्धेः । कर्ता भोक्ता जीवः । व्यापाराश्रयत्वं कर्तृत्वं तच्चात्मनि निरवयवे निष्क्रिये न सम्भवतीत्यत आह — करणानां व्यापारयुत इति । करणानां चक्षुरादीनां ये व्यापाराः क्रिया दर्शनादयस्तैर्युतः । जीवस्य स्वतो निर्व्यापारत्वेऽपि स्वाध्यस्तकरणव्यापारैस्सव्यापारत्वमिति भावः । एतेनाविद्यालक्षणमेव कर्तृत्वं जीवस्य, नतु स्वाभाविकमिति स्थितम् । इदमेव स्फुटयितुमाह —— उपाधिलक्षण इति । उपाधिनाऽन्तः करणेना विद्यया वा लक्ष्यते युज्यत इत्युपाधिलक्षणः । उपाघितादात्म्याध्या समापन इत्यर्थः । कथं करणादिषु कर्मणस्संग्रहोत - कर्मेति । समवैति सङ्गच्छते । कर्ता हि किञ्चित्फलमुद्दिश्य करणैः कर्मणि प्रवर्तन इति कर्तृकरणप्राप्यत्रयाधीनसत्ताकं यज्ञादिकर्मेति भावः । तेनेति । कर्मणस्त्रिषु समवायेनेत्यर्थः । अत्र ज्ञानं शास्त्रमिति शङ्कराचार्यैरुक्तमिति वेदान्तदेशिको बभ्राम । न ह्याचायैज्ञन शास्त्र- मित्युक्तम् | अविवेकिनां ज्ञानमीदृशं दृश्यत इति वक्ष्यमाणानुरोधाद्बुद्धिवृत्तिरेव ज्ञानम् । शास्त्रमपि बुद्धिवृत्तिविषयीकृतमेव सत्करणं भवति नतु केवलमन्यथा अविद्वानपि पुस्तकेन ज्ञेयं जानीयात् । एवं चक्षुरादयोऽपि स्वद्वारा निर्गतबुद्धिवृत्त्यैव घटादिकमवभासयन्ति, नतु स्वत इति; चक्षुरादेरपि केव- लस्य न करणत्वम् । तस्माद्ज्ञायतेऽनेनेति व्युत्पत्त्या ज्ञानशब्दो बुद्धिवृत्तिमेवाभिधत्ते स्वरसव इति बोध्यम् । नच शास्त्रेण कर्मणश्वोदितत्वाचोदनालक्षणोऽर्थो धर्म इति सूत्रात्कर्मचोदनारूपं शास्त्रमेवेह ज्ञानशब्देन प्रायमिति वाच्यं, शास्त्रविषयबुद्धिवृत्त्यैव कर्म चोद्यते, नतु केवलशास्त्रेण ज्ञायमानशास्त्रस्यैव चोदकत्वाभ्युपगमात् । अन्यथा पेटिकास्थमपि शास्त्रं पुरुषं चोदयेत् । नन्वेवमिह ज्ञानशब्देन ज्ञायमानशास्त्रमेव गृह्यताम् । तद्धि निषिद्धकर्मणां हाने विहिताना - सुपादाने निवृत्तौ च पुरुषस्योपकारकं भवति । शास्त्रेण हि विद्वान् वेद्यं विदित्वा विहितं करोति, निषिद्धं त्यजति तूष्णीमास्ते च । तत्र विधिनिषेधबोधकं प्रवृत्तिलक्षणं, शास्त्रमुपेक्षाबोधकं तु निवृत्तिलक्षणं, शास्नं प्रवृत्तिवन्निवृत्तिरपि कर्मैवेत्युक्तत्वादिह हानोपादानोपेक्षाप्रयोजनः कर्मारम्भ इत्युक्तं च भाष्यकृता । ३१६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु हानोपादानप्रयोजनः प्रवृत्तिकर्मारम्भः, उपेक्षाप्रयोजनो निवृत्तिकर्मारम्भ इति विवेकः । तथाच धर्माधर्मौ ब्रह्म च शास्त्रेण ज्ञायत इति प्रवृत्तिलक्षणं निवृत्तिलक्षणं च शास्त्रं पूर्वोत्तरमीमांसारूपेण द्विविधमिह ज्ञानशब्देनोच्यत इतिचेन्मैवम् - शास्त्रीयकर्मारम्भे भवतु शास्त्रस्य करणत्वं, कथं पुनलौकिक कर्मारम्भे ! नहि प्रकृतकर्मारम्भस्य शास्त्रीयकर्मारम्भपरत्वेन सङ्कोचनं न्याय्यं सर्वविषयं ज्ञानमिति भाष्यगतसर्व- शब्दस्वारस्यभङ्गापत्तेः; तामसादिज्ञानस्याशास्त्रीयत्वाच्च । तस्मादिह ज्ञानशब्देन शास्त्रीय कर्मारम्भ हेतुभूतं शास्त्र न प्रा; किंतु सर्वकर्मारम्भहेतुभूता बुद्धिवृत्तिरेव ग्राह्या । ननु ज्ञानं बुद्धिवृत्तिरेवेति कोऽयं नियमः ? करणमात्र ज्ञानशब्देन गृह्यताम् । तथा चान्तःकरणमेकं बहिःकरणानि पञ्च च श्रोत्रादीनि सुखादिशब्दा दिविषयग्रहणसाघनत्वाद्ज्ञानशब्द- वाच्यान्येव । एतदभिप्रायेणैव सर्वविषयं ज्ञानमित्युक्तमाचार्यैरितिचेन्मैवम् – सर्वत्रापि विषयग्रहणे बुद्धिवृत्तेरेव करणत्वं, श्रोत्रादीनां तु द्वारत्वमेवेति पूर्वमेवोक्तत्वात् । बुद्धिर्हि चक्षुर्द्वारा निर्गत्य घटादिविषयदेशं गत्वा घटाद्याकारेण परिणमते स एष परिणामो वृत्तिरित्युच्यते । तया च वृत्त्या घटा- द्यावर कमज्ञानं नाश्यते; ततः प्रत्यक्ष जायत इति सिद्धान्तात् । तस्मात्सुखाद्याकारेण शब्दाद्याकारेण वा परिणता बुद्धिवृत्तिरेव करणमिति गृह्यतां लाघवा- ज्ञानशब्देने हेति बोध्यम् । अत एव सर्वविषयं ज्ञानमित्युक्तं नतु सर्वविध ज्ञानमित्याचार्यैः । न कस्य चक्षुरादिकरणान्यतमस्य ज्ञानस्य सर्वविषयत्वं सम्भवति - चक्षुषा शब्दादेरग्रहणात् । बुद्धिवृत्त्या तु सबै ग्रहीतुं शक्यमिति सर्वविषयं ज्ञानं बुद्धिवृत्तिरेवेत्याचार्याभिमतमिति स्थितम् । नच करणं कर्म कर्तेतिवचनाद्ज्ञानं करणमेवेति वाच्यं तथासति श्लोकस्य पूर्वार्धेनोक्तस्यार्थ - स्यैवोत्तरार्धेन पुनर्वचने पुनरुक्तिदोषप्रसङ्गात् । नच ज्ञेयकर्मणोः परिज्ञातृकत्रोश्चैकत्वाद्ज्ञानकरणयो- रप्येकत्वेन भाव्यमिति वाच्यं ज्ञेयकर्मणोरप्येकत्वाभावात् । धर्मब्रह्माद्यात्मकं ज्ञातव्यं, सर्वे हि ज्ञेय- शब्दार्थः । तचोक्तमाचार्यैस्तदपि सामान्येन सर्वमुच्यत इति । कर्म तु क्रियया प्राप्यमाणं फलमेव, नतु क्रियामात्रमिति । ज्ञातृकर्त्री रेकत्वेऽपि भोक्तृत्वकर्तृत्वांशाभ्यां भेद इह विवक्षित इति न परि- ज्ञातृकर्शोरपि पुनरुक्तिः । भोक्ता हि जीवः स्वभोगार्थं कर्म चोदयति । नतु कर्तेति जीवगतं भोक्तृत्व- मेव कर्मचोदकं, नतु कर्तृत्वम् । अत एवोक्तमाचार्यैः परिज्ञाता भोक्तेति । 1 रामानुजस्तु – ज्ञेयं कर्मेति, कर्म यागादिकमिति चोक्तवांस्तन्मते ज्ञेयकर्मणोः पुनरुक्तिदुर्वा- रैव । वक्तव्यस्य फलस्यावचनमपि दोष एव । ननु ज्ञानमिहावगतिरेव, भावप्रत्ययान्तत्वेनैव ज्ञान- शब्दस्य प्रसिद्धप्रयोगत्वाल्लोके घटज्ञानं पटज्ञानमिति, नतु ज्ञानकरणं लाक्षणिकत्वापातादिति चेन्मैवम्- अस्ङ्ग चिदात्मरूपाया अवगतेर्ज्ञाना दिसन्निपाठायोगान्निर्धर्मकत्वेन कर्मचोदना योगाच्च । घटज्ञानपट- ज्ञानादयंग्त सविशेषा ज्ञानाभासा एव, घटाद्याकार बुद्धिवृत्तिजन्यानि हि तानि घटज्ञानादीनि । मत एव तेषां वृत्तिज्ञानत्वेन व्यवहारः । न चेदमेव वृत्तिजन्यं ज्ञानमिह गृह्णतां किमिति वृत्तिरिति वाच्यं, अष्टादशोऽध्यायः । ३१७ अथेदानीं क्रियाकारक फलानां सर्वेषां गुणात्मकत्वात्सत्त्वरजस्तमोगुण मेदतस्त्रिविधो भेदो वक्तव्य इत्यारभ्यते- ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ १९ ॥ · ज्ञानमिति । ज्ञानं कर्म च कर्म क्रिया, न कारकं पारिभाषिकमीप्सिततमं कर्म, येनैकं भावमव्ययमीक्षत इति तृतीयान्तयच्छब्देन ज्ञानस्य परामर्शिष्यमाणत्वात् ; ईक्षत इत्यवगतेः पृथग्वक्ष्यमाणत्वाच्च । न चानुभवैकवेद्यमितिवदनुभवस्याप्यवगतिं प्रति करणत्वमस्तीति वाच्यं एक- स्यैवानुभवस्य वेदनत्ववेदन करणत्वयोरयोगात्, अनुभवानेकत्वे मानाभावात् । घटानुभवः पटानुभव इति प्रतीयमानानुभवभेदस्य घटादिविषयगतत्वेनानुभवगतत्वाभावात्, अनुभवैकवेयमित्यस्य च शास्त्रा- दिभिरवेद्यमित्यर्थे तात्पर्यात् । ननु साक्षिभास्यत्वं सर्वस्य श्रुत्यादिसिद्धं; साक्षिणश्च ज्ञानस्वरूपत्वं तथैव । तथा च साक्षिणा सर्वे मास्यत इत्यस्य ज्ञानेन सर्वे ज्ञायत इत्येवार्थ इति कानुपपत्तिर्ज्ञानस्य तृतीयान्तयच्छब्देन परा- मर्शन इति चेदुच्यते - साक्षिणा भारयत इत्यत्र कर्तरि तृतीया । येनेक्षत इति प्रकृते तु करणे तृतीया । स्वप्रकाशस्यान्यावभासकस्य चानुभवस्य मानकर्तृत्वं स्यादेव नतु मानकरणत्वमपरतन्त्रत्वा- दनुवस्य । करणं हि कर्तृपरतन्त्रम् । नच भानस्वरूपस्य साक्षिणः कथं मानकर्तृत्वमिति वाच्यं, वृत्तिज्ञानात्मकजन्यज्ञान (ज्ञानाभास ) कर्तृस्वस्य साक्षिण्युपपत्तेः । साक्षी हि नित्यज्ञानरूपः । न चैवं जन्यज्ञानस्यापि कर्तृत्वं स्यादिति वाच्यं तस्य जडत्वात् । नच जन्यज्ञानस्य करणत्वे का विप्रतिपत्ति. रिति वाच्यं घटज्ञानस्य पटज्ञानं प्रति करणत्वादर्शनात् । नच सोऽयं देवदत्त इति प्रत्यभिज्ञारूपं ज्ञानं देवदत्तानुभवकरणकमिति वाच्यं प्रत्यभिज्ञाया ज्ञानत्वाभावात् । सत्यपि तस्मिन् देवदत्तानुभव- करणकत्वं नास्ति, किं त्वनुभवहेतुकत्वमेव । चक्षुरेव तत्रापि करणम् । नहि पूर्वानुभूतं देवदत्तं चक्षुषाऽ- निरीक्ष्य सोऽयं देवदत्त इति प्रत्यभिजानीयात्कोऽपि । तस्मान्नात्र ज्ञानशब्देन जन्यज्ञानं ग्रहीतु- सुचितम् । यत्तु रामानुजः – कर्तव्यकर्मविषयं ज्ञानं ज्ञानमिति, तत्तुच्छम् - इह ज्ञानशब्देन कर्तव्य - कर्मविषयज्ञानस्यैव ग्रहणे येनैकं भावमीक्षत इत्यत्राप्यस्यैव ग्राह्यत्वेनात्मविषयज्ञानस्य वक्ष्यमाणस्य कथं ज्ञानत्रैविध्यान्तः प्रवेशस्स्यात् ? नहि येनैक मितिश्लोके कर्म विषयज्ञानमुच्यते, किं त्वात्मविषयमेव । तस्मात्सर्वविषयं ज्ञानमेवेह ज्ञानशब्देन प्राम् । तख ज्ञानं बुद्धिवृत्तिरूपमेव नतु नित्यज्ञानरूपं, नापि जन्यज्ञानरूपमिति संक्षेपः ॥ १८ ॥ ज्ञानमिति । गुणसङ्ख्याने ज्ञानं कर्म च कर्ता च त्रिधैव भवतीति प्रोच्यते । तान्यपि त्वं यथावच्छृणु ! अथेति । कर्म चोदना कर्म संप्रहयोस्त्रैविध्यप्रदर्शनानन्तरमित्यर्थः । क्रिया कर्म, कारकं } ૨૮ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्यो पैतालु कर्ता च निर्वर्तकः क्रियाणां त्रिधैवावधारणं गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थम् । गुण- भेदतस्तत्त्वादिभेदेनेत्यर्थः । प्रोच्यते कथ्यते गुणसङ्ख्याने कापिले शास्त्रे तदपि गुण- सङ्ख्यानशास्त्रं गुणभोक्तृविषये प्रमाणमेव । परमार्थब्रह्मात्मैकत्वविषये यद्यपि विरुध्यते, तथापि ते हि कापिला गुणगौणव्यापारनिरूपणेऽभियुक्ता इति, तच्छास्त्रमपि वक्ष्यमाणार्थ- स्तुत्यर्थत्वेनोपादीयत इति न विरोधः । यथावद्यथान्यायं यथाशास्त्रं शृणु ! तान्यपि ज्ञाना- दीनि तद्भेदजातानि च गुणभेदकृतानि शृणु । वक्ष्यमाणेऽर्थे मनस्समाधिं कुर्वित्यर्थः ॥ १९ ॥ ज्ञानं, फलं तद्भोक्ता, कर्ता तेषां क्रियाकारक फलानाम् । यद्वा फलशब्देन सुखग्रहणम् । सर्वेषामि- श्यनेन तु कर्तृबुद्धिधृतीनां ग्रहणम् । ज्ञानमिति । ज्ञानं ज्ञेयमिति श्लोकोक्तं बुद्धिवृत्तिरूपं कारकं ज्ञानकरणमिह ज्ञानशब्देनोच्यते । करणं कर्मेत्यत्रोक्तं कर्म नेह कर्मशब्देन मा, किंतु कर्मसंग्रह इति समागतकर्मैवेत्याह — कर्मक्रियेति, कारकमिति । द्वितीयाकारकमित्यर्थः । पारिभाषिक- मिति । ‘कर्तुरीप्सिततमं कर्मेति व्याकरणपरिभाषा सिद्धमित्यर्थः । यश्चोपाधिलक्षणो भोक्ता कर्ता च परिज्ञातेति, कर्तेति च निर्दिष्टः तस्यैव चिदाभासस्येह कर्तृशब्देन ग्रहणमित्याह - कर्ता च निर्वर्तक इति । कारकव्यापारो हि कर्तृपरतन्त्रः । जीवश्च चक्षुरादिभिर्दर्शनादिक्रिया निर्वर्तय- तीति निर्वर्तकः क्रियाणाम् । त्रिधैवेति । सात्त्विकत्वराजसत्वतामसत्वरूपेणेत्यर्थः । गुण- । व्यतिरिक्तेति । सात्त्विकत्वादिव्यतिरिक्तेत्यर्थः । गुणानां सङ्ख्यानं यत्र तद्गुणसङ्ख्यानम् । ननु कापिलशास्त्रस्य कथं प्रमाणत्वमत माह - तदपीति । एकदेशे विरुद्धमप्यन्यदेशेऽविरुद्धमेव कापिल- मपि शास्त्र तर्कादिशास्त्रवत् । ततश्चाविरुद्धांशो प्राय एवेति भावः । कापिलोत्तरमीमांसयोर्गुणभोक्तृ- विषयेऽविरोधः । सत्त्वादिगुणविशिष्टबुद्धिभोगस्यात्मन्यारोपादात्मनो भोक्तृत्वमिति सम्प्रतिपन्नत्वात् । क पुनर्विरोधोऽत आह— परमार्थेति । कापिलैर्ब्रह्मणोऽनभ्युपगतत्वान्न ब्रह्मात्मैकत्वदर्शनं तत्रास्तीति भावः । गुणभोवतृविषय इत्यत्र गुणविषये भोक्तृजीवविषये चेति वार्थः । ननु कुतः कापिलस्येहोपादानमत आह— ते हीति । अभियुक्ता विद्वांसः, कुशला इति यावत् । गुणानां गौणानां गुणमयबुद्धयादीनां च व्यापाराणां निरूपणं प्रतिपादनं तस्मिन्विषये । स्तुत्यर्थमिति । तन्त्रान्तरेऽपि प्रसिद्धमिदं न केवलमस्मिन्नेव तन्त्रे इति स्तुतिः । ज्ञानादीनीत्यादिपदात्कर्मा- दिग्रहणम् । मेदजातानि मेदसमूहान् । ननु स्वोक्तं सर्व शृण्वन्तमर्जुनं प्रति पुनः शृण्वितिवचनं व्यर्थमत आह— वक्ष्यमाण इति । चित्तसमाधानार्थमिति शृण्वत्युक्तमित्यर्थः । ननु ज्ञानज्ञेयज्ञातृ- करणकर्मकर्तॄणां षण्णां पूर्वमुक्तत्वेन तेषां सर्वेषामपि त्रैविध्यकथनं किमितीह न प्रतिज्ञातमिति चेत्, उच्यते- ज्ञेय करणयोर्धर्माधर्मब्रह्मादिरूपत्वेन श्रोत्रादिरूपत्वेन च बहुविधयोर्गुणतस्त्रैविध्यस्य नियन्तु - मशक्यत्वान्न तद्द्महणमिह कृतम् । ज्ञातृकर्तारौ त्वेक एव । कारकं कर्म तु सुखत्रैविध्ये कथ्यते ? यद्वा स्वर्गादिरूपं तच फलं बहुविधमेवेति नेह त्रिविधत्वेन नियन्तुं शक्यते । तस्माद्ज्ञानकर्म कर्तॄणां त्रयाणामेवेह कथनं प्रतिज्ञातम् । अष्टादशोऽध्यायः । ३१९ .. ज्ञानस्य तु तावत्त्रिविधत्वमुच्यते- सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तद्ज्ञानं विद्धि साच्चिकम् ॥२॥ सर्वभूतेष्विति । सर्वभूतेष्वव्यक्तादिस्थावरान्तेषु भूतेषु येन ज्ञानेनैकं भात्रमस्तु - भावशब्दो वस्तुवाची, एकमात्मवस्त्वित्यर्थः । अव्ययं न व्येति स्वात्मना स्वधर्मेण वा, कूटस्थ नित्यमित्यर्थः । ईक्षते पश्यति येन ज्ञानेन तं च भावमविभक्तं प्रतिदेहं विभक्तेषु देहभेदेषु न विभक्तं तदात्मवस्तु व्योमवन्निरन्तरमित्यर्थः । तद्ज्ञानं साक्षात्सम्यग्दर्शन- रामानुजस्तु ज्ञेयमेव कर्मशब्देन परामृश्यत इत्याह तत्तुच्छम् - कर्मैव ज्ञेयमिति नियन्तु- मशक्यत्वेन ज्ञेयं कर्मेति व्याख्यानस्यायुक्तत्वात् । कर्म कर्मचोदनेत्येकस्यैव कर्मणश्चोद्यत्व चोदनवयो- रयोगाच्च । यदप्यनेनोक्तं कर्मैव संग्रहः कर्मसंग्रहः । करणं द्रव्यादिकं कर्म यागादिकं कर्ता अनुष्ठातेति त्रिविध बोद्धव्यरूपं कर्म संगृह्यत इति, तच्चायुक्तम् - क्रियाया एव कर्मत्वेन कर्तृ- करणयोः कर्मभेदायोगात् । करणनिर्वत्यै कश्रियं हि कर्म । छेदनं छेत्तृलवित्रच्छेदनात्मना त्रिविधमिति वक्तुं शक्यते केनाप्यनुन्मत्तेन । नच करणं कर्म कर्ता चेत्येतत्त्रयमिह ज्ञेयमिति वाच्यं, तादृशार्थालाभात् । ज्ञेयं कर्मेति त्वयैव पूर्वमुक्तत्वात् । नच करणकर्तृसहितं कर्म ज्ञेयमिति वाच्यं, परिज्ञातेत्यनेन कर्तुरुक्तत्वात् । नच करणसहितं कर्म ज्ञेयमिति वाच्यं द्रव्यादिकर गस्येहा प्रतिपाद्य- मानत्वेन करणसाहित्यप्रतिपादनं कर्मणो व्यर्थमेवेति । तथा गुणसङ्ख्यानशब्दस्य गुणकार्यगणनमर्थ - इत्युक्तमनेन, तच्चायुक्तम् – गुणशब्दस्य गुणकार्यपरत्वे लाक्षणिकत्वापत्तेः । त्रिधैव प्रोच्यत इत्यनेनै- वेष्टसिद्धौ गुणकार्यगणने प्रोच्यत इत्यस्यानर्थकत्वाच्च । कापिलशास्त्रग्रहणे तूकार्थस्य प्रामाण्यसिद्धिः प्रसिद्धिश्च फलमिति बोध्यम् ॥१९॥ । सर्वेति । विभक्तेषु सर्वभूतेष्वविभक्तमव्ययमेकं भावं येनेक्षने विद्वानिति शेषः । तद्ज्ञानं सात्त्विकं विद्धि । अव्यक्तादीति । अव्यक्तमत्र हिरण्यगर्भशरीरं नतु माया- तस्या एकत्वेन विभक्तत्वासम्भवात् । ब्रह्मादिस्तम्बपर्यन्तेष्विति सर्वशब्दार्थः । भूतशब्दार्थमाह – देहभेदेष्विति । देहेष्वित्यर्थः । विभक्तत्व विशेषणार्थमपि संगृह्यो कम् - देहभेदेष्विति । कथं विभक्तेवत आह- प्रतिदेहमिति । परस्परं विलक्षणेन्नित्यर्थः । देहानां परस्परवैलक्षण्यस्य सर्वानुभवसिद्धत्वादिति भावः । तदेवं गुणतः कार्यत आकारतः कालतो देशतश्च परस्परं भिन्नेषु ब्रह्मादिस्तम्बपर्यन्तेषु चराचरात्मकेषु देहेष्विति विभक्तेषु सर्वभूतेष्वित्यस्यार्थस्सिद्धः । अलाव्यक्तशब्दस्य मायापरत्वाग्रहेतुख्य कमादिः कारणं येषां तेष्वव्यक्तादिषु मायाकार्येष्वित्यर्थः । ब्रह्मादिष्विति तु शेषः । यद्वा अव्यक्तमादिर्येषा- मित्यतद्गुणसंविज्ञानबहुव्रीहिः । ततश्व नाव्यक्तस्य भूतानुप्रवेशः । किंतु तज्जन्यानां ब्रह्मादिदेहाना- मेवेति । १२० श्रीभगवद्गीता - भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपैतासु मद्वैतात्मविषयं सात्विकं विद्धीति । यानि द्वैतदर्शनान्यसम्यग्भूतानि राजसानि तामसानि चेति न साक्षात्संसारोच्छित्तये भवन्ति ॥ २० ॥ ननु ब्रह्मादिस्थावरान्तेष्विति ऋजु वक्तव्ये कथमव्यक्तादिस्थावरान्तेष्विति वक्रमुक्तमाचार्यै- रितिचेन्नैष दोष:- भूतानां मायामयत्वस्फोरणायैवमुक्तत्वात् । भवन्तीति भूतानीति व्युत्पत्त्या भूत- शब्दः कार्यपरः । भवत्यस्ति सर्वत्र देशेषु कालेषु वस्तुषु चेति भावस्सन् परमात्मेत्यर्थः । वस्तु सत्य- मित्यर्थः । ब्रह्मेति यावत् । यद्वा भावो वस्तु पदार्थ इति यावत् । एकत्वादिविशेषणवशात्तु अस्य पदार्थस्यात्मलाभ इति बोध्यम् । इदमेवाह - आत्मवस्त्वित्यर्थ इति । आत्मेति पदार्थ इति भावः । व्येति विकारं प्राप्नोति । विकारो द्विविध:- स्वरूपगतरस्वभाव (स्वधर्म ) गतश्चेति । तदुभयमात्मनो नास्तीत्याह - स्वात्मना स्वधर्मेण वा न व्येतीति, कूटस्थमिति । अविक्रियमित्यर्थः । सदैक- रूपमिति यावत् । ज्ञानेन भावं पश्यतीत्युक्तं चोदयति — कथमिति । कथम्भूतं भाव पश्यतीत्यर्थः । प्रत्याह — अविभक्तमिति । तदर्थमाह — निरन्तरमिति । निर्भेदमित्यर्थः । दृष्टान्तमाह-व्योम- वदिति । अविभक्तं यथातथाऽवस्थितमिति क्रियाविशेषणत्वेनापि व्याख्यातुं शक्यमिदं पदम् । परं तु अवस्थितशब्दाध्याहारो गौरवावहः । तद्ज्ञानमित्यस्यार्थमाह - साक्षात्सम्यग्दर्शनमिति । सम्य- ग्दृश्यते येन तत्सम्यग्दर्शनं बुद्धिवृत्तिरिति यावत् । सर्वभूतेष्वित्यादिना लब्धमर्थं क्रोडीकृत्य किंविषय ज्ञानमिति शङ्कां निराकुर्वन्नाह - अद्वैतात्मविषयमिति । सर्वभूतात्मभूतमेकमेवाद्वितीयं ब्रह्माहमित्या कारकं ज्ञानं सात्त्विकज्ञानमिति परमार्थः । ननु कुतोऽस्य ज्ञानस्य सम्यग्ज्ञानत्वमत आह— यानीति । साक्षात्संसारोच्छित्तिहेतुत्वा- दिदमद्वैतज्ञानं, सम्यग्ज्ञानमन्यानि तु द्वैतज्ञानानि वक्ष्यामाणानि न साक्षात्संसारोच्छित्तिहेतूनीति न सम्यग्ज्ञानानीत्यर्थः । साक्षादित्यनेन च केषांचिद्राजसज्ञानानां परम्परया मोक्ष हेतुत्वमस्तीति गम्यते । भिन्नश्वरभजनस्य चित्तशुद्धयादिहेतुत्वात्कर्मयोगवदिति भावः । तानि साक्षात्संसारोच्छितये न भवन्ती- त्यन्वयः । न भवन्ति न शक्नुवन्तीत्यर्थः । यत्तु रामानुजः - ब्राह्मणक्षत्रिय गृहस्थब्रह्मचार्यादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माघिकारिषु येन ज्ञानेनैकमात्माख्यं भावं तत्राप्यविभक्तं ब्राह्मणत्वाद्यनेकाकारेष्वपि भूतेषु सितदीर्घादिविभागवत्सु ज्ञानाकार आत्मनि विभागरहितमव्ययं ब्राह्मणादिशरीरेषु व्ययस्वभावेष्वप्यविकृतं फलादिसङ्गान च कर्माधिकारवेलायामीक्षते तद्ज्ञानं सात्त्विकं विद्धीति, तत्तुच्छम् — सर्वशब्दस्य कर्माधिकारिपरतया सङ्कोचस्यान्याय्यत्वात् ; सर्वविधविभाग राहित्यप्रतिपादका विभक्तशब्दस्य सितदीर्घादि विभागर। हित्यपरतया सङ्कोचनस्याप्ययुक्तत्वात् । न विभक्तस्य विभक्तत्वमुचितम् । अद्वितीयत्वप्रतिपादकस्यैकशब्दस्य च ज्ञानैकाकारमित्यर्थवर्णनमयुक्तं- लाक्षणिकत्वादिदोषात् । नच जात्येकत्वमुक्तमिति वाच्यं, आत्मनि जात्यभावात् । कर्माधिकारवेलायामिति मूलाद्वहि: कल्पनं चाप्रमाणमसङ्गतं च । नहि ब्राह्मणत्वादि- जात्यभिमानाद्यज्ञादिकर्मणि प्रतकः पुरुष एकं भावमी क्षेतुं क्षपते विरोधात् । नापि ज्ञानै काका- • ४१ अष्टादशोऽध्यायः । पृथक्त्वेन तु यद्ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तद्ज्ञानं विद्धि राजसम् ॥ २१॥ १२१ पृथक्त्वेनेति । पृथक्त्वेन तु भेदेन प्रतिशरीरमन्यत्वेन यद्ज्ञानं नानाभावान्भिन्ना- नात्मनः पृथग्विधान् पृथक्प्रकारान् भिन्नलक्षणानित्यर्थः । वेत्ति विजानाति यद्ज्ञानं सर्वेषु भूतेषु ज्ञानस्य कर्तृत्वासम्भवाद्येन ज्ञानेन वेत्तीत्यर्थः । तद्ज्ञानं विद्धि राजस रजोगुण- निर्वृत्तम् ॥२१॥ राव्ययासङ्गात्मदर्शी ब्राह्मणोऽहं कर्तेति कर्मणि प्रवर्तते । तस्माद्विभक्तेषु भूतेष्विति बहुवचनप्रयोगा- दविभक्त मेकमित्येकवचन प्रयोगाच्च देहभेद एव नात्मभेद इति स्थितम् । अयमेवार्थ:- ‘न त्वेवाह जातु नास’ मितिश्लोकेनाप्यभिप्रेतो भगवतेति तद्भाष्ये भाषितमाचार्यैः । ’ देहभेदानुवृत्त्या बहुवचनं नात्म भेदाभिप्रायेणेति । यदि भगवतस्तत्र सोऽभिप्रायो न स्यात्तहीँहाप्यात्ममेदमेव ब्रूयान्मध्ये च । तत्र तत्रात्माभेद एवोक्त इत्युपक्रमोपसंहारक्याभ्यासादिभिरेक एवात्मेति गीताशास्त्रस्य निश्चितोऽर्थ इति स्थितम् ॥ २० ॥ पृथक्त्वेनेति । यद्ज्ञानं सर्वेषु भूतेषु पृथक्त्वेन पृथग्विधान्नानाभावान्वेति तद्ज्ञानं राजस विद्धि । प्रतिशरीरं भिन्ना आत्मानो भिन्नलक्षणा इति यद्वैतज्ञानं तद्राजसमित्यर्थः । नन्वौपाधिको भेदस्तवाप्यद्वैतिन इष्ट इत्यत आह- प्रतिशरीरमिति । शरीरे शरीरे प्रतिशरीरं ततश्वकैकस्मिन् शरीरे एकैको जीवः परस्परं भिन्नो वर्तत इत्यर्थः । अद्वैतिनस्तु प्रतिशरीरमेक एव जीवो वर्तत इति वदन्तीति भावः । तचोक्तं पूर्वश्लोकेन । एतेनाद्वैतिन एवं सात्त्विकज्ञानवन्त इति सम्यग्दर्शित्व - मद्वैतिनां सिद्धम् । भावशब्दस्यात्मपरतया पूर्वे व्याख्यातत्वादाह - भिन्नानात्मन इति । भिन्नलक्षणं सुख- दुःखादिकं येषां ते भिन्नलक्षणास्तान् । यदि सर्वशरीरेष्वेक एव जीवस्स्यात्तर्हि सर्वेषामेकदैव सुखं वा दुःखं वा स्याचैत्रानुभूतार्थस्य मैत्रेण स्मरणं स्याज्जीवे उत्क्रान्ते सति सर्वशरीराणामचेतनता स्याद्देव- दत्तस्स्वचक्षुषेव मैत्रचक्षुषापि घटं पश्येदित्यादीन् दोषांस्ता किंकादयो मन्यन्त इति भावः । एकांत्म- वाद्यद्वैती तु सुखदुःखादीनामनात्मधर्मत्वान्न कोऽपि दोष इति वेति । तथाहि सुखं दुःखं च मनो- धर्म :- ‘कामस्सङ्कल्प’ इत्यादिश्रुतेः । स्मरणं चित्तधर्मः उत्कान्तिर्बुद्धिधर्मः; यद्वा प्राणधर्मः दर्शन- स्पर्शनादिकमिन्द्रियधर्मः । इमानि च मनआदीनि प्रतिशरीरं भिन्नान्येवेति नानुभवसाङ्कर्यप्रसङ्गः । न चानुभवितुरेकस्वे कथमनुभवासाङ्कर्यमिति वाच्यं, अनुभवितुरपि प्रमातुरन्तः करणावच्छिन्नस्य नाना- त्वात् । औपाधिकं हि प्रमातृत्वं चैतन्यस्य । वयं हि निरुपाधिकमेव चैतन्यमेकं ब्रूनः; नतु सोपा- चिकम् । यद्वा विशेष्य चैतन्यमेवैकं ब्रूमः ; नतु विशिष्टचैतन्यम् । चैतन्यमेव हि प्रमातुरात्मा । तस्मात्प्रमातृभेदेऽपि नात्मभेद:- प्रमात्रन्तः करणभेदेऽपि प्रमातृचैतन्या भेदात् । तस्मादेक एवात्मा चैतन्यरूपः । ननु येन ज्ञानेनेन इति पूर्वश्को रुवदिहापि येन वेचीत्येव वक्तव्ये कथमुक्तम् ? यद्वे- चीति, तत्राह — ज्ञानस्येति । वृत्तिज्ञानस्येत्यर्थः । निर्वृतं सिद्वन् । ३३२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहेतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥२.२॥ यदिति । यत्तु ज्ञानं कृत्स्नवत्समस्तवत्सर्वविषय मिवैकस्मिन्कार्ये देहे बहिर्वा प्रति- मादौ सक्तं ‘एतावानेवात्मा ईश्वरो वा नातः परम’ स्तीति । यथा नग्नक्षपणकादीनां शरीरानु- वर्ती देहपरिमाणो जीवः, ईश्वरो वा पाषाणदार्वादिमात्रमित्येवमेकस्मिन्कार्ये सक्तमहैतुकं यत्तु रामानुजः - सितदीर्घादिपृथक्त्वेनात्मनो वेतीति, तत्तुच्छम् – नहि कोऽप्यास्तिकः कर्मठो देहभिन्न कर्तृभोक्त्रात्मवादी सन्नात्मानं सितं दीर्घं कृष्णं ह्रस्वं वा मन्यते । यस्तु देहात्मवादी बौद्धस्स भोक्त्रभावात्कर्म नैव करोति, मन्यते चात्मानं सितं दीर्घं कृष्णं ह्रस्वं स्थूल कृशं चेत्येवम् । तस्माद्भिन्नात्मज्ञानमेव राजसम् । तच्च निन्द्यं त्याज्यं चेति स्थितम् ॥ २१ ॥ यत्त्विति । एकस्मिन्कार्ये सक्तम हैतुकमतत्त्वार्थवदरूपं च कृत्स्रवद्यस्तु ज्ञानं तत्तामसमुदाहृतं शिधैरिति शेषः । देहात्मज्ञानमचैश्वरज्ञानं च तामसमिति फलितार्थः । कृत्स्नमस्यास्त्यस्मिन्नस्तीति वा कृत्सवत् । विषयिणि ज्ञाने विषयत्वेन सर्वमस्तीत्यर्थः । इदमेवाह – सर्वविषयमिति । भूत- भौतिकादिसर्वजगद्विषयमित्यर्थः । न त्वेकात्मविषयमिति भावः । यथाऽद्वैतिन एकमेवाद्वितीय ब्रझेति मन्यन्ते तथेमे दृश्यं सर्वं जगत्सत्यमेवेति मन्यन्त इति परमार्थः । तथा एकस्मिन्कार्ये सक्ततिति । एककार्यविषयमित्यर्थः । किं तत्कार्यमत आह- देह इति । पक्षान्तरमाह - प्रतिमादाविति । एकशब्दश्च केवलवाचीत्याह - एतावानेवेति । देह एवात्मेति प्रतिमैवेश्वर इत्येतदेक कार्यविषयं ज्ञानमित्यर्थः । एवकारार्थमाह - नातः परमस्तीति । अतोऽस्माद्देहात्प्रतिमादेर्वा परमात्माख्य- मीश्वराख्यं वा वस्तु नास्तीत्यर्थः । के पुनरेवं मन्यन्ते ! अत आह— यथेति । नमका दिगम्बराः श्रपणकाः कापालिका बौद्ध विशेषा एते । देहपरिमाण इति । यावत्परिमाणो देहस्तावत्परिमण इत्यर्थः । अत एव शरीरानुवर्ती हस्तिमशकादिशरीरानुसारी । एतेन सावयवत्वमात्मनस्सिद्धम् । जीवस्य केषांचिदवयवानां नाशान्मशकादिदेहपरिमाणत्वं केषांचिल्लाभान्मनुष्यादिदेहपरिमाणत्वं चेति । यद्यपीमे न देहात्मवादिनस्तथापि सावयवात्मवादित्वाद्देहात्मवादितुल्या एवेति निदर्शन त येहोपाचा इति बोध्यम् । अनेन च देहपरिमाणो जीव इति ज्ञानस्यैव तामसत्वे किं पुनर्देह एव जीव इति ज्ञानस्ये- स्वर्थापत्तिस्सिध्यति । यद्वा एतावानेवेत्यस्य देहमात्रपरिमाण एवेति प्रतिमादिमात्र एवेति चार्थः । तथा च देहाति - रिक्कात्मवादिनोऽप्येते देहपरिमाणात्मवादित्वात्तामसज्ञानवन्त इति निन्द्यन्ते । देहपरिमाणो जीव इति ज्ञान, प्रतिमादिरूप ईश्वर इति ज्ञानं च तामसमिति श्लोकसारार्थः । ननु सर्वात्मकस्येश्वरस्य कुतः प्रतिमादिरूपत्वाभावोऽत आह- पाषाणदार्वादिमात्र इति । ये श्रीरङ्गजगन्नाथा दिक्षेत्रेषु कल्पिताः पाषाणदार्वादिमया अर्चाविग्रहाः त एवेश्वरः, नतु घटपटादयः, नापि चैतन्यमिति मन्यन्त एत इति भावः । ननु यथोक्तं ज्ञानं सहेतुकत्वान्न त्याज्यत आह अहैतुकमिति । नापि यथार्थ – अष्टादशोऽध्यायः । I ३२३ हेतुवर्जितं निर्युक्तिकं, अतत्त्वार्थवदयथाभूतार्थवत् । यथाभूतार्थस्तत्वार्थः । सोऽस्य ज्ञेय- भूत अस्तीति तस्वार्थवत् न तस्वार्थवदतत्त्वार्थवत् । अहेतुकत्वादेवाल्यं चाल्पविषयत्वात्, अल्पफलत्वाद्वा तत्तामसमुदाहृतम् । तामसानां हि प्राणिनामविवेकिनां ज्ञानमीदृशं दृश्यते ॥ मित्याह - अतत्त्वार्थवदिति । अतत्त्वार्थे विषयमित्यर्थः । कुत इदं ज्ञानं तामसमत आह— ताम- सानामिति, ईदृशमिति । सर्वे जगत्सत्यं देह एव जीवो देहपरिमाणो जीव इति वा पाषाणदार्वादि- मात्र ईश्वर इत्येवंरूपमित्यर्थः । ननु ‘ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ’ इति कर्मचोदनत्वं ज्ञानस्य पूर्वमुक्तं कथ- मिह ततोऽन्यदेव ज्ञानमुक्तमितिचेत्, नैष दोषः - प्रवृत्तिलक्षणं निवृत्तिलक्षणं चेति द्विविधं हि कर्म तत्रोपेक्षाप्रयोजकं निवृत्तिलक्षणं कर्म चोदयति, सात्त्विकं ज्ञानं ब्रह्मात्मविदां सनकादीनां निवृत्तिमार्ग- निष्ठत्वात्साङ्ख्यानां कर्मयोगेऽनधिकाराच्च । राजसतामसज्ञाने तु प्रवृत्तिलक्षणं कर्म चोदयत एव । भिन्नात्मदर्शिनां राजसानां कर्तृभोक्त्रात्मदर्शित्वात्कर्मणि प्रवृत्तिः । तामसानां च देहात्मवादिना- मर्चेश्वरवादिनां कर्मणि प्रवृत्तिरुपपन्नैवेति । तस्मादुक्तं त्रिविधं ज्ञानं कर्मचोदनमेव । नच निवृचिर्न - कर्मेति वाच्यं, प्रवृत्तिवन्निवृत्तिरपि कर्मैवेत्युक्तत्वात् । यद्वा ज्ञानं कर्मचोदनेति सामान्यत उक्तम् । तत्र राजसतामसज्ञानयोरेव कर्मचोदनत्वं नतु सात्त्विकज्ञानस्येति बोध्यम् । वस्तुतस्तु ज्ञानं कर्मेतिश्लोकोक्तं कर्मचोदनं ज्ञानमन्यत् यत्क्रियाकारक- फलादिसर्वद्वैतविषयम् । ‘ज्ञानं कर्म च कर्ता’ चेतिश्लोकोक्तं ज्ञानं तु ततोऽन्यत् - यज्जीवेश्वरविषयम् । अत एव ज्ञानं कर्म चेति श्लोकावतारभाष्यादौ, अथेदानीमित्यथशब्दः प्रयुक्तः । वक्ष्यमाणमन्थस्य प्रकरणान्तरत्वद्योतनायेति । एतेन ज्ञानं ज्ञेयं परिज्ञातेत्युक्ता एव पदार्था ज्ञानं कर्म च कर्ता चेत्यनेनानूद्यन्त इति वेदान्तदेशिकोक्तिः परास्ता । जीवेश्वरविषयज्ञानस्यैवेहोक्तत्वेनाकर्मविषयत्वादस्य । नच कर्मार्थमपि जीवेश्वरज्ञानमावश्यकमिति जीवेश्वर विषयं ज्ञानमपि कमचोदनमिति वाच्यं, उपमृदितक्रिया कारक- फलादिसर्वद्वैतत्वादद्वितीय जीवेश्वरज्ञानस्य । नच प्रतीयमाने सर्वद्वैते कथमद्वैत सिद्धिरिति वाच्यं, प्रतीयमानेऽपि नैत्ये गगनस्य नीरूपत्वसिद्धेरिष्टत्वात् । तस्मादविद्यादशायामेव सर्वद्वैतोपलम्भः, नतु विद्यादशायाम् । नच विद्याविद्यादशाद्वयसत्त्वे प्रमाणाभाव इति वाच्यं, ‘दूरमेते विपरीते विषची, अविद्या या च विद्येतिश्रुतेरेव प्रमाणत्वात् । नच विद्यादशायां द्वैताभावोऽप्रमाण इति वाच्यं, ‘यत्र सर्व- मात्मैवाभूतल केन कं पश्ये’ दिति श्रुतेः सुषुप्तिमृतिमूर्छासमाध्यनुभवस्य च प्रमाणत्वादिति स्थित- मद्वैतम् । एवं ज्ञानत्रैविध्यप्रदर्शनं तु सात्त्विकज्ञानस्य सम्पादनार्थमितरयोः परिवर्जनार्थं च । एवं कर्मादित्रैविध्यप्रदर्शनमपीति बोध्यम् । तस्मान्मुमुक्षुणा यथोक्तं सात्त्विकमद्वैतज्ञानमेव सम्पाद्यमिति संक्षेपः । प्रेतभूताधाराधनविषयं ज्ञानं तामसमिति रामानुजः, प्रकृतश्लोकादेतादृशार्थालाभादात्म- विषयज्ञानगतसात्त्विकत्वादि भेदकथनप्रसङ्गे एतदर्थस्या कथनीयत्वाश्चोपेक्ष्यं रामानुजन्याख्यानम् ॥२२॥ ३२४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु अथेदानीं कर्मणस्त्रैविध्यमुच्यते- नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्साच्चिकमुच्यते ॥ २३ ॥ नियतमिति । नियतं नित्यं सङ्गरहित मासक्तिवर्जितमरागद्वेषतः कृतं रागप्रयुक्तेन द्वेषप्रयुक्तेन च कृतं रागद्वेषतः कृतं; तद्विपरीतं कृतमरागद्वेषतः कृतम् । अफलप्रेप्सुना फलं प्राप्तुमिच्छतीति फलप्रेप्सुः फलतृष्णः, तद्विपरीतेना फलप्रेप्सुना कर्ता कृतं कर्म यत् तत्सा- किमुच्यते ॥२३॥ यत्तु कामे सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ||२४|| यदिति । यत्तु कामेप्सुना कर्मफल प्रेप्सुनेत्यर्थः । कर्म साहङ्कारेण वा साहङ्कारेण इति न तत्त्वज्ञानापेक्षया । किं तर्हि लौकिकश्रोत्रिय निरहङ्कारापेक्षया यो हि परमार्थनिर- हङ्कार आत्मवित्, न तस्य कामेप्सुत्व बहुलायासकर्तृत्वप्राप्तिरस्ति । सात्विकस्यापि कर्मणोऽ- नियतमिति । अथेति । ज्ञानप्रकरणं समाप्तमिति सूचयितुमथशब्दः । अफलप्रेप्सुना व्यरागद्वेषतः कृतं नियतं सङ्गरहितं यत्कर्म तत्सात्त्विकमुच्यते । नित्यमिति । ‘अहर हस्सन्ध्यामुपा- सी’ ते त्या दिश्रुति सिद्ध सन्ध्यावन्दनाग्निहोत्रादिकं यस्य चाकरणे प्रत्यवायः; नैमित्तिकस्याप्यत्रैवान्तर्भावः । अकरणे प्रत्यवायजनकत्वस्य नैमित्तिकेष्वपि श्राद्धादिषु सत्त्वात् । आसक्तिः प्रीतिविशेषः । रागः प्रीतिसामान्यम् । द्वेषोऽप्रीतिः । रागादूद्वेषतो वा हेतोः कृतं रागद्वेषतः कृतं पञ्चम्या अलुगार्षः । राग- द्वेषकृतमित्यर्थः । तन्न भवतीत्यरागद्वेषतः कृतम् । यद्वा रागद्वेषयोरभावोऽरागद्वेषः, तस्मादरागद्वेषत इति पृथक्पदं रागद्वेषाभावाद्धेतोरित्यर्थः । अथवा न विद्यते रागद्वेषौ यस्य सोयमरागद्वेषः, तेनाराग- द्वेषत इति सार्वविभक्ति कस्तसिः । तृतीयायां विशेषणमिदम फलप्रेप्सुनेत्यस्य । रागप्रयुक्तेनेत्यादिभाष्य तु फलितार्थकथनपरम् ॥२३॥ यदिति । कामेप्सुना साहङ्कारेण वा पुनर्बहुलायासं यत्तु कर्म क्रियते तद्राजसमुदाहृतम् । कामेप्सुना कृतं साहक्कारेण कृतं च पुनर्बहुलायासं कर्म राजसमित्युच्यत इत्यर्थः । ननु अहं करो- मीति कर्तृत्वाभिमानपुरस्सरं कर्मिणा कर्मणः क्रियमाणत्वात्कथं निरहङ्कारत्वं कर्मिणस्स्याद्येनोच्येत साहङ्कारेण यत्क्रियत इति । अत आह— नेति । तत्त्वज्ञानापेक्षया साहङ्कारेण वेति नोक्तं, निरहङ्कारतत्त्वविदपेक्षया साहङ्कारेणेतिनोक्तमित्यर्थः । अहंकरोमीत्याकारको ऽहङ्कारो नेह प्रायः, किं तु वैश्वदेव्यहं सोमयाज्यहमाढ्यो ऽमभिजनवानहमित्यादिरात्मोत्कर्ष प्रधानोऽहङ्कारो प्राय इति भावः । लौकिकोऽतत्त्ववित् श्रोत्रियइछान्दसः, निरहङ्कारोऽहमेवोत्कृष्ट इत्यहङ्काररहित इत्यर्थः । तदपेक्षयाऽयं कर्मी साहङ्कारः । य आत्मानं कर्मिषूत्कृष्टं मन्यते । ननु साहङ्कारप्रतियोगि- तया निरहङ्कारश्रोत्रियग्रहणमिति, किं निरहङ्कारस्तत्त्वविदेव गृह्यतामत माह-यो हीति । परमार्थ-मष्टादशोऽध्यायः । ३२५ नात्मवित्साहङ्कारः कर्ता, किमुत राजसतामसयोः । लोके अनात्मविदपि श्रोत्रियो निर- हङ्कार उच्यते ’ निरहङ्कारोऽयं ब्राह्मण’ इति । तस्मात्तदपेक्षयैव ‘साहङ्कारेण’ वेत्युक्तम् । पुनशब्दः पादपूरणार्थः । क्रियते बहुलायासं कर्ता महताऽऽयासेन निर्वर्त्यते तत्कर्म राजस- मुदाहृतम् ॥२४॥ अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥ अनुबन्धमिति । अनुबन्ध पश्चाद्भावि यद्वस्तु सोऽनुबन्ध उच्यते तं चानुबन्धम् । क्षयं यस्मिन्कर्मणि क्रियमाणे शक्तिक्षय अर्थक्षयो वा स्यात् तं क्षयम् । हिंसां प्राणि- बाधां चानवेक्ष्य च निरवेक्ष्य चः पौरुषं पुरुषकारं ‘शक्नोमीदं कर्म समापयितु’ मित्येवमात्म- सामर्थ्य मित्येतान्यनुबन्धादीन्यनवेक्ष्य पौरुषान्तानि मोहादविवेकत आरभ्यते कर्म यत् तचामसं तमो निर्वृतमुच्यते ||२५|| निरहङ्कार इति । अनात्मस्वात्माभिमान रूपवास्तवाहङ्कारशून्य इत्यर्थः । कामेप्रवबहुला यास कर्तृत्वयोः प्राप्तिस्तस्य नास्ति । ततश्वाप्राप्तस्य निषेधायोगान्नेह निरहङ्कारस्तत्त्वविद्माय इत्यर्थः । अयमाशय: - कामे सुना साहङ्कारेण वा कृतं बहुलायासं कर्म राजसमित्युक्तौ, अकामेप्सुना निरहङ्कारेण वा कृतमबहुलायासं कर्म न राजसमित्यापतितम् । ततश्च निरहङ्कारशब्देन तत्त्वविद्द्महणे तत्त्वविदः कामेप्युत्वं बहुलायासकर्मकर्तृत्वं च न युक्तमिति सिध्यति, तच्चायुक्तम् — तत्त्वविदः कामे - सुबहलायास कर्मकर्तृत्वयोः प्राप्त्यसम्भवेन निषेधायोगादिति । ननु कुतस्तत्त्वविदस्ता तिर्नास्तीत्यत माह - साच्चिकस्यापीति । अनात्मविदिति छेदः । नतु निरहङ्कार आत्मवित्कर्तेत्यर्थः । नन्वेवं कर्ममात्र कर्तृत्वस्याहङ्कारपूर्वकत्वे कर्तुरनात्मविदश्च साहङ्कारत्वे कथं लौकिक श्रोत्रिय निरहङ्कारपुरुषसिद्धिः ? यदपेक्षयेह साहङ्कारेण वेत्युक्तमत आह- लौकिकैरिति, निरहङ्कार इति । गर्वशून्य इति भावः । ननु वेत्यनेनैव पुनश्शब्दा लाभे कुतः पुनश्शब्दप्रयोगोऽत आह- पुनरिति । कामेप्सुकर्तृकं साहङ्कारकर्तृकं च बहुलायासं कर्म राजसमिति निष्कर्षः । कर्मणो राजसत्वे कामेप्सुकर्तृकरवं साह- ङ्कारकर्तृकत्वं बहुलायासत्वं चेति हेतुतयं, तत्र कामेप्सुकर्तृकत्व बहुलायासस्ययोः साहङ्कारकर्तृकत्व बहुला- यासत्वयोर्वा समुच्चयः । वाशब्दस्य चार्थाभ्युपगमे तु त्रयाणामपि समुच्चयः । पुनश्शब्द- स्यापि विरूपार्थाभ्युपगमे त्रयाणामपि प्रत्येकं हेतुत्वमिति बोध्यम् । एवं कर्मणस्सात्त्विकत्वे चाकाम- प्रेप्सुकर्तृकत्वं रागद्वेषादिप्रयुक्तत्वं सङ्गरहितत्वं नित्यत्वं चेति हेतुचतुष्टयं समुच्चित्य वा प्रत्येकं वेति बोध्यम् ॥२४॥ अनुबन्धमिति । अनुबन्धं क्षयं हिंसां पौरुषं चानवेक्ष्य कर्त्रा यत्कर्म मोहादारभ्यते तत्तामस- मुच्यतें । यद्वस्तु दुःखमित्यर्थः । दुःखहेतुरनर्थ इति वा । अनवेक्ष्य निरवेक्ष्य; अनालोच्येत्यर्थः । 4 २६ श्रीभगवद्गीतासु भाष्या प्रकाशविलसित श्रीशाङ्करभाष्योपेतानु इदानीं कर्तृभेद उच्यते- मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्धयोर्निर्विकारः कर्ता साविक उच्यते ॥ २६॥ मुक्तसङ्ग इति । मुक्तसङ्गो मुक्तः परित्यक्तस्सङ्गो येन स मुक्तसङ्गः । अनहंवादी कर्मणस्तामसत्वेऽनुबन्धानवेक्षिकर्तृकत्वं क्षयानवेक्षिकर्तृकत्वं हिंसानवेक्षिकर्तृकत्वं पौरुषानवेक्षिकर्तृकत्वं मोहप्रयुक्तत्वं चेति हेतुपञ्चकं समुच्चित्य वा प्रत्येकं वेति बोध्यम् । अनुबन्धादिचतुष्टयान वेक्षित्वमि- त्येको हेतुरिति वा । ततश्च हेतुद्वयं समुच्चित्य प्रत्येकं वा भवतीति । ननु समुच्चयासमुच्चयपक्षद्वयम विशेषेण दर्शितं, तत्र कतरः पुनः पक्ष आश्रयणीय इतिचेत्, उच्यते— पक्षद्वयमप्याश्रयणीयमेवेति । कथम् ? नियतं कर्म सात्त्विकमित्युक्तौ सङ्गिना कुतस्यापि नियतकर्मणस्सात्त्विकत्वं स्यात् । तद्वारणाय नियतं सङ्गरहितं कर्म सात्त्विकमित्युक्तावसङ्गेनापि राग- द्वेषवता कृतं नियतकर्म सात्त्विकं स्यात् । तद्वारणाय नियतं सङ्गरहितमरागद्वेषतः कृतं कर्म सात्त्विकं स्यादित्युक्तौ रारद्वेषसङ्गशून्येन फलकामिना कृतं नियतकर्म सात्त्विकं स्यात्तद्वारणाय नियतं सङ्गरहित- मरागद्वेषतः फलकामरहितेन कृतं कर्म सात्त्विकमिति वक्तव्यम् । तथा कामेप्सुना साहङ्कारेण च कृतं बहुलायासं कर्म राजसमित्युक्तौ कामेप्सुना निरहङ्कारेण कृतं बहुलायासं कर्म राजसं न स्यात् । कामेप्सुना साहङ्कारेण च कृतमबहुलायासं कर्म राजसं न स्याच्च । तथाऽनुबन्धादिचतुष्टयानवेक्षं मोहादारब्धं च कर्म तामसमित्युक्तौ अनुबन्धादिद्वयावेक्ष तत्त्रयावेक्ष तदेकावेक्ष वा मोहादारब्धं कर्म तामसं न स्यात् । तच्चतुष्टयावेक्षमपि मोहादनारब्धं कर्म तामसं न स्यात् । अतः पक्षद्वयाश्रयणमिति । नचैवं सात्त्विककर्मलक्षणे समुच्चयः, अन्यत्रासमुच्चय- श्वाश्रयणीय इति वाच्यं, कामेप्सुना कृते बहुलायासे कर्मणि राजसत्व प्रयोजकस्यैकस्य हेतोर्निश्चित्य वक्तुमशक्यत्वेन समुच्चयस्य वक्तव्यत्वात् । एवमनुबन्धादिचतुष्टयावेक्षे मोहादारब्धे कर्मणि तामसत्व- प्रयोजकस्यैकस्य हेतोर्निधित्य वक्तुमशक्यत्वेन समुच्चयस्य वक्तव्यत्वाच्च । ननु तर्हि राजसलक्षणे तामसकर्मलक्षणे च पक्षद्वयमाश्रणीय, कुतः पुनस्सात्त्विके कर्मणी तिचे - दुच्यते - नियतत्वादिकं प्रत्येकमपि कर्मणस्सात्त्विकत्वे प्रयोजकमेवेति । नच नियतं कर्म सात्त्विक - मित्युक्तौ कामे सुना कृतं नियतकर्म सात्त्विकं स्यादिति वाच्यं कर्मणः कामेप्सुकृतत्वस्य राजसत्व- सम्पादकत्वात् । राजसत्वस्य सात्त्विकत्वदूषकत्वादिति । वस्तुतस्तु नियतमिति श्लोके समुच्चयपक्षः, मन्यत्र पक्षद्वयं चेत्येतदेव साघीयः । ।

अयं श्लोकत्रय निष्कर्षः – मुमुक्षुः पुरुषः कर्माधिकारी रागद्वेषौ सङ्गं फलकामनां चालत्वा निरहङ्कारस्सन् निरायासं स्वशक्त्यनुगुणमदुःखोदर्कम हिंसात्मकमनाशकं नित्यं कर्म निर्मोहस्सन्कुर्यात् । एतद्विपरीतं तु परित्यजेदिति ॥ २५ ॥ मुक्तेति । अनहंवदनशीलोऽहमाढ्य उत्कृष्टमिदं कर्माहं करोमीत्येवमहङ्कारगर्भ वाक्यप्रयोग- स्वभावरहित इत्यर्थः । धारणं शरीरेन्द्रियाद्यनवसादनम् । उद्यमो व्यापारः । निर्विकारो हर्षखेदरूप - अष्टादशोऽध्यायः । ३२७ अनहंवदनशीलः, वृत्युत्साहसमन्वित :- धृतिर्धारणं उत्साह उद्यमस्ताभ्यां समन्वितस्संयुक्तो धृत्युत्साहसमन्वितः । सिद्धयसिद्धयोः क्रियमाणस्य कर्मणः फलसिद्धावसिद्धौ च सिद्ध्य- सिद्धयोर्निर्विकारः, केवलं शास्त्रप्रमाणेन प्रयुक्तो न फलरागादिना यस्स निर्विकार उच्यते । एवम्भूतः कर्ता यस्स सात्विक उच्यते ॥२६॥ रागी कर्मफलप्रेप्सुलुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥ रागीति । रागी रागोऽस्यास्तीति रागी, कर्मफलप्रेप्सुः कर्मफलार्थीत्यर्थः । लुब्धः परद्रव्येषु संजाततृष्णः तीर्थादौ स्वद्रव्यापरित्यागी वा हिंसात्मकः परपीडाकरस्वभावः, अशुचिर्वाह्याभ्यन्तरशौचवर्जितः, हर्षशोकान्वित इष्टप्राप्तौ हर्षः, अनिष्टप्राप्ताविष्टवियोगे च शोक’ ताभ्यां समन्वितस्संयुक्तः, तस्यैव च कर्मणस्सम्पत्तिविपत्तिभ्यां हर्षशोकौ स्यातां, ताभ्यां संयुक्तो यः कर्ता स राजसः परिकीर्तितः ॥२७॥ अयुक्तः प्राकृतस्तब्धश्शठो नैकृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ २८ ॥ " अयुक्त इति । अयुक्तो न युक्तः, न समाहितः, प्राकृत अत्यन्तासंस्कृतबुद्धिर्वालसमः, स्तब्धो दण्डवन्न नमति कस्मैचित् शठो मायावी शक्तिगूहनकारी, नैकृतिकः परविभेदन- परः, अलसोऽप्रवृत्तिशीलः कर्तव्येष्वपि विषादी विषादवान् सर्वदाऽवसन्नस्वभावः, दीर्घ- विकाररहितः । कथं निर्विकारत्व सिद्धिरत आह— केवलमिति । यो हि फलरागादिना कर्मणि प्रवर्तते तस्य कर्मफलसिद्धौ हर्षः, तदसिद्धौ खेदश्च भवति । यः पुनश्शास्त्रप्रमाणेन कर्तव्यमित्येव कर्मणि प्रवर्तते, नतु फलमभिसन्धते कथं तस्य फलसिद्ध्यसिद्धिप्रयुक्तहर्षण्वेदप्राप्तिः ? न कथमपीति भावः ॥२६॥ रागीति । हिंसात्मक इति । शाकपार्थिवादित्वादुत्तरपदलोपी समास इत्याह- परपीडा- करस्वभाव इति । हिंसाकर आत्मा यस्य स इति समासः । हिंसा पीडनमेवात्मा स्वभावो यस्य स हिंसात्मक इत्यपि वक्तुं शक्यम् । तथा हिंसायामात्मा मनो यस्य स हिंसात्मक इत्यपि वक्तुं शक्यते । ननु हर्षशोकयोर्वस्त्वन्तरविषयत्ववर्णनं नातीव युक्तमत आह— तस्यैव वेति । तस्यैवारब्धस्य कर्मण-: स्सम्पतिविपत्त्योस्सिद्धयसिद्धयोः ॥२७॥ अयुक्त इति । बालसम इति । विद्याविहीन इत्यर्थः । स्तब्धस्स्तम्बवस्थितः । यथा दण्डो (स्तम्भो ) ऽनम्रस्सन्नैवावतिष्ठते तद्वदयमपीत्यर्थः । कस्मैचिदिति । पूज्यायेत्यर्थः । माया वञ्चना तस्यां शक्तिस्सामर्थ्यम् । तस्यागूहनकारी प्रच्छादकः । स्वयं मायावीसन्नप्यमायावीव नटितुं शीलवा- नित्यर्थः । ’ गूढ विप्रियकृच्छठ’ इति शास्त्रान्तरादिति भावः । विभेदनं मर्मोद्घाटनं हिंसनमेव वा । .. ३२८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सूत्री च कर्तव्यानां दीर्घप्रसारणः सर्वदा मन्दस्वभावः, यदद्य श्वो वा कर्तव्यं तन्मासेनापि न करोति यश्चैवम्भूतः कर्ता स तामस उच्यते ॥ २८ ॥ बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ! प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ! ॥२९॥ बुद्धेरिति । बुद्धेर्भेदं धृतेश्चैव भेदं, गुणतस्सच्चादिगुणतस्त्रिविधं शृण्वति सूत्रोप- न्यासः । प्रोच्यमानं कथ्यमानमशेषेण निरवशेषतो यथावत्पृथक्त्वेन विवेकतः । धनंजय ! दिग्विजये मानुषं दैव च प्रभूतं धनं जितवान् तेनाऽसौ धनंजयः; तस्य सम्बुद्धिर्हधनंजय अर्जुन ! ॥२९॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्ष च या वेत्ति बुद्धिस्सा पार्थ! सविकी ॥३०॥ प्रवृत्तिमिति । प्रवृत्तिं च प्रवृत्तिः प्रवर्तनं बन्धहेतुः कर्ममार्गः शास्त्रविहितविषयः; निवृत्तिं च निवृत्तिर्मोक्षहेतुस्सन्न्यासमार्गः बन्धमोक्षसमानवाक्यत्वात् प्रवृत्तिनिवृत्ती कर्म- सन्न्यासमार्गावित्यवगम्यते । कार्याकार्ये विहितप्रतिषिद्धे लौकिके वैदिके वा शास्त्रबुद्धेः कर्तव्याकर्तव्ये करणाकरण इत्येतत् । कस्य १ देशकालाद्यपेक्षया दृष्टादृष्टार्थानां कर्मणां निकृति र्निकारोऽपकारस्तया दीव्यतीति नैकृतिकः । विषादोऽस्यास्तीति विषादी । अत इनिः । व्यवसन्नः खिन्नः । दीर्घप्रसारणो दीर्घालोचन इत्येतत् । तदेव विवृणोति - सर्वदेति । मन्दो निरुद्यमस्स्वभावो यस्य स मन्दस्वभावः । अत एवाद्य वा श्वो वा कर्तव्यं यत्कर्म तन्मासेनापि न करोति । एतेन ‘सहसा विदधीत न क्रियामविवेकः परमापदां पद’ मिति भारविवचनादनालोच्य कर्म- करणमयुक्तमिति कृत्वा कथं दीर्घसूत्रिणमिह तामसत्वेन कथितमिति शङ्का परास्ता । आलोच्यैव सम्यग्यद्यदा कर्तव्यं तत्तदैव कुर्यात् नतु दीर्घमालोचयन्कर्तव्य कर्म कालमतिपातयेदिति सिद्धत्वात् ॥२८॥ बुद्धेरिति । हे धनञ्जय ! अशेषेण पृथक्त्वेन प्रोच्यमानं बुद्धेर्धतेश्चैव गुणतस्त्रिविधं मेदं शृणु ! सूत्रोपन्यास इति । बुद्धिर्धृतिश्च गुणतस्त्रिविधेतीदं सूत्रभूतं वाक्यमित्यर्थः । प्रवृति च निवृति चेत्यादिवक्ष्यमाणग्रन्थस्तु तद्वृत्तिस्थानीय इति भावः । धनञ्जयेति सम्बुद्धिर्यथा बाह्यान्शत्रून् जित्वा श्वया धनं सम्पादित, तथा कामादीनन्तश्शत्रूनपि जित्वा मोक्षस्सम्पादनीय इत्यभिप्रायगर्भा ॥ २९ ॥ 1 प्रवृत्तिमिति । हे पार्थ! या बुद्धिः प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्ष च वेत्ति सा सात्त्विकी भवति । बन्धहेतुरिति । देवत्वादिजन्मादिहेतुत्वादिति भावः । ननु प्रवृत्तिः प्रवर्तन निवृतिर्निवर्तनमिति कुतो न व्याख्यायतेऽत आह— बन्धेति । बन्धं मोक्षं च या वेतीति वाक्येन समानवाक्यत्वात्प्रवृतिं च निवृत्ति च वेतीति वाक्यस्य बन्धमोक्षहेतुकर्म सन्न्यासमार्गपरत्वमिति भावः । करणं क्रिया । अकरणं तूष्णींभावः । कहयेमे करणाकरण इति पृच्छति कस्येति । साधते- 1

४२ अष्टादशोऽध्यायः । १९९ भया- भयाभये विभेत्यस्मादिति भयं चोख्याघ्रादि, न भयमभयं भयं चाभयं च भयाभये, भययोर्दृष्टादृष्टयोरेव कारण इत्यर्थः । बन्धं सहेतुकं मोक्षं च सहेतुकं या वेत्ति विजानाति बुद्धिस्सा पार्थ साविकी । तत्र ज्ञानं बुद्धेर्वृतिर्बुद्धिस्तु वृत्तिमती । धृतिरपि वृत्तिविशेष एव बुद्धेः ॥ ३० ॥ कर्मणामिति । यस्मिन्देशे यस्मिन्काले येषां कर्मणां शास्त्रतः करणमकरणं च युक्तं तत्सर्वं यथाव- द्वेतीत्यर्थः । भयाभयशब्दावत्र न धर्मपरौ । किंतु तद्धेतुपरा वित्याह — विभेत्यस्मादिति भयमिति । यस्मादिवमेति तद्भयं यस्मान्न बिभेति तदभयम् । किं तद्भयमत आह चोरेति । आदिपदान्नर- कादिग्रहणम् । अभयं पत्नीपुत्रसुकृतादि । दृष्टादृष्टयोरेवेति । दृष्टयोरदृष्टयोश्चेत्यर्थः । चोख्या- घादिजन्यं भयं दृष्टं, नरकादिजन्यं त्वदृष्टं; तथा पत्न्यादिजन्यमभयं ( भयराहित्यं ) दृष्ट, सुतनादिजन्य त्वभयमदृष्टमिति विवेकः । तयोः कारणे । तेऽपि कारणे दृष्टादृष्टे एव । दृष्टभयहेतो श्वोव्याघ्रादे- दृष्टकारणत्वाददृष्टभयहेतोर्नरकादेरदृष्ट भयकारणत्वाच्च । एवं दृष्टाभयहेतोः पुत्रमित्रा देईष्टकारणत्वा- ददृष्टा भयहेतोस् सुकृतादेरदृष्टाभयकारणत्वाच्च । तदेवं भयाभये या वेतीत्यस्य दृष्टादृष्ट भयाभयकारणे या वेतीत्यर्थः फलितः । यथाश्रुतार्थे तु इदं भयमिदमभयमिति भयाभयरूपधर्मज्ञानस्य सर्वसाधारणत्वेन न तस्य सात्त्विक - बुद्धिधर्मत्वं स्यादिति बोध्यम् । ननु चोरव्याघ्रादीन् भयहेतव इति, पुत्त्रमित्रादीनभयहेतव इति च सर्वे विदन्त्येवेतिचेन्मैवम् – सत्यपि सर्वेषां दृष्टभयाभयहेतु वेदनेऽदृष्टभयाभयहेतु वेदनाभावादिति । ननु संसारो बन्धस्तदभावो मोक्ष इति सर्वसामान्यमेव ज्ञानमत आह- सहेतुकमिति । अविद्यारागादयो बन्धहेतवः, भक्तिज्ञानादयो मोक्षहेतव इति विवेकः । बन्धहेतुर्भयहेतुश्च करणात्मकः प्रवृत्तिमार्गः । मोक्षहेतुरभयहेतुश्वाकरणात्मको निवृत्तिमार्ग इति या वेत्ति सा बुद्धिस्सात्त्विकीति परमार्थः । यद्वाऽयं प्रवृत्तिमार्गः, अयं पुनर्निवृत्तिमार्गः अस्मिन्देशे कालेsस्य कर्मणः करणं श्रेयः अस्याकरणं श्रेयः, इदं भयकारणमिदमभयकारणमयं बन्धहेतुरयं मोक्षहेतुरयं बन्धोऽयमेव मोक्ष इति प्रवृत्त्यादीन्यथावद्वेत्ति सा बुद्धिस्सात्त्विकीति । ननु बुद्धिर्वेतीत्यस्य बुद्धिर्ज्ञानाश्रय इति ह्यर्थः । कर्तुः क्रियाश्रयत्वाद्वेदनकर्तृत्वाच्च बुद्धेः । कथं ज्ञानात्मिकायाः बुद्धेर्ज्ञानाश्रयत्वमत आह- तवेति । बुद्धिज्ञानयोर्मध्य इत्यर्थः । वेतीति धात्वर्थभूतं यद्ज्ञानं सा बुद्धेर्वृतिः । बुद्धिर्हि वेद्यात्मना परिणमते, सच परिणामो वृत्तिरित्युच्यते । साच वृत्तिः क्रियैवेति विदिधात्वर्थज्ञानत्वं बुद्धिवृतेरेव क्रियावाचित्वाद्धातूनाम् । ननु यदि बुद्धिवृत्तिरेव ज्ञानं, नतु बुद्धिस्तर्हि बुद्धिः केत्यत आह-बुद्धिस्त्विति । वृत्तिमती बुद्धि:, नतु वृतिः । तथाच बुद्धे- वृत्तिमत्या वृत्स्याश्रयत्वस्यो चितत्वाद्बुद्वेर्ज्ञानाश्रवं युकमेवे ते बुद्धिवतीते सम्यगु कमि. ते भात्रः । प्रवृत्त्यादिविषयाकारपरिणामवती बुद्धिस्सात्विकी ते परमार्थश्लोकस्य । ३३० श्रीभगवद्गीतासु भाव्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यया धर्ममधर्मे च कार्यं चाऽकार्यमेव च । अयथावत्प्रजानाति बुद्धिस्सा पार्थ ! राजसी ||३१|| ययेति । यया धर्म शास्त्रचोदितमधर्मे च तत्प्रतिषिद्धं कार्यं चाकार्यमेव च पूर्वोके एव कार्याकार्ये, अयथावन्न यथावत्सर्वतोऽनिर्णयेन न प्रजानाति या बुद्धिस्सा पार्थ राजसी ॥ अधर्म धर्ममिति या मन्यते तमसाऽऽवृता । सर्वार्थान् विपरीतांश्च बुद्धिस्सा पार्थ ! तामसी ॥३२॥ अधर्ममिति । अधर्मं प्रतिषिद्धं विहितं धर्ममिति या मन्यते जानाति तमसाऽऽवृता सती, सर्वार्थान् सर्वानेव ज्ञेयपदार्थान् विपरीतांश्च विपरीतानेव विजानाति बुद्धिस्सा पार्थ ! तामसी ॥ ३२ ॥ धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिस्सा पार्थ ! साविकी ॥ ३३ ॥ धृत्येति । धृत्या ययाऽव्यभिचारिण्या इति व्यवहितेन सम्बन्धी धारयते । किम् ? नच बुद्धेरन्तःकरणस्य कर्तृत्वमयुक्तमिति वाच्यं, परिणामकियां प्रति कर्तृत्वस्य युक्तत्वात् । करणमपि चक्षुः परिणाम क्रियायां भवति हि कर्तृ । चक्षुर्घटरूपेण परिणमत इति प्रयोगात् । एतेन बुद्धेः क्षेत्रस्य वेत्तृत्वं कथं तस्य क्षेत्रज्ञधर्मत्वादिति शङ्का प्रत्युक्ता । विषयाकारपरिणाममात्रमेव वेत्तृत्वं बुद्धेरिहोकं, नतु ज्ञातृत्वमिति । यथा चक्षुर्घटाकारपरिणतमपि घटं न वेद तथा बुद्धिः प्रवृ- त्यादिविषयाकारपरिणतापि प्रवृत्त्यादीन् न वेदैव, किं स्वात्मैव परिणतां तां वेद परिणतं चक्षुरिवे- त्यात्मैव प्रवृत्त्यादीन् वेति । बुद्धिस्तु करणमेव । बुद्धिवृत्त्यैवात्मना प्रवृत्त्यादीनां विदितत्वात् । नच बुद्धिवृतेरेव करणत्वं न बुद्धेरिति वाच्यं, वृत्तिवृत्तिमतोरक्यात् । नहि शस्त्रधारया भिनती- त्युक्तौ शस्त्रधाराया एव करणत्वं नतु शस्त्रस्येति वक्तुं शक्यते । तस्माद्यया प्रवृत्त्यादीम् यथावद्वेत्ति पुरुषस्सा बुद्धिस्सात्त्विकीति श्लोकसारार्थः । या वेतीति बुद्धेर्वेत्तृत्वकथनं त्वौपचारिकं करणे कर्तृत्व- स्योपचरितत्वात् । ननु भगवता यया वेत्तीति साक्षादेव कुतो नोक्तमिति चेदुच्यते - बुद्ध्युपाधिकृत - मेव वेत्तृत्वधर्म आत्मनि निर्धर्मक इति ज्ञापनार्थमिति । ननु ज्ञानं बुद्धिवृचिरस्तु धृतिः पुनः केत्यत आह— धृतिरपीति ॥ ३० ॥ ययेति । प्रजानातीति, पुरुष इति कर्तुश्शेषः । अत्र बुद्धेर्वेदनक्रियायां करणत्वमेवोक्तम्- ययेति । धर्माधर्मादिनिर्णयरहिता बुद्धी राजसीत्यर्थः ॥ ३१ ॥ अधर्ममिति । या तमसा आवृता अत एवाधर्मे धर्ममिति मन्यते सर्वार्थान् विपरीतांश्च मन्यते हे पार्थ | सा बुद्धिस्तामसी । विपरीतबुद्धिस्तामसी त्यर्थः ॥ ३२॥ धृत्येति । पुरुष इति शेषः । योगेनाऽव्यभिचारिण्या यया धृत्या मनः प्राणेन्द्रियक्रियाः घारयते अष्टादशोऽध्यायः । ३३१ मनः प्राणेन्द्रियक्रिया :- मनश्च प्राणश्चेन्द्रियाणि च मनःप्राणेन्द्रियाणि तेषां क्रियाश्चेष्टास्ता उच्छास्त्रमार्गप्रवृत्तेर्धारयते धारयति, धृत्या हि धार्यमाणा उच्छास्त्रमार्गविषया न भवन्ति योगेन समाधिना, अव्यभिचारिण्या नित्यसमाध्यनुगतयेत्यर्थः । एतदुक्तं भवति - अव्यभिचारिण्या धृत्या मनः प्राणेन्द्रियक्रिया धार्यमाणा योगेन धारयतीति यैवलक्षणा धृतिस्सा पार्थ ! सात्त्विकी ॥३३॥ यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन ! प्रसङ्गेन फलाकांक्षी धृतिस्सा पार्थ ! राजसी ॥ ३४ ॥ ययेति । यया तु धर्मकामार्थान - धर्मश्च कामश्चार्थश्च धर्मकामार्थास्तान्धर्मकामार्थान् धृत्या यया धारयते मनसि नित्यमेव कर्तव्यरूपानवधारयति हे अर्जुन ! प्रसङ्गेन यस्य यस्य धर्मादेर्धारणप्रसङ्गः तेन तेन प्रसङ्गेन फलाकांक्षी च भवति यः पुरुषः तस्य या धृतिस्सा पार्थ ! राजसी भवति ॥ ३४ ॥ यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिस्सा पार्थ ! तामसी ||३५|| ययेति । यया स्वप्नं निद्रां भयं वासं शोकं विषादं विषण्णतां मदं विषयसेवा - हे पार्थ! सा सात्विकी भवति । धारयति नियमयतीत्यर्थः । कुत इत्यत आह- उच्छास्त्रमार्ग- प्रवृत्तेरिति । उत्सृष्ट शास्त्र येन स उच्छात्रः, स चासौ मार्ग उच्च्छास्त्रमार्ग :- शास्त्रविरोधिमार्ग इत्यर्थः । तत्र प्रवृत्तेरसकाशादव्यभिचारिण्या व्यभिचारशून्यया । केनास्या आशङ्कितो व्यभिचारोऽत आह— योगेनेति । योगव्यभिचारशून्ययेत्यर्थः । फलितमाह — नित्येति । सदापि समाधानवत्येत्यर्थः । अव्यभिचारिण्या ध्रुवया, तत्र हेतुस्तु योगेनेति व्याख्यानान्तरम् । योगेन हेतुना अव्यभिचारिण्येत्यर्थः । अस्मिन्नेव व्याख्यानान्तरेऽभिप्रायमाह - एतदुक्तमित्यादिना । अव्यभिचारिण्या धृत्या मनः पाणे- न्द्रियक्रिया यथा धार्यमाणा भवेयुस्तथा योगेन धारयतीत्यन्वयः ॥ ३३ ॥ ययेति । हे अर्जुन ! पुरुषो यया धृत्या तु धर्मकामार्थान् धारयते, प्रसङ्गेन फलाकांक्षी च भवति हे पार्थ! सा धृतिः राजसी भवति । अर्थो धनम् । प्रसङ्गेन धर्मादिधारणप्रसङ्गेनेत्यर्थः । फलाकांक्षी सन् धर्मकामार्थ सिद्धयर्थं मन. प्राणेन्द्रियक्रिया यया धारयति पुरुषस्सा धृती राजसीत्यर्थः । नच धर्मकामार्थान्मनसि कर्तव्य रूपानवधारयतीत्येवाचार्यैर्भाषितमिति वाच्यं मनस्यवधारणस्यैव मान- सिकचेष्टाधारणत्वा तत्पूर्वकत्वाच प्राणेन्द्रियचेष्टाधारणस्य, तस्माद्भाष्यार्थसिद्ध एव मदुक्तार्थः ||३४|| + ययेति । दुर्मेधा यया स्वप्नं भयं शोकं विषादं मदमेव च न विमुञ्चति हे पार्थ! सा धृतिस्तामसी भवति । विषयेति । आत्मनो विषयसेवामेव बहुमन्यमानस्सन् येन मंत्त इव भवति स मद इत्यर्थः । स्वमभयादय एव मया नित्यं कर्तव्या इति मनस्यनुसन्धाय तदर्थं मनः प्राणेन्द्रियक्रिया ३३२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाडरभाथ्योपेतासु मात्मनो बहुमन्यमानो मत्त इव मदमेव च मनसि नित्यमेव कर्तव्यरूपतया कुर्वन्न विमुञ्चति धारयत्येव दुर्मेधाः कुत्सितमेधाः पुरुषो यो तस्य धृतिर्या सा तामसी मता ||३५|| गुणभेदेन क्रियाणां कारकाणां च त्रिविधो भेद उक्तः । अथेदानीं सुखस्य च फलस्य च त्रिविधो भेद उच्यते- सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ ३६ ॥ सुखमिति । सुखं त्विदानीं त्रिविधं शृणु ! समाधानं कुर्वित्येतत् । मे मम भरतर्षभ । अभ्यासात्परिचयादावृत्तेः, रमते रतिं प्रतिपद्यते यत्र यस्मिन् सुखानुभवे दुःखान्तं च दुःखावसानं दुःखोपशमनं च निगच्छति निश्चयेन प्राप्नोति ॥ ३६ ॥ यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ||३७|| यदिति । यत्तत्सुखमग्रे पूर्व प्रथमसन्निपाते ज्ञानवैराग्यध्यानसमाध्यारम्भेऽत्य- न्यायासपूर्वकत्वाद्विषमिव दुःखात्मकं भवति, परिणामे ज्ञानवैराग्यादिपरिपाकजं सुखममृ- यया धारयति पुरुषस्सा धृतिस्तामसीत्यर्थः । एवंविधाया घृतेर्बुद्धिवृत्तेर्दुष्टत्वाद्दुर्बुद्धेः पुरुषस्यैवेदृशी धृतिरित्याह - दुर्मेधा इति । दुष्टा मेघा बुद्धिर्यस्य स दुर्मेधाः । ‘नित्यमसिच् प्रजामेधयो’ रित्यसिच् । फलमनभिसन्धाय स्वप्नभयादिकं विहाय मोक्षार्थं मन आदिक्रियाः पुरुषेण धृत्या धारयितव्या मुमुक्षुणेति श्लोकत्रयार्थः ॥३५॥ सुखमिति । सुखस्य च फलस्येति । फलभृतस्य सुखस्येत्यर्थः । हे भरतर्षभ । इदानीं त्रिविधं सुखं मे वाक्यादिति शेषः । शृण्ववधारय । ननु शृण्वत्युक्तिव्येयेत्यत आह- समाधानं बुदिति । चित्तसमाधानार्थं वक्ष्यमाणार्थे शृणुशब्दप्रयोग इति भावः । तत्र सात्त्विकं सुखं लक्षयति सार्धश्लोकेन - अभ्यासादिति । पुरुष इति, चित्तमिति वा शेषः । यत्राभ्यासाद्रमते दुःखान्तं च निगच्छति, तद्यच्चाये विषमिव भाति परिणामेऽमृतोपमं भवति तच्चात्मबुद्धिप्रसादज सुखं सात्त्विकं प्रोक्तम् । आवृत्तेरिति । पुनः पुनरित्यर्थः । एतेन सुखस्यास्याक्षणिकत्वं गम्यते । नहि विषयसुखे क्षणिके असकृद्रतिरुपपद्यते । तस्माश्चिरकालावस्थायी स्वात्मसुखानुभव एवेह विवक्षित इति ज्ञेयम् । तत एव दुःखान्तप्राप्तिसम्भवात् । विषयसुखमनुभवन् हि पुरुषः दुःखाद्दुःखमेव गच्छति, नतु दुःखान्तम् । प्रारब्धविषयसुखना शासु खान्तरालाभाच दुःखमेव हि स प्रपद्यते ॥ ३६ ॥ यदिति । यतदित्यत्र तच्छन्दः प्रसिद्धार्थकः । अग्रे इति । उत्पत्तेः प्रागित्यर्थः । तदे- बाह - ज्ञानेति । ज्ञानं श्रवणादिकं वैराग्यं विषयासवत्यभावः । ध्यानमुपासनं, समाधिश्चित्तैकाग्र्यम् । तेषामारम्भदशायाम् । दुःखात्मकं दुःखस्वभावं दुःखस्वरूपं वा, कष्टसाध्यत्वादिति भावः । इदमे- बाह— अत्यन्तति । परिणामः फलदशा | सदैव सुखस्य जातत्वादाह – ज्ञानवैराग्यादिपरिपाकज-

अष्टादशोऽध्यायः ३३३ तोपमं तत्सुखं साच्चिकं प्रोक्तं विद्वद्भिः । आत्मनो बुद्धिरात्मबुद्धिः, आत्मबुद्धेः प्रसादो नैर्मल्यं सलिलस्येव स्वच्छता; ततो जातमात्मबुद्धिप्रसादजमात्मविषया वाऽऽत्मावलम्बना वा बुद्धिरात्मबुद्धिः तत्प्रसादप्रकर्षाद्वा जातमित्येतत् । तस्मात्सात्त्विकं तत् ॥३७॥ विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ ३८॥ विषयेति । विषयेन्द्रियसंयोगाज्जायते यत्सुखं तत्सुखमग्रे प्रथमक्षणेऽमृतोपममृतसम परिणामे विषमिव बलवीर्य रूपप्रज्ञामेधाधनोत्साहहानिहेतुत्वादधर्मतज्जनितनरकादिहेतुत्वाच्च परिणामे तदुपभोगविपरिणामान्ते विषमिव तत्सुखं राजसं स्मृतम् ॥३८॥ मिति । कस्मादिदं जायते अत आह— आत्मबुद्धीति । ज्ञानादिभिरात्मोपाधिभूतबुद्धः प्रसादे जाते संति तत इदं जायत इत्यर्थः । आत्मबुद्धेरित्यस्यार्थान्तरमाह — आत्मेति । आत्मैव विषयो गोचर आत्मविषयः तदाकारा अखण्डज्ञानाकारेत्यर्थः । अर्थान्तरमाह — आत्मविषयालम्बनेति । आत्मैव विषय आत्मविषयस्स आलम्बनं यस्यास्सा तथोक्ता । आत्मनिष्ठेत्यर्थः । आत्मोपाधिभूता आत्माकारा आत्मालम्बना वा बुद्धिरात्मबुद्धिरित्यर्थत्रयं फलितम् । तस्मादिति । आत्मबुद्धिप्रसादजातत्वादित्यर्थः । बुद्धिप्रसादस्य सत्त्वगुणमयत्वादिति भावः । एतेन ज्ञानादिसाधननिर्मलीकृतात्मबुद्धिगोचरात्मसुखं सात्त्विकमिति सिद्धम् ॥३७॥ विषयेति । यद्विषयेन्द्रिसंयोगाज्जायत इति शेषः । तत्सुखमग्रेऽमृतोपनं परिणामे विषमिव भवति तत्सुखं राजसं स्मृतम् । अग्रेऽमृतोपमं परिणामे विषायितं च विषयेन्द्रियसंयोगजं सुखं राजस- मित्यर्थः । विषयानुभवसुखं राजसमिति यावत् । विषयाणामिन्द्रियैस्सह संयोगः विषयैस्सहेन्द्रियाणां संयोगः विषयाणामिन्द्रियाणां च परस्परं सयोग इति वा विषयेन्द्रियसंयोगः । श्रोत्रादिभि- रिन्द्रियैश्शब्दादिषु विषयेष्विष्टेषु गृह्यमाणेषु सत्सु यत्सुखं बुद्धौ जायते तदित्यर्थः । प्रथमक्षण इति । उत्पत्तिक्षण इत्यर्थः । अमृतोपमममृततुल्यम् । बलेति । विषयसुखावशेषस्य स्त्रीसम्भोगजसुखस्य बलादि- नाशहेतुत्वं प्रसिद्धमेवेति भावः । बलं देहशक्ति; वीर्यमिन्द्रियशक्;ि रूपं सौन्दर्य; प्रज्ञा सदस- द्विवेचनचातुर्य ग्रहणशक्तिर्वा; मेघा धारणशक्ति; घनं प्रसिद्धमुत्साह उद्यमः; एतेषां हानिं प्रति हेतुत्वात् । दृश्यन्ते हि स्त्रीलम्पटा बलवीर्यादिरहिताः । एवं बलवीर्यादिनाशकत्वेन विषतौल्यमुक्त्वा प्रकारान्तरेण विषतौल्यमाह - अधर्मेति । दुःखहेतुत्वरूपमपि विषतौल्यमस्तीत्यर्थः । परस्त्रीसम्मो- गाधिजन्यसुखस्य, दिवाग्रहणामावास्यादि सामायिक स्वस्त्रीसम्भोगजन्यसुखस्य चाधर्मत्वेन नरकादिहेतुत्व- मस्तीति भावः । नरकं यमलोकयातना । आदिपदात्स्थावरादि जन्मप्राप्तिः । तदुपभोगेति । विष- योपभोगेत्यर्थः । परिणामः परिपाकः, तद्रूपोऽन्तो नाशस्तस्मिन्परिणामान्ते । नचैवं स्त्रीसुखमेव राजसं, / ३३४ श्रीभगवद्गीतासु - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतासु यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्राऽऽलस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ ३९ ॥ यदिति । यदग्रे चानुबन्धे चावसाने चोत्तरकाले सुखं मोहनं मोहकरमात्मनः, निद्रालस्यप्रमादोत्थं निद्रा चालस्य च प्रमादश्चेत्येतेभ्यस्समुत्तिष्ठतीति निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥३९॥ अथेदानीं प्रकरणोपसंहारार्थश्श्लोक आरभ्यते- न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सच्चं प्रकृतिजैर्मुक्तं यदेभिस्स्यात्त्रिभिर्गुणैः ॥४०॥ नेति । न तदस्ति तन्नास्ति पृथिव्यां वा मनुष्यादिषु सत्त्वं प्राणिजातमन्यद्वाऽप्राणि- जातं दिवि देवेषु वा पुनरसत्त्वं प्रकृतिजैः प्रकृतितो जातैरेभिस्त्रिभिर्गुणैस्सत्त्वादिभिर्मुक्तं परित्यक्तं यत्स्याद्भवेन्न तदस्तीति पूर्वेण सम्बन्धः ॥ ४० ॥ " नतु विषयसुख सामान्यमिति वाच्यं सर्वस्मिन्नपि विषयसुखे अग्रेऽमृतोपमत्वस्य परिणामे विषोपमत्वस्य विषयेन्द्रियसंयोगजन्यत्वस्य च सत्त्वात् । कथमिति चेदुच्यते - चक्षुषा रम्यं वस्तु पश्यन् पुरुष आदौ सुखमनुभवन् क्षणान्तर एव तद्वस्त्वलाभाचद्वस्तुपारोक्ष्याच्च खिद्यते । एवं श्रोत्रेण गानं शृण्वन्नपि, तथा जिया चूतफलादिरसमनुभवन् पुरुषोऽनुभवकाले सुखमनुभवन्नपि पश्चात्प्रकृतरसनाशाद्रसान्तरालाभा- लामे वा तदुपभोगशक्त्यभावात्, बलादत्यशनेऽजीर्णादि रोगसम्भवाच खिद्यते । एवं स्पर्शादिष्व- प्यूयम् । तस्मात्सर्वमपि वैषयिकं सुखं राजसम् ॥ ३८ ॥ यदिति । निद्रालस्यप्रमादोत्थं यत्सुखमग्रे चानुबन्धे चात्मनो मोहनं तत्सुखं तामसमुदाहृतं शिष्टैरिति शेषः । मोहो वैचित्त्यम् । यत्सुखमनुभवन्नपि पुरुषोऽहमिदं सुखमनुभवामीति न प्रत्येति; पश्वाच नानुसन्धते तत्सुखं तामसं तच निद्रादिभिर्भवस्यात्मनः प्रमातुः नतु चिन्मात्रस्य तस्य मोहासम्भवात् । प्रमाता हि निद्रादिजं सुखमनुभवन्नचेतन इव भवति । नच निद्रासुखं ब्रह्मानन्द एवेति कथं तस्य तामसत्वमिति वाच्यं, अज्ञानावृतत्वात्तस्य । नहि समाधाविव निद्रायामनुभूय- मानस्याप्यात्मानन्दस्य प्रकाशोऽस्ति । तस्मात्समाधौ प्रकाशमाने आत्मानन्दस्सात्त्विकं सुखं निद्रादा- वप्रकाशमान आनन्दस्तामसं सुखमिति बोध्यम् । बालस्यं मान्द्यं तूष्णींभाव इति यावत् । तूष्णी- भावसमये अन्तर्मुखमनोवृत्तावात्मानन्दः प्रतिफलति । तमानन्दमनुभवन्नपि सोऽलसोऽज्ञानादह- मानन्दमनुभवमीति न प्रत्येति; किंतु मूढ इव वर्तते । प्रमादोऽनवधानता । चितेऽनव हिते सति कदाचिदात्मानन्दः प्रतिफलन्नपि न प्रकाशते । न चानुभवदशायां निद्रादिजन्यसुखस्य मोहनत्वमस्तु- नाम कथं पुनः परिपाकदशायामिति वाच्यं, निद्रोत्थितस्य पुरुषस्यापि किञ्चित्कालं मोहस्य दर्शनात् || नेति । पृथिव्यां वा दिवि देवेषु वा पुनर्यत्सत्त्वं प्रकृति जैरेभिस्त्रिभिर्गुणैर्मुक्तं स्यात्तन्नास्ति । यत्सत्त्वं प्रकृतिजैरेभिस्त्रिभिर्गुणैर्मुक्तं स्यात्तत्पृथिव्यां वा दिवि देवेषु वा पुनर्नास्तीति वा । पृथिव्यांमहादशोऽध्यायः । ३३५ सर्वस्संसारः क्रियाकारक फललक्षणस्सत्वरजस्तमोगुणात्मको ऽविद्या परिकल्पितस्समूलोऽ- नर्थ उक्तः । वृक्षरूपकल्पनया च ‘ऊर्ध्वमूल’ मित्यादिना, तं च ‘असङ्गशस्त्रेण दृढेन छित्त्वा ततः पदं तत्परिमार्गितव्य मिति चोक्तम् । तत्र च सर्वस्य त्रिगुणात्मकत्वात्संसारकारण- निवृत्त्यनुपपत्तौ प्राप्तायां यथा तन्निवृत्तिस्स्यात्तथा वक्तव्यम् । सर्वश्व गीताशास्त्रार्थ उप- संहर्तव्यः । एतावानेव च सर्ववेदस्मृत्यर्थः पुरुषार्थमिच्छद्भिरनुष्ठेय इत्येवमर्थं च ‘ब्राह्मण- क्षत्रियविशा ‘मित्यादिरारभ्यते- ब्राह्मणक्षत्रिय विशां शूद्राणां च परन्तप ! कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥४१॥ ब्राह्मणेति । ब्राह्मणाथ क्षत्रियाच विशश्च ब्राह्मणक्षत्रियविशस्तेषां ब्राह्मणक्षत्रिय- विशां शूद्राणां च शूद्राणामसमासकरणमेकजातित्वे सति वेदानधिकाराद्धे परन्तप ! कर्माणि वर्तमानेषु मनुष्यादिषु प्राणिषु दिवि वर्तमानेषु देवेषु च सत्त्वादिगुणत्रयमुक्तः कोऽपि प्राणी नास्ती- त्यर्थः । चराचरात्मकं देवमनुष्यपश्वाद्यात्मकं तृणवीरुद्गुल्माद्यात्मकं च सर्वमपि प्राणिजातं ब्रह्मादि- स्तम्बपर्यन्तं सत्त्वादिगुणत्रययुक्तमेवेति भावः । वा पुनश्शब्दार्थमाह— अन्यद्वाऽप्राणिजातमिति । अचेतनेष्वपि मणिलोहपाषाणादिषु सात्त्विकत्वादि मेददर्शनादिति भावः । प्रकृतिर्मूलकारणं माया, त्रिगुणात्मिका वैष्णवी शक्तिः ॥४०॥ ब्राह्मणेति । अनर्थस्सर्वस्संसार उक्तः । वृक्षरूपकल्पनया चोर्ध्वमूलमित्यादिना संसार उक्तः । पञ्चदशाध्याय इति शेषः । तत्र चेति । एवंसतीत्यर्थः । सर्वस्येति । सर्वस्य जगतस्त्रिगुणात्म- कत्वात्संसारस्यापि त्रिगुणात्मकत्वात्संसारकारणस्य गुणत्रयस्य तदात्मकाज्ञानस्य वा निवृत्तिः कथं स्यात् ? न कथमपीत्यर्थः । नच ज्ञानादिना स्यादिति वाच्यं तस्यापि त्रिगुणात्मकत्वात् । नहि त्रिगुणात्मकं ज्ञानादिकं त्रिगुणात्मकं संसारं निवर्तयेति भावः । तन्निवृत्तिस्तदनुपपत्तिनिवृत्तिः । तद्वक्तव्यं तथा वक्तव्यमित्यर्थः । यथा येन कारणेन तन्निवृत्तिस्संसार निवृत्तिस्स्यात्तत्कारणं वक्तव्य- मिति वा । तद्वक्तव्यमित्येवमर्थं सर्वश्व गीताशास्त्रार्थ उपसंहर्तव्य इत्येवमर्थे पुरुषार्थमिच्छद्भिरनुष्ठेय एतावानेव सर्ववेदस्मृत्यर्थ इत्येवमर्थे च ब्राह्मणक्षत्रिय विशामित्यादिर्ग्रन्थ आरभ्यते भगवतेति शेषः । हे परन्तप ! ब्राह्मणक्षत्रियविशां शूद्राणां च कर्माणि स्वभावप्रभवैर्गुणैः प्रविभक्तानि । विशो वैश्याः । ननु ब्राह्मणक्षत्रियविट्छूद्राणामिति समासः कुतो न कृतः ? चत्वारो हि मनुष्यजातीया अत आह— शूद्राणामिति । ब्राह्मणक्षत्रियविशो हि द्विजत्वाद्वेदाघिकारिणः । शूद्रास्तु न तथेत्यतश्शूद्राणां समासा- स्पृथक्करणमित्यर्थः । एकजातित्वे सतीति । वेदाघिकाराभावे हेतु :- ‘जन्मना जायते शूद्रः कर्मणा जायते द्विज’ इति स्मरणाच्छूद्रस्यैकजातित्वम् । एकं जन्मैव जातिर्येषां ते एकजातयः । द्वे जन्म- कर्मणी जाती येषां ते द्विजातयः । तथा चैकज तेस्शूद्ध योपनयनादिसंस्कार कुन कर्म रूपजन्माश्रावान्न ३३६ श्रीभगवद्गीतासु - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु प्रविभक्तानीतरेतरविभागेन व्यवस्थापितानि । केन ? स्वभावप्रभवैर्गुणैस्स्वभाव ईश्वरस्य प्रकृतिस्त्रिगुणात्मिका माया सा प्रभवो येषां गुणानां ते स्वभावप्रभवास्तैः शमदमादीनि कर्माणि प्रविभक्तानि ब्राह्मणादीनाम् । अथ वा ब्राह्मणस्वभावस्य संवगुणः प्रभवः कारणं, तथा क्षत्रियस्वभावस्य सच्वोपसर्जनं रजः प्रभवः, वैश्वस्वभावस्य तम उपसर्जनं रजः प्रभवः, शूद्रस्वभावस्य रजउपसर्जनं तमः प्रभवः प्रशान्त्यैश्वर्ये हा मूढस्वभावदर्शनाच्चतुर्णाम् । अथवा जन्मान्तरकृतसंस्कारः प्राणिनां वर्तमानजन्मनि स्वकार्याभिमुखत्वेनाभिव्यक्तस्स्वभाव: स प्रभवो येषां गुणानां ते स्वभावप्रभवा गुणाः, गुणप्रादुर्भावस्य निष्कारणत्वानुपपत्तेः । वेदाघिकारः । उपनयनादिना संस्कृतो हि वेदेऽधिकरोति । अत एव स्त्रीणामपि न वेदाधिकार : उपनयनादिसंस्काराभावात् । अत एव स्मर्यते - ‘स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा’ इति । द्विजबन्धवस्तन्तुमात्रधरा रथकारादयः । इतरेतरविभागेनेति । परस्परासाङ्कर्येणेत्यर्थः । शमादी- नीत्यादिपदाच्छौर्य कृषिसेवाग्रहणम् । यद्वा शमो दम इत्यादिश्लोकत्रयोक्तानां दमादीनां ग्रहणम् । ब्राह्मणादीनामित्यादिपदात्क्षत्रिय विट्छूद्रग्रहणम् । सत्त्वादिगुणवशाद्ब्राह्मणादीनां शमादिकर्माणि पृथ- गवस्थितानीत्यर्थः । ननु गुणानां प्रकृतिप्रभवत्वकथनं व्यर्थ प्रसिद्धत्वादत आह–अथ वेति । स्वभावानां प्रभवाः कारणानि स्वभावप्रभवाः । ब्राह्मणादीनां चतुर्णां ये परस्परविलक्षणाश्चत्वारस्स्वभावाः । तद्धेतुभूता इत्यर्थः । । ननु त्रयाणां गुणानां कथं स्वभाव चतुष्टयहेतुत्वमत आह— ब्राह्मणेत्यादि । सत्त्वगुणा- ब्राह्मणस्वभावो जायते, सत्त्वोपसर्जनाद्रजोगुणात्क्षत्रियस्वभावः, तमोगुणोपसर्जनाद्रजोगुणाद्वैश्य- स्वभावः, रजोगुणोपसर्जनात्तमोगुणाच्छूद्रस्वभाव इत्यर्थः । सत्वमुपसर्जनमप्रधानं यस्य तत्सत्वोप - सर्जनम् । स्वो भावस्वभावः । स्वासाधारणो धर्मः । स्वभावानेव दर्शयति — प्रशान्तीति । प्रशान्ति- स्वभावो ब्राह्मणस्य । ऐश्वर्यस्वभावः क्षत्रियस्य । ईहास्वभावो वैश्यस्य । मूढस्वभावश्शूद्रस्य इति विवेकः । ईहा धनार्जनप्रवृत्तिः । ननु ब्राह्मणादीनां गुणैः कर्माणि व्यवस्थापितानीत्यनेनैव तचत्स्व- भावहेतुत्वस्य गुणानां सिद्धत्वाद्यर्थमेव स्वभावप्रभवत्वविशेषणमित्यतः पक्षान्तरमाह – अथ वेति । प्रारब्धं कर्मेह स्वभावशब्दार्थः । ब्राह्मणादीनां स्वस्वप्रारब्धकर्मवशात्सत्त्वादयो गुणाः प्रादुर्भवन्ति; तैश्व गुणैस्तत्तच्छमादिकर्माणि प्रविभक्तानीत्यर्थः । प्राणिनां जन्मान्तरकृतसंस्कारो वर्तमानजन्मनि स्वकार्याभिमुखत्वेनाभिव्यक्तस्सन् स्वभाव इत्युच्यते । सञ्चितकर्मव्यावृत्त्यर्थं सन्नन्तम् । क्रियमाणस्य कर्मणस्समाप्त्यनन्तरमेव नाशात्संस्कार इत्युक्तम् । जन्मान्तरीययज्ञादिकर्मजन्यधर्मादिसंस्कार इत्यर्थः । ननु गुणानां स्वभावप्रभवत्वं कुतो ज्ञायते ? अत आह—- गुणेति । प्रादुर्भाव उत्पत्तिः । नहि कारण विना गुणप्रादुर्भावो भवतीत्यर्थः । ब्राह्मणानां सत्त्वगुणप्रादुर्भावे, क्षत्रियादीनां रजमादि- प्रादुर्भावे च नियामकः स्वभाव वैशेष एव कवरन्यथा शूद्राणामपि सत्वगुगो नोदीयादि ते भात्रः । ४ ३ मष्टादशोऽध्यायः । ३३७ ‘स्वभावः कारण’ मिति च कारणविशेषोपादानम् । एवं स्वभावप्रभवैः प्रकृतिप्रभवैस्सत्त्वरज- स्तमो भिर्गुणैस्स्वकार्यानुरूपेण शमादीनि कर्माणि प्रविभक्तानि । ननु शास्त्रप्रविभक्तानि शास्त्रेण विहितानि ब्राह्मणादीनां शमादीनि कर्माणि कथ- मुच्यते सत्वादिगुणप्रविभक्तानीति १ नैष दोष:– शास्त्रेणापि ब्राह्मणादीनां सत्त्वादिगुण- विशेषापेक्षयैव शमादीनि कर्माणि प्रविभक्तानि न गुणानपेक्षयैवेति शास्त्रप्रविभक्तान्यपि कर्माणि गुणप्रविभक्तानीत्युच्यन्ते ॥ ४१ ॥ कानि पुनस्तानि कर्माणीत्युच्यन्ते- शमो दमस्तपरशौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञान मास्तिक्यं ब्राह्मं कर्म स्वभावजम् ॥ ४२ ॥ , शम इति । शमो दमश्च यथाव्याख्यातार्थौ, तपो यथोक्तं शारीरादि, शौचं व्याख्यातं, क्षान्तिः क्षमा, आर्जवमृजुतैव च ज्ञानं, विज्ञानं, आस्तिक्यमास्तिकभावरश्रद्दधा- नताऽऽगमार्थेषु ब्राह्मं कर्म ब्राह्मणजाते: कर्म ब्राह्मं कर्म स्वभावजम् । यदुक्तं स्वभावप्रभवैर्गुणैः प्रविभक्तानीति तदेवोक्तं स्वभावजमिति ॥ ४२ ॥ ननु गुणैः कर्माणि प्रविभक्तनीत्येवालं किमिति स्वभावप्रभवत्वनिर्देशेनेत्यत आह-स्वभाव: कारण- मिति । ब्राह्मणादीनां गुणैश्शमादिकर्मप्रविभागे को हेतुरिति कारणशङ्कायास्समाधानार्थ स्वभावप्रभवै- रित्युक्तमिति भावः । यद्वा तादृशा गुणाः कुतः प्रादुर्भूता इत्य उक्तम् – स्वभावप्रभवैरिति, स्वकारणानुरूप्येणेति । स्वकारणभूतस्वव्यापारानुसारेणेत्यर्थः । नतु ब्राह्मणानां शमादीनि कर्मा- नीत्येवं शास्त्रमेव तद्वर्णानां तानितानि कर्माणि व्यवस्थापयतीति कृत्वा शास्त्रेणैव प्रविभक्तानीति वक्तव्ये कथमुक्तं गुणैः प्रविभक्तानीति पृच्छति - नन्विति । परिहरति — नेति । सत्त्वादिगुण- प्रविभक्तान्येव कर्माणि शास्त्रं व्यवस्थापयतीति न दोष इत्यर्थः । सत्त्वगुणवशाद्वाह्मणस्य शमादीनि कर्माणि भवन्तीत्येवं शास्त्र बोधयति सत्त्वादिगुणानपेक्ष्यैव नतु ताननपेक्ष्येति भावः । गुणैस्सह कर्माणि शास्त्रैः प्रविभक्तानीति रामानुजः, तन्मन्दम् — शास्त्रैरिति मूलाद्वहि:- कल्पनस्यायुक्तत्वात् । कर्मप्रविभाजक मुख्य कर्तृभूतगुणानामप्रधाने तृतीया कल्पनस्य चायुक्तत्वात् ॥ ४१ ॥ शम इति । शम इत्यादिकम। स्तिक्यान्तं ब्राह्मं स्वभावजं कर्म भवति । ब्राह्मणस्य शमादीनि स्वाभाविकानि कर्माणीत्यर्थः । सत्वगुण प्रयुक्तत्वाच्छमादीनामिति भावः । शमोऽन्तरिन्द्रियनिग्रहः, दमो बहिरिन्द्रियनिग्रहः, तपः ब्रह्मचर्यस्वाध्यायाभ्यसनमनः प्रसादादिकं, शौच मृज्जलाभ्यां प्रक्षालन बाह्यशौच, रागादिदोषापनयनमान्तरशौच, ज्ञानमात्मादिपदार्थज्ञानं, विज्ञान तस्यानुभवापादनम् । व्यस्ति दिष्टमिति मतिर्यस्य स आस्तिकः, तस्य भाव आस्तिक्यं; श्रद्दधानता श्रद्धालुवा | आगमार्थे शास्त्रोकार्थे, शास्त्रं हि प्रमाणमास्तिकानाम् | ‘ब्रह्मा विप्रः प्रजापति’ रिति कोशामा ब्राह्मणः तस्येंद ब्राह्मम् ॥ ४२ ॥ । 1 ३३८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्यो पैतालु शौर्य तेजो वृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षालं कर्म स्वभावजम् ॥४३॥ शौर्यमिति । शौर्य शूरस्य भावः, तेजः प्रागल्भ्यं, धृतिर्धारणं सर्वावस्थास्वनवसादो भवति यया धृत्योत्तम्भितस्य दाक्ष्यं दक्षस्य भावस्सहसा प्रत्युत्पन्नेषु कार्येष्वव्यामोहेन प्रवृत्तिः, युद्धे चाप्यपलायनमपराङ्मुखीभावश्शत्रुभ्यः, दानं देयद्रव्येषु मुक्तहस्तता, ईश्वर- भावश्वेश्वरस्य भावः प्रभुशक्तिप्रकटीकरणमीशितव्यान्प्रति, क्षात्रं कर्म क्षत्रियजातेर्विहितं कर्म क्षात्रं कर्म स्वभावजम् ॥४३॥ 4 कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । ‘परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ ४४ ॥ कृषीति । कृषिगौरक्ष्यवाणिज्यं - कृषिश्च गौरक्ष्यं च वाणिज्यं च कृषिगौरक्ष्य- वाणिज्यं, कृषिर्भूमेर्विलेखनं, गौरक्ष्यं गा रक्षतीति गोरक्षस्तस्य भावो गौरक्ष्यं पाशुपाल्य- मित्यर्थः । वाणिज्यं वणिक्कर्म क्रयविक्रयादिलक्षणं वैश्यकर्म वैश्यजातेः कर्म वैश्यकर्म स्वभावजम् । परिचर्यात्मकं शुश्रूषास्वभावं कर्म शूद्रस्यापि स्वभावजम् ॥४४॥ एतेषां जातिविहितानां कर्मणां सम्यगनुष्ठितानां स्वर्गप्राप्तिः फलं स्वभावतः- ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततश्शेषेण विशिष्टदेशजातिकुलधर्मायुरश्रुत- वृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्त’ इत्यादिस्मृतिभ्यः । पुराणे च वर्णिनामाश्रमिणां च लोकफलभेदविशेषस्मरणात् । कारणान्तराविदं वक्ष्यमाणं फलमुच्यते- स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः । स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु । ॥ ४५ ॥ स्वे स्वे इति । स्वे स्वे यथोक्तलक्षणभेदें कर्मण्यंभिरतस्तत्परः संसिद्धि स्वकर्मानु- शौर्यमिति । शौर्ये पराभिभवनसामर्थ्य, तेजः परैरप्रधर्ष्यत्वम् । का सा धृतिरत आह- सर्वेति । उत्तम्भितस्योच्चैस्तम्भितस्य । अपराङ्मुखीभावः पृष्ठ| प्रदर्शनमित्यर्थः । दानं द्रव्यत्यागः । प्रभुशक्तिर्नियमनशक्तिः । नन्वीश्वरधर्मोऽयं, न जीवधर्मोऽत आह- ईशितव्यान्प्रतीति । स्वपरि- पाल्यप्रजाः प्रतीत्यर्थः । यद्वा स्वपूज्ये देवब्राह्मणेशनं कथं क्षत्रियस्येत्यत आह- ईशितव्यान्प्रतीति ॥ कृषीति । कृषिगौरक्ष्यवाणिज्यमिति समाहारद्वन्द्वः । विलेखन हलादिना भेदनम् । परि- चर्येति । पूर्वोक्तब्राह्मणादिवर्णत्रयशुश्रूषैव शूद्रस्य स्वाभाविक कर्म ॥४४॥ स्वे स्व इति । उक्तवक्ष्यमाणयोस्सङ्गतिप्रदर्शनायाह – एतेषामिति । अनुष्ठातुः कर्तुः पुरुषस्य वर्णा ब्राह्मणादयः, आश्रमा ब्रह्मचर्यादयः प्रेत्य प्रकृतशरीरं विहाय, कर्मफलं स्वर्ग, शेषेण सुकुत- शेषेण, विशिष्टा उत्कृष्टाः; देशः काश्यादिः, जातिर्ब्राह्मणादिः, वितं धनं, मेवा बुद्धि:, विशिष्टा मष्टादशोऽध्यायः । ३३९ ष्ठानादशुद्धिक्षये सति कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां संसिद्धिं लभते प्राप्नोति नरोऽधिकृतः पुरुषः । किं स्वकर्मानुष्ठानत एव साक्षात्संसिद्धि: ? न कथं तर्हि ? स्वकर्म- निरतस्सिद्धिं यथा येन प्रकारेण विन्दति तच्छुणु ! ॥ ४५ ॥ यतः प्रवृत्तिभूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥४६॥ यत इति । यतो यस्मात्प्रवृत्तिरुत्पत्तिश्रेष्टा वा यस्मादन्तर्यामिण ईश्वराद्भूतानां प्राणिनां स्यात्, येनेश्वरेण सर्वमिदं जगत्ततं व्याप्तं स्वकर्मणा पूर्वोक्तेन प्रतिवर्णे तमीश्वर- मभ्यर्च्य पूजयित्वाऽऽराज्य केवलं ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं विन्दति मानवो मनुष्यः ॥ देशादयो यस्य । तस्माद्विशिष्टदेशजातिकुलधर्मायुश्श्रत वृत्त वित्तसुखमेधसः पुरुषात्सकाशा जन्म प्रति- पद्यन्ते जायन्ते लोक फल मेदविशेषस्मरणात् । लोक भेदरस्वर्गादिः, फलभेदो देवत्वादि:, तद्विशेषाणां स्मरणात् । एवं यथोक्त कर्मानुष्ठानात्स्वाभाविकं फलमनुष्ठातुः प्रदर्श्य प्रकृतमाह- कारणान्तराविति तेषामेव कर्मणामीश्वराराधनबुंध्या करणं कारणान्तरमिति बोध्यम् । संसिद्धिशब्दो न मोक्षपरः । ‘नास्त्यकृत कृतेन’ इत्यादिश्रुतिभिः कर्मणस्साक्षान्मोक्षहेतुत्वस्य दूषितत्वात् । अतोऽर्थान्तरमाह – ज्ञाननिष्ठा - योग्यतालक्षणामिति । ज्ञाननिष्ठा योग्यत्वमेव संसिद्धिरित्यर्थः । ननु किं सर्वोपि पुरुषश्शमाद्यनुष्टाना- त्संसिद्धिं लभते ? नेत्याह- अधिकृतपुरुष इति । यो यो यत्रयत्राधिकृतस्स स तत्कर्म कृत्वा संसिद्धि लभत इत्यर्थः । यद्वा किं सन्न्यासिनामपि कर्मानुष्ठानात्संसिद्धि: ? नेत्याह – अधिकृतपुरुष इति । सन्न्यासिनां हि ज्ञाननिष्ठायामेवाधिकारान्न तेषां कर्मप्रसङ्ग इति भावः ॥ ४५॥

I

यत इति । श्लोकमवतारयति । किमिति । ननु ज्ञाननिष्ठा योग्यत्वलक्षणसं सिद्धिरपि स्व- कर्मानुष्ठानमाला देव भवति किमिति पृच्छति - किं स्वकर्मेति । लभत इति, पुरुष इति च शेषः । परिहरति — नेति । न लभत इत्यर्थः । तर्हि कथं लभत इति पृच्छति — कथं तहींति । स्वस्व विहितकर्मानुष्ठानमात्रादेव न संसिद्धिलाभ: पुरुषस्य, कित्वीश्वराराधनबुध्या स्वस्व विहितकर्मानुष्ठाना- त्ससिद्धिलाभ इत्याह-यत इति । ‘यतो वा इमानि भूतानि जायन्तु इति श्रुत्याऽऽह — प्रवृत्ति- रुत्पत्तिरिति । भवन्तीति भूतानि कार्याणि पृथिव्यादीनि भौतिकानि च चेतनाचेतनानि सर्वाण्यपी- त्यर्थः । प्रवृत्तिशब्दस्योत्पत्त्यर्थवर्णनं नातीव युक्तमित्यर्थान्तरमाह – चेष्टेति । अस्मिन्पक्षे भूतशब्दो ब्रह्मादिस्तम्बपर्यन्तप्राणिपर इत्याह — प्राणिनामिति । अन्तर्भूतानां हृदि स्थित्वा प्रत्यभूपेण यमयती… त्यन्तर्यामी । ‘सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च’ इत्युक्तत्वात् । ‘ईश्वरस्सर्व- भूतानां हृद्देशेर्जुन ! तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया’ इति वक्ष्यमाणत्वाच्च, ‘यो विज्ञाने तिष्ठ’ न्नित्याद्यन्तर्यामिब्राह्मणांच | ईश्वरप्रेरणवशादेव भूतानि तथातथा प्रवर्तन्त इत्यर्थः । व्याप्तमिति । मन्तः पुरुषरूपेण बहिः परमात्मरूपेण चेश्वरेण व्याप्तं समस्तं जगदित्यर्थः । ‘अस्त- बेहिश्च तत्सर्व व्याप्य नारायणस्स्थित’ इति श्रुतेः । यद्वा चैतन्यरूपेण येन व्याप्तमित्यर्थः । सर्व- ३४० यत एवमतः श्रीभगवद्गीता भाष्यार्थप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ ४७ ॥ श्रेयानिति । श्रेयान्प्रशस्यतरः, स्वो धर्मस्स्वधर्मः, विगुणोऽपीत्यपिशब्दो द्रष्टव्यः, परधर्मात्स्वनुष्ठितात् स्वभाव नियतं स्वभावेन नियतं यदुक्तं स्वभावज मिति तदेवोक्तं स्वभाव- नियतमिति । यथा विषजातस्येव क्रिमेर्विषं न दोषकरं, तथा स्वभावनियत कर्म कुर्म- नाप्नोति किल्बिषं पापम् ॥४७॥ व्यापित्वाच्चैतन्यस्य सद्रूपस्य । एतव्याप्तिवशादेव हि सर्वस्यास्तिभातिव्यवहारः । प्रतिवर्ण वर्णो वर्णः ब्राह्मणादिचातुर्वर्ण्यमित्यर्थः । यद्वा वर्णैवर्णे प्रतिवर्णमिति पूर्वोक्तेनेत्यनेन सम्बन्धोऽस्य । प्रतिवर्णे विहितेनेत्यर्थः । शमदमादिलक्षणेन स्वस्ववर्णविहितकर्मणेति यावत् । ईश्वरमभ्यच्येति । ईश्वराज्ञां ब्राह्मणादिभिरिमानीमानि कर्माणि कर्तव्यानीत्येवंरूपां श्रुति- स्मृत्यात्मिकामनतिक्रम्य तदुक्तविधया फलाभिसन्धि विहाय कर्तव्यानीत्येवं केवलं मत्वा स्वस्व कर्मानु- ष्ठानमेवेश्वरार्चनमिति बोध्यम् । लोकेपि राजाज्ञापरिपालनमेव राजार्चनमिति दृष्टत्वात् । अथवा स्वानुष्ठितकर्मफलस्य- ओं तत्सद्ब्रह्मार्पणमस्त्विति परमेश्वराय समर्पणमेव स्वकर्मणा परमेश्वराराधनमिति बोध्यम् । मानवो मनुष्यः कर्माधिकारित्वात्तस्येति भावः ॥ ४६ ॥ श्रेयानिति । विगुणोऽपि स्वधर्मस्वनुष्ठितात्परधर्माच्छ्रेयान् । स्वभाव नियतं कर्म कुर्वन् पुरुषः किल्बिषं नाप्नोति । सगुणस्यापि परधर्मस्यानुष्ठानापेक्षया विगुणस्यापि स्वधर्मस्यानुष्ठानं श्रेयः । यतो स्वधर्मानुष्ठानात्पुरुषस्य न किल्बिषप्राप्तिः, परधर्मानुष्ठानात्तु किल्बिषप्राप्तिर्भवतीत्यर्थः । नच परधर्मानु- ष्ठानात्किल्विषप्राप्तिरित्यर्थः कथं सिध्यतीति वाच्यं, स्वभावनियतं कर्म कुर्वन् किल्बिषं नाप्नोती- त्यनेन तत्सिद्धेः । परधर्मो भयाबह इति पूर्वमुक्तत्वाच्च । नियतं व्यवस्थापितम् । ननु स्वभावजस्यापि कर्मणः कथं किल्बिषाहेतुत्वं दुष्टस्येत्यत आह-यथेति । विषजातस्य विषादुद्द्भुतस्य । दोषो मृति- मूर्छातापादिः । यथा मनुष्यादेर्विषं दोषकरं तथा विषजात क्रिमेर्न दोषकरमित्यर्थः । 1 अनेन श्लोकेन ‘नच श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । पापमेवाश्रयेदस्मान्हत्वैतनाततायिन’ इति प्राणिहिंसालक्षणे स्वधर्मेऽपि युद्धे या आसीदर्जुनस्य पापमित्यश्रेय इति च बुद्धि:, ‘श्रेयो भोक्तुं ‘भैक्षमपीह लोके’ इति ब्राह्मणघर्मे भिक्षाटने याप्यासीच्छ्रेय इति बुद्धिस्तदुभयं निवारितम् । हिंसात्मक-: मपि क्षत्रियस्य तव स्वभावनियतं युद्धाख्यं कर्म न किल्बिषावहं प्रत्युत श्रेयस्करमेव । यथा विषमपि विषजात क्रिमेर्न दोषावहं प्रत्युतान्नत्वाच्छरीरादिवृद्धिकरं तद्वत् । हिंसात्मकमपि ब्राह्मणस्वभावनियत भिक्षाटनादिकं कर्म तव परधर्मत्वात्किल्विषावहम श्रेयस्करं च यथाऽमृतमपि विषक्रिमेर्दोषकरं तद्वदिति भावः ॥४७॥ अष्टादशोऽध्यायः । ३४.१ स्वभावनियतं कर्म कुर्वाणो विषजात इव क्रिमिः किल्बिषं नाप्नोतीत्युक्तम् । पर- धर्मश्र भयावह इति; अनात्मज्ञश्च ‘नहि कश्चित्क्षणमप्यकर्मकुत्तिष्ठ’ तीत्यतः - सहजं कर्म कौन्तेय ! सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ ४८ ॥ सहज मिति । सहज सह जन्मनैवोत्पन्नम् । किं तत् ? कर्म कौन्तेय ! सदोषमपि त्रिगुणात्मकत्वान्न त्यजेत् । सर्वारम्भा :- आरभ्यन्त इत्यारम्भाः सर्वकर्माणीत्येतत्प्रकरणाद्ये केचिदारम्भास्स्वधर्माः परधर्माश्च ते सर्वे हि यस्मात्त्रिगुणात्मकत्वमत्र हेतुः त्रिगुणात्मकत्वा- द्दोंषेण धूमेन सहजेनाग्निरिवावृताः । सहजस्य कर्मणः स्वधर्माख्यस्य परित्यागेन परधर्मानु ष्ठानेऽपि दोषान्नैवमुच्यते, भयावहश्च परधर्मः । नच शक्यतेऽशेषतस्त्यक्तुमज्ञेन कर्म यतः । सहजमिति । ननु दुष्टस्स्वधर्मो दुष्टत्वादेव न कार्यः, शिष्टोपि परधर्मः परधर्मत्वादेव न कार्यः । तस्मादननुष्ठानमेव वरमित्यत आह- सहजमिति । दुष्टस्यापि स्वधर्मस्य किल्बिषाना- वहत्वात्परधर्मस्य च भयावहत्वादनात्मज्ञस्य चाननुष्ठानासम्भवात्स्वधर्मः कार्य एवाज्ञेनाधिकृतेनेति वक्ति भगवानित्याह – स्वभावेति, अनात्मज्ञचेति । ‘नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृ’ दिति श्लोक- व्याख्यानसमये प्रतिपादितमिदं विस्तरेण मयेति भावः । अत इति । स्वधर्मानुष्ठानस्यादुष्टत्वात्पर- धर्मानुष्ठानस्य दुष्टत्वादज्ञस्य कर्माकरणायोगाच्चेत्यर्थः । हे कौन्तेय ! सदोषमपि सहजं कर्म पुरुषो न त्यजेत् हि सर्वारम्भाः दोषेणाग्निधूमेनेवावृताः । सह जायत इति सहज, किं तत्सहज मिति पृच्छति - किमिति । उत्तरयति - कर्मेति । कथं सदोषत्वं कर्मणोऽत आह– त्रिगुणात्मकत्वा- दिति । गुणत्रयस्य संसारहेतुत्वेन सदोषत्वाद्गुणत्रयात्मकं कर्मापि दोषमेवेत्यर्थः । को न त्यजेदन आह — कुर्वन्निति । कर्मण्यधिकृतोऽज्ञ इत्यर्थः । / आरम्भशब्दस्योपक्रमार्थत्वात्कथं कर्मार्थत्वमत आह- प्रकरणादिति, अत्रेति । दोषावृतस्व इत्यर्थः । दोषेणेति । बन्धकत्वरूपेणेत्यर्थः । सदोषत्वात्स्वधर्मे परित्यज्य निर्दोषः परधर्मः कार्य इति यदि त्वं मन्यसे तदपि न सिध्यति स्वधर्मवत्परधर्मस्यापि सदोषत्वात् । यस्माद्धर्ममात्र त्रिगुणात्मकं तस्मा- रसदोषमेव । एवं च सति सदोषबुध्या स्वकर्म त्यक्तवतः पुरुषस्य परधर्मे प्रवृत्तस्य पुनस्तदेव सदोष- कर्मानुष्ठाने प्राप्तं नतु निर्दोषकर्मानुष्ठानं निर्दोषस्य कर्मण एवाभावात् । तस्मात्सदोषपरधर्मानुष्ठाना- पेक्षया सदोषस्वधर्मानुष्ठान सेव श्रेयः । यथा कुरूपपरदारसङ्गापेक्षया कुरूपस्वदारसङ्ग एव श्रेयान् वंशा- नुच्छित्तिहेतुत्वाद्वदिति सदोषादपि स्वधर्मानुष्ठानाद्भवति हि स्वर्गफलं, नतुः सदोषात्परधर्मानुष्ठानात् प्रत्युतः नरकपातोपि । यथा परदारसङ्गाद्वैशप्रतिष्ठाऽलाभः प्रत्युत ताडना कीर्तिनरकाद्यनर्थप्राप्तिस्तद्वत् । तस्मात्तदोषमपि सहजं कर्म न परित्यजेदित्यभिप्रयन्नाह - सहजस्येति । नन्वेवं स्वधर्मः पर धर्मश्धेत्युभयं न कार्यमत आह-न शक्यत इति । यज्ञेनाशेषतः कर्म त्यक्तुं न शक्यत इत्यन्वयः । . 4 ૨૪૨ श्रीभगवद्गीतासु भाय्याकप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तस्मान्न त्यजेदित्यर्थः । किमशेषतस्त्क्तुमशक्यं कर्मेति न त्यजेत् ? किंवा सहजस्य कर्मणस्त्यागे दोषो भवतीति ? किं चातः १ यदि तावदशेषतस्त्यक्तुमशक्यमिति न त्याज्यं सहजं कर्म । एवं तर्ह्यशेषतस्त्यागे गुण एव स्यादिति सिद्धं भवति । सत्यमेवं; अशेषतस्त्याग एव नोप- पपद्यत इति चेत् किं नित्यप्रचलितात्मकः पुरुषो यथा साङ्ख्यानां गुणाः १ किं वा क्रियैव कारकं, यथा बौद्धानां स्कन्धाः क्षणप्रध्वंसिनः । उभयथापि कर्मणोऽशेषतस्त्यागो न तस्मादिति । परधर्मस्यापि सदोषत्वात्कर्मत्यागस्य च दुष्करत्वादित्यर्थः । न त्यजेदिति । सहज कर्मेति शेषः । सहजं कर्म न त्यजेदित्युक्तं, तत्र हेतुं पृच्छति - किमिति । नहि देहभृता शक्य त्यक्तं कर्माण्यशेषत’ इति हेतोस्सहजं कर्म न त्यजेदित्युक्तं किम् ? यद्वा ‘नियतस्य तु सन्त्यागः कर्मणो नोपपद्यत इति हेतोरित्यर्थः । सन्दिग्धस्य प्रयोजनस्य विचार्यत्वादुक्के सन्देहे प्रयोजनं पृच्छति - किंचात इति । तत्राद्यपक्षमनूद्य फलं दर्शयति – यदीति । अशक्यकरणस्य गुणत्वात्समुद्र चुलुकी- करण कालकूट भक्षण गोवर्धनोद्धरणादिवदिति भावः । भवत्वशेषकर्मत्यागस्य गुणत्वमित्यत आह सत्यमिति । यद्यशेषतस्त्याग उपपद्यते तर्हि स गुणस्स्यात्स एव नोपपद्यते । तस्मात्सहजस्य कर्मणः परित्यागे दोषो भवतीति हेतोरेव सहजं कर्म न त्यजेदित्युक्तं, नतु कर्माशेषतस्त्यव तुमशक्यमिति- हेतोः । अशेषकर्मत्यागस्यैवासम्भवात् । यस्मादेवं तस्मात्सहजकर्मपरित्यागः परमहंस परिव्राजकस्य नरकहेतुरेवेति पूर्वपक्षिहृदयम् । अशेषकर्मत्यागस्सम्भवत्येव, यज्ञस्य तु परं स कर्तुमशक्य इत्यभिप्रयन् पूर्वपक्ष निराकरोति - किमित्यादिना । अशेषतः कर्मणस्त्याग एव नोपपद्यत इत्युक्तं यत्त्वया तंत्र को हेतुरिति पृच्छति — किमिति । पुरुषस्य नित्यप्रचलितात्मकत्वादशेषतः कर्मत्यागो न सम्भवतीत्येतदुक्तं किं त्वया ? क्रियाया एव कारकत्वादिति वेत्यर्थः । पुरुषो जीवो नित्यप्रचलितात्मकः किम् ? नित्यचल्नस्वभावः किम् ? तत्र दृष्टान्तमाह — यथेति । साङ्ख्यानां मते गुणा यथा नित्यप्रचलितात्मकास्तद्वदि- त्यर्थः । प्रकाशात्मकस्य सवितुर्यथा प्रकाशत्यागानुपपत्तिस्तथा नित्यप्रचलितात्मकस्य पुरुषस्य कर्मत्यागानुपपत्तिश्चलनस्यैव कर्मत्वादिति भावः । क्रियैव कारकं किं वेति । कारकं कर्तृ- अस्म- बस्त्वित्यर्थः । क्रियास्वरूप एवं कर्ताऽऽत्मा किमित्यर्थः । तत्र दृष्टान्तमाह — यथेति । बौद्धानां मते क्रियाकारकभेदाभावात्कारका एव क्षणप्रध्वंसिनस्स्कन्धा यथा क्रियास्वरूपास्तद्वदित्यर्थः । रूप- वेदनाविज्ञानसंज्ञासंस्काराः पञ्च स्कन्धाः । तत्र विषयप्रपश्च रूपस्कन्धः, तद्ज्ञानप्रपञ्चो वेदनास्कन्धः, मालयविज्ञानसन्तानो विज्ञानस्कन्धः, नामप्रपञ्चस्संज्ञास्कन्धः, वासनाप्रपञ्चस्संस्कारस्कन्धः । एवं पश्ञ्चमा परिवर्तमानो विज्ञानसन्तान एवात्मेति बौद्धदर्शनम् । विज्ञानानां च क्षणिकत्वात्स्कन्धानां क्षण- प्रध्वंसित्वं विज्ञानसन्तानात्मकत्वात् स्कन्धानामिमानि च विज्ञानानि बुद्धिवृत्तिरूपाण्येवेति क्रिया एवेति स्कन्धाः क्षणप्रध्वंसिनः क्रियास्वरूपाश्चेति भावः । अष्टादशोऽध्यायः । ३४३ । सम्भवति । अथ तृतीयोऽपि पक्ष:- यदा करोति तदा सक्रिय वस्तुः यदा न करोति तदा निष्क्रियं तदेव । तत्रैवं सति शक्यं कर्माशेषतस्त्यक्तुम् । अयं त्वस्मिन् तृतीये पक्षे विशेषः न नित्यप्रचलितं वस्तुः नापि क्रियैव कारकम् । किं तर्हि ? व्यवस्थिते द्रव्येऽविद्य- माना क्रियोत्पद्यते, विद्यमाना च विनश्यति । शुद्धं तद्द्रव्यं शक्तिमदवतिष्ठत इत्येवमाहुः काणादाः, तदेव च कारकमिति । अस्मिन्पक्षे को दोष इति । अयमेव तु दोष:- यतस्त्वभाग- वतं मतमिदम् । कथं ज्ञायते १ यत आह भगवान्- ‘नासतो विद्यते भाव’ इत्यादि । उभयथापीति । पक्षद्वयेऽपीत्यर्थः । ननु दर्शितं पक्षद्वयमध्यस्माकमभिमतमेवेति शङ्कायां तन्निरासार्थं तृतीयः पक्षोऽस्तीत्याह - अथेति । तृतीयोऽपि पक्षोऽस्तीति शेषः । तमेव दर्शयति- यदेति । सक्रिय निष्क्रियं चात्मवस्तु कालभेदादिति तृतीयः पक्षः । तत्रेत्यस्यार्थमाह — एवंसतीति । तृतीयपक्ष इत्यर्थः । अशेषतः कर्म त्यक्तुं शक्यमेव । तृतीयं पक्षमुपपादयितुं भूमिकामा रचयति - अयं त्विति । आत्मादिवस्तु न नित्यप्रचलितं, नापि क्रियास्वरूपं सर्वदापि क्रियाऽदर्शनात् ; क्रियाश्रयस्य कर्तुः क्रियारूपत्वायोगाच्च । तस्मादशेषतः कर्मत्यागासम्भव वाद्यभिमतं पक्षद्वयं दुष्टमेव । व्यवस्थिते द्रव्ये आत्मादिवस्तुनीत्यर्थः । उत्पन्ना च सा क्रिया न चिरं तिष्ठतीत्याह - विद्यमाना चेति । उत्पन्ना चेत्यर्थः । अत एव संक्रियत्वं निष्क्रियत्वं चात्मन इति भावः । F ननु क्रियाया आगमापायित्वे क्रियावतो द्रव्यस्य कथं स्थायितेत्याशङ्कयाह – शुद्धमिति । ननु द्रव्यस्य क्रियाशक्तिमत्त्वेऽपि क्रियावत्त्वाभावे कथं कारकत्वं क्रियावद्धि कारकमत आह- तदेवेति क्रियाशक्तिमदेव कारकं, नतु क्रियाश्रयभूतमन्योन्याश्रया दित्यर्थः । अशेषः कर्मणस्त्याग एव नोपपद्यत इति यदुक्तं पूर्वपक्षिणा तत्परिहृतमेतावता काणादेन । कथमुच्यते यद्यात्मा नित्य- प्रचलितात्मकः स्याद्यदि वा क्रियास्वरूपस्स्यात्तर्हि कर्मणामशेषतस्त्यागो नोपपद्यतां नतु तथाविष आत्मा । किंतु सक्रियो निष्क्रियश्च कर्नैवात्मा । अतः कर्तुरप्यात्मनो निष्क्रियत्वेनावस्थानं सम्भव- श्येव । यथा तक्षकस्य तक्षणकियां परित्यज्य तूष्णीमासनं सम्भवति तद्वत् । तस्मादशेषतः कर्मत्याग उपपद्यत एवेति ।

नन्वेवं समीचीनमेवेदं काणाददर्शनमिति मत्वा कश्चित्पृच्छति — अस्मिन्पक्षे को दोष इति । उत्तरयति - अयमेवेति । अभागवतत्वमेव दोष इत्यर्थः । अभागवतं भगवतोऽनभिमतमित्यर्थः । ननु काणाददर्शनमिदं भगवतोऽनभिमतमिति कथं ज्ञायते त्वयेति पृच्छति कश्चित् — कथमिति । उत्तरयति—यत इति । असतो भावो न विद्यते सतश्वाभावो न विद्यत इति भगवतोक्तं, काणादैरेत- द्विपरीतमुक्तं - असतो भावो विद्यते सतश्वाभावो विद्यत इति । तस्मादिदं काणादमतमभागवतम् । काणादानां सतो भावस्सतश्चाभाव इति मतमिति शेषः । निश्चय इति वा । न चासत्कार्यवादः काणादोक्तो भवतु नाम दुष्टः, सक्रियं निष्क्रियं चात्मवस्तु कारकमिति प्रकृतकाणादमतैकदेशस्य कथं दुष्टत्वमिति वाच्यं, शेद्धेऽप्यात्मवस्तुन्यविद्यमाना क्रियोत्पद्यत इत्यसत्कार्यवादस्य प्रकृतेऽपि प्रसारि ३४४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतालु काणादादीनां ह्यसतो भावस्तथाभाव इतीदं मतमभागवतम् । अभागवतमपि न्यायवच्चे को दोष इति चेदुच्यते - दोषवत्त्विदं सर्वप्रमाणविरोधात् । कथम् ? यदि तावद्व्यणु कादिद्रव्यं प्रागुत्पत्तेरत्यन्तमेवासत् उत्पन्नं च स्थितं कश्चित्कालं पुनरत्यन्तमेवासच्त्रमापद्यते, तथा च सत्यसदेव सज्जायते, सदेवासत्त्वमापद्यते । अभावो भावो भवति, भावाभावो भवति । तत्राभावो जायमानः प्रागुत्पत्तेश्शशविषाण कल्पस्समवाय्य समवायिनिमित्ताख्यं कारणमपेक्ष्य जायत इति । न चैवभमाव उत्पद्यते, कारणं चापेक्षत इति शक्यं वक्तुमसतां शशविषाणादीना- मदर्शनात् । भावात्मकाश्चेद्घटादय उत्पद्यमानाः किञ्चिदभिव्यक्तमात्रे कारणमपेक्ष्योत्पद्यन्त तत्वात् । शुद्धं निष्क्रियं ह्यात्मवस्त्वविद्यमानक्रियोत्पत्त्या सक्रियं भवतीत्यमीभिरुच्यते । तस्मादस- कार्यवाद सच्चा सक्रिय निष्क्रियं चात्मवस्त्वित्येतत्काणादमतमभागवतत्वादुष्टमेव । ननु न्याय्यस्य काणाददर्शनस्य भगवदनभिमतत्वमात्रेण कथं दुष्टत्वं शक्यते दवतुमिति पृच्छति- अभागवतत्वेऽपीति, इदमिति । असतो भावस्सतश्वाभाव इत्येतत्काणादमतमित्यर्थः । दोषवदिति । दुष्टमेवेत्यर्थः । तत्र हेतुमाह — सर्वेति । कथं सर्वप्रमाणविरोध इति पृच्छति — कथमिति । विरोधमेव दर्शयति— यदीत्यादिना । काणादाः प्रागभावं प्रध्वंसाभावं चाहुः कार्यस्य । घटस्यो- दयात्प्रागसत्त्वात्प्रागभावः, नाशादनन्तरमसत्वात्प्रध्वंसाभावः, मध्यकाले च सत्त्वाद्धटस्य सत्त्वं चाहुः । एवंसति प्रागसतो घटस्य भावः, मध्यो सतो घटस्य पश्चादभावश्चेत्यसतो भावस्सतश्चाभाव इत्युक्तं भवति । तत्र दोषाम् दर्शयति — यदीत्यादिना । परमाणुद्रव्यस्य नित्यत्वादाह - द्यणुकादीति । कार्यमुत्पत्तेः प्रागनभिव्यक्तं सत्सूक्ष्मरूपेण कारणे वर्तमानं च सदसदित्युच्यत इति मतव्यावृत्तये आह - अत्यन्तमेवासदिति । उत्पन्न च द्रव्यं कचित्कालं स्थितं सदित्यन्वयः । आपद्यते यदीत्यन्वयः । तथाच सतीति । कार्यस्योत्पत्तेः प्रा- गत्यन्तासत्त्वे नाशानन्तरं चात्यन्तासत्त्वे सतीत्यर्थः । असदेवेति । कार्यकारणयोर्मृद्धटयो स्तन्तु पटयों- श्वानन्यत्वदर्शनात्कारणमेव कार्ये भवतीति कृत्वाऽसदेव सज्जायते । तथा घटस्य नाशानन्तरं मृदूपत्व- दर्शनात्कार्य कारणमेव भवतीति कृत्वा सच्चासज्जायते । असत्कारणं सत्कार्यमिति ह्येषामभ्युपगमः । असदेवेति वाक्यद्वयस्य स्वयमेवार्थमाह – अभाव इति । व्यणुकादिप्रागभावो व्यणुकादिरूपो भावों भवति, द्व्यणुकादिरूपो भावश्व द्यणुकादिप्रभ्वंसाभावरूपाभावो भवतीत्यर्थः । द्व्यणुकादिप्रागभावाद्व्यणु- कादिभाव उत्पद्यते । यणुकादिभावश्च प्रध्वंसाभावं प्रपद्यत इत्यमीभिरुच्यमानत्वादिति भावः । 4 तत्वेति । अभावो भावो भवतीत्यस्मिन्नंश इत्यर्थः । समवायिकारणं पटं प्रति तन्तुः, असम- वायिकारणं तन्तुरूपं, निमित्तकारणं तुरीवेमादि । तदेतत्त्रिविधं कारणमपेक्ष्याभावो भावो भवतीति चैतैरुच्यते । नन्वभावो भावो भवतु, जायमानश्चाभावस्तम वाय्यादिकारणत्रयमपेक्ष्य जायतां को दोष- स्वत्वाहन चेति । अभाव उत्पद्यते भावरूपेण जायत इति । अभावस्स्वोदयं प्रति कारणमपेक्षत इति च वक्तुं न शक्यमित्यर्थः । कुतो न शक्यमत आह– असतामिति, अदर्शनादिति । उत्पत्ति– कारणापेक्षत्वयोरदर्शनादित्यर्थः । उत्पतेः प्रागसतो घटस्य शशविषाणादितुल्यत्वादिति भावः ।१४ मष्टादशोऽध्यायः । ३४५ इति शक्यं प्रतिपत्तुम् । किं चासतच सद्भावे सतवासद्भावे न क्वचित्प्रमाणप्रमेयव्यवहारेषु विश्वासः कस्यचित्स्यात्- ‘सत्सदेवासदसदेवे ‘ति निश्चयानुपपत्तेः । किं चोत्पद्यत इति व्यणुकादेर्द्रव्यस्य स्वकारणसत्तासम्बन्धमाहुः । प्रागुत्पत्तेश्वासत्, पश्चात्स्वकारणव्यापारमपेक्ष्य स्वकारणैः परमाणुभिस्तत्तया च समवायलक्षणेन सम्बन्धेन सम्बध्यते । सम्बद्धं सत्कारणसमवेतं सद्भवतीति । तत्र वक्तव्यं कथमसतस्तत्कारणं भवेत्, सम्बन्धों वा केनचित्स्यात् । नहि वन्ध्यापुत्रस्य सता सम्बन्धो वा कारणं वा केनचि- त्प्रमाणतः कल्पयितुं शक्यते । ननुत्पत्तेः प्राग्घटस्य सत्त्वेऽपि कारणापेक्षानुपपत्तिस्तदवस्यैव व्यर्थत्वादित्यत आह - भावात्मका- वेदिति । उत्पत्तेः प्रागनभिव्यक्ततया स्थितत्वेन कार्यस्याभिव्यक्ति प्रति कारणापेक्षा युक्तैवेत्यर्थः । तस्माद्भावात्मका एवं घटादयः कारणमपेक्ष्योत्पद्यमानत्वात् । भावस्य हयुत्पद्यमानत्वं कारणापेक्षत्वं चेत्युभयं सङ्गच्छत इति भावः । तस्मात्कार्यस्याभावात्मकत्वमयुक्तं- कार्यस्य कारणात्मकत्वादभावस्य च कारणत्वायोगात् । नहि शशविषाणादिकं कस्यचित्कारणं दृष्टम् । नन्वेवमभावो भावो माभून्नाम, भावः पुनरभावो भवत्येव; घटस्य नाशानन्तरं प्रध्वंसाभाव- दर्शनादितिचेत्, मैवमपि - नष्टस्यापि घटस्य कपालत्वचूर्णत्वादिलक्षणभावत्वमेव नाभाचत्वमिति, उत्पत्तेः प्रागिव नाशादनन्तरमपि सूक्ष्मरूपेण स्वकारणमृद्येव घटस्य सत्त्वाभ्युपगमात् । तस्माद्भावात्म- कस्य घटस्य नाभावात्मत्वप्राप्तिर्विरोधादिति भावश्वाभावो नैव भवति । 1 1 दोषान्तरमाह – किं चेति । विश्वासो न स्यादित्यन्वयः । विश्वासाभावे हेतुमाह-सत्स- देवेति । यदि सदसत्स्यादसाध सत्स्यातर्हि सत्सदेवासदसदेवेति निश्चयासम्भव एव । ततश्च सर्वोऽपि वैदिको लैकिका प्रमाणप्रमेयव्यवहारोऽविश्वसनीय एव स्यात् । यन्मानेन सदसद्वा निर्णीतं तत्तथेति विश्वासाभावान्मानवैफल्यमित्यर्थः । दोषान्तरं दर्शयितुं तन्मतमनुवदति - किं चेति, उत्पद्यत इति । धणुकादिद्रव्यं कर्तृ । संग्रहवाक्यमेव विवृणोति - प्रागिति । उत्पत्तेः प्रागसद्व्यणुकादिरूपं द्रव्यं परमाणुभिस्सतया च समवायसम्बन्धेन सम्बध्यत इत्यन्वयः । तत्र हेतुमाह- कारकव्यापारमपेक्ष्येति । स्वकारकव्यापारवशादित्यर्थः । एवं सम्बद्धं सतद्व्यणुकादिद्रव्यं सम्भवतीत्याह – सम्बद्धमिति । कारणसम्बन्धे सति कार्यस्य सत्तासम्बन्धो भवतीत्यर्थः । तदेव स्फुटयति - कारणेति । व्यणुकादि- द्रव्यमित्येव कर्तृ कारणसमवेतमतएव सद्भवतीत्यन्वयः । उत्पत्तेः प्रागत्यन्तमसतोऽपि व्यणुकादिद्रव्यस्य परमाणुभिस्सह समवायादृद्रव्यलाभः परमाणुनिष्ठसत्तया सह समवायात्सत्त्वलाभश्च भवतीति भावः ।

एवं तन्मतमनूय निराकरोति -तत्र चेत्यादिना । वक्तव्यं प्रष्टव्यमित्यर्थः । स्वमिति । स्वस्वप्रतिनियतं मृदादिकमित्यर्थः । उत्पत्तेः प्रागसतो घटस्य मृदादिकं कथं कारणं स्यात् ! कथं वा तस्य केनचित्सम्बन्धरस्यादित्यर्थः । कुतो न स्यादत आह -नहीति, स्वमिति । पित्रादिरूप - मित्यर्थः । ननु सतोरेव कार्यकरणयोः पटतन्त्वोर्घटमृत्तिकयोश्च समवायं ब्रूमो वयं, नस्वभावभावयोरिति ३४६ श्रीभगवद्गीतासु- माष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु ननु नैवं वैशेषिकैरभावस्य सम्बन्धः कल्प्यते । व्यणुकादीनां हि द्रव्याणां स्वकारणेन समवाय लक्षणस्सम्बन्धस्सतामेवोच्यत इति न सम्बन्धात्प्राक् सच्चानभ्युपगमात् । न हि वैशेषिकैः कुलालदण्डचक्रादिव्यापारात्प्राग्घटादीनामस्तित्वमिष्यते । नच मृद एव घटा- द्याकारप्राप्तिमिच्छन्ति; ततश्वासत एव सम्बन्धः पारिशेष्यादिष्टो भवति ।

नन्वसतोऽपि समवायलक्षणस्सम्बन्धों न विरुद्धो न वन्ध्यापुत्रादीनामदर्शनात् । घटादेरेव प्रागभावस्य स्वकारणसम्बन्धो भवतीति न वन्ध्यापुत्रादेरभावस्य तुल्यत्वेऽपीति विशेषोऽभावस्य वक्तव्यः । एकस्याभाव:, द्वयोरभावः, सर्वस्याभावः, प्रागभात्रः, प्रध्वंसाभावः, इतरेतराभाव:, अत्यन्ताभाव इति लक्षणतो न केनचिद्विशेषो दर्शयितुं शक्यः । असति च शङ्कते - नन्विति । सतां द्रव्याणामिति सम्बन्धः । परिहरति नेति । हेतुमाह-सम्बन्धा- दिति । परमाणुसत्तासम्बन्धात्प्राग्यणु कादिद्रव्यस्य सत्तानभ्युपगमादित्यर्थः । तदेव स्फुटयति- नहीति । उत्पत्तेः प्राग्घटादिकार्यस्यासत्त्ववादिनो हि वैशेषिका : कुलालादिव्यापारात्प्राग्घटादिकार्यमस- दित्यभ्युपगच्छन्ति । कुलालादिकारकव्यापारमपेक्ष्य हि परमाणु सत्तासम्बन्धी घटस्य । तस्माद्व्यणुका- दीनां सतामेव स्वकारणेन समवायसम्बन्ध इति वक्तुं न शक्यते ।

’ अयं भावः - किमुत्पन्नस्य सत एव द्रव्यस्य स्वकारणेन सत्तया च सह समवायसम्बन्ध इति श्रूषे उतानुत्पन्नस्यासत: ! नाद्यः कारणसत्तासमवेतं सदेव कार्ये जायत इति कार्यजन्मानन्तरं कार्य कारणसमवाय कल्पनस्यायुक्तत्वात् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणमिति हि त्वया लक्षितम् नहि मृदसमवेतस्सन्नुत्पद्यमानो घटो दृष्टः, येनोत्पत्त्यनन्तरं घटस्य मृत्समवायस्यात् । द्वितीये. स्वभा वस्य केनचित्सम्बन्धः कल्पित एवेति । ननुत्पत्तेः प्राग्वटो मृदूपेण वर्तत एवेति सत एव घटस्य मृदा सह समवायसम्बन्ध इत्यत आह-न चेति । वैशेषिका इति शेषः । नेच्छन्तीत्यन्वयः । तथाभ्युप- गमे सरकार्यवादभङ्गप्रसङ्गादिति भावः । सत्कार्यवादो हि सः । ततश्चेति । सम्बन्धात्प्राक्कार्यस्य सताया अनभ्युपगमादित्यर्थः । पारिशेष्यादिति । पर्यवसानादित्यर्थः । सत्कार्यवादानभ्युपगमा- दिति वा । 1 1 1

ननुत्पत्तेः प्रागसतोऽपि घटस्य स्वकारणेन सह समवायसम्बन्धो न विरुध्यत इत्याक्षिपति- नन्विति । परिहरति — नेति । हेतुमाह-वन्ध्येति । स्यादिपदाच्छशविषाणादिग्रहणम् । नन्व- भावस्य तुल्यत्वेपि घटादिप्रागभावलक्षणाभावस्यैव परमाण्वादिकारणसम्बन्धः, नतु वन्ध्यापुत्रशशविषा- णादिलक्षणाभावस्येत्याह वैशेषिकः - घटादेरेवेति । -घटादेरेवेति । तत्र विशेषहेतुं पृच्छत्यद्वैती – विशेष इति । सभावस्य विशेषो वक्तव्यः । ननु घटादिप्रागभावस्य सप्रतियोगित्वं वन्ध्यापुत्रादेनैव मित्यस्ति विशेष इत्याशङ्कय दूषयति — एकेस्येति । एकद्विसर्वादिप्रतियोगित्रशा देवाभावस्य भेदः, नतु स्वरूप इति कृत्वा वन्ध्यापुत्राद्यभावोऽपि सप्रतियोगिक एवेति न विशेष इति भावः । ननु माभूल्लक्षणतो भेदः, किं तवोऽत आह- असति चेति । घटस्य प्रागभाव एव कुलालादिभिर्घटभावमापद्यते भावेन कपालाख्येन अष्टादशोऽध्यायः । ३४७ विशेषे घटस्य प्रागभाव एव कुलालादिभिर्घटाभावमापद्यते सम्बध्यते च भावेन कपालाख्येन स्वकारणेन सम्बद्ध सर्वव्यवहारयोग्यश्च भवति । ननु घटस्यैव प्रध्वंसाभावोऽभावत्वे सत्यपीति प्रध्वंसाद्यभावानां न क्वचिद्व्यवहारयोग्यत्वं प्रागभावस्यैव व्यणुकादिद्रव्याख्य- स्योत्पत्त्यादिव्यवहरार्ह त्वमित्येतदसमंजसं अभावत्वाविशेषादत्यन्तप्रध्वंसाभावयोरिव । दत्यन्ताभावप्रध्वंसाभाववत्प्रागभावस्यापि .

ननु नैवास्माभिः प्रागभावस्य भावापत्तिरुच्यते ; भावस्यैव हि तर्हि भावापत्तिः, यथा घटस्य घटापत्तिः, पटस्य वा पटापत्तिः । एतदप्यभावस्य भावापत्तिवदेव प्रमाणविरुद्धम् । साङ्ख्यस्यापि यः परिणामपक्षस्सोऽप्यपूर्वधर्मोत्पत्तिविनाशाङ्गीकरणाद्वैशेषिकपक्षान्न विशिष्यते । स्वकारणेन सम्बध्यते, तेन सम्बद्धश्च सर्वव्यवहारयोग्यो भवति । एवकारार्थमाह - नन्विति । घट- स्यैव प्रर्ध्वसाभावः कुलालादिभिर्घटभावं नापद्यते, भावेन न सम्बध्यते व्यवहारयोग्यश्च न भवति । अभावत्वे सत्यपीति । प्रध्वंसाभावस्य उत्पत्त्यादिव्यवहा रानईत्वं प्रागभावस्यैव तदईत्वमित्येतद्वचन- मसमञ्जसमयुक्तं, कस्मादसमञ्जसमत आह- अभावत्वाविशेषादिति । दृष्टान्तमाह — अत्यन्तेति । अन्यन्ताभाव प्रध्वंसामावयोरभावत्वाविशेषाद्यथा न कचिद्यवहारयोग्यत्वं तथा प्रागभावस्वापीति । तस्मा- परमाण्वादिकारणसम्बन्धकल्पनमुत्पत्त्यादिव्यवहारा ईत्वकल्पन चायुक्तमेव । प्रागभावो नोत्पत्त्यादिव्यवहारार्ह :- अभावत्वात् । प्रभ्वंसाभाववदत्यन्ताभाववच्चेति प्रयोगा- दिति भावः । तस्माच्छुद्धे शक्तिमति द्रव्ये आत्मन्यविद्यमाना क्रियोत्पद्यत इति यदा करोति तदा निष्क्रियं च वस्त्विति तृतीयः पक्षोपि काणादाभिमतो दुष्ट एव । एवमसत्कार्यवादे दूषिते सति लब्धावकाशस्सन् सत्कार्यवादी प्रत्यागत्य भवतु वैषिकैस्तैरभिमतोऽसत्कार्यवादो दुष्टः, अस्माभिस्तु सत्कार्यवादोऽभ्युपगतः, सच नैव दुष्ट इति चोदयति – नन्विति । अस्माभिस्तत्कार्यवादिभि: प्रागभावस्य भावापतिर्नैवोच्यते, किं तर्हि भावस्यैव भावापत्तिरुच्यते । तत्रोदाहरणमाह-यथा घट- स्येति । स्वकारणे मृदि वर्तमानस्य घटस्यैव घटभावापत्तिरित्यर्थः । कार्यमुत्पत्तेः प्रागप्यस्तीति हि सत्कार्यवाद इति भावः । दूषयति — एतदपीति । भावस्य भावापतिरिति मतमपीत्यर्थः । प्रमाण- विरुद्धमिति । यदि घट उत्पत्तेः प्रागप्यस्ति तर्हि कुलालादिकारकव्यापारवैयर्थ्यम् । पिण्डावस्थाया- मपि घटदर्शनप्रसङ्गः । किंच घटभावापत्तेः प्रागेव घटस्य सतो द्रव्यस्य पुनर्घटाभावापत्तिरित्ययुक्तम् । घटभावापत्तेः प्रागपि घटो वर्तत इति चायुक्तं, घटाभावापत्तेः प्राग्द्रव्यस्य घटस्यैवाभावादिति । नच घट उत्पत्तेः प्राक् मृद्रूपेण वर्तत इति सत्कार्यवादसिद्धिरिति वाच्यं, उत्पत्तेः प्राग्धटस्यै- वानिष्पस्या कुतः पुनस्तस्य मृदूपेणावस्थानम् ? यं मृदूपेण वर्तत इति त्वं ब्रूषे नहि स घट उत्पत्तेः प्राक्सिद्धः । तस्माद्धटोत्पत्तेः प्राक् मृदेवास्ति, नतु मृद्रूपेण घट इति प्रमाणविरुद्ध एव सत्कार्यवादः । नन्वेवं सत्कार्यवाददूषणात्कि ते फलमिति चेदुच्यते—उत्पत्तेः प्रागप्यात्मवस्तुनि क्रिया - स्तीति सत्क्रियस्यात्मनः कर्मणामशेषतस्त्यागासम्भव इत्येवंरूपसत्कार्यवादिहृदयस्य निर्भेदनमेव फलम् । एवं सत्कार्यवादे आरम्भवादं दूषयित्वा परिणामवादं दूषयति — साङ्ख्यस्येति । मृदेव कारकव्यापार- ३४८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु 1 अभिव्यक्तितिरोभावाङ्गीकरणेऽप्यभिव्यक्तितिरोभावयोर्विद्यमानत्वा विद्यमानत्वनिरूपणे पूर्वव- देव प्रमाणविरोधः । एतेन कारणस्यैव संस्थानमुत्पच्यादीत्येतदपि प्रत्युक्तम् । पारिशेष्या- वशाद्धात्मना परिणमत इति साङ्ख्याः । नास्मिन्मते आरम्भवादवत् कारकव्यापारनैरर्थवर्य, नाप्यस- स्कार्यवादवदसतस्सद्भावापत्तिरूपो विरोध इति भावः । दूषयति - सोऽपीति । परिणामपक्षोऽपिं वैशेषिकपक्षान्न विशिष्यते । कुतः ? अपूर्वधर्मोत्पतितन्नाशाङ्गीकरणात् । अपूर्वधर्मो मृदो घटा- थाकारेण परिणामः पूर्वमविद्यमानः । तस्योदयनाशयोरङ्गीकारादस वरसता सतश्वासचेति दोषद्वयं प्राप्तमिति भावः । ननु कार्य कारणात्मना प्रागपि सदेवाव्यक्तं कारकव्यापारेणाभिव्यज्यत इत्यवाह- अभिव्यक्तीति । अयं भावः - उत्पत्तेः प्रागपि घटः सूक्ष्मरूपेणानभिव्यक्त नामरूपतया मृदस्त्येव । अनभि- व्यक्तत्वादेव तदा तस्यादर्शनं तदभिव्यक्त्यर्थे च कारकव्यापार इति यदि ब्रूषे तर्हि कारकव्यापारवां- सूक्ष्मेऽनभिव्यक्ते घटे जायमानोऽभिव्यक्तिरूपस्स धर्मः किमुत्पत्तेः प्रागस्ति, उत नास्ति ? आधे– उत्पत्तेः प्रागेव सतः पुनरुत्पत्त्ययोगः । द्वितीये त्वसत्कार्यवादप्रसङ्गः । न च सोऽप्यभिव्यक्तिरूप- धर्म: उत्पत्तेः प्रावसूक्ष्मरूपेणानभिव्यक्तस्सन्नस्तीति वाच्यं, अनवस्थादिदोषप्रसङ्गात् । एवं तिरो- भावोऽप्यूयमिति । ननु वैशेषिक पक्षादेव न विशिष्यत इति कुन उक्त, सत्कार्यवादपक्षादपि न विशिष्यत इति वक्तव्यत्वादिति चेत्, मैवम् - सत्कार्यवादस्यापि वैशेषिकैकदेश्य भिम नत्वात् । अत एवोकं ननु नैवास्माभिरिति । ननु न वयमपूर्वाभिव्यक्तिवर्मोत्पतिं ब्रूमः येनोक्तदोषस्स्यात् । किं तर्ह्यनभि- व्यक्तितिरोभावं ब्रूम इतिचेत्, मैवम् - अभिव्यक्ते घटे जायमानस्सोऽप्यनभिव्यक्ति तिरोभावः कि- सुत्पत्तेः प्रागस्ति, उत नास्ति ? आद्ये- उत्पत्तिवैयर्थ्यम् । द्वितीये तु असत्कार्यवाद प्रसङ्गः । न चानभि- व्यक्तितिरोभावस्योत्पत्तेः प्रागसत्त्वेऽपि नासतस्सद्भावापत्तिरूपदोषप्रसङ्गः, कार्य कारणावस्थाद्वये - प्यसत्त्वादिति वाच्यं, अवस्थाद्वयेऽप्यसतो ऽनभिव्यक्ति तिरोभावस्य शशविषाण कल्पस्य सताङ्गीकारे सर्वप्रमाणविरोधात् । तदनङ्गीकारेऽनभिव्यक्ति तिरोभावस्यैवा सिद्धेः । ननु उदासीन पुरुषवादिनस्साङ्ख्यस्य मतं निष्क्रियात्मवादिनस्स्वस्योपयुक्तमेवेति कुतस्तत्खण्डन- मितिचेदुच्यते - साङ्ख्याभिमतपरिणाम पक्षाभ्युपगमे त्वात्मन्यनभिव्यक्ततया सूक्ष्मरूपेण वर्तमाना क्रिया काला दिवशादभिव्यज्यत इति सक्रियत्वमापद्येतात्मनः; ततश्च सर्वकर्मत्यागानुपपतिरितिः । ननुत्पत्ति- विनाशादयस्ततो द्रव्यस्यावस्थाविशेषाः, तन्तुप्रभृतीनि हि सन्त्येव द्रव्याणि रचनाविशेषयुक्तानि पटादीन्युच्यन्ते तत्र पूर्वावस्थस्य द्रव्यस्योत्तरावस्थाप्राप्तिर्विनाशस्यैव तदवस्थस्योत्पत्तिरिति द्वैतिनों विशिष्टाद्वैतिनश्च ब्रुवन्ति; तन्मतस्य का गतिरत आह— एतेनेति । संस्थानमवस्था विशेष आकार- विशेष इति यावत् । उत्पत्त्या दीत्यादिपदान्नाशग्रहणम् । प्रत्युक्तमिति । किं पिण्डावस्थस्य’ मृद्रव्यस्य नायमाना घटावस्था प्रागुत्पत्तेरस्ति उत नास्ति ? आथे- सत्कार्यवादप्रोक्तकारकव्यापारवैयर्थ्यादि- . अष्टादशोऽध्यायः । ३०९ त्सदेकमेव वस्त्वविद्ययोत्पत्तिविनाशादिधर्मैरनेकधा नटवद्विकल्प्यत इति । इदं भागवतं मत- मुक्तं- ‘नासतो विद्यते भाव’ इत्यस्मिंश्लोके सत्प्रत्ययस्याव्यभिचारात्; व्यभिचाराच्चेत- रेषामिति । दोष प्रसङ्गः । द्वितीये तु असत्कार्यवादप्रसङ्गः । तथा घटावस्थस्य मृद्रव्यस्य जायमानः कपा- लावस्था प्राप्तिपूर्वको घटावस्थानाशः किमुत्पत्तेः प्रागस्ति, उत नास्ति ? आधे- सत्कार्यवाददोष- प्रसङ्गः । द्वितीये तु असत्कार्यवादप्रसङ्ग इति भावः । अयमपि पक्षस्साङ्ख्यपक्षवद्वैशेषिकपक्षान्न विशि- ष्यते- घटादिसंस्थानविशेषोत्पत्तितन्नाशयोर्विद्यमानत्वाविद्यमानत्वंनिरूपणे पूर्ववदेव प्रमाण विरोधात् ततश्च सत्कार्यवादो ऽसत्कार्यवादचेति पक्षद्वयमेव व्यवस्थितं सर्वेषां पक्षानां तत्रैवान्तर्भावात् । अस्मि पक्षद्वये दूषिते सति परिशेषन्यायात्कार्यं मिथ्येतिपक्षस्तृतीयो निर्दुष्टसिद्ध इत्याह- पारिशेष्यादिति । नटचदिति । यथा नट एक एव धर्मार्जुनकृष्णरामादिवेषैरनेकधा विकल्प्यते तद्वदित्यर्थः । । अयं भावः - सच्चिदानन्दे ब्रह्मणि प्रतीयमानमिदं जगदुत्पत्तेः प्राक्सदित्यसदिति वा वक्तु- मशक्यमेव । सदसदनिर्वाच्यत्वादेव जगन्मिथ्या । नचोत्पत्त्यनन्तरं जगदिदं सर्दिति निर्वाच्यमेवेति वाच्यं तदापि मृयतिरेकेण घटस्येव कारणब्रह्मव्यतिरेकेण जगतोऽभावान्मिथ्यात्वमेव । यथा रज्जु- व्यतिरेकेणा सतस्संर्पाभासस्य मिथ्यात्वं सम्प्रतिपन्नं तद्वत् । एवं जगन्नाशोपि सदसद निर्वाच्यः । ततध जगन्मिथ्या तदुदयनाशौ च मिथ्या, तदुभयपूर्वकवृद्ध्यादिविकारा अपि मिथ्या । जगतो वृद्धिः किं - मुत्पत्तेः प्रागस्ति उतः नास्ति ? आधे सत्कार्यवादप्रसङ्गः । द्वितीये व सत्कार्यवादप्रसङ्ग इति वृदया- दीनामपि मिथ्यात्वात् । इमे च जगदुदयविनाशादयो मिथ्याकार्यभूता धर्मा आत्मन्यविद्यया कल्पितास्सद्रूपे ब्रह्मणि नटे. रामादिवेषा इव रज्जौ सर्पदण्डायाकारा इव च । तस्मादात्मनि प्रतीय- माने सर्वमपि कार्य (धर्म) जातं मिथ्यैव । आत्मैक एव सत्यः । ’ सद्रूपत्वात्सदेव सत्य’ मिति श्रुतेश्चेति भावः । नच ब्रह्मापि किमुत्पत्तेः प्रागस्ति उत नास्ति ? उभयधा च दोषों दर्शित एवेर्ति मिथ्यैवेति वाच्यं, अकार्यत्वाद्रह्मण उत्पत्त्याद्यभावादः । नित्यो हि निर्विकार आत्मा । नच सविकार इति वाच्यं सविकारत्वे सति त आत्मविकाराः केनचिद्गृहीतव्याः स्युः । नचेष्टापत्ति :- स्वेन स्व- विकाराणामग्राद्यत्वान्नात्ममाद्यत्वमात्मविकाराणाम् । नाप्यनात्ममाद्यत्वमनात्मनों जडत्वात् । नासाक्षिका मात्मविकारा अभ्युपगन्तव्याः । तस्मान्निर्विकारस्सद्रूप एवात्मेति स एव सत्यः, अन्यत्सर्वं जगन्मिथ्यैव । श्रुतयोपि - ‘वत्सायं स मात्मा तत्त्वमसि, यो वै भूमा तदमृतमथ यदस्य तन्मय मित्याद्या असुमेवार्थे नुवन्ति । स्मृतयश्च- ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्यादयः कारणमेव सत्यं, कार्य मिथ्यैवेति । ‘वाचा- रम्भण विकारो नामधेयं मृत्तिकेत्येव सत्य’ मित्युपपत्तिमपि सदृष्टान्तं बोधयति श्रुतिः । ब्रह्मणः कार- णत्वं जगतः कार्यत्वं च यतो वा इमानि भूतानि जायन्ते ‘, आत्मन आकाशस्सम्भूत” इत्यादिश्रुतयों दर्शयन्ति । ‘अहं सर्वस्य प्रभव’ इत्यादिस्मृतयश्च । तस्मात्कारण ब्रह्मैकमेव सत्सत्य, कार्ये जगन्मिथ्यै- वेतीद भागवतं श्रीकृष्णाभिमतमद्वैतं मतम् । नम्वयमर्थः क्वोक्तः कृष्णेनेत्यत आह- नासत इति । किमुक्तमत आह-सत्प्रत्ययस्येति । • ३५० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु 1 कथं तर्ह्यात्मनोऽविक्रियत्वेऽविशेषतः कर्मणस्त्यागो नोपपद्यत इति । यदि वस्तुभूता गुणाः, यदि वाऽविद्याकल्पिताः, तद्धर्मः कर्म, तदात्मन्यविद्ययाऽध्यारोपितमेवेत्यविद्वान् - ‘नहि कश्चित्क्षणमप्यशेषतस्त्यक्तुं शक्नोतीत्युक्तं विद्वांस्तु पुनर्विद्ययाऽविद्यायां निवृत्तायां शक्नो त्येवाशेषतः कर्म परित्यक्तुं - अविद्याध्यारोपितस्य शेषानुपपत्तेः । न हि तैमिरिकदृष्टयाऽध्या- रोपितस्य द्विचन्द्रादेस्तिमिरापगमेऽपि शेषोऽवतिष्ठते । एवं च सतीदं वचनमुपपन्नं- ‘सर्व- कर्माणि मन’ सेत्यादि, ‘स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः, स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव’ इति च ॥४८॥ 1 घटस्सन् पटस्सन्नित्येवं सर्वत्रानुगततया सम्प्रत्ययो न व्यभिचरति । घटादिप्रत्ययस्तु पटाद्यननुगतत्वा- व्यभिचरति । यद्विषय: प्रत्ययो व्यभिचरति तन्मिथ्या, यद्विषय: प्रत्ययो न व्यभिचरति तत्सत्यम् । यथा सर्पाभासविषयप्रत्ययो व्यभिचरतीति सर्पाभासो मिथ्या, रज्जुविषयप्रत्ययो न व्यभिचरतीति रज्जु- स्सत्या, तथा सद्बुद्धेरव्यभिचारात्सद्ब्रह्म सत्यं जगद्बुद्धेर्व्यभिचाराज्जगन्मिथ्येति भावः । ननु भवत्वेवं जगदुदयादिधर्माणां मिथ्यात्वादविक्रियत्वमात्मनस्सत्यत्वं च किं तेन प्रकृते फलमत आह-कथ- मति । तहीँत्यस्यार्थमाह - आत्मनोऽविक्रियत्वे सतीति । अशेषत: कर्मणस्त्यागः कथं नोपपद्यत इत्यन्वयः । अपि तूपपद्यत एवेत्यर्थः । मिथ्याभूतानां क्रियाकारकफलानां कालत्रयेऽध्यात्मन्यभावादिति भावः । ननु यद्येवमशेषतः कर्मत्याग उपपद्यते तर्हि ‘नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषत’ इति कुत उक्तमिति शङ्कायामविदुष एव सर्वकर्मत्यागासम्भवो नतु विदुष इत्याह-यदीति । यदि गुणा- स्वत्त्वादयोऽवस्तुभूता मिथ्याभूताः, यदिवाऽविद्याकल्पिताः, तद्धर्मः कर्म च यदि मिथ्या, यदि चाविद्याकल्पितं, तदा तत्मन्यविद्याध्यारोपितमेव तत्सर्वे गुणतत्कार्यजातमिति यो न वेति सोऽविद्वान् कर्माशेषतस्त्यवतुं न शक्नोति, मुद्धिश्यैव ‘नहि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृ’ दिति, नहि देह - भृता शक्यं त्यक्तं कर्माण्यशेषत’ इति चोक्तं भगवता |

. य इति । विद्वान् सतु पुनरविद्या निवृत्तेरशेषतः कर्म त्यक्तुं शक्नोत्येव । कुतश्शक्नोति विद्वानत माह — अविद्येति । अविद्ययाऽध्यारोपणमात्मन्यध्यासो यस्य तस्य क्रियाकारकफलसमुदाय- स्येत्यर्थः । अविद्याकर्तृकक्रियाकारक फलाध्यारोपस्येति वा । अविद्यायां निवृत्तायां तत्कार्यस्यावशेषोऽ- नुपपन्न इत्यर्थः । अनुपपत्तिमेव दृष्टान्तप्रदर्शनेन स्फुटयति — नहीति । अवशेषो नावतिष्ठत इत्यन्वयः । यथवशेषोऽवतिष्ठेत तर्हि तिमिरेऽपनीतेऽपि द्विचन्द्रदर्शनं स्यात् नतु तथास्ति । तथा सति तिमिरापगमस्यैवासिद्धेः । नन्वेवं विदुषः सर्वकर्मत्यागस्सम्भवतीति कुतो नोक्तं भगवतेत्यत आह- एवं चेति । ‘सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देहे नैव कुर्वन्न कारय’ निति सर्वकर्मत्यागः प्रोक्त एव भगवतेति भावः । नच तद्वचनं विद्वद्विषयमिति, नहि देहभृते तिवचनमविद्व- द्विषयमिति च कुतो ज्ञायत इति वाच्यं, वचनद्वयस्यैका धिकारिपरत्वे व्याघाताद्भिन्नाधिकारिपरत्वं ताव- दवश्यमभ्युपेतव्यम् । तथा च सति अविद्यानिवृत्त्या विदुषः कर्मत्यागसम्भवः, तदनिवृत्त्या त्वविदुष- स्तदसम्भव इति ज्ञायते । विद्यावान्हि विद्वान् ; विद्या ह्यविद्याया निवर्तिका; अविद्यया धात्मनि मष्टादशोऽध्यायः । ३५१ याच कर्मजा सिद्धिरुक्ता ज्ञाननिष्ठायोग्यतालक्षणा, तस्याः फलभूता नैष्कर्म्यसिद्धि- र्ज्ञाननिष्ठा लक्षणा च वक्तव्येति श्लोक आरभ्यते– असक्त बुद्धिस्सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धि परमां सन्न्यासेनाधिगच्छति ॥ ४९ ॥ असक्तबुद्धिरिति । असक्तबुद्धिः - असक्ता सङ्गरहिता बुद्धिरन्तःकरणं यस्य सोऽसक- बुद्धि:, सर्वत्र पुत्रदारादिष्वासक्तिनिमित्तेषु जितात्मा जितो वशीकृत आत्माऽन्तःकरणं यस्य स जितात्मा, विगतस्पृहः विगता स्पृहा तृष्णा देहजीवितभोगेषु यस्मात्स विगतस्वहः, य एवंभूत आत्मज्ञस्स नैष्कर्म्यसिद्धि- निर्गतानि कर्माणि यस्मान्निष्क्रियब्रह्मात्मसम्बोधात्स क्रियाकारकादिभेदप्रतीतिः । सच्चिदानन्दं ब्रह्माहमस्मीत्येषा हि विद्या । कर्ता भोका संसारी भिन्न ईश्वरादहमित्येषा विद्या । एतदविद्यावान् पुरुषस्सहजं कर्म न त्यजेत्, विद्यावांस्तु त्यजेदेवेति सिद्धः परमहंस परिव्राजकस्य सर्वकर्मणामशेषतस्त्यागः । आत्मस्वरूपस्य निष्क्रियत्वात्परमहंस परिव्राजकस्य तत्त्वविदश्वात्मत्वात्तत्त्वविदस्सर्व कर्मपरित्या गोपपत्तिरिति । ननु स्वस्मिन्नात्मन्यसतामेव कर्मणां कुतस्त्यागस्तच्त्रविदोऽपि सम्भवेत् ? प्रसक्तिपूर्वको हि निषेध इतिचेत्, मैवम् — अविद्यया स्वात्मनि प्रसक्तानां कर्मणां विद्यया त्यागसम्भवादिति । यत्तु रामानुजः – ज्ञानयोग्योऽपि सहज कर्मयोग सदुःखमपि न त्यजेत् । ज्ञानारम्भाः कर्मा- रम्भाश्व दुःखेनावृता इति, तत्तुच्छम् - सर्वारम्भपरित्यागित्वं यदुक्तं गुणातीतलक्षणं तन्नैव सिद्धये- यदि विद्वानपि कर्म न त्यजेत् । ’ तरति शोकमात्मवि’ दिति श्रुतेर्ज्ञानारम्भस्य सदुःखत्ववचनं चायुक्तम् । नच ज्ञानस्यादुः खत्वेऽपि तदारम्भस्य सन्न्यासादिलक्षणस्य सदुःखत्वमिति वाच्यं तस्यापि त्यागरूपत्वेनादुःखत्वात् । न हि गृह निर्मातुर्यश्श्रमः काष्टादिसम्पादनरूपः स तत्परित्यक्तुर्भवेत् । नच विदुषोऽपि रागत्यागो दुष्कर इति वाच्यं, ‘रसोऽप्यस्य परं दृष्ट्रा निवर्तत इत्युक्तत्वेनात्मनि दृष्टे सति विदुषः स्यादिरागस्य सुत्यजत्वात् । तस्माद्रव्यार्जनपरि करसम्पादनादिना कर्मारम्भ एव सदुःखो नतु ज्ञानारम्भः । किंच गुणकर्मविभागप्रकरणेऽस्मिन् कोऽवकाशो ज्ञानयोगस्येति ॥ ४८ ॥ असक्तेति । ननु दर्शितविषयेश्वरार्पणबुद्धया स्वस्वनियतकर्म कुर्वाणस्य ज्ञाननिष्ठाप्राप्ति योग्यत्व- लक्षणचितशुद्धिरूपसंसिद्धिर्भवतीत्युक्तम् । तथा सिद्धस्य पुनः किं भवतीत्यत आह- असक्तेति । कर्मसिद्धिः कर्मयोगफलं चित्तशुद्धिरिति यावत् । सर्वत्रांसक्तबुद्धिर्जितात्मा विगतस्पृहश्च पुरुषस्सन्न्यासेन परमां नैष्कर्म्यसिद्धिमधिगच्छति । कर्मभिश्चित्ते शुद्धे सति पुरुषस्य पुत्रदारादिषु सर्वत्र बुद्धेरसङ्गो भवति ततश्च मनसो वशीकरणं भवति; ततश्च देहजीवितादिषु निस्पृहत्वं सिध्यति ततश्च सम्यग्दर्श- नेन सर्वकर्मसन्न्यासं कृत्वा नैष्कर्म्यसिद्धि प्राप्नोतीत्यर्थः । नैष्कर्म्यसिद्धिपदं व्याकरोति - निर्गता- नीत्यादिना । निष्क्रियं ब्रह्मैवात्मेति बोधो यस्य स निष्क्रियब्रह्मात्मबोधस्तस्मान्निष्क्रियब्रह्मात्मबोधा- दिति यस्मादित्यस्य विशेषणम् । निष्क्रियब्रह्म त्मबो बद्धेोरिति वा । स इति । निष्क्रियब्रश / रम- | ३५२ श्रीभगवद्गीतासु- माष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु निष्कर्मा, तस्य भावो नैष्कर्म्य, नैष्कर्म्य च तत्सिद्धिश्च सा नैष्कर्म्यसिद्धिः, निष्कर्मत्वस्य वा सिद्धिर्निष्क्रियात्मस्वरूपावस्थानलक्षणस्य सिद्धिर्निष्पत्तिस्तां नैष्कर्म्यसिद्धि, परमां प्रकृष्टां कर्मजसिद्धिविलक्षणां सद्योमुक्त्यवस्थानरूपां सन्न्यासेन सम्यग्दर्शनेन तत्पूर्वकेण वा सर्वकर्मसन्न्यासेन, अधिगच्छति प्राप्नोति । तथा चोक्तम्- ‘सर्वकर्माणि मनसा सन्न्यस्य नैव कुर्वन्न कारयन्नास्त’ इति ॥ ४९ ॥ बोधवाम् पुरुष इत्यर्थः । नहि तूष्णींवर्तमानः पुरुषो निष्कर्मेत्युच्यते- तूष्णवर्तनस्यापि क्रियात्वात् किंतु निष्क्रियं ब्रह्मैवाहमिति य आत्मानं वेत्ति स तत्त्वविदेव निष्कर्मा निष्क्रियस्यात्मन एव तत्त्व- वित्त्वात्तत्त्वविद एव निष्क्रियात्मस्वरूपत्वाच्च । तस्य निष्कर्मणो निष्क्रियस्य तत्त्वविदो भावो नैष्कर्म्य निष्क्रियात्मस्वरूपेणावस्थानमित्यर्थः । सिद्धिर्गतिः । फलमिति यावत् । नैष्कर्म्यरूपा सिद्धिनैष्कर्म्य- सिद्धिः, नैष्कम्र्ये च तत्सिद्धिश्चेति कर्मधारयः । नैष्कर्म्यमिति सिद्धिर्नैष्कर्म्यसिद्धिरिति सम्भावनापूर्व- पदकर्मधारयमाहुरिममेव समासम् । नहि शास्त्रे ‘विशेषणं विशेष्येण बहुल’ मिति सूत्रकृतसमासाति- रिक्तः कश्चन सम्भावनापूर्वपदोऽवधारणपूर्वपदो वा कर्मधारयोऽस्ति । तस्माद्विशेषण समास एवायमत एवोक्तं- नैष्कर्म्यं च तत्सिद्धिश्चेत्याचार्यैः । नैष्कर्म्यरूपा तत्सिद्धिरिति तु फलितार्थकथनम् । समा- सान्तरमाह – नैष्कर्म्यस्य सिद्धिरिति, निष्पत्तिरिति । प्राप्तिरिति यावत् । उभयथापि निष्कि- यात्मस्वरूपावस्थानस्यैव फलत्वम् । नैष्कर्म्यसिद्धेः कुतः परमत्वमत आइ कर्मजेति । कर्मसिद्धि- श्चितशुद्धिस्तद्विलक्षणत्वादियं सिद्धिरुत्कृष्टेत्यर्थः । I

निष्क्रियात्म स्वरूपाव- ननु मोक्षलक्षण सिद्धेरितोऽप्युत्कृष्टायास्सत्त्वात्कथमस्याः परमत्वमत आह— सद्योमुक्तीति । सद्य एव झुक्तिर्यस्मात्तत्सद्योमुक्ति, तच्च तदवस्थानं सद्योमुक्त्यवस्थानं तद्रूपाम् । स्थानात्सद्य एव मुक्तिर्भवतीत्यर्थः । सद्यो मुक्तिरूपं यदवस्थानं द्रूपामिति वा निष्क्रियात्म स्वरूपाव- स्थानमेव सद्योमुक्तिरित्यर्थः । सद्योमुक्तिर्नीकमुक्तिरित्यर्थः । सद्यो मुक्ति रूपामिति पाठस्समीचीनः । घालूनामनेकार्थत्वादाह – सन्न्यासेन सम्यग्दर्शनेनेति । प्रसिद्धार्थपरित्यागोऽनुचित इत्याह— सर्वकर्मसन्न्यासेनेति, तत्पूर्वकेणेति । सम्यग्दर्शनपूर्वकेणेत्यर्थः । न विदुषस्सर्वकर्मसम्न्यास- सम्भवतीति भावः । मनु विदुषस्सर्वकर्मसन्न्यासेन नैष्कर्म्यसिद्धिरिति कुत्रोकमत आह - तथा चोक्तमिति । इहैवेति शेषः । आस्त इत्युक्तमित्यन्वयः । अनेन श्लोकेन गृहस्थः पुरुषः कर्मयोगादीश्वराराध- नात्मकाचित्तशुद्धिं प्राप्य ततो दारापत्यगृहादिकं सर्वे परित्यज्य प्रव्रज्व तत्तविदरसमीपे वेदान्तशास्त्र- श्रवणादिकं कृत्वा निष्क्रियं ब्रह्माहमस्मीति सम्यग्दर्शनं सम्पाद्य ततः परमहंसपरिव्रजको भूत्वा सर्व कर्माशिषतस्सन्न्यस्य निष्क्रियात्म स्वरूपावस्थानलक्षणां सद्योमुक्ति प्राप्य यावद्देहपातमात्मारामो वर्तेतेति दर्शितम् । अस्य च जीवन्मुक्तस्य देहान्ते विदेहकैवल्यलक्षण ब्रह्मप्राप्तिरुत्तरश्लोके वक्ष्यते । ब्रह्म- प्राप्नोतीति । एवं स्थिते कर्मयोगादेव ब्रह्मप्राप्तिरिति बढ़तो रामानुजस्याहो ! साहसम् ||१९|| ४५ अष्टादशोऽध्यायः । ३५३ पूर्वोक्तेन स्वकर्मानुष्ठानेनेश्वराभ्यर्चनरूपेण जनितां प्रागुक्तलक्षणां सिद्धि प्राप्तस्योत्प- न्नात्मविवेकज्ञानस्य केवलात्मज्ञाननिष्ठारूपा नैष्कर्म्यलक्षणा सिद्धिर्येन क्रमेण भवति, तद्वक्तव्यमित्याह- सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय ! निष्ठा ज्ञानस्य या परा ॥५०॥ सिद्धिमिति । सिद्धिं प्राप्तस्स्वकर्मणेश्वरं समभ्यर्म्य तत्प्रसादजां कायेन्द्रियाणां ज्ञान- निष्ठायोग्यतालक्षणां सिद्धिं प्राप्तः सिद्धिं प्राप्त इति तदनुवाद उत्तरार्थः । किं तदुत्तरं, यदर्थोऽनुवाद इत्युच्यते - यथा येन प्रकारेण ज्ञाननिष्ठारूपेण ब्रह्म परमात्मानं प्राप्नोति, तथा तं प्रकारं ज्ञाननिष्ठाप्राप्तिक्रमं मे मम वचनान्निबोध त्वं निश्वयेनावधारयेत्येतत् । किं विस्तरेण १ नेत्याह- समासेनैव संक्षेपेणैव हे कौन्तेय ! यथा ब्रह्म प्राप्नोति तथा निबो- धेति । अनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः, तामिदं तया दर्शयितुमाह - निष्ठा ज्ञानस्य या परेति । निष्ठा पर्यवसानं परिसमाप्तिरित्येतत् । कस्य : ब्रह्मज्ञानस्य या परा परिसमाप्ति- स्तादृशी । यादृशं परमात्मज्ञानं कीदृशमात्मज्ञानम् ? यादृश आत्मा; कीदृक्सः १ यादृशो भगवतोक्तः; उपनिषद्वाक्यैश्च न्यायतश्च । सिद्धिमिति । इलोकमवतारयति - पूर्वोक्तेनेति प्रागुक्तलक्षणामिति । चित्तशुद्धि- लक्षणामित्यर्थः । ज्ञाननिष्ठाप्राप्तियोग्यतालक्षणा मिति यावत् । तद्वक्तव्यमिति । स क्रमो वक्तव्य इत्यर्थः । कर्मसिद्धि प्राप्तस्य नैष्कर्म्यसिद्धिप्राप्तिर्येन क्रमेण भवति तं क्रमं वक्ष्यामि श्रुण्विति प्रति- जानाति सिद्धिमिति श्लोकेन भगवानिति भावः । तदनुवादस्सिद्धिप्राप्त्यनुवादः । उत्तरार्थ इत्युक्त पृच्छति - किं तदुत्तरमिति । प्रत्याह-यथेत्यादि । ब्रह्मप्राप्तिहेतुभूतज्ञाननिष्ठाप्राप्तिक्रम प्रदर्शन- मुत्तरं तदर्थ उत्तरार्थ इत्यर्थः । ज्ञाननिष्ठाप्राप्तिक्रम उत्तरमिति वा । तथापि पूर्वोक्त एव पर्यवसन्नोऽर्थः । इदं तयेति । इयं ब्रह्मप्राप्तिरिति बोधयितुमित्यर्थः । या ज्ञानस्य परा निष्ठा सेयमेव ब्रह्मप्राप्ति - रित्यर्थः | ब्रह्मज्ञानस्य मोक्षैकफलत्वान्मोक्षस्य च ब्रह्मप्राप्तिरूपत्वाद्ज्ञानस्य पर्यवसानं ब्रह्मप्राप्तिरेव साधनस्य साध्यं फलमेव हि पर्यवसानमिति भावः । हे कौन्तेय ! सिद्धि प्राप्तो यथा ब्रह्म प्राप्नोति तथा समासेनैव मे वचनान्निबोध । या ज्ञानस्य परा निष्ठा भवतीति श्लोकस्यान्वयः । कर्मजसिद्धिं प्राप्तस्य पुरुषस्य ब्रह्मज्ञानस्य परा निष्ठा ब्रह्मप्राप्तिर्यया ज्ञाननिष्ठया भवति सा नैष्कर्म्यलक्षणा ज्ञाननिष्ठा येन क्रमेण प्राप्यते तं ज्ञाननिष्ठाप्राप्तिक्रममहं वक्ष्यामि हे कौन्तेय ! त्वं सावघानो भवेति श्लोकस्य सारार्थः । ननु या ब्रह्मज्ञानस्य परा निष्ठा सैव प्रतप्राप्तिरित्युकं, सा निष्ठा कीदृशीति पृच्छति सा कीदृशीति । उत्तरयति – यादृशमिति । यादृशमात्मज्ञानं तादृशी ब्रह्मज्ञानस्य परा निष्ठा ब्रह्म- ३५४ श्रीभगवद्गीता - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतासु ननु विषयाकारं ज्ञानं न विषयः, नाप्याकारवानात्मेष्यते कचित् । ननु ‘आदित्य- वर्ण भारूपस्स्वयंज्योति’ रित्याकारवत्त्वमात्मनः श्रूयते न तमोरूपत्वप्रतिषेधार्थत्वात्तेषां ज्ञानस्यैव ब्रह्मप्रातिरूपत्वादिति भावः । कीदृक्तदिति पृच्छति – कीदृशमिति । उत्तरयति - यादृश आत्मेति । आत्मा यादृश आत्मज्ञानं तादृशमेव ज्ञानस्य विषयाकारत्वादिति भावः । ननु कीदृश आत्मेति पृच्छत्युत्तरयति — यादृश इति । भगवता गीनाभिरुपनिषद्वावयैश्वात्मा यादृश इत्युक्तो न्यायतश्वात्मा यादृश इति निर्णेतुं शक्यस्तादृश एवात्मेत्यर्थः । कूटस्थासङ्गस्वप्रकाशानन्दस्वरूप इति भावः । 1 ननु ‘न जायते म्रियत’ इत्यादिव । क्यैन्ययतश्चात्मनः प्रसिद्धावपि नात्मज्ञानस्य सिद्धिमात्मनोऽ- विषयत्वादनाकारत्वाच्चति शङ्कते - नन्विति । ज्ञानं विषयाकारं विषयस्य घटादेराकार इवाकारो यस्य तत्तथोक्तं भवतीति शेषः । विषयाकारपरिणतबुद्धिवृत्तिप्रतिफलित चैतन्यस्य ज्ञानत्वेन व्यवहारा- दिति भावः । भवतु किं तत इत्यत्राह - नेति । कचिदपि वेदान्तशास्त्रे आत्मा विषय इति नेष्यते, आकारवानित्यपि नेष्यते । आत्मनो विषयत्वाभावे हेतुप्रदर्शनार्थमा कारवान्नेत्युक्तमाचार्यैः । आकार- विशिष्ट वस्तु ज्ञानस्य विषयो भवति । तद्विषयाकारं च ज्ञानं च भवतीति निराकारस्यात्मनः कथं ज्ञानविषयत्वम् ? न कथमपीति नात्मज्ञानसिद्धिरिति भावः । नच ‘सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेर्ज्ञाना- कारस्यात्मनः कथं निराकारत्वमिति वाच्यं तत्र ज्ञानपदस्य लाक्षणिकत्वेन चैतन्यपरत्वादात्मस्वरूप भूतं चैतन्यं निराकारमेव वृत्तिज्ञानमेव हि साकारम् । नच निराकारमपि चैवन्यं भवतु ज्ञानस्य विषय आकाशादिवदिति वाच्यं, आकाशादेरवकाशादिमत्त्वेन साकारत्वात् । नच चैतन्यमपि गुणवत्त्वेन साकारमिति वाच्यं, निर्गुणत्वात्- ‘साक्षी चेता केवलो निर्गुण’ श्वेति हि श्रूयते । नच सुतरां ज्ञाना- विषयत्वे कथमात्मनस्सिद्धिरिति वाच्यं, स्वप्रकाशत्वेनैव तत्सिद्धेः । सर्वस्याप्यनात्मवर्गस्य सिद्धेरात्मा- धीनत्वाच । ’ तमेव भान्तमनुभाति सर्वे तस्य भासा सर्वमिदं विना’ तीतिश्रुतेः । नच वृत्तिज्ञानमेव स्वप्रकाशं परप्रकाशकं चेति वाच्यं वृत्तेर्जडत्वात्तत्प्रतिफलित चैतन्यस्य च बिम्बचैतन्यपरतन्त्रत्वात्; बिम्पप्रतिबिम्बामेदपक्षे तु वृतिज्ञानगतज्ञानांशस्य चैतन्यरूपत्वेन स्वप्रकाशत्वं तस्येष्टमेव । ननु यदि घट इति ज्ञानमपि चैतन्येन भास्यते तर्हि ज्ञानस्य ज्ञेयत्वमापतितं तच्चानिष्टमन- वस्थादिदोषादिति चेत्, मैवम् — चैतन्यावभासकवस्वन्तरानभ्युपगमेनानवस्थादोषाभावात् । चैतन्येत - रस्य सर्वस्यापि ज्ञेयत्वाभ्युपगमाच्च, घट इति वृत्तिज्ञानस्यापि वृत्त्यंशे जडत्वेन ज्ञेयत्वसद्भावाच्च । तस्मा- चैतन्यैकस्वरूपत्वादात्मा निराकार एव । एवमात्मनो निराकारत्वमसहमानो द्वैती चोदयति- नन्विति । ‘आदित्यवर्णं तमसः परस्ता ‘दिति श्रुतिः । आदित्यस्येव वर्णो यस्य तमादित्यवर्णे भारूप- स्तेजोरूपः । स्वयंज्योतिरस्वत एव भासमानः । आकारवत्त्वं तेजोमयाकार इत्यर्थः । पूर्वपक्ष परिहरति — नेति । नास्त्याकारवस्त्रमात्मन इत्यर्थः । तर्हि का गतिश्श्रुतिवाकयाना-अष्टादशोऽध्यायः । ३५५ वाक्यानाम् । द्रव्यगुणाद्याकारप्रतिषेधे आत्मनस्तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थानि ‘आदित्य- वर्ण’ मित्यादीनि वाक्यानि । ‘अरूप’ मिति च विशेषतो रूपप्रतिषेधात् अविषयत्वाच ‘न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनं, अशब्दमस्पर्श’ मित्याद्यैः । तस्मादा- त्माकारं ज्ञानमित्यनुपपन्नम् ।

4 कथं तर्ह्यात्मनो ज्ञानम् ? सर्वे हि यद्विषयं यद्ज्ञानं तत्तदाकारं भवति । निराकार- श्रात्मेत्युक्तम् । ज्ञानात्मनोश्रो भयोर्निराकारत्वे कथं तद्भावनानिष्ठा ? इति न, अत्यन्तः मत आह- तम इति । संग्रहवाक्यं विवृणोति – द्रव्येति । तमोऽन्धकारः, अज्ञानं वा । कथमिदं ज्ञायतेऽत आह-अरूपमिति । अरूपमिति विशेषतो रूपं प्रतिषिध्यात्मनस्यैव श्रुतिः कथं तेजो- रूपत्वं ब्रूयात्तस्यैव ? रूपवद्द्रव्यं हि तेज इति भावः । हेत्वन्तरमाह — अविषयत्वाच्चेति । यद्यात्मा सरूपस्स्यात्तर्हि घटादिवश्चक्षुरादेर्विषय एव स्यान्न तु तथाऽस्तीति भावः । उक्तार्थे श्रुतिं प्रमाणयति- नेति । अस्यात्मनो रूपं दृशे दृग्विषये न सन्तिष्ठति । सन्दृशे सम्यग्दर्शन विषये इति वा । रूपं सच्चिदानन्दलक्षणं स्वरूपमित्यर्थः । नतु शुक्लकृष्णादि - तस्य दृग्विषयत्वाभावायोगात् । एनमात्मानं कश्चन कोपि चक्षुषा न पश्यति नीरूपत्वादिति भावः । कश्वनेत्यनेन मनुष्याणां तददर्शनेपि देवानां तद्दर्शनं स्यादित्यपास्तम् । नचैवं रूपाभावेन चक्षुरविषयत्वेपि शब्दादिसद्भावाच्छ्रोत्रादिविषयत्वं स्यादात्मन इत्यत आह- अशब्दमिति । ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धव’ च्चेतिश्रुतेः । पूर्वपक्षमुपसंहरति- तस्मादिति । ज्ञानस्याविषयत्वान्निराकारत्वान्यात्मन इति तच्छब्दार्थः । आत्माकारं ज्ञानमित्यात्मन आकार इवाकाशे यस्य तदात्माकारं ज्ञानमित्यनुपपन्नमयुक्तमात्मन आकाराभावेन ज्ञानस्यात्माकारत्वा- सम्भवादिति भावः ।

ननु ज्ञानस्यात्माकारत्वं मास्तु किं तत इत्यत आह — कथमिति । तहीँत्यस्य ज्ञानस्यात्मा- कारत्वाभाव इत्यर्थः । आत्मनो ज्ञानं कथम् ? ननु ज्ञानस्यात्मा कारत्वाभावे आत्मज्ञानसिद्धेः कानुप- पतिरत आह— सर्वमिति । हिः प्रसिद्धौ । हि यस्मादिति वा । यद्ज्ञानं यद्विषयं तत्सर्वे तदाकारं भवतीत्यन्वयः । घटविषयज्ञानस्य घटाकारत्वं पटविषयज्ञानस्य पटाकारत्वमित्येवं सर्वे ज्ञान विषयाकारं भवतीत्यर्थः । तर्हि भवत्वेवमात्मविषयज्ञानमात्माकारमत आह—– निराकारथेति । चकारादविषयत्व- मध्यात्मन उक्तमित्यर्थः । ननु विषयस्य साकरत्वे ज्ञानस्य साकारत्वमिव विषयस्य निराकारत्वे ज्ञान- स्यापि निराकारत्वमिति कृत्वा निराकारमेव स्यादात्मज्ञानमित्यत आह - ज्ञानात्मनोरिति । यद्यात्मा निराकारः, आत्मज्ञानं च निराकारं तर्हि तद्भावना निष्ठा न सिध्येदित्यर्थः । तस्यात्मज्ञानस्य भावना पौनःपुन्येनानुसन्धानं तस्या निष्ठा समाप्तिरात्मसाक्षात्कारदा तद्भावना निष्ठा । इतिशब्दः पूर्वपक्ष- समाप्तवाची । ३५६ श्रीभगवद्गीतासु- माष्यार्कप्रकाशविलसित श्रीशाकरभाष्योपैतासु निर्मलत्वाति स्वच्छत्वातिसूक्ष्मत्वोपपत्तेरात्मनः । बुद्धेश्वात्मवन्नैर्मल्याद्युपपत्तेरात्मचैतन्याका- राभासत्वोपपत्ति:- बुद्ध्याभासं मनः, तदाभासानीन्द्रियाणि, इन्द्रियाभासश्च देहः । अतो लौकिकैर्देहमात्र एवात्मदृष्टिः क्रियते । देहचैतन्यवादिनश्च लोकायतिका :- ‘चैतन्यविशिष्टः कायः पुरुष’ इत्याहुः । तथा चान्य इन्द्रिय चैतन्यवादिनः अन्ये मनश्चैतन्यवादिनः अन्ये बुद्धिचैतन्यवादिनः । ततोऽ- 1. पूर्वपक्ष परिहरति सिद्धान्ती नेति । आत्मज्ञानस्यासिद्धिरिति न वक्तव्यमित्यर्थः । कुतो न वक्तव्यम् ? तत्राह — अत्यन्तेति । अत्यन्तनिमलोऽति स्वच्छोऽति सूक्ष्मात्मा भवति; तथा बुद्धिरप्यत्यन्त निर्मलाऽति स्वच्छा सूक्ष्मा च भवति । आत्मनश्च चैतन्यमाकारः, नतु वृत्तिज्ञानं; बुद्धि- श्वात्मचैतन्याकारेणाभासते, बुद्धधात्मनोरन्योन्यतादात्म्याभ्यासाद्बुद्धावात्मचैतन्याकाराध्यासः । तत श्वात्म चैतन्याभ्यासवशाद्बुद्धिश्चेतनेवाभाति तथा बुद्धिधर्माध्यासान्मनश्च बुद्धिवदम्भासत इति बुद्धयाभासं भवति । तन्मनोधर्माध्यासादिन्द्रियाण्यपि मनोवश्चेतनानीदाभासन्त इति मनभाभासानीन्द्रियाणि तदिन्द्रियधर्माध्यासाद्देहोऽपीन्द्रियवच्चेतन इवाभासत इतीन्द्रियाभासो देहः । अत इति । बुद्धयादिषु देहान्तेषु क्रमेण तारतम्येन चात्म चैतन्याकाराभाससत्त्वादित्यर्थः । देह एवात्मेति प्रतिपद्यन्ते लौकिकाः स्थूलोऽहमित्यादिप्रतीतेः । न केवलं लौकिकाः; किं त्वागमविदोऽपि केचिदित्याह – लोकायतिका इति । बौद्धा इत्यर्थः । के तेऽत आह- देहचैतन्यवादिन इति । यचैतन्यमात्माकार इति वेदान्तिनो ब्रुवन्ति, तचैतन्यं देहस्यैवेति देहचैतन्यवादिन एते । तदेव स्फुटयन्नाह – चैतन्येति । चैतन्य विशिष्टो देह एवात्मेत्याहुः । मृतशरीरस्य पुरुषव्यवहाराभावादुक्तं चैतन्यविशिष्ट इति लौकि- कापेक्षया। लोकायतिकानामयमेव विशेषः । केवलदेह एवात्मेति लौकिकाचैतन्यविशिष्टदेह एवात्मेति लोकायतिका इति । अन्ये पुनरिन्द्रियाण्येवात्मेत्याहुरित्याह - तथा चेति । यदि देह एवात्मा स्यात्तर्हि काणबधिरादिदेहस्यापि दर्शन श्रवणादिव्यवहारो भवेत् । तस्मान्न देह आत्मा; किं त्विन्द्रिया- ण्येवात्मेत्यमीषां भावः । अन्ये तु मन एवात्मेत्याहुरित्याह- अन्य इति । यदीन्द्रियसङ्घ एवात्मा स्यातर्हि मनस्यन्याक्रान्ते सत्यपीन्द्रियाणां दर्शनादिव्यवहारस्स्यात् । स्वप्रदशायामिन्द्रियाभावाद्रथगज- दर्शनादिव्यवहारानुपपत्तिश्चेति नेन्द्रियाण्यात्मा, किंतु मन एवात्मेत्येतेषामाशयः । अन्ये तु बुद्धिरे - वात्मेत्याहुरित्याह — अन्ये बुद्धीति । बुद्धेरेव चैतन्यमिति वदितुं शीलं येषां ते बुद्धिचैतन्यवादिनः । यदि मन एवात्मा स्यात्तर्ह्यध्यवसायदशायामपि सङ्कल्पविकल्पौ स्यातां मनोधर्मश्वासयोर्मनस एवात्मत्वाच ततोऽध्यवसायानुपपत्तिश्च । तस्मान्न मन आत्मा, किंतु बुद्धिरेवात्मा बुद्धेरेवात्मनस्सङ्कल्पविकल्प कारणं, करणं तु मनः; यथा रूपाद्युपलब्धिकारणं करणं चक्षुरादिकं तद्वदिति भावः । अन्ये त्वव्यक्तमेवात्मेति वदन्तीत्याह - ततोऽपीति । केचिदव्यत्तमात्मत्वेन प्रतिपन्ना इत्यन्यः । अविद्यावस्थमज्ञानस्वरूपं ! कारण शरीरभूतकर्याज्ञानावस्थमिति वा यदि बुद्धिरेवात्मा स्यात्तर्हि सुषुप्त्यनुभवो न स्यादात्मनों बुद्धधात्मनस्तदानीमभावादिति भावः । यद्यपि पूर्वे बुद्धेरेव दावात्म चैतन्याकाराभासत्वमुक्तं नान्यतस्य । अष्टोदशोऽध्यायः । ३५७ प्यान्तरमव्यक्तमव्याकृताख्यमविद्यावस्थमात्मत्वेन प्रतिपन्नाः केचित् । सर्वत्र हि बुद्धयादि- देहान्ते आत्मचैतन्याभासताऽऽत्मभ्रान्तिकारणमित्यतश्चात्मविषयं ज्ञानं न विधातव्यम् । किं तर्हि ? नामरूपाद्यनात्माध्यारोपणनिवृत्तिरेव कार्यानात्मचैतन्यविज्ञान कार्य अविद्याध्यारो- पितसर्वपदार्थाकारैरेव विशिष्टतया गृह्यमाणत्वादिति । अत एव हि विज्ञानवादिनो बौद्धा’ तथाप्यव्यक्तस्यैवादानात्मचे उन्याच्या साकारस्तदनन्तरं बुद्धेरिति बोध्यम् । यद्वाऽऽत्मन उपाधिरविद्यर्ति मतमाश्रित्य केचिदव्यतः मात्म चै उन्या भासा कारत्वादात्मेत्याहुरित्युक्तम् । आत्मन उपाधिर्बुद्धिरेवेति मतमाश्रित्य तु बुद्धावेवादावात्म चैतन्याकाराभास इत्युक्तमिति न विरोधः; अन्तःकरणावच्छिन्न चैतन्य- मात्मेति, अविद्यावच्छिन्नं चैतन्यमात्मेति च मतद्वयसत्त्वादिति भावः । अन्तःकरणस्यैवावस्था विशेषौ बुद्धिर्मश्चेति बोध्यम् । • ननु कस्मादेवं विविधं प्रतिपन्ना एकमेवात्मानं वादिन इत्यत आह– सर्वत्रेति । बुद्धधादि देहान्तेषु सर्वेष्वप्यनात्मसु तत्तद्वादिनां दर्शिताया आत्मभ्रान्तेः कारणमात्मचैतन्याभासतैव ।’ आभासः प्रतिफलनमध्यासो वा । बुद्धयादिषु य आत्मचैतन्याकारस्याभासः पूर्वं दर्शितस्स एव तेष्वात्मेति श्रम जनयत्यंविवेकिनामित्यर्थः । आत्म चैतन्यस्याभासो येषामस्ति, येष्वस्तीति वा आत्मचैतन्याभासास्तेषां भावस्तता | आत्मचैतन्याभास इति यावत् । ननु भवत्वेवमज्ञानामनात्मस्वात्मभ्रमः किं तत्क प्रकृतपूर्वपक्षस्येति चेत्, उच्यते - श्रमेण तत्त्वेन वा कश्चिदात्मेति पदार्थसिद्ध एवं ज्ञात इति सिद्ध- मात्मज्ञानमिति । अन्यथाऽज्ञातस्यात्मनः प्रसिद्ध्ययोगादिति । एवमात्मज्ञानस्य प्रसिद्धत्वादव न विधे- यत्वमित्याह — अत इति, विधातव्यमिति । विधातुमर्ह विधातव्यं विधिविषय इत्यर्थः । नचैवं श्रुत्या ‘आत्मावारे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति विधीयते आत्मज्ञानं क्रव्यप्रत्य- यन्तिशब्दैरिति वाच्यं विधिच्छायावचनत्वात्तेषाम् । ननु यद्येवनात्मज्ञानं न विधीयते तर्हि किं विधी यते श्रोतव्यादिवाक्यैरत आह- किं सहति ! आत्मन्यविद्यया कृतं यन्नामरूपाद्यनात्मा ध्यारोपण तन्निवृत्तिरेव कार्यो । एवकारार्थमाह - नात्मचैतन्य विज्ञानं कार्यमिति । कुलो निवृत्तिरेव कार्ये - त्यत आह- अविद्येति । अविद्यया आत्मन्यध्यारोपिता ये बुद्ध्यादिसर्वपदार्थाकारा स्तैर्विशिष्टतयैवात्म- चैतन्यस्य गृह्यमाणत्वं । दुज्ञायमानत्वात् । 7 अयं भावः - लोकायतिकादयस्सर्वेऽप्यात्म चैतन्यं देहाद्याकार विशिष्टत्वेन रूपेण प्रतिपद्यन्त इत्यस्त्येव सर्वेषामात्म चैतन्यप्रतिपत्तिः । सुतरामात्मज्ञानाभावे चैतन्यविशिष्टः काय आत्मेत्येवं वक्तु- मशक्यत्वात् । अतस्सिद्धमेवात्मज्ञानमिति नात्मज्ञान साध्यम् । इदं चामीषामात्मज्ञानं भ्रान्तिरूपमेव, न प्रमारूपं - निर्विशेषे आत्मनि सविशेष आत्मेति ज्ञानस्य भ्रमत्वात् । अयं तु भ्रमो नाशयितव्यः, मनर्थहेतुत्वादिति । निर्विशेषोऽप्यात्माऽविद्ययाऽध्यारोपितवत्तदाकार विशिष्टतयैव गृह्यतेऽतत्त्वविद्भि- रित्यत्र विज्ञानवादिबौद्धभ्रान्ति प्रमाणयति - अत एवेति । चैतन्यं केवल केवलत्वादेव नोपलभ्यते । देहेन्द्रियादयस्तु जडत्वादेव" नोपलभ्यन्ते, कि तर्हि देहेन्द्रियमनोबुद्ध व्यक्त रुपलभ्यमाने रस हैवोपलभ्यते । ३५८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु विज्ञानव्यतिरेकेण वस्त्वेव नास्तीति प्रतिपन्नाः, प्रमाणान्तरनिरपेक्षतां च स्वसंविदितत्वा- चैतन्यं नान्यथेति यस्मात्सिद्धं तस्मादेवेत्यर्थः । प्रतिपन्ना इति । सर्व ज्ञेयं ज्ञानव्याप्तिमेव गृझते, तेन ज्ञानातिरिक्तं नास्त्येव वस्तु । सम्मतं हि ज्ञानातिरिक्तं स्वमदृष्टं वस्तु नास्तीत्येवं विज्ञानवादिनो भ्रान्ति प्रतिपन्ना इत्यर्थः । ननु ज्ञानस्यापि ज्ञेयत्वाद्ज्ञातृवस्त्वन्तरमेष्टव्यमित्याशङ्कयाह — प्रमाणेति । बौद्धा ज्ञानस्य प्रमाणान्तरनिरपेक्षतां च प्रतिपन्ना इत्यन्वयः । कथं प्रतिपन्ना इत्यत्राह – स्वेति । ज्ञानस्य स्वसंविदितत्वाभ्युपगमेन स्वेनैव ज्ञायत्वाङ्गीकारेण । ज्ञानं स्वैकवेद्यमत एव स्वप्रकाश स्वतः प्रमाण चेति न प्रमाणान्तरापेक्षास्ति ज्ञानस्येत्यर्थः 1 ननु ज्ञानस्य स्वतः प्रमाणत्वादिकं वेदान्तिभिरप्यभ्युपगतम् । ’ तस्मान्न विज्ञानमृतेस्ति किंचि - त्कचित्कदाचिद्विज ! वस्तुजात’ मिति पराशरमुनिना विज्ञानातिरिक्तवस्स्वभावोऽपीष्ट इति कृत्वा किमिति विज्ञानवादिनो बौद्धा भ्रान्ता इत्युच्यत इतिचेत्, उच्यते - शृणु तद्विवेकम् । विज्ञानं नित्यमेखण्डमेकरूपं स्वप्रश्रं ब्रह्म ‘सत्यं ज्ञानमनन्त’ मिति श्रुतेः । तस्माच्च चैतन्याद्ब्रह्मणो नास्त्यन्यः पदार्थः कोऽपि ‘सर्वे खल्विदं ब्रह्मेति श्रुतेस्सर्वस्य ब्रह्मणि कल्पितत्वात्कल्पितस्य चाधिष्ठानानतिरेकादिति पराशरमतं; नात्र मते बाह्यार्थस्यापलापः, किंतु प्रतिभासमाने सत्येव बाह्यायें घटादौ विज्ञानं चैतन्यं घटाद्याकारपरिणतबुद्धिवृत्तिप्रतिफलितं सद्धटाद्याकारं ज्ञानमित्युच्यते भ्रान्त्या, नतु वस्तुत इति परा- शराद्यद्वैतिमतम् । विज्ञानवादिनां बौद्धानां तु क्षणिकमेव विज्ञानं तावद्वासनावैचित्र्याद्धटाकारमन्त- र्जायते तदेव बहिर्विषयवदवभासते नतु कोपि बाह्याथस्ति स्वप्रवज्जा गरेऽपीति मतम् । ननु कथमिदं बौद्धमतमवद्यमिति चेत्, उयच्ते - क्षणिकस्य विज्ञानस्य स्वसंवेद्यत्वानुपपत्तिः । उत्पत्तेः पूर्वक्षणे नाशादुत्तरक्षणे च ज्ञानं नास्ति, मध्यक्षण एव वर्तत इति हि क्षणिकं विज्ञानमित्युच्यते । तौ च ज्ञानस्योत्पत्तिनाशौ किं ज्ञानेन वेद्येते उत न ? आद्ये व्याघतः, स्वो त्पत्तिनाशयोस्वग्राह्यत्वा- योगात् । नहि तत्काले स्वमस्ति । नान्त्य:- भवेद्ययोस्तयोरसाक्षिकत्वेनाभ्युपगमायोगात् । नच ज्ञानान्तरेण वेद्यत इति वाच्यं खवेद्यत्वापायात् । ज्ञानान्तरस्यापि क्षणिकत्वेन प्रकृतिज्ञानोदयनाशदर्शना- सम्भवाच । तस्माद्यदि ज्ञानं क्षणिकमेवेत्यभिनिवेशस्तन्यावभास्यमेव । नचाद्वैतमतेऽपि कथं नित्यत्वं ज्ञानस्य ? घटज्ञानं मम नष्टं पटज्ञानं जातमिति व्यवहारसत्त्वादिति वाच्यं घटादि विषयनाशादिप्रयु- क्तत्व । तद्व्यवहारस्य । एकस्मिन्नेवाखण्डे ज्ञाने एकस्मिन्क्षणे घटो विषयो भवति, क्षणान्तरे तु पट इति कृत्वा यदा घटो विषयस्तदा घटज्ञानं जातमिति च व्यवहार इति भावः । & यद्वा वृत्तेः क्षणिकत्वादुवृत्तिज्ञानस्य क्षणिकत्वव्यवहारः, वृतिप्रति फलित चैतन्यस्यैव वृत्ति- ज्ञानत्वात् । सा च वृत्तिस्साक्षिभास्यैवेति वृत्तिज्ञानमपि साक्षिभास्यमेवेति न स्वसंवेद्यं विज्ञानं त्वद्वै- त्यभिमतं साक्षिभूतं चैतन्यमेवेति तस्य नित्यत्वमनन्यावभास्यत्वं च युक्तमेव । घटं विना उदाकार- परिणामाभावाद्बुद्धेर्वासनायाम्यायोगाद्वाद्यार्थापलापोऽप्ययुक्त इत्यवधं बौद्धमतम् । मष्टादशोऽध्यायः । ३५९ भ्युपगमेन । तस्मादविद्याध्यारोपणनिराकरणमात्र ब्रह्मणि कर्तव्यं, नतु ब्रह्मविज्ञाने यल:– अत्यन्तप्रसिद्धत्वात् । अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धी नामत्यन्तप्रसिद्धं सुविज्ञेय- मासन्नतरमात्मभूतमप्यप्रसिद्धं दुर्विज्ञेयमतिदूरमन्यदिव च प्रतिभात्यविवेकिनाम् । बाह्या- कारनिवृत्तबुद्धीनां तु लब्धगुर्वात्मप्रसादानां नातः परं सुखं सुप्रसिद्ध सुविज्ञेयं स्वासन्नतर- मस्ति । तथा चोक्तम् — ‘प्रत्यक्षावगमं धर्म्य’ मित्यादि । 1

  • अवि- तस्मादिति । आत्मज्ञानस्य सिद्धत्वेना विधेयत्वादित्यर्थः । मात्रशब्दार्थमाह - नत्विति, यत्न इति । कर्तव्य इति शेषः । कस्मादात्मज्ञाने यत्नो न कर्तव्यो आह - अत्यन्त प्रसिद्धत्वा- दिति । ब्रह्मण इति शेषः । आत्मत्वादिति भावः । नहि देहातिरिक्तकर्तृभोक्त्रात्मवाद्यात्मज्ञाने यतते, नापि देहात्मवाद्यात्मानं ज्ञातुं यतते, तथा ब्रह्मात्मवाद्यपीति बोध्यम् । ननु यद्यत्यन्तं प्रसिद्ध ब्रह्म तर्हि सर्वैः कुतो न ज्ञायते ? किमर्थं च महतो वेदान्तशास्त्रस्याध्ययनादिकम् ? अन आह- द्येति । अत्यन्तप्रसिद्धं सुविज्ञेयमासन्नतरमात्मभूतमपि ब्रह्म, अविद्याकल्पितनामरूपविशेषापहृतबुद्धीना- मप्रसिद्ध दुर्विज्ञेयमतिदूरस्थमन्यदिव च प्रतिभातीत्यन्वयः । अविद्यया ब्रह्मणि कल्पिता ये नामरूप- विशेषाकारास्तैरपहृतबुद्धयः, अविद्यावन्तो मूढा अनात्मनो बुद्ध्यादीनात्मत्वेन प्रतिपन्नास्सन्तस्स्थूलोऽहं मनुष्योऽहं काणोऽहं सुख्यहं दुःख्यहमज्ञोऽहमित्येवं मन्यमानास्त्रात्मभूतमपि सच्चिदानन्दं ब्रह्म न विदुः । अत एवाविदुषां तेषां प्रसिद्धमपि ब्रह्मा प्रसिद्धमिव भाति; सुविज्ञेयमपि दुर्विज्ञेयमित्र भाति; आसन्नतरमपि दूरस्थमिव भाति; आत्मभूतमप्यनात्मभूतमन्यदिव भातीत्यर्थः । तर्हि केषां पुनरिदं ब्रह्म सुप्रसिद्धमत आह – बाह्येति । लब्धा गुर्वात्मप्रसादादयो यैस्तेषां लब्धगुर्वात्मप्रसादादीनां गुरुप्रसादः तत्त्वमस्यादिमहावाक्योपदेशादिरूपः, आत्मप्रसाद ईश्वरानुग्रह- श्चित्तपरिशुद्धिर्वा । आदिपदाद्विवेकादिग्रहणमत एव बाह्याकारनिवृत्तबुद्धीनां बाह्याकारेभ्य आत्मनि कल्पितेभ्यो बुद्ध्याद्याकारेभ्यो निवृत्ता बुद्धिर्येषां तेषां विदुषां तु । अतोऽस्माद्ब्रह्मणः परमन्यत्सुख- मानन्दरूपं सुप्रसिद्ध सुविज्ञेयं स्वासन्नतरं च वस्तु नास्ति । तेषां सच्चिदानन्दं ब्रवाहमस्मी ते ज्ञान- सत्त्वादिति भावः । अयमेवार्थो भगवताऽप्युक्त इत्याह - तथा चेति । तस्मात्स्वस्यैवात्मत्वादात्मन एव ब्रह्मत्वात्तस्य च स्वप्रकाशत्वात्प्रमाणान्तरानपेक्षत्वाच्च कथमात्मनो ज्ञानमिति न चोदनीयम् । कुतो न चोदनीयमिति चेदुच्यते-न वयमारमा ज्ञातव्य इति ब्रूमः, येन तथा चोद्येन; कुतो न ब्रूथेतिचे- येनात्मा ज्ञातव्यस्तस्यैव ज्ञातुरात्मत्वात् । तर्हि किं ब्रूथेतिचेद्देहादिष्वनात्मस्वात्मत्वेन परिगृहीतेष्वात्म- बुद्धिनिवृत्तिः कार्येति ब्रूमः । केन कार्येतिचेद्येनानात्मान आत्मत्वेन परिगृहीतास्तेन । केन परि- गृहीता इतिचेदविदुषा । कोऽयमविद्वानिति चेद्यस्या विद्यास्ति सः । कस्याविद्यास्तीति चेद्यो ऽना- त्मानमात्मेति प्रतिपद्यते तस्य । क एवं प्रतिपद्यत इति चेदुक्तमेवाविद्यावानिति । नन्वविद्यावतोऽनात्मन्यात्मबुद्धिरनात्मन्यात्मबुद्धिवतोऽविद्यावत्त्वमित्यन्योन्याश्रयः प्राप्त इति चेन्न प्राप्तः- अविद्याकार्यत्वादनात्मन्यात्मबुद्धेः । अनात्मन्यात्मबुद्धिरूपेग कार्यलिङ्गेना विद्यावत्स्वरूप कारणस्य ३६० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु गम्यमानत्वात् । ननु योऽनात्मानमात्मानं प्रतिपद्यते सोऽवद्यावानित्यहं जानाम्येव । परं त्वेवं प्रति- पद्यमानोऽविद्यावान्स क इति पृच्छामीति चेकिं तव तत्प्रश्नेन ? नच तद्ज्ञानमेव फलमिति वाच्यं, प्रश्नात्प्रागेव त्वया तस्य ज्ञातत्वात् । यदि त्वं तथा प्रतिपद्यमानमविद्यावन्तं न जानासि तर्हि कथं मां पृच्छसि स क इति । तस्मादहमज्ञोऽहं मनुष्योऽहं संसारीति व्यवहारबलादविद्यावान् पुरुषस्सिद्ध:, तेनात्मन्यनात्माध्यारोपणनिवृत्तिः कार्या । न चासङ्गस्य पुरुषस्य कथमविद्यासङ्ग इति वाच्यं, नाति- शङ्कनीयत्वादविद्यावैचित्र्य विषये । असङ्गमपि द्यविद्या ससङ्ग करोति पुरुषं यथा रज्जुमपि सर्प गयन- मपि नीलमिति । तस्माद्ज्ञानस्वरूप ज्ञानाविषयश्वात्मेति स्थितम् । नच ज्ञानस्य साकारत्वात्कथं ज्ञानस्वरूपत्वं निराकारस्यात्मन इति वाच्यं, विज्ञानवादि बौद्धाभिमतक्षणिक विज्ञानस्यैव वृत्तिज्ञानरूपस्य साकारत्वं, नतु चैतन्यस्येति । ननु यदुक्तमविषयत्वमात्मनः पूर्वपक्षिणा सिद्धान्तिना चाभ्युपेतं तदयुक्तं बुद्धिविषयत्वादात्मनः ‘दृश्यते स्वग्र्यया बुद्धयेति श्रुतेश्च । तस्मादात्मनो ज्ञानं सम्भवत्येवेति कोऽयं विपरीतो भाष्यपथ इति चेन्मैवम् —‘यवदद्रेश्यममा, यतो वाचो निवर्तन्ते अप्राप्य मनसा स’हेत्यादिश्रुतिभिरविषयत्व- स्यैवात्मन उक्तत्वात् । बुद्धिविषयत्वकथनं तु बुद्धावेकाप्रतया स्थितायामात्मवत्त्वं स्वयमेव स्फुरतीति हेतोरुक्तम् । कथमन्यथा ज्ञातुरात्मनो ज्ञेयत्वं स्यात् ? ‘यन्मनसा न मनुते येनाहुर्मनो मतं, विज्ञा- तारमरे ! केन विजानीयादिति श्रुतेश्व । ‘यदोपरामो मनसो नामरूपरूपस्य दृष्टस्मृतसम्प्रमोषात्, य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिषद्मने नम’ इति भागवताच्च । तस्मान्निर्विशेषस्व प्रकाश- चिन्मात्रस्यात्मनोऽविषयत्वं युक्तमेव । नन्वविषये प्रमाणान्तरानपेक्षे ब्रह्मणि कथं शास्त्रं प्रमाणम् ? व्यासेनैवोक्तं हि - शास्त्रयोनित्वं ब्रह्मणः । एवं शास्त्रप्रमाणत्वाच्छास्त्रविषयस्य ब्रह्मणो विषयत्वकथनमयुक्तमेवेतिचेन्मैवम् - शास्त्रमपि न ब्रह्मदतया बोधयितुं शक्नोत्यविषयत्वात्किं तर्थविद्याध्यारोपणनिरासमात्रमेव करोतीति तावतैव शास्त्रप्रमाणत्वोके - ब्रह्मण इति । अत एवोक्तं श्रुतिगीतासु- ‘श्रुतयस्त्वयि हि फलंत्यतन्निरसनेन भवन्निधना’ इति । ननु वेदान्तानां ब्रह्मणि द्विधा प्रवृत्तिस्साक्षाद्विधिमुखेन निषेधमुखेन चेति । तत्र सच्चिदा नन्दादीनां विधिमुखेन, अस्थूलमित्यादीनां निषेधमुखेनेति सम्प्रदायात्सच्चिदानन्दादिवाक्यानां कथं ब्रह्म- व्यप्रवृत्तिर्येनाविषयत्वं स्याद्ब्रह्मण इतिचेन्मैवम् । सच्चिदानन्दादिवाक्यानामपि लक्षणयैव ब्रह्मणि प्रवृत्ति- र्नाभिघयेति सिद्धान्तात् । ये त्वभिधयैव ब्रह्मणि स्थूलत्वादिनिषेषं कृतवन्तस्तेषां निषेधमुखेन प्रवृत्तिः, येतु लक्षणया असत्त्व जडत्वदुःखादिनिषेधं कृतवन्तस्तेषां विधिमुखेन प्रवृतिरित्यभ्युपगमात् । अत एव तात्पर्यवृत्त्या ब्रह्मणि पर्यवसानं श्रुतीनामित्युक्तं श्रुतिगीतासु । एवं शब्दगोचरत्वादिविशेषाभावादेव निर्विशेषं ब्रह्मेत्युक्तम् । अन्यथा हि सविशेषमेव स्यात् । ४६ अष्टादशोऽध्यायः । ३६१ केचित्तु पण्डितंमन्याः ‘निराकारत्वादात्मवस्तु नोपैति बुद्धि; अतो दुस्साध्या सम्य- ननु निर्विशेषं (निराकारं ) ज्ञानं कापि नास्ति ज्ञानमात्रस्य सविशेषत्वादितिचेन्मैवम् - निर्विकल्पज्ञानस्य तार्किकादिभिरप्यभ्युपगतत्वात् । तस्मान्निर्विशेषमेव चैतन्यरूपं ज्ञानं, यत्पुनर्विषयाकारं ज्ञानं तद्वृत्तिंज्ञानमेव । वस्तुतस्तु विषयाकारपरिणता बुद्धिवृतिर्ने ज्ञानं, किंतु तत्प्रतिफलितं चैतन्य- मेव । वृत्तेर्ज्ञानत्वं तु चैतन्याभासप्रयुक्त मौपचारिकमेव बुद्ध्यादीनां चेतनत्ववत् । तस्माद्ज्ञानमात्र निराकारमेव यचैतन्यमात्मेत्युच्यते । बुद्धिवृत्तिरेव विषयाकारा । इयमेव क्षणिक विज्ञानमिति बौद्ध- र्ज्ञानमिति तार्किकादिभिश्योच्यते । एवं चोपासकस्याहं ब्रह्मास्मीति यदावर्त्यमानं ज्ञानं तदपि बुद्धि- वृत्तिरेवेति बोध्यम् । ननु घटाकारा वृतिरिव ब्रह्माकारा वृत्तिः कथं जायेत ? नीरूपत्वाद्ब्रह्मणो ब्रह्माकार परिणामा- सम्भवाद्बुद्धेरिति चेत्, मैवम् — नीरूपस्य गगनस्य सुखस्य च बुद्धिवृत्तिविषयत्वदर्शनात् । तस्मा- गगनाद्याकारेव ब्रह्माकारापि बुद्धिवृत्तिस्सम्भवत्येव ।

ननु तर्हि बुद्धिवृत्तिविषयत्वमात्मनस्सम्पन्नमेवेति कथम विषयत्वमितिचेत्, उच्यते — भयं घट इदं गगनमितिवदिदं ब्रह्मेति ज्ञातुमशक्यत्वा बुद्धिवृत्त्यविषयमेव ब्रह्म, अहं ब्रह्मास्मीत्युपासकस्य बुद्धिवृत्तिस्तु ब्रह्माकारपरिणामं विनापि भवत्येव - शब्दाकारपरिणाम | देवेष्टसिद्धेः राममन्त्राकारपरिणत - बुद्धिवृत्तिवत् । यथा राममन्त्रमुच्चारयत्यसकृत्तथैव ह्ययमहं ब्रह्मास्मीत्युच्चारयत्यसकृदुपासकः । ननूपा सकस्याहं ब्रह्मास्मीति वृत्तिर्भवतु शब्दमयी यद्वा मनोमयी, समाहितस्य ज्ञानिनः कथमहं ब्रह्मास्मीति ब्रह्मसाक्षात्कारः ‘ब्रह्म।कारवृत्त्यभावे ? इति चेत्, उच्यते - स्वात्मनि वृत्त्ययोगात् । आत्मसाक्षात्कारे वृत्त्यनपेक्षणात् । नहि देवदत्तो घटमिवात्मानं बुद्धिवृत्त्या जानाति, किंतु स्वत एव । एवं च समाधौ बुद्धेर्ब्रह्मा कारवृत्तिर्नाम निर्विकल्पतयैकाग्रत्वेन बुद्धेरवस्थानमेव तथासत्यात्मसाक्षात्कारसम्भवात् । नचैवं सुषुप्तावप्यात्मसाक्षात्कारप्रसङ्ग इति वाच्यं तदानीं बुद्धेरेवा सत्त्वात् । जाग्रत्स्वप्रयोस्तु बुद्धेर्विक्षिप्ता - नैकाप्रतयावस्थानम् । एवं बुद्धधैका यस्यात्मसाक्षात्कारोपयोगित्वादेव दृश्यते त्वयया बुद्ध्येत्युक्तं, नतु बुद्धिवेद्यत्वादिति । अत एवं स्वसंवेद्योयमात्मा । नहि बुद्धिवेद्यत्वे सति स्वसंवेद्यत्वं सिध्यति – बुद्धेरन्यत्वात् । नच स्वसंवेद्यत्वमपि कथं वेदितरीति वाच्यं, अनन्यवेद्यत्वे स्वसंवेद्यत्वस्य तात्पर्यात् । नचानुभवरूपस्यात्मनः कथं वेदितृत्वमिति वाच्यं, सर्वप्रकाशकत्वस्यैव वेदितृत्वात् । अनुभवरूपेण मना सर्व प्रकाश्यते- ‘तस्य भासा सर्वमिदं विभा’ तीति श्रुतेः । तस्य भासेति राहोश्शिर इतिव- द्वेदेन निर्देशः । आत्मचैतन्येनेत्यर्थः । तस्माद्ज्ञानस्वरूप एवात्मा ज्ञानाविषयश्च । आत्मत्वादेव स्वप्रकाशश्चेति नात्मा ज्ञातव्यः केनचित्प्रमाणेन सर्वप्रमाणानां तेनैव ज्ञायमानत्वादिति संचेपः । ज्ञानात्मनोरुभयोश्च निराकारत्वे कथं तद्भावनानिष्ठे ते यदुक्तं पूर्वपक्षिणा तन्निराकृतमपि स्थूणानिखननन्यायेन तन्निराकरणं पुनस्स्थापयितुं भङ्गयन्तरेण दमेव पूर्वपक्षं पुनरुत्थापयति केचि त्त्विति । सगुणब्रह्मोपासनतत्परा इह केचिच्छब्देनोच्यन्ते । पण्डितवालानं मन्यन् इति पण्डित- ३६२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु ज्ञाननिष्ठेत्याहुः । सत्यं, एवं गुरुसम्प्रदाय रहितानामश्रुत वेदान्तानामत्यन्तबहिर्विषयासक्त- बुद्धीनां सम्यक्प्रमाणेष्वकृतश्रमाणाम्। तद्विपरीतानां तु लौकिकग्राह्यग्राहकद्वैत वस्तुनि सद्बुद्धिर्नितरां दुस्सम्पाद्यात्मचैतन्यव्यतिरेकेण वस्त्वन्तरस्यानुपलब्धेः । यथा च ‘एतदेव - मन्याः, नतु वस्तुतः पण्डिता इत्यर्थः । निराकारत्वादिति । आत्मन इति शेषः । आत्मवस्तुन- स्सकाशाद्बुद्धिरपैति - अपगच्छति; नात्मनि निष्ठां लभत इत्यर्थः । अत इति । एवं बुद्धेरात्मन- स्सकाशादपगमाद्धेतोरित्यर्थः । सम्यग्ज्ञाननिष्ठा केवलात्मज्ञाननिष्ठा दुस्साध्या दुस्सम्पाद्येति केचि - दाहुरित्यन्वयः । ● 1 अयममीषामाशयः - यद्यप्यनात्माकारनिवृत्त्याऽऽत्मज्ञानं सुलभं तथाप्यात्मज्ञान निष्ठा दुस्साध्या । कुतः ? ज्ञाननिष्ठा नाम ज्ञाने नितरां स्थितिः, सा च बुद्धेरेव धर्मः । ज्ञेये आत्मन्येव बुद्धेरवस्थान चिरकालमिति यत्सैवात्मज्ञाननिष्ठेत्युच्यते । यथा विष्णुध्याननिष्ठा ध्येये शङ्खचक्रगदाघरे विष्णौ चिरकालं बुद्धेरव स्थिति र्विष्णुध्याननिष्ठेत्युच्यते तद्वत् । तथासति बुद्धेस्साकारमेव वस्तु चिरकाल- मवलम्बनं भवितुमर्हति नतु निराकारं वस्तु । निराकारे आत्मवस्तुनि क्षणकालमेव बुद्धयवस्थापनस्य दुष्करत्वेन किंपुनर्बहुकालमिति दुस्साध्यैवात्मज्ञाननिष्ठेति । " एवमात्मनो निराकारत्वादेव तद्ज्ञाननिष्ठाया दुर्लभत्वे किंपुनर्ज्ञानस्यापि निराकारत्वे तस्या दुर्लभत्वं वक्तव्यमिति कैमुत्त्यन्यायोऽनेन द्योत्यते । शङ्खचक्रगदाधरोऽयं विष्णुरिति साकारज्ञानव- निराकारज्ञानस्य चिरमवस्थातुमयोगात् । वस्तुतो निराकारज्ञानस्यैवाप्रत्यक्षत्वेनाप्रमाणत्वात् । न चाय- मात्मेति निराकारं ज्ञानमस्तीति वाच्यं तस्यापि साकारत्वात् । विषयवत्त्वं हि ज्ञानस्य साकारत्वम् । तस्मान्निराकारस्य ज्ञानस्यैवासिद्धेः कथं पुनस्तन्निष्ठा सिद्धि: ? किं चायं घट इतिवदयमात्मेति ज्ञानं भवितुमेव नार्हति घटवदप्रत्यक्षत्वादात्मनः । न ह्यप्रत्यक्षं देशान्तरस्थं वस्तु रजतादिकमिदं रज मिति ग्रहीतुं शक्यते । तस्मादात्मज्ञाननिष्ठा दुस्साध्येति सिद्धान्ती ‘किं विदुषामात्मज्ञाननिष्ठा दुस्साध्येति ब्रूषे, उताविदुषामिति विकल्प्य द्वितीयमङ्गीकरोति - सत्यमिति । सम्यवप्रमाणेषु वेदान्तशास्त्रादि- ष्वित्यर्थः । आद्यं दूषयति - तद्विपरीतानामिति । तेभ्यः पूर्वोक्तेभ्यो विपरीता स्तद्विपरीताः, गुरु- सम्प्रदायवतां श्रुतवेदान्तानां बहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु कृतश्रमाणां चेत्यर्थः । लौकिकानि प्राद्यग्राहकरूपाणि द्वैतवस्तूनि घटपटादीनि चक्षुरादीनि च तेषु बुद्धिर्नितरां दुस्सम्पाद्या, न त्वद्वैते आत्मनीति भावः । तत्र हेतुमाह - आत्मेति । विदुषां विज्ञानव्यतिरेकेण वस्त्वन्तरस्यानुपलब्धेः । ‘ऐतदात्म्यमिदं सर्वे, सर्वमात्मैवाभूद्विजानतः, वासुदेवस्सर्वमिति, मत्तः परतरं नान्यत्किञ्चिदस्तीति यत्र सर्वमात्मैवाभूतल केन कं पश्ये’ दित्यादिश्रुतिस्मृतिभ्यो विदुषां ब्रह्मव्यतिरेकेण किञ्चिदपि द्वैतं न भातीति द्वैतनिष्ठैव विदुषां दुम्सम्पाद्या- अनुपलभ्यमानत्वाद्वैतस्य । नानुपलब्धे वन्यापुत्रादौ कस्यापि बुद्धिस्स्यात् । अद्वैते आसनि तु बुद्धिनिष्ठा सुरुमैव- नित्यापरोक्षत्वादात्मनः । आत्मा हि स्वयं, न हि स्वस्य स्वयं कदाचिद्दव्यप्रत्यक्षो भवेत् । → अष्टादशोऽध्यायः । ३६३ मेव, नान्य’ थेत्यवोचाम । उक्तं च भगवता ‘यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने’ रिति । तस्माद्वाह्याकार भेदबुद्धिनिवृत्तिरेवात्मस्वरूपालम्बने कारणम् । न ह्यात्मा नाम ननु यच्चक्षुरादिप्रमाणैरुपलभ्यते तदिदं द्वैतं नास्त्यनुपलब्धेरिति, यत्पुनरिन्द्रियाद्यविषयं तदात्मवस्त्वस्त्युप- लब्धेरिति च विरुद्धमिदमुभयमिति चेद्विरुद्धमेवाज्ञानां, नं तु विदुषाम् । गगनं नीलमिति मन्य- मानानां बालानां नीरूपं गगनमिति वचो विरुद्धमेव नतु गगनतत्त्वविदां तद्वत् । ननु ‘नाभाव उपलब्धेरिति सूत्रकारेणैव द्वैताभाववादो निरस्त इति कथं विदुषां न विरुद्धं तब वचनमिति चेत्, मैवम् — अविद्यादशायां द्वैताभावस्य सूत्रकारेण निन्दितत्वात् । नहि श्रुति- विरुद्धमर्थे सूत्रकारो ब्रूयात् । ‘नेह नानास्ति किञ्चन यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, यत्र तु सर्वमात्मैवात्र केन कं पश्येत् मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यतीत्यादिना विद्यादशायां सर्वद्वैताभावस्य, अविद्यादशायां द्वैतसत्त्वस्य, अद्वितीयात्मनि द्वैतज्ञाननिन्दायाश्च श्रुतिभि रुक्तत्वात् । ‘एकमेवाद्वितीयं ब्रह्मेत्यद्वैतत्वमंत एव हि ब्रह्मणस्सिद्धयेत्कथमन्यथा विद्यादशायामपि द्वैतसत्त्वे ब्रह्माद्वितीयं स्यात् ? तस्मादविद्यायामन्तरावर्तमानैबौद्धैरुक्तस्य द्वैताभावस्याविद्याविषयत्वेन तदानीं तदभावप्रतिपादन- मयुक्तमिति निन्दितं तन्मतं सूत्रकारेणेति कृत्वा विद्वद्दृष्ट्या द्वैताभावसिद्ध एव अनुपलब्धेद्वैतस्य विद्यादशायाम् । नहि सुषुप्तिमृत्तिमूर्छासु द्वैतोपलम्भो येन विद्यादशायां द्वैतोपलम्भस्स्याद्विदुषाम् । तस्मा- दविद्यादशायां द्वैतस्योपलब्धेर्हेतोरभावो न युक्तः ; विद्यायामनुपलब्धेर्हेतोरभावो युक्त एव । ततश्च विद्यावतामात्मज्ञाननिष्ठा, अविद्यावतां द्वैतज्ञाननिष्ठेव सुलभैव । यथा चैतदेवमेव भवति, अन्यथा न भवति तथा पूर्वमेवावोचाम । नन्विदं तव कपोलकल्पितमेवेत्यत आह- उक्तं भगवतेति । यस्या- मविद्यादशा भूतानि नाप्रति व्यवहरन्ति सा पश्यतो सुनेर्विदुषो निशा निशेवाप्रकाशा । द्वैतानुप- लब्धेर्विदुष इति भाव: । तस्मादिति । विदुषां ज्ञाननिष्ठायास्सुलभत्वादित्यर्थः । बुद्धेरात्मस्वरूपाव- लम्बनं प्रति बाह्याकार भेदज्ञाननिवृत्तिरेव कारणं, न त्वात्मनस्साकारत्वमित्यर्थः । अयं भाव :- निराकारत्वादात्मन्यालम्बने बुद्धिर्न चिरं तिष्ठतीति यदुक्तं तदयुक्तम् । साकारेऽपि विष्णुमूर्त्यालम्बने विषयलम्पटानां बुद्धिनिष्ठाऽदर्शनात् । तस्मादालम्बनविशेषे बुद्धिनिष्ठांप्र- त्यालम्बन गतसाकारत्वं न प्रयोजकं किं तु तदालम्बनातिरिक्त विषयानवगाहित्वमेव बुद्धेः । तथा चानात्माकारानवगाहित्वे सति बुद्धेरात्मस्वरूपावलम्बने निष्ठा सम्भवत्येव । यथा सगुणोपासकस्य शब्दादि विषयानवगाहित्वे सति बुद्धेर्विष्णुमूर्त्यालम्बने निष्ठा सम्भवति तद्वत् । ततश्चात्मज्ञाननिष्ठा- कामेन पुरुषेण विदुषा बाह्याकार भेदबुद्धि निवृत्तिरेव कार्या । तस्यां च कृतायां स्वत एव बुद्धिरात्मनि निष्ठिता भवति । सगुणोपासकस्य तु शब्दादिबाह्यविषय बुद्धिनिवृत्तिमात्रेण न विष्णुस्वरूपज्ञाननिष्ठा सम्भवति; किं तु शब्दादिभ्यो बुद्धि प्रत्यावर्त्य मनसि विष्णुमूर्त्याकारं कल्पयित्वा तत्र बुद्धिर्बला - ३६४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु कस्यचित्कदाचिदप्रसिद्धः प्राप्यो हेय उपादेयो वा अप्रसिद्धे हि तस्मिन्नात्मनि स्वार्थाः प्रवेशनीयेति श्लोकोऽधिकवर एव । तस्य च कल्पिताकारस्य चिरमवस्थापनमपि क्लेशावहमेव । तस्मात्साकारविष्ण्वादिमूर्तिध्याननिष्ठा पेक्षयाऽऽत्मज्ञाननिष्ठैव सुलभा । बालाकारमेदज्ञानं त्यक्त्वा । तूष्णीमवस्थितायां सत्यां बुद्धावात्मस्वरूपस्फुरणात् । न चैवं सकृत्स्फुरितेऽप्यात्मनि बुद्धिश्चिरं न तिष्ठति गुणाभावादिति वाच्यं परमानन्दरूपत्वादात्मन:- ‘सच्चिदानन्दं ब्रह्मेति श्रुतेः, ‘आनन्दो ब्रह्मेति व्यजाना’ दिति श्रुतेश्च सुषुप्तौ सर्वप्राणिनामात्मानन्दानुभवाच्च, अभीष्टविषयसिद्धिवशादन्तर्मुख- मनोवृत्तौ प्रतिफलितस्यात्मानन्दस्यैव विषयानन्दत्वाच्च । यदि बुद्धिस्सकृदात्मानन्दमनुभवेतर्हि तं न परित्यजेदेव । किं निद्रासुखमनुभवन्तः पुरुषा निद्रां स्वेच्छया परित्यजन्तो दृश्यन्ते ! अत एव - ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्ये न विद्यत’ इत्युक्तम् । तस्मादकृतबुद्धेरेवात्मस्वरूपावलम्बनं दुर्लभं क्लेशावहं च, नतु कृतबुद्धेः । नन्वविषयो ह्यात्मा कथं बुद्धेर्विषयस्स्यादिति चेत्, मैवम् - असंस्कृतबुद्धेरेवाविषय इत्युक्त- ‘त्वात् । संस्कृतबुद्धिरपि नात्मानं विषयीकरोति बुद्धेरेवात्मना गृझमाणत्वारिंक त काम्रा सत्यात्मानन्दं स्वप्रतिफलितमनुभवतीत्येतावतैव बुद्धिविषय आत्मेत्युच्यते । नव कथं बुद्धेर्जडाया आनन्दानुभवितृत्व- मिति वाच्यं, आत्मचैतन्यप्रतिफलनेन चेतनत्वाद्बुद्धेः । एतेनात्मनः स्वानन्दानुभवे किं बुद्धयैकाग्र्ये- णेति शङ्कापि परास्ता । प्रमातुस्स्वस्वरूपानन्दानुभवप्रति बुद्धयैकाग्र्यस्य साघनत्वमिति । मोक्षे तु स्वरूपचैतन्येनैवात्मन आनन्दानुभव:, सुषुप्तौ त्वंविद्यावृत्तिभिरिति विवेकः । नन्वप्रसिद्धमिदं ब्रह्म कथं विदुषाप्युपलभ्येत ? येन तस्यात्मज्ञाननिष्ठा स्यादत आह- न हीति । कस्यचिदपि कदाचिदण्यात्मा नाप्रसिद्धः । आत्मत्वादेवेति भावः । अत एव प्राप्यो वा न भवति नित्याप्तत्वादात्मन इति भावः । अत एव हेयो न भवति । हातुं त्यक्तुं शक्यो हेयः । हातुरेवात्मत्वादिति भावः । उपादेयोऽपि न भवति उपादातुरेवात्मत्वादिति भावः । न चैवं प्रसिद्ध- मात्मानं कथं सर्वे सच्चिदानन्दं न विदुरिति वाच्यं सर्वेषां सच्चिदानन्दरूपत्वेन न प्रसिद्धः; किं त्वात्म- त्वेन रूपेणैव । योऽयमात्मत्वेन प्रतिपद्यते तस्य स प्रसिद्धः । यथा देवदत्तो मनुष्यमात्मत्वेन प्रति- पद्यत इति मनुष्यदेहरूप आत्मा देवदत्तस्य प्रसिद्धः । विष्णुमित्रों मन आत्मत्वेन प्रतिपद्यत इति तस्य मन आत्मा प्रसिद्ध:- सुख्यहं दुःख्यहमिति । विदुषां तु क्षेत्रज्ञ एवात्मत्वेन प्रसिद्ध इति ते सच्चिदानन्दं ब्रह्मैवात्मानं विदुः । अत एवाविद्वद्धिरात्मत्वेन गृहीतानामनात्मनामन्यत्वेन गृहीतस्य च ब्रह्मणो यथावद्ग्रहणार्थं वेदान्तशास्त्रं प्रवर्तितं कृपालुना भगवता न त्वप्रसिद्धमात्मानं बोधयितुम् । येनात्मा बोदूधुमिष्टस्तस्यैवात्मत्वात् । " ननु मामहं न जानामीत्यनुभवादप्रसिद्ध एवात्मेत्यत आह- अप्रसिद्धे हीति । तस्मिन्नात्म- न्यप्रसिद्धे सति हि स्वार्थास्सर्वाः प्रवृत्तयो व्यर्थाः प्रसज्येरन् । यद्यप्रसिद्धस्यादालाई लौकिकै-मष्टादशोऽध्यायः I ३६५ सर्वाः प्रवृत्तयो व्यर्था: प्रसज्येरन् । नच देहाद्यचेतनार्थत्वं शक्यं कल्पयितुम् नच सुखार्थ सुखं, दुःखार्थ वा दुःखमात्मावगत्यवसानार्थत्वाच्च सर्वव्यवहारस्य । तस्माद्यथा स्वदेहस्य वैदिकैश्वात्मार्थं क्रियमाणास्सर्वे व्यवहारा लुप्येरन्नेव । ममेदं सुखमिष्टं स्यान्ममेदमनिष्टं दुःखं माभूत्, अनेन भोजनेन मैथुनेन च मम सन्तोषस्स्यात्, अनेन यज्ञेन मन स्वर्गस्स्यादित्येवमभिसन्धाय हि पुरुषस्तेषु तेषु कर्मसु प्रवर्तते । स्वस्यैवाप्रसिद्धत्वे कथं तत्प्रवृत्ति: : ननु देहाद्यय भोजनादिप्रवृत्तयो भोजने ते देहादेर्वृद्धिस्तस्मिन्नकृते नाशथ भवतीति । अत आह—न चेति । प्रवृतीनां देहा- द्यचेतनार्थत्वं कल्पयितुं न शक्यं - देहादीनामचेतनत्वादनेन भोजनेन मम वृद्धिस्स्यादिति न देहादीनां ज्ञानसम्भव:- अचेतनत्वात् । एवं ज्ञानाभावादेव देहादीनां भोजना देषु न प्रवृत्तिः । नच मम देहाभि- वृद्धिस्स्यादिति भोजने प्रवर्तते देहीति देहार्थमेव प्रवृत्तिरिति वाच्यं किं देहादन्यस्यात्मनो देहाभि वृद्धया ? तस्माद्देह।भिवृद्धिरध्यात्म सुखायैवाकांक्षितेत्यात्मार्थमेव देहाभिवृद्धिकरभोजनादौ प्रवृत्तिरपि, तु देहार्थम् । । ननु प्रवृत्तयो नात्मार्थाः, नापि देहाद्यर्थाः, किंतु सुखार्था एवेत्यत आह-नच सुखार्थ- मिति । प्रवृत्तयस्सुखार्था भवन्तुनाम, तच्च सुखं किमर्थमाकांक्ष्यते पुरुषेण ? किमात्मार्थ ? यद्वा सुखार्थम् ? आद्ये- सुखस्यात्मर्थत्वात्सुख हेतु प्रवृत्तयोऽप्यात्मार्था एवेति सिद्धमात्मार्थत्वमात्मसुखार्थत्वा - स्प्रवृत्तीनाम् । द्वितीये सुखार्थ सुखं पुरुषेणाकांक्ष्यत इत्यनुपपन्न व्याघातात्; सुखस्याचेतनत्वात् । फलभूतस्य साधनभूतस्य च सुखस्यैकत्वे आत्माश्रयात् भिन्नत्वे ऽनवस्थानात् । तस्मान्न सुखार्थे सुख- मिष्यते। एवं दुःखार्थे च दुःखं नेष्यत इति दुःखहेतुप्रवृत्तयोपि न दुःखार्थाः, किंतु शत्रुशरीराद्यवच्छिन्ना- स्मार्था एव । तत्र हेतुमाह — आत्मेति । सर्वव्यवहारस्यात्मावगत्यवसानार्थत्वात् । आत्मावगतिरे- वावसानार्थश्वरमार्थः पर्यवसानमिति यावत् । यस्य तत्त्वादात्मावगतिपर्यवसायित्वादित्यर्थः । आत्मावगति - श्वसानं यस्य स आत्मावगत्यवसानः, अर्थः प्रयोजनं यस्य तत्त्वादिति वा । सर्वव्यवहारार्थयात्म- प्राप्तिपर्यवसायित्वादित्यर्थः । सर्वस्यापि व्यवहारस्य यो योऽर्थः सुखदुःखसुकृतदुष्कृतादिः स सर्वोs- प्यात्मानमेवासाद्य नश्यति, नत्वन्यत्र गच्छतीत्यर्थः । तस्मादात्मन्यप्रसिद्धे सति कर्तुर्भोवतुश्चाभावा- व्यर्था एव स्युस्सर्वाः प्रवृत्तयो लुप्ताश्च । यो हि क्रियासु प्रवर्तते, यश्व क्रियाफलमनुभवति तस्यैवात्र- सिद्धत्वे कथं क्रियाणां सिद्धि: ? क्रिया हि कर्तृपरतन्त्रा, न स्वतस्सिद्धयेत् । तस्माद्यः कर्म चिकीर्षति यश्व तत्फलमनुबुभूषति स आत्मा सुप्रसिद्ध एव । तस्मादिति । प्रसिद्धत्वा देवात्मन इत्यर्थः । परि- च्छेदनाय ज्ञानायेति यावत् । प्रमाणेन चक्षुरादिना प्रमेयं घटादिकं परिच्छिद्यमानं दृश्यते लोके । एवं स्वदेहस्य केनापि प्रमाणेन परिच्छेदो न दृष्टः- प्रमाणव्यवहारात्प्रागेव सर्वस्य रव देहज्ञानसम्भवात् । नहि मनुष्य हृषा मनुष्यमात्मानं जानाति तथासति तमसि चक्षुर्व्यापाराभावान्मनुष्योऽहमिति ज्ञाना- सम्भवप्रसङ्गात् । न च देहस्य स्थौल्य कार्यादिपरिच्छेदनाय चक्षुरादिकमावश्यकमिति । सहि न देह- ३६६ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपैतासु परिच्छेदनाय न प्रमाणान्तरापेक्षा; ततोऽप्यात्मनोऽन्तरतमत्वादवगतिं प्रति न प्रमाणान्त- रापेक्षेत्यात्मज्ञाननिष्ठा विवेकिनां सुप्रसिद्धेति सिद्धम् । येषामपि निराकारं ज्ञानमप्रत्यक्षं तेषामपि ज्ञानवशेनैव ज्ञेयाऽवगतिरिति ज्ञानमत्यन्तं परिच्छेदः, किंतु गुणपरिच्छेद एवेति । एवं देहपरिच्छेदस्य प्रमाणान्तरानपेक्षत्वं प्रति हेतुरन्तर- तमत्वमेव । अन्तरतमत्वं च नित्यसन्निहितत्वम् । नासन्निहित इवामलके करतलामलकेपि प्रमाणा- पेक्षास्ति पुरुषस्य । तदेव करतलामलकं यदि क्वचित्क्षिप्तं स्यातर्हि तत्परिच्छेदनं पुनरावश्यकमेव । एवं च सति सन्निहितत्वा सन्निहितत्व एव वस्तुनः परिच्छेदने प्रमाणापेक्षत्वतदपेक्षत्वयोः प्रयोजक इति सिद्धम् । ततोपीति । देहादपीत्यर्थः । तदवगतिमात्मज्ञानं प्रति प्रमाणान्तरापेक्षा नास्ति । प्रमाण- व्यापारात्प्रागेवात्मज्ञानसम्भवाद्यः प्रमाणव्यापारेणात्मानं बोधुमिच्छति तस्यैवात्मत्वात् । प्रमातर्यपि प्रमाणव्यापार इत्यस्य विरुद्धत्वाच्चेति हेतोः विवेकिनामात्मज्ञाननिष्ठा सुप्रसिद्धा । न चात्मज्ञानसम्भवेपि तन्निष्ठा न सम्भवतीति वाच्यं, स्वस्मिन्कदाचिदपि संशयविपर्ययज्ञानानामसम्भवेन निष्ठाया अपि सुलभत्वात् । नद्यज्ञोपि मनुष्यत्वेनाभिमतमात्मानं कदाचित्किमहं मनुष्य उत पशुरिति, पशुरेवाहमिति, नाहं मनुष्य इति च प्रत्येत्येन संशयादिभिरहं मनुष्य इत्यात्मज्ञानस्य निष्ठा दुर्लभा स्यात् । तथा प्राज्ञोपि सच्चिदानन्दब्रह्मत्वेनाभिमतमात्मानं कदाचिदपि किमहं ब्रह्म, उत संसारीति, संसार्येवाहमिति, नाहं ब्रह्मेति च प्रत्येत्येन संशयादिभिरहं ब्रह्मेत्यात्मज्ञाननिष्ठा दुर्लभा स्यात् । नहि यथावदुज्ञाते घटे वस्तुनि संशयाद्युपपत्तिर्येन घटोऽयमिति ज्ञानं निष्ठितं न भवेत् । नहि कोपि यथावद्ज्ञातं घटं पुनर्विस्मर- त्येन तदविस्मरणाय घटो घट इत्येवं ज्ञानमभ्यस्येत । तस्मादात्मज्ञानं तन्निष्ठा च सुलभैव । येतु पुन- रात्मानं ब्रह्मेत्यविदित्वा अन्नादिष्विवात्मनि ब्रह्मबुद्धिमध्यस्याहं ब्रह्मेत्युपासते तेषां भवत्वात्मध्याननिष्ठा दुर्लभा । बुद्धेरेवंविषघ्याने चिरावस्थापनस्य दुश्शकत्वात् । चञ्चलं हि मनः कृष्ण !’ इत्युक्तं प्रागे- वार्जुनेन । तस्माद्विवेकिनां लब्धगुर्वादिप्रसादानामात्म ज्ञाननिष्ठा सुलभैवेति सिद्धम् ।

ननु निराकारोऽप्यात्मा भवतु प्रसिद्धः, नित्यापरोक्षत्वान्निराकारं ज्ञानं त्वप्रसिद्धमेवाप्रत्यक्षत्वा- दत माह — येषामिति । येषां वादिनां निराकारं ज्ञानमप्रत्यक्षमित्यभिमतं तेषामपि ज्ञानमत्यन्त- प्रसिद्ध मेवेत्यभ्युपगन्तव्यम् । कुतः ? ज्ञानवशेनैव ज्ञेयावगतिरितिहेतोः । घटादयो हि ज्ञेयाज्ञानवशेनै- बावगम्यन्ते ज्ञात्रा । नहि घटमानयेति पित्राऽऽदिष्टः पुत्रोऽयं घट इति ज्ञानाभावे घटमानयेत् । नचार्य घट इति ज्ञानस्य साकारत्वात्प्रसिद्धत्वमिति वाच्यं तत्रापि विषयांशी घट एव साकारः, नतु विषय्यशो ज्ञानमिति । तथा हि- अयं घट इति ज्ञानस्य साकारत्वं किं त्वं घटशब्दवस्वादूषे उत घटवत्कम्बुग्रीवाद्याकारवत्त्वात् ? नाद्यः- अर्थ घट इति वाक्य एव शब्दोऽस्ति नतु तद्ज्ञान इति । अन्यथा मयं रामशब्द इति ज्ञानेऽपि रामशब्दस्यात् । नचेष्टापतिः- रामशब्दे रामशब्द इति 碗 मष्टादशोऽध्यायः । ३६७ व्याघातात् । शब्दवतो वाक्यत्वेन ज्ञानस्यापि वाक्यत्वप्रसङ्गात् । ज्ञाने वर्तमानस्य शब्दस्य ग्रहणाय ज्ञानान्तर।पेक्षायामनवस्थाप्रसङ्गात् । स्वेनैव स्वधर्मभूतशब्दग्रहणस्यासम्भवात् । यद्ययं घट इति ज्ञाने घटशब्दस्स्यातहींद ज्ञानं घटशब्दयुक्तमिति ज्ञानं स्यात्, तच न दृश्यतेऽनुभवविरोधात् । नहि कोs- पीदं ज्ञानं घटशब्दवदिति प्रत्येति । तस्मान्न ज्ञाने घटशब्दोऽस्ति, नापि कम्बुग्रीवाद्याकारोऽस्ति ज्ञाने तददर्शनात् । यद्यस्ति तद्ग्रहणार्थे ज्ञानान्तरापेक्षायामनवस्थाप्रसङ्गात् स्वेनैव स्वाकारग्रह गायोगादिदं कम्बुग्रीवाद्याकारवद्ज्ञानमिति प्रतीत्यभावादिति । नव सविषयत्वादयं घट इति ज्ञानं साकारमिति वाच्य, किं सविषये ज्ञाने घटो विषयः, उत निर्विषये ? आद्ये घटस्य ज्ञानविषयत्वापत्तेः प्राक्कथं ज्ञानस्य सविषयत्वम् ? द्वितीये सिद्धमेव निराकारं ज्ञानम् । नचोत्पन्ने ज्ञाने घटो न विषयो भवति, किंतुत्पद्यमानमेव ज्ञानं सविषयमुत्पद्यत इति वाच्यं ज्ञानस्य जन्मनाशयोरम’वात् । भावे वा तद्द्मह णार्थे ज्ञानान्तरापेक्षायां तस्यापि ज्ञानान्तरस्य जन्मनाशवत्त्वेन तद्ग्रहणार्थ ज्ञानान्तरापेक्षायाम नवस्था- प्रसङ्गात्, स्वेनैव स्वनाशोदयग्रहणासम्भवाच्च । नच ज्ञात्रा ज्ञानस्य जन्मनाशौ गृझेन इति वाच्यं, ज्ञानस्यैव ज्ञातृत्वात् । नच ज्ञानं न ज्ञाता, किंतु ज्ञानाश्रयो ज्ञातेति वाच्यं, ज्ञानोदयात्प्राग्ज्ञान- नाशानन्तरं च तस्य ज्ञातृत्वासिद्धेः । नचेष्टापतिः- त्वत्समीहितज्ञानोदयतन्त्राशयोरेवासिद्धेः । कथम् ? असाक्षिकयोर्ज्ञानप्रागभावप्रध्वंसाभावयोरनभ्युपगन्तव्यत्वात् । नचात्मसाक्षि कावेवेति वाच्यं ज्ञानपा- गभाववत्यात्मनि ज्ञानसत्त्वायोगात्, तत्सत्त्वे वा ज्ञानप्रागभावायोगात् । एवं ज्ञानप्रध्वसानन्तरं ज्ञान- सत्त्वयोगात्, तत्सत्त्वे ज्ञानप्रध्वंस योगाच्च । तस्माद्ज्ञानप्रागभाववतो ज्ञानप्रध्वंसाभाववतश्चात्मनो ज्ञतृत्वमसम्भव्येव ।

ननु सविषयाण्युत्पद्यमानानि ज्ञानान्यनन्तानि तत्प्रागभावाश्वानन्वास्तत्प्रध्वंसाभावाश्चानेक इतिवे- न्मैवम् - युगपदनन्तज्ञानसत्त्वे प्रमाणाभावात् । अयं घट इति ज्ञानसत्त्वे अयं पट इति ज्ञानान्तरा- नुदयात् । क्षणभेदाद्ज्ञान मेदाभ्युपगमे तु पूर्वोक्तदोषप्रसक्तिः । पटज्ञाननाशानन्तरं घटज्ञानोदयात्प्राक्च ज्ञानाभावादात्मनः पटज्ञाननाशो घटज्ञानोदयश्वासाक्षिकत्वान्नैव सिध्यत इति । नचायं घटपागभाव इति, अयं घटप्रध्वंसाभाव इति च ज्ञानमस्ति तदाप्यात्मन इति वाच्यं तथाऽनुभवाभावात् । नच घटो नास्ती- त्यनुभवोऽस्तीति वाच्यं तद्ज्ञानेन घटज्ञानोदयतन्नाशयोर्ग्रहणायोगात् । घटाभाव एव हि तेन गृझते, अयं घटप्रागभाव इत्यनुभवसत्त्वेपि न तेन घटज्ञानोदयो गृह्यते । नाप्ययं घटपध्वंसाभाव इति ज्ञानेन घटज्ञाननाशः, किंतु घटाभाव एव गृह्यते । तस्मादयं घटज्ञानोदयः, अयं घटज्ञाननाश इति ज्ञानाभावा- दसाक्षिकावेव घटज्ञानस्यापि जन्मनाशौ । यदि घटज्ञानोदय इति ज्ञानमस्तीत्याग्रहस्तहिं तस्यापि घट- ज्ञानोदयज्ञानस्य सादित्वेन घटज्ञानोदयज्ञानोदयार्थमन्यस्यापि ज्ञानस्याभ्युपगन् व्यत्वादनवस्था दोषप्रसक्तिः । नन्वनुमानाद्धटज्ञानस्य जन्मनाशौ सिद्ध्यतः अस्मिन्क्षणे घटज्ञानसत्त्वात् ; क्षणान्तरे तदभावा- चेति चेत्, मैवम् - क्षणान्तरे घटज्ञानाभाव रूपहेतोरेवासाक्षिकत्वेनानुमानानवतारात् । तस्मान्नोदेति ૨૬૮ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतालु प्रसिद्ध सुखादिवदेवेत्यभ्युपगन्तव्यं जिहासानुपपत्तेश्च । अप्रसिद्धं चेद्ज्ञानं ज्ञेयवज्जिज्ञा- नास्तमेत्येषा संविदेका स्वयंप्रभा । न चैवं सदापि घटज्ञानमेव भवेदिति वाच्यं, ज्ञाने सदापि घटस्य विषयत्वाभावात् । तदभावे को हेतुरिति चेदुच्यते न हि केवले आत्मस्वरूपभूते ज्ञाने घटादयोः विषया भवितुमर्हन्ति सुषुप्त्यादावपि तत्प्रसङ्गात् । किं तर्हि, बुद्धिवृत्त्यभिव्यक्ते चैतन्य एव । सा च बुद्धिवृत्तिः क्षणिकेति न घटज्ञानस्य सदा सत्त्वप्रसङ्गः । न चैवं विषयाकारपरिणामरूपाया बुद्धिवृते- स्साकारत्वात्तदभिव्यक्त चैतन्यमपि साकारमेवेति सिद्धं ज्ञानस्य साकारत्वमिति वाच्यं, दर्पणाभिव्यक्त- मुखस्य दर्पणाकारेण साकारत्वादर्शनात् । अन्यथाऽन्तःकरणप्रतिफलित आत्माऽप्यन्तः करणा कारण साकारस्स्यात् । जले प्रतिफलितं गगनमपि जलाकारेण साकारं स्यात् । तस्मात्प्रतिबिम्बस्य बिम्बा- कारत्वमेव, नोपाध्याकारत्वमिति न बुद्धिवृत्त्यभिव्यक्त चैतन्यस्य बुद्धिवृत्याकारत्वं किं तु बिम्बभूतचैत- न्याकारत्वमेव । तच्च चैन्यं निराकारमिति प्रतिबिम्बचैतन्यमपि निराकारमेव । बिम्बप्रतिबिम्बयो- रोपाधिक एव भेदो न तात्त्विक इति न चैतन्यद्वित्वप्रसङ्गः । ननु यदा बुद्धिवृत्तिरस्ति तदा तत्प्रतिफलि चैतन्यमस्ति यदा बुद्धिवृत्तिर्नास्ति तदा प्रतिबिम्ब- चैतन्यमपि नास्तीति वृत्तिप्रति फलित चैतन्यं न नित्यमिति चेत्, मैत्रम् - यदि वृत्तिप्रतिफलि । चैतन्य बिम्बचैतन्यादतिरिक्तं स्यातहिं भवेदेवानित्यं नतु तथातिरिक्तम् । किंतु तदनतिरिकमेवेति नित्यमेव– प्रतिफलनांशस्यानित्यत्वेऽपि चैतन्यांशस्य नित्यत्वात् । तस्मान्निराकारमेकं स्वप्रभं नित्यं च ज्ञानमिति स्थितम् । तदेवात्मस्वरूपमिति च । नच न ज्ञानामात्मेति वाच्यं, आत्मनो ज्ञानादन्यत्वे घटादिव- द्वास्यत्वप्रसङ्गात् । घटादयो हि ज्ञानेन भास्यन्ते । नच सूर्यस्थानीय आत्मा, प्रकाशस्थानीय ज्ञान - मिति वाच्यं, प्रकाश. तिरिक्त सूर्य पदार्थाभावात् । नच प्रकाशश्चूर्णस्थानीयः, पिण्डस्थानीयस्तु सूर्व इति वाच्यं, चूर्णस्यैव पिण्डीभूतत्वेन चूर्णात्मकत्वात्पिण्डस्य । नच घनीभूततेजः परमाणुपुञ्जस्सूर्य:, विरली - भूतास्तु तेजः परमाणवः प्रकाश इति वाच्यं, सूर्यस्य सावयवत्वेनैतत्कल्पनाया उपपतावपि निरवयवस्य नात्मन एतत्कल्पनोपपद्यते । घनीभूतज्ञानावयवपुञ्ज आत्मेति विरलीभूतज्ञानावयवा ज्ञानमिति च वक्तु- मशक्यत्वात् । तस्माद्ज्ञानमेवात्मा । 1 ननु यदि ज्ञानमेवात्मा तर्द्धात्मनस्सुप्रसिद्धत्ववचनेनैव ज्ञानस्यापि सुप्रसिद्धत्वं सिद्धमिति कुतः पुनर्वचनं ज्ञानमत्यन्तप्रसिद्धमिति चेदुच्यते - ब्रह्मग आत्मत्वेन रूपेग सुप्रसिद्धिः पूर्वमुक्ता ज्ञानत्वेन रूपेणाधुनेति । तस्माद्ज्ञानस्याप्रसिद्धत्वे ज्ञानवशेन ज्ञेयावगतिर्नैव स्यादिति सर्वव्यवहारलोपप्रसङ्गः- ज्ञानपूर्वकत्वात्सर्वव्यवहारस्य । तस्माद्ज्ञानमत्यन्तप्रसिद्धं किमिवेत्यत आह-सुखादिवदिति । नहि स्वानुभवसिद्धं सुखं केनापि प्रमाणान्तरेण बोधुमिच्छति पुरुषः । एवं प्रसिद्धत्वादेव सुखादिव ज्ञान- स्यापि जिज्ञासानुपपत्तिरित्याह - जिज्ञासानुपपत्तेश्चेति । तदेव विवृणोति - अप्रसिद्धमिति । जिज्ञास्येत ज्ञातुमिष्येत । यथा ज्ञेयं घटादिविषयं ज्ञातुमिच्छति पुरुषः, तथा ज्ञानं ज्ञातुं नेच्छति । ४७ अष्टादशोऽध्यायः । ३६९ स्येत । यथा ज्ञेयं घटादिलक्षणं ज्ञानेन ज्ञाता व्याप्तुमिच्छति, तथा ज्ञानमपि ज्ञानान्तरेण ज्ञाता व्याप्तुमिच्छेत् । न चैतदस्ति । अतोऽत्यन्तप्रसिद्ध ज्ञानं ज्ञाताप्यत एव प्रसिद्ध इति । तस्मादात्मज्ञाने यत्नो न कर्तव्यः किं त्वनात्मन्यात्मबुद्धिनिवृत्तावेव । तस्माद्ज्ञाननिष्ठा सुसम्पाद्या ॥५०॥ कुतः ? प्रसिद्धत्वादेव । अप्रसिद्धं हि जिज्ञासाविषयम् । ज्ञेयवदित्येतद्विवृणोति - यथेति । ज्ञेय - मित्यस्यैवार्थो ज्ञातव्यमिति । घटादिलक्षणं वस्तु यथा ज्ञानेनानुमिच्छति ज्ञातुमिच्छतीत्यर्थः । तथा ज्ञातव्यं ज्ञानमपि ज्ञानान्तरेणाप्तुमिच्छेत्- ज्ञातव्यत्वाविशेषाद्ज्ञ नघटयोः । ननु ज्ञानमपि ज्ञेयमिव ज्ञातुमिच्छेत्को दोषस्तत्राह — नचैतदस्तीति । एतद्ज्ञानस्य जिज्ञास्यमानत्वं नैवास्ति ज्ञानेन घटमिव ज्ञानमप्याप्तुमिच्छतियदि तर्हि करणभूतं तद्ज्ञानं कर्मभूता- ज्ञानात्किं भिन्नमुताभिन्नम् ? आधे तदपि करणभूतं ज्ञानमाप्तुं ज्ञानान्तरं करणं स्यादित्येवमनवस्था । द्वितीये - स्वस्यैव करणत्वं कर्मत्वं चेति विरुद्धं, तस्मान्न ज्ञानस्य जिज्ञास्यमानत्वमस्ति । अत इति । ज्ञानस्य जिज्ञास्यत्वाभावादित्यर्थः । ज्ञानमत्यन्तप्रसिद्धं स्वप्रकाशत्वादिति भावः । अत एवेति । ज्ञानस्यातिप्रसिद्धत्वादेव ज्ञाता आत्मापि प्रसिद्धः- ज्ञानस्यैवात्मत्वादिति भावः । तस्मादिति । एव- मतिप्रसिद्धत्वाद्ज्ञानस्वरूपस्यात्मन इत्यर्थः । "

नन्वात्मज्ञाने यदि प्रयत्नो न कर्तयस्तर्हि वेदान्तशास्त्र वृथा आत्मज्ञानार्थत्वात्तस्येत्यत आह- किं त्विति । अनात्मन्यव्यक्तादिदेहान्तेष्वित्यर्थः । या आत्मबुद्धिरात्मेति भ्रम अविदुषामिति भावः । तन्निवृत्तावेव यत्नः कर्तव्यो मुमुक्षुणेति शेषः । तस्मादिति । अनात्मन्यात्मबुद्धिनिवृत्तौ सत्यां स्वत एवात्मस्वरूपस्य स्फुरणसम्भवादित्यर्थः । ज्ञाननिष्ठेत्यात्मज्ञाननिष्ठेत्यर्थः ।

ननु आत्मज्ञाननिष्ठायास्सुसम्पाद्यत्वेऽपि न तया किमपि फलं, किंतु ब्रह्मज्ञाननिष्ठैव सम्पाद- नीया; मोक्षहेतुत्वात्सा च न सम्भवति निराकारत्वाद्ब्रह्मणोऽपसिद्धत्वाच्चेतिचेन्, मैवम् — ब्रह्म- व्यत्यन्ताप्रसिद्धे सति तद्ज्ञाननिष्ठाया एवानाकांक्ष्यत्वात् । ननु नात्यन्वमप्रसिद्ध ब्रह्म, किंत्वनुमाना- दिना किञ्चित्प्रसिद्धमेव, तत एव तज्जिज्ञासोपपतिरितिचेतर्हि शास्त्रेण तदेव ब्रह्म आत्मेति विदित्वा सुप्रसिद्धे ब्रह्मणि निष्ठां लभस्व । नच शास्त्रेण ब्रह्मात्माभेदे प्रोक्तेप्यनुभवविरोधात्कथं सोऽर्थोवसीयते ? सुखदुःखजन्ममरणादिलक्षणसंसारवानहं क ? सच्चिदानन्द ब्रह्माभेदो मम क ? इति वाच्यं कथं ज्ञायते संसार्यात्मेति । नच मयैवानुभूयते मम संसार इति वाच्यं यस्त्वयाऽनुभूयते संसारस्स नानुभवितु- स्तव धर्मः, किंतु मन आद्यनात्मधर्म एव स्वधर्मस्य स्वप्राह्यत्वासम्भवात् ; जन्ममरणयोर्देहधर्मश्वस्य सुखदुःखयोर्मनोधर्मत्वस्य च दर्शनात् । नच सुरुयहं दुःख्ग्रहमित्यादिप्रतीतेः का गतिरिति वाच्यं, अज्ञानकृताध्यास एवं गतिरिति । यथा नास्तिको ऽनात्मदेहधर्मानात्मन्यध्यरून जातो मृजस्थूलो मनुष्यः काणोऽहमिति मन्यते तथा आस्तिकधानात्ममन आदिवनात्मन्यध्यस्य कर्ताऽहं भोक्ताऽहं सुख्य, S ३७० श्रीभगवद्गीतासु- भाष्याकेंप्रकाशविलसित श्रीशाङ्करभाष्योपतासु सेयं ज्ञानस्य परा निष्ठोच्यते, कथं कार्येति- बुद्धया विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च । शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ ५१ ॥ बुद्धयेति । बुद्धयाऽध्यवसायलक्षणया विशुद्धया मायारहितया युक्तस्सम्पन्नः, धृत्या धैर्येणात्मानं कार्यकरणसङ्घातं नियम्य च नियमनं कृत्वा वशीकृत्य शब्दादीन् शब्द आदि- दुःख्यहमिति मन्यते । तस्मादविवेककृत एवायं व्यवहारः । यद्यात्मधर्म संसारस्स्याचर्हि सुषुप्तिमृति- मूर्छास्वपि स दृश्येत । नचानुभूयमानस्य ज्वरादितापस्य कथमपलाप इति वाच्यं किं ज्वरादितापो देहादेरुतात्मनः ? आद्ये- सिद्धमसंसारित्वमात्मनः । द्वितीये- कथं सुषुप्तौ ज्वरादितापादर्शनम् ? कथं वा अनात्म चिकित्सया देहादितापनिवृत्ति: : यद्ययमात्मतापस्तर्द्धात्मैव चिकित्सितव्यः, नतु देहादि:- रोग- भेषजयोर्वैयधिकरण्यायोगात् । अन्यथा पितरि रुग्णे सति पुत्रो भेषजं सेवेत । तस्मादात्मनानुभूयमान- त्वादेव ज्वरतापादयो नात्मधर्माः, किश्वनात्मधर्मा एवेत्यनुभवरूपोऽयमात्मा असंसार्येव सच्चिदानन्दं ब्रह्म । एवं ब्रह्मण आत्मत्वादेव ब्रह्मज्ञाननिष्ठा विदुषां सुसम्पाद्या । ये त्वविद्वांसः पण्डितंमन्याश्च नाहं ब्रह्मति मन्यन्ते तेषां ब्रह्मज्ञाननिष्ठा दुस्सम्पाद्यैवेति सगुणब्रह्मोपासने, यद्वा कर्मयोगे ते यावज्जीवं प्रवर्तन्ताम् । ‘अनेकजन्मसंसिद्धस्ततो याति परां गति’ मिति गीतावचनादनेकजन्मभिस्ते ज्ञाननिष्ठा- योग्यतालक्षणां संसिद्धि प्राप्य सन्न्यस्य ज्ञाननिष्ठां सम्पाद्य सच्चिदानन्दं ब्रह्माहमिति सम्यग्ज्ञाना- न्सुच्यन्ते । येषां पुनर्जन्मान्तरानुष्ठितसुकृतप्रयुक्तेश्वरानुग्रहादद्वैत सिद्धिस्त इहैव जन्मनि मुच्यन्ते, अय- मेव द्वैतिनामद्वैतिनां च विशेषो यत्परम्परया द्वैतिनां मुक्तिस्साक्षात्पुनर द्वैतिनामिति ॥५०॥

1 बुद्धयेति । श्लोकमवतारयति — सेयमिति । सेयं ज्ञानस्य परा निष्ठा कथं कर्मेत्यत्रेदमुच्यत इत्यन्वयः । कथं कार्येति । केनोपायेन सम्पाद्येत्यर्थः । मुमुक्षुभिरिति शेषः । विशुद्धया बुद्धया युक्तस्सन् धृत्या आत्मानं नियम्य च शब्दादीन्विषयान्त्यवत्वा रागद्वेषौ चोदस्य, विविक्तसेवी लघ्वासी यतवाक्कायमासनसः नित्यं ध्यानयोगपरश्च भूत्वा नित्यं वैराग्यं समुपाश्रितस्तन्, अहङ्कारं बलं दर्प कामं क्रोध परिग्रहं च विमुच्य निर्ममश्शान्तश्च सन् ब्रह्मभूयाय कल्पत इति श्लोकत्रयान्वयः । विशुद्धया निष्कपटया बुद्ध्या सात्त्वित्वया प्रवृत्तिं च निवृत्तिं चेति श्लोकोक्तलक्षणया निश्चयात्मिकया युक्तस्सन् धृत्या सात्त्विक्या पूर्वोक्तलक्षणयाऽऽत्मानमात्मत्वेनाभिमतं कार्यकरणसङ्घातं देहेन्द्रियसङ्घातं नियम्योत्पथा- निवर्त्य मनः प्राणेन्द्रियक्रियाणामुच्छास्त्रमार्ग विषयान्निवर्तनस्य सात्त्विकधृति कार्यत्वादिति भावः । यद्वा नियम्य स्वाधीनीकृत्य यथा स्वयमिन्द्रियादिपरतन्त्रो न स्यात्तथा कृत्वेत्यर्थः । अत एव शब्दस्पर्शादीन् विषयान् त्यक्त्वा, नहि चपलेन्द्रियस्य चपलचित्तस्य च विषयत्यागस्सम्भवति । तस्मान्मनइन्द्रियनिग्रह- पूर्वकं शब्दादिविषयत्यागः कर्तव्य इति भावः । ननु यदि सर्वात्मना विषयत्यागस्तर्हि शरीरमेव पतेदनपानाद्यभावात् ततश्च ज्ञानोदयो न 2. अष्टादशोऽध्यायः । ३७१ येषां तान् विषयान् त्यक्त्वा सामर्थ्याच्छरीरस्थितिमात्र हेतुभूतान् केवलान् मुक्त्वा ततोs - धिकान् सुखार्थान् त्यक्त्वेत्यर्थः । शरीरस्थित्यर्थत्वेन प्राप्तेषु रागद्वेषौ व्युदस्य च परित्यज्य च ॥५१॥ तत:- विविक्तसेवी लघाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ ५२ ॥ विविक्तेति । विविक्तसेव्यरण्यनदीपुलि नगिरिगुहादीन् विविक्तान् देशान् सेवितुं शीलमस्येति विविक्तसेवी, लघुाशी लघुनशील:- विविक्त सेवालघुनयो र्निद्रादिदोषनिवर्तकत्वेन चित्तप्रसादहेतुत्वाद्ग्रहणं; यतवाक्कायमानस:- वाक्च कायश्च मानसं च यतानि संयतानि यस्य ज्ञाननिष्ठस्य स ज्ञाननिष्ठो यतिर्यतवाक्कायमानसस्स्यात् । एवमुपरतसर्वकरणस्सन् ध्यानयोगपरः- ध्यानमात्मस्वरूपचिन्तनं योग आत्मविषये एकाग्रीकरणं तौ परत्वेन कर्तव्यौ यस्य स ध्यानयोगपरः, नित्यं नित्यग्रहणं मन्त्रजपाद्यन्य कर्तव्याभावप्रदर्शनार्थ, वैराग्यं विरागस्य भावो वैराग्यं दृष्टादृष्टेषु विषयेषु वैतृष्ण्यं समुपाश्रितः सम्यगुपाश्रितो नित्यमे - वेत्यर्थः ॥५२॥ स्यादारम्भदशायामेव मरणादत आह- सामर्थ्यादिति । ज्ञाननिष्ठा विधानसामर्थ्यादित्यर्थः । शरीर- स्थितिमात्त्रानिति । तन्मात्रफलका नित्यर्थः । केवलानिति । न कामक्रोधादिहेतु नित्यर्थः । शरीर- स्थितिमात्रफलक विषयातिरिक्तशब्दा दिविषयांस्त्यवत्वेत्यर्थः । ननु यदि शरीरस्थित्यर्थं विषयसेवा स्था- तर्हि - भन्नपानादिविषयेषु रागः, अन्यत्र द्वेषश्च स्यादत आह—- रागद्वेषौ व्युदस्य चेति । मनु- प्राप्तेष्विति विषयेष्विति च शेषः ॥५१॥ विविक्तेति । विविक्ता विजनाः पूताश्च । लघुाशी स्वल्पाहार इत्येतत् । ननु किमर्थं विविक्त- सेवालघूशनयोर्ग्रहणमत आह- निद्रादीति । पत्तनादिजनसहित देशसेवया प्राम्यकथाप्रसङ्गस्यात् ; सुरूप सुगन्ध्यादिद्रव्यदर्शना चित्तेन्द्रियविक्षेपश्च स्यात् । बह्वशनास्तु निद्रामदादयस्युरिति भावः । यतेति । वानियमः कायनियमो मानसनियमश्चेति नियमत्रयमस्यावश्यकं वाचिककायिकमानसिक व्यापार- निवृत्त्यर्थम् । ततश्च मौनी जितवासनो जितमानसश्च भूत्वेति सिद्धम् । अत एवाह - एवमुपरत सर्व- करणसन्निति । उपरतानि निर्व्यापाराणि सर्वाण्यन्तर्बहिस्स्थानि करणानि मनइन्द्रियाणि यस्य स तथोक्तः । ध्यानयोगी परौ यस्य स ध्यानयोगपरः । परशब्दश्चात्र लक्षणया कर्तव्यपर इत्याह- परत्वेनेति । उत्कृष्टं हि कर्तव्यमिति मन्यते लोकः । योगशब्दार्थमाह – आत्मेति । आत्मनि विषये चित्तस्य यदेकाग्रीकरणं तद्योग इत्युच्यते । नित्यं सदापि ध्यानयोगपरः । सर्वदापि ध्यान- योगावेवास्य कर्तव्यौ, नतु मन्त्रजपादिकमिति भावः । तदेवाह – नित्यग्रहणमिति । नित्यमिति पदं काकाक्षिन्यायेन वैराग्येऽप्यन्वे तीत्याह - नित्यमेवेति । नतु कदाचिद दृष्टेष्वदृष्टेषु चेष्टेषु विषयेषु रागः कर्तव्य इत्यर्थः ॥ ५२॥ इं७२ किंच— श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतासु अहङ्कारं बलं दर्प कामं क्रोध परिग्रहम् । विमुच्य निर्मम शान्तो ब्रह्मभूयाय कल्पते ॥ ५३ ॥ अहङ्कारमिति । अहङ्कारमहङ्करणमहङ्ककारो देहेन्द्रियादिषु तं बलं सामर्थ्य काम- रागादियुक्तं नेतरच्छरीरादिसामर्थ्यं स्वाभाविकत्वेन तत्त्यागस्याशक्यत्वात्, दर्प दर्पो नाम हर्षानन्तरभावी धर्मातिक्रमहेतु :- ‘हृष्टो दृप्यति दृप्तो धर्ममतिक्राम’ तीति स्मरणात् ; तंच, काममिच्छां, क्रोध द्वेषं परिग्रहमिन्द्रियमनोगतदोषपरित्यागेऽपि शरीरधारणप्रसङ्गेन धर्मानु- ष्ठाननिमित्तेन वा बाह्यः परिग्रहः प्राप्तस्तं च विमुच्य परित्यज्य परमहंसपरिव्राजको भूत्वा देहजीवनमालेऽपि निर्गतममभावः, निर्ममः, अत एव शान्त उपरतो यस्संहृतहर्षायासो यति- ज्ञाननिष्ठः, ब्रह्मभूयाय ब्रह्मभवनाय, कल्पते समर्थो भवति ॥५३॥ 1 अहङ्कारमिति । अहङ्करणमिति । अहमिदं करोमीत्यादिरूपम् । दर्पो गर्वः । इच्छामिष्ट- विषयेष्विति भावः । द्वेषपनिष्टविषयेष्विति भावः । यद्यपि रागद्वेषावुदस्य चेत्यनेन कामं को विसु- च्येति सिद्धम् । तथापि शरीरस्थितिहेतुभूतविषयगत रागद्वेषत्यागः पूर्वमुक्तः । इह त्विष्टानिष्टविषय- गतरागद्वेषत्याग इति न पुनरुक्तिः । परिगृह्णन इति परिग्रहः । सद्विविध:- आन्तरो बाह्यश्चेति । तत्राहङ्कारं बलं दर्पं कामं क्रोध त्यक्त्वेत्यनेनान्तरपरिग्रहत्याग उक्तः । बाह्यपरिग्रहत्यागस्तु परिग्रहं विमुच्येत्यनेनोच्यत इत्याह- इन्द्रियेति, धर्मेति । सन्न्या- सिनोऽपि स्वाश्रमविहितकर्मणां कर्तव्यत्वादिति भावः । आन्तरो रागादिः, बायो वस्त्रादिः । एतेन विविक्त सेवादयस्सन्न्यासिधर्मा एव न गृहस्थधर्मा इते सिद्धम् । गृहे स्थितस्य तस्य वनादिस्थित्यसम्भवात् । सन्न्यासिन एव परमहंसाश्रमाविकाराच्च । दण्डकमण्डलु कौपीनर हितः परमहंस- परित्राजकः । निर्मम इति । ननु ममताविषयस्य गृहधनपश्वादेः प्रागेव परित्यक्तत्वात्परिमई विसु- च्येत्यनेन दण्डकौपीनादेरपि ममताविषयस्य परित्यक्तत्वकथनाद्यर्थमिदं निर्मम इति विधानमत आह- देहेति । मम देहश्विरं जीवेदित्यप्यमन्वान इत्यर्थः । अपिशब्दात्परमप्रेमास्पदेऽपि स्वदेहजीवने यस्य न कर्तव्या ममता तस्य किं पुनर्वक्तव्यमतिरिक्तविषयेष्विति गम्यते । अत एवेति । विशुद्धबुद्धि- योगादिसाधन सम्पन्नत्वादेवेत्यर्थः । निर्ममत्वादेवेति वा । उपरत इति । उपरतिमुपशमं चित्तस्य प्राप्तः । तदेवाह - संहृतहर्षायास इति । संहृतौ हर्षायासौ येन स तथोक्तः । हर्षायासरहित इत्यर्थः । मायासश्श्रमः । श्रमवद्धर्षोऽपि चित्तस्य विक्षेपकर एवेति हर्षस्यापि संहार उक्तः । य एवं- विवरस यतिर्ब्रह्मभूयाय ब्रह्मभवनाय ब्रह्मप्राप्तये इति यावत् । कल्पते । कोऽसौ यतिरत आह- ज्ञननिष्ठ इति । कृपूसामर्थ्य इति धातुपाठादाह— समर्थो भवतीति । मोक्षार्हो भवतीत्यर्थः । ब्रह्मज्ञानार्हो भवतीति वा ॥५३॥ 1 अनेन क्रमेण- अष्टादशोऽध्यायः । ३७३ ब्रह्मभूतः प्रसन्नात्मा न शोचति न कांक्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ ५४ ॥ ब्रह्मभूत इति । ब्रह्मभृतो ब्रह्मप्राप्तः प्रसन्नात्मा लब्धाध्यात्मप्रसादस्वभावो न शोचति किञ्चिदर्थवैकल्यमात्मनो वैगुण्यं चोद्दिश्य न शोचति न सन्तप्यते, न कांक्षति न ह्यप्राप्त- विषयाकांक्षा ब्रह्मविद उपपद्यते। अतो ब्रह्मभूतस्यायं स्वभावोऽनुद्यते न शोचति न कांक्षतीति । ‘न हृष्यतीति वा पाठान्तरम् । समस्सर्वेषु भूतेष्वात्मौपम्येन सर्वभूतेषु सुखं दुःखं वा सममेव पश्यतीत्यर्थः । नात्मसमदर्शनमिह तस्य वक्ष्यमाणत्वात् ‘भक्त्या मामभि- जाना’ तीति । एवंभूतो ज्ञाननिष्ठो मद्भक्तिं मयि परमेश्वरे भक्ति भजनं परामुत्तमां ज्ञान- लक्षणां चतुर्थी लभते ‘चतुर्विधा भजन्ते मा’ मित्युक्तम् ॥५४॥ ब्रह्मभूत इति, ब्रह्मप्राप्त इति । गुरुशास्त्रादिना पारोक्ष्येण ब्रह्मविदित्यर्थः । ब्रह्मापरोक्ष्यस्य - ‘भक्त्या मामभिजानातीति ब्रह्मप्राप्ते’र्ज्ञात्वा विशते तदनन्तर’ मिति च वक्ष्यमाणत्वादिति भावः । प्रसन्नात्म | प्रसन्न आत्मा मनो बुद्धिर्वा यस्य स प्रसन्नात्मा । लब्ध अध्यात्ममात्मनि प्रसादरूपस्स्वभावो येन स लब्धाध्यात्मप्रसादस्वभावः । न शोचतीति । किमुद्दिश्यास्य शोकप्रसङ्गोऽत आह – किंचिदिति । अर्थवैकल्यं पुरुषार्थभ्रंशः । वैगुण्यं विगुणत्वम् । न सन्तप्यते सन्तापं न प्राप्नोति । न कांक्षत्यप्राप्तं विषयविशेषं न वाञ्छति । ब्रह्मविदो ब्रह्मपारोक्ष्येण विदितवत इत्यर्थः । भवत्या मामभिजानातीत्यपा- रोक्ष्यस्य वक्ष्यमाणत्वादिति भावः । परिपूर्ण ब्रह्मैवाहमिति ज्ञाने सत्यप्राप्तविषयाभावात्कथं तदाकांक्षेति भावः । अत इति । ब्रह्मविदो ऽप्राप्त विषयाकांक्षानुपपत्तेरित्यर्थः । ब्रह्मभूतस्य न शोचति न कांक्षी- स्वयं स्वभावोऽनुद्यते नतु ब्रह्मभूतो न शोचेन्न कांक्षेदिति विधीयत इत्यर्थः । नच ब्रह्मापरोक्ष्यरहितस्य कथं ब्रह्मभूतत्वमिति वाच्यं, यो हि पारोक्ष्येणापि ब्रह्माहमिति वेति स ब्रह्मभूत एव स्वस्मिन् ब्रह्मेति ज्ञानस्य सत्त्वादिति । सम इति । समदर्शीत्यर्थः । आत्मौपम्येनेति । यथा स्वस्य सुखमिष्टं दुःख- मनिष्टं तथैव सर्वस्यापीति वेतीत्यर्थः । मम सुखमस्तु, अन्यस्य दुःखमस्त्विति नेच्छति; किंतु सर्व- स्यापि सुखमस्त्वितीच्छतीति यावत् । ‘आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ! सुखं वा यदि वा दुःखं स योगी परमो मत’ इति षष्ठाध्याये प्रोक्तत्वादिति भावः । नन्वात्मानं समं पश्यतीति सम इति कुतो नोच्यतेऽत आह-नात्मेति । नात्मदर्शनमिह समशब्देनोच्यते- तस्यात्मदर्शनस्य वक्ष्यमाणत्वात् । केन वाक्येनेत्यत आह- भक्त्या मामभि- जानातीति, मयीति । मद्विषयामित्यर्थः । ज्ञानलक्षणामिति । अहं ब्रह्मास्मीत्यखण्डचैतन्या कार- बुद्धिवृत्तिलक्षणामित्यर्थः । ननु ज्ञानस्य कथं भजनत्वं कथं वा ज्ञानलक्षणभक्तेश्वतुर्थत्वमत आह- चतुर्विधा इति । ‘मार्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ !’ इति ज्ञानिनश्चतुर्थस्य भगवद्भक्तत्व - कथनाद्ज्ञानं भगवद्भजनं भगवत्प्राप्तौ तुरीयोपायश्चेति भावः ॥५४॥ ३७४ श्रीभगवद्गीतासु - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु ततो ज्ञानलक्षणया– भक्त्या मामभिजानाति यावान् यथास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥५५॥ भक्त्येति । भक्त्या मामभिजानाति यावानहमुपाधिकृत विस्तरभेदः, यश्चाहमस्मि विध्वस्तसर्वोपाधिभेद उत्तमः पुरुष आकाशकल्पः तं मामद्वैतं चैतन्यमात्रैकरसमज मजरममर- मभयमनिधनं तत्त्वतोऽभिजानाति । ततो मामेव तत्त्वतो ज्ञात्वा विशते तदनन्तरं मामेव ज्ञानानन्तरम् । नात्र ज्ञानानन्तरप्रवेशकिये भिन्ने विवक्षिते ‘ज्ञात्वा विशते तदनन्तर’ मिति । किं तर्हि ? फलान्तराभावादज्ञानमात्रमेव ‘क्षेत्रज्ञ चापि मां विद्धीत्युक्तत्वात् ।

भक्त्येति, तत इति । मद्भक्तिप्राप्त्यनन्तरमित्यर्थः । अहं यावानस्मि यश्चास्मि तं मां भक्त्या विद्वांस्तत्त्वतोऽभिजानाति । ततस्तत्त्वतो मां ज्ञात्वा तदनन्तरं मां विशते । यावानिति । यत्परिमाणः । ननु कथमात्मनो निर्विशेषस्य यावत्त्वमत आह— उपाधीति । उपाधिभिः कृतो विस्तार आघिवयं येषां तैर्भेदैः । बहुभिरुपा घिविशेषैरित्यर्थः । आकाशकल्प इति । आकाशवत्सर्वगत्व निराकारत्वादि- गुणयुक्त इत्यर्थः । अद्वैतमिति । द्वयोर्भावो द्विता द्वितैव द्वैतं भेद इति यावत् । तद्रहितमद्वैतम् । चैतन्यमेव चैतन्यमात्रं तदेवैको मुख्यः केवल इति वा रसो यस्य तं चैतन्यस्वरूपमित्यर्थः । रसशब्दा- दानन्दरूपमिति च । न जीर्यतीत्यजरः । जरारहित इति वा । निधनं नाशः । तत इति । तथे- त्यर्थे । तत्त्वतो यथावत् । ज्ञात्वाऽऽपरोक्ष्येण विदित्वेत्यर्थः । तदनन्तरमित्यस्यार्थमाह – ज्ञानानन्तर- मिति । विशते प्रविशति । प्राप्नोतीति यावत् । कं विशतेऽत माह - मामेवेति । परमात्मानं प्राप्नोति मुक्तो भवतीति यावत् । अखण्डचैतन्याकारबुद्धिवृत्त्या प्रत्यगभिन्नब्रह्मात्मसाक्षात्काराद्रम- सायुज्यं लभत इति भावः । . ननु मां ज्ञात्वा मां प्रविशतीति धातुद्वयेन ज्ञानप्रवेशात्मक क्रिया द्वयमभिधीयते । तत्र च ज्ञानक्रिया पूर्वभाविनी, पश्चाद्भाविनी तु प्रवेशक्रिया । यो यं जानाति, यं च प्रविशति स तस्माद्भि एवं भवितव्यः- ज्ञानक्रियायां प्रवेशक्रियायां वा कर्तृकर्मणोर्भेदेन भाव्यत्वात् । यथा गृहं जानाति, गृहं प्रविशति च पुरुष इति । तस्माद्ज्ञातुः प्रवेष्टुश्वात्मनस्सकाशादूज्ञेयं प्रवेश्यं च ब्रह्मभिन्नमेवेति कृत्वा कथमद्वैतसिद्धिरिति शङ्कायामाह - नात्रेति । ज्ञात्वा विशते तदनन्तरमित्यत्र वाक्ये ज्ञान- प्रवेश क्रिये भिन्नेन विवक्षिते मूलकारेण । किं तर्हि ? ज्ञानमात्रमेव विवक्षितम् । कुतः ? फलान्त- राभावात् । ब्रह्मज्ञानातिरिक्तब्रह्मप्रवेशरूपफलाभावादित्यर्थः । कुतः फलान्तराभावोऽ3 माह क्षेत्रज्ञ चापीति । ‘क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु भारत !’ इतिश्लोकेन जीवब्रह्मा मेदस्योक्तत्वान्न जीवा- द्भिन्नं जीवेन प्राप्यं च ब्रह्मास्ति, येन तत्माप्तिरूपं फलं जीवस्य भवेत् । तस्मात्प्राप्तृप्राप्यपदार्थद्वयाभावा- ज्ञानमात्रमेव विवक्षितमिति । न चैवं ज्ञानस्य वा कथं सिद्धि: ? ज्ञातृज्ञेयपदार्थद्वयाभावादितिअष्टादशोऽध्यायः । ३७५ ननु विरुद्धमिदमुक्तं ‘ज्ञानस्य या परा निष्ठा तया मामभिजानातीति । कथं विरुद्ध- मितिचेदुच्यते - ‘यदैव यस्मिन्विषये ज्ञानमुत्पद्यते ज्ञातुः तदैव तं विषयमभिजानाति ज्ञाता’ इति । न ज्ञाननिष्ठां ज्ञानावृत्तिलक्षणामपेक्षत इति । अतश्च ज्ञानेन नाभिजानाति, ज्ञाना- वृत्त्या तु ज्ञाननिष्ठयाऽभिजानातीति । नैष दोषः - ज्ञानस्य स्वात्मोत्पत्तिपरिपाक हेतुयुक्तस्य वाच्य, एकस्यैव चैतन्यस्य बुद्धिनादात्म्याभ्यासाद्ज्ञातृत्वं तमेवापेक्ष्य ज्ञेयत्वं स्वतस्तु ज्ञानत्वमि त्यविरोधात् । नन्वेवं ज्ञानमात्रस्यैव विवक्षितत्वे भक्त्या मामभिजानातीत्येतावदेव वक्तव्यं, नतु ज्ञात्रा तदन- न्तरं विशत इतिचेन्मैवम् – भक्त्या मां जानातीत्येतावदुक्तौ किं त्वद्ज्ञानात्फलमित्याशङ्कयेत, तदाशङ्का- पूरणार्थमुक्तं ज्ञात्वा मामेव विशतीति । मद्ज्ञानस्याहमेव फलं, नतु मत्तः फलान्तरमस्तीति तदर्थात् / न चैवमपि ज्ञानातिरिक्तं फलं सिद्धमिति वाच्यं सति ब्रह्मात्मसाक्षात्कारे ज्ञातव्यस्य प्राप्तव्यस्य वा वस्तुनोऽभावेन ज्ञानातिरिक्तफलासिद्धेः ; ज्ञानस्वरूपत्वाच्च; ब्रह्मगस्तस्यैवात्मत्वाच्च । तस्माद्ब्रह्मज्ञाना- दनतिरिक्त एव ब्रह्मप्रवेशः । ननु कर्मयोगा चित्तशुद्धिं प्राप्तः पुरुषो विशुद्धबुद्धियोगादिक्रमेण ज्ञाननिष्ठां प्राप्य तया परया ज्ञाननिष्ठया ब्रह्म प्राप्नोतीत्युक्तं सिद्धि प्राप्त इत्यारभ्य विशते तदनन्तरमित्यन्तेन ग्रन्थेन । सांच ब्रह्मप्राप्तिर्ब्रह्मज्ञानादनतिरिक्तेत्युक्तम् । तथा च ज्ञाननिष्ठया ब्रह्म जानातीति सिद्धम् । इयमेत्र ज्ञान- निष्ठां भक्त्या मामभिजानातीति भक्तिशब्देनोक्ता । ज्ञानलक्षणा चतुर्थी भक्तिरित्युक्तत्वाद्ज्ञाननिष्ठायाश्च ज्ञानलक्षणत्वात् । एवंसति भक्त्या ज्ञाननिष्ठया मां ब्रह्माभिजानातीति सिद्धत्वेनार्थाद्ज्ञानमात्रेण ब्रह्म- ज्ञानं न सिद्ध्यतीति सिद्धम् । ज्ञानेनैव ब्रह्मज्ञानसिद्धौ ज्ञाननिष्ठाविधानस्य व्यर्थत्वाद्ज्ञाननिष्ठा कथं कार्येति शङ्कायामेव बुद्धया विशुद्धया युक्त इत्यादिग्रन्थस्यावतारितत्वात् । तस्माद्ज्ञानेन ब्रह्म न जानाति; ज्ञाननिष्ठया तु ब्रह्म जानातीत्येतद्विरुद्धमिति पृच्छति – नन्विति । ज्ञाननिष्ठायास्स्वरूपमाह - ज्ञाना वृत्तिलक्षणामिति । ज्ञानस्याहं ब्रह्मास्मीत्याकारकस्यावृत्तिरसकृदभ्यासो लक्षणं स्वरूपं यस्यास्तां तथोक्तम् । ज्ञानेनैव ज्ञेयस्य साक्षात्कारो भवति । अन्यथा ज्ञानाभ्यासेन वाऽपि कथं ज्ञेयसाक्षा- त्कारः ? अयं घट इति ज्ञानेन घटस्यानवभास्यत्वे कथं पुनस्तदेव ज्ञानमावर्तितं भूत्वा तं घट- मवभासयेत् । परिहरति — नैष दोष इति । ज्ञाननिष्ठया मामभिजानातीतिवचनं न दुष्टमित्यर्थः । तत्र हेतु- माह – ज्ञानस्येति । ज्ञानावृत्तिर्न ज्ञाननिष्ठा, किंतु ज्ञानस्यात्मानुभव निश्चयावसानत्वं ज्ञाननिष्ठा । कीदृशस्य ज्ञानस्यात्मानुभवनिश्वयावसानत्वं भवति तत्राह - स्वात्मेति ! स्वात्मनो ज्ञानस्वरूपस्य अहं ब्रह्मास्मीत्यकारकस्योत्पत्तिपरिपाकयोर्जन्मनि दा च ये हेतवो विशुद्धबुद्धियोगादयस्तैर्युक्तस्य । प्रतिपक्षाः ज्ञानोत्पत्तिपरिपाक प्रतिबन्धभूता मानदम्भादयस्तैर्विहीनस्य च ज्ञानस्य यदात्मानुभवनिश्चय ३७६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु प्रतिपक्षविहीनस्य यदात्मानुभव निश्चयावसानत्वं तस्य निष्ठाशब्दाभिलापात् । शास्त्राचार्योप- देशेन ज्ञानोत्पत्तिपरिपाकहेतुं सहकारिकारणं बुद्धिविशुद्धत्वाद्यमानित्वादिगुणं चापेक्ष्य जनि- तस्य क्षेत्रज्ञपरमात्मैकत्वज्ञानस्य कर्तृत्वादिकारक भेदबुद्धि निबन्धन सर्व कर्म सन्न्याससहितस्य स्वात्मानुभवनिश्चयरूपेण यदवस्थानं सा परा ज्ञाननिष्ठेत्युच्यते । सेयं ज्ञाननिष्ठाऽऽर्तादि- भक्तित्रयापेक्षया परा चतुर्थी भक्तिरित्युक्ता, तया परया भक्त्या भगवन्तं तत्त्वतोऽभि- जानाति यदनन्तरमेवेश्वरक्षेत्रज्ञ भेदबुद्धिरशेषतो निवर्तते । अतो ज्ञाननिष्ठालक्षणया भक्त्या आत्मानुभवरूपो निश्चयः । आत्मानुभवापादनमिति यावत् । स एवावसानं परिसमाप्तिर्यस्य तत्त्व- मात्मानुभव निश्चयावसानत्वं तस्य । निष्ठाशब्दा भिलापान्निष्ठाशब्दाभिधेयत्वात् । इदमेव विवृणोति - शास्त्रेति । शास्त्राचार्योपदेशेन हेतुना । गुणं चापेक्ष्येति । ज्ञानोत्पत्तिपरिपाक हेतु भूतबुद्धि विशुद्ध- त्वादिगुणवशेन तत्सहकारिकारण मृतामानित्वादिगुणवशेन चेत्यर्थः । जनितस्य कर्तृत्वादिकारक भेद- बुद्धिनिबन्धनानि यानि सर्वकर्माणि तत्सन्न्याससहितस्य क्षेत्रज्ञपरमात्मैकत्वज्ञानस्याहं ब्रह्मास्मी विज्ञानस्य परीक्षकल्पस्येति भावः । आत्मानुभवनिश्चयरूपेण परोक्षत्व रूपेणेति भावः । 1 अवस्थानमिति । यत्सैव परा ज्ञाननिष्ठेत्युच्यते । यदनन्तरमेवेति । तत्त्वतो भगव- दज्ञानानन्तरमित्यर्थः । अशेषत इति । एतेन परोक्षज्ञानवेलायां न तद्भेदबुद्धेरशेषतो निवृचिरिति गम्यते । तत इति । स्वात्मानुभव निश्चयरूपेणावस्थितेनैव ज्ञानेन ब्रह्मात्मसाक्षात्कारो नतु केवलज्ञाने- नेतिहेतोरित्यर्थः । ज्ञानावृत्तेर्ज्ञाननिष्ठात्वाभावादिति वा । ज्ञाननिष्ठालक्षणयेति । नच ज्ञानलक्षणया भक्त्येति पूर्वोक्तव्याघात इति वाच्यं, स्वात्मानुभव निश्चयरूपावस्थितज्ञानलक्षणयेति तदर्थात् । एवं ज्ञान- लक्षणां चतुर्थीमित्यत्रापि बोध्यम् । यद्वा ज्ञाननिष्ठालक्षणां चतुर्थीमिति, ततो ज्ञाननिष्ठ (लक्षणया भक्त्येति च भाष्य पाठ्यम् । ननु ज्ञानमिति, ज्ञाननिष्ठेति, ज्ञाननिष्ठया मद्ज्ञानमिति च ज्ञानत्रयमिह दृश्यते । तत्र परोक्ष- ज्ञानमिति, अपरोक्षज्ञानमिति च द्वयं प्रसिद्धं, तृतीय कथमप्रसिद्धमवगन्तुं शक्यतइतिचेत्, उच्यते- बुद्धिवृत्तिरूपं तत्फलभूतानुभवरूपं चेत्यपरोक्षज्ञानं द्विविधं तत्र बुद्धिवृत्तिर्ज्ञाननिष्ठा; तत्फलभूतोऽनुभवस्तु ब्रह्मज्ञानमिति । यद्वा परोक्षज्ञानमेव द्विविधं तत्र श्रवणादुत्पन्नमहं ब्रह्मास्मी विज्ञानमेकं ; मननादुत्पन्नं ब्रह्मवाहमस्मीति निश्चयज्ञानमपरमिदमेव ज्ञाननिष्ठेत्युच्यते । निदिध्यासादपरोक्षात्मसाक्षात्कारस्तु ब्रह्म- ज्ञानमिति ज्ञानत्रयम् । अथवा परोक्षमपरोक्षमनुभवश्चेति ज्ञानतयं, तत्र परोक्षज्ञानमपरोक्षज्ञानं चेति द्वयं ज्ञानकरणभूतं, करणभूतज्ञानस्य फलमूतस्त्वनुभवः । तत्र परोक्षज्ञानं गुरुशास्त्रादिकमपरोक्षज्ञानं ब्रह्मा- कारबुद्धिवृत्तिर्ज्ञाननिष्ठात्मकमनुभवस्तु ब्रह्मात्मसाक्षात्कार इति । यद्वा नाहं ब्रह्मेतिविपर्ययनिवर्तकं ज्ञान- मेकं यद्गुरुशास्त्रोपदेशजन्यम् । अहं ब्रह्म उत संसारीति संशयनिवर्तकं ज्ञानमन्यत्, यत्समाचिलभ्यं ज्ञाननिष्ठात्मकम् । अहं ब्रह्मैवेति निश्वपालको ब्रह्मात्मसाक्षात्कारस्वपरं ज्ञानमेनि ज्ञनत्रयमेति । ૩૮ मष्टादशोऽध्यायः । ३७७ मामभिजानातीति वचनं न विरुध्यते । अत्र च सर्वे निवृत्तिविधायि शास्त्रं वेदान्तेतिहास- पुराणस्मृतिलक्षणं न्यायप्रसिद्धमर्थवद्भवति– ‘विदित्वा …. व्युत्थायाथ भिक्षाचर्यं चरन्ति तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः, न्यास एवात्यरेचय’ दिति; ‘सन्न्यासः कर्मणां न्यासः, वेदानिमं च लोकममुं च परित्यज्य त्यज धर्ममधर्म’ चेत्यादि । इह च प्रदर्शि तानि वाक्यानि न च तेषां वाक्यानामानर्थक्यं युक्तं ; न चार्थवादत्वं स्वप्रकरणस्थत्वात्, तत्र चेति । एवं संति ज्ञाननिष्ठया ब्रह्मज्ञानसम्भवे सतीत्यर्थः । निवृत्तिविधायि निवृत्तिमार्गविधायकं सन्न्यास विधायकमिति यावत् । वेदान्तेतिहासपुराणस्मृतिलक्षणं शास्त्रं न्यायप्रसिद्ध न्याय्यमर्थवच भवति । निवृत्तिमार्गनिरतसन्न्यास्यनुष्ठेयत्वा ज्ञाननिष्ठाया इति भावः ।

तदेव शास्त्रं दर्शयति विदित्वेति । ब्रह्म पारोक्ष्येण विदित्वेत्यर्थः । नित्यानित्यवस्तुविवे- कादिज्ञानवान् भूत्वेति वा । अथ वेदनानन्तरमभ्युत्थाय संसारादुत्थाय सन्न्यस्येति यावत् । भिक्षा- चर्य चरन्ति, भिक्षाटनं कुर्वन्ति, यद्वा विदित्वाऽभ्युत्थाय, अथाऽभ्युत्थानानन्तरं भिक्षाचर्यं चरन्ति, येषां तपसां मध्ये न्यास सन्न्यासमतिरिक्तमुत्कृष्टमाहुः, न्यास एवात्यरेचयत्, अतिरिक्तमभवत् । नारायणीये –’ सत्यं तपो दमश्शमो दानं धर्मः प्रजननमनयोऽग्निहोत्रं यज्ञो मानसं न्यास’ इति द्वादशमुक्ति हेतुनुपन्यस्य- ‘तानि वैतान्यवराणि तपांसि न्यास एवात्यरेचय’ दित्युक्तम् । तथा तत्रै- वानुवाकान्तरे सत्यादीन् न्यासान्तान् मोक्षोपायत्वेनोपन्यस्य ‘तस्मान्न्यासमेषां तपसामतिरिकमाहु’- रित्युक्तम् । किं चात्रैव ‘न्यास इत्याहुर्मनीषिणो ब्रह्माण’ मिति, पूर्वानुवाके- ‘न्यास इति ब्रह्मा हि परः परो हि ब्रह्मेति च दृश्यते । न्यास इत्युक्तो यो मोक्षहेतुस्तं ब्रह्माणं हिरण्यगर्भरूपं मनीषिणस्स्मृति- कर्तार आहु:- ‘सन्न्यासाद्ब्रह्मणस्स्थान’ मिति स्मरणात् । हिरण्यगर्भ प्रातेरन्तरङ्गसाधनत्वा रसन्न्यासस्य तद्रूपत्वम् । परो ब्रह्मा हिरण्यगर्भो न्यासो मोक्षहेतुरित्याह- स च ब्रह्मा परः परमात्मरूपों हीति श्रुत्यर्थः । एवं सर्वजीव चिकहिरण्यगर्भमतत्वान्यास एव सर्वाधिकः । यदि सन्न्यास एव न स्यात- ह्यींमाइश्रुतयो विरुध्येरन्निति भावः । कर्मणां न्यासस्सन्न्यास इत्युच्यते । वेदानिमं मनुष्यलोकम स्वर्गलोकं च परित्यज्य, धर्म त्यज, अधर्मं त्यजेत्या दीत्यादिपदात् । स्नातको वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेतदहरेव प्रव्रजेत् गृहाद्वनी भूत्वा प्रत्रजेत्’, ‘अनन्यचित्तता ब्रह्मनिष्ठा सा कर्मठे कथम् मईति नेतरः ॥ त्याग एवं हि सर्वेषां मोक्षसाधनमुत्तमम् । त्यजतैव हि तद्ज्ञेयं त्यक्तुः प्रत्यवपरं पदम् ॥ सशिखं वपनं कृत्वा बहिरसूत्रं त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः । यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढश्वरे मुनिः ॥ एतद्द्विजन्मसाफल्य ब्राह्मणस्य विशेषतः । प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा’ इत्यादि ग्राह्यम् । ‘अथ पुनस्त्रती वा स्नातको वा ब्रह्मचर्यं समाप्य गृही भवेत्, ? कर्मत्यागी ततो ब्रह्मनिष्ठा- इह चेति । ‘सर्वकर्माणि मनसा सन्न्यस्येति, ‘सर्वारम्भपरित्या ‘गीतीत्यादीनि । ननु सन्न्यासाश्रमविध्यभावेऽपि तद्वाक्यानां नानर्थक्यमर्थवादत्वादन] आह-न चेति । विधिप्रकरणस्थ- ३७८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु प्रत्यगात्माऽविक्रियस्वरूपनिष्ठत्वाच्च मोक्षस्य । नहि पूर्वसमुद्रं जिगमिषो: प्रातिलोम्येन वाक्यानामर्थवादत्वमयुक्तमित्यर्थः । यदी मान्यर्थवादवाक्यानि स्युस्तर्हि विधिवाक्यान्यन्यत्रोपलभ्येरन् । विधिवाक्यस्तुति परस्वादर्थवादानां विधिवाक्यानि विनाऽर्थवादवाक्यानारम्भात् नतु तथान्यत्र विधि- वाक्यान्युपलभ्यन्ते । तस्मादिमानि नार्थवादवाक्यानि किं तु विधिवाक्यान्येव । नन्वस्तु नाम सन्न्यासविधिर्न तु तस्य मोक्ष हेतुत्वमत आह- प्रत्यगिति । प्रत्यगात्मनो यद विक्रियं खरूपं तस्मि निष्ठा यस्य तत्त्वान्मोक्षस्य निरतिशयानन्दलक्षगत्य । निरतिशयानन्दं हि प्रत्यगात्मनस्स्वरूपम् । यद्वा प्रत्यगात्माऽविक्रियस्वरूपमेव निष्ठा यस्य तत्त्वान्मोक्षस्य यन्निष्कृष्टं स्वरूपं तत्प्रत्यगात्मस्वरूपमेवेत्यर्थः । अथ वा निष्ठत्वादिति पाठः । प्रत्यगात्माऽविक्रियस्वरूपे या निष्ठा सैव मोक्षः । यद्वा प्रत्यगात्मनोऽ- विक्रियखरूपेण या निष्ठा सैत्र मोक्षः । अनात्मतादात्म्याभ्यास उद्धेश्य विद्यानिवृतेर्यद विकियात्मरूपेण स्थितिः पुरुषस्य सैव मोक्ष इत्यर्थः । अयं च मोक्ष आश्मज्ञाननिष्ठासाध्य; सा च निष्ठा सर्व कर्म सन्न्यास- साध्येति मोक्षस्य सन्न्यास एव हेतुरुतम इति भावः । एव ननु मुमुक्षुणा मोक्षार्थं सन्न्यस्य ज्ञाननिष्ठैव कि मेति कार्या ! कर्मनिष्ठापि कियतामत आह— न हीति । खर्गाद्यभ्युदयार्थ प्रवृतिमार्गः कर्मिणां मोक्षार्थं निवृत्तिमार्ग सन्न्यासिनां च विभज्य पृथङ्निर्मित ईश्वरेणैव । तथा चोकं भाष्यारम्भे– ‘ईश्वरः प्रवृत्तिधर्मे प्रजापनीत् ग्राहयामास, निवृत्तिधर्म सनकसनन्दनादी’ निति । तत्र कर्मानुष्ठानात्मकः प्रवृत्ति मर्गः कर्मसन्न्यासात्मको निवृत्ति - मार्गः । यः पुनरज्ञस्स्वर्गं जिगमिषति स कर्ममार्गेणैव स्वर्ग गच्छेत्; नतु सन्न्यासमार्गेण सन्न्यास- मार्गस्य स्वर्गाप्रापकत्वात् । यस्तु विद्वान् मोक्षं जिगमिषति स सन्न्यासमार्गेणैव मोक्ष गच्छेन् नतु कर्ममार्गेण- तस्याऽमोक्षप्रापकत्वात् । एवमज्ञप्राज्ञयोर्विरुद्धफलकौ विपरीतौ द्वौ मार्गों स्तः- ‘दूरमेते विपरीते विषूची अविद्या च या च विद्या’ चेति श्रुतेः । तत्र प्रवृत्तिमार्गः कर्ममार्गोऽविद्यामार्ग इत्यर्थान्तरम् । निवृत्तिमार्गों ज्ञानमार्गो विद्यामार्गो मोक्षमार्ग इत्यप्यर्थान्तरम् । नच विद्यामर्ग मोक्षहेतुरिति कुत उच्यत इति वाच्यं, ‘नान्यः पन्था विद्यतेऽयना’ येति, ‘विद्ययाऽमृतमश्नुत’ इत्यादि- श्रुतिभ्यः । तस्मान्मोक्षार्थिना सन्न्यस्य ज्ञाननिष्ठैव कार्या । अभ्युदयार्थिना स्वसन्यस्य कर्मनिष्ठैव कार्या । यथा पूर्वसमुद्र जिगमिषुस्सूर्योदयोपाधिकपूर्वदिशं प्रत्येव प्रयायात् । पश्चिमसमुद्र जिगमिषुस्तु सूर्यास्तमयोपाधिकपश्चिमदिशं प्रत्येव प्रयायात् । न तुभयोरपि पूर्वदिशं प्रति पश्चिमदिशं प्रति वा एक एव मार्गोऽस्ति । एवं स्वर्गमोक्षार्थिनोरुभयोरपि नैकोऽस्ति मार्गः, किं तु भिन्न एव । फल- मेदादनुष्ठानभेदाश्चेति । अक्षरार्थस्तु पूर्वसमुद्रं जिगमिषोर्गन्तुमिच्छो: पुरुषस्य प्रातिलोम्येन स्वप्राति- कूल्येन पश्चिमसमुद्रं जिगमिषुणा सह समानमार्गत्वमेकमार्गत्वं न हि नास्ति हि ; तथा प्रत्यवसमुद्र जिगमिषो: प्रातिलोम्येन पूर्वसमुदं जिगमिषुणा सह समानमार्गखं न हि सम्भवतीति । तस्मा - न्मुमुक्षुणा विदुषा निवृत्तिमार्ग एव स्वीकर्तव्यः । अष्टादशोऽध्यायः । TE प्रत्यक्समुद्रं जिगमिषुणा समानमार्गत्वं सम्भवति । प्रत्यगात्मविषयज्ञानसन्तानकरणाभि- निवेशश्च ज्ञाननिष्ठा । सा च प्रत्यक्समुद्रगमनवत्कर्मणा सहभावित्वेन विरुध्यते । पर्वत- सर्षपयोरिवान्तवान् विरोधः प्रमाणविदां निश्चितः । तस्मात्सर्वकर्मसन्न्यासेनैव ज्ञाननिष्ठा कार्येति सिद्धम् ||५५|| ननु पूर्वपश्चिमसमुद्रद्वयप्रापकमार्गद्वयवदिह परस्परसतिकूलं किं उन्माद्वयमत आह- प्रत्य- गिति । ज्ञाननिष्ठा ज्ञानमार्गः । तस्यारस्वरूपमाह — प्रत्यगात्मेति । प्रत्यगात्मविषयं यद्ज्ञान- महं ब्रह्मास्मीत्याकारकं तस्य सन्तानकरणे आवृत्तौ योऽभिनिवेशस्स ज्ञाननिष्ठा | अहं ब्रह्मास्मीत्येव- मसकृदभ्यसनं ज्ञाननिष्ठेत्यर्थः । न च ज्ञानस्यात्मानुभवनिश्चयावसानत्वं ज्ञाननिष्ठेत्युक्तं प्रागिति तद्विरोध इति वाच्यं, ज्ञानस्यात्मानुभव निश्चयापादनार्थमेत्र ज्ञानावृतेः कर्तव्य वातादृशज्ञाननिष्ठा हेतुत्वेन ज्ञानावृतिरपि ज्ञाननिष्ठेत्युच्यते उपचारादिति । सा च ज्ञानावृत्तिलक्षणा ज्ञाननिष्ठा कर्मणा सह- भावित्वेन विरुध्यते । विरोधात्कर्मणा सह न भवतीत्यर्थः । तत्र दृष्टान्तमाह — प्रत्यगिति । पूर्वसमुद्रं जिगमिषोः प्रत्यवसमुद्रगमनं यथा विरुध्यते तद्वदित्यर्थः । कर्ममार्गज्ञानमार्गयोर्न सहभावित्वं विरोधात् । यथा पूर्वपश्चिमसमुद्र प्रापकयोर्मार्गियों ने क देशवृतित्वरूपं सहभावित्वं तद्वदेति भावः । । 1 ननु नास्ति ज्ञानकर्मणोर्विरोधोऽत आह - पर्वतेति । पर्वतसर्षपयोरिव ज्ञानकर्मणोरन्वरवान् बहुतारतम्यवान् महानिति यावत् । विरोधः प्रमाणविदां विदुषां निश्चितः । पर्यतसर्वपयोरिव ज्ञान- कर्मणोर्महदस्ति तारतम्यमिति विदुषां निश्चितोऽयमर्थः । तथा हि- कर्मानुष्ठानात्मकः क्रियाकार- कादि भेदबुद्धिप्रयुक्तः, स्वर्गप्रापकः, बन्धहेतुः, देहेन्द्रियव्यापारसाध्यः, अनात्मतादात्म्याध्यासमूलकः, वर्णाश्रमाद्यभिमानग्रस्तः, यज्ञाग्निहोत्राद्यनेकविधः, एवमादिलक्षणः कर्ममार्गः । कर्मत्यागात्मकः, उप- मृदितक्रियाकारकादिमेदबुद्धि:, ब्रह्मप्रापकः, मोक्षहेतुः, देहेन्द्रियव्यापारोपरमसाध्यः, अनात्मतादा- त्म्याध्यासनिवृत्तिमूलकः, वर्णाश्रमाद्यभिमानरहितः, अहं ब्रह्मास्मीत्येवमेकविधः, एवमादिलक्षणो ज्ञान- मार्गः । तस्मात्स्वरूपतः फलतश्च परस्परमत्यन्तविरुद्धं ज्ञानकर्ममार्गद्वयम् । अत एवाविद्वांसह कामाः कर्ममार्गेऽधिकुर्वन्ति । विद्वांसस्तु निष्कामा ज्ञानमार्ग इत्यधिकारिभेदश्च सङ्गच्छते । एवमधिकारि- भेदादपि कर्मज्ञानयोर्विरोधः प्रसिद्धः । तस्मादिति । ज्ञाननिष्ठाया एवं मुमुक्षुभिः कार्यत्वादित्यर्थः । सन्न्यासस्यैव ज्ञाननिष्ठाहेतुत्वादिति वा । सर्वकर्मसन्न्यासेनैवेति । तत्पूर्वकमित्यर्थः । आदौ सर्वकर्मसन्न्यासं कृत्वा पश्चाद्ज्ञाननिष्ठा कार्येत्यर्थः 1 नच ज्ञाननिष्ठा प्राप्तेः प्रागविदुषः कथं सर्वकर्म- सन्न्याससम्भवः ? विदुष एव सर्वकर्मसन्याससम्भवादिति वाच्यं, पारोक्ष्येण ब्रह्मविदस्सर्व कर्म- सन्न्याससम्भवात् । पारोक्ष्येण ब्रह्मविद्धि सर्व कर्म सन्न्यस्य ज्ञाननिष्ठामभ्यस्य तथा परिपक्कया परं ब्रह्म जानाति । यत्तु रामानुजः - विशुद्धबुद्धियोगादिभिर्ब्रह्मप्राप्तिरात्म साक्षात्कारो भवति ततो भगवति पुण्डरीकनयने स्वस्वामिन्यत्यर्थ प्रियानुभवरूपा भक्तिर्जायते भवत्या तत्त्वतो भगवन्तं जानाति; ततो ३८० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु भक्तित एव भगवन्तं विशत इति, तत्तुच्छात्तुच्छतरम् — देहाद्यतिरिक्तात्मखरूपसाक्षात्कारानन्तरं पुण्डरीक नयनत्वाद्याकारवति देहे परमात्मभ्रान्त्युदयायोगात् । न ह्यात्मानमेव देहाद्यतिरिक्तं जानन् पुरुषः परमात्मानं देहात्मकं मन्येत; येन पुण्डरीकनयने तस्य भक्तिरस्यात् । नापि तादृश्या भवत्या देहेश्वरश्रान्तिपूर्वकया परमात्मतत्व साक्षात्कारः । सच्चिदानन्दं हि परमात्मनस्तत्त्रम्- ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुतेः । स च देहाद्यनात्मबुद्धिनिवृत्त्यैव भवितुमर्हति । नतु पुण्डरीक नयनोऽयं भगवा- नित्याकार कानात्मदेहेश्वरबुद्धया । यस्य देहो नात्मा, नापीन्द्रियाणि, नापि मनः, नापि बुद्धिः, नाप्यव्यक्तं; किंतु प्रत्यग्ज्योतिरेवात्मेति स्वात्मसाक्षात्कारादात्मज्ञाननिश्वयः तस्य कथं सर्वान्तरं स्वप्रभ सच्चिदानन्दं विहाय पुण्डरीकनयनोऽयं देहः परमात्मेति निश्चयो भवितुमर्हति ? इन्द्रियाद्यपेक्षया बाह्मो हि देहोऽत्यन्तम् । सर्वान्तरश्वात्मेति प्रसिद्धि: । ‘य आत्मनि तिष्ठ’ नित्यादिरन्तर्यामिब्राह्मण- श्रुतिस्तव प्रमाणं हि । कथमेवं सर्वान्तरस्सर्वान्तर्यामी ज्ञानानन्दरूप ईश्वरस्सर्वबाह्यः पुरुषमनोधीन- सत्ताक : ( पुरुषबुद्धिकल्पितत्वादुद्धृदये भगवद्विप्रहस्येति भावः) जडरूपश्च स्यात् । तस्मादनात्मविद एव सगुणब्रह्मणि भक्तिर्न त्वात्मविदः । आत्मविद्धि निर्गुणे ब्रह्मणि सच्चिदानन्दलक्षणे प्रत्यगभिन्ने पर - मात्मनि रमते - ‘यस्त्वात्मरतिरेव स्यादिति स्मरणात्, ‘आत्मरतिरात्मक्रीड’ इति श्रुतेश्व । नच न प्रत्यगभिन्न ब्रह्मेति वाच्यं प्रत्यग्भिन्नत्वे सति ब्रह्मणः ब्रह्मभिन्नत्वे सति प्रतीचो वा जाड्यादिप्रसङ्गात् । तस्मात्पुण्डरीक नयनत्वा दिविशिष्टमानसिक बाह्यभगवद्विमह निष्ठार्थप्रीतिरूपभगवद्भक्तिवशात्सच्चिदानन्दब्रह्म- साक्षात्कार इत्यनुपपन्नम् । यद्यपि तादृशभक्त्या चितशुद्ध्यादिपूर्वकं ज्ञानलाभाद्ब्रह्मसाक्षात्कारः । तथापि न साक्षाद्ब्रह्मानुभवहेतुत्वं भक्त्येति बोध्यम् । एवं भक्त्या ब्रह्म साक्षात्कृत्य भक्त्यैव ब्रह्म प्रविश- तीत्यप्ययुक्तम् । सति ब्रह्मसाक्षात्कारे ‘एकमेवाद्वितीयं ब्रह्मेति सर्वद्वैत निवृत्त्या प्राप्तृप्राप्यद्वयाभावात् । नहि निराकारे परिपूर्णे निरवयवे निर्विशेषे ब्रह्मणि प्रवेशो घटते तदन्यस्य तदनन्यस्य वो जीवस्य । समुद्रे नदीजलवत्, निरवकाशत्वाद्ब्रह्मणः । सावकाशत्वे सति परिपूर्णत्वायोगात् । तब मते जीव- ब्रह्मणोरसायुज्यायोगाच्च न सुतरां प्रवेशोपपत्तिः । नच लक्ष्ये शरखद्ब्रह्मणि जीवः प्रविशतीति वाच्यं, निरवयवत्वादुभयोर्निराकारत्वाच्च । न ह्येवमितः प्राक्तना मुक्ता ब्रह्मणि प्रविष्टाः पृथगुपलभ्यन्ते ब्रह्म- साक्षात्कारसमये विदुषा मधुपिष्टगत स्वर्णरेणुवत् । नच ‘यथा नद्यस्स्यन्दमानास्समुद्रेऽस्तङ्गच्छन्तीति श्रुतिरेव प्रमाणमिति वाच्यं, नामरूपोपाधिप्रहाणपूर्वकं जीवो ब्रह्मात्मनावतिष्ठत इति तदर्थात् । नच ब्रह्मांशत्वा जीवानां पुनर्ब्रह्मप्रवेश उपपद्यत इति वाच्यं निरंशस्य ब्रह्मणस्सांशत्वस्यैवा युक्तत्वात् । नच ‘ममैवांश’ इति गीतावचनाद्युक्तमिति वाच्यं, औपाधिकत्वादशव्यवहारस्य । नच घटकाशी घटे नष्टे सति महाकाश इवाऽन्तःकरणावच्छिन्न चैतन्यमन्तःकरणे नष्टे सति निरवच्छिन्नचैतन्ये प्रविशतीति बाध्य, घटनाशानन्तरं यदि घटाकाशस्स्याचर्हि स महाकाश प्रविशेत् । नतु सोऽस्तीति कथं तस्य प्रवेश: ? न चोपा घिनाशानन्तरं घटाकाशो जीवश्वास्तीति वाच्यं तथा सति ब्रह्मप्रवेशस्यैवा- योगात् । उपाधिं विनापि घटाकाशमहाकाशयोजीवेश्वरचैतन्ययोश्च भेदसत्त्वात् । उपाघिनाशानन्तरं अष्टादशोऽध्यायः । ૨૮૨ स्वकर्मणा भगवतोऽभ्यर्चनभक्तियोगस्य सिद्धिप्राप्तिः फलं ज्ञाननिष्ठायोग्यता य- निमित्ता ज्ञाननिष्ठा मोक्षफलावसाना स भगवद्भक्तियोगोऽधुना स्तूयते शास्त्रार्थोपसंहार- प्रकरणे शास्त्रार्थनिश्चयदायय– सर्वकर्माण्यपि सदा कुर्वाणो मध्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥ सर्वेति । सर्वकर्माण्यपि प्रतिषिद्धान्यपि सदा कुर्वाणोऽनुतिष्ठन् मद्व्यपाश्रयः अहं वासुदेव ईश्वरो व्यपाश्रयो व्यपाश्रयणं यस्य स मध्यपाश्रयः मय्यर्पितसर्वात्मभाव इत्यर्थः । सोऽपि मत्प्रसादान्मम परमेश्वरस्य प्रसादादवाप्नोति शाश्वतं नित्यं वैष्णवं पदमव्ययम् ॥ निरुपाधिकयोस्तयोर्घटाकाश इति जीव इति च व्यवहर्तुमशक्यत्वात् । उपाधिनाशानन्तरं महाकाशा- स्पूर्ण चैतन्याच्च भेदेन ग्रहीतुमशक्यत्वाच्च । तथा सति प्रवेशानन्तरमपि भेदप्रसङ्गात् । न चेष्टा- पति :- घटनाशानन्तरं महाकाशे प्रविष्टस्य घटाकाशस्या दर्शनाच्च । तस्मादुपाघिसद्भावदशायामेव घटा- काश महाकाशभेदव्यवहारः, न तूपाविनाश इति घटाकाशमहा काश्योरिव जीवेश्वरचै अन्य योस्सिद्ध- मद्वैतमिति न जीव चैतन्यस्येश्वरचैतन्ये प्रवेशप्रसङ्ग इति ॥ ५५॥ 1 सर्वकर्माणीति । सदा सर्वकर्माणि कुर्वाणोऽपि मध्यपाश्रयः पुरुषो मत्प्रसादाच्छाश्वतमव्यय पदमवाप्नोति । यस्येति शेषः । स्वकर्मणा भगवतोऽभ्यर्चनमक्तियोमस्य ज्ञाननिष्ठायोग्य वा रूपसिद्धि- प्राप्तिः फलं- ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव’ इत्युक्तत्वात् । यस्येश्वराराधनबुद्धयाऽनु- ष्ठितस्वकर्मानुष्ठानात्मकभक्तियोगस्य ज्ञाननिष्ठायोग्यतारूपसिद्धिप्राप्तिः फलमित्यर्थः । यदिति । मोक्षफलमेवावसानं यस्यास्सा ब्रह्मप्राप्तिपर्यवसाना ज्ञाननिष्ठा यन्निमित्ता य एव भक्तियोगो निर्मित हेतु- यस्यास्सा तथोक्ता । स चेति । ज्ञाननिष्ठायोग्यताप्राप्तिहेतु:, तद्द्वारा ज्ञाननिष्ठा हेतुश्चत्यर्थः । सर्व- कर्माण्यपीत्यपिशब्दादाह — प्रतिषिद्धान्यपीति । किं पुनर्विहितानीत्यपेरथेः । कुर्माण इति । अज्ञ इति भावः । मयि अर्पितस्सर्वात्मेति भावो यस्य सः । सर्वात्मेश्वर इति बुद्धियुक्त इत्यर्थः । 1 1 यद्वा सर्वेषामात्मनां देहेन्द्रियमनोबुद्धीनां ये ये भावा व्यापारास्ते सर्वे मयीधरे येनार्पितास्स मय्यर्पित सर्वात्मभावः । ईश्वरार्थमेव मया देहेन्द्रियादिभिस्तानि तानि सर्वाणि कर्माणि क्रियन्ते न मदर्थ- मिति निश्वयवानित्यर्थः । अथ वा सर्वोऽप्यात्मभावो मनसो भावना मय्यर्पितो येन स तथोक्तः । सर्वात्मना मामेवाश्रित इत्यर्थः । सर्वकर्माणि कुर्वाणस्यापि परमपदाता विदमेव निर्मितं यदीश्वरव्यपाश्र यत्वम् । पदमवाप्नोतीति । ज्ञानप्राप्तिद्वारेति भावः । नतु साक्षात् । अव एव भक्तियोगस्स्तूयत इत्युक्तम् । भक्तियोगात्परमपदप्रातिरितिवचनं स्तुतिर्हि साक्षात्तस्मात्तत्प्राययभावात् । ज्ञानयोगात्परम- पदप्राप्तिरितिवचनं तु यथार्थकथनं - साक्षात्तत्प्राप्तिसम्भवात् । अथ वा स्तूयत इत्यस्य कथ्यत इत्ये- वार्थः । मत्प्रसादाद्भक्तियोगानुष्ठाता परमं पदं प्राप्नोतीत्युक्तत्वात् । भक्तियोगस्येश्वरातुमहद्वारा परम- ટર श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतासु यस्मादेवं तस्मात् - चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तस्सततं भव ॥५७॥ चेतसेति । चेतसा विवेकबुद्धया, सर्वकर्माणि दृष्टादृष्टार्थानि मयीश्वरे, सन्न्यस्य ‘यत्करोषि यदश्ना’ सीत्युक्तन्यायेन, मत्परः अहं वासुदेवः परो यस्य तव स त्वं मत्परम्सन् मय्यर्पित सर्वात्मभावः, बुद्धियोगं समाहितबुद्धित्वं बुद्धियोगस्तं बुद्धियोगं, उपाश्रित्योपा- श्रयोऽनन्यशरणत्वं मच्चित्त:- मय्येव चित्तं यस्य तव स त्वं मच्चित्तः सततं सर्वदा भव || मच्चित्तस्सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेवमहङ्कारान्न श्रोष्यसि विनंक्ष्यसि ॥ ५८ ॥ मथित इति । मच्चित्तस्सर्वदुर्गाणि सर्वाणि दुर्गाणि दुस्तराणि संसारहेतुजातानि मत्प्रसादात्तरिष्यस्यतिक्रमिष्यसि । अथचेद्यदि त्वं मदुक्तमहङ्कारात् ‘पण्डितोऽह’ मिति न श्रोष्यसि न ग्रहीष्यसि ततस्त्वं विनंक्ष्यसि विनाशं गमिष्यसि ॥ ५८ ॥ पदप्राप्तिसम्भवादिति । ईश्वरानुग्रहश्च ज्ञानप्रदानलक्षणः । यः कर्मभिः परिशुद्ध चित्तस्सन् ज्ञानं लभते स ईश्वरेणानुगृहीत इत्यनुमातुं शक्यत्वात् । ’ ईश्वरानुमहादेव पुंसामद्वैतवास’ नेति युकम् । यद्वा मत्प्रसादाच्छाश्वतं पदं प्रत्यगभिन्न ब्रह्मावाप्नोति जानाति, नंदनुग्रहात्तस्य सम्यग्ज्ञानोदयो भवतीत्यर्थः ॥ चेतसेति । त्वं चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परस्सन् बुद्धियोगमुपाश्रित्य सवतं मथितो भव । यस्मादेवमिति । यस्मादीश्वराराधनात्मक कर्मयोगानुष्ठानादीश्वरानुग्रहात्परमपदप्राप्ति- स्तस्मादित्यर्थः । दृष्टेति । ऐहिकान्यामुष्मिकाणि चेत्यर्थः । कथं सन्न्यासोडत आह- - यत्करो- पीति । ‘यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय ! तत्कुरुष्व मदर्पण’- मिति पूर्वोत. रत्येत्यर्थः । कर्मणामीश्वरार्पणमेवेह सन्न्यास इत्युच्यते - उपचारात् । नतु मुख्य: सन्न्यासः । सर्वकर्माणि कुर्वाण इति प्रकरणत्वादस्य पर उत्कृष्टः प्राप्य इति वा । बुद्धियोगमुपाश्रित्य बुद्धियोगोपः श्रयरसन्नित्यर्थः । उपाश्रयं कृत्वोपाश्रित्य । उपाश्रय शब्दार्थमाह— अनन्यशरणत्वमिति । न विद्यतेऽन्यच्छरणं यस्य तत्त्वं बुद्धियोगैकशरणो भूत्वेति यावत् ॥५७॥ । मचित्त इति । मचित्तस्सततं भवेत्युक्तं, किं तथा भवनेनेत्यत आह- मच्चित्त इति । त्वं मचित्तस्सन् मत्प्रसादात्सर्वदुर्गाणि तरिष्यसि । अथ त्वमहङ्कारान्मदुक्तमिति शेषः । न श्रोष्यसि चेतर्हि विनंक्ष्यसि । कीदृशोऽहङ्कारोऽत माह– पण्डितोऽहमिति । पण्डितस्य मम किं परोक्तश्रवणे नेत्यहङ्कारादिति भावः । न ग्रहीष्यसीति मदुक्तमनतिक्रम्य नाचरिष्यसिचेदित्यर्थः । न तु केवल- श्रवणरूपग्रहणार्थोऽयं श्रोष्यसीतिशब्दः । श्रोत्रेन्द्रियवत्त्वेन शब्दश्रवणस्य जातत्वान्न श्रोष्यसीति वचनस्य व्यर्थत्वापतेः । विनाश नरकादिरूपम् । तस्मान्मदुक्तविधया मदाराघनात्मकं स्वधर्मं युद्धं कुर्विति भावः । ‘नियतं कुरु कर्म त्व’ मित्येवं पूर्वमुक्तत्वात् ॥ ५८ ॥ मष्टादशोऽध्यायः । इदं च त्वया न मन्तव्यं - ‘स्वतन्त्रोऽहं किमर्थं परोक्तं करिष्यामीति- यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥५९॥ ३८३ यदीति । यदिचेत्त्वमङ्कारमाश्रित्य न योत्स्य इति न युद्धं करिष्यामीति मन्यसे चिन्तयसि निश्चयं करोषि, मिथ्यैष व्यवसायो निश्चयस्ते तव । यस्मात्प्रकृतिः क्षत्रिय स्वभाव- स्त्वां नियोक्ष्यति ॥ ५९॥ यस्माच्च- स्वभावजेन कौन्तेय ! निबद्धस्स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ ६० ॥ स्वभावजेनेति । स्वभावजेन शौर्यादिना यथोक्तेन कौन्तेय ! अर्जुन ! नित्रद्धो निश्चयेन बद्धस्स्वेनात्मीयेन कर्मणा कर्तुं नेच्छसि यत्कर्म मोहादविवेकतः करिष्यस्यवशोऽपि परवश एव तत्कर्म ॥ ६०॥ यदीति । यदीतिश्लोकमवतारयति - इदं चेति । स्वतन्त्रोऽहं किमर्थं परोक्तं करिष्यामी तीदं च त्वया न मन्तव्यमित्याह - यदीति । त्वं महकारमाश्रित्य न योत्स्य इति मन्यसे यद्येष ते व्यवसायो मिथ्या भविष्यतीति शेषः । प्रकृतिस्त्वां कर्मणीति शेषः । नियोक्ष्यतीति, एष इति । ‘नाहं युद्धं करिष्य’ इत्येवंरूप इत्यर्थः । मिथ्या व्यर्थः । कुतो मिथ्या भविष्यतीत्यत आह- प्रकृतिरिति । यस्मात्प्रकृतिस्त्वां नियोक्ष्यति, तस्मादेष मिथ्येति भाष्यान्त्रयः । नियोक्ष्यति नियुक्तं करिष्यति । कर्मणि युद्धे प्रवर्तयिष्यतीत्यर्थः ॥ ५० ॥ स्वभावजेनेति । कथं प्रकृतिर्नियोक्ष्यतीत्यत आह-स्वभावजेनेति । हे कौन्तेय स्वभावजेन स्वेन कर्मणा निबद्धस्त्वं मोहाद्यत्कर्म कर्तुं नेच्छसि तदवशसन्न पे त्वं करिष्यसि । स्वभाव : क्षत्त्रस्वभाव: । तज्जन स्वेन स्वकीयेन कर्मणा शौर्यादिना । ‘शौर्य तेजो धृतिर्दाक्ष्यं युद्धे चाप्यन लायन’ मितिश्लोको के नेत्याह-यथोक्तेनेति, मोहादिति । न तु सम्यग्ज्ञानादिति भावः । तत्त्वविंद : प्रकृतिपरवशत्वासम्भवात् । अवशोऽस्वाधीनः । फलितमाह - परवश इति । प्रकृतिपरतन्त्र इत्यर्थः । नाह कर्म करिष्य इति दृढ सङ्कल्प्य स्थितोऽपि त्वं क्षात्रस्वभावप्रयुक्त सहज शौर्या, देगुणयुक्तत्वाच्छत्रुमि- बध्यमानान् स्वीयानवलोक्य, शत्रुभिः क्रियमाणामात्मनिन्दां च श्रुत्वा, प्रभूतक्रोध विक्षितं मनो नियन्तुमशक्तासन् करिष्यस्येव युद्धम् । नहि प्रकृ तेस्त्वया नियन्तुं शक्यते । न ह्यग्नेरौष्ण्यस्वभाव इन क्षत्त्रस्य शौर्यादिस्वभावोऽन्यथा भवति । यस्मादेवं तस्मान्मिथ्यैव तत्र न योत्स्येऽहमित्येष निश्चयः । तस्मान्मदुपदेशात्प्राग्यत्त्वया निश्चितं न योत्स्य इति तदधुना परित्याज्यमेव । न स्वद्यापि तथैव न योत्स्य इति मन्तव्यमिति भावः ॥६०॥ ३८४ यस्यात् - श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविकसित श्रीशाङ्करभाष्योपताच ईश्वरस्सर्वभूतानां हृदेशेऽर्जुन ! तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥ ईश्वर इति । ईश्वर ईशनशीलः सर्वभूतानां सर्वप्राणिनां हृद्देशे हृदयदेशे, अर्जुन ! शुक्लान्तरात्मस्वभावो विशुद्धान्तःकरण इति- ‘अहथ कृष्ण महरर्जुनं’ चेति दर्शनात्, विष्ठति स्थितिं लभते । तेषु स कथं तिष्ठतीत्याह - भ्रामयन्भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राण्यारूढान्यधिष्ठितानीवेतीवशब्दोऽत्र द्रष्टव्यः । यथा दारुकृतपुरुषादीनि यन्त्रारूढानि मायया छद्मना भ्रामयन् तिष्ठतीति सम्बन्धः ॥ ६१॥ ईश्वर इति । न केवलं प्रकृतिरेव त्वां नियोक्ष्यति किं त्वीश्वरोऽपीत्याह - ईश्वर इति । यद्वावश इत्यनेन न केवलं प्रकृतिपरवशत्वं तवोच्यते, किं त्वीश्वरपरवशत्वमपीत्याह - ईश्वर - इति । अथ वा कुतो मां स्वतन्त्रमीश्वरं प्रकृतिर्नियोक्ष्यतीत्यत आह - ईश्वर इति । हेऽर्जुन ! यन्त्रारूढानि माययेव सर्वभूतानि भ्रामयन् सन्नीश्वरस्सर्वभूतानां हृदेशे तिष्ठति । अर्जुनशब्दार्थमाह – शुक्लेति । शुक्लः परिशुद्धोऽन्तरात्मस्वभावो यस्य स शुक्लान्तरात्मस्वभावः । अस्यैवार्थमाह – विशुद्धान्तःकरण इति । नन्वर्जुनशब्दश्श्वेतवाचीत्यत माह - अहश्चेति । कृष्णमपरिशुद्धं मेघाच्छादनादिनेति भावः । अर्जुनं परिशुद्ध मेघाभावादिनेति भावः । मेघच्छन्नेऽह्नि दुर्दिनशब्दव्यवहारात् । न हि शुक्लकृष्ण- रूपयोगः । तस्मादर्जुनशब्दः परिशुद्धवाची । इदं च सम्बोधनं वेदान्तशास्त्रोपदेशार्हत्वसूचनाय, परिशुद्धान्तःकरणस्य तव मदुक्तार्थग्रहणमुचितमिति सूचनाय वा परिशुद्धान्तःकरणस्य उवोच्छास्त्र- प्रवृत्तिरयुक्तेति सूचनाय वा; परिशुद्धान्तःकरणस्त्वं समाहितेन मनसा हृदेशस्थमीश्वरं साक्षात्कर्तुं क्षमस इति सूचनाय वा । । कानि तानि यन्त्रारूढानीत्यत आह- दारुकृतपुरुषादीनि यन्त्राणीति । दारुकता नि पुरुषादीन्येव यन्त्राणि यन्त्रारूढानीत्युच्यन्त इत्यर्थः । अवयवावयविभावेन यन्त्रे पुरुषादिपुत्रिकाणां सत्त्वाद्यन्त्रावयवनां पुत्रिकाणां यन्त्रत्वं यन्त्रारूढत्वं चेति भावः । यद्वा कानि तानि यन्त्राणीत्यत माह - दारुकृतेति । तदारूढानि तु मनुष्यसत्त्वानि । पुरुषाश्वगंवादिरूपासु यन्त्रस्थासु पुत्रिकासु बालानारोप्य केनचित्कपटेन भ्रामयति हि पुरुषः । अथ वाऽऽरूढानि स्वेनाधिष्ठितानि च तानि यन्त्राणि यन्त्रारूढानि; आहिताग्न्यादित्वान्निष्ठान्तस्य परनिपातः । कानि तानीत्यत आह- दारु- कृतेति । पुरुषाकारामश्वाकारां वृषभाकारां वा कांचित्पुत्रिकां दारुमयीं निर्माय यन्त्रभृतां तां स्वय- मधिष्ठाय केनचिन्मिषेण तद्यन्त्रं भ्रामयति कुशलः । दारुकृतपुरुषादीनि यन्त्रादानीति भाष्यपाठस्तु नागरपुस्तकेषु दृश्यते । तद्वदीश्वरो ब्रह्मादिस्तम्बपर्यन्तं सचेतनं कार्यकरणसङ्घातात्मकं चराचरभूतजात निर्माय तस्य हृदेशे स्थितस्सन् तद्यथास्वभावं तत्रतत्र प्रवर्तयतीत्यर्थः ।मष्टादशोऽध्यायः । ३८५ नन्वपरिच्छिन्नस्य महतो महीयसः परिपूर्णस्य परमेश्वरस्य कथं भूतहृदेशे स्थिति ? परि- मितो हि हृत्पुण्डरीकप्रदेश इतिचेन्नैष दोष:- ‘हृत्पुण्डरीके विमले प्रविष्टश्शास्ता जनानाग’ मिति, ‘अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठतीति च श्रुतेर्मायया रामकृष्णादिसप्तवितस्तिपरिमित काथव- दंगुष्ठपरिमितका योऽपि भवेदीश्वरस्य; तेन च रूपेण हृत्पुण्डरीकस्थितिरुपपद्यत इति । 4 ननु यदि हृत्पुण्डरीके अंगुष्ठमात्रपरिमित ईश्वरस्साकारोऽस्ति तर्हि स दृश्येतैवेतिचेनष दोष:- चक्षुषो बहि: करणस्यान्तस्स्थवस्तुस्वरूपग्रहणासामर्थ्यात् । किं घटादिरिवान्तस्स्थमांसादिकं चक्षुषा गृह्यते ? नन्वेवं मृतभूतशरीरे ईश्वरस्सोऽस्ति वा न वा ? आधे प्रकृतशरीरदाहेन संप्राण- स्यापीश्वरस्य दाहः; तेन चेश्वरस्य महत्कष्टम् । द्वितीये - कस्माद्धेतोर्नास्ति ? नच बहिर्निर्गमनादिति वाच्यं, बहिर्निर्गतस्य तस्य कुतोऽचाक्षुषत्वम् ? किं मृतशरीराद्वहिर्निगतोंगुष्ठमात्रपुरुषः केनापि दृश्यते पार्श्वस्थेन ? नच प्राकृतचक्षुरगोचर इति वाच्यं सन्निपातदोषेण दन्तपंक्तिद्वयसङ्घट्टने सति वक्त्र- मार्गाभावात्केन मार्गेण स पुरुषो निर्गतस्स्यात् ? न हि नेत्रादिमार्ग अंगुष्ठपरिप मिताः । नच गुद- द्वारेण निर्गत इति कल्पयितुं शक्यमश्लीलत्वात् । 37. .. किंच दर्पणमयनीरन्ध्रकरण्डे निक्षिप्तान्प्रियमाणान्मनुष्यान्निर्गतस्य परमेश्वरस्य तस्य कथं दर्पणा- इहिर्गमनं न्त्राभावात् । अपि च- अतिसूक्ष्मेषु कीटादिशरीरेषु हृद्देशस्यात्यरूपत्वात्कथं तत्र ताह- शेश्वरस्थितिः ? तस्मादिह हृदेशे स्थितः पुरुषो नांगुष्ठमात्र इति वक्तुं शक्यते । नच श्रुतेः का गति- रिति वाच्यं, मनुष्यहृद्देशस्यांगुष्ठपरिमितत्वात्तत्स्थस्येश्वरस्यापि तत्परिमितत्वं कल्प्यत एवोपासनार्थ, नतु तात्त्विकमिति । नन्वेवं चेत् — मायावच्छिन्न चैतन्यलक्षणस्सत्त्वादिगुणभेदेन विष्णुब्रग्नरुद्ररूपश्वेश्वरो भूतहृद्देशे तिष्ठतीति बूमः । इदं चोन युक्तम् - किं हृदेशे विष्ण्वादिमूर्तित्रयमस्ति, उत तत्रैका मूर्ति: ? उभयथापि शङ्खचक्रकमण्डलुत्रिशूलादिधराणां गरुडहंसवृषभध्वजानां लक्ष्मी सरस्वती पार्वनी- सहितानां महतां तेषां त्रयाणां देवोत्तमानां स्वल्पे हृत्पुण्डरीके स्थितिर्न घटते । नापि त्रयाणां तेषामनेकको टिभूतजातहृदयस्थितिरुपपद्यते । अनेककोटिविष्ण्वादिमुर्तयस्सन्नीति कल्पनं चायुक्तं– मप्रमाणत्वात् । नापि विशस्यमा नपश्वादिहृत्पुण्डरीके कापि मूर्तिरुपलभ्यते । तस्मात्सत्त्वगुणावच्छिन्नं चैतन्यं विष्णुरिति, रजोगुणावच्छिन्नं ब्रह्मेति, तमोगुणावच्छिन्नं रुद्र इति च नामभिरुच्यते । नतु चैत - न्यस्य कोऽप्याकारः । अत एव विष्ण्वादिशरीरा अस्मदादिशरीरवद्देवादिशरीरखच्च दृश्यत्वाज्जडत्वा- त्परिच्छिन्नत्वाच नैवेश्वरभूताः; किं तर्हि मायावच्छिन्नं चैतन्यमेव- अपरिच्छिन्नत्वादीश्वर इति । नन्वेवमपि मायावच्छिन्न चैतन्यलक्षणेश्वरस्य परिपूर्णस्यापरिच्छिन्नस्य कथं हृद्देशे स्थितिरितिचे- न्मायापरिणामत्वात्सर्वस्य घटाकारपरिणतमृदि गन्ध इव हृदाकारपरिणतमायायामीश्वरोऽस्तीति । एतदपि न युक्तम्– हृद्देशे तिष्ठतीति विशेषवादस्यायुक्तत्वात् । सर्वभूतानां करचरणनखलोमादिष्वपि माया- परिणामेषु दर्शितविधया सत्त्वादीश्वरस्य । किं चानया विषयाऽन्तःकरणस्यापि मायापरिणामत्वेन ica श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्यो पैसा तत्रापीश्वर चैतन्यस्यैव सत्त्वादन्तः करणावच्छिन्नचैतन्यं जीव इति वेदान्तसिद्धान्तविरोधाच । तहमा - दीश्वरस्सर्वभूतानां हृदेशे तिष्ठतीत्येतदनुपपन्नमेवेति पूर्वपक्ष: । अत्रोच्यते - ‘सत्यं ज्ञानमनन्तं ’ झेत्युक्त सत्यज्ञानानन्दलक्षणः परिपूर्णस्सर्वव्यापी परमात्मा नारायणः परमेश्वरः सर्वभूतानां हृद्देशे प्रत्ययूपेग तिष्ठतीति, अन्तःकरणावच्छिन्नं चैतन्यं प्रत्यगि- त्युच्यते । यद्यपि परिपूर्ण चैतन्यं निरुपाधिकं सर्वत्रास्ति । तथापि तदेव चैतन्यमन्तःकरणावच्छिन्न सद्भूतानां हृदि तिष्ठतीति न कोऽपि दोषः नच सर्वान्तरस्य प्रत्यवचैतन्यस्यापि सर्वशरीरावयव- व्यापित्वेन कथं हृदेशे स्थितिरिति वाच्यं अन्तःकरणस्य हृत्पुण्डरीके स्थितत्वा तदवच्छिन्न चैतन्यस्य तत्रैवोपलभ्यमानत्वादुष्टद्देशे स्थितिरुकेति । । यद्वा मायोपाधिको महेश्वर एव हृदेशे प्रत्यभूपेण तिष्ठति । नच मायोपाधिकस्य कथमन्तः- करणोपाधिकत्वमिति वाच्यं वस्त्रावृतायाः क्षुरिकायाः पेटिकावृतत्ववत्तदुपपत्तेः । अविद्यावच्छिन्नमेव चैतन्यं पुनरन्तः करणावच्छिन्नमपि भवतीति वेदान् शास्त्रे दृश्यते हि । अन्तःकरणावच्छिन्नस्यापि प्रतीचो जीवस्येन्द्रियावच्छिन्नत्वं देहावच्छिन्नत्वं च दृश्यते हि पश्याम्यहं मनुष्योऽहमित्यादिव्यवहारात् । न चेश्वरस्यैव कथं जीवत्वमिति वाच्यं, निर्विशेषस्य ब्रह्मणो यथेश्वरत्वं तथैवेश्वरस्यापि जीवत्वमिति शास्त्रकप्रमाणा वयमभ्युपगच्छामः । तथाहि शास्त्रम् ’ तत्सृष्ट्रा तदेवानुप्राविशत् अनेन जीवेनात्म- नानुप्रविश्य’ इत्यादिश्रुतिः; ‘ममैवांशो जीवलोके जीव भूतस्सनातनः, क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत !, ईश्वरो जीवकलया प्रविष्टो भगवा’ नित्येवमादिस्मृतयः ; ‘भगवानेक एवैष सर्वक्षेत्रेष्ववस्थित ’ इति पुराणम् । नच शास्त्रादपि कथमीश्वरस्यानीश्वरजीवत्वमिति वाच्यं, रज्जोरपि सर्पत्वमिव स्थाणो- रपि चोरत्वमिव गगनस्यापि नैल्यमिव सशिरसोऽपि स्वप्ने भिन्नशिरस्कत्वमिव स्थिरस्यापि जलसूर्यकस्य चलनमिवाविद्यावश |दीश्वरस्यापि जीवस्यानीश्वरत्वसम्भवात् । न ह्यनुभवसिद्धं जीवगतमनीश्वरत्वं शास्त्रसिद्धमीश्वरत्वं वा प्रत्याख्यातुं शक्यते केनाप्यास्तिकेन । न चैवं जीवे ईश्वररानीश्वरत्वयो- रनन्यतरस्य निश्चतुमशक्यत्वेनोभया सिद्धिरिति वाच्यं, शास्त्राद्विद्वदनुभवात्सुषुप्त्यादिदृष्टान्ताच; जीवे ईश्वरत्वस्य लोकादविद्वदनु भवाज्जागराच । तस्मिन्ननीश्वरत्वस्य च निश्चेतुं शक्यत्वादेकस्यापि नटस्य दशा भेदात्स्त्रीपुरुषाकारद्वयपरिग्रहव देकस्यापि जीवस्य विद्याऽविद्यादशा भेदेनेश्वरत्वानीश्वरत्वसम्भवाच । तस्मादुपपन्न जीवेश्वराद्वैतं तत्त्वमस्यादिमहावाक्योपदिष्टम् । तथाहि - तदित्यस्येश्वरोऽर्थः ; त्वमित्यस्य जीवोऽर्थः ; असीत्यस्य तयोरैक्यमर्थः । मायावच्छिन्न- चैतन्यलक्षणेश्वरस्यैव पुनरन्तः करणावच्छिनत्वा ज्जीवेश्वराभेदः । तथाऽविद्यादशायां यस्संसारी जीव: स एव विद्यावस्थायामसंसारीश्वर इति जीवेश्वरा मेदः । महाकाशस्य घटाकाश इव जीव ईश्वर- स्यांश इति कृत्वा अंशांशिनोजीवेश्वरयो र्घटाकाशमहाकाशयोरिवा मेदः । बिम्बभूतं मुखं प्रतिबिम्बरूपेण यथा दर्पणे तिष्ठति, तथा बिम्बभूत ईश्वरः प्रतिबिम्बजी वरूपेणान्तःकरणे तिष्ठति; तच्चान्तःकरणं हृद्देशे . तिष्ठतीतीश्वरस्यैव जीवरूपेण भूतहृदेशे स्थितत्वाविम्बप्रतिबिम्बयोर्मुखप्रतिमुख योरिव जीवेश्वरयो- मष्टादशोऽध्यायः । ૮૭. रभेदः । बाह्यचैतन्यमीश्वरः, आन्तरचैतन्यं जीवः । तथा च बाह्याकाशदहराकाशयोरिव जीवेश्वरयो- रमेदः । सोपाधिकचैतन्यं जीवः, निरुपाधिकचैतन्यमीश्वरः । तथा च घटाकाशमहाकाशयोरिव जीवेश्वरयोरभेदः । यथा भोग्यो बाह्मो वायुर्भोक्तृप्राणरूपेणान्तस्तिष्ठति, तथा ज्ञेयं बाह्यं ब्रह्म ज्ञातृ- जीवरूपेण हृद्देशे तिष्ठतीति वायुप्राणयोरिव जीवेश्वरयोरभेदः । नच वायो: प्राणभोग्यत्वं कथमिति बाध्य, सर्पाणामृषीणां च वाताहारत्वात्प्राणस्यैवाहा र भोक्तृत्वाच्चेति । लक्षणापक्षे त्वन्तः करणावच्छिन्नत्वमायावच्छिन्नत्व बिम्बत्वप्रति बिम्बत्वज्ञातृत्व ज्ञेयत्व सर्वज्ञत्व किञ्चि- ज्ञत्वेश्वरत्वानीश्वरत्व संसारित्वासंसारित्व सोपाधिकत्वनिरुपाधिकत्वादिविशेषणांशत्यागेन शुद्धचैतन्यमेक- मेवाद्वितीयं ब्रह्म तत्त्वमसीति वाक्येन लक्ष्यत इति बोध्यम् ।

ननु यद्येवमीश्वरो जीवरूपेण भूतानां हृदि तिष्ठेत्तर्हि नियाम्यनियामकभावासिद्धिजींवेश्वर- द्वयाभावादिति चेन्मैवम् – नेश्वरेण जीवो नियम्यते - ईश्वरस्यैव जीवत्वात् । किंतु जीवरूपेणेश्वरेण कार्यकरणसङ्घातो नियम्यते । जीवेऽस्मिन् देहे सत्येव सङ्घातस्य प्रवृत्तिरस्माद्देहादुत्क्रान्ते त्वप्रवृत्तिरिति दर्शनात् । लौकिकास्तार्किकादयश्च जीवस्वरूपमविदित्वा कार्यकरणसङ्घातं चराचरात्मकं ब्रह्मादि - स्तम्बपर्यन्तं दृश्यमेव सचेतन सर्वे जीवत्वेन प्रतिपद्य जीवा ईश्वरेण नियम्यन्त इत्याहुः । एतत्कार्य- करणसङ्घातेऽहमभिमानादेव वयं केनापि नियमिता इवावशाः प्रवर्तामह इति मन्यन्ते- ‘केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करो’ मीति स्मरणात् । जन्ममरणसुखदुःखादिलक्षणं संसारं चानुभवन्ति । वस्तुतस्तु न जीवस्याविक्रियस्य कापि प्रवृत्तिस्सम्भाव्यते- ‘अव्यक्तोऽयमचिन्त्योऽयमवि- कार्योऽयमुच्यत’ इति युक्तम् । एवं कार्यकरणसङ्घातस्य नानात्वादेव तदभिमानाज्जीवा अप्यनेके इति श्रन्त्या ब्रुवन्ति तार्किकादयः । वस्तुतस्तु जीव एक एव ‘एको देव’ इति मन्त्रवर्णात् ; ईश्व रैकत्वस्य तार्किकादिसम्प्रतिपन्नत्वादीश्वरस्यैव जीवत्वाच्च । तस्मात्कार्य करणसङ्घातात्मकाः प्राणिनो जीवा ईश्वरेण प्रत्यगात्मना नियम्यन्त एव । सर्वान्तरात्मा प्रत्यवपुरुषस्तु नेश्वरेण नियम्यते तस्यै- वेश्वरत्वादिति स्थितम् । 4 नन्वेवं प्रकृते ईश्वरस्सर्वभूतानि भ्रमयतीत्यस्य किमीश्वरो जीवान्नियमयतीत्यर्थः ? उत प्रस्य- गात्मा । कार्यकरणसङ्घातजातं नियमयतीत्यर्थ इति चेत्- उभयथाप्येक एवाभिप्रायः पर्यवस्यति छाविद्वद्दृष्ट्येश्वरो जीवान्नियमयतीत्युक्तेऽपि विद्वद्दृष्टया प्रत्यगात्मा कार्यकरणसङ्घातजातं नियमयती- त्येव सिद्धत्वात् । विद्वदृष्ट्या प्रत्यगात्मा कार्यकरणसङ्घातजातं नियमयतीत्युक्तेऽपि, अविद्वद्दृष्टया जीवानीश्वरो नियमयतीत्येव सिद्धत्वात् । विदुषा हीश्वर यात्मत्वेनाभिमतः; अविदुषा च कार्य- करणसङ्घात व्यात्मत्वेनाभिमतः । न चैक एवात्मा कुत एकेश्वरत्वेन नानासङ्घातत्वेन च गृहीत इति बाभ्यं, एकस्यैव चन्द्रस्य तैमिरिकेण नानाचन्द्रत्वेन निर्मलचक्षुषा एकचन्द्रत्वेन च गृह्यमाणत्वात् । 1 ૨૮૮ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपता एकस्यैव सूर्यस्यास्मदादिभिः प्रकाशरूपत्वेनोलूकैस्तिमिररूपत्वेन च गृह्यमाणत्वात् । तस्माद्विद्यया एकस्यैवात्मन ईश्वरत्वेनाऽविद्यया नानाजीवत्वेन च ग्रहणमुपपद्यते ।

ननु य आत्मानं विद्यया ईश्वरत्वेन गृह्णाति, यश्वाविद्यया नानाजीवत्वेन गृह्णाति सोऽसौ क इति वेदुच्यते — प्रमातेति । स हि वस्तुत आत्मापि सन्नन्तः करण तादाम्याभ्यासात्प्रमाता भवति । अयं चान्तः करणभेदान्नानैवेति ग्रहीतुर्भेदाद्द्महण मेदोपपत्तिः । इमे एव प्रमातारः कार्यकरण- सङ्घाताहमभिमाना जीवा इति व्यवह्रियन्ते- अविद्यावशात् । विद्यया त्वीश्वरात्मका एव चैतन्यात्म- कत्वादिति स्थितं जीवेश्वराद्वैतम् । अविद्यादश ामधिकृत्य प्रोक्तोऽयं श्लोको भगदता, नतु विद्या- दशायां तत्र सर्वभूतानामेवाभावात् । तथाच यान्यविद्यादशायामुपलभ्यमानानि सर्वाणि चराण्यंच- राणि च ब्रह्मादिस्तम्बपर्यन्तानि भूतानि तेषां हृद्देशे प्रत्यभूपेणावस्थित आत्मेश्वरो भ्रामयतीति पर्यवसन्नश्लोकार्थः । यत्तु रामानुजः - ईश्वरोऽन्तर्यामिरूपेणं हृद्देशे तिष्ठन् जीवान् भ्रामयतीति, तदयुक्तम्- यद्यन्तर्यामिरूपं प्रसिद्धं स्यातहीश्वरोऽन्तर्यामिरूपेण तिष्ठतीति वक्तुमुचितम् । न तु तत्प्रसिद्धम् । न हि कस्याप्यन्तर्यामी प्रत्यक्षः । किं त्वनुमेय एव जीवपारतन्त्र्यलिङ्गात् । तस्मात्तस्यान्तर्यामिण ईश्वरस्य रूपं वक्तव्यम् । नच रुक्मवर्णीगुष्ठमात्रः पुरुषोऽन्तर्यामीति वाच्यं दूषितत्वादेतद्वादस्य; ‘अशब्दम स्पर्शमरूपमव्यय ‘मितीश्वरस्य रूपवत्त्वनिषेधाच्च । जीवस्यैव नीरूपत्वे किं पुनरीश्वरस्य नीरूपत्वं वक्तव्यम् ? नच जीवः कृष्णवर्ण ईश्वरश्शुक्लवर्ण इति वाच्यं, सपापनिष्पापपरत्वात्कृष्ण- शुक्कशब्दयोः । नहि देहे देहाद्रच्छन्वा नीलो जीवः कैरपि दृश्यते । तथा श्वेतोऽपीश्वरः । तस्मा- त्सत्यज्ञानानन्दरूप एवान्तर्यामीश्वर इत्यभ्युपेयम् | अभ्युपेते च तथा तदेव सत्यं ज्ञानं जीवस्थापि स्वरूपमिति प्रत्यगात्मन एवान्तर्यामीश्वरत्वं सम्भवतीति कृत्वा तदतिरिक्तान्वर्यामि कल्पनमप्रमाणमनु- भवविरुद्धमनुपपन्नं च । न चान्तर्यामिब्राह्मणं प्रमाणं तस्यापि प्रत्यगात्मपरत्वात् । नापि जीवपारत- ध्यानुभवः प्रमाणं सङ्घातगतत्वात्पारतन्त्र्यस्य । तस्मात्प्रत्यगात्मैवान्तर्यामी | • . अस्य श्लोकस्य श्रीविद्यारण्यस्वामिभिः - यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् सन्नीश्वर- स्सर्वभूतानां हृदेशे तिष्ठतीत्यन्वयमाश्रित्य देहादिपञ्जरं यन्त्रं तदारूढान्यभिमानित्वरूपमारोहं प्राप्तानि कार्यकरणसङ्घातेऽहमिति ममेति चाभिमानयुक्तानीत्यर्थः । सर्वभूतानि सर्वजीवान् मायया त्रिगुणात्मि- कया भ्रामयन्नित्यर्थ उपवर्णितः पञ्चदश्यां ‘देहादिपञ्जरं यन्त्रं तदारोहोऽभिमानिता’ इत्यादिना । रामानुजेनापि देहेन्द्रियावस्थं प्रकृत्याख्यं यन्त्रमारूढानीत्ययमेवार्थ उक्तः । अस्मिन्नर्थेऽपि कार्यकरण- सङ्घाताभिमानिनां सर्वेषां जीवानां प्रमातॄणां यत्स्थानं हृत्पुण्डरीकदेशः तस्मिम् प्रत्यगात्मरूपेणेश्वर- स्न्सिन् कार्यकरणसङ्घातं प्रवर्तयति । तथा प्रवर्तिते सङ्घातेऽहमित्यभिमानसत्त्वाज्जीवास्ते स्वय- श्रीश्वरेण प्रवर्तिता इव मन्यन्त इति तात्पर्य बोध्यम् । मष्टादशोऽध्यायः i तमेव शरणं गच्छ सर्वभावेन भारत !

तत्प्रसादात्परां शान्ति स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥
૨ેટ૨
तमेवेति । तमेवेश्वरं शरणमाश्रयं संसारार्तिहरणार्थं गच्छाऽऽश्रय सर्वभावेन सर्वा- त्मना हे भारत ! भरतान्वय ! ततः तत्प्रसादादीश्वरानुग्रहात्परां प्रकृष्टां शान्तिमुपरति स्थान च मम विष्णोः परमं पदं प्राप्स्यसि शाश्वतं नित्यम् ॥ ६२ ॥
अस्मिन्नन्वये तु केन साधनेनेश्वरस्सर्वभूतानि भ्रामयतीत्याकांक्षा पूरिता माययेत्युक्तत्वात् । कथं भ्रामयतीत्याशङ्का तु न पूरिता । श्रीशङ्करो कान्वये तु कथमित्याशङ्का पूरिता यन्त्रारूढानि माययेवेत्युक्तत्वात् । नच भाष्यकृदन्वयेऽपि करणाकांक्षापूर्त्यभावो न्यूनतावह एवेति वाच्यं, मायाया ईश्वरशक्तित्वात् । ईश्वरो भूतानि भ्रामयतीत्यनेनैवाऽग्निः काष्ठानि दहतीति वच्छखया भ्रामयतीति सिद्धत्वादशक्तस्य भ्रामणासम्भवाच । नच यन्त्रारूढानीत्यस्य सर्वभूतपदाविशेषणीकरणे देहादिपल- राभिमानित्वं सर्वभूतानां न सिध्यतीति वाच्यं, अचेतनानां कार्यकरणसङ्घातानां प्रवर्तकत्वानुपपतेः । सर्वभूतशब्देन सचेतनान्येव कार्यकरणसङ्घातानि ग्रहीतव्यानि । तथा च सति सचेतनानि सर्वभूतानि नाम प्रमातृभिरहमित्यभिमन्यमानाः कार्यकरणसङ्घाता एव । ततश्च कार्यकरणसङ्घाताभिमानिनः प्रमा- तार एव सर्वभूतशब्दार्थ इति सिद्धमेव । तस्माद्यन्त्रारूढानीति विशेषणं व्यर्थमेव सर्वभूतानीत्यस्य । किं चानो नित्यश्शाश्वतश्व प्रमाता भवन्तीति भूतानीति व्युत्पत्त्या भूतशब्द: कार्यवाची न प्रमातार- मजमभिधातुं क्षमते । एवं च सति देहादिपन्न रयन्त्रारूढानि तानि भूतानि कानीत्युक्ते किमुतर श्रीविद्यारण्यस्वामिनाम् ? न किमपि । ततश्च सर्वभूतानीत्यस्य कार्यकरणसङ्घाता सचेतना इत्येवार्थो न्याय्यः । अत एव प्राणिन इत्युक्तमाचार्यैः । एवं कार्यकरणसङ्घातानामेव भ्रमणकथनेन जीवस्य वस्तुतस्तदभाव इति च प्रतीयत इति महान्गुणः । तस्माच्छाकरमेव भाष्यं शङ्करम् । वस्तुतस्तु कुशलो यन्त्रारूढानि माययेव- ईश्वरस्सर्वभूनि मायया भ्रामयन्सन् सर्वभूतानां हृदेशे तिष्ठतीति माययेतिपद- मावर्त्य अन्वेतव्यम् । तथा सति करणाकांक्षा पूर्तिरपि भवति । न च इवशब्दाध्याहारः कुशलशब्दा- घ्याहारश्व दुष्ट इति वाच्यं, सति गुणेऽध्याहारस्यादोषात् । अन्यथा एकवाक्यत्वे यन्त्रारूढानीतिपद- वैयर्थ्यप्रसादति संक्षेपः ॥ ६१ ॥
1
तमेवेति । यदि प्रकृतिर्मा नियोक्ष्यति, यदि चेश्वरो भ्रामयति तर्हि प्रकृतीश्वरद्वयपरतन्त्रस्य मम का गतिरत माह - तमेवेति । हे भारत ! स्वं सर्वभावेनं तमेव शरणं गच्छ तत्प्रसादास्परी शान्ति शाश्वतं स्थानं च प्राप्स्यसि । शरणशब्दार्थमाह - आश्रयमिति । शरणं गच्छेति पद- द्वयार्थमाह- आश्रयेति । किमर्थमाश्रयणमत आह— संसाराविहरणार्थमिति, सर्वात्मनेति । बाचा मनसा बुद्धया चेत्यर्थः । यदीश्वराद्भिन्नोऽहमिति मन्यसे तर्हि संसारस्तव प्राप्नोति देहेन्द्रि यादिसङ्घाततादात्म्याध्यासप्रयुक्तस्सुखदुःख जन्म मरणादिलक्षणः । तस्मात्क्षत्रियोऽयं युवत्याद्यमान त्यक्त्वा ईश्वर एवाहमिति सर्वभावेन प्रत्यगभिन्न परमात्मानमाश्रयस्व । किमस्मादीश्वराश्रयणात्मकंमत
૨૨૦
श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतांसु
माह - तत्प्रसादादिति । एवं सर्वभावेनाश्रितस्य तस्येश्वरस्यानुग्रहा चित्तशुद्धिज्ञानप्राप्त्यादिलक्षणात्, शान्ति संसारोपरमं शाश्वतं स्थानं परं पदं प्रत्यगभिन्नपरमात्मस्वरूपं सचिदानन्दलक्षणं प्राप्स्यसि साक्षात्करिष्यसीत्यर्थः । ब्रह्मैव भविष्यसीति यावत् । तस्मादहं ब्रह्मतीश्वराश्रयणात्सर्व संसार निवृत्ति- पूर्वकं ब्रह्मात्मसाक्षात्कारः फलमित्यर्थः । यद्वाऽहं ब्रह्मतीश्वराश्रयण । ज्जीदन्मुक्तिलक्षणस्संसारो परमः, विदेहमुक्तिलक्षणा ब्रह्मप्राप्तिश्च फलमित्यर्थः ।
ननु प्रकृतिस्त्वां नियोक्ष्यति, ईश्वरस्त्वां प्रेरयति, मदुक्तं न श्रोष्यसिचेद्विनंक्ष्यसि, तस्मा युद्ध कुर्विति पूर्वमुक्त्वा कथमधुना परमेश्वरसमाश्रयणं विधीयते ? ज्ञाननिष्ठालक्षणं कर्मनिष्ठा विरो- भीति चेन्नैष दोष:- मदुक्त विधयेश्वराराधनबुद्धया युद्धं कृत्वा पश्चात्संसारनाशार्थमीश्वरं शरणं गच्छेत्युक्तत्वात् । कर्म निष्ठा हि ज्ञाननिष्ठायास्साधनभूता । न चैवं साध्यसाधकयोर्ज्ञानकर्मणोः कथं विरोध इति वाच्यं, काष्ठद्वयनिर्मथनसाध्यस्याग्नेः काष्ठद्वयदाहदर्शनात् । कर्मभिरुत्पन्नमपि ज्ञानं कर्म- निर्मूलकमेवेति कर्मविरोध्येव ।
यद्वा प्रकृतीश्वरपारतन्त्र्याद्युद्धे प्रवृतोऽपि स्वं तमेवेश्वरं सर्वभावेन शरणं गच्छ; ईश्वरेण क्षत्रियस्य विजितव्यमिति शासितत्वान्मया युद्धं क्रियते तदाराधनार्थे; न तु पृथिवी व जयाद्यैहिकामुष्मिक फलार्थमिति वाचा मनसा बुद्धया चावधारयेत्यर्थः । एवं सर्वभावेनेश्वर- माश्रित्य तदाराधनात्मके स्वकर्मणि युद्धे स्वाया कृते सति तु तस्येश्वरस्य त्वयि महान्प्रसादो भवि व्यति । ततश्व चित्तशुद्धिं सम्यग्दर्शनं च प्राप्य संसारोपरति मोक्षं च प्राप्स्यसीति कर्ममार्गप्रतिपादन- पर एवायं श्लोकः ।
एतेन नाधुनैव तब ज्ञाननिष्ठा प्राप्तियोग्यताऽस्ति; तस्मान्न त्वं ज्ञाननिष्ठां प्रविश; किंतु युद्ध- मधुना यथोक्तरीत्या विधाय तेन ज्ञाननिष्ठाप्राप्तियोग्यो भूत्वा ज्ञाननिष्ठां प्रविशेत्यर्जुनाय श्रीकृष्णोपदेश इति सूचितम् । अत एव ‘नियतं कुरु कर्म त्वं, तस्माद्युध्यस्व भारत !’ इत्यादिवाक्यानि पूर्वाध्याये - पूतानि । अथ वा भवत्वर्जुनस्य ज्ञाननिष्ठाप्राप्तियोग्यतां विनापि युद्धानुष्ठानं तस्येश्वरांशत्वातथापि लोकसंग्रहार्थमप्यर्जुनेन कर्मैवादौ कर्तव्यं ज्ञानहेतुत्वात्कर्मण इत्यभिप्रेत्येत्थमुक्तं भगवता - ‘लोकसंग्रह- मेवापि सम्पश्यन् कर्तुमई’ सीति पूर्वमुक्तत्वात । तस्मान्नार्जुने ज्ञाननिष्ठानईत्वशङ्का कार्येति ।
यत्तु रामानुजः - विष्णोः परं स्थानं वैकुण्ठाख्यं प्राप्स्यसि - ‘तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, ते ह नाक महिमानरसचन्ते यत्र पूर्वे साध्यास्सन्ति देवाः, यत्र ऋषयः प्रथमजा ये पुराणा’ इत्यादिश्रुतिभ्य इति, तदयुक्तम् - सगुणब्रह्मविद्या फलत्वाद्वैकुण्ठलोकप्राप्तेः । बैकुण्ठलोको हि द्विविध:– एकस्सुमेरुशिखरस्थश्शुभ्रपत्न्यां विकुण्ठायां जातेन वैकुण्ठेन भगवता रमायाः प्रियकाम्यया निर्मित: 4 अन्यस्तु ब्रह्माण्डात्परतस्सत्यलोके स्थितः । तत्र सालग्रामार्चनादिभिर्मेरुशिखरस्थ वैकुण्ठलोक- प्राप्तिः । सगुणब्रह्मोपासनेन तु सत्यलोकस्थ वैकुण्ठप्राप्तिः । अयं च सत्यलोक्स्त्रेधा विभिन्न:- सत्यलोक - इति, बैकुण्ठलोक इति, कैलास लोक इति च । तत्र हिरण्यगर्भस्सत्यलोकस्य स्वामी; विष्णुर्वैकुण्ठ- लोकस्य शम्भुः कैलासलोकस्य । श्रयोऽप्यमी देहधारित्वाज्जीवा एवं । परं तु सर्वज्ञा रजस्सत्त्वतमो-
मष्टादशोऽध्यायः 1
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥
इतीति । इत्येतत्त तुभ्यं ज्ञानमाख्यातं कथितं गुह्याद्गोप्याद्गुह्यतरमतिशयेन गुझं रहस्य मित्यर्थः । मया सर्वज्ञेनेश्वरेण । विमृश्य विमर्शनमालोचनं कृत्वा एतद्यथोक्तं शास्त्र- मशेषेण समस्तं यथोक्तं चार्थजातं यथेच्छसि तथा कुरु ॥ ६३॥
गुणवशात्सृष्टिस्थितिलयहेतवः, ईश्वरत्वेन पूज्याः, प्रथमजास्त्रिमूर्तिव्यपदेश्या देवताः । अमीषां स्थाना- न्येव सगुणमुक्तिक्षेत्राणीत्युच्यन्त इति केचित् । ‘हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक आसी’- दिति श्रुतेर्हिरण्यगर्भ एव प्रथमजः । स एव सत्यलोकस्वामी; तस्यैव स्थानं सगुणमुक्तिक्षेत्र सगुण- मुक्तिक्षेत्राणामनेकेषां सत्त्वे प्रमाणाभावादिति परे । सर्वधापि सगुणमुक्तिक्षेत्रसस्वम विद्याभूमावेव नतु विद्याभूमौ । अविद्याविषयत्वात्सर्वद्वैतस्य । नेह नानास्तीत्यादिना विधायां हि सर्वद्वैताभावश्श्रूयते । न विद्याविषयं सगुणमुक्तिक्षेत्रं तत्त्वविदा गम्यते तत्त्वविद्दृष्ट्या तत्क्षेत्रस्यैवाभावात् । अन एव न सगुणमुक्तिक्षेत्रम्य शाश्वतस्वं ब्रह्मातिरिक्तस्य सर्वस्याप्यशाश्वतत्वात् । ‘अजो नित्यश्शाश्वत’ इति परमात्मन एकस्यैव हि शाश्वतत्वमुच्यते । तस्माच्छाश्वतं स्थानं परमात्मैव न बैकुण्ठादिकम् । नन्बाधारवाचिनः स्थानशब्दस्य कथं स्वरूपपरत्वमिति वाच्यं सर्वजगत्कल्पनाधिष्ठानत्वेन सर्वाधारस्य ब्रह्मस्वरूपस्य स्थानशब्दवाच्यत्वसम्भवात् । तिष्ठत्यस्मिन् सर्वं जगदिति स्थानमिति निरुकेः । तस्मा- च्छाश्वतं स्थानं ब्रह्मैव न वैकुण्ठादिकम् । इदमेव ब्रह्म ‘तद्विष्णोः परमं पदं सदा पश्यन्ति सूरय इत्यनेनोच्यते - विद्वद्भिर्नित्यमनुभूयमानत्वाद्ब्रह्मस्वरूपस्य । न हि वैकुण्ठं चक्षुरगोचरं विद्वांसो भूलो- कादिस्था द्रष्टुमर्हन्ति । ‘यत्र पूर्वे साध्यास्सन्ति देवा’ इत्यादिश्रुतयस्तु सगुणमुक्तिक्षेत्रप्रतिपादिका एव । सूरयोऽनन्तगरुडादि नित्यसूभ्यो बैकुण्ठं पश्यन्तीति वर्णनेऽपि नैतावता निर्गुणमुक्तिक्षेत्राभावः । नापि सगुणमुक्तिक्षेत्रस्य शाश्वतत्वमिति संक्षेपः ॥ ६२ ॥
इतीति । इति गुमाद्गुह्यतरं ज्ञानं ते मयाऽऽख्यातम् । एतदशेषेण विमृश्य यथेच्छसि तथा कुरु । इतिशब्दः पूर्वोक्त सर्वशास्त्रर्थपरामर्शीत्याह - एतदिति । अत एव परिसमाप्तिद्योतकमपीतीद- मव्ययं भवति । अतिशयेन गुह्यं गुह्यतरं गुह्याद्गुह्यतरं गुह्यतममित्यर्थः । ’ आयुर्वित गृहच्छिद्रं मन्त्रौ - षषसमागमाः । दानं मानावमानौ च नव गोष्या मनीषिभिरिति वचनादायुरादयो गोप्याः । तत्स- वपेक्षया पीदमध्यात्मज्ञानमतीव गोप्यमिति भावः । ननु त्वयोक्तमपीदमप्रमाणमेवेत्यत आह- सर्वज्ञेनेश्वरेणेति । सर्वज्ञेश्वरोक्तत्वादिदं शास्त्रं परं प्रमाणमित्यर्थः । विमृश्यालोच्येत्यर्थः । यथेच्छसि तथा कुर्वित्यभ्यनुज्ञामात्रेण न युद्धादुपरतिरर्जुनेन कार्या । किंतु यथाशास्त्रं कुर्वित्येव श्रीकृष्णाशया- युद्धमेव कार्यम् । अत एव विमृश्य कुर्वित्युक्तम् । विसृष्टे च शास्त्रे युद्धकरणेच्छेव जायेतार्जुनस्य न तूपरमेच्छा - स्वधर्मः कार्य इति बहुश उष्टष्टत्वात् । तस्माद्यथाशास्त्रं यथेच्छं कुरु ॥६३॥
ક્ર
श्रीभगवद्गीता भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु
तथा भूयोऽपि मयोच्यमानं शृणु-
सर्वगुह्यतमं भूयश्शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् || ६४॥
सर्वेति । सर्वगुह्यतमं सर्वेभ्यो गुह्येभ्योऽत्यन्तरहस्यमुक्तमप्यसकृद्भूयः पुनः शृणु मे मम परमं प्रकृष्टं वचो वाक्यम् । न भयान्नाप्यर्थकारणाद्वा वक्ष्यामि । किं तर्हि १ इष्टः प्रियोऽसि मे मम दृढमव्यभिचारेणेति कृत्वा ततस्तेन कारणेन वक्ष्यामि कथयिष्यामि ते तव हितं परमं ज्ञानप्राप्तिसाधनं तद्धि सर्वहितानां हिततमम् ॥ ६४ ॥
किं तदित्याह –
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥६५॥
मन्मना इति । मन्मना भव; मच्चित्तो भवः मद्भक्तो भवः मद्भजनो भव; मद्याजी मद्यजनशीलो भवः मां नमस्कुरु नमस्कारमपि ममैव कुरु ।
तत्रैव वर्तमानो वासुदेव एव सर्वेति । भूयः सर्वगुह्यतमं परमं मे वचशृणु । त्वं मे दृढमिष्टोऽसीति कृत्वेति शेषः । ततस्ते हितं वक्ष्यामि । विस्तरेणोक्तार्थस्य बुद्धिसौकर्याय संग्रहेण वचनं न्याय्यमिति संग्रहेणोक्त स्थापि भङ्गयन्तरेण बुद्धिसौकर्याय पुनर्वचनं न्याय्यमिति वा हेतोरसकृदुत्तस्याप्यर्थस्य पुनर्वचनम् । ननु किमर्थे त्वं वक्ष्यसि पुनः पुनः किं राज्ञे भृत्य इव भयात् किमुपाध्याय विशष्यायेव धनार्थमिति शङ्कायामाह - न भयादित्यादि । तर्हि किमर्थं वक्ष्यसीति पृच्छसि - किं वहति । उत्तरयति - इष्ट इति, अव्यभिचारेणेति । त्वयि मम प्रीतिः कदाचिदपि न व्यभिचरतीत्यर्थः । धौव्येणेति यावत् । कृत्वेति । मत्वेत्यर्थः । गम्यमानार्थत्वात्कृत्वेत्यस्याप्रयोगः । तेन कारणेनेति । मत्प्रियत्वेन हेतुनेत्यर्थः । कुतस्तद्वचनस्य हितत्वमत आह— विज्ञानप्राप्तिसाधनमिति । विज्ञानमहं ब्रह्मास्मीति सम्यग्ज्ञानं तद्धि मोक्षकारणम् । अत एव तद्धिततममित्याह तद्धीति । तद्विज्ञानप्राप्ति- साधनं वचनमित्यर्थः । विज्ञानमिति वा । सर्वहितानामिति । धर्मादिपुरुषार्थहेतूनां सर्वेषां हितान मध्य इत्यर्थः । हिततममतिशयेन हितं मोक्षस्य परमपुरुषार्थत्वासत्साधनस्य हिततमत्वमिति भावः ॥ ६४ ॥
ਰਥ
मन्मना इति । किं तदिति । तद्वचनमित्यर्थः । त्वं मन्मना भव मद्भक्तो भव; मद्याजी भव; माँ नमस्कुरु मामेवैष्यसि । ते सत्यं प्रतिजाने । यतो मे प्रियोऽसि । मच्छन्दानामत्र प्रत्य- गभिन्नः परमात्मार्थः । मयि मनो यस्य स मन्मना भव । मामेव चिन्तयेत्यर्थः । मद्भको भव मामेव भजख । मधाजी भव मामेव यजख । मां नमस्कुरु नमस्कारः प्रह्वीभावः । आत्मन्यान्तरे इस्वादि- करणकबाह्यनमस्कारायोगेऽपि मानसिक नमस्कारो युज्यत एवेति बोध्यम् । ममैवेत्येवकारान्न तु बाह्य- प्रतिमादीनामिति गम्यते । तत्रेत्यस्यार्थमाह — एवं वर्तमान इति । कथं वर्तमान इत्यत माह-
५०
मष्टादशोऽध्यायः ।
३९३
समर्पित साध्यसाधनप्रयोजनो मामेवैष्यस्यागमिष्यसि । सत्यं ते तव प्रतिजाने सत्य प्रतिज्ञां करोम्येतस्मिन्वस्तुनीत्यर्थः । यतः प्रियोऽसि मे, एवं मम भगवतस्सत्यप्रतिज्ञत्वं बुध्वा भगवद्भक्तेरवश्यंभाविमोक्षफलमवधार्य भगवच्छरणैकपरायणो भवेदिति वाक्यार्थः ॥
कर्मयोगनिष्ठायाः परमरहस्यमीश्वरशरणतामुपसंहृत्य, अथेदानीं कर्मयोगनिष्ठाफलं सम्दग्दर्शनं सर्ववेदान्तसार विहितं वक्तव्यमित्याह —
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥६६॥
14
सर्वेति । सर्वधर्मान् सर्वे च ते धर्याश्च सर्वधर्मास्तान्- धर्मशब्देनाऽवाऽधर्मोऽपि वासुदेव इति । वासुदेवे मध्येव समर्पितानि साध्या भजनयजनादिक्रियाः, साघनानि वान आदी नि करणानि, प्रयोजनानि फलानि स्वर्गादीनि । एतानि साध्यसाधनप्रयोजनानि येन स वासुदेव एव समर्पितसाध्यसाधनप्रयोजनः । त्वं मामेवागमिष्यसि प्राप्स्यसि - मत्सायुज्यं प्राप्स्यसीत्यर्थः । सम्य- ज्ञानोदयद्वारेति भावः । सत्यमिति । मदुक्तमिदं सर्व सत्यमिति ते प्रतिजाने । सत्यं यथा तथा प्रतिजान इति वा । फलितमाह — सत्यां प्रतिज्ञां करोमीति । क प्रतिज्ञां करोषीत्यत आह- एतस्मिन् वस्तुनीति । यथोक्तार्थ इत्यर्थः । मन्मनस्कत्वादिभिस्साघनैस्त्वं मामेवैष्यसीत्ययमर्थ सत्य इति प्रतिज्ञां करोम्यहमिति नात्र स्वयाऽविश्वासः कार्य इति भावः । कुत एवं प्रतिजानासीत्यत आह- यतो मे प्रियोऽसीति । तब मत्प्रियत्वेन त्वद्धिताकांक्षिणा मया तव श्रेयोऽर्थे सत्यप्रतिज्ञा क्रियत इत्यर्थः । योऽर्थो यथा मया प्रतिज्ञायते सोऽर्थस्तथैव भवितुमर्हति, न त्वन्यथा । यस्मादर्द सत्यप्रतिज्ञः - ‘सत्यकामस्सत्यसङ्कल्प’ इति श्रुतेरिति भावः । इदमेवाह - एवमिति भगवद्भक्के- रिति । भगवदाराधनबुद्ध्या स्वकर्मानुष्ठानस्येत्यर्थः । अवश्यंभावीति । ज्ञानप्राप्त्यादिक्रमेणेति भावः । भगवच्छरणैकपरायण इति । भगवानेव शरणमाश्रयो भगवच्छरणं तदेवैकं मुख्यं परमयन प्राप्यं यस्य स तथोक्तः । भगवानेव शरणमेकपरायणं च यस्येति वा । भगवदाश्रयो भगवत्परायणश्च भवेत्यर्थः । साध्यसाधन प्रयोजनानीश्वरे समर्प्य, ईश्वराराधनबुद्धया कर्तव्यं कर्म केवलमिति मत्वा युद्धाख्यं स्वधर्ममनुतिष्ठ । ततः क्रमेण तव परमपदप्राप्तिर्भविष्यतीति परमार्थः । अस्मिन् शास्त्रे कर्म - योगो ज्ञानयोगश्चेति मार्गद्वयं परिनिष्ठितं ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मित्युपक्रम्य तत्रतत्राभ्यस्तमुपसंहर्तव्यं चेह तदेव । भक्तिध्यानयोगादयस्तु मार्गद्वयान्तर्भूता एव । तत्र कर्मयोगोप- संहारपरोऽयं श्लोकः । वक्ष्यमाणस्तु ज्ञानयोगोपसंहारपर इति बोध्यम् ॥ ६५ ॥
सर्वेति । ईश्वरशरणतामिति । ईश्वराराघनबुद्ध्या सर्वे क्रियाकारकफलजातमीश्वरे समर्प्य कर्मानुष्ठानरूपामिति भावः । सम्यग्दर्शनमिति । ज्ञानयोग निष्ठेत्यर्थः । सर्वेति । सर्वेषां वेदा- न्वानामुपनिषदां साराणि सारभूतानि वाक्याने तैर्विहेतं सर्ववेदान्पारवे गी ॥शाले विहे ।-
१९४
श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु
गृह्यते नैष्कर्म्यस्य विवक्षितत्वात् । ‘नाविरतो दुश्चरितात्’, ‘त्यज धर्ममधर्म’ चेत्यादि- मिति वा । सर्ववेदान्तसारभूतमित्यर्थः । वक्तव्यमिति । उपसंहारप्रकरणे इति भावः । इति मत्वेति शेषः । आह भगवान् - ‘सर्वधर्मा’ निति श्लोकम् । अयं हि सर्वस्य गीताशास्त्रस्य चरम - श्लोकः । ’ अशोच्यानन्वशोचस्त्व’ मिति तु प्रथम श्लोकः । त्वं सर्वधर्मान्परित्यज्य एकं मां शरणं व्रज, अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि त्वं मा शुचः ।
.
ननु ज्ञानकर्मयोगयोर्युगपदेकेनानुष्ठातुमराव स्वात्कथमर्जुनं प्रति योगद्वयविधानमिति चेन्नैष दोष:- अर्जुनं निमित्तीकृत्य लोकत्रयोपकारार्थं हि गीताशास्त्रं प्रवर्तितं कृष्णेन । तथाच वचनं साम्प्रदायिकानाम्– ‘सारथ्यमर्जुनस्याजौ कुर्वन् गीतामृतं ददौ । लोकत्रयोपकाराय तस्मै कृष्णात्मने नम’ इति । तथाच कर्मनिष्ठायोग्यानुद्दिश्य कर्मनिष्ठोक्ता पूर्वश्लोकेन । ज्ञाननिष्ठा योग्यानुद्दिश्य तु ज्ञाननिष्ठोच्यतेऽनेनेति । यद्वा एकेन युगपद्योगद्वयमनुष्ठातुमशक्यमपि कर्मयोगानन्तरं ज्ञानयोगोऽनुष्ठा शक्यत एवेऽर्जुनायापि मार्गद्वयोपदेशो युक्त एव । प्रथमतः कर्मयोगं कुरु, ततश्चित्ते शुद्धे सति ज्ञान- योगं कुर्विति । अत एव प्रथमतः कर्मयोग एवोपसंहृतः, नतु ज्ञानयोग इति ।
सर्वधर्मानिति । कार्यनियोगापूर्वापरपर्यायो यज्ञादिजन्यस्सुकतात्मक संस्कारो धर्मः । तद्धेतुत्वा- द्यज्ञादिकर्माण्यपि धर्मा एव । अविहितकर्मजन्यं दुष्कृतमधर्मः । तद्धेतुनि दुष्टकर्माण्यप्यधर्मा एव । सर्वधर्मान् परित्यज्येत्यनेन सर्वाधर्मकरणे प्राप्ते तस्य च नरकहेतुत्वेन दुष्टत्वादिह मोक्षशास्त्रे तादृश- विपरीतार्थकथनस्यायुक्तत्वादाह - अधर्मोऽपीति । धर्मशब्दो ऽत्रा धर्ममप्युपलक्ष्यतीत्यर्थः । येनास्ति - केन मुमुक्षुणा विदुषा सर्वे धर्माः परित्याज्याः किंपुनस्तेनाधर्मः परित्याज्य इति वक्तव्यमित्यर्थापत्तिसिद्ध- सर्वाधर्मपरित्याग इति वा भावः । धर्मशब्दोऽत्र लक्षणया कर्ममात्रं बोधयति, ततश्च विहितप्रतिषिद्ध- धर्माधर्मलाभ इति वा । धर्मशब्दोऽभिधया विहितकर्मबोधकस्सन् लक्षणया स्वप्रतियोगिनमधर्ममपि बोधयतीति वा । धर्मानिति बहुवचनेनैव सर्वधर्मार्थसिद्धौ सर्वशब्दानर्थक्यप्रसङ्गात्सर्वशब्दबले नाधर्म- सिद्धिरिति वा । वस्तुतस्त्वास्तिकस्य वैदिकस्य कर्मिणोऽधर्मपरित्यागो धर्मस्वीकारश्च पूर्वतन्त्रेणैव विहितः । अनेन तूत्तरतन्त्रेण तस्यैव मुमुक्षोश्शमदमादिसाधनसम्पन्नस्य ब्रह्मविचाराधिकारिणः पूर्वतन्त्रप्राप्त सर्वधर्म- परित्याग एव विधेयः । अधर्मपरित्यागस्य पूर्वतन्त्रेणैव कृतत्वात् । अत एव भगवता बादरायणेन– ‘सर्वधर्मान् परित्यज्ये’ त्युक्तं ; अन्यथा धर्माधर्मान् परित्यज्येत्येवोध्येत । सर्वधर्मान्परित्यज्येत्यनेन मन्द- मतीनामधर्मकरणं प्राप्तमिति बुद्धिस्स्यादिति तद्वारणाय धर्मशब्देनात्राऽधर्मोऽपि गृहत इति भाष्य- कारैरुक्तमिति बोध्यम् । सर्वधर्मा नित्यनैमित्तिककाम्यरूपाः । अधर्मस्तु हिंसादिरूपः । धर्मपरित्यागस्यैव व्यासेन कण्ठत उक्तत्वात्कथं त्वयाऽधर्मोऽपि परित्याज्य इत्युच्यतेऽत आह नैष्कर्म्यस्येति । नैष्कर्म्य सर्वकर्म सन्न्यासः । न हि धर्मान् परित्यज्याऽधर्मे क्रियमाणे सति पुरुषो निष्कर्मा स्यात् । ननु नैष्कर्म्यं विवक्षितं सर्वधर्मान् परित्यज्येतिवाक्येन व्यासेनेति कथं व्यासहृदयं ननु सर्व-अष्टादशोऽध्यायः । કું. श्रुतिस्मृतिभ्यः सर्वधर्मान् परित्यज्य सन्न्यस्य सर्वकर्माणीत्येतत् । मामेकं सर्वात्मानं समं सर्वभूतस्थितमीश्वरमच्युतं गर्भजन्मजरामरणवर्जितं ‘अहमेव ’ इत्येवमेकं शरणं व्रज; न मत्तोऽ- स्वया ज्ञायतेऽत आह-नाविरत इति । ‘नाविरतो दुधरितान्नाशान्तो नासमाहित’ इत्यत्र दुश्चरिता- दधर्मान्नाविरतो विश्व उपरतो न भवतीत्यविरतः स न भवतीति नांविरतोऽत्यन्तं विरत इत्यर्थः । इत्यधर्मत्यागस्य विहितत्वात् । तथा ‘त्यज धर्ममधर्म च उभे सत्यानृते त्यज’ इत्यत्राप्यधर्मं त्यजे- स्यधर्मत्यागस्य विहितत्वात् श्रुतिस्मृतिविरुद्धमर्थं कथं व्यासो ब्रूयान्न कथमपीति भावः ।

अथ सर्वधर्मान् परित्यज्येत्यस्य फलितार्थमाह – सन्न्यस्य सर्वकर्माणीति । सर्वकर्म सन्न्यास कृत्वेत्यर्थः । अन्यथा वक्ष्यमाणेश्वरशरणागतिरूपज्ञाननिष्ठाऽसम्भवादिति भावः । नहि कर्म कुर्वाणस्य क्रियाकारकादिद्वैतदर्शिनोऽज्ञस्य ज्ञाननिष्ठा ब्रह्माहमद्वितीयमस्मीत्येवंरूपा भवितुमर्हति । अत उक्तम्– सर्वधर्मान्परित्यज्येति । अत एव भाष्यकृद्भिस्तस्मात्सर्वकर्म सन्न्यासेनैव ज्ञाननिष्ठा कार्येति सिद्ध- मित्युक्तं भक्त्या मामभिजानातीति श्लोकभाष्यान्ते । तस्माद्ज्ञाननिष्ठाया अन्तरङ्गसाधनं सर्वकर्म- सन्न्यासः । अत एव ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साङ्खयानां कर्मयोगेन योगिना’ मित्युक्तं भगवताऽऽदावेव । साङ्ख्या विद्वांसः सर्वकर्मसन्यासिन इति प्रपञ्चित बहुधा प्राक्- ‘कथं स पुरुषः पार्थ! कं घातयति हन्ति कम्?, सर्वकर्माणि सन्न्यस्य, नैव कुर्वन्न कारयन्, सर्वारम्भपरित्या’ गीत्यादिभिर्ज्ञानिनां कर्माभावस्योक्तत्वात् । एतदिति । यावदित्यर्थः । 1 " मामित्यस्यार्थमाह – ईश्वरमिति । ननु मामित्यस्यैकमिति विशेषण विरुद्धं, ईश्वरस्य ब्रह्म- विष्ण्वादिभेदेनानेकत्वादत आह- सर्वात्मानमिति । सर्वस्यापि ब्रह्मादिस्तम्बपर्यन्तस्य ब्रह्मविष्णु- रुद्रगणपति कुमारलक्ष्मी सरस्वतीप्रमुखस्य च कार्यकरणसङ्घातात्मकस्य सचेतनस्य, अचेतनानां च : मृत्पाषाण लोहादीनां पृथिव्यादिभूतानां शब्दादीनां च किं बहुना समूर्तस्यामृर्तस्य च सर्वस्य जगतो दृश्यस्यात्मानमात्मभूतमत एवं समं निर्विशेषम् । कुतोऽस्य सर्वात्मत्वमत आह- सर्वभूतस्थ- मिति । सर्वेषु भूतेषु ब्रह्मादिस्तम्बपर्यन्तेषु विष्णुरुद्रादिषु चोक्तेषु प्राणिषु; अचेतनेषु च पृथिव्यादि-: भूतेषु भौतिकेषु चाचेतनेषु किं बहुना सर्वेष्वपि चेतनाचेतनात्मकेषु कार्येषु तिष्ठतीति सर्वभूतस्थः तम् । सर्वव्यापित्वादिति भावः । भवन्तीति भूतानीति व्युत्पत्त्या कार्यवा चित्वाद्भूतशब्दस्य । कार्ये कारणसत्यं कार्यस्य कारणात्मकत्वं च मृद्घटादिषु दृष्टमिति परमकारणस्य परमात्मनस्सर्वभूतस्थत्वं सर्वभूतात्मत्वं चोपपद्यते - सर्वभूतानामीश्वर कार्यत्वेनेश्वरात्मकत्वात् । ‘यतो वा इमानि भूतानि जायन्त’ इति श्रुतिरीश्वरस्य कारणत्वं, ‘न चास्य कश्चिज्जनि’ तेत्यादिश्रुतिरीश्वरस्याकार्यत्वं च ब्रूत इति परम- कारणं हीश्वरः । तस्माद्धादिस्वकार्याणां यथा मृत्तिकैवात्मा घटादिषु चास्ति, तथा स्वकार्याणां सर्वभूतानामीश्वर एवात्मा । स च सर्वभूतेष्वस्तीत्यत उक्तं- सर्वात्मानं सर्वभूतस्थमिति । ननु मृद्धटयोर्जाड्यादिसलक्षणत्वाद्धटानामात्मा भवितुमर्हति मृत्तिका । मृदूपो हि घटो दृश्यते; आत्मा हि नाम स्वरूपं, घटस्य च मृदेव स्वरूपं - मृदतिरिक्तघटपदार्थाभावात् । नैवमीश्वर- ३९६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपता सु

न्यदस्तीत्यवधारयेत्यर्थः । अहं त्वा त्वामेवं निश्चितबुद्धिं सर्वपापेभ्यस्सर्वधर्माधर्मबन्धन- जगतोरसालक्षण्यं येन जगत ईश्वर आत्मा स्यात् । ईश्वरो हि सत्यज्ञानानन्दरूपः; जगदनृतजडदुःख- रूपम् । तस्माज्जगदात्मत्वमीश्वरस्य, ईश्वरात्मकत्वं वा जगतो नोपपद्यते । एवमीश्वरात्मकत्वाभावादेव जगतो जगदीश्वरयोः कार्यकारणभावोऽपि नोपपद्यते । ततश्च सर्वभूतस्थत्वमपीश्वरस्य नोपपद्यत इति चेत्, मैवम् - यतोवेत्यादिश्रुतिप्रामाण्याद्वज्जुसर्पादिदृष्टान्ताच्च, स्वप्नरथगजाद्यनुभवाच्च विवर्तवादा- श्रयणेन ईश्वरविवर्तभूतस्य जगत ईश्वरात्मकत्व सम्भवात्कारणेश्वरधर्माणां सच्चिदानन्दानां जगत्यनुगम- दर्शनाज्जगदस्ति भाति प्रियं चेति व्यवहारात् । तस्माज्जगतस्स्वरूपं सच्चिदानन्द ईश्वर एव यथा सर्पस्य स्वरूपं रज्जुः । रज्जौ सर्पस्येव जगत ईश्वरे मायया कल्पित्वादत एव रज्जुयाथात्म्यविदां सर्पो यथा न प्रतिभाति ब्रह्मविदां जगत्तथा न प्रतिभाति सच्चिदानन्दब्रह्मातिरिक्तजगत्पदार्थाभावा- द्रज्ज्वतिरिक्त सर्पपदार्थाभाववत् । नचैवं विदुषां व्यवहारलोपप्रसङ्ग इति वाच्यं, यांव देहपातमविद्याया लेशतस्सत्त्वादुद्वैतप्रतीति सत्त्वेऽपि विदुषां तत्सर्वं ब्रह्मैदाभाति- ‘वासुदेवस्सर्वमिति स महात्मा सुदुर्लभ’ इत्युक्तम् । तस्मान्न व्यवहारलोपप्रसङ्गः- नापि ब्रह्मातिरिक्तजगत्पदार्थानुभवश्च विदुषामिति स एष सर्वोर्थ: पूर्वमेव विस्तरेणोक्त इतीहोपरम्यते । 1 ईश्वरमिति । देहेन्द्रियादीशनशीलं चैतन्यरूपं परमात्मानमित्यर्थः । शरणं व्रजेति । कथं शरणागतिरत माह - अहमेवेत्येवमिति । अहमेवेश्वर इत्येवमित्यर्थः । ननु मामेव शरणं व्रजे- त्यनेनैवेष्टसिद्धौ किं फलमेकग्रहणेनेत्यत आह-नेति । ईश्वर एक एवास्ति, स एवाहमस्मि, मत्त ईश्वरादन्यत्किमपि नास्तीत्यवधारय - निश्चयेन जानीहि ; यद्वा मामेकं शरणं व्रजेत्यस्य फलितमाह– नेति । ईश्वरोऽहमेक एवास्मि नतु मत्तोऽन्यत्किमप्यस्तीत्यवधारयेत्यर्थः । ’ तत्सत्यं स आत्मा, तत्त्वमसि, अलोऽन्यदार्त’ मित्यादिश्रुतिभ्यः, मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय !’, क्षेत्रज्ञ चाषि मां विद्धि’, ’ अहमात्मा गुडाकेश ! सर्वभूताशयस्स्थित’ इत्यादिस्मृतिभ्यः, ‘न वासुदेवात्परमस्ति किश्चित् तस्मान्न विज्ञानमृतेस्ति किंचि’ दित्यादिपुराणाच कारणातिरिक्तं कार्यं नास्ति- मृदतिरिक्त- घटादर्शनात्, रज्ज्वतिरिक्त सर्पादर्शनात् । एवं परमकारणादीश्वरादतिरिक्तं कार्यं जगन्नास्ति, ईश्वरे’ उपलभ्यमानौ नामाकारौ तु मिथ्याभूतावेव । मृद्युपलभ्यमानघटनामकम्बुग्रीवा कारयोर्मिथ्यात्वदर्शना - M दत एव ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य’ मिति श्रुतिरपि सङ्गच्छत इत्यानुमानाच्च । सुषुप्त्यादौ द्वैताभावस्य सर्वानुभवसिद्धत्वादनुभवित्रभावे अनुभवासिद्धेश्व स्वात्मैक एवास्ति, नतु द्वैत- मित्यनुभवाच नेश्वरादन्यदस्तीति भावः । यदुक्तं- ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ इति सस्य फलमुच्यते — महं त्वामित्युत्तरार्धेनाहं प्रत्यगभिन्नः परमात्मा त्वामेवं पूर्वोक्तविधया ब्रह्मैवाह- मस्मीति, न मत्तोऽन्यदस्तीति च निश्चिताऽवधारिता बुद्धिर्यस्य तं निश्चितबुद्धि त्वां प्रमावारमित्यर्थः । तस्यैव देहादितादात्म्याभ्यासप्रयुक्त संसारान्मुमुक्षुत्वात्केवलात्मनो मोक्षेच्छाद्ययोगाच्चेति भावः । सर्व- पापेभ्य इति । बन्धकत्वात्पापवत्पुण्यमपि पापमेव । अतः पापशब्दोऽत्र पुण्यपापोभयपर इत्यभिप्रे- स्याह – सर्वधर्मेति । सर्वेभ्यो धर्माधर्मात्मकेभ्यो बन्धनरूपेभ्यो बन्धनमेव रूपं येषां तेभ्यस्सर्वपापेभ्यः अष्टादशोऽध्यायः । ફો रूपेभ्यो मोक्षयिष्यमि स्वात्मभावप्रकाशीकरणेन । उक्तं च- ‘नाशयाम्यात्मभावस्थ ज्ञान- दीपेन भास्वता’ इति । अतो मा शुचश्शोक माकार्षीरित्यर्थः । यद्वा बन्नन्तीति बन्धनानि धर्माधर्मा एव बन्धनानि धर्माधर्मबन्धनानि सर्वाणि च तानि धर्माधर्म- बन्धनानि च सर्वधर्माधर्मबन्धनानि तद्रूपेभ्यो बन्धकेभ्यो धर्माधर्मरूपेभ्यो सर्वेभ्यः पापेभ्य इत्यर्थः । मोक्षयिष्यामि त्याजयिष्यामि सर्वपापविनिर्मुक्तं करिष्यामीत्यर्थः । यदि धर्माः क्रियेरम् तर्हि पुण्य- बन्घस्स्यात् ; यद्यधर्माः क्रियेरन् तर्हि पापबन्धस्स्यात् ; यदि विहितानि न क्रियेरन् तथापि पापबन्ध- स्स्यात्तस्मात्सर्वान्धर्मानधर्माश्च परित्यज्य ईश्वरशरणागतौ कृतायां सत्यां पुण्यपापबन्धविनिर्मुक्तिर्भविष्यति मुमुक्षोः । ईश्वरशरणागतिरूपज्ञाननिष्ठाधिकृतस्य विहिताकरणजन्य दोषाभावाद्यथाविधि सर्वे कर्म सन्न्यस्य हि ज्ञाननिष्ठायामधिकरोति पुरुषः । तस्मात्सर्वधर्म परित्यागेश्वरशरणागतिभ्यां सर्वपुण्यपाप- रूपबन्धविमुक्तिस्सुलभा मुमुक्षोरिति भावः । इदं च सर्वपापविनिर्मुक्तिरूपं मया दास्यमानं फलं तब न स्वर्गादिवद्देहपातानन्तरानुभव विषयं किं तहींहैवानुभूतते । सर्वपापविनिर्मुकपरिशुद्धसच्चिदानन्द- स्वात्मसाक्षात्कारस्येव जायमानत्वादहं ब्रह्मास्मीत्यात्मस्वरूपानुसन्धानवतः पुरुषस्य । तस्मात्स आत्म- साक्षात्कारस्तव यथा स्यात्तथाऽहं तव स्वात्मभावप्रकाशं कृत्वा तेन द्वारा त्वां सर्वपापेभ्यो मोक्षयिष्या- मीत्याह – स्वात्मभावप्रकाशकरणेनेति । स्वस्य तवात्मभावो बुद्धिरूपः पदार्थस्तस्य प्रकाशस्तत्त्वो- त्कर्षकृत स्वच्छस्वं तस्य करणेन हेतुना । सत्त्वगुणात्प्रकाशमानया हि बुद्धया दृश्यते स्वात्मा – ‘दृश्यते त्वम्यया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभि’ रितिश्रुतेः । स्वोक्तार्थे भगवदुक्ति प्रमाणयति–उक्तं चेति, नाशयामीति । अहमज्ञानजं तम इति पूर्वमुक्तं तमो नाशयामीत्यर्थः । ज्ञानदीपेनेति । अहं ब्रह्मेत्याकारक बुद्धिवृत्तिरूपदीपेनेत्यर्थः । सर्वे कर्म सन्न्यस्य यो ज्ञाननिष्ठामभ्यस्यति तस्य बुद्धि- स्वगुणोत्कर्षादतीव प्रसन्ना एकामा भूत्वाऽहं ब्रह्मास्मीत्यखण्ड चैतन्याकारेण परिणमते, तत आत्म- साक्षात्कारो जायते । साक्षात्कृते चात्मनि सर्वद्वैतोपमर्दाक्क पुण्यपापसद्भावः ? क वा वत्तो बन्धः ? तस्मान्मुक्त एव त्वं भविष्यसि - नित्यशुद्धबुद्धमुक्तत्वादात्मस्वरूपस्येति भावः । एतेन सर्वधर्म परित्यागपूर्वकेश्वर शरणागत्या स्वात्मभावप्रकाशकरणरूप ईश्वरानुग्रहः फलं; मोक्षस्तु नित्यसिद्धत्वान्नैव फलं; न हीतः प्रागात्माऽसङ्गः पुण्यपापबद्धो येनेदानीं मुच्येतेति सिद्धम् । स्वात्मभावप्रकाशकरण मित्यस्य स्वात्मनस्स्वस्य प्रतीचो यो भावस्सच्चिदानन्दस्वभावस्तत्त्वमिति यावत् । तस्य प्रकाशकरणं बोधनं तेनेत्यप्यर्थ आयाति । भावस्तु स एव । ईश्वरानुग्रहा दूबुद्धेरात्मैकायं भवतीति पूर्वोक्तार्थस्यापी हैव तात्पर्यात् । ततश्च सर्वधर्मान् परित्यज्याहं ब्रह्मास्मीत्यनिश चिन्तयतः पुरुषस्येश्वरानुग्रहादात्मसाक्षात्कारो जायत इति सिद्धम् । अयं चेश्वरानुग्रहो नाम अनवरत प्रत्यगा त्माश्रयवशाद्बुद्धेः प्राप्तं यदात्मैकाग्र्यं तत्प्रत्यगात्मानुग्रहकृतमेवेत्यभिप्रायादुक्तः प्रत्यगात्मानुग्रह एव, न त्वन्यः - अद्वैतज्ञाने तदयोगात्; प्रत्यगात्मातिरिक्तेश्वरपदार्थासत्त्वाच्च । अत इति । यस्मादह सम्यग्दर्शनप्रदानद्वारा त्वामेवं ज्ञाननिष्ठं सर्वकर्मसन्यासिनं मोक्षयिष्यामि तस्मादित्यर्थः । मा शुच T ૨૨૮ श्रीभगवद्गीतासु- माष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतासु अस्मिन्गीताशास्त्रे परं निःश्रेयससाधनं निश्चितं किं ज्ञानं, किं कर्म वा, आहोस्वि- दुभयमिति, कुतस्संशयः ? ‘यज्ञात्वाऽमृतमश्नुते ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तर- मित्यादीनि वाक्यानि केवलाद्ज्ञानान्निःश्रेयसप्राप्तिं दर्शयन्ति । ‘कर्मण्येवाधिकारस्ते, कुरु इति । मा खिद्यस्व । शोकमिति । कथमहमिमं संसारं तरिष्यामीत्येवंरूपमिति भावः । मा कार्षी- रिति । तवात्मनोऽसंसारीश्वरत्वात्सर्वकर्म सन्न्यासपूर्वकात्मज्ञाननिष्ठा या स्वात्मसाक्षात्कारसम्भवाच्चेति भावः । न च कथमात्मज्ञाननिष्ठाकृतात्मसाक्षात्कारमात्रेण संसारोपरम इति वाच्यं प्रमातुरस्यात्म- तत्त्वसाक्षात्काराभावरूपाज्ञानादनात्मन्यात्मवादात्म्याभ्यासमूलकस्संसारो य आसीत्कथं तस्यात्मतत्त्व- साक्षात्काररूपाद्ज्ञानादनिवृत्ति: : किं रज्जुस्वरूपाज्ञानकृतसर्पाभासो रज्जुखरूपसाक्षात्काराद निवृत्तो दृश्यते ! किं निर्धन देवदत्तस्वरूपाज्ञामकृतो नैद्राकालिको महाराजात्मभ्रमः प्रबोधेऽपि देवदत्तस्य भवितुमर्हति ? किं देहातिरिक्तकर्तृभोक्त्रात्माज्ञानकृतो देहात्मा मस्सत्यपि देहातिरिक्तकर्तृभोक्त्रात्म ज्ञाने वैदिकस्यास्तिकस्य भवितुमर्हति नास्तिकवद्वालवच्च तस्मादसंसारीश्वरात्मस्वरूप साक्षात्कारादेव संसारनिवृत्तिः, नान्यस्मादुषा याद्भवति । अत एव ‘तरति शोकगात्मवि’ दितिश्रुतिरात्मज्ञानदेव शोक- निवृत्तिं ब्रूते । अत एव ‘नान्यः पन्था विद्यतेऽयना’ येत्यात्मज्ञानस्यैव मोक्षहेतुत्वमुक्तम् । मोक्षो हि संसारबन्धनिवृत्तिः । तस्मादीश्वरात्मज्ञानादेव मोक्ष इति स्थितमद्वैतम् । ननु ज्ञानादेव मोक्ष इति योंऽशस्तवा द्वैतिनोऽभिमतस्सोऽयं न सिध्यति । प्रकृतगीताशास्त्र भवताऽस्यांशस्य निष्कृष्या नुक्तत्वादिति शङ्कायां तमेवांश स्थापयितुं विचारमारभते किमस्मिन्नित्यादिना सम्यग्दर्शनादत्यन्तोपरम इति सिद्धमित्यन्तेन ग्रन्थेन । अस्मिन्गीताशास्त्रे निश्चितं परं निश्श्रेयस- साधनं किमित्यन्वयः । अस्मिन्गीताशास्त्र मोक्षसाधनत्वेन निश्चितं वस्तु किमित्यर्थः । प्रश्नमेवानुं विकल्प- यति - किं ज्ञानमित्यादिना । अस्मिन् शास्त्रे किं ज्ञानं परं निश्श्रेयससाधनमिति निश्चितं यद्वा कर्म, अहोस्विदुभयं कर्मज्ञानद्वयमिति त्रेधा विकल्पः । एवं विकल्पनस्य संशयपूर्वकत्वात्संशयहेतुं पृच्छति - कुतस्संशय इति । कचिदज्ञानान्मोक्ष इति प्रतिपादनात्कचित्पुनः कर्मणा मोक्ष इति प्रतिपादनाच संशय इत्याह– यज्ञात्वेति । इत्यादीनीत्यादिपदात्- ‘यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत !’, ‘नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति’, ‘क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परं’, ‘य एवं वेति पुरुषं प्रकृति च गुणैस्सह । सर्वधा वर्तमानोऽपि न स भूयोऽभिजायते’, ‘ज्ञानवान्मां प्रपद्यते’, ‘ज्ञावा मां शान्तिमृच्छति’, ‘ज्ञानं लब्ध्वा परां शान्तिमचिरे- णाधिगच्छ’ तीत्यादीनि वाक्यानि ब्राह्माणि । तस्मात्त्वमित्यादीनी त्या दिपदास्तु- ‘कर्मणैव हि संसिद्धि- मास्थिता जनकादयः, मत्कर्मकुन्मत्परमः, स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः, असक्तो ह्याचरन् कर्म परमाप्नोति पूरुष’ इत्यादीनि प्रायाणि । नन्वेवं श्रेयसाधनं किं ज्ञानमुत कर्मेति भवेत्संशयः । कथं पुनः किमुभयमिति संशयो भवे- अष्टादशोऽध्यायः । ३९९ कर्मैव’ इत्येवमादीनि कर्मणामवश्यकर्तव्यतां दर्शयन्ति । एवं ज्ञानकर्मणोः कर्तव्यत्वोप- देशात्समुच्चितयोरपि निश्श्रेयसहेतुत्वं स्यादिति भवेत्संशयः कस्यचित् । किं पुनरल मीमांसाफलम् ? नन्वेतदेवैषामन्यतमस्य परमनिश्श्रेयससाधनत्वावधारणं; अतो निस्तीर्णतमं मीमांस्यमेतत् । आत्मज्ञानस्य तु केवलस्य निश्श्रेयसहेतुत्वं भेदप्रत्यय निवर्तकत्वेन कैवल्यफलाव- सानत्वात् । क्रियाकारक फलभेदबुद्धिरविद्ययाऽऽत्मनि नित्यप्रवृत्ता- ‘मम कर्म, अहं कर्ता- दत आह- एवमिति । ज्ञानकर्मणोरप्युभयोः कर्तव्यत्वोपदेशादुभयमपि श्रेयस्साधनमिति संशयः स्यादित्यर्थः । ननु भवतु संशयः किमत्र तद्विचारेण फलमिति पृच्छति - किं पुनरिति । उत्तरयति– नन्वेतदेवेति । नन्विति प्रष्टुसम्बोधनम् । वाक्यालङ्कारे वा । एतदेव फलं किं तदत आह- एषामिति । एषां त्रयाणामन्यतमस्य परमनिश्श्रेयससाधनत्वावधारणमेव फलम् । विचारात्त्रयाणां मध्ये एकस्य मोक्षसाधनत्वं निश्चितं भवतीत्यर्थः । अत इति । अन्यतमस्य निश्श्रेयससाधनत्वधारणार्थ- मित्यर्थः । एतत्पूर्वोक्तांश इत्यर्थः । विकल्पत्रयात्मक इति भावः । मीमांस्य विचार्य कथं मीमांस्य- भत आह- निस्तीर्णतममिति । अतिशयेन निस्तीर्ण निश्चितं यथा भवति तथा । सति तु संशये मुमुक्षोर्निश्वयाभावात्काप्यप्रवृत्तिस्स्यादिति संशयनिरासाय विचार आवश्यक इति भावः । ननु किं निर्धारणेन ? त्रयाणामपि मोक्षसाधनत्वाद्यथाबुद्धि यथाशक्ति च पुरुषोऽन्यतम- मनुष्ठाय मोक्ष प्राप्स्यसीतिचेन्मैवम् – ज्ञानस्यैकस्यैव मोक्षसाधनत्वात्कर्मणो मोक्षासाघनत्वात्समुच्चय- स्यासिद्धत्वाद्ज्ञानमेकमेव मोक्षसाधनमिति निर्धारणमावश्यकमेव । अनिर्धारिते ह्यस्मिन्नंशे कर्मापि मोक्षसाधनमिति मत्वा मुमुक्षुः कर्मणि प्रवर्त्य मोक्षपुरुषार्थाद्धीयेत । अथवा समुच्चयो मोक्षसाधनमिति मत्वा समुच्चयस्य दुष्करत्वादेकैकस्यामोक्षसाधनत्वाच्च कापि पुरुषो न प्रवर्तेत मौक्षार्थी । ततश्व पुरु- षार्थाष्टस्स्यात् । तस्मादन्यतमस्य मोक्षसाधनत्व निर्धारणाय, यद्वा ज्ञानस्यैकस्यैव मोक्षसाधनत्व निर्धार- णाय विचारोऽयमावश्यक एव । नहि मथनं विनाऽमृतवद्विचारं विना निश्चयार्थो लभ्यते । तस्मा- निस्तीर्णतमं मीमांस्यमेतत् । एवं विकल्पत्रयं प्रदर्श्य सिद्धान्तमाह-आत्मज्ञानस्य त्विति । केवलस्याज्ञानस्य तु निश्श्रेयसहेतुत्वमस्तीति शेषः । तत्र हेतुमाह - भेदेति । भेदप्रत्ययाणां निवर्तकत्वेन हेतुना कैवल्यफलावसायित्वान्मोक्षपर्यवसायिवात् । कर्मसमुचितत्व वारणयोक्तम् - केवलस्येति । तुशब्दस्य फलं स्वयमेव वक्ष्यति | आत्मज्ञानस्य भेदप्रत्यय निवर्तकत्वमेवोपपादयति – क्रियेति । आत्म- न्यविद्यया क्रियाकारकफलभेदबुद्धिर्नित्यप्रततेत्यन्वयः । नित्यमनादिकालादारभ्य प्रकर्षेण तता विस्तृता । कथं प्रततेत्यत आह— मम कर्मेति । ननु यद्यविद्ययैशत्मनि क्रियाकारक फलभेदबुद्धिर्वितता तर्ह्यविद्यायाः प्राक्सा भेदबुद्धिर्भवितुं नार्हति । ततश्वाविद्यायाः प्राक्कैवल्यमस्त्येवात्मनः, ततः पुनरविद्योदयानन्तरं भेदबुद्धिपूर्वकं संसारः ४०० श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपैतासु मुष्मै फलायेदं कर्म करिष्या ‘मीतीयमविद्याऽनादिकालप्रवृत्ता । अस्या अविद्याया निवर्तकं ‘अयमहमस्मि केवलोऽकर्ताऽक्रियोऽफलः, न मत्तोऽन्योस्ति कश्चिदित्येवरूपमात्मविषय ज्ञानमुत्पद्यमानं कर्मप्रवृत्तिहेतुभूताया भेदबुद्धेर्निवर्तकत्वात् । तुशब्दः पक्षव्यावृत्त्यर्थः । न केवलेभ्यः कर्मभ्यः, नच ज्ञानकर्मभ्यां समुच्चिताभ्यां निश्श्रेयसप्राप्तिरिति पक्षद्वयं निवर्त- यति - अकार्यत्वाच्च निश्श्रेयसस्य कर्मसाधनत्वानुपपत्तिः । न हि नित्यं वस्तु कर्मणा प्राप्त आत्मनः, यद्येवं तर्हि विद्यया मुक्तस्याप्यात्मनः पुनरसंसारो भविष्यत्येव । पूर्वमबिद्यमानाया अविद्याया यथा आत्मन्युदयस्तथा नष्टाया अप्यविद्यायाः पुनरुदयसम्भवात्, उदद्यात्प्रागिव नाशादन- न्तरमपि वस्तुनोऽविद्यमानत्वस्य तुल्यत्वादविद्यमानवस्तुन उत्पत्त्यङ्गीकारे नष्टवस्तुनोपि पुनरुत्पतेरवर्ज - नीयत्वात् । एवं च सति स्वर्गं गतस्येव मुक्ति गतस्यापि पुनरावृतिप्रसङ्गः । तस्मान्न । विद्यया आत्मनि क्रियाकारक फलभेदबुद्धिर्वितता, किंतु स्वत एवास्तीतिशङ्कायामाह – इयमिति । अनादिरियम विद्या, अनादिकालमारभ्य प्रवृत्तत्वात् । नास्मिन्काले इयमविद्या प्रवृतेति ज्ञातुं शक्यते । तस्मात्कार्यमुता- पीयम विद्या अनादिरेव । तस्मादविद्योदयात्प्रागिति वक्तुं न शक्यम् । नचैवं नष्टाया अविद्यायाः पुनरागतिरिति वाच्यं नष्टस्य घटस्य दीपस्य वा पुनरुदयादर्शनात् । नच स्वत एव क्रियादिकमात्म- न्यस्तीति वाच्यं, ‘निष्कलं निष्क्रियं शान्त’ मित्यादिश्रुतिविरोधात् । तस्मात्क्रियाकार कफलरूपो भेदस्तद्बुद्धिश्वात्मन्यविद्ययैव प्रतना, नतु स्वाभाविकी । किमस्या अविद्याया निवर्तकमत आह- अस्या अविद्याया इति । निवर्तकं ज्ञानमिति व्यवहितेन सम्बन्धः । किं विषयं ज्ञानमत आह- आत्मविषयमिति । किमाकारकं ज्ञानमत आह-अयमहमित्यादि । केवल एकः । अकर्ता कर्तृत्वरहितोऽक्रियो न विद्यन्ते क्रिया यस्मिन्स तथोक्तः । नायं क्रियाः करोति, नाप्यस्मिन् क्रिया- स्सन्तीत्यर्थः । अफलोऽभोक्तेत्यर्थः । एवंविधोऽयमात्माऽहमस्मीति मतोऽन्यः कश्चिन्नास्तीति चैवं- रूपं ज्ञानम् । इदं ज्ञानमविद्यां कदा निवर्तयतीत्यत आह- उत्पद्यमानमिति । कुतो निवर्तयती- त्यत आह- कर्मेति । कर्मप्रवृत्तौ हेतुभूताया भेदबुद्धेः क्रियाकारक फल मेदप्रत्ययस्य निवर्तकत्वा- द्धेतोः । अविद्यानाशपूर्वको हि भेदबुद्धिनाश:- अविद्यापूर्वकत्वाद्भेदबुद्धेः । भेदबुद्धिरूपकार्यलिङ्गानु- मेया विद्या । मैदबुद्धिरूपकार्याभावे केन लिङ्गेनानुमातुं शक्यते ! न केनापीतिकृत्वा भेदबुद्धि- निवर्तकमिदमात्मज्ञानमविद्यानिवर्तकमेवेति भावः । तस्मादात्मज्ञानमेव समूलमेदप्रत्यय निवर्तकत्वा- न्मोक्षसाधनम् । तुशब्दः पक्षव्यावृत्त्यर्थ इति वाक्यं स्वयमेव विवृणोति नेति । केवलेभ्यः कर्मभ्यः, न्समुचिताभ्यां ज्ञानकर्मभ्यां वा निश्श्रेयसप्राप्तिर्नेति पक्षद्वयं निवर्तयति तुशब्दः । एवकारार्थकत्वादिति भावः । तस्मात्कर्मसमुचयो वा न मोक्षसाधनमिति सिद्धम् । भेदप्रत्ययपूर्वकत्वेन कर्मणस्वसुच्चयस्य वा कैवल्यफलाबसायित्वाभावादिति भावः । कर्मणो मोक्षसाधनत्वाभावे हेत्वन्तरमाह-अकार्यत्वा- चेति । यदि खर्गादिवन्मोक्षोऽपि कार्यस्स्यातर्हि तस्य कर्म साधनं स्यात् नतु तथा मोक्षः कार्यः 1 तस्मान्न तस्य कर्म साधनं भवति । साध्यय हि वस्तुनो यत्कञ्चितं स्यात् न स्वसाध्यस्य । ५१ मष्टादशोऽध्यायः । ४०१ ज्ञानेन वा क्रियतेः केवलं ज्ञानमप्यनर्थकं तर्हि न, अविद्यानिवर्तकत्वे सति दृष्टकेत्रस्य- फलावसानत्वात् । अविद्यातमोनिवर्तकस्य ज्ञानस्य दृष्ट कैवल्यफलावसानत्वं रज्ज्वादि- 1 तस्मादसाध्यस्य (अकार्यस्य) मोक्षस्य कर्मसाधनत्यमनुपपन्नम् । कर्म साधनं यस्य तत्कर्मसाधनं तद्भावः कर्मसाधनत्वं तस्यानुपपत्तेरिति समासः । सदेवोपपादयति-नहीति । नित्यं वस्तु कर्मणा ज्ञानेन वा महि क्रियते; यत्क्रियते तद्ध्यनित्यं यथा घटः । मोक्षस्तु नित्य इति सर्ववादिभिरभ्युपगन एव । तस्मान्नित्यस्य मोक्षस्य न कार्यत्वं, येन कर्म तस्य साधनं स्यादिति भावः । ननु यदि कर्मणा ज्ञानेन वा मोक्षो न क्रियते तर्हि कर्मेब ज्ञानमपि न मोक्षसाधनमिति व्यर्थमेव ज्ञानमपीति पृच्छति- केवलेति । तर्हि केवलज्ञानमप्यनर्थक्रमित्यन्वयः । उत्तरयति–नेति । हेतुमाह — अविद्येति । ज्ञानस्य अविद्यानिवर्तकत्वेन दृष्टकैवल्यफलावसानत्वादिति । ज्ञानेन मोक्षस्साध्यत इति न वयं ब्रूमः, किं तर्हि ज्ञानेनाविद्या निवर्तते यन्मूलः संसारः । निवृत्तायां चाविद्यायां केवलात्मस्वरूपेणावतिष्ठते विद्वान् । · तस्मादविद्यानिवर्तकस्य ज्ञानस्य केवलात्मस्वरूपेणावस्थानलक्षणं कैवल्यफलमवसानमिति दृष्टम् । एवमविद्यानिवर्तकत्वेन कैवल्यफलावसायित्वान्मोक्षसाधनं ज्ञानमित्यस्माभिरुच्यत इति । अविद्यानिवृत्तिरेव ज्ञानेन क्रियते, कैवल्यरूपमोक्षफलं तु नित्यसिद्धमेव । नित्यसिद्धमपीदम विद्यानि वृत्त्यभावेऽसिद्धमिव प्रतिभातीति कृत्वा तदविद्यानिवर्तकं ज्ञानं मोक्षसाधनमित्युक्तं यथा स्वगृहे नित्यं स्थितमपि हिरण्यनिधिमज्ञाना- दस्थितमिव सन्तमञ्जनादिना पुरुषस्साधयति, तद्वद्ज्ञानेन विद्वान् नित्यसिद्धमपि मोक्षमविद्यावशा- दसिद्धमिव सन्तं साधयति । नैतावता ज्ञानसाध्यत्वं मोक्षस्य नित्यसिद्धस्य । ‘मोक्षो हि ब्रश, नित्यापरोक्षं च ब्रह्म, यत्साक्षादपरोक्षा’ह्मेतिश्रुतेः । कथं तस्य कार्यस्वं स्यात् ? तस्मान्मोक्षस्वरूपा वारका विद्यानिवर्तकत्वाद्ज्ञानं मोक्षसाधनमित्युक्तं, नतु मोक्षजनकत्वादिति कृत्वा न ज्ञानस्य मोक्षसाध- नत्वं, नापि मोक्षस्य ज्ञानकार्यत्वमिति भावः । हेतुवाक्यं विवृणोति - अविद्येति । दृष्टं ज्ञातं विद्व- दनुभवसिद्धमित्यर्थः । कैवल्यं केवलात्मस्वरूपेणावस्थानं, तदेव फलं कैवल्यफलं तदेव वसानं परि- समाप्तिस्तस्मिन्नेवावसानमिति वा यस्य तत्त्वं कैवल्यफलमवसानत्वम् । अविद्यालक्षणं तमोऽज्ञानमविद्या- तमस्तमोऽन्धकारस्तंदिवं स्वरूपप्रकाश विरोधित्वादविद्या अविद्यातम इत्युच्यत इति वा तन्निवर्तकस्य । विदुषां हि विद्यया अविद्यातमोनिवृत्तौ सत्यां केवलात्मरूपेणावस्थानमनुभवसिद्धमिति कृत्वा, नहि दृष्टेऽनुपपत्तिरितिन्यायेनानुभवसिद्धेऽस्मिन्नर्थे नानुपपत्तिः कार्येति भावः । ज्ञानस्यैव विषत्वे दृष्टान्त- माह - रज्ज्वादीति । रज्ज्वादिविषये रज्जुशुक्तिकादौ विषये सर्पादिस्सर्परजतादिरूपो योऽध्यास- रसद्धेतुर्यद्ज्ञानं रज्ज्वादिविषयावच्छिन्न चैतन्यनिष्ठं तत्स्वरूपावारकं चाज्ञानमित्यर्थः । तदुपलक्षितं यतमोऽन्धकारस्तत्सर्पाद्यज्ञानतमः यद्वा अज्ञानपदं तत्कार्याध्यासपरं; तथा च सर्पाद्यज्ञानं सर्पाद्यध्यासः तद्धेतुभूतं तमोऽन्धकारस्सर्पाद्यज्ञानतमः । अध्यासस्याज्ञान कार्यत्वेपि तमः कार्यत्वमप्यस्ति- प्रकाशे रज्ज्वादौ सर्पाद्यध्यासादर्शनात् । तस्य सर्वाद्यज्ञानतमसो निवर्तको यः प्रदीपस्य प्रकाशस्तस्यैव तद्वत् । + श्रीभगवद्गीता भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु विषये सर्पाद्यज्ञानतमोनिवर्तकप्रदीपप्रकाशफलवत् विनिवृत्त सर्पादिविकल्प रज्जुकैवल्याव- सानं हि प्रकाशफलं; तथा ज्ञानम् । दृष्टार्थानां च छिदिक्रियाग्निमन्थनादीनां व्यापृत- कर्तादिकारकाणां द्वैधीभावाग्निदर्शनादिफलादन्यफले कर्मान्तरे वा व्यापारानुपपत्तिर्यथा, तथा दृष्टार्थायां ज्ञाननिष्ठाक्रियायां व्यापृतस्य ज्ञात्रादिकारकस्याऽऽत्मकैवल्य फलादन्यफले कर्मा- यथा प्रदीपप्रकाशः रज्ज्वादिविषयावारकं सर्पाद्यध्यासकारणं तमो निवर्त्य रज्ज्वादिं स्वस्वरूपेणाव स्थापयन् तावतैव पर्यवसितो दृष्टस्तथा ज्ञानमप्यात्मस्वरूपावारकं देहेन्द्रियाद्यध्या सकारणं चाज्ञानं निवर्त्यत्मानं स्वस्वरूपेणावभासयन् तावतैव पर्यवसितो दृष्टस्तत्त्वविद्भिरित्यर्थः । रज्ज्वादिविषये सर्पाद्यज्ञानतमोनिवर्तकप्रदीपप्रकाशवद विद्यातमो निवर्तकस्य ज्ञानस्य कैवल्यफलाव सानत्वं दृष्ट मे- त्यन्वयः । कथं प्रदीपप्रकाशस्य कैवल्यफलावसानत्वमत आह— विनिवृत्तेति । विशेषेण निवृत्ता- सर्वे विकल्पाः दण्डसर्पादयो यस्यास्सा रज्जुर्विनिवृत्त सर्वविकल्परज्जुः, तस्याः कैवल्यावसानं केवल- रज्जुरूपेणावस्थानं तदेव प्रकाशस्य फलमिति । नच कर्माप्येवमेवाविद्या निवर्तकत्वान्मोक्षसाधनमिति वाच्य, भेदप्रत्ययविशिष्टस्य कर्मणोऽविद्यामूलकत्वेन तन्निवर्तकत्वाभावात् । अव एव समुच्चयोऽपि न मोक्षसाधनम् । एतेन अविद्यानिवृत्तिलक्षणो मोक्षोऽपि कार्यो न कर्मणा क्रियते, किंतु ज्ञानेनैवेति सिद्धम् । एवं कर्मणो मोक्षसाधनत्वपक्षं निरस्य तेनैव समुच्चयस्यापि मोक्षसाधनत्वे निरस्तेऽपि समुच्चय- स्यैव तावदनुपपत्ति दर्शयति-— तथेत्यादिना । तथेति कर्मणो मोक्षसाधनत्वपक्षनिरास परिसमाप्ति- द्योतकमव्ययम् । दृष्टोऽर्थः द्वैधीभावादिलक्षणं फलं येषां तेषां दृष्टार्थानां छिदिक्रियाग्निमथनादीनां - छिदिक्रिया छेदनरूपा क्रिया अग्नेर्मथनं तदादीनां कर्मणां करण इति शेषः । दृष्टार्थेषु छिदिक्रियाग्नि- मंथनादिष्विति सप्तम्यन्तपाठो वा व्यापृतानां प्रवृत्तानां कर्त्रादिकारकाणां कर्तृकरणादिकारकाणां कर्मान्तरे व्यापारानुपपत्तिः । कीदृशे कर्मान्तरे : द्वैधीभावः द्विधा भजनमग्निदर्शनमेवमादिलक्षणं यत्फलं तस्मादन्यत्फलं यस्य तस्मिन्द्वैधीभावाग्निदर्शनादिफलादन्यफले यथा तथा दृष्टोर्थः कैवल्यफलं यस्यास्तस्यां दृष्टार्थायां निर्गताः क्रिया देहेन्द्रियादिव्यापारा यस्यास्तस्यां निष्क्रियायां ज्ञाननिष्ठात्मि- कायां क्रियायां व्यापृतस्य कर्मादिरूपस्य कारकस्यात्म कैवल्यफलादन्यफले कर्मान्तरेऽन्यकर्मणि प्रवृत्ति- र्व्यापारोऽनुपपन्ना अयुक्ता । इति हेतोः कर्मसहिता ज्ञाननिष्ठा कर्मज्ञानसमुच्चय इति यावत् । नोप- पद्यते न युज्यते न सम्भवतीति यावत् । अहं ब्रह्मास्मीत्याकारक बुद्धिवृत्तिरूपज्ञाननिष्ठाया मानसिक- क्रियात्वात्तस्यां प्रवृत्तस्य विदुषः कर्ता भोक्ताहमिति ज्ञानपूर्वकाग्निहोत्रादिकर्मसु प्रवृत्तिर्न घटते 1 भोक्तृब्रह्मात्मज्ञानस्य कर्ता भोक्ताऽहमिति ज्ञानस्य च परस्परं विरोधात् । मन इन्द्रियादिषु बहिर्विषयव्यापृतेषु सत्सु अहं ब्रह्मास्मीत्याकार कबुद्धिवृत्त्यसम्भवाच । मन इन्द्रियाद्यपरतिसाध्या हि दर्शित बुद्धिवृत्तिः । समाघिनिष्ठस्यैव तद्बुद्धिवृत्तिदर्शना तस्मात्कर्मज्ञाननिष्ठयोस्समुच्चयो न सम्भवति । ननु युगपत्समुच्चयासम्भवेऽपि क्रमेण सम्भवत्येव स इत्यत आह- दृष्टार्थायामिति । किं कर्मनिष्ठस्य अष्टादशोऽध्यायः । 1 હું છું 0. न्तरे प्रवृत्तिरनुपपन्नेति न ज्ञाननिष्ठा कर्मसहितोपपद्यते । भुजिक्रियाग्निहोत्रादिक्रियाव- त्स्यादिति चेन्न, कैवल्यफले ज्ञाने क्रियाफलार्थित्वानुपपत्तेः । कैवल्यफले हि ज्ञाने प्राप्ते सर्वतस्सम्प्लुतोद के फले कूपतटाकादिक्रियाफलार्थित्वाभाववत्, फलान्तरे तत्साधनभूतायां वा क्रियायामर्थित्वानुपपत्तिः । न हि राज्यप्राप्तिफले कर्मणि व्यापृतस्य क्षेत्रमात्रप्राप्तिफले कालान्तरे ज्ञाननिष्ठोपपद्यत इति ब्रूषे ? किंवा ज्ञाननिष्टस्य कालान्तरे कर्मनिष्ठेति ? आध इष्ट एव- कर्मनिष्ठाया ज्ञाननिष्ठा हेतुत्वात् । नैतावता कर्मज्ञानसमुच्चयः । ज्ञाननिष्ठा प्राप्त्यनन्तरं कर्मनिष्ठाया- स्त्यक्तत्वेन कर्मनिष्ठां परित्यज्यैव ज्ञाननिष्ठायां प्रवृत्तत्वेन च समुचयासिद्धेः । नतु द्वितीय:- ज्ञान- निष्ठाया दृष्टकैवल्यफलावसानत्वेन ज्ञाननिष्ठायाः फलं कैवल्यं साक्षात्कृतवतो विदुषः ज्ञाननिष्ठां विहाय कर्मनिष्ठायां प्रवर्तितं कारणाभावात् । नहि निरर्थकं कर्म कुर्याद्विद्वान् । नचैवं कर्मनिष्ठाया- मधिकृतस्यापि तां परित्यज्य ज्ञाननिष्ठास्वी कारो’ नोपपद्यत इति वाच्यं, कर्मनिष्ठाया अदृष्टफलत्वात् । यद्वा दृष्टकैवल्यफलावसानत्वाभावात् । कैवल्यार्थी हि मुमुक्षुः पुरुषः प्रथममज्ञानादिना कर्मनिष्ठायां प्रवृतोऽपि तया स्वस्य कृतार्थत्वा लाभाद्ज्ञाननिष्ठां स्वीकरोत्येव, स्वीकृतायां च तस्यां कैवल्यफलानु- भवेन कृतार्थो भवति । एवं कृतार्थस्सन्स विद्वान्पुनः कर्मनिष्ठां किमिति स्वीकुर्यात् ? नहि कृता- र्थस्य दृष्टकैवल्यफलस्य कृतकृत्यस्य तत्त्वविदः कर्तव्यशेषोऽस्ति यदर्थे पुनः कर्मणि प्रवृत्तिस्स्यात् । उक्तं हि ‘एतद्बुध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत !’ इति । तस्मादुद्वैधीभावाग्निदर्शनादिफला- कांक्षी पुरुषो यथा दृष्टफलेषु छेदनमथनादिकर्मसु प्रवर्तते, प्रवृत्तश्च ततस्तत्फलं पश्यति, नतु प्रकृत- फलातिरिक्त फलप्रदेषु कर्मसु प्रवर्तते, तद्वत्कैवल्यफलार्थी पुरुष: दृष्टकैवल्यफलावसानायां ज्ञाननिष्ठायां प्रवर्तते । प्रवृत्तश्च ततस्तत्फलं पश्यति, नतु कर्मनिष्ठायां पुनः प्रवर्तते । यदि कर्मनिष्ठेव ज्ञाननिष्ठापि दृष्टकैवल्य फलावसाना न स्यात्तर्हि ज्ञाननिष्ठां परित्यज्य भ्रान्त्यादिना पुनः कर्मनिष्ठायां प्रवर्तेत नतु तथास्ति । तस्मात्कैवल्यार्थी पुरुषः अज्ञानादनधिकाराद्वा प्रथमं कर्मनिष्ठायां प्रवृत्तस्सन् तत्र स्वाभि लषितं फलमपश्यन् विवेकादिसाधनसम्पत्तिशाली भूत्वा ज्ञाननिष्ठायां प्रविश्य तत्र कैवल्यफलं स्वेष्ट पश्यन् सन् कथं पुनः कर्मनिष्ठायां प्रविशेन्न कथमपीति कृत्वा ज्ञाननिष्ठस्य विदुषो ज्ञाननिष्ठासम काले कालान्तरे वा कर्मनिष्ठा न सम्भवति, नाप्युपपद्यते ।

। नन्वेकस्मिन्पुरुषे एकस्मै फलाय क्रियाद्वयस्यानुपपन्नत्वेऽपि द्वाभ्यां फलाभ्यां क्रियाद्वयमुपपन्न- मेव । यथा क्षुच्छान्तिस्वर्ग फलाभ्यामेकस्मिन्पुरुषे भोजना ग्निहोत्रक्रियाद्वयमस्ति तद्वदेकस्मिन्नेव कैवल्यस्वर्ग फलाभ्यां ज्ञानफर्मनिष्ठाद्वयमुपपद्यत एवेत्याह- भुजीति । परिहरति नेति । हेतु- माह - कैवल्येति । ́ संग्रहवाक्यं विवृणोति — कैवल्येति । कैवल्यं फलं यस्य तस्मिन्कैवल्यफले ज्ञाने प्राप्ते सति कियाफलयोः क्रियायां यज्ञादिरूपायां फले स्वर्गादिलक्षणे चार्थित्वस्यानुपपत्तेः । क्रियाफलार्थित्वमितिपदं प्रातिलोम्येन फलक्रियार्थित्वमिति कृत्वा व्याकरोति – फलान्तरे तत्साध- नायां वा क्रियायामिति । क्रियार्थित्वस्य फलार्थिवपूर्वकत्वात्फलान्तर इति प्रथममुक्तम् । मम 1 श्रीभगवद्गीता भाष्याकेंप्रकाशविलसित श्रीशाङ्करभाष्योपतासु स्वर्गस्स्यादिति फलान्तरार्थित्वं मम स्वर्गार्थं ज्योतिष्टोमस्स्यादिति कियार्थित्वम् । अर्थयते फलादि प्रार्थयते इत्यर्थी कामी तस्य भावोऽर्थित्वं यथाच क्रियाफलार्थित्वं नाम क्रियाफलकामः । तत्र दृष्टान्तमाह - सर्वत इति । सर्वतस्सम्प्लुतोदकफले प्राप्ते सति प्राप्तुमिष्ठे सतीति वा तटाकादि- क्रियाफलार्थित्वाभाववत् । तटाकादिजलखानादिक्रियाजन्य फलार्थित्वाभाववदित्यर्थः । तस्मात्कैवल्य- फलार्थिनः पुरुषस्य विदुषस्स्वर्गादिफलार्थित्वासम्भवाद्ज्ञाननिष्ठायां दृष्टकैवल्यफलाब सनायां प्रवृत्तस्य विदुषः कैवश्यार्थिनस्स्वर्गाद्यदृष्टफलक कर्मानुष्ठानप्रसङ्गः स्वप्नेऽपि न भवेदिति न ज्ञाननिष्ठायाः कर्म- साहित्यमुपपद्यते । ननु कैवल्यार्थिनः कुतः कर्मफलार्थित्वानुपपत्तिरित्यतो दृष्टान्तान्तरमाह-न हीति । राज्यप्राप्तिः फलं यस्य तस्मिन्कर्मणि युद्धादौ प्रवृत्तस्य क्षत्रियस्य क्षेत्रमात्रस्य प्राप्तिः फलं यस्य तस्मिन् क्षेत्रमात्रप्राप्तिफले कर्मणि यान्नादौ व्यापारो न हचुपपद्यते, तद्विषयं क्षेत्रमात्रविषयमर्थित्वं व न हयुपपद्यते यथा तथा कैवल्यफले ज्ञाने प्रवृत्तस्य विदुषस्स्वर्गादिफलककर्मणि प्रवृत्तिः, स्वर्गादिफल - विषयमर्थिश्वं च नोपपद्यते। राज्यप्राप्तिफले क्षेत्रप्राप्तिफलवर कैवल्यफले कर्मफलस्यान्तर्भूतत्वादिति भावः । उतं हि - ‘सर्व कर्माखिलं पार्थ! ज्ञाने परिसमाप्यत’ इतीहैव भगवता । ‘यत्कि च प्रजा- रसाम कुर्वन्ति सर्वे तदभिसमे’ ती तिश्रुतेश्च । ● ननु क्षेत्रपुरप्रामादीनां सर्वेषां राज्याङ्गत्वादङ्गिनि राज्ये प्राप्ते सति तदङ्गानां क्षेत्रादीनां प्राप्ति- स्यादेवेति राज्यकामिनः क्षत्रियस्य क्षेत्रादिप्राप्त्याशा माभून्नाम । कथं पुनः कैवल्यार्थिनस्स्वर्गादि- प्राप्याशाऽभावः न हि कैवल्यस्य स्वर्गादयोऽङ्गानि, निरस्तनिखिलद्वैतं हि कैवल्यमिति चेन्नैष दोष: - प्राप्तराज्यस्य क्षेत्रमात्र कामाभाव इव प्राप्तकैवल्यस्य स्वर्गादिकामाभाव इत्येतावत एवेह दृष्टान्त- दाष्टन्तिकसाधर्म्यस्य विवक्षितत्वात् । प्राप्तकैवल्यस्य स्वर्गादिप्राप्तिकामाभावे हेतुस्तु स्वर्गादिद्वैत- स्याभाव एवेति । यद्वा प्राप्तराज्येन यथा क्षेत्रमात्रमपि प्राप्तमिति न तत्र तस्याशा तथा प्राप्तकैवल्येन स्वर्गादिकमपि प्राप्तमेवेति न तत्र तस्याशा । कैवल्यस्यात्मस्वरूपत्वादात्मनश्च परिपूर्णत्वेन सर्व- व्यापित्वात्स्वर्गादयोऽप्यात्मना नित्याप्ता एवेति कृत्वा येनात्मा प्राप्तः कथं तस्य स्वर्गाद्यप्राप्तिः ? अथवा कैवल्यस्यात्मत्वादात्मनश्वेश्वरत्वादीश्वरस्य चावाप्तसमस्त कामत्वाद्येनात्मा प्राप्तस्तेन सर्वे कामा: प्राप्ता एवेति । मथ वा कैवल्यस्यात्मत्वादात्मनश्च ब्रह्मत्वाद्ब्रह्मणश्च स्वर्गादिसर्वजगदाधारत्वाद्येनात्मा प्राप्तस्तेन स्वर्गादिकं सर्वमपि प्राप्तमेवेति । यद्वा कैवल्यस्य ब्रह्मत्वा ब्रह्मणश्चैकदेशे सर्वस्य जगतः सत्त्वाद्येन कैवल्यं प्राप्त तेन स्वर्गादिकं प्राप्तमेवेति । वस्तुतस्तु कैवल्यस्य ब्रह्मात्याह्मणश्च सर्वात्मत्वाद्येन ब्रह्म प्राप्तं तेन स्वर्गादिकमपि प्राप्तमेव । अत एवैकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय ब्रह्मणि विज्ञाते सति सर्वे विज्ञातं भवतीत्युक्तं श्रुत्या– ब्रह्मकार्यत्वात्सर्वस्य । सर्वस्य स्वरूपं हि ब्रह्म । तस्माद्धसमाप्तौ सर्वप्राप्तिस्सिद्वैवेति न दृष्टान्त-४०५ व्यापार उपपद्यते; तद्विषयं वाऽर्थित्वम् । तस्मान्नं कर्मणोऽस्ति निश्श्रेयससाधनत्वं; नच ज्ञानकर्मणोस्समुच्चितयोः । नापि ज्ञानस्य कैवल्यफलस्य कर्मसाहाय्यापेक्षा अविद्यानिवर्त- कत्वेन विरोधात् । नहि तमस्तमोन्तरं निवर्तयति । अतः केवलमेव ज्ञानं निश्श्रेयस- साधनमिति न नित्याकरणे प्रत्यवायप्राप्तेः कैवल्यस्य च नित्यत्वात् । यत्तावत्केवलज्ञाना- स्कैवल्य प्राप्तिरित्येतत्तदसत् यतो नित्यानां कर्मणां श्रुत्युक्तानामकरणे प्रत्यवायो नरकादि- दाष्टन्तिकयोस्साधर्म्याभावप्रसङ्गदोषः । तस्मादिति । ज्ञानकर्मणोस्समुच्चयानुपपत्तेर्मोक्षस्य कर्म- साधनत्वानुपपत्तेश्वत्यर्थः । कर्म निश्श्रेयससाधनं न भवति । ज्ञानकर्मणोस्समुच्चयो निश्श्रेयससाधनं न भवति च । ननु कर्मसहितमेव ज्ञानं, कैवल्यफलकं न केवलज्ञानं यथाऽनुष्ठानसापेक्षमेव वेदार्थज्ञान स्वर्गादिफलकमित्यत आह- नापीति । ज्ञानं कैवल्यं प्रदातुं कर्मरूपं सहायं नापेक्षत्र इत्यर्थः । सह अयति गच्छतीति सहायत्सखा तस्य भावः कर्म वा साहाय्यं कर्मणस्साहाय्यं कर्मसाहाय्यं तस्यापेक्षा ज्ञानस्य न हीत्यन्वयः । इदमित्थमनेन कर्तव्यमित्येवंरूपस्य वेदार्थज्ञानस्य कर्मानुष्ठानं विना निष्फलत्वाद्युक्ता कर्मसाहाय्यापेक्षा | अहं ब्रह्मास्मीत्येवंरूपस्यात्मज्ञानस्य कर्तव्यबोधकत्वाभावादयं घट इंति ज्ञानवद्वस्तुस्वरूपसमर्पकत्वातावतैव सफलत्वान्न कर्मसाहाय्यापेक्षेति भावः । मास्तु ज्ञानस्य कर्म साहाय्य, प्रत्युत कर्मविरोधित्वमप्यस्तीत्याह - अविद्येति । ज्ञानस्याविद्यानिवर्तकत्वेन हेतुनाऽविद्यामूलक- कर्मविरोधात् । अविद्यानिवर्तकं हि “ज्ञानमविद्यामूलकं कर्म नाशयतीति विरोध एव ज्ञानकर्मणोः । क्क पुनस्साहाय्याशक्का ? न चाविद्याया एव विरोधि ज्ञानं, न तु कर्मण इति वाच्यं कर्मणो भेद- प्रत्यय मूलकत्वाद्भेदप्रत्ययस्य च कर्त्रादिलक्षणस्याऽविद्यामूलकत्वादद्वैतज्ञानेन भेदप्रत्ययस्य तत्कार- णाज्ञानस्य च निवृत्तत्वे क पुनः कर्मसम्भव इति समूलं कर्म नाशयत्येवाद्वैतज्ञानमिति ज्ञानं कर्म- विरोध्येव । ननु यथा ज्ञानमविद्यानिवर्तकत्वेन कैवल्यफलावसायि, एवं कर्मापीति कर्माणि मोक्ष- साधनमेवेत्यत आह-नहीति । हिः प्रसिद्धौ । यथा तमस्तमोऽन्तरं न निवर्तयत्येवं कर्म नाज्ञान- निवर्तकम् । सूर्याभावकृतमन्धकारं दीपाभावकृतोऽन्धकारो यथा न निवर्तयति तथा कर्माज्ञानं न निवर्तयति तमसोरिय कर्माज्ञानयोर्विरोधाभावात्; प्रत्युताज्ञानमूलत्वाच्च कर्मणः । न अन्धकारमूलः पिशाचादिभ्रमोऽन्धकारं निवर्तयति । एवमज्ञानमूलं कर्माप्यज्ञानं न निवर्तयति । नच रामानुजोत- रीत्या ज्ञानपूर्वक कर्माज्ञानं निवर्तयतीति वाच्यं कर्मणो ज्ञानपूर्वकत्वासम्भवात् । निष्क्रियात्मस्वरूप - ज्ञानस्य कर्मप्रवृत्तिभञ्जकत्वान्न द्यात्मज्ञानपूर्वकं कर्म भवेत् । नच कर्त्रात्मज्ञानपूर्वकं कर्मेति वाच्यं, कर्ताहमित्यात्मज्ञानस्य भ्रमत्वेन प्रमात्वाभावात् । तादृशभ्रमज्ञानस्याज्ञानमूलकत्वे नाज्ञाना निवर्तकत्वान कैवल्याभावाच्चेति । उपसंहरति सिद्धान्ती स्वमतम् - अत इति । कर्मणों मोक्षसाधनत्वाभावा- त्समुच्चयस्यानुपपन्नत्वाच्चेत्यर्थः । पक्षद्वयस्य दूषितत्वादिति भावः । केवलमिति । कर्मानपेक्षमित्यर्थः । ज्ञानमेव निश्श्रेयससाधनमेवकारान्न कर्मादिकमिति भावः । 1 A ૦૬ श्रीभगवद्गीतासु भाष्याकंप्रकाशविलसित श्रीशाकरमाण्योपेतासु प्राप्तिलक्षणस्स्यात् । नन्वेवं तर्हि कर्मभ्यो मोक्षो नास्तीत्यनिर्मोक्ष एव; नैष दोष:- नित्यत्वान्मोक्षस्य; नित्यानां कर्मणामनुष्ठानात्प्रत्यवायस्याप्राप्तिः । प्रतिषिद्धस्य चाकरणा- दनिष्टशरीरानुपपत्तिः काम्यानां च वर्जनादिष्टशरीरानुपपत्तिः; वर्तमानशरीरारम्भकस्य च कर्मणः फलोपभोगक्षये पतितेऽस्मिन् शरीरे देहान्तरोत्पत्तौ च कारणाभावादात्मनः रागा- अत्राह मीमांसकः पूर्वपक्ष – नन्विति । यत्तावत्केवलज्ञानात् कैवल्यप्राप्तिरिति तदेतदसत् – कुतः ? कैवल्यस्य नित्यत्वात् । यदि नित्यं कैवल्यं ज्ञानेनाप्येत तर्हि प्राप्यं तत्कैवल्यम नित्यमेव स्यात् । निर्विकारं हि वस्तु नित्यं प्राप्यत्वं च विकार एवेति कथं प्राप्यत्वात्सविकारं कैवल्यं नित्यं स्यात् ? न कथमपीति कृत्वा ज्ञानेन कैवल्यं प्राप्यस इत्युक्तमयुक्तम् । मास्तु सर्वकर्म सन्न्यासपूर्वक- ज्ञानात्कैवल्यं, प्रत्युत नरकपातोऽपि स्यादित्याह – नित्याकरणादिति । तदेव स्वयं विवृणोति - नित्यानामिति । यतः कर्म सन्न्यासास्प्रत्यवायस्स्यात्, यतश्च नित्यत्वात्कैवल्यं ज्ञानेन नाप्येत, तस्मात्केवलज्ञानात्कैवल्यप्राप्तिरित्यद्वैतिनो क्तमयुक्तमित्यर्थः । अत्र कैवल्यस्य नित्याप्तत्वाचेत्यपि हेत्वन्तरं गम्यते । नित्यत्वादित्यनेनार्थात्सिध्यतीति वा । ततश्व नित्याप्तस्य कैवल्यस्य ज्ञानप्राप्यत्वकथनं चायुक्त- मिति भावः । ननु यद्येवं नित्याकरणात्प्रत्यवायः, नित्यकरणाच्च प्राजापत्यलोकप्राप्त्यादिलक्षणो बन्धस्तर्हि उभयधाप्यानर्थक्यात्कर्मभ्यो मोक्षो नास्ति; ज्ञानान्मोक्षप्राप्तिस्तु दूषितेति हेतोः पुरुषस्या निर्मोक्षो मोक्षाभाव एव प्राप्त इति चेत् एष मोक्षाभावरूपो दोषो न- नास्ति । कुतः ? नित्यत्वादिति । यदि कर्मभ्यो मोक्षस्स्यातर्हि कर्मकृतो मोक्षोऽनित्य एष स्याद्धटवत् - यस्कृतकं तदनित्यमिति व्याप्ति- दर्शनात् । नित्यो हि मोक्षः । अतस्स कथं कर्मभ्यो ज्ञानाद्वा भवितुमर्हति ? नहि नित्यस्य मोक्ष- स्याभावो वक्तुं शक्यते - नित्यस्य सत्यत्वेन सत्यस्य सत्त्वेन च सतो मोक्षस्याभावायोगात् । उक्तंहि - ‘नासतो विद्यते भावो नाभावो विद्यते सत’ इति । ननु भवत्वेवं नित्यो मोक्षः, कथं पुनस्तत्सिद्धिर्मुमुमुक्षोरत आह— नित्यानामिति । सर्वकर्मसन्न्यासान्नित्यानामकरणे या प्रत्यवायप्राप्तिर्दर्शिता केवलज्ञानिनि सा कर्मिणो न भवति । कुत: : नित्यानां कर्मणामनुष्ठानात् । एतेन मुमुक्षुणा पुरुषेण नित्यं कर्म कार्यमिति सिद्धम् । अत एव श्रीकृष्णेनापि - ‘नियतं कुरु कर्म त्व’ मित्युक्तमिति भावः । प्रतिषिद्धं कर्म सुमुक्षुणा न कार्यमित्याह — प्रतिषिद्धस्येति । अनिष्टशरीराणि यातनापश्वा दिशरीराणि । काम्यान्यपि कर्माणि न कर्तव्यानीत्याह - काम्यानां चेति । अनिष्टपश्वादिशरीरख दिष्टदेवादिशरी- राणामपि सुखदुःखादिजननद्वारा बन्धकत्वादिति भावः । एवं कृते सति किं भवतीत्यत आह- वर्तमानेति । प्रारब्धकर्मणो भोगेन क्षयादिति भावः । अस्मिन्वर्तमाने देहे पविते मृते सतीत्यर्थः । कारणाभावादिति । सुकृतस्य दुष्कृतस्य बाऽभावादित्यर्थः । ’ पुण्यः पुण्ये’ नेति शास्त्रादिति भावः । 1 ननु कथं कारणाभावः ? धर्माधर्मानुष्ठान हेतुभूतरागादिसत्त्वेन धर्माधर्माकरणानुपपत्तेरत आह आत्मन इति । मात्मनो मनसो ये रागादयस्तेषामकरणे सत्यात्मन इत्यस्य कैवल्यमित्यनेनान्वय मष्टादशोऽध्यायः । ४०७ दीनां चाकरणात्स्वरूपावस्थानमेव कैवल्यमित्ययलसिद्धं कैवल्यमिति; अतिक्रान्ताने क जन्मान्तरकृतस्य स्वर्गनरकादिप्राप्तिफलस्याऽनारब्धकार्यस्योपभोगानुपपत्तेः क्षयाभाव इति चेन्न- नित्यकर्मानुष्ठानायास दुःखोपभोगस्य तत्फलोपभोगत्वोपपत्तेः । प्रायश्चित्तवद्वा पूर्वो- पाचदुरितक्षयार्थं नित्यं कर्म - आरब्धानां च कर्मणामुपभोगेनैव क्षीणत्वात्; अपूर्वाणां च– इति वा, तत्पक्षे आत्मनस्स्वस्य मुमुक्षोरित्यर्थः । स्वरूपावस्थानं तल्लक्षणमित्यर्थः । कैवल्यम यल सिद्धं, प्रयत्नं विनैव सिध्यति । अतो न मोक्षस्य यत्नसाध्यत्वप्रयुक्तानित्यत्वप्रसङ्गः । तस्मान्मुमुक्षुणा रागादिप्रहाणपूर्वकं नित्यकर्मैव कर्तव्यं, तथासति दर्शितविधया मोक्षसिद्धेरिति । ननु नेत्र मोक्ष- स्सिध्यति । कुतः ? अतिक्रान्तेति । अतिक्रान्तेष्यनेकेषु जन्मान्तरेषु कृतस्य स्वर्ग नरकादिप्राप्तिः फलं यस्य तस्य सुकृतदुष्कृतास्मकस्येत्यर्थः । मनारब्धं कार्य देहादिरूपं येन तस्य सञ्चितस्येत्यर्थः । कर्मण उपभोगानुपपत्तेरुपभोगाभावाद्धेतोः क्षयाभाव इति मोक्षा सिद्धौ हेतुः । प्रकृतशरीरत्यागानन्तरं पुनश्शरीरान्तरपरिग्रहाभावे सति हि स्वरूपावस्थानलक्षणं कैवल्यमात्मनस्सम्भवति, सतु शरीरान्तर- परिग्रहाभावो नित्यकर्मानुष्ठानमात्रेण न सिध्यति । कृतदिप्रणाशस्यायुक्तत्वेन यथा प्रारब्धकर्मण उप- भोगेन क्षयस्तथा सञ्चितकर्मणामप्युपभोगं विना क्षयानुपपत्तेः सञ्चितकर्मफलोपभोगार्थमनन्तानि शरी- रान्तराणि परिप्रामाण्येव कर्मिणा । नित्यकर्मानुष्ठानं हि प्रत्यवायाप्राप्तिं करोति, नतु सञ्चितकर्मक्षय, न चायं दोषस्समानो ज्ञानान्मोक्षवादिनोऽपीति वाच्यं ज्ञानस्य सर्वसश्चितकर्मतूलराशिदहने वहि- प्रायत्वात् । उक्तं हि भगवता - ‘ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन ।’ इति । तस्माच्छरीरान्तर- परिग्रहस्यावर्जनीयत्वान्न नित्यानुष्ठानान्मोक्ष इतिचेन्न । हेतुमाह - नित्येति । तच्छब्दस्य सञ्चित - कर्माण्यर्थः । उपभोगेन क्षपयितव्यानां सञ्चितकर्मणां यः फलोपभोगस्स नित्य कर्मानुष्ठानजन्यायास- दुःखोऽपि भोग एव । ततश्च नित्यकर्मानुष्ठानायासदुःखमनुभूय सञ्चितकर्माणि क्षपयितव्या- नीत्यर्थः । नित्यकर्मानुष्ठानप्रयुक्तायासदुःखानुभवात्सश्चितकर्मणां क्षय इति भावः । नित्यकर्मानु- ष्ठानप्रयुक्ताया सदुःखोपभोगस्य तत्फलोपभोगत्वमुपपद्यत इत्यन्वयार्थः । उपभोग विनाऽपि सचितकर्मणां क्षयस्सम्भवति नित्यकर्मानुष्ठानादित्याह - प्रायश्चित्तवद्वेति । यथेहजन्मनि प्रमादादिना कृतानां पापकर्मणां तप्तकृच्छ्रादिप्रायश्चित्तैस्तत्फलोपभोगं विनापि क्षयः, एवं जन्मान्तरकृतानामपि कर्मणां विविधानां नित्यकर्मणा क्षयस्सम्भवति । नित्यकर्म हि पूर्वोपचितदुरितक्षयार्थे पूर्वोपचितानां जन्मान्त- रार्जितानां दुरितानां क्षयो नाशोऽर्थः फलं यस्य तत्तथोक्तमत एवोपात्तदुरितक्षयार्थमिति सन्ध्यावन्द- नादिनित्यकर्मसु कर्मिणस्सङ्कल्पयन्तीति । प्रायश्चित्तेन तुल्यं प्रायश्चित्तवदिति- ‘तेन तुल्य क्रियाचे-’ द्वति’ रिति वतिः । यथा प्रायश्चित्तमुपचितदुरितक्षयार्थ तथा नित्यकर्मापीत्यर्थः । प्रायश्चित्तनित्य- कर्मणोस्त्वयं विशेष- इहजन्मोपचितदुरितक्षयार्थ प्रायश्चित्तं, जन्मान्तरोपचितदुरितक्षयार्थ नित्यकर्मेति ।

1 1 वस्तुतस्तु नित्यकर्मणोऽप्यैहिक दुरितो पक्षयार्थस्य मध्यस्तीति बोध्यम्- ‘यदात्कुरुते पापं तदहा- स्प्रतिमुच्यत’ इत्यादिश्रुतेः । स्वमतं निगमयति– आरब्धानां चेति । जन्मान्तरकृतानामित्यर्थः । ४०८ श्रीभगवद्गीता - माष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कर्मणामनारम्भेऽयत्वसिद्धं कैवल्यमिति, न ‘तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयना’ येति विद्याया अन्यः पन्था मोक्षाय न विद्यत इति श्रुतेः । चर्मवदाकाशवेष्टना- सम्भववदविदुषो मोक्षासम्भवश्रुते:- ‘ज्ञानात्कैवल्यमाप्नोतीति च पुराणस्मृतेः; अनारब्ध- फलानां पुण्यानां कर्मणां क्षयानुपपत्तेश्च । यथा पूर्वोपात्तानां दुरितानामनारब्धफलानां सम्भवः, तथा पुण्यानामप्यनारब्धफलानां स्यात्सम्भवः । तेषां च देहान्तरमकृत्वा क्षयानुप- पत्तौ मोक्षानुपपत्तिः । धर्माधर्महेतूनां च रागद्वेषमोहानामन्यवात्मज्ञानादुच्छेदानुपपत्ते धर्माधर्मोच्छेदानुपपत्तिः । नित्यानां च कर्मणां पुण्यलोकफलत्वञ्जनेः ‘वर्णा आश्रमाच स्वकर्मनिष्ठा’ इत्यादिस्मृतेश्च कर्मक्षयानुपपत्तिः । • । कर्मणां प्रारब्धसञ्चितोभयात्मकानामित्यर्थः । उपभोगेनैव ततत्फलानुभवेनैव क्षीणत्वात्सञ्चिनानां नित्य- कर्मभिः क्षीणत्वाचेति बोध्यम् । अपूर्वाणामागामिनामित्यर्थः । कर्मणां काम्यानां प्रतिषिद्धानां चेत्यर्थः । अनारम्भेऽकरणे सति कैवल्यं भवति मुमुक्षोरिति शेषः । तस्मात्कैवल्यार्थिना नित्यकर्मक- मेव कार्यमिति । एवं परमतमुपन्यस्य दूषयितुमारभते सिद्धान्ती - नेत्यादिना । नैव नित्यकर्मानु- ष्ठानं मोक्षसाधनं, कुतः ? श्रुत्यादिविरोधादित्याह – तमेवमिति । तं परमात्मानमेवं प्रत्यगभिन्नत्वेन उक्तरीत्येति वा, विदित्वा ज्ञात्वा विद्वानिति शेषः । मृत्युं संसारमत्येत्यतिगच्छति; अयनाय मोक्षाय, अन्यो ज्ञानादतिरिक्तः पन्था न नास्ति । ‘नान्यः पन्था विद्यतेऽयना’ येत्यस्था अर्थ स्वयमेवाह भाष्यकृत् – अन्यः पन्था मोक्षय न विद्यत इति । यदा चर्मवदाकाश वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यतीतिश्रुतिरप्यमुमेवार्थमाहेत्याह - चर्मवदिति । चर्मंग इवाकाशस्य वेष्टनं यथा न सम्भवति तद्वदविषोऽनात्मज्ञस्य मोक्षो न सम्भवतीत्येतदर्थप्रतिपादकश्रुतेश्चेत्यर्थः । पुराणरूपां स्मृतिमाह – ज्ञानादिति । युक्तिमाह – अनारब्धेति, अनारब्धफलानामिति । सश्चि- तानामित्यर्थः । पुण्यानामिति । दुरितानां प्रायश्चित्तैरिव नित्यकर्मभिः क्षीणत्वेऽपि नित्यकर्मानुष्ठानायास- दुःखानुभवस्य दुरितफलत्वेन तदुपभोगेन वा दुरितानां क्षीणत्वेऽपि पुण्यानामुपभोगं विना क्षयो नोप- पद्यत इति भावः । नन्वनारब्धफलानां पुण्यानां सत्त्वमेवासिद्धमत आह-यथेति । अनारब्धफलानि दुरितानि सन्तीति यथा त्वमभ्युपैषि, तथा तादृशानि पुण्यान्यपि सन्तीत्यभ्युपगच्छ । दुष्कृतान्येवानेन जन्मान्तरेषु सञ्चितानि नतु सुकृतानीति निश्चेतुमशक्यत्वादिति । एवं देहान्तरापत्तौ च कारणाभावा- दिश्येतदूषयित्वा रागादीनां चाकरणे इत्येतदूदूषयति— धर्मेति । धर्माधर्मयोर्हेतूनां रागद्वेषमोहाना- मात्मज्ञानादन्यत्राऽऽत्मज्ञानं विनेत्यर्थः । उच्छेदस्य नाशस्यानुपपत्तेः । आत्मज्ञानवानेव रागद्वेषादी- नक्कृत्वा तिष्ठति, न त्वनात्मवित् । ज्ञानं विनाऽन्येन केनापि कारणेन रागद्वेषमोहनाशासम्भवादिति । एवं रागद्वेषादीनामनाशे तत्कार्ययोर्धर्माधर्म योरुच्छेदानुपपत्तिः । सतोश्च धर्माधर्म योस्तत्फलोपभोगाय शरीरान्तरपरिग्रह आवश्यक इति मोक्षानुपपत्तिरिति भावः । अथ यदुक्तं नित्यकर्म करणात्प्रत्यवायाप्राप्त्या मोक्ष इति तदूषयति नित्यानामिति । नित्य- ५२ भष्टादशोऽध्यायः । ४०.९ ये त्वाहु: - नित्यानि कर्माणि दुःखरूपत्वात्पूर्वकृतदुरितकर्मणां फलमेव, न तु तेषां स्वरूपव्यतिरेकेणाऽन्यत्फलमस्ति अश्रुतत्वात् । जीवनादिनिमित्ते च विधानादिति, न अप्रवृत्तानां कर्मणां फलदानासम्भवात् दुःखफल विशेषानुपपत्तिश्च स्यात् । यदुक्तं पूर्व- जन्मकृतानां दुरितानां कर्मणां फलं नित्यकर्मानुष्ठानायासदुःखं भुज्यत इति, तदसत् – नहि मरणकाले फलदानायानं कुरीभूतस्य कर्मणः फलमन्य कर्मारब्धे जन्मन्युपभुज्यत इत्युपपत्तिः । अन्यथा स्वर्गफलोपभोगायाऽग्निहोत्रादिकर्मारब्धे जन्मनि नरककर्म फलोप- कर्मानुष्ठानस्याकरणे प्रत्यवायरूपदोषाप्राप्तिरेव न फ़लं, किंतु पुण्यफलमप्यस्तीति श्रूयते स्मर्यते चः । ततश्च श्रुतिस्मृति प्रमाणसिद्धस्य नित्यकर्मानुष्ठानजन्यपुण्यफलस्य देहान्तरेऽवश्यमनुभो तव्यत्वात्तदनुभव विना नित्यकर्मणाः कृतस्य क्षयानुपपत्तेर्नित्यकर्म कर्तुर्देहान्तरप्राप्तिस्वर्जनीयेति मोक्षानुपपत्तिरिति भावः । ननु नित्यकर्मानुष्ठानान्न पुण्यफलं, किंतु नित्यकर्मानुष्ठानमेव जन्मान्तरकृतदुरितफलमाया सदुः खरूपत्वा. दित्याह - ये त्विति । फलमेवेत्येवकारार्थमाह - न त्विति तेषामिति । नित्यकर्मणामित्यर्थः । अन्यत्फलं न त्वस्तीत्यन्वयः । तत्र हेतुमाह - अश्रुतत्वादिति । ज्योतिष्टोमेन स्वर्गकामो यजेतेतिव- देतत्काम इदं नित्यं कर्म कुर्यादित्यश्रवणादिति भावः । ब्राह्मणस्य यजनादयष्षट् नित्यकर्माणीत्युकं, तत्र याजनाध्यापनप्रतिग्रहा जीवनार्थं विहिता इति वृद्धवचनादाह - जीवनादिनिमित्ते चेति । तस्माज्जीवनार्थे विहितानां नित्यकर्मणां जीवनातिरिक्तफलकल्पनमयुक्तमिति भावः । आदिपदात्तत्त- द्वर्णविशेषनिर्धारणं गृपते; तथा च यजनाध्ययनदानानि त्रीणि नित्यकर्माणि ब्राह्मणस्य ब्राह्मणवर्ण- विशेषनिर्धारणार्थं विहितानीति कृत्वा न तेषामपि फलान्तरं कल्पयितुं शक्यमिति । परिहरति- नेति । किं त्वं नित्यकर्माणि प्रारब्धकर्मफलभूतानीति ब्रूषे, उत सञ्चितकर्मफलानीति ! मधे त्व- दिष्ट सिद्धिः । द्वितीये दोषमाह - अप्रवृत्तानामिति । अप्रवृत्तानां फलप्रदानार्थमप्रवृत्तानां सञ्चिताना- मित्यर्थः । अयमेव हि सञ्चितप्रारब्धयोर्भेदः – जन्मान्तरकृतं फलदानाय प्रवृत्तं यत्तत्प्रारब्धं यदप्रवृत्तं तत्सश्चितमिति । तस्मात्सश्वितानां कर्मणां प्रकृतजन्मनि फल्दानं नैव सम्भवति । सति च तदसम्भवे सञ्चितकर्मफलमेवायं नित्यकर्मानुष्ठानायास दुःखविशेष इति कथमुच्यते ! तस्मात्सञ्जितकर्मणां दुःख- फलविशेषस्यानुपपत्तिस्स्यात् । इदमेवाप्रवृत्तानामिति संग्रहवाक्यं विवृणोति - यदुक्तमित्यादिना ! दुरितानां फलं दुःखं भुज्यत इति यदुक्तं तदसदित्यन्वयः । अनंकुरीभूतस्येति । अनारब्धस्येत्यर्थः । अन्यकर्मेति । प्रारब्धकर्मेत्यर्थः । उपभुज्यत इत्यत्रोपपत्तिर्न हीत्यन्वयः । येन कर्मणा यज्जन्मार तज्जन्मनि तत्कर्मणः फलमेवानुभवितव्यं न त्वन्यकर्मफलमिति नियमादिति भावः । उक्तनिय मास्वीकारे को दोषस्त्लाह- अन्यथेति, जन्मनीति । देवदेहे इत्यर्थः । उपपत्तिरापत्तिरित्यर्थः । अयं भावः — केनचिदग्निहोत्रादिधर्मः कृतः हिंसास्तेयादिवदधर्मश्च कृतः । तत्र धर्मेण स्वर्ग- प्राप्तिरधर्मेण नरकप्राप्तिश्च क्रमेण भवितुमर्हति नतु युगपदेव - विरोधात् । एवं सति फलदानायांकुरी- भूताद्धर्घात्तस्य खर्गफलोपभोगाई देवजन्मनि सति तत्रैवाधर्मफलं नरकमपि तेन भुज्येत । अन्यकर्मा- ४१० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु भोगानुपपत्तिर्न स्यात् तस्य दुरितस्य दुःखविशेषफलत्वानुपपत्तेश्च । अनेकेषु हि दुरितेषु सम्भवत्सु भिन्नदुःखसाधन फलेषु नित्यकर्मानुष्ठानायासदुःख मात्रफलेषु कल्प्यमानेषु द्वन्द्व- रोगादिबाधनं निर्निमित्तं नहि शक्यते कल्पयितुं नित्यकर्मानुष्ठानायास दुःखमेव पूर्वोपात्त- दुरितफलं न शिरसा पाषाणवहनादिदुःखमिति । अप्रकृतं चेदमुच्यते नित्यकर्मानुष्ठा- नायासदुःखं पूर्वकृतदुरितकर्मफलमिति । कथम् ? अप्रसूतस्य हि पूर्वकृतदुरितस्य क्षयो 9 रब्धेऽपि जन्मन्यन्यकर्म फलानुभव इत्यभ्युपगमात् । नहि स्वर्गिणो नरकानुभवस्सम्भवति - स्वर्ग नरकयो- रसुख:दुखयोर्विरोधात् । तस्मादुक्त नियमोऽवश्यं स्वीकर्तव्य इति । किंच नित्यकर्मानुष्ठानायाससिद्धं दुखं किं पूर्वकृतदुरितसामान्यफलमुत दुरितविशेषफलम् ? नाद्यः सर्वेषां ब्रह्महत्या स्वर्णस्तेयपरदारगम- नादिपातकानामविशेषेण नित्यकर्मानुष्ठानायासदुःखमेव फलमिति कल्पनस्यायुक्तत्वादप्रमाणस्वाश्च । न द्वितीय:- अस्य दुरितविशेषस्येदं नित्यकर्मानुष्ठानः दुखं फलमिति निश्चेतुं शास्त्राद्यभावादित्याह - तस्येति । नित्यकर्मानुष्ठानायासदुःखस्येत्यर्थः । दुरितदुःखविशेषफलत्वानुपपत्तेः दुरितविशेषदुःख- फलत्वानुपपत्तेरित्यर्थः । दुरितानां यदुःखविशेषरूपं फलं तत्त्वानुपपत्तेरिति वा । संग्रहवाक्यमेव विषृणोति - अनेकेष्विति । अनेकेषु भिन्नदुःखसाधनफलेषु सम्भवत्सु भिन्नदुरितेषु नित्यकर्मानुष्ठा- नायासदुःखमात्रफलेषु कल्प्यमानेषु सत्तु भिन्नानि दुःखं साधन फलं करणवैकल्यादिकं चेत्येतानि येषां तेषु भिन्नदुःखसाघनफलेषु सम्भवत्सु सम्भावितेष्वित्यर्थः । नित्यकर्मानुष्ठानाया सदुःखमात्र फलं येषां तेषु तथोक्तेषु भिन्नदुःखसाधन फलानां बहूनां सम्भावितानामनेकजन्मसञ्चितानां दुरितानां नित्य- कर्मानुष्ठानायासदुःखमेव फलमिति कल्पिते सतीत्यर्थः । अनिमित्तं द्वन्द्वरोगादिबाधनं कल्पयितुं नहि शक्यते । द्वन्द्वरोगादिबाघनमनिमित्तं कल्पयितुं नहि शक्यत इति वा । अस्मिन्पक्षे कल्पयितुं वक्तु- मित्यर्थः । उभयथापि अनुभवसिद्धत्वाद्दुरपलापं द्वन्द्वरोगादिबाधनं निर्निमित्तं स्यादित्यर्थः । द्वन्द्व- रोगादिबाघानां कारणत्वेनाभ्युपगतानि शास्त्रविद्भिर्यानि दुरितानि तेषामपि नित्यकर्मानुष्ठानायास- दुःखमेव यदि फलं स्यातर्हि द्वन्द्वरोगादिबाघा फलं नैव भवतीति निर्निमित्ता एव द्वन्द्वरोगादिबाधा- स्स्युः । तस्मादेवं कल्पयितुं न शक्यत इति भावः । तामेवाशक्यां कल्पनामभिनीय दर्शयति- नित्येति । पूर्वोपात्तदुरितानां नित्यकर्मानुष्ठानायासदुःखमेव फलं शिरसा पाषाणवहनादिसिद्धदुःखं तु न फलमित्यनिमित्तं द्वन्द्वरोगादिबाधनं कल्पयितुं न शक्यत इति पूर्वेणान्वयः । वहनादीत्यादिपदात् द्वन्द्वरोगादिग्रहणम् । द्वन्द्वरोगादीत्यादिपदात्पाषाणवहनादिग्रहणम् । तस्मात्परस्परं भिन्नानां दुरितांना फलमपि परस्परं भिन्नमेव दुःखविशेषो भवितुमर्हतीति न सर्वेषां दुरितानां नित्यकर्मानुष्ठानायासदुःख- मेव फलं तथासति द्वन्द्वरोगशिरः पाषाणवहनादिदुःखस्य निर्निमित्तत्वापत्तेः । निर्निमित्तस्यापि दुःख- स्याभ्युपगमें कारणं विनापि कार्य स्यादिति महदनिष्टं सुकृतिनोऽपि निष्कारणदुःखानुभवप्रसङ्गाच्चेति भावः । दोषान्तरमाह - अप्रकृतं चेति । प्रकृतविरुद्धमित्यर्थः । किमुच्यतेऽत आह- नित्येति । कथमिदं वचनमप्रकृतमिति पृच्छति — कथमिति । उत्तरयति - अप्रसूतेति । हि यस्मादप्रसूतफलस्य 1 ●

अष्टादशोऽध्यायः
શ્
नोपपद्यत इति प्रकृतम् । तत्र प्रसूतफलस्य कर्मणः फलं नित्यकर्मानुष्ठानायास दुःखमाह भवान्- नाऽप्रभूतफलस्येति । अथ सर्वमेव पूर्वकृतं दुरितं तत्प्रसूतफलमेवेति मन्यते भवान्; ततो नित्यकर्मानुष्ठानायासदुःखमेव फलमिति विशेषणमयुक्तं नित्यकर्मविध्यानर्थक्य- प्रसङ्गश्व उपभोगेनैव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः । किं च श्रुतस्य नित्यस्य पूर्वकृतदुरितस्य क्षय उपपद्यत इत्युक्तं, तस्मादिदमप्रकृतमित्यर्थः । किं तत्प्रकृतं यस्येदं विरुद्धमप्रकृत- मत आह— नोपपद्यत इतीति । अप्रसूतस्य कर्मणः क्षयो नोपपद्यत इति प्रकृतम् । यद्वा कथ- मप्रकृतमुच्यते ? मत आह— कथमिति । अप्रसूतस्म पूर्वकृतदुरितस्य क्षयः कथमुपपद्यते ! कथमपि नोपपद्यत इति प्रकृतम् । एतद्विरुद्धत्वात्त्वदुक्तमप्रकृतमिति भावः । तदेव स्फुटयति– तत्लेति एवंसतीत्यर्थः । अप्रसूतफलस्य पूर्वकृतदुरितस्य क्षयो नोपपद्यत इति प्रकृते सतीत्यर्थः । भवानप्रसूत- फलस्य सञ्चितस्येत्यर्थः । कर्मणो नित्यकर्मानुष्ठानायासदुःखं फलमित्याह – प्रसूत फलस्य प्रारब्धस्य कर्मणो नित्यकर्मानुष्ठानायास दुःखं फलं न भवतीति च भवानाह त्वं वदसि । तस्मादिदमप्रकृत- मुच्यते ।
1

अयं भावः — नित्यकर्मानुष्ठानायासदुःखमेव पूर्वकृतदुरितफलमिति वदन् भवान् प्रष्टव्य इतिं । किं पूर्वकृतानां सञ्चितानां दुरितानां नित्यकर्मानुष्ठानदुःखं फलमिति तवाभिप्रेतम् ? यद्वा प्रार- ब्धानाम् ? द्वितीये प्रारब्धस्य नित्यकर्मानुष्ठानदुःखोपभोगेन क्षये सत्यपि सच्चितानां क्षपाभावा- मोक्षानुपपत्तिः । वाद्ये फल्दानायानंकुरीभूतानां सचितानां कथं नित्यकर्मानुष्ठान दुःखरूपफलप्रदान- सम्भवः ? तस्मादनुभवसिद्धमिदं नित्यकर्मानुष्ठानायासदुःखं न प्रारब्धफलं किं तु सञ्चितंदुरितफल -’ मेवेति तव वचनमिदमप्रकृतमप्रमाणमग्राह्यमेवेति विरोधं स्फुटयितुमेवा प्रसूतफलस्येति प्रसूतफलस्येति चोक्तमाचार्यैः । अप्रसूतमनुत्पादितं फलं दुःखं येन तस्याप्रसूतफलस्य । प्रसूनमुत्पादितं फलं दुःखं येन तस्य प्रसूतफलस्य । अप्रसूतफलस्य दुःखफलप्रसूतिः, प्रसूतफलस्य दुःखफलाप्रसूतिश्चेत्युभयं विरुद्धमिति भावः । ननु न वयं पूर्वकृतदुरितानां सञ्चितत्वमभ्युपगच्छामः; किंतु प्रारब्धत्वमेव । तस्मान्नित्यकर्मानुष्ठानायासदुःखोपभोगेन पूर्वकृतदुरितक्षयोपपत्तिरिति नाप्रकृतत्वदोष इत्यत आह- अथेति, सर्वमेवेति । सर्वमपीत्यर्थः । भवान् सर्वमेव पूर्वकृतं दुरितं प्रसूतफलमेवेति मन्यते यदि सतस्तर्हि नित्यकर्मानुष्ठानायासदुःखमेव पूर्वकृतदुरितानामिति शेषः । फलमितिविशेषणं विशिष्य वचनमयुक्तं - द्वन्द्वरोगादिदुःखस्यापि पूर्वकृतदुरितफलस्या नुमुयमानस्याऽपलपितुमशक्यत्वादिति भावः । दोषान्तरमाह - नित्यकर्मेति । ‘वसन्ते वसन्ते ज्योतिषा यजेत, अहरहस्सन्ध्यामुपासीतेत्यादयो विधयो व्यर्था एव । विधिं विनापि पूर्वकृतदुरितकरस्य नित्यकर्मानुष्ठानायास दुःखस्यावश्यमनुभो कन्य- तयां तत्प्रारब्धबलादेव नित्यकर्मसु प्रवृत्त्युपपत्तेरिति भावः । इदमेवाह — उपभोगेनैवेति । विधि विनापि प्राप्तेनोपभोगेनैवेत्यर्थः । ज्वरादिदुः खोपभोगवदिति भावः । अप्राप्तार्थप्रापणे हि विधीना- मानर्थक्याभावः । कि च नित्यकर्मानुष्ठानात्प्रत्यवायाप्राप्तिः फलमिति ब्रुवतस्तव नित्यकर्मानुष्ठाना- ४१३ • श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतासु ; कर्मणो दुःखं चेत्फलं नित्यकर्मानुष्ठानायासादेव तद्द्दश्यते व्यायामादिवत् सदन्यस्येति कल्पनानुपपत्तेः । जीवनादिनिमित्ते च विधानान्नित्यानां कर्मणां प्रायश्चित्तवत्पूर्वकृतदुरित- फलत्वानुपपत्तिः । यस्मिन्पापकर्मणि निमित्ते यद्विहितं प्रायश्चित्तं न तु तस्य पापस्य तत्फलम् । अथ तस्यैव पापस्य निमित्तस्य प्रायश्चित्तदुःखं फलं; जीवनादिनिमित्तमपि नित्यकर्मानुष्ठानायासदुःखं जीवनादिनिमित्तस्यैव तत्फलं प्रसज्येत नित्यप्रायश्चित्तयो- दुःखं फलमिति वचनं व्याहतम् । व्याहतमप्ययुक्तं चेत्याह किं चेति । श्रुतं फलं प्राजापत्यलोकादिकं यस्य तस्य श्रुतफलस्य नित्यकर्मणां पुण्यफलश्रवणादिति बोध्यम् । नित्यस्य कर्मणो दुःखं फलं चैत- हीति शेषः । नित्यकर्मानुष्ठामाया सात दुःखफलं दृश्यत एव । तत्र दृष्टान्तमाह-व्यायामादिव- दिति । यथा व्यायामादेर्दुःखं फलं दृश्यते तद्वदित्यर्थः । एवं स्थिते तद्दृश्यमानं दुःखं फलमन्यस्य पूर्वकृतदुरितस्येति कल्पनाया अनुपपतेः । · अयं भावः - - अभ्रतफलस्य व्यायामादेखि श्रुतफलस्य नित्यकर्मणो दृष्टदुःखफलत्वकल्पन तावदयुक्तम् । तत्रापि व्यायामादेरिव नित्यकर्मणोऽपि यदि दृष्टं दुःखं फलं तर्हि तत्कथं पूर्वकृतदुरित- फलं स्यात् ? नहि व्यायामगमनादिकृतं दुःखमन्यस्य दुरितस्येष्यते । एवं नित्यकर्मकृतमपि दुःखं न पूर्वदुरित फल, किं तर्हि नित्यकर्म फलमेव यथा व्यायामादिजन्यदुःखं व्यायामादिफलम् । तस्माच्छु त फलस्य नित्यस्य दृष्टफलव्यायामादिवन्न दुःखं फलं, नापि नित्यकर्मानुष्ठानायासजन्यं दुःखं पूर्वोपार्जित दुरित फलं व्यायामादिजन्यदुःखवदिति भावः । इतश्व नित्यकर्मानुष्ठानं न पूर्वकृतदुरितफलमित्याह - जीवनेति जीवनादिनिमित्ते नित्यानां कर्मणां विधानाच्च नित्यकर्मणां पूर्वकृतदुरितफलत्वं नोपपद्यते । प्रायश्चित्तव- दिति दृष्टान्तं स्वयमेव विवृणोति - यस्मिन्निति । यस्मिन् पापकर्मनिमितेऽभोज्यभोजनादिपापकर्म- रूपे निमित्ते यत्प्रायश्चित्तं चान्द्रायणादिकं शास्त्रेण विहितं तस्य पापस्य कर्मणस्तदेव प्रायश्चित्तं फलं न भवति । तद्वज्जीवनादिनिमित्ते विहितस्य नित्यस्य पूर्वकृतदुरितफलत्वं नोपपद्यत इति । 1 ननु पापनिमिते विहितस्य प्रायश्वित्तस्य पापफलत्वाभावेऽपि प्रायश्चित्तानुष्ठानायासदुःखस्य पापफलत्वमस्त्येव - पापस्य दुःखमेव फलमिति नियमात् । एवं जीवनादिनिमित्ते विहितस्य नित्यस्य पूर्व- कृतदुरितफलत्वाभावेऽपि नित्यकर्मानुष्ठानायासदुःखस्य तत्फलत्वमस्त्येवेति शङ्कते - अथेति । तस्य प्रायश्वितं प्रति निमित्तभूतस्य पापस्यैव फलं प्रायश्चित्तदुःखमिति यदि त्वं ब्रूषे तहीति शेषः । जीव- नादिनिमित्तमपि नित्यकर्मानुष्ठानायासं दुःखं जीवनादिनिमित्तस्यैव फलं प्रसज्येत । पापनिमित्तविहित- प्रायश्वितानुष्ठानायासजन्यं दुःखं यथा पापफलं तथा जीवनादिनिमित्त विहित नित्यकर्मानुष्ठानायासजन्य- दुःखं जीवनादिनिमित्तस्यैव फलं स्यात् नतु पूर्वकृतदुरितस्येत्यर्थः । ननु नित्यस्य नैमित्तिकेन प्रायम्बिलेन कथं साम्यमत आह- नित्येति । यथा पापनिमिते प्रायश्चित्तं विहितं तथा जीवनादि- निमिसे नित्य विहितमिति नित्यप्रायश्विले उमेऽपि नैमित्तिके एव । निमिते विहित हि नैमितिकम् । अष्टादशोऽध्यायः । ४१ ननु निमित्तशब्देवयेऽपि निमित्तार्थयोर्हेतुफलयोर्भेद एव । प्रकृते च प्रायश्चित्तस्य पापं निमित हेतुः । नित्यकर्मणो जीवनादिकं निमित्त फल- पापनिवर्तकत्वात्प्रायश्चित्तस्य, जीवनादिनिर्वर्तकत्वाच नित्यस्य । तस्मान्न नित्यप्रायश्चित्तयोरसाधर्म्यमिति चेन्मैवम् - यथा पापनिमिते प्रायश्चित्तं विहितं तथा जीवादिनिमित्ते नित्यं विहितमित्येतावदंशस्यैव विवक्षितत्वादिह नहि सर्वात्मना सादृश्यं वयं तयोर्ब्रम इति । वस्तुतस्तु पापनिवृत्त्यर्थं विहितं प्रायश्चित्तं जीवनादिनिवृत्त्यर्थं विहितं नित्यमिति नित्यप्रायश्चित्तयोरविशेषानभ्युपगमेऽपि प्रायश्चित्तवत्पूर्वोपचितदुरितक्षयार्थं नित्यकर्मेति यदुक्तं मीमांस- केन तनोपपद्यत एव प्रायश्चित्तस्य दुरितक्षयार्थत्वेऽपि नित्यस्य जीवनाद्यर्थत्वेन दुरितक्षयार्थत्वाभावात् । नित्यकर्मणां जीवनादिनिमित्ते च विधानादिति स्वेनैवोक्तत्वात् ।

ननु नित्यकर्मसु कानिचिद्दुरितक्षयार्थानि कानि पुनर्जीवनाद्यर्थामि । यथा ब्राह्मणस्य यज- नाध्ययनदानानि दुरितक्षयार्थानि याजनाध्यापनप्रतिग्रहणानि जीवनाद्यर्थानीति चेन्मैवम् – यजनादीनां चान्द्रायणादिवद्दुरितक्षयार्थत्वे सति प्रायश्चित्तत्वप्रसङ्गेन नित्यत्वस्यैवाभावात् । यजनादीनां ब्राह्मण- वर्णधर्मत्वेन तेषां दुरितक्षयार्थत्व कल्पनाऽयोगाच्च । न चाकरणे प्रत्यवायप्रापकत्वं नित्यत्वं, तत्प्राय- विसस्य नास्तीति नित्यप्रायश्चित्तयोर्विशेषः । वर्णधर्माश्च दुरितक्षयार्था एवेति वाच्यं प्रायश्चितस्या- प्यकरणे नरकपातलक्षणप्रत्यवायसत्त्वात् । अन्यथा प्रायश्चित्तस्याकर्तव्यत्वापातात् । वर्णधर्माणां दुरित- क्षयार्थत्वे तैरेव दुरितक्षये कृते सति प्रायश्चित्तविधिवैयर्थ्याप्रसङ्गाच्च । 1 71 ननु इहजन्मकृतदुरितक्षयार्थानि प्रायश्वितानि तदकरणे च दुरितफलस्यैव जन्मान्तरेऽनुभवः; नतु प्रायश्चित करणादपूर्व किश्चिद्दुरितमुत्पद्यते । नित्यानि तु जन्मान्तरकृदुरितक्षयार्थानि तदकरणे चापूर्व किश्चिद्दुरितमुत्पद्यत इति नित्यप्रायश्चिंतयोर्भेद इतिचेत्, अस्तु किं प्रायश्चित्तनिवर्त्य मिन नित्यकर्म निवर्त्य दुरितं फलदानायानारब्धमुतारब्धम् ? आये- नित्यकर्मभिस्सञ्चिदुरितक्षयानुपपत मोक्षानुपपत्तिः । द्वितीये प्रायश्चित्तवं दिति दृष्टान्तानुपपत्तिः । न हि हिंसादिलक्षगमिहजन्मनि कृतं दुरितं फलदानायारब्धं भवितुमर्हति यत्प्रायश्चित्तेन निवर्त्यते । फलदानायेद मैयाकृत दुरितमा माभूदिति हि तस्य प्रायश्चित्तं करोति पापी । किं च फलदानायारब्धस्य दुरितैस्य फलोपभोगेनैव क्षयः । ’ प्रारब्ध भोगतो नश्ये’ दिति शास्त्रादिति कृत्वा तत्क्षयार्थं नित्यकर्मानुष्ठानं व्यर्थमेव तद्विविश्व व्यर्थ एव । नच जन्मान्तरकृतस्य दुरितस्य नित्यकर्मानुष्ठानायासजन्यदु: खोपभोगेनैव क्षय इति वाच्य, अन्यव्यायामादिदुःखोपभोगेन तस्य न क्षय इति वक्तुमयुक्तत्वादन्यदुःखोपभोगस्य जन्मान्तरकृतदुरित- हेतुकत्वाभावस्य सिद्धत्वेन तद्दुःखस्य निर्निमित्तकत्वापत्तेश्च । अथैतद्दोषपरिहाराय सर्वमपि दुःख पूर्वकृत दुरित फल मेवेत्यभ्युपगम्यते तर्हि नित्यकर्मैवानुष्ठाय तदायासदुःखेनैव पूर्वकृतदुरित क्षपणीयमिति कथमुच्यते ? किं तर्हि काम्यकर्माप्यनुष्ठाय सद्दुःखेन तद्दुरित क्षपणीर्यमेव । अपि च प्रारवषः क्शा यथा नित्यकर्मानुष्ठानायासदुःखप्रातिस्तथा उद्वशादेव काम्यकर्मानुष्ठानायास दुःखप्राप्तिरिति कृत्वा ४ १४ श्रीभगवद्गीतासु- भाष्याकेंप्रकाशविलसित श्रीशाङ्करभाष्योपता नैमित्तिकत्वाविशेषात् । किं चान्यत्- नित्यस्य काम्यस्य चाग्निहोत्रादेरनुष्ठानायासदुःखस्य तुल्यत्वान्नित्यानुष्ठानायास दुःखमेव पूर्वोपात्तदुरितस्य फलं, नतु काम्यानुष्ठानायासदुःखमिति विशेषो नास्तीति तदपि पूर्वकृतदुरितफलं प्रसज्येत । तथा च सति नित्यानां फलाश्रवणा: सद्विधानान्यथानुपपत्तेश्च नित्यानुष्ठानायासदुःखं पूर्वकृतदुरितफलमित्यर्थापत्तिकल्पना चानुप पन्ना, एवंविधानान्यथानुपपत्तेरनुष्ठानायास दुःखव्यतिरिक्तफलत्वानुमानाच्च नित्यानाम् । विरोधाच्च, विरुद्धं चेदमुच्यते– नित्य कर्मण्यनुष्ठीयमानेऽन्यस्य कर्मणः फलं भुज्यत इत्य- भ्युपगम्यमाने स एवोपभोगो नित्यस्य कर्मणः फलमिति नित्यस्य कर्मण: फलाभाव इति च कथं काम्यकर्मदुःखस्य परित्य. गश्शक्यते कर्तुम् ? तदिदमभिप्रेत्याह — किं चान्यदिति । अन्यदपि दूषणमस्तीत्यर्थः । नित्यस्य काम्यस्य वा सर्वस्यापि कर्मणोऽनुष्ठानायासजन्यं दुःखं पूर्वोपात्तदुरित- फलमेव, नतु नित्यानुष्ठानजन्यं दुःखं पूर्वकृतदुरितफलं, काम्यानुष्ठानजन्यं दुःखं तु पूर्वकृतदुरितफलं न भवतीति विशेषोऽस्ति । इति हेतोस्तदपि काम्यानुष्ठानदुः खमपि पूर्वकृतदुरितफलं प्रसज्येत स्या- दित्यर्थः । भवतु काम्यानुष्ठानदुःखस्यापि पूर्वकृतदुरितफलत्वप्रसङ्गः को दोषस्तत्रेत्यत आह-तथा च सतीति । काम्यानुष्ठानदुःखस्यापि दुरितफलत्वे सतीत्यर्थः । अर्थापत्तिकल्पनेति । पीनो देवदत्तो दिवा न भुंक्त इत्यत्र दिवाभोजनाभावेऽपि प्राप्तस्य पीनत्वस्यान्यथानुपपत्त्या रात्रिभोजनमर्थापत्तिप्रमाणेन यथा करूप्यते उद्वन्निष्फलनित्यकर्म विधानान्यथानुपपत्त्या अर्थापत्तिप्रमाणेन कल्पितं यन्नित्यकर्मानुष्ठान- दुःखस्य पूर्वकृतदुरितफलत्वं कथं तदुपपद्यते ? सफलकाम्यकर्मानुष्ठानजन्यदुःखस्यापि पूर्वकृतदुरितफल- त्वेन निष्फलनित्यकर्मानुष्ठानजन्यदुःखमेव पूर्वकृतदुरितफलमिति वक्तुमशक्यत्वादिति भावः । भवत्वेव- मर्थापत्तिकल्पनाया अनुपपतिः, किं ततोऽत आह— एवमिति । अर्थापत्तिकल्पनाया अनुपपन्नत्वे सतीत्येवंशब्दार्थः । नित्यकर्मणो ऽनुष्ठानाया सदुःखव्यतिरिक्तं फलमस्ति, नित्यकर्म विधेरन्यथोपप- त्यभावात्काम्यकर्मवदित्यनुमानाच्च नित्यानां फलवत्त्व सिद्धिः । चकाराच्छास्त्रादपीत्यर्थः । विरोधा- बेति । नित्यकर्मणः फलाभाववचनस्य विरुद्धत्वाचेत्यर्थः । यद्वा अर्थापत्तिकल्पनाया अनुपपत्तावेकं कारणमुक्तं काम्यानुष्ठानदुःखस्यापि पूर्वकृतदुरितफलत्वप्रसक्तिरूपम् । कारणान्तरमाह - अनुमाना- बोक्तार्थापत्ति कल्पनाऽनुपपन्नेत्यर्थः । अनुमानं च दर्शितम् । यदि नित्यकर्मानुष्ठानस्य प्रारब्धदुरितकृत- नित्यानुष्ठानायासदुःखमेव फलं तर्हि प्रारब्धवशादेव तद्दुःखानुभवसिद्धौ व्यर्थमेव नित्यकर्म विधानमिति नित्यकर्म विधानान्यथानुपपत्तिरेव नित्यानां दुःखातिरिक्त फलसद्भावं साधयतीत्यर्थः । कारणान्तरमाह - विरोधाच्चेति । विरोधाच्चार्थापत्ति कल्पना अनुपपन्नेत्यर्थः । विरोधमेव प्रकटयति - विरुद्धं वेद- मुच्यत इति । किं तदत आह- नित्येति । नित्यकर्मणि क्रियमाणे सत्यन्यस्य पूर्वकृतदुरितस्य कर्मणः फलं भुज्यत इत्यभ्युपगम एको विरोधः । तथा अभ्युपगम्यापि स एव पूर्वकृतदुरितफलभूतस्य नित्यकर्मानुष्ठानायासजन्यदुःखस्योपभोगो नित्यकर्मणः फलमितिवचनमन्यो विरोधः । एवं नित्यस्य दुःखं फलमित्यभ्युपगम्यापि नित्यकर्मणः फलवत्त्वाभाव इति वचनं तृतीयो विरोधः । तस्माद्विरुद्धं तदिदंअष्टादशोऽध्यायः । બે विरुद्धमुकच काम्याग्निहोत्रादावनुष्ठीयमाने नित्यमप्यग्निहोत्रादितन्त्रेणैवानुष्ठितं भवतीति तदायासदुःखेनैव काम्याग्निहोत्रादि फलमुपक्षीणं स्यात् तत्तन्त्रत्वात् । अथ काम्याग्निहोत्नादिफलमन्यदेव स्वर्गादिः तदनुष्ठानायासदुःखमपि भिन्नं प्रसज्येत । न च तदस्ति दृष्टविरोधात् । न हि काम्यानुष्ठानायास दुःखात्केवलनित्यानुष्ठाना यासदुःखं भिन्नं यत्त्वयोच्यते नित्यानां फलाश्रवणान्नित्यानुष्ठानायासदुःखं पूर्वकृतदुरितफलमिति । दूषणान्तरमाह- किं चेति । अग्निहोत्रादिकर्मणां नित्यत्वकाम्यत्वप्रयुक्तो न कोऽपि स्वरूपभेदः । क्रियाकारक- मन्त्रोपकरणकलापस्य तुल्यत्वान्नित्ये काम्ये चाग्निहोत्रादिकर्मणि । किं तर्हि तदनुष्ठातुस्स कामत्वनिष्का- मत्वाभ्यामेव नित्यका म्ययोर्भेदः । ‘वसन्ते वसन्ते ज्योतिषा यजेतेति विहितो नित्य एव ज्योतिष्टोमः ‘ज्योतिष्टोमेन स्वर्गकामो यजे’ तेति स्वर्गकामिना अनुष्ठीयमानस्सन् काम्यो भवति । एवं सति नित्या ज्ज्योतिष्टोमात्काम्यस्य ज्योतिष्टोमस्य कामांश एक एवाधिकस्तदतिरिक्तस्सर्वोऽप्यविशिष्ट एवेति कृत्वा काम्ये तस्मिन्ननुष्ठीयमाने सति नित्योऽप्यनुष्ठित एव । ततश्च काम्यकर्मणोऽपि नित्यकर्मण इव नित्यानुष्ठानायासदुःखं फलमेवेति कृत्वा नित्यानुष्ठानायासदुःखेनैव काम्यकर्मणोऽपि फलस्योपक्षयः स्यात्- आयासदुः खन्त्रत्वात्काम्यफलस्य । अयं भावः - नित्यानुष्ठानायासदुःखोपभोगद्वारा यथा नित्यस्य कृतंस्य कर्मणः क्षयस्तथा काम्यस्यापीति कृत्वा नातिरिक्तं स्वर्गादिलक्षणं फलं भवितुमर्हति काम्यस्यापीति । ननु नित्यस्यै- वानुष्ठानायासदुःखं फलं, नतु काम्यस्य तस्य स्वर्गादिफलश्रवणादित्याह - अथेति । अथ काम्याग्नि- होत्रादिफलं • स्वर्गादिरूपमन्यदेवेति यदि ब्रूषे ताँति शेषः । तदनुष्ठानेति । काम्यानुष्ठानेत्यर्थः । भिन्नमिति । नित्यानुष्ठानायासदुःखादिति भावः । अभिन्नत्वे तु तेनैव काम्यस्य क्षयस्स्यादिति भावः । भवतु भिन्नं किं तत आह-न चेति । तन्नित्यानुष्ठाना या सदुःखात्का ग्यानुष्ठानायासदुःखस्य भिन्नत्व- मित्यर्थः । नचास्ति नैवास्ति । कुतः ? दृष्टविरोधात् प्रत्यक्षविरोधाद्दृष्टबिरोधमेवोपपादयति-न हीति । हिः प्रसिद्धौ । भिन्नं दुःखं न दृश्यत इत्यन्वयः । 1 अयं भावः — यदि नित्यकाम्याग्निहोत्रयोर्न स्वरूपभेदः, नाप्यनुष्ठानायासदुः खरूपफल मेदः, तनुष्ठानायासदुःखेन नित्यस्येव काम्यस्य कुतो न क्षयः ? नच स्वर्गादिफलवत्त्वादक्षय इति वाच्यं, यदि दुःखोपभोगात्काम्यस्य क्षयो न स्यात्तर्हि स्वर्गादि फलवत्त्वं स्यात् । क्षयाभाव एव नोपपद्यते । सर्वस्यापि कृतस्य कर्मणः फलोपभोगेन क्षय इत्यभ्युपगमादनुष्ठानाया सदुःखस्य च कर्मफलत्वात् । एव- मनुष्ठानंदु खोपभोगेनैत्र क्षीणस्य कामस्य कथं स्वर्गादिफलप्रदस्वम् ? न कुरमुत्पाद्य क्षीणं बीजमंकुरा- न्तरमुत्पादयति । तस्मात्स्वर्गादिरूपं काम्याग्निहोत्रफलमन्यदेवेति वक्तुं न शक्यते । अथैतत्साधनाब नित्य । ग्निहोत्रानुष्ठानायासदुःखमेव फलं, नतु काम्याग्निहोत्रानुष्ठानायासदुःखमिति करूप्यते तर्हि किं नित्यदुःखात्काम्यदुःखं भिन्नमुताभिन्नम् ? आधे प्रत्यक्षविरोधः । द्वितीये- काम्य दुःखफलमेवेति । 1 ४१६ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्यो पैता दृश्यते । किं चान्यत् अविहितमप्रतिषिद्धं च कर्म तत्कालफलं, नतु शास्त्रचोदितं प्रतिषिद्धं वा तस्मात्काम्यस्याप्यग्निहोत्रादेर्नित्यस्येवानुष्ठानायासदुःखमेव फलं, नतु स्वर्गादिकमिति कृत्वा कथं काम्यस्य फलवत्त्वं नित्यस्य तदभावश्चोच्यते स्वया ? दूषणान्वरमाह- किं चान्यदिति । यत्कर्म शास्त्रेणाविहितं यच्च शास्त्रेणाप्रतिषिद्धं तदेव व्यायामादि लौकिकं कर्म, तत्कालफलं कर्मसमकालदृष्टफलकमित्यर्थः । यत्पुनश्शास्त्रेण चोदितं प्रतिषिद्धं वा कर्म तन्न तत्कालफलं भवेत् । अत एव हि ‘प्रत्यक्षेणानुमित्या वा यस्तूपायों न बुध्यते । एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता’ इति वेदस्य शास्त्रस्य लक्षणं स्मर्यते । नहि दृष्टस्य फलस्योपायः प्रत्यक्षानुमित्यविषयस्स्यात्; किं त्वदृष्टस्य फलस्यैव । तस्माददृष्टफलसाधन बोधनेनैव शास्त्रमर्थवत् । नहि ‘ऋतौ भार्यामुपेयात्, न कल भक्षयेत्, न सुरां पिवे’ दित्यादिविधिनिषेधः ॥ वयानां किमपि दृष्ट फलमस्ति । नच ऋतौ भार्योपगमनात्सुखं दृश्यत एवेति वाच्यं, अनृतौ भार्यागमनादपि दर्शनादृतौ तद्ग- मनविधानस्य वैयर्थ्यादिति । ननु शास्त्रचोदितं शस्त्रप्रतिषिद्धं च कर्मापि तत्कालफलमेवेत्यत आह- अन्यथेति । शास्त्रचोदितप्रतिषिद्धयोरपि तत्काल फलत्वे सतीत्यर्थः । स्वर्गादिष्वदृष्टफलेषु शास- नोथमो न स्याच्छास्त्रस्येति शेषः । ईश्वरस्येति वा । अदृष्टफलशासनेति पाठे स्वर्गादिषु कामितेषु बिषयेऽदृष्टं स्वर्गादिलक्षणं फलं येषां तेषामदृष्टफलानां ज्योतिष्टोमादिकर्मणां शासनोद्यम इत्यर्थः । स्वर्गादृष्टफलशासनोद्यम इति पाठस्समीचीनः । तस्मान्नित्यस्य काम्यस्य वा कर्मणश्शः स्त्रविहितस्य न तत्कालफलत्वमितिकृत्वा दृष्टमनुष्ठानायासदुःखं न तत्फलं भवितुमर्हति । दुःखार्थे कर्मणामविहितत्वा- च्छास्त्रेण । यदि दुःखायैव विहितानि कर्माणि स्युस्तर्हि न कोऽपि तत्र प्रवर्तत इति वैयर्थमेवमपि स्याच्छास्रस्यः ।

7 ननु न व्यर्थ शास्त्रं पूर्वकृतदुरितक्षयः कर्मानुष्ठानदुः खोपभोगेनैव कर्तव्य इति विधानादिति चेन्मैवम् — कि दुरितक्षयस्सामान्यदुः खोपभोगेन भवति उत विशेषदुःखोपभोगेन ! मधे - कर्मविधि- वैयर्थ्यम् - शिरः पाषाणवहनादिदुः खेनापि दुरितक्षयसत्त्वात् । द्वितीये- कर्मानुष्ठानायासदुःखातिरिक- द्वन्द्वरोगादिदुःखं न स्यात्पुरुषस्य । सति तस्मिन्दुरितक्षयस्यावर्जनीयत्वात् । नच पूर्वक उदुरितक्षयः कर्मानुष्ठानायास दुःखोपभोगेनापि कर्तव्य इति शास्त्रमर्थवदिति वाच्यं, द्वन्द्वरोगादिदुः खोपभोगेनैव श्रीयमाणस्य दुरितकर्मणः क्षयार्थं नित्यादिकर्मविधानानर्थक्यात् । नच कर्मानुष्ठानायासदुःखुशपुणी यं पूर्वकृत दुरितमन्यत् । द्वन्द्वरोगादिदुः खोपभोगक्षपणीयं दुरितम्परम् । यथा जठररोगदुःखोपभोगक्षप णीयं दुरितमन्यच्छिरः पाषाणवहनादिदुः खक्षपणीयमपरं तद्वत् । अत एव ‘न शूद्रे पातकं किश्चिन्न च संस्कारमई’ तीति स्मृतिरपि सङ्गच्छते । अग्निहोत्रादि कर्मानुष्ठानायासजन्यदुःखोपभोगनिवर्त्यपात- काभावाच्छूद्रस्योपनयनादिसंस्काराभावः । कर्मार्थो हि स संस्कारः । द्विजेषु तु तादृशपातकसत्ता- संस्कारविधानमिति वाच्यं इन्दरोगा दिल पग्निहोत्र ( दिकं विहितं कर्म संपापेभ्यो द्विजेभ्यो, ५३ मष्टादशोऽध्यायः । ; ४१ तत्कालफलं भवेद्यदि तदा स्वर्गादिष्वप्यदृष्टफलशासने चोद्यमो न स्यात्, अग्निहोत्रा- दीनामेव कर्मस्वरूपाविशेषेऽनुष्ठानायास दुःखमात्रेणोपक्षयो नित्यानां स्वर्गादिमहाफलव काम्यानाम् । अङ्गेतिकर्तव्यताद्याधिक्ये त्वसति फलकामित्वमात्रेणेति न शक्यं कल्प- निष्पापश्शूद्र एवाधिक इति कल्पयितुस्तव साहसस्य वाचामगोचरत्वात् । सत्त्वस्वभावस्य ब्राह्मणस्य सपापत्वं तमस्स्वभावस्य शूद्रस्य निष्पापत्वं च विचित्रायते । एवं सति संस्कारानर्हाणां चण्डालपक्षि- पशुग्थावरादीनां तमस्स्वभावानामपि निष्पापत्वं स्यात् । नचेष्टापत्तिः ‘वाचिकैः पक्षिमृगतां मानसे- रन्त्यजातिताम् । शरीरजैः कर्मदोषैर्याति स्थावरतां नर’ इति स्मृतिविरोधात् । शूद्रादीनां पापस्वभावात् ब्राह्मणादीनां पुण्यस्वभावादेव कर्माधिकारो ब्राह्मणादीनाम् वेदाधिकारश्च । उक्तं हि भगवतैव– ‘तन्मन्त्र ब्राह्मणाधीनं ब्राह्मणो मम दैवत’ मिति, स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा’ इति । किंच. निष्पापस्वाच्छूद्रस्संस्कारानर्हस्पापत्वा द्विजस्संस्काराह इति महदसङ्गतम् । संस्कारानर्हस्वस्यैव पापकार्यत्वात् । नहि यजनादिकर्मार्हत्वं ब्राह्मणस्य पापफलमिति वक्तुं शक्यते । तथासति गमनादि - कर्मात्वमपि चराणां मृतानां पापफलमेव, स्थावराण्येव महापुण्यानीति वक्तव्यत्वात् । तस्मात्तमस्स्वभा- वत्वेन सपापत्वादेव शूद्राणामुपनयनाद्यनर्हत्वं नतु निष्पापत्वात् । नहि शतवारमुपदिष्टोऽपि शूद्रों वेदाक्षरमुश्च्चवारयितुं क्षमते । नहि तत्पुण्यस्य फलमन्यथा ग्राम्याक्षरोश्चारणाशक्तिर्मुकस्यापि पुण्यफलं स्यात् । न शूद्र इति वचनस्य तु देवर्षिपितृऋणात्मकं पातकं किंचिदपि शूद्रे नास्ति । द्विजो हिं जन्मनैव त्रिभिः ऋणवान् जायते । स शूद्रः संस्कारं च नार्हति । तमस्स्वभावत्वेनातिपापिखा- दित्यर्थः । एवं सत्त्वस्वभावस्य ब्राह्मणस्य विहितं यजनादिलक्षणं नित्यकर्म कथं द्वन्द्वरोगादिवत्पापफल भवितुमर्हति ? यदि नित्यकर्म यजनादिकं पापफलं स्यात्तर्हि तमस्स्वभावस्यैव पापीयसइशूद्रस्य चण्डा- लस्य वा तद्विहितं भवेत् । नापि श्रुतमहाफलस्य नित्यकर्मणः पूर्वकृतपापफलत्वं वक्तुमुचितम् । नहि पूर्वकृतदुरित फलस्य द्वन्द्वरोगादेर्मह । फलत्वं श्रूयत इति । " ननु काम्यानामेव महाफलःवश्रवणं, नतु नित्यानामिति काम्यकर्मणां न द्वन्द्वरोगादितौरंय; किंतु नित्यानामेव । नित्यानि हि अनुष्ठानायासदुःखोपभोगमात्रेण क्षीयन्ते । एवं दृष्टदुःखफलकत्वा- ददृष्टफलाभावाच नित्यानि द्वन्द्वरोगादिसुल्यान्येवेति कृत्वा पूर्वकृतदुरितफलमेव नित्यानुष्ठानमिति शङ्कायामाह - अग्निहोत्रादीनामिति । अग्निहोत्रादीनामेव नित्यानां कर्म स्वरूपा विशेष सत्यप्यनु- ष्ठाना यासदुःखमात्रेणोपक्षयः, तेषामेव काम्यानामङ्गेतिकर्तव्यताद्याधिक्ये असत्यपि फलकामित्वमात्रेण स्वर्गादिमहाफलत्वमिति चक्तं न शक्यत इति शेषः । यद्वा स्वर्गाद्यदृष्टफलशासनोद्यमाभावरूपदोषपरि- हाराय शास्त्रचोदितं काम्यमेव तत्कालफलं न भवति, त्विदृष्टफलकं भवति । नित्यं तु दृष्टफलक- मेवेति ब्रूम इति शङ्कायामाह - अग्निहोत्रादीनामिति । एतस्य कर्मणगान्येवं कर्तव्यानीति यो’ विघिस्स मङ्गेतिकर्तव्यता । आदिपदात्कारक भेदादिग्रहणम् । तदादीनामाधिक्ये विशेष । यदि विवा हो प्रनयनयोरिव कर्मस्वरूप भेदः, अङ्गेतिकर्तव्यतां भेदः, कारकादिभेदश्वं स्यान्नित्य काम्याग्निहोत्रयों- 4. ४१८ 3 श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतासु यितुम् तस्माच्च न नित्यानां कर्मणामदृष्टफलाभात्रः कदाचिदप्युपपद्यते । अतश्वाविद्या- पूर्वकस्य कर्मणो विद्यैव शुभस्याशुभस्य वा क्षयकारणमशेषतः, न नित्यकर्मानुष्ठानम् । अविद्याकामबीजं हि सर्वमेव कर्म । तथा चोपपादितमविद्विषयं कर्म, विद्वद्विषया च सर्व- स्तनुष्ठानायासदुःखेन नित्यस्य क्षयः, काम्यस्य तु नेति वक्तुं शक्येव नतु तथास्ति । तस्मात्तथा- वचनमयुक्तमेव । नहि फलकामित्वमात्रेण कर्मस्वरूपाद्यभेदेऽपि काम्यस्य दुःखमात्रेण न क्षय इति वक्तुं शक्यते । फलकामित्वस्य पुरुषनिष्ठस्य कर्मणस्स्वाभाविकशक्त्यति रिक्तशक्तिजननायोगात् । दुःख- मात्रजनकस्य कर्मणोऽग्निहोत्रादेः कथं पुरुषगतकामित्वमात्रेण स्वर्गरूपमहाफलजनकत्वसम्भवः ? एवं दुःखमात्रफल केनाग्निहोत्रादिकर्मणा स्वर्गमारोदुमिच्छापि पुरुषस्यं तुरगमारुश्य गगने विहर्तुमिच्छेव व्यथैव । ततश्व ‘ज्योतिष्टोमेन स्वर्गकामो यजेतेति विधिरपि व्यथैव सुरगेण गगनविहारकामस्सश्वरे- दितिवत् । नहि पुरुषस्य गगनविहारका मित्वमात्रेण तुरगस्य भूसञ्चाराक्षमस्य गगनसञ्चारशक्ति- रसम्भवति येन पुरुषस्य स्वर्गकामित्वमात्रेण कर्मणोऽग्निहोत्रादेर्दुः खमात्रफलकस्य स्वर्गदानशक्ति- स्सम्भवेत् । तस्माच्छास्त्रचोदितस्य नित्यस्याग्निहोत्रादेर्दुः खमेव दृष्टं फलं, तस्यैव काम्यस्य स्वर्गः फल- मितिवचनमयुक्तमेव । C तस्माश्चेति । काम्यानामग्निहोत्रादीनां नित्याग्निहोत्राभिन्नस्वरूपाणां स्वर्गादिमहाफलत्वा- स्युपगमादित्यर्थः । नित्यानां कर्मणामदृष्टफलाभावः कदाचिदपि नोपपद्यत इत्यन्वयः । एवं नित्य- कर्मणामदृष्टफलाभावानुपपत्ता बदृष्टफले सति तेन बन्धस्यादेवेति न नित्यकर्मानुष्ठानान्मोक्षः । ननु नित्यकर्मणामदृष्टफलमस्ति कृतदुरितक्षयरूपमत एव हि प्राज्ञैस्सङ्कल्प्यते - उपात्तदुरितक्षयार्थमिति । तच दुरितमिह जन्मनि जन्मान्तरेषु वा कृतं भवति । उभयविधस्यापि दुरितस्य नित्यैः क्षयसम्भवात्, प्रारम्भदुरितं तु न नित्यैरपि क्षीयते तस्य भोगत एव नाशात् । सच भोगो द्वन्द्वादिरोगदुःखोप- भोगादिरूपः । एवंस्थिते यातनाशरी र पशुपक्ष्यादिजन्म प्रददुरितनिबईणरूपमहाफलस्य नित्यस्य कर्मण- संसारनाशहेतुत्वमेव, न तु बन्धहेतुत्वमिति कृत्वा नित्यकर्मानुष्ठानान्मोक्ष एवेति शङ्कायां नित्यकर्मानुष्ठानादशुभस्य शुभस्य वा कर्मणः क्षयो न सम्भवतीत्याह - अवश्चेति । अस्माश्च कारणादित्यर्थः । किं तत्कारणमत आह— अविद्येति । अविद्यापूर्वकस्य शुभ- स्याशुभस्य वा कर्मणोऽशेषतः क्षयकारणं विधैव न नित्यकर्मानुष्ठानमिति हेतोरित्यर्थः । कुतो नित्यकर्मानुष्ठानान्न क्षयोऽत माह — अविद्याकामेति । हि यस्मात्सर्वमेवेह जन्मनि जन्मान्तरे वा कृतं नित्यकाम्यनतिषिद्धप्रायश्चित्तादिरूपं समस्तमपि कर्म अविद्याकामबीजमविद्या च कामश्वाविद्या- कामौ बीज हेतुर्यस्य तदविद्याकाममूलकमित्यर्थः । यथा शुभमशुभं वा कर्मा विद्यापूर्वकं तथा नित्य- कर्माप्यविद्यापूर्वकमेवेति कृत्वा अविधापूर्वकस्य कर्मणश्शुभाशुभलक्षणस्य कथमविद्या पूर्वकमेव नित्यकर्म नाशकं स्यात् ? नहि तमोमूलकस्य सर्पादिभयस्य तमोमूलकमेव पिशाचादिभयं निवर्तकं भवति । वस्तुतस्तु नित्यकर्मभिर्दुरितक्षयसम्भवेऽपि सुक्रतक्षयो न सम्भवतीति कृत्वा दुरितस्यापि समूलं क्षयो

मष्टादशोऽध्यायः । ४ १९ कर्मसन्न्यासपूर्विका ज्ञाननिष्ठा- ‘उभौ तौ न विजानीतः, वेदाविनाशिनं नित्यं, ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनां, अज्ञानां कर्मसङ्गिनां तत्त्ववित्तु महाबाहो …. गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते, सर्वकर्माणि मनसा सन्न्यस्यास्ते, नैव किञ्चित्करोमीति युक्तो मन्येत तत्ववित्, अर्थादज्ञः करोमीति, आरुरुक्षोः कर्म कारणं आरूढस्य योगस्थस्य शम न सम्भवति । दुरितमूलस्याज्ञानस्य नित्येन क्षयासम्भवात्सति च मूले सति च सुकृतकर्मपुत्रे कथं पुरुषस्य मोक्षस्यान्नित्यानुष्ठानमात्रेण न कथमपीति नित्यस्य दुरितक्षयार्थत्वाभ्युपगमेऽपि न सुक्तिस्तस्मादिति बोध्यम् । अत एवाशेषत इत्युक्तं भाष्यकृद्भिः । अशेषतो निश्शेषतो मूलरूपा- ज्ञानस्यावशेषो न भवति यथा तथेत्यर्थः । । नन्वविद्यामूलस्य कर्मणोऽविद्यामूलं कर्म न नाशकमिति नियमो न सिध्यति, अविद्यामूल- स्याभोज्यभोजनादिलक्षणपापकर्मणोऽविद्यामूलेन चान्द्रायणादिलक्षणेन प्रायश्चित्तेन कर्मणा क्षयसम्भवा- दन्यथा प्रायश्चित्तकाण्डस्य धर्मशास्त्रान्तर्गतस्य वैयर्थ्यापातादिति चेत्, मैत्रम् - अविद्यामूलस्य कर्मणोऽविद्यामूलं कर्म न नाशकमित्येतावानेव नियमो नास्माभिरभ्युपेयते, किं तर्थ विद्यामूलस्य कर्मणोऽविद्यामूलं कर्म निश्शेषतो न नाशकमिति, ततो न दोष:- अज्ञानस्य मूलस्य वा शेषोऽस्ती- त्युक्तत्वात् । नच मूलमप्यज्ञानं कुतो न नाशयति कर्मेति वाच्यं, अज्ञानजन्यत्वात्कर्मणः । न हि मृण्मयो घटो मृद नाशयति, येनाज्ञानमयं कर्माज्ञानं नाशयेत् । नन्वज्ञानात्कृतमभोज्यभोजनादिकं दुरितं, तत्प्रायश्चित्तं चान्द्रायणादिकं तु ज्ञानादेव क्रियते । तथा नित्यकर्मापीतिकृत्वा निवर्तकं कर्म _ज्ञानमूलक मेवेत्यज्ञानमूलस्य कर्मणो निश्शेषतः क्षय उपपद्यते । ज्ञानमूलेन नित्येन कर्मणेति शङ्कायां मैवं वादीः । अविद्याकामबीजमेव सर्व कर्म । यथैवं तथोपपादितं भगवते हैवेत्याह- तथेति । किमुपपादितमत माह — अविद्वदिति । अविद्वानविद्यावान् स विषय आश्रयो यस्य तदविद्वद्विषयं कर्म । सन्न्यासपूर्विका सर्वकर्मसन्न्यासमूला ज्ञाननिष्ठा तु विद्वद्विषयेत्युपपादितमित्यर्थः । I कैर्वाक्यै - रुपपादितोऽयमर्थोऽत आह— उभावित्यादि । य एनं वेति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यत’ ‘ते, ‘वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ ! कं घातयति हन्ति कम् ॥’ इमौ श्लोकौ ज्ञानिनस्सर्वकर्माभावं दर्शयतः । ज्ञानयोगेनेति श्लोको ज्ञानिनां ज्ञानमज्ञानां कर्म च विभज्य दर्शयति - अज्ञानामिति । वत्त्ववित्त्वितिवचनद्वय- मज्ञानां कर्मसङ्गो नतु ज्ञानिनामिति दर्शयति - सर्वकर्माणीति । ‘नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्वविदिति वचनद्वयं सर्वकर्मसन्न्यास दर्शयति विदुषः - अज्ञः करोमीति । ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यन’ इति श्लोकेनाज्ञस्यैव कर्तृत्वमुक्तमिति भावः । ’ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारण- मुच्यत’ इति श्लोकेन योगमारुरुक्षोरज्ञस्य कर्मसाधनं, योगारूढस्य प्राज्ञस्य तु सर्वकर्मसन्न्यास एवे- त्युक्तमित्यर्थः ।

  • ४१० श्रीभगवद्गीतासु भाष्या प्रकाशविलसित श्रीशाङ्करभाष्योपतासु एव कारणं, उदारास्त्रयोऽप्यज्ञाः, ज्ञानी त्यात्मैव मे मतं, अज्ञाः कर्मिणो गतागतं कामकामा लभन्ते, अनन्याश्चिन्तयन्तो मां, नित्ययुक्ता यथोक्तमात्मानमाकाशकल्प मकल्मषमुपासते, ददामि बुद्धियोगं तं येन मामुपयान्ति ते’ अर्थान्न कर्मिणोऽज्ञा उपयान्ति । भगवत्कर्म- कारिणो ये युक्ततमा अपि कर्मिणोऽज्ञाः, ते उत्तरोत्तरहीन फलत्या गाव सानसाधनाः । अनिर्दे- श्याक्षरोपासकास्तु ‘अद्वेष्टा सर्वभूतानामित्यध्यायपरिसमाप्त्युक्तसाधना: क्षेत्राध्यायाद्यध्याय-
  • उदारा इति । ‘आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । उदारास्सर्व एवैते ज्ञानी स्वात्मैव मे मत’ मिति श्लो केनाऽर्तादयस्त्रयोऽज्ञा उदाराः, ज्ञान्येरु एव ममात्मेति भगवता ज्ञानिन एव स्तुतत्वादात्मत्वेनात्मनश्चाकर्तृत्वादकर्तृत्वं ज्ञानिनस्सिद्धं; अज्ञानां च त्रयाणामनात्मत्वेन कर्तृत्वं च सिद्धम् । अज्ञा इति । ’ त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्ते । ते पुण्य- मासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् । ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुपपन्ना गतागतं कामकामा लभन्त इतीहानुसन्धेयम् । अनन्या इति । ‘अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहा- म्यहम् ॥ अहं सर्वस्य प्रभवो मत्तस्सर्व प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ तेषां नित्याभियुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ इती- हानुसन्धेयम् । अर्थादिति । बुधा मामुपयान्तीत्युक्तत्वादिति भावः । अज्ञा इत्यादिना ग्रन्थेन अज्ञानां कर्मिणामेव यज्ञानुष्ठानं स्वर्गादिफलप्राप्तिः पुनरावृत्तिश्व । ज्ञानिनां सन्न्यासिनां स्वात्मभजन- मात्मप्राप्तिरपुनरावृत्तिश्चेति सिद्धमिति बोध्यम् । फलितार्थमाह – भगवदिति । ये भगवत्कर्मकारिणो भगवद्विहितं नित्यं कर्म भगवदाराधन- बुद्धया ये कुर्वन्ति ते भगवत्कर्मकारिण इत्युच्यन्ते; युक्ततमास्समाहितचितास्तेऽप्यज्ञाः कर्मिण उत- रोत रही नफलत्यागावसानसाधना भवन्ति । उत्तरस्मादुत्तरस्माद्भगवश्वित्तसमाघानाभ्यासादिरूपाद्धीनोऽप- कुष्टः फलत्यागोऽवसानं परिसमाप्तिर्यस्य तदुत्तरोत्तरहीन फलत्यागा वसानं साधनं येषां ते तथोक्ता भवन्ति । ‘अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तं घनञ्जय || अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव । अथैतद यश कोऽसि सर्वकर्मफलत्यागं कुर्विति चित्तसमा- मानाबशक्तस्याज्ञस्य फलत्यागविधानादज्ञा एते कर्मिण इति भावः । अनिर्देश्याक्षरोपासका अनिर्देश्य- मक्षरमात्मतत्त्वं तस्योपासकास्तु ‘अद्वेष्टा सर्वभूताना’ मित्यारभ्याऽध्यायपरिसमाप्तिपर्यन्तमाध्यायपरिमा- प्युक्तानि साधनानि सर्वभूतद्वेषाभावमैत्र करुण निर्ममत्व निरहङ्कारस्य समदुःखसुखत्व सन्तुष्टत्व प्रमुखानि येषां ते तथोक्ताः । क्षेत्राध्यायाद्यध्यायत्त्रयोक्तानि ‘अमानित्वमदम्भित्वमहिंसा क्षान्तिररार्जवम् । आचा- योपासनं शौच स्थैर्यमात्मविनिग्रह’ इत्यादीनि, ‘न द्वेष्टि सम्प्रवृत्तानि न निवृतानि कांक्षति । उदा- सीनवदासीनो गुणैर्यो न विचारयत’ इत्यादीनि, ‘निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनि- कामा’ इत्यादीनि च येषां ते तथोक्ताश्च भवन्ति । एवं ज्ञानिनां कर्माभावादेव ‘अनिष्टमिष्ट मष्टादशोऽध्यायः । ४२१ त्रयोक्तज्ञानसाधनाथ, अधिष्ठानादिपञ्च हेतु कसर्व कर्म सन्न्यासिनामात्मैकत्वा कर्तृत्वज्ञानवतां परस्यां ज्ञाननिष्ठायां वर्तमानानां भगवत्तत्त्वविदामनिष्टादिकर्म फललयं परमहंस परिव्राज- कानामेव लब्धभगवत्स्वरूपात्मैकत्वशरणानां न भवति । भवत्येवान्येषामज्ञानां कर्मिणा- मसन्न्यासिनामित्येष गीताशास्त्रोक्तस्य कर्तव्याकर्तव्यार्थस्य विभागः । मिश्र च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां कचि’ दितिश्लो केनाऽनि- ष्टादिफलत्रयाभावः । अज्ञानां कर्मसत्त्वादेव तत्फलत्रयसद्भावश्चोत इत्याह- अधिष्ठानादीति । ‘अधिष्ठानं तथा कर्ता करणं च पृथग्विथम् । विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चम’ मित्युक्तमचि - ष्ठानादिपञ्चकं हेतुर्येषां तेषामधिष्ठानादिपञ्चकहेतुकानां सर्वेषां नित्यानां काम्यानां प्रतिषिद्धानां च कर्मणां सन्न्यासिनां त्यागशीलानामेवत्यागित्वे हेतुमाह - आत्मेति । आत्मा एक अकर्ता चेत्येवं- रूपज्ञानवतामत एव परस्यामुत्कृष्टायां कर्मनिष्ठात इति भावः । ज्ञाननिष्ठायां वर्तमानानामत एव भगवत्तत्त्वविदां प्रत्यगभिन्नपरमात्मयाथात्म्य विदामत एव लब्धभगवत्स्वरूपात्मैकत्वरूपं शरणं यैस्तेषां भगवानेक एवात्मेति ज्ञानैकशरणानामित्यर्थः । भगवत्स्वरूपात्मैकशरणानामिति वा पाठः । भगव- तस्वरूप अत्मैवैकं मुख्यं शरणं येषां तेषां परमहंसपरिव्राजकानामनिष्टादिकर्मफललयं न भवति ; अनि- ष्टादित्रिविध कर्मफलं न भवति । अन्येषामज्ञानामत एवासन्न्यासिनां कर्मिणां त्वनिष्टादिकर्मफलत्रयं भवत्येव । तस्मात्कर्मिणां कर्मणा बन्ध एव ज्ञानिनां ज्ञानेन मोक्ष एवेति भावः । इतिशब्दः परि- समाप्तौ । एष उक्त इत्यर्थः । ज्ञानादेव मोक्षः, नतु कर्मण इत्येवंरूप इति भावः । गीतेति । गीताशास्त्रेण मुमुक्षुणा ज्ञाननिष्ठेव कर्तव्येति विभज्य दर्शितोऽयमर्थ इत्यर्थः । गीताशास्त्रोक्तस्य कर्त- व्यस्य मुमुक्षुणाऽनुष्ठेयस्यार्थस्य ज्ञाननिष्ठा रूपस्य विभाग इत्यक्षरार्थः । यद्वा गी शास्त्रोकयोः कर्त- व्ययोरज्ञेन प्राज्ञेन च मुमुक्षुणा कार्ययोरर्थयोः कर्मज्ञाननिष्ठयोर्विभागः । तस्मादज्ञेन चितशुद्धयर्थं कर्मयोगः कर्तव्य ; विदुषा तु मोक्षार्थं ज्ञाननिष्ठैव कर्तव्या । ज्ञानादेव सर्वबन्धविनिवृतिः, नतु कर्मणः । अज्ञानकृनानां सर्वेषां बन्धानामज्ञानमयेन कर्मणा निवृत्त्यसम्भवात्तनः कृतानां सर्पाभासादीनां तमोमयेन पिशाचेना निवृत्तिवत् । ज्ञानं स्वज्ञानविरोधीति युक्तं, तस्याज्ञानमूलक सर्वबन्धनिवर्तकत्वं प्रकाशस्येव तमोमूलक सर्पादिनिवर्तकत्वम् । नच नित्यकर्मज्ञानपूर्वकमेवेति नाश। नमयमिति वाच्यं मया कृतस्यास्य पापस्येदं कर्म निवर्तकमित्येवंरूपं ज्ञानं नास्माभिर्ज्ञानमित्युच्यते; किंतु वदज्ञानमेव । अकर्ताsभोक्ता चिन्मात्रोऽहं सदाशिव इत्यात्मज्ञानमेव ज्ञानमित्यस्मा भिरुच्यते । तद्धि न कर्मणो मूलं, किंतु नाशक - मेव । कर्ता भोक्ताहमिति विरुद्धं ज्ञानमज्ञानात्मकं हि कर्मणो मूलम् । तस्मादज्ञानमयमेव नित्यकर्म प्रायश्चित कर्म काम्यकर्म प्रतिषिद्धकर्म व्यायामादिलौकिक कर्म च नतु ज्ञानमूलकम् । ज्ञानाज्ञानयो- विरोधित्वेन ज्ञानकर्मणोरपि विरोधात् । अज्ञानमूलकं हि कर्म अज्ञाननिवर्तकेन ज्ञानेन निवर्त्यते । तमोमूलको रज्जुसर्पाभासो यथा तमोनिवर्तकेन प्रकाशेन निवर्त्यते एवं कर्मभिरनिवर्त्य अज्ञाने सत्कार्येषु सुकृतकर्मसु च सत्सु कर्माज्ञाननिवर्तके सर्वकर्म सन्न्यासपूर्वके ज्ञाने वासति कथं पुरुषस्यः ४२२ श्रीभगवद्गीतासु- माष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपता सु अविद्यापूर्वकत्वं सर्वस्य कर्मणोऽसिद्धमितिचेत्, न ब्रह्महत्यादिवत् । यद्यपि शास्त्रावगतं नित्यं कर्म, तथाप्यविद्यावत एव भवति । यथा प्रतिषेधशास्त्रावगतमपि ब्रह्म- हत्यादिलक्षणं कर्मानर्थकारणमविद्याकामादिदोषवतो भवति; अन्यथा प्रवृत्त्यनुपपत्तेः; तथा नित्यनैमित्तिककाम्यान्यपीति । देहव्यतिरिक्तात्मन्यज्ञाने प्रवृत्तिर्नित्यादिकर्मस्वनुपपन्नेति चेत्, न चलनात्मकस्य कर्मिणोऽनात्मकर्तृकस्य ‘अहं करो’ मीति प्रवृत्तिदर्शनात् । देहादि - मोक्षलाभ: ? न कथमपि । अज्ञानं तत्कृतकर्माणि च पुरुषस्य पशोरिव रज्जनः कण्ठपाशायितानि हि । तच्छेदनार्थ ज्ञानलवितमेवाश्रयणीयं कुशलेन, नतु नित्यकर्मरूपपाशान्तरमिति । ननु यदि गीताशास्त्रेणैवाज्ञेन कर्म कर्तव्यमित्युच्यते तर्ह्यविधापूर्वकं सर्वस्य कर्मणोऽसिद्धं शास्त्रं हि विद्या, शास्त्रादवगतत्वात्कर्म विद्यापूर्वकमिति शङ्कते – अविद्येति । परिहरति–नेति । यदि शास्त्राव गतत्वमात्रेण नित्यनैमित्तिकादिकर्मणां विद्यापूर्वकत्वं स्यात्तर्हि ब्रह्महत्यादीनामपि विद्या पूर्व- कत्वं स्यादित्याह - ब्रह्महत्यादिवदिति । संग्रहवाक्यं विवृणोति - यद्यपीति । शास्त्रावगत विधिशास्त्रावगतमित्यर्थः । नित्यमिति नैमित्तिकादेर्विहितस्योपलक्षणम् । अविद्यावत एवेत्येवकारान विद्याबत इत्यर्थः । ونا अयं भावः — अर्थस्य शास्त्राव गतत्वमात्रेण न विद्यापूर्वकत्वसिद्धिः, किंतु विद्यावद्विषयत्वे- नैव । अन्यथा विधिशास्त्रावगत नित्यकर्मणामिव प्रतिषेधशास्त्रावगत ब्रह्महत्यादीनामपि विद्यापूर्वकत्वं स्यात् । नचेष्टापत्ति :- विद्यापूर्वकाणां नित्यानामिव ब्रह्महत्यादीनामप्यनुष्ठानान्मोक्षप्रसङ्गात् । विद्या- पूर्वककर्मानुष्ठानान्मोक्ष इति हि तब मतम् । विद्यावद्विषयत्वं तु न शास्त्रार्थस्य कर्मणोऽस्ति, किंतु ज्ञानस्यैव कर्मसन्न्यासपूर्वकस्य । तस्मादविद्यावद्विषयकर्मानुष्ठानान मोक्षः । नन्वविद्यावत एवं विहित प्रतिषिद्धं वा कर्म भवतीत्यस्य नियमस्यानभ्युपगमे को दोषस्तत्राह - अन्यथेति । अविद्याकामादि- दोषाभावे कर्मसु प्रवृत्त्यनुपपत्तेः पुरुषस्य । यथा प्रतिषेघशास्त्रावगतमप्यनर्थकारणं ब्रह्महत्यादिलक्षणं कर्म अविद्याकामादिदोषवत एव भवति तथा नित्यनैमित्तिककाम्यान्यपि विधिशास्त्रावगतानि पुरुषार्थ - कारणान्यप्यविद्यावत एव भवन्ति, अन्यथा प्रवृत्त्यनुपपत्तेरिति शेषपूरणपूर्वको भाष्यवाक्यसमन्वयः । तस्मादविद्यावद्विषयत्वेन सर्वे कर्माविधापूर्वकमेव । अविद्यापूर्वकस्य कर्मणश्शुभाशुभलक्षणस्य विचैव क्षयकारणमिति सिद्धान्तिनो के सति कर्मणोऽविद्यापूर्वकत्वमसहमानस्सन् पूर्ववादी शास्त्रावगतत्वात्सर्व कर्म विधापूर्वक मेवेत्युवाच- तच परिहृतं सिद्धान्तिना । अथ पुनः प्रकारान्तरेण विद्यापूर्वकत्वं साधयति कर्मणः पूर्ववादी - देहेति । देहव्यतिरिक्ते आत्मन्यज्ञाते सति देहान्तरानुभाव्यप्राजापत्यस्वर्गादिफल- कोमेन नित्यादिकर्मसु प्रवृचिरनुपपन्नेति देहातिरिक्तात्मज्ञानपूर्वकत्वात्कर्म विद्यापूर्वकमेवेति । परि- हरति — येनेति । अनात्मकर्तृकस्य चलनात्मकस्य कर्मणोऽहं करोमीति प्रवृत्तिदर्शनादित्यन्वयः । मात्मनोऽन्योऽनात्मा देहादि: तत्कर्तृके चलनात्मके कर्मण्यहं करोमीति पुरुषस्य प्रवृत्तिदर्शनादित्यर्थः । मिल्मने मितिकादिकं वैदिकं व्यायामादिकं लौकिक च सर्वमपि कर्म चलनात्मकमेव । तथानात्म- ष्टादशोऽध्यायः । ૨૨ सङ्घातेऽहंप्रत्ययो गौणः, न मिथ्येतिचेत्, न तत्कार्येष्वपि गौणत्वोपपत्तेः । आत्मीये देहादिसङ्घातेऽप्रत्ययो गौणः यथाऽऽत्मीये पुत्रे- ‘आत्मा वै पुत्रनामा’सीति, लोके च कर्तृकम् । अनात्मसु देहेन्द्रियादिषु व्याप्रियमाणेषु सत्सु कर्मनिष्पत्तेः । नच देहचलनाद्गमनादिक्रियां- निष्पत्तावपीन्द्रियान्तःकरणयोरचलतोरेव दर्शनसङ्कल्पादिक्रिया निष्पत्तिरिति वाच्यं, ‘चञ्चलं हि मनः कृष्णेत्यादिशास्त्रादनुभवाचैकत्र विषयेऽनवस्थानलक्षणं चाञ्चल्यं मन इन्द्रियाणामप्यस्ति । मनस इन्द्रि - यस्य वा वृत्तिकृतचलनाभावे विषयग्रहणानुपपत्तिश्च; चक्षुश्श्रोत्रयोर्विषयदेशं गत्वा विषयग्राहकत्वं वेदान्तशास्त्रप्रसिद्धं च । वायुवेगादप्यघिको मनोवेग इति मनसो वेगवत्त्वाञ्चलनं प्रसिद्धमेव । देहे रामेश्वर क्षेत्र स्थिते सत्यपि मनो हि कशीं गच्छति । एतेषां देहेन्द्रियमनसां चलनाभावादेव निर्व्या- पारता सुषुप्त्यादौ । एवं सति सर्वमपि कर्म देहेन्द्रियमन आश्रयमेवेति कृत्वाऽनात्मकर्तृकमेव- ‘अचलोऽयं सनातन’ इति - गीतावावया देवाचलस्यात्मनः चलनात्मक कम श्रियत्वायोगादात्मकर्तृकं न भवति । अच- लत्वं चात्मनः परिपूर्ण चैतन्यत्वादेव । नच बुद्धिपरिच्छिन्न एवात्मा, तस्य चोत्क्रान्तिगत्यादिश्रवणा- त्कर्माश्रयत्वमस्तीति वाच्यं, ’ ध्यायतीव लेलायती’ वेत्यादिश्रुत्या बुद्धौ चलन्त्यामात्मा चलनीवेति । बुद्ध्युपाविधर्माध्यासप्रयुक्तमेवात्मन उत्कान्तिगत्यादिकं न स्वाभाविकमिति स्वभावतोऽचलोऽपरि- च्छिन्न एवात्मा नित्यत्वात् । ‘अजो नित्यश्शाश्वतोऽयमिति चकम् । नहि परिच्छिन्नस्य घटादेः कापि नित्यत्वं दृष्टम् । तस्मादचल एवात्मा । एवंस्थिते अचलस्यात्मनः कथमहं करोमीति प्रवृत्तिरुप- पद्येत देहाद्यनांत्माश्रये कर्मणि ? न कथमप्युपपन्ना । तथाप्यहं करोमीति प्रवर्तत एव सर्वो लोकः कर्मणि । तत्र च हेतुरात्मानात्मनोरितरेतरघर्माध्यास एवाज्ञानकृत इति सर्वैरभ्युपगन्तव्यम् । मभ्युप गते च तस्मिन्नित्यादिकर्मसु प्रवृत्तौ न देहव्यतिरिकात्मज्ञानं कारणं, किं तर्हि देहेन्द्रियान्तःकरण- तादात्म्याभ्यासप्रयुक्तं कर्ता भोक्ताहमिति मिथ्याज्ञानं कारणम् । यदि देहव्यतिरिकोऽहमात्मेतिज्ञानं स्यादमीषां तर्हि देहे तदवयवहस्तादौ च स्नानहोमादिकर्मसु प्रवृते सति देहस्त्राति हस्तो जुहोतीति प्रतिपत्तव्ये, अहं स्नामि जुहोमीति कथं प्रतिपद्येरनेते ? तस्मान्नामीषां देहव्यतिरिकात्मज्ञानमपि दृढमस्ति, किं पुनरिन्द्रियान्तःकरणातिरिकात्मज्ञानम् ! तस्मान्मिथ्याज्ञानिन एवैते । मिथ्याज्ञानादेव नित्यादिकर्मसु प्रवृत्तिरमीषां न पुनर्देहादिव्यतिरिक्ता कर्त्रभोक्त्रात्मज्ञानात् । न हि देहादिव्यतिरिक्त आत्मा कर्ता भोक्ता वा स्यात् । ननु देहादिष्वनात्मसु कुर्वत्सु सत्सु अहं करोमीति यः प्रत्ययोऽज्ञस्य स देहाद्यनात्मतादात्म्याभ्यासप्रयुक्त एव । सच देहादावनात्मन्यहमित्यात्मतादान्म्याध्यासो न मिथ्या- ज्ञान; किं तु गौणज्ञानमेवेत्याह- देहादीति । परिहरति-नेति । हेतुमाह – तत्कार्येति । -संग्रहेणोक्तं प्रश्नोत्तरवाक्यद्वयं स्वयमेव विवृणोति आत्मीय इति । आत्मीय इति हेतुगर्भ विशे- घणम् । आत्मीयत्वादित्यर्थः । नहि स्वपुत्र इव स्वशरीर इव च परपुत्रे परशरीरेऽहमितिप्रत्ययो ऽस्ति लोकस्येति भावः । तत्र दृष्टान्तमाह — यथेति । मात्मीये पुत्रेऽहंप्रत्ययो यथा गौणस्तथाssस्मीने देहादिसङ्घातेऽहं प्रत्ययो गौण इति । दृष्टान्तासिद्धि परिहरति श्रुतिप्रामाण्यप्रदर्शनद्वारा ‘आत्मा वै • ૧૬૨ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु ‘मम प्राण एवायं गौ’रिति तद्वत् । नैवायं मिथ्याप्रत्ययः, मिथ्याप्रत्ययस्तु स्थाणुपुरुषयो- रपुरुषयोरगृह्यमाणविशेषयोः न गौणप्रत्ययस्य मुख्यकार्यार्थत्वं अधिकरणस्तुत्यर्थत्वा- ल्लुप्तोपमाशब्देन । यथा ‘सिंहो देवदत्तः’, ‘अग्निर्माणवक’ इति सिंह इवाग्निरिव क्रौर्य- पुत्रनामा ‘सीति । त्वमिति शेषः । पुत्र इति नाम यस्य स पुत्रनामाऽऽत्मा वै अहमेवासि । पितैव पुत्र इत्यर्थः । एतेन पितुः पुत्रेऽहं प्रत्ययो दर्शितः, आत्मीये वस्तुन्यप्रत्ययो लोकतश्च सिध्यतीत्याह- लोके चेति । आत्मीये गवि मम प्राण एवायमिति स्वप्राणप्रत्ययरूपस्स्त्र प्रत्ययः । नहि प्राणमात्मानं च पृथकत्वेन प्रतिपद्य मम प्राण इति व्यवहरति लोकः; किं त्वेकीकृत्यैव । तथा च मम प्राण इत्यस्य ममात्मेतिवदहमित्येवार्थः । यद्वा कथमात्मीयत्वमात्रे गात्मभूते देहादिसङ्घाते पुत्रे वाऽऽत्मेतिप्रत्ययो लोकस्येत्यत आह- लोके चेति । आत्मीयत्वमात्रेणाप्राणभूने गवि यथा लोकस्य मम प्राण इति प्रत्ययस्तद्वदित्यर्थः । . 1 नन्वतस्मिंस्तद्बुद्धिर्मिध्याप्रत्ययः । अनात्मनि देहादिसङ्घाते पुत्रे वा या आत्मबुद्धिरप्राणे गवि च या प्राणबुद्धिगणप्रत्ययत्वेन तवाभिमता, सापि मिथ्याप्रत्यय एवेत्यत आह – नैवमिति मिथ्याप्रत्यय एवंविधो न भवति, तर्हि कीदृशो मिथ्याप्रत्ययोsन आह— मिथ्याप्रत्ययस्त्विति । तुशब्दो गौणप्रत्ययवैलक्षण्यद्योतनार्थः । अगृह्यमाणोऽनुपलभ्यमानो विशेषो भेदो ययोस्तयोरगृह्यमाण- विशेषयोः स्थाणुपुरुषयोर्मिथ्याप्रत्ययो भवति । गौणप्रत्ययस्तु गृह्यमाणविशेषयोर्दे हिदेहयोः पितृपुत्रयोः गोप्राणयोश्च भवति । स्थाणुं रज्जु शुक्तिकां वा मन्दान्धकारे सामान्याकारेण गृहीत्वा तद्गतविशेषा- कामगृहीत्वा पुरुष इति सर्प इति, रजतमिति च प्रत्येति लोक इति स प्रत्ययो मिथ्यैव । सङ्घाता- त्मानौ पुत्रात्मानौ गोप्राणौ च पृथग्विशेषतो गृहीत्वैव सङ्घातं पुत्रं चाहमिति, गां प्राण इति चः प्रत्येति लोक इति स प्रत्ययो गौण एवेति गौणमिथ्याप्रत्यययोर्भेदः । अविवेककृता अतरिंग- स्तद्बुद्धिर्मिध्याप्रत्ययः, विवेककृता स्वतस्मिंस्तद्बुद्धिर्गौगप्रत्यय इति भावः । अत एव मिथ्याप्रत्ययो भ्रमज्ञानं, गौणप्रत्ययस्तु प्रमैवेति व्यवहारः । • अथ सिद्धान्तांशं विवृणोति —- गौणेति । यदि देहादिन हंप्रत्ययो गौणस्स्यात्तर्हि देहादि- कार्याण्यपि गौणान्येव स्युः- गौणात्मकृतकार्याणां मुख्यकार्यत्वायोगात् । नहि गौणात्मना पुत्रेण कृतं भोजनादिकर्म मुख्यात्मना स्वेनैव कृतमिति मन्यते पिता । तस्माद्गौगात्मना देह दिसङ्घातेन कृतं कार्य: सर्वमपि मुख्यात्मानं प्रति गौणमेव, न मुख्य- मुख्यात्मना तस्याकृतत्वात् । प्रकृते तु देहादिसङ्घातकृत कर्मः स्वेनैव कृतं मुख्यं कर्मेत्येव प्रत्येत्यात्मा । मया गतं भुक्तं स्नातं हुतमित्यादिव्यवहोरात् । तस्मात्सङ्घातकार्येषु मुख्य कार्यस्वदर्शनाद्वौणकार्यत्वादर्शनाच्च न सङ्घातेऽहमिति प्रत्ययो गौणः, किंतु मिथ्यैव । ननु गौणप्रत्ययोऽपि मुख्यकायोर्थः किं न स्यादत आह- गौणप्रत्ययस्येति । लुप्तो-: पमाशब्देन प्रतीयमानस्य गौणप्रत्ययस्य न मुख्यकर्यार्थता; अघिकरणस्तुत्यर्थस्वादित्यन्वयः । गौण- प्रत्ययो मुख्यकार्यार्थो न भवति किं स्वधिकरणस्तुत्यर्थ एव । तत्र दृष्टान्तमाह – यथेति । सिंहो५४ RS14: 10.

૨૨૯ पैङ्गव्यादिसामान्यवच्त्राद्देवदत्समाणवकाधिकरण स्तुत्यर्थमेव न तु सिंहकार्यमग्निकार्य वा गौणशब्दप्रत्ययनिमित्त किञ्चित्साध्यते । मिथ्याप्रत्ययकार्यत्वं त्वनर्थमनुभवति । गौण प्रत्ययविषयं च जानाति ‘नैष सिंहो देवदत्तस्स्यात्, नायमग्निर्माणवक’ इति । तथा गौणेन देवदत्त इति, अग्निर्माणवक इति च गौणप्रत्ययः । सिंह इवेत्यर्थे सिंहशब्दस्य, अग्निरिवेत्यर्थे अग्नि- शब्दस्य च प्रयोगासिहाग्निशब्दौ लुप्तोपमाशब्दौ । उपमानोपमेययो सिहदेवदत्त मोरग्निमाणवकयोश्च साधारणधर्ममाह — क्रौर्यपैङ्गल्येति । किमर्थमेवं गौथ्या वृत्त्या प्रयुज्यतेऽन माह – देवदतेति ! देवदत्तमाणवकरूपाधिकरणस्तुत्यर्थमित्यर्थः । माणवको बालः, ब्राह्मणमाणवकेति निपातनात्स्व- मल्पार्थे कन् । मनोररूपमपत्यं पुमान्माणवकः । सिंहवत्कूरे देवदते अग्निवत्पिङ्गलवर्णे माणवके च सिंह इति, अग्निरिति च यो गौणः प्रयोगः स न मुख्यकार्यार्थः, किंतु देवदत्तमाणवकयोः स्तुत्यर्थ एव । एवकारार्थमाह-न त्विति । गौणशब्दप्रत्ययनिमित्तं । सिंहकार्यमग्निकार्ये वा किंचिन तु साध्यत इत्यन्वयः । गौणशब्दस्सिह इति, अग्निरिति च प्रयोग इति यावत् । प्रत्ययो ज्ञानं, क्यो- निमित सिंहकार्यमग्निकार्ये वा मुख्यकार्ये गजकुम्भविदलनदाहादिरूपं किंचिन्न साध्यते, देवदस- माणवकयोरिति शेषः । सिंहो देवदत्त इति, अग्निर्माणवक इति च प्रयुञ्जानः प्रतिपद्यमानश्च पुरुषः देवदते माणवके वा मुख्य सिंहकार्य मुख्याग्निकार्ये च न विधित्सति, असम्भवात् । किंतु सिंहब- कुरो देवदत्त इति, अग्निरिव पिङ्गलो माणवक इति च स्तुतिमेव चिकीर्षतीति भावः । ननु गौणः प्रत्ययविषयदेवदत्त माणवक कार्येष्वेव मुख्यकार्यत्वाभावे मिध्याप्रत्ययविषय सङ्घातकार्येष्वपि कथं मुख्यारम कार्यत्वमत आह- मिथ्येति । अनात्मनि देहादिसङ्घाते य आत्मेति मिध्याप्रत्ययस्तस्य कार्ने संसाररूपोऽनर्थ एव; तमनुभवत्येव स मिध्याप्रत्ययी । 5 अयं भावः - देहादिसङ्खातकार्येण्यपि न मुख्यकार्यत्वं, किंतु देहादिसङ्घातमनात्मानं यथा मात्मत्वेन प्रत्येति तथा तत्कार्यमप्यात्मकार्यत्वेन प्रत्येतीति देहादिसङ्घातकार्ये मिध्यात्म कार्यस्व मे- वास्ति, न मुख्यात्मकार्यत्वम् । तत्र च मुख्यात्मकार्यत्वप्रत्ययो मिथ्यैव । अस्माच्च मिथ्याप्रत्यया- । दज्ञस्य संसारबन्ध एवेति । तस्माद्देह। दिसङ्घातकार्याणि न गौणानि, नापि मुख्यानि - गौणात्मा कार्यत्वा- मुख्यारमा कार्यत्वाच्च । नहि सङ्घातो गौणात्मा, नापि सुख्यात्मा, किंतु मिथ्याभूतान्येव - मिथ्याकार्य- त्यात् । सङ्घातो हि मिथ्यात्मेति भावः । किंच गौणप्रत्ययविषयं गौणज्ञानविषयमित्यर्थः । देवद माणवकं चेति यावत् । एष देवदत सिहो न भवति, अयं माणवकोऽग्निर्न भवतीति जानाति सिंहो देवदत इति, अग्निर्माणवक इति च वाक्यप्रयोक्ता । एवं मिथ्याप्रत्ययविषयं तु स्थाणुपुरुषादिकं न मानाति आन्तः पुरुषः । नहि नायं पुरुषः नेदं रजतं नायं सर्प इति ज्ञानवान् स्थाणु शुकि रज्जै बा· दृष्ट्रा पुरुषोऽयं रजतमिदं सर्पोऽयमिति भ्रमं प्रपद्येत । ततश्च यदि सातो गौणप्रत्यय विषयस्तर्हि नायं सङ्खात आत्मा इति जानीयादेव लोकः, नतु तथा जानाति किंतु मनुष्योऽहमित्येव जानाति, नतु नाहं मनुष्य इति । म पुनर्विद्वान् सङ्घातमनात्मानं जानाति, स सङ्घातमात्मत्वेन न गुझस्वे-

४२६

श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविकसित श्रीशाङ्करभाष्योपेतासु देहादिसङ्घातेनात्मना कृतं कर्म न मुख्येनाहंप्रत्ययविषयेणाऽऽत्मना कृतं स्यात् । न हि गौणसिहाग्निभ्यां कृतं कर्म मुख्यसिंहाग्निभ्यां कृतं स्यात् । न च क्रौर्येण पैङ्गल्येन वा मुरूपसिंहाग्न्योः कार्ये किश्चित्क्रियते - स्तुत्यर्थत्वेनोपक्षीणत्वात् स्तूयमानौ च जानीत:- ‘नाहं सिंहः, नाहमग्नि’ रिति, नहि ‘सिंहस्य कर्म ममाग्ने’ वेति । तथा ‘न सङ्घातस्य कर्म मम मुख्यस्यात्मन’ इति प्रत्ययो युक्ततरस्स्यात् न पुनः ‘अहं कर्ता मम कर्मेति । यः चाहु:- ‘आत्मीयैस्मृतीच्छाप्रयत्नैः कर्महेतुभिरात्मा कर्म करो’ तीति न तेषां मिथ्या- वेति कथं गौणप्रत्ययविषयत्वं सङ्घातस्य तस्मान्मिथ्यैव सङ्घातेऽहमितिप्रत्ययो ऽज्ञानाम् । ननु गौगा- रमकृतकार्याणां गौणत्वे किं प्रयोजकमितिशङ्कायां मुख्यात्माकृतत्वमेवेत्यभिप्रेत्य मुरूयात्माकृतत्वमेव दर्शयति तथेति । त्वदुक्तविधयां गौणत्वाभ्युपगमे सतीत्यर्थः । गौणात्मकर्तृकस्य कर्मणः कुतो न मुख्यात्मकर्तृकत्वमत आह-नहीति, गौणसिंहाग्निभ्यामिति । देवदत्तमाणवकाभ्यामित्यर्थः ननु सिंहवत् रत्यादग्निरिव पिङ्गलत्वाच मुख्यसिंहाग्निकार्ये गौणसिंहाग्नी कुरुत एव, गौणसिंहाग्नि- कार्ये तु मुख्यसिंहाग्नी माकुरुतांनाम इत्यत आह-नचेति । सिंहवकूरोऽग्निवत्पिङ्गइत्यर्थबोधक- गौण सिंहाग्निशब्दप्रयोगाद्देवदते माणवके च क्रौर्ये पिङ्गलत्व सिद्धं तेन च क्रौर्येण पैङ्गल्येन वा मुख्य सिहाग्न्योः कार्ये किंचिन्नैव क्रियते । नहि गंजकुम्भविदलनदाहादिलक्षणं मुख्यसिंहाग्निकार्ये क्रौर्येण पैङ्गल्येन वा देवदत्तमाणवकाभ्यां निर्वर्तयितुं शक्यते तर्हि किं फलं क्रौर्यपैश्य विधानस्य ! अत आह— स्तुत्यर्थत्वेनेति । स्तुत्यर्थं विहितस्य तस्य स्तुतिमात्र फलत्वात् तावतैव तस्योपक्षय इति न तद्विधानस्य फलान्तरं कल्पयितुं शक्यमिति भावः । स्तूयमानौ च देवदत्तमाणव का वह सिंहो न भवामि, अहमग्निर्न भवामीति जानीतो मम सिंहस्य कर्म नहि, ममाग्नेः कर्म नहीति च जानीतः तथा देवदत्तमाणवकवत् । सङ्घातस्य गौणात्मनः कर्म मुख्यस्यात्मनो न भवतीति प्रत्ययों युक्ततरः स्यात् । अहं कर्ता मम कर्मेति प्रत्ययः, पुनर्ज्ञानं स्वात्मन इति भावो न युक्ततरः । अयं भावः — सिंहो देवदत्तोऽग्निर्माणवक इतिवदेहादिसङ्गात आत्मेत्यदि गौणः प्रत्ययस्यात्, तर्हि गौणात्मनस्सङ्घातस्य यत्कर्म तन्मुख्यस्यात्मनो न भवत्येवेति कृत्वा कथं गौणात्मसङ्घातकर्तृककर्मणि मुख्यात्मनः कर्ताहं मम कर्मेतिप्रत्ययस्यात् ? नहि गौण सिंहाग्निकर्तृककर्मसु मुख्यसिंहाग्न्यो रहं कर्ता मम कर्मेति प्रत्ययो भवति । तस्मात्सङ्घातकार्येषु गौणत्वाभावान्मुन्यात्मनस्तेषु स्वकर्तृकत्वस्त्र कर्मत्व- प्रतीतिसत्त्वेन मुख्यत्वसत्त्वाश्च न सङ्घातेऽहमितिप्रत्ययो गौणः, किंतु मिथ्यैवेति । कूटस्थो सुरुवात्मा, सङ्घातो मिध्यात्मा, पुत्रादिर्गौणात्मेति विवेकोऽत्र बोध्यम् । ननु सङ्घातस्य नस्य कर्तृत्वानुपपतेरात्मैव स्वीयस्मृतीच्छा प्रयत्नैः कर्म करोतीति तार्कि कादिमतमनुवदति यच्चाहुरिति । करोतीति यच्चाहुरित्यन्वयः । तदपि न, न युक्तमित्यर्थः । तत्र हेतुमाह - तेषामिति । स्मृतीच्छा प्रयत्नानामित्यर्थः । मिथ्याप्रत्ययपूर्वकत्वमेव विवृणोति - मिथ्येति । 1 1 नष्टादशोऽध्यायः । . प्रत्ययपूर्वकत्वात् । मिथ्याप्रत्यय निमित्तेष्टानिष्टानुभूतक्रियाफलजनितसंस्कारपूर्वका हि स्मृ- तीच्छा प्रयत्नादयः । यथाऽस्मिन्जन्मनि देहादिसङ्घाताभिमानरागद्वेषादिकृतौ धर्माधर्मौ तत्क लानुभवञ्च तथाऽतीतेऽतीततरेऽपि जन्मनीत्यनादिरविद्याकृतस्संसारोऽतीतोऽनागतवानु– अनात्मनि सङ्घातेऽहमिति यो मिथ्याप्रत्ययस्स एव निमित्तं यस्य सः । इष्टानिष्टरूपादनु मुतात्किया- फलाज्जनितो यस्संस्कारस्त पूर्वः कारणं येषां ते मिथ्याप्रत्ययनिमित्तेष्टानिष्टानुभूतक्रियाफलजनित- संस्कारपूर्वका, मिथ्याप्रत्ययनिमित्तत्वं क्रियाफलविशेषणं वा; मिथ्याप्रत्ययनिमित्तेष्टानिष्टरूपक्रियाफलानु- भवजनित संस्कारपूर्वका इत्यर्थः । अनात्मनि देहादिसङ्घांतेऽहमितिः मिथ्याप्रत्यये सति तत्क्रियासु ममेति मिथ्याप्रत्ययो भवति; ततस्तत्फलेष्विष्टानिष्टेषु मयेदमनुभूयत इति ममेदं फलमिति च मिथ्या- प्रत्ययो भवति । तस्माच मिथ्याप्रत्ययपूर्व कात्फलानुभवात्संस्कारो जायते अनुभवजन्यत्वात् संस्कारस्य । स च संस्कारो मिध्याप्रत्ययपूर्वक एव । तस्मात्संस्कारात्पूर्वानुभूतार्थस्मृतिर्जायते - स्मृतिहेतुत्वात्संस्का- रस्य । ततस्स्मृतेऽर्थे इच्छा जायते, ततस्तत्सिद्धयर्थं प्रयतत इति स्मृतीच्छाप्रयत्त्रा मिथ्याप्रत्ययपूर्व का एव क्रियायास्तत्फलस्य च मिथ्याप्रत्ययपूर्वकत्वादिति । ननु कस्यचित्कदा चिदप्यननुभूतार्थे स्मृत्युपलम्भात्कथं संस्कारपूर्वकत्वं स्मृत्यादीनामितिचेत्, मैवम् – जन्मान्तरानुभूतार्थम्यैवेहजन्मनि स्मरणसम्भवात् । ननु जन्मान्तरीयानुभवस्य मिथ्याप्रत्यय पूर्वकत्वं कथं ज्ञायतेऽत माह - यथेति । अस्मिन्जन्मनि पुरुषस्य देहादिसङ्घाते योऽहमित्यभिमानो ममेत्यभिमानश्च तत्प्रयुक्ता ये रागद्वेषादयः तत्कृतौ धर्माधर्मौ, तत्फलानुभवो धर्माधर्मफलसुख दुःखानु- भवश्च तत्कृतो देहादिसङ्घाताभिमानप्रयुक्तरागद्वेषादिकृतः, देहादिसङ्घाताभिमानकृत इत्येव वा । तथाऽ- तीते जन्मन्यतीततरे जन्मनि चेत्यनादिरविद्याकृतोऽतीतोऽनागतश्च संसारोऽनुमेयः । यथाऽस्मिन्देहादि- सङ्घातेऽहमिति मिथ्याज्ञानाद्रागद्वेषादिपूर्वकं धर्माधर्मौ कृत्वा तत्फलमनुभवति पुरुषः, एवं जन्मान्तरे - पीतिकृत्वा प्रकृतभवीयानुभव वज्जन्मान्तरीयानुभवोऽपि मिथ्याप्रत्ययपूर्वक एव; तथा प्रकृतभवी क्रियाद- ज्जन्मान्तरीयक्रिया अपि मिथ्याप्रत्ययपूर्विका एव; तथा प्रकृतभवीयरागद्वेषादिवज्जन्मान्तरीय रागद्वेषा- दयोsपि मिथ्याप्रत्ययपूर्वका एव । एवं प्रकृतभवीय मिथ्याप्रत्ययोऽपि जन्मान्तरीय मिथ्याप्रत्ययपूर्वक एव– पूर्वपूर्वाभ्यासस्योत्तरोत्तराध्यासम्प्रति हेतुत्वात् । तथा च मिथ्याप्रत्ययः, तत्पूर्वको रागद्वेषादिः, तत्कृती धर्माधर्मादिः, तत्फलसुखदुःखानुभवः, तज्जन्यरसंस्कार इत्येष संसार इहजन्मनीव जन्मन्तरेष्वप्यस्ति पूर्वेषु प्राग्भवीय संसारप्रयुक्तत्वा देवद्भवीयसंसारस्य । एवमुत्तरजन्मस्वपि भविष्यति पूर्वजन्मसंसारस्येह - जन्मसंसारहेतुत्ववदिह जन्म ससारस्योत्तर जन्मसंसारहेतुत्वात् । एवमनादिरयं चक्रवत्परिभ्रमतिः संसारः । अनेन चानादित्यवचनेन कथमादा वहमभिमानस्सङ्घाते पुरुषस्य पूर्वकृत संस्काराभावादिति शङ्का प्रत्युक्ता । अनादिरपि कार्यभूतत्वादनित्य एवायमिति सुपरिहर इत्याह- अविद्याकृत इति । अज्ञानकृतोऽज्ञान- वन्मिथ्याभूत इत्यर्थः । एतेन देहादिसङ्घातेऽहमिति - मिध्याप्रत्ययस्याज्ञानमेव हेतुरिति सिद्धम् । एवमज्ञानहेतुकत्वादेव सङ्घाते ऽहमिति मल्लयो मिध्याप्रत्ययः, नतु गौणः । आत्मानात्माविवेकपूर्वकत्वा- " સપ્ટ श्रीभगवद्गीतासु - भाष्या कैप्रकाशविरूसित श्रीशाङ्करभाष्योपेतासु मेयः । ततश्च सर्वकर्मसन्न्याससहितज्ञाननिष्ठाया आत्यन्तिकस्संसारोपरम इति सिद्धम् । अविद्यात्मकत्वाच देहाभिमानस्य, तनिवृत्तौ देहानुपपत्तेरसंसारानुपपत्तिः, देहादिसङ्घातेss- त्माभिमानोऽविद्यात्मकः । न हि लोके ‘गवादिभ्योऽन्योऽहं मत्तश्चान्ये गवादय’ इति जनन् तेषु ‘अह’ मिति मन्यते कश्चित् । अजानंस्तु स्थाणौ पुरुषविज्ञानवदविवेकतो देहादि- सङ्घाते कुर्यात् ‘अह’ मितिप्रत्ययं न विवेकतो जानन् । यस्तु ‘आत्मा वै पुत्रनामा’ सीति द्रोणो हि सिंहदेवदतविवेकपूर्वकोऽनुमेय इतीहजन्मानुभवसिद्धेन संसारेण जन्मान्तरीयसंसारोऽनुमेय इत्यर्थः : । यथा जन्मान्तरे मम संसारानुभवोऽस्ति - इहजन्मनि मया संसारस्य स्मर्यमाणत्वात् । अनु- भवजन्यसंस्कारपूर्विका हि स्मृतिः । पूर्वदिनानुभूतघटस्यास्मिन् दिने स्मरणवत् । एवमुत्तरजन्मनि मम संसारो भविष्यति इहजन्मनि मया संसारस्यानुभूतत्वात् । पूर्वजन्मानुभूतसंसारो यथेहजन्मन्यासी- सद्वदिति च प्रयोगवशादिति भावः । भवत्वेवमविद्याकृतस्संसारः किं ततोऽत आह- ततश्चेति । संसारस्याविधापूर्वकत्वादित्यर्थः । सर्वकर्मसन्न्यासपूर्वकज्ञाननिष्ठयैवात्यन्ति कस्संसारोपरमः । आत्य- न्तिको निःशेष इत्यर्थः । संसारमूलस्याज्ञानस्यापि नाशादिति भावः । अविधापूर्वकस्य मिथ्या- प्रत्ययधर्माधर्मरागद्वेषेष्टानिष्ट संस्कारादिरूपस्य संसारस्य विद्ययैव समूलोच्छेद:- विद्याविद्ययोर्विशेषात् मतु कर्मणा - तस्याप्यविद्यापूर्वकत्वेन कर्माविद्ययोरविरोधात्कर्म संसारयोर्हेतुहेतुमद्भावात्कर्मणोऽपि धर्मा धर्मलक्षणस्य संसारान्तः पातित्वेन संसारत्वाच । तस्मादज्ञानादेव मोक्ष इति सिद्धम् । कुतस्सिद्ध- मत माह - अविद्येति । देहाभिमानस्य देहादिसङ्घाते ऽहं प्रत्ययस्य मिध्याभूतस्याऽविद्यात्मकत्वा- दज्ञानकृतत्वात्कार्यकारणयोर मेदेनाज्ञानस्वरूपत्वाच्च, तन्निवृत्तावविद्याया निवृत्तौ देहाभिमानानुपपत्तेः संसारानुपपत्तिः; देहाभिमानपूर्वकत्वात्संसारस्येति भावः । देहादिसङ्घातमविद्ययाऽऽत्मत्वेन प्रतिपद्य हि धर्माधर्मसुखदुःखजन्ममरणादिलक्षणं संसारमनुभवत्यज्ञः । व्यविधात्मकत्वादेहाभिमानस्येति वाक्यं व्याचष्टे - देहादीति । व्यविश्वा निवृत्तावभिमान निवृतिः, अविधायां निवृत्तायां सत्यां सङ्घातादन्योऽह- मात्मा मसोऽन्यसङ्घातइति जानाति अविधाकृतत्वात्सङ्गावात्मनोस्तादाम्याभ्यासस्य । एवमात्मा- नात्मानौ स्वसङ्घातौ : विविच्य जानन्पुरुषः तस्मिन् सङ्घाते स्वस्मादत्यन्तभिन्ने कथमहमिति प्रत्ययं कुर्यात् ? न कथमपि । तत्र दृष्टान्तमाह-न हीति । ननु यद्येवं जानन्पुरुषः सङ्घाते न कुर्या - दहमिति मिथ्याप्रत्ययं तर्हि कः पुनः करोत्यत आह- कश्चिदजानन्निति । यथा स्थाणुमजानन्पुरुषः स्थाणौ पुरुष इति विज्ञानं (प्रत्यर्य ) करोति, तथाऽऽत्मानात्मा विवेकतरसङ्घातेऽहमितिप्रत्ययं कुर्या- दमानन कंचित्पुरुषः । अजानंस्थिति तुशब्दार्थमाह-न विवेकतो जानन्निति । आत्मानात्मानौ विवेकतो नाननयमात्माऽयमनात्मेति विविध्य जानन्पुरुषस्सङ्घातेऽनात्मन्यहमितिप्रत्ययं न करोति; मथा स्थाणुं विद्वान्पुरुषः स्थाणौ पुरुषोऽयमितिप्रत्ययं न करोति तद्वदिति भावः । ननु स्थाणुपुरुषदृष्टान्तो नेहानुकूल:, विद्यमाने स्थाणा विद्यमान पुरुषभ्रमस्स:- विद्यमाने साते विद्यमानात्मप्रमोऽयमिति मेदात् । नहि परस्पराध्यस्तमात्मानात्मपदार्थद्वयमिव स्थाणुपुरुषद्वयं तलाs- दशोऽध्यायः । ર पुत्रेऽहं प्रत्ययः; स तु जन्यजनकसम्बन्धनिमित्तो गौणः । गौणेन चात्मना भोजनादिवत्पर- स्तीति चेत्, मैवम् - स्थाणौ पुरुष इतिवदनात्मन्यात्मेतिभ्रम इत्येतावत एवांशस्येह - साधर्म्यत्वेन विवक्षितत्वात् । यथा पुरुषव्यतिरिक्तोऽपि स्थाणुः पुरुषतादात्म्याध्यासात्पुरुषस्स इति व्यवह्रियते, तथा आत्मव्यतिरिक्तोऽप्यनात्मा सङ्घात आत्मतादात्म्याभ्यासादात्मेति व्यवद्वियत इति । नच प्रकृतपुरुष- ननु यस्स्थाणुं पुरुषं चोभौ वेति तस्य स्थाणौ पुरुषभ्रमः, न त्वन्यतरापरिज्ञातुः, नाप्युभयापरि- ज्ञानात्- बालस्य तददर्शनात् । एवमात्मानात्मामौ जानतः किं संघातात्मभ्रमो भवति, उतान्यतर- मजानतो यद्वोभयमजानतः ! नाथ:- आत्मानात्मविदस्सम्यग्दर्शिन एव संघातात्मभ्रमप्रसङ्गात् । द्वितीये - किमात्मानमजानत: ? उठानात्मानमजानतः नाद्यः पुरुषापरिज्ञातुस्स्थाणौ पुरुषभ्रमासम्भववदात्मा- परिज्ञातुस्संघाते आत्मभ्रमासम्भवात् । न द्वितीयः अनात्माविद एवाभावात् । न तृतीय:- सुपुषि- मृत्यादिषु भ्रमासम्भवादिति चेत्, मैवम् - आत्मानमनात्मानं वा यत्सम्यग्वेत्ति न तस्य संवाते आत्म- भ्रमो भवति । नहि स्थाणुं पुरुषं वा सम्यग्विदितवतस्स्थाणावपि पुरुषभ्रमो भवति । श्रम विषयस्थाणुस्व रूपयाथार्थ्यज्ञानाभावेऽपि स्थाणुसामान्यस्वरूपज्ञानमस्तीति वाच्यं भ्रमंप्रति संस्कार- ज्ञानस्यैव हेतुत्वेन स्वानुभूतस्थाणुपुरुषसंस्कारवशाद्यथा स्थाणौ पुरुषत्र एवं दिनान्तरे जन्मान्तरे वा स्वानुमृत संघातात्मश्रमसंस्कारवशादिदानीं संघातात्मश्रमोदय इति । तस्माथ आत्मानं सम्बड्न वेचि सस्यैवानात्मनि संघाते आत्मेतिभ्रमः - आत्मनि सम्यग्विदिते सति संघाते आत्मश्रमायोगात् । नांप्या- रमान सुतरामविदुषरसंघाते आत्मश्रमस्सम्भवति किं तु कर्ता भोक्ता जातो मृत इति विपरीत लक्षण- मात्मानं यो वेत्ति तस्य संघाते आत्मभ्रमः । नच भ्रमात्प्राक्कथं विपरीतात्मज्ञानमिति वाच्यं, बीजांकुर- न्यायेन श्रमात्माग्विपरीतात्मज्ञानं तस्मात्मानमश्चास्तीति । यद्वाऽज्ञानादात्मनि विपरीतज्ञानं अमश्चे- स्युभयमेदैव भवति । वस्तुतस्तु स्वशब्दवाच्योऽहमित्यनुभवसिद्ध आत्मेति कश्चन पदार्थोऽस्तीति सामान्या कारे- णात्मानं सर्वे विदन्त्येव । अज्ञास्तु तमेवात्मानं संघातत्वेन प्रतिपद्यन्त इति संघाते मात्मभ्रमोऽज्ञानां युक्ततरः । अनुभवसिद्धत्वाद्दुरपलापेऽस्मिन् संघातात्मभ्रमेऽविद्या पूर्वकत्वादनिर्वाच्येनातीव प्रश्नोत्तर- सरणिः कार्या मायामयस्य वस्तुनस्सति विमर्शे स्वरूपासिद्धेः । न हि कृते विमर्शे रज्जुसर्पस्य काप्यात्मसत्तालाभः । तस्मान्मायामयोऽयं संघातः, तस्मिन्नात्मश्रमश्चेति मिथ्यैवैतदुभयम् । मत एव संघातेऽहमिति मिथ्याप्रत्यय इत्युक्तं ननु । ‘आत्मा वै पुत्रनामा’ सीति श्रुतिप्रामाण्यात्पुत्रे ऽहमितिप्रत्ययो यथा गौणः, तथा स्वीये संघातेऽप्यहमितिप्रत्ययो गौण एव न मिथ्येत्यत आह-यस्त्विति । पुत्रस्म गौणात्मत्वेऽपि संघातस्य न गौणात्मत्वम् । कुतः पुत्रस्य गौणात्मत्वमत आह- स त्विति । जन्यजनकयोः पुत्रपित्रोर्यस्सम्बन्धः जन्य- जनकभावरूपरस निमित्तं यस्य स तथोक्तः पुत्रेऽहमिति प्रत्ययो गौणः, जन्यजनकभावरूपसम्बन्धात्मक- ४३० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्यो पैतालु मार्थकार्य न शक्यते कर्ते, गौण सिंहाग्निभ्यां मुख्य सिंहाग्निकार्यवत् ।

अदृष्टविषयचोदनाप्रामाण्यादात्मकर्तव्य गौणैदेहेन्द्रियात्मभिः क्रियत एवेतिचेत् न- अविद्याकृतात्मकत्वात्तेषाम् । नच गौणा आत्मनो देहेन्द्रियादयः, किं तर्हि मिथ्याप्रत्यये - नैवासङ्गस्यात्मनस्स्सङ्गत्या आत्मत्वमापाद्यते तद्भावे भावात् तदभावे चाभावात् । अवि- वेकिनां ज्ञानकाले बालानां दृश्यते ‘दीर्घोऽहं गौरोऽह मिति देहादिसङ्घाते ऽहं प्रत्ययः; न तु विवेकिना ‘अन्योऽहं देहादिसङ्घाता’ दिति ज्ञानवतां तत्काले देहादिसङ्घातेऽहं प्रत्ययो गुणनिमित्तत्वादिति भावः । नैवमात्मसङ्घातयोरस्ति जन्यजनकसम्बन्धः, देहेन्द्रियाद्यवच्छिन्न चैतन्यलक्षण- स्यात्मनः देहेन्द्रियादिजनकत्वासम्भवात् । ‘आत्मन आकाशस्सम्भूत’ इति श्रुतिस्तु देहेन्द्रियाद्यव- च्छिन्नात्मपरेति न विरोधः । तस्मात्सङ्घातेऽहंप्रत्ययो न गौण:, किंतु मिथ्यैव । किंच गौणेनानात्मना सङ्घातेन परमार्थात्मकार्ये कर्ते न शक्यते । यथा पुत्रेण गौणात्मना पितुर्मुख्यात्मनः कार्ये भोजनादिक कर्ते न शक्यते तद्वदित्याह - गौणेन चेति । नहि पितृदेहस्य पितृभुक्तान्नपानैरिव पुत्रभुक्तान्नपानै- बृद्धयादिरस्ति, येन गौणात्मसङ्घातकृतकर्मभिर्मुख्यात्म नत्स्वर्गादिप्राप्तिस्स्यात् । श्रूयते चात्मनस्सङ्घात- कर्म भिरस्वर्गादिप्राप्तिस्तस्मात्सङ्घातो न गौणात्मा, किंतु मिध्यात्मैव । मुख्यात्मकार्य गौणात्मना कुतो न क्रियत इत्यतो दृष्टान्तमाह – गौणेति । गौण सिंहाग्निभ्यां देवदत्तमाणवकाभ्यां मुख्यसिहाग्निकार्ये यथा न क्रियेते तद्वत् । नच मिथ्यात्मनापि मुख्यात्मकार्य कथं क्रियत इति वाच्यं सङ्घाते आत्मेति प्रत्ययवत्तत्कार्येष्वपि मुख्यात्म कार्यत्वप्रत्ययसत्त्वात् । नन्वदृष्टेषु विषयेषु स्वर्गादिषु या चोदना– ‘ज्योतिष्टोमेन स्वर्गकामो यजे’ तेत्यादिविघिस्साऽनात्मनो न भवति तस्य जडत्वादतो मुख्यात्मन एव भवति । तच्छास्त्रप्रामाण्याच्च कर्तव्यमेव “मुख्यात्मना यज्ञादिकं कर्म, अन्यथा विधिवैयर्थ्यप्रसङ्गेन विधीनामप्रामाण्यापतेः । तच मुख्यात्मना कर्तव्यं कर्म गौणात्मभिः क्रियते मुख्यात्मन: करणाद्यभा- बादिति शङ्कते - अदृष्टेति । परिहरति-नेति । हेतुमाह-अविद्येति । देहेन्द्रियादयो न गौणात्मानः, तेषां देहादीनामविद्याकृतात्मत्वात् । अविद्यत्रैव देहेन्द्रियादयोऽनात्मानोऽप्यात्मानः कृताः, नतु गौणवृत्त्या, यथा अविद्यया रज्जुसर्पः क्रियते तद्वत् । तस्मान्मिथ्यात्मान एव त इत्याह– किं तर्हीति । अनात्मनां सतामनात्मत्वेन वर्तमानानां तेषां देहादीनां मिथ्याप्रत्ययेनैवा विद्यापूर्वके- नात्मत्वमापाद्यते नतु गौणप्रत्ययेन । तस्माते मिथ्यात्मान एव । मिथ्याप्रत्ययेनैव देहादीनामात्मत्व- मापाद्यत इत्यत्र हेतुमाह — तद्भाव इति । मिथ्याप्रत्ययसत्त्वे देहादीनामात्मत्वसत्त्वं, मिथ्याप्रत्यया- भावे देहादीनामात्मत्वाभाव इत्यन्वयव्यतिरेकाभ्यां मिथ्या प्रत्यय पूर्वकत्वं देहाद्यात्मत्वस्य सिद्धम् । यथा मृत्सत्वे घटसत्वं मृदभावे घटाभाव इत्यन्वयव्यतिरेकाभ्यां घटस्य मृत्पूर्वकत्व सिद्धिस्तद्वदिति भावः । अन्वयव्यतिरेकावेव विवृणोति — अविवेकिनामिति । अदिवेकिनां बालनां मूढानामज्ञान- काळे देहादिसंघातेः विषये दीर्घोऽहं गौरोऽहमित्प्रित्ययो दृश्यते । देहादिसंघातादन्योऽहमिति जानतां विवेकिनां तु सरकाळे ज्ञानकाले देहादिसंघाते ऽहं प्रत्ययो न भवति । अविवेकिनामपि कालान्तरे

1 महादशोऽध्यायः । શું भवति । तस्मान्मिथ्याप्रत्ययाभावेऽभावात्तत्कृत एव न गौणः । पृथग्गृह्यमाणविशेष सामा- न्ययोर्हि सिंहदेवदत्तयोरग्निमाणवकयोर्वा गौणः प्रत्यय शब्दप्रयोगो वा स्यात्, नाऽगृह्य- विवेकसत्त्वे तादृशप्रत्ययाभावादुक्तमज्ञानकाल इति । विवेकिनामपि कस्मिंश्चिद्दुःखाद्यनुभव काले विवेकलोपे सति संधातारमप्रत्ययसत्त्वादुक्तं तत्काल इति । तस्मादिति । विवेकिनां विवेककाले संघातात्माभिमानदर्शनात्, अविवेकिनाम विवेककाले संघातात्माभिमानदर्शनाश्चेत्यर्थः । विवेकिनामपि विवेककाले संघाता भिमामादर्शनादविवेककाले तद्दर्शनाद विवेकिनामपि विवेकोदयानन्तरं संघाताभिमाना- दर्शनाश्वेत्यर्थं इति वा । मिध्याप्रत्ययाभावे देहाद्यात्मत्वाभावादित्याह - मिथ्येति । नन्वदिवेकिना- मित्यादिग्रन्थेनाज्ञानसत्त्वे मिथ्याप्रत्ययसत्त्वं तदभावे तदभाव इत्येवान्वयव्यतिरे का क्रौ । नतु मिथ्या- प्रत्यये सति देहाद्यात्मत्वं तदभावे तदभाव इतिचेन्नैव दोषः - अज्ञाने सति मिध्याप्रत्ययः, मिथ्या- प्रत्यये सति देहाद्यात्मत्वमिति कृत्वा अज्ञाने सति मिध्याप्रत्ययस्तदभावे तदभाव इत्यन्वयव्यतिरेक- प्रदर्शनेन मिथ्याप्रत्यये सति देहाद्यात्मत्वं तदभावे तदभाव इत्यन्वयव्यतिरेकयोरप्यु कप्रायस्वादिति । या सिंध्याप्रत्ययेन संघातस्यात्मस्वमन्वयव्यतिरेकाभ्यां सिद्धं भवतुनाम, संतु मिथ्याप्रत्ययो नाविद्या- पूर्वकः । विदुषामपि संघातेऽहं प्रत्ययदर्शनादत आह- अविवेकिना मिंति, तस्मादिति मिथ्या- प्रत्ययस्या विद्या पूर्वकत्वादित्यर्थः । तत्कृत एवेति । संघातेऽहमितिप्रत्ययो ऽज्ञानकृतमिध्याप्रत्यय एवे- त्यर्थः । एवकारार्थमाह-न गौण इति । कस्मान्न गौणोऽन आह - पृथगिति । पृथगृह्य नाणे विशेषसामान्ये ययोस्तयोः पृथग्गृशमाणविशेषसामान्ययोः । हिः प्रसिद्धौ । गौणप्रत्ययः सिंहो देवदत इति ज्ञानं तत्पूर्वकः शब्दप्रयोग हिंसो देवदत्त इति वाचोच्चारणं, अगृह्यमाण विशेष सामान्य यो राम- संघातयोस्तु न गौणः प्रत्ययो भवति । सङ्घात आत्मेति । तस्मात्संघातेऽमितिप्रत्ययो न गौणः । 3 अयं भावः सिंहं देवदतं च सामान्याकारेण विशेषाकारेण च पृथाजानन्नेव पुरुषसिहो देवदत्त इति प्रत्येति सिंहदेव दत्तगतक्रौर्या दिसंमानधर्माणामग्रहणे देवदत्ते सिंहतौरयबुदयनुदयात् । केसर शिखाचतुष्पात्त्वद्विपात्त्वादिविशेषधर्माणामग्रहणे देवदत्ते सिंहा भेदबुद्ध्युदयप्रसङ्गाच । एव– मात्मानं सङ्घातं च यदि सामान्याकारेण विशेषाकारेण च पृथग्ज्ञानन् पुरुषो यदि सङ्घात आत्मेति प्रतीयातर्हि सङ्घातेऽप्रत्ययो गौणंस्स्यान्नतु तथा विद्वान्प्रत्येति विद्याया आनर्थक्यप्रसङ्गात् । सङ्घा- तात्मभ्रम निवारणफला सङ्घातभिन्नसच्चिदानन्दात्मस्वरूपावगतिपर्यवसाना च हि विद्या कथं सङ्घातभिन सच्चिदानन्दलक्षणमात्मानं सामान्यतो विशेषतश्च जानन् पुरुषस्सङ्घातेऽहमितिप्रत्ययं कुर्यात् ? यस्तु मनुष्यो हमित्यभिमन्यते; सानात्मेति, आत्मेति च पदार्थद्वयमस्तीति सामान्याकारेणैव न वेत्त्यात्मान नास्मानौ । किंपुनस्सच्चिदानन्दलक्षण आत्मा अनृतजडदुःखात्मकोऽनात्मेति विशेषाकारेण । अत एव हि तस्यानात्मन्यात्मेतिप्रत्ययो भ्रमः स्थाणौ पुरुष इति प्रत्ययवत् । यथा सिंहदेवदत्तौ पृथवपश्यन पुरुष सिहों देवदत्त इति प्रत्येति, न तथा स्थाणुः पुरुष इति प्रत्येति, न तथा स्थाणुपुरुषौ पृथवपश्यन स्थाणुः पुरुष इति प्रत्येति; किंतु स्थाणुमेकमेव पश्यन् पुरुष इति प्रत्येति । एवमात्मानात्मानौ पृथ- • ४३२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविकसित श्रीशाङ्करभाथ्योपता माणसामान्य विशेषयोः । यत्तृक्तं ‘श्रुतिप्रामाण्या’ दिति, तन तत्प्रामाण्यस्यादृष्टविषयत्वात् । प्रत्यक्षादि प्रमाणानुपलब्धे हि विषयेऽग्निहोत्रादिसाध्यसाधनसम्बन्धे श्रुतेः प्रामाण्यं, न प्रत्य- क्षादिविषये- अदृष्टदर्शनार्थविषयत्वात्प्रामाण्यस्य । तस्मान्न दृष्टमिथ्याज्ञाननिमित्तस्याप्रत्य- पश्यन् सङ्घात आत्मेति (मनुष्योऽहमिति ) न प्रत्येत्यज्ञः, किंत्वनात्मानमेकमेव पश्यन्नात्मेति प्रत्येति । तस्मात्सतेऽहमिति प्रत्ययो न गौणः, किंतु मिथ्यैव । . ननु यदि देहेन्द्रियादयो मिथ्यात्मानस्स्युस्तर्हि तत्कृतमपि कर्म मिथ्यैव स्यादिति कथं मिथ्याभूतं यज्ञादिकर्म श्रुतिर्ब्रयान्मुख्यात्मकर्तव्यत्वेन ! तस्माच्छू तेरदृष्ट विषय मुख्यात्म चोदनाप्रामाण्या- न्मुख्यात्मकर्तव्यं गौणैर्देहेन्द्रियादिभिः क्रियत इत्यवश्यमभ्युपगन्तव्यं वेदस्य सर्वप्रमाणाधिकत्वात् । नहि वेदप्रामाण्यमुपपत्तिभिर्विघटयितुमर्हमत माह - यत्तूक्तमित्यादि, तत्प्रामाण्यस्येति । श्रुतिप्रामाण्य- स्येत्यर्थः । ‘प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते । एनं विदन्ति वेदे ’ नेतिवचनात्प्रत्यक्षानुति - प्रमाणाविषयादृष्टार्थबोधकत्व एव वेदस्य प्रामाण्यं नतु दृष्टार्थविषय इति भावः । इदमेवाह - प्रत्यक्षा- दीति । मादिपदादनुमानादिग्रहणम् । कस्य विषयोऽत आह- अग्निहोत्रादीति । अग्निहोत्रादि- कर्म तत्साध्यं स्वर्गादिफलं तयोः कर्मफलयोर्वर्तमान साध्यसाधनभावरूपसम्बन्धश्वत्ययं विषय इत्यर्थः । अग्निहोत्रादिसाध्यं स्वर्गादि; साधनमग्निहोत्रादि; सम्बन्धश्च त्रयाणां समाहारद्वन्द्वः- तस्मिन् विषये श्रुतेः प्रामाण्यात् । प्रत्यक्षादि विषये श्रुतेर्न प्रामाण्यम् । तत्र हेतुमाह - अदृष्टेति । प्रामाण्यस्यादृष्टस्याज्ञात- स्यार्थस्य दर्शनं ज्ञापनं तदेवार्थो वस्तु विषयो यस्य तत्त्वात् अदृष्टार्थदर्शनविषयत्वादिति वा पाठः । सर्वेषामपि प्रमाणानामज्ञातार्थज्ञापकत्वादेव प्रामाण्यम् । तथाहि प्रमाकरण प्रमाण; अनधिगताबाधि- सार्थविषयकं ज्ञानं प्रमा; भ्रमव्यावृत्त्यर्थमुक्तमबाचितेति । ततश्चाज्ञातावाचितार्थज्ञापकं प्रमाण; प्रत्यक्ष- प्रमाकरण प्रत्यक्षप्रमाणं चक्षुरादि । तत्र चक्षुर्व्यापारात्प्रागदृष्टं घटं स्वव्यापारेण घटोऽयमिति पुरुषप्रति बोधयित्वा चक्षुः प्रमाणं भवति । एवं स्वव्यापारात्प्रागश्रुतं शब्दं बोधयित्वा श्रोत्रं प्रमाणं, तथा रस- मादिकमप्यनुमितिकरणमनुमानं तख मनः । परत्वेऽदृश्यमानमनि वह्निव्याप्यो धूम इति धूमलिङ्गेन पुरुषप्रति बोधयित्वा प्रमाणं भवति । व्याप्तिज्ञानं करणमिति केचित् । सादृश्यज्ञानमुपमितिकरण- मुपमानम् । तथा ज्ञातमेव गोगवयसादृश्यं ज्ञापयित्वा प्रमाणं भवति । तथा पीनो देवदतो दिवा न मुक्त इत्यर्थापत्तिरप्यज्ञातमेव पीनदेवदत्तकर्तृकं रात्रिभोजनं ज्ञापयित्वा प्रमाणं भवति । एवमनुपलम्बरपि अज्ञातमेव घटाभावं ज्ञापयित्वा प्रमाण भवति, तद्वच्छन्दोऽप्यज्ञा तार्थज्ञापना- देव प्रमाणम् । आप्तवाक्यं शब्दः । घटमविदन् हि बलो घटं दृष्ट्रा कोऽयमिति मातरं पृष्ट्रा घsटो- यमिति मातृवचनाद्धटं जानाति । वेदश्ध परमाप्तस्य भगवतो वाक्यमिति परं प्रमाणम् । स सार्व स्वर्गाग्निहोत्रादिकं ज्ञापयति । तस्मादिति । दृष्टार्थे वेदस्याप्रमाणत्वादित्यर्थः । दृष्टं मिथ्या च तद- ज्ञानं च मिथ्याज्ञानं निमित्तं यस्य तस्य दृष्टमिध्याज्ञाननिमित्तस्य देहादिसखातेऽहं प्रत्ययस्य दृष्टस्यैवे- स्वर्थः । गौणत्वं कल्पयितुं न शक्यम् । ननु देहादिसङ्घाते ऽहं प्रत्ययः तत्कारणमज्ञानं च यद्यपि ५५ ; महादशोऽध्यायः । ४३३ यस्य देहादिसङ्घाते गौणत्वं कल्पयितुं शक्यं; नहि श्रुतिशतमपि ‘शीतोऽग्निर प्रकाशो’ वेति वत्प्रामाण्यमुपैति । यदि ब्रूयात् ‘शीतोऽग्निरप्रकाशो’ वेति, तथाप्यर्थान्तरं श्रुतेर्विवक्षितं कल्प्य - प्रामाण्यान्यथानुपपत्तेः न तु प्रमाणान्तरविरुद्ध स्ववचनविरुद्धं वा । कर्मणो मिथ्याप्रत्ययवत्कर्तृकत्वात्कर्तुरभावे श्रुतेरप्रामाण्यमितिचेत्, न ब्रह्मविद्यायामर्थवत्त्वोपपत्तेः - 1 मिथ्यात्वेन ज्ञातं, तथापि गौणत्वेनाऽहंप्रत्ययो न ज्ञात इत्यज्ञातज्ञापनमस्ति वेदप्रामाण्यकारणं प्रकृतेs- पीत्यत आह- -नहीति । अग्निरुष्णः प्रकाश इत्यनुभवसिद्धे विषये यदि बहवोऽपि वेदा अग्नि- इशीतोऽप्रकाशो वेति भाषमाणारसन्तः प्रमाणं स्युस्तर्हि मिध्यात्वेन विद्वदनुभवसिद्धे सङ्घाताहं प्रत्यये विषये देहेन्द्रियादयो गौणा इति वदन् वेदः प्रमाणं स्यात् । तस्मादनुभवाविरुद्ध एव वेदः प्रमाणम् । ननु वेदाः प्रमाणमिति प्रसिद्धेऽर्थे कथमप्रामाण्यप्रसङ्ग इत्यत आह-यदीति । श्रुतेः प्रामाण्यान्यथा- नुपपत्रया विवक्षितमर्थान्तरं करूप्यं, यथा शीतोऽग्निरप्रकाश इति वेदवाक्ये सति तस्याग्निश्शीतशान्तो: नष्ट इति यावत् । अत एवाप्रकाश इति । किमिति यथाश्रुतार्थो न कल्प्योडत आह—नत्विति । स्ववचनविरुद्धं प्रमाणान्तरविरुद्धं न कल्प्यं विरोधादिति भावः । एतेन यजेतेत्याद्यदृष्ट विषयचोदना- प्रामाण्याद्यदि सङ्घातो गौणात्मेति कल्प्यते तर्हि सर्ववेदान्तविरोध इति स्ववचनविरोधः । वेदान्तेषु हि. मायया सर्वे जगदात्मनि कल्पितमित्यविद्यया देहेन्द्रियादिकमात्मत्वेन प्रत्येतीति च घण्टाघोषः, विद्वदनु- भवविरोधश्ध - विदुषां सङ्घातेऽहं प्रत्ययाभावात् । यदि स गौणस्स्यात्तर्हि विदुषां किमिति न स्यात् ? किभु विद्वान् पिता- ‘आत्मा वै पुत्रनामा’ सीति पुत्रं गौणात्मानं न प्रत्येति ! प्रत्युत विद्वानेव प्रत्येति, न त्वविद्वान् मूर्ख :- श्रुत्यर्थानभिज्ञत्वात्तस्य । उपपत्तिविरोधश्च – अगृहीतसामान्यविशेषयों (सङ्घातात्मनो - गौणत्वायोगादित्युक्तत्वात् ; प्रत्यक्षप्रमाणविरोधश्व- गौणमुख्य सिंहयोरिव गौणमुख्यात्मनो: पृथगनुप- लम्भात् । तस्मान्मिथ्यात्मैव सङ्घातः । यजेतेत्यादिश्रुतयस्तु अविद्वद्विषयत्वेन प्रमाणमेव । यो हि सङ्घात कर्तारमात्मत्वेन प्रत्येति, स हि यज्ञादिकं कुरुते तत्फलमनुभवति च । तथा च विधिश्रुतीनाम विद्व- द्विषयत्वं प्रकरूप्य प्रामाण्यं सम्पादनीयमिति भावः । 1 ननु सङ्घातेऽहमिति मिथ्याप्रत्ययवान् यस्स एवाविद्यावान् कर्मण: कर्तेति मिध्याप्रत्ययवत्पुरुष- कर्तृकत्वे सति कर्मणो मिथ्यात्मभूतसङ्घातकर्तृकत्वमेव प्राप्तं, कर्मणो न मुख्यात्मकर्तृकत्वमिति कृत्वा सुख्यस्य कर्तुरात्मनोऽभावाच्छु तिरप्रमाणेति शङ्कते - कर्मण इति । सङ्घातात्मानमुद्दिश्य यजेतेत्यादि- विधिरनुपपन्ना । नहि स्थाणुपुरुषं कोऽप्यनुन्मत्तः त्वमेवं कुर्विति चोदयति, मुख्यात्मा स्वकर्तेव । तस्माच्छु तिर प्रमाणैवेति भाषः । यद्वा कर्मणोऽविद्वत्कर्तृकत्वेसति विदुषः कर्मण्यप्रवृत्त्या कर्तरभावात् श्रुतेरप्रामाण्यमिति शङ्कते - कर्मण इति । परिहरति-नेति । हेतुमाह – ब्रह्मेतिः । कर्मकाण्डो ज्ञानकाण्डश्चेति काण्डद्वयात्मको वेदः । तत्र कर्म क (ण्डस्याप्रमाणत्वेऽपि ज्ञानकाण्डः प्रमाणमेवेति न श्रुतेरप्रामाण्यप्रसङ्गः । ज्ञाननिष्ठा कर्तुर्विदुषस्सत्त्वेन ज्ञातुर्मुख्यात्मनस्स्सत्वेन चज्ञानकाण्डस्य सार्थकत्वा दिति भावः । ब्रह्मविद्यायां ज्ञानकाण्डे, उपनिषत्स्विति यावत् । अर्थवत्त्वस्योपपत्तेरित्यक्षरार्थः । ननु

श्रीभगवद्गीता - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु + कर्मविधिश्रुतिवद्ब्रह्मविद्याविधि श्रुतेरप्यप्रामाण्यप्रमङ्ग इतिचेत्, न बाधकप्रत्ययानुप- पत्तेः । यथा ब्रह्मविद्याविधिश्रुत्याऽऽत्मन्यवगते देहादिसङ्घातेऽहं प्रत्ययो बाध्यते, तथाऽऽत्म- न्येवाऽऽत्मावगतिर्न कदाचित्केनचित्कथंचिदपि बाधितुं शक्या फलाव्यतिरेकावगतेः, यथा यजेतत्यादिकर्मकाण्डोऽविद्वद्विषयत्वेन यथा विदुषामप्रमाणं तथा ज्ञानकाण्डोऽपि विद्वद्विषयत्वेनाविदुषा- मप्रमाणमेवेति कर्मज्ञानकाण्डयोरप्रामाण्यं तुल्यमेव । अविदुषामप्रवृत्त्या ज्ञानकाण्डस्य, विदुषामप्रवृत्त्या कर्मकाण्डस्य चानर्थकत्वादिति शङ्कते - कर्मविधीति । कर्मविधिश्रुतिर्यजेतेत्यादिः । तस्या इव तद्वत् । ब्रह्मविद्याविविश्रुतिश्श्रोतव्यो मन्तव्य इत्यादिः । तस्या अप्यप्रामाण्यप्रसङ्ग इतिचेन्न, कुत: ? बाधकेति । बाघकज्ञानासम्भवादित्यर्थः । तदेव विवृणोति — यथेति । ब्रह्मविद्याविविश्रुत्या तज्जन्य- ज्ञानेनेत्यर्थः । श्रात्मन्यवगते साक्षात्कृते सति देह। दिसङ्घातेऽहमितिप्रत्ययो यथा बाध्यते तथा आत्माव- गतिः केनापीति शेषः । कदाचिदपि कथंचिदपि बाधितुं न शवया । कुतः ? अवगतेरात्मज्ञानस्य फलान्यतिरेकादात्मप्राप्तिरूपफला मेदात् आत्मसाक्षात्कारातिरिक्तात्मप्राप्तिरूपमोक्षफलाभावादित्यर्थः । तस्माद्ब्रह्मविद्याया वैयर्थ्यमापादयितुं न शवयते, येन तस्या अप्रामाण्यं स्यादिति भावः । कुतो न शक्यतेऽत बाह-यथेति । अग्निरुष्णः प्रकाशश्चेति प्रत्ययस्य यथा न केनापि बाधस्तद्वदब्रोति- प्रत्ययस्यापीत्यर्थः । यथावदवस्थितवस्तुज्ञानत्वात्तस्येति भावः । 1 अत्रेदं बोध्यम् - अविदुषां ज्ञानकाण्डेऽप्रवृत्तिः किं ब्रह्मविद्याया वाघितत्वादुत तेषां तत्राs - नधिकारात् ? नाथ :- ब्रह्मविद्यायाः कयापि तद्भिन्नविद्यया बाघाभावात् । न ह्यग्निविषयको ऽग्निरुष्णः प्रकाशश्चेति प्रत्ययः केनापि प्रत्ययान्तरेण बाध्यते ? किंवा घटविषयकोऽयं घट इति प्रत्ययः केनापि बाध्यते ! एवं ब्रह्मविषयकोऽहं ब्रझेति सच्चिदानन्दं ब्रह्मेति च ज्ञानं न केनापि बाध्यते ? किंचाई ब्रतिप्रत्ययः नाहं ब्रह्मेतिप्रत्ययेनैव बाध्येत । यस्य त्वज्ञस्य नाहं ब्रह्मेति प्रत्ययोऽस्ति तस्य ब्रह्माह- मस्मीति प्रत्ययस्यैवाभावात्कथं उाघप्रसङ्गः ? न ह्यहं ब्रह्मेति विदुषो नाहं ब्रह्मेतिप्रत्ययः पुनरुदीयाद्येन ब्रह्मात्मप्रत्ययस्य बाघ आशक्येत । न चग्निरुष्ण इति विदुषश्शीतोऽग्निरितिप्रत्यय उदेति, नापि घटोऽयमिति विदुषो नायं घट इति । अत एव धबाचितार्थविषयं ज्ञानं प्रमेत्युक्तमभियुक्तैः । अर्थ- स्याबाघितत्ववचनेन च ज्ञानस्यापि तत्त्वं सिद्धमित्यबाधितमेव ज्ञानं प्रमा । यत्तु बाषितार्थविषयं ज्ञानं भ्रमरूपं तद्वाधितमेव । यथा रज्जुविषये रज्जुरियमिति ज्ञान- मबाधितार्थविषयत्वादवाघितं प्रमाज्ञानं; रज्जुविषये सर्पोऽयमिति ज्ञानं तु बाधितार्थविषयत्वाद्वाचित भ्रमज्ञानम् । रज्जुरयं न सर्प इत्याप्तवाक्यजन्यरज्जुज्ञानेन हि सपभ्रमो बाध्यते; बाघो हि निवृत्तिः । रज्जुज्ञानात्सर्पभ्रमनिवृत्तिरनुभवसिद्धैव । तस्माद्धमज्ञानस्य बाधकं प्रमाज्ञानमस्ति । प्रमाज्ञानस्य तु न किञ्चिदपि बाधकं, तथा भ्रमज्ञानविषयस्य सर्वाभासस्य बाघितत्वं, न तु प्रामाज्ञानविषयस्य रज्जोः । एवं सङ्घातात्मज्ञानं भ्रमः । सङ्घातस्यानात्मत्वात्तद्विषयात्मज्ञानस्य ब्रह्माहमस्मीति वेदवाक्यजन्यब्रह्मात्म-मष्टादशोऽध्यायः । G ज्ञानेन बाघितत्वाद्रम विषयसङ्घातस्यापि बाघितत्वेन बाधितार्थविषयत्वाच्च सङ्घातात्मज्ञानस्य । ब्रह्मात्म- ज्ञानं तु न भ्रमः, किंतु प्रमा । रज्जुज्ञानवद्ब्रह्मज्ञानस्य केनाप्यबाधितत्वाद्वज्जुव ब्रह्मणोऽप्यवाघिवार्थत्वा- त्पारमार्थिकं सद्रूपं हि ब्रह्म । नहि बाधितस्य क्वापि सत्त्वमस्ति नित्यं हि सत् । रज्जुस्तु व्याव- हारिकसत्या; प्रातिभासिका रज्जुसर्पमरीच्युदकस्वमरथादयः । तद्ज्ञानानि च व्यावहारिक सर्पमरीचि - जागरप्रपञ्चः तद्ज्ञानैश्च बाध्यन्ते यथा, तथा व्यावहारिकोऽपि सङ्घातस्तदात्मज्ञानं च पारमार्थिकेन ब्रह्मणा तदात्मज्ञानेन च बाध्यते । तस्मात्- ‘सत्यं ज्ञानमनन्तं ब्रह्म, अजो नित्यश्शाश्वत’ इत्यादि- शास्त्रादबाघितं नित्यं सद्रूपं ब्रह्मेति तद्विषयं ज्ञानं चाबाषितं प्रमैव । सङ्घातस्तु नेति ने नीत्यादिश्रुतिभि- नैह नानेत्यादिश्रुतिभिश्व बाधित इति तद्विषयं ज्ञानमपि बाघितमेवेति भ्रम एव । नच नेह नाने- त्यादिना सङ्घातस्यैव बाघितत्वात्सङ्घातविषये सङ्घातज्ञानं च भ्रम एवेति विरुद्धमिदमिति वाच्यं, इष्टापतेः । अत एव हि ‘सर्व खल्विदं ब्रह्म, वासुदेवस्सर्वमिति, सर्वे विष्णुमयं जग’ दिति च श्रुति- स्मृतिपुराणानि सङ्गच्छन्ते । रज्जौ सर्पवद्ब्रह्मणि सर्वमध्यस्तमिति, सर्पज्ञानवत्सर्वज्ञान बाधितार्थविष- यत्वाद्रम एव ब्रह्मज्ञानमेकमेव प्रमा- ब्रह्मण एकस्यैवा बाधितार्थत्वादबाधितार्थविषय हि ब्रह्मज्ञानम् । रज्जुज्ञानादीनां प्रमात्वं तु यावद्व्यवहारमबाधितत्वरूपम् । अत एव सङ्घाते सङ्घातज्ञानस्य यावद्व्यवहार- मबाधितत्वाद्वज्जुज्ञानवत्प्रमात्वम् । निरपेक्षम बाधितत्वं तु नास्तीति भ्रमत्वं च परमार्थदृष्टया । सङ्घांते मात्मज्ञानं तु रज्जौ सर्पज्ञानवद्यावद्व्यवहारमप्यवाघितं न भवति आप्तवाक्यज्ञानेन रज्जुसर्पज्ञानवन्महा- वाक्यज्ञानेन संघातात्मज्ञानस्य व्यवहारकालेऽपि बाधितत्वात् । व्यवहारदशायामपि संघातादग्यमात्मानं हि मन्यन्ते विद्वांसः । अन्यथा ज्ञानोपदेशतद्ग्रहणाद्यसम्भवात् । तस्मात्संघातात्मज्ञानं बाघितमेवेति भ्रम एव; ब्रह्मात्मज्ञानं स्वबाधितमेवेति प्रमैव । नहि सच्चिदानन्दं ब्रह्म ते वेदवाक्यजन्यस्य स्वानुभ- वारूढस्य ब्रह्मात्मज्ञानस्य केनापि बाघस्सम्भवति सर्वाण्यपि ज्ञानान्तराणि देहात्मेन्द्रियात्मेत्यादीनि बाधित्वा जातत्वात्तस्य । सम्यग्विचारेण जातं हि तत् । एतद्ब्रह्मात्मज्ञानायैव हि ब्रह्मविचारात्मकं ब्रह्म- मीमांसाशास्त्रं कृतं व्यासाचार्यैः । संघातात्मज्ञानं तु स्वभावतोऽविचाराज्जातमौत्पत्तिकमेव- बाबाश्यादपि तस्य सत्त्वात् । अत एवाविवेकमूलकं सङ्घातात्मज्ञानं विवेकपूर्वकेण ब्रह्मात्मज्ञानेन बाध्यते । यथाऽवि- वेकपूर्वकं रज्जुसर्पज्ञानं विवेकपूर्वकेण रज्जुज्ञानेन बाध्यते नतु विवेकपूर्वकस्य रज्जुज्ञानस्या विवेक- पूर्वकसर्पज्ञानेन बाघो दृश्यते । येन ब्रह्मज्ञानस्य गुरुशास्त्रोपदेशा दिविचारजन्यस्य स्वाभाविकसङ्घा- तात्मज्ञानेन बाघस्स्यात् । किं च प्रकाशतुल्या ब्रह्मविद्या स्पष्टपदार्थावगतिहेतुत्वात् । तमस्तुल्या तु स्वाभाविक्यविद्या, यन्मूलं सङ्घातात्मज्ञानमज्ञानां पदार्थस्वरूपतिरोधायकत्वात् । तथा च तेजसा तम व ब्रह्मविद्ययाऽविद्या निवर्त्यते । तस्मात्सङ्घातात्मज्ञानस्यैव बाधकमस्ति नतु ब्रह्मात्मज्ञानस्येति कृत्वा अविदुषां ज्ञानकाण्डेऽप्रवृत्तिर्ब्रह्मविद्याया वाघितत्वादिति वक्तुं न शक्यते । अतो द्वितीयः पक्षः परि- शिष्टः । अनधिकारादिति । युक्तं चैतत् । न ह्यविद्यारागादिदोष दूषित हृदयानां सङ्घातात्मनिश्चयानां कर्ता भोकाहमिति मन्यमानानां धर्माधर्मादिसंस्कारक्शा द्विहितेषु प्रतिषिद्धेषु च कर्मसु प्रवर्तमानानां श्रीभगवद्गीता भाष्या कैप्रकाशविलसित श्रीशाङ्करभाष्योपतासु । • संसरतामज्ञानां ब्रह्मविद्यायामधिकारोऽस्ति । अत एव हि - ‘शान्तो दान्त उपरतस्तितिक्षु’ रितिश्रुत्या, ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रेण च शमदमादिसाधनसम्पन्नानां प्राज्ञानामापातज्ञातब्रह्मात्मभावानामेव ब्रह्मविद्यायामधिकारो दर्शितः । इह च ’ ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मिति सङ्ख्यानां ज्ञानिनामेव ब्रह्मविद्यायामधिकारः, नतु कर्मिणामज्ञानामिति दर्शितम् । तथा चानधिकारिणामज्ञानां ज्ञानकाण्डेऽप्रवृत्त्या न ज्ञानविधिवैयर्थ्यम् । तथा विदुषां कर्मकाण्डेऽप्रवृत्तिः किं कर्मविद्याया बाधि- तत्वात् ? यद्वा तेषां तत्रानधिकारात् ! नान्त्यः- ब्रह्मविदां द्विजानां स्त्रीशूद्रादिवत्कर्मण्यनधिकार इतिवचनस्यायुक्तत्वात् । ब्रह्मज्ञानात्प्रागेव येषां द्विजानां कर्माधिकारस्तेषां ब्रह्मज्ञाने सति कर्माधि. कारनाशो यदि स्यातहि ब्रह्मज्ञानं दोष एव स्यात्सुरापान ब्रह्महत्यादिवत् । न चेष्टापति: तथासति ब्रह्मविद्याप्रतिपादक वेदभागस्याप्रामाण्यापत्तेः । एवं ब्रह्महत्योपदेष्टुरिव ब्रह्मज्ञानोपदेष्टुरीश्वरस्यानाप्त- त्यापतेः, ब्रह्महत्यादिकृत इव ब्रह्मज्ञाननिष्ठस्यापि राजादिभिर्दण्डयत्वापत्तेः । तस्मात्कर्मविद्याया ब्रह्म- विषया बाधितत्वादेव विदुषां कर्मण्यप्रवृत्तिः । ‘नेह नानास्ति किंचन, आत्मैवेदं सर्वे, निष्कलं निष्क्रियं शान्तं, तत्सत्यं स आत्मा तत्त्वमसि, अशब्दमस्पर्शमरूपमव्ययं यत्र नान्यत्पश्यति नान्य- च्छुणोति नान्यद्विजानाति स भूमा यो वै भूमा तदमृतमतोऽन्यदार्त’ मित्यादिश्रुतिभिरकर्त्रभोक्तृसच्चि - दानन्दलक्षणा द्वितीय ब्रह्मात्मज्ञाने सति कर्ताहं भोक्ताहं मम कर्मेति मिथ्याज्ञानं कथमबाधितं सद्धर्तेत ? येन कर्मणि प्रवृत्तिस्स्याद्विदुषः । नहि तेजसि जाते तिमिरमवतिष्ठेत । तस्मान्न ब्रह्मविद्यायाः कयापि बाघ इति बाधकप्रत्ययानुपपतिः । 4 ननु शास्त्रजन्यमहं ब्रह्मेतिज्ञानं नाहं ब्रह्मेत्यनुभवेन बाध्यत इति चेत्, मैवम् - स किं विद्व- दनुभवः ! उता विद्वदनुभवः ? नाद्य :- अहं ब्रह्मेति विदुषां नाहं ब्रह्मेत्यनुभवायोगात् । न द्वितीय:– अविद्वनिष्ठेन नाहं ब्रह्मेत्यनुभवेन विद्वन्निष्ठस्याहं ब्रह्मेतिज्ञानस्य बाधायोगात् । समानाधिकरणसमान- विषययोर्हि ज्ञानाज्ञानयोर्बाध्यबाधकभावः । अन्यथा देवदत्तकर्तृका च्छन्दशास्त्राध्ययनाद्देवदत्तनिष्ठतर्क- शास्त्राज्ञानस्य यज्ञदत्तनिष्ठशब्दशास्त्राज्ञानस्य च निवृत्त्यापत्तेः । नाहं ब्रह्मेत्यनुभवो ज्ञानम् । न चानु- भवस्य ज्ञानाभावत्वं कथमिति वाच्यं, ज्ञानाभावादन्यस्यैव भावरूपाज्ञानस्य सिद्धान्तितत्वात् । अथ वा नाहं ब्रह्मत्यनुभवोऽपि ज्ञानमेव भवतु । तथाप्यहं ब्रह्मेतिज्ञानस्य नाहं ब्रह्मेतिज्ञानस्य च विरोध:- ब्रह्म- सद्भावयोर्विरोधेन तद्ज्ञानयोरपि विरोधात् । नाहं ब्रह्मेति हि ब्रह्माभावज्ञानम् । तस्मादहं ब्रह्मेतिज्ञानस्य न केनापि बाधः । ननु बहुवारं पठितवेदान्तशास्त्राणां वेदान्ताचार्य पदमधिरु ब्रह्मज्ञानोपदेष्टृणां च बहूनां नाई अमेत्यनुभवोऽस्ति संसारदुः खोपलम्भातेष्विति चेत्, मैवं वादी : - यथावदनव गतब्रह्मात्मज्ञानानामेव संसारहमिति संसारदुःखानुभवः, नतु सम्यग्दर्शिनाम् । दुर्लभो हि ब्रह्मात्मसाक्षात्कार:- पुंसां प्रति- बघबाहुल्यसस्थात् । नहि बहुवारं श्रुतमपि चूतफलमाधुर्यम चर्वितचूतफलानां बुद्ध्यारूढं भवति । एवं अष्टादशोऽध्यायः । अग्निरुष्णः प्रकाशश्चेति । न चैवं कर्मविधिश्रुतेरप्रामाण्यं पूर्वपूर्वप्रवृत्तिनिरोधेनोत्तरोत- बहुवारं श्रुतब्रह्मणामपि तत्साक्षात्काररहितानां तद्बुद्धयारूढं न भवति । तस्माद्ब्रह्मात्मसाक्षात्कारशून्या एव ते; ये त्वयोपन्यस्ता शिष्योपदेशस्तु परोक्षज्ञानमात्रेणापि सम्भवत्येव । अज्ञामनिवृत्तिस्त्वपरोक्षज्ञाना- देव । यथा घटाज्ञाननिवृत्तिर्घटाकारपरिणत बुद्धिवृत्त्यपरोक्षज्ञानाद्भवति, तथा ब्रह्माज्ञाननिवृत्तिरपि ब्रह्माकार परिणतबुद्धिवृत्त्यपरोक्षज्ञानादेव भवति । एवंविधब्रह्मा परोक्षज्ञानजनकत्वादेव ब्रह्मविद्यायायाः प्रामाण्यं यथा घटापरोक्षज्ञानजनकत्वाश्चक्षुषः । . ननु अज्ञातार्थज्ञापकत्वाच्छास्त्रं प्रमाणमित्युक्तं, ब्रह्मविद्या यास्तथात्वाभावादप्रामाण्यमेवः । किं वेदान्तशास्त्रमज्ञातं ब्रह्म बोधयत्युत ज्ञातम् ? नाथ:- ‘यत्साक्षादपरोक्षाद्र’ होतिश्रुतेर्नित्यापरोक्षस्य ब्रह्म- णोऽज्ञातत्वासम्भवात् येन ब्रह्म ज्ञातुमिष्टं तस्यैवात्मनो ब्रह्मत्वाच्च । द्वितीये - वेदान्तशास्त्रस्य ब्रह्म- विद्यात्मकस्याप्रामाण्यमेवेति चेत्, मैवम्- यो ब्रह्म जिज्ञासति स नाहं ब्रह्मति वेद, यद्यहं ब्रह्मेति वेद तर्हि तस्य तज्जिज्ञासैव नोदीयात् । नहि घटं विदुषः पुरुषस्य घटजिज्ञासा दृश्यते, तस्मादज्ञात- मेव ब्रह्म । नच सुतरामज्ञातत्वे कथं तज्जिज्ञासोदय इति वाच्यं, आपततो ज्ञातत्वाद्ब्रह्मणः । सर्वो झास्तिकः कश्विदीश्वरो देवोऽस्तीति प्रत्येति, जगत्कार्य लिङ्गकानुमानेन चापाततो वेति; आपाततो ज्ञातमपि तदज्ञातप्रायमेवेति न कश्विद्दोषः । यत्साक्षादिति श्रुतिस्तु विद्वद्विषया, विदुषो हि साक्षादप- रोक्षं ब्रह्म न त्वविदुषः । यो ब्रह्मैव पारोक्ष्येणापि सम्यङ्न वेद कथं तस्य ब्रह्मसाक्षात्कार प्रसङ्गः ? यत्तु येन ब्रह्म ज्ञातुमिष्टं तस्यैवात्मनो ब्रह्मत्वान्नाज्ञातत्वं ब्रह्मण इति, तदप्ययुक्तम्- यो ब्रह्म जिज्ञासति स एवात्मा ब्रह्मेति कि जिज्ञासुर्वेद उत तदन्यस्तत्त्ववित् ! नाथ:- विदितत्वे जिज्ञासानु- : दयप्रसङ्गात् । नान्य:- विद्वत्कर्तृकब्रह्मात्म ज्ञानेनाविदुषो ब्रह्मज्ञानासम्भवात् । नचात्मनोऽपि कथमज्ञा- तत्वमिति वाच्यं, अविद्यावैभवप्रयुक्तेन सङ्घाते आत्मेतिप्रत्ययेन सच्चिदानन्दलक्षणस्यात्मनोऽप्यज्ञावत्वो- पपत्तेः; निद्रायां ह्यात्मनोऽप्यज्ञातत्वं सर्वानुभवसिद्धम् । तस्मान्मामहं न जानामीत्यनुभवान्मनुष्योऽह- मित्याद्यनुभवान्नाहं ब्रह्मेत्यनुभवात्संसार्यहमित्यनुभवाच्च सिद्धस्यात्मनोऽप्यज्ञातत्वस्य केवलयुक्त्या प्रति- वेदधुमयुक्तत्वाच । सच्चिदानन्दलक्षणब्रह्माभिन्न आत्मा सर्वस्याज्ञस्याविदित एवात्मा सन्नपि मायावैभवा- दिति सिद्धमज्ञातब्रह्मात्मार्थज्ञापनाद्ब्रह्मविद्यायाः प्रामाण्यम् । नच तर्कादिशास्त्रेण ब्रह्म ज्ञातमेवेति वेदान्त- शास्त्रं व्यर्थमिति वाच्यं, तर्कादिशास्त्रेणात्मभिन्नस्य ब्रह्मणो ज्ञातत्वेऽप्यात्माभिन्नस्य ब्रह्मणोऽज्ञातस्वात् । एतेन भिन्नात्मवादिनां द्वैतिनां विशिष्टाद्वैतिनां च मते वेदान्तशास्त्रस्त्र प्रामाण्यमेव दुरुपपादमिति सिद्धम् । नन्वनघिगताबा चितब्रह्मात्मविषयज्ञानजनकत्वाद्वेदान्तशास्त्रमेकमेव परं प्रमाण; अनधिगत- स्यापि कर्मरूपार्थस्य ब्रह्मज्ञानबाधितत्वेन तद्बोधकः कर्मकाण्डात्मको वेदोऽप्रमाणमेव । किंपुन- स्तर्कादिशास्त्राणां चक्षुरादिप्रमाणानां चाप्रामाण्यं वक्तव्यम् । तथा च सर्वात्मना वेदोऽप्रमाणमिति वदतो बौद्धानास्तिकादर्थांशेन वेदोऽप्रमाणमिति वदन् भवान्मनाग्वरमित्यत आह–नचैवमिति । अनवि- गतयावद्व्यवहाराबाधितक मर्थविषयज्ञानजनकत्वेन तादृशघटाद्यर्थविषयज्ञानजनक चक्षुरादिवत्कर्म काण्डस्यापि ०३८ श्रीभगवद्गीतासु भाष्या केंप्रकाशविलसित श्रीशाङ्करभाष्योपतासु रापूर्वप्रवृत्तिजननस्य प्रत्यगात्माभिमुख्येन प्रवृन्युत्पादनार्थत्वात् । मिध्यात्वेप्युपायस्याप्युपेय- सत्यतया सत्यत्वमेव स्यात्, यथार्थवादानां विधिशेषाणां; लोकेपि बालोन्मत्तादीनां पय प्रामाण्यात् । नहि वयं नास्तिका इव यावद्व्यवहारं कर्मार्थस्य बाधितत्वं ब्रूमः, येन वयमर्थबौद्धाः प्रच्छन्नबौद्धा वा भवेम । किंच कर्मकाण्डस्य ज्ञानोपकारकत्वेनापि प्रामाण्यमस्ति, उक्तं हि कर्म- निष्ठाया ज्ञाननिष्ठोपकारकत्व मिहैव । ‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते’ इत्यादिना । कर्मनिष्ठा- पूर्विका हि ज्ञाननिष्ठा । कर्मनिष्ठया चित्ते शुद्धे सत्येव ज्ञाननिष्ठाप्राप्तियोग्यत्व लाभात् । तच्चोत्तमत्रै ’ वाध्याये - इदमेव कर्मणो ज्ञानोपकारकत्वं दर्शयति — पूर्वपूर्वेति । पूर्वपूर्ववैश्वदेवाग्निहोत्राग्निष्टोमादि- प्रवृत्तिनिरोधेन उत्तरोत्तरापूर्वचयनपौण्डरीकादिप्रवृत्तिजननस्य कर्मविधिकृतस्येति शेषः । प्रत्यगात्माभि- मुख्येन ब्रह्मविद्यायामिति शेषः- प्रवृत्त्युत्पादनार्थत्वात् ।

अयं भावः — उपनीतस्य विवाहः, विवाहितस्य वैश्वदेवः, कृतवैश्वदेवस्याग्निहोत्राधानं, कृता- धानस्याग्निष्टोमः कृताग्निष्टोमस्य चयनमित्येवं पूर्वपूर्वकर्म कृतवत उत्तरोत्तरं कर्म विदधाति कर्मकाण्ड :, नतूपनीतस्य पुनरुपनयनमित्येवं कृतमेव कर्म पुनः कर्तव्यतयोपदिशति । तवश्च किं ज्ञायते ? कर्म- काण्डस्य न स्वार्थे तात्पर्य, किंतु ज्ञानार्थ एवेति । एवं हि पूर्वपूर्वं कर्म विहायोत्तरोत्तरं कर्म कुर्वन्पुरुषः क्रमेण प्रत्यगात्माभिमुखो भूत्वा ब्रह्मविद्यायां प्रवर्तत इति । नचैवं कर्मठस्य ब्रह्मविद्यायां प्रवृत्तिर्न स्यादिति वाच्यं, ‘हमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशके ‘नेतिश्रुतेः । ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव’ इति स्मृतेश्च । ‘यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यतपस्यसि कौन्तेय ! तत्कुरुष्व मदर्पण’ मित्युक्तन्यायेनेश्वरार्पणबुद्धया कर्म कुर्वाणस्य स्त्र्यन्ने- पानादिवाह्मविषयेषु रागरहितस्य क्रमेण चित्तशुद्धौ सत्यां क ईश्वरः कश्चात्मेति जिज्ञासा स्यात्ततश्च ब्रह्मविद्यायां प्रवर्तत एव कर्मठोऽपि । तस्मादात्मज्ञानार्थ कब्रह्म विचार हेतु भूतशमदमादिसाधनसम्पत्ति- सम्पादकत्वात्कर्मणां कर्मकाण्डस्य ज्ञानकाण्डोपकारकत्वमिति युक्तं कर्मकाण्डस्यापि प्रामाण्यम् । ननु कर्मणो बाधितत्वात्तद्विषयज्ञानस्यापि बाधितत्वेन कर्मकाण्डो मिथ्याभूत एवेति कथं तस्य प्रामाण्यमत आह- मिथ्यात्वेऽपीति । उपायस्य कर्मणः तत्प्रतिपादकवेदभागस्य वा मिथ्यात्वेऽपि उपेयस्य चित्तशुद्धयादिद्वारा प्राप्यस्य ब्रह्मणस्सत्यत्वादुपायस्यापि सत्यत्वमेव स्यात् । एतेन कार्म- काण्डवद्ज्ञानकाण्डस्याप्युपायभूतस्य व्यावहारिकत्वेनापारमार्थिकत्वात्कथं ब्रह्मविद्या विधिश्रुतेः प्रामाण्यं मिथ्याभूताया इति शङ्कापि प्रत्युक्ता । ननु ब्रह्मप्राप्ति प्रति साक्षादुपायस्य ज्ञानकाण्डस्य भवत्वेवमुपेय- सत्यतया सत्यत्वं, कथं पुनः कर्मकाण्डस्येत्यत आह-यथेति । अपूर्वयज्ञादिकर्मप्रतिपादकत्वाद्विधि- वाक्यानि प्रमाणानि । उत् स्तुत्यर्थत्वादर्थवादा विधिशेषा अपि विधिशेषत्वेन प्रमाणानि यथा तथाs- पूर्वब्रह्मात्मप्रतिपादकत्वाद्रह्मविद्याविधिश्रुतिः प्रमाणं, तदर्थत्वेन तच्छेषत्वात्कर्मविधिरपीत्युपेयसत्यतया ज्ञानकाण्डस्य सत्यत्वे ज्ञानकाण्डोपकारकतया कर्मकाण्डस्य सत्यत्वं यथा यज्ञाद्यपूर्वप्रतिपादकतया विधिवाक्यानां सार्थकत्वे विधिशेषभूततया अर्थवादानां सार्थक्यं तद्वदिति भावः । अष्टादशोऽध्यायः । ४३९ आदौ पाययितव्ये चूडावर्धनादिवचनम् । प्रकारान्तरस्थानां च साक्षादेव वा प्रामाण्यं सिद्ध प्रागात्मज्ञानाद्देहाभिमाननिमित्तप्रत्यक्षादिप्रामाण्यवत् । यत्तु मन्यते स्वयमव्याप्रियमाणोऽ- प्यात्मा सन्निधिमात्रेण करोति, तदेव मुख्यं कर्तृत्वमात्मनः । यथा राजा युध्यमानेषु ननुपेयस्य ब्रह्मणः प्राप्त्युपायतया ब्रह्मविद्यैव विधीयतां किमिति कर्मविधिरत आह -लोकेs- पीति । यवागूं पिब शिखा ते वर्धिष्यत इति प्ररोचनावचनं यथा यवागूपानकृतंशिख वृद्धयंशेऽप- माणमपि तापोपशमाद्यर्थे विहितत्वेन सार्थकत्वाद्यवागूपानस्य तद्वचनं प्रमाणमेव, तथा ‘अक्षय्य ह वै चातुर्मास्ययाजिनस्सुकृतं भवतीति कर्मविधिवचनमक्षयसुकृतप्रदश्चातुर्मास्ययाग इत्यंशेऽप्रमाणमपि ब्रह्म- ज्ञानहेतुभूत चितशुद्धयर्थं विहितत्वेन चातुर्मास्ययागस्य तत्र तत्प्रमाणमेव 1 तस्मात्प्ररोचना वाक्यवत्कर्म- विधिवाक्यस्य स्वार्थे तात्पर्याभावात्कर्मविधानं विना चित्तशुद्धयलाभाश्चित्तशुद्धिलाभ बिना ब्रह्मविद्यारू- पोपायस्वीकारानधिकाराद्ब्रह्मविद्याप्राप्त्यर्थं कर्मविधिरिति । यद्वा कर्मविधिवाक्यानां स्वार्थे तात्पर्य नास्ति, किंतु ज्ञान एवेत्यत्र शास्त्राभिमतोऽर्थवाददृष्टान्त उक्तः । अथ लोकन्यायोऽप्यस्तीत्याह- लोकेऽपीति । एवं ज्ञानशेषत्वात्कर्मणः प्रामाण्यमिति मतमुक्त्वा यावद्व्यवहारम बाधितत्वात्कर्मार्थस्य तद्विषयं ज्ञानमपि प्रमैवेतिमतमाश्रित्याह - साक्षादेव वेति । वाशब्दः पक्षान्तरद्योतनार्थः । प्रकारान्तरस्थानामात्म- ज्ञानोदयात्प्रागवस्थायां स्थितानां कर्मविधिश्रुतीनां साक्षादेव वा प्रामाण्यं सिद्धम् । अज्ञातस्वर्गाग्नि- होत्रादिसम्बन्धबोधकत्वादिति भावः । तत्र दृष्टान्तमाह - प्रागिति । आत्मज्ञानात्प्राग्यावद्व्यवहारमि- त्यर्थः । आत्मज्ञानसूर्योदये सति हि सर्वव्यवहारकारणाज्ञानतमसः क्षय इति भावः । देहाभिमाननिमित्तं प्रत्यक्षादीनां प्रमाणानां प्रामाण्यं यथा यावद्व्यवहारमस्ति, तथेत्यर्थः । देहादिष्वहमभिमानाभावे हि पश्यामि मनोम्यहमित्येवं न व्यवहरति । तद्व्यवहाराभावे च कथं चक्षुरादिप्रामाण्यमुपपादयितुं शक्यते ? व्यबहारबलकल्प्यं हि चक्षुरादीनां प्रामाण्यम् । तस्याद्यावद्व्यवहारमस्माकं कर्मविधिश्रुतिः प्रमाणमेव व्यावहारिकत्वात्कर्मणस्तद्विघीनां च । परमार्थतस्तु सर्वव्यवहारोऽप्यप्रमाणमेव । आत्मन एकस्यैव सत्त्वादिति । एवं ब्रह्मविद्यायाः प्रामाण्यादकर्तेवात्मा । नच कर्मविद्याप्रामाण्यात्कर्तापीति वाच्यं, कर्म- विद्याया ब्रह्मविद्यया बाधितत्वेन तदंशेऽप्रमाणत्वात् । ननु कर्म ब्रह्मविद्ययोरन्यतराप्रामाण्यस्य वेदवादिनामभ्युपगन्तुमयुक्तत्वाद्विद्याद्वयमपि प्रमाणमेव । नच कथमात्मनः कर्तृत्वमविक्रियस्य ? येन कर्मविद्यापि प्रमाणं स्यादिति वाच्यं कर्तृभूतसङ्घातस्य सन्निधिमात्रेणात्मनः कर्तृत्वस्य वस्तुतोऽकर्तृत्वस्य च सत्त्वादिति पूर्वपक्षिण इशङ्कामुपपादयति यत्त्वित्या- दिना — मन्यत इति । भवानिति शेषः । पूर्ववादीति वा । यत्तु मन्यते तदसदित्यन्वयः । मनन- प्रकारमेव दर्शयति स्वयमित्याद्यारभ्य मात्मन इत्यन्तेन प्रन्थेन - तदेवेति । सन्निधिमात्रेण कर्म - करणमेवेत्यर्थः । नन्वव्याप्रियमाणस्याक तुरप्यात्मनस्सन्निधिमात्रेण यदि कर्तृत्वं स्यातर्हि घटस्यापि तस्यादित्यतो दृष्टान्तमाह — यथेति । योधेषु भटेषु युध्यमानेषु सत्सु राजा युध्यत इति यथा प्रसिद्धं 820 श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतासु योधेषु युध्यत इति प्रसिद्धं स्वयमयुध्यमानोपि सन्निधानादेव जितः पराजितश्चेति, तथा सेनापतिर्वाचैव करोति; क्रियाफलसम्बन्धश्च राज्ञस्सेनापतेश्च दृष्टः । यथा च ऋत्विकर्म यजमानस्य, तथा देहादीनां कर्मात्मकृतं स्यात् तत्फलस्यात्मगामित्वात् । यथा वा भ्राम- कस्य लोहभ्रामयितृत्वादव्यापृतस्यैव मुख्यमेव कर्तृत्वं, तथा चात्मन इति, तदसत् - अकुर्वतः कारकत्वप्रसङ्गात् । कारकमनेकप्रकारमितिचेत्, न राजप्रभृतीनां मुख्यस्यापि कर्तृत्वस्य: यो घेषु जितेषु पराजितेषु वा सत्सु स्वयमयुध्यमानोऽपि राजा सन्निधिमात्रेण जितः पराजितश्चेति यथा प्रसिद्धमेव राजवत्सेनापतिश्चापि स्वयमयुध्यमानस्सन्निधिमात्रेण युद्धं करोति जिः पराजितश्चेति प्रसिद्धम् । न केवलं प्रसिद्धिमात्र, किंतु युद्ध क्रियाफलभूत राज्यधनादिसम्बन्धोऽपि राज्ञस्सेनापतेश्च दृष्टः । दृष्टान्तान्तरमाह - यथा चेति । ऋत्विक्कर्म यजमानस्य यथा दृष्टं, ऋत्विग्गणे होमादिकर्मसु व्याप्रियमाणे सति यजमानस्स्वयमव्याप्रियमाणोऽपि यजमानो यज्ञं करोतीति प्रसिद्धं तद्यज्ञकर्मफलसम्ब- पश्च यजमानस्य श्रुतश्च । तथा राजवत् सेनापतिवद्यजमानवचेत्यर्थः । देहायाश्रयं कर्मात्मकृतं स्यात् । हेतुमाह - फलस्येति । यथा युद्धफलस्य राज्यप्राप्स्यादिलक्षणस्य राजगामित्वाद्भटकूतमपि युद्धं राज- कृतं भवति । यथा यज्ञफलस्य स्वर्गस्य यजमानगामित्वादृत्विवकृतमपि यज्ञकर्म यजमानकृतं भवति तथा कर्मफलस्यात्मगामित्वाद्देहादिसङ्घातकृतमपि कर्मात्मकृतं भवतीत्यर्थः । घटकलशादेस्तु सन्निहितस्यापि न कर्तृत्वप्रसङ्गः कर्मफलस्य घटादिगामित्वाभावादिति भावः । नतु राजयजमानयोरपि युद्धयज्ञकर्मणो- दर्शनप्रेरणादिरूपो यः कश्चिद्व्यापारोऽस्त्येवेति कृत्वा कथं तद्दृष्टान्तेन सुतरां निर्व्यापारस्यात्मनः कर्तृत्वं साधयितुं शक्यत इत्यतो दृष्टान्तान्तरमाह - यथा वेति । भ्रामकस्यायस्कान्तशिलाया अन्या - पृतस्यैव भ्रामकस्य लोहभ्रामयितृत्वान्मुख्यमेव कर्तृत्वं यथा तथा चाव्यापृतस्यैवात्मनो मुख्यमेव कर्तृत्व- मित्यर्थः । 1 परिहरति पूर्वपक्ष - तदसदिति । हेतुमाह - अकुर्वत इति । कृञः कर्तरि वुलि कारक- मिति रूपं; तथाच करोतीति कारकमिति व्युत्पत्तिः । कर्तृ इत्यर्थः । तस्य भावः कारकत्वं, तद्धि कर्त- येवास्ति, न स्वकर्तरि; यथा गव्येव गोत्वं, नतु मनुष्ये; यथा वा घट एव घटत्वं नतु पटे । एवं सति कथम कर्तर्यात्मनि कारकत्वप्रसङ्गः ! यद्येवमकर्तर्यप्यात्मनि कारकत्वं स्यात्तर्यकर्तरि घटादावपि तत्स्यात्; मघटादौ घटत्वादिकमपि स्यात् विरुद्धधर्म सामानाधिकरण्यस्याभ्युपगतस्थात् । तस्मा- दकुर्वतोऽकर्तुरात्मनः कारकत्वं कर्तृत्वमित्यस्य दोषस्य तव मते प्रसक्तत्वादसत्तव मतम् । मन्त्रकुर्वतोऽपि कारकत्वमस्त्येव - कारकस्यानेकविधत्वात् । यत्स्वयमेव करोति तन्मुख्यं कारकं यथा भटऋत्विगादिः; यथा वा भोजनमैथुनादिकर्मणि देवदत्तादिः; यत्स्वयमकुर्वदप्यन्यैः कारयति गौणं कारकं यथा राजयजमानादिः । एवं कारकस्यैकविधत्वाभावादकुर्वतोऽपि गौणकारकत्वप्रसङ्गो न दोषायेति भाव इस्याह पूर्ववादी - कारकमिति । परिहरति नेति । हेतुमाह राजेति । ।

५६ महादशोऽध्यायः । ४४१ दर्शनात् । राजा तावत्स्वव्यापारेणापि युध्यते । योधानां च योधयितृत्वेन धनदानेन च मुख्यमेव कर्तृत्वं; तथा जयपराजयफलोपभोगे; तथा यजमानस्यापि प्रधानत्यागेन दक्षिणा- दानेन च मुख्यमेव कर्तृत्वम् । तस्मादव्यापृतस्य कर्तृत्वोपचारो यस्स गौण इत्यवगम्यते । यदि मुख्यं कर्तृत्वं स्वव्यापारलक्षणं नोपलभ्यते राजयजमानप्रभृतीनां तदा सन्निधिमाले- णापि कर्तृत्वं मुख्यं परिकल्प्येत; यथा भ्रामकस्य लोहभ्रामणेन न तथा राजयजमानादीनां राजसेनापतियजमानानां त्वयोदाहृतानां न हि गौंण कारकत्वमस्ति, येनाकुर्वतोऽपि कारकत्वप्रसङ्गो निर्दुष्टस्स्यात् ; किंतु मुख्यमेव कारकस्वमस्ति । ततश्च कुर्वतामेव राजादीनां कारकत्वमिति सिद्ध; न स्वकुर्वतामिति कृत्वाऽकुर्वतः कारकत्वप्रसङ्गो दुष्ट एव । ननु कथं राजादीनां युद्धादिकमकुर्वता - मस्ति मुख्य कारकत्वमत आह– राजेति । आदौ राज्ञो मुख्य कारकत्वं दर्शयामीत्याह - राजा तावदिति । राजशब्दोऽत्र सेनापतेरप्युपलक्षणम् । स्वव्यापारेणापि युध्यत इति श्रीरामधर्म राजादीनां राज्ञां स्वयमेव युद्धे व्यापृतत्व श्रवणादिति भावः । अधुनातनानामपि राज्ञां योधानामिति कर्मणि षष्ठी शेषे षष्ठी च । योघानां योधयितृत्वे कर्मणि योधानां धनदाने कर्मणि च मुख्यमेव कर्तृत्वमस्ति । एवं धृष्टद्युम्न्नादिसेनापतीनां स्वव्यापारेण योद्धृत्वमस्ति । आधुनिक सेनापतीनां च योधयितृत्वमस्तीति बोध्यम् । न केवल योद्धृत्व योधयितृत्वयोरेव राज्ञो मुख्यं कर्तृत्वं, किंतु तत्फलानुभवेऽपीत्याह- तथेति । जयंफलं परराज्यघनादिप्राप्तिसुखं पराजयफलं खराज्यघनादिनाशदुःखं, तयोरुपभोगेऽनुभव- कर्मणि मुख्यमेव कर्तृत्वमस्ति राज्ञः । प्रधानत्यागे प्रधानहोमे; प्रधाने त्यागे धनदाने ब्राह्मणाना मिति वा । दक्षिणादाने ऋत्विजामिति भावः । एतेन यदन्यैः कारयति तद्गौणं कारकमितिलक्षण- मपि दूषितं- कारयितृत्वांशेऽपि मुख्य कर्तृत्वसत्त्वेन कारयितुरपि मुख्यकारकत्वात् । तस्मादिति । कर्तुरिव कारयितुरपि मुख्य कर्तृत्वादित्यर्थः । कर्तृत्वेन कारयितृत्वेन तत्फलभोक्तृत्वेन च राजप्रभृतीनां व्याप्रियमाणत्वान्मुख्यकर्तृत्वाच्चत्यर्थ इति वा । य इति । अव्यापृतस्य गौणं कर्तृत्वमुपचारादुच्यत इत्यर्थः । कर्तृत्वरूपं कारयितृत्वरूपं वा कारकत्वमव्यापृतस्य न सम्भवतीति कृत्वाऽकुर्वतः कारकत्व - प्रसङ्गो दुष्ट एवेति भावः । I नन्वकुर्वतोऽकारयतश्चाव्यापृतस्य भ्रामकस्य सन्निधिमात्रेणैव लोहभ्रमणे कर्मणि मुख्यकर्तृस्थ- दर्शनादव्यापृतस्यापि सन्निघिमात्रेण मुख्यमेव कर्तृत्वं सम्भवतीतिकृत्वा राजादीनामपि तथा सन्निधि- मात्रेणैव मुख्य कर्तृत्वसम्भवे योधयितृत्वादिप्रयुक्त मुख्यकर्तृत्ववर्णनं क्लिष्टमित्यत आह-यदीति । राजयजमानप्रभृतीनां यदि स्वव्यापारलक्षणमयद्योधयितृत्वधनदातृत्वादिलक्षणं वा मुख्यं कर्तृत्वं नोप- लभ्येत तदा सन्निषिमात्रेणापि मुख्यं कर्तृत्वं परिकरूप्येत । प्रसिद्धे सत्यप्रसिद्ध कल्पनस्यान्यायत्वा- दिति भावः । यथा भ्रामकस्य लोहम्रपणे सन्निघिमात्रेणैव मुख्यं कर्तृत्वं तद्वत् ; तथा राजयजमाना- दीनां स्वव्यापारो नोपलभ्यत इति न, किं तूपलभ्यत एव । स्वयारानुपलम्भाद्रामकस्य सन्निधिमात्रेण ४.४२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतालु स्वव्यापारो नोपलभ्यते । तस्मात्सन्निधिमात्रेणापि कर्तृत्वं गौणमेव । तथा च सति तत्फल- सम्बन्धोऽपि गौण एव स्यात् ; न गौणेन मुख्यं कार्यं निर्वर्त्यते । तस्मादसदेवैतदीयते देहादीनां व्यापारेणाऽव्यापृत एवात्मा कर्ता भोक्ता च स्यादिति । भ्रान्तिनिमित्तं तु सर्व- मुपपद्यते यथा स्वप्ने, मायायां चैवम् । न च देहाद्यात्मप्रत्यय भ्रान्तिसन्तान विच्छेदेषु 4 मुख्य कर्तृत्वकल्पनमुचिंतं, स्वव्यापारोपलम्भात्तु न राजादीनां तत्कल्पनमुचितमेति भावः । तस्मा- दिति । स्वव्यापारलक्षण मुख्य कर्तृत्व सत्त्वादित्यर्थः । सन्निघिमात्रप्रयुक्तं कर्तृत्वं राजादीनां गौणमेव . नन्वेवमस्तु राजादीनां सन्निधिमात्रेण कर्तृत्वं गौणं- स्वव्यापार लक्षण मुख्य कर्तृत्वसम्भवात् । आत्मनस्तु भ्रामकस्येव स्वव्यापाराभावादव्यापृतस्यैव तस्य सन्निधिमात्रेण मुख्यं कर्तृत्वं स्यादित्यकुर्वतः कारकत्वप्रसङ्गो न दुष्ट इति चेत्, उच्यते - भव्यापृतस्यापि स्वाध्यस्त देहादिव्यापारैर्व्यापृतवदवभास- मानस्यात्मनस्सन्निधिमात्रेण मुख्यं कर्तृत्वं न सम्भवतेि; किंतु गौणमेव । भ्रामकं तु स्वयमव्यापृतं स- यातमिव नावभासत इति युक्तं तस्य सन्निधिमात्रेण मुख्यं कर्तृत्वम् । तस्मादकुर्वत आत्मनो मुख्यं कारकत्वमयुक्तमेव । ननु तर्हि अकुर्वत्यप्यात्मनि सन्निधिमात्रेण कर्तृत्वारोप इति भवतु गौण, कारकत्वमात्मन इत्यत माह - तथा च सतीति, तत्फलेति । कर्मफलेत्यर्थः । कर्मफलसम्बन्धोऽप्यात्मनि कल्पित एव स्यान्नतु मुख्य इत्यर्थः । भवतु फलसम्बन्धोऽपि गौणः, किं तवोsa आह नेति । गौणेन कर्त्रा मुख्य कार्य न निर्वर्त्यते - मुख्येन कत्रैव तस्य निर्वर्त्यत्वात् । ततश्च मुख्य कर्तरि कर्मनिर्वर्तके देहेन्द्रियादिसङ्घाते सति कर्मानिर्वर्त के आत्मनि किमिति कर्तृत्वारोपः ? यदि कर्म तत्फलसम्बन्ध- शून्येऽप्यात्मनि कर्तृत्वमारोप्येत सन्निधिमात्रेण तर्हि घटादावप्यारोप्येतेति भावः । तस्मात्कार्यानिर्वर्त - कत्वात्कर्मफलभोक्तृत्वाचात्मन इत्यर्थः । देहादीनां व्यापारेणाव्यापार एवात्मा कर्ता भोक्ता च स्या- दित्येतदसदेवेति निश्चीयते । ननु तर्हि कथं कर्ताहं भोकाई संसार्यहं मुख्यहं दुःख्यहमित्यादिव्यव - हारस्योपपत्तिरत आह - भ्रान्तीति । भ्रान्त्या हेतुना सर्वमुपपद्यते, मायायां सर्वसम्भवा दितिन्याया- दिति भावः । रज्जौ सर्प इव, मरुमरीचिकासूदकमिव, गगने नैश्यमिव भ्रान्त्या संसारः प्रतीयत आत्मनीति सर्वस्याप्यसम्भावितार्थस्य भ्रान्तिरेव शरणं; सा च भ्रान्तिरज्ञानमूला । ननु भ्रान्त्यापि कथम कर्तुरभोक्तुः कर्तृव भोक्रत्वोपपत्तिरत आह-यथेति । स्वप्ने देहे पर्यके शयानेऽपि स्वयं यथा रथ्यायां सञ्चरन्निव दृश्यते, हृत्पुण्डरीकान्तर्गते केवलेऽप्यात्मनि यथा रथगजपत्तनादय उपलभ्यन्ते निद्रादोषाचद्वदात्मन्यपि संसारः । दृष्टान्तान्तरमाह - मायायामिति । इन्द्रजाला दिलक्षणायामित्यर्थः । इन्द्रजालादौ हि गगनेऽपि गन्धर्वनगरादयो दृश्यन्ते, गोगर्भे प्रविश्य निर्गच्छन्निव पुरुषो दृश्यते, छिन्नेन शिरसा पुनः कृतसन्धान इव जीवन् पुरुषो दृश्यते तद्वदात्मन्यपि संसार इति भावः । एवं भ्रान्ति- सत्त्वे संसारसत्त्वमित्यन्वयं भ्रान्त्यभावे संसाराभाव इति व्यतिरेकेण द्रढयति - नर्वेति । देहादा- अष्टादशोऽध्यायः । ४४३ सुषुप्तिसमाधानादिषु कर्तृत्वभोक्तृत्वाद्यनर्थ उपलभ्यते । तस्माद्भान्तिप्रत्यय निमित्त एवायं संसारभ्रमः; न तु परमार्थ इति सम्यग्दर्शनादत्यन्तमे वो परम इति सिद्धम् ||६६ ॥ वनात्मन्यात्मेतिप्रत्ययो भ्रान्तिः भ्रमज्ञानं, तस्य सन्तानोऽविच्छेदेन धारारूप या पूर्वपूर्वज्ञाननाशे उत्त- रोत्तरज्ञानोदय इत्येवंरूपेण वर्तनं भ्रान्तीनां सन्तानस्समूह इति वा । तस्य विच्छेदो नाशो येषु तेषु सुषुप्तसमाघानादिषु सुषुप्तस्तुषुप्तिस्समाधानं समाधिः । आदिपदान्मृति मूर्छादिग्रहणं । तेषु कर्तृत्व- भोक्तृत्वाद्यनर्थो न चोपलभ्यते, नैवानुभूयते । आत्मनेति शेषः । तस्मादिति । भ्रान्तिस संसारसत्त्वात्तदभावे संसाराभावाचेत्यर्थः । अयं संसारभ्रमो भ्रान्तिप्रत्ययः, देहादाचात्मेति मिथ्या- प्रत्ययस्तन्निमित्त एव । देहादादात्मप्रत्यये सत्येव तद्धर्माणां कर्तृत्वभो वतृत्वसुखदुःखादीनामात्मधर्मत्व- भ्रम इति भावः । एवकारार्थमाह - नत्विति । परमार्थतो वस्तु आत्मनि न कोऽपि संसार इत्यर्थइति । अत एव सम्यग्दर्शनान्नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहङ्कारः प्राणवर्गो न बुद्धि: । दारापत्यक्षेत्र विचादिदूरस्साक्षी नित्यः प्रत्यगात्मा शिवोऽहम् ॥’ इति यथार्थज्ञानात्संसारस्यात्यन्तो परम स्समूलोच्छेदः; श्रान्तिज्ञानसम्यग्ज्ञानयोस्सर्पज्ञानरज्जुज्ञानयोरिव विरोधात् । सम्यग्ज्ञानेन भ्रान्तिज्ञान निवर्त्यते; ज्ञानाज्ञानयोर्विरोधाद्द्भ्रान्तिहेत्वज्ञानमपि ज्ञानेन निवर्त्यत इति ज्ञानादेव मोक्षः । कर्म तु कर्ता भोक्ताहमिति भ्रान्तिज्ञानपूर्वकमेवेति न कर्मणा श्रान्तिज्ञानस्य निवृतिः । अत एवं नाज्ञान- स्यापि निवृत्तिरिति न कर्मणा मोक्षः । अत एव ‘नास्त्यकृतः कृते’ नेति श्रुतिरुपपद्यते । कृतेन कर्मणाऽकृतो मोक्षो नास्तीति तदर्थः । समुच्चयस्त्वसिद्ध एव कर्मज्ञानयोर्विरोधात् । तस्मान्न समु श्चयान्मोक्षः । अत एवोक्तं भगवता- ‘सर्वधर्मान्परित्यज्य मामेकं शरणं व्रजेति सर्वकर्मसन्न्यासपूर्विका ज्ञाननिष्ठा त्वया कार्येत्यभिप्रेत्य ज्ञाननिष्ठायाः फलं च स्वयमेवाह भगवान्- ‘अहं त्वा सर्वपापेभ्यो मोक्ष- यिष्यामीति । पुण्यपापात्मक सर्वबन्धविनिर्मोक्षो हि मोक्षः । श्रतिरप्यमुमेवार्थमाह- ‘तरति शोक- मात्मवि’ दिति, ब्रह्मविद्ब्रह्मैव भवतीति च। संसारे तीर्णे सति हि आत्मा सच्चिदानन्द बह्मस्वरूपेगाव- तिष्ठते । अत एव ब्रह्मस्वरूपावस्थानाय यत्नो न कर्तव्यः, किंतु संसारोपरमायैव यत्नः कार्य इत्युक्तम् । सच ज्ञानसाध्य. - अज्ञानमूलत्वात्संसारस्य । तस्माद्ज्ञानमेव मोक्षसाधनमिति गीताशस्त्रस्य निश्चि- तोऽर्थः । अयमेव सर्वोपनिषदर्थश्च- उपनिषत्सारत्वाद्गीताशास्त्रस्येति । . । ननु ज्ञानान्मोक्ष इति यदुक्तं तद्युक्तमेव परं तु नाद्वैतज्ञानान्मोक्ष इति गीताशास्त्रकर्त गराशयः । किं तर्हि द्वैवज्ञानादेव । तथा इचपक्रमे तावत्- ‘न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा’ इति जीवेश्वरद्वैतमेवोक्तम् । उपसंहारे च- ‘मां त्वं शरणं व्रज, अहं त्वां मोक्षयिष्यामी ते कृष्णार्जुनयो- जीवेश्वरयो द्वैत मेदोक्तम् । मध्ये च तत्रतत्र- ‘ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं मामेति सोऽर्जुन !, तस्याहं न प्रणश्यामि स च मे न प्रणश्यति, श्रद्धावान् भजते यो मां स मे युक्त मो मतः कश्चिन्मां वेति तत्त्वतः, मामेव ये प्रपद्यन्ते मायामेवा तरन्ति ते प्रियो हि ज्ञानिनोत्यर्थमह सच मम प्रियः, मां नित्ययुक्ता उपासते, भजन्ते मां बुधा भाव समन्विताः, तेषामई समुद्धर्ता, ९ ૪. श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतासु यो मामेवमसम्मूढो जानाति पुरुषोत्तम’ मित्यादिवाक्येषु जीवेश्वरमेद एवासकृत्प्रपञ्चितः । एवं जीवे- श्वरद्वैते यथार्थे सत्यहं ब्रह्मेत्यद्वैतज्ञानमयथार्थमेव, भटस्य राजाऽहमितिवचनवत् । अत एव राजाहमिति बदन् दुरहङ्कारो भटो राज्ञेव ब्रह्माहमिति वदन्नद्वैत्यपीश्वरेण दण्ड्य एवेत्यद्वैतज्ञानान्नरकपात एवेति चेत्, मैवं वादी :- जीवेश्वर मेदज्ञानस्य लोकतस्तर्कादिशास्त्रतोऽनुमानाच सिद्धस्य महता गीताशास्त्रेण प्रतिपादनस्य व्यर्थत्वातादृशज्ञानान्मोक्षा सिद्धेश्च । यदि मोक्षसिद्धिस्तस्माद्वैतज्ञानात्तर्द्धास्तिकस्सर्वोऽपि लोको विनैव ‘गीताशास्त्राध्ययनं कृतार्थ एव स्याद्वैतज्ञानस्य प्रागेव सिद्धत्वात् । नच जीवेश्वरभेद- ज्ञानस्य लोकादिना सिद्धत्वेऽपीश्वराद्भिन्नस्य जीवस्य देहेन्द्रियादिविलक्षणशुद्ध चिन्मात्रत्वज्ञानस्यासिद्धत्वा- सदर्थे शास्त्राध्ययनमावश्यकं तादृशज्ञानादेव मोक्षश्चेति वाच्यं, जीवस्य शुद्धचिन्मात्रत्वाभ्युपगमे ईश्वर भिन्नत्वस्य दुर्निरूपत्वात् । शुद्ध चिन्मात्रत्वं हीश्वरस्यापि । नच चिन्मात्रोपि विभुरीश्वरोऽणुर्जीव इति वाच्य, निरवयव चैतन्यरूपजीवस्याणुत्वासम्भवात् । सावयवं हि वस्तु सपरिमाणं भवति । नच सर्वज्ञ ईश्वरः किंचिदज्ञो जीव इति वाच्यं, मुक्तौ जीवचैतन्यस्य सर्वज्ञत्वस्य स्वयाप्यभ्युपगतत्वात् । यन्मुक्ति- दशाव स्थितमात्मस्वरूपं ददेव बद्धदशायामप्यन्यथा सविकारस्यापत्या- ‘भविकार्योऽय’ मित्यादिशास्त्र- विरोधादनित्यत्वप्रसङ्गाच्च । नच सकलकल्याणगुणपरिपूर्णमीश्वरचैतन्यमिति वाच्यं, ‘केवलो निर्गुण’- वेति श्रुतिविरोधात् । नच नियामकेश्वरस्य नियाम्यजीवा मेदोऽयुक्त इति वाच्यं, नियाम्यनियामक- भावस्य भूतेश्वरनिष्ठत्वेनात्मेश्वरनिष्ठत्वाभावात् । नच भूतान्येवात्मान इति वाच्यं, ‘यतो ‘वेत्यादि - श्रुत्या सादीनां सान्तानां च भूतानामात्मत्वायोगात् । आत्मा हि जन्मादिविकारशून्यत्वान्नित्यः- ‘अजो नित्यश्शाश्वत’ इति शास्त्रात् । नच चराचरात्मक भूतसंसृष्टतया जन्मादिसिद्धिरात्मन इति वाच्यं, सथात्वे ईश्वरस्यापि तत्प्रसङ्गात् । भूतोपाधिकजन्मादिविकारस्य भूतनिष्ठत्वेन वस्तुत आत्मनिष्ठत्वा- सम्भवाच । नच संसारिजीवस्यासंसारीश्वरा मेदोऽयुक्त इति वाच्यं, जीवस्य संसारित्वाभावात् । न च संसार्यहमित्यनुभवसिद्धजीवसंसारस्य कथमपलाप इति वाच्यं, जीवेनानुभूयमानस्य सुखदुःखजन्ममर- णादिलक्षणसंसारस्यानात्मधर्मत्वात् । देहस्य जन्ममरणवृद्धिक्षयादिमत्त्वं प्रत्यक्षमेव; मनसस्सुखदुःख- वत्त्वं च ‘कामस्सङ्कल्प’ इत्यादिश्रुति सिद्धमनुभवसिद्धं च सुगुप्तौ मनसोऽभावे सुखदुखानुभवाभावात् । नच देहादिगतोऽपि संसारो जीवेनानुभूयमानत्वाज्जीदधर्म एवेति वाच्यं तथासते सर्वस्यापि जगतो यस्संसाररस सर्वज्ञेनेश्वरेणानुभूयत इतः श्वरस्यापि संसारित्वप्रसङ्गात् । न चानुभवो न ज्ञानमात्रं किं तूपभोग इति वाच्यं, नीवेनापि संसारस्यानुपभुज्यमानत्वात् । नच ममायं संसार इत्यस्त्येवोपभोगो नीवस्येति वाच्यं तस्यानात्मतादात्म्यध्यासप्रयुक्तत्वेन तस्य चाध्यासस्याज्ञानमूलकत्वेन ममायं संसार इत्यस्य भ्रान्तिज्ञानत्वाद्वस्तुतो जीवस्यासंसारित्वमेवेति । न हि भ्रान्तिसिद्धो घर्गे वस्तुतस्तद्धर्मो भवति । यथा गगने बालानां भ्रान्तिसिद्धं नैल्यं वस्तुतो न गगनधर्मः; कथा वा मरुमरीचिकासु श्रान्ति सिद्धमुदकं वस्तुतो न मस्मरीचिकाधर्मः यथा वा शयानस्य आन्तिसिद्धश्शिरश्छेदा-मष्टादशोऽध्यायः । ४४५ न दिधर्मो वस्तुतो न पुरुषधर्मस्तद्वत् । नच संसारो न भ्रान्तिसिद्ध:, किंतु सत्य एवेति वाच्यं, सत्यत्वे तस्य निवृत्त्ययोगेन मोक्षशास्त्रवैयर्थ्यप्रसङ्गात् । नच सत्यमपि पापं प्रायश्चित्तेन निवर्तत इति वाच्यं, ब्रह्मातिरिक्तस्य सर्वस्याप्यसत्यत्वात् । ’ तत्सत्य पतोऽन्यदार्त’ मिति श्रुतेस्सत्यस्व नित्यत्वयोर्वै यचि - करण्यायोगेन सत्यस्य नित्यत्वान्नित्यस्य निवृत्तिमत्त्वे नित्यत्वस्यैवासिद्धिप्रसङ्गाच्च । न चासत्यत्वे संसा- रस्य कथमुपलम्भः ? न ह्यसत्यं शशशृङ्गादिकं केनाप्युपलभ्यत इति वाच्यं, असत्यस्यापि स्वमरथ- गजादेरैन्द्रजालिकगन्धर्वनगरादेश्चोपलम्भसत्त्वात् । एवमसत्यत्वे सत्युपलभ्यमानत्वादेव संसारस्य मिथ्यात्वमवोचाम । न चेश्वरसृष्टत्वादिन्द्रजालसृष्टत्वाच्च स्वमरथगन्धर्वनगरादिकं सत्यमेवेति वाच्य, त्वदभ्युपगता नित्यत्वेनैव सत्यत्वस्य निराकृतत्वात् । नहि सत्यं वस्त्वनित्यं भवति । उकं हि परा- शरेणापि - ‘ज्ञानं यथा सत्यमसत्यमन्य’ दिति । न चैवं ज्ञानमीश्वर एव ‘सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेः । तस्मादीश्वर एव सत्य इति वाच्यं, जीवस्यापि ज्ञानैकाकारत्वस्य त्वयाप्यभ्युपगत्वात् । तस्मा- द्रान्विसिद्ध एव जीवस्य संसारोपभोग इति सिद्धमसंसारीश्वराद्वैतम् । न चैकस्येश्वरस्थाने कजीवा मेदोsयुक्त इति वाच्यं, जीवानेकत्वे मानाभावात् । नच ‘न त्वेवाहं जासु नास’ मित्यादीनि मदुदा” हृतानि वाक्यानि मानमिति वाच्यं प्रमातृभेदपरत्वा तद्वायानामात्म मे दुकान स्यायुकत्वात् । चात्मैकत्वे मानाभाव इति वाच्यं, प्रकृतगीताशास्त्रस्यैव मानत्वात् । तथाहि - ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ अन्तवन्त इमे देहा नित्यस्योता - श्शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत! ॥ य एनं वेति हन्तारं यश्चनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ न जायते म्रियते वा कदाचिन्नायं भूखा भविता वा न मूयः । अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ वेदा विनाशिनं नित्यं य एनमजमव्ययम्, नैनं छिन्दन्ति शस्त्राणि, अच्छेयोऽयमदाह्योऽयमवद्योऽशोष्य एंव च । नित्य- सर्वगतस्स्थाणुरचलोऽयं सनातनः || अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।, आश्चर्यवत्पश्यति कश्चिदेनं देही नित्यमवध्योऽयं देहे सर्वस्य भारत !, परस्वस्मास्तु भावोऽन्यो व्यक्तोऽव्य कात्सनातनः । यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ।,, अव्यक्तोऽक्षर इत्युक्तः, अहमात्मा गुडाकेश ! सर्वभूतारा स्थितः, ये त्वक्षरमनिर्देश्यमव्यकं पर्युगसते, सर्वत्र चिन्यं च कूटस्थम् एतयो वेति तं प्राहुः क्षेत्रज्ञ इति तद्विदः, क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु भारत!, अनादेवसरं ब्रह्म नसत- नासदुच्यते, सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्, सर्वतश्रुतिमल्लोके सर्वमाहृत्य तिष्ठति, सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृचैः निर्गुणं गुगभोक्तृ च ॥, बरन्तश्च भूतानी चरं चाचरमेव च, सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्, अविभक्तं च भूतेषु विभक्तमित्र च स्थितम् भूतभर्तृ च तद्ज्ञेयं प्रसिष्णु प्रभविष्णु च ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते, ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् प्रकृतिं पुरुषं चैव पुरुषः प्रकृतिस्थो हि पुरुषस्सुख- दुःखानां, उपद्रष्टानुमन्ता च भर्दा भोक्ता महेश्वरः, परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परन्, " • ૨૨૬ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपता . य एवं वेति पुरुषं, समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥, समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो यांति परां गतिम् ॥, यः पश्यति तदात्मानमकर्तारं स पश्यति । अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ॥ शरीरस्थोऽपि कौन्तेय ! न करोति न लिप्यते, यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते ॥, यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्र क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ! ॥ ममैवांशो जीवलोके जीवभूतस्सनातनः, उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत’ इत्यादीनि । नच जात्येकवचननिर्देश इति वाच्यं, शुद्धचिन्मात्रे आत्मनि जातिव्यवयोरभावात् । यथात्मनो व्यक्ति भेदस्स्या चर्हि व्यक्त एव स्यात् न त्वव्यक्तः । उक्तं हि ‘अव्यक्तोऽयमचिन्त्योऽय’ - मिति । न चोपाधिकृतो व्यक्तिभेद इति वाच्यं, औपाधिकस्य तस्य वास्तवात्म भेदव्यवस्थापनाश- क्तत्वात् । न ह्यौपाधिकघटाकाशादिभेदो महाकाशस्य भेदं जनयितुमीष्टे । न चात्मैकत्वे सुखदुःखा- धनुभवसाङ्कर्यप्रसङ्ग इति वाच्यं, मनआद्युपाधिमेदेन तदसाङ्कर्यात् । न चैकोऽप्यात्मा परमात्मन ईश्वराद्भिन्न एवेति वाच्यं, ‘परमात्मेति चाप्युक्त’ इति जीवस्यापि परमात्मत्वात् । नच श्रीकृष्णेन जीवेश्वरा मेदः कण्ठतो नोक्त इति वाच्यं, ‘क्षेत्रज्ञ चापि मां विद्धीत्युक्तत्वात् । नच मां मदात्मक- मित्यर्थान्तरपरं तद्वाक्यमिति वाच्यं तस्य प्रागेव दूषितत्वात् । विमृष्टे सति मदात्मकमित्यस्यापीश्व- राभिन्नमित्येवार्थलाभात् । तस्मान्निर्विशेषशुद्ध चिन्मात्रे ब्रह्मणि प्रत्यगभिन्ने जीवेश्वर मेदव्यवहारादयोऽ- ज्ञानमूला एव । नच परिपूर्णचैतन्यस्येश्वरस्य प्रत्यग्रूपत्वमयुक्तमिति वाच्यं, ‘ईश्वरस्सर्वभूतानां हृद्देशेऽ- जैन ! तिष्ठति, सर्वस्य चाहं हृदि सन्निविष्ट’ इति, ‘अहमात्मा गुडाकेश ! सर्वभूताशयस्थित’ इति च प्रत्यभूपेणेश्वर स्थितेरुक्तत्वात् । अन्तर्बहिस्सर्वत्र परिपूर्ण चैतन्यस्येश्वरात्मकस्य, अन्तस्स्थचैतन्यरूपप्रत्य- गात्मभावस्य युक्तत्वाश्च । अन्यथा ईश्वरस्यान्तर्व्याप्त्यभावेऽपरिपूर्णत्वप्रसङ्गाच्च । तस्मात्सिद्धं जीवेश्व- राद्वैतं - चैतन्यैकस्वरूपत्वा ज्जीवेश्वरयो:; चैतन्यस्य च निर्विशेषत्वात् । एतस्मादेवाद्वैतज्ञानान्मोक्षमाह गीताशास्त्रम्- ‘सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ज्ञावा मां शान्तिमृच्छति, यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वमावेन भारत ! ॥ एवं मां तवतो ज्ञात्वा विशते तदनन्तरं’ मित्यादिवाक्यैः । द्वैतज्ञानात्संसः रमयं श्रुतिरे- बाइ- ‘य उदरमन्तरं कुरुते, अथतस्य भयं भवतीति । 1 . यदप्युक्तं राजाऽहमिति ज्ञानवान् भट इव ब्रह्माहमिति ज्ञानवान् दण्ड्य इति, तदयुक्तम्- ज्ञानिन ईश्वरात्मत्वेनेश्वरस्य परं प्रियत्वात्। आत्मा हि प्रियः । उक्तं हि कृष्णेनैव “प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय’ इति, ‘ज्ञानी स्वात्मैव मे मत’ मिति च । भटस्तु न राजस्सङ्घा- वाभिमानिन आत्मेति दण्ड्य एव तादृशो राज्ञा । ननु ज्ञानिन एवेश्वरत्वे कथं ज्ञानिनोऽहं प्रिय इत्युक्तमिति चेत्, नैष दोषः - ममामाः प्रिय इतिवददोषात् । नच वं मां शरणं व्रजेति मेदेन कथमुक्तमिति वाच्यं प्रमाता स्वामिभूतं ब्रह्म शरण अष्टादशोऽध्यायः । ४४७ व्रजेदिति तदर्थात् । नच प्रमातैव जीवो न खात्मा, आत्मा त्वीश्वर एवेति वाच्यं प्रमातुरेव स्वरू- पत्त्रादात्मनः । आत्मनि हि प्रमाता कल्पितो रज्जौ सर्पवत् । सर्पस्य कल्पितस्य यथा रज्जुरेव स्वरूपं तथा प्रमातुरात्मैव स्वरूपम् । न चैवं प्रमातुर्मिथ्या वे शास्त्राविकारिण एवाभावान्मोक्षफल- भोक्तुरप्यभावाच्च व्यर्थ गीताशास्त्रमिति वाच्यं, अन्तःकरणावच्छिन्न चैतन्यस्य प्रमातृत्वेन प्रमातृग- प्रमातृत्वप्रयोजक विशेषणीभूतान्तःकरणावच्छिन्नत्वांशस्य मिथ्यात्वेऽपि विशेष्यचैवन्यांशस्य सत्यत्वात् । नच सिद्धोऽपि मोक्षो व्यर्थ एवानुभवसाधनाभावादिति वाच्यं, करणानघीनज्ञानत्वादात्मनः । ‘अपाणि- पादो जवनो ग्रहीता’ इति हि श्रूयते । तस्मात्स्वरूपचैतन्येनैव मोक्षानन्दानुभव इति, तस्मात्सिद्ध- मद्वितीयब्रह्मात्मज्ञानान्मोक्ष इति । यत्तु रामानुजः - कर्मयोगज्ञानयोगभक्ति योगरूपान्सर्वान्धर्मान्कुर्वाण एव फलकर्म कर्तृत्वादित्यागेन परित्यज्य मामेकमेव कर्तारमाराध्यं प्राप्यमुपायं चानुसन्धत्स्व इति, तत्तुच्छम् — सर्वधर्मान्परित्य ज्येति यथाश्रुतार्थपरित्यागस्यान्यार्थकल्पनस्य च लक्षणया अयुक्तत्वात् । नहि सर्वधर्मानपरित्यज्ये ति सर्वधर्मफलाभिसन्ध्यादिकं परित्यज्येति वा मूले दृश्यते, किंतु सर्वधर्मान् परित्यज्येत्येव दृश्यते । नच यथाश्रुतार्थस्वीकारे- ‘नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तित’ इति तामसत्यागस्य सर्वधर्मपरित्यागस्य निन्दितत्वात्तद्विरोषस्स्यात् । ततश्च सर्वधर्मानित्यस्य लक्षणया सर्वधर्म फलानीत्येवार्थः पूर्वाविरोधात्स्वीकार्यः । पूर्व हि- ‘एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ! निश्चितं मतमुत्तमम् ॥ कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ! सङ्ग त्यक्वा फलं चैव स त्यागस्सात्त्विको मत’ इत्युक्तम् । तस्मात्स एव सात्त्विकत्याग इहापि स्वीकर्तव्य इति वाच्यं तस्य सात्त्विकत्यागस्य कर्माधिकार्यज्ञपरत्वात् इहोकसर्वधर्म परित्यागस्य सर्व कर्म सन्ध्यासि - ज्ञानिपरत्वाच्च । सर्वधर्मानितिश्लोकेन हि ज्ञाननिष्ठोपसंहियते - पूर्वश्लोकेन कर्मनिष्ठाया उपसंहृतत्वात् । नच सर्वकर्मसन्न्यास एव श्रीकृष्णस्याभिमत इति वाच्यं, ‘सर्वकर्माणि सन्न्यस्य, सर्वारम्भपरित्यागी’ इत्यादिवाक्यैरुक्तत्वात्तेनैव सर्व कर्म सन्न्यासस्य, ‘ब्राह्मणो निर्वेदमायात्, यदहरेव विरजेतदहरेव प्रव्रजे’- दित्यादिश्रुतिसिद्धं सर्वकर्मसन्न्यासं भगवान्नहि निरुन्ध्यात् । नच विदुष एव तामसत्यागो निन्दित इति वाच्यं, मोहादित्युक्तत्वात् । नहि विदुषो निरस्तमोहस्य मोहस्सम्भवति । नच भक्तियोगस्यापि परित्यागे कथं ज्ञानिनोऽपि ब्रह्मप्राप्तिः ? ‘मद्भक्ता यान्ति मामपि, भजन्ते मां दृढव्रताः, जरामरणमोक्षाय, मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः, अनन्यचेतास्सततं यो मां स्मरति नित्यशः, तस्याहं सुलभः पार्थ 1, पुरुषस्स परः पार्थ ! भवत्या लभ्यस्त्वनन्यया, मद्भक्तो भव, मामेवैष्यसि, भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन!, ज्ञातुं द्रष्टु च तत्त्वेन प्रवेष्टुं च परन्तप !, मद्भको यस मामेति पाण्डव !’ एवं भक्तस्य भगवत्प्रियत्वमप्याह – ‘यो मे भक्तरस मे प्रियः, भक्तिमान्मे प्रियो नरः, भक्तास्तेऽतीव मे प्रियाः’ इति भक्तियोगादेव मोक्षः परब्रह्मप्राप्तिलक्षणो भवति । ज्ञानयोगात्तु केवलादात्मप्राप्ति- रेवेति वाच्यं, ज्ञाननिष्ठालक्षणः कर्मनिष्ठा लक्षणश्च भक्तियोगो द्विविध:- भक्तिर्भजनमीश्वरस्य वृद्धि ૮ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्यो पैता कर्मनिष्ठया ज्ञाननिष्ठया वा कर्तुं शक्यते । अत एवोक्तं- ‘लोकेस्मिन्द्विविधा निष्ठा पुरा प्रोक्त मयाऽ- नवं ! ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मिति । नहि भक्तियोगात्मकं निष्ठान्तरमुक्तं, तत्र च ज्ञाननिष्ठा लक्षणो भक्तियोगो मोक्षस्य साक्षात्साधनं, कर्मनिष्ठालक्षगस्तु परम्परयेति । तस्मादुज्ञान- योगातिरिक्तः स्वदुक्तो भक्तियोगः कर्मयोगादनन्य एव तं परित्यज्य ज्ञाननिष्ठा प्राप्त्यैव ब्रह्मनाप्तिः । त्वदुदाहृतवचनेषु तु केषुचिद्भवि योगः कर्मयोगात्मकः केषुचिद्ज्ञानयोगात्मक इति कृत्वा कर्मयोग- लक्षणभक्तियोगात्परम्परयां ब्रह्मप्राप्तिः, ज्ञानयोगलक्षणभक्तियोगांस्तु साक्षादिति बोध्यम् । तथासति – ‘ज्ञात्वा मां शान्तिंमृच्छ’ तीत्यादिवचनाविरोधः, अन्यथा ज्ञानाद्ब्रह्मप्राप्तिप्रतिपादकवचन विरोधस्स्यात् । यत्तूक्तं ज्ञानादात्मप्राप्तिरेव न परमात्मप्राप्तिरिति तदात्मपरमात्म मेदवाद विध्वंसनेनैव विघ्व- स्तम् । यच्चोक्तं मामेकं शरणं व्रजेत्यस्य कर्तारमाराध्यमुपायमुपेयं च मामनुसन्धत्स्वेति तद्- युक्तम्- तद्वाक्यात्तादृशार्थाप्रतीतेः । अकर्तारमीधरमात्मानं कर्तेत्यनुसन्धानस्य विपरीतज्ञानत्वेन मोक्षाहेतुत्वाच । नच वासुदेवस्सर्वमिति तदुपपद्यत एवेति वाच्यं कर्तृभोक्त्रादिसर्वप्रपञ्चबाघे ब्रौक- मेव शिष्यत इति तदर्थात् ; ब्रह्मणि कल्पितस्य सर्वस्य ब्रह्मैव स्वरूपमिति वा । नच सर्वशरीरकत्वा- त्सर्वं ब्रह्मेत्युच्यत इति वाच्यं शरीरभूतसर्वस्याब्रह्मात्मकत्वप्रसङ्गात् कर्तारं जीवं मां परमात्मानमनु- सन्घत्स्वेत्यनेन जीवब्रह्मामेदवादप्रवेशप्रसङ्गाच्च तव ।

1 यद्यप्यनेनोक्तं सर्वधर्मान् कृच्छ्रचान्द्रायणादीन् प्रायश्चितरूपान्सर्वान्धर्मान् परित्यज्य मामेकं शरणं व्रज । नच ते पापेभ्यो भीतिः, अस्मच्छरणागतिमात्रेणैव सर्वपापक्षयात्तवेत्याह यहं त्वामित्या- दीति — तदपि तुच्छम् — नित्यनैमित्तिक काम्यरूपधर्मापरित्यागस्यार्थतस्सिद्धत्वात् सर्वशब्दस्य प्राय- श्चित्तमात्रपरत्वे सङ्कोचस्यान्याय्यत्वात् भगवच्छरणागतिमात्रेण सर्वपापक्षये सति मोक्षप्राप्तौ च सत्यां नित्याद्यनुष्ठानस्यापि वैयर्थ्यापतेः; नित्याद्यनुष्ठानस्य बहिर्मुखत्वेन भगवच्चरणागतिविरोधित्वाच्च । तस्मा - त्प्रायश्चित्तानुष्ठानवन्नित्याद्यनुष्ठानस्यापि भगवदेकपरायणत्वविरुद्धत्वात्तदपि त्याज्यमेव । अत एवोक्तं भगवता पाराशर्येण सर्वधर्मान् परित्यज्येति, अन्यथा प्रायश्चित्तानि संत्यज्येत्येव ब्रूयात् । नच नित्य- कर्मानुतिष्ठतोऽपि भगवदेकपरायणत्वं स्यादिति वाच्यं तथासति प्रायश्चितमनुतिष्ठतोऽपि तत्स्यादिति प्रायश्चित्तपरित्यागस्याप्यकर्तव्यापत्तेः । ‘सन्ध्यावन्दन! भद्रमस्तु भवते भो स्नान! तुभ्यं नमो भो देवाः ! पितरश्च ! तर्पणविधौ नाहं क्षमः क्षम्यतां । यत्र कापि निषद्य यादवकुलोत्तंसस्य कंसद्विषस्स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥’ इति शुकवचनान्नित्यकर्मानुष्ठानं भगवदेकपरायणत्व विरोध्येव । हृत्पुण्डरीकरथे भगवति पर- मात्मनि मनसः प्रवेशनं तत्रैव चिरमवस्थापन च हि भगवदेकपरायणत्वं तत्कथमनन्तर्मुखस्य भवितु- मईति ? कथमेवमन्तर्मुखस्य बहूपकरणसाध्ये कर्मणि बाह्य प्रवृत्तिर्भवितुमर्हति ? तस्मात्सर्वकर्म सन्न्यास- पूर्विकै भगवदेकशरणागतिरूपा ज्ञाननिष्ठा । नच भगवत्प्रीत्यर्थे भगवत्कर्मकरणमेव भगवच्छरणागति - ५७ महादशोऽध्यायः ।

४४९ रिति वाच्य, तादृशकर्मयोगस्य पूर्वश्लोक एवोपसंहृतत्वात् भगवद्धयानयोगस्य भगवच्छरणागति- स्वाभाव इत्यस्य विरुद्धत्वाच्च । न च भगवद्धघानं नाम मनसि कल्पितभगवद्विप्रहाचनमेवेति तदपि कर्मयोग एवेति वाच्यं नित्यसिद्धप्रत्यगभिन्नभगवत्स्वरूपानुसन्धान लक्षण भगवद्ध्यानस्या कर्म योगत्वात् । ‘अकल्पितभगवत्स्वरूपध्यानं न कर्तव्यं, किं तु कल्पितभगवद्विप्रध्यानमेव कर्तव्य मिति राजाज्ञाऽभावात् कल्पितापेक्षया अकल्पितं युक्तमिति - प्रसिद्धत्वात् । नचाकल्पितेश्वरस्वरूपध्यानं दुष्करमिति वाच्यं, मेषां दुष्करं तदर्थे कर्मयोगो विहित एव; येषां तु सुकरं तदर्थमेव ज्ञानयोगो विहितः । न च हृदि कल्पितेश्वरविग्रहार्चनमेव ज्ञानयोग इति वाच्यं यथावस्थितवस्तुस्वरूपचिन्तनस्यैव ज्ञानयोगत्वात् । लोकेऽपि यथाव स्थित घटा दिवस्तुज्ञानमेव ज्ञानमिति व्यवह्नियते, नंतु कल्पितसर्पाभासादिज्ञानं; नापि तदुपासनम् । तस्मान्नित्यादिकर्मानुष्ठानं हृदि प्रतिमादिषु वा कल्पितभगवद्विग्रहार्चनादिकं सर्वमपि कर्मयोग एव । स चाज्ञविषय:- ‘यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरं, अर्चायां भजते मौढ्या’- दिति भागवतात्, इहापि कर्मयोगस्याज्ञविषयत्वेनोक्तत्वात् । अहं ब्रह्मास्मीति प्रत्यगभिन्नब्रह्मस्वरूप- चिन्तन तु ज्ञानयोगः, स च प्राज्ञविषयः; सच सर्वकर्मसन्न्यासपूर्वकः; स एव - ‘सर्वधर्मान् परित्यज्य - मामेकं शरणं व्रजेति लोके उपसंहृतः । युक्तं चैतत् - ज्ञानकर्मनिष्ठाद्वयस्य पूर्वमुपक्रान्तत्वेन तस्येहोप- संहृतत्वात् । तस्माद्ज्ञाननिष्ठापर एवायं श्लोकः । अयमेव श्लोको मया भङ्गयन्तरेणो कोऽद्वैतामृत- ग्रन्थे मामके । ‘धर्मान्विहाय विविधान् शरणं भजेऽहं मामेव येन विनिवर्तत एव माया’ इति । तस्मात्प्रत्यगभिन्नब्रह्मात्मज्ञानादेव मायातत्कार्यनिवृत्त्यात्मको मोक्षरसम्भवति । यदप्युक्तं वेदान्तदेशिकेन - मामेकमित्यत्र निर्विशेषचिन्मात्रैक्यादिविवक्षां शृण्वन्तो बाला अपि परिहसेयुरिति, तत्सत्यमेव - बाला भज्ञा अपिशब्दाद्विपरीतज्ञांश्व परिहसन्त्येवाद्वैतं नतु सम्यग्दर्शिनः । मां कर्तारमाराध्यमुपायमुपेयं चानुसन्धत्स्वेति योजनां शृण्वन्तस्तु विवेकिन एवं परिह- “सेयुः नतु बालादयः । तद्दृष्ट्या तद्योजनाया युक्तत्वात् । यथा गर्दभगानं पिशाचानां श्रमणानन्द- करं, यथा वा गोमायुगानं महिषाणम् । तथाहि यदि मामित्यस्य वक्तरि वासुदेवे पार्थसारथौ शक्ति- स्तर्हि तचरणारविन्दयोस्सुदृढं परिग्रहणमेव वच्छरणागतिस्स्यात् । तत्पार्थस्य सुलभमपि दुर्लभमेव, ततः ‘प्रातनानां प्रह्लादादीनां पश्चातनानां परीक्षिदादीनां च । नचेष्टापत्तिः- लोकत्रयोपकाराय गीताशास्त्रस्म भगवता प्रवर्तितत्वात् । अथ यदि सर्वज्ञे परमात्मनि विष्णौ लक्षणा तर्हि सिद्धमेव निर्विशेषचिन्मा- त्रैक्यं निर्विशेषचिन्मात्रत्वाद्विष्णोरिति । यच्चानेनोक्तं गीताशास्त्रस्य सारार्थोऽयं भगवानेव परं तत्त्वं यथाधिकारं तदाश्रयणमेव परमधर्म इति, तदपि स्वतात्पर्यानुसारेण न सिध्यति - श्रीकृष्ण एक एव परं तत्त्वं, नतु ब्रह्मरुद्रादयः । तेहि जीवा इति हि तवाशयः । नहि सोऽर्थो गीताशास्त्रात्सिध्यति, किंतु श्रीकृष्ण श्रीनिवास रुदन्द्र- बृहस्पतिवायु सूर्येन्दुलक्षी सरस्वती पार्वती गणपति कुमारविनायक देवगरुड गन्धर्व पिशाचोरगकिनर किंपुरुष सिद्ध- ४५० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतासु साध्य पितृमातृभूतप्रेत महतारा नक्षत्रमनुष्यपक्षिपशु मत्स्यकमठकीटसरीसृपतरुगुल्मलतादिचराचर सर्व भूतहृदयस्थं मृत्पाषाणादिसर्वचेतनस्यापि च परिपूर्ण निर्विशेषं सत्यमनन्तं चैतन्यमेकमेवाद्वितीयं ब्रह्म परं तत्त्वं, तदेकानुसन्धानात्मक ज्ञाननिष्ठैव परमधर्मः, तदुपायभूता तु कर्मनिष्ठा इति गीताशास्त्रस्य सार इति । अत एवोक्तमभियुक्तै:- ‘अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनी’ मिति, सर्वकर्म सन्न्यासस्तु देशिके- नाभ्युपगतः । यस्य वशिनो योगेन सर्वकर्मकालो व्याप्तः, तस्य कर्मपरित्यागो युक्तो नान्यस्य । एनदेव तृतीयचतुर्थपञ्चमेषु भगवता प्रतिपादितमित्यनुसन्धातव्यं, तृतीये तावत्- ‘यस्त्वात्मरतिरेव स्यादित्यत्र, ‘चतुर्थे- ‘योगसन्न्यस्तकर्माण’ मित्यत्र, पञ्चमे च ‘सर्वकर्माणि मनसा सन्न्यस्यास्थ’ इत्यत्र । तेनात्म- रतीनां वशिनां योगारूढानामेव कर्मसन्न्यासो युक्त इति, अस्य तु ज्ञानिनस्सन्न्यासो न युक्तः । किंतु समाघिनिष्ठस्यैव युक्त इति बुद्धिः; सा तु दुष्टा यस्य त्वज्ञस्य मम चित्तं बहिर्मुखमासीत् तेनाहं संसारमनुभवामीति श्रान्तिस्सहि समाधिमभ्यस्यतु । यस्य तु प्राज्ञस्य ब्रह्मवाहमस्मीति निश्चयः कुतस्तस्य समाधिः ? समाधिसाध्यो हि ब्रह्मसाक्षात्कारस्स्वत एव भवति विदुषः- आत्मत्वाद्ब्रह्मणः । तस्मात्समाघिनिरपेक्ष एव ज्ञानयोगः । यस्य तु प्रतिबन्धवशाद्मसाक्षात्काराभावो बहुवारं श्रुतवेदान्त- स्यापि तस्य समाधिर्विहितः । न तावता समाघिनिष्ठस्यैव सन्न्यासो युक्तः, नतु ज्ञानिन इति वाच्यं, कृतात्मसाक्षात्कारस्य ज्ञानिनस्सन्न्यासो न युक्तः । आत्मसाक्षात्कारं प्रति यतमानस्य योगिनस्समा- हितस्य सन्न्यासो युक्त इति कल्पनस्यायुक्तत्वात् । आत्मसाक्षात्कारेण हि पुरुषः कृतकृत्यो भवति– ‘एतद्बुध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत !’ इत्युक्तत्वात् । नहि कृतकृत्यस्य कृत्यावशेषः स्याद्येन विदुषः कर्मसन्न्यासो न युक्त इति कल्प्येत । नच समाहितस्यैवात्मरतिर्न तु ज्ञानिन इति वाच्यं, यज्ञस्याप्यस्त्येवात्मरतिरात्मत्वेनाभिमते देहे, किं पुनः प्राज्ञस्य सच्चिदानन्दे आत्मनि रतिः । तस्माद्विदुषः कृतात्मसाक्षात्कारस्य कर्मसन्न्यासो युक्त एव, तथा आत्मसाक्षात्काराय यतमानस्य ज्ञाननिष्ठायां प्रविष्टस्यापि युक्त एव ब्रह्माहमस्मीत्यन्वहमनुसन्धातव्यत्वाचे नात्मरूपस्य । अतस्समाधि- निष्ठस्यापि कर्मसन्न्यासो युक्त एव । यच्चानेनोक्तमात्मरतेर्वशिनोऽपि लोकसंग्रहार्थं कर्मयोग एव कार्य इति, तदयुक्तम् - विदुषः कर्तव्यत्वानवशेषात् ; किंतु विद्वांसो यदृच्छया वासुदेवव त्कर्मयोगादौ विहरन्ति । उक्तं हि - ‘कृष्णो भोगी शुकस्त्यागी नृपौ जनकराघवौ । वसिष्ठः कर्मनिरतः पञ्चैते ज्ञानिनस्स्मृताः ॥ इति । तत्र च कारणं प्रारब्धकर्मैव । अत एव भगवानपि स्वस्य धर्मसंस्थापनार्थमवतीर्णत्वात्तत्सङ्कल्पानुगुणं कर्मणि प्रवृतः । उक्तं हि - ‘वर्त एव च कर्मणीति तेनैव । अयमेव ऋषभावतारे अवधूतस्सन् चाचर परम- 1 इसपरिव्राजकचर्यां ग्राहयितुं लोकेन । तस्माद्विदुषः कर्मयोग एवं युक्त इति न नियमः, जनकराघ- वादीनां तु नृपत्वेन तत्प्रारब्धानुगुणं प्रजापरिपालनादौ प्रवृत्तिः । अत एवार्जुनस्यापि स्वप्रारब्धानुगुणं युद्धे प्रवृतिरुचितेति मत्वा- ‘कुरु कर्मैव तस्मात्त्व’ मित्युक्तम् । नैतावता विदुषः कर्मयोग एवं युक्त इति श्रमितव्यम् । शुकादीनां विदुषां तत्र प्रवृत्त्यदर्शनात् । अनेन च शुकदृष्टान्तेन सर्वदा समाधि- नादशोऽध्यायः । शालिन एव कर्मसन्न्यासो युक्त इत्येतत्प्रत्युक्तं, शुकस्य सन्न्यासिनस्सर्वदा समाधिनिष्ठत्वे भागवत- सम्प्रदायोच्छेदप्रसङ्गात् । तस्माद्विदुषो विविदुषोश्च कर्मसन्न्यासो युक्तः । अत एव विद्वत्सन्न्यासो विविदिषासन्न्यासश्चेति द्विविधस्सन्न्यासो विहितश्शास्त्रेण । तस्मान्मुमुक्षुणा सर्वकर्म सन्न्यासपूर्विका ’ ब्रह्मात्मज्ञाननिष्ठैव कार्येति गीताशास्त्रसारार्थः । तत्रानधिकारिणा तु कर्मनिष्ठेति । नन्वेवं जनकादीनामत्यागिनां मोक्षानुपपत्तिरिति चेत्, मैवम् – मुमुक्षोः कर्मसन्न्यास भावे मोक्षानुपपत्तिर्न तु मुक्तस्य । जनकादयो हि जीवन्मुक्ताः कृतात्मसाक्षात्कारत्वादत एव तेषां न मुसु- क्षास्ति, यया मोक्षार्थ तैस्सन्न्यासः स्वीक्रियेत । अत एवं हि शमादिसम्पतिर्नित्यानित्यवस्तुविवेक इहा- मुत्रफलभोगविरागो मुमुक्षुत्वं चेति विशेषणचतुष्टयं विहितं ब्रह्मविद्याधिकारिणः । ननु यद्येवं मुमुक्षोरेव सन्न्यासाधिकारः, नतु विदुषो मुक्तस्य तर्हि सिद्धमेव विदुषस्सर्व कर्म- सन्न्यासानईत्वमिति चेत्, मैवम् — विदुषस्सर्व कर्म सन्न्यासः कार्यो न भवतीत्यस्माभिरुच्यते कृत- कृत्यत्वात्तस्य । न तेन तस्य कर्मसन्न्यासानुपपति:- कर्मानुष्ठानहेत्वज्ञानाभावादेव सन्न्यासस्य सिद्धत्वा- - तस्य । तस्माद्विदुषः कर्मयोगस्यैवानुपपत्तिः । ननु यद्येवं कृतकृत्यत्वे विदुषः कथं तस्य सन्न्यासपूर्विका ज्ञाननिष्ठा कार्येत्युच्यते ? ‘ज्ञान- योगेन साङ्ख्याना’ मितिवाक्येनेति चेत्, नैष दोषः - आत्मज्ञानस्य परोक्षत्वा परोक्षत्वाभ्यां विदुषो द्वैविध्यम् । तत्र परोक्षज्ञानिनो ज्ञाननिष्ठा विधीयते नापरोक्षज्ञानिनः तस्य कृतकृत्यत्वादिति । ननु कथं ज्ञायते ? स्वस्य परोक्षात्मज्ञत्वमपरोक्षात्मज्ञत्वं वेति चेत्, उच्यते – यस्य मनसि संसारदुःखं नास्ति, मोक्षकामो नास्ति विषयस्पृहा नास्ति, अहं ब्रह्मास्मीति निश्चयोऽस्ति, कृत- कृत्योऽहमिति सन्तोषोऽस्ति देहपातानन्तरं मम का वा गतिर्भविष्यतीति चिन्ता नास्ति, ईश्वरा - न्मृत्योर्वा भयं नास्ति स विद्वानपरोक्षात्मवित् । एतद्भिन्नस्तु शास्त्रादात्मानं ब्रह्मेति यः केवलं वेद न स्वनुभवात् परोक्षात्मविदिति । ततश्च विद्वान् स्वबुद्ध्या स्वस्य परोक्षज्ञत्वमपरोक्षज्ञत्वं च विदित्वा परोक्षज्ञश्चत्तदापि शमदमादि सम्पत्तिमालोच्य साप्यस्ति चेद्यथाविधि शिखायज्ञोपवीतादिकं परित्यज्य प्रव्रज्य ज्ञानयोग कुर्यात् । शमदमादिसम्पत्तिर्नास्ति चेत् कर्मयोग एवावतिष्ठेत । एवमनेकजन्मसु कर्म - योगानुष्ठाने इहजन्मनि वा सुकृतातिशयाश्चित्तशुद्धौ जातायां ज्ञानयोगाधिकारी भवति । उक्तं हि – ‘बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । अनेकजन्मसंसिद्धस्ततो याति परां गति’ मिति, ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव’ इति च । यद्यपरोक्षज्ञस्तर्हि यथाप्रारब्धं यथेच्छं तस्य विहारः । उक्तं हि - ‘निस्त्रैगुण्ये पथि विचरतां को विधि को निषेध’ इति । यस्तु पुनः पारोक्ष्येणाप्यात्मानं न वेति तस्याज्ञस्य कर्मयोग एवाधिकारः । स च कर्मयोगस्स्ववर्णाश्रमानुसारेण विहितमितिबुद्धया फल- त्यागपूर्वकमीश्वराराधनमिदमिति नित्यनैमित्तिक कर्मानुष्ठानं; नतु स्नानसन्ध्यादिकं विहाय देवालपादौ सतैलाभ्यान्नदध्यो नादिभोजनादिकम् । ज्ञानयोगो नाम वेदान्नश्रवणमननादिपूर्वकं ब्रह्माहमस्मीत्यात्मानु- ४५२ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपता ’ सन्धानं, नतु द्रविडवेदपारायणादिकं, नापि शङ्खचक्राङ्गनादिकमिति बोध्यम् । तस्मादज्ञेनाधिकृतेन कर्मयोगः कार्यः विदुषा परोक्षज्ञेन ज्ञानयोगः कार्य इति सर्वस्य गीताशास्त्रस्य निश्वितमंशद्वयम् । तच मन्मना इति, सर्वधर्मानिति च श्लोकद्वयेन भगवतैव दर्शितम् । ‘सुमुक्षुणा कर्मयोगः कार्योऽज्ञेन द्विजन्मना । परोक्षज्ञेन विदुषा ज्ञानयोग इति स्थितिः ॥’ स च ज्ञानयोगस्सन्न्यासपूर्वकः । स च सन्न्यासो द्विविधः - वैदिको लौकिकश्वति । मन्त्र- पूर्वकसन्यासाश्रमस्वीकारो वैदिकः; गृहघनदारापत्यादिकमुत्सृज्य कापि प्रयाणं लौकिकः । वैदिके द्विनस्यैवाधिकारः; लौकिके तु स्त्रीशूद्रादीनां सर्वेषामपि । अत एवोक्तं श्रीशङ्करस्वामिभिरुपनिषद्भाष्ये– ‘ज्ञानमार्गे सर्वेषामधिकार’ इति । कर्मयोगे तु द्विजस्यैव । धिकारः- तस्यैवोपनयनादिसंस्कारवत्त्वेन बेदाधिकारात्ः । तस्मात् – ‘यथाविधि परित्यज्य ज्ञानयोगं द्विजोऽभ्यसेत् । गृहादिकं परित्यज्य तदन्यस्तु तमभ्यसेत् ॥ कामक्रोधादिरहितचित्तस्सन्न्यासमाश्रयेत् । दम्भाथर्थे तु सन्न्यस्य पतेदेव नरोऽशुचौ ॥ ईश्वराराधनार्थं स्वं कर्म कुर्यान्मलाशयः । दम्भाद्यर्थे तु तत्कृत्वा पतेदेव नरोऽशुचौ ॥ मलं कामक्रोधादिरूपम् । मशुचिस्संसारः । स्वं स्ववर्णाश्रमविहितम् । स्वकर्मोत्सृज्य पुरुषः परकर्म न चाचरेत् । अन्यथा यदि वर्तेत पतेदेव नरोऽशुचौ ॥ यस्तु ज्ञानावलेपेन विहितं न समाचरेत् । प्रतिषिद्धं चाचरेत्स पतेदेव नरोऽशुचौ ॥ शास्त्रदीपेन कर्तव्यमर्थे दृष्ट्रा समाचरेत् । स्वेच्छया यदि वर्तेत पतेदेव नरोऽशुचौ ॥ शास्त्राणामुत्तमं शास्त्रं गीताशास्त्रमिति स्मृतम् । कृष्णधीमथितान्नायपाराब्धिजमिवामृतम् ॥ कृष्णो व्यासो वासुदेवो वा; माम्नायपारा उपनिषदः । अशोच्यानन्वशोचस्त्वमित्युपक्रम्य शोचनम् । अन्ते मा शुच इत्युक्तश्शोकाभावोऽत्र शौरिणा ॥ अशेषशोकप्रशमोपायभूतमिदं ततः । शोकान्मुमुक्षुणा नित्यमध्येयमधिकारिणा ॥ मलनिर्मोचनं पुंसां जलखान दिनेदिने । सकृद्गीताम्भसि स्नानं संसारमलमोचनम् ॥ भगवद्गीता किश्चिदधीता गङ्गाजललवकणिका पीता । सक्कदपि येन मुरारिसमच क्रियते तस्य यमोऽपि न चर्चाम् ॥ गङ्गाखानादिबाट गीतापारायणात्फलम् । गीतार्थब्रह्मविज्ञानं ब्रह्मानन्दप्रदं पुनः || इति समाप्तं गीताशास्त्रं तद्भाष्यार्क प्रकाशश्च. समर्पितश्चायं श्रीहयग्रीवपरब्रह्मणे । प्रकाशमेनं परिलक्ष्य कौस्तुभप्रकाशमप्यात्मनि संशयाकुलम् । निरीक्ष्य कक्ष्या तुरगेन्द्रकन्वरं कृतं स्मितं हन्तु तमो ददातु शम् || मष्टादशोऽध्यायः । P ४५३ सर्व गीताशास्त्रार्थमुपसंहृत्याऽस्मिन्नध्याये विशेषतथान्ते इह शास्त्रार्थदायय संक्षेपत उपसंहारं कृत्वा, अथेदानीं शास्त्र सम्प्रदायविधिमाह - इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६७ ॥ इदमिति । इदं शास्त्रं ते तव हिताय मयोक्तं, संसार विच्छित्तयेऽतपस्काय तपोरहिताय न वाच्यमिति व्यवहितेन सम्बध्यते । तपस्विनेऽप्यभक्ताय गुरौ देवे च भक्तिरहिताय । कदाचन कस्यचिदप्यवस्थायां न वाच्यं; भक्तस्तपस्वी अपि सन्शुश्रूषुर्यो भवति तस्मा अपि संशय:- किं कौस्तुभस्यैवायमपूर्वः प्रकाशः मद्धृदयगतं गीताशास्त्र तात्पर्यं कथमेवं बहि- र्गतम् ? कौस्तुभप्रकाशैतत्प्रकाशयोः कतरोऽधिकः ? स्वानुजेन कौस्तुभेन सहार्थासनाचिपत्यं स्वीकृत वन्तं प्रकाशमिमं दृष्ट्रा लक्ष्मीः किं मन्येत ? प्रकाशद्वयव्याप्ते मद्धृदये लक्ष्मी स्थापयितुमवकाशोऽस्ति वा नवा ? एतत्प्रकाशसाक्षात्कारालक्ष्म्या अपि ज्ञाननिष्ठास्वीकारेण मयि वैराग्यं भवेत्किमु है इत्यादि– रूचः । स्मितस्य चन्द्रिका तुल्यत्वात्समोनाशनं सुखदानं च युक्तमिति भावः । अशोच्या नित्यारभ्य मा शुच इत्येतदन्तं गीताशास्त्रमेकत्रिंशदधिकषट्छतश्लोकात्मकम् । धर्मक्षेत्र इत्यारभ्य ध्रुवा नीतिर्मत्ति- ममेत्येतदन्तस्तु प्रन्थस्सप्तशत श्लोकात्मकः । अत एवोक्तं भाष्यकृद्भिर्भाष्यारम्भे सप्तभिश्लोकशतैरुप- निबबन्धेति । प्रकृतिं पुरुषं चैवेति श्लोकस्तु प्रक्षिप्त एवेति न गणनीयः ॥ ६६ ॥ 1 अथ शास्त्रसम्प्रदायविधि शिक्षयति भगवानिदमित्यादिना इत्याह भाष्यकारः– - सर्वमिति । सर्वे गीताशास्त्रार्थमस्मिन्नध्याये उपसंहृत्य विशेषतश्वेहान्ते शास्त्रार्थदाय संक्षेपत उपसंहारकं कृत्वा यद्वा विशेषतो विस्तृत उपसंहृत्येत्यन्ययः । अथ शास्त्रार्थोपसंहारानन्तरमित्यर्थः । इदमिति । ‘सेनयो रुभयोर्मध्ये विषीदन्तमिदं वच’ इति यत्पूर्व वक्ष्यमाणत्वोपाधिना इंदंशब्देन संगृहीतम शोच्या नित्यारभ्य मा शुच इत्येतदन्तं तदेवेहेदं शब्देनो तत्वो पाघिनाः संगृह्यते । तथा च इदं पूर्वोक्तमशोच्या नित्यादिकं’ मा शुच । इत्यन्तं गीताशास्त्रमित्यर्थः । ते तव मयोक्तमिति शेषः । किमर्थमुक्तमत आह- हितायेति । किं तद्धितमत आह- संसारविच्छित्तय इति । संसारविच्छित्तिरूपहितायेत्यर्थः । अपस्काय न बाच्यं त्वयेति शेषः । यद्वा ते इति त्वयेत्यर्थे षष्ठी षष्ठी शेषे इति सूत्रेण विहिता । तथाचेदं ते न वाच्यमित्यन्वयः । तव हिताय मयोक्तमिति तु भाष्यकृद्भिरिदंशब्दार्थ विवरणरूपतयोक्तमिति बोध्यम् । मतपस्काय न वाच्यमित्यनेन तपस्विने वाच्यमिति प्राप्ते माह– तपस्विनेऽप्यभक्ताय न वाच्यमिति । कस्मिन भक्तायेत्यत माह – गुरौ देवे चेति । देव ईश्वरः परमात्मा । कस्या चिदपीति । दारिद्र्यादिकष्टदशा प्राप्तावपीत्यर्थः । दरिद्रो हि शास्त्रविद्धन लो मेनाभक्तायाऽपि ज्या- दिति भावः । रुणश्च शास्त्र वित्तस्वरोगापहाराया भक्तायापि भिषजे ब्रूयादिति च । एवं तपस्विने भक्ताय श्र्यादिति प्राप्ते आह- नचाशुश्रूषव इति । श्रोतुमिच्छुः शुश्रूषुः, नाष्पृष्टः कस्यचिदूत्यादितिन्याया- ૦૫૪ श्रीभगवद्गीता - भाष्या के प्रकाशविलसित श्रीशाङ्करभाष्योपतासु न वाच्यं न च मां यो वासुदेवं मनुष्यं प्राकृतं मत्वाऽभ्यसूयत्यात्मप्रशंसादिदोषाध्यारोपणे- नेश्वरत्वं ममाज्जानन् न सहतेऽसावप्ययोग्यस्तस्मा अपि न वाच्य; भगवत्यनस्यायुक्ताय तपस्विने शुश्रूषवे भक्ताय वाच्यं शास्त्रमिति सामर्थ्याद्गम्यते । तत्र ‘मेधाविने तपस्विने- वेत्यनयोर्विकल्पदर्शनाच्छुश्रूषाभक्तियुक्ताय तपस्विने तद्युक्ताय मेधाविने वा वाच्यं शुश्रूषा- भक्तिवियुक्ताय न तपस्विने नापि मेधाविने वाच्यं; भगवत्यस्यायुक्ताय समस्तगुणवतेऽपि न वाच्यं; गुरुशुश्रूषाभक्तिमते च वाच्यमित्येष शास्त्रसम्प्रदायविधिः ॥६७॥ / दिति भावः । यश्शुश्रूषुस्स जिज्ञासया श्रोतव्यार्थ पृच्छत्येवेति बोध्यम् । यद्वा शुश्रूषुः गुरूपरिचरण- शील:- ‘गुरुशुश्रूषया विधेति स्मरणात् । एवं तपस्विने भक्ताय शुश्रूषवेऽपि भगवत्यसूयायुक्ताय न वाच्यमित्याह - नच मामिति । मां शास्त्रकर्तारमित्यर्थः । शास्त्रकर्तरीश्वर इति बुद्धौ सत्यामेव तच्छास्त्रोपदेशः फलतीति भावः । कुतोऽभ्यसूयति ? तत्राह - मनुष्यं प्राकृतं मत्वेति । प्राकृतं सधारण मनुष्यं मत्वा आत्मप्रशंसादिदोषाध्यारोपणेन आत्मप्रशंसादिरूपदोषारोपणेन- ‘मत्तः परतरं नान्य’ दित्यादेरुक्तत्वाच्छ्रीकृष्णेनेति भावः । तदीयमीश्वरतत्त्वं निरवद्यमजानन् न सहते - ईर्ष्यायुक्तो भवति । अयोग्यशास्त्रोपदेशानईः । सामर्थ्याद्गम्यतेऽर्थात्सिध्यतीत्यर्थः । इदं ते अतपस्काय न वाच्यमिदं ते अभक्ताय न वाच्यमिदं ते अशुश्रूषवे न वाच्यं, यो मामभ्यसूयति तस्मा इदं न वाच्य, कदाचनेति सर्ववाक्येष्वन्वेतव्यम् । तत्रैवं सति ग्रन्थान्तरे मेधाविने तपस्विने वा वाच्यमिति मेधावि- सपस्विनोर्विकल्पस्य दर्शनात् । इहानुक्तोऽपि मेधावी ग्राह्यः । गृहीते च तस्मिन् मेघा वितपस्वित्वयो- स्समप्राधान्येन सामानाधिकरण्यं नावश्यकम् । मेघा ग्रहणधारणशक्तिः; तपश्चित्तैकाग्र्यम् । मन्द- बुद्धेरपि चित्तैकाग्र्येसति शास्त्रार्थपरिज्ञानं भवति, मेधाविनस्तु मेघावशादेव शास्त्रार्थपरिज्ञानं भवति । चित्तैकाग्र्यं त्वस्य गौणमेव । यद्वा यमनियमादिलक्षणं तपः, तद्वान् तपस्वी; बुद्धिमांस्तु मेधावी यमनियमादिरहित एव । तत्र मेघावी उत्तमाधिकारी, तपस्वी तु मध्यम इति बोध्यम् । शुश्रूषा- भक्ती तु द्वयोरपि प्रधाने एवेत्याह- शुश्रूषेति, तद्युक्तायेति । शुश्रूषाभक्तियुक्तायेत्यर्थः । शुश्रूषा- भक्तिवियुक्ताय तपस्विने न वाच्यं तादृशाय मेधाविनेऽपि न वाच्यमिदं शास्त्रमिति शेषः । शुश्रूषा- भक्तिमान् मेधावी तपस्वी वा यदि श्रीकृष्णे सासूयस्तर्हि तस्मै न वाच्यमित्याह - भगवतीति, समस्तेति । शुश्रूषाभवती मेघातपसोरन्यतरश्चेति गुणत्रयवतेऽपीत्यर्थः । यद्वा यस्य कस्यापि धन्यस्य मेघातपसी द्वे अपि भवत इति गुणचतुष्टयवतेऽपीत्यर्थः । एवं भगवत्यसूयायास्सर्वगुणावारकप्रबलदोष- स्वादेव पृथगुक्तिः । यः पुनर्न तपस्वी, नापि मेधावी; तस्यापि यदि गुरुपरिचर्या - गुरौ देवे कृष्णे च भक्तिस्तर्हि तस्मा इदं वाच्यमेवेत्याह-गुर्विति । अतएव श्रीशङ्कराचार्यस्वामिना स्वशुश्रूषाभक्तियुक्तस्य मन्दमते रतपस्विनोऽप्यानन्द गिरेश्शिष्यस्य शास्त्रोपदेशः कृतः । शास्त्रसम्प्रदायः पूर्वपूर्वस्य गुरोरुत्तरोत्तरं शिष्यप्रति शास्त्रस्योपदेश:- शास्त्रसम्प्रदाय इत्युच्यते । सम्यक् प्रदीयते शिष्यायेदं गुरुणेति सम्प्रदाय उपदेशस्तस्य विधिर्विधानम् ॥६७॥नटादशोऽध्यायः । सम्प्रदायस्य कर्तुः फलमिदानीमाह- य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ६८ ॥ ४५५ य इति । य इमं यथोक्तं परमं परमनिश्श्रेयसार्थ केशवार्जुनयोरसंवादरूपं ग्रन्थ गुह्यं गोप्यतमं मद्भक्तेषु मयि भक्तिमत्स्वभिधास्यति वक्ष्यति, ग्रन्थतोऽर्थतश्च स्थापयिष्यती- त्यर्थः । यथा त्वयि मया; भक्तेः पुनर्ग्रहणाद्भक्तिमात्रेण केवलेन शास्त्रसम्प्रदाने प्रति भव- तीति गम्यते । कथमभिधास्यतीत्युच्यते- भक्तिं मयि परां कृत्वा ‘भगवतः परमगुरो- रच्युतस्य शुश्रूषा मया क्रियत’ इत्येवं कृत्वेत्यर्थः । तस्येदं फलं मामेवैष्यति मुच्यत एव । असंशयोsa संशयः न कर्तव्यः ॥ ६८ ॥ किं च- नच तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥ नेति । नच तस्माच्छास्त्रसम्प्रदायकृतो मनुष्येषु मनुष्याणां मध्ये कश्चिन्मे मम प्रियकृत्तमोऽतिशयेन प्रियकरः, अन्यः प्रियकृत्तमः, नास्त्येवेत्यर्थो वर्तमानेषु । नच भविता य इति । यो मयि परां भक्ति कृत्वा परमं गुह्यमिमं मद्भक्तेष्वभिधास्यति स मामेवैष्यत्य सं- शयः । सम्प्रदायस्य कर्तुरुपदेष्टुरित्यर्थः । यथोक्तं पूर्वोक्तं ग्रन्थम् । परममुत्कृष्टमुत्कृष्टत्वं चास्य ग्रन्थ- स्योत्कृष्ट पुरुषार्थसाधनत्वादित्याह — परमनिश्श्रेयसार्थमिति । परमनिश्श्रेयसं मोक्षोऽर्थः फलं यस्य तं तथोक्तम् । संवादः प्रश्नोत्तरसरणिर्गोप्यतमं रहस्यं मयि भक्ता मद्भक्तास्तेषु मद्भक्तेषु प्रन्थतोऽर्थत- श्वेति प्रन्थं तदर्थं च वक्ष्यतीत्यर्थः । कथमभिधास्यतीत्यत्राह - यथेति । त्वयि मया यथाभिहितं यद्वा स्थापितं तथेत्यर्थः । ननु नाभक्ताय कदाचनेत्यनेनाभक्तेषूपदेशस्य निषिद्धत्वान्मद्भक्तेष्विति वचन- मिह व्यर्थमत आह - भक्तेरिति । भवतीति पुरुष इति शेषः । शुश्रूषा परिचर्या, तदुपदिष्टार्थस्य शिष्यप्रशिष्यद्वारा भुवि विपुलीकरणमेव तच्छुश्रूषेति भावः । न संशयोऽसंशयस्संशयस्याभावः । मदुक्तार्थे कोऽपि संशयो नास्तीर्थः । एतेन गीताशास्त्रसम्प्रदायकर्तर्मुक्तिः फलमिति सिद्धम् ||६८|| नेति । मे मनुष्येषु तस्मादन्यः प्रियकृतमः कश्चिदपि नास्ति । भुवि मे तस्मादन्यः प्रिय- तरो नच भविता । यो गीत सम्प्रदायकृद्विद्वान् स एव मम वर्तमानकाले भविष्यत्काले वाऽतिशयेन प्रियः, नतु तदन्यः कोऽपि मम प्रियतमः । ज्ञानिनः प्रियत्वं पूर्वमुक्तं स च मम प्रिय इति । यस्तु ज्ञानी सन् गीतासम्प्रदायं करोति पात्रे स तु प्रियतम इतीहोच्यते । अन्यथा गीताशास्त्रप्रसङ्गो भुवि लुप्येत यदि ज्ञानी किं मम शिष्योपदेशेनेति तूष्णीं तिष्ठेत् । तस्माद्ज्ञानि नश्शिष्योपदेश आवश्यकः; स्वयं तीर्णः परान् तारयेदिति न्यायादिति भावः । वर्तमानेष्विति । मनुष्येष्वित्यस्य विशेषणम् । ४५६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविकसित श्रीशाङ्करभाष्योपैतासु भविष्यत्यपि काले तस्माद्वितीयोऽन्यः प्रियतरः प्रियकृतरो भुवि लोकेऽस्मिन्न भविता ॥ योऽपि - अध्येष्यते च य इमं धर्म्य संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टस्स्यामिति मे मतिः ॥ ७० ॥ अध्येष्यत इति । अध्येष्यते च पठिष्यति य इमं धर्म्य धर्मादनपेतं संवादरूपं ग्रन्थ- मावयोः तेनेदं कृतं स्यात् । ज्ञानयज्ञेन विधिजपोपांशुमानसानां यज्ञानां ज्ञानयज्ञो मान- सत्वाद्विशिष्टतम इत्यतस्तेन ज्ञानयज्ञेन गीताशास्त्राध्ययनं स्तुयते । फलविधिरेव वा, देव- तादि विषयज्ञानयज्ञफलतुल्यमस्य फलं भवतीति । तेनाध्ययनेन चाहमिष्टः पूजितस्स्यां भवेय- मिति मे मम मतिर्निश्चयः ॥ ७० ॥ अथ श्रोतुरिदं फलम् - श्रद्धावाननस्यश्च शृणुयादपि यो नरः । सोsपि मुक्तश्शुभान्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥ श्रद्धावानिति । श्रद्धावान् श्रद्धधान: अनसूयश्च असूयावर्जितस्सन्निमं ग्रन्थं शृणुयादपि भविष्यत्यपि काल इति । भविष्यत्सु मनुष्येष्वपीत्यर्थः । लोकेऽस्मिन्निति । भूलोक इत्यर्थः । एवं ज्ञानिनो ज्ञानोपदेष्टुश्च भगवत्प्रियतमत्वादेव नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपति भज • विश्वनाथ’ मित्युक्तमभियुक्तैश्शिवस्य विष्णुप्रियत्वम् ॥६९॥ अध्येष्यत इति । यो धर्म्यमावयोरिमं संवादमध्येष्यते च तेन ज्ञानयज्ञेनाहमिष्टः स्यामिति मे मतिः । यज्ञानां द्रव्ययज्ञादीनां जपयज्ञश्श्रेष्ठ:- ‘यज्ञानां जपयज्ञोऽ’ स्मीत्युक्तत्वात् । स च त्रिविध:– विधिजप उपांशुजपो मानसनपश्चेति । तत्र विधिजपो वाचा विस्पष्टं बहिर्मन्त्रोचारण; उपांशुजपो निशब्द जिह्वोष्ठचलनपूर्वकं मन्त्रोचारण; मानसजपस्तु मनसि केवलं मन्त्रोच्चारणं जिह्वोष्ठचलनादि - ·· रहितम् । एषु त्रिष्वपि जपेषु मानस उत्कृष्ट :- चितैकाग्र्यपूर्वकत्वान्मानसजपस्य । स एंव मानसजप इह ज्ञानयज्ञशब्देनोच्यत इत्याह– विधीति, मानसत्वादिति । मनसोऽन्तःकरणत्वेनोत्कृष्टत्वा- सदीयोऽयं जपोऽप्युत्कृष्ट एवेति भावः । स्तुयत इति । ज्ञानयज्ञतुल्यं गीताशास्त्राध्ययनमित्युच्यत (इत्यर्थः । पक्षान्तरमाह — फलविधिरिति । तदेव विवृणोति — देवतेति । देवतादिविषयज्ञान- यज्ञस्य यत्फलं तत्तुल्यं फलमस्य गीताध्येतुर्भवतीत्यर्थः । यथा ज्ञानयज्ञेनाग्न्यादिमन्त्रजप रूपेणाऽग्न्यादि- देवता इष्टा भवन्ति, तथा गीताध्ययनेन भगवानहमिष्टो भवेयमित्यर्थः । यद्वा मानसिकनारायणाष्टाक्षरी- मन्त्रजपवद्गीताध्ययनमपि मत्प्रीतिकारणमिति भावः । तेनेति । ज्ञानयज्ञतुल्येनेत्यर्थः । अध्ययने- नेति । गीताध्ययनेनेत्यर्थः । ममेति । सर्वज्ञस्येत्यर्थः । ततश्चेश्वराभिमतत्वान्नात्र संशयादिः कार्यः । भगवद्विषयक ज्ञानयज्ञतुल्यमेव गीताध्ययनमिति सिद्धान्त एव ॥ ७० ॥ श्रद्धावानिति । यो नरश्श्रद्धावाननसूयश्च सन्नावयोरिमं संवादं शृणुयादपि सोपि सुवउस्सन् ५८ महादशोऽध्यायः । ४५७ यो नर अपिशब्दात्किमुत । अर्थज्ञानवान सोऽपि पापान्मुक्तश्शुभान्प्रशस्तान् लोकान प्राप्नुयात्पुण्यकर्मणामग्निहोत्रादिकर्मवताम् ॥७१॥ शिष्यस्य शास्त्रार्थग्रहणाग्रहण विवेकबुभुत्सया पृच्छति । तदग्रहणे ज्ञाते पुनर्ग्राह- यिष्याम्युपायान्तरेणापीति प्रष्टुरभिप्रायः, यत्नान्तरं चास्थाय शिष्यस्य कृतार्थता कर्तव्ये- त्याचार्यधर्मः प्रदर्शितो भवति-

कच्चिदेतच्छुतं पार्थ! त्वयैकाग्रेण चेतसा । A कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनंजय ! ॥ ७२ ॥ कच्चिदिति । कञ्चित्किमेतन्मयोक्तं श्रुतं श्रवणेनावधारितं हे पार्थ! त्वयैकाग्रेण चेतसा चित्तेन, किं वाऽप्रमादतः १ कच्चिदज्ञानसंमोहोऽज्ञाननिमित्तस्सम्मोहोऽविविक्त- स्वभावोऽविवेकः स्वाभाविकः किं प्रणष्टः १ यदर्थोऽयं शास्त्रश्रवणायासस्तवः मम चोपदेष्टृ पुण्यकर्मणां शुभान्लोकान्प्राप्नुयात् । शृणुयादपीत्यपिशब्दार्थमाह- अपीति । श्रोताप्येवं किमुत ? प्रज्ञावांस्तदर्थाभिज्ञ इत्यपेरर्थः । मुक्तस्य कथं पुण्यलोकप्राप्तिरत माह – पापादिति । नायं पुण्यपाप- विनिर्मुक्तः परमात्मज्ञानिवत्कितु पापादेव मुक्त इत्यर्थः । पुण्यकर्मणां स्वर्गिणाम् ॥७१॥ 1

कच्चिदिति । शास्त्रार्थस्य ग्रहणाग्रहणे ज्ञानाज्ञाने तयोर्विवेकः, तस्य बोधुमिच्छा बुभुत्सा; तया शास्त्रार्थो मदुक्तशिष्येणार्जुनेन ज्ञातो वा उताज्ञत इतीममंशं विविच्य ज्ञातुं पृच्छति कृष्ण इत्यर्थः । किं तत्फलमत आह- तदिति । तदग्रहणे शास्त्रार्थस्याग्रहणे शिष्यस्येति शेषः । ज्ञाते सति मदुक्तमर्थं शिष्योऽयं नावैदिति ज्ञाने सतीत्यर्थः । उपायान्तरेण शास्त्रार्थं ग्राहयिष्याम्यर्जुनेने. ते प्रष्टुः कृष्णस्याशयः । अनेन चाचार्य धर्म शिक्षितो भवतीत्याह - यत्नान्तरमिति । यद्येकेनोपाये - नोवतेन शिष्यः कृतार्थो न भवति तर्हचुपायान्तरेणापि शिष्यः कृतार्थी कर्तव्य आचार्येणेत्यर्थः । हे पार्थ! त्वयैकाग्रेण चेतसा एतत् श्रुतं कश्चित् ! हे घनञ्जय ! तेऽज्ञानसम्मोहः प्रणष्टः कश्चित् ? श्रोत्रेन्द्रिय- सत्त्वादर्जुनस्य श्रुतमिति प्रश्नोऽनर्थकोन आह— श्रवणेनावधारितमिति । मदुक्तं सर्व श्रुत्वा स्वकर्तव्यार्थ निश्चितवान् किमित्यर्थः । एकाग्रेण चेतसा सावधानमनसेत्यर्थः । तदेवाह अप्रमादत इति । प्रमादोऽनवधानता, तदभावोऽप्रमादः- ततोऽप्रमादतः । अज्ञानात्सम्मोहोऽज्ञानसम्मोहः पञ्च- मीति योगविभागात्समासः; यद्वा शाकपार्थिवादित्वादुत्तरपदलोपसमासः । इदमेवाह-अज्ञान निमित्तस्सम्मोहोऽज्ञानसम्मोह इति । अज्ञानं निर्मित कारणं यस्य सोऽज्ञाननिमित्तः । अविविक्तः भावो विविक्तं विवेकस्स यस्य नास्ति सोऽविविक्तस्तस्य भावोऽविविक्तभावो अविवेकित्वम् । अवि- वेकस्वभाव इति यावत् । अयं चाचिवेकः कार्याकार्यविषयः, आत्मानात्मविषयो वा उभयविधस्या- प्यविवेकस्यात्मनिष्ठस्यार्जुनेनादौ दर्शितात्- ‘पापमेवाश्रमान् हत्वा नानानि इति । यदर्थ इति । यदज्ञानसम्मोह निवृत्त्यर्थ इत्यर्थः । ते तुम्कमिति तदर्थमेयः । त्वां शोचयितुं प्रवृत इति " ४५८ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपैताम्च त्वायासः प्रवृत्तः ते तुभ्यं हे धनंजय ! ॥ ७२ ॥ अर्जुन उवाच – नष्टो मोहस्स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत ! स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ ७३ ॥ नष्ट इति । नष्टो मोहोऽज्ञानजस्समस्तसंसारानर्थहेतुः सागर इव दुरुत्तरस्स्मृतिश्चात्म- तत्त्वविषया लब्धा, यस्या लाभात्सर्वहृदयग्रन्थीनां विप्रमोक्षः; त्वत्प्रसादात्तव प्रसादान्मया त्वत्प्रसादमाश्रितेन हे अच्युत । अनेन मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलमेतावदेवेति निश्चित दर्शितं भवति; यतो ज्ञानान्मोहनाश आत्मस्मृतिलाभश्चेति । तथा च श्रुतौ– ‘अनात्मविच्छोचा’ मीत्युपन्यस्यात्मज्ञानेन सर्वग्रन्थीनां विप्रमोक्ष उक्तः; ‘भिद्यते हृदयग्रन्थिः, तत्र को मोहः कश्शोक एकत्वमनुपश्यत’ इति च मन्त्रवर्णः । अथेदानीं त्वच्छासने यावत् । ते तवेति वा भाष्यपाठः, त्वबुद्धिगत इत्यर्थः । धनंजयेति । धनञ्जयस्य तव मदुपदेशेन मोहजयस्सुकरं एवेति भावः ॥ ७२ ॥ I नष्ट इति । हे अच्युत ! त्वत्प्रसादान्मम मोहो नष्टः; मया स्मृतिर्लब्धा; त्वच्छासने स्थितोऽस्मि गतसन्देहश्वास्मि तव वचनं करिष्ये; गतसन्देहस्सन् त्वच्छासने स्थितोऽस्मीति वा । मोहोऽविवेकः । कस्मादुदितोयमत आह-अज्ञानज इति । किमस्य कृत्यमत माह – संसारेति । नचार्य मोहनाशस्सुकर इत्याह- सागर इवेति । दुरुतरः टुःखेनाप्युत्चर्तुमशक्य इत्यर्थः । किंविषया- स्मृतिरत माह — आत्मेति । आत्मतत्त्वस्मरणं जातमित्यर्थः । अनेन कृष्णोपदेशात्प्रागप्यर्जुनस्यात्म- तत्त्वज्ञानं परोक्षप्रायमस्त्येव, तस्तु मोहेनाच्छादितं मेघेन सूर्य इव भगवदुपदेशान्मोहनाशे सति पुन- स्वरस्मरणं जातमिति सूच्यते । यद्वा स्मृतिरिह ज्ञानमेवेति बोध्यम् । अथवा यत्त्वयोपन्यस्तमात्मवत्त्वं तदिदानीं स्मर्यत इत्यर्थः । एतेन स्मृतिजनक संस्कारवत्तया सुदृढमर्जुनस्यात्मज्ञानमिति सूच्यते । स्मृतिफलमाह – यस्या इति । हृदयग्रन्थीनां कामानां विशेषेण प्रकर्षेण मोक्षो विप्रमोक्षो नाश इति यावत् । मोहनाशप्रश्नप्रतिवचनेनेति । मोहो नष्टः किमिति प्रश्नः, मोहो नष्ट इति तत्प्रतिवचनं च तेनेत्यर्थः । एतावदेवेति । मोहनाशमात्रमेवेत्यर्थः । यतो यस्माद्ज्ञानाच्छास्त्रार्थभूत ब्रह्मात्मज्ञाना- दित्यर्थः । आत्मस्मृतिरात्मस्वरूपस्मरणं यत्प्रागज्ञानाद्विस्मृतमिव स्थितं तस्यात्मस्वरूपस्य सच्चिदानन्द- लक्षणस्य स्मरणमित्यर्थः । तत्साक्षात्कार इति यावत् । तल्लाभ श्वेत्येतावदेव शास्त्रार्थज्ञानफलमित्यर्थः । यस्माद्ज्ञानान्मोहनाश आत्मस्मृतिलाभश्च भवति, तस्माच्छास्त्रार्थज्ञानस्यैतावदेव फलमित्यर्थः । अनयोरपि मोहनाशमात्रमेव फलं सति तस्मिन्नात्मस्मृतेस्स्वत एव जायमानत्वादिति बोध्यम् । ‘अनात्म- विच्छोचामि तं मा भगवश्शोकस्य पारं वारय’ वित्यादिरिहानुसन्धेयः । तत्र विद्यादशायामेकत्व- मात्मैक्यमनुपश्यतो विदुषः को मोहः ? कश्शोकः ? शोकमोहौ द्वावपि न स्त इत्यर्थः । 1 V नष्टादशोऽध्यायः ४५९ स्थितोऽस्मि गतसन्देहो मुक्तसंशयः करिष्ये वचनं तवः अहं त्वत्प्रसादात्कृतार्थः; न मम कर्तव्यमस्तीत्यभिप्रायः । परिसमाप्त शास्त्रार्थ इति ॥७३॥ अथेदानीं कथासम्बन्धप्रदर्शनार्थ संजय उवाच - संजय उवाच- इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥७४॥ इतीति । इत्येवमहं वासुदेवस्य पार्थस्य च महात्मनस्संवादमिमं यथोक्तमश्रौषं श्रुतवा- नस्मि; अद्भुतमत्यन्तविस्मयकरं रोमहर्षणं रोमाञ्चकरम् ||१४|| तं चेमम्- व्यासप्रसादाच्छु तवानिमं गुह्यतमं परम् । योग योगेश्वरात् कृष्णात्साक्षात्कथयतस्स्वयम् ॥७५॥ व्यासप्रसादादिति । व्यासप्रसादात्ततो दिव्यचक्षुर्लाभाच्छु तवानिमं संवादं गुह्यतमं परं योगं, योगार्थत्वग्रन्थोऽपि योगः, संवादमिमं योगमेव वा योगेश्वरात्कृष्णात्साक्षात्कथ- वचनमिति । खदुक्तमर्थं करिष्य इत्यर्थः । युद्धं करिष्यामीति यावत् । ’ कुरु कर्मैव तस्मात्त्व’ मि- त्युक्तत्वादिति भावः । ।

? ननु साक्षात्परमेश्वरस्य श्रीकृष्णस्योपदेशादर्जुनः किं कृतार्थः ? उताकृतार्थ: : आधे- युद्धं करिष्य इत्यर्जुनवचनमयुक्तं, युद्धस्य कर्तव्यत्वेनावशेषे सति कृतकृत्यत्वाभावात् । द्वितीये यदि साक्षाच्छ्रीकृष्णेनोपदिष्टगीताशास्त्रार्थोऽप्यर्जुनोऽकृतार्थस्तर्हि अर्वाचीनैर्गुरुभिरुपदिष्टगीतार्थानां शिष्याणां कथं कृतकृत्यत्वं स्यात् ? न कथमपीत्याशङ्कायामाह – अहमिति । ननु करिष्ये वचनं तवेति कण्ठत उक्तत्वात्कथं मम कर्तव्यं नास्तीत्यभिप्रायस्य सिद्धिरिति चेत्, उच्यते– त्वत्प्रसादादात्मस्मृति- लामेन मम सर्वकामप्रहाणात्कृतार्थ एवाहं मम चाविक्रियस्यात्मनः किमपि न कर्मास्ति, लोकसंग्रहार्थं भूभारहरणार्थतया आवयोरवतीर्णत्वेन तत्प्रारब्धानुगुणं तत्प्रारब्धक्षपणार्थे च क्षत्रियस्वभावसिद्धं युद्धाख्यं कर्म भवानिव लोकसृष्ट्यादिकं कर्म करिष्ये केवलं लीलयेति पार्थस्याशयात् । आचार्य कर्तृकशास्त्रा- र्थोपदेशस्य कृतार्थोऽहमिति शिष्यवचनश्रण मेवावसानमित्यभिप्रेत्याह- परिसमाप्तश्शास्त्रार्थ इति ॥ ७३ ॥ इतीति । महं रोमहर्षणमद्भुतमितीमं महात्मनो वासुदेवस्य पार्थस्य च संवादमश्रौषम् ॥ ७४ ॥ व्यासेति । अहं साक्षात्स्वयं कथयतो योगेश्वरात् कृष्णाच्या सप्रसादाद्गुह्यतमं परं योगमिमं श्रुतवान् । कोऽसौ व्यासप्रसादोऽत आह- दिव्यचक्षुर्लाभादिति । दिव्यचक्षुर्दान रूपन्यासप्रसादा- दित्यर्थः । यतिव्यवहितमपि दुर्दर्शमर्थमव्यवहितमिव येन पश्यति तद्दिव्यचक्षुः ; योगिनां स्वाभाविक- ‘मिदं चक्षुः । अत एवातीन्द्रियार्थदर्शिनो योगिनः । इदंशब्दार्थमाह- संवादमिति । प्रन्थमित्यर्थः 1 मन्थस्य कथं योगत्वमतं नाह- योगार्थत्वादिति । योगः कर्मयोगज्ञानयोगो भयात्मकः स एवार्थोऽ- ४६० श्रीभगवद्गीता भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपता यतस्स्वयं, न परम्परया ॥७५॥ राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥७६ || राजन्निति । हे राजन् धृतराष्ट्र ! संस्मृत्य संस्मृत्य प्रतिक्षणं संवादमिममद्भुतं केशवार्जुनयो: पुण्यमिमं श्रवणेनापि पापहरं श्रुत्वा हृष्यामि च मुहुर्मुहुः प्रतिक्षणम् ॥ ७६ ॥ तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान् राजन् ! हृष्यामि च पुनः पुनः ॥७७॥ तदिति । तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेर्विश्वरूपं विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥७७॥ किंबहुना - यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्धृवा नीतिर्मतिर्मम ॥७८॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुनसंवादे मोक्षसन्न्यासयोगो नामाऽष्टादशोऽध्यायः । यत्रेति । यत्र यस्मिन्पक्षे योगेश्वरस्सर्वयोगानामीश्वरस्तत्प्रभवत्वात्सर्वयोगबीजस्य भिधेयो यस्य तत्त्वात् । अत एवास्य योगशास्त्रत्वमिति भावः । योगप्रतिपादकं शास्त्रं हि योगशास्त्रम् । नं चात्मसंयमयोगादयो बहव इहोक्ता इतिकृत्वा किमिति कर्मज्ञानयोगद्वयमेव स्वयोक्तमित्युच्यत इति वाच्यं सर्वेषां योगानां तदुभयेऽन्तर्भावात् । व्याख्यानान्तरमाह – संवादमिति । संवादरूपमिमं योगमित्यर्थः । योगेश्वरादिति । कर्मयोगज्ञानयोगफलप्रदातन्निव हिकाचेत्यर्थः । न हीश्वरानुग्रहाभावे कर्मयोगे ज्ञानयोगे वा प्रवृतः पुरुषस्तत्पारं पश्येदिति भावः । साक्षात्स्वयं कथयत इत्यस्यार्थमाह- न परम्परयेति । एतेन नात्र ग्रन्थलोपतद्विस्तराद्याशङ्का कर्येति सिद्धम् ॥७५॥ राजन्निति । हे राजन् ! इमं पुण्यमद्भुतं केशवार्जुनयोरसंवादं संस्मृत्य संस्मृत्य मुहुर्मुहु- हृष्यामि च । संस्मृत्य संस्मृत्येति नित्यार्थे द्विर्भावः । कदा संस्मृत्येत्यत आह- प्रतिक्षणमिति । क्षणेक्षण इत्यर्थः । श्रवणेनापीति । किं पुनस्तदर्थानुष्ठानेनेति भावः । गीताशास्त्रस्याबन्धकत्वा- स्पुण्यप्रदमिति नोक्तं, किंतु पापहरमित्युक्त मि★ि बोध्यम् । हृष्यामि हर्षे प्राप्नोमि ॥७६॥ / तथेति । हे राजन् ! तचान्यद्भुतं हरे रूपं संस्मृत्य संस्मृत्य मे महान् विस्मयो भवति; पुनः पुनः हृष्यामि च ॥७७॥ यत्त्रेति । एवं सञ्जयोक्तं श्रुत्वापि दुर्योधनविजयाकांक्षिणं सर्वात्मनाऽन्धं धृतराष्ट्रं दृष्ट्रा प्राइ V दशोऽप्ययेः । । 电 कृष्णः, यत्र यस्मिन्पक्षे धनुर्धरो गाण्डीवधन्वा तत्र श्री:, तस्मिन्पाण्डवानां पक्षे श्रीर्विजयः, तत्रैव भूतिविश्रयो विशेषो विस्तारो भूतिः, ध्रुवाऽव्यभिचारिणी नीतिर्नय इत्येवं मति- ममेति ॥ ७८ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये मोक्ष- सन्न्यासयोगो नामाष्टादशोऽध्यायः । श्रीमद्भगवद्गीताभाष्यं सम्पूर्णम् । हरि ओम् ।

सञ्जयः - यत्रेति । यत्र योगेश्वरः कृष्णोऽस्ति यत्र धनुर्धरस्स पार्थोऽस्ति तत्र श्रीर्विजयो मूति- नीतिश्च ध्रुवेति मम मतिः । सर्वेषां योगानां यद्बीजं कारणं गीताशास्त्रं तस्य सत्प्रभवत्वात्स कृष्णः प्रभवः कारणं यस्य तत्त्वात्; कृष्णेनोकत्वादित्यर्थः । यद्वा सर्वस्यापि योगलक्षणस्य बीजस्य तत्प्रभ- बत्वात् । स्मथ वा सर्वेषामपि योगिनां यद्योगबीजमस्ति तस्य तत्प्रभवत्वात्; यद्वा सर्वयोगबीजस्य सत्त्वगुणस्य तत्प्रभवत्वात्सर्वमपि योगात्मकं बीजं; तस्मादीश्वरानुप्रहादित्यर्थः । प्रभवति वर्धते अंकुरी- भवतीति वा तत्प्रभवं तस्य भावस्तत्प्रभवत्वं तस्मात् यद्वा योगो बीजं यस्य तद्योगबीज सर्वे च तद्योगबीजं च सर्वयोगबीज तस्य सर्वस्यापि योगफलस्येत्यर्थः । तत्प्रभवस्व । दीश्वरजन्यत्वादीश्वराधीनत्वा- दिति यावत् । नास्य धनुरसर्वसाधारण मिति द्योतयितुमाह – गाण्डीवधन्वेति । गाण्डीव धनुर्यस्य स गाण्डीवधन्वा ।’ श्रीसम्पत् ध्रुवा । विजयो जयो ध्रुव इति लिनविपरिणामेन योज्यम् । भूतिशब्दार्थ- माह - श्रियो विशेष इति । सम्पद्विस्तार इत्यर्थ । भ्र्वाऽव्यभिचारिणी; सत्येत्यर्थः । शाश्वतेति वा । राइस्समीपे भृत्यस्य विनयेन भवितव्यत्वात् ध्रुवा नीतिरिति ध्रुवमिति नोतं; किंतु मतिर्ममेत्युक्तम् । कृष्णार्जनवति पक्षे श्रीविजयादिकं वस्तुतो भविष्यतु वा मा वा । मम तु भविष्यत्येवेति प्रतिभातीति विनयप्रदर्शनं, वस्तुतो भविष्यत्येवेति निश्वय एव सञ्जयस्य दृष्टकृष्णमाहात्म्यत्वा द्विश्वरूपप्रसङ्गे । इतीदमभिप्रेत्याह भगवान् भाष्यकारः – मम त्विति । तुशब्दादन्येषां भवदादीनामन्यथा प्रतिभातु नामेति सूच्यते — ममेति इति भाष्यपाठे त्वितिशब्दो भाष्यसमाप्तिवाचीति बोध्यम् ॥७८॥ 1 इति श्री बेल्लकोण्डोपनामक रामकविवरकृते श्रीमच्छङ्करभगवद्गीताभाष्यार्कप्रकाशे अष्टादशोऽध्यायः । समाप्तोऽयं ग्रन्थः । सौम्यज्येष्ठामायामर्पितश्व श्रीहयवदनाम । ४६२ श्रीभगवद्गीताम्नु- माष्यार्कप्रकाशविकसित मीशाङ्करभाष्योपता श्रीः मोक्षसन्न्यासयोगो मोक्षप्रदकर्म सन्न्यासयोगप्रतिपादक इत्यर्थः । सर्वधर्मानिति चरमश्लोके तस्यैव प्रतिपादितत्वादिति भावः । इलो || श्रीकृष्णलीला उपवर्ण्य कृष्णलीलातरङ्गिण्यभिधे प्रबन्धे । श्रीकृष्ण गीतार्थमवर्णयय एवं स रामोऽहमहो ! कृतार्थः ॥ श्री कृष्णपादाब्जम रन्दपानात्कृष्ण स्वरूपामृतपानतश्च । तृप्तस्य रामस्य कवेः प्रकाशः प्रकाशतामारवि माघवाप्तः ॥ श्रीकृष्णभक्त्या क्रियते बताज्ञोऽप्यात्मज्ञ इत्यत्र कविं प्रमाणम् । विज्ञाय कृष्णे सगुणेऽगुणे वा भक्ति मुमुक्षुर्वितनोतु नित्यम् ॥ प्राग्गोदावरीमण्डलान्तर्गत अमलापुरंतालुका भट्नविल्लिग्रामसंस्थापित श्रीशारदा मुद्रणालये सुद्रापितोऽयंग्रन्थः । १९५६ । SRI BELLAMKONDA RAMA RAYA KAVINDRA TRUST Do.No.12-8-5/5 NARASARAOPET. REG NO: - 112/bk - q/09. గౌరవాధ్యక్షులు: అధ్యక్షులు : ఈ శ్రీ ఆచార్య బెల్లంకొండ శ్రీనివాస్ వాజపాయి యాజ ప్రొ॥ శ్రీ బెల్లంకొండ వంకట సుబ్రహ్మణ్య శర్మ ఉపాధ్యక్షులు: ప్ర॥ శ్రీ బెల్లంకొండ రామకోటేశ్వరరావు ప్రధాన కార్యదర్శి 8| శ్రీ బెల్లంకొండ నరసింహారావు సహాయ కార్యదర్శి ॥ శ్రీ బెల్లంకొండ మోహనరావు జోశాధికారి: శ్రీ శ్రీ విల్లందాండ వేంకట లక్ష్మీనరసింహదక్రదర్ కుమార్ కార్యనిర్వాహన సభ్యులు : ఊ శ్రీ విల్లంకొండ వెంకట కృష్ణ రాఘవేంద్రరావు కార్యనిర్వాహన సభ్యులు : బ్రా॥ శ్రీ బెల్లంకొండ సాయిరామ్