१७

श्रीहयग्रीवाय नमः । भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतासु सप्तदशोऽध्यायः । ‘तस्माच्छास्त्रं प्रमाणं ते’ इति भगवद्वाक्याल्लब्धप्रश्नबीजोऽर्जुन उवाच - ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः । तेषां निष्ठा तु का कृष्ण ! सत्त्वमाहो रजस्तमः ॥ १ ॥ य इति । ये केचिदविशेषिताश्शास्त्रविधिं शास्त्रविधानं श्रुतिस्मृतिशास्त्र चोदनामुत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धयाऽन्विताः श्रद्धयाऽऽस्तिक्यबुद्ध्याऽन्विताः स्संयुक्तास्सन्तः – श्रुतिलक्षणं स्मृतिलक्षणं वा कञ्चिच्छास्त्रविधिमपश्यन्तो वृद्धव्यवहार- दर्शनादेव श्रद्दधानतया ये देवादीन् पूजयन्ति त इह ‘ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विता’ इति गृह्यन्ते । ये पुनः कञ्चिच्छास्त्रविधिमुपलभमाना एव तमुत्सृज्य यथा- विधि देवादीन् पूजयन्ति त इह ‘ये शास्त्रविधिमुत्सृज्य यजन्त’ इति न परिगृह्यन्ते । कस्मात् १ श्रद्धयाऽन्वितत्व विशेषणात् । देवादिपूजाविधिपरं किञ्चिच्छास्त्रं पश्यन्त एव लब्धप्रश्नबीज इति । तव शास्त्रं प्रमाणमित्युक्तत्वेन केषांचिच्छास्त्रं प्रमाणं न भवत्येवेति सिद्धत्वात्तदीयगतिं प्रष्टुमर्जुनस्यावकाश आसीदिति भावः । ये शास्त्रविधिमुत्सृज्य श्रद्धयाऽन्वितास्सन्तो यजन्ते हे कृष्ण ! तेषां तु निष्ठा का ? किं सत्त्वं निष्ठा ? आहो रजः ! यद्वा तमः ? अवशेषिताः पूर्वमनुक्ता इत्यर्थः । यज देवपूजेति धातुपाठादाह - देवादी निति वृद्धेति । यथा वृद्धाः प्रचीना येषु येषु कर्मसु प्रवृत्तास्तान् दृष्ट्रा श्रुत्वा वा स्वयमपि तथा तेषु तेषु प्रवृत्ताश्श्रद्धायुक्तास्सन्त इत्यर्थः । ननु शास्त्रविधिमुत्सृज्य देवादीन् यजमाना इमे किं शास्त्रविदोऽप्यासुरसम्पत्प्रयुक्ततया शास्त्र- विधि त्यक्तवन्तः ? किं वाऽशास्त्रविदोऽज्ञा विष्यपरिज्ञानाच्छास्त्रविधि त्यक्तवन्तः ? इति शङ्काय द्वितीयविकरूपं परिगृह्य समाधत्ते श्रुतीति । इति गृहान्त इतीतिवाक्येन प्रतिपाद्यन्त इत्यर्थः । प्रथमं विकरूपं निराचष्टे - ये पुनरिति । तत्र हेतुं पृच्छति — कस्मादिति । उत्तरयति — श्रद्धयेति । तदेव संग्रहभूतं हेतुवाक्यं विवृणोति — देवादीति । शास्त्रविधि विद्वांसोऽपि ये परित्यजन्ति तेषां तत्परित्यागे कारणं शास्त्रविधौ श्रद्धाभाव एव । शास्त्रविधिमदिदुषां तत्परित्यागे तु शास्त्रविधि - 11

सप्तदशोऽध्यायः । २६३ तदुत्सज्याश्रद्दधानतया तद्विहितायां देवपूजायां श्रद्धयाऽन्विताः प्रवर्तन्त इति न शक्यं कल्पयितुं यस्मात्तस्मात्पूर्वोक्ता एव ‘ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विता’ इत्यत्र गृह्यन्ते । तेषामेवम्भूतानां निष्ठा तु का कृष्ण ! सच्वमाहो रजस्तमः, किं सत्त्वं निष्ठात्र- स्थानं, आहोस्विद्रजः, अथ वा तम इति । एतदुक्तं भवति - या तेषां देवादिविषया पूजा, सा किं साचिकी, आहोस्विद्राजसी, उत तामसीति ॥ १ ॥ सामान्यविषयोऽयं प्रश्नो नाप्रविभज्य प्रतिवचनमर्हतीति श्रीभगवानुवाच श्रीभगवानुवाच - त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ! ॥२॥

त्रिविधेति । त्रिविधा त्रिप्रकारा भवति श्रद्धा, यस्यां निष्ठायां त्वं पृच्छसि देहिनां शरीरिणां सा स्वभावजा; जन्मान्तरकृतो धर्मादिसंस्कारो मरणकालेऽभिव्यक्तस्स्वभाव उच्यते । ततो जाता स्वभावजा । सान्त्रिकी सच्चनिर्वृत्ता देवपूजादिविषया; राजसी रजो- निर्वृत्ता यक्षरक्षः पूजादिविषया; तामसी तमोनिर्वृत्ता प्रेतपिशाचादिपूजाविषया । एवं त्रिविधां तामुच्यमानां श्रद्धां शृण्ववधारय ! सैव त्रिविधा भवति ॥२॥ I ज्ञानाभाव एव कारणं, नतु श्रद्धाऽभावः । नच शास्त्रविधिमविदुषां कुतस्तस्मिन् श्रद्धावकाश इति • वाच्यं वृद्धव्यवहारदर्शनानुमिते यत्किञ्चिद्विधौ तेषां श्रद्धायास्सरवादिति । अश्रद्दधानतया तदुत्सृज्ये- त्यन्वयः । तदित्यस्य शास्त्रमित्यर्थः । तद्विहीनायां शास्त्र विविरहितायां देवादिपूजायां श्रद्धयाऽन्विताः प्रवर्तन्त इति कल्पयितुं यस्मान्न शक्यमित्यन्वयः । तस्मादेवं कल्पयितुं न शक्यत्वादित्यर्थः । पूर्वोक्ता एवेति । अशास्त्रविद एवेत्यर्थः । शास्त्रविधिमविद्वांसोऽप्यज्ञाः श्रद्धया देवादिपूजायां प्रवर्तमाना दृश्यन्ते । तेषां सा प्रवृत्तिः किं सत्त्वकृता ? उत रजःकृता ? मथ वा तमः कृता ? इति प्रश्ननिष्कर्षः । सत्त्वं निष्ठेति । नितिष्ठति प्रतिष्ठत्यस्यामिति निष्ठा प्रतिष्ठा । आश्रय इति यावत् । अव - तिष्ठत्यस्मिन्नित्यवस्थानं, यद्वा भावार्थवाची निष्ठाशब्दः । निष्ठाऽवस्थानं स्थितिरिति यावत् । औप- चारिकोऽयं प्रयोगः । निष्ठेति निष्ठाश्रये वस्तुनि । किं ते सत्त्वे तिष्ठन्ति ? उत रजसि यद्वा तमसि ? इति फलितार्थः । एवं श्लोकार्थस्य दुर्बोधत्वादाह – एतदुक्तं भवतीति । तेषामि- त्यविदुषामित्यर्थः । अविद्वत्तयोत्सृष्टशास्त्र विधीनामिति वा ॥१॥ त्रिविधेति । सामान्यविषयोपि प्रश्नः प्रविभज्य विशिष्य प्रतिवचनमर्हतीति न्यायाच्छ्रद्धया- न्विता इति सामान्येनोतेऽप्यर्जुनेन भगवान् तां प्रविभज्य उत्तरयति - त्रिविधेत्यादिना यस्या- मिति । श्रद्धायामित्यर्थः । यद्यपि सत्त्वादिनिष्ठैवार्जुनेन पृष्टा, तथापि तत्प्रश्नस्य श्रद्धा निष्ठायामेव पर्यवसानमिति बोध्यम् । स्वभावशब्दार्थमाह-जन्मान्तरेति । अतीतानेकजन्मकृतानां बहूनां धर्मा- धर्माणां संस्कारा अविद्यायामन्तः करणे वा वर्तमानास्सन्तः कर्मशब्देनोच्यन्ते । तत्र यत्कर्म मरण- । २६४ श्रीभगवद्गीतासु भाष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सत्वानुरूपा सर्वस्य श्रद्धा भवति भारत ! श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धस्स एव सः ॥ ३ ॥ सत्त्वानुरूपा विशिष्टसंस्कारोपेतान्तःकरणानुरूपा सर्वस्य प्राणि- यद्येवं ततः किं स्यादित्युच्यते - श्रद्धामयोऽयं श्रद्धाप्रायः सत्त्वानुरूपेति । जातस्य श्रद्धा भवति हे भारत ! पुरुषस्संसारी जीवः । कथम् ? तच्छुद्धानुरूप एव स जीवः ॥ ३ ॥ यो यच्छ्रद्धो या श्रद्धा यस्य जीवस्य स यच्छ्रद्धस्स एव ततश्च कार्येण लिङ्गेन देवादिपूजया सच्चादिनिष्ठाऽनुमेयेत्याह- यजन्ते साचिका देवान् यक्षरक्षांसि राजसाः । प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः || ४ || यजन्त इति । यजन्ते पूजयन्ति सात्त्विका सच्वनिष्ठा देवान्, यक्षरक्षांसि राजसाः, प्रेतान् भूतगणांश्च सप्तमातृकादींश्चान्ये यजन्ते तामसा जनाः || ४ || कालेऽभिव्यज्यते तदेवो तर जन्मारम्भकत्वात्प्रारब्धमित्युच्यते, तदेवेह स्वभावशब्देनोच्यत इति । देहिनां श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा भवति सा स्वभावजा भवति । तां शृणु इत्यन्वयः । देहिनां स्वभावजा सा श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा भवति, तां श्रुणु इति वा । प्रारब्धवशात् केषांचिद्देहिनां सात्त्विकी श्रद्धा भवति केषांचिद्राजसी, केषांचित्पुनस्तामसी । इयं श्रद्धा सात्त्विकी, पुनरियं राजसी, पुनरियं तामसीति ज्ञानोपायं सूचयति देवपूजादिविषयेत्यादि विशेषणदानेन । प्रारब्धवशात्केचित्सात्त्विक श्रद्धया देवादीन् यजन्ते, केचिद्राजसश्रद्धया यक्षरक्षः प्रमुखान् केचित्तामस - श्रद्धया प्रेतपिशाचादीनिति परमार्थः । सैवमिति । सा श्रद्धा एवमुक्तरीत्या | अत्र शास्त्रीयश्रद्धात्रैविध्यं तावदाहेति रामानुजः, तदयुक्तम् - देहिनामित्यविशेषेण निर्दे- शात् । अशास्त्रीयश्रद्धाया अपि सात्त्विकादित्रैविध्यसम्भवाच ॥२॥ सत्त्वेति । हे भारत ! सर्वस्य सत्त्वानुरूपा श्रद्धा भवति । अयं पुरुषः श्रद्धामयो भवति । यो यच्छ्रद्धरस स एव भवति । सत्त्वमन्तःकरणम् । कीदृशमिदमत आह - विशिष्टेति । ततत्पुरुष- ‘नियतधर्माधर्मादिसंस्कारोपेतमित्यर्थः । तस्यानुरूपा सत्त्वानुरूपा । श्रद्धाप्रायः प्रचुरश्रद्धः । प्राचुर्ये मयविधानात् । श्रद्धा प्रकृतमुच्यते यस्मिन् स श्रद्धामय इति समासः । अससार्यसङ्गात्मनः कथं श्रद्धासङ्गोऽत आह— संसारीति, स एवेति । अन्नमयो यज्ञ इतिवत् । तच्छूद्ध एवेत्यर्थः । यो जीवो यच्छ्रद्धस्स तच्छूद्ध एव । किमनेनाभिप्रेतमत आह— तच्छ्रद्वानुरूप एवेति । तच्छूद्धानु- गुणप्रवृत्तिरित्यर्थः । सर्वे पुरुषाः स्वस्वसात्त्विक्यादिश्रद्धानुसारेण देवपूजादिषु प्रवर्तन्त इत्यर्थः । श्रद्धामय इत्यत्र विकारार्थे मयटमभिप्रेत्य श्रद्धापरिणाम इत्याह रामानुजः, तन्मन्दम् — पुरुषस्य श्रद्धाविकारत्वासम्भवात् ॥३॥ यजन्त इति । ततश्चेति । श्रद्धानुरूपत्वात्पुरुषप्रवृतेरित्यर्थः । कार्येणेति । सत्त्वादिनिष्ठा३४ सप्तदशोऽध्यायः । २६५ एवं कार्यतो निर्णीतास्सच्त्वादिनिष्ठाश्शास्त्रविध्युत्सर्गे । तत्र कश्चिदेव सहस्रेषु देव- पूजादितत्परस्तत्त्वनिष्ठो भवति, बाहुल्येन तु रजोनिष्ठास्तमो निष्ठाश्चैव प्राणिनो भवन्ति । कथम् ? - अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥ अशास्त्रेति । अशास्त्रविहितं न शास्त्रविहितमशास्त्रविहितं घोरं पीडाकरं प्राणिना- मात्मनश्च तपस्तप्यन्ते निर्वर्तयन्ति ये तपो जनाः; ते च दम्भाहङ्कारसंयुक्ताः- दम्भश्वाह- ङ्कार दम्भाहङ्कारौ ताभ्यां संयुक्ता दम्भाहङ्कारसंयुक्ताः, कामरागबलान्विताः- कामथ रागथ कामरागौ तत्कृतं बलं कामरागबलं तेनान्विताः कामरागबलैर्वाऽन्विताः ||५|| कर्शयन्तश्शरीरस्थं भूतग्राममचेतसः । मां चैवान्तरशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥६॥ कर्शयन्त इति । कर्शयन्तः कृशीकुर्वन्तश्शरीरस्थं भूतग्रामं करणसमुदायमचेतसोऽवि- वेकिनो मां चैव तत्कर्मबुद्धिसाक्षिभूतमन्तश्शरीरस्थं नारायणं करीयन्तः, मदनुशासनाकरण- मेव मत्कर्शनं, तान् विद्धि, आसुरनिश्चयान् आसुरो निश्चयो येषां ते आसुरनिश्वयास्तान् परिहरणार्थ विद्धीत्युपदेशः ॥ ६ ॥ कार्यमूतया देवादिपूजयैव लिङ्गेन कारणभूता सत्त्वादिनिष्ठाऽनुमातुं शक्याऽनुमेया | अस्य सत्त्व- निष्ठाऽस्ति देवपूजकत्वाद्यस्सत्त्वनिष्ठस्स देवान् पूजयति, यो नैवं स नैवं यथा रजोनिष्ठस्तमो निष्ठश्च देवान्न पूजयति, एवमादिप्रयोगा ऊयाः । सत्त्वनिष्ठा इति । सात्त्विकश्रद्धायुक्ता इत्यर्थः । स्वधर्मात्प्रच्युता विप्रादयो देहपातादूर्ध्वं वायवीयं देहमापन्नाः प्रेता इत्युच्यन्ते ॥४॥ अशास्त्रेति । ये जना अचेतसो दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताचं सन्तश्शरीरस्थं भूतग्राममन्तश्शरीरस्थं मां चैव कर्शयन्तस्सन्तश्चाशास्त्रविहितं घोरं तपस्तप्यन्ते तानसुरनिश्चयान्विद्धि । शास्त्रविध्युत्सर्ग इति । शास्त्रविधिसामान्ये । तत्रेति । एवं निर्णीते सति । देवपूजादितत्परो देवब्राह्मण गुरुपित्रादिपूजासक्तः । सत्त्वे निष्ठा यस्य सः सत्त्वनिष्ठः ॥५॥ करीयन्त इति । कृशीकुर्वन्तः पीडयन्तस्स्वस्वव्यापार निर्वर्तनाक्षमं कुर्वन्त इत्यर्थः । न हीन्द्रि- याणां शरीरस्येव स्वरूपतः कायै सम्भवति । शरीरस्थत्वविशेषणादाह - भूतग्रामं करणसमुदाय- मिति । करणानि समनस्कानीन्द्रियाणि । अचेतस इति । चेतनानां चेतो राहित्यासम्भवादाह- अविवेकिन इति, साक्षिभूतमिति । साक्षितया प्रत्यग्रूपेण स्थितमित्यर्थः । नारायणमिति । पर- मात्मानम् । आसुरनिश्चयानिति । दम्भाहङ्कारपरपीडनादीनामसुरधर्मत्वादिति भावः । आसुरनिश्वया- निति रामानुजीयपाठस्तु अणो वैयर्थ्यादुपेक्ष्यः ||६|| २६६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु आहारादीनां च रस्यस्निग्द्धादिवर्गत्रयरूपेण भिन्नानां यथाक्रमं साच्चिकराजसतामस- पुरुष प्रियत्वप्रदर्शन मिह क्रियते । यतो रस्यस्निग्धादिष्वाहारविशेषेष्वात्मनः प्रीत्यतिरेकेण लिङ्गेन सात्विकत्वं राजसत्वं तामसत्वं च बुध्वा रजस्तमो लिङ्गानामाहाराणां परिवर्जनार्थ सच्चलिङ्गानां चोपादानार्थम् । तथा यज्ञादीनामपि सच्चादिगुणभेदेन त्रिविधत्वप्रतिपादन मिह ‘राजसतामसान्बुध्वा कथं नु नाम परित्यजेत् सात्त्विका नेवानुतिष्ठे’ दित्येवमर्थं चाह- आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ! ॥७॥ आहार इति । आहारस्त्वपि सर्वस्य भोक्तुः प्राणिनस्त्रिविधो भवति प्रिय इष्टः, तथा यज्ञः, तथा तपः, तथा दानम् । तेषामाहारादीनां भेदमिमं वक्ष्यमाणं शृणु ! ॥७॥ आयुस्सच्चचलारोग्यसुखप्रीतिविवर्धनाः । रस्य स्निग्धास्थिरा हृद्या आहारास्साच्चिकप्रियाः ॥ ८ ॥ आयुरिति । आयुश्च सत्त्वं च बलं चारोग्यं च सुखं च प्रीतिश्रायुस्सच्चबलारोग्य- सुखप्रीतयस्तासामायुस्सत्त्वादीनां विवर्धना आयुस्तत्त्वबलारोग्यसुखप्रीतिविवर्धनाः, ते च रस्या रसोपेताः, स्निग्धास्स्नेहवन्तः, स्थिराश्चिरकालस्थायिनो देहे, हृद्या हृदयप्रियाः, आहारास्सात्त्विकप्रियास्सात्विकस्येष्टाः ||८|| कट्ठाम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥९॥ कद्विति । कट्राम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन इत्यवातिशब्दः कट्टादिषु सर्वत्र योज्यः, अतिकटुरतितीक्ष्ण इत्येवम् । कटुवाम्लश्च लवणश्चात्युष्णश्चातितीक्ष्णश्च रूक्षश्च आहार इति । कथं नु नामेति । अतिप्रयासेनेत्यर्थः । सर्वस्यापि त्रिविध आहारस्तु प्रियो भवति । त्रिविधो यज्ञः प्रियो भवति । तथा त्रिविधं दानं प्रियं भवति । इमं तेषां भेदं शृणु ! ॥ ७ ॥ आयुरिति । आयुश्शरीरे प्राणवायुसञ्चारः । सत्त्वं गुणविशेषः । बलं शरीरेन्द्रियपाटव- मारोग्यमरोगता । विशेषेण वर्धयन्तीति विवर्धनाः । रसोपेता इति । नतु नीरसा इत्यर्थः । मधुरसोपेता इति रामानुजः, तदयुक्तम् — केवलमधुरसाहारस्यापि रोगादिहेतुत्वात् । स्नेहो द्रवः । चिरकालं स्थातुं शीलं येषां ते चिरकालस्थायिनः । ववेत्यत आह- देहे इति । रक्त- मांसादिरूपेणेति भावः । स्थिरपरिणामा इति रामानुजार्थस्तु लाक्षणिकत्वादुपेक्ष्यः ॥८॥ कट्टिति । कट्ादिरसानां सर्वात्मनाऽभावस्यारुच्यादिहेतुत्वात्सात्त्विकस्यापि कट्टादिरससेवा मावश्यक्येवेत्यत आह— अतिशब्द इति । कटुस्तिक्तः कटुरसस्य तीक्ष्णशब्देनोक्तत्वात् । अतिकटु- निम्बादिः । मत्याम्लातिलवणौ प्रसिद्धौ । अत्युष्णः पाकोत्तरक्षणकालिकान्नादिः अतितीक्ष्णः श्लेष्म- सप्तदशोऽध्यायः । । २६७ विदाही च कट्राम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः, एवंविधा आहारा राजसस्येष्टशः, दुःख- शोकामयप्रदाः- दुःखं च शोकं चामयं च प्रयच्छन्तीति दुःखशोकामयप्रदाः ||९| यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥१०॥ यातयाममिति । यातयामं मन्दपक्त्रं निर्वीर्यस्य गतरसशब्देनोक्तत्वात् । गतरसं रसवियुक्तं, पूति दुर्गन्धि, पर्युषितं च पक्वं सद्रात्र्यन्तरितं च यत्, उच्छिष्टमपि भुक्तशिष्ट- मुच्छिष्टं, अमेध्यमयज्ञार्ह, भोजनमीदृश तामसप्रियम् ॥ १०॥ प्रकोपकः मरिचादिः । अति रूक्षश्शोषकरो वातप्रकोपः कोद्रवादिः । अतिविदाही तापकरः; पित्त- प्रकोपकस्सर्षपादिः । आमयं रोगम् । ‘प्राघ्राध्मेति दाणो यच्छादेशादाह - प्रयच्छन्तीति ॥९॥ यातयाममिति । यातो यामः पाकस्य नियमो यस्य तद्यातयामं यावत्कालं यस्य पाकः कर्तव्यस्तावत्कालं तस्य पाकेऽकृते सति तदन्न यातयाममित्युच्यते । इदमेवाह - मन्दपक्वमिति । मन्दमं यथातथा पक्वं मन्दपकम् । ‘पचो व’ इति निष्ठायां वः । नचानुपसृष्टस्य यमधातोर्नियमार्थो नास्तीति वाच्यं द्योतकत्वनियमादुपसर्गाणां धातूनामेवानेकार्थत्वात् । ननु यातो यामश्श्रेष्ठांशो यस्य तद्यातयामं निर्वीर्यमित्यक्लिष्टार्थस्य कुनः परित्यागोऽत आह-निर्वीर्यस्येति । आहारस्य रसो हि वीर्यम् । ननु यातयामं यातप्रहरं चिरकालावस्थितमिति रामानुजार्थस्समीचीन इति चेत्, मैवम्- पर्युषितमित्यनेन चिरकालावस्थितस्योक्तत्वात् । रात्र्यन्तरितं हि पर्युषितं यातयामं चिरकालावस्थित भवति । नच कालातिपत्त्या रसान्तरापनं पर्युषितं कालातिक्रममात्रदुष्टं यातयाममिति भेदोस्तीति वाच्यं, रसान्तरापत्त्यादिकं विना कालातिक्रममात्रेण यस्य कस्याप्याहारस्य दुष्टत्वाभावात् । नहि राज्यन्तरितं गङ्गाजलं कूपजलवद्दुष्टं भवति । नापि राज्यन्तरितं माषवटकादिभक्ष्यमन्नादिवदुष्टं भवतीति । दुर्गन्धि दुष्टो गन्धो दुर्गन्धः, सोऽस्यास्तीति दुर्गन्धि । पर्युषितमिति । यत्पवं सद्रा - त्र्यन्तरितं तत्पर्युषितं यातयामाद्भेदप्रदर्शनार्थ पक्वं सदिति । पक्कस्यापि दुष्टत्व प्रदर्शनार्थ राज्यन्तरित- मिति । भुक्तशिष्टमिति । भुक्तावशेष इत्यर्थः । रामानुजस्तु — गुर्वादिभ्यो ऽन्येषां भुक्तशिष्टमित्याह, तदयुक्तम् — शिष्याय श्रोत्रियाय स्वभुक्तावशेषप्रदानेन गुरोर्दोषप्रसङ्गात् । तथोपनीताय पुत्रायोच्छिष्टप्रदानेन पितुर्दोषप्रसङ्गाच्च । तथा शिष्टाचारादर्शनाच्च । यदि वैष्णवादीनामयं गुर्वाद्युच्छिष्टान्न भोजनं शिष्टाचारस्तर्हि चक्राङ्कनादिशिष्टा- चारसम्पन्नानां तेषां तदपि शिष्टाचार एव भवतु, स्मार्तानां तु न तथा । नचत्र गुर्वादिभिन्नोच्छिष्ट- मिति मूलं दृश्यते, किंतुच्छिष्टमित्येव । तस्य चैवं सङ्कोचनमन्याय्यमिति स्फुटम् । अमेथ्यमशुद्धमपवित्रमिति यावत् । पवित्रं हि पुरोडाशादिकं यज्ञायाईतीत्यत आह- अयज्ञाईमिति । अयज्ञशिष्टमिति तु रामानुजः, तदयुक्तम् - सात्त्विकराजसयोरप्ययज्ञशिष्टान्नस्य , " ૨૬૮ श्रीभगवद्गीतासु - भाष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपैतासुं अथेदानीं यज्ञस्त्रिविध उच्यते- अफलाकांक्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनस्समाधाय स सात्विकः ॥ ११ ॥ अफलेति । अफलाकांक्षिभिरफलार्थिभिर्यज्ञो विधिदृष्टरशास्त्र चोदनादृष्टो यो यज्ञ इज्यते निर्वर्त्यते, यष्टव्यमेवेति यज्ञस्वरूपनिर्वर्तनमेव कार्यमिति मनस्समाधाय नानेन पुरु- पार्थो मम कर्तव्य इत्येवं निश्चित्य स सात्त्विको यज्ञ उच्यते ॥ ११॥ अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसम् ॥ १२ ॥ अभिसन्धायेति । अभिसन्धाय तुद्दिश्य फलं दम्भार्थमपि चैव यदिज्यते भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसं रजोगुणनिर्वत्यं राजसं जानीहि ॥ १२ ॥ विधिहीनमसृष्टानं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ १३ ॥ " विधीति । विधिहीनं यथाचोदित विधिविपरीत, असृष्टानं ब्राह्मणेभ्यो न सृष्टं न दत्तमन्नं यस्मिन्यज्ञे सोऽसृष्टान्नस्तमसृष्टानं मन्त्रहीनं मन्त्रतस्स्वरतो वर्णतश्च वियुक्तं मन्त्र- हीनं, अदक्षिणमुक्तदक्षिणारहितं श्रद्धाविरहितं यज्ञं तामसं परिचक्षते तमोनिर्वृत्तं कथयन्ति ।। भक्षणदर्शनात् । नहि ये भयज्ञशिष्टान्नं भुञ्जते ते तामसा एवेति नियन्तुं शक्यते; सात्त्विक श्रेष्ठैरपि पक्कचूत फलादीनाम यज्ञशिष्टानामद्यमानत्वात् । भोजनमाहारोऽन्नादिकं भुज्यते आहियत इति, भोजन- माहार इति च व्युत्पत्तेः । तामसप्रियं तामसस्येष्टम् ॥१०॥ अफलेति । अफलाकांक्षिभिः यष्टव्यमेवेति मनस्समाधाय विधिदृष्टो यो यज्ञ इज्यते स सात्त्विकः । यजेतेत्यादिविधिदर्शनात्केवलं मया यष्टव्यं नतु फलमाकांक्षितव्यमिति मनोनिश्चयपूर्वकं यथाविधि क्रियमाणो यज्ञस्सात्त्विक इत्युच्यत इत्यर्थः ॥ ११ ॥ अभिसन्धायेति । हे भरतश्रेष्ठ ! फलमभिसन्धाय दम्भार्थमपि चैव इज्यत इतियत् तं यज्ञ राजसं विद्धि । यदिज्यते तमिति वा । यदिति सामान्ये नपुंसकं य इत्यर्थः । यथाविधि फलाभि- सन्धिमता क्रियमाणः यथाविधि दाम्भिकेन क्रियमाणश्च यज्ञो राजस इत्युच्यत इत्यर्थः ॥ १.२ ॥ विधिहीनमिति । चोद्रितमनतिक्रम्य वर्तमानं यथाचोदितं तस्माद्विपरीतं यथा चोदितविप- रीतं विधिविरुद्धमित्यर्थः । मन्त्रहीनमिति । मन्त्रान् यद्यपि पठन्ति तथापि स्वरवर्णविपर्ययेण पठन्ति, मत उक्तम् — मन्त्रहीनमिति । स्वरवर्णविपर्ययरहितमन्त्र र हितमित्यर्थः । इदमेवाह - स्वरतो वर्ण- तच वियुक्तमिति । मन्त्रशब्दोऽत्र सद्गतस्वरवर्णपरः । यद्वा स्वरवर्णातिरिक्तमन्त्रपदार्थाभावात्वरयुक्त- वर्णसमुदायो मन्त्रः । तेन हीनोऽयं यज्ञः स्वरतो वर्णतश्च वियुक्त इति । श्रद्धाविरहित- मिति । तामसश्रद्धावत्त्वेऽप्येषां तामसश्रद्धाया देवपूजायामनुपयुक्तत्वात्सात्त्विक श्रद्धायांश्चाभावादिति भावः । यद्वा भूतप्रेतादिपूजायामेवैषां तामसी श्रद्धा, नतु यज्ञे इति भावः ॥१३॥ 1 अथेदानीं तपखिविधमुच्यते- सप्तदशोऽध्यायः । २६९ देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ १४ ॥ देवेति । देवाश्च द्विजाथ गुरवश्च प्राज्ञाथ देवद्विजगुरुप्राज्ञास्तेषां पूजनं देवद्विजगुरु - प्राज्ञपूजनं, शौचमार्जवमृजुत्वं ब्रह्मचर्यमहिंसा च शारीरं शरीरनिर्वर्त्य शारीरं शरीरप्रधानै- स्सर्वैरेव कार्यकरणैः कर्तादिभिस्साध्यं शारीरं तप उच्यते । ‘पञ्चैते तस्य हेत’ इति हि वक्ष्यति ॥१४॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥ अन्विति । अनुद्वेगकरं प्राणिनामदुःखकरं वाक्यं सत्यं प्रियं हितं च यत्प्रियहिते दृष्टादृष्टार्थे, अनुद्वेगकरत्वादिभिर्धर्मैर्वाक्यं विशिष्यते । अविशेषेण धर्मसमुच्चयार्थश्रकारः । देवेति । तपस्तावत्त्रिविधं - शारीरवाचिकमानसिकभेदात् । पुनस्त्रिविधं सात्त्विकराजसतामस- मेदात् । तत्र प्राथमिक मेदत्रयं दर्शयति श्लोकत्रयेण । देवा आदित्यचन्द्रादयः । द्विजा अतिध्या- दयः । गुरवः पितृविद्यामन्त्रोपदेष्टारः । ‘जनिता चोपनेता च यश्च विद्यां प्रयच्छति । श्वशुराश्वामजो भ्राता पञ्चैते गुरवस्स्मृता’ इत्युक्ता वा । प्राज्ञाः पण्डिताः ब्रह्मचर्यं स्त्रीसम्भाषणाद्यभावः । निर्वर्त्य साध्यम् । ननु शरीरेण जडेन कथं निर्वर्त्यतेऽत आह– शरीरप्रधानैरिति । शरीरं प्रधानं येषां तैश्शरीरप्रधानैः कर्णादिभिरिति । कर्ताऽहङ्कर आदिपदात्करणानां ग्रहणम् । कर्ता शरीरतादात्म्या- घ्यासमापन्नस्सन् शरीरतादात्म्याध्यासवद्भिरेवेन्द्रियैर्देवादिपूजां कुर्वन् सन्, ‘ब्राह्मणोऽहमादित्यं हस्ताभ्यां नमस्करोमि, रुद्रं हस्तेन वारिणा अभिषिञ्चामीत्येवं मन्यत इत्यस्य तपसश्शारीरत्वमुक्तमिति भावः । ननु ववोक्तं शरीरस्य कर्मसाधनत्वमत आह— पश्चेति । अधिष्ठानं तथा कर्तेति श्लोकेनेति भावः । यद्वा कर्तादिभिरित्यादिपदादधिष्ठानमिति श्लोकोक्तकरणादिग्रहणं, तथा च पञ्चभिः कर्तृकरणशरीर- चेष्टा देवैः क्रियमाणमपि देवद्विजादिपूजनादिकं शरीरेणैव कृतमिति शारीरमित्युच्यते । कुत: ? प्रकृत- तपसि शरीरस्यैव प्रधानत्वात् । इन्द्रियाद्यधिष्ठितदेहव्यापारो हि पूजादिः ॥ १४ ॥ अनुद्वेगेति । अनुद्वेगकरं सत्यं प्रियहितं च यद्वाक्यं तत् स्वाध्यायाभ्यसनं चैव वाक्यं तप इत्युच्यते । प्रियं च तद्धितं च प्रियहितम् । दृष्टार्थे प्रियमदृष्टार्थं हितं यद्धीहैव सुखं जनयति तत्प्रिय- मिष्टं यत्तु नरकादिदुःखं निवारयति तद्धितमसुत्रोपकारकम् । प्रियहितं चेति चकारस्यार्थमाह- अविशेषेणेति । अनुद्वेगकरत्वसत्यत्व प्रियत्वहितत्वाख्यधर्मचतुष्टयस्याविशेषेण समुच्चयार्थश्वकारः । नामीषामन्यतमस्य न्यूनाधिकभावः । किंतु चतुरोऽप्यमी धर्मास्साम्येन वर्तितव्या वाक्य इति बोधनार्थ- धकार इत्यर्थः । तेन च यत्र वाक्ये चत्वारस्ते धर्मास्सन्ति तदेव वाचिकं तपः । यत्र तु तेषां मध्ये २७० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपतांसु परप्रत्ययाय प्रयुक्तस्य वाक्यस्यानुद्वेगकरस्य सत्यप्रिय हितानुद्वेगकरत्वादीनामन्यतमेन द्वाभ्यां त्रिभिर्वा हीनता स्याद्यदि न तद्वाङ्मयं तपस्तथा सत्यवाक्यस्येतरेषामन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनतायां न वाङ्मयतपस्त्वम् । तथा प्रियवाक्यस्यापीतरेषामन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मयतपस्त्वम् । तथा हितवाक्यस्यापीत रेषामन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मयतपस्त्वम् । किंपुनस्तत्तपः १ यत्सत्यं वाक्यमनुद्वेग- करं प्रियं हितं च यत्तत्परमं तत्तपो वाङ्मयम् । यथा ‘शान्तो भव वत्स ! स्वाध्यायं योगं चानुतिष्ठ; तथा ते श्रेयो भविष्य तीति । स्वाध्यायाभ्यसनं चैव यथाविधि वाङ्मयं तप उच्यते ॥१५॥ मनः प्रसादस्सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥ मन इति । मनःप्रसाद:- मनसः प्रशान्तिरस्वच्छतापादनं प्रसादः, सौम्यत्वं यत्सौम- यो द्वौ एको वा धर्मोऽस्ति तद्वाक्यं नैव तप इति सिद्धयति । इदमेवाह — परेति । परप्रत्ययार्थ परविश्वासार्थे परेषां ज्ञानार्थमिति वा । अनुद्वेगकरस्य वाक्यत्य विहीनस्य सतो वङ्मयतपस्त्वं नेत्यन्वयः । इतरेषामिति, अनुद्वेगकरप्रियहितानामिति । अन्यत्र, अनुद्वेगकरसत्यहितानामिति । अपरत्र अनुद्वेगकर सत्यप्रियाणामिति चार्थः । 1 वाङ्मयमित्यस्याकांक्षामाह — किं पुनस्तत्तप इति । वाङ्मयं वाग्विकारः वाक्साध्यमिति यावत् । मस्मिन्तपसि वागेव प्रधाना, अन्तःकरणादयस्त्वप्रधानाः । अत उक्तम् — वाङ्मयमिति । नात्र देवपूजादाविव शरीरव्यापारः कश्चिदस्ति, किंतु वाग्व्यापार एव । जिह्वादयस्तु वाचोऽधिष्ठानभूता एवेति बोध्यम् । अनुद्वेगकरत्वादिधर्मचतुष्टययुक्तं वाक्यमेव किंचिदुदाहरति — यथा शान्त इति । हे वत्स ! शान्तो भव, कामादिविकारशून्यचित्तो भव । सति चित्तविक्षेपे स्वाध्याययोगाभ्यसनादिति भावः । स्वाध्यायं योगं कर्मयोगं चानुतिष्ठ । यथैतदुभयं करोषि तथा तव श्रेयो भविष्यति । इति स्वाध्यायाभ्यसनस्यापि श्रेयो हेतुत्वप्रतिपादनात् स्वाध्यायाभ्यसनमपि वङ्मयं तप इत्युच्यते । कीदृश- मत आह— यथाविधीति । विधिमनतिक्रम्येत्यर्थः । स्वानसन्ध्यागुरुध्यानादयः स्वाध्यायस्य विधयः । स्वाध्यायो वेदः सच यस्य शाखिनो यो विहितस्स एव । तेन स्वशाखां परित्यज्यान्यशाखां योऽभ्य- स्यति स शाखारण्टस्सर्वकर्मबहिष्कृत एवेति न परशाखाध्यनं वाङ्मयं तप इत्युच्यते । इदमेव सूचयितुं स्वाध्याय इत्युक्तम् । अधीयत इत्यध्यायो वेदः । स्वः स्वीयश्वासावध्यायः स्वस्याध्याय इति वा स्वाध्याय इति व्युत्पत्तेः । एवं स्वाध्यायस्य वाङ्मयतपस्त्वादेव | ‘स्वाध्यायोऽध्येतव्य’ इति विधि- ईश्यते । नहि निष्फलः कोऽपि विघिस्सर्वज्ञेनेश्वरेण विधीयते । तथा सत्यनर्थकत्वेनेश्वरस्याप्रमाणत्व- प्रसङ्गात् ॥१५॥

मन इति । स्वच्छता कामादिकालुष्याभावः । सौम्यत्वं सौमनस्य, तस्य च लिङ्गं मुखादि-

सप्तदशोऽध्यायः । २७१ नस्यमाहुः – मुखादिप्रसादादिकार्योन्नेयाऽन्तःकरणस्य वृत्तिः । मौन वाङ्नियमोsपि मन- संयमपूर्वको भवतीति कार्येण कारणमुच्यते मनस्संयमो मौनमिति । आत्मविनिग्रहः- मनो- निरोधस्सर्वतस्सामान्यरूप आत्मविनिग्रहः, वाग्विषयस्यैव मनसस्संयमो मौनमिति विशेषः । भावसंशुद्धिः परैर्व्यवहारकाले मायावित्वं भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥ यथोक्तं कायिकं वाचिकं मानसं च तपस्तप्तं नरैस्सात्त्विकत्वादिभेदेन कथं त्रिविधं भवतीत्युच्यते- श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकांक्षिभिर्युक्तैस्सात्त्विकं परिचक्षते ॥ १७ ॥ श्रद्धयेति । श्रद्धयाऽऽस्तिक्यबुद्धया परया प्रकृष्टया तप्तमनुष्ठितं तपस्तत्प्रकृतं त्रिविधं विप्रकारं त्र्यधिष्ठानं नरैरनुष्ठातृभिरफलाकांक्षिभिः फलाकांक्षा रहितैर्युकैस्समाहितै:- यदीदृशं तपः, तत्सात्विकं सच्चनिर्वृत्तं परिचक्षते कथयन्ति शिष्टाः ॥ १७ ॥ प्रसादः । भ्रूविक्षेपनेनारुणत्वादिभिर्लिङ्गैः क्रुद्धं पितरं ज्ञात्वा पुत्रस्स्वापराधक्षमापणं स्तुति नमस्कारादिभिः कुर्वन् मुखप्रसादादिना तं पुनरसौम्यत्वमापन्नं निश्वित्य कृतार्थोऽहमिति मन्यते । सेयं मुखप्रसादादि - कार्योन्नेया अन्तःकरणवृत्तिस्सौम्यत्व मित्युच्यते । स्वानुभवैकवेद्यो मनः प्रसादः परप्रत्यक्ष तु सौम्यत्व- मिति विवेकः । मनसः परेषामभ्युदयप्रावण्यं सौम्यत्वमिति रामानुजः - सौम्यत्वमापन्नो हि राजा अर्थिभ्यः किमपि धनादिकं ददाति । मनसः क्रोधाद्यभावः प्रसादः; अनुग्रहरूपान्तःकरणवृत्तिसौम्यत्वमिति विवेक इति भावः । अन्तःकरणवृत्तिरिति । अन्तःकरणस्य सात्त्विकः परिणामविशेष इत्यर्थः । अन्तःकरणं यदा सत्त्वमयं वर्तते तदा मुखप्रसादादिर्भवति । मौनं वाक्यनियमः । वाक्योपरम इति यावत् । वाचामप्रयोग इति भावः । सहि वाङ्मयस्तप एवेत्यत आह- मनस्संयमेति । मनसो विवक्षाव्यापारोपर मे सत्येव वाचो निर्व्यापारत्वं मनोव्यापारपूर्वकत्वादिन्द्रियव्यापारस्य । कार्येण मौनेन कारणं मनस्संयम उच्यते । उपचारादिति भावः । उक्तप्रकारमेव दर्शयति-मनस्सयमो मौन- मिति । मौनशब्दस्यात मौनहेतुभूतो मनस्संयमोऽर्थः । तस्य च मानसिकतपरत्वमुचितमिति भावः । मनोनिरोध इति । ननु मनस्संयमशब्देनोक्त एवायमर्थ इत्यत आह — सर्वत इति । सर्वविषयेभ्य- स्सामान्येन मनसो निरोघ आत्मविनिग्रहः । वाग्विषयादेव मनसो निरोधो मनस्संयम इति मौनात्म- विनिग्रहयोर्भेद इत्यर्थः । सामान्यविशेषभावेन द्वेषा निर्देशान्न पौनरुक्त्यमिति भावः । अमायावित्वं निष्कापट्यम् ॥१६॥

श्रद्धयेति । नरैः परया श्रद्धया तप्तं तत्तपस्त्रिविधं भवति । अफलाकांक्षिभिर्यु कैस्तप्तं तप- रसात्त्विकं परिचक्षते । यथोक्तं पूर्वोक्तं । कथमिति । पुनः कथं त्रिविधं भवतीति शङ्कायामुच्यते- अधिष्ठानमिति । वाङ्मनो देह निर्वर्त्य मित्यर्थः । तपोऽनुष्ठातारोऽत्र नराः, नतु केवलमनुष्या इत्याह– अनुष्ठातृभिरिति । समाहितैस्समाहितचितैः । फलाभिसन्धिरहितं योगयुक्तं तपस्सात्त्विकमित्यर्थः ॥ २७२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८ ॥ सत्कारेति । सत्कारस्साधुकारः ‘साधुरयं तपस्वी ब्राह्मण’ इत्येवमर्थ, मानो माननं प्रत्युत्थानाभिवादनादिस्तदर्थं, पूजापादप्रक्षालनार्चनातिशयितृत्वादिस्तदर्थं च तपस्सत्कार- मानपूजार्थ, दम्भेन चैव यत्क्रियते तपस्तदिह प्रोक्तं कथितं राजसं चलं कादाचित्कफलत्वे- नाध्रुवम् ॥१८॥ मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थ वा तत्तामसमुदाहृतम् ||१९|| मूढग्राहेणेति । मूढग्राहेणाविवेकनिश्चयेनात्मनः पीडया यत्क्रियते तपः परस्योत्साद- नार्थ विनाशार्थं वा तत्तामसं तप उदाहृतम् ॥ ९॥ इदानीं दानलैविध्यमुच्यते- दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् ॥२०॥ दातव्यमिति । दातव्यमित्येवं मनः कृत्वा यद्दानं दीयतेऽनुपकारिणे प्रत्युपकारासम- र्थाय, समर्थायापि निरपेक्षं दीयते, देशे पुण्यदेशे कुरुक्षेत्रादौ, काले संक्रान्त्यादौ, पात्रे च षडङ्गविद्वेदपारग इत्यादौ तद्दानं सात्त्विकं स्मृतम् ॥२०॥ I सत्कारेति । यत्तपस्सत्कारमानपूजार्थ दम्भेन चैव क्रियते नरैरिति शेषः । चलमध्रुवं तत्तप इह राजसमिति शिष्टैः प्रोक्तम् । मया तपसि कृते सति मां जनास्तपस्विनं मत्वा मम सत्कारमानपूजाः कुर्युरिति बुद्धया धार्मिकोऽहमिति प्रख्यापनार्थं च यत्तपः क्रियते तद्राजसमित्यर्थः । साधुकारस्साधु- वादः । तमेव दर्शयति – साधुरिति, तदर्थमिति । तस्मा इदं तदर्थं तत्फलायेत्यर्थः । अभिवादनं नमस्कारः । स्यादिपदात्स्तुत्यादिग्रहणम् । पादप्रक्षालनाच नादीत्यादिपदात्पीठेोपवेशनादिप्रहम् । इह शास्त्रे ॥१८॥ मूढग्राहेणेति । मूढग्राहेणात्मनः पीडया परस्योत्सादनार्थे वा यत्तपः क्रियते नरैस्तत्तामस - मुदाहृतं शिष्टैः । मूढैरविवेकनिश्चयेन कृतं स्वशरीरेन्द्रियादिपीडकं परनाशफलकं च तपस्तामसमित्यर्थः । अविवेकनिश्चयो मनुष्योऽहं ब्राह्मणोऽहमित्यादिरूप आत्मन आत्मत्वेन गृहीतस्य शरीरेन्द्रियादेः । वाशब्दो विकल्पार्थः । आत्मपीडाकरत्वेन परनाश करत्वेन च तामसतपसो द्वैविध्यात् ॥१९॥ दातव्यमिति । दातव्यमिति मत्वा देशे काले पात्रे चानुपकारिणे यद्दानं दीयते तद्दानं सात्त्विकं स्मृतम् । अनुपकारिण इति । इतः प्राक्स्वस्योपकारमकुतवते । पश्चादप्यात्मन उपकर्त- मक्षमात्र । समर्थत्वेऽपि त्वमिदं द्रव्यं गृहीत्वा काले मन प्रत्युपकारं कुर्वित्येवं वाचा स्वेनानुक्ताय मनसाप्ययमुद्देशो न कार्य इत्याह-निरपेक्षमिति, पात्र इति । पात्रभूताया उपकारिणं इत्यर्थः ॥ ३५ सप्तदशोऽध्यायः । यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥२१॥ २७३ यदिति । यत्तु दानं प्रत्युपकारार्थ काले त्वयं मां प्रत्युपकरिष्यतीत्येवमर्थ, फलं वाऽस्य दानस्य मे भविष्यत्यदृष्टमिति, तदुद्दिश्य पुनर्दीयते च परिक्लिष्टं खेदसंयुक्तं तद्दानं राजसं स्मृतम् ॥२१॥ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥२२॥ अदेशकाल इति । अदेशकालेऽदेशेऽपुण्यदेशे म्लेच्छाऽशुच्यादिसङ्कीर्णे, अकाले पुण्य- हेतुत्वेनानाख्याते प्रख्याते संक्रान्त्यादिविशेषरहितेऽपालेभ्यश्च मूर्खतस्करादिभ्यः, देशादि - सम्पत्तौ वाऽसत्कृतं प्रियवचनपादप्रक्षालनपूजादिरहितमवज्ञातं पात्रपरिभवयुक्तं च यत्तहान तामसमुदाहृतम् ॥२२॥ यज्ञदानतपः प्रभृतीनां साद्गुण्यकरणायायमुपदेश उच्यते— ओं तत्सदिति निदशो ब्रह्मणस्त्रिविधस्स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्व विहिताः पुरा ॥ २३ ॥ ओं तत्सदिति । ओं तत्सदित्येवं निर्देशो निर्दिश्यतेऽनेनेति निर्देशः, त्रिविधो नामनिर्देशो ब्रह्मणस्स्मृतश्चिन्तितो वेदान्तेषु ब्रह्मविद्भिः । ब्राह्मणास्तेन निर्देशेन त्रिविधेन वेदाश्च यज्ञाश्च विहिता निर्मिताः पुरा पूर्वमिति निर्देशस्तुत्यर्थमुच्यते ॥ २३ ॥ यत्विति । यत्तु प्रत्युपकारार्थे दीयते, यत्पुनः फलमुद्दिश्य वा दीयते यच परिक्लिष्टं यथा- तथा दीयते तद्दान राजसमुदाहृतम् । अदृष्टं स्वर्गादिरूपम् ॥२१॥ अदेशेति । यद्दानमदेशकाले पात्रेभ्यश्च दीयते यच्चासस्कृतमवज्ञातं तद्दानं तामसमुदा- हृतम् । अदेशो दानानुचितदेशः । स च कीदृशोऽत आह- म्लेच्छेति । अनाख्यातशब्द स्वयं- मेव व्याख्याति — अप्रख्यात इति । अप्रसिद्ध इत्यर्थः । देशकालपात्ररूपसम्पद्यपि सत्यां यदसत्कृतं दीयते, तद्दानं च तामसमित्याह— देशादीति, असत्कृतमिति । न विद्यते सत्कृतं सत्कारः पाद- प्रक्षालन पूजादिरूपो यस्मिन्कर्मणि तद्यथातथा । यदवज्ञातं दीयते तच्च दानं तामसम् । पात्रपरिभव- ‘युक्तं यथातथेति क्रियाविशेषणम् । दीयत इति दानं द्रव्यं नतु वितरणक्रियामात्र- दीयत इत्यनेना- नन्वयात् । वितीर्यमाणद्रव्यत्रै विध्यकथनाद्वितरणत्रैविध्यसिद्धिः । यद्वा दानं दीयत इति यद्रव्यं वितीर्यत इति यत्तद्दानं तद्वितरणमिति व्याख्येयम् । अथ वा यद्दानं वितरणं दीयते क्रियते घालूना- मनेकार्थत्वात्तद्दानं वितरणमिति ॥२२॥ ओमिति । साद्गुण्यं सद्गुणत्वं गुणवत्तातिशयं इति यावत् । ब्रह्मण ओं तत्सदिति त्रिविधो निर्देशस्स्मृतः । पुरा तेन ब्राह्मणा वेदाश्च यज्ञाश्व विहिताः । निर्देशो नाम, यद्वा निर्दिशनम् । कस्य निर्देशोऽत आह— नामनिर्देश इति । त्रिविधो नामनिर्देश: ब्रह्मणस्स्मृत इति । ब्रह्मणस्त्रिविधं २७४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तस्मादो मित्युदाहृत्य यज्ञदानतपः क्रियाः । प्रवर्तन्ते विधानोक्तास्सततं ब्रह्मवादिनाम् ||२४|| तस्मादिति । तस्मात् ‘ओ’ मित्युदाहृत्योच्चार्य यज्ञदानतपः क्रिया यज्ञादिस्वरूपाः क्रियाः प्रवर्तन्ते विधानोक्ताश्शास्त्रचोदितास्सततं सर्वदा ब्रह्मवादिनां ब्रह्मवदनशीलानाम् ॥ तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकांक्षिभिः ॥ २५ ॥ I तदिति । तदित्यनभिसन्धाय ‘त’ दिति ब्रह्माभिधानमुच्चार्यानभिसन्धाय च यज्ञादि- नाम निर्दिष्टमित्यर्थः । ववेत्यत आह-वेदान्तेष्विति । कैरित्यत आह-ब्रह्मविद्भिरिति ब्रह्मणः परमात्मनः, ओमिति तदिति, सदिति च नामत्रयनिर्देशश्शास्त्र पसिद्ध इत्यर्थः । ओमित्ये- काक्षरं ब्रह्म तत्त्वमसि ; सच्चिदानन्दं ब्रह्मेत्यादिशास्त्रादिति भावः । यद्यपि चिदानन्दात्मादिनिर्देशान्तराण्यपि ब्रह्मगस्सन्ति । तथापि प्रकृतोपयोगात्प्रधानत्वाच नामत्रयनिर्देश एवेह गृहीत इति बोध्यम् । प्रकृतोपयोगित्वं चानुपदमेव दर्शयिष्यति । नामत्रय- निर्देशस्य नामरूपादिविहीनस्यापि ब्रह्मणः कल्पितमिदं नामनिर्देशत्रयमिति बोध्यम् । ब्राह्मणा इति । ननु ब्रह्मणैव सृष्टा ब्राह्मणादयः, नतु निर्देशेनेति चेत्सत्यम् — ब्रह्मणा हि मायाविनेश्वरेग ओं तत्स- दिति निर्देशपूर्वकं ब्राह्मणादीनां सृष्टत्वात्तथोक्तिरिति । यत्तु रामानुजः - ब्रह्मणो वेदस्येति वैदिककर्मण इत्यर्थ इति तेन निर्देशेन युक्ता ब्राह्मणा- दयो मया पुरा विहिता इति च तदयुक्तम् परब्रह्मवाचिनो ब्रह्मशब्दस्य वेदपरत्वासम्भवात्तस्य च ‘वैदिककर्मपरत्वस्य लाक्षणिकत्वेनायुक्तत्वाच्च । ओं तत्सदिति त्रिविधशब्दाभिलप्यत्वाभावाच्च वेदवैदिक- कर्मणोः । नच ओं तत्सदिति त्रिविधश्शब्दो वैदिककर्मान्वयी भवतीति वाच्यं, अन्वयीति मूला- द्वहिः पदकल्पनस्याप्रमाणत्वात् । किंच ब्राह्मणानां वेदानां यज्ञानां च वैदिकर्मणां त्रयाणामपि तन्निर्देश- युक्तत्वस्य ब्राह्मणास्तेनेति वाक्येन प्रोक्तत्वे सति वैदिकं कर्म तन्निर्देशयुक्तमिति पूर्ववाक्येन कथनं व्यर्थं पौनरुक्त्यावहं च । तेन विहिता इति साक्षाच्छ्रयमाणं तच्छब्दनिष्ठ कर्तृत्वं परीत्यज्य तच्छन्दा- र्थस्याप्राधान्यं कल्पयित्वा मयैवेति कर्त्रन्तराध्याहारोऽप्ययुक्त एव । श्रुताना कल्पनयोर्दुष्टत्वात् ॥ 1 तस्मादिति । तस्माद्ब्रह्मवादिनां विधानोक्ता यज्ञदानतपः क्रियास्सततमोमित्युदाहृत्य प्रवर्तन्ते । तस्मादिति । ब्रह्म निर्देशत्वादों कारादित्रयस्येत्यर्थः । यज्ञश्च दानं च तपश्च यज्ञदानतपांसि तान्येव क्रियाः यज्ञदानतपः क्रियाः । ब्रह्म वेदः तद्वदितुं शीलं येषां ते ब्रह्मवादिनः वैदिका इत्यर्थः । नात्र परब्रह्मवाची ब्रह्मशब्द:- परब्रह्मविदां कर्मप्रवृत्त्ययोगात् । प्रपञ्चिनं चैतदधस्तात् । अत्र- ‘ओमि- त्या श्रावयत्योमिति शसत्यो मित्युद्गाय’ तीति छान्दोग्यमनुसन्धेयम् । • यत्तु रामानुजः - वेदाश्चो मित्युदाहृत्यारभ्यन्ते । ओमिति शब्दान्वित वेदधारणाचदन्वित - यज्ञादिकर्मकरणाच्च ब्राह्मणानामप्यमिति शब्दान्नय इति तदेतन्मूला हैः कल्लिन मित्युपेयम् ॥२४॥ तदिति । ओमित्यस्य विनियोगं दर्शयिला तदित्यस्य दर्शति । मोक्षकांक्षि मेन दरवार्यसप्तदशोऽध्यायः । २७५ कर्मणः फलं, यज्ञतपःक्रिया :- यज्ञक्रियाश्च तपःक्रियाश्च यज्ञतपःक्रियाः, दानक्रियाश्च विविधाः क्षेत्र हिरण्यप्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकांक्षिभिर्मोक्षार्थभिर्मुमुक्षुभिः ||२५|| ओं तच्छन्दयोर्विनियोग उक्तः । अथेदानीं सच्छब्दस्य विनियोग उच्यते- सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ ! युज्यते ॥ २६॥ सदिति । सद्भावे असतस्सद्भावे यथाऽविद्यमानस्य पुत्रस्य जन्मनि, तथा साधु- भावे वासद्वृत्तस्यासाधोस्सद्वृत्तता साधुभावस्तस्मिन् साधुभावे च सदित्येतदभिधानं ब्रह्मण: प्रयुज्यतेऽभिधीयते; प्रशस्ते कर्मणि विवाहादौ च तथा सच्छन्दः पार्थ ! युज्यते प्रयुज्यत इत्येतत् ॥२६॥ फलमनभिसन्धाय यज्ञतपःक्रिया विविधा दानक्रियाश्च क्रियन्ते । क्रियन्त इति क्रियाः कर्माणि नतु करण क्रिया क्रियत इत्यनेनानन्वयात् । मुमुक्षुभिरिति । चित्तशुद्धिज्ञानप्राप्तिद्वारा मोक्षाभिलाषिभि- रित्यर्थः । नहि सुमुक्षूणां विदुषां सन्यासिनां क्रियाधिकारोऽस्ति । श्लोकद्वयफलितार्थमाह- ओं तदिति ॥२५॥ । सद्भाव इति । सद्भावस्तत्त्वम् । कस्येत्यत आह — असत इति असतः कथं सत्तेत्यत माह - यथेति । जन्मनः प्रागसतः पुत्रस्य जन्मनि सदिति प्रयुज्यते । असतोऽपि जन्मना लब्ध- सत्ताकत्वात्पुत्रस्य सत्त्वं युक्तमत एव जन्मानन्तरं संन्पुत्र इति सच्छब्दप्रयोगः । साधुभावस्सा घोर्भावः सद्वृत्तत्वं तस्मिन् । कस्य साधुभावोऽत आह- असद्वृत्तस्येति । असद्दुष्टं वृत्तं चरितं व्यापार इति यावत् । यस्य तस्यासवृत्तस्य । तदर्थमाह- असाधोरिति । असद्वृत्तत्वं साधुत्वम् । सत् श्रेष्ठ वृत्तं यस्य स सद्वृत्तस्सद्भावत्सद्वृत्तत्वं साधुत्वम् । यः पूर्वमसद्वृत्तस्सन्निदानीं दैववशा- त्सद्वृतो जातस्तस्य तत्साधुत्वं सदित्युच्यत इत्यर्थः । असतः सद्भावे वक्तव्ये असाधो साधुभावे वक्तव्ये च सदित्येतत्पदं प्रयुज्यत इति श्लोकान्दयः । - एतच्छब्दार्थमाह– ब्रह्मणोऽभिधानमिति । अभिधानं नामाभिधीयते उच्यते घटादिपदार्थोऽ- नेनेति घटादिशब्दस्याभिधानत्वम् । नाम्ना भिधेयं वस्तु निर्दिश्यते । घटमानयेत्युक्तो वृद्धेन तरुणो घटमानयतीति प्रत्यक्षं, तद्धि नाग्नो वस्तुनिर्देशं विना न सम्भवतीति । नच सन्पुत्र इति सद्भावे प्रयोगवत्साधुभावे प्रयोगो नास्तीति वाच्यं, साधुस्सन्निति प्रयोगसत्त्वात् । असाधुना राज्ञा स्वस्मै धनादिके दते सति ब्राह्मणः प्रत्येति हि असाधुरयं देवात्साधुस्सन् राजा महामिदं धनादिक- मदिशदिति । प्रशस्ते कर्मणीति । विवाहादिशुभकर्म हि सत्कर्मेत्युच्यते । आदिपदाद्वापीकूपतटा- कादि पूर्तकर्मणामग्निष्टोम |दीष्टकर्मणां च ग्रहणं, तानि हि सत्कर्माणीत्युच्यन्ते । एवं च यज्ञदानतपः- क्रियाणां प्रशस्तानां सच्छब्दविषयत्वं सिद्धम् । सन् यज्ञस्सत्तपस्सद्दानमिति प्रयोगात् ॥ २६ ॥ . ૨૦૬ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु यज्ञे तपसि दाने च स्थितिस्सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥२७॥ यज्ञ इति । यज्ञे यज्ञकर्मणि या स्थितिः, तपसि च या स्थितिः, दाने च या स्थितिः, सा सदिति चोच्यते विद्वद्भिः । कर्म चैव तदर्थीयं यज्ञदानतपोर्थीयम् । अथ वा यस्याभिधानत्रयं प्रकृतं तदर्थीयं यज्ञदानतपोर्थीयमीश्वरार्थीयमित्येतत्ः सदित्येवाभिधीयते । यज्ञ इति । यज्ञे तपसि दाने च पुरुषस्येति शेषः । स्थितिस्सदित्युच्यते च । तदर्थीय कर्म चैव सदित्यभिधीयत एव । स्थिति निष्ठाप्रवृत्तिरिति यावत् । यज्ञादिषु प्रवृत्तं पुरुषं दृष्ट्रा सरिस्थति- रयमिति प्रतियन्ति शिष्टाः । अतो यज्ञादिस्थितेस्सच्छन्दाभिधेयत्वमिति भावः । यज्ञादिविषयैव स्थितिस्सत्स्थितिरित्युच्यते, नान्यविषयेति कृत्वा यज्ञादिस्थितेस्सत्स्थितित्वमुचितमित्यभिसन्धिः । नात्र सच्छब्दस्य सद्भावस्साधुभावः प्राशस्त्यं वार्थः, किंतु यज्ञादिकर्मस्थितिरेवेति न पूर्वोक्तार्थ- साङ्कर्यम् । नच यज्ञादिकर्मस्थितेरेव सच्छब्दार्थत्वे सस्थितिपदयोः पौनरुक्त्यमिति वाच्यं मृत्युञ्जय- श्शिव इतिवत्सती स्थिति रित्यम्योपपत्तेर्विशेष्यमपि विशेष्यान्तरे सति विशेषणभावे पर्यवस्यति हि । एवं यज्ञादिविषयस्थितिवाच्यपि सच्छन्दस्स्थिति शब्दप्रयोगे सति यज्ञादिविषयत्वमात्रे पर्यवस्यतीति । तदर्थीयमिति । तानि यज्ञदानतपस्येवार्थाः प्रयोजनानि तदर्था:, तेषामिदं तदर्थीय तदर्थ- मित्यर्थः । यज्ञदानतपो निर्वर्तकं घनार्जनादिकर्मेति भावः । एवं तच्छब्दस्य पूर्वोक्तयज्ञादिपरामशिव- मभ्युपेत्य व्याख्याय, अथ प्रकृतपरामर्शित्वमभ्युपेत्य व्याख्यानान्तरमाह - अथ वेति । प्रकृताभि- धानत्रयवानीश्वर इह तच्छब्दार्थः । तस्यार्थः प्रयोजनं स्वाज्ञानिर्वर्तनं तस्येदं तदर्थीयम् । ईश्वराज्ञा- निर्वर्तनमात्र फलकमित्यर्थः । फलाभिसन्ध्यादिरहितमिति यावत् । कर्तव्यमित्येव हि कुशलेन कर्म कार्यमिति प्राग्दर्शितम् । एतस्य चेश्वरार्थस्य कर्मणस्सत्त्वं बन्धा हेतुत्वाश्चित्तशुद्धिद्वारा ज्ञानप्राप्तिहेतुत्वादि- प्रयुक्तमन्यद्धि बन्धहेतुत्वादिना दुष्टं कर्मासदेव यत्फलाभिसन्ध्यादिमत् । तस्मादीश्वरार्थं कर्म सदि- त्युच्यते । नेदं प्रशस्तकर्मत्वरूपं सत्कर्मत्वं पौनरुक्त्या किंतु ईश्वरार्थ कर्मत्वरूपमेव । तस्मादीवरा कर्मणि सत्कर्मेति प्रयोगः । श्रद्धापूर्वकं यथा तथेति प्रयोगक्रियाविशेषणम् । अभिधानत्रयमों तत्सदिति नामत्रयं तस्य प्रयोगेणोधारणेन । ननु ओमित्युदाहृत्य तदित्युदाहृत्य चेतिवत्सदित्युदाहृत्येति नोक्तम् । प्रत्युत सच्छब्दस्य ब्रह्मणोऽन्ये सद्भावादय एवार्थाः प्रोक्ता इति कथमभिधानत्रयप्रयोगसम्भवः ? ओं तदिति ब्रह्माभिधानद्वय- प्रयोग एव हि दर्शित इति चेत्सत्यम् - ब्रह्मवाचिन एवं सच्छन्दस्य सद्भावादिष्वौपचारिकः प्रयोगो दर्शितः प्रशंसार्थः । ततश्च सदित्युदाहृत्यैव यज्ञदानतपः क्रियाः क्रियन्ते मुमुक्षुभिरिति बोध्यम् । यद्वा ओत दित्युदाहृत्य फलमन भिसन्धाय ब्रह्मवादिनो मुमुक्षवः ईश्वरार्थीयमिदं कर्म सदिति मत्वा कुर्बन्ति । अन्येत्वेवम विद्वांसोऽपि अतत्सदिति ब्रह्माभिधानत्रयमुहृत्य कर्म कुर्यश्वद्विगुणमपि तत्कर्म सगुणं भव- तीतिः कर्मसाद्गुण्यापादनं ब्रह्माभिधानत्रयोच्चारणमिति भावः । ननु सच्छब्दस्य यज्ञादिक्रियावाचित्वं कण्ठोक्तम् । तदनुसारेण तच्छब्दस्यापि तदेव युक्तं, सथैव व्याख्यातं च रामानुजेन । फलमनभिसन्धाय यज्ञादिक्रियाः मुमुक्षुभिः क्रियन्ते, ताश्व क्रिया- सप्तदशोऽध्यायः । २७७ तदेतद्यज्ञदानतप आदिकर्मासात्त्विकं विगुणमपि श्रद्धापूर्वकं ब्रह्मणोऽभिधानत्रयप्रयोगेण सगुणं सात्त्विकं सम्पादितं भवति ॥ २७॥ तत्र च सर्वत्र श्रद्धाप्रधानतया सर्व सम्पाद्यते यस्मात्तस्मात्- अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ! न च तत्प्रेत्य नो इह ॥ २८ ॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्र श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः । अश्रद्धयेति । अश्रद्धया हुतं हवनं कृतं, अश्रद्धया दत्तं ब्राह्मणेभ्यः, तथाऽभया स्तदित्युच्यन्त इति । नच कथं ब्रह्मवाचितच्छब्दवाच्यत्वं क्रियाणामिति वाच्यं ब्रह्मप्राप्त्युपागतया ब्रह्मवाचिना तदितिशब्देन निर्देश्याः क्रिया इति । तस्मात्तदित्युदाहृत्येति व्याख्यानमयुक्तमिति चेत्, मैवम् — तस्मादोमित्युदाहृत्येति पूर्वश्लोकानुसारेणेहापि तथैव तदित्युदाहृत्येति व्याख्यातव्यलात् । क्रियाणां तच्छब्दनिर्देश्यत्वमिवोङ्कारनिर्देश्यत्वस्यापि सम्पादयितुं शक्यत्वेनोमित्युदाहृत्य यज्ञादिक्रियाः वैदिकानां प्रवर्तन्ते, ताश्चमित्युच्यन्त इति कुतो रामानुजेन न व्याख्यातम् ? यद्यधुना व्याख्यायत इति ब्रूषे तर्हि तथैव तदित्युदाहृत्य मुमुक्षुभिः क्रियाः क्रियन्त इति व्याख्पाहि । तुख्यार्थत्वाच्छोक- द्वयस्य । एवं व्याख्याने च ताश्च क्रिया ओमित्युच्यन्ते तदित्युच्यन्त इति वाक्यद्वयमपि मूलाहि- स्स्वकपोलकल्पितमेव रामानुजस्येत्यप्रमाणं रामानुजव्याख्यानम् । यदि तु ओमित्युदाहृत्येतिको के ओमित्यनेन क्रिया उच्यन्त इति न व्याख्यायते; तहहापि न व्याख्याहि । नचोदाहृत्येति पदाभावा- दिद्दैवं व्याख्यायते, तत्र तु तत्सत्त्वान्नैवं व्याख्यायत इति वाच्यं पूर्वश्लोकोक्तस्थोदाहस्यति पद- स्येहाप्यन्वयसम्भवादध्याहारादिना । ताश्च क्रियास्तदुच्यन्त इति पदानामध्याहारस्त्वयुक्त एव । पूर्व- श्लोकेऽपि तथाऽनुक्तत्वात् । तस्मात्तस्मादोमित्युदाहृत्येति पूर्वश्लोक व दिहापि तदित्युदाहृत्येत्येव व्याख्येयं नतु ताश्च तदि- त्युच्यन्ते उपचारादिति व्याख्येयमयुक्तत्वात् । सच्छब्दानुसारस्तु न न्याय्यः । सच्छब्दस्य सद्भाब - साधुभावाद्यर्थविशेषा यथा दर्शितास्तथा तच्छब्दस्यार्थ विशेषाणामदर्शितत्वात् । तस्मादोङ्कारानुसार एव युक्त:- तच्छब्दवदोङ्कारस्याप्यर्थविशेषाणामदर्शितत्वात् । प्रत्युत ओमित्युदाहृत्य तदित्युचार्येतिव- त्सादित्युदाहृत्येत्येव कल्पनमुचित प्रकरणादिति संक्षेपः । सात्विकमिति । ओं तत्सदिति निर्देशेन कर्मण ईश्वरार्थीयत्वस्य जातत्वादिति भावः । अत एव सन्ध्यावन्दनादिकमपि कर्म कृत्वा वृद्धाः ‘ओ तरसझार्पणम’स्विति ब्रुवन्ति । ओं तत्सदिति निर्देशेन ब्रह्मार्पणेन च तत्कर्मणस्साद्गुण्य- लाभार्थमिति बोध्यम् । तत्र चैवं सति सर्वत्र यज्ञादिकर्मसु सर्वे साद्गुण्यं सात्त्विकत्वं च श्रद्धया ओं तत्सदिति निर्देशे कृते सति हि कर्मणस्साद्गुण्यादिसम्प्राप्तिः ॥२७॥ अश्रद्धयेति । तस्मादिति । श्रद्धापूर्वकत्वात्कर्मसाद्गुण्यस्येत्यर्थः । यदश्रद्धया हुतं यदश्रद्धया २७८ श्रीभगवद्गीतासु- भाष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तपस्तप्तमनुष्ठितं तथाऽश्रद्धयैव कृतं च यत्स्तुतिनमस्कारादि, तत्सर्वमसदित्युच्यते, मत्प्राप्ति- साधनमार्गबाह्यत्वाद्धे पार्थ! नच तद्बहुलायासमपि प्रेत्यफलाय नोऽपीहार्थ, साधुभि- निन्दितत्वादिति ॥२८॥ इति श्री परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये श्रद्धालय- विभागयोगो नाम सप्तदशोऽध्यायः । तत्प्रेत्यफलाय नो भवति; दत्तं यतपोऽश्रद्धया तप्तं यचाश्रद्धया कृतं तत्सर्वम सदित्युच्यते । हे पार्थ! इह फलाय च नो भवति । कुतोऽस्यासत्वमत आह— मत्प्राप्तीति । मत्प्राप्ति साधनभूतान्मार्गा- त्सन्मार्गात्कर्मयोगादिलक्षण। द्वा बहिर्भवं सुदूरमित्यर्थः । तत्त्वान्मत्प्राप्त्यहेतुत्वादित्यर्थः । प्रेत्यफला- यामुष्मिकखर्गादिफलाय नो न भवति । आमुष्मिकफलदं न भवतीत्यर्थः । इहार्थमिति । ऐहिक- फलायेत्यर्थः । कुतो नैहिकफलार्थश्वमत आह– साधुभिरिति । साधुनिन्दाया कीर्ते रैहिकफल- त्वाभावादिति भावः । , यद्वा कुतस्तत्प्रेत्यफलाहफलाय च न भवतीत्यत आह- साधुभिरिति । यदि तदसत्कर्म फलदं स्यातर्हि तन्नैव निन्द्येत सद्भिः । अनर्थकं हि साधवो निन्दन्ति । तस्मात्साधुभिर्निन्दितमिदं कर्म नरक दु : खाकीर्त्यादिप्रदमेव नतु फलप्रदमिति भावः ! तस्मात्सर्वोऽपि कुशलस्सर्वे विहितं कर्म ब्रह्माभिधानत्रयप्रयोगपूर्वकं श्रद्धया युक्तस्सन् फलमनभिसन्धाय कर्तव्यमितिबुद्धया कुर्यात्तेन च कर्म- योगेन तत्कर्माकर्मेवाबन्धकं सच्चित्तशुद्धिज्ञानप्राप्तिद्वारा मोक्षहेतुर्भवति यत एवं तस्मात्, हे पार्थ! स्वमपि युद्धं स्वकर्म श्रद्धया यथोक्तविधं कुरु । ततश्च संसारबन्धान्मोक्ष्यसे- इतीमं भावं सूचयितुमेव गर्थेति सम्बुद्धिः ॥२८॥ इति श्री कोण्डोपनामक रामकविकृतौ श्रीभगवद्गीताभाष्यार्कप्रकाशे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः । श्रीहयग्रीवार्पणमस्तु । सौम्यवैशाखशुद्ध षष्ठी । ॐ