१६

श्रीहयग्रीवाय नमः । भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतासु षोडशोऽध्यायः । दैवी आसुरी राक्षसी चेति प्राणिनां प्रकृतयो नवमेऽध्याये सूचिताः । तासां विस्त- रेण प्रदर्शनाय ‘अभयं सत्त्वसंशुद्धि रित्यादिरध्याय आरभ्यते । तत्र संसारमोक्षाय देवी प्रकृतिः, निबन्धायासुरी, राक्षसी चेति दैव्या आदानाय प्रदर्शनं क्रियतेः इतरयोः परि- वर्जनाय च - श्रीभगवानुवाच- अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १॥ अभयमिति । अभयमभीरुता, सत्त्वसंशुद्धिः सत्त्वस्यान्तःकरणस्य संशुद्धिस्संव्यवहारेषु परवश्चनामायानृतादिपरिवर्जनं शुद्धसत्वभावेन व्यवहार इत्यर्थः । ज्ञानयोगव्यवस्थितिर्ज्ञानं शास्त्रत आचार्यतश्चात्मादिपदार्थानामवगमः; अवगतानामिन्द्रियाद्युपसंहारेणैकाग्रतया स्वात्म- 1 प्रकृतयस्स्वभावाः । नवम इति । ‘मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसी. मासुरीं चैव प्रकृति मोहिनीं श्रिताः ॥ महात्मानस्तु मां पार्थ ! देवीं प्रकृतिमाश्रिताः । भजन्त्यनन्य - मनसो ज्ञात्वा भूतादिमव्यय’ मिति तत्रोक्तत्वादिति भावः । संक्षेपेणोकार्थस्य विस्तरेण कथनमिह सङ्गतिरिति बोध्यम् । किमर्थं तत्प्रदर्शनमत आह-तत्रेति । प्रकृतित्रयमध्य इत्यर्थः । संसारेति । ‘देवी सम्पद्विमोक्षाय निबन्धायासुरी म’तेति वक्ष्यमाणत्वादिहैवेति भावः । आदानायेति । धर्मव- स्वीकारायेत्यर्थः । इतरयो राक्षस्या आसुर्याश्चेत्यर्थः । परिवर्जनायेति । अधर्मवदिति भावः । देवी विज्ञाता ग्रहणायोग्या, आसुरी राक्षसी च विज्ञाता परित्यागयोग्येति तद्विज्ञानमावश्यकमिति तद्विज्ञानार्थमाह भगवानिममध्यायं षोडशमिति भावः । अभयमिति । ‘द्वितीयाद्वै भयं भवतीति श्रुतेर द्वितीयब्रह्मज्ञानसाध्यमिदमभयं भयाभावः । देहादिकं सर्वमनित्यमिति निश्चयाच्याध्यादिभ्यो भयाभावो ऽभयमिति वा । तु नास्तिकच न्नरकादेर्भयाभाव इहाभयमित्युक्त मिति भ्रमितव्यं तस्यासुर- रूपद्विषयत्वात् । शुद्धसध्यभावेनेति । निष्काष्टयेनेत्यर्थः । अन्तरेकमर्थं निधाय बहिरन्यार्थस्य इथनं कपटस्वभावः, तद्विपरीतोऽयं शुद्धसत्त्वस्वभावः । यदन्तर्बहिश्च करूप्येण वर्तनम् । स्वात्मसंवेद्य- २४६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु संवेद्यतापादनं योगः । तयोर्ज्ञानयोग योर्व्यवस्थितिर्व्यवस्थानं तन्निष्ठता । एषा प्रथाना देवी साच्चिकी सम्पत् । यत्र येषामधिकृतानां या प्रकृतिस्सम्भवति साच्चिकी सा उच्यते । दानं यथाशक्तिसंविभागोऽनादीनाम् । दमच बाह्यकरणानामुपशमः, अन्तःकरणस्योपशमं शान्ति वक्ष्यति । यज्ञश्च श्रौतोऽग्निहोत्रादिः, स्मार्तश्व देवयज्ञादिः स्वाध्याय ऋग्वेदाध्य- यनमदृष्टार्थः तपो वक्ष्यमाणं शारीरादि; आर्जवमृजुत्वं सर्वदा ||१|| किंच- अहिंसा सत्यमक्रोधस्त्यागश्शान्तिरपैशुनम् । दया भूतेष्वलोलुपत्वं मार्दवं हीरचापलम् ॥२॥ । अहिंसेति । अहिंसाऽहिंसनं प्राणिनां पीडावर्जनम् । सत्यमप्रियानृतवर्जितं यथा- भृतार्थवचनम् । अक्रोधः परैराकृष्टस्याभिहतस्य वा प्राप्तस्य क्रोधस्योपशमनम् । त्यागः तापादनं स्वानुभवापादनम् । एषेति । अभयादित्रिकमित्यर्थः । का दैवीत्यत आह-साचिकीति । सात्त्विक लक्षयति — यत्रेति । यत्र च ब्रह्मचर्याग्निहोत्रादौ येषां ब्रह्मचारिगृहस्थादीनां यत्र च इज्याध्ययनयुद्धादौ येषां ब्राह्मणक्षत्रियादीनामिति वा । या प्रकृतिस्वभावः प्रवृत्तिरिति यावत् । सम्भवति सा सात्त्विकीत्युच्यते । स्वस्ववर्णाश्रम विहितानुष्ठानं सात्विकी प्रकृतिरित्यर्थः । शक्ति - मनतिक्रम्य यथाशक्ति, स्वशक्त्यनुगुणमित्यर्थः । अन्नादीनामन्नधान्यघनादीनां संविभागोऽर्थ्यादिभ्यो यथार्हं विभजनम् । उपरमो निर्व्यापारता । वक्ष्यतीति । शान्तिरित्यनेनेति भावः । अदृष्टार्थ- मिति । आमुष्मिकफलकमित्यर्थः । इदं विशेषणं स्वाध्याये तपसि चान्वेति । शारीरादिति । ‘देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ अनुद्वेगकरं वाक्ये सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ मनः प्रसादस्सौम्यत्वं मौनमात्म- विनिग्रहः । भावसंशुद्धिरित्येतत्तपों मानसमुच्यत’ इत्यनन्तराध्याये वक्ष्यति । ऋजुत्त्रमवकत्वं, सम- स्वभाव इति यावत् ॥१॥ अहिंसेति । न हिंसाऽहिंसा हिंसाभावः । अप्रियानृतवर्जितमिति । अप्रियानृताभ्यामन्य- दित्यर्थः । यदप्रियं न भवति, यच्चानृतं न भवति तदिति यावत् । प्रियं नामात्र हितं नः विष्टं यथा- मूतार्थवचनस्यापि केषाञ्चित्पिशुनादीनामनिष्टत्वात् । अनिष्टमपि हितमेव चोरस्यापि सत्यवचनं राज- दण्डनेन पापक्षयादिति । यद्वा अप्रियानृतवर्जितम प्रियत्यानृतत्वरहितम् । तथा च स्मर्यते : ‘सत्यं ब्रूया- त्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्म सनातन" इति । यथाभूतार्थवचन- मिति । यथाभूतप्रियार्थवचनमित्यर्थः । योऽर्थो यथाभूतस्तस्यार्थस्य प्रियस्य तथैव कथनमिति यावत् । यथाभूतस्याप्यप्रियस्य वर्जनाय प्रियस्येत्युक्तम् । प्रियस्याप्यंमृतस्य वर्जनाय यथाभूतार्थस्येत्युक्तम् । यथाभूतप्रियार्थवचनं यथाभूतहितार्थवचनं वा सत्यमिति फलितार्थः । अप्रियानृतवर्जितं वचनं सत्यमित्यु- षोडशोऽध्यायः । २.४७ सन्न्यासः पूर्वे दानस्योक्तत्वात् । शान्तिरन्तःकरणस्योपशमः । अपैशुनमपिशुनता- परस्मै. पररन्ध्रप्रकटीकरणं पैशुनं तदभावोऽपैशुनम् । दया कृपा भूतेषु दुःखितेषु । अलोलुप्त्व- मिन्द्रियाणां विषयसन्निधावविक्रिया । मार्दवं मृदुताऽक्रौर्यम् । हीर्लज्जा । अचापलमसति प्रयोजने वाक्पाणिपादादीनामव्यापारयितृत्वम् ||२|| किंच- तेजः क्षमा वृति शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं देवीमभिजातस्य भारत ! ॥ ३ ॥ तेज इति । तेजः प्रागल्भ्यं न त्वग्गता दीप्तिः । क्षमाssकृष्टस्य ताडितस्य वाऽन्त- विक्रियानुत्पत्तिः, उत्पन्नायां विक्रियायामुपशमनमक्रोध इत्यवोचाम । इत्थं क्षमाया अक्रोधस्य च विशेषः । धृतिर्देहेन्द्रियेष्ववसादं प्राप्तेषु तस्य प्रतिषेधकोऽन्तः करणवृत्तिविशेषः, येनोत्तम्भितानि करणानि देहश्व नावसीदन्ति । शौचं द्विविधं मृज्जलकृतं बाह्यमाभ्यन्तरं च्यते । अप्रियानृतवर्जितमित्यस्यैव व्याख्यानं यथाभूतार्थवचनमिति विवेकः । अन्यथाऽनृतवर्जितमित्यने- नैव यथाभूतार्थसिद्धौ यथाभूतेत्यस्य पुनरुक्तिस्स्यात् । यथाभूतेत्यनेनैवाननवर्जितत्व सिद्धावनृतवर्जित- मित्यस्य वा पुनरुक्तेः । अप्रियवर्जितं यथाभूतार्थकथनमिति भाष्यपाठस्तु निरवद्यः । यथाभूतप्रियार्थ- कथनं सात्त्विकस्वभावः । तेन यस्सात्त्विक दैवीं सम्पदमिच्छति प्राप्तुं स पुरुषो यथाभूतप्रियार्थमेव ब्रूयात् । रामानुजेनाप्युक्तं सत्यं यथादृष्टार्थगोचर भूतहितवाक्यमिति । यद्यपि यथाभूतार्थवचनेनैव सत्य- वादी भवति, तथापि सत्यं भूतहितं प्रोक्तमिति नियमात्तथाभूतोक्तिरिति वेदान्तदेशिकेनाप्युक्तम् । परं तु वाक्यमिति कथनमयुक्तं रामानुजस्य । बाक्यप्रयोगस्यैव सात्त्विकपुरुषधर्मत्वं नतु वाक्यमिति । आकृष्टस्याविक्षिप्तस्याभिहतस्य ताडितस्य वा सतः स्वस्य यः प्राप्तः क्रोधस्तस्योपशमनमक्रोधः सन्न्यासः कर्मणां तत्फलस्य वा परित्यागः । नतु द्रव्यत्याग इत्याह– पूर्वमिति । पिशुनस्सूचकः । रन्ध्राणि दोषाः । लज्जेति । आत्मगुणश्रवणादिष्विति भावः । अकार्यकरण इति रामानुजः, तदसत् - अकार्य करणेच्छाप्रस केरप्यभावात्सात्त्विकपुरुषस्य । अव्यापारयितृत्वं वचना दिव्यापाराजन- कत्वम् ॥२॥ तेज इति । प्रागल्भ्यं पराभिभवनसामर्थ्यं प्रौढत्वमिति यावत् । नतु देहकान्तिरित्याह- नेति । अन्तर्विक्रिया मनोविकारों दुःखामर्षादिः । उत्पन्न विकारोपशमनमक्रोधः; विकारानुत्पत्तिः क्षमेति विवेकमाह-उत्पन्नायामिति । सत्यामि ते शेषः । उपशमनमिति । विक्रियाया इति शेषः । उत्पन्नाया विक्रियाया अशननमिति भाष्ठमी वीनः । अवसादं शैथियं तस्याव- सादस्य । उतािन्युच्छ सेवानि करणानीन्द्रियाणि समनस्कानि नावसीदन्ति देव नावसीदति । द्विविवमिति । बाह्यान्तरं वेति भावः । माया वचनाद रागः कान आदिको दे 4 २४८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मनोबुद्धयोनैर्मल्यं मायारागादिकालुष्याभावः, एवं द्विविधं शौचम् | अद्रोहः परजिघां- साभावोऽहिंसनम् । नातिमानिताऽत्यर्थे मानोऽतिमानः, स यस्य विद्यते सोऽतिमानी, तद्भावोऽतिमानिता, तदभावो नातिमानिता; आत्मन: पूज्यतातिशयभावनाभाव इत्यर्थः । भवन्त्यभयादीन्येतदन्तानि सम्पदमभिजातस्य । किं विशिष्टां सम्पदम् | देवीं देवानां या सम्पत्तामभिलक्ष्य जातस्य दैवविभूत्यर्हस्य भाविकल्याणस्येत्यर्थः । हे भारत ! ॥३॥ अथेदानीमासुरी सम्पदुच्यते- दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ ! सम्पदमासुरीम् ||४|| 1 दम्भ इति । दम्भो धर्मध्वजित्वम् । दर्पो विद्याधनस्वभिजनादिनिमित्त उत्सेकः । अतिमानः पूर्वोक्तः । क्रोधश्च । पारुष्यमेव च परुषवचनं यथाकाणं चक्षुष्मान् विरूपं रूपवान् हीनाभिजनमुत्तमाभिजन इत्यादि । अज्ञानं चाविवेकज्ञानं मिथ्याप्रत्ययः । कर्तव्याकर्त व्यादिविषयमभिजातस्य पार्थ! किमभिजातस्येत्याह- सम्पदमासुरीमसुराणां सम्पदासुरी तामभिजातस्येत्यर्थः || ४॥ ग्रहणम् | अहिंसेत्यनेन परद्रोहः प्रतिषिद्धः । अद्रोह इत्यनेन परद्रोहेच्छैत्र प्रतिषिध्यत इति भेदः । यतिमानिताया व्यभावो नातिमानिता, पूज्यता तिशयस्य भावनं प्रकटनं तदभाव आत्मश्लाघाराहित्य- मित्यर्थः । अभिलक्ष्योद्दिश्य, भावि भविष्यत्कल्याणं देवत्वरूपं यस्य तस्य भाविकल्याणस्य । अभयादय एते देवधर्मा यस्य सात्त्विकपुरुषस्य सन्ति स एदद्देहावसाने देवो भविष्यतीत्यर्थः । यद्वा कल्याणं स्वर्गापवर्गान्यतरात्मकम् । तथा च यस्याभयादयस्तन्ति स देव विभूतिप्राप्त्यई- स्सम्यग्दर्शनानुदये देवत्वं प्राप्स्यति । तदुभये च मुक्ति प्राप्स्यतीत्यर्थः । अथ वा कल्याणं मोक्ष एव ‘दैवी सम्पद्विमोक्षा’ येति वक्ष्यमाणत्वात् । देवविभूत्यर्होऽप्ययमभयादिगुणवान् सात्त्विकः पुरुषस्सम्य- ग्ज्ञानान्मोक्ष्यत इत्यर्थः । एतेन यथा दिवि देवा राक्षसाश्चेति द्वेषा पुरुषास्सन्तिः शान्ताः क्रूराश्व तथा भुव्यपि मनुष्येषु देवा राक्षसाश्चेति द्विविधास्सन्ति । तत्त्राभयाद्युक्त गुणवन्तः पुरुषा मनुष्या देवाः । दम्भादिवक्ष्यमाणगुणशालिनस्तु मनुष्या राक्षसा मसुराश्चेति सिद्धम् । दैवीमभिजातस्येत्यस्य भगव- दाज्ञां निर्वर्तयितुं जातस्येति रामानुजोऽर्थमाह- नेदं सम्यकू - हिरण्याक्षादिराक्षसानामपि भगव- दाज्ञानिर्वर्तनायैव जातत्वात् । यथाश्रुतार्थं विहायैतल्लाक्षणिकार्थकल्पनस्यान्याय्यत्वाच्च ॥३॥ दम्भ इति । धर्मध्वजित्वं- धर्म एव ध्वजो धर्मध्वजः सोऽस्यास्तीति धर्मध्वजी तत्त्वम् । यथा पार्थादीनां कप्यादयो ध्वाजास्तथास्य धर्म एव ध्वज इत्यर्थः । यथा राजानो ध्वजैस्स्वप्रतिष्ठां प्रख्याप- यन्ति तथाऽयं धर्मेण स्वप्रतिष्ठां प्रख्यापयतीति भावः । धार्मिकत्व प्रख्यापनाय धर्मानुष्ठानं दम्भ इति यावत् । स्वभिजनस्सत्कुलोत्पत्तिः । आदिपदाद्रूपादिग्रहणम् । उत्सेको गर्वः । पूर्वोक्त इति । . ३२ अनयोस्सम्पदोः कार्यमुच्यते- षोडशोऽध्यायः । देवी सम्पद्विमोक्षाय निबन्धायासुरी मता । मा शुचस्सम्पदं दैवीमभिजातोऽसि पाण्डव ! ॥५॥ २४९ देवीति । दैवी सम्पद्या सा विमोक्षाय संसारबन्धनात् । निबन्धाय नियतो बन्धो निबन्धः तदर्थमासुरी सम्पन्मताऽभिप्रेता । तथा राक्षसी च । तत्रैवमुक्ते अर्जुनस्यान्तर्गतं भावं ‘किमहमासुरसम्पद्युक्तः १ किं वा दैवसम्पद्युक्तः १ इत्येवमालोचनारूपमालक्ष्याह भगवान् - मा शुचः शोकं माकार्षीः । सम्पदं देवीमभिजातोऽस्यभिलक्ष्य जातोऽसि ; भावि - कल्याणस्त्वमसीत्यर्थः । हे पाण्डव ! ॥५॥ द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । देवो विस्तरशः प्रोक्त आसुरं पार्थ ! मे शृणु || ६ || 1 द्वाविति । द्वौ द्विसङ्ख्याको भूतसर्गों भूतानां मनुष्याणां सर्गों सृष्टी भूतसर्गों सृज्ये- तेति सर्गों भूतान्येव सृज्यमानानि देवासुरसम्पद्विययुक्तानीति द्वौ भूतसर्गावित्युच्येते । ‘द्वया ह प्राजापत्या देवाश्चासुरा चेति श्रुतेः । लोकेऽस्मिन् संसार इत्यर्थः । सर्वेषां द्वैवि- आत्मनः पूज्यतातिशयभावनेत्यर्थः । क्रोध इष्टवस्तुविघातादिजन्यो मनोविकारः प्रसिद्धः । येन कर्त- व्याकर्तव्यविमूढस्सन् मातरं पितरं भ्रातरं सुतं वा हन्ति । परुषवचनं कटुवावप्रयोगः । तदेव दर्शयति - यथेति । चक्षुष्मान् काण इति रूपवानन्त्रिरूप इति, उत्तमाभिजनो हीनाभिजन इति च यदुच्यते तद्वचनं परुषमित्यर्थः । गुणवत्यपि पुरुषे दोषमारोप्य दूषणं पारुष्यमिति यावत् । मिथ्या- प्रत्ययो भ्रमः; कर्तव्ये विषये अकर्तव्यबुद्धिः, अकर्तव्ये च कर्तव्यबुद्धिरित्यर्थः । आसुरीमित्युपलक्षण राक्षस्याश्च । असुराणामियमासुरी ||४|| दैवीति । ननु दैवी मोक्षहेतुरासुरी संसारहेतुश्चेत्युक्तं, नतु राक्षसी कस्यापि हेतुरिति, मत आह— राक्षसी चेति । राक्षसी च संसारहेतुरेवेत्यर्थः ||५|| द्वाविति । अस्मिन् दैव आसुर एव चेति द्वौ भूतसर्गौ स्तः । तत्र मया दैवो भूतसर्गो विस्तरशः प्रोक्तः । हे पार्थ! आसुरं भूतसर्गे मे वचनाद्विस्तरशः शृणु । आसुर राक्षसयोरमेदा- द्वावित्युक्तिः । भूतानां सृष्टिद्विविधा- दैवी आसुरी चेति । अयं च सृष्टिभेदस्सृज्यमानभूतभेद- प्रयुक्त एवेति बोध्यम् । सर्गशब्दस्य भावव्युत्पत्त्या सृष्ट्यर्थमभिधाय कर्मव्युत्पत्त्या अर्थान्तरमाह - सृज्येत इति । भूतान्येव सर्गों भूतसर्गौ । सृज्यमानदेवासुरसम्पद्विययुक्त भूतानीत्यर्थः । सृज्यमान- भूतानि द्विविधानि देवसम्पद्युक्तान्यसुरसम्पद्युकानि चेति भावः । तत्र श्रुतिं प्रमाणयति - द्वया- हीति । देवाश्चासुराश्चेति प्राजापत्या द्वया हि । प्रजापतिर्ब्रह्मा, तेन सृष्टाः प्राणिनः प्राजापत्याः । द्वया द्विविधाः, हिः प्रसिद्धौ । ननु जग ते देवासुरसम्पद्विय रहि पृथिव्यादिभूतसर्गस्याप्यचेतनस्य सत्त्वात्कथं ‘द्वौ भूतसर्गौ लोकेऽस्मि ’ नित्युक्तमत माह - संसार इति । संसारवेषग्भूतौ भूग २५० श्रीभगवद्गीतासु - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ध्योपपत्तेः । कौ तौ भूतसर्गावित्युच्यते - प्रकृतावेव दैव आसुर एव च । उक्तयोरेव पुन- रनुवादे प्रयोजनमाह - देवो भूतसर्गः ‘अभयं सत्त्वसंशुद्धि’ रित्यादिना विस्तरशो विस्तर- प्रकारैः प्रोक्तः कथितः; न त्वासुरो विस्तरशः, अतस्तत्परिवर्जनार्थमासुरं हे पार्थ! मे मम वचनादुच्यमानं विस्तरशशशृण्वत्रधारय ! ॥६॥ आऽध्यायपरिसमाप्तेरासुरी सम्पत्प्राणिविशेषणत्वेन प्रदर्श्यते, प्रत्यक्षीकरणेन च शक्यते तस्याः परिवर्जनं कर्तुमिति - प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥ प्रवृत्तिमिति । प्रवृत्ति च प्रवर्तनं यस्मिन् पुरुषार्थसाधने कर्तव्ये या प्रवृत्तिस्तां निवृत्तिं चैतद्विपरीतां यस्मादनर्थहेतोर्निवर्तितव्यं सा निवृत्तिस्तां च जना आसुरा न विदुर्न जानन्ति । न केवल प्रवृत्तिनिवृत्ती एव ते न विदुः, न शौचं नापि चाचारः, न सत्यं तेषु विद्यते; अशौचा अनाचारा मायाविनोऽनृतवादिनो ह्यासुराः ॥७॥ D द्वावेव । अचेतनानां संसाराविषयत्वादिति भावः । सर्वेषामिति । संसाराश्रयाणां सवचेतनाना- मित्यर्थः । देवासुरसम्पदन्यतररहितः कोऽपि प्राणी नास्तीति द्वैविध्यमेव भूतानामिति भावः । कौ तौ भूतसर्गाविति शङ्कायामाह भगवान्- दैव आसुर एव चेति । तौ च नापकृतावित्याह भगवान् भाष्यकारः - प्रकृतावेवेति । दैवासुरसम्पत्प्रदर्शनप्रकरणत्वादस्याध्यायस्येति भावः । तत्परिवर्ज - नार्थमिति, आसुरसम्पत्परित्यागार्थमिति । आसुरसर्गस्य विस्तरेण कथनार्थे दैवासुरयोरिह पुन- रनुवादः कृतः । तच कथनमसुरसम्पत्परिवर्जनार्थमिति भावः ॥ ६ ॥ 1

आ अध्यायपरिसमाप्तेरिति छेदः । अध्यायपरिसमाप्तिपर्यन्तमसुरसम्पदिह वर्ण्यत इत्यर्थः । प्रवृत्तिमिति । प्राणिविशेषा आसुरसम्पच्छालिन इत्यर्थः । तथा प्रदर्शने फलमाह — प्रत्यक्षेति । तस्या असुरसम्पदः प्रत्यक्षेण ज्ञातासुरसम्पत्त्यवतुं शक्यते पुरुषेणेत्यर्थः । आसुरा जनाः प्रवृतिं च निवृतिं च न विदुः । शौचं च न विदुः । तेष्वाचारोऽपि न विद्यते । सत्यं च न विद्यते । यज्ञादि- विहितकर्मणि प्रवृत्ति हिंसादिनिषिद्धकर्मणो निवृतिं च न विदुरित्याह – यस्मिन्निति । पुरुषार्थस्य स्वर्गादेरसाधने कर्तव्ये यज्ञादिकर्मणि विहिते या प्रवृतिः प्रवर्तनं तां तत्कर्म विषयवस्त्रवृत्तिमित्यर्थः । तद्विपरीतामिति । प्रवृत्तिविपरीतामित्यर्थः । अनर्थहेतोर्नर कादिदुःखहेतोरधर्मान्निवर्तितव्यं पुरुषेणेति शेषः । स्वेनेति वा । सा तस्मान्निवर्तनमित्यर्थः । विधेयप्राधान्यात्स्त्रीत्वम् । निवृतिरित्युच्यत इति शेषः । तां च निवृत्तिमनर्थहेतोर्निषिद्धकर्मणो निवर्तनमित्यर्थः । आसुरा असुरसम्पच्छालिनोऽसु- रांशजा वेति यावत् । न विदुरिति । अज्ञानादेव विहिते कर्मणि न प्रवर्तन्ते, निषिद्धान्नैव निव- तन्त इत्यर्थः । न केवलमिति वाक्यस्यानन्तरं किं त्विति शेषः । एवंविधजनानामासुरत्वे को हेतु- रत आह- अनाचारा इति । मायाविनः परवञ्चकाः । जनाश्वासुराः खर्गे नास्ति नरके नास्ती- किंव-

षोडशोऽध्यायः । असत्यमप्रतिष्टं ते जगदाहुरनीश्वरम् । अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||८|| २५१ असत्यमिति । असत्यं यथा वयमनृतप्रायास्तथेदं जगत्सर्वमसत्यमप्रतिष्ठ च नास्य धर्माधर्मौ प्रतिष्ठाऽतोऽप्रतिष्ठं चेति ते आसुरा जना जगदाहुरनीश्वरं नच धर्माधर्मसव्यपेक्ष- मस्य शासिता ईश्वरो विद्यत इत्यतोऽनीश्वरं जगदाहुः । किंचापरस्परसम्भूतं कामप्रयुक्तयोः स्त्री पुरुषयोरन्योन्यसंयोगाज्जगत्सर्व सम्भूतम् । न यदि किमन्यत्कामहैतुकं - कामहेतुकमेव त्येवं वदन्तः परेषामपि बुद्धि भेदयन्ति । हिः प्रसिद्धौ । हि यस्मादिति वा । यस्मादसुरा एवंविधा - स्तस्मादासुरा जनास्तादृशा इत्यर्थः ॥७॥ असत्यमिति । ते जगदसत्यमप्रतिष्ठमनीश्वरं चाहुः । अपरस्परसम्भूतं किंचिन्न । काम- हेतुकम् । असत्यमाया अनृतप्रचुराः । असत्यं सत्यरहितम् । आत्मवन्मन्यते जगदिति न्यायादिति भावः । जगतोऽसत्यत्वं तद्गतप्राणिद्वारेति बोध्यम् । जगति कोपि प्राणी सत्यवान्न भवतीत्यर्थः । अप्रतिष्ठं धर्माधर्माख्यप्रतिष्ठारहितं धर्माधर्मपरतन्त्रं न भवतीत्यर्थः । जन्मान्तरकृतधर्माधर्मवशात्प्राणिनां सुखदुःखसम्भव इति वचनमयुक्तं, किंतु स्वाभाविक एव सुखदुःखानुभवं प्राणिनामिति भावः । धर्मा- धर्मसव्यपेक्ष धर्माधर्मसापेक्ष यथातथा अस्य प्राणिवर्गस्य शासिता शिक्षकः कश्चिदीश्वरो न विद्यत इत्यन्वयः । ईश्वरेऽभ्युपगते सति धर्माधर्माभ्युपगमस्स्यात् । ततश्चाधर्मानुष्ठानान्नरकादिभयमाशङ्कये- तेति कृत्वा तावदीश्वरमेव नाभ्युपगच्छन्त्यासुरा जना इति भावः । नन्वेवमीश्वराभावे कथं जगदुत्पत्तिरत माह — अपरस्परसम्भूतमिति । अत्रायं भाष्य- पाठ: - अपरस्परसम्भूतं न किंचिद्दृष्टं कामप्रयुक्तयोः स्त्रीपुरुषयोरन्योन्यसंयोगाज्जगत्सर्वे सम्भूतं न यदि कर्मादिकारणान्तरं विद्यते जगतः । किमस्य कारणं कामहेतुकं कामहेतुरेव, कामहेतुकं न किञ्चित्कारणान्तरं न किञ्चन कामान्यकारणं स्याद्दृष्टं काम एव प्राणिनां कारणमिति लोकायतिक- दृष्टिरियम् । अस्येदं व्याख्यानम् - परस्परो मिथुनम् । अन्योन्यवाचिनः परस्परशब्दस्यात परस्पर- संयुक्तमिथुनपरत्वमुपचारतस्तस्मादसम्भूतमपरस्परसम्भूतं किंचिदपि सत्वमिति शेषः । न दृष्टं नोप- लभ्यते । पशुपक्षिमनुष्यादयस्सर्वेपि प्राणिनः परस्परसङ्गतात् स्त्रीपुरुषमिथुनादेव जाताः, नत्वीश्वरादिति भावः । नेदं बौद्धमतं समीचिनमिति भ्रमितव्यं, क्षित्यादीनामप्राणिनां स्वेदजादीनां प्राणिनां चापर- स्परसम्भूतानां सत्त्वेन तदर्थमीश्वरस्यावश्यमभ्युपगन्तव्यत्वात् । तात्पर्यार्थमाह — कामप्रयुक्तयोरिति । कामस्सुरतेच्छा तेन प्रयुक्तयोः प्रेरितयोस्सङ्गतयोर्वा स्त्रीपुरुषयोरन्योन्यसंयोगान्मिथुनीभावान्निमित्तत्सर्वं जगत्सम्भूतम् । कर्मादिकारणान्तराज्जगन्नोद्भूतमिति फलितार्थः । ननु यदि जगतः कर्मादिकारणान्तरं न विद्यते तर्हि किमस्य जगतः कारणमिति पृच्छति - न यदीति । समाधते — कामहैतुकमिति । 4 २५२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु कामहैतुकं किमन्यज्जगतः कारणम् ? न किञ्चिददृष्टं धर्माधर्मादि कारणान्तरं विद्यते जगत :- ‘काम एव प्राणिनां कारण’ मिति लोकायतिकदृष्टिरियम् ||८|| स्वार्थे क इत्याह - कामहेतुकमेवेति । काम एव हेतुः कामहेतुः, स एव कामहेतुकम् । क्लीबत्वं सामान्यात् । न चापरस्परसम्भूतमित्यस्मादेव पदादयमर्थस्सिद्ध इति वाच्यं, अपरस्परसम्भूतं न किंचि- दस्तीत्यनेन स्त्रीपुरुषसंयोगो जगतो निमित्तमित्युक्तं, तस्य च संयोगस्य को हेतुरित्यत उक्तम्-काम- हेतुकमिति । एतस्य कामहेतुकमित्यस्याप्यर्थस्य संग्रहादुक्तं भाष्यकारैः कामप्रयुक्तयोरिति बोध्यम् । नच स्त्रीपुरुषसंयोग प्रत्येव कामः कारणं न जगत इति वाच्यं, संयोगद्वारा कामस्य जगतोपि कार- णत्वात् । संयोगस्य कारणत्वं कामस्य परमकारणत्वमिति वा । एवं न किंचित्कामहेतुकमिति पाठमाश्रित्य भाष्यं विधायाऽथ न किंचित्कारणान्तरमिति पाठ- माश्रित्य भाष्यं रचयति भाष्कारः - न किंचिदिति । न किंचिदित्यस्थावृत्तिः । अपरस्परसम्भूतं किंचिन्नास्ति । कारणान्तरं किंचिन्नास्तीति । अपरस्परसम्भूतमित्यनेन त्वर्थात्सिद्धं कामकारणकत्वं जगतः । अत उक्तम् — कामान्यकारणमिति । किंच नापि कामान्यकारणं दृष्टं न स्यादित्यन्वयः । कामादन्यत्किमपि कारणं नोपलभ्यत इत्यर्थः । फलितमाह — काम एवेति, कारणमिति । उत्पत्ति प्रति हेतुरित्यर्थः । स्त्रीपुरुष संयोजनद्वारेति भावः । केषां मतमिदमत आह- लोकायतिकदृष्टि- रिति । बौद्धमतमित्यर्थः । अत्र ‘अपरस्परसम्भूतं किमन्यत् काम हैतुक’ मिति नागरपुस्तकेषु पाठः । भाष्यपाठस्तु अपरस्पर- सम्भूतं कामप्रयुक्तयोः स्त्रीपुरुषयोरन्योन्यसंयोगाज्जगत्सर्वे सम्भूतम् । किमन्यत्कामहैतुकं कामहेतुकमेव कामहैतुकं किमन्यज्जगतः कारणं न किंचिददृष्टं धर्माधर्मादिकारणान्तरं विद्यते जगतः काम एव प्राणिनां कारणमिति । अस्येदं व्याख्यानम् — अपरश्च परश्चेत्यपरस्परमन्योन्यं स्त्रीपुरुष मिथुनमित्यर्थः । तस्मात्सम्भूतमपरस्परसम्भूतमित्यभिप्रेत्याह - कामप्रयुक्तयोरित्यादि । काम एव हेतुर्यस्य तत्काम- हेतुकं तदेव कामहैतुकं कामातिरिक्तकारणशून्यमित्यर्थः । अपरस्परसम्भूतं जगत्कामहैतुकं भवती- त्यन्वयः । जगदपरस्परसम्भूतमत एव कामहैतुकं भवतीति वा । अथ किमन्यदित्येतद्व्याख्याति - किमन्यज्जगत इति । जगतः कामादन्यत्कारणं किमस्ती - त्याक्षेपः । फलितमाह – न किञ्चिदिति । कामरूपे दृष्टकारणे सम्भवति धर्माधर्मादिलक्षणादृष्ट- कारणकल्पना नवकाशादिति भावः । धर्माधर्मादीत्यादिपदादीश्वरस्यापि ग्रहणम् । सिद्धमर्थमाह- काम एवेति । अस्मिन्पक्षे तु अपरस्परसम्भूतं कामहैतुकमिति वाक्यान्तरे किमन्यदिति वाक्यान्तर- 1 कल्पनमयुक्तं न ह्यपरस्परसम्भूतं कामहेतुकं किमन्यदिति मूलमस्ति येनादोषस्यात् । अत एव श्रीधरः - जगदपरस्परसम्भूतं भवति किमन्यत्कारणमस्य नास्त्यन्यत्किञ्चित्, किंतु कामहैतुकमेव जग- दिति शेषः । स्त्रीपुरुषयोः काम एव प्रवाहरूपेण हेतुरस्येत्यर्थ इति व्याचख्यौ । अस्मिंश्च व्याख्याने I षोडशोऽध्यायः । एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥९॥ २५३ एतामिति । एतां दृष्टिमवष्टभ्याश्रित्य नष्टात्मानो नष्टस्वभावा विभ्रष्टपरलोकसाधना अनेकवाक्यकल्पनं बहुपदाध्याहारश्च । नच न किञ्चिदिति पाठपक्षेपि नास्त्येकवाक्यतेति वाच्यं, काम- हेतुकमपरस्परसम्भूतं किञ्चिन्नेत्येकवाक्यतायास्तत्त्वात् । नच कामहेतुकमित्यस्य पूर्ववाक्यान्वये समाप्त - पुनराख्यातदोष इति वाच्यं, साकांक्षत्वात्तस्य हेतुगर्भविशेषणं हि तत् । कामहेतुकत्वादपरस्परसम्भूतं किमपि नास्तीति । नच भाष्यकारैरेव मेकवाक्यतया न व्याख्यातमिति वाच्यं, प्रौढ्या तथा तै- यख्यातत्वात् । अस्मन्मते कामो हेतुर्यस्य तत्कामहेतुकमिति बहुव्रीहिरेव । ’ शेषाद्विभाषेति कः । तस्मादपरस्परसम्भूतं न किञ्चित्कामहेतुकमित्येव साधीयान् पाठः । अत्र परश्च परश्च परस्पर: ‘कर्म- व्यतिहारे सर्वनाम्नो द्वे वाच्ये’ इति परशब्दस्य द्विर्भावः । समासवच्च बहुलमिति बहुलग्रहणादन्य- परयोर्न समासवद्भावः । असमासवद्भावात्सोरलुक् । परसु परसु इत्यलौकिक विग्रहः । सोरुः रोर्विसर्गः विसर्गस्य कस्कादित्वात्सः परस्परः क्लीबे स्त्रियां च परस्परमिति रूपम् । लक्षगया द्वयोरेकस्मिन्दे हिनि स्त्रीत्वविवक्षया च प्रकृते मिथुनमिति तस्यार्थः । अपरश्व परश्चेति विग्रहे तु अपरस्परमिति रूपस्या- सिद्धिरेव । अपरपरशब्दयोस्समासे सोलुकि विसर्गाभावेन सत्त्वाभावात् । नचायं कर्मव्यतिहारे, सर्वनामद्विर्भावः । अपरपरशब्दयोर्भेदेन द्विर्भावाभावात् । नचापरश्चापरश्चेति विग्रहं ब्रूम इति वाच्यं, तथाप्यसमासवद्भावाभावात् । अन्यपरयोर्ह्यसमासवद्भावः । किंच द्वितीयस्यापरशब्दस्य कथमकारलोपः ? नाप्यपरश्व परश्च तयोस्समाहारोऽपरस्परमिति ब्रूम इति वाच्यं, सुविधानाभावेनापरस्परमित्येव भवि - तव्यत्वात् । नचापरस्परा इति निपातनात्सुट्सद्धिरिति वाच्यं क्रियासातत्य एव तन्निपातनात् । बहुत्वे चेति संक्षेपः । रामानुजस्तु - अपरस्परसम्भूतमन्यत्किमुपलभ्यते ? अतस्सर्वमिदं जगत्कामहेतुकमिति व्याचख्यौ, तन्मन्दम् — कुतो मन्दत्वमिति चेदुच्यते - अपरस्परसम्भूतं किमित्येतावतैवाभीष्टार्थसिद्धौ अन्यदिति व्यर्थमसङ्गतं च । अन्यदित्यनेन कस्मादन्यत्वं कस्यान्यत्वं वा विवक्षितम् । यदि परस्परसम्भूतादन्यत्वं विवक्षितं तर्हि अपरस्परसम्भूतमित्यनेनैव परस्परसम्भूतान्यार्थसिद्धेरन्यत्पदस्य पौनरुक्त्यम् । तदन्यत्वं हि नञोऽर्थः । कस्यान्यत्वं तु नैव विवक्षितुं शक्यं यस्यान्यत्वं विवक्षितं तस्य सत्त्वेऽपरस्परसम्भूतं नास्तीति वचनस्यायुक्तत्वात् । तस्यासत्त्वे अप्रसक्तनिषेधायोगेन तन्निषेधायोगाच्च । तथा कामहेतुक- मित्यस्यान्वयाय सर्वमिदं जगदिति पदाध्याहारोऽप्ययुक्त एव मूलाद्बहिः कल्पनस्याप्रमाणत्वात् । श्लोक पूर्वर्थस्थजगत्पदस्ये हा कर्षणमप्ययुक्तं व्यवहितत्वादिति ॥८॥ एतामिति । जना इति शेषः । आसुरा जना इति प्रकरणात् । एतां दृष्टिमवष्टभ्य नष्टा- मानोऽल्पबुद्धय उपकर्माणो जगतोऽहिताश्व सःतो जगतः क्षयाय प्रभवन्ति । एतां पूर्वोक्तां दृष्टिं लोकायतिक दर्शनमवष्टभ्य । नष्टोऽदर्शनं गतश्शून्य इति यावत् । स्वभावो ज्ञानात्मको येषां ते नष्ट- २५४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपता अल्पबुद्धयो विषयविषया अल्पैव बुद्धिर्येषां तेऽल्पबुद्धयः प्रभवन्त्युद्भवन्त्युग्रकर्माणः क्रूर- कर्माणो हिंसात्मकाः । क्षयाय जगतः प्रभवन्तीति सम्बन्धः । जगतोऽहिताश्शलव इत्यर्थः ॥ ते च- काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वाऽसद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥ १०॥ काममिति । काममिच्छाविशेषमाश्रित्यावष्टभ्य दुष्पूरमशक्यपूरणं, दम्भमानमदान्विता दम्भव मानश्च मदश्वः दम्भमानमदास्तैरन्विता दम्भमानमदान्विता मोहादविवेकतो गृही- त्वोपादायास द्ग्राहानशुभनिश्चयान् प्रवर्तन्ते लोकेऽशुचित्रता अशुचीनि व्रतानि येषां तेऽशुचिव्रताः ॥१०॥ किंच- चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥

1 " ‘चिन्तामिति । चिन्तामपरिमेयां च न परिमातुं शक्यते यस्याश्चिन्ताया इयत्ता स्वभावा नष्टज्ञाना इत्यर्थः । चेतनानां हि ज्ञान स्वभावः । ज्ञानशून्याः पाषाणकल्पा इति यावत् अर्थान्तरमाह — विभ्रष्टेति । आत्मशब्दस्य यत्नार्थवाचित्वं । द्रष्टपारलौकिकप्रयत्ना इत्यर्थः । बुद्धेरल्पत्वं नाम विषयविषयत्वमेवेत्यभिप्रेत्याह - विषयविषयैवेति । विषयाश्शब्दादयो विषया गोचरा यस्यास्सा विषयविषया विषयासक्तेत्यर्थः । बुद्धिरन्तः करणावस्थाविशेषः, नंतु ज्ञानम् । उद्भवन्ति जायन्ते । जन्मना सहैव जायते एतेषामियामासुरी प्रवृत्तिरिति भाव: । हिंसात्मका इति । हिंसायामेवात्मा मनो येषां ते हिंसात्मका धातुका इत्यर्थ: । क्षयायेति । लोकायतिकदृष्ट्य व लम्बानामत एव नंष्टात्मनामल्पबुद्धीनामु प्रकर्मणां जगदहितानां जनानां जन्म जगतः क्षयायैव भवति । अत एवैते लोकशत्रवः । + ननु कुतः क्षयायेति चेदुच्यते — असुरप्रवृत्तयो हीमे जनाः प्राणिनो हिंसन्ति । वैदिक- मार्गात्स्वयं भ्रष्टा अन्यानपि बलात्कारोपदेशादिना भ्रंशयित्वा यज्ञाद्यभावेन वर्षाद्यभावपूर्वकं क्षामा- धुपद्रवेण लोकं हिंसन्ति चेति ॥ ९ ॥ काममिति । विशेष्यपदमाह - ते चेति । आसुरा जना इत्यर्थः । ते दुष्पूरं काममाश्रित्य दग्भमानमदान्विता अशुचित्रताश्च सन्तो मोहादसद्ग्राहान् गृहीत्वा प्रवर्तन्ते । दुष्पूरमिति । ‘न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धत’ इतिवचनादिति भावः । गृह्यन्ते जायन्ते एभिर्ज्ञेया इति ग्रहा ज्ञानानि त एव ग्राहाः स्वार्थेऽण् । असन्तश्च ते प्राहाश्वास- दुग्राहास्तानसमाहान् । क प्रवर्तन्तेऽत माह — लोक इति ॥१०॥ चिन्तामिति । आसुरा जना अपरिमेयां प्रलयान्तां चिन्तां चोपाश्रिताः, कामोपभोगपरमाषोडशोऽध्यायः । २५५ साsपरिमेया तामपरिमेयां प्रलयान्तां मरणान्तामुपाश्रिताः सदा चिन्तापरा इत्यर्थ: : । कामोपभोगपरमा:- काम्यन्त इति कामा विषयाश्शब्दादयस्तदुपभोगपरमाः ‘अयमेव परमः पुरुषार्थो यः कामोपभोग’ इत्येवं निश्चितात्मान एतावदिति निश्चिताः ॥ ११॥ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थ मन्यायेनार्थसञ्चयान् ॥ १२ ॥ आशापाशेति । आशापाशशतैराशा एव पाशास्तच्छत्तैर्बद्धा नियन्त्रितास्सन्तस्सर्वत आकृष्यमाणाः कामक्रोधपरायणाः कामक्रोधौ परमयनमाश्रयो येषां ते कामक्रोधपरायणाः, ईहन्ते चेष्टन्ते कामभोगार्थं कामभोगप्रयोजनाय न धर्मार्थ, अन्यायेन परखाप्रहरणादि- नेत्यर्थः । किम् ? अर्थसञ्चयानर्थप्रचयान् ||१२|| ईदृशश्च तेषामभिप्रायः- इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १३ ॥ इदमिति । इदं द्रव्यमद्येदानीं मया लब्धम् । इदं चान्यत्प्राप्स्ये मनोरथ - मनस्तुष्टि- एतावदिति निश्चिता आशापाशशतैर्बद्धाः कामक्रोधपरायणास्सन्तः कामभोगार्थमन्यायेनार्थसञ्चया- नीहन्ते । इयत्ता परिमितिः । मरणान्तामिति । आमरणमित्यर्थः । फलितमाह– संदेदि । चिन्ता विषयानुध्यानम् । प्रलय: प्राकृतप्रलयः इति रामानुजः, तदयुक्तम् - देहत्यागरूपपलया तिकपणे कारणाभावात् । चिन्तादीनां मरणावधिकत्वस्य लोकव्यवहार सिद्धत्वाच्च । कामोपभोगो: विषयानुभवः परमः प्रधानो येषां ते कामोपभोगपरमाः । एतावच्छन्दार्थमाह — अयमेवेति । निश्चिता निश्चय- वन्तः । फलितमाह — निश्चितात्मान इति । निश्चितबुद्धय इत्यर्थः ॥११॥ 1 आशेति, सर्वत इति । सर्वेषु विषयेष्वित्यर्थः । आकृष्यमाणा इति । आशापाशशतैरिति कर्तृ । ततद्विषयविषयास्तास्ता आशाः पुरुषं तत्तद्विषयान् प्रत्याकर्षन्तीत्ययमाशापाशबन्धो जीवस्ये- त्यर्थः । पुरुषस्य चेदमाकर्षणमन्तःकरणतादात्म्याभ्यासप्रयुक्तमिति मन्तव्यम् । कामभोगो. विषयानुभवः तस्मै कामभोगार्थम् । किमीहन्त इति पृच्छति - किमिति । प्रचया राशयः । अर्था धनानि । अर्थसञ्चयान् प्रतीहन्त इत्यन्वयः । अर्थसञ्चयसंग्रहार्थे व्याप्रियन्त इत्यर्थः । यद्वा सञ्चयाः प्रचयाः सञ्चयनानीत्यर्थः । यर्थान् सञ्चतं व्याप्रियन्त इत्यर्थः । ईहन्ते इच्छन्तीत्यर्थे विच्छामात्रमेत्र; नतु तत्र प्रवृत्तिरिति सिध्येत्तचानिष्टमि ते बोध्यम् । कामोपभोगार्थमपि नामीन्यायेन कृष्यादिना धनं सञ्चिन्वन्तीत्याह — अन्यायेनेति । कञ्चिदन्याय विशेषं दर्शयति परस्वेति । परस्वं परधनं तदप- हरणं चौर्यादिना परस्वापहरणम्रादिपदात्परक्षेत्रापहरणादि संग्रहः ॥ १२ ॥ → इदमिति । आसुरा जनाः । अद्य मयेदं लब्धं, इमं मनोरथं प्राप्स्ये । इदं धनमस्ति । २५६ श्री मगवद्गीतासु - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासुं करम् । इदं चास्तीदमपि मे भविष्यत्यागामिनि संवत्सरे पुनर्धनं, तेनाहं धनी विख्यातो भविष्यामीति ॥ १३ ॥ असौ मया हतशत्रुर्हनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ १४ ॥ असाविति । असौ देवदत्तनामा मया हतो दुर्जयश्शत्रुः । हनिष्ये चापरानन्यान् वराकानपि । किमेते करिष्यन्ति तपस्विनः १ सर्वथापि नास्ति मत्तुल्यः । कथं ? ईश्वरोऽहं, अहं भोगी, सर्वप्रकारेण च सिद्धोऽहं सम्पन्नः पुत्रैः पौलैर्नप्तृभिर्न केवलं मानुषैर्बलवान् सुखी चाहमेव; अन्ये तु भूमिभारायावतीर्णाः ॥ १४ ॥ आढ्यो ऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥१५॥ आढ्य इति । आढ्यो धनेनाभिजनवान् सप्तपुरुषं श्रोत्रियत्वादिसम्पन्नः । तेनापि न मत्तुल्योऽस्ति कश्चित् । कोऽन्योऽस्ति सदृशस्तुल्यो मया ? किंच यक्ष्ये यागेनाप्यन्या- पुनरिदं धनं मे भविष्यति, असौ शत्रुर्मया हतः, अपरानपि शत्रून्हनिष्ये च, अहमीश्वरः, महं भोगी, अहं सिद्धः, बलवान् सुखी च भवामीति शेषः । अहमाढ्यो ऽभिजनवांश्चास्मि । मया सदृशोऽन्यः कोऽस्ति । अहं यक्ष्ये, दास्यामि, मोदिष्य इत्यज्ञानविमोहिता अनेकचित्तविभ्रान्ता मोह- जालसमावृताः कामभोगेषु प्रसक्ताश्च सन्तः, अशुचौ नरके पतन्तीति श्लोकचतुष्टयान्वयः । प्राप्स्ये प्राप्स्यामि । भविष्यतीति भविष्यदर्थनिर्देशादाह – आगामिनि संवत्सर इति । तदन्तर्गतं भाव- माह - तेनेति । विख्यातः प्रसिद्धो लोक इति शेषः ॥१३॥ असाविति । तपस्विनो दीना एते शत्रवः, सिद्धस्सम्पन्नः । कैरित्यत आह – पुत्रैरिति । पुत्रैः पौत्रैर्नप्तृभिश्वाहं सिद्धः ; मानुषैर्मनुष्यैस्सिद्धः । पुत्रादिभिः केवलं न, किंतु बलसुखाभ्यामपि सिद्ध एवेत्याह- बलवान् सुखी चेति ॥ १४ ॥ यद्वा आढ्य- आढ्य इति । ‘इभ्य आढ्यो धनी स्वामी’ति कोशादाह - धनेनेति । श्श्लाघ्यः । केनास्य श्लाध्यत्वमत आह— धनेनेति । अभिजनस्सत्कुलप्रसूतिः । सद्वंश इत्येव वा । कथं वंशस्य सत्त्वमत आह- सप्तेति ।

  • सप्तेति । यस्य प्राचीनाः पितृपितामहादयस्सप्त पुरुषाः श्रोत्रियाः । ‘श्रोत्रियश्छन्दोऽधीते’ इति निपातनाद्वेदाध्यायिनः । उपलक्षणमिदं वेदार्थानुष्ठानम्य चेति वेदार्था- नुष्ठातारश्च । स सप्तपुरुषश्रोत्रियः, तस्य भावस्तत्त्वमादिपदाद्याजनाध्यापनादिग्रहणम् । अथवा मातृ- वंशशुद्धयादिग्रहणम् । तेन सम्पन्नः । एतेन सप्तपुरुषश्रोत्रियत्वादिकमभिजनशब्दार्थ इति सिद्धम् । यक्ष्ये याग करिष्यामि । ननु दैवविभूतिरेव यागानुष्ठानमत आह-यागेनेति । न चित्तशुद्धया- धर्षममीभिर्यागो विधीयते येनैतद्यागस्य दैवविभूतित्वं स्यात् । किंतु पराभिभवार्थमेवेत यागोऽय- ३३ षोडशोऽध्यायः । .२५७ नभिभविष्यामि दास्यामि नटादिभ्यः मोदिष्ये हर्षं चातिशयं प्राप्स्यामीत्येवमज्ञानविमो- हिता अज्ञानेन विमोहिता विविधमविवेकभावमापन्नाः ॥ १५ ॥ अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥१६॥ अनेकचित्तेति । अनेकचित्तविभ्रान्ताः उक्तप्रकारैरनेकैश्चित्तैर्विविधं भ्रान्ता अनेक- चित्तविभ्रान्ताः, मोहजालसमावृताः- मोहोऽविवेकोऽज्ञानं तदेव जालमिवावरणात्मकत्वात्तेन समावृताः, प्रसक्ताः कामभोगेषु तत्रैव निषण्णास्सन्तस्तेनोपचितकल्मषाः पतन्ति नरकेऽशुचौ वैतरण्यादौ ॥१६॥ आत्मसम्भावितास्स्तब्धा धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेना विधिपूर्वकम् ॥१७॥ आत्मेति । आत्मसम्भाविताः सर्वगुणविशिष्टतयाऽऽत्मनैव सम्भाविता आत्मसम्भा- विताः, न साधुभिः स्तन्या अप्रणतात्मानः, धनमानमदान्विताः- धननिमित्तो मानो मदश्व मासुरविभूतिरेव । एवं यागस्यासुरविभूतित्वं प्रदर्शयितुमेव यागेनाप्यन्यानभिभविष्यामीत्यर्थो लक्षणया दर्शितो यक्ष्य इति पदस्याचार्यैः । अपिशब्दादभिजनेनाहमन्यानभिभूतवानेवेति गम्यते । दास्यामीति । ननु दानं दैवविभूतौ कथितमत आह— नटादिभ्य इति । पात्रदानमेव दैवविभूति रिदमपात्रदानं त्वासुरविभूतिरेवेति भावः । आदिपदाद्विगायकादिग्रहणम् । इदं च नटादिभ्यो दानं न परलोकापेक्षया अमीभिः क्रियते, किंतु नटादय एते मां धनिकं दातारं प्रभु च कीर्तयेयुरिति बुद्धयैवेति बोध्यम् । मोदिष्य इति । मोदं हर्षातिशयं प्राप्स्यामि । कीर्तिस्तुत्यादि - श्रवणादिति भावः । कामभोगादिनेति वा । इति पूर्वोक्तविधयेत्यर्थः । विविधो मोह एषां सञ्जात इति विमोहिताः । मोहोऽविवेकः । अविवेकभावमिति । विवेकाभावमित्यर्थः । न विद्यते विवेको एषां तेऽविवेकाः तेषां भावमविवेकभावम विवेकत्वमापन्नाः प्राप्ताः ॥ १५ ॥ 1 अनेकेति । चितैर्ज्ञानैरित्यर्थः । यद्वा मनोभिरित्येवार्थः । विषयभेदादेकस्यापि मनसो नानात्वम् । अन्ता भ्रमं प्राप्ताः । जाल मत्स्यादिबन्धनयन्त्र विशेषः । तद्धि मत्स्यादीनावृत्य बध्वा सूनकस्य हस्ते निघते । एवमज्ञानमपि जनानावृत्य बध्वा नरके क्षिपति, अत उक्तम् — मोहजालमिति, - तेनेति । कामभोगप्रसङ्गेनेत्यर्थः । उपचितं वर्धितं सञ्चितं वा करमर्षं नरककारणं पापं यैस्तेउपचित- कल्मषाः । पतन्ति देहत्यागानन्तरं पतिष्यन्तीत्यर्थः । वैतरणीति नरकविशेषः । व्यादिपदा- द्रौरवादिग्रहणम् ॥ १६ ॥ आत्मेति । आत्मसम्भाविताः स्वब्धाः धनमानमदान्वितास्ते दम्भेनाविधिपूर्वकं नामयज्ञै- यजन्ते । आत्मसम्भाविता इति । सर्वगुणविशिष्टोऽहमिति स्वयमेव स्वात्मानं राघवन्त इत्यर्थः । आत्मनैव स्वेनैव । सम्भाविताः श्लाघिताः । अपणनात्मानः अपगाः प्रकर्षे गावत आला मनो २५८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ताभ्यां धनमानमदाभ्यामन्विताः, यजन्ते नामयज्ञैः- नाममात्रैर्यज्ञैस्ते दम्भेन धर्मध्वजि- तयाऽविधिपूर्वकं विधिविहिताङ्गेतिकर्तव्यतारहितम् ॥१७॥ अहङ्कारं बलं दर्पं कामं क्रोध च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १८ ॥ अहङ्कारमिति । अहङ्कारमहङ्करण महङ्कारः, विद्यमानैरविद्यमानैश्व गुणैरात्मन्याध्यारो- पितैर्विशिष्टमात्मानमहमिति मन्यते सोऽहङ्कारोऽविद्याख्यः कष्टतमः सर्वदोषाणां मूलं सर्वा- नर्थप्रवृत्तीनां च । तं तथा बलं पराभिभवनिमित्तं कामरागान्वितम् । दर्प दर्पो नाम यस्योद्भवे धर्ममतिक्रामति सोऽयमन्तःकरणाश्रयो दोषविशेषः । कामं स्त्र्यादिविषयम् । क्रोधमनिष्टविषयम् । एतानन्यांश्च महतो दोषान् संश्रिताः । किंच ते मामीश्वरमात्मपर- देहेषु स्वदेहे परदेहेषु च तद्बुद्धिकर्मसाक्षिभूतं मां प्रद्विषन्तो मच्छासनातिवर्तित्वं प्रद्वेषस्तं कुर्वन्तोऽभ्यसूयकास्सन्मार्गस्थानां गुणेष्वसहमानाः ॥ १८ ॥ देहो वा स्वभावो वा येषां ते तथोक्ताः । स्वप्नेपि नामीषां नम्रतेत्यर्थः । नाममात्रैरिति । धर्मतो नास्ति तेषामासुरजन क्रियमाणयज्ञानां यज्ञत्वं, किंतु नामत एवेत्यर्थः । नाममात्रस्वरूपैरिति यावत् । विधिश्शास्त्रं तेन विहिता अङ्गानां यज्ञाङ्गानां यूपादीनां या इतिकर्तव्यता, इदमित्थं कर्तव्य- मिति विधिस्तया रहितं यथातथेति क्रियाविशेषणम् । विघिमतिक्रम्येति यावत् । स्वेच्छया अश्रद्धया यथाकथञ्चिद्यजन्त इति भावः ॥१७॥ 1 अहङ्कारमिति । ते अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता अत एव आत्मपरदेहेषु सन्तं मां द्विषन्तोऽभ्यसूयकाश्च भवन्ति । आत्मनि स्वस्मिन् । मन्यत इति । येन मन्यते सोऽहङ्कार इत्यन्वयः । मन्यत इति यत्सोऽहङ्कार इति वा । अहं सर्वोत्कृष्ट इत्यभिमानोऽहङ्कार इत्यर्थः । अविद्याप्रयुक्तत्वादस्याहङ्कारस्याप्यविद्येति व्यवहार इत्याह- अविद्याख्य इति । अतिदुःखहेतुत्वा- दयं कष्टतमः । सर्वेषां कामक्रोधादिदोषाणां सर्वासामप्यनर्थहेतूनां हिंसादिप्रवृत्तीनां च मूलं कारण- भूतः । पराभिभवनस्य निमित्तं कारणं नहि दुर्बलः परानभिभवेत् । कामरागविवर्जितबलस्येश्वरविभूतित्वादाह - कामरागान्वितमिति । काम इच्छा । रूयादी- त्यादिपदात् स्रक्चन्दनादिविषयग्रहणम् । उक्तानुक्तसमुच्चयार्थकस्य क्रोषं चेति चकारस्यार्थमाह- अन्यांश्चेति । महतः प्रबलान् । सर्वात्मभूतस्य तव प्रद्वेषणं कथमत आह-मच्छासनातिवर्तित्व- मिति । ईश्वराज्ञारूपवेदशास्त्रोक्त विधिमतिक्रम्य प्रागुक्तरीत्या वर्तनमेवेश्वरप्रद्वेषः । ईश्वर एव जीव- भावेन सर्वत्र सममवस्थित इतीममर्थमविदित्वा शत्रुरयं मम देवदत्तो हन्तव्यः, धिक् शत्रुभिः पराजित मां जीवन्तमित्येवं मत्वा स्वपरदेहहिंसादिकं यः करोति सोऽपीश्वरमद्वेषकार्येव । एवंविधप्रवर्तनस्या- पीश्वरशासनातिक्रमरूपत्वादिति बोध्यम् ॥१८॥ षोडशोऽध्यायः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १९॥ ३५९ तानिति । तानहं सन्मार्गप्रतिपक्षभूतान् साधुद्वेषिणो द्विषतश्च मां क्रूरान् संसारेष्वे- वानेकनरकसंसरणमार्गेषु नराधमानधर्मदोषवत्त्वात्क्षिपामि प्रक्षिपाम्यजस्रं सन्ततमशुभानशुभ- कर्मकारिण आसुरीष्वेव क्रूरकर्मप्रायासु व्याघ्रसिंहादियोनिषु क्षिपामीत्यनेन सम्बन्धः ॥ १९ ॥ आसुरीं योनिमापन्ना मूढा जन्मनिजन्मनि । मामप्राप्यैव कौन्तेय ! ततो यान्त्यधमां गतिम् ॥ २०॥ आसुरीमिति । आसुरीं योनिमापन्नाः प्रतिपन्ना मूढा अविवेकिनो जन्मनिजन्म- न्यविवेकिनः प्रतिजन्म तमोबहुलास्वेव योनिषु जायमाना अधो गच्छन्तो मूढा मामीश्वर- मप्राप्यानासाद्यैव हे कौन्तेय ! ततस्तस्मादपि यान्त्यधमां निकृष्टतमां गतिम् । ‘मामप्राप्यै ‘वेति न मत्प्राप्तौ काचिदप्याशङ्काऽस्ति । ततो मच्छिष्टसाधुमार्गमप्राप्येत्यर्थः ॥२०॥

तानिति । अहं द्विषतः क्रूरानशुभान् तान्नराघमानजस्रं संसारेष्बासुरीषु योनिष्वेव क्षिपामि । द्विषत इत्यस्य साधूनिति मामिति वा कर्मेत्याह – साधुद्वेषिण इति मां च द्विषत इति । संसार- शब्दस्तद्धेतुवाची उपचारात्संसारकारण भूतास्वित्यर्थः । ननु दैवयोनयोपि संसारहेतव एवेत्यत आह- नरकेति । अनेकनरकदुःखात्मक संसारकारणभूतास्वित्यर्थः । मार्गशब्दः कारणवाची । यद्वा द्वार- बाची । अनेकनरकदुःखानुभवद्वार भूतास्वित्यर्थः । योनिष्वित्यस्य विशेषणमिदम् । नरेष्वधमा नीचा नराधमाः । कुत एषामघमत्वमत आह - अधर्मदोषवत्त्वादिति । अशुभत्वमेषां स्वरूपतोऽभावा- दाह - अशुभकर्मकारिण इति । अविद्यमान शुभानित्यर्थकथने तु शुभाभाव एवेति सिध्यति, नतु शुभसत्त्वमिति बोध्यम् । कास्ता आसुरयोनयोऽत आह— व्याघ्रेति । किमासामासुरत्वमत आह- क्रूरप्रायास्विति । क्रूरस्वभावास्वित्यर्थः । असुराः खलु क्रूराः । क्षिपामीति । उत्पादयामीत्यर्थः ॥ 1 I

आसुरी मिति । किं तत्र क्षेपणेन फलमत आह- आसुरीमिति । हे कौन्तेय ! मूढा जन्मनि जन्मन्यासुरीं योनिमापन्नास्सन्तो मामप्राप्यैव ततोऽघमां गतिं यान्ति । मनुष्या असुरसम्पदा व्याघ्रादियोनावुभूय ततः क्रमेण स्थावरत्वलक्षणामधोगतिं प्रपद्यन्त इत्यर्थः । तमोबहुलासु तमः प्रायासु सर्पादियोनिषु जायमानास्सन्त एवाधो गच्छन्तः पूर्वपूर्वस्मादुत्तरोत्तरं निकृष्टं जन्म प्रपद्यमाना सन्त इत्यर्थः । तस्मादपीति । सर्पादिजन्मनोऽपीत्यर्थः । निकृष्टतमामतिनिकृष्टां स्थावरत्वलक्षणामित्यर्थः । गतिं जन्मेत्यर्थः । ननु निकृष्ट जन्म गच्छतः कश्रमीश्वरप्राप्तिशङ्का ! येन मामप्राप्येत्युच्येत मत — मच्छिष्टेति । मच्छिष्टं मया शासितं साधूनां मार्गे साधुमार्गमप्यप्राप्य मच्छिष्टानां साधूनां मार्गमिति वा । एतेन मामप्राप्येत्यस्य मच्छिष्टसाधुमार्गमप्यप्राप्येत्यर्थो लाक्षणिक इति सिद्धम् ॥ २० ॥ २६० श्रीमगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपता सर्वस्या आसुर्यास्सम्पदस्संक्षेपोऽयमुच्यते, यस्मिन्त्रिविधे सर्व आसुरीसम्पद्भेदोऽ- नन्तोऽप्यन्तर्भवति, यत्परिहारेण परिहृतश्च भवति यन्मूलं सर्वस्यानर्थस्य तदेतदुच्यते- त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥

त्रिविधमिति । त्रिविधं विप्राकरं नरकद्वारं नरकस्य प्राप्ताविदं द्वारं नाशनमात्मनः, यद्वारं प्रविशनेवात्मा नश्यतिः कस्मैचित्पुरुषार्थाय योग्यो न भवतीत्येतत् । उच्यते- ‘द्वारं नाशनमात्मन’ इति । किं तत् १ कामः क्रोधस्तथा लोभः । तस्मादेतत्त्रयं त्यजेत् । यत एतद्द्वारं नाशनमात्मनस्तस्मात्कामादित्रयमेतत्यजेत् ॥ २१ ॥ त्यागस्तुतिरियम् - एतैर्विमुक्तः कौन्तेय ! तमोद्वारैखिभिर्नरः । आचरत्यात्मनश्श्रेयस्ततो याति परां गतिम् ॥ २२॥ एतैरिति । एतैर्विमुक्तः कौन्तेय ! तमोद्वारैस्तमसो नरकस्य दुःखमोहात्मकस्य द्वाराणि कामादयस्तैः, एतैस्त्रिभिर्विमुक्तो नर आचरत्यनुतिष्ठति । किम् ? आत्मनश्श्रेयः । यत्प्रतिबद्धः पूर्व नाचचार तदपगमादाचरति । ततस्तदाचरणाद्याति परां गतिं मोक्षमपीति ॥ सर्वस्यैतस्यासुरीसम्पत्परिवर्जनस्य श्रेय आचरणस्य च शास्त्रं कारणं, शास्त्रप्रमाणादुभयं शक्यं कर्तुः नान्यथा । अतः - यश्शास्त्रविधिमुत्सृज्य वर्वते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥२३॥ य इति । यश्शास्त्रविधिं शास्त्रं वेदस्तस्य विधिं कर्तव्याकर्तव्यज्ञानकारणं विधिप्रतिषे- त्रिविधमिति । अनन्तोऽपि सर्व आसुरीसम्पद्भेदः त्रिविधे यस्मिन्नन्तर्भवति । आसुर्यः मसुरप्रकृतयस्तासां सम्पत्समृद्धिः । तद्भेदस्तद्विशेषः । आसुरसम्पदिति भाष्ये तु आसुरी च सा सम्प- दासुरसम्पदा सुरस्वभाव इत्यर्थः । यत्परिहारेणेति । यस्य त्रिविधस्यासुरस्वभावस्य परिहारेण । परिहृत इति । सर्वोप्यासुरसम्पद्भेद इति शेषः । सर्वस्यानर्थस्य नरकादिसंसारस्य यस्त्रिविध आसुर - सम्पद्भेदो मूलं कारणं भवति । कामः क्रोधस्तथा लोभ इति त्रिविधमिदमात्मनो नाशनं नरकस्य द्वारं - भवति । तस्मान्मुमुक्षुरेतत्त्रयं त्यजेत् । आत्मा नश्यतीति । देहेन्द्रियादितादात्म्याध्यासवान् पुरुषो नश्यतीत्यर्थः । आत्मनः पुरुषार्थप्राप्त्यनर्हत्वमेव नाश इत्याह-आत्मा नेति । तस्माच्छन्दार्थ- माह-यत इति । आत्मनाशननरकद्वारत्वादित्यर्थः ॥२१॥ एतैरिति । नरस्तमोद्वारैरेतैस्त्रिभिर्विमुक्तस्सन्नात्मनः श्रेय आचरति; ततः परां गतिं याति । यत्प्रतिबद्धः यैः कामादिभिः प्रतिबद्धः तत् श्रेयः । तदपगमात्कामा दिप्रतिबन्धापगमात् । आचरति श्रेय इति शेषः । तत इत्यस्यार्थमाह- तदाचरणादिति । श्रेयोऽनुष्ठानादित्यर्थः । परामुत्तमां गतिं देवत्वादिकं याति, मोक्ष च यातीत्याह - मोक्षमपीति । श्रेयोऽनुष्ठानस्य ज्ञानप्राप्तिद्वारा मोक्षस्यापि हेतुत्वादिति भावः ॥२२॥ य इति, उभयमिति । आसुरसम्पत्परिवर्जनं श्रेय आचरणं चेत्यर्थः । यश्शास्त्रविधिमुत्सृज्य षोडशोऽध्यायः । २६१ धाख्यमुत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तस्सन् न स सिद्धि पुरुषार्थ योग्यता- मवाप्नोति, नाप्यस्मिन्लोके सुखं, नापि परां प्रकृष्टां गतिं स्वर्ग मोक्षं वा ॥२३॥ तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ||२४|| इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुनसंवादे दैवासुरसम्पद्विभाग- योगो नाम षोडशोऽध्यायः । तस्मादिति । तस्माच्छास्त्रं प्रमाणं ज्ञानसाधनं ते तव कार्याकार्यव्यवस्थितौ कर्त- व्याकर्तव्यव्यवस्थायाम् । अतो ज्ञात्वा बुध्वा शास्त्रविधानोक्तं विधिर्विधानं शास्त्रण विधानं शास्त्रविधानं ‘कुर्यान्न कुर्यादित्येवं लक्षणं, तेनोक्तं खकर्म यत्तत्कर्तुमिहार्हसि; इहेति कर्माधि- कारभूमिप्रदर्शनार्थमिति ॥ २४॥ इति श्रीपरमहंसपरिव्राजकाचार्यस्य श्रीमद्गोविन्दभगवत्पूज्यपाद- शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीता - भाष्ये षोडशोऽध्यायः । कामकारतो वर्तते स सिद्धिं नावाप्नोति, सुखं नावाप्नोति, परां गतिं नावाप्नोति । कामकारतः काम- कारेण स्वेच्छाचारेणेत्यर्थः । फलितमाह- कामप्रयुक्त इति । पुरुषार्थयोग्यतां पुरुषार्थ प्राप्यताम् ॥ तस्मादिति । तस्माचे कार्याकार्यव्यवस्थितौ शास्त्र प्रमाणं भवति । इह शास्त्र विधानो कं कर्म ज्ञात्वा कर्तुमर्हसि । कार्याकार्यव्यवस्थितिरिदं कार्यमिदमकार्यमिति निर्णयः । तस्यां विषये । शास्त्रविधानोक्तमिति । शास्त्रेण कृतं विधानं शासनं शास्त्रविधानं तेनोक्तं विविप्रतिषेधात्मकशास्त्रेण विहितमित्यर्थः । किं तत्कर्मात आह— स्वकर्मेति । खखवर्णाश्रम विहितं कर्मेत्यर्थः । तचार्जुनस्य क्षत्रियस्य युद्धमेव । ’ क्षत्रियस्य विजितव्य’ मित्यादिशास्त्रादिति भावः । इहास्यां कर्मभूमावित्यर्थः । कुरुक्षेत्रादिभूमिविशेषे एव कर्माधिकारः, नतु सिंहलद्वीपादाविति भावः । इहेतिशब्दः कर्माधिकार- भूमिप्रदर्शनार्थ इत्यन्वयः । इहशब्दप्रयोगस्य कर्माधिकारभूमिप्रदर्शनार्थमेव फलमित्यर्थः । इतिशब्दः प्रकृताध्यायभाष्यसमा तिवाचकः ॥२४॥ इति श्री कोण्डोपनामक रामकविकृतौ श्रीभगवद्गीताभाष्यार्क प्रकाशे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः । श्रीहयग्रीवार्पणमस्तु । सौम्यवैशाखशुद्धचतुर्थी । 13