१५

श्रीहयग्रीवाय नमः । भाग्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतासु पञ्चदशोऽध्यायः । यस्मान्मदधीनं कर्मिणां कर्मफलं ज्ञानिनां च ज्ञानफलमतो भक्तियोगेन मां ये सेवन्ते ते मम प्रसादाद्ज्ञानप्राप्तिक्रमेण गुणातीता मोक्षं गच्छन्ति, किमु वक्तव्यमात्मनः तत्त्वमेव सम्यग्विजानन्त इत्यतो भगवानर्जुनेनापृष्टोऽप्यात्मनस्तत्त्वं विवक्षुरुवाच ‘ऊर्ध्व- मूल’ मित्यादिना । तत्र ताववृक्षरूपकल्पनया वैराग्यहेतोस्संसाररूपं वर्णयति – विरक्तस्य हि संसाराद्भगवतस्तवज्ञानेऽधिकारः, नान्यस्येति- श्रीभगवानुवाच - ऊर्ध्वमूलमधश्शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१॥ ऊर्ध्वमूलमिति । ऊर्ध्वमूलं कालतः सूक्ष्मत्वात्कारणत्वान्नित्यत्वान्महत्त्वाच्चो, यस्मात्प्राणिनां कर्मिणां कर्मफल, ज्ञानिनां ज्ञानफलं च मदधी नमी धरायत्त मतस्तस्माद्भक्तियोगेन ये मां सेवन्ते ते मम प्रसादाद्ज्ञानप्रातिक्रमेण गुणातीता जीवन्मुक्तास्सन्तो मोक्षं गच्छन्ति । यस्मा- देवं मां केवलं भजन्त एव मोक्ष गच्छन्ति तस्मादात्मनो ममैवं वक्ष्यमाणविधं तत्त्वं सम्यग्विजानन्तो मोक्षं गच्छन्तीति किमु वक्तव्यम् । इत्यतः भगवत्तत्त्वज्ञानस्य मोक्षहेतुस्वादित्यर्थः । अर्जुनेनापृष्टम- प्यात्मनस्तत्त्वं विवक्षुस्सन् भगवानुवाच ऊर्ध्वमूलमित्यादिपञ्चदशाध्यायम् । तवेति । अध्याये । ताव- दिति । आदौ वैराग्यहेतोर्वैराग्यार्थ वृक्षरूपकल्पनया संसाररूपं वर्णयति । संसारवृक्षं कथयतीत्यर्थः । किं फलं वैराग्यादत आह - विरक्तस्येति । संसाराद्विरक्तस्यैव भगवत्तत्त्वज्ञाने ऽधिकारः, अन्यस्य संसारासक्तस्य नाघिकारः । अत एव हि संसारं परित्यज्य व्रजन्ति परित्राजकास्तत्त्वज्ञानलाभार्थम् । गृहिणां हि कुटुम्बपोषणासक्तचेतसां पुत्रादिजन्ममरणादि प्रयुक्तसुखदुःख वैक्षिन चेतसां च कामातुराणां कथं वेदान्तश्रवणादिकं सम्भवेन कथमपीति भावः । 1 ऊर्ध्वमूलमिति । यं संसारवृक्षमिति शेषः । ऊर्ध्वमूलमधश्शाखमव्ययमश्वत्थं प्राहुः श्रुतयः वेदविदो वा । यं संसारमिति वा । ये संसारमश्वत्थमूर्ध्वमूल शाख रुपयं प्राहुरिति वा । २०२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु 14 उच्यते ब्रह्माव्यक्तं मायाशक्तिमत्तन्मूलमस्येति सोऽयं संसारवृक्ष ऊर्ध्वमूलः । श्रुतेश्व - ‘ऊर्ध्वमूलोऽवाक्छाख एषोऽश्वत्थस्सनातन’ इति । पुराणे च– ‘अव्यक्तमूलप्रभवस्तस्यै- यस्य छन्दांसि पर्णान्याहुः । भवन्तीति वा । तं संसारवृक्ष यो वेद स वेदविद्भवति । यथा वृक्ष- स्समूलस्सशाखस्सपर्णो बीजांकुरभावेन प्रवाहानादिः प्रवाहानन्तश्चेत्यन्त्रयः । तथा संसारोऽयं समूल- स्संशाखस्सपर्णः प्रवाहतोऽनादिरनन्तश्चेत्यव्ययश्चेति साधर्म्यसत्त्वात्संसारे वृक्षत्वारोपणमिति बोध्यम् । अव्यक्तमायाशक्तिमद्ब्रह्मोर्ध्वमित्युच्यते । कुत उच्यतेऽत आह— सूक्ष्मत्वादिति । किमपेक्षयाऽत आह-कालत इति । कालो हि सूक्ष्मः तस्मादपि ब्रह्म सूक्ष्मम् । संवत्सरादिलक्षणकालस्य विज्ञेय- त्वेन स्थूलत्वेपि कलाकाष्ठादिलक्षणकालस्य दुर्विज्ञेयत्वेन सूक्ष्मत्वं ब्रह्मणश्वातीन्द्रियस्य दुर्विज्ञेयत्वं स्फुटमेव । ऊर्ध्वस्थस्य च नक्षत्रा दे सूक्ष्म त्वदर्शनात्सूक्ष्मत्यादिदं ब्रह्मा प्यूर्ध्वमित्युच्यते । तथा कारणत्वादिति । ‘यतो वा इमा’ नीत्यादिश्रुतेर्ब्रह्म जगत्कारणम् । कारणं च वस्तु कार्यादूर्ध्वमिति प्रतीतिः । एवं कारणत्वाद्ब्रह्मोर्ध्वमित्युच्यते । नित्यत्वादिति । अनित्यं संसारमण्डलपतीत्य वर्तते नित्यत्वाद्वहोत्यूर्ध्वमित्युच्यते । तथा महत्वादिति । उत्कृष्टत्वादूर्ध्वखं ब्रह्मग इति भावः । यद्वा ऊर्ध्वं ब्रह्म सूक्ष्मत्वादिहेतुचतुष्टयेन मूलमित्युच्यते, वृक्षस्यापि हि बीजं मूलमल्पपरि- माणत्वात्सूक्ष्मं वृक्षोदयं प्रति हेतुत्वात्कारणम् । अंकुरात्मना पुनर्बीजात्मना पुनरंकुरात्मनेत्येवं परिणम- मानत्वात्प्रवाहनित्यं कार्यमहत्त्वान्महच्च । एवं ब्रह्मापि ‘अणोरणीयान्महतो महीया’ नितिश्रुत्या ब्रह्मग- स्सूक्ष्मत्वमहत्त्वे ‘यतो’ वेत्यादिश्रुत्या कारणत्व’मजो नित्य’ इत्यादिश्रुत्या नित्यत्वं चेति बोध्यम् । निर्विशेषस्य ब्रह्मणस्संसारमूलत्वायोगादाह - अव्यक्तेति । अव्यक्तं, माया, शक्तिश्चेति पर्याया अव्यक्तमाया शब्दद्वयवाच्या या शक्तिस्तद्युक्तमित्यर्थः । मायाशबलि तमीश्वराख्यं ब्रह्म जगद्धेतुत्वा- संसारवृक्षस्य मूलमित्युच्यत इति परमार्थः । ननु क्वोक्तं संसारवृक्षस्योर्ध्वमूलत्वमत आह— ऊर्ध्वमूलो हीति श्रुतिम् । एष इति । संसाररूप इत्यर्थः । सनातनोऽनादिः । अव्यक्तेति । अव्यक्तं माया, तदेव मूलं तस्मात्प्रभवती- स्यव्यक्तमूलप्रभवः । तस्यैवाव्यक्तमूलस्यानुप्रहादुच्छ्रितः प्रवृद्धः । बुद्धिरेव स्कन्धः प्रकाण्डो बुद्धि- स्कन्धस्तन्मयो बुद्धिस्कन्धमयः । वृक्षस्य स्कन्धाच्छाखा इव संसारस्य बुद्धेस्सकाशान्नानाविधपरिणामा भवन्तीतीयमुक्तिः । इन्द्रियान्तराण्येव कोटरा यस्य स इन्द्रियान्तरकोटरः । इन्द्रियाणां रन्ध्राभावेऽपि तदधिष्ठान चक्षुश्श्रोत्रादीनां सरन्ध्रत्वादियमुक्तिः । महाभूतान्येव विशाखा विविधाश्शाखा यस्य स महाभूतविशाखः । विषयैश्शब्दादिभिः प्रत्रवान् पत्राण्यस्य सन्तीति तथोक्तः, विषया एव पत्राणी- त्यर्थः । धर्माधर्मावेव सुपुष्पाणि यस्य स धर्माधर्मसुपुष्पः । सुखदुःखयोरेव फलानामुदयो यस्मात्स उदयोऽभिवृद्धिर्यस्य स इति वा सुखदुःखफलोदयः । सर्वभूतानां सर्वेषां प्राणिनां मनुष्यादीनामन्यत्र काकादीनां चाऽऽजीव्य उपजीव्य आश्रय इति यावत् । एवंविवत्स ना उनो बीजांकुल्यायादना दिस पश्चदशोऽध्यायः । २०३ वानुग्रहोच्छ्रितः। बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः ॥ महाभूतविशाखश्च विषयैः पत्र- शाखवान् । धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः ॥ आजीव्यस्सर्वभूतानां ब्रह्मवृक्ष सनातनः । एतद्ब्रह्मवनं चैव ब्रह्माचरति नित्यशः । एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना । ततश्वात्मरतिं प्राप्य तस्मान्नावर्तते पुन ‘रित्यादि । तमूर्ध्वमूलं संसारं मायामयं वृक्षमध- श्शाखं महदहङ्कारतन्मात्रादयश्शाखा इवास्याधो भवन्तीति सोऽयमधरशाखस्तमधश्शाखम् । न श्वोऽपि स्थाता इत्यश्वत्थः, तं क्षणप्रध्वंशिनमश्वत्थं प्राहुः कथयन्ति । अव्ययं संसार- वृक्षः । ब्रह्म प्रकृतिस्तत्कार्यत्वात्संसारोऽपि ब्रह्म तदेव वृक्षोऽश्वत्थः । ब्रह्मणा परमात्मनाऽविष्ठितो वृक्षो ब्रह्मवृक्ष इति वा । " एतद्ब्रह्मवनमित्येकं पदमेतस्यास्य ब्रह्मणो जीवरूपस्य वनं भजनीयं भोग्यमिति यावत् । ब्रह्म परमात्माऽत्र साक्षिवदाचरति ब्रह्मैव साक्षिभूतमित्यर्थः । निर्विशेषे ब्रह्मणि वस्तुतस्साक्षित्वस्याप्ययोगा- त्साक्षिवदाचरतीयुक्तम् । अहं ब्रह्मास्मीत्याकारेण ज्ञानेनैव परमेणासिना खड्गेन । एतद्देहरूपं वृक्षम् । सामान्ये क्लीबत्वम् । एतद्ब्रह्मवनमिति वा । छित्त्वा भित्त्वा च । देहस्य छेदनं भेदनं च तत्राह- कारममकारयोरकरणमेव । अकृते च तदभिमानद्वये छिन्नभिन्नवृक्ष इव देहो हि नश्यति । ज्ञाने- नाज्ञानं नाशयित्वेति वा । नाशिते त्वज्ञाने देहभ्रंशः स्यादिति भावः । अज्ञानमूलत्वाद्देहवृक्षस्य । न हि वृक्षस्य मूले छिन्ने सति वृक्षो जीवेत्, ततश्चाज्ञाननाशानन्तरमात्मगतिमात्मरूपां गतिं प्राप्य तस्मादात्मरूपान्मोक्षात्पुननविर्तते तद्ब्रह्मरूपेणैव तिष्ठतीत्यर्थः । कोऽसावूर्ध्वमूलोऽत आह- संसारमिति । संसरति देही एतत्तादात्म्याद्यभ्यासेनेति संसारो देहादिप्रपञ्चः । नायं सत्य इत्याह- मायामयमिति । मायाकार्यत्वान्मायावन्मिथ्या भूतमित्यर्थः । अधोभूता शाखा यस्य सोऽधश्शाखः । कास्तारशाखा अत आह— महदिति । कारणत्वाद्ब्रह्मण ऊर्ध्वत्वं कार्यत्वान्महदादीनामघस्स्थत्वमिति बोध्यम् । अस्य संसारवृक्षस्योर्ध्वभूतं ब्रह्म मूलमधोभूता महदादयस्तु शाखा इति परमार्थः । एतेन वृक्षस्य कथं मूलमूर्ध्वं स्याच्छाखाः कथमघो भवेयुरिति शङ्कापि प्रत्युक्ता । अत्रोर्ध्वाधरशब्दाभ्यां ब्रह्मणो महदादीनां चोच्यमानत्वात् । न हि ब्रह्ममूलो महदादिशाखश्च संसार इति वृक्षरूपणे कोऽपि विरोधः । अथ चोर्ध्वशब्दस्यैवाल ब्रह्मपरत्वमघ- शब्दस्तु शाखाविशेषणभूत एव । शाखाशब्दातु निगीर्णातिशयोक्त्या तत्तुल्यमहदादिग्रहणमिति स्वीकारेऽपि न दोषश्शाखानां वृक्षस्य पत्रपुष्पाद्यपेक्षयाऽवस्स्थत्वात् । अश्वत्थशब्द निर्वक्ति—न श्वोऽपीति । फलितमाहं – क्षणप्रध्वंसिनमिति । यद्यपि देहादय एतत्क्षणे दृष्टाः क्षणान्तरे पुनर्दृश्यन्त एव न क्षणप्रध्वंसस्तेषां तथापि क्षणान्तरेऽवश्य दृश्यन्त इति वक्तुं न शक्यते मरणसम्भवात्तस्मात् क्षणप्रध्वंसशीला एव देहादय इत्यभिप्रेत्य क्षणप्रध्वंसिन- मित्युक्तमत एव ताच्छील्ये णिनिः प्रयुक्तः प्रध्वंसिनमिति । वृक्षोऽप्यश्वत्थसंज्ञः प्रसिद्ध एव । २०४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मायाया अनादिकालप्रवृत्तत्वात् सोऽयं संसारवृक्षोऽव्ययः, अनाद्यन्तदेहादिसन्तानाश्रयो हि सुप्रसिद्धः, तमव्ययं तस्यैव संसारवृक्षस्येदमन्यद्विशेषणम् – छन्दांसि यस्य पर्णानि, छन्दांसि छादनादृग्यजुस्सामलक्षणानि यस्य संसारवृक्षस्य पर्णानीव पर्णानि यथा वृक्षस्य परिरक्षणार्थानि पर्णानि तथा वेदास्संसारवृक्षपरिरक्षणार्थाः, धर्माधर्मतद्धेतुफलप्रदर्शनार्थ- त्वात् । यथाव्याख्यातं संसारवृक्षं समूलं- ‘यस्तं वेद स वेदवित्’ वेदार्थविदित्यर्थः । नहि समूलात्संसारवृक्षादस्माद्ज्ञेयो ऽन्योऽणुमात्रो ऽप्यवशिष्टोऽस्तीत्यतः सर्वज्ञस्सर्ववेदार्थविदिति समूलसंसारवृक्षविज्ञानं स्तौति ॥ १ ॥ • अव्ययमिति । ननु क्षणप्रध्वंसिनस्संसारस्य कथपव्ययत्वमत आह— मायाया इति । नन्वनादिकालमारभ्य प्रवृत्तत्वे मायैवाव्यया स्यात्कथं पुनस्तत्कार्य संसारोऽव्ययोऽत आह- अना- दीति । न विद्येते आद्यन्तौ यस्य सोऽनाद्यन्तस्स चासौ देहादिसन्तानस्स आश्रयो यस्य स तथोक्तः । बीजांकुरन्यायेन प्रवाहाकारेण पूर्वपूर्वदेहा देरुत्तरोत्तर देहादिर्भवन् सन्न कदाप्युपरमत इत्यनन्तत्वं देहादिसन्तानस्य । प्रलयेऽपि सूक्ष्मरूपेण सत्त्वादयमिदानीमारब्ध इतेि वक्तुमशक्यत्वादनादित्वं च । एवमस्यानादित्वे हेतुर्मायाया एतन्मूलभूताया अनादित्वमेवेति मायाया अनादिकालप्रवृत्तत्वा- दित्युक्तम् । तथा मायाया अनन्तत्वमेव देहादिसन्तानस्यानन्तत्वे कारणमेवंविधसन्तानाश्रयत्वादेव संसारस्याप्यनाद्यनन्तत्वमिति युक्तमव्ययत्वं संसारस्येति भावः । एवं सुखदु:खसम्भोगरूपसंसारस्य तु स्वत एवाव्ययत्वं स्थूलदेहस्य नश्यत्वेऽपि सूक्ष्मदेहस्याविनाशित्वात्प्रपञ्च रूपसंसारस्य त्वव्ययत्वं स्फुटमेव । प्रलयेऽपि जंगतस्सूक्ष्मरूपेण सत्त्वात् । तस्मात्सर्वथाऽप्यव्यय एव संसारो यावदविद्यम् । अन्यदिति । विलक्षणमित्यर्थः । अन्यद्विशेषणं विशेषणान्तरम् । छन्दश्शब्दस्य व्युत्पत्तिमाह – छादनादिति । रक्षणादिति यावत् । छादनपूर्वकत्वाद्रक्षणस्य । कवचो हि देहमाच्छाद्य रक्षति शस्त्रादेस्सकाशात् । अधर्वणवेदस्य ऋगादिवेदत्रयान्तःपातित्वादाह- ऋग्यजुस्सामात्मकानीति । पर्णशब्दोऽत्र लक्षणया तत्सदृशपरः । छन्दसां प्रसिद्ध पर्णत्वासम्भवादि- त्याह - पर्णानीवेति, रक्षणार्थानीति । पर्णानि हि वृक्षमाच्छाद्य वातातपादिभ्यो रक्षन्ति । एवं संसारवृक्षं वेदाः परिरक्षन्ति । तत्र हेतुमाह — धर्मेति । धर्माधर्मयोस्तद्धेतूनां विहितप्रतिषिद्धकर्मणां तत्फलस्य स्वर्गनरकादेश्व प्रकाशनं प्रतिपादनमर्थः प्रयोजनं येषां तत्त्वात् । धर्मो यागादिजन्यमपूर्वं सुकृतात्मकमात्मनिष्ठम् । अधर्मो हिंसादिजन्यं दुष्कृतमिति विवेकः । विद्वांसोऽपि वेदप्रामाण्या- द्यज्ञादिकमनुष्ठाय स्वर्गादिकं प्राप्य तत्पुण्यक्षयात्पुनर्भुवि मनुष्यात्मना प्रजाय पुनः कर्माणि कुर्वन्तीति विदुषामपि जन्ममरणादिलक्षणोऽयं संसारो वेदमूलक एव । नास्तिका अपि हिंसादिलक्षणं कर्म विधाय तत्फलानुभवाय नरकं पश्वादिजन्म च प्राप्य पुनम्रियन्ते पुनरुत्पद्यन्त इत्ययमर्थोऽपि वेदादेव ज्ञायत इति तेषां संसारोऽपि वेदमूल एव । तस्माद्वेदैस्ससारः परिरक्ष्यत इति भावः । अत एव ‘त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।’ इत्युक्तं भगवता ।पञ्चदशोऽध्यायः । ર્પ્ समूलमिति । मूलेन ब्रह्मणा मायिना सहेत्यर्थः । केवलसंसारवेदनेन फलाभावादिति भावः । ब्रह्मज्ञानाद्धि मोक्षः । ननु सर्वेऽपि वेदविद एव वेदपाठका इत्यत आह-वेदार्थविदिति । वेदान् प्रायशः पठन्त्येव ब्राह्मणाः परं तु तदर्थे ते न जानन्ति । अर्थज्ञानशून्याश्च वैदिका वेदेनैव निन्दिता :- ‘स्थाणुरयं भारवाहः किलाभूदधीत्य वेदं न विजानाति योऽर्थमिति । तस्माद्वेदपाठकानां वेदार्थज्ञानमावश्यकं सद्ज्ञानादेव दर्शितसमूलसंसारज्ञानसम्भवात् । ननु यस्समूलं संसारं वेद स कथं सर्वत्रेदार्थविद्भवेत् ? अन्यस्याविज्ञेयस्य बहुधा सत्त्वादत आह-न हीति । दृग्दृश्याभ्यां पदार्थाभ्यामन्यत्किमपि नास्ति । तत्र ब्रह्म दृकू, माया, तत्कार्ये सर्वे जगद्दृश्यम् । एवं स्थिते मूलस्य मायावतो ब्रह्मणो वृक्षस्य जगद्रूपसंसारस्य च ज्ञाने सति किं पुन- खशिष्येत ज्ञेयतया ? न किमपि - ताभ्यामन्यस्याभावात् । वेदार्थानां यज्ञादिकर्मणां ब्रह्माद्युपासनानां च सर्वेषां संसारान्तः पातित्वाद्वेदान्तार्थस्य च ब्रह्मत्वेन मूलान्तः पातित्वाच्चेति भावः । अत इति । समूलात्संसारवृक्षादन्यस्य ज्ञेयस्याभावादित्यर्थः । सर्ववेदार्थविद्यस्स सर्वज्ञ एवेति समूलस्य वृक्षस्य संसारस्य विज्ञानं स्तौति- समूलवृक्षविज्ञानिनां सर्वज्ञत्वे सति तद्विज्ञानस्य सर्वोत्कर्षः प्राप्नोति । यथा धनवतः पुरुषस्य कीर्तनीयत्वे सति घनस्याप्युत्कर्षस्तद्वत् । धर्मोत्कर्ष पूर्वकत्वाद्धयुत्कर्षस्येति भावः । यत्तु रामानुजः — सप्तलोकोपरि निविष्टचतुर्मुखादित्वेन तस्योर्ध्वमूलस्वं पृथिवीनिवासि - सकलन र पशुमृग क्रिमि कीटपतङ्गस्थावरान्ततयाऽधश्शः खत्वम् । संसारस्या वेदत्वेऽपि संसारविद्वेदविदेव । वेदो हि संसारवृक्षच्छेदोपायं वदति । छेद्यवृक्षस्वरूपज्ञानं छेदनोपायज्ञानोपयोगीति वेदविदित्युच्यत इति, तत्तुच्छम् - चतुर्मुखः किं जगद्रूपसंसारस्यादिरुव देहरूपस्याऽथवा सुखदुःखसम्भोगरूपस्य ? नाद्यः - ‘जन्माद्यस्य यत’ इति सूत्रेणेश्वरस्यैव जगत्कारणत्वेन जगदादित्वस्य स्थापितत्वात् । आदिहिं कारणम् । न द्वितीय:- देवमनुष्यादिदेहान्प्रति चतुर्मुखम्यादित्वेऽपि चतुर्मुख देहं प्रति चतुर्मुख- स्यादित्वाभावात् । नहि पुत्रदेहस्यादिः पिता पितृदेहस्याप्यादिर्भवति । न तृतीयः- चतुर्मुखस्थापि सुखदुःखसम्भोगसत्त्वेन तदादित्वाभावात्तस्य । नहि स्वानर्थकरं संसारं चतुर्मुखस्स्वयं सृजते । ननु आदिर्न कारणं, किं त्वाद्यवयवः, यथा वृक्षस्यादिमध्यान्तावयवास्सन्ति मूसन्निहितभाग आदिर्वृक्षस्य चरमभागोऽन्तः, स्कन्धादिभागस्तु मध्यः, तथा जगद्रूपसंसारस्य चतुर्मुख आदिभागः, पृथिवी निवासिनो मनुष्यादयो मध्यभागः, पातालवासिनोऽन्तभाग इति चेत्, नैतदप्युचितम् - तथा सति चतुर्मुखस्यैकस्यैव कथमादित्वम् ? तल्लोकवासिनस्सर्वेऽप्यादिभूता एव । किंच वृक्षाश्रयपक्षि- कीट| दिप्राया जगदाश्रय चतुर्मुखादिप्राणिनः नतु स्कन्धशाखादिस्थानीयाः । सत्यादिलोका एव त- स्थानीया :- लोकात्मकत्वाज्जगतः । तथा च जगतरसत्यलोक आदिः, भूलोको मध्यः, पाताल- लोकोऽन्तः । यद्वा स्वर्गलोक आदिर्मर्त्यलोको मध्यः पाताललोकोऽन्त इति सत्यलोकादित्वं स्वर्ग- लोकादिखं वा जगद्वृक्षस्य वक्तव्यमिति कथं चतुर्मुखादित्वं तस्य ? अपि च यद्यत्रोर्ध्वशब्देनाद्यवयवो २०६ श्रीभगवद्गीतासु- भाष्यार्कपकाशविलसित श्रीशाङ्करभाष्योपैता तस्यैव संसारवृक्षस्याऽपराऽवयवकल्पना उच्यते- अधवो प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥२॥ अधवेति । अधो मनुष्यादिभ्यो यावत्स्थावरमथ ऊर्ध्वं च यावद्ब्रह्मणो विश्वसृजो धाम इत्येतदन्तं यथाकर्म यथाश्रुतं ज्ञानकर्मफलानि तस्य वृक्षस्य शाखा इव शाखाः प्रसृताः विवक्षितस्स्यातर्ह्यधश्शब्देन किं मध्यावयवो विवक्षितः ? यद्वाऽन्तावयव ? अथ वोभयम् ? नाद्यः– स्थावरान्ततयेति स्ववचोविरोधात् । न द्वितीयः नहि पृथिवी तन्निवासिनस्स्थावराः पर्वतादयो वा जगद्वृक्षस्यान्तभागः स्यात् । न तृतीयः तद्विवक्षानुसारेण त्वया पृथिवी निवासि मनुष्यादिमध्यतया पातालनिवासिसर्पाद्यन्ततया चावश्शाख इत्युच्यत इत्यनुक्तत्वात् । किं च ‘अव्यक्तमूलप्रभव’ इति पुराणं च । प्रकृतगीतामूलभूत श्रुतिगतोर्ध्वमूलपदस्य मायाकारणकत्वरूपार्थमेव प्रतिपादयतीति त- द्विरोधश्च तव । तस्मादूर्ध्वं ब्रह्म मूलं कारणमस्येत्यूर्ध्वमूलमित्येव व्याख्येयम् । न च ब्रह्मणः कार- णत्वप्रतिपादकस्य तवापि मायाकारणत्वप्रतिपादकपुराणविरोध इति वाच्यं, शक्तिशक्तिमतोरभेदात् । केवलाव्यक्तस्य केवलब्रह्मणो वा कारणत्वाभावात् । अव्यक्तशक्तिमद्ब्रह्म ब्रह्माश्रयमव्यक्तं वा जगतः कारणमिति न कश्चिद्विरोधः । यच्चानेनोक्तं संसारो न वेद इति, तदप्ययुक्तम् - वेदस्यापि संसारपदवाच्यजगदन्तःपाति- त्वेन संसारस्यापि वेदत्वात् । यज्ञादिसंसारस्य वेदार्थत्वेन च वेदस्य संसारप्रतिपादकत्वात्संसारस्य वेदत्वमिति वा । प्रतिपाद्यप्रतिपादकयोरमेदात् । यच्च वेदस्संसारवृक्षच्छेदोपायं वदतीति, तद- प्ययुक्तम् - यज्ञादिप्रतिपादकवेदभागस्य संसारप्रवृद्धयुपायप्रतिपादकत्वात् । वेदार्थो हि यज्ञादि- संसारं वर्धयतीति ॥१॥ अध इति । अपरेति छेदः । पूर्वोक्तादन्येत्यर्थः । गुणप्रवृद्धा विषयप्रवालाश्च तस्य शाखा अधश्चोर्ध्वं च प्रसृता भवन्ति । कर्मानुबन्धीनि तस्य मूलान्यघश्च मनुष्यलोकेऽनुसन्ततानि भवन्ति । अधश्शब्दार्थमाह- मनुष्यादीति । मनुष्यो मानवदेह आदिर्यस्य तन्मनुष्यादि । यावत्स्थावरं स्थावरान्तमित्यर्थः । मनुष्यपशुपक्षिसरीसृपक्रिमिकीटमत्स्य कच्छपतरुगुरुमलतादिकमिह दृश्यमानं भुवि सर्व चराचरजन्तुजातमघश्शब्दार्थः । मनुष्यादिभ्य इति पाठे मनुष्यादिभ्य आरभ्येति शेषः । आदि- पदात्पश्वादिग्रहणम् । ऊर्ध्वशब्दार्थमाह-अत इति । मनुष्यलोकादित्यर्थः । ऊर्ध्वं वर्तमाना गरुड- गन्धर्वयक्षरक्षःपितृमातृगणसिद्धसाध्यचारण देवदानवादयश्चतुर्मुखेन सह सर्वेऽपि प्राणिन ऊर्ध्वशब्दार्थः । इदमेवाह - यावदिति । ब्रह्मणो हिरण्यगर्भस्य । धाम लोकः । तत्र वर्तमानसनकादिसर्वप्राणि- संग्रहाय घामशब्दग्रहणम् । एतदन्तमिति । चतुर्मुखान्तमित्यर्थः । चतुर्मुखजन्मनोऽपि ज्ञानकर्म- फलत्वादिति भावः । पञ्चदशोऽध्यायः । २०७. प्रगता गुणप्रवृद्धा गुणैस्सच्चरजस्तमोभिः प्रवृद्धास्स्थूलीकृता उपादानभूतैः विषयप्रत्राला:- विषयाश्शब्दादयः प्रवाला इव देहादिकर्मफलेभ्यश्शाखाभ्यों कुरीभवन्तीव तेन विषय- यद्वैतस्मिन्पञ्च प्रकृतचतुर्मुखादन्यस्य चतुर्मुखस्यासम्भवाच्चतुर्मुखलोकपातिरेव फलमेति विवक्षणे एतदन्तमित्यस्य चतुर्मुखधामान्तमित्येवार्थः । एवमघऊर्ध्वशब्दाभ्यां ब्रह्मादिस्थावरान्वचराचरसर्वप्राणि- संग्रहः कृतः । अमूनि हि चराचरजन्तुजालानि कर्मानुसारेण शास्त्रानुसारेग च ज्ञानकर्मफलानी- त्याह — यथाकर्मेति । ज्ञानमुपासनादिकं नतु तत्त्वज्ञानं मोक्षस्यैव तत्प्राप्यत्वात् । कर्म यज्ञादिकं फलाभिसन्धिपूर्वकं तद्रहितं च । फलाभिसन्धि र हितकर्मकृदपि तत्त्वविदां कुलेषु जायत इत्युक्तत्वात् । तयोः फलानि तत्प्राप्याणीत्यर्थः । ‘देवान् देवयजो या न्तीत्यादिना देवयजनादीनां देवत्वादिप्राप्ति- हेतुत्वस्योक्तत्वादिति भावः । इमानि भूतानि संसारवृक्षस्य शाखास्थानी यानीत्याह तस्येति । प्रगता व्याप्ता इति यावत् । स्थूलीकृतास्स्थौल्यं प्रापिताः । यथा प्रवाला : पल्लवारशाखा शाला शिफा - जटाभ्यों कुरीभवन्ति तथा कर्मफलेभ्यश्चराचरेभ्यो देहेभ्यश्शब्दादयो जायन्त इति विषयेषु प्रवाल- : त्वारोपणमित्याह - विषया इत्यादिना । देहादीत्यादिपदादिन्द्रियादिग्रहणम् । गुणप्रवृद्धा विषय- प्रवालाश्च मनुष्यादिस्थावरान्ता ब्रह्मादिमनुष्यान्ताश्च सर्वे भूतसङ्घाश्शाखा इव संसारवृक्षस्याधश्चोर्ध्वं चं प्रसृता भवन्तीत्यर्थः । एतेन तन्त्रादिनाऽधशब्दस्योर्ध्वशब्दस्य च भूतपरत्वे भूताश्रयदेशपरत्वेन च द्वेधा व्याख्यानं कृतमिति सिद्धम् । ।

यद्वा शाखारूपविषयनिर्देशेन ब्रह्मादिस्थावरान्तसर्वप्राणिनिकायरूपविषयो लक्ष्यते । ततश्च वृक्षतुल्यस्यास्य संसारस्य प्रवालतुल्य विषयोपलक्षिताः, जलादि तुल्यगुणप्रवृद्धाश्च शाखा तुल्यास्सर्वभूनंसङ्घ अधश्चोर्ध्व च प्रसृता भवन्तीत्यर्थः । मनुष्यादिस्थावरान्तजन्तुसन्ततिर्यत्रास्ति सोऽघरशब्दार्थः । ब्रह्मादिमनुष्यान्तजन्तुसन्ततिर्यत्रास्ति स ऊर्ध्वशब्दार्थः । मनुष्यादीति तद्गुणसंविज्ञानबहुव्रीहिः । मनुष्यान्तेति त्वतद्गुणसं विज्ञानबहुव्रीहिः । स्त्रविवरभूतपाताललोकसहिता पृथिवी अधरशब्दार्थः । सत्यादिलो क स हितस्स्वर्गलोक ऊर्ध्वशब्दार्थ इति यावत् । एवं चाधो मर्त्यलोकपाताललोकयोरूर्ध्व स्वर्गलोके च ये प्राणिनो ब्रह्मादिस्तम्वान्तास्ते संसारवृक्षस्याघो भागोर्ध्व भागद्वयव्यापिन्यश्शाखा इत्युच्यन्त इति परमार्थः ।

ननु कोऽयं संसारः ? यस्स्य प्राणिनश्शाखाः । न तावत्प्रपञ्चः तस्य लोकानामेव शाखात्वेन भवितव्यत्वात् । लोकमयो हि प्रपञ्चः, प्राणिनस्तु पक्षिप्राया एव । नापि देहः तस्य सर्वभूतशाखा- वत्त्वासम्भवत्त्वात् । नापि सुखदुःखादिसम्भोगः तस्य प्राण्याश्रयकत्वेन प्राणिमत्त्वासम्भवादिति चेत्, उच्यते - जन्ममरणादिलक्षणस्सुखदुःखादिसम्भोग एवं संसार:, सर्वेपि संसारिणः प्राणिनोऽमुमेव संसारमाश्रयन्त इति प्राणिनामाश्रय एव संसारः शाखानां वृक्ष इव । प्राणिनां संसारस्य चेरेवरा- श्रयाश्रयिभावात्प्राणिन आश्रित्य वर्तमानोऽपि संसारः प्राणिनामाश्रयो भवति, यथा भर्तृमायें परस्परम् । यद्वा अविद्यामयोऽयं संसरोऽविद्यायाश्च सर्ववात्संसारस्य च तथात्वमितेि । २०८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु प्रवालाश्शाखाः । संसारवृक्षस्य परं मूलमुपादानं कारणं पूर्वमुक्तम् । अथेदानीं कर्मफल- जनितरागद्वेषादिवासनामूलानीव धर्माधर्मप्रवृत्तिकारणान्यवान्तरभावीनि तानि, अधथ देवाद्यपेक्षया मूलान्यनुसन्ततान्यनुप्रविष्टानि कर्मानुबन्धीनि कर्म धर्माधर्मलक्षणमनुबन्धः पश्चद्भावी येषामुद्भूतिमनृद्भवति तानि कर्मानुबन्धीनि मनुष्यलोके विशेषतः । अत्र हि मनुष्याणां कर्माधिकारः प्रसिद्धः ॥ २ ॥ • अथवा प्रपञ्च एवेह संसार: । सहि यथा लोकमयस्तथा भूतमयश्च । तथा च लोका इव लोकस्थप्राणिनोऽपि तस्य शाखा इव भवन्तीति । यद्वा सर्वे प्राणिनस्स्वाश्रयलोकद्वारेण संसारवृक्षस्य शाखा इव भवन्तीति । यद्वा प्रपञ्चो वृक्षो लोकाश्शाखा याः स्कन्धादुपरि प्रादुर्भूताः स्थूलाः, ये तु शाखा सुद्भूताश्शाला शिफाजटा शव्दै रुच्यमानास्सूक्ष्म सूक्ष्म तर सूक्ष्मतम वृक्षावयवास्तत्स्थानीयास्तु प्राणिन इति । परं प्रधानमित्यर्थः । पूर्वमिति । ऊर्ध्वमूलमित्यनेनेत्यर्थः । धर्माधर्म योर्यज्ञादिहिंसादि वे हित- निषिद्धकर्मणोः प्रवृत्तौ प्रवर्तने कारणानि पुंसामिति भावः । अवान्तरभावीनीति । अप्रधानानीत्यर्थः । अवान्तरे मध्ये भवन्तीत्यवान्तरभावीनि । अधश्चेति । मनुष्यलोक इत्यस्य विशेषणम् । कथमस्याध- स्त्वमत आह- देवाद्यपेक्षयेति । खर्गाद्यपेक्षयेत्यर्थः । कर्मेत्यनुबन्धः कर्मानुबन्धस्स एषामस्तीति कर्मानुबन्धीनि । रागद्वेषादिवासनाप्रयुक्तत्वात्कर्मणः क्रियमाणस्य वासनापेक्षया पश्चाद्भावित्वमिति भावः । येषां रागद्वेषादिसंस्काराणामुद्भूतिमुत्पत्तिमनुसृत्योद्भवति कर्मेति शेषः । तानि कर्मानुबन्धीनी- त्युच्यन्ते । मनुष्यलोके भूलोके । ननु पशुलोक इत्युक्तेऽपि भूलोक एव सिध्यति किमिति मनुष्यशब्दोपादानमत आह- विशेषत इति । अत्र हि भूलोके मनुष्याणां विशेषतः कर्माधिकारः प्रसिद्धः । विशेषत इत्यनेन पश्वादीनामपि सामान्यतो मैथुनादिकर्माधिकारोऽस्तीति सूच्यते । अथवा मनुष्यलोको मनुष्यसमूहः । किमिति मूलानि मनुष्यसमूहे ऽनुसन्ततानीत्यत आह– विशेषत इति । मत्र प्रपञ्च इत्यर्थः । विशेषत इत्यनेन देवादीनां काचित्कः कर्माधिकार इति सूच्यते । मनुष्येषु वर्तमानास्तत्तत्कर्मानुमेया जन्मा- न्तरकृतकर्मप्रयुक्ता रागद्वेषादिवासनास्संसारवृक्षस्यावान्तरमूलानि मनुष्याणामघस्स्थत्वादिमानि मूलानि चाधश्चेत्युक्तानि वृक्षस्यापि यवान्तरमूलान्यधोव्यापीनि सन्ति । अज्ञानमूलकः पूर्वपूर्व कर्म वासनाभिरभि- वर्धितश्च जन्ममरणादिप्रयुक्तसुखदुःखसम्भोगात्मकः प्राणिनां संसार इति श्लोकद्वयस्य फलार्थः । रामानुजस्तु — अधश्शाखमिति पूर्वश्लोकपदस्य यमर्थमाह मनुष्यपश्वादयश्शाखा इति तमे - वार्थमत्राप्याहेति पुनरुक्तिस्तन्मते । नच शङ्करमते पूर्वापरविरोधः, संसारवृक्षस्य महदादयश्शाखा इति पूर्वमुक्त्वा मनुष्यादयश्शाखा इत्यधुनो कत्वादिति वाच्यं महदादयस्तत्सङ्घातात्मक मनुष्यादयश्वाध्य शाखा इत्यदोषात् ॥२॥ २७ यस्त्वयं वर्णितस्संसारवृक्षः - पञ्चदशोऽध्यायः । न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठां । अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्वा ॥३॥ २०९ नेति । न रूपमस्येह यथोपवर्णित तथा नैवोपलभ्यते, स्वममरीच्युदकमायागन्धर्व- नगरसमत्वात् । दृष्टनष्टस्वरूपो हि स इति अत एव नान्तो न पर्यन्तो निष्ठा परिसमाप्तिर्वा नेति । अस्य रूपमिह यथावर्णितमिति शेषः । तथा नोपलभ्यते । अस्यान्तो नास्त्यादि- र्नास्ति, सम्प्रतिष्ठा च नास्ति । सुविरूढमूलमे नमश्वत्थं दृढेनासङ्गशस्त्रेण छित्वा । ततो यस्मिन्गता भूयो न निवर्तन्ति तत्पदं परिमार्गितव्यम् । नोपलभ्यत इति । संसारस्य रूपं न दृश्यत इत्यर्थः । विद्यावस्थायामिति भावः । व्यविद्यावस्थायामस्य सर्वैर्दृश्यमानत्वेनादृश्यमानत्वो के विरुद्धत्वात् । यद्वा अस्य रूपं यथा सत्यमिवोपवर्णितं तथा सत्यतया नोपलभ्यते, किंतु मिध्यात्वेनैव दृश्यते । किमिवो- पलभ्यतेऽत आह– स्वप्नेति । यद्वा विद्यावस्थायां कुतो नोपलभ्यतेऽत आह– स्वप्नेति । खमस्थ- रथादयस्स्वप्नपदार्थाः । माया ऐन्द्रजालिकेन दर्शितो विग्रहादिः । कुतस्संसारस्य स्वप्नादिसाम्यमत - दृष्टेति । हि यस्मात्स संसारो दृष्टनष्टखरूपो यदा दृष्टं तदैव नष्टं पूर्व दृष्टं पश्चानष्टं वा दृष्टष्ट स्वरूपं यस्य स तथोक्तः । प्रतिभानसमयनियतसत्ताक इत्यर्थः । स्वमादयश्च तादृशा एवेति स्वप्नादिसाम्यं संसारस्येति भावः । अत एव मिथ्यात्वादेवेत्यर्थः । व्यावहारिकसत्यस्य वस्तुनः स्वरूपं हि परिनिष्ठितं घटस्सर्वथा सर्वदा च घट एव, नतु पट इति । प्रातिभासिकस्तु सर्पाभासादिः कदाचित्सर्पत्वेन दृश्यते, कदाचिद्दण्डत्वेन कदाचिद्रज्जुत्वेनेति न तस्य परिनिष्ठितं स्वरूपमस्ति तथा घटस्य मुद्गरप्रहारादिना समाप्तिरस्ति, सर्पाभासस्य तु न समाप्तिः । तदानीं रज्जुज्ञानेन समाप्ता- वपि पुनर्मन्दान्धकारे सा रज्जुः क्षिप्तोरगी भवेदेव । तथा व्यावहारिकस्य घटस्यादिरस्ति । अयं घट इदानीं कुलालेन कृत इति दर्शनात् । स्वाप्निकस्य तु नादिरुपलभ्यते । तथा व्यावहारिकस्य मध्य उपलभ्यते, प्रातिभासिकस्य तु न, आद्यन्तज्ञानप्रयुक्तत्वान्मध्यज्ञानस्य । • एवं प्रातिभासिकस्य आद्यन्तमध्यानामनुपलम्भेनाभावे सिद्धे संसारस्यापि स सिध्यति प्राति- भासिकत्वात् । अयं संसारोऽनुपलभ्यमानादिमध्यान्तः प्रातिभासिकत्वात्स्वप्नपदार्थवदिति प्रयोगः । संसारः प्रातिभासिकः दृष्टनष्टस्वरूपत्वात्स्वप्नादिवदिति च । नच व्यावहारिकसंसारस्य कथं प्रातिभासि - कत्वमिति वाच्यं, व्यवहारप्रतीत्योरविशेषात् । प्रातिभासिकत्वादेव हि संसारस्य सुषुप्तौ प्रातिभासा- भावादभावः । नचैवं सर्पाभासवत्सर्वस्यापि प्रातिभासिकत्वे भ्रमप्रमाविवेकानुपपतिरिति वाच्यं, सिद्धान्ते सर्वस्यापि भ्रमत्वात् । अज्ञदृष्ट्या तु कल्पितः प्रातिभासिकव्यावहारिकभेदः, तत्त्ववि - दृदृष्ट्या तु ब्रह्मणोऽन्यस्य सर्वस्यापि कल्पितत्वेन प्रातिभासिकत्वमेवेति न कश्चिद्दोषः । ननु अयं देह इदानीं जात इदानीं वर्धन इदानीं मृत इति देहस्याद्यन्तमध्योपलम्भात्कथं प्रातिभासिकत्वमिति चेत्, उच्यते- संसारस्य वयमादिमध्यान्तानुपलम्भं ब्रूनः नतु देहस्य । पूर्व- २१० श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु विद्यते । तथा न चादि: ‘इत आरभ्यायं प्रवृत्त’ इति न केनचिदवगम्यते । न च सम्प्र- तिष्ठा स्थितिर्मध्यमस्य न केनचिदुपलभ्यते । अश्वत्थमेनं यथोक्तं, सुविरूढमूलं- सुष्ठु विरूढानि विरोहं गतानि सुदृढानि मूलानि यस्य तमेनं सुविरूढमूलं, असङ्गशस्त्रेण - असङ्गः पुत्रमित्रविचलोकैषपणेभ्यो व्युत्थानं तेनासङ्गशस्त्रण, दृढेन परमात्माभिमुख्यनिच पडढीकृ तेन पुनःपुनर्विवेकाभ्यासाश्मनिशितेन, छित्वा संसारवृक्षं सबीजमुद्धृत्य ||३|| " पूर्व कर्मवशादुत्तरोत्तर देहजन्ममरणलक्षणस्संसारो ह्यनादिरनन्तश्च । अत एवामध्यश्च । नचैवं व्यावहा- रिकदेहस्य कथं प्रातिभासिकत्वमिति वाच्यं दृष्टनष्टस्वरूपत्वाद्देहस्य प्रातिभासिकत्वं न त्वादिमध्यांता- नुपलम्भात् । नचानन्तस्य संसारस्य कथं देहवद्द्दष्टनष्टस्वरूपत्वमिति वाच्यं, संसारस्य सुषुप्त्यादौ नाशदर्शनेन तथात्वात् । नच प्रबोधे पुनर्दृश्यत एवेति वाच्यं प्रबोधे दृश्यमानस्य संसारान्तरत्वात् । पूर्वानुभूतसंसारो हि सुषुप्तौ नष्टः । सोऽयं संसार इति प्रत्यभिज्ञा तु सेयं दीपज्या लेतित्रत्साजात्या- दिति । नन्वज्ञानमूलोऽयं संसारः कथमनादिस्स्यादत आह— इत आरभ्येति । नास्य संसारस्य जन्माभावप्रयुक्तमनादित्वं वयं ब्रूमः, किं तर्ह्यज्ञायमानजन्मकालवत्त्वरूपमनादित्वमेवेति । ननु न केनचिदवगम्यत इत्ययुक्तमीधरेण तस्यावगम्यमानत्वादन्यथा तस्य सर्वज्ञत्वापतेरिति चेत्, मैवम् — किमयमीश्वरश्चिन्मात्र उत मायामयः ? यं त्वं सर्वज्ञं ब्रूषे ! आधे निर्धर्मकस्य न तस्य ज्ञातृत्व धर्म प्रसङ्गः । द्वितीये - सोऽपि कल्पित एव, मायया संसारवदिति कथं तस्य मायामय- संसारादिपरिज्ञातृत्वम् ? (संसारस्या दिर्जन्मेत्यर्थः) नचैवमीश्वरस्य सर्वज्ञत्वभङ्गप्रसङ्गः, यद्ज्ञातुं शक्यते तदपरिज्ञानस्यैव सर्वज्ञत्वभङ्गहेतुत्वात् । नच संसारस्रष्टुरीश्वरस्य कथं तदाद्यपरिज्ञातृत्वमिति वाच्यं, पूर्व- पूर्व संसारं दृष्ट्रा उत्तरोत्तरं संसारं सृष्टवानीश्वर इत्यदोषात् । अन्यथा हि विषमसृष्टिप्रयुक्त वैषम्यादि- दोषप्रसक्तिरस्यादीश्वरस्य । किंच अज्ञानादपि वासनारूपेणाज्ञानेऽवस्थित एव संसारो जायते, नापूर्व इति कृत्वा कथ- मज्ञानमूलकत्व मात्रेणेश्वरेण संसारस्यादिर्ज्ञातुं शक्येत ? अभावादेवादेः । न ह्यविद्यमान शशशृङ्गापरि- ज्ञानमात्रेणेश्वरस्य सर्वज्ञत्वहानि: । एतत्संसारस्य हेतुस्तु न केवलमविद्या, किंतु चिदविद्यासंयोगः । उक्तं हि क्षेत्रक्षेत्रज्ञसंयोगस्संसारस्य कारणमिति । स च संयोगोऽनादिरिति तत्प्रयुक्तस्संसारोऽप्यनादि- रेव । यदैव संयोगस्तदैव हि संसारः प्रवृत्तः । तस्मात्कार्यत्वेऽप्यनादिरेव संसारः । ज्ञाननाश्यत्वा- दस्यानन्तत्वं तु व्यवहारसापेक्षमथवाऽविद्यासापेक्षमिति बोध्यम् ।. मूलांनि रागद्वेषादिवासनाः । रागादिप्रयुक्तो हि संसारः । अथ वाऽज्ञानप्रयुक्तो रागद्वेषा- द्यभिवर्धितश्च संसारः । मित्रशब्देन भार्या गृह्यते । भार्या हि भर्तुर्मित्रमिवेष्टप्रापिका, अनिष्ट- निवारिका च । लोकैषणं नाम स्वर्गादिलोकप्राप्त्याशा । तेभ्यो व्युत्थानं नाम तत्परित्यागः । सन्यास इति यावत् । ‘व्युत्थायाथ भिक्षाचर्य चरन्तीति श्रुतेः । गृहस्थस्य हि पुत्रादिसङ्गो दुधरि- पचदशोऽध्यायः । २११ हर इति भावः । परमात्माभिमुख्यं परमात्मानुसन्धानप्रावण्यं तस्मिन् यो निश्चयोऽध्यवसायः तेन दृढीकृतेन । पुनःपुनर्विवेकाभ्यास आत्मानात्मविवेकस्यासकृदावर्तनमहमात्मा इदमनात्मेत्येवंरूपं तदे - वाइमा शाणोपलस्तेन निशितेन तीक्ष्णीकृतेन । सबीजं साज्ञानमूलमुद्भिद्योच्चैर्भित्त्वा सन्न्यासाश्रमं स्वीकृत्य वैराग्यशमदमादिभी रागद्वेषादीनि संसारवृक्षमूलानि छित्त्वा आत्मानात्मविवेकज्ञानेन संसार- वृक्षप्रघानमूलमज्ञानं च छित्त्वेत्यर्थः । यत्तु रामानुजः - अस्य वृक्षस्य चतुर्मुखादित्वेनोर्ध्वमूलत्वं तत्सन्तानपरम्परया मनुष्याग्रत्वे- नाघश्श खत्वं, मनुष्यत्वे कृतैः कर्मभिर्मूलभूतैः पुनरप्यधश्चोर्ध्वं च प्रसृतशाखत्वमिति यथेदं रूपं निर्दिष्ट न तथा संसारिभिरुपलभ्यते । मनुष्योऽहं देवदत्तस्य पुत्रो यज्ञदत्तस्य पिता तदनुरूपपरिग्रह- श्चत्येतावन्मात्रमुपलभ्यते । तथाऽस्य वृक्षस्यान्तो विनाशोऽपि गुणमयभोगेष्वसङ्गकृत इति नोपलभ्यते । तथाऽस्य गुणसङ्ग एवादिरिति नोपलभ्यते । तस्य प्रतिष्ठा चानात्मन्यात्माभिमानरूपमज्ञानमिति ! नोपलभ्यते । प्रतितिष्ठत्यस्मिन्नेवेति ज्ञानमेवास्य प्रतिष्ठेति, तन्मन्दम् - यदि संसारवृक्षस्य चतु- र्मुख आदिस्स्यातर्हि स्थावरमेवाद्यं स्यान्न तु मनुष्यः । तस्य ब्रह्मादिस्थावरान्तप्राणिवर्ग मध्यस्थत्वात् । नच स्थावराणां ब्रह्मसन्तानपरम्परान्तःपातित्वं नास्तीति वाच्यं ब्रह्मणस्त्रष्टृत्वसङ्कोचस्यान्याय्यत्वात् । सर्वं जगत्सृष्टं हि चतुर्मुखेन प्रजापत्यादिद्वारा । नच मनुष्यत्व कृत कर्मवशादेव पश्वाद्यधश्शाखप्रसार इति वाच्यं, मनुष्यसृष्टेः प्रागपि पश्वादिसृष्टिसम्भवात् । तथा संसारिभिरस्य रूपं नोपलभ्यते यथोक्त " मित्यप्ययुक्तम् — किमिमे संसारिणो वेदवेदाङ्गाध्ययनसम्पन्ना उत मूर्खा ? आद्ये तैरेतद्ज्ञायत एव । द्वितीये किं नास्तिकजनमतस्येह वर्णनेन फलम् ? नच वेदवेदाङ्गादिविदो न संसारिण इति वाच्यं, यज्ञादिकर्मप्रवृत्त्यादिरूपसंसारस्य तेषु दर्शनात् । न चास्तिकेष्वप्यवेदविदो नैतज्जानन्तीति वाच्य, किं तदपरिज्ञानप्रतिपादनादिह फलम् ? तेभ्योऽप्यत्यन्तमूढो बालो ह्यात्मानं मनुष्य इति देव- दत्त इत्यपि च न जानातीति कथमुक्तं मनुष्य इत्यादिकमुपलभ्यत इति ? तथा नान्त इत्यस्यान्तो गुणमयभोगासङ्गकृत इति नोपलभ्यत इत्यर्थस्य कथमागमः नच तथेत्यस्यात्राप्यन्वयात्तदर्थागम इति, वाच्यं, यथोक्तं तथेति हि तथाशब्दार्थः । रूपं तु पूर्वमुक्तमिति तत्र तथाशब्दान्वयो न्याय्यः । न हीह गुणमयभोगासङ्गादिकं वर्णितं प्राग्येनास्य तथाशब्देन ग्रहणं स्यात् । नच त्रयोदशाध्या- योक्तार्थस्येह ग्रहणं न्याय्यं व्यवहितत्वात् । तत्रापि गुणसङ्गस्संसारकारणमित्येवोक्तं, न त्वसङ्गस्तन्नाश- कारणमिति । तत्त्वि हैवोच्यते- ‘असङ्गशस्त्रेण दृढेन छ’ त्वेति । न चादिरित्यत्र तथाशब्दानु- वर्तनेऽपि गुणसङ्ग आदिरित्यर्थस्यासिद्धिरेव । गुणसङ्गपदार्थवाचकत्वाभावात्तथाशब्दस्य । तथा- शब्दो हि प्रकारवाची गुणसङ्गं न बोधयेत् । गुणसङ्ग इतिपदस्याध्याहारस्त्वप्रमाणः । तं विनाऽ- प्यन्वयसम्भवे तदध्याहारस्यायुक्तत्वाच्च । सम्प्रतिष्ठेत्यत्राप्यज्ञानमेवेति पदकल्पनस्यापि मूलाहि - रयुक्तत्वादप्रमाणत्वाच्च । " ર श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः । तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥ तत इति । ततः पश्चाद्यत्पदं वैष्णवं तत्परिमार्गितव्यं परिमार्गणमन्वेषणं ज्ञातव्य - मित्यर्थः । यस्मिन्पदे गताः प्रविष्टा न निवर्तन्ति नाऽऽवर्तन्ते भूयः पुनस्संसाराय । कथं परिमार्गितव्यमित्याह - तमेव च यः पदशब्देनोक्त आद्यमादौ भवमाद्यं पुरुषं प्रपद्य इत्येवं परिमार्गितव्यं तच्छरणतयेत्यर्थः । कोऽसौ पुरुष इत्युच्यते यतो यस्मात्पुरुषात्संसारमाया- वृक्षप्रवृत्तिः प्रसृता निस्सृता ऐन्द्रजालिकादिव माया पुराणी चिरन्तनी ||४|| एवमन्त इति, आदिरिति, सम्प्रतिष्ठेतीतीति शब्दत्रय कल्पनमपि गौरवावहत्वादयुक्तमेव । नवन्तो नोपलभ्यत इति लघुवाक्यान्वयं विहाय गुणमयभोगासङ्ग एवान्त इति नोपलभ्यत इति गुरु- वाक्यान्वयकल्पनं युक्तमिति कोऽपि विद्वान् प्रत्येति । युक्त एवायं रामानुजस्य यथाश्रुतार्थ परि- त्यागोऽपार्थकल्पनं च विशिष्टाद्वैताख्याश्रौतमताभिमानपिशाचमस्तस्येति ॥३॥ तत इति, पश्चादिति । संसारनाशाच्चिते शुद्धे सतीत्यर्थः । संसारो हि चित्तविक्षेपकः । वैष्णवं पदं विष्णोरात्मनः स्वरूपं सच्चिदानन्दाख्यं परिमार्गितव्यमन्वेष्टव्यम् । ‘सोऽन्वेष्टव्यस्स विजि- ज्ञासितव्य’ इति श्रुतेरिति भावः । परिमार्गशब्दार्थमाह - अन्वेषणमिति । ज्ञानमिति यावत् । परिमार्गितव्यस्य फलितार्थमाह - ज्ञातव्यमिति, प्रविष्टा इति । यत्सायुज्यं प्राप्ता इत्यर्थः । न निवर्तन्तीति परस्मैपदमार्षम् । किमर्थं नावर्तन्तेऽत आह— संसारायेति । संसरणायेत्यर्थः । पुन- स्संसारं न प्राप्नुवन्तीत्यर्थः । यथा खर्गादिपदे प्रविष्टाः पुनरावर्तन्ते न तथेति भावः । अदौ सृष्टेः प्रागपि भवत्यस्तीति, आदौ भव आद्य :- अनादिरित्यर्थः । पुरुषं पूर्णमात्मानं प्रपद्ये स एवाहमस्मीति भज इत्यनुसन्धानवान् सन् विद्वान् पदं परिमार्गयेदित्याह — इत्येवमिति । एवमहं ब्रह्मास्मीति तत्त्वज्ञानात्परमपदप्राप्तिर्भवेद्विदुष इति भावः । यतः पुराणी प्रवृत्तिः प्रसृता तमेव चाद्यं पुरुषं प्रपद्य इत्यन्वयः । कस्य प्रवृत्तिरत आह- संसारेति । संसाराख्यमायावृक्षस्य प्रवृतिं प्रवर्तनं प्रसृता जातेति यावत् । अनादिरयं संसारवृक्षो यस्मान्मायिनः परमेश्वरात्प्रवृत्तस्सोऽयं परमात्मेह पुरुष इत्युक्त इत्यर्थः । प्रपद्येदिति रामानुजीयपाठस्तु पद्यतेः परस्मैपदित्वस्यापाणिनीयत्वादुपेक्ष्यः । यच्चानेन – प्रपद्ये यत इति पाठेऽपि प्रपद्य इ यत इति छित्वा तमेव चाद्यं पुरुषं प्रपद्य शरणमुपगम्य इ यतोऽज्ञान- निवृत्त्यादेः कृत्स्तस्यैतस्य साधनभूता प्रवृत्तिः पुराणी पुरातनी प्रसृता, पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी पुरातना हि मुमुक्षवो मामेव शरणमुपगम्य निर्मुक्तबन्धास्सञ्जाता इत्यर्थ इत्युक्तं तच्चासत् - या प्रसृता सा न शरणं प्रपन्ना, किंतु पुरातना मुमुक्षव एवेति समानकर्तृकत्वाभावेन प्रपद्येति स्र्यपोऽनुपपतेः । पुराणानामियं प्रवृत्तिः पौराणीति तस्येदमित्यणि टिड्ढाणेति ङीपा भाव्यत्वेन पुराणीति पञ्चदशोऽध्यायः । कथंभूतास्तत्पदं गच्छन्तीति, उच्यते- निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्तास्सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ||५|| २१३ निर्मानमोहा इति । निर्मानमोहा:- मानश्च मोहश्च मानमोहौं, तौ निर्गतौ येभ्यस्ते निर्मानमोहा मानमोहवर्जिताः; जितसङ्गदोषा:- सङ्ग एव दोषस्सङ्गदोषः, जितः सङ्गदोषो यैस्ते जितसङ्गदोषाः; अध्यात्मनित्याः परमात्मस्वरूपालोचननित्यास्तत्पराः विनिवृत्त- कामा:- विशेषतो निर्लेपेन निवृत्ताः कामा येषां ते विनिवृत्तकामा यतयस्सन्न्यासिनः द्वन्द्वैः प्रियाप्रियादिभिर्विमुक्तास्सुखदुःखसंज्ञैः परित्यक्ता गच्छन्ति, अमूढा मोहवर्जिताः पदमव्ययं तद्यथोक्तम् ॥५॥ तदेवं पदं पुनर्विशिष्यते Og न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥ नेति । तद्धामेति व्यवहितेन धाम्ना सम्बध्यते । तद्धाम तेजोरूपं पदं न भासयते रूपासिद्धेः । इ यतः प्रवृतिरित्यस्य इ यतस्साधनभूता प्रवृत्तिरिति कल्पनं चान्याय्य, इ यत इत्य- स्याज्ञाननिवृत्त्याद्यर्थश्च स्वकपोलकल्पितत्वादुपेक्ष्यः । नहि यच्छब्दादभिघया ताहगर्थलाभस्सम्भवति । नच शङ्करमतेऽपि प्रपद्ये इत्युत्तम पुरुषस्य वाक्यानन्वय इति वाच्यं तं प्रपद्य इति तत्पदं परिमार्गितव्य- मिति वाक्यान्वयलाभात् । यः पुराणी प्रवृत्तिः प्रसृता तमेव चाद्यं पुरुषं प्रपथ इति यस्मिन्गता भूयो न निवर्तन्ति तत्पदं ततः परिमार्गितव्यमिति श्लोकस्यान्वयः पर्यवसन्नः ॥ ४ ॥ निर्मानेति । निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामा अमूढाः यतय इति शेषः । सुखदुःखसंज्ञैर्द्वन्द्वैर्विमुक्तास्सन्तः तदव्ययं पदं गच्छन्ति । मानोऽहंममाभिमानः । मोहोs- ज्ञानम् । मूढोऽविवेकी तद्भिन्ना अमूढ़ा विवेकिन इत्यर्थः । निर्लेपेन निश्शेषेणेत्यर्थः । गृहिणां दारापत्यादिसङ्गस्यावर्जनीयत्वादुक्तम् — यतय इति । अध्यात्ममात्मनि नित्या आसक्ता आत्मन्यासक्ति- र्नामात्मस्वरूपा लोचनासक्तिरित्यभिप्रेत्याह — परमात्मेति । इदं मे स्यादिदं मे स्यादितीच्छाः कामाः । प्रियमिष्टं सुखसंज्ञ सुखे तद्धेतौ च सर्वेषामिच्छास्ति हि । अप्रियमनिष्टं दुःखसंज्ञं दुःखे तद्धेतौ च सर्वेषामकामोऽस्ति हि । आदिपदात् स्तुतिनिन्दादिद्वन्द्वप्रहणम् । यद्यपि शीतोष्णमानाव- मानादयस्सर्वे द्वन्द्वपदार्थाः प्रियाप्रियद्वन्द्वेऽन्तर्भूतास्तथापि तद्विशेषसंग्रहाया दिपदनिर्देशः कृत इति बोध्यम् । ‘सह वै स शरीरस्य प्रियाप्रिययोर पहतिरस्ति, अशरीरं वा सन्तं न प्रियाप्रिये स्पृशत’ इति श्रुतेरशरीरत्वं प्राप्नुवन्तीत्यर्थः । पद्यते गम्यत इति पदं स्वरूपं ब्रह्मेति यावत् ॥५॥ नेति । तत्सूर्यो न भासयते, शशाङ्को न भासयते, पावको न भासयते यद्गत्वा न निवर्तन्ते ૨૨૭ श्रीभगवद्गीतासु भाय्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सूर्य आदित्यस्सर्वावभासनशक्तिमत्वेऽपि सति तथा न शशाङ्कश्चन्द्रः; न पावको नाग्निरपि । यद्धाम वैष्णवं पदं गत्वा प्राप्य न निवर्तन्ते यच्च सूर्यादिर्न भासयते, तद्धाम पदं परमं मम विष्णोर्यद्गत्वा न निवर्तन्त इत्युक्तम् ||६|| S 1 तद्धामं मम परमं पदमिति शेषः । यद्वा यद्गत्वा न निवर्तन्ते तद्धाम मम परमं पदम् । तद्धाम सूर्यो न भासयते, शशाङ्को न भासयते, पावको न भासयते । तेजो ज्ञानं, न त्वालोकः । तस्य दृश्यत्वेनानात्मत्वादात्मा हि द्रष्टा । ननु घटः पटं न भासयत इतिवत्सूर्यस्तन्न भासयत इत्यनेन घाम्नः क उत्कर्षो लब्धोऽत आह- सर्वेति । अह्नि यस्सर्वं जगदवभासयितुमीष्टे स सूर्योऽपि तन्नाव- भासयत इत्यर्थः । तथा निशि यस्सर्वावभासकश्चन्द्रस्सोऽपि तन्नावभासयते । यश्व सन्ध्ययोस्तव वि- भासकोऽग्निर्यश्चान्तर्गृहे सर्वावभासको दीपादिः स चाग्निर्न तद्भासयितुमीष्टे । आत्ममास्या हि ते कथमात्मानं भासयेरन् ? अयं सूर्योऽयमिन्दुश्यमग्निरयं दीप इति क्षेत्रज्ञ एव सूर्यादीन् जानातीति सूर्यादीनामवभासकः । सूर्यादयस्तु जडा एव, ते हि स्वात्मानमेव न विदुरहं रविरहं दीप इत्येव किं पुनरन्यानवभासयेरन् । नच सूर्यादयश्चेतना एवेति वाच्यं, यस्सूर्यादिमण्डलान्तर्वर्ती पुरुषो देह- वर्ती पुरुष इव स एक एव चेतनो द्रष्टा क्षेत्रज्ञश्च । तदतिरिक्तं मण्डलं तु देहवज्जडमेवेति । नन्वेवं जडस्य सूर्यादेः कथं सर्वावभासनशक्तत्वमिति चेदुच्यते - देहान्तर्वर्ती प्रत्यगात्मा यथा बाह्यघटाद्यवभासने चक्षुर्वृत्त्यादिकमपेक्षते तथा सूर्यादिज्योतिरप्यपेक्षत एव । अज्ञानेनेवान्धकारे- णापि घटादेरावृतत्वात् । अज्ञाननिरसनाय चक्षुर्वृतिः, अन्धकारनिरसनाय सूर्वादितेजश्च क्षतन इति । यद्वा अज्ञानेनावृतो घटः पुनरुधकारेणाप्यावृतः । पटेन वेष्टितं वस्तु पेटिकयेव । तस्य चान्धकारस्यापगमनाभावे चक्षुर्वृत्तेर्घटाज्ञानसम्बन्धो न स्यात् । न हि बाध्यबाधक यो सम्बन्ध विना बाधकेन बाध्यं नाश्येत । तस्माच्चक्षुर्वृत्तिरेव सूर्यादिज्योतिरपेक्षते; क्षेत्रज्ञस्तु वृत्तिमपेक्षत इति । तथा चान्धकारनाशकत्वलक्षणं सर्वावभासकत्वं सूर्यस्य, अज्ञाननाशकत्वलक्षणं भासकत्वं चक्षुर्वृतेश्चास्तीति सूर्यादिरप्यवभासक एव वृत्तिवत् । न चैवमन्धकारे सूर्यादितेजसा नाशिते भज्ञाने वृत्त्या नाशिते च घटस्स्वयमेव स्फुरेदिति किं क्षेत्रज्ञेनेति वाच्यं, जडत्वाद्धटस्य । न हि स्फुरणं स्वयं सम्भवति तस्य । न हि घटोऽहमिति घट आत्मानं वेति; नापि पटोऽयमिति पटं वा वेत्ति । तस्मादयं घट इति घटे ज्ञातत्वरूपं भास्यत्वं जीव- प्रयुक्तमेवेति जीव एव भासकः । न हि वृत्तिरप्ययं घट इति जानाति जडत्वात्तस्याश्च । तस्मा- द्धादिभासने करणभूतं चक्षुरपि सूर्योऽपीदं चक्षुरयं सूर्य इति जीवेन ज्ञायेत एवेति सर्वावभावकत्वं जीवस्य सिद्धं सर्वज्ञातृत्व लक्षणं, न त्वन्धकारनिरसनरूपं, नाप्यज्ञाननिरसनरूपमिति बोध्यम् । न चैवं जीवस्य सर्वावभासकर वे विवदितव्य- ‘साक्षी चे’ तेति श्रुत्यैव साक्षित्वलक्षणसर्वाव- भाकत्व स्योक्तत्वात् । नच जीवो घटादिमिवात्मानमपि वृत्त्यादिसापेक्षरसन्नेव भारयतीति पराधीन-पञ्चदशोऽध्यायः । २१५ ननु सर्वा हि गतिरागत्यन्ता ‘संयोगा विप्रयोगान्ता’ इति प्रसिद्धं कथमुच्यते– ‘तद्वाम गतानां नास्ति निवृत्ति’ रिति ? शृणु तत्र कारणम्- ममैवांशो जीवलोके जीवभूतस्सनातनः । मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥ ममेति । ममैव परमात्मनो नारायणस्यांशो भागोऽवयव एकदेश इत्यनर्थान्तरं प्रकाश एवेति भास्य एवेति वाच्यं, अन्धकारे स्वप्ने सुषुप्त्यादौ च सूर्यादिज्योतिरभावेऽपि वृत्त्यभावेऽपि जीवस्य स्वत एव भासमानत्वादत एव हि स्वयंज्योतिरित्युच्यत आत्मा । तस्मात्सूर्यादय- स्सर्वेऽपि भासकत्वेन प्रसिद्धा आत्मभास्या एवेति न तं भासयितुं सूर्यादिः कोऽपि शक्नोति । पदस्य पूर्वश्लोके प्रकृतत्वादुक्तं पदमिति । यत्सर्वावभासकमनन्यावभास्य च तेजस्तदेव मम पद, तदेव गत्वा न पुनरावर्तन्ते मुक्ता इति परमार्थः । यत्तु रामानुजः – तद्धामात्मज्योतिर्मम मदीयं ममैवांश इत्यर्थ इति, तन्मन्दम् - अंशांशि- भावस्यात्रा विवक्षितत्वात् । उत्तरश्लोकेन तस्य वक्ष्यमाणत्वाच ||६|| ममेति । ननु ‘सर्वे क्षयान्ता निचयाः पतनान्तास्समुच्छ्रयाः, संयोगा विप्रयोगान्ता मरणान्तं हि जीवित ‘मिति संयोगस्य वियोगान्तत्वप्रसिद्धेः सर्वापि गतिरागत्यन्तैवेति कृत्वा, ‘यद्गत्वा न निव- तन्व’ इत्युक्तमयुक्तमित्याक्षिपति — नन्विति । गतिः प्राप्तिस्संयोग आगतिरागमनं वियोगः येन यद्गम्यते तेन तत आगम्यते । यथा कर्मिणा स्वर्गो गम्यते तत आगम्यते च । तथा मुमुक्षुणा यद्धाम गम्यते तद्धाम्नः पुनस्स आगच्छत्येव । ननु ग्रामान्तरं गतः कश्चित्पुनस्स्वग्रामं प्रत्यागच्छति कश्चित्तत्रैव तिष्ठतीति कथमुच्यते आगच्छत्येवेति चेत्, मैवम् — यावज्जीवं तत्र स्थित्वापि मरणानन्तरं तत्परित्यज्यान्यत्र गच्छत्येवेति । नहि वयं यस्मागतः तत्पुनः प्राप्नोतीति ब्रूमः, किं तर्हि यं गतः तं परित्यज्यागच्छतीत्येव ब्रूमः । येन गम्यते तेन तत्त्यज्यत इत्येव व्याप्तिनियम इति भावः । निवृत्तिः पुनरावृत्तिः । तद्धामपरि- त्याग इति यावत् । जीवलोके प्रसिद्ध इति शेषः । सनातनो जीवभूतो ममैवांशः प्रकृतिस्थानि मन- ष्षष्ठानीन्द्रियाणि कर्षति । यद्वा सनातनो ममैवांशो जीवलोके जीवभूतः । स इति शेषः । प्रकृति - स्थानि मनष्षष्ठानीन्द्रियाणि कर्षति । अनर्थान्तरमिति । अंशभागावयवैकदेशाख्यं पदचतुष्टयमर्था- न्तररहितमेकस्मिन्नेवार्थे वर्तते । अभिन्नार्थकमिति यावत् । पर्यायपदानि चत्वारीति भावः । यद्वा अर्थान्तरं तत्त्वान्तरं न भवति । अहं परमात्मैव जीवः, नतु मदर्थान्तरं जीवः- मदं- शत्वाज्जीवस्य । कोसावंशोऽत आह— भाग इति । तदर्थमाह - अवयव इति । तस्यापि फलित- माह - एकदेश इति । यथा जलस्य तटाकगतस्यांश एकदेशो जलादर्थान्तरं तद्वज्जीवोऽपीति भावः । यद्वा ममैवांश इत्यत्रैवकारार्थमाह- अर्थान्तरमिति । ममैवांशो न स्वर्थान्तरं मत्त इत्यर्थः । जीवेन २१६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु जीवलोके जीवानां लोके संसारे जीवभूतः कर्ता भोक्तेति प्रसिद्धः, सनातनचिरन्तनः यथा जलसूर्य कस्सूर्यांशो जलनिमित्तापाये सूर्यमेव गत्वा न निवर्तते तथाऽयमप्यंशस्तेनैवात्मना सङ्गच्छत्येवमेव । यथा वा घटाद्युपाधिपरिच्छिन्नो घटाद्याकाशः, आकाशांशस्सन् घटादि- निमित्तापाये आकाशं प्राप्य न निवर्तत इत्येवमत उपपन्नमुक्तं- ‘यद्गत्वा न निवर्तन्त’ इति । ननु निरवयवस्य परमात्मनः कुतोऽवयव एकदेशोंश इति ? सावयवत्वे च विनाशप्रसङ्गोऽव- लोक्यते दृश्यत इति जीवलोक इति व्युत्पत्त्याऽऽह — संसार इति । जगतीति यावत् । अज्ञा वैदिकास्ता किंकादयश्च कर्तारं भोक्तारं जीव मन्यन्त इत्यत आह-कर्ता भोक्तेति । कर्ता भोक्तेति वैदिकादयो यं व्यवहरन्ति स जीवो ममैवांश इत्यर्थः । एतेन यथाऽहमकर्ताऽभोक्तेति प्रसिद्धस्तथा मदशोऽप्यकर्ताऽभोक्ता चैव तस्मिन्कर्ता भोक्तेति प्रत्ययस्तु भ्रम एव न प्रमेति सिद्धम् । जीवो भूतो जातो जीवभूतः । अनेन च भूतशब्दनिर्देशेन न वस्तुतः कर्तृत्वभोक्तृत्वप्रयुक्तजीवत्वं मदेश- स्येति सूच्यते । + ननु भवतु तवांशो जीवः, किं तावता तव पदं गतानामपुनरावृत्तौ कारणं सिद्धमंत आह- यथेति । जलसूर्यको जले सूर्य प्रतिबिम्ब: । सूर्य इव सूर्यकः ‘इवे प्रकृतिता’ विति कन् । प्रति- बिम्बो हि बिम्बस्यांश इति सूर्यांश इत्युक्तम् । जलमेव निमित्तं प्रतिबिम्बभावं प्रति कारणं तस्यापाये नाशे सति । ततस्सूर्यात् । तथा चिदाभासो जीवोऽपि चिद्रूपपरमात्मनः प्रतिबिम्बत्वेन तदेशः । प्रतिबिम्ब निमित्तस्याविद्याया अन्तःकरणस्य वा ज्ञानान्नाशे सति परमात्मचैतन्यं तत्पदं गत्वा ततो न निवर्तत इति प्रतिबिम्बपक्षानुसारेणोत्तरमुक्तमाचार्यैः । घटादीत्यादिपदात्कर कमठा दिग्रहणम् । एव- स्वोपाधिभूता विद्यान्तःकरणनाशे सत्यपरि- एकमेव चैतन्यं पूर्ण महाकाश इवोपाधि- अथावच्छेदपक्षानुसारेणाह – यथा वेति । मन्तः करणावच्छिन्नोऽविद्यावच्छिन्नो वा चैतन्यरूपो जीवः च्छिन्नं परिपूर्ण परमात्मचैतन्यं प्राप्य न ततो निवर्तते । वशात्परिच्छिन्नमिव प्रतिभाति, तदुपाधिनाशे तु परिपूर्ण सदेवावतिष्ठत इति कथं पूर्णचैतन्यस्य महा- काशस्यैव गमनादिकमिति भावः । अयं चोपा घिपरिच्छेदः परिपूर्णस्याज्ञानकृत एवेति तदज्ञाननाशे कथं पुनरुपाधिपरिच्छेददर्शनं स्यान्न कथमपीत्यभिसन्धिः । अत इति । जलसूर्यकघटाकाशदृष्टान्तद्वयेन परमात्मांशस्य जीवस्य परमात्मप्राप्तौ सत्यां पुन- रावृत्त्यभावस्य स्थापितत्वादित्यर्थः । उपपन्नं युक्तं सदृष्टान्तत्वाद्युक्तिमदित्यर्थः । उक्तमेव स्मारयति - यद्गत्वा न निवर्तन्त इति । परिपूर्णचैन्यस्य स्वरहितस्वप्रतिफलनयोग्य देशाभावात् । मुखं हि स्वरहितेन एव स्वप्रतिफलनयोग्ये दर्पणप्रदेशे प्रतिफलति । अपरिच्छिन्नस्य निरवयवस्य निरवकाशस्य चैतन्यस्य चोपाधिपरिच्छेदायोगात्सावयवस्य सावकाशस्य हि महाकाशस्य घटादिपरिच्छेदः । चैन्य- प्रतिफलनं चैतन्यपरिच्छेदश्वत्युभयमपि भ्रान्तिसिद्धमेव, न वास्तवमिति तत्त्वम् । इदमेव प्रटकयितुं पूर्वपक्षयति — नन्विति, निरवयवस्येति । सावयवस्यैव सांशत्वान्निरवयवोऽयं निरंश एवेति कथ- २८ पञ्चदशोऽध्यायः । २१७ मस्यावयवोंशो वा सिध्येन कथमपि । एवमंशाभावादेवैकदेशस्याप्यभावः । अंशो ह्येकदेशः । यथा मृदशो मृदवयवस्यणुकादिर्मृद एकदेशः । यद्येवं निरवयवस्यांशासिद्धिस्तर्हि मनैवांश इति प्रकृतगीताप्रामाण्यादस्तु परमात्मनस्सावयवत्वमत आह - सावयवत्वे चेति । विनाशाख्यदोषप्रसङ्गात् । सावयवो हि घटादिर्नश्यन्दृष्टः । कुतस्साव- यवस्य विनाशोऽत अह — अवयवविभागादिति । घटो झवयवी कपालाद्यवयव विश्लेषाद्विनश्यति । एवमनन्तानां जीवरूपाणामवयवानां परमात्मनस्सकाशाद्वियोगे सति नश्येत्परमात्मेत्यर्थः । नच पर- मात्मनो विनाशित्वं युक्तमिति वाच्यं, अविनाशित्वस्य पूर्व प्रतिपादितत्वात् । ’ अविनाशी वाडरेऽय- मात्मा’ इति श्रतेश्व । नच जीव एवाविनाशी परमात्मा तु विनाश्येवेति वाच्यं, अवयविन एवा- नित्यत्वे तदवयवानां नित्यत्वस्यायुक्तत्वात् । अवयविनो देहस्य घटस्य तटाकजलस्य वाऽनित्यस्याव- यवाः करचरणादयः कपालादयो बिन्द्वादयश्च नित्यत्वेन किं दृश्यन्ते नित्यत्वे चावयवानां कथ- मवयविनस्स्यादनित्यत्वम् ? नन्ववयविनां व्यणुकादीनामनित्यत्वस्यावयवस्य परमाणोर्नित्यत्वस्य च शास्त्रान्तरसिद्धत्वा- त्कथमित्थमुच्यत इति चेत्, मैवम् - अण्ववयवस्य निरवयवस्य परमाणोरस्माभिरनभ्युपगतत्वात् । नहि वयं परमात्मनोऽन्यत्किमपि निरवयवं नित्यं वा ब्रूमः । ‘यो वै भूमा तदमृतमथ यदपं तन्मर्त्य’ मितिश्रुतेः, ‘तत्सत्यं, स आत्मा, अतोऽन्यदार्त’ मितिश्रुतेश्चैकमेव ब्रह्म सत्यं नित्यं च; ततोऽन्य- दनित्यं मिथ्यैवेति यस्माकमभ्युपगमः । शास्त्रान्तरं तु नास्माकं प्रमाणम सच्छास्त्रत्वात्तस्य । वेदान्त- शास्त्रमेकमेव हि प्रमाणं यथावस्थितव स्तुतत्त्व प्रतिपादकत्वात् । अन्यानि सर्वाणि तु मिथ्याभूतवस्तु- प्रतिपादकान्येवेत्यप्रमाणान्येव । श्रुतयो हि सर्वेषामास्तिकानां प्रमाणं, तत्सम्मतं च वेदान्तशास्त्रम् । किंच वेदान्ता एवास्माकं शास्त्रं ते चापौरुषेयत्वात्स्वतः प्रमाणं तस्मात्तार्किकाद्यभिमतनिरख- यवपरमाणुकल्पनाऽयुक्ता । न चाणोस्सावयवत्वात्तदवयवस्य निरवयवत्वेन भवितव्यमनवस्थादोषा- दन्यथेति वाच्यं, निरवयवस्य परमाणुद्र्यस्य परमाणुसहस्रस्य वा संयोगान्न भवेदणूत्पत्तिः प्रथिमानुपपत्तेः । सावयवस्य हि वस्तुनोऽवयवानन्तरसंयोगात्प्रथिमा जायते । निरवयवस्य च संयोग एव तावन्न सम्भवति । अवयव संश्लेषरूपत्वात्संयोगस्य । तस्मादीश्वर सङ्कल्पात्सावयवा एवाणवस्तावज्जाताः । तदणुद्वयादि- संयोगाद्व्यणुकाद्युत्पत्तिरिति । ते चानित्या अणवस्सावयवत्वात् । अवयविनोऽणोस्तु पृथङ्नावय- वोपलम्भः । सति तदुपलम्भेऽणोरेवासिद्धेः । सावयवस्यैवोपलभ्यमानत्वं न तु निरवयवस्येति कृत्वाऽण्ववयवोपलम्भासम्भवाच । ननु यद्यणुस्सावयवस्यात्तर्हि घटकीभूतैः कैरवयवैरणोत्सावयवत्वमुच्यते ? नहि परमाणवोऽ- नभ्युपगता भवद्भिरितिचेत्; उच्यते - निरवयवे ब्रह्मणि मायया सावयवा अणवः कल्पिताः । अणु- स्वात्मकं सावयवत्वं कल्पितमित्यर्थः । तस्मिंश्चाणुत्वावच्छिन्ने ब्रह्मणि तथा व्यणुकादयः कल्पिताः । एवं सत्यनामवयवा मायामया एवेति सिद्धम् । २१८ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यवविभागात् । नैष दोष:- अविद्याकृतोपाधिपरिच्छिन्न एकदेशोंश इव कल्पितो यतः । दर्शितश्चायमर्थः क्षेत्राभ्यांये विस्तरशः । स च जीवो मदंशकत्वेन कल्पितः कथं संसर- त्युत्क्रामतीति चेति, उच्यते - मनष्पष्ठानीन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्षत्याकर्षति ||७|| ननु सर्वमपि जगन्मायामयमेवेतिकृत्वा किं विशेषेणाणूनामवयवा मायामया इति कथनेनेति - चेत्, मैवम् - अवयवद्वयसंयुक्तो हि तव मतेऽणुः । स च संयोगात्प्राकू नैव सिध्यति । संयोगा पूर्वकत्वात्संयुक्तस्य । अवयवद्वयं हि संयुक्तं सदणुमुत्पादयति । स चाणूदयं प्रति कारणभूतः, पर- माणुरवयव इति सम्मतं तव । अत एव हि निरवयवः परमाणुरित्यभ्युपगमः । स च परमाणुः कस्यावयवः ? न तावदणोरवयवः परमाणुद्रयसंयोगात्प्रागणोरभावात् । नापि परमाणो:- स्वस्थ स्वयमेवावयव इति वचनस्यायुक्तत्वात् । नापि ब्रह्मण:- तस्य सावयवत्वप्रसङ्गादनित्यत्वप्रसङ्गाच्च । तस्मान्मायाया एवावयवः परमाणुरिति सिद्धम् । एवं मायाया अवयवः परमाणुरित्यपि न निश्चेतुं क्षमं मायाया निरवयवत्वेन सावयवत्येन वा निरूपयितुमशक्यत्वात् । अव्यक्ता हि मिथ्याभूता माया । तस्मात्परमाणुत्वेनाभिपता इमे अवयवा माया कार्यत्वान्मायामयाः । अतीन्द्रियत्वान्मिथ्या- भूतत्वाच्च मायावन्निरवयवत्वेन सावयवत्वेन वा निरूपयितुमशक्या: । तस्मान्निरवयवपरमाणुकल्पन तार्किकादीनामयुक्तैव । परमाणवो हि न निरवयवाः, नापि सावयवाः, किं त्वनिर्वाच्या एवेति । यद्यध्येवं जगदपि सत्त्वासत्त्वाभ्यामनिर्वाच्यं तथापि सावयवत्वेन निर्वाच्यमेवे ते जगतः परमाणूनां च मेदोऽवगन्तव्यः । तस्मात्सावयवस्याणोर्येऽवयवास्ते सावयवत्वेन निरवयवत्वेन वा निरूपयितुं न शवया इति निरवयवपरमाणु सिद्धि:, नापि नित्यपरमाणुसिद्धिः, किंतु निरवयव एक एव नित्य मात्मेति कथं निरवयवस्य परमात्मनो ममैवांश इत्यशः प्रोक्त इति पूर्वपक्ष: । . परिहरति तं नैष दोष इति । निरवयवस्यांशवत्त्वकथनं न दोष इत्यर्थः । तत्र हेतु- माह-अविद्येति । तो यस्मादविद्याकृतोपाधिपरिच्छिन्नः परमात्मन एकदेशोंश इव कल्पित- स्तस्मान्नैष दोष इत्यर्थः । अपरिच्छिन्नेऽप्यात्मनि माययाऽन्तःकरणाद्युपाधिपरिच्छेदः कल्पितः । तस्माच्च परिच्छेदादशसिद्धिः । यथाऽपरिच्छिन्नस्याप्याकाशस्य घटाद्युपाधिपरिच्छेदः । तस्माच घटाकाशाद्यंश सिद्धिस्तद्वदिति भावः । निरंशस्यापि परमात्मनो मायया जीवरूपोंशः कल्पितो न वस्तुतशोऽस्तीति न कोऽपि दोषः । यदि मरीच्युदकेन मरुभूमैः पङ्किलत्वं स्यात्तर्हि मायाकल्प - तांशेन परमात्मनस्सशित्वं स्यादिति भावः । कल्पित इति । माययेति शेषः । या माया निरंशेऽ- प्यंशं कल्पितवती सेवासंसारिण्यपि तस्मिन्नंशे जन्ममरणादिलक्षणं संसारं च कल्पितवतीत्याह - मन इति मूलम् । संसरतीति । सुखदुःखादिकमनुभवतीत्यर्थः । उत्क्रामति म्रियते मरणलक्षणं संसार- मनुभवतीत्यर्थः । मनष्षष्ठानीत्यर्घश्लोकेन सह शरीरं यदवाप्नोतीत्युत्तरश्लोको जीवस्य जन्नमरण- पञ्चदशोऽध्यायः । २१९ लक्षणसंसारप्रकारं दर्शयति । श्रोत्रमितिश्लोकस्तु सुखदुःखसम्भोगात्मक संसारप्रकारं दर्शयतीति विवेकः । प्रकृतिस्स्वस्थानं; तच्च षोढा भिन्नं; तत्र मनसो हृत्पुण्डरीकं, श्रोत्रस्य कर्णशष्कुली, चक्षुषो नेत्र- गोलकं, स्पर्शनस्य त्वक्, रसनस्य जिह्वाग्रं, घ्राणस्य नासिकाग्रमिति विवेकः । यत्तु रामानुजः - मद्विभूतिभूतो मदंश इति यच्च वेदान्तदेशिकः - ’ पादोऽस्य विश्वा- भूतानि’, ‘तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्’, ‘यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मा- दात्मनस्सर्व एवात्मानो व्युच्चरन्तीत्यादिश्रुतिप्रतीतांशत्वं विशिष्टे विशेषणांशयेति, ‘अंशो नानाव्यय- देशा’ दित्यधिकरणे ‘प्रकाशादिवत्तु नैवं पर’ इति सूत्रे स्थापितम् । अतोऽनेकेष्वेव केनचिदुपाधिना एकतयाऽभिमतेषु कश्चिन्निरूप्यमाणोंश इति व्यपदिश्यते । एवमेव हि पटादिराश्यादिष्वपि । तच्च विशेषणविशेष्यभावेनावस्थितेष्वपि विशिष्टैक्ये विशेषणांश इत्यादिव्यपदेशेषु तुल्यम् । तस्मादत्रात्यन्त- भिन्नयोजवपरयोर्विभूति तद्वद्भावेन विशिष्टैक्या द्विशेषणभूतो जीवो निष्कृष्य व्यपदिश्यमानः प्रधा- नापेक्षतयांश इति व्यपदिश्यत इति भाव इति, तत्सर्वं तुच्छम् - तथाहि यदि विशिष्टस्य विशे- षणमंशस्स्यात्तर्हि धनिकस्य घनमंशः, दण्डिनः पुरुषस्य च दण्डोंशस्स्यात् । नैवं लोके प्रतीतिरस्ति । नहि यः कोऽपि रूपिकां दण्डं वा दृष्ट्रा पुरुषांशोऽयमिति प्रत्येति । एवं प्रकृतिपुरुष विशिष्टेश्वरस्य पुरुष व त्प्रकृतिरप्यंश एव स्याद्विशेषणत्वांशेऽभेदात् । न चेष्टापति : - ममैवांशो जीवभूत इतिवन्ममै- वांशः प्रकृतिभूत इति काप्यप्रतिपादनात् । ईश्वरांशात्प्रधानादीश्वरांशस्य जीवस्य निष्कर्षणासम्भवाच्च । यद्धि विशेषणं धर्मभूतं तत्तु विशिष्टस्यांश इति वक्तुं शक्यते । यथा ज्ञानवान्पुरुषः । ज्ञानं हि पुरुषधर्मत्वात्पुरुषांश: । न चापृथक्सिद्धविशेषणमंश इत्युच्यत इति कृत्वा ईश्वरस्यापृथक्सिद्ध विशेष- णत्वादशभूतो जीव इति वाच्यं, ईश्वरात्पृथक्सिद्धत्वाज्जीवस्य । कथमन्यथा जीवेश्वरयोरत्यन्तं मेदः स्यात् ? नहि घटादत्यन्तं भिन्नः पटो घटस्या पृथक्सिद्धविशेषणांशस्स्यात् । गुणिनो घटस्य तु गुणो रूपमपृथक्सिद्ध विशेषणं स्यात् । द्रव्यात्पृथग्रूपस्यानुपलम्भात् । ईश्वरात्पृथग्जीवोऽहं संसारीत्युपलभ- मानो जीवः कथं तदपृथक्सिद्धविशेषणं स्यात् ? कथं वाऽनन्यशेषतयाऽहमिति स्फुरन् जीवो विशेष्य- भूतः परमात्मनो विशेषणं स्यात् ? . नच भार्या भर्तुरिव जीव इश्वरस्य शेषतया विशेषणमिति वाच्यं यथा भार्या भर्तुश्शेषः तथा भर्ता भार्याया अपि शेषभूत एव । विनिगमनाभावाच्च नैकतरस्यापि शेषत्वं, किंत्वाश्मशेषत्वमेवो- भयोरपि । नहि भर्तृसुखार्थं भार्या भर्तारं सेवते, नापि भार्यासुखार्थे भर्ता भार्यां पोषयति, कित्वात्म- सुखार्थमेवेत्यात्मा शेष्येव, न कस्यापि शेषः । तस्मान्न परमात्मन आत्मा विशेषणभूतः । किंच दण्डी पुरुषो नीलमुत्पल मित्यादौ विशेषणविशेष्योभयांशप्रतीतिरस्ति । एवं प्रकृतिपुरुषवानीश्वर इत्यत्रापि तदुभयांशप्रतीतिरावश्यकी । तत्र प्रकृतिपुरुषौ विशेषणांशः । कः पुनर्विशेष्यांशः ? न त्वीश्वरः- तस्य 1 ३३० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु । प्रकृतिपुरुष विशिष्टत्वरूपत्वात् । यदि तु प्रकृतिपुरुषविलक्षणः कश्चन विशेष्यांश ईश्वराख्योऽस्ति तर्हि तत्पृथक्सिद्धावेव प्रकृतिपुरुषौ । स चेश्वरांशो वक्तव्यः; किं सच्चिदानन्दरूप उतान्यः ? आधे- जीवोपि तादृश एव । ‘निरञ्जनः परमं साम्यमुपै’ तीति हि त्वयापि जीवेश्वरयोः परमं सादृश्यमभ्युपेयते ज्ञानैकाकारत्वादिरूपम् । तथा च परस्परसदृशयोजीवेश्वरयोः कथं विशेषणविशेष्यभावः ? द्वितीये - सच्चिदानन्दरूपादन्यो जडस्वरूप एव स्यादिति कथं तथापि प्रकृतीश्वरयोर्विशेषणविशेष्यभावः ? विशे- षणविशेष्ययोर्हि वैलक्षण्येन भाव्यं तच्च न दृश्यते- प्रकृतिवैलक्षण्ये सति पुरुषसालक्षण्यापत्तेः । तदु- भयवैलक्षण्यस्य च दुर्वचत्वात् । तस्मादीश्वरशक्तित्वेनेश्वरवत्सच्चिदानन्दस्वरूपाभावेन च प्रकृतेरीश्वरापृथक्सिद्धविशेषणत्वमस्तु । अग्नेः पृथगग्निशक्तेरिवेश्वरात्पृथगीश्वरशक्तेर्मायाया असिद्धखादीश्वरस्वभावत्त्वेनेश्वर विशेषणत्वाच्च । पुरुषस्तु नेश्वरशक्तिर्नाप्यसच्चिदानन्दस्वरूप इति कथं तस्येश्वराऽपृथक्सिद्धविशेषणत्वं भवेत् ? यदि जीव ईश्वराद्भिन्नस्तर्हि तत्पृथक्सिद्ध एव । यदि त्वभिन्नस्तश्वरस्याविशेषणभूत एव । यद्यद्वस्तु पृथवत्वेना पृथवत्वेन वा दुर्निरूपं तद्धि तदपृथक्सिद्धविशेषणम् । यथा अग्निशक्तिरग्नेः पृथक्त्वेनापृथ- क्वेन वा दुर्निरूपेत्यग्नेरग्निशक्ति र पृथक्सिद्धविशेषणम् । यथा वा नीलो गुण उत्पलात्पृथक्त्वेनापृथ- क्त्वेन वा दुर्निरूप इति नील उत्पलस्यापृथक्सिद्धविशेषणम् । एवमीश्वरशक्तिर्माया ईश्वरात्पृथक्त्वे- नापृथक्त्वेन वा दुर्निरूपेति भवतु सा ईश्वरस्या पृथक्सिद्धविशेषणम् । पुरुषस्तु नैषं - ईश्वरात्पृथगह- मज्ञस्संसारीति जीवस्योपलम्भात् । तस्मात्त्वदुक्तविधया प्रकृतेरेवेश्वरांशत्वं प्राप्तं नतु पुरुषस्येत्यहो ! मूलच्छेदी तव पाण्डित्यप्रकर्षः ! नचेश्वरस्याचिदिव चिदपि प्रकृतिरेवेति प्रकृतिवत्पुरुषोऽपीश्वरशक्तिरेवेति वाच्यं, ईश्वरस्या- चिद्रूपत्वाभावादचित्प्रकृतिरीश्वरशक्तिस्स्यात् । चिद्रूपत्वसत्त्वात्तु कथं चित्प्रकृतेः पुरुषस्येश्वरशक्तित्वम्? नहि चितश्चिदेव शक्तिरिति वक्तुमुचितं नहि स्वस्य स्वयमेव शक्तिस्स्यात् । नचैवं चिदचिद्विलक्षण- ईश्वरश्विद्रूपो नेति वाच्यं, ‘सत्यं ज्ञानमनन्तं ब्रझे’ त्यादिश्रुतिभिरीश्वरस्य चिद्रूपत्वप्रतिपादनात् । नहि दृग्दृश्याभ्यामन्यद्यत्किञ्चिदपि वस्त्वस्ति लोके । यदीश्वर इति त्ययोच्येत । नच ज्ञातृज्ञानज्ञेया- ख्यानि त्रीणि वस्तूनि सन्ति, तत्र ज्ञाता ईश्वरः, ज्ञानं जीवः, ज्ञेयमव्यक्तमिति वाच्यं, जीवो ज्ञातेति तवाभ्युपगमात् । ज्ञानस्वरूप ईश्वर इति च । नचेदानीं सोऽभ्युपगमः परित्यज्यत इति वाच्यं, श्रुत्यादिविरोधात् । नहि ज्ञानस्वरूपत्वाभावं ज्ञातृत्वाभावं वा श्रुत्यादयो ब्रुवन्ति जीवस्येश्वरस्य वा । तस्माद्ज्ञातुर्जीवस्येश्वरस्य वा ज्ञानमेव स्वरूपमिति दृग्दृश्यारूयं पदार्थद्वयमेवेति दृश एव दृग्विशेषण- मिति वादोऽयुक्तः । नच दृग्रूपत्वेऽपि जीवेश्वरयोर्धर्मभूतज्ञानसुखादिषु तारतम्यसत्त्वाद्वैलक्षण्यमस्त्येवेति वाच्यं, निर्विशेषज्ञाने विशेषापादकधर्मायोगाद्यत्किञ्चिद्धर्मजातमासञ्जयसि त्वं तत्र । तत्सर्वं माया- कल्पितमेवेत्यभ्युपगमाच । तस्मान्निर्विशेषचिन्मात्र एव जीव ईश्वरश्चेति कथं तयोरन्योन्यविशेषण- पञ्चदशोऽध्यायः । २२१ विशेष्यभावसिद्धिः ? अथवा भवत्वरूपज्ञो जीवस्सर्वज्ञ ईश्वरश्च । तथापि न तवेष्टसिद्धि:- ज्ञातृत्वस्य (ज्ञानस्य) एवोभयोराकारत्वाद्ज्ञानैकाकारौ हि जीवेश्वरौ श्रुत्यनुभवादिभ्यः । ततश्च धर्मतो वैलक्षण्ये सत्यपि स्वरूपतो वैलक्षण्या भावादेकस्वरूपयो जीवेश्वरयोः कथं विशेषणविशेष्यभावः ? न ह्यल्पो घटा- काशो महाकाशस्य विशेषणं भवति । नाप्यल्प करतलगृहीतं जलं महतो गङ्गाजलस्य विशेषणं भवति । तुष्यतु दुर्जन इति न्यायेनैकस्वरूपयोरेव घटाकाशमहाकाशयोरल्पत्व महत्त्वाभ्यां विशेषण विशेष्यभावा- ङ्गीकारेऽपि कथमस्मदुक्तांशासिद्धि: ? स्वरूपैक्ये सति महतो हि वस्तुनोऽल्पं वस्त्वंश इत्यस्माभि- रुच्यते । तदेव विशेषणमिति त्वयोच्यते । एवं च विशेषणांशशब्दयोरेव भेदः, न स्वर्थभेद इति कृत्वा कथमुच्यते विशेषणांश एव न स्वरूपांश इति । नच निरंशस्येश्वरस्य स्वरूपांशासम्भवाद्विशेषणांश इत्युक्तमिति वाच्यं निरंशस्य स्वरूपांशव- निर्विशेषस्य विशेषणांशोऽपि न सम्भवत्येवेति विशेषणांश इतिवदस्यापि स्वरूपांश इत्येव फलितार्थ- सिद्धेश्व दर्शितत्वात् । नचांशी ईश्वरः, दण्डी पुरुष इत्यत्र पुरुष इव विशेष्यमंशो जीवस्तु दण्डवद्विशेषणमिति विशेषणांश एव जीव ईश्वरस्य न स्वरूपांश इति वाच्यं दण्डव्यतिरिक्त पुरुषव- दशव्यतिरिक्तांशीश्वरानुपलम्भात् । यद्युपलभ्यते तर्हि स नांश्येव । यथाऽवयवी देहः करचरणाद्यव- यवातिरेकेण न दृश्यते । यदि दृश्यते तर्हि देहोऽपि निश्वयत्र एव स्यात् । ततश्च करचरणादयोs- वयवा देहस्य स्वरूपांशभूता एव, नतु विशेषणांशभूताः । तद्वदीश्वरांश | जीवा अप्यंशिन ईश्वरस्य स्वरूपांशा एव, नतु विशेषणांशा इति । 1 רי तस्मादशांशिभावो विशेषणविशेष्यभावादतिरिक्त एव । नचेश्वरात्पृथग्जी वस्योपलम्भाज्जीबो नेश्वरस्यांशः, किंतु दण्डः पुरुषस्येव विशेषणभूत एव । अत एव निरंशस्येश्वरस्य कथमंशित्वमिति चोद्यमपि नात्र प्रवर्तत इति वाच्यम् । महाकाशात्पृथग्घटाकाशस्येवेश्वरात्पृथग् जीवस्योपलम्भोऽविद्योपाधि- कृत एव, नतु तात्त्विक इत्यसकृदुक्तत्वात् । तथा निरंशस्यांशित्वं चाविद्योपाधिकृतमेव, न तात्त्विकम् । तस्मान्निरंशस्यापीश्वरस्य चैतन्यरूपस्य चैतन्यरूपो जीवो भवति स्वरूपांश एवाविद्यो- पाधिवशाद्धटाद्युपाधिवशाद्धटाद्याकाशो यथा महाकाशस्य स्वरूपांश इत्यनवद्यम् । पादोऽस्येति तेस्तु निर्विशेषे आत्मन्येकदेशे सर्वे चराचरं जगद्वर्तते माययेति ब्रूते । नतु जीवा ईश्वरस्य अपृथक्सि द्व- विशेषणानीति । तत्र तदर्थाप्रतीतेः । नहि श्रुतौ क्वापि जीव ईश्वरस्यापृथक्सिद्ध विशेषणमिति दृश्यते तस्मादियमश्रौतकल्पनैव । तस्यावयवभूतैरित्यत्र तु अवयवैरिति स्फुटमुक्तमेव जीवस्येश्वरांशत्वम् । अंशो ह्यवयवः । यथा देहस्यैवांशः करादिवयवः । न ह्यवयवशब्दोऽपृथक्सिद्ध विशेष गार्थवाची, येन तवेष्टसिद्धिः । अग्नेरिति वाक्यमपि महतोऽग्नेरल्पाः स्फुलिङ्गा यथा अंशभूतास्तथैव परमात्मनोंशा जीवा इति प्रतिपादयति । उपाधिभेदात्त्वात्मान इति बहुवचन निर्देशः । नहि निरुपाधिक आत्मा अंशो भवितुमर्हति । उपाघिपरिच्छिन्नस्यैव चैतन्यस्यांशत्वात् । एवमंशो नानाव्यपदेशा’ दित्यधिकर- णेऽपि शङ्कराचार्यैरंशांशिभाव एव जीवेश्रवयोर्मायामय स्साचित इति न सूत्र सामञ्जस्यं तवास्ति । 1 14 २२२ श्रीभगवद्गीतासु भाष्या केंप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कस्मिन्काले १-. शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥८॥ शरीरमिति । यच्चापि यदा चापि उत्क्रामतीश्वरो देहादिसङ्घातस्वामी जीवः, तदा ‘कर्ष’ तीति श्लोकस्य द्वितीयपादोऽर्थवशात्प्राथम्येन सम्बध्यते । यदा च पूर्वस्माच्छरीरा- च्छरीरान्तरमाप्नोति तदा गृहीत्वैतानि मनष्षष्ठानीन्द्रियाणि संयाति सम्यग्याति गच्छति । किमिवेत्याह- वायुः पवनो गन्धानिवाशयात्पुष्पादेः ||८|| यदप्युक्तं नीलपीतरक्ताद्यनेकपटेषु पटत्वरूप एक उपाधिरंश इत्युच्यत इति, तच्च न दृष्टान्त- भावमर्हति - पटानेकत्ववदात्मानेकत्वस्यासम्प्रतिपन्नत्वात् । पटा हि नीलपीतादिगुणवशादने के भवन्ति । कथं निर्गुणात्मानेकत्वम् ? ‘अशब्दम स्पर्शमरूपमव्यय’ मित्यादिश्रुतयो हि निर्गुणमात्मानं ब्रुवन्ति । नच नीलपीतादिगुणवत्त्वेन जीवो येन केनाप्यनुभूयते । नच सुखदुःखाद्यनुभववैचित्र्यादात्मानेकत्वमिति वाच्यं, सुखदुःखादिवैचित्र्यस्यान्तःकरणानेकत्वप्रयोजकत्वात् । अन्तःकरणधर्माः खलु सुखदुःखादयः । सुखादीनामात्मधर्मत्वे तु मूर्छादिष्वपि तदुपलम्भः स्यात् । प्रकृतगीताशास्त्रविरोधश्च । इच्छाद्वेष- सुखादेः क्षेत्रत्वस्य प्रतिपादनादस्मिन् । तस्मादुपाधित एवात्मानेकत्वमाकाशाने कत्ववन्न तूपाघित एकत्वमात्मन इति बोध्यम् ॥ ७॥ " शरीरमिति । ईश्वरो यच्चाप्युत्क्रामति तदा प्रकृतिस्थानि मनष्षष्ठानीन्द्रियाणि कर्षति । ईश्वरो यच्छरीरमवाप्नोति तदा वायुराशयाद्गन्धानिवैतानि गृहीत्वा संयाति । ननु लिङ्गशरीरोपा घिपरि- च्छिन्नस्य स्थूलशरीरादुत्क्रममाणजीवस्य कथमीश्वरत्वमपरिच्छिन्नो हीश्वरोऽत आह— देहादीति । वस्तुतो निरुपाधिकत्वेनापरिच्छिन्नेश्वरोऽपि जीवोऽविद्यया सोपाचिकत्वेन परिच्छिन्न सन् देहादिसङ्घात- स्वामित्वरूपमीश्वरत्वं भजत इत्यर्थः । यद्वा कस्यायमीश्वरः क्षेत्रज्ञोऽत आह— देहादीति । क्षेत्रस्येश्वर इत्यर्थः । नहि क्षेत्रक्षेत्र- ज्ञातिरिक्तं किञ्चिदपि वस्त्वस्ति, यस्यायं क्षेत्रज्ञो भवेदनीश्वरः । तस्मात्सर्वस्यापीश्वर एव जीव इति न जीवेश्वर भेदावकाशः, नापि जीवगतेश्वरत्वसङ्कोचः । कर्षतीति पूर्वेणान्वय इति शेषः । तृतीयः पादो गृहीत्वैतानि संयातीत्ययमित्यर्थः । प्राथम्येन शरीरं यदवाप्नोतीत्यनेनेत्यर्थः । प्रथम एव प्राथम्यमिति चतुर्वेदादित्वात्स्वार्थे ष्यञ् । सम्बध्यतेऽन्वितो भवति । तमेवान्वयं दर्शयति — यदा चेति । यदित्यस्य यदेत्यर्थः । लिङ्गशरीरावयवभूतानि मनष्षष्ठा नीन्द्रियाणीति बोध्यम् । वस्तुतोऽपरि- च्छिन्नेश्वरस्यापि जीवस्य सूक्ष्मशरीरोपा घिवशात्प्रकृतशरीरादुत्क्रमणं शरीरान्तरप्राप्तिश्च भवतीति परमार्थः ।

यच्छरीरमवाप्नोति यस्माच्छरीरादुत्क्रामतीति रामानुजः, तन्मन्दम् — यच्छरीरमवाप्नोति तच्छरीरं संयातीतिवचनस्य पुनरुक्ति दोषग्रस्तत्ात् । यश्चेत्यस्य यस्माच्चेत्यर्थ कल्पनस्याप्ययुक्तत्वाच्च । नहि प्रथमान्ताद्द्द्वितीयान्ताद्वा पञ्चम्यन्तार्थलाभः । श्रीशङ्करमते तु यदित्यव्ययमिति न दोषः ॥८॥ कानि पुनस्तानीत्याह- पञ्चदशोऽध्यायः । श्रोतं चक्षुस्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥९॥ २२३ श्रोत्रमिति । श्रोतं चक्षुः स्पर्शनं च त्वगिन्द्रियं रसनं जिहा घ्राणमेव च मनच षष्ठं प्रत्येकमिन्द्रियेण सहाधिष्ठाय देहस्थो विषयान् शब्दादीनुपसेवते ||९|| एवं देहगतं देहात् - उत्क्रामन्तं स्थितं वापि भुंजानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥ उत्क्रामन्तमिति । उत्क्रामन्तं देहं पूर्वोपात्तं परित्यजन्तं स्थितं देहे वापि तिष्ठन्तं भुंजान वा शब्दादींश्वोपलभमानं गुणान्वितं सुखदुःखमोहाद्यैर्गुणैरन्वितमनुगतं संयुक्त- मित्यर्थः । एवम्भूतमप्येनमत्यन्तदर्शनगोचरप्राप्तं विमूढा दृष्टादृष्टविषयभोगबलाकृष्टचेतस्तया अनेकथा मूढा नानुपश्यन्ति । अहो ! कष्टं वर्तते इत्यनुक्रोशति च भगवान् । ये तु पुनः प्रमाणजनितज्ञानचक्षुषस्ते एनं पश्यन्ति, ज्ञानचक्षुषो विविक्तदृष्टय इत्यर्थः ॥ १० ॥ I श्रोत्रमिति । अयं श्रोत्रं चक्षुस्स्पर्शनं च रसनं घ्राणमेव च मनश्वाधिष्ठाय विषयानुपसेवते । इन्द्रियाणि प्रत्येकमधिष्ठाय । तत्तत्प्रत्येकेन्द्रियेण सह मनश्चाधिष्ठाय देहस्थस्सन्नपि जीवश्शब्दादिवाह्य- विषयाननुभवतीत्याह — प्रत्येकमिति । युगपत्सर्वैरिन्द्रियैश्शब्दादिसर्व विषयानुभवासम्भवात्प्रत्येक- मित्युक्तम् । मनस्यन्यत्र गते सति शब्दादिविषयग्रहणासम्भवादिन्द्रियेण सह मनश्चाधिष्ठायेत्युक्तम् । विनापीन्द्रियसाहित्य मनसा सुखादेरनुभवान्मनश्चाधिष्ठायेत्युक्तम् । जीवस्य मनष्षष्ठेन्द्रियाधिष्ठानं नाम मनइन्द्रियतद्धर्माणामात्मन्यध्यास एव । तथा च मनोधर्माध्यासात्सुख्यहं दुःख्यहमिति चक्षुरा- दीन्द्रियधर्माध्यासात्पश्यामि शृणोमि स्पृशामि जिघ्रामि स्वादयामि चेति प्रत्येत्यविद्यावान् जीवः । एवमज्ञानकृतानात्मतद्धर्माध्यासवशाज्जीवस्य सुखदुःखादिसम्भोगलक्षणस्सारम्सम्भवतीत्यभिप्रायः । अधिष्ठाय स्वस्वविषयवृत्त्यनुगुणानि कृत्वेति रामानुजः, तन्मन्दम् – चक्षुषो रूपग्रहणे पक्ष्मोन्मीलनरूपपुरुषप्रयत्नसापेक्षत्वेऽपि त्वगादीनां स्पर्शादिग्रहणे तन्नैरपेक्ष्यात् ॥९॥ 1 उत्क्रामन्तमिति । गुणैस्तत्त्वादिगुणकार्यैरित्यर्थः । संयुक्तमिति । अन्तःकरणतादात्म्या- ध्यासादिति भावः । एनं जीव मत्यन्तं दर्शनगोचरं ज्ञानविषयं प्राप्तं ज्ञानविषयभूतमित्यर्थः । सुज्ञेय - मिति यावत् । दृष्टविषयभोगश्शब्दादिविषयाणामनुभवः, अदृष्टविषयभोगस्वर्गादिविषयकाम इति विवेकः । न दृष्टानां विषयाणामनुभवस्सम्भवतीहैव । अथ वाऽस्मिन् जन्मनि दृष्टविषयभोगः परेत्य देवादिलो के उद्भूय तत्रादृष्टविषयभोग इति बोध्यम् । दृष्टाश्चादृष्टाश्च विषया दृष्टादृष्टविषयास्तेषां भोगानुभवस्तद्वले नाकृष्ट चेतो येषां तेषां भावस्तता, तया हेतुना । अनेकवा विमूढा विमोहं प्राप्ताः । आत्मानात्मविवेकशून्या ं इत्यर्थः । नानुपश्यन्ति न जानन्ति । २२७ केचित्तु - श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यतन्तो योगिनचैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः || ११|| यतन्त इति । यतन्तः प्रयत्नं कुर्वन्तो योगिनश्च समाहितचित्ता एनं प्रकृतमात्मानं अयं भावः - यो देह । दुःक्रामति स न देहो यथा गृहान्निष्क्रामन् पुरुषो न गृहं भवति । यश्व देहे तिष्ठति सोऽपि न देहः । यथा गृहे तिष्ठन् पुरुषो न गृहम् । एवमनात्मनः स्थूलदेहस्य जीवस्य च विवेके सुकरे सति मृढ़ा इमं विवेकमकृत्वा स्थूलोऽहं कृशोऽहं मनुष्योऽहमिति व्यव- हरन्ति । तथा यश्चक्षुरादिभी रूपादीन्विषयाननुभवति मनसा च सुखादीन्स हि चक्षुरादिभ्यो भिन्न एव । करणाद्भिन्नत्वात्कर्तुः । लवित्रादिवच्छेदक इति सूक्ष्मशरीरात्पृथग्विविच्य ग्रहीतुं शक्यमपि जीवं मूढा न जानन्ति । किंतु सूक्ष्मशरीरस्य जीवस्य च विवेकमकृत्वा काणोऽहं बधिरोऽहं सुख्यहं दुःख्यह- मिति व्यवहरन्ति । तथाऽहमज्ञ इति योऽज्ञानमनुभवति, नाहं किञ्चिदवेदिषमिति योऽनुसन्धते स ह्यज्ञानाद्भिन्नः । नहि घटमनुभवन् पुरुषो घटो दृष्टः । अनुभूताद्धयनुभविता भिन्न इति कारणशरीरा- स्पृथग्विविच्य ग्रहीतुं शक्यमपि जीवं मूढा न जानन्ति । किंतु कारणशरीरस्य जीवस्यास्य चाविवेकं कृत्वा, अहमज्ञ इति व्यवहरन्ति । तथा यस्य येन सहाध्यां सिकरसम्बन्धस्स वस्तुतस्तेन रहित एव । यथा गगनस्य नीलेन सहाध्यासिकस्सम्बन्ध इति गगनं वस्तुतो नीलगुणरहितमेव । एवं सुखादिभि- गुणजींवस्याभ्यासिकस्सम्बन्ध इति जीवो वस्तुतस्सुखादिरहित एव । एवं निर्गुणत्वेन सुग्रहमपि जीवं मूढा न जानन्ति, किंतु सगुणमेव प्रतिपद्य सुख्यहं दुःख्यहं मूढोऽहमिति व्यवहरन्ति । यद्वा यो येन संयुक्तस्स तस्य न खाभाविको धर्मः । संयोगस्य वियोगपूर्वकत्वाद्वियोगावसानत्वाच्च । स्वभावसिद्धस्य वियोगानर्हत्वाच । यथा पटेन संयुक्तस्य घटस्य न पटस्स्वाभाविको धर्मः । घटपटयोर्वियोगसम्भवात् । अग्नेरौष्ण्यं तु स्वाभाविको धर्मः । न ह्यग्न्यौष्ण्ययोर्वियोगः । न ह्यग्निरौष्ण्येन संयुक्त इति व्यवहारः । एवं सुखादिगुणसंयुक्तस्य जीवस्य सुखादिगुणा न स्वाभाविकाः । निर्गुणत्वमेव तस्य स्वाभाविकं, ते च जीवेऽध्यस्ता गुणा अन्यदीया एवेति मूढा न जानन्ति । । एवमविदुषां मूढानां संसारदुःखमवर्जनीयमिति भगवत एतेष्वनुक्रोशस्सूच्यत इत्याह- अहो इति । कष्टं दुःखं वर्तते । मृढानामिति शेषः । अनुक्रोशो दया । प्रमाणं वेदान्तशास्त्र तज्जनितं यद्ज्ञानमात्मानात्मविवेकरूपं तदेव चक्षुर्येषां ते तथोक्ता ज्ञानचक्षुषः । फलितार्थमाह — विविक्तदृश इति । विविक्तं यथा तथा पश्यन्तीति विविक्तदृशः । विविक्तमात्मानं पश्यन्तीति विविक्तदृश इति वा । आत्मानात्मविवेकसम्पन्ना इत्यर्थः । ते एनमात्मानं पश्यन्ति । अनात्मभ्यो देहेन्द्रियान्तः- करणेभ्यो विवेकेन नानन्तीत्यर्थः ॥ १० ॥ यतन्त इति । यतन्तो योगिनश्चात्मन्यवस्थितमेनं पश्यन्ति । अकृतात्मानोऽचेतसस्तु यतन्तोऽ-२९ पञ्चदशोऽध्यायः । २२५ पश्यन्ति- ‘अयमहमस्मी’ त्युपलभन्ते आत्मनि स्वस्यां बुद्धाववस्थितम् । यतन्तोपि शास्त्रादि- प्रमाणैरकृतात्मानो ऽसंस्कृतात्मानः तपसा इन्द्रियजयेन च दुश्चरितादनुपरता अशान्तदर्पाः प्रयत्नं कुर्वन्तोऽपि नैनं पश्यन्त्यचेतसोऽविवेकिनः ॥ ११ ॥ यत्पदं सर्वस्यावभासकमध्यग्न्यादित्यादिकं ज्योतिर्नावभासयते यत्प्राप्ताश्च मुमुक्षवः पुनस्संसाराभिमुखा न निवर्तन्ते यस्य च पदस्योपाधिभेदमनुविधीयमाना जीवा घाटा- काशादय इवाकाशस्यांशास्तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं च विवक्षुः चतुर्भि- इश्लोकैर्विभूतिसंक्षेपमाह भगवान् - यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२॥ यदिति । यदादित्यगतं आदित्याश्रयम् । किं तत् १ तेजो दीप्तिः प्रकाशो जग- प्येनं न पश्यन्ति । केचिच्चिति । ज्ञानचक्षुषः पश्यन्तीति पूर्वमुक्तत्वा तेभ्योऽन्ये योगिन इमेऽपि पश्यन्तीत्युच्यत इत्यर्थः । उत्तमानां श्रवणादिवश | देवात्मसाक्षात्कारः, मन्दबुद्धीनां तु योगवशादात्म- साक्षात्कार इत्याह- यतन्तो योगिन इति । चशब्दो ज्ञानिसमुच्चयार्थः । योगोऽत्र न कर्मयोगः – तस्यात्मसाक्षात्कारं प्रति व्यवहितसाधनत्वात्किन्तु ध्यानयोग एवेत्याह- समाहितचित्ता इति । ध्यानादिना येषां चितमात्मप्रवणं जातं त इत्यर्थः । चितसमाधानं चाभ्याससाध्यमित्यभिप्रेत्याह- यतन्त इति । प्रयत्नोऽभ्यासः । कथं पश्यन्तीत्यत आह- अयमिति । उपलभन्ते साक्षात्कुर्वन्ति । जानन्तीति यावत् । आत्मानमिति भावः । स्वस्यामिति । स्वकीयायामित्यर्थः । यदवच्छिन्नोऽय- मात्मा तद्बुद्धावित्यर्थः । कैरकृतात्मत्वमत आह - शास्त्रादिप्रमाणैरिति । शास्त्राचार्योपदेशशम- दमादिभिर्येषां मनस्संस्कृतं न भवति तेऽकृतात्मानः । अत एवाचेतसः- आत्मानात्मविवेकविधुराः, ते यतन्तोऽपि । केन साधनेन यतनमत आह-तपसेति । कीदृशं तपोऽत आह— इन्द्रियजयेनेति । इन्द्रियाणां जयो विषयेष्वप्रवृत्तिर्यस्माद्भवति तदिन्द्रियजयं तेन तपसा । तपसा इन्द्रियजयेनेति साधन- द्वयं वा । तपः कृच्छ्रचान्द्रायणादिकं, इन्द्रियाणि विषयेभ्यस्समाकृष्य बलादात्मवश्यानि कुर्वन्नप्यय- मविवेकी शास्त्रादिसंस्कारराहित्येन चितशुद्धयभावादुश्चरितानोपरमते । नाप्यस्य मनसि काम- क्रोधादिदर्पश्शाम्यतीत्यभिप्रेत्याह - दुश्चरितादिति । दुष्टं च तच्चरितं प्रवृत्तिश्च दुश्चरितं तस्मात् । अनुपरता मनसा स्वभावानुगुणं दुष्टमेव ध्यायन्तीत्यर्थः । तत्र हेतुमाह — अशान्तदर्पा इति । अशान्तो दर्पः कामक्रोधाद्युद्भवो वेगो येषां ते तथोक्ताः । एवंविधाः प्रयत्नं कुर्वन्तोऽप्येनं न पश्यन्ति । किं पुनः प्रयत्नमकुर्वन्त इत्यपिशब्दार्थः । तस्मान्मुमुक्षुर्यथाधिकारं श्रवणादौ योगे वा प्रवर्तेतात्मसाक्षात्कारार्थमिति सिद्धम् । अत्र मत्प्रपत्तिपूर्वकं यतन्त इति रामानुजा, तस्तु तदभि - प्रायेण दुष्टमेव – जहमीश्वरादन्यः, मामीश्वरो रक्षत्वित्यभिसन्धेः प्रपतित्वमिति तदभ्युपगमात् । एतदभिप्रायेण मत्प्रपत्तिपूर्वकमिति मूलाद्वहि: कल्पनस्यान्याय्यत्वाच्च ॥११॥ 1 4 1 यदिति । आकाशस्य घटाकाशादय इव यस्य पदस्य जीवा अशा इत्यन्वयः । के ते जीवा २२६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसितं श्रीशाङ्करभाष्योपेतासु द्भासयते प्रकाशयत्यखिलं समस्तं यच्चन्द्रमसि शशभृति तेजोऽवभासकं वर्तते, यच्चाग्नौ हुतवहे तत्तेजो विद्धि विजानीहि मामकं मदीयं मम विष्णोस्तज्ज्योतिः । अथवा यदा दित्यगतं तेजश्चैतन्यात्मकं ज्योतिः, यच्चन्द्रमसि यच्चाग्नौ वर्तते तत्तेजो विद्धि मामकं मदीयं विष्णोस्तज्ज्योतिः । ननु स्थावरेषु जङ्गमेषु च तत्समानं चैतन्यात्मकं ज्योतिस्तत्र कथमिदं विशेषणं– ‘यदादित्यगत’ मित्यादि । नैष दोषः, सच्चाधिक्यादा विस्तरत्वोपपत्तेः । आदित्यादिषु हि सत्त्वमत्यन्तप्रकाशमत्यन्तभास्वरं; अतस्तत्रैवाविस्तरं ज्योतिरिति तद्विशिष्यते, नतु तत्रैव अत आह— उपाधिभेदमनुविधीयमाना इति । अन्तःकरणाद्युपाधिभेदमनुसृत्य भिन्ना इव प्रतीयमाना इत्यर्थः । मायया भिन्ना इव क्रियमाणा इति वा । सर्वस्यात्मा सर्वात्मा तत्त्वं सर्वात्मत्वम् । सर्वव्यवहारास्पदत्वं सूर्यचन्द्रादिसर्व जगदधिष्ठानत्व मित्यर्थः । भासनधारणपचनादिसर्वव्यवहाराघिष्ठानत्व- मिति वा । तत्पदमेव सर्वस्यात्मेति तस्मिन्नेव पदे सर्व जगत्सर्वो व्यवहार कल्पित इति विवक्षु- रित्यर्थः । आदित्यगतं यतेजोऽखिलं जगद्भासयते, चन्द्रमसि वर्तमानं यतेजोऽखिलं जगद्भासयते, अग्नौ वर्तमानं यत्तेजोऽखिलं जगद्भासयते ततेजो मामकं विद्धि । यद्वाऽऽदित्यगतं यत्तेजोऽखिलं जग - द्भासयते, चन्द्रमसि यतेजो वर्तते, अग्नौ च यत्तेजो वर्तते ततेजो मामकं विद्धि । सूर्यचन्द्राग्निषु यस्तेजोरूपः प्रधानांशस्स मदीय एवेत्यर्थः । मन्मायामयत्वात्तस्येति भावः । ममैव मायाशक्तिविशेषः सूर्यादिषु तेजोरूपेण स्थित्वा सर्वे जगदवभासयतीति परमार्थः यद्वाऽहमेव मायया सूर्यादिषु तेजोरूपेण वर्तमानस्सन् सर्वे जगदवभासयामीति । सर्वथापि : सूर्यादिगता या जगदवभासनशक्तिस्सा मदीयैव नतु सूर्यादिसम्बन्धिनी । सर्वत्रापि शक्तेर्मत्स्वभा- वत्वान्ममैव शक्तिमदीश्वरत्वाश्च । ईश्वरात्सकाशात्सूर्यादीनां पृथक्करणे सति तेषां निस्तत्त्वत्वापतेश्च । नहि सूर्योऽस्ति सूर्यो भातीत्यत्र सूर्यात्सकाशादस्तिभात्योः पृथक्करणे सूर्यशब्दवाच्यं किमप्यवशिष्यते । तस्मात्सूर्यावच्छिन्न चैतन्यनिष्ठैव जगदवभासनशक्तिश्शतेरीश्वरोपाधित्वात् । एतेन यत्र कापि वस्तुनि यत्कियती शक्तिरुपलभ्यते सा सर्वापि तत्तद्वस्त्ववच्छिन्नचैतन्यनिष्ठैवे ते सिद्धम् । ननु नीरूपस्येश्वरस्य कथं तेजोवत्त्वम् ! तेजो हि सरूपमतः, कथमुक्तं मदीयं तेज इति शङ्कायां सत्यपि समाधाने मायया तेजोवत्वमित्येवमादिरूपे निरशङ्कमर्थं दिदर्शयिषुराह - अथ वेति, विष्णोस्तज्ज्योतिरिति । परमात्मनोंशभूतं चैतन्यमित्यर्थ । आविस्तरेति । अतिशयेनाचिर्भवती- त्याविस्तरं प्रकटतरमित्यर्थः । सत्त्वं गुणः । अत्यन्तं प्रकाशत इत्यत्यन्तप्रकाशम् । तस्यैवार्थमाह- अत्यन्तभास्वरमिति । अत्यन्तप्रकाशनशील मित्यर्थः । सत्त्वस्य प्रकाशात्मकत्वात् । अत इति । आदित्यादिषु सत्त्वाधिक्यादित्यर्थः । आदित्यादिषु सत्त्वस्यात्यन्त भास्वरत्वादिति वा । सर्वत्र भाखर- स्यापि सत्त्वस्यादित्यादिष्वत्यन्त भास्वरत्वं रजस्तमसोरत्यस्यत्वप्रयुकमित्यवगन्तव्यम् । श्रीकृष्णाचारेषु तु पञ्चदशोऽध्यायः । २२७ तदधिकमिति । यथा हि लोके तुल्येऽपि मुखसंस्थाने न काष्ठकुड्यादौ मुखमाविर्भवति, आदर्शादौ तु स्वच्छे स्वच्छतरे च तारतम्येनाविर्भवति तद्वत् ॥ २ ॥ 1 सूर्यादिभ्योऽपि सत्त्वाधिक्यमिति बोध्यम् । तत्रैवेति । सूर्यादिष्वेवेत्यर्थः । तज्ज्योतिरित्यर्थः । विशिष्यते उत्कृष्टतया प्रतिपाद्यत इत्यर्थः । आदित्यादिषु चैतन्यस्य सत्वाधिवयत्रयुक्तं प्रकटतरस्त्रमेव, नतु स्वरूपत आधिक्य मित्याह - न त्विति । तत्रैव सूर्यादिष्वेवेत्यर्थः । न तु स्थावरादिष्वि- त्येवकारार्थः । चेतनाचेतनेषु सर्वेष्वपि चैतन्यमेकरूपमेव, निर्विशेषचैतन्ये न्यूनाधिकमावा- योगात् । किंतु यत्र चेतनेषु त्रिगुणात्मिका बुद्धिरस्ति, तत्र चैतन्यं स्फुटं भाति । तन्मध्येपि यत्रादित्यादिषु सत्त्वगुणप्रचुरा बुद्धिस्तत्र चैतन्यं स्फुटतरमवभासते । यत्र च श्रीकृष्णादिषु शुद्धसत्त्व- प्रधाना बुद्धिरस्ति, तत्र चैतन्यं स्फुटतममवभासते । तथा च मनुष्याद्यपेक्षया सूर्यादिगत चैतन्यस्य स्फुट- तरत्वाद्यदादित्यगतं तेज इत्याद्युक्तमित्यर्थः । उक्तार्थे दृष्टान्तमाह-यथा हीत्यादिना ! सुखसंस्थाने मुखाकारे । स्वच्छे आदर्शे स्वच्छ- तरे मणौ च मुखं तारतम्येनाविर्भवति, प्रतिफलतीति यावत् । काष्ठादर्शदर्पणेषु यथा मुखं क्रमेण न प्रतिफलति, प्रतिफलत्यतिशयेन प्रतिफलति तथा मृत्पाषाणादिषु, स्थावरजङ्गमादिषु आदित्यादिषु च चैतन्यं न प्रतिफलति, प्रतिफलत्यतिशयेन प्रतिफलति चेत्यर्थः । नचैवमचेतनेषु, चैतन्यप्रतिफलना- भावात्काष्ठेषु मुखमिव तत्र चैतन्यं नास्तीति वाच्यं, चैतन्यप्रति लनस्यैवाभात्रः, नतु चैतन्यस्येति । नहि मुखमिव चैतन्यं परिच्छिन्नं येन काष्ठादौ मुखमिव चैतन्यं मृदादौ न स्यात् । अपरिच्छिन्न परिपूर्ण हि चैतन्यम् । नच प्रतिफलनात्प्रागपि चेतनेषु चैतन्यसत्त्वे कथं पुनः प्रतिफलनमिति वाच्यं, मायया प्रतिफलनसम्भवात् । यथा नीरूपस्यापि चैतन्यस्य प्रतिफलनसम्भवः । तस्मात्सूर्यादिदेवेषु सत्त्वाधिवयाच्चैतन्यस्य स्फुटतरमवभासः । चैतन्यस्यावभासनं नाम प्रतिफलनमेव । एवं स्फुटतर चैत- न्यावभासवत्त्वादेव सूर्यादिदेवानां सर्वजगदवभासकत्वरूपं सर्वज्ञत्वं च शास्त्रोक्तं सङ्गच्छते । परमेश्व- रापेक्षया सूर्यादीनामरूपज्ञत्वेऽप्यस्मदाद्यपेक्षया सर्वज्ञा हि ते । कथमन्यथा सूर्याद्युपास्तिश्श्रुतिभि- रुच्येत ? इति । यद्वा णादित्यादिदेवानामन्तः करणेषु प्रतिफलितं यत्तेजश्चैतन्यं वर्तते तन्मामकमेव । आनन्दं ब्रह्मण इतिवद्राहोश्शिर इतिवच्चा भेदेऽपि भेदेन निर्देशो मम चैतन्यमिति । बिम्बभूतमी धरचैवन्य- मादित्याद्यन्तःकरणेषु प्रतिबिम्बरूपेण वर्तत इत्यर्थः । अयं च चेतनप्रतिबिम्बो न मृदादिष्वस्ति । अन्तःकरणोपाध्यभावात्तत्र । एवं चैतन्यप्रतिबिम्बसत्त्वासत्त्वप्रयुक्तैव चेतनाचेतनभिदा । नतु कूटस्थ- चैतन्यकृता - तस्य सर्वव्यापित्वात् । ननु मास्तुनाम मृदादौ चैतन्यप्रतिबिम्ब:, स्थावरपश्वादिष्वस्त्येवेति कथमादित्यगतमित्याद्युक्तमित्याक्षिपति – ननु स्थावरेष्वित्यादिना । अन्यत्सर्वं समानम् ।

नन्वेवं । प्रतिबिम्बजीव पक्षे उपाधिप्रयुक्त प्रतिफलनतारतम्यादा दित्यादीनामस्तूत्कर्षः, कथं पुन- वच्छेदपक्षे उपपत्तिरिति चेत्, उच्यते - उपाधिधर्मास्सुखादयो यथोपहितेऽध्यस्यन्ते मायया, यथा च २२८ किंच- श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु गामाविश्य च भूतानि धारयाम्यहमोजसा । पुष्णामि चौषधीस्सर्वास्सोमो भूत्वा रसात्मकः ॥१३॥ गामिति । गां पृथिवीमाविश्य प्रविश्य च धारयामि भूतानि जगदहमोजसा बलेन यद्धलं कामरागविवर्जितमैश्वरं रूपं जगद्विधारणाय पृथिव्यां प्रविष्टं येन पृथिवी गुर्वीं न ब्रह्मेन्द्रदेवाद्यन्तःकरणगतसत्त्व शुद्धितारतम्यप्रयुक्तमा नन्दतारतम्यमप्युपहिते माययाऽध्यस्यते स एको मानुष आनन्द’ इत्यादिश्रुत्या, तथा आदित्यादिदेवान्तःकरणगतसत्त्वशुद्धि विशेषप्रयुक्तज्ञानाधिक्यम- प्युपहिते चैतन्ये माययाऽध्यस्यत इति । आदित्यादीनां सत्त्वादिगुणोत्कर्षप्रयुक्तं वृत्तिज्ञानाघिवयमेव यत्सर्वज्ञत्वप्रयोजकं, नतु चैतन्याधिक्यं निर्विशेषत्वा चैतन्यस्येति भाव इति । रामानुजस्तु मामकं तेजो मया तेभ्यो दत्तमित्याह तन्मन्दम् — ममेदं मामकमिति व्युत्पत्तिखारस्यभङ्गात् । न धन्यस्मै दत्तां गां कोऽपि मामिकेथं गौरिति ब्रूते । स्वत्वनिवृत्तिपूर्वकपरकीय- स्वानुकूलव्यापारो हि दानम् । ततश्च दत्ते वस्तुनि कथमीश्वरस्य स्वत्वम् ? येन ममेदं तेज इति ब्रूयात् । नच भूतपूर्वगत्या मामकमित्युक्तमिति वाच्यं, पूर्वे मामक्रमिति साक्षादेव तत्कथनस्य न्याय्यत्वात् । तत्पूर्वं विद्धि मामकमिति हि श्लोकः कर्तुं शक्यते । किंच सूर्यादिभ्यस्तेजोदाना- त्प्राक्किमयमीश्वरस्तेजस्वी उत न ? आधे- ‘अशब्दमस्पर्शम रूपमव्यय’ मिति श्रुतिविरोधः । द्वितीये – स्वस्यैव तेजोऽभावे कथमन्यस्मै प्रदान तस्य सम्भवति ? किंच भगवतस्सकाशातेजसः प्राप्तेः प्राक्कि सूर्यादयस्तेजोमया उल जलमयाः ? अथ वा पृथिवीमया यद्वा वायुमया उत स्विदाकाशमया: ? नाद्यः - तेजसः प्राप्तेः प्राक्तेजोमयत्वायोगात् । न द्वितीयतृतीयो - प्रमाणाभावात् । न चतुर्थपञ्चमौ– नीरूपत्वप्रसङ्गात् । यद्यपि चन्द्रस्य जलमयत्वं वक्तुं शक्येत । सूर्याग्न्योस्तु न तद्वक्तुं शक्यमिति बोध्यम् । अपि च यदि सूर्यादीनां प्रकाशस्स्वाभाविकधर्मो न स्यात्तर्हि कदाचिदप्रकाशस्स्यादेव तेषाम् । संयोगस्य वियोगान्तत्वेन संयुक्तधर्मस्य विनाशसम्भवात् । नहि प्रकाशात्मकानां सूर्यादीनां स्वरूपनाशं विना प्रकाशनाशस्सम्भवति । मेघाद्याव रणात्त्वस्माकमेव सूर्यादिप्रकाशादर्शनं, नतु तेषां प्रकाशनाशः । तस्मात्प्रकाशात्मका एव सूर्यादयो भगवता सृष्टा मायया । नतु सूर्यादीन् सृष्ट्रा पश्चातेभ्यो ऽदिशत्तेजः । यथा रसगन्धाद्यात्मकजलपृथिव्यादय इति स्थितम् ॥१२॥ गामिति । अहं गामाविश्य च ओजसा भूतानि धारयामि । अहं रसात्मकस्सोमो भूत्वा सर्वाश्वौषधीः पुष्णामि । अहमोजसा गामाविश्य च भूतानि धारयामीति वा । चैतन्यरूपेण सर्वत्र सममवस्थितोऽपीश्वरः तत्तद्विशिष्टशक्तिमत्त्वेन रूपेण पुनः प्रविष्ट इव । तत आह— गामाविश्येति । ओजसा रूपेण गामाविश्येत्यन्वये तु न काप्यनुपपत्तिः । किं तदोजोडत आह— यद्बलमिति । ‘बलं बलवतामस्मि कामरागविवर्जित’ मिति पूर्वमुक्तत्वादिति भावः । ऐश्वरं रूपमिति । ईश्वरीय- पञ्चदशोऽध्यायः । २२९ अधःपतति न विदीर्यते च । तथा च मन्त्रवर्ण:- ‘येन द्यौरुग्रा पृथिवी च दृढे’ इति, ‘स दाधार पृथिवी ‘मित्यादिश्च । अतो गामाविश्य च भूतानि चराचराणि धारयामीति युक्त- मुक्तम् । किंच पृथिव्यां जाता ओषधीस्सर्वा त्रीहियवाद्याः पुष्णामि पुष्टिमती: रसस्वादुमतीच करोमि, सोमो भूत्वा रसात्मकस्सोमः सर्वरसात्मको रसस्वभावः सर्वरसानामाकरस्सोमः । सहि सर्वा ओषधीः स्वात्मरसाननुप्रवेशयन् पुष्णाति ॥ १३ ॥॥॥ किंच- अहमिति । मायाशक्तिविशेष इत्यर्थः । अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४ ॥ अहमेव वैश्वानर उदरस्थोऽग्निर्भूत्वा ‘अयमग्निर्वैश्वानरो योऽयमन्तः नहि सच्चिदानन्दस्येश्वरस्य बलं रूपं भवितुमर्हतीति भावः । येनेति । बलेनेत्यर्थः । अध इति । समुद्रजल इति भावः । विदीर्यते भिद्यते येनैश्वरबलरूपेण द्यौरुग्रा पृथिवी च द्वे हढे भवत इति शेषः । दार्व्यं च जगद्धारणसामर्थ्यमविदीर्यमाणत्वं च । स पृथिवी - मिमां द्यामुत द्यां च दाधार दधार दीर्घश्छान्दसः । स ईश्वर इत्यर्थः । अत इति । ईश्वरानुप्रवेशे - नैव पृथिव्या जगद्धारणादिशक्तिमत्त्वादिति भावः । धारयामि घरामीत्यर्थः । पृथिव्या धारयामीति वा । एतेन पृथिवीनिष्ठत्वेन दृश्यमाना सर्वजगद्धारणशक्ति रीश्वरशक्तिरेवेति सिद्धम् । अहमेव बल वरूपेण पृथिव्यां वर्तमानस्सन् जगदिदं सर्वे धारयामीति परमार्थः । अनेन च पृथिव्यां बलमहमस्मीति प्रति- पादनेन सर्वेषु वस्तुषु दृश्यमानं यत्किञ्चिद्बलमप्यहमेवेति सिद्धं भवति । रस इति । यो जलस्य गुणस्स रसः । चन्द्रस्य च जलमयत्वाद्रसस्वभावत्वम् । सर्वरसाना- मिति । सर्वेषां त्रीह्मादिगतानां रसानामाकरो निलयः । रसस्यैकत्वेऽप्युपाधिनानात्वात्सर्वर सेत्युक्तिः । स्वात्मरसानिति । स्वगतं रसमित्यर्थः । यद्यपि जलगतरसेनैव वर्धन्ते त्रीह्मादयः फलन्ति च । तथापि चन्द्र एव तत्पोषक, ओषधीशत्त्वात्तस्य । चन्द्रकरसम्पर्कद्वारा गतं रस पीत्वा हि सर्वा ओषधयः परिपुष्टा रसवत्यश्च भवन्ति । नहि चन्द्रकरसम्पर्करहितो त्रीह्मादिगृहे जलेन सिक्कोऽपि वर्धते फलति वा । तस्मात्सोमगता सर्वौषधिपोषणशक्तिरीश्वरशक्तिरेव । ईश्वर एव सोमे रसस्वरूपेण वर्तमानस्सन् पुष्णा- त्योषधीरिति च सिद्धम् । एतेन जलादिगतो रसोऽपीश्वरात्मक एवेति सूच्यते । एवं श्लोकद्वयेन तेजोबलरसानां त्रयाणामीश्वरविभूतित्वमिति फलितम् । सोमो भूत्वेत्यनेन तु न केवलं रस एवेश्वरः, किंतु तदाश्रय- स्सोमोऽपीश्वर एवेति प्रतिपाद्यते । अनेनैव न्यायेन सूर्याग्निभूमीनामपीश्वर विभूतिस्त्वं गम्यते । ततश्व सूर्यादयः तद्गततेज आदयः । तद्गतभास कत्वादयश्चत्येतत्सर्वमपीश्वर विभूतिरेव कल्पितत्वान्माया. सर्व- स्यास्येश्वरे इति फलति ॥ १३॥ अहमिति । व्यहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितस्सन् प्राणापानसमायुक्तश्च सन् चतु- 1 १३० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु पुरुषे येनेदमन्नं पच्यते ’ इत्यादिश्रुतेः । वैश्वानरस्सन्प्राणिनां प्राणवतां देहमाश्रितः प्रविष्टः प्राणापानसमायुक्तः प्राणापानाभ्यां समायुक्तस्संयुक्तः पचामि पक्तिं करोम्यन्नमशनं चतुर्विधं चतुष्प्रकारं भोज्यं भक्ष्यं चोष्यं लेह्यं च, भोक्ता वैश्वानरोऽग्निर्भोज्यमन्नं सोमः, तदेतदुभय- मग्नीषोम सर्वमिति पश्यतोऽन्नदोषलेपो न भवति ॥ १४ ॥ विधमन्नं पचामि । न केवल बाह्यग्निरेवाहं, किंतु जाठराग्निरप्यहमेवेत्याह- अहमिति । यद्वा बाह्याग्निगतसर्वावभासकत्वशक्तिरेव नास्मदीया, किंतु जाठराग्निगतान्नपचनशक्तिरप्यस्मदीयैवेत्याह- अहमिति । जाठराग्नेर्वैश्वानरत्वे प्रमाणमाह- अयमिति । अन्तः पुरुषे शरीरमध्ये योऽयमग्निरस्ति सोऽयं वैश्वानर इत्युच्यते । येनान्वस्स्थाग्निनेदं भुक्तमन्नं पच्यते, बाह्याग्निस्तण्डुलानामेव पचने प्रभवति नतु भुक्तस्यान्नस्य बाह्यग्निसंयोगाभावात्तस्य । अपकस्य त्वन्नस्य रक्तादिरूपेण परिणामो न सम्भवति । तस्माद्भुक्तान्नपरिणामहेतुरस्ति जठरे कश्चिदग्निर्वैश्वानर इति । मृतशरीरे जठराग्न्यभावा- दाह - प्राणिनामिति । अन्तःकरणादेर्जठराग्न्याश्रयत्वाभावादाह - देहमिति । स्थूलशरीरमित्यर्थः । प्रविष्ट इति । देहान्तस्स्थत्व रूपमा श्रयत्वमिहोक्तं नतु देहाद्बहिः पटादिवद्वर्तमानत्वरूपमिति भावः । बाह्योऽप्यग्निर्वातसंयुक्त एव ज्वलतीत्यत आह- प्राणापानसमायुक्त इति । यद्यपि प्राण एव जठराग्निवर्धकः, तथाऽप्यपानेन मला निस्सारणे सति नहि प्राणोनि ज्वल- यितुमीष्ट इत्यत उक्तम् — प्राणापानसमायुक्त इति । पक्ति पार्क परिणामं रक्ताद्यात्मनेति यावत् । भोज्यं प्रधानमन्नं शाल्यादि । भक्ष्यं माषवटकादि । चोष्यमिक्षुखण्डादि । लेा पायसादि । चतस्रो विधा रीतयो यस्य तच्चतुर्विधम् । एतेन जठराग्नेस्वद्गतपचनशक्तेश्वेश्वर विभूतित्वं सिद्धम् । एवं तेजोऽवन्नात्मिकाया अवान्तरप्रकृतेरीश्वर विभूतित्वमिति फलितम् । सूर्यादेस्सोमस्य पृथिव्याश्वेश्वर- विभूतित्वस्योक्तत्वात् । ( अन्नं पृथिवी ) ततश्च त्रिवृत्कृततेज आदिभूतत्रयकार्यस्य सर्वस्यापि जगतो भगवद्विभूतित्वं फलति । 1 प्रसङ्गादव विशेषमाह - भोक्तेति । उभयमग्न्यन्नद्वयमग्नीषोमावित्युच्यते । ‘ईदग्ने- सोमवरुणयो’ रितीत्वम् । इदमुभयं सर्वमिति पश्यतः पुरुषस्यान्नदोषलेपो ऽन्नदोष सम्बन्धो न भवति व्यन्नस्य हि पाकादिसामयिक कि मिकीटादिनाशप्रयुक्ताः कुट्टनीपेषण्यादयो दोषास्सन्ति, यन्निरसनाय हि वैश्वदेवो विहितः । तद्दोषसम्बन्धस्तु वैश्वदेवविहीनस्यापि दर्शितज्ञानवतो न भवति । ननु कुतो न भवति इदमन्नं सोमः, अयमग्निर्भोक्ता वैश्वानर इति ज्ञानमात्रेणेति चेत्, उच्यते — यो धन्नमत्ति तस्यान्नदोषो भवति, न त्वनश्नतः । अन्यथाऽतिप्रसङ्गात् । नहि चैत्र- भुक्तान्नगतगुणदोषप्रसक्ति मैत्रस्य । अन्यथा चैत्रे भुक्तवति सति अभुक्तवतोपि मैत्रस्य सुन्निवृत्ति- हस्यात् । एवं सति योऽन्नमत्ति स वैश्वानरोऽग्निरेव, नत्वहं ममाभोक्तृत्वादिति यो वेत्ति कथं तस्यान्न - दोषळेपो भवतुमर्हति ? न कथमपि । किंच योऽस्मद्देहेऽन्नमत्ति सोऽग्निस्सक्षाद्भगवद्रूपो वैश्वानर एव । किंच- पञ्चदशोऽध्यायः । २३१ सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्मृतिर्ज्ञानमपोहनं च । वेदैश्व सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥१५॥ सर्वस्येति । सर्वस्य प्राणिजातस्याहमात्मा सन् हृदि बुद्धौ सन्निविष्टः । अतो मत्त यच्चेदमन्नं तच साक्षाद्भगवद्रूपस्सोम एव सोमो भूत्वेति, वैश्वानरो भूवेति च सोमवैश्वानरयोर्भगव- द्रूपत्वप्रतिपादनादिति यो जानाति कथं तस्यान्नदोषगन्धसम्बन्ध: ? न कथमपि । अन्नस्य भगवदात्म- कत्वानुसन्धानेन सर्वदोषप्रहाणात् । नन्वन्नस्य कथं सोमत्वं, त्रीह्मादिपोषको हि सोम इति चेत्, उच्यते – सोमपुष्टत्रीह्यादि- मयत्वादन्नस्य सोमत्वं, सोमरसमयत्वाद्वा सोमदेवताकत्वादिति वा । एवमग्नीषोमदर्शनस्यान्नदोषनाश- कत्वादेव तत्प्रतिपादकोऽयं श्लोक परिषेचनकाले स्मार्तेः पठ्यते ॥ १४ ॥ सर्वस्येति । अहं सर्वस्य हृदि सन्निविष्टश्व । मत्तस्सर्वज्ञस्य स्मृतिर्ज्ञानमपोहनं च भवति । अहमेव सर्वैर्वेदैश्व वेद्यः । अहमेव वेदान्तकृत् । अहमेव वेदविश्व भवामीति शेषः । सन्निविष्टम्सम्य- ङ्निविष्टः प्रविष्टः प्रविश्य स्थित इति यावत् । ननु सर्वव्यापिनश्चैतन्यरूपेश्वरस्य कः पुनरपरः प्रवेश- इत्यत आह- आत्मा सन्निति । आत्मरूपेणेत्यर्थः । ’ अनेन जीवेनात्मनाऽनुप्रविश्य’ इति श्रते- रिति भावः । शुद्धचैतन्यात्मना सर्वत्रावस्थितोऽपीश्वर अन्तःकरणावच्छिन्न चैतन्यरूपेण प्रतिबिम्बरूपेण वा प्राणिनां बुद्धौ प्रविष्ट इति तत्त्वम् । एतेनेश्वरादर्थान्तरं जीव इति परास्तम् । नचान्तर्यामिरूपे- णेश्वरो जीवस्य बुद्धौ प्रविष्ट इति, जीवादर्थान्तरमेवेश्वर इति वाच्यं, हृदि प्रविष्टस्य जीवान्येश्वरस्या- नुपलम्भात् । नच नियमनादिभिर्लिङ्गैरनुमेय इति वाच्यं प्रतीच एव नियमनादिसम्भवात् । नच स्वयं- मेव स्वस्य कथं नियामक इति वाच्यं प्रत्यगात्मनः प्रमातृनियमनसम्भव इत्यदोषात् । नच प्रत्यगा- स्मैव प्रमातेति वाच्यं, अन्तःकरणोपहितस्य प्रत्यगात्मत्वं, तदवच्छिन्नस्य (तद्विशिष्टस्य ) चैतन्यस्य प्रमा- तृत्वमिति कल्पितभेदसत्वात् । नच विशेष्यचैतन्यांशेऽभेद एवेति वाच्यं तत्र नियमनादेरप्यभावात् । नच प्रत्यगात्मैवान्तर्यामीश्वरो जीवः द्भिन्न इति वाच्यं, जीवस्यैव स्वस्वरूपत्वात्प्रत्यगात्मनः । ’ नच गुहां प्रविष्टौ परमे परार्थ्य’ इति, ‘द्वा सुपर्णा’ विति, ज्ञाज्ञौ द्वावजाविति च श्रुतयो जीवेश्वरयोर्द्वयोर्गुहा हितत्वं ब्रुवन्तीति वाच्यं, एकस्यैव चैतन्यस्यान्तःकरणे उपहितत्वरूपेण विशिष्टत्वरूपेण द्वेषा प्रवेशः । अथवा बिम्बत्वरूपेण प्रतिबिम्बत्वरूपेण द्वेषा प्रवेश इति विवक्षितत्वात् । नच केनचित्स्वस्मा- दन्येनेश्वरेण प्रयुक्त इव जीवोऽनुभवति संसारमिति वाच्यं, अविद्यावस्थायां जीवो नात्मानं प्रत्यचं मन्यते । असंसारी हि प्रत्यगात्मा क्षेत्रज्ञः, किंतु संसारिणं प्रमातारमेव मन्यते । ततश्च साक्षिणा स्वेनैव प्रत्यगात्मना नियमितोऽपि परेण नियमितोऽहमिति प्रत्येति । स्वयमपि प्रत्यगात्मा हि जीव- स्याज्ञानतः परोक्षकल्पतयाऽवतिष्ठते । अत एव स्वात्मभूतमपि प्रत्यचं परोक्षेश्वरं मन्यन्ते मूढा द्वैतिनश्व तार्किकादयः । तस्मात्पत्यगात्मनः क्षेत्रज्ञादन्तरं न भवत्यन्तर्यामीधरः । यमन्तर्यामि- १३२ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्यो पैतालु ब्राह्मणादयः प्रतिपादयन्ति । इयं जीवरूपा प्रकृतिरीश्वरस्य परा - विभूतिः। क्षेत्रलक्षणा अपरा विभू- तिस्तु पूर्वश्लोकत्रयेण प्रतिपादिता । नच कथमीश्वरस्यैव सतो जीवस्य कथमीश्वर विभूतित्वमिति वाच्यं, अन्तःकरणाद्युपाधिप्रयुक्तत्वाज्जीवस्येश्वर विभूतित्वव्यवहारस्य । निरुपाधिकचैतन्यस्य हि सोपा- विकचैतन्यं विभूतिः । विशेष्यांशस्याविभूतित्वेऽपि विशेषणांशस्योपाधेर्विभूतित्वेन विशिष्टस्याऽपि विभूतित्वव्यवहारात् । नच यदादित्यगतमिति श्लोकेनैव जीवविभूतिरुक्केति वाच्यं तन्त्रादित्यादित्रयगतस्यैव जीव- चैतन्यस्य विभूतित्वेन प्रतिपादनमिह तु सर्वगतस्येति भेदात् । यथा ‘आदित्यानामहं विष्णुरित्यादिकं प्रतिपाद्य विशेषतः, अन्ते ‘विष्टभ्याहमिदं कृत्स्वमेकांशेन स्थितो जग’ दिति सामान्यतः प्रतिपादितं तद्वदिति । अथ वाऽऽदित्यादिगतप्रमातृचैतन्यस्य भगवद्विभूतित्वं पूर्वमुक्तं इदानीं तु साक्षिचैतन्य - स्येति भेदः । नच साक्षिचैतन्यं शुद्धमेवेति कथं विभूतित्वं तस्येति वाच्यं शुद्धचैतन्ये साक्षित्व - धर्मायोगात् । साक्षिचैतन्यं सोपाधिकमेव । अन्तःकरणोपहितं हि चैतन्य साक्षीत्युच्यते । तस्मा- दीश्वरादनर्थान्तरमपि साक्षी प्रत्यगात्मा क्षेत्रज्ञो जीव ईश्वरस्य निरुपाधिकचैतन्यस्य विभूतिभूत एव । अत इति । बुद्धौ मम सन्निविष्टत्वादेवेत्यर्थः । मत्त इति । अस्मच्छब्दलक्ष्यार्थभूतादात्मन इत्यर्थः । अथ वा प्रत्यग्रूपेणावस्थितात्परमेश्वरान्मत्त इत्यर्थः । स्मृतिरनुभूतार्थस्मरणं, ज्ञानमनुभवः, अपोहनं तदुभयस्य नाशः एतत्त्रयं भवति । " तथाहि यः पूर्वेद्युर्घटमनुभूतवान् प्रमाता स तन्निशि ब्रह्मणि सम्पन्नत्वान्नष्ट एव । ‘प्राज्ञेनात्मना सम्परिष्य’ज्येति, ‘सति सम्पत्स्यत’ इति च श्रुतेः । प्रमाता हि सुतावन्तःकरणतादात्म्याध्यासं विहाय कूटस्थात्मनाऽवतिष्ठते । अतस्तदा चैवन्यस्य प्रमातृत्वनाशात्प्रमाता नष्ट एव । सुप्त्यनन्तरं ब्रह्मण- स्सकाशादज्ञानकर्मवशात्पुनरुत्थितः परेद्युः प्रमाता तु पूर्वस्मात्प्रमातुरन्य एवेति कथं तस्य पूर्व- दिनानुभूतघटस्मरणं सम्भवेत्साक्ष्यनुग्रहं विना ? न कथमपि । न चैवं प्रतिसुषुप्तिप्रमातृनाशे प्रतिजागरं प्रमात्रन्तरोदये च कृतहानाकृताभ्यागमदोषप्रसङ्ग इति वाच्यं प्रमातृनाशेऽप्युपाध्यनाशादुपाध्याश्र- यत्वाच कर्मणः । नचान्तःकरणं नश्यत्येवेति वाच्यं, अविद्यायाः कारणशरीरस्य तुलाज्ञानस्योपाधेरनाशात्, तन्नाशस्यैव मोक्षत्वात्तत्सत्त्वादेव पुनरावृत्तिप्रसङ्गात् । नचोपाध्यनाशे कथमुपहितनाश इति वाच्यं, प्रमात्रपाघेरन्तःकरणस्य नाशेन प्रमातृनाशात् । अविद्या हि प्राज्ञस्योपाधिः । नच प्रमातुर्नष्टस्य दीप- स्येव निर्वाणस्य कथं पुनरावृत्तिरिति वाच्यं, यदन्तः करणावच्छिन्नः पूर्वः प्रमाता तदन्तः करणा- वच्छिन्न एवायमुत्तरः प्रमातेति प्रमात्रभेदेन पुनरावृत्तिसम्भवात् । अथ वा अज्ञाने निलीय वर्तमानस्यान्तःकरणस्य ततः पुनरागमनाचादाम्याध्यासनापन्नः प्रमा- तापि पुनरागत इत्युच्यते । नचैवं प्रमातापि निलीय वर्तत एव, सुत्रुप्तौ न नष्ट इति वाच्यं तस्यैव निलयनस्य नाशत्वेनास्माभिर्विवक्षितत्वात् । यद्वाऽन्तःकरणमज्ञाने संस्काररूपेण वर्तते, इदमेव ૐ૦ पञ्चदशोऽध्यायः । । २३३ निलीय वर्तनमन्तःकरणस्य । सच संस्कारोऽन्तःकरणमिव न प्रमातृत्वमावहति कूटस्थस्येति न सुषुप्तौ प्रमातृसद्भावः । यदि सुषुप्तौ संसारस्स्यात्तर्हि संसारी प्रमातापि स्यात् । नतु तथा दृश्यते । तस्मा- त्सुषुप्तौ प्रमाता नष्ट एव । कूटस्थात्मना तु तस्य नित्यत्वप्रतिपादनम् । एवं सति योऽहं पूर्वेद्युर्घटमद्राक्ष : सोऽहमिदानीं स्मरामीति स्मरणं प्रमातुः स्मर्तुरनुभवित्रन्यस्य कथं सम्भवेत् ? नहि चैत्रानुभूतोऽर्थो मैत्रेण स्मर्थते, अनुभवजन्यसंस्कारकार्थत्वात्स्मरणस्य । तच्च स्मरणमनुभवसिद्धं दुरपलापमिति कूटस्थानु- ग्रहकृतमेव स्मरणम् । कूटस्थ एव पूर्वदिनाव स्थितप्रमातृरूपेण घटमनुभूतमुत्तरदिनावस्थितप्रमातृरूपेण स्मरति यथा प्रमाता चक्षुषा दृष्टं करेण स्पृशति तद्वदिति भावः । अपि च साक्षिणानुभूतस्य सुषुप्तिगतस्यानन्दस्याज्ञानस्य च प्रबोधे प्रमात्रा स्मरणं दृश्यते सुख- महमस्वाप्स, न किञ्चिदवेदिषमिति । तद्धि स्मरणं साक्ष्यनुग्रहा देवेति स्फुटम् । तथाऽनुभवश्च साक्षिण- स्सकाशादेव भवति । साक्षिचैतन्यप्रति फलनप्रयुक्तत्वादवृत्तिज्ञानस्य । प्रमातृभावमापन्नं हि साक्षिचैतन्य विषयावच्छिन्नब्रह्मचैतन्याभिन्नं भवत् । अत एव हि - ‘तस्य भासा सर्वमिदं विभाति’ इति श्रुतिरुपपद्यते । तस्य साक्षिणो भासा स्वरूपचैतन्येन सर्वमिदं जगद्विभातीति श्रुत्यर्थः । साक्षिणोऽन्यस्य सर्वस्य जडत्वात्साक्ष्यनुप्रहादेवान्तःकरणस्य ज्ञानलाभ इति तत्त्वम् । तथाऽपोहनं च साक्षिणस्सकाशादेव भवति । सूर्ये तिमिरेण तिरोहिते सति यथा घटादिप्रकाशाभावः, एवं साक्षि- व्यज्ञानेनाच्छादिते सति ज्ञानस्मरणाभावः । अन्तःकरणस्य तमोगुणोद्रेके सति प्रमात्रा न किञ्चिदनु- भूयते, न किञ्चित्स्मर्यते, किंतु निद्रादिकं प्रपद्यते । तत्र च कारणं तमोमयेऽन्तः करणे साक्षिचैतन्यस्य स्फुटमस्फुरणमेव । अत्यन्तास्फुरणे तु मान्द्याद्यनुभवोपि न स्यात् । अथवाऽत्यन्तं तमसा दूषितेऽन्तः करणे नैव प्रतिफलति साक्षिचैतन्यं काष्ठादाविव सुखं कर्दम- च्छन्नदर्पणे मुखमिव च । तदैव निद्राति प्रमाता, सच निद्रानुभवस्साक्षिण एव न प्रमातुः । एव मन्तःकरणे " तमसो दूषिते सति साक्षी अज्ञानेनावृत इव भवति । नतु वस्तुतस्तस्यावरण जगदान्ध्य- प्रसङ्गात् । मत उक्तं ज्ञानस्मरणाभावोऽपि साक्षिण एवेति सूर्यादेव घटादिप्रकाशाभाव इतिवत् । सूर्यानुदयप्रयुक्तो घटाद्यप्रकाशो यथा सूर्याद्भवतीत्युच्यते, तथा साक्ष्यप्रतिफलनपयुक्तो ज्ञानाद्यभाव- स्साक्षिणस्सकाशाद्भवतीत्युच्यते । राजानुग्रहाभावकृतमर्थिनां दारिद्र्यं राजकृतमिति यथेोच्यते तद्व- चेति भावः । अथवा वृत्तय इव वृत्त्यन्वराला वृत्त्यभावाश्च साक्षिणा भास्यन्त इति सिद्धान्ताद्ज्ञाना- द्यभावोऽपि साक्षिभास्यत्वेन साक्षिणो भवतीत्युच्यते । नाभास्यमसाक्षिकं वस्तु किञ्चिदप्यस्तीति प्रतिपत्तुमर्हम् । अन्यथा शशशृङ्गादेरप्यस्तित्वप्रतीतिप्रसङ्गात् । तस्मात्साक्ष्यमास्यत्वे ज्ञानाभावस्य स्वरूपासिद्धिरेवेत्युपपन्नमुक्तं साक्षिणोऽपोहनमिति । ननु यद्येवं तयात्मन ईश्वरस्य वैषम्यादिप्रसगङ्गः । केचित्किञ्चिज्जानन्ति केचिदधिकं जानन्ति केचिदज्ञातं विस्मरन्ति के चिल्लमरन्ति चेत्येवमादे- २३४ श्रीभगवद्गीतासु- माष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु 4 आत्मनस्सर्वप्राणिनां स्मृतिर्ज्ञानं तदपोहनं चापगमनं च येषां पुण्यकर्मणां च पुण्यकर्मानु- रोधेन ज्ञानस्मृती भवतः, तथा पापकर्मणां पापकर्मानुरूपेण स्मृतिज्ञानयोरपोहनं चापायन- मपगमनं च । वेदैश्च सर्वैरहमेव परमात्मा वेद्यो वेदितव्यः । वेदान्तक्रुद्वेदान्तार्थ सम्प्रदायक- दित्यर्थः । वेदविद्वेदार्थविदेव चाहम् ||१५|| वैषम्यस्य साक्षिप्रयुक्तत्वादत आह— येषामिति । पुण्यपापकर्म प्रयुक्त सत्त्वादिगुणन्यूनाधिकभावकृतान्तः- करणशुद्धयशुद्धितारतम्यकृतमेव साक्षिप्रतिफलनवैचित्र्यं, नतु साक्षिस्वरूपकृतं यथा दर्पणगतस्वच्छत्वा - स्वच्छत्वादितारतम्यकृतं मुखप्रतिफलनवैचित्र्यं नतु मुखस्वरूपकृतं तद्वदिति न साक्षिणो वैषम्यावकाश इत्यर्थः । यद्वा स्मृतिश्शास्त्राचार्योपदेशाद्या हितसंस्कानजनितं स्मरणं, ज्ञानं कार्याकार्यविषयविवेकः, अपोहनं तदुभयभ्रंशः । ननु एकस्यैव प्राणिनः कथं स्मृतिर्ज्ञानवत्वं तद्भ्रंशवत्त्वं चेत्यत आह- येषामिति । पुण्यकर्मणां सर्वप्राणिनां पुण्यकर्मानुसारेण स्मृतिज्ञाने जायमानेऽपि मत्त एव भवतः । तथा पापकर्मणां सर्वप्राणिनां पापानुरोधेन जायमानमपि स्मृतिर्ज्ञानापोहनं मत्त एव भवति । ईश्वरस्य कर्मादिसाक्षित्वान्मत्त एवेत्युक्तम् । पूर्वोक्तविधया साक्षिपतिफलनतदभावयोर्ज्ञानतदभावहेतुत्वादिति वा । पुण्यकर्मणां पुण्यानुरोधेन, पापकर्मणां पापानुरोधेन च तत्तत्फलभूतं स्मरणं ज्ञानमपोहन चाहमेव साक्षी परमेश्वरः प्रत्यगात्मा क्षेत्रज्ञः प्रदिशामि मन्मायाकृतत्वात्सर्वव्यवहारस्येति परमार्थः । अपगमनं नाशः । ‘सम्मोहात्स्मृतिविभ्रमः, स्मृतिभ्रंशादबुद्धिनाश’ इति पूर्वमुक्तम् । सच सम्मोहोऽज्ञानकार्यमेव, तच्चा- ज्ञानमीश्वरस्योपाधिरेवेति भगवन्माययैव प्राणिनामपोहनसम्भव इति भावः । 1 वेदैरिति । ‘सर्वे वेदा यत्पदमामनन्ति’ इति श्रुतेरिति भावः । यद्यपि यज्ञादिप्रतिपादका अपि सन्ति वेदास्तथापि यज्ञादेस्सर्वस्य जगतो भगवति परमात्मनि कल्पितत्वेन भगवदात्मकत्वाच- स्प्रतिपादका अपि वेदाः परमात्मप्रतिपादका एवं । ‘वासुदेवस्सर्व’ मिति युक्तमत्रैव । ‘सर्वे खल्विद ब्रह्मेति श्रुतिश्च । वेदैश्चेति चकारात्स्मृत्यादिग्रहणम् । किं बहुना अकारादिपञ्चाशन्मातृ काक्षरान्यतम- घटितास्सर्वेऽपि घटपटविष्णुशङ्करादिशब्दास्तत्तद्धटाद्यर्थबोधकतया लौकिकैर्गृह्यमाणा अपि वस्तुतो घटा- द्यवच्छिन्न चैतन्येश्वरवाचिन एवेति बोध्यम् । नचैवं ‘यतो वाचो निवर्तन्त’ इति श्रुतिविरोधः, निर्वि- शेषचैतन्यपरत्वात्तच्छुतेः । सविशेषं हि चैतन्यं सर्वे शब्दाः प्रतिपादयन्तीति वयं ब्रूमः । परमात्मेति । सर्वजगदाश्रयचैतन्यमित्यर्थः । परमात्मचैतन्ये हि सर्वे जगत्कल्पितं मायया । प्रत्यगात्मा तु सर्वान्तर इति न सर्वशब्दप्रतिपाद्यः- तत्र सर्वस्या कल्पितत्वात् । अव उक्तं परमात्मेति । परमात्मामेदेन तु प्रत्यगात्मनस्तव त्मित्व कथनं सर्वाधिष्ठान कल्पनं चेति बोध्यम् । नहि प्रत्यगात्म- परमात्मनोर्वास्तवो भेदोऽस्ति, किं त्वौपाधिक एव । देहाद्युपाधिप्रयुक्तो हि पूर्ण चैतन्यस्यान्तरत्व - बाह्यत्वरूपो भेदः । तस्मात्प्रत्यगभिन्नः परमात्मैव सर्ववेदवेद्यः । वेदान्तकृदिति ‘तेने ब्रह्म हृदा य आदिकवये’ इति भागवतान्नारायणः परमेश्वरो ब्रह्मणे चतुर्मुखाय तावद्वेदान्तार्थमुपदिदेश, सचपञ्चदशोऽध्यायः । २३५ भगवत ईश्वरस्य नारायणाख्यस्य विभूतिसंक्षेप उक्तो विशिष्टोपाधिकृतः ‘यदादित्य- गतं तेज’ इत्यादिना । अथ अधुना तस्यैव क्षराक्षरोपाधिप्रविभक्ततया निरुपाधिकस्य केवलस्य तच्वनिर्दिधारयिषया उत्तरे श्लोका आरभ्यन्ते । तत्र सर्वमेवातीतानागताध्या- यार्थजात विधा राशीकृत्याह – द्वाविमौ पुरुषौ लोके क्षरथाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥ द्वाविति । द्वाविमौ पृथग्राशीकृतौ पुरुषावित्युच्येते; लोके संसारे, क्षरथ क्षरतीति सनकादिभ्यस्ते नारदाय, स व्यासाय, स शुकायेत्येवं वेदान्तार्थसम्प्रदायप्रवर्तक इत्यर्थः । केवल- वेदवित्त्वस्याधुनिक ब्राह्मणेष्वपि सत्त्वाद्वेदार्थविदित्युक्तं वेदार्थश्च ब्रह्म सर्वस्यापि ब्रह्मत्वात् । ब्रह्मविदि- त्यर्थः । सर्वज्ञ इति यावत् । नतु मदम्य: कश्चित्सर्वज्ञोऽस्ति । मदन्यस्य सर्वस्य जडत्वात् । क्षेत्रज्ञस्य च मदात्मकत्वादित्यभिप्रायः । यत्तु रामानुजः - सर्वस्य चेति चशब्दात्सोमवैश्वानरयोर्ग्रहणमिति, देवमनुष्यादिशब्देजवा- त्मैव सूर्यादिशब्दैस्तदन्तर्यामीश्वरः प्रतिपाद्यत इति वेदानामन्तः फलं तत्कृतत्प्रदातेति च तन्मन्दम्- सर्वशब्देनैव सोमादेरपि ग्रहणे सति तत्समुच्चायकत्वेन चशब्दस्य व्यर्थत्वात् । वैश्वानरस्य जठराग्ने- नडत्वेन तदन्तरीश्वर प्रवेशासम्भवाच । जीवरूपेणेश्वरप्रवेशो यत्र विवक्षितः । अन्तर्यामिरूपेणापि नहि जडे ईश्वरस्य प्रवेशः फलाभावात् । नहि जडमीश्वरेण नियम्यते । एतेन सूर्यादिशब्दैस्तदन्तर्या- मीश्वरप्रतिपादने सम्भवत्यपि यूपादिशब्देस्तदसम्भवादनया विधया सर्ववेदवेद्यत्वं नास्तीश्वरस्येति सिद्धम् । किंच देवमनुष्यादिशब्दा देवादिदेहतादात्म्याध्यासमापन्नं जीवं प्रतिपादयन्तु नाम । कथं पुनरीश्वरमध्यासशून्यं प्रतिपादयेयुः ? यदीश्वरोऽप्यध्यासवान् तज्ञ एव स्यात्सोऽपि जीववत् । न चेश्वरस्याध्यासाभावेऽपि वेदानां तत्सत्त्वात्प्रतिपादनं सम्भवतीति वाच्यं तथासति वेदानामज्ञत्वेनाप्र- माणत्वापत्तेः । नहि देवोऽहं मनुष्योऽहमिति जीवस्याज्ञस्य वचनं प्रमाणं येन तादृशं सूर्य ईश्वर- चन्द्र ईश्वर इति वेदवचनं प्रमाणं स्यात् । किंच जडस्य वेदस्य कथमभ्याससम्भवः ? नहि घट- स्याध्यासो दृष्टः । वेदपुरुषस्तु सर्वज्ञ एवेति कथं तस्याभ्यासस्सम्भवति ?

वेदान्तकृदित्यस्यापि वेदफलप्रदातेत्यर्थोऽप्ययुक्त एव वेदोक्तकर्मफलप्रदातेत्यर्थस्य लाक्षणि- कत्वात् । केवलवेदस्य फलाभावाच्च । ‘वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः । तावन्ति हरि - नामानि कीर्तितानि न संशय’ इतिस्मृतेश्वोच्चार्यमाणवेदस्यैव फलवत्त्वप्रतिपादनपरत्वं, न केवलवेदस्य । किंच करोतीति कृदित्यस्य दातेत्यर्थवर्णनमपि व्याकरणविरुद्धम् । यच्च वेदान्तशब्दस्योपनिषत्परत्वे प्रकृतासङ्गतमिति वेदान्तदेशिकः, तदसत् - विभूति कथनप्रस्तावे वेदान्तसम्प्रदायकृत्त्वविभूतिवर्णन- स्यापि सङ्गतत्वात् ॥ १५॥ द्वाविति । विशिष्टोपाधयस्तेजोबलादयस्ततदुपाधयः परस्परं भिन्नाः । तस्कृतो भगवतो २३६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु क्षरो विनाशीत्येको राशि:, अपरः पुरुषोऽक्षरस्तद्विपरीतो भगवन्मायाशक्तिः क्षराख्यस्य पुरुषस्योत्पत्तिबीजमनेकसं सा रिजन्तुकामकर्मादिसंसाराश्रयः, अक्षरः पुरुष उच्यते । कौ ते पुरुषावित्याह स्वयमेव भगवान् -क्षरस्सर्वाणि भूतानि समस्तं विकारजातमित्यर्थः । कूटस्थः कूटो राशी राशिरिव स्थितः । अथवा कूटो माया वञ्चना जिह्मता कुटिलतेति पर्याया अनेकमायावञ्चनादिप्रकारेण स्थितः कूटस्थः, संसारबीजानन्त्यान्न क्षरतीत्यक्षर उच्यते ॥१६॥ विभूतिसंक्षेपो यदादित्यगतं तेज इत्यादिना ग्रन्थेनोक्तः । प्रकर्षेण विभक्तः प्रविभक्तः प्रविविक्तः तद्भावेन प्रविभक्ततया क्षराक्षरोपाधिद्वयाद्विविच्येत्यर्थः । निरुपाधिकस्योपाधिरहितस्य निर्विशेषस्येति यावत् । अत एव केवलस्यैकस्यात्मनश्चिन्मात्रस्येति वा । तत्त्वं याथार्थ्य स्वरूपमिति यावत् । तस्य निर्धारयितुमिच्छया निर्धारयिषया । विधा राशीकृत्येति । राशित्रयीकृत्येत्यर्थः । लोके क्षरश्वाक्षर एव चेतीमौ द्वौ पुरुषावित्युच्येते । सर्वाणि भूतानि क्षर इत्युच्यन्ते । कूटस्थोऽक्षर इत्युच्यते । संसारसुखदुःखसम्भोगः । तस्मिन् तदाश्रयभूतावित्यर्थः । अथवा संसारो व्यवहारः, तस्मिन्विषये व्यवहारगोचराचित्यर्थः । पुरुषोत्तमो व्यवहार्य:- ‘यत्त- दद्देश्यम प्राद्य’ मित्यादिश्रुतेः । लोके जगतीति तु नोक्तमाचार्यैः क्षराक्षरयोरेव जगत्पदार्थत्वेन क्षराक्ष- रातिरिक्तजगत्पदार्थाभावात् । क्षरति नश्यतीति क्षरः । एको राशिरेका कोटिरित्यर्थः । तद्विपरीतः क्षराद्विलक्षणोऽविनाशित्वादिति भावः । भगवन्मायाशक्तिरेवाक्षरः पुरुष इत्युच्यते । अनेकेषां संसारिणां जन्तूनां प्राणिनां ये कामकर्मादिसंस्कारास्तेषामाश्रयः । प्रलयदशायां सुषुप्तौ च संस्कार- रूपेण हि तत्तज्जीवोपाध्यन्तःकरणानि प्रकृतौ निलीय वर्तन्ते । तानि च प्रलयावसाने पुनः प्रादु- भवन्ति प्रकृतेस्सकाशादिति प्रकृतिर्भूतोत्पत्तिबीजम् । वृक्षोत्पत्तिं प्रति बीजस्येव भूतोत्पतिं प्रति प्रकृतेः कारणत्वेन बीजत्वात् । विकारजातं कार्यवर्ग ब्रह्मादिस्तम्बपर्यन्तश्चेतनवर्गः । मृत्पाषाणाद्यचेतनवर्गश्वे- त्यर्थः । भवन्तीति भूतानीति व्युत्पत्त्या भूतशब्दस्य कार्यमात्रपरत्वादिति भावः । अन्यथा रामानुजोक्तविधया चेतनवर्गमात्रग्रहणेऽचेतनवर्गस्य राशित्रयाद्वहिर्भूतत्वं स्यात् । न चेष्टापत्ति :- भगवता राशिचतुष्टयस्याप्रतिपादितत्वात् । क्षराक्षरपुरुषोत्तमाख्यं राशिलयं हीह प्रति- पादितम् । क्षराक्षराभ्यामन्यस्य पुरुषोत्तमस्याचेतनत्वं च स्यात् । चेतनवर्गात्कूटस्थाचाचेतनवर्गो न्य इति । राशिरिवेति । अप्रकम्प्यस्वभाव इत्यर्थः । कूट इव तिष्ठतीति कूटस्थः । कूटरूपेण तिष्ठ- तीति च कूटस्थ इति व्युत्पत्त्यन्तरमाश्रित्याह- अथ वेति । एकमेवाज्ञानं मायावञ्चनाजिझता- कुटिलता शब्दैरुच्यत इति मायादिप्रकारेण स्थितमित्यर्थः । माया इन्द्रजालादिः । वञ्चना प्रतारणं पश्यतो हरणादिकम् । जिझता कपटस्वभावः । कुटिलता कौटिल्यमित्येतेषामवान्तरस्वरूप भेदसत्त्वा- न्मायावञ्चनादिप्रकारेणेत्युक्तम् । चतुर्णामप्यज्ञानपदार्थत्वात्पर्याया इत्युक्तम् । ननु ज्ञाननाश्यायाः प्रकृतेः कथमक्षरकूटस्थत्वमत आह- संसारेति । संसारबीजानां कामकर्मा विद्यानामानन्त्या बीजांकुर- । पश्चदशोऽध्यायः । । २३७ न्यायेनानन्तत्वात्तदाश्रया प्रकृतिरप्यनन्तैव । न यस्य सान्तत्वे तदाधेयस्यानन्तत्वं स्यात् । एव- मनन्तत्वात्प्रकृतिर्न क्षरति न नश्यतीत्यक्षर इत्युच्यते । यावद्ज्ञानोदयमक्षरत्वस्य विवक्षितत्वात्सापेक्षं नित्यत्वमस्ति मायाया इति भावः । एवं सर्व कार्यजातमेकः पुरुषो विनाशिस्वभावात्, कारण माया स्त्वन्यः पुरुषोऽविनाशिस्वभावात् । अतः कार्ये जगत्क्षरपदार्थः । कारणमज्ञानं माया त्वक्षरपदार्थः । इति राशिद्वयमनेन श्लोकेन प्रतिपादितम् । तृतीयराशिं तु पुरुषोत्तमाख्यमुत्तरश्लोकेन प्रतिपाद- यिष्यति । यत्तु रामानुजः — तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीवशब्दाभिलपनीय ब्रह्मादिस्तम्बपर्यन्तक्षरण- स्वभावाचित्संसृष्टसर्वभूतानि, अचित्संसर्ग वियुक्तरस्वेन रूपेणावस्थितो मुक्तात्माऽक्षरः पुरुषः; एकत्व- निर्देशस्त्वचिद्वियोगरूपकोपा घिनाऽभिहित इति, तत्तुच्छम् — किमिह जीव ईश्वरश्च विविच्य प्रदर्श्यते उताविविच्य ? आद्ये- अचित्संसृष्टो जीवः क्षर इत्ययुक्तम् । द्वितीये ईश्वरोऽप्यचिद्विशिष्ट एवेति क्षर एव स्यादिति कथं तस्य क्षरादन्यत्वम् ? तथा चिद्विशिष्ट एवेति कथमक्षरादन्यत्वं च तस्य ? अचिद्विविक्त चित्प्रदर्शनं च कूटस्थोऽक्षर इति कथम् ? नच जीव प्रकृतेर्विविच्या विविच्य च द्वेधा प्रदर्श्यते । ईश्वरस्तु विविच्यैव प्रदर्श्यत इति न दोष इति वाच्यं किं बद्धजीवो विविच्या विविच्य च प्रदर्श्यते उत मुक्तजीवः ? नाद्यः तस्य विविच्य प्रदर्शनायोगात् । विवेचिते सति बद्धत्वस्यै- वापायात् । नान्त्यः- तस्याविविच्य प्रदर्शनायोगात् । विविक्त एव हि मुक्तः । तथा किं विशिष्टेश्वरो विविच्य प्रदर्श्यते ? उत शुद्धचिन्मात्रः ? नाद्यः विशिष्टस्य विवेचनायोगात् । नान्त्यः- तव मते निर्विशेषचिन्मात्रेश्वरानभ्युपगमात् । नच जीवो बन्धदशायां क्षरणस्वभावाचिद्वैशिष्टयात्क्षरः । मुक्ति- दशायां तद्वियोगादक्षर इति । प्रकृतिपुरुषविशिष्टोऽपीश्वरः प्रकृतिपुरुषाभ्यामन्य एव दण्ड विशिष्टः पुरुषों दण्डादिवेति चोच्यत इति वाच्यं किं जीवस्य स्वभावतः क्षरणं धर्म: ? उताक्षरणम् ? आधे– कथमक्षरत्वं तस्य ? द्वितीये- कथं क्षरत्वम् ? नच खभावतोऽक्षरोऽपि जीवोऽचिद्वैशिष्ट्यात्क्षर इति वाच्य, स्वभावसिद्धस्य धर्मस्य स्वरूपनाशं विना विनिमयायोगात् । न ह्यग्निरुष्णस्वभावश्शीतस्वभावो भवति विना स्वरूपनाशम् । न चाचिद्विशिष्टे जीवेऽचिद्गतं क्षरणमारोप्यत इति वाच्यं, स्वसिद्धान्त- भङ्गप्रसङ्गात् । नच विशेष्यस्य बाधे सति विधिनिषेधौ विशेषणमुपसंक्रामत इते न्यायेनाचिद्विष्टो जीवः क्षर इत्युक्तेऽचित एव विशेषणांशस्य क्षरत्वमापततीति वाच्यं तथासत्यचित्पदार्थः क्षरः, चित्पदार्थोऽक्षर इत्येव वक्तव्यं, किमनयाऽचिद्विशिष्टो जीवः क्षर इति कुकल्पनया ? नच मूलक- रेवायं दोषः, न ममेति वाच्यं, अहो ! तव पाण्डित्यप्रकर्षः ! येन भगवत्यपि पराशरसूनौं दोष- मा सञ्जयसि । सर्वाणि भूतानीत्यस्य सर्वम चिद्रव्यमित्यर्थवर्णने सति किं तव रसना विदीर्यते ? अपि च तब मते प्रकृतेरपि नित्यत्वेन कथं क्षरणस्वभावमचिद्रव्यं भवेत् ? नच कारणप्रकृतिरेव नित्या, २३८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु आभ्यां क्षराक्षराभ्यामन्यो विलक्षणः क्षराक्षरोपाधिद्वयदोषेणास्पृष्टो नित्यशुद्धबुद्ध- मुक्तस्वभावः-

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकलयमाविश्य बिभर्त्यव्यय ईश्वरः ||१७|| उत्तम इति । उत्तम उत्कृष्टतमः पुरुषस्त्वन्योऽत्यन्त विलक्षणः, आभ्यां परमात्मेति तत्परिणामास्तु देहादयोऽनित्या एवेति वाच्यं तथासति सर्वे कार्यजातं क्षर इति श्रीशङ्करभगवत्पादा- चार्यप्रोक्तार्थ एव घट्टकुटी प्रभातन्यायेन तवापि पर्यवसानात् । एवं क्षरशब्देन विनाश्यचिद्रव्यप्रति - पादने सत्यविनाश्यचिद्रव्यप्रतिपादनस्याप्यावश्यकत्वादिह केन वाक्येन पुनस्तदविनाश्य चिद्रव्यं प्रति- पादितम् । नच ’ कूटस्थोऽक्षर उच्यत’ इति वावयेनेति वाच्यं, अन्यथा व्याख्यातत्वात्तद्वचनस्य त्वया । नच तत्प्रतिपादनमनावश्यकमिति वाच्यं, विनाशी अविनाशी चेति द्वावेन हि पदार्थों । तदतिरिक्त- पदार्थाभावात् । नहि विनाशाविनाशावेकस्मिन् स्तः, येन तदुभयात्मकं पदार्थान्तरं स्यात् । तत्र कार्य- जातं सर्वं विनाशिपदार्थः । स क्षरस्सर्वाणि भूतानीत्यनेनोक्तः । अविनाशी तु द्विविधः- चिदचि- द्वेदात् । नहि चेतनादचेतनाच्चान्यद्वस्त्वस्ति, तदुभयात्मकं तदुभयविलक्षणं वा । नच तदुभयविलक्षग ईश्वरोऽस्तीति वाच्यं, चेतनत्वेनेश्वरस्य तद्विलक्षणत्वासम्भवात् । द्रष्टा हीश्वरस्त्वयाप्यभ्युपगतः । कथ- मचेतनस्य द्रष्टृत्वम् ? तस्मादविनाशी द्विविध एव चिदचिद्भेदात् । तत्र चोत्तम इति श्लोकेन चित्प्रतिपाद्यते । अचित्तु न केनापीति कृत्वा प्रतिपाद्यस्याप्रतिपादनं दोष एव । तथा एक एव चित्पदार्थः कूटस्थ इति वाक्येनापि प्रतिपाद्येत चेत्पुनरुक्तिदोषश्च । नच न पुनरुक्तिदोष:, यथाऽविनाशी पदार्थो द्विविधः तथा चित्पदार्थोऽपि द्विविध एव जीवेश्वरभेदात् । तत्र जीवः कूटस्थवाक्येनेश्वरः परमात्मवाक्येन च प्रतिपाद्यत इति वाच्यं, ‘परमात्मेति चाप्युक्तो देहेऽहिम- न्पुरुषः पर’ इति परमात्मवाक्यस्यापि जीवप्रतिपादकत्वात् । कूटस्थवाक्यस्यापि निर्विकारेश्वरप्रतिपाद- कत्वाच्च । ‘एतस्य वाऽक्षर’ स्येति श्रुतिर्ह्यक्षरशब्दमीश्वरं परं ब्रूते । नच तत्तत्प्रकरणादिवशात तच्छन्दानां तत्तदर्थविशेषवाचकत्वमिति प्रकृतेऽक्षरशब्दः कूटस्थशब्दश्च जीवपर एव । परमात्मशब्दस्तु ईश्वरपर एवेति वाच्यं चित्पदार्थस्येश्वरस्या चित्पदार्थाद्वैलक्षण्यसत्त्वेऽपि चित्पदार्थाज्जीवा द्वैलक्षण्यस्य दुर्वचत्वेन ‘उत्तमः पुरुषस्त्वन्य’ इति कथनस्यासङ्गतत्वापत्तेः । नच ज्ञानैकाकारयोरपि जीवेश्वरयोर्धर्मतो भेदोs- स्तीति वाच्य, निर्धर्मकत्वाश्चैतन्यस्य जीवेश्वरस्वरूपभूतस्य । प्रकृतिवियुक्तं हि मुक्तप्राप्यमात्मस्वरूपं सच्चिदानन्दं सुखादिसंसाररहितं सर्वज्ञं चेति तवाप्यभ्युपगमः । तस्मान्न सर्वज्ञत्वकिश्चिद्ज्ञत्व प्रयुक्तोपि जीवेश्वर भेदोस्ति । नच सर्वज्ञं यदि चैतन्यं तर्हि सघर्मकमेवेति वाच्यं सर्वज्ञत्वं सर्वावभासनं तच्चानुभवमात्रं चैतन्यमेवेत्यभ्युपगमात् । तस्मादिह कूटस्थवाक्यमविनाश्यचिद्द्रव्यमेव प्रतिपादयति, न त्वात्मानं । तस्योत्तरवाक्येन प्रतिपादयिष्यमाणत्वादिति नात्र जीवेश्वर मेदकल्पनं न्याय्यमिति स्थित- मद्वैतम् ॥१६॥ उत्तम इति । सोऽन्य उत्तमः पुरुषस्तु परमात्मेत्युदाहृतः । अव्यय ईश्वरो यः लोकत्रय- पञ्चदशोऽध्यायः । २३९ परमश्वासौ देहाद्यविद्याकृतात्मभ्यः, आत्मा च सर्वभूतानां प्रत्यक्चेतन इत्यतः परमात्मे- त्युदाहृत उक्तो वेदान्तेषु । स एव विशिष्यते । यो लोकत्रयं भूर्भुवस्सुवराख्यं स्वकीयया चैतन्य शक्त्याऽऽविश्य प्रविश्य विभर्ति स्वरूपसद्भावमात्रेण बिभर्ति धारयति । अव्यय:- माविश्य बिभर्ति । अन्यत्व पूर्वोक्तक्षराक्षरापेक्षयेत्याह – आभ्यामिति । उपाधिसंसृष्टस्योपाध्यन्य- स्वायोगादाह – अस्पृष्ट इति । निरुपाधिक इत्यर्थ: । कार्योपाधिकारणोपाधिद्वयरहित इति यावत् । अत एव नित्यशुद्धबुद्धमुक्तस्वभावः ; अत एव पूर्वोक्तपुरुषद्वयादयमुत्तमः पुरुष इत्याह- उत्तम इति । पूर्णत्वात्पुरि देहे शयनाद्वा पुरुषः । क्षराक्षरयोरुपाध्योस्तु पुरुषभोग्यत्वात्पुरुषत्वम् । नच पुरुषशब्दस्य जीववाचित्वाद्वद्धमुक्तजीवौ द्वावेव क्षराक्षरपुरुषाविति वाच्यं, ‘सवा एष पुरुषोऽन्न- रसमय’ इति श्रुत्या देहस्यापि पुरुषत्वस्योक्तत्वात् । अस्यां पुर्युपाधौ शेते परमात्मेति, पुरुष इति व्युत्पत्त्या च पुरुषशब्दः क्षराक्षरोपाधिपरः । अत्यन्तेति । प्रकृतेस्तत्कार्यस्य च जडत्वादनृतत्वा- दुःखत्वाच्च परमात्मनश्चेतनत्वात्सत्यत्वादानन्दत्वाच्च वैलक्षण्यमत्यन्तमित्यर्थः । सच्चिनानन्दं ब्रह्मेत्यादि - श्रुतेरिति भावः । देहादीति । देहादिरूपेभ्योऽविद्याकृतेभ्य आत्मभ्य आत्माभासेभ्य इत्यर्थः । देहात्मेन्द्रि- यात्म मन आत्म बुद्ध्यात्माव्यक्तात्मभ्य इति यावत् । परम उत्कृष्ट अकल्पितत्वादिति भावः । आत्मा सर्वभूतानामन्तरात्मा । केन रूपेणेत्यत आह- प्रत्यक्त्वेनेति । कथमात्मत्वमत आह- चेतन इति । आत्मा हि सर्वे चेतयति, स्वभासा चेतयितृत्वस्यैवात्मधर्मस्वात् । ‘तस्य भासा सर्वमिदं विभा’ तीति श्रुतेः । ननु परमात्मशब्दादभिषया व्यक्लेशेन परिपूर्णचैतन्येश्वरवाचिनः क्लेशेन प्रत्य- गात्मार्थाकर्षणमयुक्तमिति चेत्, मैवम् – ‘परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः पर’ इति पूर्वानु- रोधात् । परिपूर्ण चैतन्यस्यैव प्रत्यगात्मत्वा चोपाधिवशात् । किंच ‘यो लोकत्रयमाविश्येति सर्वभूतान्त:- प्रवेशेन लिङ्गेन सर्वान्तरचैतन्यमेवेह गृहीतुमुचितम् । क्वोदाहृतोऽत आह— वेदान्तेष्विति, विशिष्यत इति । विशेषणविशिष्टतया प्रतिपाद्यत इत्यर्थः । तस्यैव कश्चिद्विशेषणविशेषः (धर्म विशेषः) कथ्यत इति यावत् । स्वकीयया स्वाभाविक्येर्त्यः । मायामध्येति यावत् । बलशक्त्या सहेति शेषः । अयम्भावः - परमात्मा निर्विशेषचिन्मात्रोऽपि मायया ज्ञानबल क्रियाशक्तियुक्तप्रत्यग्रूपेण सर्वा- न्तरात्मा सन् ज्ञानशक्त्या सर्वे चेतयति, बलशक्त्या सर्व बिभर्ति, यथा अपतितं स्यात्तथा बिभर्ती- त्यर्थः । क्रियाशक्त्या तु सर्वे कर्म कारयतीति । तत्र बलशक्तिकार्यमिहोच्यते- ‘यो लोकत्रयमाविश्य बिमर्त्यव्यय ईश्वर’ इति । कथं बिभर्तीत्यत आह-स्वरूपेति । बिम्बप्रतिबिम्बभावविशिष्टमन्तः- करणावच्छिन्नं वा चैतन्यमिह स्वरूपशब्दार्थः, नतु शुद्धं तस्य मृतशरीरेऽपि सत्त्वात्तेन मृतशरीरस्याधृत- स्वाच्च । एतेनौपाधिकमेवेदं लोकत्रयभरणमात्मन इति सिद्धम् । मात्रपदादाष्ट्रभरणे राज्ञ इव लोक- त्रय भरणेनात्मनः कोऽपे प्रयत्नादिरिति सूच्यते । ततश्च निर्विकारत्वं सिध्यति । २४० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु नास्य व्ययो विद्यत इत्यव्ययः । कः ? ईश्वरस्सर्वज्ञो नारायणाख्य ईशनशीलः ॥ १७ ॥ यथा व्याख्यातस्येश्वरस्य पुरुषोत्तम इत्येतन्नाम प्रसिद्धं तस्य नामनिर्वचनप्रसिद्ध्या अन्वर्थत्वं नाम्नो दर्शयन् ‘निरतिशयोऽहमीश्वर’ इत्यात्मानं दर्शयति भगवान् - यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥ यस्मादिति । यस्मात्क्षरमतीतोऽहं संसारमायावृक्षमश्वत्थाख्यमतिक्रान्तः; अहमक्षरा- दपि संसारमायावृक्षबीजभूतादपि चोत्तम उत्कृष्टतम ऊर्ध्वतमो वा । अतस्ताभ्यां क्षराक्ष- नच लोकलयवर्तिचराचरभूतसङ्घात एव प्रत्यगात्मना प्रियते नतु लोकत्रयमिति वाच्यं, लोक- त्रयशब्दस्यात्र तद्वर्तिभूतसङ्घाते लाक्षणिकत्वात् । नच चतुर्दशलोकसत्त्वात्कथं लोकत्रयमिति वाच्य, सर्वेषां त्रिष्वेवान्तर्भावात् । अव्ययोऽविक्रिय इत्यर्थः । ईश्वरशब्दार्थमाह– ईशनशील इति । ईशन नियमनं तस्य च ज्ञानपूर्वकत्वादाह - सर्वज्ञ इति । सर्वांवमासक इत्यर्थः । मायया सर्व वेतीति वा । तस्य च प्रसिद्धं नाम निर्दिशति - नारायणाख्य इति । नारस्य भूतसङ्घध्यायनं प्रवृत्तिर्यस्मात्स नारायणः । प्रत्यगात्मना विधृत एव सन् भूतसङ्घः प्रवर्तते हि । इदमेवोक्तं- ‘यो लोकलयमाविश्य बिभ’तौति । तस्मात्प्रत्यगात्मैव नारायणः । नारस्यायनं स्थितिर्यस्मिन्स नारायण इति व्युत्पत्त्या तु परमात्मापि नारायण एव । अत एव ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित’ इति श्रुतेः । एवं नारायणाख्यं परिपूर्णमेकमेव चैतन्य सर्व भूतसङ्घ प्रत्यभूपेण प्रविश्य बलशक्त्या धारयत्सत् क्षराक्षर- विलक्षण पुरुषोत्तमशब्दवाच्यं भवतीति फलितोऽर्थः । कार्यप्रकृतिः क्षरपुरुषः, कारणप्रकृतिरक्षर पुरुषः, प्रत्यगभिन्नः परमात्मा तूत्तमपुरुष इति विवेकः । श्लोकस्यान्यः परमात्मा तूत्तमः पुरुष इत्युदाहृत इत्यप्यन्वयस्सम्भवति ।

यत्तु रामानुजः — क्षराक्षरशब्द निर्दिष्टाभ्यां बद्धमुक्त पुरुषाभ्यामन्यः पुरुषोतम ईश्वरः परं- मात्मा, अचेतनं बद्धमुक्तजीवौ चेति लोकत्रयं य आत्मतयाऽऽविश्य बिभर्ति, अव्ययत्वादी श्वरत्वाद्याप- कत्वाद्भर्तृत्वाच्च लोकत्रयादर्थान्तरभूत ईश्वर इति तत्तुच्छम् — असङ्गपुरुषस्याचित्संयोग वियोगायोगेन बद्धत्वमुक्तत्वावस्थयोरसम्भवात् । निरुपाधिकस्य च मुक्तात्मनस्तव्ययत्वानीश्वरत्वाद्ययोगात् । ज्ञानै- काकारयो जीवेश्वरयोरेकपदार्थत्वेन पदार्थद्वित्वायोगाज्जीवदीश्वरो नार्थान्तरभूतः । अत एवोक्तं हि ‘ममैवांशो जीव’ इति भगवता । यश्च तस्यापि रामानुजेन दर्शितोऽपार्थस्स तत्रैव परिहृतः ||१७|| यस्मादिति । अहं यस्मात्क्षरमंतीतो यस्माच्चाक्षरादप्युत्तमः, अतोऽई लोके वेदे च पुरुषोत्तम इति प्रथितोऽस्मि । ऊर्ध्वमूलमित्युपक्रमादुपसंहारेऽपि तं स्मारयति - संसारेति । सर्वभूतमयस् संसार- वृक्षः क्षरपदार्थः, तमतीतोऽतिक्रान्तः क्षरादुत्तम इत्यर्थः । बीजेति । यद्यप्यूर्ध्वमूलमिति सान्यक्त ब्रह्मैव मूलमित्युक्तं, तथापि तत्र मायांशस्यैव बीजत्वमिति बोध्यम् । निर्विशेषचिन्मात्रस्य जगद्धेतुत्वा- 1 ३१ पञ्चदशोऽध्यायः । २४१ राभ्यामुत्तमत्वादस्मि भवामि । लोके वेदे च प्रथितः प्रख्यातः पुरुषोत्तम इत्येवं मां भक्तजना विदुः । कवयः काव्यादिषु चेदं नाम निवन्नन्ति पुरुषोत्तम - इत्यनेनाभिधाने- ‘नाभिगृणन्ति ॥ १८ ॥ अथेदानीं यथानिरुक्तमात्मानं यो वेद तस्येदं फलमुच्यते- यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ! ॥ १९ ॥ य इति । यो मामीश्वरं यथोक्तविशेषणमेवं यथोक्तेन प्रकारेणासम्मूढः सम्मोह- वर्जितस्सन् जानाति ‘अयमहमस्मीति पुरुषोत्तमं स सर्ववित्सर्वात्मना सर्वं वेत्तीति सर्वज्ञः सर्व- भूतस्थं भजति मां सर्वभावेन सर्वात्मचित्ततया हे भारत ! ॥ १९ ॥ भावादक्षरादव्यक्तादित्यर्थः । उत्कृष्टतम इति । सच्चिदानन्दरूपत्वादिति भावः । ऊर्ध्वतम इति । ‘तमसः परस्ता’ दिति श्रुतेरिति भावः । सबीजात्संसारमण्डलादुपरि वर्तते नतु तदन्तर्देहादिपदार्थव- दिति परमार्थः । अत इत्यस्यार्थे स्वयमेवाह - ताभ्यामिति । पुरुषाभ्यां द्वाभ्यां क्षराक्षराभ्यामुत्तमः पुरुषोत्तम इति निरुक्तिः । पुरुषेषु क्षराक्षरपरमात्मसु त्रिषु मध्ये उत्तमः पुरुषोत्तम इति निरुक्तिर- प्यस्ति, तस्या अप्यत्रैव पर्यवसानं बोध्यम् । लोके प्रसिद्धिं दर्शयितुं कवय इत्यादिकमुक्तम् । सच ‘तेन विना निद्रां लभते पुरुषोत्तम’ इत्यादिकाव्ये प्रयोगः ॥ १८ ॥ य इति । य एवमसम्मूढस्सन् मां पुरुषोत्तमं जानाति, हे भारत । स सर्वविद्भवति, मां सर्व- भावेन भजति । सम्मोह आत्मानात्माऽविवेकः । ज्ञानप्रकारं दर्शयति – अयमहमस्मीति । पुरुषोत्तमं प्रत्यगभिन्नं परमात्मानं परमात्माभिन्नं प्रत्यगात्मानमिति वा, क्षराक्षरविलक्षण चैतन्यमिति परमार्थः । सर्व- भावेनेति । आत्मैवेदं सर्वमिति बुध्येत्यर्थः । सर्वात्मकतयेति । सर्वात्मभावेनेत्यर्थः । मां परमात्मानं भजति प्राप्नोति, परमात्मसायुज्यं लभते । निर्मुक्तोपाधिस्सन् परिपूर्णचैतन्यात्मनाऽवतिष्ठत इति यावत् । यः परमात्माभिन्नं प्रत्यगात्मानमयमहमस्मीति साक्षात्कुरुते तस्य ज्ञातव्यांश शेषाभावात्सर्व- वित्त्वं देहावसाने परमात्मसायुज्यं च भवतीति फलितार्थः । यद्वा भजति सेवते, तथा च य एवमात्मानमप- रोक्षतया वेद स विद्वान् यावद्देहापायं सर्वे विषयजातं सेवमानोऽपि स्वसेव्यमानं सर्वे तद्ब्रह्मेत्येव वेदेति ब्रह्मैव सेवते । ब्रह्म हि सर्वात्मकं ‘सर्वे ब्रह्मेति श्रुतेरिति फलितार्थः । यत्तु रामानुजः - ईश्वरं पुरुषोत्तमं ज्ञात्वा सर्वप्रकारैर्भजते जीव इति, तन्मन्दम् – अजै- रपीश्वरस्य सेव्यमानत्वात् ॥१९॥ २४२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अस्मिन्नध्याये भगवत्तत्त्वज्ञानं मोक्षफलमुक्त्वा, अथेदानीं तत्स्तौति- इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ! एतबुध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ! ॥२०॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतानुपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तप्राप्तियोगो नाम पञ्चदशोऽध्यायः । इतीति । इत्येतद्गुह्यतमं गोप्यतममत्यन्तरहस्य मित्येतत् । किं तत् १ शास्त्रम् यद्यपि गीताख्यं समस्तं ‘शास्त्र’ मुच्यते; तथाप्ययमेवाध्याय इह ‘शास्त्र’ मित्युच्यते स्तुत्यर्थ प्रकरणात् । सर्वो हि गीताशास्त्रार्थोऽस्मिन्नध्याये समासेनोक्तः, न केवलं गीताशास्त्रार्थ एव । किंतु सर्वश्च वेदार्थ इह परिसमाप्तः ‘यस्तं वेद स वेदवित्’, ‘वेदैश्व सर्वैरहमेव वेद्य’ इति चोक्तम् । इदमुक्तं कथितं मया हे अनघ ! अपाप ! एतच्छास्त्रं यथादर्शितार्थ बुध्वा बुद्धिमान् स्याद्भवेन्नान्यथा । कृतकृत्यश्च भारत । कृतं कृत्यं कर्तव्यं येन स कृतकृत्यः; विशिष्टजन्मप्रभूतेन ब्राह्मणेन यत्कर्तव्यं तत्सर्वं भगवत्तत्त्वे विदिते कृतं भवेदित्यर्थः । न इतीति । हे अनघ । इतीदं गुह्यतमं शास्त्र मयोक्तम् । हे भारत ! मुमुक्षुरेतद्बुध्वा बुद्धिमान् कृतकृत्यश्च स्यात् । मोक्षः फलं यस्य तन्मोक्षफलम् । ननु गीताशास्त्रे असमाप्ते सत्येव कथमुक्तमिति शास्त्रमितीत्यत आह — यद्यपीति । ननु कथमस्याध्यायस्यैकस्य शास्त्रत्वमत आह-सर्वो हीति । क्षराक्षरपरमात्मव्यतिरिक्तगीताशास्त्रार्थाभावादिति भावः । इहास्मिन्नध्याये । कुनः परिसमाप्तोऽत माह - यस्तमिति । समूलसंसारविद एव वेदार्थवित्त्वाद्वेदार्थस्य समूलसंसारस्येहोक्तत्वाच्चेति भावः । कारणान्तरमाह — वेदैश्वेति । सर्ववेदवेद्यस्य सर्ववेदार्थभूतस्य परमात्मन इह प्रतिपादितत्वादिति भावः । तव निष्पापत्वादेतच्छ्रवणं जातमित्याह - हे अनघेति । यथादर्शितार्थं यथोक्तार्थकमित्यर्थः । दर्शितमर्थमनतिक्रम्येति वा । बुद्धिमान् सदसद्विवेकशालीत्यर्थः । पण्डित इति यावत् । अनात्म- विवेकेनात्मविदिति परमार्थः । अन्यथेति । एतच्छास्त्रमविदित्वेत्यर्थः । एतच्छास्त्रार्थमन्यथा विदि- त्वेति वा । विशिष्टजन्म सद्वैश: । ब्राह्मणेनेति । सन्न्यासिनेत्यर्थः । ’ ब्राह्मणस्य विजानत’ इत्यत्र तथा व्याख्यातत्वादाचार्यैः । सन्न्यासिनामेव गीताशास्त्रेऽधिकाराच्च । यत्कर्तव्यमिति । स्वाश्रम- विहित कर्मेत्यर्थः । यद्वा सन्न्यासाश्रमस्वीकारात्प्राग्यत्कर्तव्यं यज्ञादिकमस्ति तत्सर्वं सन्न्यासाश्रम स्वीकृत्य प्रकृतशास्त्रार्थवेदने सति तेन कृतमेव भवतीत्यर्थः । अथवा कलियुगे क्षत्रवैश्य वो इशूद्र प्रायत्वाद्वाह्मणे नेत्युक्तं, ततश्च ब्राह्मणेन द्विजेन यत्कर्तव्य यज्ञादिकं तत्सर्वं सन्न्यासाश्रम स्वीकारद्वारा वेदान्तश्रवणं कृत्वा भगवत्तत्वे विदिते सते कृतं भवें- पञ्चदशोऽध्यायः । २४३ चान्यथा कर्तव्यं परिसमाप्यते कस्यचिदित्यभिप्राय:- ‘सर्व कर्माखिलं पार्थ ! ज्ञाने परि- समाप्यत’ इति चोक्तम् । एतद्धि जन्मसामय्यं ब्राह्मणस्य विशेषतः । प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा’ इति च मानवं वचनम् । यत एतत्परमार्थतत्त्वं मत्तस्मृतवानसि ; ततः कृतार्थस्त्वं भारत ! इति ||२०|| इति श्री परमहंस परिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद शिष्यस्य श्रीम- च्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये पुरुषोत्तमप्राप्ति- " योगो नाम पञ्चदशोऽध्यायः । दित्यर्थः । एतेन ब्राह्मणस्यैव गीतास्वविकारो नान्येषां नापि स्त्रीणामिति सिद्धम् । असन्न्या- सिनामपि ब्राह्मणानां कचिद्वेदान्तशास्त्रेऽघिकारदर्शनाद्गृहस्थादीनामपि ब्राह्मणानां वेदान्तपाठ इव गीता- पाठेऽप्यस्त्यधिकारः, तदर्थविचारे च । भाष्यकाराणां तु वेदान्तानां गीतानां वा पाठमाल एवासन्न्या- सिनामधिकारः, अर्थविचारे तु सन्न्यासिनामेवेति मतम् । स्त्रीशूद्रादीनां पाठमात्रेऽपि गीतानां वेदाना- मिव नाधिकार इति सर्वेषां सम्मतं- ‘स्त्रीशुद्रद्विजबन्धूनां लयी न श्रुतिगोचरा’ इति स्मरणात्त्रयी- तुल्यत्वाच्च गीतायाः, भगवद्गीतासूपनिषत्स्विति हयुच्यते । अन्यथेति । भगवत्तत्त्ववेदनं विनेत्यर्थः । ज्योतिष्टोमादौ कृतेऽपि चयनादेः कर्तव्यस्याव- शिष्यमाणत्वादिति भावः । उक्तार्थे गीतामेव प्रमाणयति — सर्वमिति । मनुस्मृतिं च प्रमाणयति - एतदिति । यर्द्विष्णोर्लिङ्गधारणमिति पाठान्तरम् । विष्णोर्लिङ्गं सन्न्यासस्तद्धारणमिति यत्तदेतदेव जन्म- सामग्र्यं जन्मनस्सामग्र्यं साफल्यं यस्मात्तत्तथोक्तं सन्न्यासिनां तत्त्वविदामेव जन्मफलमन्येषां तु पश्चादि- जन्मवद्यर्थमेवेत्यर्थः । अकृतकृत्यत्वादज्ञानामिति भावः । एतत्तस्वश्रवणादर्जुनोपि कृतकृत्य एवेत्याह– यत इति । एतेन येषामेतदध्यायार्थश्रवणं भवति, ते सर्वेपि कृतार्था एवार्जुनवदिति सूच्यते । इदं च भारतेति सम्बोधनसूचितमिति न निर्मूलं भाष्यम् । क्षत्रियाणामसन्न्यासिनामपि गीतार्थश्रवणाधिकारोऽस्तीति भगवताऽर्जुनाय गीतार्थस्योपदेश एव सूचयतीति कृत्वा कथमर्जुनाय कृष्णेनोक्तमिति न शङ्कनीयमिति । अयं चाध्याय सर्वगीतार्थवेदार्थ परिसमाप्तिमत्त्वेनोत्कृष्ट इति कृत्वा सर्वगीताशास्त्रपारायणासमर्थाश्शिष्टा इममध्यायमन्वहं पठन्ति । एतत्पाठवशाश्च सर्वपापविनिर्मुक्ता इह- जन्मनि जन्मान्तरे वा शमदमादिपूर्वकं सन्न्यासमुपलभ्य वेदान्तश्रवणादिना तत्त्वं ज्ञात्वा मुक्ति यास्य- न्तीति कृत्वा एतत्पाठोऽपि क्रमेण कृतकृत्यता हेतुरेव । तस्मात्सर्वैरपि मुमुक्षुभिः पठनीयोऽयमध्याय - स्सर्वथा श्रोतव्यश्वास्यार्थश्चिन्तनीयश्च । धन्योऽस्म्यहं यदेतदध्यायभाष्यार्थविवरणं लब्धं मम । ये चैत- स्पश्यन्ति, वदन्ति, शृण्वन्ति तेच धन्या एव । एतद्बुध्वा बुद्धिमान् स्यात्कृतकृत्यश्चेत्युक्तत्वेन ज्ञान- मात्रमेव कृतकृत्यत्वकारणं, नतु कर्मज्ञानसमुच्चय इति सूचितम् । ततश्च- ‘तरति शोकमात्मवि’ दिति ૨૨૪ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपैतासु श्रुत्यनुसारो गीतायास्सिध्यति । अत एवोपनिषतौस्य गीताया उपनिषदभेदश्च । उपनिषदर्थप्रतिपाद- कत्वाद्गीताया इति ॥२०॥ पुरुषोत्तमप्राप्तिः - परमात्मस्वरूपप्रतिपादनमिति यावत् । पुरुषोत्तमस्य प्राप्तिर्यस्मात्तत्पुरुषोत्तम- प्राप्तिज्ञानं तस्य योगस्सम्बन्धो यत्र स पुरुषोत्तमप्राप्तियोगः । पुरुषोत्तमप्राप्तिर्मोक्षः, तत्प्रदायकः प्र- ताध्यायार्थश्च पुरुषोत्तमप्राप्तिरुच्यत इति वा; ये गत्यर्थास्ते ज्ञानार्थका इति प्राप्तिर्ज्ञानमित्यर्थ इति वा । क्षराक्षरपुरुषाभ्यामुत्तमस्य पुरुषस्य परमात्मन इह प्रतिपादितत्वादस्याध्यायस्य पुरुषोत्तमप्राप्तियोग इति नामकुतमिति भावः । इति श्रीलङ्कोण्डोपनामक रामकविकृतौ श्रीभगवद्गीताभाष्यार्क प्रकाशे पुरुषोत्तमप्राप्तियोगो नाम पञ्चदशोऽध्यायः । श्रीहयग्रीवार्पणमस्तु । सौम्यचैत्रबहुलचतुर्दशी । ।