१४

श्रीहयग्रीवाय नमः । भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतासु । चतुर्दशोऽध्यायः । सर्वमुत्पद्यमानं क्षेत्रक्षेत्रज्ञसंयोगादुत्पद्यत इत्युक्तं- तत्कथमिति तत्प्रदर्शनार्थं ‘परं ‘भूय’ इत्यादिरध्याय आरभ्यते । अथ वा ईश्वरपरतन्त्रयोः क्षेत्रक्षेत्रज्ञयोर्जगत्कारणत्वं, न तु साङ्ख्यानामिव स्वतन्त्रयोरित्येवमर्थः प्रकृतिस्थत्वं गुणेषु च सङ्गस्संसारकारणमित्युक्तम् । उत्पद्यमानं सर्व क्षेत्रक्षेत्रज्ञसंयोगादुत्पद्यत इत्युक्तं- ‘यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ।’ इति इलोकेनेति भावः । तत्क्षेत्रक्षेत्रज्ञसंयोगाद्भूतानां जनन- मित्यर्थः । कथमितिशङ्कायां तत्प्रकारं प्रदर्शयितुं चतुर्दशाध्याय आरभ्यते भगवतेति शेषः । सङ्ग- त्यन्तरं दर्शयति - अथ वेति । ननु प्रकृतिपुरुषसंयोगाज्जगज्जायत इत्युक्तं ; ‘क्षेत्रज्ञ चापि मां वि’द्धी- त्यादिना पुरुष एवेश्वर इति चोक्तं; ततश्च सिद्धमद्वैतस्य निरीश्वरसाङ्ख्यत्वं पुरुषातिरिक्तेश्वरानभ्युप- गमादद्वैतमतेऽपीति शङ्कायां न वयं साङ्ख्या इव प्रकृतिपुरुषयोस्स्वतन्त्रयोरेव जगत्कारणत्वं ब्रूमः, किं त्वीश्वरपरतन्त्रयोरेव । यद्यपि साङ्ख्या: ‘न प्रकृतिर्न विकृतिः पुरुष’ इति पुरुषस्य जगत्कारणत्वं स्वातन्त्र्येण पारतन्त्र्येण वा न प्रतिपादयन्ति, किंतु स्वतन्त्रायाः प्रकृतेरेव तत्प्रतिपादयन्ति । तथापि छत्त्रिन्यायेन द्वयोरपीत्युच्यत इति बोध्यम् । एवमद्वैतमते क्षेत्रस्यैवेश्वरपरतन्त्रत्वात्क्षेत्रज्ञस्य चेश्वरत्वेन स्वतन्त्रत्वादुभयोरीश्वरपारतन्त्र्यकथनमपि छत्त्रिन्यायेनैवेति बोध्यम् । अयं चेश्वरः क्षेत्रज्ञ उदासीनो न जगत्कारणं, किंतु प्रकृतिस्थो गुणसतश्वत्यस्ति साङ्ख्याद्वैत- मतयोर्महद्वैषम्यम् । साङ्ख्यमते प्रकृतिस्स्वतन्त्रा जगद्धेतुः पुरुषस्तूदासीनो न जगद्धेतुरिति । अद्वैत- मते ईश्वरपरतन्त्रा प्रकृतिः, तत्संयुक्तः क्षेत्रज्ञश्वोभयं जगत्कारणमिति चाभ्युपगमात् । यद्वा विद्या- दशायामेव क्षेत्रज्ञस्येश्वरै कञ्च मद्वैतिनो वदन्ति, न त्वविद्यादशायाम् | अविद्यादशायां हि प्रकृतिस्थो गुणयुक्तश्च क्षेत्रज्ञ ईश्वरपरतन्त्र एव प्रकृतिवदिति कृत्वा ईश्वरपरतन्त्रयोः प्रकृतिपुरुषयोर्जगत्कारणत्वं वदतां सेश्वरसाङ्ख्यानामद्वैतिनां प्रकृतिपुरुषौ स्वतन्त्रौ प्रकृतिश्व जगत्कारणमिति वदतां निरीश्वर- साङ्ख्यानां च महदस्ति वैलक्षण्यमित्येवं प्रदर्शनार्थमेव क्षत्रज्ञस्य प्रकृतिस्थत्वं गुणेषु सङ्गश्च संसार- कारणमित्युक्तम् । ‘पुरुषः प्रकृतिस्थो हि भुंक्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सदस- द्योनिजन्म’स्विति श्लोकेनेति भावः । न चेश्वरस्यैव क्षेत्रज्ञस्य कथमीश्वरपारतन्त्र्यमिति वाच्यं, वस्तुत ईश्वरोऽपि क्षेत्रज्ञो मायया प्रकृतिस्थत्वादिना जीवभावमापन्नस्सन्नीश्वरपरतन्त्रो भवतीति । न च माययापि कथमयुक्तार्थस्योपपत्तिरिति वाच्यं, मायायां सर्वसम्भवादितिन्यायात्का नामानुपपत्तिः ? मायया हि रज्जुरपि सर्पो भवति; गगनमपि नीलं भवति; मरुभूमिरपि जलप्रायप्रदेशो भवतेि; तल्पे १६४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाडरभयोपेतासु कस्मिन्गुणे कथं सङ्गः १ के वा गुणाः ? कथं वा ते बध्नन्तीति ? गुणेभ्यश्च मोक्षणं कथं स्यात् ? मुक्तस्य च लक्षणं वक्तव्यमित्येवमर्थं च श्रीभगवानुवाच - श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ञात्वा मुनयस्सर्वे परां सिद्धिमितो गताः ॥ २ ॥ परमिति । परं ज्ञानमिति व्यवहितेन सम्बन्धः । भूयः पुनः पूर्वेषु सर्वेष्वध्याये- ष्वसकृदुक्तमपि प्रवक्ष्यामि । तच्च परं परवस्तुविषयत्वात् । किं तत् ? ज्ञानं सर्वेषां ज्ञानाना- मुत्तमं, उत्तमफलत्वात् । ज्ञानानामिति नाऽमानित्वादीनां किं तर्हि यज्ञादिज्ञेय वस्तुविषयाणा- मिति । तानि न मोक्षाय, इदं तु मोक्षायेति परोत्तमशब्दाभ्यां स्तौति श्रोतृबुद्धिरुव्युत्पाद- शयानोऽपि देशान्तरे रथादिभिर्व्याप्रियते; स्वं छिन्नं शिरः स्वयमेव पश्यति; मृतोऽहमिति स्वयमेव रोदिति निद्रायां चक्षुषस्तिमिरदोषादप्येकं चन्द्रमनेकत्वेन पश्यति इन्द्रजालेनापि गगने हस्ति- हर्यादयः कल्यन्ते दृश्यन्ते चास्मदादिभिः । तस्मादीश्वरस्यापि क्षेत्रज्ञस्य मायया पारतन्त्र्यादिकं घटत एव । अघटित घटनापटी यस्त्वान्मायाया इति । ननूक्तमेव किं तत इत्यत आह– कस्मिन्निति । तत्रेति शेषः । कस्मिन् गुणे क्षेत्रज्ञस्य कथं सङ्गः ? के वा गुणाः ? कथं क्षेत्रज्ञ बध्नन्ति ? कथं क्षेत्रज्ञस्य गुणेभ्यो मोक्षणं स्यात् ? मुक्तस्य च किं लक्षणम् इति प्राप्तानां प्रश्नानामुत्तरप्रदानार्थं चायमध्याय आरभ्यते — परमिति । अहमिति शेषः । भूयस्त इति शेषः । ज्ञानानां मध्ये उत्तमं परं तद्ज्ञानं प्रवक्ष्यामि । सर्वे मुनयो यद्ज्ञात्वा इतः परं सिद्धिं गताः । भूय इत्यनेन पूर्वमस्यो क्तत्वमवगम्यत इत्यभिप्रेत्याह - पूर्वेष्विति । तत्त्वस्य दुर्बोधत्वात्पुनः पुनश्शब्दान्तरेण प्रतिपादनमिति भावः । प्रवक्ष्यामीति । प्रकर्षेण यथावद्वक्ष्यामि । परवस्तु ब्रह्म । तद्विषये ज्ञानेऽपि परत्वमुपचारादित्याह – परवस्तुविषयत्वादिति । यद्वा ज्ञान- स्योत्कर्षापकर्षो ज्ञेयाधीनौ, न तु स्वत इत्यभिप्रेत्य परवस्तुविषयत्वादित्युक्तम् । ननु प्रथमान्तं ज्ञानं ब्रह्मविषय, षष्ठयन्तज्ञानानि किंविषाणीत्यत आह-यज्ञादीति । यज्ञ आदिर्येषां तानि यज्ञादीनि, तानि च तानि ज्ञेयवस्तूनि यज्ञादिज्ञेयवस्तूनि विषया येषां तानि तथोक्तानि । यज्ञयागपूर्वादिधर्म- विषयाणीत्यर्थः । ननु षष्ठयन्तज्ञानशब्देन पूर्वाध्यायोक्ता अमानित्वादयो गृह्यन्तां, ते हि ज्ञानत्वेन प्रतिपादिता अत आह— नत्विति । ज्ञानसाधनान्येवामानित्वादीनि, न तु ज्ञानानीति भावः । ननु यद्ब्रह्मविषयं यच्च धर्मविषयं तदुभयमपि सविषयज्ञानत्वेन तुल्यमेव । निर्विषयं चैतन्यरूपज्ञानमेवोत्तममत माह - उत्तमफलत्वादिति । ननु यज्ञादयोऽप्युत्तम फलान्येव स्वर्गादीनि दिशन्तीत्यत आह- तानि न मोक्षायेति । यज्ञादिविषयज्ञानानि यज्ञाद्यनुष्ठापनद्वारा स्वर्गादीन्येव दिशन्ति, न तु मोक्षं, निरतिशय पुरुषार्थो हि मोक्ष उत्तमफलम् । ननु ब्रह्मज्ञानमपि तादृशमेवेत्यत आह- इंदं त्विति । ब्रह्मज्ञानं तु मोक्षाय भवतीति शेषः । अनुष्ठानापेक्षा भावश्चाषिकोऽत्र गुणोऽस्तीति बोध्यम् । अयं चार्थः परोत्तमशब्दाभ्यां सिद्ध इत्याह — परेति । परविषयमुत्तमफलकं च ज्ञानमपर-चतुर्दशोऽध्यायः । १६५ नार्थम् । यद्ज्ञात्वा यज्ञानं ज्ञात्वा प्राप्य मुनयस्सन्न्यासिनो मननशीलास्सर्वे परां सिद्धि मोक्षाख्यामितोऽस्माद्देहबन्धनादूर्ध्वं गताः प्राप्ताः ॥ १ ॥ अस्याश्च सिद्धेरैकान्तिकत्वं दर्शयति- इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २॥

इदमिति । इदं ज्ञानं यथोक्तमुपाश्रित्य ज्ञानसाधनमनुष्ठायेत्येतत् । मम परमेश्वरस्थ विषयेभ्योऽनुत्तम फलकेभ्यो ज्ञानेभ्य उत्कृष्टमिति भावः । इदं ज्ञानं परापरवस्तुविषयाणां ज्ञानानां मध्ये परमुत्तमं च परवस्तुविषयत्वान्मोक्षाख्योत्तम फलवत्त्वाच्च । यत्परवस्तुविषयमुत्तमफलवच्च न भवति तद्ज्ञानमपरमनुत्तमं च, यथा घटज्ञानमिति प्रयोगः । पूर्वार्धोक्तस्य ज्ञानस्यैवेह यच्छब्देन प्राह्मत्वात् । ज्ञानस्य च स्वप्रकाशस्य ज्ञानान्तरवेद्यत्वासम्भवात् तत्कल्पने चानवस्थादोषादाह प्राप्येति । अस- न्न्यासिनां श्रवणमननाद्यनधिकाराद्गृहदारापत्यादिषोषणादिव्यग्रतया मननावकाशासम्भवाच्च मुनयो मननशीलास्सन्न्यासिन इत्युक्तम् । तत्त्वविदस्सकाशाद्ज्ञानं प्राप्य श्रुत्वेति यावत् । पश्चात्स्वयं मननं कृत्वेत्यर्थः । यत इमे सन्न्यासिनो मननशीलास्तत एव श्रुत्वा मननं कुर्वन्तीति भावः । यद्वा ज्ञानं प्राप्य; श्रवणमननादिना ज्ञानं लब्ध्वेत्यर्थः । सर्वे प्राचीना याश्यवल्क्यादयः । देहबन्धनादिति । देहबन्धनं विहायेति ल्यब्लोपे पञ्चमी । यत्तु रामानुज :- सत्त्वादिगुणविषयमिदं ज्ञानं प्रकृतिपुरुषविषयज्ञानानामुत्तममित्याह- तत्तुच्छम् - सत्त्वादिगुणविषयज्ञानस्य प्रकृतिविषयज्ञानाद्भिन्नत्वासिद्धेः । प्रकृतेरेव हि गुणास्तत्रादयः । सत्त्वादिगुणवती हि प्रकृतिः । पुरुषविषयज्ञानस्य मोक्षप्रदस्य परमात्मवस्तुविषयस्य च कथं सत्त्वादि- गुणविषयज्ञानापेक्षया भवेदनुत्तमत्वं, न कथमपीति । यच्च यद्ज्ञानं ज्ञात्वेति, तदप्यसत् - ज्ञानस्य ज्ञेयत्वायोगात् । ज्ञानं हि विषयि, ज्ञेयं तु विषयः । न हि विषयि विषयो भवेत् । अन्यथा घट- ज्ञानमपि घटो भवेत् ॥१॥ 1 इदमिति । तेषां मोक्षं गतानां किं फलं, को लाभ इति शङ्कायामिदमिति पद्यमुच्यते । तस्याश्च मोक्षाख्यायास्सिद्धेर्गतेरैकान्तिकत्वं ध्रुवत्वं चोच्यते इदमितिपद्येन । इदं वक्ष्यमाणं परवस्तु- विषयं ज्ञानमुपाश्रित्य प्राप्य मम साधर्म्यमागताः, मुक्ता इति यावत् । मुनय इति शेषः । सर्गेऽपि नोपजायन्ते प्रलये च न व्यधन्ति । मुक्तानामपुनरावृत्तिः फलमिति भावः । एतेन मोक्षस्य त्वं सिद्धम् । यदेव वक्ष्यमाणं तदेव पूर्वोक्तं चेत्यभिप्रेत्याह-यथोक्तमिति, ज्ञानमिति । अहं ब्रह्मा- स्मीत्याकारकमिति भावः । तत्प्राप्तौ साधनं दर्शयति - ज्ञानसाधनमनुष्ठायेति । ज्ञानसाधनाऽमा- नित्वाद्यनुष्ठानद्वारा ज्ञानं प्राप्येति यावत् । यद्वा इदं पूर्वोक्तं ज्ञानं ज्ञानसाधनममा नित्वादिकमुपाश्रित्यानुष्ठाय । ततस्सम्यग्दर्शनप्राप्तिद्वारा मम साधर्म्य समानोऽभिन्नो धर्मस्सच्चिदानन्दलक्षणं स्वरूपं यस्य तस्य भावः साधर्म्यं मत्स्वरूपतां मदभिन्न- • १६६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु साधर्म्यं मत्स्वरूपतामागताः प्राप्ता इत्यर्थः । न तु समानधर्मतां साधर्म्य क्षेत्रज्ञेश्वरयोर्भेदा- नभ्युपगमाद्गीताशास्त्रे | फलवादश्चायं स्तुत्यर्थमुच्यते । सर्गेऽपि सृष्टिकालेपि नोपजायते नोत्पद्यन्ते । प्रलये ब्रह्मणोऽपि विनाशकाले न व्यथन्ति च व्यथां नापद्यन्ते न च्यवन्ती- त्यर्थः ॥२॥ क्षेत्रक्षेत्रज्ञसंयोग ईदृशो भूतकारणमित्याह

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवस्सर्वभूतानां ततो भवति भारत ! ॥३॥ ममेति । मम सर्वभृता मदीया माया त्रिगुणात्मिका प्रकृतिर्योनिस्सर्वभूतानां स्वरूपत्वं मद्भावमिति यावत् । आगता ब्रह्मभूता इत्यर्थः । समानधर्मतेति । तुल्यधर्मस्वमित्यर्थः । ननु स्वत एव ब्रह्मभूतस्य कथं पुनः ब्रह्मभावप्राप्तिरुच्यतेऽत आह - स्तुत्यर्थ इति । नतु वस्तुतो मोक्षाख्यं स्वरूपातिरिक्तं ज्ञानप्राप्यं किंचित्फलमस्तीति भावः । ब्रह्मण इति । हिरण्यगर्भस्य विनाश- काले द्विपरार्थावसाने । बहुवचनप्रयोगस्तु लोकव्यवहारसिद्धोपाधिभेदाभिप्रायेण, नत्वात्म भेदाभिप्रायेण । लोके हि शुको मुक्तो वामदेवो मुक्तो जनको मुक्त इत्येवं व्यवहारो दृश्यते । सच शुकत्ववामदेवत्व- जनकत्वादिश्शरीरगत एव न त्वात्मगतः- नामरूपाद्यभावादात्मनि । यत्तु रामानुजः - साधर्म्य सादृश्यमिति, तत्तुच्छम् - सर्वज्ञ सर्वेश्वर सर्वशक्ति सर्व नियामक - सर्वजगत्सृष्टिस्थितिसंहारकर्तृसर्वग कल्याणगुणनिलयपरमात्मसादृश्यस्य किंचिज्ञपरतन्त्राल्पशक्ति नियाम्या- जगत्कर्तृनिर्गुणाणुस्वरूपजीवेऽसम्भवात् । नहि मुक्तावप्यणो जीवस्या सर्वगस्य भवितुमर्हति सर्वज्ञत्वसर्वान्त- र्यामित्वादीश्वरधर्मसञ्चयः । नच मुक्तौ सर्वव्याप्येव जीव इति वाच्यं तथासति बहूनां मुक्तजीवानां सर्वव्यापिनां सत्त्वेन सर्वभूतानां हृदेशे ईश्वरवते सर्वे जीवा अपि वर्तेरन् । नचेष्टापत्ति :- ‘ईश्वरस्सर्व- भूतानां हृद्देशेऽर्जुन! तिष्ठतीति वक्ष्यमाणत्वेन सर्वे मुक्तजीवा हृद्देशे तिष्ठन्तीति काप्यप्रतिपादनेनान्त- र्यामिब्राह्मणादिषु एकस्यैवेश्वरस्य सर्वभूतस्थितिप्रतिपादनेन च विरोधात् । बहुषु नियामकेषु सत्सु एको बद्धजीवः केन नियमितं कुर्यात् ? बहूनां नियामकेश्वराणां सत्त्वे कथमेकेश्वरत्वव्यवहारः ? नच मुक्तजीवास्सर्वव्यापिनस्सन्तोऽप्यनियामकास्सन्तस्तूष्णीं वर्तन्त इति वाच्यं तथासतीश्वरसाधर्म्यायोगात् । एतेषां मुक्तजीवानामीश्वरानियाम्यत्वे ईश्वरस्य सर्वेश्वरत्वाभावप्रसङ्गात् । तन्नियाम्यत्वे च बन्धमुक्त्यो- रविशेषात् । अस्मद्धृदीश्वरसत्त्वं नियमन लिङ्गेनानुमीयते, अनन्तमुक्त जीवसत्त्वं तु केन प्रमाणेन वेद्यते ? न केनापि । नच शास्त्रेणेति वाच्यं, शास्त्रे अनन्ता मुक्तजीवा भूतानां हृदि वर्तन्ने ईश्वर- वदिति क्वाप्यप्रतिपादनात् । किंच यत्प्रदेशे जीवास्सन्ति तत्प्रदेशे नेश्वर इति न स्यादीश्वरस्य सर्व- व्यापित्वमपि । प्रकृतिपुरुषसंयुक्तेश्वरस्य प्रकृतिवियुक्त पुरुषस्य वा कथं साम्यम् ? यदि मुक्तजीवेश्वरयोः क्वचिदंशे साम्यं क्वचिदंशे वैषम्यमित्युच्यते तर्हि बद्धजीवेश्वरयोरपि ज्ञातृत्वनित्यत्वाद्यशे साम्यमस्त्ये- वेति व्यर्थं स्यान्मम साधर्म्यमागता’ इति वचनम् । आगतेः प्रागेव साधर्म्यसत्त्वादिति ॥२॥ ममेति । क्षेत्रक्षेत्रज्ञसंयोगो भूतकारणमित्युक्तं पूर्वाध्याये । स कीदृशस्संयोग इति शङ्काया- f चतुर्दशोऽध्यायः । १६७ कारणम् । सर्वकार्येभ्यो महत्वाद्भरणाच्च स्वविकाराणां महद्ब्रह्मेति योनिरेव विशिष्यते । तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनो बीजं सर्वभूतजन्मकारणं बीज दधामि निक्षिपामि । क्षेत्रक्षेत्रज्ञ प्रकृतिद्वयशक्तिमानीश्वरोऽहं अविद्याकामकर्मोपाधिस्वरूपानु- विधायिनं क्षेत्रज्ञ क्षेत्रेण संयोजयामीत्यर्थः । सम्भव उत्पत्तिस्सर्वभूतानां हिरण्यगर्भोत्पत्ति- द्वारेण ततस्तस्माद्गर्भाधानाद्भवति हे भारत ! ॥३॥ मीदृश इत्युच्यते ममेतिश्लोकेनेत्याह - क्षेत्रेति, स्वभूतेति । ईश्वरस्य सच्चिदानन्दत्वं मायित्वं चेत्यस्ति रूपद्वयम् । वस्तुतस्सच्चिदानन्दो व्यवहारंतस्तु मायीति । तत्र व्यवहारत ईश्वरस्य स्वकीयत्वा- स्वभूतैव माया । ईश्वरशक्तेरेव मायात्वादिति भावः । नच स्वभूतेत्यत्र स्वशब्द आत्मवाची किं त्वात्मीयवाच्येवेत्याह- मदीयेति । ननु अव्यक्तस्य कथ महत्त्वं व्यक्ते हि वस्तुनि महत्त्वमल्पत्वं वा निश्चेतुं शक्यमत आह— सर्वकार्येभ्य इति । सर्वकार्यापेक्षयाचिकत्वात्कारणस्य महत्त्वं प्रकृतेरिति भावः । ननु मिथ्याभूतायाः प्रकृतेः कथं ब्रह्मत्वम् ? सत्यं हि ब्रह्मेत्यत आह- स्वविकाराणामिति । महदहङ्कारभूताद्यात्मविकाराणां बृंहणत्वाद्वर्धकत्वाद्ब्रह्मत्वं प्रकृतेः । बृंहणामेति व्युत्पत्तेरिति भावः । योनिरेवेति । प्रकृतिरेवेत्यर्थः । योनि प्रकृतिशब्दयोर्द्वयोरपि कारणवाचित्वात्मकृतौ यो निशब्दप्रयोगः । सर्वेति । सर्वेषां भूतानां प्रजापतीन्द्रानां प्राणिनां जन्मनः कारणं सृष्टिकर्तेत्यर्थः । यः हिरण्यगर्भः ब्रह्मा तस्य जन्मन उत्पत्तेबींज कारण क्षेत्रज्ञमिति यावत् । निक्षिपामीति । यथा पिता पुत्रजन्मनः कारणं रेतोरूपं गर्भे स्त्रीयोनौ निक्षिपति तद्वदिति भावः । क्षेत्रे क्षेत्रज्ञ निक्षिपामीत्युक्तवाक्यतस्सिद्धमर्थमाह- क्षेत्रेति । क्षेत्रक्षेत्रज्ञ एव प्रकृतिद्वयं, तदेव शक्ती चिच्छक्तिर्जडशक्तिश्चेति यस्य स तथोक्तोऽहमीश्वरः । अविद्याकामकर्माण्येवोपाधयः तेषां स्वरूपमनु विधातुं शीलमस्येति तं तथोक्तमविद्याकामकर्मरूपो पाघितादात्म्याध्यासमापन्नमित्यर्थः । अविद्या- काम कर्मयुक्तमिति यावत् । संसारस्य वीजानीमानि त्रीणीति भावः । अविद्या अज्ञानं, काम इच्छा, कर्मादृष्टं जन्मान्तरीयमिति विवेकः । केवलक्षेत्रज्ञस्य क्षेत्रसंयोगासम्भवादिदं विशेषणमुक्तम् । एतेन वस्तुत ईश्वरस्यापि क्षेत्रज्ञस्य जीवभावः प्राप्तोऽविद्ययेति सिद्धम् । अत एवास्येश्वरपारतन्त्र्यं प्रकृति- पारतन्त्र्यं च । एवंविधं जीवं क्षेत्रेण प्रकृत्या संयोजयामीत्येवं प्रकृत्या पुरुषे संयोजिते सतीश्वरेण ततो हिरण्यगर्भशरीरं जायते, तेन च तच्छरीराभिमानिना हिरण्यगर्भेण सर्वाणि भूतानि सृज्यन्त इत्याह- सम्भव इति ।

अयमभिप्रायः – प्रपञ्चावसाने क्षेत्रज्ञः स्थूलशरीरोपाधीनां सर्वेषां नाशे सति कारणोपाधिभि- रविद्याभिस्सूक्ष्मशरीरोपाधिभिः कामाद्याश्रयैर्मनो बुद्धधाद्यात्मकैलिंङ्गैश्व सहितस्सन्नीश्वरप्रकृतौ मूलाज्ञाने निलीय वर्तते प्रलयावसानपर्यन्तं ततः प्रलयावसाने स एव सोपाधिकः क्षेत्रज्ञ ईश्वरसङ्कल्पवशात्पुनः स्थूलशरीरैस्संयुज्यते; तानि च स्थूलशरीराणि न युगपदेवाविर्भवन्ति पूर्वमपि युगपदनष्टत्वात्, किंतु क्रमेणैव । तत्र चादौ हिरण्यगर्भाख्यं स्थूलशरीरं जायते, ततः क्रमेण प्रजापतिमन्वादय इति । अत ૬૮ w श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु एव ‘हिरण्यगर्भस्समवर्तताग्रे’ इति श्रुतिः । पितृदेहात्पुत्रदेहवद्धिरण्यगर्भ देहात्प्रजापत्यादिदेहसम्भवा- द्धिरण्यगर्भस्य जगत्त्रष्टृत्वव्यपदेशश्चेति । ननु क्षेत्रज्ञ लिङ्गिनं क्षेत्रेण संयोजयति, ततो हिरण्यगर्भो जायत इत्ययुक्तं, हिरण्यगर्भस्य स्थूल- शरीरस्य जन्मनः प्राक्तेन सह क्षेत्रस्य संयोगासम्भवादिति चेत्, नैष दोषः — स्थूलशरीराकारपरि णामोन्मुखप्रकृतिरिह क्षेत्रशब्दार्थः । तेन लिङ्गिनं योजयति, लिङ्गि-संसृष्टं च तत्क्षेत्रं स्थूलशरीराकार- परिणतं भवति । यथा सजीवं जातं शरीरं पुनर्वृद्धया स्थौल्य भजते तद्वदिति । ननु प्रपञ्चदशायां स्थूलोपाधिप्रयुक्त इव प्रलयदशायां सूक्ष्मोपाधिप्रयुक्तोऽस्त्येव क्षेत्रज्ञभेदः, तथाच क्षेत्रज्ञं क्षेत्रेण संयोजयामीत्युक्तिरयुक्तेति चेत्, मैवम् - उपाधिभेदस्य क्षेत्रज्ञभेदाप्रयोजकत्वान्न. हि घटाद्युपाधिभेद आकाशं मेदयेत् । ननु मास्तु क्षेत्रज्ञभेदः, लिङ्गिभेदस्वस्त्येव - लिङ्गिनां परस्पर- भेदस्य सम्मतत्वात् । अन्यथाऽन्तः करणाभेदे सुखदुःखादिसाङ्कर्यप्रसङ्गात् । अमी च लिङ्गिनस्सर्वे प्रलये ईश्वरप्रकृतौ निलीय वर्तन्त इत्युक्तं, तत्र कं लिङ्गिनं केन क्षेत्रेण संयोजयतीश्वरः प्रलयावसाने, इति चेदुक्तमेव भाष्यकारैर्हिरण्यगर्भजन्मनो बीजमिति । यस्य हिरण्यगर्भशरीरप्राप्तिहेतुभूतमदृष्ट मस्ति, तं लिङ्गिनं हिरण्यगर्भशरीराकारपरिणामोन्मुखप्रकृत्या संयोजयति तावदीश्वरः । ततस्सचेतन हिरण्य- गर्भशरीरं जायते, स च तच्छरीराभिमानी हिरण्यगर्भस्स्वयमन्यान् लिङ्गिनः क्षेत्रान्तरैस्संयोजयति, एवं सर्वभूतसम्भवो भवति- ‘घाता यथापूर्वमकल्पय’ दिति श्रुतेः । धाता विधाता हिरण्यगर्भो ब्रह्मा । न चैवं हिरण्यगर्भकर्तृके जगति कथमीश्वरस्य संष्टृत्वमिति वाच्यं जगत्त्रष्टुर्हिरण्यगर्भस्यापि स्रष्टृत्वेनेश्वरस्य जगत्स्रष्टृत्वमिति । यथा पितृस्रष्टा पितामहः पौत्रस्यापि स्रष्टा तद्वत् । अत एव परमकारणत्व- मीश्वरस्येति । एतावता परमेश्वरः स्वप्रकृतौ । निलीय वर्तमानं ब्रह्माधिकारप्राप्तियोग्यादृष्टशालिनं लिङ्गिनं क्षत्रज्ञ स्वसङ्कल्पवशाद्धिरण्यगर्भशरीराकारपरिणामोन्मुखया प्रकृत्या संयोजयतीति फलितार्थस्सिद्धः ‘मम योनि- महा तस्मिन् गर्भं दधाम्यह ’ मित्यस्य । प्रकृत्या क्षेत्रज्ञस्य संयोजनंनाम तत्तादात्म्यध्यासापादन- मध्यासलक्षणस्संयोग इति दर्शितत्वादाचार्यैः । अयं चाध्यासोऽविद्याकृत एवेति दर्शितं च । तस्मा- दविद्यामय एव सर्वस्पृष्ट्यादिव्यवहारः । रामानुजस्तु - अचेतनेऽपरप्रकृतिभूते महति ब्रह्मणि योनिभूते परप्रकृतिभूतं चेतन पुञ्जरूपं गर्भे दधामि, भोगक्षेत्रभूतयाऽचेतनप्रकृत्या भोक्तृवर्गपुञ्जभूतां चेतनप्रकृतिं संयोजयामीत्यर्थः । तत्सः संयोगाद्ब्रह्मादिस्तम्बपर्यन्त सर्वप्राण्युत्पत्तिरिति जगाद, तन्मन्दम् —चेतनपुञ्जस्य युगपदेव प्रकृति संयोजने सतिं युगपदेव ब्रह्मादिसर्वजगदुत्पत्तिप्रसङ्गात् । पुराणादिसिद्धब्रह्म प्रजापत्यादिपुत्रपौत्रादिक विरोधाच्च । चेतनोपाधिभूतलिङ्गशरीरपुञ्जस्यापरप्रकृतित्वेन चेतनपुञ्जस्य परप्रकृतित्वमात्रासम्भवाच । न हि निरुपा - चिकचैतन्यस्य पुञ्जत्वं सम्भवतीति । अन्वयस्तु मम मदीया योनिः प्रकृतिर्महद्ब्रह्मेत्युच्यत इति शेषः । तस्मिन्महति ब्रह्मणि । अन्यसुगमम् । मम मदीयं योनिः कारणभूतं महद्यम प्रकृतिस्तस्मिन्निति रामानुजीयान्वयः ॥ ३ ॥ २२ चतुर्दशोऽध्यायः । सर्वयोनिषु कौन्तेय ! मूर्तयस्सम्भवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता || ४ || १६९ सर्वयोनिष्विति । सर्वयोनिषु देवपितृमनुष्यपशुमृगादिसर्वयोनिषु हे कौन्तेय ! मूर्तयो देहसंस्थानलक्षणा मूर्छिताङ्गावयवा मूर्तयस्सम्भवन्ति यास्तासां मूर्तीनां ब्रह्म मह- त्सर्वावस्थं योनिः कारण महमीश्वरो बीजप्रदो गर्भाधानस्य कर्ता पिता || ४ | के गुणाः कथं निघ्नन्तीति, उच्यते- सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो ! देहे देहिनमव्ययम् ||५|| सच्चमिति । सत्त्वं रजस्तम इत्येवं नामानः । गुणा इति पारिभाषिकश्शब्दः, न I 1 J सर्वेति । हे कौन्तेय ! सर्वयोनिषु या मूर्तयस्सम्भवन्ति तासां महद्ब्रह्म योनिर्भवति । अहं बीजप्रदः पिता भवामि । सर्वयोनिष्वित्यत्रत्य सर्वशब्दार्थमाह — देवेति । आदिपदात्पक्षि सर्पादिग्रहणम् । योनयो जातयः । मूर्छिताः प्रवृद्धा अङ्गानि करचरणादीन्येवावयवा यसां ता मूर्छिताङ्गावयवाः स्थावरजङ्गमात्मका देहा मूर्तय इति यावत् । सर्वावस्थं सर्वकार्यावस्थमत एव महद्ब्रह्म प्रकृतिः । बीजं गर्भं क्षेत्रज्ञलक्षणं प्रदत्त इति बीजप्रदः गर्भाधातेत्यर्थः । पितेति । यः प्राकृतः पिता स्त्रीयोनौ गर्भा- धातृत्वेन प्रसिद्धस्स न गर्भाधाता, किंतु रेतोनिधातैव । स्त्रीयोन्याकारेणावस्थितायां प्रकृतौ बीजलक्षण- गर्भाधाता तु परमेश्वर एव । यद्वा नार्या गर्भाधाता पुरुषः, पुरुषस्य गर्भाधाता तु परमेश्वरः । नहि केवलरेतो निधनमात्रेण नार्या गर्भो जायते । तस्मात्परमेश्वरः रेतोरूपेणावस्थितायां प्रकृतौ क्षेत्रज्ञलक्षणं बीजं निदधाति, तेन पुरुषस्तावद्गर्भवान् भवति, पश्चात्स्वेन धृतं सजीवरेतोरूपं गर्म पुरुषः स्त्रीयोनौ निक्षिपति । सा च तेन गर्भवती भवति । एवं स्थिते गर्भाधाता परमेश्वर एव जायमानस्य पिता । अन्यः पिता त्वौपचारिक एवेति कृत्वा अहं बीजप्रदः पितेत्युक्तं भगवता । एतेन पुत्रोत्पतिं प्रति प्रकृतपितरौ नैव प्रधानकारणमिति सिद्धम् । अयं चेश्वरः कर्मसापेक्ष सन्नेव गर्भं दधातीति न वैषम्यादिदोषप्रसक्तिरीश्वरस्य । ननु यद्येवं परमेश्वर एव सर्वत्र गर्भाधाता, तर्हि हिरण्यगर्भस्य स्रष्टृत्वाभ्युपगमो व्यर्थ इति चेन्न — हिरण्यगर्भाख्यजीव स्वरूपावस्थितपरमेश्वरसङ्कल्पायत्तः क्षेत्रक्षेत्रज्ञसंयोग इत्यभ्युपगमात् । यद्वा राजचोदितभटकृतशत्रु विजये यथा राजकृतत्वव्यपदेशस्तथा परमेश्वरचोदितहिरण्यगर्भ कृत- भूतसृष्टौ परमेश्वरकृतत्वव्यपदेशः । अथ वा भूतसृष्टौ परमेश्वर एव मुख्यं कारणं, हिरण्यगर्भस्तु द्वार- कारणमिति ॥ ४ ॥ सत्त्वमिति । हे महाबाहो ! प्रकृतिसम्भवास्सत्त्वं रजस्तम इति गुणा देहेऽव्ययं देहिनं निबध्नन्तीव । ननु रूपसङ्ख्यापरिमाणसंयोगविभागादिवत्सत्त्वादिगुणत्रयस्येन्द्रियवेद्यत्वाभावादीश्वरशक्ति- १७० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ’ रूपादिवद्रव्याश्रिता गुणाः । न च गुणगुणिनोरन्यत्यमत्र विवक्षितम् । तस्माद्गुगा इव भूतायाः प्रकृतेश्चाग्निशक्तेरिव द्रव्यत्वाभावाद्रव्याश्रितत्वस्य च गुगलक्षणत्वात्कथं प्रकृत्याश्रयागां सत्त्वादीनां गुणत्वव्यवहारोऽन आह— गुणा इति, पारिभाषिक शब्द इति । वेदान्तशास्त्रसङ्केत- सिद्धसत्त्वादीनां गुणा इति संज्ञेत्यर्थः । एवं सत्त्वादीनां गुणसंज्ञायाः पारिभाषिकत्वादेव रूपादीना- मिव द्रव्याश्रितत्वलक्षणं गुणत्वं नास्तीत्याह - नेति । सत्त्वादय इति शेषः । रूपादिवद्रव्याश्रिता गुणा न भवन्ति । प्रकृतेरद्रव्यत्वात्सत्त्वादीनां चातीन्द्रियत्वादिति भावः । तस्मादिति । सत्त्वादीनां रूपादिवद्गुणत्वाभावादित्यर्थः । गुणगुणिनोः सत्त्वादिगुणानां तदाश्रयप्रकृतेश्वत्यर्थः । अत्र शास्त्रेऽन्यत्वं न विवक्षितम् । 1 यद्वा गुणगुणिनोः रूपघटयोरिव सत्त्वादिगुणत्रयप्रकृत्योरन्यत्वमत्र न विवक्षितम् । गुणाः प्रकृतिसम्भवा इति सत्त्वादित्रयप्रकृत्योः कार्यकारणभावस्योन्यमानत्वात्कार्यकारणयोश्चानन्यत्वाद्द्रव्य- गुणयोश्चानन्यत्वादिति भावः । तथाहि कारणतन्तुनाशे कार्य नाशात्तन्तुव्यतिरेकेण पट दर्शनाच्च कारणस्यैव कार्यात्मना परिणामदर्शनाच्च कार्यकारणयोरनन्यत्वं स्फुटम् । अन्धेनापि त्वगिन्द्रियेण रूपव्यतिरेकेण घटस्य गृह्यमाणत्वात्पृथिवीं विनापि प्राणेन गन्धस्य गृह्यमाणत्वाच्च । आमचूतफले समवेतस्य नीलरूपस्य पाकदशायां फलनाशेऽपि नाशसम्भवात् । पीतरूपान्तरस्य फलानुदयेऽप्युत्पत्ति- दर्शनाच्च गुणगुणिनोरन्यत्वं स्फुटम् । तस्माद्धटस्य रूपमिव सत्त्वादयो न प्रकृतेर्गुणाः, किं तु प्रकृतेः परिणामा एव मृदः परिणामो घट इव । अमीषु च प्रकृतिपरिणामेषु सत्त्वादिषु गुणव्यवहारः पारिभाषिकः । नन्वेवं गुणवती प्रकृतिरिति कथं भाष्यते तत्र तत्र भाष्यकारैरेवेति चेदुच्यते– घटवती मृतिकेतिवद्गुणवती प्रकृतिरिति व्यवहारात् । कारणे हि कार्य वर्तते । कारणद्रव्यस्याकारान्तरस्यैव कार्यत्वात् । यथा मृद्रव्यस्य कम्बुग्रीवाद्याकारः कार्ये घट इत्युच्यते । एवं कार्यकारणयोरनन्यत्वादेव कार्यमिध्यात्वं कारणसत्यत्वं च श्रुत्युक्तमुपपद्यते । कारणव्यतिरेकेण कार्यस्यासत्त्वं हि कार्य मिथ्यात्वम् । तस्मात्प्रकृतेरनन्यास्सत्त्वादयः प्रकृतिकार्यभूता न प्रकृतिगुणा इति सत्त्वादिगुणवत्त्वप्रयुक्तं द्रव्यत्वं न प्रकृतेः । प्रकृतिरूपद्रव्याश्रितत्वप्रयुक्तं गुणत्वं च न सत्त्वादीनामिति स्थितम् । यदि जाड्यादिगुण- वत्त्वात्पृथिव्यादिद्रव्योपादानत्वाच्च प्रकृतिर्द्रव्यमेवेत्याग्रहस्तर्हि ज्ञानादिगुणवत्त्वादन्तःकरणाद्युत्पतिप्रति हेतुत्वाच्च सत्त्वादयोऽपि द्रव्याण्येव स्युरिति कथं सत्त्वादीनां गुणत्वं न कथमपीत्यर्थः । नन्वेवं सत्त्वादीनां गुणा इत्येव संज्ञा किमिति कल्पिता डित्यादिसंज्ञाः किमिति न कल्पिता अत आह— गुणा इवेति । यद्वा गुणा इति पारिभाषिक शब्द इत्येकः पक्ष उक्तः । अथ गुणा इत्यौपचारिकः प्रयोग इति पक्षमन्यमाह - गुणा इवेति । ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रिया मुख्यतन्तु’- ष्विति कोशादप्रधाने गुणशब्दो वर्तते । परतन्त्राणां चाप्रधानत्वं प्रसिद्धम् । प्रधानो हि राजादि- चतुर्दशोऽध्यायः । १७१ नित्यपरतन्त्राः क्षेत्रज्ञ प्रत्यविद्यात्मकत्वात्क्षेत्रज्ञ निवनन्तीव । तमास्पदी कृत्यात्मानं प्रति- लभन्त इति निबध्नन्तीत्युच्यते । ते च प्रकृतिसम्भवा भगवन्मायासम्भवा निवन्नन्तीव हे महाबाहो ! महन्तौ समर्थतरावाजा नुप्रलम्बौ बाहू यस्य स महाबाहुः, तस्य सम्बुद्धिः हे महाबाहो ! देहे शरीरे देहिनं देहवन्तमव्ययं, अव्ययत्वं चोक्तम्- ‘अनादित्वा’ दित्यादि- स्स्वतन्त्रः । गृहे खतन्त्रो हि यजमानः प्रधान इत्युच्यते । यथा रूपादिगुणा नित्यमपि द्रव्यमेवाश्रित्य वर्तन्ते न हि घटादिकं विना रूपादिगुणाः पृथगुपलभ्यन्ते ततस्ते द्रव्यपरतन्त्रा एव । द्रव्यसत्ता- भानाधीनसत्ता मानवत्त्वाद्गुणानां तथा सत्तादयोऽपि क्षेत्रज्ञं प्रति नित्यपरतन्त्रा एवं नित्यं क्षेत्रज्ञपरतन्त्रा इत्यर्थः । एवं परतन्त्रत्वात्सत्त्वादयो गुणा इत्युच्यन्त उपचारादिति भावः । ननु सत्त्वादीनां कुतः क्षेत्रज्ञपरतन्त्रत्वमत आह– अविद्यात्मकत्वादिति । विद्या प्रकृतिरात्मा स्वरूपं येषां तत्त्वात् । कार्यस्य कारणात्मकत्वादविद्याकार्याणि सत्त्वादीन्यविद्यात्मकान्येव । अविद्या चाचेतनत्वाच्चितनपरतन्त्रैव- दण्डादिवदित्यविद्यात्मका गुणा अपि चेतनपरतन्त्रा एवेति भावः । यद्वा अविद्यात्मकत्वान्मिथ्याभूतत्वादित्यर्थः । अविद्याया हि मिध्यात्वं स्वरूपं तदात्मकानां सत्त्वादीनां च तदेवेति । एवं मिथ्याभूतास्सत्त्वादयः क्षेत्रज्ञे कल्पितत्वेन तत्सत्ताभानाघीनसत्तामानव वातत्परतन्त्रा एव यथा रज्जुकल्पितसर्पाभासो रज्ज्जघीनसत्त्वादिमत्त्वाद्रज्जुपरतन्त्रस्तद्वदिति भावः । एतेन सत्त्वादिपारतन्त्र्यप्रतिपादनं क्षेत्रज्ञस्याज्ञान विलसितमेवेति सिद्धम् । नचानुभवसिद्धस्य जीवपारतन्त्र्यस्य कथमपलाप इति वाच्यं, नहि वयमज्ञानुभवसिद्धं जीव- पारतन्त्र्यमपलपामः, किंतु विद्वदनुभवसिद्धं जीवपारतन्त्र्याभावं प्रतिपादयाम इति । ननु यद्येवं स्वतन्त्र ईश्वर: क्षेत्रज्ञस्तत्परतन्त्राश्च गुणास्स्सस्वादयः कथं तर्हि ते तं निबध्नन्तीत्यत आह- तमिति । तं गुण कल्पनाधिष्ठानभूतं क्षेत्रज्ञमास्पदीकृत्य आधारीकृत्य आत्मानं स्वरूपं प्रतिलभन्ते प्राप्नुवन्ति । गुणा इति कर्तृपदम् । निरधिष्ठानम्रमा योगात् । यथा सर्पाभासो रज्जुमास्पदीकृत्य स्वप्रतिष्ठां लभते तद्वदिति भावः । विद्यया क्षेत्रज्ञे कल्पिता गुणास्तेनैव भास्यमानाश्च सन्तः गुणास्सन्तीति भान्तीति च प्रतिष्ठां लभन्ते । कथमन्यथा डा मिथ्याभूताश्चेमे गुणा आत्मानं प्रख्यापयेयुरिमे वयं स्म इति । तस्मा- द्गुणानां सत्तास्फुरणे क्षेत्रज्ञाधीन एवेत्यभिसन्धिः । ननु क्षेत्रज्ञमास्पदी कृत्यात्मानं प्रतिलभन्त इति हेतोः कथं निबध्नन्तीत्युच्यत इति चेदुच्यते- आत्मनि कल्पितत्वेन गुणानामात्मस्वरूपावरणद्वारा तन्धकत्वमिति । कल्पितेन ह्यधिष्ठान- स्वरूपं तिरोधाप्यते - सर्पाभासेन रज्जुस्वरूपवत् । तमास्पदी कृत्यात्मानं प्रतिलभमानत्वेन तस्मिन्कल्पिता- स्ते गुणास्तत्स्वरूपावरकत्वात्तं निबध्नन्तीत्युच्यत इति भावः । नचात्मभास्या गुणाः कथमात्मस्वरूपा - वरका इति वाच्यं, सूर्यमास्यस्य राहोर्मेघस्य वा सूर्यस्वरूपाव रकत्वदर्शनात् । ननु यद्यात्मनि कल्पितैर्गुणैरात्मस्वरूपमात्रियते, तर्हि लिप्त एव गुणैरात्मेति कृत्वा कथमुक्तं १७२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु श्लोकेन । ननु ‘देही न लिप्यत’ इत्युक्तं तत्कथमिह निबध्नन्तीत्यन्यथोच्यते ? परिहृत- मस्माभिरिवशब्देन निबध्नन्तीवेति ॥५॥ ‘शरीरस्थोऽपि कौन्तेय ! न करोति न लिप्यत’ इत्येवमाक्षिपति - नन्विति, इवशब्देनेति । वस्तुत आत्मानं न निबध्नन्ति, किं तु निघ्नन्त इव दृश्यन्तेऽज्ञैः । न हि परिपूर्णस्वप्रकाशासङ्गाद्वितीय- चिद्रूपात्मनि गुणास्तत्प्रयुक्तावरणादीनि वा भवितुमर्हन्ति । तस्मात्सर्वमिदं मायामयमेव नतु तात्त्विक - मिति भावगर्भेणेक्शब्देन परिहृतं तद्यदाक्षिप्तं पूर्ववादिभिरिति भावः । निबध्नन्तीवेतीवशब्देनेत्यन्वयः । न चाय परिहार आचार्यैस्स्वकपोलकल्पितः, किंतु- ‘सेयं भगवतो माया यन्न येन विरुद्धयते, ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धन’ मिति भागवते बादरायणेनैव भगवता दर्शित इति बोध्यम् । तस्मात्काल त्रयेऽप्यात्मन्यविद्यागुणसङ्गसंसारादिकं नास्त्येवेति परमार्थः । यत्तु रामानुजः सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभावविशेषाः प्रकाशादिकार्यैकनिरूपणीयाः प्रकृत्यवस्थायामनुद्भूतास्तद्विकारेषु महदादिषूद्भूताः देहिनमेनमव्ययं स्वतो गुणसम्बन्धानर्हे देहे वर्तमानत्वोपाधिना निबध्नन्तीति तत्तुच्छम् - यदि प्रकृतेरस्वरूपानु- बन्धिनस्ते, तर्हि प्रकृतिं कदा चिदपि न त्यजेयुः । प्रकृत्यवस्थायामनुद्भूता इति त्वयैवोच्यते । अतः कथमयं विरोधः परिह्रियेत ? नच गुणसाम्यावस्था हि प्रकृत्यवस्था, तस्यां साम्येन वर्तन्त एव सत्त्वादयः, विषमतया तु महदादिषूद्भूता इति चेत्, मैवम् — घटकपालकर कादयस्सर्वेऽपि मृदि साम्येन वर्तन्त एवेतिवदप्रमाणत्वात्तद्वचनस्य । सत्त्वादीनामन्योन्यवैषम्यं हि स्वरूपं, तेषां साम्यं तु घटकपालादीना- मिव स्वरूपनाशे सत्येव सम्भवति नतु स्वरूपे सति । प्रकाशकत्वरञ्जकत्वमोहकत्वरूपविरुद्धधर्मा- श्रयाणां तेषां कथं साम्यं स्यात् ? दर्शितधर्मरहितायां प्रकृत्यवस्थायां कथं धर्निसत्त्वमनुमातुं शक्यम् !

न च महदादिकार्यगतसत्त्वा दिभिस्तत्कारणप्रकृतिगतसत्त्वा द्यनुमानमिति वाच्यं घटादिकार्य- गतकम्बुग्रीवाद्याकारैर्मृद्यपि कम्बुग्रीवाद्याकाराणामनुमेयत्वापत्तेः । न चेष्टापतिः, प्रत्यक्षविरोधात् । नच कारणगुणानामेव कार्ये संक्रमणान्महदादिगतसत्त्वादिगुणाः प्रकृतिगुणा एवेति वाच्यं, समवायि- कारणगुणानां रूपादीनामेव कार्ये संक्रमणमिति सिद्धान्तात् । नहि रूपादिगुणेषु सत्त्वादयः पठिताः । नाप्यतीन्द्रियाणां तेषां रूपाद्यनुप्रवेशनं न्याय्यम् । रूपादीनामिन्द्रियगम्यत्वात् । किंच प्रकाशादि- कार्यैकनिरूपणीयत्वान्महदादिषु सत्त्वादयस्सन्तु नाम, कथं पुनः प्रकृत्यवस्थायां तत्सत्त्वं तत्प्रयुक्त- प्रकाशादिकार्याभावात् । महदादिद्वारा प्रकृतेस्तद्वत्तासाधनं तु गौरवावहं व्यर्थं च । सत्त्वादिगुणो- स्पादनशक्तियुक्तत्वमात्रेण तु प्रकृतेर्गुणसाम्यावस्थात्वप्रतिपादनं, न तु त्रयो गुणास्तत्र साम्येन सन्तीति तथा सति प्रकाशकत्वादितद्धर्माणामपि साम्येन प्रतीतिप्रसङ्गात् । किंच सत्त्वादीनामुद्भूतत्वं वदता त्वया कार्यत्वमवश्यमभ्युपेय, ब्रूहि कस्य कार्याणि सत्त्वा- दीनि ? न तावत्प्रकृतिकार्याणि - प्रकृतिखरूपानुबन्धित्वात्तेषां गन्धवत्त्वमिव पृथिवी स्वरूपानुबन्धि चतुर्दशोऽध्यायः । १७३ स्वरूपनिरूपकधर्मा हि धर्मिणं कदाचिदपि न त्यजन्तीति वेदान्तदेशिकेनैवोक्तत्वादिह न हत्पत्तेः प्रागसतां सत्त्वादीनां प्रकृतिस्वरूपानुबन्धित्वं सम्भवति, प्रकृतिरनादिर्हि । नापि पुरुषकार्याणि तस्या- कर्तृत्वात् । नापीश्वरकार्याणि - प्रकृतिपुरुषद्वारैवेश्वरस्य कर्तृत्वाभ्युपगमात् । न चैवं सत्त्वादयोऽनादय इति वाच्यं, ‘गुणाः प्रकृतिसम्भवा’ इतीहैवोच्यमानत्वात् । नच प्रकृतौ साम्येन वर्तमाना गुणा वैषम्येण ततो जायन्त इति वाच्यं, साम्येन गुणवर्तनस्य निराकृतत्वात् । समास्सत्त्वादिगुणा अना- दयः, विषमास्तु सादय इति कापि शास्त्रेऽदर्शनात् । न च समास्सत्त्वादिगुणा एव प्रकृतिरिति वाच्यं तथा सति सत्त्वादिगुणातिरिक्तप्रकृतिकल्पनस्य प्रकृतिर्धर्मिपदार्थः, सत्त्वादयस्तु तद्धर्मा इति वादस्य चायुक्तत्वात् । तस्माद्यदि प्रकृतिस्वरूपानुबन्धिस्वभावविशेषास्सत्त्वादयस्तर्हि तेषां प्रकृतेस्सकाशात्सम्भवकथन विरुद्धयते । न हि धर्मिणस्सकाशाज्जायमानः कापि धर्मो दृश्यते । तथा सति धर्मोत्पत्तेः प्राग्धर्मिण एव धर्मित्वस्याभावप्रसङ्गात् । उत्पत्तेः प्रागपि धर्मस्य सत्त्वे तदुत्पत्त्ययोगाच्च । घटात्सकाशादूप- स्योत्पत्तिप्रसङ्गाच्च । धर्मिपरतन्त्रस्य धर्मस्य केवलं जन्मायोगाच्च । नहि निराश्रयो रूपादिः काप्युप- लभ्यते । अथ यदि प्रकृतेस्सकाशाद्गुणानां सम्भवो यथोक्तोऽभ्युपेयते, तर्हि मृदो घट इव प्रकृते- स्सत्त्वादयः परिणामा एव, नतु स्वरूपानुबन्धिधर्मविशेषाः । एवं प्रकृतिपरिणामत्वे सति सत्त्वादीनां द्रव्यत्वमेव स्यान्महदादिवत् । युक्तं च द्रव्यत्वं सत्त्वादीनां ज्ञानादिगुणवत्त्वात् । गुणवत्त्वं हि द्रव्यस्य लक्षणम् । ननु प्रकृतेर्द्रव्यात्सकाशाज्जायमानास्तत्त्वादयो न द्रव्याणि, किं तु गुणा एव, यथाऽन्तः करणा- द्रव्याज्जायमानास्सुखदुःखादयो न द्रव्याणि, किंतु गुणा एव उद्वत् । ततश्च सुखदुःखादीनामन्तःकरण- धर्मत्ववत्सत्त्वादीनां प्रकृतिधर्मत्वं सिद्धयतीति चेत्, मैवम् न वयं द्रव्याद्गुणा न जायन्त इति ब्रूमः, किं तर्हि - ययोर्गुणगुणिनोस्समवायस्सम्मतस्स गुणस्तस्माद्गुणिनो न जायत इति ब्रूमः । ‘सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ इति सत्त्वा दिभ्योऽपि ज्ञानादयो भवन्तीति वक्ष्यमाणत्वाच्च । सुखादीनामन्तकरणधर्मवद्ज्ञानादीनां सत्त्वादि- धर्मत्वाच्च प्रकृतेरसकाशाज्जायमानास्तत्त्वादयोऽन्तःकरणादिवद्रव्याण्येव, न गुणा गुणवत्त्वादिति । ननु यदि सत्त्वादयो द्रव्याणि तर्हि किमिति नोपलभ्येरन्निति चेन्नायं नियमः — यद्द्द्रव्यं तदुपलब्धव्यमिति । प्रकृतेरप्यनुपलभ्याया द्रव्यत्वाभ्युपगमात्तव । यथा महदादिकार्यानुमेया प्रकृतिस्तथा प्रकाशादिकार्यानुमेयास्सत्त्वादय इति । यदि व्यक्तान्येव द्रव्याणीत्युच्येत तर्हि प्रकृतिवत्सत्त्वादिरपि द्रव्यं माभूदव्यक्तत्वात् । न चैवं सत्त्वादीनां द्रव्यत्वे कुतो महदादिषु तदनुप्रवेश इति वाच्यं, यथा प्रकृति- द्रव्यमपि महदादिषु स्वकार्येष्वनुगता तद्वदिति । ननु द्रव्यपरतन्त्रत्वात्सत्त्वादयो गुणा एव नतु द्रव्याणि, शुद्धसत्त्वगुणा माया मलिनसत्त्वगुण अविद्या । अहङ्कारस्त्रिविधः सात्त्विको राजसस्तामसश्चेति । पञ्चभूतसत्त्वांश समष्टिकार्य मन इत्यादि- १७४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु व्यवहारादिति चेत्, मैवम् - परिणामिनः परिणामवत्त्वमुचितं मृद हव घटवत्त्वम् । तथा च घटो मृदी प्रकृतौ सत्त्वादयश्शुद्धा अशुद्धा वा वर्तन्त एव । तेन शुद्धसत्त्वा माया मलिनसत्त्वाऽविद्येति व्यवहार उपपद्यते । सत्त्वस्य शुद्धिर्नाम रज आद्यनभिभूतत्वं तदभिभूतत्वं त्वशुद्धत्वमिति विवेकः । एवमुद्भूतगुणा माया महदाद्यात्मना परिणतेत्यहङ्कारस्य त्रिविधत्वं युक्तम् । तथा भूतानां च सत्त्वादि- गुणवत्त्वं युक्तमिति । • 1 ननु घटात्मना परिणताया मृत्तिकाया अन्यैव मृत्तिका करकात्मना परिणमते । नतु घटाकार- वती सैव मृत्तिका घटाकारानुपमर्देन करकाद्याकारं भजते यथा तथा सत्त्वाद्याकारपरिणतायाः प्रकृते- रन्यैव महदाद्याकारेण परिणमेत । नतु सैव सत्त्वादिगुणाकारानुपमर्देन महदाद्याकारं भजते । एवंसति महदादिकार्याणां प्रकृतिमयत्वे सत्यपि न सत्त्वादिमयत्वं स्यादिति चेत्, मैवम् – जलसंयोगात्पिण्डा- कारेण परिणतो यश्चूर्णपुञ्जस्स एव घटाद्याकारेण परिणमते न त्वपिण्डाकारः । एवमीश्वरसङ्कल्पा- त्सत्त्वादिगुणत्रयाकारेण परिणामं प्राप्ता या प्रकृतिस्सैव महदाद्याकारेण परिणमते, न त्वन्या । प्रलयेपि प्रपञ्चप्रसङ्गात् । प्रलये ह्यपरिणता सत्त्वादिरूपेण प्रकृतिरस्ति । अत एव गुणसाम्यावस्था प्रकृतिरिति प्रवादः । तदानीं सत्त्वादिगुणाभावात्प्रकृतौ । एवं गुणत्रयाकारपरिणतप्रकृतिपरिणामत्वान्महदादीनां गुणत्रयवत्त्वमिति । नच पिण्डाकारपरिणतमृत्कार्येष्वपि घटादिषु पिण्डवत्त्वं नोपलभ्यत इति वाच्यं, चूर्णपुञ्जमेलनविशेषो हि पिण्डः । किं घटे अमिलितचूर्णपुञ्जः कापि दृश्यते ? किंतु मिलित एव । तादृशमिलितचूर्णपुञ्जवत्त्वमेव पिण्डवत्त्वं घटस्येति । तस्मात्प्रकृतेः प्रथमो विकारस्सत्त्वादिगुणत्रयम् । सत्त्वादिरूपविकृतप्रकृतिविकारास्तु महदादय इति सिद्धं सत्त्वादित्रयस्य प्रकृतिविकारत्वेन प्रकृतिव- द्रव्यत्वम् । अत एवोक्तं- ‘गुणाः प्रकृतिसम्भवा’ इति । कथमन्यथा सत्त्वादिसमवेत प्रकृतिकार्यत्वं स्यात्सत्त्वादेः रूपसमवेतघटकार्यत्वमिव रूपस्य । तस्मात्सिद्धं सत्त्वादीनां रूपादिवदगुणत्वम् । यदि सत्त्वादिषु गुणत्वलोभेन प्रकृतिसमवेतत्वं त्यज्यते तर्हि सत्त्वादीनां प्रकृतिस्वरूपनिरूपकधर्मत्वं नैव स्यात् । नहि कपिसंयोगो वृक्षस्य स्वरूपनिरूपकधर्मः स्यात्, येन सत्त्वादिगुणसंयोगः प्रकृतेः स्वरूपनिरूपकधर्मः स्यात् । नन्वेवं मूलप्रकृतेर्महदाद्याकारपरिणामवत्सत्त्वाद्याकारपरिणामे सति- ‘मूलप्रकृतिरविकृति’ रिति साङ्ख्यकारिकायां सत्त्वादयः कुतो नोक्ता इति चेत् पृच्छ साङ्ख्यम् — नहि वयं साङ्ख्याः । एव- मादिदोषवशादेव हि साङ्ख्यदर्शनमप्रमाणमिति वयं ब्रूमः । नच सत्त्वाद्याकारपरिणतप्रकृतिरेव मह- दादिहेतुत्वेन मूलप्रकृति रितिग्रहणे साङ्ख्यमतं न दुष्यतीति वाच्यं तादृशप्रकृतेर्विकृतित्वेना विकृतित्वा- भावा’न्मूलप्रकृतिरविकृति ‘रिति विशेषितत्वाच्च । तस्मात्प्रकृत्यज्ञानाव्यक्तशक्त्य विद्यामायादिपर्यांयचत ईश्वरस्वभावस्य परिणामविशेषा एव सत्त्वादयो नतु गुणाः । नन्वन्तःकरणपरिणाम सुखादिवृत्तीनां गुणत्वात्प्रकृतिपरिणामसत्तदित्रयस्य गुणत्वमस्त्विति चेत्, मैवम् — दृष्टान्तासम्प्रतिपत्तेः । न धन्तःकरणपरिणामा वृत्तीर्वयं गुणा इति ब्रूमः, किं तन्त:कर-चतुर्दशोऽध्यायः । तत्र सच्वादीनां सच्चस्यैव तावलक्षणमुच्यते- तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ! ||६|| १७५ तत्रेति । निर्मलत्वात्स्पटिकमणिरिव प्रकाशकमनामयं निरुपद्रवं सवं बध्नाति । णात्मकत्वाद्रव्याण्येव । नहि द्रव्यस्य क्वापि गुणाकारेण परिणाम उचितः । कार्यकारणयोरसालक्षण्य- नियमात् । नन्वेवं शुक्लादिगुणाः किं कस्यापि विकारा उत न ? आधे- यस्य विकारास्ते तत्कि द्रव्य- सुतान्यत् ? द्रव्यत्वे कथं द्रव्यस्य गुणरूपेण परिणामः ? अन्यत्तु नास्त्येव । द्वितीये - रूपादीनां जायमानत्वेन प्रसिद्धानामनादित्वमयुक्तमप्रमाणं चेति चेत्, मैवम् — शुक्लादिगुणा द्रव्याश्रितास्सन्त एव जायन्ते, नतु पृथक् । तथा सति वाय्वाकारपरिणतप्रकृतेरसकाशात्तेजोद्रव्यं जायते तच्च सरूपं जायत इति नात्र कार्यकारणवैलक्षण्यप्रसङ्गः । वायुतेजसोर्द्रव्यत्वादुभयोरपि । नच सरूपत्वनीरूपत्वाभ्यां “वैलक्षण्यमिति वाच्यं, अत्यन्ता भेदे कार्यकारणयोः कार्यकारणभावस्यैवाभावप्रसङ्गात् । कारणे आकाशेऽ- विद्यमानस्यापि स्पर्शगुणस्य कार्ये वायौ प्रादुर्भावदर्शनाच्च । नन्वेवं नीरूपद्रव्यस्य सरूपद्रव्याकारपरिणामेऽपि द्रव्यस्य गुणाकार परिणामस्सिद्ध इति चेत् मैवम् — तत्र द्रव्यांश एव परिणतत्वं, गुणांशे तु विवर्तत्वमेवेति । नच कारणे वाय्वादावप्यनुद्भूत- रूपमस्तीति वाच्यं, अनुद्भुतत्वेना दृश्यमानस्य रूपस्य सत्त्वे मानाभावात् । एवमात्मन्यप्यनुद्भूतरूप- सत्त्वकल्पनप्रसङ्गात् । तस्य च ‘अशब्दम स्पर्शमरूपमव्यय’ मित्यादिशास्त्रविरोधात् । अनुदूतरूपाभ्युप- गमेपि तस्यैवोद्भूतरूपत्वेन परिणामो नतु द्रव्यस्येति सिद्धत्वाच्च । तस्मान्न सत्त्वादयो गुणाः, किंतु महदादिवत्प्रकृत्यवस्था विशेषा एव । यच्च सत्त्वादीनामगुणत्वे गुणशब्दप्रसिद्धिर्विरुद्धेति वेदान्तदेशिकः, तदयुक्तम् — गुणशब्द- प्रसिद्धेः पारिभाषिकत्वेनैवोपपन्नत्वात् । शास्त्रं धनादिकालात्प्रवृत्तं तद्बलाच्च सत्त्वादीनां गुणशब्दप्रसिद्धिः । यथा मायायाः प्रकृत्यादिशब्दप्रसिद्धिः । नहि शास्त्रं विना मायायाः प्रकृत्यादिशब्दप्रसिद्धिमपि जानीयुः केपि ? तस्माच्छास्त्रसिद्ध एवायमिति नाप्रसिद्धः । यच्च देहे वर्तमानत्वोपाधिना निबध्नन्तीति, तदप्ययुक्तम् - घटे वर्तमानत्वोपाधिना गगनस्य घटकृतबन्धाभावाज्जीवस्यापि देहाश्रयगुणकृतबन्धायोगात् । स्वतो बन्धानर्हमिति हि त्वयैवोच्यते । शरीरस्थत्वं च न बन्धहेतुरिति- ‘शरीरस्थोपि कौन्तेय ! न करोति न लिप्यत’ इत्यनेनोक्तं भगवतैव । तस्मादलेपकस्य बद्धत्वं दुर्घटमेव ॥ ५ ॥ 1 तत्त्रेति । हे अनघ । तत्र निर्मलत्वात्प्रकाशकमनामयं सत्त्वं सुखसङ्गेन ज्ञानसंगेन च देहिनं बध्नाति । तत्र सत्त्वादीनां मध्य इत्यर्थः । तावदादावित्यर्थः लक्षणमिति । स्वरूपमित्यर्थः । ૨૭૬ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कथम् ? सुखसङ्गेन ‘मुख्यह’ मिति विषयभूतस्य सुखस्य विषयिण्यात्मनि संश्लेषापादनं मृषैव सुखे संजनमिति सैषाविद्या, न हि विषयधर्मो विषयिणो भवति । इच्छादि च धृत्यन्तं क्षेत्रस्यैव विषयस्य धर्म इत्युक्तं भगवता । अतोऽविद्ययैव स्वकीयधर्मभूतया विषयविष- य्यविवेकलक्षणयाऽस्वात्मभूते सुखे संजयतीव सक्तमिव करोति, असङ्गं सक्तमिव करोति, येनोक्तेन धर्मजातेन सत्त्वं लक्ष्यते तदिति वा । प्रकाशकत्वे सत्यात्मनि ज्ञानसुखा सञ्जकत्वं सत्त्वस्य लक्षणम् । आत्मन्यतिव्याप्तिवारणाय विशेष्यदलम् | अविद्यायामतिव्याप्तिवारणाय प्रकाशकत्वे सतीति विशेषणम् । यदि सत्त्वमप्यविद्यैवेति मतं, तर्हि स्वरूपकथनमात्रपरमेव, तन्न व्यावर्तकमिति बोध्यम् । सत्त्वस्य प्रकाशकत्वे हेतुर्निर्मलत्वादिति । सत्त्वं प्रकाशकं निर्मलत्वात्स्फटिकमणिवदिति । एवं प्रकाश- कत्वादेवाऽनामयं, निर्गच्छत्युपद्रवो यस्मान्निरुपद्रवम् । सत्त्वं निरुपद्रव प्रकाशकत्वादातपवद्यतिरेके- णान्धकारवच्च । सत्त्वे प्रवृद्धे सति शमदमादिद्वारा ज्ञानं सम्पादयितुं शक्यत्र इति हेतोर्निरुपद्रवत्व- मुक्तं सत्त्वस्य । एतेन प्रकाशकत्वं, निरुपद्रवत्वं, ज्ञानसुखासञ्जकत्वं चेति त्रीणि सत्त्वस्य लक्षणभूता धर्मा इति सिद्धम् । बध्नाति देद्दिनमिति शेषः । बन्धनप्रकारं दर्शयितुमाक्षिपति – कथमिति, सुख- सङ्गेनेति । सुखसङ्गजननेनेत्यर्थः । इदमेवाह - सुखस्य संश्लेषापादनेनेति । कीदृशस्य सुखस्य कुत्र संश्लेषापादनमत आह– विषयभूतस्य सुखस्य विषयिण्यात्मनीति । कथं विषयभूतत्वं सुखस्येत्यत आह — सुख्यहमिति । सुख्यहमिति प्रतीतौ हि सुखं विषयभूतमात्मा तु विषयिभूत इति भावः । आत्मवेद्यत्वात्सुखस्यात्मविषयत्वं, सुखवेदितृत्वादात्मनस्सुखविषयित्वं चेति बोध्यम् । संश्लेषापादनमेवाभिनीय दर्शयति-मवैवं सुखं संजातमिति । यथा पुरुषस्य ममैव सुखं सञ्जातमिति प्रत्ययस्यात्तथा पुरुषे विषयिणि विषयभूतं सुखमा सञ्जयतीति भावः । किमिदमासञ्जनं सत्यमत आह- मृषैवेति । सत्त्वकर्तृकमात्माघिष्ठानकं सुखासञ्जनं मिथ्यैवेत्यर्थः । एवं मिथ्यात्वादेव सुखासञ्जनमविद्येत्याह — सैषेति । विधेयप्राधान्यात्स्त्रीत्वम् । तदिदं सुखसञ्जनमविद्येत्यर्थः । यद्वा ममैव सुखं सञ्जातमिति सैषा प्रतीतिरविद्येत्यर्थः । तदेवोपपादयति-नहीति । विषयस्यान्तःकरणस्य धर्मस्सुखं विषयिणो न भवति हि । विषयस्य घटस्य धर्मो यथा जाड्यादिर्विषयिणो द्रष्टुर्न भवति तद्वदिति भावः । ननु सुखं न विषयधर्मः, किंतु विषयिधर्म एव । सुख्यहमिति प्रतीतेरत आह– इच्छादीति । अतस्सुखसञ्जनस्य मृषात्वादित्यर्थः । सत्त्वमिति कर्तुश्शेषः । अविद्ययैव सुखे आत्मानं सञ्जयतीवे- त्यन्वयः। सञ्जनहेतुरविद्या । किमियमविद्या मूलाज्ञानमुत तूलाज्ञानमत आह – स्वकीयधर्मभूतयेति । स्वशब्दस्सत्त्वगुणपरः । अविद्याया लक्षणमाह-विषयेति । विषयविषयिणोर्मन आत्मनो र विवेको- विवेकाभाव एव लक्षणं स्वरूपं यस्यास्तया तथोक्तया । कीदृश सुखमत आह— अस्वात्मभूत इति । २३ चतुर्दशोऽध्यायः । १७७ असुखिनं सुखिनमिव । तथा ज्ञानसङ्गेन च, ज्ञानमिति सुखसाहचर्यात्क्षेत्रस्यैव विषय- स्यान्तःकरणस्य धर्मः, नात्मनः । आत्मधर्मत्वे सङ्गानुपपत्तेः, बन्धानुपपत्तेश्च । सुख इव ज्ञानादौ सङ्गो मन्तव्यः । हे अनघ ! अव्यसन ! ॥६॥ रजो रागात्मकं विद्धि तृष्णाऽऽसङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय ! कर्मसङ्गेन देहिनम् ॥७॥ रज इति । रजो रागात्मकं रंजनाद्रागो गैरिकादिवद्रागात्मकं विद्धि विजानीहि । अस्वधर्मभूत इत्यर्थः । अस्वरूपभूत इति वा । नेदं सुखमात्मनः स्वरूपभूत आनन्दः, किंतु मनोवृत्ति- प्रतिफलितानन्द एवेति भावः । सञ्जयतेरर्थमाह- असङ्गं सक्तमिति । इवशब्दान्न वस्तुत इति भावः । निर्धर्मकेऽसङ्गे आत्मनि सुखसङ्गायोगादिति भावः । कथमसङ्गं सक्तमिव करोतीत्यत आह- असुखिनं सुखिनमिवेति । असुखिनं सुखरहितमात्मानं सुखिनमिव करोति । सत्त्वं कर्तृ । अयमर्थः - सत्त्वगुणप्रयुक्तादात्मानात्मविवेकादनात्मधर्मं सुखमात्मन्यध्यस्य सुख्यहमिति प्रत्ये- त्यविद्वानिति । ततश्च बद्ध इव भवतीति ज्ञानमत्र न चैतन्यं तस्यात्मधर्मत्वेन मनोधर्मसुखसाहचर्या मनो- धर्मवृत्तिज्ञानस्यैव प्राह्यत्वेन च चैतन्याग्रहणात् । साहचर्यादिति । सहचरितासहचरितयोस्सहचरितस्यैव ग्रहणमिति न्यायादिति भावः । क्षेत्रस्यैव विषुयस्य जडस्यान्तःकरणस्य धर्मों वृत्त्यात्मकं ज्ञानमित्यन्वयः । अन्तःकरणस्य विषयात्मना परिणामो वृत्तिः । एवकारार्थमाह - नात्मन इति । आत्मनो धर्मभूतं चैतन्यं नेह ज्ञानशब्देनोच्यत इत्यर्थः । वृत्त्यात्मकं ज्ञानमन्तःकरणस्यैव घर्मो नात्मन इति वा । कुतो वृति- ज्ञानस्य नात्मधर्मश्वमत आह— आत्मेति । यदि वृत्तिज्ञानमप्यात्मधर्मः स्यातर्हि तेनात्मनस्सङ्गो न स्यात् । सङ्गात्प्रागेव तस्य सिद्धत्वात् । नहि वृक्षस्य कपिसङ्गवशाज्जाड्यसङ्गोऽस्तीति वक्तुं शक्यते । तथाऽन्यधर्मस्यान्यत्राध्यासाद्बन्धः, नतु स्वधर्मस्य कापि बन्धकत्वमित्याह — बन्धानुपपत्तेश्चेति । " 1 एतेन ज्ञानशब्देन चैतन्यग्रहणे चैतन्येन सहात्मनस्सङ्गानुपपतिः । चैतन्यस्य बन्धकत्वाभावा- इन्धानुपपत्तिश्चेति सूचितम् । नन्वनात्मधर्मेण ज्ञानेन कथमात्मनस्सङ्गोऽत माह – सुख इवेति । आध्यासिक एव सङ्गो न तात्त्विक इति भावः । आदिपदाद्रागादिग्रहणम् । सत्त्वगुणप्रयुक्तादात्मा- नात्मा विवेकादनात्मधर्मं ज्ञानमात्मन्यध्यस्य ज्ञान्यहमिति प्रत्येत्यविद्वांस्ततश्च बद्ध इव भक्तीतीहाप्यर्थो बोद्धव्यः ।

यत्तु रामानुजः सत्त्वं पुरुषस्य ज्ञानसुखयोस्सत्यमेव सङ्गं जनयतीति, तदयुक्तम् — निर्घ- र्मकेऽसङ्गे चात्मनि सत्यसुखज्ञानसङ्गासम्भवात् । नच मिथ्याभूतोऽपि सङ्गो न युक्त इति वाच्यं, गगने नीरूपेपि नैल्यस्य मिथ्याभूतस्य दर्शनात् ||६|| रज इति । रजो रागात्मकं विद्धि । तृष्णाऽऽसङ्गसमुद्भवं तत्कर्मसङ्गेन देहिनं निबध्नाति । यद्वा रजो रागात्मकं तृष्णासङ्गसमुद्भवं च विद्धि । तृष्णासङ्गसमुद्भवं रजो रागात्मकं विद्धीति वा । १७८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ज S तृष्णाऽऽसङ्गसमुद्भव तृष्णाऽप्राप्ताभिलाषः, आसङ्गः प्राप्त विषये मनसः प्रीतिलक्षणस्स श्लेषः, तृष्णाऽऽसङ्गयोस्समुद्भव तृष्णाऽऽसङ्गसमुद्भवम् । तनिभाति तद्रजी निबंधाति कौन्तेय कर्म- सङ्गेन दृष्टादृष्टार्थेषु कर्मसु संजनं तत्परता कर्मसङ्गः, तेन निर्वभाति रजी देहिनम् ॥ तमस्त्वज्ञानजं विद्धि मोहन सर्वदेहिनाम् For प्रमादालस्यनिद्राभिस्तन्नित्रभात भारत ! ॥ SIN

. तम इति । तमस्तृतीयो गुणोऽज्ञानजमज्ञानाज्जातमज्ञान विद्धि, मोहन मोहकर- रागात्मकं रजो तृष्णासङ्गसमुद्भवं विद्धीति वा । राग आत्मा स्वरूप यस्य तद्रागात्मकम् । रगिशब्द- व्युत्पत्तिमाह रंजनाद्राग इति । दृष्टान्तमाह – गैरिकादिवदिति । यथा गैरिकादिधातुरसः पटादे रञ्जकस्तद्वदयं मनस इति भावः । रञ्जकत्वे सति दे देनो कर्मास कत्वं रजसो लक्षणम् । कथ रज- कत्वमत आहे तृष्णेति तृष्णास जननद्वारा रखकर रजत इत्यथा वस्तुम्यभिलाष- स्तृष्णा प्राप्ते वस्तुनि मनसः प्रीतिं लक्षणस्संश्लेष आसङ्ग आसक्तिरिति यावत् । द्वेष्ट पशुपुत्रादयः, अदृष्टास्स्वर्गर्दियश्च दृष्टादृष्ट अर्थाः फलानि येषां तेषु दृष्टोदृष्टादिषु दृष्टार्थेष्वर्थेषु गचेत्यर्थः । कर्मसु कृप्यादिषु’ इष्ट्यादिषु च यत्सजन सक्तिस्तात्पर्यमिति यावत् । सकर्मसङ्गः तेन कर्मसङ्गेन ‘कर्मसु सक्तिजननद्वारेत्यर्थः । अन्वय दर्शयति — निवन्नाति रजो देहिनमिति । रजो देहिनं निवनात वेत्यर्थः ॥ रजोगुणेप्रयुक्तादात्मानात्माविवेकान्मनोधर्मो तृष्णाऽसावात्मन्यध्यस्य देहानाश्रयं कर्मचात्मन्यभ्यस्यास्मै फैलायाहमिदं करोमीति प्रत्येत्ये विद्वान् । ततश्च तत्कालमनुभवन् बद्ध द्रव भातीति परमार्थः । | रामानुजस्तु रामो योषित्पुरुषयोरन्योन्यस्पृहा, तद्धेतुलाद्रागात्मकः । तृष्णा शब्दादिसर्व- विषयगृहास पुत्रमित्रादिषु संम्ब संश्लेषस्पृहा, तथा देहिन कर्मसु पाजून नद्वारेण, रजो निबध्नातीति, तन्मन्दम् — एकस्या एव स्पृहाया विषयभेदेन बहुधा निर्देशस्य फलाभावात् । शब्दादि- सर्वविषयस्पृहातिरिक्त योषित्पुरुषान्योन्यस्पृहाद्यभावाच ॥७॥ तम इति । अज्ञानजं तमस्तु सर्वदेहिनां मोहनं विद्धि । तमस्त्वज्ञान सर्वदेहिनां मोहनं च विद्धीति वा । तत्प्रमादालस्यनिद्राभिर्देहिनं निबध्नाति । अज्ञानं ज्ञानाभावः नतु प्रकृतिः । सत्त्व- रजसोरपि प्रकृतिजत्वांशेऽविशेषात् । ‘गुणाः प्रकृतिसम्भवा’ इति हयुक्तम् । नचाभावात्कथं भाव- स्योत्पत्तिरिति वाच्यं ज्ञानाभाववत्प्रकृतिजत्वेन ज्ञानाभावजत्वव्यपदेशात् । यद्वा चिदाभासशून्यमज्ञानं केवलमिहाज्ञानशब्देन विवक्षितं, सत्त्वरजसोः कारणमज्ञानं तु चिदाभासरहितम् । कथमन्यथा सत्त्व- रजसोरपि चिदाभाससाहित्यप्रयुक्तं ज्ञानं स्यात् । नच सत्त्वादेव ज्ञानं न तु रजस इति वाच्यं, तृष्णा- दीनामपि ज्ञानविशेषत्वात् । नचैवं ज्ञानसङ्गेन देहिबन्धकत्वं रजसोऽप्यस्तीति वाच्यं, ज्ञानसत्र- प्रयुक्तकर्मसङ्गेन बन्धकत्वं रजस इति विशेषात् । तृष्णा सङ्क्रयतिरिक्तज्ञानसङ्गेन सत्त्वं बध्नातीति विशेषादिति वा । चतुर्दशोऽध्यायः । १७९ मविवेककरं सर्वदेहिनां सर्वेषां देहवताम् । प्रमादालस्य निद्राभिः प्रमादश्यालस्य च निद्रा च प्रमादालस्यनिद्राः, ताभिः प्रमादालस्यनिद्राभिस्तत्तमो निबध्नाति हे भारत ! ॥८॥ पुनर्गुणानां व्यापारस्संक्षेपत उच्यते- सत्त्वं सुखे संजयति रजः कर्मणि भारत ! ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत ||९|| सत्त्वमिति । सत्त्वं सुखे संजयति संश्लेषयति, रजः कर्मणि हे भारत । संजयती- त्यनुवर्तते । ज्ञानं सच्त्रकृतं विवेकमावृत्याच्छाद्य तु तमस्स्वेनावरणात्मना प्रमादे संजयति; उत प्रमादोनाम प्राप्तकर्तव्याकरणम् ॥९॥ वस्तुतस्तु आवरणात्मक आवरणशक्तिप्रधानो वा प्रकृत्यंशोऽत्राज्ञानशब्देन विवक्षित इति वेद्यम् । मोहनमिति । आत्मानात्मा विवेको मोहः । ननु सत्त्वरजसोरप्यस्त्येवेदं मोहकत्वमिति चेत्सत्यमस्ति । किं त्वयमात्माऽयमनात्मेति विवेकाभावसत्त्वादिप्रयुक्तः । आत्मानात्माख्यपदार्थ- ज्ञानाभावस्तु तमः प्रयुक्त इति भेदः । अविवेककरमिति । ज्ञानाभवजनकमित्यर्थः । मोहनं भ्रान्ति- जनकमिति श्रीधरः । प्रमादोऽनवधानता । आलस्यं मान्यम्। निद्रा सुप्तिः । मोहकत्वे सति प्रमा- दालस्य निद्राभिरात्मनो बन्धकत्वं तमसो लक्षणम् । तमोगुण प्रयुक्तादविवेकादनात्मधर्मान् प्रमादालस्यनिद्रा श्रात्मन्यध्यस्य प्रमत्तोऽहमलसोऽहं सुप्तोऽहमिति प्रत्येत्यविद्वान्, ततश्च बद्ध इव भवतीति परमार्थः । –प्रमादालस्यनिद्राश्वान्तःकरणणधर्मा इति बोध्यम् । नच निद्रायामन्तःकरणस्यैवाभावात्कथं निद्रायास्तद्ध- मत्वमिति वाच्यं, अन्तःकरणस्य प्रकृतौ, निलीयावस्थानस्यैव निद्रात्वेन अन्तःकरण निलयनावस्था निद्रा मन्तःकरणधर्म.. एवेति: । =. 1 श्लोकत्रयस्यायमभिप्रायः - प्रकृत्तिकार्येऽन्तःकरणे सत्त्वादिगुणत्रयमनुगतमस्ति । तत्रान्तः- करणे गुणत्रयवति यत्सत्त्वांश तत्कार्ये सुखज्ञाने ते चाविद्यया आत्मन्यध्यस्ते भूत्वा बन्धके भवत ‘इवात्मन: । ‘यो’ रजोंश:’ कायै तृष्णाऽसङ्गौ तत्प्रयुक्तं कर्म च तत्कार्य तत्रयमप्यविद्यया आत्म- न्यष्यस्तं सहून्धकमिवात्मनः । यश्च तमशः, तत्कार्याणि - मोहप्रमादालस्यनिद्रा :- ताश्वाविद्ययाऽऽत्म- न्यध्यस्ता सत्य आत्मनो बन्धका इवेति । सर्वोऽप्ययमात्मबन्धोऽविद्यामयत्वान्मृषैव, न वास्तव इतीव- शब्दाभिप्राय इति ॥८॥ " P .. सच्चमिति । देहिनमिति शेषः । सत्त्वं सुखे सञ्जयतिं । रजः कर्मणि सञ्जयति । तमस्तु -ज्ञानमावृत्य प्रमादे सञ्जयत्युतः संश्लेषयति सङ्गमयतीवेत्यर्थः । केनानृत्येत्यत आह- स्वेनेति । किंरूपेण स्वेनेत्यत आह– आवरणात्मनेति । स्वस्वरूपेणैवावृत्येत्यर्थः । आवारकृत्वा स्वस्वरूपस्य तमस इति भावः । व्यवरणात्मकं हि तमः प्रकाशात्मकं तु सत्त्वं रांगात्मकं तु रज इति बोध्यम् । प्रमादशब्दार्थमाह-प्राप्तेति । प्राप्त शास्त्रादज्ञस्य प्राप्तं यत्कर्तव्य कर्म तस्याकरणं प्रमाद इत्युच्यते । १८० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु उक्त कार्य कदा कुर्वन्ति गुणा इति, उच्यते- रजस्तमश्चाभिभूय सत्त्वं भवति भारत ! रजस्सच्वं तमश्चैव तमस्सत्त्वं रजस्तथा ॥ १० ॥ रज इति । रजस्तमश्वोभावप्यभिभूय सत्त्वं भवत्युद्भवति वर्धते यदा तदा लब्धात्मकं सत्त्वं स्वकार्य ज्ञानसुखादि आरभते हे भारत ! तथा रजोगुणस्सच्त्वं तमचैवोभावप्यभिभूय वर्धते यदा तदा कर्म कृष्यादि स्वकार्यमारभते । तम आख्यो गुणस्सत्त्वं रजश्चो भावप्यभिभूय तथैव वर्धते यदा तदा ज्ञानावरणादि स्वकार्यमारभते ॥ १० ॥ यदा यो गुण उद्भूतो भवति, तदा तस्य किं लिङ्गमिति, उच्यते- सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ ११ ॥

सर्वेति । सर्वद्वारेष्वात्मन उपलब्धिद्वाराणि श्रोत्रादीनि सर्वाणि करणानि तेषु द्वारे- ध्वन्तःकरणस्य बुद्धेर्वृत्तिः प्रकाशो देहेऽस्मिन्नुपजायते । तदेव ज्ञानं यदैवं प्रकाशो इदमेव नवधाननाम यत्कर्तव्यस्य कर्मणोऽकरणम् । कर्तव्यात्कर्मणोऽन्यत्र प्रवृत्तिहेतुभूतमनवधान प्रमाद इति रामानुजः, तन्मन्दम् — कर्तव्याकरणस्यैवानवधानत्वेन तदन्यत्र प्रवृत्तिहेतुरन वधान मिति कल्पनस्यान्याय्यत्वात् । यो ह्यनवहितचित्तस्स प्राप्तमेव न करोति, किं पुनरप्राप्तं न करोतीति ॥९॥ रज इति । हे भारत ! सत्त्वं कर्तृ रजस्तमश्चाभिभूय भवति । रजः कर्तृ सत्त्वं तम- वाभिभूय भवति । तथा तमः कर्तृ सत्त्वं रजश्चाभिभूय भवति । यदा तदा सत्त्वादयस्वस्वं कार्य- मारभन्त इति वाक्यशेषः । अभिभूय तिरस्कृत्य । उद्भवतीति । ननु प्रागेव सिद्धस्य कथं पुन- रुद्रवोऽत आह- वर्धत इति । लब्धात्मकं प्राप्तप्रतिष्ठम् । आरभते जनयति । रामानुजस्तु – सत्त्वादयः प्रकृतिसंसृष्टात्मस्वरूपानुबन्धिन इत्युक्तवान् तत्तु देहाकारपरिणत- प्रकृतिस्वरूपानुबन्धिनस्तत्त्वादयो गुणा इति । तदीयेनैव वचनेन पराहतम् । न हि प्रकृतिस्वरूपानु- बन्धिनो गुणाः प्रकृतिविलक्षणात्मस्वरूपानुबन्धिनो भवितुमर्हन्ति । नाप्यात्मस्वरूपस्य प्रकृति संसृष्टत्व. मस्ति - असङ्गत्वादात्मनो निरवयवत्वाच्च ॥१०॥ सर्वेति । उद्भूतः प्रवृद्धस्तस्य प्रवृद्धगुणस्य गुणवृद्धेरिति वा । लिङ्गं चिह्नं ज्ञापकमिति यावत् । इति शङ्कायामुच्यते सर्वद्वारेष्विति श्लोकः । यदाऽस्मिन्देहे सर्वद्वारेषु प्रकाशो ज्ञान- सुपजायते तदा सत्त्वं विवृद्धमिति विद्यादुतोपलब्धिर्घटादिज्ञानं तद्द्वाराणि चक्षुरादिद्वारेण निर्ग- तान्तःकरणवृत्त्या हि घटादिकं विषयमुपलभत मात्मा प्रमाता । सर्वेषु द्वारेष्विति न युगपत्, किंतु क्रमेणेति भावः । न ह्येकमेवान्तःकरणं युगपत्सर्वद्वारेभ्यो निर्गत्य शब्दस्पर्शादिसर्वविषयाकारेण परि- गन्तुमीष्टे । युगपत्सर्वेन्द्रियज्ञानानुत्पत्तिर्हि मनसो लिङ्गमिति वृद्धव्यवहारात् । प्रकाशशब्दार्थमाह — बुद्धेर्व्याप्तिरिति, तदेवेति । प्रकाश एवेत्यर्थः । क्लीवत्वं तु चतुर्दशोऽध्यायः । . १८१ ज्ञानाख्य उपजायते, तदा ज्ञानप्रकाशेन लिङ्गेन विद्याद्विवृद्धमुद्भूतं सच्चमित्युतापि ॥ ११ ॥ रजस उद्भूतस्येदं चिह्नम् - लोभः प्रवृत्तिरारम्भः कर्मणामशमस्स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ! ॥ १२ ॥ लोभ हति । लोभः परद्रव्यादित्सा, प्रवृत्तिः प्रवर्तनं सामान्यचेष्टा, आरम्भ उद्यमः, केषाम् ? कर्मणाम् । अशमोऽनुपशमो हर्षरागादिप्रवृत्ति:, स्पृहा सर्वसामान्यवस्तुविषया तृष्णा - रजसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे भरतर्षभ । ॥ १२ ॥ अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ! ॥ १३ ॥ अप्रकाश इति । अप्रकाशोऽविवेकः, अत्यन्तमप्रवृत्तिश्च प्रवृत्त्यभावः, तत्कार्य प्रमादः, मोह एव चाविवेको मूढतेत्यर्थः । तमसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते ‘हे कुरुनन्दन! ॥१३॥ सामान्यात् । प्रकाश इति यद्वस्तु तदेवेति वा । प्रकाशनमेवेति वा । ज्ञानमिति । वृतिज्ञान- मित्यर्थः । ज्ञानप्रकाशेनेति । ज्ञानाख्यप्रकाशेनेत्यर्थः । सूर्यादिनाश गवृत्त्यर्थं ज्ञानविशेषणम् प्रकाशो बुद्धिव्याप्तिस्स एव ज्ञानमिति, ज्ञानस्य प्रकाशत्वविशेषणं तु चैव न्यव्यावृत्त्यर्थमिति बोध्यम् । तस्मान्नान्यतरवैयर्थ्यमन्यतरवैयर्थ्यमेव हि पुनरुक्तिदोषबीजं तस्मान्न पौनरुक्त्यम् । उतेत्यव्ययस्यार्थ - माह - अपीति । चेत्यर्थः । यत्तु रामानुजः - वस्तुयाथात्म्यप्रकाशे ज्ञानमुपजायत इति, तन्मन्दम् — वस्तुयाथात्म्य- प्रकाशस्यैव ज्ञानत्वेन ज्ञानप्रकाशयो राधाराधेयभावायोगाद्विषयविषयिभावायोगाच्च ॥ ११ ॥ लोभ इति । हे भरतर्षभ ! रजसि विवृद्धे सति लोभः प्रवृत्तिः कर्मणामाम्भोऽशमः स्पृहा इत्येतानि जायन्ते । लिप्सा लब्धुमिच्छा । आरम्भपवृत्त्योस्सामान्यविशेषाभावाद्भेद इत्याह- सामान्यचेष्टेति । गमनादिसामान्यव्यापारः प्रवृत्तिः, यज्ञादिकर्म विशेषव्यापार आरम्भ इति विवेकः । कर्मणामिति । यज्ञादीनामित्यर्थः । उपशमो निवृत्तिः, तदभावोऽनुवंशमः । फलितार्थमाह- हर्षेति । हर्षरागादिविषयेषु प्रवृत्तिरशम इत्यर्थः । सर्वसामान्यवस्तूनि शब्दादयः । येषु सर्वेषां जन्तूनामभिलाषः । लिङ्गानीति । ज्ञापकानि कार्याणीत्यर्थः । कार्येण हि कारणमनुमीयत इति कारणस्य कार्य लिङ्गं वह्नेर्धूमवत् । लोभः स्वकीयद्रव्यस्यात्यागशीलतेति रामानुजः । तत्तु- ‘काम- स्यान्तं तु क्षुत्तृड्भ्यां क्रोधस्यान्तं फलोदयात् । नरो याति न लोभस्य जित्वा भुक्त्वा दिशो भुव’ इति भागवतविरुद्धत्वादुपेक्ष्यम् ॥ १२ ॥ 21 अप्रकाश इति । हे कुरुनन्दन ! तमसि विवृद्धे सत्यप्रकाशोऽप्रवृत्तिः प्रमादो मोह एव चेत्यादीनि जायन्ते । अत्यन्तमविवेकः स्वपरज्ञानाभावः । तत्कार्यमिति । तमः कार्यमित्यर्थः । एवं तत्कार्य इत्यत्रापि । मोहशब्दार्थमाह — अविवेक इति । फलितमाह — मूढतेति । अप्रकाशमोहयो-

१८२ श्रीभगवद्गीतासु- भाय्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मरणद्वारेणापि यत्फलं प्राप्यते तदपि सहेतुकं सर्वं गौणमेवेति दर्शयन्नाह - यदा सच्चे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥ १४ ॥ यदेति । यदा सच्चे प्रवृद्धे तुद्भूते तु प्रलयं मरणं याति प्रतिपद्यते देहभृदात्मा, तदोत्तमविदां महदादितच्चविदामित्येतत् । लोकानमलान्मलरहितान्प्रतिपद्यते प्राप्नोतीत्येतत् ॥ रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥ रजसीति / रजसि गुणे प्रवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु कर्मासक्तियुक्तेषु मनुष्येषु जायते । तथा तद्वदेव प्रलीनो मृतस्तमसि प्रवृद्धे मूढयोनिषु पश्वादियोनिषु जायते ॥१५॥ स्तुतर्राज्ञानाभावील्पज्ञानसत्त्वाभ्यां भेदः । अप्रकाश ज्ञानाभावः, मोहस्सुं विपरीरज्ञानमिति रामानुजः, तदयुक्तम् — विपरीतज्ञानस्य रजआद्युदेकदशायामपि सत्त्वात् ॥१३॥ यदेति । तदपि फलं सहेतुकं सकारणं गौण सत्वादिगुणयुक्तमेवेत्यर्थः । या देहभृत्यवे प्रवृद्धे सति तु प्रलयं याति तदा अमलानुत्तमवि लोकान्नतेने । आत्मेति । अनात्मन्यात्माभि- मानवानज्ञ, इत्यर्थः । यद्वा आत्मा प्रलयं यातीव लोकान् प्रतिपद्यत इवेति बोध्यम् । नहि वस्तुत आत्मनो मरणादिसम्भवः । उत्तमविदां तत्त्वविदां लोकान्समूहान् प्रतिपद्यते, आत्मविदां कुलेषु जायत इत्यर्थ इति रामानुजः, तन्मन्दम् – लोकशब्दस्य, प्रसिद्धं भुवनार्थं त्यक्त्वा अप्रसिद्ध समूहार्थ- कल्पनं, तत्रापि समूहान् प्रतिपद्यत इत्यस्य कुलेषु जायत इत्यर्थवर्णनं चायुक्ततिति ॥१४॥ रजसीति । देही रजसि प्रवृद्धे सति प्रलयं गत्वा कर्मसङ्गिषु जायते । तथा तमसि प्रवृद्धे सति प्रलीनस्सन् मूढयोनिषु जायते । मनुष्येष्विति देवादीनां कर्माधिकाराभावादिति भावः । एतेन सत्त्वे प्रवृद्धे मृतानां देवांदिजन्मप्राप्तिरिति सिद्धम् । यत्तु रामानुजः – सत्त्वे प्रवृद्धे मृत इहैव मनुष्येषु तत्त्ववित्सु जातस्सन् पुण्यकर्मस्वधि- करोति । रजसि तु स्वर्गादिकर्मस्त्रिति, तत्तुच्छम् स्वर्गादिकर्मणा मपुण्यकर्मत्वस्यान्याय्यत्वात् । नचत्मियाथात्म्यज्ञानसाधनानि कर्माणि पुण्यकर्माणीति वाच्यं यज्ञादीनामपि तथात्वात् । नच फलाभि- सन्धिरहितानि पुण्यकर्मणीति वाच्यं तेषां पुण्यपापोभयातिरिक्तत्वात् प्राप्तकर्म वत्पुण्य कर्मापि देवादि - जन्मप्रदानद्वारा बन्धकं हि । तस्माद्यानि पुण्यकर्माणि खर्गादिसाधनानि तान्येव यज्ञादीनि फलाभिसन्धि- रहितानि ज्ञानसाधनानीति नास्ति यज्ञायतिरिक्तं - ज्ञानसाधकं पुण्यकर्म । किंच कर्मसङ्गिषु जायत इति रजसि मृते विषय एव ‘स्मयेते, ‘नतु सत्वे मृते विषय इति कम सिक्के मृतानां कर्मसङ्ग कल्पयितुं “शयम मुच्छलमवृत्तिना केनापि १५॥ 10316115 31 चतुर्दशोऽध्यायः । अतीतश्लोकार्थस्यैव संक्षेप उच्यते- By कर्मणस्सुकृतस्याहुस्साचिकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥ १८३ कर्मण इति । कर्मणस्सुकृतस्य साच्चिकस्येत्यर्थः । आहुशिष्टास्ताविकमेव निर्मलं फलमिति । रजसस्तु फलं दुःखं - राजसस्य कर्मण इत्यर्थः । क्रर्माधिकारात्फलमपि दुःखमेव, कारणानुरूप्याद्राजसमेव । तथाऽज्ञानं तमसस्तामसस्य कर्मणोऽधर्मस्य फल पूर्ववत् ॥१.६॥ ॥ किंच गुणेभ्यो भवति- • सच्चादिति ICE PACK PISHE सच्चात्संजायते ज्ञान रंजसो लोभ एवं च प्रमादम तमसो भवतोऽज्ञानमेव च ॥ १ ॥ IPE IDF D 13. 11 सजवावात्मकात्संजायते समुत्पद्यते ज्ञानं रजसो लोभ एव च, प्रमादमोहौ चोभौ तमसो भवतोऽज्ञानमेव च भवति ॥१७॥ कर्मण इति । सुकृतस्थ कर्मणस्सासिकं निर्मलं फलमाहुः रजसस्तु दुःखं फलमाहुः । तमसस्त्वज्ञानं फलमाहुः । सात्विकस्य’ सगुणयुक्त साविक सत्त्वप्रधानमत एवं निर्मलं फलं देवत्वादि लक्षण सुखहेतुभूतम् । “जिस इति कर्मप्रकरण दिन गुणग्रहणं युक्तमित्याह - राजस- स्येति । कमधिकारादिति । रजः कर्मणि भारत !” इत्युक्तत्वादिति भावः । फलमपीति । यथा कर्म उपकरणादिसम्पादनदिन दुःख तद्वत्तत्फलमपीत्यपेरथेः । दुःखं दुःखकरमेवेत्यर्थः । तच फलं राजसमेव । कुतः ? कारणानुरूप्यात् । कारणस्य कर्मणी राजसत्वात्तत्फलस्यापि राजीवमिति मार्केः । अधर्मस्येति । हिंसादिलक्षणस्येत्यर्थः । एतेन राजस कर्म धर्मरूपमिति सूचितम् । पूर्ववदिति । तामसमेवेत्यर्थः । सात्त्विकं कर्म कृत्वा देवखादिलक्षणं सुखादिलक्षणं ज्ञानलक्षणं वा फलं लभन्ते । राजसं कर्म कृत्वा मनुष्यत्वलक्षणं विहितानुष्ठानरूपं दुःखात्मक वा फलं लभन्ते । तामस कर्म कृत्वा पशुत्वादिलक्षणं मोहाद्यात्मकं फलं लभन्ते । तत्र फलाभिसन्धिरहितं कर्म सात्विकं राजस, हिंसादिरूपं तु तामसमिति विवेकः ॥ १६ ॥ P तद्युक्तं विहितं कर्म सच्चादिति । सत्त्वाद्ज्ञानं सञ्जायते, रजसो लोभ एव सञ्जायते च तमसः प्रमादमोहौ भवतः - अज्ञानमेव भवति च । प्रवृद्धेभ्य एव सत्त्वादिभ्य उक्तकार्यसम्भव इत्यभिप्रेत्याह — लब्धात्मका- दिति । रजस्तमोभिभवपूर्वकं प्राप्तप्रतिष्ठादित्यर्थः । एवं लब्धात्मकाद्रजसो लब्धात्मकात्तमसश्चत्यपि बोध्यम् । अज्ञानं निद्रादिरूपं मूलाज्ञानम् । ज्ञानाभाव इति रामानुज : - अभावस्य जनलक्षण- भावविकारायोगात्तदुक्तमुपेक्ष्यम् ॥१७॥ १८४ किंच- श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ऊर्ध्वं गच्छन्ति सच्चस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥ १८॥ ऊर्ध्वमिति । ऊर्ध्वं गच्छन्ति देवलोकादिषूत्पद्यन्ते सच्चस्थास्सच्चगुणवृत्तस्था: । मध्ये तिष्ठन्ति मनुष्येषूत्पद्यन्ते राजसाः । जघन्यगुणवृत्तस्था: जघन्यश्चासौ गुणश्च जघन्य- गुणो तमः, तस्य वृत्तं निद्रालस्यादि, तस्मिन् स्थिता जघनन्यगुणवृत्तस्था मूढा अधो गच्छन्ति पश्वादियो निषूत्पद्यन्ते तामसाः ॥ १८ ॥ पुरुषस्य प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुखदुःखमोहात्मकेषु ‘सुखी दुःखी मूढोऽहम’ स्मीत्येवंरूपो यस्सङ्गस्तत्कारणं पुरुषस्य सदसद्योनिजन्मप्राप्तिलक्षणस्य संसारस्येति समासेन पूर्वाध्याये यदुक्तं तदिह ‘सचं रजस्तम इति गुणाः प्रकृतिसम्भवा’ इत्यत आरभ्य गुणस्वरूपं गुणवृत्तं स्ववृत्तेन च गुणानां बन्धकत्वं गुणवृत्तनिबन्धनस्य च पुरुषस्य या गतिरित्येतत् । सर्वे मिथ्याज्ञानमज्ञानमूलं च बन्धकारणं विस्तरेणोक्त्वा, अधुना सम्यग्दर्शनान्मोक्षो वक्तव्य इत्याह भगवान्- नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥ नेति । नान्यं कार्यकरणविषयाकारपरिणतेभ्यो गुणेभ्यः कर्तारमन्यं यदा द्रष्टा ऊर्ध्वमिति । ये आमरणं सत्त्वस्थास्ते मरणानन्तरमूर्ध्वं गच्छन्ति । ये त्वेवमामरणं रजस्स्थास्ते मरणानन्तरं पुनरपि मध्य एव तिष्ठन्ति । ये त्वामरणं तमस्स्थास्ते मरणानन्तरमघो गच्छन्ति । उत्पद्यन्त इति । देवादिजन्म लभन्त इत्यर्थः । सत्त्वगुणस्य या वृत्तयस्तासु स्थिताः । सात्त्विक- कार्यपरा इत्यर्थः । मध्ये तिष्ठन्ति मनुष्येष्वेवोत्पद्यन्ते । राजसा रजोगुणवृत्तिस्था: । राजसकर्मकर्तार इत्यर्थः । तामस इति । तमोगुण इत्यर्थः । स्वार्थेऽण् । उत्कृष्टत्वाद्देवादिजन्मन ऊर्ध्वस्थत्वमप- कृष्टत्वात्पश्वादिजन्मनोऽधस्स्थत्वमुत्कर्षापकर्षरहितत्वान्मनुष्य जन्मनो मध्यस्थत्वमिति भावः । पुण्य- प्रयुक्तत्वाद्देवजन्नोत्कृष्ट, पापपयुक्तत्वात्पश्वादिजन्मापकृष्टमुभयात्मकत्वान्मनुष्यजन्म मध्यस्थ मेति बोध्यम् । ऊर्ध्वं गच्छन्ति मुच्यन्त इति रामानुज, तदयुक्तम्- ‘नास्त्यकृतः कृते’ने ते श्रुत्या सात्विक- कर्मकरणादपि मुक्त्यसम्भवात् । मुकेबूद्मभावलक्षणाया ऊर्ध्वस्यत्वासम्भवाच्च । परिपूर्ण हि ब्रह्म || १८ ||

नेति । वर्तिष्यमाणसङ्गतये वृत्तं कीर्तयति – पुरुषस्येत्यादिना । पुरुषस्य गुणेषु यस्सङ्गः तत्संसारस्य कारणमिति समासेन पूर्वाध्याये यदुक्तं तदिह विस्तरेणोक्त्वा, इति वृत्तानुकथनम् । कीदृशस्य पुरुषस्य ? मिथ्याज्ञानेन युक्तस्य । किं तन्मिथ्याज्ञानम् ? प्रकृतिपत्त्वरूपं प्रकृतिरस्तीत्येवंरूपं : कालत्रयेऽप्यविद्यमानायां प्रकृतौ यदस्तित्व ज्ञानं तन्मिथ्याज्ञान, यथा मरुमरीचिकास्त्र विद्यमाने जले - स्तित्वज्ञानम् । एवं प्रकृतावस्तित्वभ्रमो भवतीति भावः ।२४ चतुर्दशोऽध्यायः । १८५ विद्वान् सन् नानुपश्यति, गुणा एव सर्वावस्थास्सर्वकर्मणां कर्तार इत्येवं पश्यति, गुणेभ्यश्च कीदृशेषु गुणेषु ! भोग्येषु सुखदुःखमोहात्मकेषु सत्त्वादिगुणत्रय कार्यत्वात्सुखदुःखमोहानां गुणत्वव्यवहार औपचारिकः । यद्वा द्रव्याश्रितत्वरूपं गुणत्वलक्षणमिह बोध्यं सुखादीनामन्तःकरण- द्रव्याश्रितत्वाद्गुणत्वमिति । यद्वा सुखदुःखमोहात्मना परिणतत्वात्सत्त्वादिगुणा एव सुखदुःख- मोहात्मका इतीहोच्यन्ते घटरूपा मृदितिवत् । कीदृशस्सङ्गः ? सुरुयहं दुःख्यहं मूढोऽहमित्येवंरूपः । अनात्मधर्माणां सुखदुःखमोहानामात्मन्यध्यासरूपोऽयं सङ्ग इति भावः । तदिति । स सङ्ग इत्यर्थः । सामान्ये नपुंसकं, विधेयप्राधान्यादिति वा । कीदृशस्य संसारस्य ? सदसद्योनिजन्मप्राप्तिलक्षणस्य । सद्योनयो देवादयः, असद्योनयः पश्वादयः, सदसद्योनयो मनुष्याः; तासु योनिषु जन्मप्राप्तिरेव लक्षणं स्वरूपं यस्य तस्य तथोक्तस्य । समासेन संक्षेपेण । यदुक्तमिति । ‘कारणं गुणसङ्गोऽस्य सदसद्यो निजन्म’ स्वि तिश्लोकेनेति भावः । तदिहेत्यत्रत्यतच्छन्दार्थमाह – एतत्सर्वं मिथ्याज्ञानमिति । किं तत्सर्वमत आह— गुणस्वरूप- मित्यादि । गुणानां सत्त्वादीनां स्वरूपं प्रकाशकत्वरञ्जकत्वमोहकत्वात्मकं गुगानां वृद्धिं व्यापारं ज्ञानलोभप्रमादाद्यात्मकं गुणानां स्ववृतेन स्वीयव्यापारेण पुरुषस्य बन्धकत्वं गुणवृत्तिरेव निबन्धनं बन्धकं यस्य तस्य । गुणवृत्तिभिर्निबन्धनं बन्धो यस्य तस्येति वा । गुणेषु वृत्तिः प्रवृत्तिरेव स्थितिरेवेति वा । निबन्धनं बन्धो यस्य तस्येति वा । गुणवृत्तनिबद्धस्येति नागरपुस्तकपाठः । तदा तृतीयातत्पुरुषः । पुरुषस्य या गतिर्मरणानन्तरं यत्प्राप्यमित्यर्थः । तामिति शेषः । पूर्वाध्याये यत्समासेनोक्तमिहाध्याये तदेतत्सर्वं मिथ्याज्ञानं विस्तरेणोक्त्वेत्यन्वयः । कीदृशं मिथ्याज्ञानमत आह— अज्ञानमूलबन्धकारणमिति । अज्ञानं मूलं यस्य सोऽज्ञानमूलस्स चासौ बन्धस्तस्य कारणमज्ञानात्प्रपञ्चस्य जातत्वेन, जाते प्रपञ्चे सुखाद्यात्मके पुरुषस्य ममाहमिति प्रत्ययस्य बन्धहेतुत्वेन च । अज्ञानं मिथ्याज्ञानं चेत्युभयं बन्धकारणमित्यर्थः । अज्ञानमूलं च तद्बन्धकारणं चेति वा समासः । मिथ्याज्ञानस्याज्ञानं कारणं तच्च मिथ्याज्ञानं बन्धस्य कारणमित्यर्थः । तस्य च बन्धस्य मोक्षोपायो ज्ञानं वक्तव्यं बन्धं श्रुत्वा भीतानां श्रोतॄणां माभैष्ट - इत्यभयप्रदानार्थमित्यभिप्रय- नाह - मोक्षो वक्तव्य इति, अत इति । मोक्षस्य ज्ञानस्य वा तदुभयस्य वा वक्तव्यत्वादित्यर्थः यदा द्रष्टा गुणेभ्योऽन्यं कर्तारं नानुपश्यति, गुणेभ्यश्च परमात्मानं वेति स तदा मद्भावमधि- गच्छति । प्रकृतिस्तावद्गुणत्रयाकारेण परिणता । सा च त्रिगुणात्मिका प्रकृतिर्देहेन्द्रियविषयाकारेण परिणतेति कृत्वा कार्यकरण विषयाकारेण परिणतेभ्यो गुणेभ्य इत्युक्तम् । एतेन प्रकृतेर्गुणत्रयद्वारेणैव जगदात्मना परिणामो नतु स्वत इति सिद्धम् । गुणा एवेति । कार्यकरणाद्यात्मना परिणतास्सत्त्वादय एवेत्यर्थः । सर्वावस्थास्विति । जाप्रदादिष्वित्यर्थः । सुखिल दुःखिताद्यस्थास्त्रित वा । सर्वकर्वणामिति । वाचिककायिक- • 1 १८६ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपैतासु परं गुणव्यापारसाक्षिभूतं वेत्ति; मद्भावं मम भावं स द्रष्टाऽधिगच्छति ॥१९॥ कथमधिगच्छतीत्युच्यते- गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥२०॥

गुणानिति । गुणानेतान् यथोक्तानतीत्य जीवन्नेवातिक्रम्य मायोपाधिभूतान् लीन् मानसिकानां विहितानां प्रतिषिद्धानां सामान्यांनां वा सर्वेषां कर्मणाम् । पश्यति जानाति, अनुसन्धत्त इति यावत् । परमन्यं विलक्षणं वा । परत्वमेव दर्शयितुमाह – गुणव्यापारसाक्षिभूतमिति । गुणानां तयापाराणां च साक्षाद्रष्टारं गुणानां ये व्यापारास्तेषां साक्षाद्रष्टारमिति वा । तच्च साक्षित्वं निर्धर्मके आत्मनि कल्पितमेवेति सूचयितुमाह - साक्षिभूतमिति । न तु वस्तुतस्साक्षिगमित्यर्थः । आत्मानमिति शेषः । वेति जानाति । साक्षात्करोतीति यावत् । परोक्षज्ञानात्संसारस्या निवृत्तेरिति भावः । वासुदेवत्वं ब्रह्मभावम् । कैवल्यमिति यावत् । य एवं वेद तस्यैव वासुदेवस्सर्वमिति सर्वात्म- ज्ञानं तदेव मोक्षकारणमित्याह – वासुदेव इति । सत्यात्मस्वरूप साक्षात्कारे सर्वस्यात्मनि कल्पितत्वा- त्सर्वमात्मैवेति ज्ञानं जायते; ततश्च सर्वे ब्रह्मस्वरूपेणैव भाति ब्रह्मातिरिक्तं किञ्चिदपि न भाति; ततः केवलात्मस्वरूपेण जीवद्दशायामेव तिष्ठति विद्वानिति भावः । एतेन विद्वान्मद्भावमधिगच्छतीति वर्तमान क्रियानिर्देशाज्जीवत एव कथं केवलात्मभावप्राप्तिरिति शङ्कां परास्ता । सर्वस्य ज्ञानिदृष्ट्या मिथ्यात्वेनात्मनः केवलत्वादिति । अत्र वासुदेवत्वमधिगच्छतीत्युक्ते कथं जीवत एव वासुदेवत्व- प्राप्तिरिति शङ्कायां तदपनोदनायाह – वासुदेवस्सर्वमिति, पश्यन्निति । इति व्याख्येयम् । एतच्छुोकस्य जीवन्मुक्तिपरत्वं चोत्तरश्लोकभाष्ये स्फुटीभविष्यति । वर्तमानधात्वर्थनिर्देश एव भाष्यस्यापि लिङ्गमिति बोध्यम् । अन्यथा हि मद्भावं सोऽघियास्यतीति ब्रूयात् । अस्योत्तरश्लोकस्य च जीवन्मुक्तिपरत्वादेवार्जुनस्त्रीन्गुणानतिवर्तत इति जीवत एव गुणातिवर्तनं कथमिति प्रवक्ष्यति । अति- वर्तत इति वर्तमानधात्वर्थनिर्देशात्तत्रापि । यत्तु रामानुजः — सत्त्वस्थानामूर्ध्वगमनप्रकार एवानेन श्लोकेनोच्यत इति, तत्तुच्छम्- सत्त्वस्थानां ज्ञान्यहं सुख्यहमिति सत्त्वकार्यज्ञानादेरात्मन्यध्यासात् । कथनन्यथा तेषां सत्त्वस्थत्वं स्यात् ? ये तु नाहं सुखीत्यादिप्रकारेणानुसन्दधते ते गुणातीता एव । उक्तं हि ‘नित्रैगुण्यो भवार्जु’नेति । तस्माद्ज्ञानिविषयमेवेदम् । नच पूर्व सात्त्रिका एवेदानीं ज्ञानिनो जाता इति ज्ञानि - विषयमपीदं सात्त्विकविषयमेवेति वाच्यं, पूर्व गृहिण एवेदानीं सन्न्यासिनो जाता इति सन्न्यासिविषया दण्डकमण्डलुशिखा यज्ञोपवीतत्यागादयः किं गृहिविषया भवन्ति : तस्मात्सात्त्विकेभ्योऽन्य एवैते ज्ञानिन इति स्थितम् ॥१९॥ गुणानिति । देही देहसमुद्भवानेतान् त्रीन् गुणाननीत्य जन्ममृत्युजरादुःखैर्विमुक्तस्सन्नमृत- चतुर्दशोऽध्यायः । । ૮૭ देही देहसमुद्भवान् देहोत्पत्तिबीजभूतान् जन्ममृत्युजरादुःखैः- जन्म च मृत्युश्च जरा च दुःखानि च जन्ममृत्युजरादुःखानि, तैर्जीवन्नेव विमुक्तस्सन् विद्वानमृतमश्नुते । एवं मद्भावमधिगच्छतीत्यर्थः ॥ २० ॥ मश्नुते । जीवन्नेवेति । अश्नुत इति वर्तमानघातुनिर्देशादधिगच्छत्यतिवर्तत इति पूर्वोत्तरग्रन्थ- सन्दर्भाच्च जीवन्नेवेत्युक्तम् | मायोपाधिभूतानिति । मायापरिणामत्वाद्गुणा मायाया उपाधिभूता यथा मृदो घटाकार उपाधिः । यद्वां मिथ्याभूताऽऽत्मन उपाधय इति वा । देहस्य समुद्भवो येभ्य- स्तान्देहसमुद्भवान् । सत्त्वादिगुणपरिणामत्वाद्देहस्येति भावः । देहस्योत्पत्तिं प्रति बीजभूतान् कारण - भूतान् । यद्यपि जन्मादयो दुःखहेतुत्वाद्दुः खानि, तथापि तदतिरिक्तरोगादिसंग्रहाय दुःखग्रहणम् । यद्वा जन्ममृत्युजरादुःखहेतवः । दुःखं तु तज्जन्यं रोगादिजन्यं च । एवं दुःखतत्कारणोभय संग्राहार्थं जन्ममृत्युजरादुःखैरित्युक्तिः । अथ वा येऽन्ये दुःखहेतवस्ते सर्वे जन्ममृत्युजराप्रयुक्ता एवेति दुःख- उद्धेतुजन्मादित्रय रूपकार्यकारणविमुक्तिकथनाय जन्ममृत्युजरादुःखैरित्युक्तम् । ननु यदि जीवन्नेव मृत्युना विमुच्येत, तर्हि जीवन्मुक्तस्य विदेहकैवल्यं न स्यादेव । तथा जरया विमुच्येत चेज्जीवन्मुक्तस्सदापि तरुण एव भवेन्न तु वृद्धः । द्वयमपीदमनुपपन्नं जीवन्मुक्तस्यापि वृद्धत्वमृतत्वयोर्दर्शनादिति चेत्, मैवम्–नाहं देहादिः, किं तु ब्रह्मवाहमस्मीति जानतो जीव- न्मुक्तस्य देहाद्याश्रयजन्मादिभिः कथं सङ्गस्स्यात् ? न कथमपि । देहादितादात्म्याभ्यासाद्धि जातोऽहं जीर्णोऽहं मरिष्येऽहमिति प्रत्येत्यविद्वान् । तस्मादविद्ययाऽऽत्मन्यध्यस्तैरनात्मधर्मैर्जन्मादिभिराध्यासिको य आत्मनस्सम्बन्धस्तं विद्यया विद्वान् परिहरतीति जन्मादिभिर्विमुक्त इत्युच्यते विद्वान् । न हि विदु- ध्यात्मनि जन्मादयस्तन्ति, येन जीवन्मुक्तस्यात्मनो जरामृत्यू पुनस्स्याताम् । विद्वद्देहस्य च जरामृत्यू अवर्जनीये एवेति स्यादेव विदेहकैवल्यं जीवमुक्तस्य । अस्य च विदुषो जीवन्मुक्तत्वं विदेह- मुक्तत्वं च न स्वदृष्ट्या विद्वद्दृष्ट्या बन्धमोक्षादिद्वैताभावात् । ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधक: । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति श्रवणात् । किं त्वज्ञदृष्टयैव । अज्ञो हि विद्वच्छरीरे प्राणान् घरति सति विद्वान् जीवन्मुक्त इति, अप्राणे सति विदेहमुक्त इति च प्रत्येति । तस्मान्न कोऽपि दोषः । अमृतं ब्रह्म, अश्नुते प्राप्नोति । इयमेव ब्रह्मप्राप्तिर्मद्भावमधिगच्छतीति पूर्वश्लोकेनो केत्याह - एवमिति ।

यत्तु रामानुजः– अमृतमात्मानमनुभवत्येष मद्भाव इत्यर्थ इति, तत्तुच्छम् — आत्मेश्वरयो- भिन्नत्वेन कथमात्मप्राप्तेर्भगवद्भावत्वम् नच यथाऽहमीश्वर आत्मानमनुभवामि तथा जीवोऽप्यात्मान- ? मनुभवतीत्यर्थ इति वाच्यं मद्भावशब्दादुक्तार्थालाभात् । नच ’ मम साधर्म्यमागता’ इति पूर्वोक्तानु- गुण्येनेहापि मद्भाव इत्यस्य मत्साधर्म्यमित्यर्थ इति वाच्यं मद्भादपदानुरोधेन मम साधर्म्यमित्यस्यापि मदभेद इत्येवार्थ इति वक्तुं शक्यत्वात् । नापि ‘परमं साम्यमुपै’ तीति श्रुतिप्रामाण्यान्मद्भाव इत्यस्य मत्साम्यमित्यर्थं इति वाच्यं, ‘ब्रह्मविद्धहौव भवतीत्यादिश्रुत्यन्तरानुरोधेन ‘परमं साम्यमुपै’ तीति श्रुते- १८८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु जीवन्नेव गुणानतीत्यामृतमश्नुत इति प्रश्नबीज प्रतिलभ्यार्जुन उवाच - कैर्लिङ्गैस्त्रीन्गुणानेतानतीत्य भवति प्रभो ! किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ॥२१॥ कैरिति । कैर्लिङ्गैः चिह्नः त्रीनेतान्व्याख्यातान्गुणानतीतोऽतिक्रान्तो भवति प्रभो ! किमाचारः कोऽस्याचार इति किमाचारः कथं केन च प्रकारेणैतान् त्रीन्गुणानतिवर्तते ऽ- तीत्य वर्तते ॥ २१॥ रपि ब्रह्मा भेदप्राप्तिपरत्व निश्चयात् । न च ‘यथोदके शुद्धे शुद्धमासिकं तादृगेन भवति मुनेर्विजानत आत्मा भवति गौतम ! ’ इति श्रुतिरिह प्रमाणमिति वाच्यं शुद्धस्योदकस्येव शुद्धस्यात्मनो न भेदः । यस्तूपाधिप्रयुक्तो भेदस्स उपाघिनाशान्नष्ट इति जीवस्य ब्राह्माभेद एव तछु तितात्पर्यात् । कलशे गृहीतं गङ्गोदकं गङ्गायां पुनः कलश | दवतारितं चेद्गङ्गाऽभेदमेायाति । गङ्गातः कलशोदकस्य यो भेदकः कलशात्मक उपाधिस्तस्य त्यागात् । नतु गङ्गासाम्यं प्रयाति साम्यस्य तत्रादर्शनात् । साम्यं हि वस्तुद्वयोपलब्ध्यधीनम् । प्रकृते तु जलरूपमेकमेव वस्तूपलभ्यत इति कथं साम्यावकाशः ? एव- मीश्वर चैतन्याज्जीवचैतन्यस्य यो भेदक उपाघिरन्तःकरणात्मकस्तस्य विद्यया नाशे सति जीवचैतन्य- मीश्वरचैतन्या भेदमेव प्रपद्यते, न तु साम्यं भेदकाभावेन भेदाभावात् । नान्तःकरणनाशानन्तरं चैतन्यद्वयोपलम्भः, येन साम्यस्यावकाशस्स्यात् । तस्मादुपाघिसद्भावदशायामेव जीवेश्वरयोस्साम्यं ज्ञातृत्वादिरूपं, न तूपाघिराहित्य इति न प्रकृतश्रुतेर्जीवेश्वरसाम्यप्रतिपादकत्वं, किं तु तदभेदप्रति- पादकत्वमेव । नहि घटे नष्टे सति घटाकाशमहाकाशयोस्साम्यं भवितुमर्हति किं त्वभेद एव । न च ताहगेवेति तावछन्दस्वारस्यात्साम्यपरत्वं श्रुतेरिति वाच्यं तादृवछब्दस्यापि तदभेद एव तात्पर्यान्न हि न्यायविरुद्धमर्थं श्रुतिरप्यभिप्रेयात् । नापि ‘परेण परधर्मा च भवत्येव समेत्य वै’ इति वसिष्ठसंहि- तानुसारात्साम्यस्वीकार इति वाच्यं किमुपाधिं परित्यज्य परेण समेति जीव उतापरित्यज्य ? यदि परित्यज्य समेति तर्हि परधर्मा भवतीत्यस्य पराभेदं प्राप्नोतीत्येवार्थः । द्वितीये तु परसदृशधर्म इत्येवार्थः । अस्मिन्पक्षे तु समेत्येत्यस्यानुपपत्तिः । सति भेदकोपाधौ तत्सङ्गत्ययोगात् । पटयोरिव सङ्गतिरिह वाच्या निरवयवा सङ्गचैतन्यस्य तादृशसनायोगात् । न च घट- यदि तु शङ्खचक्रदिमानीश्वरोऽत्र परशब्देन विवक्षितस्तर्हि समेत्येत्यस्य सान्निध्यं प्राप्येत्यर्थः 1 सगुणमुक्तश्चायं जीवः करणकलेबर दिमानेवेति स्वयमपि शङ्खचक्रादिमत्त्वरूपमीश्वरसाधर्म्यं प्राप्नुयादेव । तस्मान्नेयं स्मृतिर्जीवेश्वराभेदं श्रुतिशत सिद्धं निरोधुमीष्ट इति । किं च ‘यो वै भूमा तदमृत’ तिति श्रुतेरमृतशब्दस्य भूमब्रह्मवाचित्वे सति तमर्थ विहाय जीवब्रह्ममेदं कल्पयित्वा जीवरूपमर्थ वर्णयतस्तव साहसिक्यं प्रति कोनाम बुधो न विस्मयेतेति ॥ २०॥ कैरिति, प्रश्नबीजमिति । जीवन्मुक्तः प्रोक्तत्वाज्जीवन्मुक्तस्य लक्षणादिजिज्ञासा जाताऽर्जुन- स्येति भावः । एतान् श्रीन्गुणानतीतो विद्वान् कैलिंदैरुपलक्षितो भवति ? किमाचारश्च भवति ? चतुर्दशोऽध्यायः । १८९ गुणातीतस्य लक्षणं गुणातीतत्वोपायं चार्जुनेन पृष्टोऽस्मिन् श्लोके प्रश्नद्वयार्थं प्रति- वचनं भगवानुवाच । यत्तावत्- ‘कैर्लिङ्गैः युक्तो गुणातीतो भवति’ तच्छृणु ! - श्रीभगवानुवाच — प्रकाशमिति । मित्येतानि न द्वेष्टि । प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ! न द्वेष्टि सम्प्रवृत्तानि निवृत्तानि न कांक्षति ॥ २२॥ प्रकाशं च सच्चकार्य, प्रवृत्तिं च रजः कार्य, मोहमेव च तमः कार्य- सम्प्रवृत्तानि सम्यग्विषयभावेनोद्भ्रातानि- ‘मम तामसः प्रत्ययो जात:, तेनाऽहं मूढः; तथा राजसी प्रवृत्ति: ममोत्पन्ना दुःखात्मिका, तेनाऽहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् कष्टं मम वर्तते योऽयं मत्स्वरूपावस्थानात् भ्रंशः, तथा साच्चिको विद्वानेतान् त्रीन्गुणान् कथं चातिवर्तते ? गुणातीतस्य कानि लक्षणानीति प्रथमः प्रश्नः । क आचार इति द्वितीयः । गुणातिक्रमणे किं साधनमिति तृतीयः । तत्राचारप्रश्नस्यापि लक्षणे पर्यवसानं बोध्यम् । आचारविशेषस्यापि जीवन्मुक्त चिह्नत्वात् । ततश्च प्रभद्वयमेवेह पर्यवसन्नम् । अत एव गुणातीतस्य लक्षणं गुणातीतत्वोपायं चार्जुनेन पृष्ट इति वक्ष्यति भाष्यकारो भगवान् ॥२१॥ प्रकाशमिति, प्रश्नद्वयार्थमिति । प्रश्नद्वयस्येत्यर्थः । तावदादौ कैलिङ्गैयुको गुणातीतो भवतीति यत्पृष्टं तच्छृणु- तस्योत्तरं शृण्विस्यर्थः । सम्प्रवृत्तानि प्रकाशं च प्रवृत्तिं च मोहमेव चेत्येतानि न द्वेष्टि जीवन्मुक्त इति शेषः । गुणातीत इति वा । निवृात्तानि च तानि न कांक्षति । प्रकाशो ज्ञानं प्रवृत्तिः कर्मसु प्रवर्तनं मोहोऽविवेकः । न द्वेष्टि तेष्वप्रीतिं न करोतीत्यर्थः । ‘द्विष अप्रीता’- विति धातुपाठात् । सम्यक्प्रवृत्तानि सम्प्रवृत्तानि । सम्यक्छब्दार्थमाह– विषयभावेनेति । विषयत्वेन गोचरत्वेनेति यावत् । 1 प्रवृत्तशब्दार्थमाह-उद्भूतानीति । विषयभूतानीति यावत् । घटनिरूपणाद्धि घाटाभावो ज्ञातुं शक्यते । एवं द्वेषाभावप्रदर्शनाय गुणकार्येषु द्वेषप्रकारं तावद्दर्शयति - ममेत्यादिना । मम तामसस्तमोगुणजन्यः प्रत्ययोऽविवेको जातो हिंसादिबुद्धिर्जातेति वा । तेन प्रत्ययेन प्रत्ययजन्मनेति वा । अहं मूढ आसं भवामीति वा । राजसी दुःखात्मिका कर्मसु प्रवृत्तिर्ममोत्पन्ना, तेन रजसा प्रवर्तितोऽहं- स्वरूपात्प्रच्यावितः । हा ! कष्टं मम वर्तते । किं तत्कष्टमत आह - योऽयमिति । योऽयं स्वरूपा- 1 वस्थानाद्भ्रंशः स्वरूपस्थितेः प्रच्युतिः तदिदं महत्कष्टमित्यर्थः I नन्वेवं तमोरजसोद्वेष उचित एव कष्टहेतुत्वात्कुतः पुनस्सत्त्वे द्वेषोऽत आह- तथेति । प्रकाशात्मा सात्त्विको गुणः मां विवेकित्वमापादयन् मम शब्दस्पर्शादिविषयज्ञानं जनयन्सन्मां सुखेन चासञ्जयन्सन्मां बध्नाति । एवं बन्धहेतुत्वात्सत्त्वेऽपि द्वेष उचित एवेति भावः । इत्येवं गुणांस्तत्कार्याणि च न द्वेष्टि । 1 १९० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु गुणः प्रकाशात्मा मां विवेकित्वमापादयन् सुखे च संजयन् बध्नाति’ इति तानि द्वेष्टि सम्य- ग्दर्शित्वेन । तदेवं गुणातीतो न द्वेष्टि सम्प्रवृत्तानि । यथा च साच्चिकादिः पुरुषः सच्चादि- कार्याण्यात्मानं प्रति प्रकाश्य निवृत्तानि कांक्षति, न तथा गुणातीतो निवृत्तानि कांक्षती- त्यर्थः । एतन्न परप्रत्यक्षं लिङ्गं, किं तर्हि स्वात्मप्रत्यक्षत्वादात्मार्थमेवैतल्लक्षणम् । न हि स्वात्मविषयं द्वेषमाकांक्षां वा परः पश्यति ॥ २२ ॥ अथेदानीं ‘गुणातीतः किमाचारः १’ इति प्रश्नस्य प्रतिवचनमाह - उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ||२३|| उदासीनवदिति । उदासीनवद्यथोदासीनः न कस्यचित्पक्षं भजते, तथाऽयं गुणा- कुतो न द्वेष्टीत्यत आह- सम्यग्दर्शित्वेनेति । अहं ब्रह्मास्मि, सर्व ब्रह्मेत्येवंरूपेण ज्ञानेन सत्त्वादि- भ्रमनाशादिति भावः । तत्तस्मात्सम्यग्दशित्वादित्यर्थः । एवमुक्तरीत्या गुणातीतस्सम्प्रवृत्तानि प्रारब्ध. वशात्प्राप्तानि पूर्वोक्तानि प्रकाशादीनि न द्वेष्टि, निवृत्तानि च तानि न कांक्षति । क इव न कांक्षतीत्यतो व्यतिरेकदृष्टान्तमाह — यथा चेति । सात्त्विकादिरित्यादिपदाद्राजसतामसग्रहणम् । आत्मानं प्रति सात्त्विकादिपुरुषं प्रतीत्यर्थः । प्रकाश्य स्वस्वरूपं प्रकटयित्वा निवृत्तानि सत्त्वादिकर्याणि सात्त्विकादिः पुरुषो यथा च कांक्षतीत्यन्वयः । एतदिति । प्रवृत्तेषु सत्त्वादिकार्येष्वद्वेषणं निवृत्तानां तेषामकांक्षण चेत्यर्थः । परस्य जीवन्मुक्तादन्यस्य लोकस्य प्रत्यक्ष लिङ्गं चिह्नं जीवन्मुक्तस्येति शेषः । न भवति । परहृदयस्याप्रत्यक्षत्वाज्जीवन्मुक्तगतमिदं लिङ्गं परो न जानीयादिति नेदं जीवन्मुक्तलिङ्ग परप्रत्यक्षमित्यत्यर्थः । स्वात्मनस्स्वस्य स्वहृदयस्येति वा प्रत्यक्ष स्वात्मप्रत्यक्षं तत्त्वात् । स्वैकवेद्यत्वा- दित्यर्थः । आत्मार्थमेवेति । स्वार्थमेव । अहं जीवन्मुक्तो वा न वेति स्वात्मानं जीवन्मुक्तत्वेन निश्चेतुमिदं लिङ्गमुक्तमित्यर्थः । अहं जीवन्मुक्तः प्रवृत्ताद्वेषित्वान्निवृत्तानाकांक्षित्वादिति वेत्तुमित्यर्थ इति यावत् । कुतो नेदं परार्थमत आह-नहीति । स्वात्मविषयं स्वहृदयगोचरं द्वेषं कांक्षां वा परो न हि पश्यति । अस्य हृदयेऽमीषु प्राप्तेषु विषयेषु द्वेषोऽस्ति, अमीषु निवृत्तेषु विषयेषु कांक्षा- स्तीति परहृदय प्रविश्य को जानीयान्न कोऽपीत्यर्थः । परहृदयस्याप्रत्यक्षत्वादिति भावः । यत्तु रामानुजः — सम्प्रवृत्तान्यनिष्टानि न द्वेष्टि, निवृत्तानीष्टानि न कांक्षतीति, तदयुक्तम्- इष्टानिष्टपदाभावान्मूले । यानि प्रकाशादिकार्याणीष्टत्वेनाभिमतान्यज्ञानां तेषु प्राज्ञस्येष्टप्रत्ययाभावात् । बन्धहेतुत्वातान्यप्यनिष्टान्येव हि प्राज्ञस्य । नहि कस्यापि मोह इष्टस्स्यात् । येन निवृत्तमिष्टं मोह- मज्ञोऽपि कक्षेित् । नह्यप्रसक्तस्य निषेध उचित इति ॥२२॥ उदासीनेति । जीवन्मुक्तलक्षणप्रश्नान्तर्गतमेवाचारप्रश्नमुत्तरयतीत्याह - अथेति, उदासीनव- दिति । ननु जीवन्मुक्तस्यौदासीन्यं विधेयं चेच्छ्रीकृष्णव्यास शुकशङ्करादीनां जीवन्मुक्तानामुदासीनत्वे सति चतुर्दशोऽध्यायः । १९१ तीतत्वोपायमार्गेऽवस्थित आसीन आत्मविद्गुणैर्य स्सन्न्यासी न विचाल्यते विवेकदर्शना- वेदान्तशास्त्रस्यैव समूलोच्छेदप्रसङ्गः । अत एव हि ‘स्वयं तीर्णः परांस्तारये ‘दिति शास्त्रं जीवन्मुक्तस्य स्वयंतीर्णस्य परेषां वारणं विधत्ते । नच शिष्योपदेशादिव्यतिरिक्तविषयमौदासीन्यमिति वाच्यं, बौद्धा- दिभिस्सह शङ्कराचार्यादीनां विवादायोगात् । नच शिष्योपदेशादीत्यादिपदादद्वैत मतस्थापन ग्राी, ततश्च तत्स्थापनार्थं बौद्धादिविवादों युक्त एवेति वाच्यं तथा दुष्टशिक्षणार्थं कृष्णस्य युद्धव्यापारोऽपि युक्त एव । एवं क्रमक्रमेण सर्वे व्यापारा अपि जीवन्मुक्तस्य प्राप्नुवन्त्येवेति कथमौदासीन्यमिति चेत्सत्यमत एव उदासीनव दित्युक्तम् । तेन च उदासीनवदासीनं नाम न कर्मस्ववृत्तिः, किंतु कुर्ब- न्नपि न लिप्यत इत्युक्तलक्षणं गुणकर्मसु कर्तृत्वाभिमानादिराहित्यरूपमेव । तथा हि चित्रदीपिकायां विद्यारण्यगुरुभिरुक्तम्- ‘यदा सर्वे प्रभिद्यन्ते हृदयग्रन्थयस्त्विति । कामा ग्रन्थिस्वरूपेण व्याख्याता वाक्यशेषतः ॥ अहङ्कारचिदात्मानावेकीकृत्याविवेकतः । इदं मे स्थादिदं मे स्यादितीच्छाः कामशब्दिताः ॥ अप्रवेश्य चिदात्मानं पृथवपश्यन्नहंकृतिम् । इच्छंस्तु कोटिवस्तू ने न चाथो प्रन्थिभेदतः ॥ प्रन्थिभेदेऽपि सम्भाव्या इच्छाः प्रारब्धदोषतः । बुध्वापि पापबाहुल्यादसन्तोषो यथा तव ॥ यहङ्कारगतेच्छाद्यैर्देहव्याध्यादिभिस्तथा । वृक्षादिजन्मनाशैर्वा चिदूपात्मनि किं भवेत् ॥ ग्रन्थिभेदात्पुराप्येवमिति चेत्तन्न विस्मर । अयमेव ग्रन्थिभेदस्तव तेन कृती भवान् ॥ नैवं जानन्ति मूढाश्चत्सोयं ग्रन्थिर्न चापरः । ग्रन्थितद्भेदमात्रेण वैषम्यं मूढबुद्धयोः ॥ प्रवृत्तौ वा निवृत्तौ वा देहेन्द्रियमनोघियाम् । न किञ्चिदपि वैषम्यमस्त्यज्ञा निविबुद्धयोः ॥ व्रात्य श्रोत्रिययोर्वेदपाठापाठकृता भिदा । नाहारादावस्ति भेदस्सोऽयं न्यायोऽत्र योज्यताम् ॥ न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि कांक्षति । उदासीनवदासीन इति ग्रन्थिभिदोच्यते ॥ औदासीन्यं विधेयं चेद्वच्छब्दो व्यर्थतामियात् । न शक्ता अस्य देहाद्या इति चेद्रोग एव सः ॥ तत्त्वबोध क्षयव्याधिं मन्यन्ते ये महाघियः । तेषां प्रज्ञाऽतिविशदा किं तेषां दुश्शकं वद ॥ भरतादेरप्रवृत्तिः पुराणोक्तेति चेत्तदा । जक्षन् क्रीडन् रतिं विन्दन्नित्यश्रौषीर्न किं श्रुतिम् ॥ न ह्याहारादि सन्त्यज्य भरताद्याः स्थिताः कचित् । काष्ठपाषाणवर्तिक तु सङ्गभीता उदासत’ इति । . उदासीन इवोदासीनवत् । ‘तेन तुल्यं क्रिया चे’ दिति वतिरौपम्ये पर्यवस्यति । उदासीन - तत्त्वविदोस्साम्यमेव दर्शयति — यथेति, कस्यचिदिति । विवदमानयोर्मध्ये कस्यापीत्यर्थः । तथा गुणातीतत्वोपायमार्गे स्थितोऽयमात्मविदपि न कस्य चित्पक्षं भजत इत्यर्थः । आसीन इत्यस्यैव व्याख्यानं स्थित इति । क्व स्थित इति शङ्कायां गुणातीतत्वोपायमार्ग इत्युक्तम् । कोऽसावासीनोऽत आह- आत्मविदिति । यथोदासीनः पक्षद्वयस्थेषु मिथः कलहायमानेषु स्वयमविकृतो वर्तते, तथा कार्यकरणेषु स्वस्वव्यापारान् कुर्वत्सु सत्सु जीवन्मुक्तस्वयमविकृतो वर्तत इति भावः । न विचाल्यते १९२ श्रीभगवद्गीतासु- माष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु वस्थायाः । तदेतत् स्फुटीकरोति गुणाः कार्यकरणविषयाकारपरिणता अन्योन्यस्मिन्वर्तन्त इति योऽवतिष्ठति । छन्दोभङ्गभयात्परस्मैपदप्रयोगः । यो नितिष्ठतीति पाठान्तरम् । नेङ्गते न चलति स्वरूपावस्थ एव भवतीत्यर्थः ॥ २३ ॥ किंच -

समदुःखसुखस्स्वस्थस्समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥ समेति । समदुःखसुखः समे दुःखसुखे यस्य स समदुःखसुखः, स्वस्थ :- स्वे आत्मनि स्थितः प्रसन्नः, समलोष्टाश्मकाञ्चनः- लोष्टं च अश्मा च काञ्चनं च समानि यस्य स सम- लोष्टाश्मकाञ्चनः, तुल्यप्रियाप्रियः प्रियं चाप्रियं च प्रियाप्रिये तुल्ये समे यस्य स तुल्य- प्रियाप्रियः, धीरो धीमान्, तुल्यनिन्दात्मसंस्तुति:- निन्दा च आत्मसंस्तुतिश्व तुल्ये निन्दात्मसंस्तुती यस्य यतेस्स तुल्यनिन्दात्मसंस्तुतिः ॥ २४ ॥ न भ्रश्यते । कस्मादपादानादन आह— विवेकदर्शनावस्थाया इति । विवेक आलनात्मविवेकः । ‘गुणा गुणेषु वर्तन्त इति मत्वा न सज्जत’ इति पूर्वोक्तमनुसृत्याह – अन्योऽन्यस्मिन्निति, अवतिष्ठ- तीति । विवेकदर्शनावस्थायामेव तिष्ठतीत्यर्थः । न तु कर्मस्वहं वर्त इति मन्यत इत्यर्थः । 1 ननु ‘समवप्रविभ्यस्स्थ’ इति शास्त्रादवतिष्ठत इत्यात्मनेपदेन भाव्यमत आह - छन्दोभङ्ग- भयादिति । योऽवतिष्ठते नेङ्गत इति पाठे छन्दोभनदोषः स्यादिति भावः । नितिष्ठतीति । नितरां तिष्ठति । निष्ठितो भवतीत्यर्थः । आत्मदर्शन एव निष्ठां प्राप्नोतीति यावत् । स्वरूप एवावतिष्ठत इति स्वरूपावस्थः । स्वस्वरूपदर्शन एव स्थित इति यावत् । य उदासीनवदासीनो एव गुणैर्न विचारयते । यो गुणा वर्तन्त इत्येवावतिष्ठति नेङ्गते । अत्र यच्छन्दस्य गुणातीतस्स उच्यत इति तच्छ्न्देनान्वयः । अयं यच्छन्दः पूर्वश्लोकेऽप्यनुवर्त्य यः प्रकाशादीनि सम्प्रवृतानि न द्वेष्टि निवृत्तानि च न कांक्षति स गुणातीत उच्यत इत्युत्तरेणान्वय इति व्याख्यानं साधीय इव भाति ॥ २३ ॥ समेति । य इति शेषः । समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः तुल्यप्रियाप्रियः धीरः तुल्यनिन्दात्मसंस्तुतिः मानावमानयोस्तुल्यो मित्रारिपक्षयोस्तुल्यः सर्वारम्भपरित्यागी च भवति स गुणातीत इत्युच्यत इति श्लोकद्वयान्वयः । दुःखसुखयोम्साम्यं नाम यथा सुखमन्तःकरणधर्मस्तथा दुःख- मपीत्यनुसन्धानेन स्वस्य निर्विकारत्वम् । स्वस्थ आत्मानुसन्धानतत्परः । अर्थान्तरमाह – प्रसन्न इति । क्षोभरहित इत्यर्थः । समानि लोष्टममा काञ्चनं चेत्येतानि यस्य स तथोक्तः । लोष्टादौ न त्याज्यता - बुद्धिः काञ्चने नोपादेयताबुद्धिश्चास्येति भावः । प्रियमिष्टं स्रक्चन्दनादिकमप्रियमनिष्ट दुर्गन्धादिकं तदुभयमपि पूर्वोक्तरीत्या तुल्यमस्य प्रियमिति सक्चन्दनादिकं न गृह्णाति, अप्रियमिति दुर्गन्धादिकं न परित्यजतीति भावः । धीमान् पण्डितः निन्दा आत्मदूषणमात्मसंस्तुतिस्त्रभूषणं तयोस्तुल्यत्वं च निन्दास्तुती देहादिगोचर एव न त्वात्मगोचर इत्यनुसन्धानान्निन्दायां द्वेषबुद्धेः स्तुतौ प्रीतेश्चाकरणम् ॥ २५ किंच— चतुर्दशोऽध्यायः । १९३ मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ २५ ॥ 1 मानावमानयोरिति । मानावमानयोः तुल्यस्समो निर्विकारः तुल्यो मित्रारिपक्षयोः, यद्यप्युदासीना भवन्ति केचित्स्वाभिप्रायेण, तथापि पराभिप्रायेण मित्रारिपक्षयोखि भव- न्तीति तुल्लो मित्रारिपक्षयोरित्याह । सर्वारम्भपरित्यागी - दृष्टादृष्टार्थानि कर्माण्यारभ्यन्त इत्यारम्भाः, सर्वानारम्भान्परित्यक्तुं शीलमस्येति सर्वारम्भपरित्यागी, देहधारणमात्रनिमित्त- व्यतिरेकेण सर्वकर्मपरित्यागीत्यर्यः । गुणातीत्स्स उच्यते । ‘उदासीनव’ दित्यादि ‘गुणा- तीतस्स उच्यत’ इत्येतदन्तमुक्तं, यावद्यत्नसाध्यं तावत्सन्न्यासिनाऽनुष्ठेयं गुणातीतत्वसाधनं मुमुक्षोः स्थिरीभूतं तु स्वसंवेद्यं सद्गुणातीतस्य यतेर्लक्षणं भवतीति ॥२५॥ मानेति । मानः पूजा, अवमानस्तिरस्कारस्तयोस्तुल्यस्समः । साम्यमेवाह - निर्विकार इति । मानप्रयुक्तश्चित्तस्य हर्षः, अवमानप्रयुक्तः खेदश्च नास्त्यस्येत्यर्थः । ननूदासीनस्य कथं मित्रारि- पक्षसद्भावः ? पक्षद्वयप्रवेशराहित्यं द्यौदासीन्यमत आह— यद्यपीति । परेष्वन्येषु जनेषु विषये मित्रारिभावो ममायं मित्रमयमरिरिति प्रत्ययोऽस्य तत्त्वविदो यद्यपि नास्ति, तथापि परेषां प्रतिभासः प्रतीतिस्सम्भवतीत्यन्वयः । प्रतिभासमेव दर्शयति – वयमिति । अस्य तत्त्वविदो वयं मित्राणि, अस्य वयमरातयश्शलव इति । तदभिप्रायेणेति । अन्यजनदृष्टयेत्यर्थः । आरभ्यन्ते क्रियन्त इत्यारम्भा दृष्टादृष्टार्थानि कर्माणि । ननु भोजनादिकर्मपरित्यागे शरीरमेव पतेदत आह—- देहेति । देहधारणमात्र निमित्तं प्रयोजनं येषां तेषां कर्मणां तेभ्यः कर्मभ्य इति वा, व्यतिरेकेण तान्यविहा- येत्यर्थः । देहधारणमात्रनिमित्त कर्मे तर सर्व कर्म परित्यागीति यावत् । ननु यदुक्तमुदासीनत्वादिधर्मजातं तत्किं गुणातीतत्वसाधनम् ? यद्वा गुणातीतस्य लक्षणमिति शङ्कायामाह — उदासीनवदित्यादि । उदासीनवदिति श्लोकमारभ्येत्यर्थः । गुणातीतस्स उच्यत इत्येतदन्तमुक्तं धर्मजातं यावत्पर्यन्तं यत्नसाध्यं भवति तावत्पर्यन्तं सन्न्यासिनाऽनुष्ठेयं सन्मुमुक्षोगणाती- तत्व साधनं भवति । तदेव धर्मजातं स्थिरीभूतं स्वसंवेद्यं स्वानुभवैकसिद्धं सद्गुणातीतस्य यतेर्लक्षणं भवतीत्यन्वयः । भगवतोत्तमौदासीन्यादिधर्मजातं साध्यावस्थापन्नं सन्मुमुक्षोस्सन्न्यासिनो गुणातीतत्व- साधनं भवति । सिद्धावस्थासम्पन्नं सत्तु गुणातीतस्य लक्षणं भवतीतिकृत्वा एकस्मिन्नेव धर्मजातेऽवस्था- मेदेन साघनत्व लक्षणत्वसम्भव इत्यर्थः । दर्शितधर्मजातस्स्वस्मिन् स्थिरीभूतो वा न वेति वेदनं कथमिति शङ्कायामाह - स्वसंवेद्यमिति । स्वानुभवेनैव तद्वेदनमित्यर्थः । यस्यौदासीन्यादिकं दर्शितं धर्मजातं स्थिरीभूतं स गुणातीत इत्युच्यत इति परमार्थः ॥ २५ ॥ 1 १९४ श्रीभगवद्गीतासु - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अधुना ‘कथं च त्रिगुणानतिवर्तत’ इत्यस्य प्रश्नस्य प्रतिवचनमाह- मां च योऽव्यभिचारेण भक्तियोगोन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ २६ ॥ मामिति । मां चेश्वरं नारायणं सर्वभूतहृदयाश्रयं यो यतिः कर्मी वा अव्यभि- चारेण न कदाचिद्यो व्यभिचरति, भक्तियोगेन- भजनं भक्तिस्सैव योगस्तेन विवेकविज्ञा- मामिति । विशिष्टतर उत्कृष्टतरः । पूर्वस्यात्पूर्वोक्तादुदासीनत्वादिधर्मजातादित्यर्थः । योऽ- व्यभिचारेण भक्तियोगेन मां च सेवते स एतान् गुणानतीत्य ब्रह्मभूयाय कल्पत इत्यन्वयः । चकारोऽव- धारणार्थः । मां च मामेवेति । कस्त्वमत आह— ईश्वरं नारायणमिति । कुतो नारायणस्त्वमत यह - सर्वभूतहृदयाश्रयमिति । नराणां भूतानां समूहो नारं, तदयनं स्थानं यस्य स नारायण इति व्युत्पत्तेः । यद्वा कासीत्यत आह– सर्वभूतेति । सर्वात्मभूतत्वादिति भावः । एतेनेश्वरभजनस्य सौलभ्यं सूचितम् । यतिः कर्मी वेति । औदासीन्यसमलोष्टाश्मकाञ्चनत्वाद्यात्मकं पूर्वोक्तं गुणाती तत्वसाधनं सन्न्यासविषयमेव । सर्वारम्भपरित्यागस्य सन्न्यासरूपत्वात् । न सन्न्यस्तस्य यज्ञादि- विहितकर्मपरित्यागो युक्तः प्रत्यवायावहत्वात् । न च सर्वारम्भपरित्यागित्वं नाम सांसारिक सर्वकर्म परि- त्यागित्वमेव न तु चित्तशुद्धिज्ञानप्राप्तिहेतुकर्म परित्या गित्वमिति वाच्यं, सांसारिकत्वविशेषण कल्पन- स्याप्रमाणत्वात्सर्वपदस्वारस्यभङ्गात् । गृहस्थेन सांसारिक कृष्यादिजीवन हेतु कर्म परित्यागस्यापि दुष्क- रत्वात् । नहि गृहस्थस्य भिक्षाटनेऽधिकारः, येन कृष्यादिसांसारिकं कर्म विहाय जीवेत्सन्न्यासिवत् । किंच यान्येव विहितानि कर्माणि तान्येव सांसारिकाणि चित्तशुद्धयादिसम्पादकानि च भवन्ति फलाभिसन्धितदभावाभ्यामिति कथं तत्कर्मपरित्यागस्स्याद्गृहस्थस्य कर्मस्वधिकृतस्याज्ञस्य ? अपि च यदपि मैथुनाख्यं सांसारिकं कर्म तस्य वा कथं परित्यागो गृहस्थस्य ? ‘ऋतौ भार्यासुपेया’ दिति हि श्रूयते । स्वस्थस्य ऋतौ भार्यामुपेक्षितवतः प्रत्यवायश्च स्मर्यते । तस्मात्संसा- रिणो गृहस्थस्य न सांसारिककर्मपरित्यागित्वमपि सम्भवतीति सन्न्यासिविषयमेव तत् । सन्न्यासिना- मेव धर्माधर्माख्यद्विविधकर्मपरित्यागात्मकं भिक्षाटनादिजीवनहेतुकर्मसु गुणकृतत्वानुसन्धानेन तत्परि- त्यागात्मकं च सन्न्यसनमुपपद्यत इति । तस्मादुद्दा सी नवदित्यादिश्लो कलयं सन्न्यासि विषयमेव । मां चेति श्लोकस्यापि सन्न्यासविषयत्वशङ्कायां प्राप्तायामाह भाष्यकारः यतिः कर्मी वेति । एन. च्छोकोक्तं भगवद्भजनं सन्न्यास्यसन्न्यास्युभयपरमुभयारपि तत्राधिकारादिति भावः । ननु नैतद्युक्तं, कर्मात्मके भक्तियोगे सन्न्यासिनां ज्ञानात्मके भक्तियोगे गृहिणां चान- कारात् । नच कर्मात्मकभक्तियोगो नास्तीति वाच्यं, ‘ये वर्णाश्रमधर्मस्थास्ते भक्ताः केशवं. प्रतीते हारीतस्मृतेः । अत्रोक्तो भक्तियोगस्तु ज्ञानात्मक एव । ‘मां यो भजत’ इति मूलात् । ‘विवेक- विज्ञानात्म के ‘नेति भाष्याच्च । कथमत्र ज्ञानयोगे मत्यात्मके कर्मिंगमधिकार: ? ‘लोकेऽस्मि वेधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन सङ्ख्यानां कर्मयोगेन योगिता मिति युक्तं भगवता |चतुर्दशोऽध्यायः । १९५ विदुषां सन्न्यासिनां ज्ञानयोग एवाधिकारः; अविदुषां कर्मिणां तु कर्मयोगाधिकार इति तत्रतत्र भाष्यकारैरेव व्यवस्थापित हि । तस्मात्कथं तैरेव भाष्यकारैरिह स्वोक्तविरुद्धार्थः प्रोच्यते । यतिः कर्मों वेति ?, इतिचेदुच्यते - यो विद्वानपि प्रारब्धादिवशात्सन्न्यासमनुपेत्य कर्मण्येव फलाभि- सन्ध्यादिराहित्येन प्रवर्तते जनकादिवत्स इह कर्मीत्युच्यते, न स्वज्ञः तस्य विवेक विज्ञानासम्भवात् । न ह्यज्ञत्वविवेकज्ञानयोर्विरुद्वयोरेकत्र स्थितिः स्यात् । अयं च जनकादिः कर्मयोग्यपि वस्तुतस्साङ्ख्य एवेति साङ्ख्यस्यास्य कर्मिणो ज्ञानयोगेन निष्ठा स्यादेवेति । न हि कर्तृत्वाद्यभिमानरहितं कर्म कर्म भवति । न चैवं योगिनां ज्ञानयोगे साङ्ख्यानां कर्मयोगे चाघिकारः प्राप्तो भगवन्नियमविरुद्ध इति वाच्यं, अतत्त्वविदां योगिनां ज्ञानयोगे साङ्ख्यानां कर्मयोगे चाधिकारस्य भगवदनभिमतत्वात् । तत्त्व- विदां साङ्खयानां कर्मयोगाधिकारस्येति । अयं भावः - असन्न्यासिनो योगिनः सन्न्यासिनस्तु साङ्ख्याः । सन्न्यासिनां सांङ्खयाना- मिति तत्रतत्र भाष्यकारैरेवोक्तत्वात् । तत्र योगिनो यदि योगवशात्तत्त्वविदो भवेयुस्तर्हि ते प्रारब्ध- वशात्सन्न्यासं वा स्वीकुर्य:, राज्य वा पालयेयुः, अवस्थाद्वयेऽप्यहं ब्रह्मास्मीति ज्ञानात्मकं भगव- वजन न जहति । तत्त्ववित्त्वात्तेषाम् । इदमेव हि तत्त्ववित्त्वं यदहं ब्रह्मास्मीति निश्चयज्ञानम् । साङ्ख्यास्तु श्रवणादिवशात्तत्त्वज्ञानं प्राप्यापि स्वसन्न्यासं त्यक्त्वा पुनर्गार्हस्थ्य स्वीकृत्य कर्म कर्तुं नार्हन्ति - वान्ताशनवत्सन्यासिनां गार्हस्थ्यस्वीकारस्य दुष्टत्वात् । एवं सति तत्त्व विदामतत्त्वविदां वा साङ्ख्यानां ज्ञानयोग एवाधिकारः, न कर्मयोगे । अतत्त्वविदां योगिनां तु कर्मयोग एवाधिकारः । तत्त्वविदां योगिनां तु यथाप्रारब्धमुभयत्रापि । नन्वेवं तत्त्ववित्साङ्ख्यापेक्षया तत्वविदो योगिन एव विशृङ्खलत्वं सिद्धमिति चेत्सिध्यतुनाम- तत्त्ववित्त्व एवास्माकमभिनिवेशो नतु साङ्खघतत्त्ववित्त्वे । ननु यदि योगिनोऽपि तत्त्वविदस्त सन्न्या- सिनामपि वेदान्तशास्त्राधिकारः प्राप्तस्तच्चायुक्तं- ‘शान्तो दान्त उपरत’ इति श्रुत्या उपरतस्य सन्न्यासिन- एव तत्त्राधिकारस्य विहितत्वात् । ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रभाष्येऽप्येतदर्थस्यैव प्रपश्ञ्चितत्वादिति चेत्सत्यम् — सन्यासिनामेव वेदान्तशास्त्रेऽधिकारः, ये त्वसन्यासिनोऽपि प्रारब्धवशाद्वामदेवादिव- च्छ्रवणादिकं विनैव तत्त्वविदो जातास्तेषां वेदान्तशास्त्रेऽधिकारनिषेधेन तत्प्रतिपादनेन वा किं फलं स्यान्न किमपि । नहि भुक्तवन्तंप्रति माभुंक्ष्वेति वचनं सार्थकं स्यात् । तस्मादतत्त्वविदाम सन्न्यासिना- मेव वेदान्तशास्त्रेऽधिकारः श्रुत्या प्रतिषिध्यते । नतु तत्त्वविदामसन्यासिनां नाप्यतत्त्वविदां सन्न्या सिनामिति सिद्धम् । क्वचित्तु अतत्त्वविदामप्यसन्न्यासिनां द्विजानां वेदाधिकार सच्चाद्वेदान्तश्रवणाघि- कारोप्यस्तीति दृश्यतेऽलमतिप्रसङ्गेन । यो यतिः तत्त्ववित्कर्मी वाऽव्यभिचारेण ध्रुवेणान्यदेवता- विषयत्वमनापन्ने नेति वा । विवेकविज्ञानमात्मानात्मविवेरुरूपं ज्ञानं तदेवात्मा स्वरूपं यत्य तेन भगव- दनुग्रहाथः प्रसादश्वित्तशुद्धिस्तस्माज्जायत इति तथोक्तः । चित्तशुद्धिपूर्वकत्वाद्ज्ञानस्येति भावः । भवनं स्थितिः, सत्त्वमिति यावत् । ब्रह्मगो भवनं ब्रह्मभवनं तस्मै ब्रह्मपनाय ब्रह्मस्वरूपे गावस्थानाये- C १९६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु नात्मकेन भक्तियोगेन सेवते स गुणान्समतीत्यैतान्यथोक्तान्ब्रह्मभूयाय भवनं भूयो ब्रह्म- भूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवतीत्यर्थः ॥ २६ ॥ कुत एतदिति, उच्यते- ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ||२७|| इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगव- गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्र श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगोनाम चतुर्दशोऽध्यायः । ब्रह्मण इति । ब्रह्मणः परमात्मनो हि यस्मात्प्रतिष्ठाऽहं प्रतितिष्ठत्यस्मिन्निति प्रतिष्ठाऽहं प्रत्यगात्मा कीदृग्भूतस्य ब्रह्मणः १ अमृतस्याविनाशिनोऽव्ययस्याविकारिण- त्यर्थः । फलितमाह – मोक्षायेति । कल्पते ‘कुपू सामर्थ्ये’ इति धातुपाठादाह - समर्थो भवतीति समर्थी भवतीति पाठे, असमर्थस्समर्थो भवति समर्थी भवति । ज्ञानात्प्राग्ब्रह्मस्वरूपेणावस्थातुमसमर्थ इदानीं तु समर्थो भवतीत्यर्थः । वस्तुतो ब्रह्मभूतस्याप्यस्याज्ञानाद्ब्रह्मस्वरूपेणावस्थातुमसामर्थ्य मा सी दिव ज्ञानेन तु तदज्ञाने नाशिते सति सामर्थ्य पुनरासीदिवेत्यर्थः । नहि वस्तुतो बन्धमोक्षौ स्वश्चिन्मात्रे केवले सदाशिवे आत्मनि ॥ २६ ॥ ब्रह्मण इति । ननु ‘गुणातीतस्स उच्यत’ इति, ‘ब्रह्मभूयाय कल्पत’ इति च साध्यमेकमेव निर्दिष्टं गुणातीतं ब्रह्मेति गुणातीतत्वस्य ब्रह्मभावत्वात् । अतस्तत्साधनतारतम्यमयुक्तं फलभेदस्यैव साधनतारतम्यप्रयोजकत्वात् । त्वया त्वौदासीन्यगुण कर्तृत्वानुसन्धानाद्यपेक्षया भगवद्भजनमेव विशिष्ट - मित्युच्यते, तदेतत्कुतो हेतोरिति पृच्छति - कुत एतदिति । उत्तरं वच्मीति प्रतिजानाति- उच्यत इति । एतत्कुत इति शङ्कायामिदं पद्यमुच्यत इत्यर्थः ।

1 यद्वा यो मां भजते स ब्रह्मभूयाय कल्पत इति यदुकं तदेतत्कुत इत्यत्रोच्यत इत्यर्थः । - ममृतस्याव्ययस्य च शाश्वतस्य धर्मस्य सुखस्य ऐकान्तिकस्य च ब्रह्मणः प्रतिष्ठा, यस्मादहमीदृशस्य ब्रह्मणः प्रतिष्ठा तस्मान्मद्भक्तो ब्रह्मभूयाय कल्पत इत्येतदुक्तमित्यर्थः । यस्मादहं ब्रह्मण: प्रतिष्ठा तस्मा- न्मद्भजनं गुणातीतत्वप्राप्तौ विशिष्टं साधनमिति वाऽर्थः । प्रतिष्ठाऽऽधारः । स्वरूपमिति यावत् । स्वरूपे . हि स्वयं तिष्ठति यथा स्वरूपभूतमृदि घटस्तस्मात्स्वस्य स्वरूपमेवाधारः । ‘स्वे महिम्नि प्रति- ष्ठित ‘मिति श्रुतेश्च । महिम्नि स्वरूप इत्यर्थः । अनेन च स्वस्य स्वरूपमेवाधार इति प्रतिपादनेन स्वरूपातिरिक्तः कोऽपि नास्याधार इति स्वरूपस्य स्वस्मादनतिरिक्तत्वेन स्वस्य स्वयमेवाधार इति च ज्ञायते । ततश्च स्वरूपत्व माघारस्य सिद्धं भवति । अत एवोक्तमाधारस्स्वरूपमिति यावदिति । वक्ष्यति च सम्यग्ज्ञानेन परमात्मतया निश्चीयते प्रत्यगात्मेति भाष्यकार इहैव । ननु कोऽसौ यो ब्रह्मणः प्रतिष्ठेत्युच्यतेऽत आह- अहमिति । तदर्थमाह - प्रत्यगात्मेति । अहंशब्दलक्ष्यार्थत्वात्प्रतीच इति भावः । चतुर्दशोऽध्यायः । १९७ शाश्वतस्य च नित्यस्य धर्मस्य धर्मज्ञानस्य ज्ञानयोगधर्मप्राप्यस्य सुखस्यानन्दरूपस्य ननु ववतुरीश्वरत्वेन कृष्णस्य लक्ष्यार्थः परमात्मैव भवेन्न तु प्रत्यगात्मेतिचेत्, मैवम् - देहत्रयान्तरचैतन्यस्य प्रत्यगात्मत्वं तद्बाह्यचैतन्यस्य परमात्मत्वमिति व्यवहारात् । अयं च व्यवहारोऽ- विद्याकल्पित इति नातिशङ्कनीयम् । एवं प्रत्यगात्मनः परमात्माधारत्वं चाविद्याकृतमेव । नहि विद्या- दशायां प्रत्यगात्मेति परमात्मेति च भेदव्यवहारस्सम्भवति । भेदव्यवहारहेतुभूतदेहाद्युपाध्यभावात् । देहादौ सति हि देहादेरिदमान्तरमिदं बाह्यमिति वक्तुं शक्यते । तस्माद्यद्देहत्रयान्तरं मत्यवचैतन्य तदेव परमात्मनस्स्वरूपत्वात्प्रतिष्ठाभूतमिति कृत्वा ब्रह्मणोऽहं प्रतिष्ठेत्युच्यते । ननु घटाकाशस्य महाकाश एव प्रतिष्ठा, नतु महाकाशस्य घटाकाश:- विरुद्धत्वात्तथा पर- मात्मैव प्रत्यगात्मनः प्रतिष्ठा अपरिच्छिन्ने परमात्मन्यन्तःकरणपरिच्छिन्नस्य प्रत्यगात्मनः कल्पितत्वा- दथवा सत्त्वादिति चेत्, मैत्रम् — परमात्मवत्प्रत्यगात्मनोऽप्यपरिच्छिन्नत्वादन्यथा परिच्छिन्नवे सत्यनित्यत्वप्रसङ्गात् । यदि देहादिभिरान्तरस्य प्रनीचः परिच्छेदस्स्यातर्हि तैरेव बाह्यस्य परमात्मनोपि परिच्छेदस्स्यादेव । देहाद्बहिर्वर्तमानत्वोपाधिपरिच्छिन्नत्वात्परमात्मनः । नई स परमात्मा देहादन्त- वर्तते येन पूर्णः स्यात् । अन्वर्बहिर्मध्ये च व्याप्तो हि परिपूर्ण इत्युच्यते । ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थित’ इति श्रुतेश्च । अत एव हि प्रत्यक्परभेदो निषिध्यते । तस्मादपरिच्छिन्न एव प्रत्यगात्मा । तस्यान्तरत्वकथनं तु हृदेशोपलब्धिप्रयुक्तम् । हृदि हयुपलभ्यते प्रत्यगात्मा मनी- षिभिरहङ्कारसाक्षित्वेन । साक्षिणा ह्यन्तःकरणादिकं भास्यते । स च साक्षी स्वयमेव स्फुरति स्वप्रका- शत्वात् । एतत्साक्षिभास्यत्वादेव सर्वं जगत्साक्ष्याश्रयमित्युच्यते । भासको हि भास्यस्याधारः । भास काधीनसत्ताभानवत्त्वाद्भास्यस्य । नहि भासकाभावे भास्यं स्फुरेत् । नहि दीपाद्यभावे घटस्फुरति न वाऽस्तित्वं प्रतिपद्यते । यथा जगदिदं साक्षिभास्य तथा जगदाश्रयब्रह्मचैतन्यमपि साक्षिभास्यमेव । न ह्यन्तस्साक्षी यथाऽहमिति स्फुरति तथा बहिर्ब्रह्मचैतन्यमहमिति स्फुरति । अहङ्काराश्रयत्वप्रयुक्तं हि साक्षित्वं सुषुप्तावपि हि सूक्ष्मरूपेणाहङ्कारोऽस्ति । मृतिमूर्छादिषु तदहङ्काराभावादेव हि साक्षित्वस्या - प्यभावः । साक्ष्यस्य सत्त्वे हि साक्षित्वं स्यादात्मनः । अहङ्काराभावसाक्षित्वं तु चैतन्यरूपमेव । निर्धर्मकं हि चैतन्यम् । तस्मादहङ्काराश्रयेणैव साक्षिणा जगदधिष्ठानं ब्रह्म ज्ञायत इति परमात्मनः प्रत्यगात्मैव प्रतिष्ठे युक्तम् । न चैतावता ब्रह्मणो ज्ञेयत्वापत्तिः, स्वभास्यत्वप्रयुक्तं ज्ञेयत्वं यथा नास्ति साक्षिणस्तथैव स्वाभिन्नसाक्षिभास्यत्वप्रयुक्तमपि ज्ञेयत्वं न ब्रह्मण इति । 1 यद्यपि परमात्मा स्वरूपचैतन्येन मायावृत्तिभिर्वा सर्वमवभासयति सर्वज्ञत्वादिति सर्वसाक्ष्येव । तथापि परमात्मनिष्ठं तद्भासनं नास्माकं प्रत्यक्षं प्रत्यगात्मनिष्ठं तु प्रत्यक्षमिति तथोक्तम् । यद्वा सर्वावभासकोऽपि परमात्मा साक्षिभास्य एव । यथा साक्ष्यपि प्रत्यगात्मा प्रमातृभास्यः । तस्मात्पर- मात्मावभासकत्वात्परमात्मनः प्रतिष्ठा भवति प्रत्यगात्मा । प्रत्यगात्मना हि वेद्यते परमात्मा । अविनाशिन इति । विनाशाभावादेव जन्मादिविकाराभाव इत्याह– अविकारिण इति । अत एव नित्यत्वमस्येत्याह – नित्यस्येति, धर्मस्येति । धर्मप्राप्ये ब्रह्मणि धर्मत्वमुपचारात् । १९८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु " ऐकान्तिकस्याव्यभिचारिणः, अमृतादिस्वभावस्य परमानन्दस्वरूपस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठा सम्यग्ज्ञानेन परमात्मतया निश्चीयते, तदेतत्- ‘ब्रह्मभूयाय कल्पत’ इत्युक्तम् । यया चेश्वरशक्त्या भक्तानुग्रहादिप्रयोजनाय ब्रह्मप्रतिष्ठते प्रवर्तते सा शक्तिर्ब्रह्मवाहं शक्तिशक्ति- मतोरनन्यत्वादित्यभिप्रायः । अथ वा ब्रह्मशब्दवाच्यत्वात्सविकल्पकं ब्रह्म तस्य ब्रह्मणो सच घर्मो ब्रह्मप्रापको ज्ञानयोगरूप एवेत्यभिप्रेत्याह - ज्ञानयोगधर्मप्राप्यस्येति, अव्यभिचारिण इति । सत्यस्येत्यर्थः । अमृतादिस्वभावस्येति । अमृतत्वान्ययत्वशाश्वतत्वज्ञानप्राप्यत्व सत्यत्वस्वभाव- स्येत्यर्थः । सुखं तु न स्वभावः, किंतु स्वरूपमेवेत्याह– परमानन्देति । निरतिशयं सर्वातिशयं निरुपाविकं च यत्सुखं शाश्वतं तद्धि परमानन्दः । ‘आनन्दो ब्रह्मेति व्यजाना’ दिति श्रुतेस्उदेव ब्रह्मस्वरूपं च । प्रत्यगात्मा परमात्मनः प्रतिष्ठेत्युक्तत्वाद्विद्वान् प्रत्यगात्माऽहं परमात्मस्वरूप एवेति निश्चिनुयात् । ततश्च निश्वयात्स ब्रह्मभूयाय कल्पत इत्यर्थः । यद्वा अहमित्यस्य वक्ता कृष्ण ईश्वर एवार्थः । ततश्चाहमीश्वरो ब्रह्मगः प्रतिष्ठा । प्रतितिष्ठ- तेऽस्मादिति प्रतिष्ठा । प्रवृत्तिसाधनभूत इत्यर्थः । इदमेवाह — ययेति । ब्रह्म यया ईश्वराख्यया शक्त्या भक्तानुग्रहादिप्रयोजनाय प्रतितिष्ठते सा शक्तिरहं ब्रह्मव । कथं शक्तेर्ब्रह्मत्वमंत आह– शक्तीति । अयमर्थः - निर्विशेषं ब्रह्मैव मायोपाधिकं सदीश्वर इत्युच्यते- मायावच्छिन्न चैतन्यस्येश्व- रत्वात् । तत्र चैतन्यांशस्य ब्रह्मत्वेन मायाया एवेश्वरांशत्वं सिद्धम् । अतो नास्ति मायातिरिक्तः कश्वनेश्वरः । एवमन्तःकरणातिरिक्तो जीवोऽपि नास्येव । अन्तःकरणावच्छिन्न चैतन्यं जीव इति लक्षणे चैतन्यांशस्य ब्रह्मत्वात् । अत एव ‘न जीवो नामान्योस्त्यनुभवमयान्तःकरणतो न मायातंश्चेशो नहि चिदपरूपा प्रतिफले’ दिति हयग्रीवस्तुतिर्मदीयैव सङ्गच्छते । अनुभवमयेति हयग्रीवस्य ब्रह्मण- सम्बोधनम् । सा चेश्वरशब्दवाच्या मायाख्या शक्तिरेवेति ब्रह्मणोऽनन्यैव यथाऽग्निशक्तिग्नेरनन्या । तस्मादीश्वरोऽहं ब्रह्मैवेतीश्वरं मां ब्रह्मत्वेन जानीयादिति । एवं ज्ञानात्फलं तु प्रत्यगात्मनः परमात्मा- भेदनिश्चयात्परमात्मशक्तेरीश्वरस्य प्रत्यगात्मशक्तेर्जीवस्य चाभेदसिद्धिः । यद्वा खशक्तिभूतादीश्वरात्स्वस्य प्रतीच: भीत्यभावः फलम् । अभयं हि मोक्षः । 1 पक्षान्तरमाह - अथ वेति । ब्रह्मणस्सविकल्पकस्य निर्विकल्पकोऽहं प्रतिष्ठा । कथं सविकल्प - कत्वं ब्रह्मणोऽत आह— ब्रह्मशब्दवाच्यत्वादिति । ब्रह्मशब्दवाच्यस्वरूपधर्मस्य ब्रह्मणि सद्भावादन्यथा ब्रह्मशब्दावाच्यत्वापतेरिति भावः । अहंशब्दस्तु लक्षणया निर्विकल्पकं वस्तु बोधयतीति कृत्वा अहं- शब्दलक्ष्यार्थभूतो निर्विकल्पकत्ववाच्य एव । इदं निर्विकल्पकं वस्तु भवतीति वक्तुमशक्त्र इत्यर्थः । नचैव निर्विकल्पक शब्दवाच्यत्वं तत्राप्यस्तीति वाच्यं निर्विकल्पक शब्दवाच्यत्वस्य निर्विकल्पकत्व- प्रयोजकत्वेन सविकल्पकत्वानावहत्वात् । नचाहंशब्दलक्ष्यत्वरूप विकल्पोऽस्तीति वाच्यं, अहंशब्द- लक्ष्यस्वमित्यस्यावाच्यत्वमित्येवार्थात् । नचावाच्यत्वरूपो विकल्पोऽस्तीति वाच्यं, अवाच्यत्वविकल्पस्य वक्तुमशक्यत्वेन तस्य विकल्पत्वानभ्युपगमात् । यो हि विकल्पत्वेन वक्तुं शक्यस्स एव हि विकल्प चतुर्दशोऽध्यायः । १९९ निर्विकल्पकोऽहमेव नान्यः प्रतिष्ठाऽऽश्रयः । किंविशिष्टस्य ? अमृतस्यामरणधर्मकस्य । अव्ययस्य च व्ययरहितस्य । किंच शाश्वतस्य च नित्यस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य सुखस्य तज्जनितस्य ऐकान्तिकस्य च ‘प्रतिष्ठाऽहमिति वर्तते ||२७|| इति श्रीपरमहंस परिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये गुणत्रय- विभागयोगोनाम चतुर्दशोऽध्यायः । इत्युच्येत । तस्मात्सविशेषम्य ब्रह्मणो निर्विशेषं प्रतिष्ठा । प्रतितिष्ठत्यस्मिन्निति प्रतिष्ठेति व्युत्पत्ति- मभिप्रेत्याह — आश्रय इति । निर्विशेषे वस्तुनि मायया विशेषस्य क ल्पितत्वात्सविशेषं ब्रह्मापि कल्पितमेव । विशेष्यांशस्य चैतन्यस्याकल्पितत्वेपि विशेषणांशस्य कल्पितत्वेन विशिष्टस्यापि कल्पि - तत्वव्यवहारात् । यथा घटाकाशस्य महाकाशे कल्पितत्वम् । ननु सविशेषे ब्रह्मणि के विशेषास्सन्ति कल्पिता अविद्ययेति पृच्छति - किं विशिष्टस्येति । कैर्विशेषैर्विशिष्टस्येत्यर्थः । अमृतत्वमव्ययत्वं चेति द्वाभ्यां विशेषाभ्यां विशिष्टस्येत्यर्थः । किं तत्सवि शेषं ब्रझेत्यत आह- मोक्षाख्यस्येति । हि यस्मान्मदाश्रयं निर्विकल्पकवस्त्वा बहुव्रीहिः । अनन्तमव्ययममृतं ब्रह्म मुमुक्षुभिः प्राप्यते, तस्मादस्यापि मोक्षाख्यस्य सविशेषस्य ब्रह्मणोऽहं निर्विशेष. चैतन्यं प्रतिष्ठा । अयमर्थ: यन्निर्धर्मकं चैतन्यं तन्न केनापि प्राप्तुमईति निर्धर्मके तस्मिन् प्राप्यत्वरूप- धर्मायोगात् । यत्तु मुमुक्षुभिः प्राप्यते तन्मोक्षाख्यं ब्रह्म सघर्मकमेव । अमृतत्वाव्ययस्वरूपधर्मवत्त्वा- तस्य । मोक्षो हि शाश्वतो निर्विकारध । शुद्धचैतन्ये बन्धवन्मोक्षस्याप्यभावात् । निर्विकारश्शाश्वतों मोक्षः कल्पित एवाविद्यया चैतन्ये । निर्विकारत्वादिधर्माणां चैतन्ये कल्पितत्वाद्वतो मोक्षस्यापि कल्पितत्वमिति भावः । ज्ञाननिष्ठालक्षणधर्मस्य नित्यत्वं च नित्यफलवत्त्वरूपं यावद्विदेह कैवल्यमव स्थितत्वरूपं वा । 9 सुखस्येति । जीवन्मुक्तिसुखस्येत्यर्थः । मोक्षसुखस्य ब्रह्मण इत्यनेनोक्तत्वात् । एकान्तनियत- स्याव्यभिचारिणः । सर्वदापि स्थायित इत्यर्थः । यावद्विदेह कैवल्यं जीवन्मुक्तिसुखस्य विदुषां स्थायित- दिति भावः । अहं निर्विकल्पकं चैतन्यं प्रतिष्ठाऽऽश्रा इति प्रवर्तत इतेि । विद्वानिति शेषः । विद्वदात्मन एव निर्विकल्पक चैतन्यत्वादिति भावः । य एवं प्रवर्तते स ब्रह्मयाय कल्पते । अनेन च श्लोकेन निर्विकल्पकं चैतन्यमेवात्मा, तत्रैव पञ्चन्मोक्षः ब्रह्म जीवन्मुक्ति- सुखं तत्साधनज्ञानयोगश्चत्येतत्सं कल्पितं, तथा प्रत्यगात्मपरमात्मभेदः प्रत्यगात्मनि जी, पर- मात्मनीश्वरश्च कल्पितः । ततश्च भक्तानुप्रहादि स द्वैतं तत्रैव कलम्। तथा प्रत्यगात्मतो र्ज्ञातृत्वज्ञेयत्वप्रयुक्त आधाराधेयभावश्च तत्रैव कल्लिशः । तदेतत्सर्वाचा घटना २०० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु माया । सा चाहं ब्रह्मास्मीति ज्ञानादेव निवर्तते । य एवं विद्वानात्मानं नारायणं भक्तियोगेन भजते स तदैव ब्रह्मभूयाय कल्पते । औदासीन्यादिसाधनसम्पन्नस्तु क्रमेण ब्रह्मभूयाय कल्पते । तस्मा- दात्मभजनमेव जीवन्मुक्ति विदेहमुक्तिद्वयसाधनमिति सिद्धम् । यदुत्तमं ज्ञानं प्रवक्ष्यामीति भगवता प्रोक्तमादौ तदुक्तं प्रकाश चेत्यारभ्य यावदध्यायपरि- समाप्तिग्रन्थेन । अथ वा, उत्तमज्ञानसाधनमुक्तं प्रकाशं चेत्यादिना । ज्ञानं तु साक्षाद्ब्रह्मणोऽहमिति श्लोकेनोक्तमिति बोध्यम् । इदमेवात्मज्ञानमुत्तराध्याये विस्तरेण वक्ष्यति च । यत्तु रामानुजः – अहमव्यभिचारिभक्तियोगेन सेवितोऽमृतस्याव्ययस्य च ब्रह्मगः प्रतिष्ठेति, जीवस्य फलदशाभावित्वेन निर्दिष्टं रूपमिह ब्रह्मशब्देनोपचर्यत इति देशिकश्च तन्मन्दम् जीवस्य यदि फलदशायां विद्यमानरूपादन्यद्रूपं भवति तर्हि जीवरसविकार एव स्यात् । पूर्वरूपपरित्याग उत्तर- रूपस्वीकारश्व विकारो हि । ततश्चानित्यत्वं स्यात् । अणोर्जीवस्य बृहत्त्वप्राप्तावणुत्वनाशेन नाश- प्रसङ्गात्, बृहत्त्वजन्मना जन्मप्रसङ्गाच्च । ज्ञानधर्मबृहत्त्वं तु निरस्तं बहुशः पूर्वम् । तच्च फलदशा- भाविजीवस्य बृहत्त्वं जीवाश्रयमेवेति न तस्य ब्रह्माश्रयत्वं च सम्भवति । येन बृहत्त्वमधिगतं सहि बृहत्त्वस्याश्रयः । नचेश्वरगतं बृहत्त्वं जीवस्यागतमिति वाच्यं, ईश्वरस्याब्रह्मत्वप्रसङ्गात् । नापीश्वर- गत बृहत्त्वतुल्यं बृहत्त्वं जीवस्य प्रादुर्भूतमिति वाच्यं तथासति जातस्य तस्य बृहत्त्वस्य- ‘जातस्य हि ध्रुवो मृत्यु ‘रिति शास्त्रान्नाशस्यावश्यम्भावित्वेन मोक्षस्यानित्यत्वप्रसङ्गात् । तस्माद्बन्घदशायां विद्यमान- मेवाज्ञानतिरोहितत्वेनाविद्यमानतुल्यं बृहत्त्वं मोक्षदशायामज्ञानावरणनाशात्पुनः स्फुरतीति ब्रह्मैव जीवः, तस्य च ब्रह्मभूत जीवस्य ब्रह्मणः, प्रतिष्ठात्वं तु पूर्वोक्तविधया कल्पितमेवाविद्ययेति बोध्यम् । नच विद्यामविद्या कथं कल्पयेदिति वाच्यं, विद्याया बुद्धिवृत्तिविशेषात्मिकाया अविद्याकल्पित- बुद्धिपरिणामात्मकत्वेनाविद्याकल्पितत्वसम्भवात् । न हि परमार्थदशायां विद्या विद्यते, येन कथं विद्याया अविद्याकल्पितत्वमिति शङ्कयेत । किं सुप्तिमूर्छादौ परमार्थदशायां केनापि विद्याऽनुभूयते ? तस्मात्परमार्थत एकमेवाद्वितीयं ब्रह्म बन्धमोक्षविद्यादयस्सर्वेऽप्यविद्याभूमावेवेति स्थितमद्वैतम् ॥२७॥ इति श्री कोण्डोपनामक रामकविकृतौ श्रीभगवद्गीता शाङ्करभाष्यार्कप्रकाशे गुणत्रयविभागयोगोनाम चतुदशोऽध्यायः । श्रीहयग्रीवार्पणमस्तु । + २६ ॐ