१२

श्रीहयग्रीवाय नमः । भाग्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतासु द्वादशोऽध्यायः । द्वितीयाध्यायप्रभृतिषु विभूत्यन्तेष्वध्यायेषु परमात्मनो ब्रह्मणोऽक्षरस्य विध्वस्त- सर्वोपाधिविशेषस्योपासनमुक्तं सर्वयोगैश्वर्यज्ञानशक्तिमत्सच्वोपाधेरीश्वरस्य तव चोपासनं तत्रतत्रोक्तं विश्वरूपाध्याये तु ऐश्वरमाद्यं समस्तजगदात्मस्वरूपं विश्वरूपं त्वदीयं दर्शित- मुपासनार्थमेव त्वया । तच्च दर्शयित्वोक्तवानसि ‘मत्कर्मकृ’ दित्यादि । अतोऽहमनयोरुभयोः पक्षयोर्विशिष्टतरबुभुत्सया त्वां पृच्छामीत्यर्जुन उवाच – वृत्तं कीर्तयित्वा तत्र प्रश्नसङ्गतिमर्जुनस्य दर्शयति-विभूत्यन्तेष्विति । विभूत्यध्यायान्तेष्वि- त्यर्थः । दशमाध्यायावसानेष्विति यावत् । अध्यायेष्विति नवस्विति भावः । विध्वस्ता निरस्तास्सर्वे उपाधिविशेषा यस्य तस्य विध्वस्तसर्वोपाधिविशेषस्य निरुपाधिकस्य शुद्धस्येति यावत् । तव चेति । मायाशबलितब्रह्मण इत्यर्थः । उभयोरिति । निर्गुणसगुण ब्रह्मोपासनयोरित्यर्थः । नच निर्गुणसगु- णोपासनयोः फलभेदादन्यतरस्योत्कृष्टत्वं सुबोधमिति वाच्यं, फले भेदाभावादुभयस्यापि सायुज्यफल- श्रवणात् । नच निर्गुणोपासनस्यैव सायुज्यं फलमिति वाच्यं, मत्कर्मकृदित्यादिना सगुणोपासनस्यापि सायुज्यफलकथनादित्यभिप्रेत्याह - मत्कर्मकृदित्याद्युक्तवानसीति, अत इति । फलैकत्वादित्यर्थः 1 ये भक्ता एवं सततयुक्तास्सन्तः त्वां पर्युपासते ये चाप्यव्यक्तमक्षरं पर्युपासते तेषां मध्ये के योग- वित्तमाः । अयमाशयः – सर्वत्र लोके आस्तिकानां प्रवृत्तिर्निवृत्तिश्चेति मार्गद्वयमेवास्ति । तथा च ’ दर्शितं भाष्यारम्भे भाष्यकृद्भिः । तदेव मार्गद्वयम् – ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽ- नघ ! ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मिति श्रीकृष्णेनाप्युक्तम् । निवृत्तिर्ज्ञानयोगः, प्रवृत्तिस्तु कर्मयोग इति विवेकः । इयमेव प्रवृत्तिः कर्मफलासङ्गादित्यागद्वारा कर्मयोगीभूय मुमुक्षून् संसारात्तारयति । तदत्यागात्तु संसारिणस्संसारयतीति बोध्यम् । इदं च मार्गद्वयं भिन्नाधिकारि- विषय- एकस्य युगपन्मार्गद्वयप्रवृत्त्यसम्भवात् । तत्र ज्ञानिनां निवृत्तिर्विषय:- ‘ज्ञानयोगेन साङ्ख्याना’ - मित्युक्तत्वात् । ‘वेदाविाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ! कं घातयति हन्ति क’ - मिति ज्ञानिनस्सर्वकर्माभावस्योक्तत्वाच्च । अमी च ज्ञानिनस्सन्न्यासिन एव तेषामेव कर्मपरित्याग- सम्भवात् । अग्निहोत्रादिकं सर्वे कर्म परित्यज्य व्रजति हि परिव्राट् । कर्मिणस्तु परिशेषाद्ब्रह्मचारि- गृहस्थवानप्रस्था अमीषां प्रवृत्तिरेव विषयः । एवंस्थिते ये निर्गुणं प्रत्यगभिन्नं परमात्मानमुपासते तेषां २०४ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ज्ञानिनां सन्न्यासिनां विश्वरूपोपासनमिदं विधीयते किंम् ? यद्वा कर्मिणाम् ? नाद्यः- निर्गुणोपास- कानां सगुणोपासनाया असम्भवात् । मत्कर्मकृदित्यादिना विश्वरूपोपासकानां भक्तानां कर्मविधानाच्च । न हि सन्न्यासिनां कर्म सम्भवति । तस्मात्कर्मिणामेव विश्वरूपोपासनम् । एवं कर्मयोगिनां विश्व- रूपादिसगुणोपासकानामिह भक्तशब्देन व्यवहारः । अन्येषां तु ज्ञानिशब्देनेति विवेकः । नच कर्मिभ्यो ज्ञानिभ्यश्चान्य एव भक्ता इति वाच्यं, ‘ये वर्णाश्रमधर्मस्थास्ते भक्ताः केशवं प्रति’ इति स्मरणात् । लोकेऽस्मिन् द्विविधा निष्ठेति निष्ठाद्वैविध्यस्यैवेहाप्युक्तत्वेन निष्ठात्रै विध्यकल्पनस्याप्रमा- णत्वात् । तस्मात्स्ववर्णाश्रमधर्माचरणमेव भक्तिः । नच पूज्येषु प्रीतिर्भक्तिरिति वाच्यं, पूज्यप्रीति- कारित्वस्यापि धर्म एवान्तर्भावात् । नच सगुणस्य साकारस्य भगवत उपासनं भक्तिरिति वाच्यं तस्या अपि कर्मस्वेवान्तर्भावात् । ब्राह्मणानां विहितेषु षट्कर्मसु देवाचनं ह्येकं कर्म । तस्मान्न कर्मयोगा- द्विन्नो भक्तियोगः । नच बहिः प्रतिमादौ देवार्चनस्य कर्मत्वेऽपि मनसि भगवद्विमहाचनस्या कर्मत्वमिति वाच्यं, तस्यापि मानसिकक्रियात्वेन कर्मत्वात् । अहमिदानीं भगवतः स्नानं कल्पयामि, प्राग्दन्तधावनं कल्मितमथ वस्त्रबन्धं कल्पयिष्यामीत्येवं हि बहिरिव मनस्यप्यनुसन्धत्ते भक्तः । एवं मानसिकैरप्यनेकै- वस्त्राभरणाद्युपकरणैस्साध्यस्य भगवन्मानसिकाचनस्य कथमकर्मत्वम् ? कारकव्यापारतन्त्रं हि कर्म । तस्माद्भक्तियोगः कर्मयोगादनन्य इति स्थितम् । अनयोश्च योगयोः क उत्तम इति पृच्छत्यर्जुनः । ननु कर्मयोगाद्ज्ञानयोग उत्तम इति कृष्णेनोक्तमर्जुनेनावधारितं च ’ ज्यायसी चेत्कर्मणस्ते मला बुद्धिर्जनार्दन’ इत्युक्तत्वादर्जुनेन । ज्ञानयोगिनां साक्षान्मोक्षः कर्मयोगिनां तु ज्ञानद्वारेति फल - भेदोऽप्युक्तः, चित्तशुद्धेरेव कर्मफलत्वात् । ततश्च योगद्वारा योगिनश्चोत्कर्षसिद्धेर्ज्ञानयोगिन उत्कर्ष इति ज्ञात एवांशे नास्त्यर्जुनस्य प्रश्नावकाशः । नच कर्मिभ्यो ज्ञानिनामुत्कुष्टत्वेऽर्जुनेन ज्ञातेऽपि भक्तेभ्यो ज्ञानिनामुत्कृष्टत्वं न ज्ञातमिति वाच्यं कर्मिणामेव भक्तत्वात् इति चेदुच्यते - कर्मयोगा- द्भक्तियोगोऽनतिरिक्त इति नार्जुनो वेत्ति - ज्यायसी चेदिति प्रश्नात्प्राग्भक्तियोगस्तु नोक्तः, ततश्च सगुण- ब्रह्मोपासनं विना ये फलाभिसन्धि त्यक्त्वा यज्ञादिकर्माणि कुर्वन्ति तेभ्यः कर्मिभ्य उसमा भवन्तु ज्ञानिनः । ये सगुणब्रह्मोपासनं कुर्वन्त एव कर्मयोगे स्थितास्तेभ्यः किं ज्ञानिन उत्तमा उत नेति संशयादर्जुनस्य प्रश्न उपपद्यत इति । नच सगुणब्रह्मोपासन एव स्थिताः कर्मयोगे त्वस्थिता एते. कर्मभ्योऽन्ये भक्ता इति वाच्यं, मत्कर्मकृदिति कर्मकरण एव भक्तिमार्गस्योपसंहृतत्वात् । एवं सतत- युक्ता इत्येवंशब्देनातीतानन्तरश्लोकेन मत्कर्म कृदित्यादिना प्रोक्तस्यैवार्थस्य परामर्शनात् । न हीधरा- भक्त ईश्वरार्थे कर्म करोति, स्वामिभक्तस्यैव भृत्यस्य स्वामि कार्यकरणदर्शनात् । नापि ज्ञानी कर्म करोति त्यक्तसर्वक्रियत्वात्सन्न्यासिनस्तस्य । तस्मात्कर्मयोग्येव भक्तः । एतदज्ञानात्त्वर्जनस्य प्रश्नः । यद्वा कर्मयोगाद्ज्ञानयोग उत्तम इति श्रीकृष्णेनादावुत्तमर्थ श्रीविश्वरूपसन्दर्शनसंक्षुब्धान्तरङ्गतया विस्मृ- त्यार्जुनः पृच्छति – ये विश्वरूपोपासकास्त्वत्कर्म कृतो भक्तास्तेऽपि त्वामेव यान्ति, मत्कर्मकृदिति यस्स मामेतीति चोक्तत्वात् । ये च शुद्धं प्रत्यगभिन्नं ब्रह्मोपासते तेऽपि त्वामेव यान्ति, ‘अनन्यचेतास्सततं द्वादशोऽध्यायः । अर्जुन उवाच - एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १॥ २०५ एवमिति । एवमित्यतीतानन्तरश्लोकेनोक्तमर्थं परामृशति ‘मत्कर्मकृ’ दित्यादिना । यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ!’ इत्यादिदर्शनात् । अतो नानयोः फलतो वैलक्षण्यं ज्ञातुं शक्यते । तस्मादहं पृच्छामि भक्तज्ञानिनोर्मध्ये क उत्तम इति । ननु भगवतापि कथमुक्तं कर्मणस्साक्षात्कैवल्यं यस्स मामेतीति चेन्मैवम् - यस्स ज्ञानद्वारा मामेतीति भगवदाशयात् । तदाशयापरिज्ञानात्त्वर्जुनस्य प्रश्नः । यत्तु रामानुजः - विश्वरूपेश्वरोपासका भक्ताः प्रत्यगात्मोपासकास्तु ज्ञानिनस्तदुभयतारतम्य- जिज्ञासया प्रश्नोऽर्जुनस्येति, तन्मन्दम् — किमयं प्रत्यगात्मा जीव उतेश्वरः ? आधे- जीवादीश्वर - स्योत्कृष्टत्वेन जीवोपासकादीश्वरोपासकस्योत्कृष्टत्वसिद्धेः प्रश्नस्यैवानवकाशः । द्वितीये - खमतत्यागः परमतप्रवेशश्च । किंच अन्योपासकानां तदन्यप्राप्तिर्विरुद्धा । जीवोपासकानां त्वीश्वरप्राप्तिर्वक्ष्यते । ये स्वक्षरं पर्युपासते तेऽपि मामेव प्राप्नुवन्तीति वक्ष्यमाणत्वात् । नच मां प्राप्नुवन्तीत्यस्य मत्समा- नाकारम संसारिणमात्मानं प्राप्नुवन्तीत्यर्थ इति वाच्यं, मुख्यार्थपरित्यागे कारणाभावात् । लक्षणाश्रयण- स्याप्रमाणत्वात् । न हि मामितिशब्दो मत्समानाकारमित्यमुमर्थं शक्त्या बोधयितुमीष्टे । तस्माद्रा- प्राप्तिश्रवणाद्ब्रह्मोपासकानामेव ब्रह्मप्राप्तिसम्भवादक्षरोपासका एते ब्रह्मोपासका एव । तच्च प्रत्यगभिन्नमेव । 5 किंच ईश्वरस्य सोपाधिकं निरुपाधिकं चेति रूपद्वयमस्ति तत्र सच्चिदानन्दलक्षणं चैतन्यं निरुपाधिकं रूपं विश्वरूपादिकं तु सोपाधिकमित्यस्यार्थस्य सम्प्रतिपन्नत्वात्सोपाधिकेश्वर रोपासकानां चोभयेषामपीश्वरोपासकत्वेन साम्यादमीषां के योगवित्तमा इत्यर्जुनस्य जिज्ञासया प्रश्न उपपद्यते । न त्वन्यथेत्येवं प्रश्नोपपत्तेश्चाक्षरमिह ब्रह्मैव नतु तद्भिन्नः प्रत्यगात्मा । नच सोपाधिकोपासकानां न साक्षान्मोक्ष इति सिद्धयेदेव विवेकोऽर्जुनस्य प्रश्नं विनापीति वाच्यं यस्स मामेतीति, सोपाधिको पास- कस्यापि साक्षान्मोक्षस्योक्तत्वात् । नच विरुद्धार्थः कथमुक्तो भगवतेति वाच्यं स कर्मी मां ज्ञान- द्वारैतीति श्रीकृष्णाशय इति पूर्वमेवोक्तत्वात् ।

ननु यदि विश्वरूपोपासकानां न साक्षान्मोक्षस्तर्हि भगवंता कृष्णेनार्जुनप्रश्नानन्तरमपि न भक्तानामस्ति साक्षान्मोक्षः, परं तु ज्ञानिनामेवेति कुतो नोक्तमिति चेदुच्यते —— उक्तमेव भगवता व्ययमर्यादया । कथं मय्यावेश्येति भक्तानां युक्ततमत्व मित्येवोक्तं, नतु मां प्राप्नुवन्तीति भगव- स्प्राप्तिः । अक्षरोपासकानां तु ते प्राप्नुवन्ति मामेवेति भगवत्प्राप्तिरेवोक्ता, नतु युक्ततमत्वादिकम् । अनेन च ज्ञानिनामेव साक्षान्मोक्षः, भक्तानां तु ज्ञानद्वारेति भगवदाशय इति ज्ञायते । रामानुजभाष्यरीत्या त्वीश्वरोपासकानां युक्तंतमत्वं जीवोपासकानामीश्वरप्राप्तिरिति महानयं विरोध इति । तस्मात्सगुण निर्गुणब्रह्मोपासकयोर्योगिसाङ्ख्ययोरन्यतरप्राशस्त्यबुभुत्सया पृच्छत्यर्जनः - एवं सततेति । २०६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु एवं सततयुक्ताः, नैरन्तर्येण भगवत्कर्मादौ यथोक्तेऽर्थे समाहितास्सन्तः प्रवृत्ता इत्यर्थः । ये भक्ता अनन्यशरणास्सन्तः त्वां यथादर्शितं विश्वरूपं पर्युपासते ध्यायन्ति ये चान्येऽपि त्यक्तसर्वेषणास्सिन्न्यस्तसर्वकर्माणो यथाविशेषितं ब्रह्माक्षरं निरस्तसर्वोपाधित्वादव्यक्तमकरण- गोचरं यद्धि लोके करणगोचरं तव्यक्तमुच्यते, अंजेर्धातोस्तत्कर्मकत्वादिदं त्वक्षरं तद्विपरीतं; शिष्टैश्चोच्यमानैर्विशेषणैर्विशिष्टं तद्ये चापि पर्युपासते तेषामुभयेषां मध्ये के योगवित्तमाः १ के अतिशयेन योगविद इत्यर्थः ॥ १ ॥ सततं नैरन्तर्येण युक्तास्समा हितास्ततयुक्ताः । कामीषां योगोऽत आह - भगवत्कर्मादा- विति । भगवदर्थानि कर्माणि भगवत्कर्माणि यज्ञादीनि नित्यनैमित्तिकानि । आदिपदाद्विश्वरूप- ध्यानादिकं गृह्यते । भक्तेः परां काष्ठामाह– अनन्यशरणा इति । न विद्यते ईश्वरादन्यश्शरणं रक्षिता येषां ये तथोक्ताः । ईश्वरमेव सर्वात्मना शरणं गता इत्यर्थः । एतेनानन्यशरणत्वं भक्ते- र्लक्षणमिति सिद्धम् । यथेति । दर्शितं विश्वरूपमनतिक्रम्य यथादर्शित विश्वरूपम्। त्वां पर्युपासते तव विश्वरूपं ध्यायन्तीत्यर्थः । एषणा दारघनपुत्रविषयाः । त्रयोऽभिलाषाः । यथा विशेषितमिति । यथोक्त- विशेषणविशिष्टमित्यर्थः । अक्षरस्य विशेषणानि तु ‘एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्त- रात्मा । कर्माध्यक्षस्सर्वभूतानिवासस्साक्षी चेता केवलो निर्गुणश्च’ इत्यादिश्रुतिप्रसिद्धानि इहापि तत्र - तत्रोक्तानि बोध्यानि । यद्वा अव्यक्तत्वरूपविशेषणविशिष्टमित्यर्थः । अव्यक्तत्वे हेतुमाह– निर- स्तेति । उपाधीनां करणविषयत्वान्निरुपाधिकचैतन्यस्य तदविषयत्वाच्चेति भावः । करणानि मनआदी- न्द्रियाणि । तत्कर्मकत्वादिति । तत्करणगोचरं वस्तु कर्म यस्य तत्त्वात् । सकर्मकोऽयं व्यजिधातुः प्रकटनार्थकः । गोपी भावं व्यञ्जयतीत्यादिप्रयोगात् । कर्म चास्य प्रकटीकरणयोग्यमेव भवति - अप्र- कटीकरणीयस्य प्रकटीकरणासम्भवात् । करणग्राह्यमेव प्रकटीकरणीयमकररणग्राह्यस्य प्रकटनायोगात् । व्यङ्गथं हि घटादिकं व्यञ्जकैश्चक्षुरादिभिर्व्यज्यते । तस्माध्यजिधातोर्व्यय कर्मकत्वात्तस्या कर्मभूत एवात्माऽव्यक्तः। अथ वा तत्कर्मकत्वात्तत्करणगोचरीकरणमेव कर्मक्रिया अर्थ इति यावत् । यस्य तत्त्वात् । करणगोचरीकरणं प्रकटीकरणं प्रकटनमिति यावत् । यथाविशेषितमित्येतस्यार्थमाह- विशिष्टैरिति । विशिष्टैरसाधारणैः । चकारादुक्तैरित्यर्थः । वक्ष्यमाणैरिति च । उभयेषां विश्व- रूपोपासकानामक्षरोपासकानां चेत्यर्थः । योगवित्तमा योगं कर्मयोगं ज्ञानयोगं च विदन्ति भजन्त इति योगविद :- योगिनो ज्ञानिनश्च । तमप्प्रत्ययार्थमाह– अतिशयेनेति । तेषां के योगवित्तमाः । तेषां योगविदामुभयेषां मध्ये के उत्तमा इत्यर्थः । यद्यपि तमप्प्रत्ययो विच्छब्दान्वयी, तथापीह योगशब्दे- नान्वेतव्यः । ततश्च तेषां मध्येऽतिशयितं योग के भजन्तीति फलितार्थः । यदाश्रितो योगोऽति- शक्तिस्तेऽतिशययोगवत्त्वाद्योगवित्तमा इत्युच्यन्ते । यद्वा योगमतिशयेन विदन्तीति योगवित्तमा द्वादशोऽध्यायः । २०७ श्रीभगवानुवाच — ये त्वक्षरोपासकास्सम्यग्दर्शिनो निवृत्तैषणास्ते तावत्तिष्ठन्तु तान् प्रति यद्वक्तव्यं तदुपरिष्टाद्वक्ष्यामः । ये वितरे- श्रीभगवानुवाच - मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ||२|| मयीति । मयि विश्वरूपे परमेश्वरे आवेश्य समाधाय मनः, ये भक्तास्सन्तो मां सर्वयोगेश्वराणामधीश्वरं सर्वज्ञ विमुक्तरागादिक्लेशतिमिरदृष्टिं नित्ययुक्ता अतीतानन्तरा- ध्यायान्ते उक्तश्लोकार्थन्यायेन सततयुक्तास्सन्त उपासते श्रद्धया परया प्रकृष्टयोपेता ये ते मे मम मता अभिप्रेता युक्ततमा इति । नैरन्तर्येण हि ते मच्चित्ततया अहोरात्रमतिवाहय- न्त्यतो युक्तं तान् प्रति युक्ततमा इति वक्तुम् ॥२॥ • योगस्य परां काष्ठां गतवन्त इत्यर्थः । कर्मयोगज्ञानयोगयोरुभयोरपि योगत्वात्तत्र कर्मिणां ज्ञानिनां वा योगपरा काष्ठा सिद्धयतीति प्रश्नः । किं विश्वरूपोपासनं योगस्य परा काष्ठा ? उत परब्रह्मोपासन- मिति यावत् । नच विदन्तीत्यस्य भजन्तीति व्याख्यानमयुक्तमिति वाच्यं धातूनामनेकार्थकत्वा- त्कर्मयोगादीनामनुष्ठानं विना ज्ञानमात्रात्फलाभावाच्च ॥१॥ मयीति । ये परया श्रद्धयोपेता मयि मन आवेश्य नित्ययुक्तास्सन्तो मामुपासते ते युक्ततमा मे मताः । उक्तश्लोकेति । ‘मत्कर्मकृन्मत्परमो मद्भक्तस्सङ्गवर्जितः । निर्वैरस्सर्वभूते ‘ष्विति न्यायेने- त्यर्थः । अतिशयेन युक्ता युक्ततमाः । युक्तास्समाहिताः । कुतोऽमीषां भक्तानां युक्ततमत्वमत आह – नैरन्तर्येणेति । अतिवाहयन्ति गमयन्ति । अयं भावः — ये तु विश्वरूपोपासनशून्याः केवलं कर्मयोगिनस्ते युक्ताः, ये तु विश्वरूपोपा- सकाः कर्मयोगिनस्ते युक्ततमा इति । न चाक्षरोपास केभ्योऽपि कर्मयोगिन उक्तलक्षणा उत्कृष्टा इति युक्ता ज्ञानिनः, युक्ततमास्तु भक्ता इति वाच्यं कर्मज्ञानयोगयोः ज्ञानयोगस्य प्रशस्ततरत्वस्य प्रागेव बहुशः प्रपञ्चितत्वात् । मोक्षं प्रत्यव्यवहितो हि ज्ञानयोगः । इहाप्ययमर्थो वक्ष्यते- ‘ते प्राप्नुवन्ति मामेवेति । ननु सगुणोपासकानां निर्गुणोपासकानां च मध्ये के युषततमा इत्यर्जुनप्रश्नस्य केवलकर्मिणां सगुणोपासकानां च मध्ये सगुणोपासका युवततमा इति श्रीकृष्णोत्तरमननुरूपमिति चेन्मैवम् - किं सगुणोपासका युवततमाः ? उत निर्गुणोपासका इत्यर्जुनप्रश्नस्यानुरूपमेव श्रीकृष्णोत्तरं सगुणोपासका एव युक्ततमा इति । तर्हि निर्गुणोपासकाः किं युक्ता अतो वक्ष्यति ‘ते प्राप्नुवन्ति मामेवेति । निर्गुणोपासका न युक्ता नापि युक्ततमाः, किंतु साक्षादहमेव ते । ‘ज्ञानी त्वात्मैव मे मत’ मित्युक्तत्वादिति तदाशयः । ननु यद्येवं तर्हि तेषांमध्ये के अतिशयेन योगविद इति प्रश्नोऽनुपपन्न इति चेन्मैवम् - तस्याप्यत्रैव तात्पर्यात् । यद्यपे तेषां मध्ये के युक्तमा इति प्रश्नेन के पुनर्युक्ता इति प्रश्नान्तरं २०८ श्रीभगवद्गीतासु भाष्या प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु गम्यते, तथापि न तदिहानुसंहितम् । यद्वा भवतु प्रश्नान्तरमिहानुसंहितं, तथापि नानुपपत्ति:- तेषां मध्ये न केऽपि युक्ताः, किंतु भक्ता युक्ततमा एव, ज्ञानी त्वहमेव, युक्तास्तु केवलं कर्मिण एवे- त्युत्तरकल्पनोपपत्तेः । ननु उभयेषां योगिनां मध्ये के पुनरुत्तमा इति प्रश्नार्थी वर्णितः पूर्वमिदानीमुत्तरं त्वन्यथाऽ- वतारितमितिचेत्, मैवम् — ते प्राप्नुवन्ति मामेवेत्यनेन ज्ञानिनामेवोत्तमत्वमिति सिद्धत्वादुत्तरस्य । नच ते मे युक्ततमा मता इति साक्षादुत्तमत्वं भक्तानमेवोक्तमिति वाच्यं युक्ततमा इत्यस्योत्तमा इत्यर्थालाभात् । नच योगवित्तमा इत्यनेनाभिन्नार्थक एवं युक्ततमा इत्ययशब्द इति वाच्यं, वक्तृ- विवक्षयाऽर्थ भेदसम्भवाच्छब्दद्वयस्य । तथाहि सगुणोपासकानामक्षरोपासकानां च मध्ये के पुनरुत्तमा इति विवक्षया के योगवित्तमा इत्युक्तमर्जुनेन, उत्तमानामेव योगवित्तमत्वादित्याशयात् । भगवांस्तु तद्विवक्षां ज्ञात्वापि तेषां मध्ये के पुनर्युक्ततमा इत्यमुमेव यथाश्रुतार्थं गृहीत्वा उत्तरयामास भक्ता एव युक्ततमा इति । एतावता श्रीकृष्णोत्तरवाक्येनाऽर्जुनस्य स्वविवक्षानुसारेण भक्ता एवोत्तमा इति कृष्णेनोत्तरमुक्तमिति प्रत्ययः स्यात्, तन्निरासाय च वक्ष्यति ज्ञानिनो मामेव प्राप्नुवन्ति, ममैव ज्ञानित्वादतो न युक्तो नापि युक्तमो ज्ञानी, किं त्वहमेवेति । ततश्चार्जुनविवक्षितप्रश्नस्यापि दत्तमुत्तरं भवति । तदेवमर्जुनद्धतार्थस्य भक्तज्ञानिनोः क उत्तम इत्यस्यार्जुनप्रश्नवाक्यबललभ्यस्य के युक्ततमा इत्यस्य च भगवता दत्तमुत्तरद्वयमिति बोध्यम् । वस्तुतस्तु तेषां के योगवित्तमा इत्यस्य यथाश्रुत एवार्थः । भक्तानां ज्ञानिनां चोभयेषां मध्ये के युक्ततमा इति । युक्ततमज्ञाने सति परिशेषाद्युक्तज्ञानं भवेदिति के वा युक्ता इति न पृष्टमर्जुनेन । आवां रामलक्ष्मणावित्युक्ते कोऽनयो राम इति प्रश्नवत् । भगवांश्च प्रश्नानुरूपं प्रति- वचनं ददौ — भक्ता युक्ततमा इति । ततः परिशेषन्यायेन ज्ञानिनां युक्तत्वे सिद्धे प्रत्याह भगवान् - ’ ते प्राप्नुवन्ति मामेवेति । ज्ञानिनो न युक्ता नापि युक्ततमाः किं त्वहमेवेति । तथा च ते मे युक्ततमा मता इति भगवदुत्तर श्रवणाज्जातोऽर्जुनस्य भवता युक्ततमत्वाज्ञानिभ्यो युक्तेभ्य उत्तमा इत्याकारकः प्रत्ययः ते प्राप्नुवन्ति मामेवेति वचनश्रवणान्निर्मूलं नष्ट आसीत् । परं तु ज्ञानिनो भगवदात्मत्वादुत्तमाः । भक्तास्तु भगवदभिमतत्वा तेभ्योऽपकृष्टा इति प्रत्यय आसीत् । तस्मात्केवल- कर्मयोगिनो युक्ताः, भक्तियोग सहितकर्मयोगिनस्तु युक्ततमाः सम्यग्दर्शिनस्तु भगवानेवेति कृत्वा नात्र युक्ततमा इत्यनेन ज्ञान्यपेक्षया भक्तानामुत्तमत्वमर्थ इति भ्रमितव्यम् । ज्ञानस्य मोक्षंप्रति साक्षा- त्साधनत्वाद्भवतेर्ज्ञानद्वारेति परंपरा साधनत्वाच्च । भक्नियोगो हि कर्मयोगादनतिरिक्तः । कर्मणश्च ज्ञानादपकृष्टत्वं बहुशः प्रपञ्चितं प्रागेव । तस्मादत्र ज्ञान्यपेक्षया भक्ता युक्ततमत्वादुत्तमा इति, भवता मोक्षं शीघ्रं गच्छन्तीति च रामा- नुजव्याख्यानं नादर्तव्यम् । भक्तानां परम्परया मोक्ष इति ज्ञानिनां साक्षान्मोक्ष इति च सिद्धान्ति- 1२७ द्वादशोऽध्यायः । किमितरे युक्ततमा न भवन्ति ? न; किंतु तान्प्रति यद्वक्तव्यं तच्छुणु- ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । . सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ||३|| -. २०९ ये त्विति । ये त्वक्षरमनिर्देश्यमव्यक्तत्वादशब्द गोचरमिति न निर्देष्टुं शक्यते, अतोऽनिर्देश्यमव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्ता- दुपासते । उपासनं नाम यथाशास्त्रमुपास्यस्यार्थस्य विषयीकरणेन सामीप्यमुपगम्य तैल- धारावत्समानप्रत्ययप्रवाहेण दीर्घकालं यदासनं तदुपासनमाचक्षते । अक्षरस्य विशेषणमाहो- - तत्वेन ज्ञानिनामेव शीघ्रं मोक्षलाभात् । ‘ब्रह्मविद्ब्रह्मैव भवति, तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ इत्यादिश्रुतिभ्यः । तस्माद्भक्ता भगवतो युक्ततमत्वेनाभिमताः । ज्ञानिनस्तु साक्षादात्मत्वेनाभिमता इति ज्ञानिन एवोत्तमाः ||२|| य इति । ये त्विन्द्रियग्रामं सन्नियम्य सर्वत्र समबुद्धयस्सर्वभूतहिते रताश्च सन्तोऽनिर्देश्य- मव्यक्तं सर्वत्रगमचिन्त्यं कूटस्थमचलं ध्रुबमक्षरं पर्युपासते ते मामेव प्राप्नुवन्तीति श्लोकद्वयान्वयः । निर्देष्टुं प्रतिपादयितुम् । यदि शब्देन प्रतिपाद्येत, तर्हि शब्द गोचरत्वाद्व्यक्तमेव भवेत् । ननु यदि शब्दागोचरं ब्रह्म तर्हि प्रत्यक्षाद्यविषयत्वाद्धर्मादिवच्छास्त्रप्रमाणा विषयत्वाच्चासदेव भवेदिति चेत्, मैवम् — अनुभवैकवेद्यत्वादात्मत्वेन सर्वप्रत्यक्षत्वात्तद्विषयत्वेनैव सर्वस्य सत्तालाभाच्च । नन्वत्यन्तं शब्दागोचरत्वे कथं ब्रह्मणो व्यवहार्यत्वम् ? कथं वा शास्त्रसम्प्रदायप्रवृत्ति: ? कथं वा सास्त्रयोनित्वाघिकरणसङ्गतिः ? कथं वा श्रुतिगीतोपपत्तिरिति चेत्, उच्यते – सुखतापादिवदनुभ- बैकवेद्यमेव ब्रह्म । न हि मम सुखमीदृशं ताप ईदृश इति कोऽपि वक्तुं क्षमते । तद्वद्वोदृशमिति कोऽपि वक्तुं नेष्टे । एवं दुर्वचत्वादेव तस्य शब्दागोचरत्वं, न तु ब्रह्मादिशब्दानां तद्वाचकत्वाभावात् । यद्वा ब्रह्मादिशब्दा अभिधया न ब्रह्म बोधयन्ति, किंतु लक्षणया । एवमभिघाऽविषयत्वादेव ब्रह्मण- शब्दागोचरत्वमिति । वस्तुतस्तु अद्वितीये ब्रह्मणि शब्दाद्यभावात्कथं शब्दगोचरत्वं ब्रह्मणः ? व्यवहारस्तु माययोप- पद्यते । माया हि शब्दागोचरे ब्रह्मणि शब्दादीन् कल्पयित्वा तगोचरत्वमपि कल्पयति । तस्मा- च्छब्दागोचरस्यापि ब्रह्मणो मायया भवति व्यवहार्यत्वमिति । उपासत इति । अहं ब्रह्मास्मीत्याकारेणेति भावः । यथाशास्त्रं शास्त्रोक्तविधयेत्यर्थः । उपा- स्यस्यार्थस्य प्रकृते परमात्मनः । अन्यत्र तु विश्वरूपरामकृष्णादिरूपादिकमुपास्यार्थ इति बोध्यम् । विषयीकरणं गोचरीकरणं साक्षात्कार इति यावत् । उपगम्येति । मनस इति कर्तुश्शेषः । समानोऽभिन्नः प्रत्ययानां प्रवाहस्तेन तैलधारावदविच्छिन्नेनेत्यर्थः । आसनं स्थितिः । मनस इत्य- स्याध्याहृतस्यानेनान्वयः । यन्मनस आसनमिति । ब्रह्माद्युपास्यविषयक मानसिकदीर्घ कालावच्छिन्न- २१० 534 श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु पास्यस्य - सर्वत्रगं व्योमवद्व्याप्यचिन्त्यं च अव्यक्तत्वादचिन्त्यम् । यद्धि करणगोचरं तन्मनसापि चिन्त्यं तद्विपरीतत्वादचिन्त्यमक्षरं कूटस्थं दृश्यमानगुणमन्तर्दोषं वस्तु कूटं कूटरूपम् | ‘कूटसाक्ष्य’ मित्यादौ कूटशब्दः प्रसिद्धो लोके । तथा चाविद्याद्यनेकसंसारबीज- प्रत्ययप्रवाह उपासनमित्युच्यत इत्यर्थः । उपास्यविषयक निरन्तरप्रत्ययप्रवाहोपलक्षिततया मनस उपास्य- समीपे आसनमुपासनमिति निरुक्तेरिति भावः । मनस उपास्यसमीपे स्थितिस्सुषुप्तावपि सम्भवति, मनसस्तदा ब्रह्मण्येव लयादत आह—- प्रत्ययप्रवाहेणेति । सत्यप्यहं ब्रह्मास्मीति वाचिकप्रत्ययप्रवाहे विषयान्तरसङ्गेन मनसो ब्रह्मणो दूरतः स्थितावुपासनं न सम्भवतीत्यत आह- सामीप्यमुपगम्येति । निर्विकल्पक समाधौ ब्रह्मणस्समीपे स्थितस्यापि मनसः प्रत्ययाभावान्नोपासनमित्यत आह–प्रत्यय- प्रवाहेणेति । कथं मनस उपास्यसामीप्योपगतिरत आह - विषयीकरणेनेति । वृत्तिद्वारा मनो विषयसमीपं गच्छतीति भावः । उपास्यस्याक्षरस्य विशेषणम् । जात्येकत्वाद्विशेषणान्याह — सर्वत्रग- मित्यादीनि ।

इमान्येव विशेषणानि विशिष्टैर्विशेषणैरुच्यमानैरित्यनेन संगृहीतानि प्राग्भाष्ये । ‘एको देव’ इत्यादिश्रुतिसिद्धानि चेमान्येव । सर्वत्र गच्छतीति सर्वत्रगं सर्वव्यापीत्यर्थः । तत्र दृष्टान्तमाह- व्योमवदिति । तद्विपरीतत्वात्करणागोचरत्वादित्यर्थः । अनिर्देश्यं वाचा / वक्तुमशक्यमचिन्त्यं मनसा चिन्तयितुमशक्यमिति न पौनरुक्त्यम् । नच मनसाप्यचिन्त्यत्वे ‘मनसैवाऽरेऽनुद्रष्टव्य’ मिति श्रुतिविरोध इति वाच्यं मनसा इदमीदृशमिति चिन्तयितुमशक्यमित्यर्थाद्ब्रह्मणि चेडवाया अभावान्निर्विशेषचि- न्मात्रे । दृश्यमाना बहिरुपलभ्यमाना गुणा यस्य तद्दृश्यमानगुणम् । अन्तर्गर्भे दोषा यस्य तदन्तर्दोषं वस्तु कृत्रिममैन्द्रजालादिकं मिथ्यावस्त्वित्यर्थः । कूटरूपकमिति । रूपकं रूप्यं रजतमिति यावत् । रजतवद्बहिरवभासमानं वस्तुतो रजतगुणरहितं च रङ्गादिकं वस्तु रजतत्वेन व्यवह्रियमाणं सत्कूटरूपक • मित्युच्यते । नेदं यथार्थ रूपकं रजतगुणराहित्यात् । नापि शुक्तिरजतवत्प्रातिभासिक कटकाद्युप- योगित्वात् । किंतु विलक्षणं कृत्रिमं कूटरूपकमेव । इदमधुना दुषद्रूपकमिति व्यवह्रियते । कूट- साक्ष्यमिति । कूटं च तत्साक्ष्यं च कूटसाक्ष्यम् । साक्षिणो भावो धर्मो वा साक्ष्यम् । कौटसाक्ष्य- मिति पाठे तु कूटसाक्षिणो भावो धर्मो वा कौटसाक्ष्यम् । यथार्थवाक्यवदव भासमानं वस्तुतोऽयथार्थं वाक्यं कूटसाक्ष्यमयथावृत्तं वाक्यमित्यर्थः । प्रसिद्ध इति । अनृतार्थवाचित्वेन प्रसिद्ध इत्यर्थः । ननु लोके बहिस्सत्यवस्तुवदवभासमाना वस्तुतस्त्वसत्याः कूटरूपककूटसाक्ष्यादिपदार्थाः कूटशब्दवाच्या भवन्तु नाम, प्रकृते कूटशब्दवाच्यं वस्तु किमत आह— तथा चेति । अविद्या तूलाज्ञानमादिपदादस्मितारागद्वेषादिग्रहणम् । अविद्यादी - न्यनेकानि संसारबीजानि यत्र तत्तथोक्तम् । अत एवान्तर्दोषं मायाव्याकृतकूटेत्यलादिपदाच्छक्तिप्रकृ- त्यज्ञानादिपरिग्रहः । एवमाद्यनेकशब्दवाच्यतया प्रसिद्धम् । द्वादशोऽध्यायः । २११ मन्तर्दोषवन्मायाऽव्याकृतादिशब्दवाच्यतया ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’, ‘मम माया दुरत्यया’ इत्यादौ प्रसिद्धं यत्तत्कूटं, तस्मिन्कूटे स्थितं कूटस्थं तदध्यक्षतया । क्व प्रसिद्धमत आह-मायां त्वित्यादि । यद्वस्तु तत्कूटमित्युच्यते । ननु दृश्यमानगुणत्वं नोक्तमिति चेत्सुग्रहत्वघिया नोक्तं भाष्यकारैः । सत्यत्वप्रियत्वादयो दृश्यमानगुणाः । तदेवं वस्तुतो दोषवदापाततो गुणवच्चाज्ञानं कूटमित्युच्यत इति सिद्धम् । इदं हि खकार्यैस्सहानृतजडदु : खात्मकमपि सच्चिदानन्दमिव प्रतिभाति तथा व्यवह्रियते च । यथा कूटरूपकं यथार्थरूपकवत् । नच कूटरूपकं यथार्थ रूपकः कूटमज्ञानं यथार्थज्ञानवत्प्रतिभातीति वक्तव्यं, न चेष्टापत्ति:- यथार्थज्ञानस्याभावात्संत्त्वेऽद्वैतहानेश्च । तथा यथार्थज्ञानस्याभावे तु इदमज्ञानं कूट। ज्ञानं भवितुं नार्हतीति वाच्यं, अनृतजडदुःखात्मकतया सच्चिदानन्दमिदमज्ञानं सच्चिदानन्द ब्रह्मवदस्ति भाि प्रियमिति सच्चिदानन्दत्वेन व्यवह्नियत इत्यस्याज्ञानस्य कूटवस्तुत्वसिद्धेः । वस्तुतोऽरजतमपि रजतत्वेन प्रतिभासमानं कटकाद्युपयोगि हि वस्तु कूटरजतमिति । एतेन अज्ञानस्यानृतत्वे कथमर्थक्रियाकारित्वं, तज्जन्यप्रपञ्चस्य वा कथं तदिति शङ्का प्रत्युक्ता । अनृत- स्यापि कूटरूपकस्य अर्थक्रियाकारित्वदर्शनात् । तस्मात्सत्यवदव भासमानं वस्तुतस्त्व सत्यमज्ञानं कूटमेव । १. ननु कूटरूपकपदवाच्यं द्रुषदादिरूपं किञ्चिद्वस्त्वस्त्येव परं तु तद्वस्तु स्वस्वरूपेणाव्यवह्रियमाण- मन्यरूपेण व्यवह्रियमाणं च सत्कूटशब्दवाच्यं भवति, तद्वदिहाप्यज्ञानमिति किञ्चिद्वस्त्वस्ति वा न वा ? आद्ये- अद्वैतहानिः, द्वितीये- कस्य कूटत्वमज्ञानस्यैवाभावादिति चेत्, मैवम् ब्रह्मण्यध्यस्थत्वा - त्सप्रपञ्चमिदमज्ञानं ब्रह्मैव । आरोप्यस्याघिष्ठानात्मकत्वात् । तथा च वस्तुतोऽज्ञानपदवाच्यं वस्तु ब्रह्मैव । तद्ब्रह्मैकमेवास्ति । कालत्रयेऽपि नान्यदिति नाद्वैतहानिः । तदेव सच्चिदानन्दं ब्रह्म- अनृत- जडदुःखात्मकाज्ञानखरूपेण गृह्यमाणं सत्कूटमित्युच्यते । तथा च सच्चिदानन्दात्मक स्वरूपेणागृह्यमाण- मनृतजडदुः खरूपेण च गृह्यमाणं कूटशब्दवाच्यमज्ञानशब्दवाच्यं च वस्त्वस्त्येव ब्रह्मेति न कश्चिद्दोषः । न चैवं कूटरूपकसत्यरूपकवत्कूटा ज्ञानसत्याज्ञानयोरभावेऽपि कूटब्रह्मसत्यब्रह्मणोस्सद्भावस्सिद्ध्यति, तच्चानिष्टं वापि ब्रह्मणः कूटत्वा श्रवणादिति वाच्यं, कार्यब्रह्मकारणब्रह्मशब्दाभ्यां कूटब्रह्मसत्यब्रह्मणो- रेवाभिघीयमानत्वात् । ब्रह्मकार्य ह्यज्ञानं कार्यब्रह्मेति हि व्यवहियते - अकार्यत्वाद्ब्रह्मणः । न चाज्ञानप्रति फलितश्चिदाभास ईश्वर: कार्यब्रह्मेति वाच्यं तस्यापि चिदाभासस्य मिथ्यात्वेन कूटत्वात् । अज्ञानप्रतिफलितचिदाभासवत्साभासाज्ञानस्यापीश्वरत्वाच्च । तस्मात्कार्यब्रह्म कूटब्रह्मैव । कार्यस्य सर्वस्यापि मिथ्यात्वेन कूटत्वात् । तच्च कूटब्रह्म अज्ञानं, तस्यैव परिणामो जगदिति जगद्- प्यज्ञानमेव । नच ब्रह्मद्वयमप्रसिद्धमिति वाच्यं, बाढ द्वे ब्रह्मणीति भाष्यकारैरुकत्वात् । ’ एतद्वै सत्यकाम यत्परं चापरं चेति श्रुत्यापि परापरब्रह्मद्वयस्योक्तत्वात् । एतत्कार्यापरब्रह्मव्यावृत्तय एव परं ब्रह्मेति ब्रह्मणः परत्वविशेषणदानाच्च तत्र तत्र ।’ एवमज्ञानस्य कूटब्रह्मत्वादेव ब्रह्मशब्दवाच्यत्वमपि ! मम योनिर्महद्ब्रह्मेत्यादिप्रयोगदर्शनात् । तस्मात्कूटरूपक सत्यरूपकवत्कूटसत्यब्रह्मणी द्वे स्तः । तत्र कूटब्रह्म दृश्यमज्ञानादिकं, सत्यब्रह्म तु २१३ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अथ वा राशिवि स्थितं कूटस्थम् । अत एवाचलं, यस्मादचलं तस्माद्भुवं नित्यमित्यर्थः॥ ३ ॥ हगात्मेति विवेकः । तस्मिन्नित्यज्ञाने इत्यर्थः । किमज्ञानेऽस्य स्थितिः कुण्डे बदरवदत आह- तदध्यक्षतयेति । अज्ञानस्य साक्षित्वेन स्थितमित्यर्थः । अज्ञानसाक्षिणमिति कूटस्थशब्दस्य याव- दर्थः । नच साक्षित्वेनापि कथमज्ञाने ज्ञानस्य स्थितिरिति वाच्यं, चैतन्यरूपज्ञानस्याज्ञानाविरोधित्वात् । अज्ञानमस्ति, अज्ञानं भाति, अज्ञानं प्रियमिति प्रतीतनामज्ञाने ब्रह्मव्याप्तिं विनाऽसम्भवात् । अत एव ब्रह्मणस्सर्वान्तरात्मत्वं- सच्चिदानन्दरूपेण सर्वत्र व्याप्य स्थितत्वात् । कूटस्थशब्दस्यार्थान्तरमाह - अथ वेति । कूटो राशिस्स इव तिष्ठतीति कूटस्थं यथा त्रीह्यादि- राशिः स्वोचितं देशमवष्टभ्य निरन्तरमवतिष्ठते तद्वन्महतो महानयमात्मा सर्व जगदवष्टभ्य निरन्तरं तिष्ठतीत्यर्थः । अत एवेति । राशिवत्स्थितत्वादेवेत्यर्थः । नहि राशिचलति । यद्वा अत एव माया- ध्यक्षत्वादेवेत्यर्थः । मायायास्सर्वव्यापित्वेन तदध्यक्षस्यापि सर्वव्यापित्वात्परिपूर्णत्वेन तस्याचलत्वं युक्त- मिति भावः । अचलं न चलतीत्यचलः तं चलन रहितमित्यर्थः । अपरिपूर्णस्य परिच्छिन्नस्य चलन- सम्भवात् तादृशस्य चानित्यत्वादचलोऽयं नित्य इत्याह- ध्रुवं नित्यमिति । नहि परिपूर्ण वस्तु कापि चलितुमर्हति, येन तस्या नित्यत्वं स्यात् । अस्माद्देशात्कापि गतं हि वस्तु नष्टमित्युच्यते । यथा देव- दत्तादिः खर्गादिकम् | अत्र रामानुजः – अक्षरं प्रत्यगात्मस्वरूप, अनिर्देश्यं देहादन्यतया देवादिशब्दा निर्देश्यं, सर्वत्र देवादिदेहेषु वर्तमानं कूटस्थं सर्वसाधारणमचलमप्रच्युता कारमिति । तत्तुच्छम् - यदि देवादिशब्दैरनिर्देश्यतया स्यादक्षरमनिर्देश्यं तर्हि ब्रह्मानन्दादिशब्दैरनि- र्देश्यतया स्याद्देहोऽप्यनिर्देश्यः । ’ यत्तददेश्यमग्राह्यं यतो वाचो निवर्तन्ते’ इत्यादिश्रुतयस्त्वात्मन एवा निर्देश्यत्वं ब्रुवन्ति, नतु देहस्येति । कथमयं श्रुतिविरुद्धार्थः परिगृह्येत ? तथा तव मते अण्वात्मनां कथं देवाद्यनेकदेहवृत्तिः ? न चैकस्मिन् देहे एक आत्मेत्येव सर्वदेहस्थमिति वाच्यं तथासति एक- देहस्थ एक एवात्मेति स्यादात्मन एकदेहस्थत्वादेकदेशस्थमेव नतु सर्वत्रगत्वम् । सर्वशब्दस्य देवादिदेहपरतया सङ्कोचोऽप्ययुक्तः- पाषाणादिसर्वपरिग्रहस्य युक्तत्वात् । पाषाणादिपरिग्रहे तु पाषाणा- दावचेतने चेतनस्याक्षरस्याभावान्न स्यात्सर्वत्रगत्वमक्षरस्य । ननु एक एवात्मा कालभेदेन देवादिशरीरपरिग्रहादेवादिशरीरेषु सर्वत्रास्तीति सर्वत्रग इयु - च्यत इति चेन्मैवम् — वर्तमानमित्यनेन कालविशेषस्योक्तत्वात् । वर्तमानकाले एकस्य देहिनो देहान्तरेषु स्थित्ययोगात् । कायव्यूहविद्या तु मायामयी नेहोदाहरणमर्हति । अस्मिन्मतेऽपि सर्वशब्द- सङ्कोचदोषस्तदवस्थ एव, तथा सर्वसाधारणः कूटस्थ इत्यप्ययुक्तः– सर्वसाधारणत्वस्य कूटस्थत्वे - पृथि- व्यादिपदार्था अपि कूटस्थाः स्युः । तेऽपि हि पशुपक्षिमनुष्यादिसर्वसाधारणा भवन्ति । जलं हि पानार्थ सर्वसाधारणं पृथिवी च निवासार्थे वायुश्च प्राणनार्थे गगनं चावकाशार्थं तेजध शीतापनयनाद्यर्थम् । तेषां फलमाह द्वादशोऽध्यायः । सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः || ४ || २१३. सन्नियम्येति । सन्नियम्य सम्यङ्नियम्योपसंहृत्य, इन्द्रियग्राममिन्द्रियसमुदायं, सर्वत्र सर्वस्मिन्काले, समबुद्धयः समा तुल्या बुद्धिर्येषामिष्टानिष्टप्राप्तौ ते समबुद्धयः । ते ये एवं- विधास्ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः । नतु तेषां वक्तव्यं किंचित् ‘मां ते प्राप्नुव’- किं चात्मनो भोगायतनत्वाद्देहोऽपि सर्वात्मसाधारण इति सोऽपि कूटस्थ एव स्यात् । नच सर्वसाधारणत्वं नाम तत्तद्देवाद्यसाधारणाकारासम्बद्धमित्यर्थ इति वाच्यं एवंविधमप्यसाधारणत्वं जला -.. दीनामस्त्येव । नहि जलादयो देवाद्यसाधारणाकारसम्बद्धाः । नच जलादिषु रसत्वाद्यसाधारणाकार - सम्बन्धोऽस्तीति वाच्यं, जीवेऽपि चेतनत्वाद्यसाधारणाकारसम्बन्धसद्भावात् । नच निराकारस्यैव सर्व- साधारणत्वं, नतु साकारस्येति वाच्यं, वाय्वाकाशयोरपि कूटस्थत्वप्रसङ्गात् मनइन्द्रियादीनां च ‘निराकाराणाम् । एवं कूटस्थशब्दस्याभिधेयमर्थे विहाय लाक्षणिकस्य सर्वसाधारणत्वरूपार्थस्य कल्पनमयुक्तमप्रमाणं च । तथा अचलमित्यस्य अप्रच्युताका रमित्यर्थवर्णनमप्ययुक्तं- आकारान चलतीत्यचल इत्याकारस्या- पादानस्य कल्पनस्यायुक्तत्वात् । न चलतीत्यचल इत्यपादानं विनैव निरुक्तिसिद्धेः । अपादानस्य स्वकपोलकल्प्यत्वात् । घटोऽपि मृत्स्वरूपान्न चलतीत्यचलत्वं स्याद्धस्यापि । नचोत्कान्तिमतो जीवस्य स्पन्दनिषेधादेरनुपपन्नत्वाञ्चलनरहित इति त्वदुक्तार्थोऽप्ययुक्त एवेति वाच्यं सर्वव्यापकस्याचलस्या- प्यात्मनः बुद्धितादात्म्याघ्यासेनोत्क्रान्त्यादिसिद्धेः ‘ध्यायतीव लेलायती ‘वेति श्रुतेः । बुद्धौ चलन्त्या- मात्मा चलतीव, तस्यामुत्क्रामन्त्यामात्मोत्क्रामतीव । नतु स्वत इति युक्तमचलत्वं चलनरहितत्वा- दात्मनः ||३|| सन्नियम्येति । समेति हर्षोद्वेगादिरहिता एकरूपेत्यर्थः । सर्वेषां भूतानां हिते हितकरणे तत्त्वोपदेशादिद्वारेति भावः । हिते आत्मनीति वा । रता आसक्ताः । मां परमात्मानमेव प्राप्नुवन्ति, न त्वन्यमित्येवकारार्थः । मां प्राप्नुवन्त्येवेत्यप्यन्वयः । एवकारान्नाप्राप्तिशङ्केति भावः । सर्वे वाक्यं सावधारणमिति न्यायात् । त एव मामेव प्राप्नुवन्त्येवेति वान्वयः । त एवेत्येवकारान्न तु कर्मयोगिन इत्यर्थः । यद्वा न तु भक्ता इत्यर्थः । भक्तानां साक्षान्मोक्षाभावादिति भावः । ’ ननु मां ते प्राप्नुवन्तीति यदुक्तं तन्नोपपद्यते, तथाहि किमप्राप्तस्य तव प्राप्तिरिति विवक्षित ? यद्वा नित्यप्राप्तस्येति ? नाद्यः- अप्राप्तत्वेन प्राप्यत्वे परमात्मनः कार्यत्वादनित्यत्वं स्यात्, सर्वव्याप- कत्वं च न स्यात्, सर्वेण सर्वदा सम्बद्धं हि वस्तु सर्वव्यापीत्युच्यते । न द्वितीयः- नित्याप्तस्य पुनः प्राप्त्ययोगादिति शङ्कामभ्युपेत्य समाधत्ते - न त्विति । यत्त्वया आशङ्कितं तत्सत्यमेव, अत एव ते मां प्राप्नुवन्तीति तेषां पुरतों नैव वक्तव्यम् । किंतु ते अहमेवेति वक्तव्य, तर्हि कृष्णेन कुतस्तथा , २१४ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु न्तीति । ‘ज्ञानी त्वात्मैव मे मत’ मिति युक्तम् । न हि भगवत्स्वरूपाणां सतां युक्त- तमत्वमयुक्ततमत्वं वा वाच्यम् ||४|| किंतु- क्लेशोऽधिकतर स्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥५॥ क्लेश इति । क्लेशोऽधिकतर : यद्यपि मत्कर्मादिपराणां क्लेशोऽधिकतरस्त्वक्षरात्मनां परमात्मदर्शिनां देहाभिमानपरित्यागनिमित्तः । अव्यक्तासक्तचेतसामव्यक्ते आसक्तं चेतो नोक्तमत आह– ज्ञानी त्विति । तथा च ‘ज्ञानी त्वात्मैव मे मत’ मिति पूर्वोक्तवाक्यानुसारादिहापि तथैव वक्तव्यं, नतु ते मां प्राप्नुवन्तीति वक्तव्यम् । तर्हि कृष्णेन कुत उक्तं ते मां प्राप्नुवन्तीति चेत्, उच्यते - हिरण्यनिषिदृष्टान्ताद्विस्मृतकण्ठचामीकरन्यायाच्च नित्याप्तोऽप्यात्मा अज्ञानादनाप्त इव प्रतीतः, ज्ञानात्तदज्ञाननाशे तु प्राप्त इवेति नित्याप्तस्यापि प्राप्तिरुपपद्यत इति । ननु तेषां के योगवित्तमा इति भगवतोऽर्जुनेन पृष्टस्य ज्ञानिनो मामेव प्राप्नुवन्तीत्युत्तर- मयुक्तं, किं तर्हि ज्ञानिनो युक्ता इत्येव वक्तव्यं, भक्तानां युक्ततमत्वस्योक्तत्वादत आह-नहीति । भगवानेव स्वरूपं येषां तेषां भगवत्स्वरूपाणां निर्विशेषचिन्मात्रस्सदाशिवोऽहमिति भगवति चैतन्यरूपे आत्मबुद्धिशालिनामित्यर्थः । सतां विदुषां युक्ततमत्वं युक्तत्वं वा न हि वाच्यं, अक्षरोपासका : कर्म- योगिन इव न युक्ताः, विश्वरूपोपासका इव न युक्ततमाः, किं तर्हि साक्षाद्भगवानेव ते । प्रत्य- गभिन्नत्वात्परमात्मनः । ‘ज्ञानी त्वात्मैव मे मत’ मिति भगवद्वचनाच्चेति भावः ॥४॥ क्लेश इति । अव्यक्तासक्तचेतसां तेषामधिकतरः क्लेशो भवतीति शेषः । हि अव्यक्ता गतिर्देहवद्भिर्दुःखमवाप्यते । दुःखं कृच्छ्रेणेति क्रियाविशेषणम् । अधिकतर इति द्वयोर्निर्धारणे डतरच । कस्मात्पुनरधिकादयमधिकतर इत्यत आह- मत्कर्मादिपराणामिति । भक्तानां क्लेशोऽ- चिकः ज्ञानिनां तु तस्मादधिकतर इत्यर्थः । अक्षरात्मनामित्यव्यक्तासक्तचेतसामित्यस्य प्रतिपदम् । तस्यार्थमाह– परमात्मदर्शिनामिति । परमात्मानं प्रत्यगभिन्नं द्रष्टुं शीलं येषां तेषां तथोक्तानाम् । कस्मान्निमित्तादेषामधिकतरः क्लेशोऽत आह- देहेति । देहाभिमानपरित्याग एव ज्ञानिक्लेशस्य भक्तक्लेशादधिकतरत्वे निमित्तम् । एतेन भक्तानां देहाभिमानोऽस्तीति सिद्धम् । पुंसामनादिकालादारभ्य देहाभिमानोऽस्ति, तस्य परित्यागस्त्वधिक क्लेशावहः । परित्यागस्य दुष्करत्वात् । देहाभिमानेऽपरित्यक्ते तु परमात्म- न्यात्मबुद्धिर्न स्यादतो निर्गुणोपासकैर्देह | भिमानस्तावत् कृच्छ्रेण त्याज्यः । भक्तास्तु विश्वरूपे देहे ईश्वर बुद्धि, स्वमनुष्यादिदेहे च जीवबुद्धिं कुर्वन्तीति न तेषां देहाभिमानत्यागप्रयुक्त क्लेशोऽस्तीति भावः । अव्यक्ते आत्मनीत्यर्थः आ समन्तात्सक्तमासक्तम् ! गम्यत इति गतिः । प्राप्यं वस्त्वि- द्वादशोऽध्यायः । २१५ येषां ते अव्यक्तासक्तचेतसः तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि यस्मात् या गति- रक्षरात्मिका दुःखं सा देहवद्भिर्देहाभिमानवद्भिश्वाप्यते, अतः क्लेशोऽधिकतरः ||५|| अक्षरोपासकानां यद्वर्तनं तदुपरिष्टाद्वक्ष्यामः-

येत सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते || ६ || येत्विति । ये तु सर्वाणि कर्माणि मयीश्वरे सन्न्यस्य मत्परा अहं परो येषां ते मत्परास्सन्तोऽनन्येनैवाविद्यमानमन्यदालम्बनं विश्वरूपं देवमात्मानं मुक्त्वा यस्य सोऽनन्यः तेनानन्येनैव केन योगेन समाधिना मां ध्यायन्तः चिन्तयन्त उपासते ||६|| त्यर्थः । कोऽसौ गतिरत आह— अव्यक्तेति । तदर्थमाह- अक्षरात्मिकेति । आत्मस्वरूपेत्यर्थः । आत्मैव गतिरिति यावत् । आत्मान्यस्य स्वर्गादेस्सर्वस्यापि प्राप्यस्य व्यक्तत्वेनाव्यक्तत्वाभावात् । आत्म- रूपैव गतिरव्यक्ता । आत्मनोऽव्यक्तत्वं तु प्रागेव दर्शितम् । अव्यक्तेत्यस्य करणागोचरेति यथाश्रुतार्थः; अक्षरात्मिकेति तु फलितार्थः । / ननु सर्वेषां देहोऽस्त्येवात आह- देहाभिमानवद्भिरिति । अनादिकालादारभ्यानेकजन्म- स्वभ्यस्तस्य देहाभिमानस्य परित्यागो दुष्करः, तत्परित्यागं विना आत्मा दुर्लभः, तस्मादक्षरोपास्तौ क्लेशोऽधिकतर इति भावः । अत इति । देहाभिमानिभिरात्मनो दुखापत्वा देहाभिमानस्य च दुस्त्यजत्वादित्यर्थः । यस्मादात्मा देहाभिमानिभिर्दुर्लभः यस्माच्च देहाभिमानो दुस्त्यजः, तस्मादात्म- लाभार्थमक्षरोपासकानामधिकतर : क्लेश इति परमार्थः । ननु आत्मप्राप्तेर्दुर्लभत्वे देहाभिमानिनामात्मोपासनं सुलभमेवेति चेन्मैवम् — अहं ब्रह्मेत्यक्षरो- पासनस्यापि नाहं देह इति देहाभिमानत्यागपूर्वकत्वात् । नच ज्ञानादेव कैवल्यसिद्धेः किमक्षरोपासनेनेति वाच्यं, ये तु श्रवणादिनैवात्मानं ब्रह्मेति विदितवन्तस्तेषां ज्ञानादेव कैवल्यमिति नोपासनेन फलं, ये तु प्रतिबन्धबाहुल्या हुशश्श्रवणादिनापि नात्मानं विदुस्तेषामक्षरोपासनमिदं विहितम् । ततश्वोपासनातेषामात्मनि ब्रह्मबुद्धिर्भवति । उपासन- महिना प्रतिबन्धक्षयात् । इदं च यावदात्मसाक्षात्कारं कर्तव्यं नतु पश्चात्फलाभावात् । नीरलाभा- नन्तरं खनित्रपरित्यागवदिति बोध्यम् ||५|| . ये त्विति । अयं श्लोको भक्तविषय इत्याह- अक्षरेति । वर्तनं प्रवृत्तिर्व्यवहरण मिति यावत् । स्थितिरिति वा । उपरिष्टादिति । ‘अद्वेष्टा सर्वभूतानामिति श्लोकमारभ्येति भावः । इदानीं तु भक्तानां वर्तनं वच्मीति भावः । अहं पर उत्कृष्ट ईश्वर इति वा येषां ते मत्पराः । मयि परमेश्वरत्वबुद्धिमन्त इत्यर्थः । योऽयं विश्वरूपस्स एव परमेश्वर इति कृतनिश्चया इत्यर्थः । अनन्ये- नेति । अन्यालम्बनरहितेनेत्यर्थः । विश्वरूपैकालम्बनेनेति यावत् । आलम्बनमिति । मनस इति भावः ॥६॥ २१६ श्रीभगवद्गीतासु - भाष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तेषां किम्- | तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ! मय्यावेशितचेतसाम् ||७|| तेषामिति । तेषां मदुपासनैकपराणामहमीश्वरः समुद्धर्ता । कुत इत्याह- मृत्युसंसार- तेषामिति । हे पार्थ! अहं मय्यावेशितचेतसां तेषां मृत्युसंसारसागरान चिरात्समुद्धर्ता भवामि । मय्यावेशितचेतसस्तान् भक्तानहं मृत्युसंसारसागरान्न चिरादेवोद्धारयिष्यामीत्यर्थः । न चिरान चिरादिति नशब्देन समासः । अतो न नलोपः । मदुपासनेति । मम विश्वरूपस्योपासनं मदुपासनं तदेवैकं परं प्रधानं येषां तेषां तथोक्तानां मदुपासने एकस्मिन्नेव पराणामासक्तानामिति वा । भक्तानामिति यावत् । समुद्धर्ता उत्तारकः । ज्ञानप्रदानद्वारेति भावः । न हि ज्ञानं विना मोक्षः सम्भवति । न चेश्वरस्स्वयमेव भक्तानां स्वखरूपं मोक्षं दिशतीति वाच्यं, मोक्षस्य नित्यसिद्धत्वेनादेयत्वात् । देयत्वे च धर्मादिवदनित्यत्वप्रसङ्गात् नित्यो हि मोक्षः । न चेश्वरानुग्रहाज्जीवस्येश्वरसायुज्यं भव- तीति वाच्यं, ईश्वरसायुज्यस्यापि नित्यसिद्धत्वादीश्वरः परमात्मैव हि जीवः प्रत्यगात्मा । न चेश्वरानुग्रहाद्दुः खध्वंस लक्षणो मोक्षः स्याज्जीवानामिति वाच्यं, असङ्गस्यानन्दस्य जीवस्य दुःखसम्बन्धासम्भवात् । सुखदुःखादीनां मनोधर्मत्वाच्च । ‘कामस्सङ्कल्पे ‘ति श्रुतेः । नच निरतिशय- ब्रह्मानन्दप्राप्तिरिति वाच्यं तस्यापि स्वतस्सिद्धत्वेन ब्रह्मानन्दस्यानागन्तुकत्वात् । नच स्वस्वरूपेण तिष्ठतीति वाच्यं प्रागपि जीवस्य स्वस्वरूपाच्च्युत्यभावात् । अविक्रियो हि जीवः प्रत्यगात्मा । ‘अजो नित्य’ इत्यादिमन्त्रात् । कथं तहीँश्वरस्य संसारसागराज्जीवोद्धाणम् ? उच्यते - ज्ञानप्रदान- द्वारेति । अज्ञानाज्जीव आत्मानं देहादिरूपं मत्वा संसारसागरे पतितस्स एवेश्वरानुग्रहादात्मानं देहादिविलक्षणं सच्चिदानन्दं ज्ञात्वा संसारसागरादुत्तीर्णो भवति । ‘ईश्वरानुग्रहादेव पुंसामद्वैतवासना’ इति स्मरणादीश्वरानुग्रहो ज्ञानप्रयोजक एव, नतु मोक्षप्रयोजक:- मोक्षस्याप्रयोज्यत्वात् । अज्ञानमूलो हि सर्परज्जुभ्रमो रज्जुतत्त्वज्ञानादेव निवर्तते, न त्वन्यस्माद्यथा तथा अज्ञानमूलो जीवस्यात्मनि संसा- रित्वभ्रमो जीवतत्त्वज्ञानादेव निवर्तते नान्यथा । तथा चेश्वरमाययापहृतविवेकाननात्मतादात्म्याध्यास- मापद्य संसरतो जीवान् भगवान् भक्त्या तोषितश्चेत्तैः विवेकिनः कृत्वाऽनात्मतादात्म्याभ्यासं नाशयित्वा आत्मसाक्षात्कारं तेभ्यो दिशति, ततश्च ते मुच्यन्ते मत उक्तमीश्वरो भक्तान् संसारसागरा- चारयतीति । एवमीश्वराधीनस्थितिकत्वादेव भक्तानां मार्जारकिशोरन्यायोऽमीषु सञ्चारितः पूर्वैः । मार्जारो हि स्वशिशुं स्वयमेव वक्त्रेण गृहीत्वा स्थलान्तरं नयति, तद्वदीश्वरोऽपि भक्तान् स्वयमेव ज्ञानप्रदानद्वारा संसारात्तारयतीति । ज्ञानिनस्तु नेश्वरस्तारयति, किं तर्हि त एव तरन्ति स्वयम् । अहं ब्रह्मास्मीति ब्रह्मा- परोक्षज्ञानादेव भास्करालो का तिमिरस्येव सर्वसंसारस्याज्ञानमयस्य समूलस्य निवृत्तेः । अत एवामीषु २८ द्वादशोऽध्याय । २१७ मर्कटकिशोरन्यायरसञ्चारितः पूर्वै:- मर्कटकिशोरो हि स्वयमेव मर्कटोदरं परिरभ्य वृक्षान्तरं गच्छति । तथा ज्ञान्यपि स्वयमेवेश्वरमात्मानं साक्षात्कृत्य ब्रह्मसायुज्यं प्रतिपद्यत इति । अनेन स्वतस्संसारसागरोचरणक्षमा ज्ञानिनः तदक्षमेभ्यो भक्तेभ्य उत्कृष्टा इति सूचितम् । यस्मादहमेव भक्तानां संसारसागरादुद्धर्ता ततस्संसारसागरतरणे भक्तानां न कश्चित्वलेशः । ज्ञानिनस्तु स्वयमेव संसारसागरं तरन्तीति तेषामस्ति संसारसागरतरणे क्लेशोऽधिक इति भावोऽत्र गम्यते । यद्यपि भक्ता अपीश्वरानुग्रहाद्ज्ञानं लब्ध्वा तेनैव ज्ञानप्लवेन संसारसागरं स्वयमेव तरन्ति, पूर्व भक्तानामेवेदानीं ज्ञानित्वात् । ततश्च भक्तानामीश्वरः संसारसागरात्समुद्धर्तेति वक्तुं न शक्यं, तथापि भक्तानां समुद्धर्तेश्वर इत्यस्य भक्तानामीश्वरस्संसारसागरोत्तारकं ज्ञानं दिशतीत्येतावत एवार्थस्येह विवक्षितत्वात् । ज्ञानिनां तु न कश्चित्संसारः, नापि तदुद्धारकः, ज्ञानिन एवेश्वरत्वादिति । अथ वा ये सगुणब्रह्मोपासकास्तानहं संसाराद्ज्ञानप्रदानद्वारा उद्धारयामि, ये तु निर्गुणोपासका- स्ते स्वयमेवात्मानं साक्षात्कृत्य संसारं तरन्तीति । नहि सगुणोपासका निर्गुणोपासकीभूय मुक्ता भविष्यन्तीति स्थित, येन पूर्व भक्तानामेवेदानीं ज्ञानित्वादितिवद्वक्तुमत्र शक्येत । नहि निर्गुणोपासन ज्ञानं, किं तर्हि निर्गुणब्रह्मसाक्षात्कार एव । तदेवं सगुणोपासकान्मार्जारकिशोरन्यायेनाहं संसारा- तारयामि, निर्गुणोपासकास्तु मर्कट किशोरन्यायेन स्वयमेव तरन्ति, ज्ञानिनां तु न कश्चित्संसारः, नापि तत्तरणमिति विवेकस्सिद्धः । न चैवमव्यक्तोपासका ज्ञानित्वेनेतः प्राग्व्यवहृता इति तद्विरोध इति वाच्यं, आत्मानात्मविवेक- रूपज्ञानवत्त्वेन तेषां ज्ञानित्वव्यवहारात् । नन्वेवं सगुणोपासका अपीश्वरानुग्रहादात्मसाक्षात्कारं लब्ध्वाऽऽत्मानमेव प्रतिपद्यन्ते, अव्य- क्तोपासकाश्वात्मसाक्षात्कारं लब्ध्वात्मानं प्रतिपद्यन्ते । ततश्च ते प्राप्नुवन्ति मामेवेति ज्ञानिनः प्रति, ‘ते मे युक्ततमा मता’ इति भक्तान्प्रति च यदुक्तमीश्वरेण तन्नसङ्गच्छत इतिचेत्, मैवम् - अक्षरोपासकानां तत्त्वसाक्षात्कारात्प्रागपि तत्त्वस्य परोक्षं ज्ञानमस्ति ततश्च ज्ञानिनोऽमी सच्चिदानन्द- मीश्वरमेवात्मत्वेन प्रतिपद्यन्ते, भक्तानां तु तदपि नास्ति - आत्मानात्मविवेकस्यैवाभावात् । तदेवं परोक्षज्ञानिनोऽक्षरोपासनवशादपरोक्षमीश्वरं प्राप्नुवन्तीति ‘ते प्राप्नुवन्ति मामे’ वेत्युक्तम् । तत्त्वसाक्षा- त्कारलक्षणेश्वरप्राप्तिरूपफलादन्यस्य अक्षरोपासनजन्यस्य फलस्याभावात् । भक्तास्तु ईश्वरोपासनवशा- तावद्विवेकं प्रतिपद्य पश्चात्परोक्षज्ञानं प्रतिपद्य ततस्तत्त्वसाक्षात्कारं प्रतिपद्यन्त इति कृत्वा भक्ताना- मीश्वरप्राप्तिरूपफलादन्यफलयोः प्राप्तव्ययोर्विवेकज्ञानयोस्त्वाद्भक्ता मां प्राप्नुवन्तीति नोक्तं, भक्तानां विवेकादिप्राप्तेरपि सद्भावात् । किंतु युक्ततमा इत्युक्तं- विवेकादिप्राप्तिद्वारा तेषामपि क्रमेण मोक्ष- सद्भावात् । तथा च दिवेकविज्ञानशून्येभ्यो भक्तेभ्यः तद्युक्ता ज्ञानिन उत्तमा इति सिद्धम् । तदेवं सगुणोपासकान् विवेकविज्ञानहीनान् भगवान् स्वयं तत्प्रदानद्वारा संसारात्तारयति, विवेकवि ज्ञानवन्तस्त्वक्षरोपासकास्स्वयमेव विवेकादिसाधनैस्तरन्तीति नाक्षरोपासकानामीश्वरानुप्रहापेक्षा । -२१८ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु नहि ते ईश्वरमात्मनोऽन्यं मन्यन्ते येनात्मनो जीवस्य परित्राणाय स्यात्तेषामीश्वरानुग्रहापेक्षा | किंत्वात्मानमेवेश्वरं मन्यन्त इति । ननु नचिराच्छब्दस्वारस्याद्भक्तानामीश्वरस्तत्त्वसाक्षात्कारं सुखेन शीघ्रं दिशतीति गम्यते, ततश्चाभक्तानामात्मसाक्षात्कारो दुर्लभ इति सूच्यते, अतो भक्तिरेव ज्यायसीतिचेत्, मैवम् -ते प्राप्नुवन्ति मामेवेत्यनेन अक्षोपासकानामेव भगवत्प्राप्तिस्सुलभेति प्रोक्तत्वात् । ईश्वरस्यापि भक्तानां तत्त्वसाक्षात्कारं साक्षाद्दातुमशक्तत्वात् । अन्यथा विवेकादिसाधनवैयर्थ्यप्रसङ्गात् । किं तर्हि विवेकादि- दानद्वारैव । तथा च मोक्षं प्रति विवेकादिमन्तोऽक्षरोपासका एवान्तरङ्गाः, तद्रहितास्तु भक्ता बहिरङ्गा एव । + • 1 । नवेश्वरो भक्तानां विवेकं परोक्षज्ञानमपरोक्षज्ञानं च युगपदेव दिशति, अथ वा क्षिप्रमेवेति वाच्यं, किं निर्गुणोपासकेष्वीश्वरस्य प्रद्वेषे निमित्तं येन तेषां विवेकज्ञानवतामपि क्षिप्रं परमात्म- साक्षात्कारं न दिशति । नच भक्त्यभाव एवेति वाच्यं कूटस्थेश्वरे तेषामपि भक्तिसद्भावात् । आत्मरता हि ते । नहि विश्वरूप एवेश्वरः, कूटस्थस्त्वनीश्वर इति वक्तुं शक्यते, येन कूटस्थ - रतानामीश्वराभक्तत्वं स्यात् । प्रत्युत कूटस्थ एवेश्वरः, सच्चिदानन्दरूपत्वाद्विश्वरूपं तु मायामयत्वा - दनीश्वरमेव । एवं सति ये यथार्थ कूटस्थमात्मानमीश्वरमुपासते त एवेश्वरस्य प्रियाः । वक्ष्यत्यमुमे- वार्थमद्वेष्टेत्यादिना । ये त्वयथार्थं विश्वरूपोपतिमीश्वरमुपासते ते नातीवेश्वरस्य प्रियाः, पितुर्हि पण्डिते पुत्रे प्रीतिः, नतु मूर्खे । भगवांस्तु सर्वस्य पिता अतः पण्डिता एव ब्रह्मादयः पुत्रास्तस्य प्रिया:– आत्मत्वाच्च ज्ञानिनः प्रिया ईश्वरस्य । एवं प्रियानप्यमूनीश्वरस्संसारसागरान्न तारयति कुतः ? अक्षरो- पासनेन तेषामात्मसाक्षात्कारे सति ततर्तव्यसंसारसागरस्यैवाभावात् । तस्मादीश्वरो भक्तानामेव संसार- सागरादुद्धारकः, नतु ज्ञानिनामिति युक्तमुक्तम् । नैतावता भक्ता एवेश्वरस्य प्रिया इति भ्रमितव्यं, ज्ञानी प्रिय इति वक्ष्यमाणत्वादुक्तत्वाच्च । नापि ज्ञानिनां स्वयं संसारसागरतरणक्लेश इति भ्रमितव्यं, तेषां संसारस्यैवाभावात् । नाप्यक्षरोपासकानां स्वयं संसारसागरतरणक्लेश इति भ्रमितव्यं तेषामपी- श्वरानुग्रहादेव तत्त्वसाक्षात्कारे सति संसारस्यैवाभावात् । नन्वेवमपरोक्षज्ञानप्रदानद्वारा ज्ञानिनामपि संसारसागरादीश्वर एवोद्धर्तेति कथमुक्तं भक्ताना- मेवेति चेदुच्यते - परोक्षज्ञानिदृष्ट्यापि नास्त्यात्मनोऽन्य ईश्वरः यस्संसारात् ज्ञानिन उद्धरेत् । किं तर्हि ज्ञानिनामात्मैवेश्वरः । एतेषामात्मानुग्रह एवेश्वरानुग्रहः । एतेनात्मैवोद्धारयति । नत्वात्म- नोऽन्य ईश्वरः, भक्तास्त्वात्मनोऽन्यमीश्वरं मन्यन्ते । अतस्तान् भिन्न एवेश्वर उद्धारयति । अत एवोक्तं भक्तानामीश्वर उद्धारकः, ज्ञानिनस्तु स्वयमेवोत्तरन्तीति । परोक्षज्ञानिनस्स्वात्मनैवोत्तीर्यन्ते, अपरोक्षज्ञानिन उत्तीर्णा एव, भक्तास्त्वीश्वरेणोत्तीर्यन्त इति विवेकः । यद्यपि भक्तानां परोक्षत्वेनाभिमतोऽपीश्वर आत्मैव तथापि ते आत्मानमीश्वरं न विदुः, अतोऽस्मान् सर्वज्ञ ईश्वर उत्तारयिष्यतीति तेषां निश्चयः । तमनुसृत्योक्तं भगवतापि ‘तेषामहं समु- द्धर्ता’ इति । इदं चेश्व र कर्तृकं भक्तोद्धारणं तत्त्वज्ञानदानद्वारैवेति वेद्यम् ।द्वादशोऽध्यायः । २१९ सागरात् । मृत्युयुक्तस्संसारो मृत्युसंसार:, स एव सागर इव सागरः दुस्तरत्वात्तस्मान्मृत्युसंसार- सागरादहं तेषां समुद्धर्ता भवामि न चिरात् । किं तर्हि ? क्षिप्रमेव हे पार्थ! मय्यावेशित- चेतसां मयि विश्वरूपे आवेशितं समाहितं चेतो येषां ते मय्यावेशितचेतसः तेषाम् ||७|| ननु यद्यात्मैवेश्वरः कथं तर्हि ज्ञानिन आत्मानुग्रहः ? नाहे स्वयं स्वस्यानुग्राहकस्स्यादिति चेन्मैवम् – ज्ञानिनो हि प्रमातार आत्मानुग्रहादपरोक्षज्ञानं लभन्ते, आत्मानुग्रहादेव हीतः प्राक्परोक्ष- ज्ञानलाभ आसीदेषाम् । किंबहुना - आत्मानुग्रहादेव प्रमातृणां घटादिविषयज्ञानलाभोपि । आत्म- नोऽन्यस्य सर्वस्यापि जडत्वादात्मप्रतिफलनेनैव प्रमातुरहङ्कारस्य चेतनत्वापत्तेः । न चैवमात्मनस्सकाशा- दत्यन्तं भिन्न एव प्रमातेति वाच्यं, आत्मप्रतिबिम्बरूपस्य प्रमातुर्बिम्बादात्मनस्सकाशादत्यन्तं भेदस्य, अत्यन्तमभेदस्य वा दुर्निरूपत्वात् । एवमनिर्वाच्यत्वादेव मिथ्यात्वं प्रमातुः । यत्तु प्रमातरि प्रति- बिम्बेऽनुगतं शुद्धचैतन्यमात्रं तदेव सत्यं तदेव स्वस्वरूपं च प्रमातुरिति नात्यन्तं भिन्न आत्मनः प्रमाता, वस्तुतः प्रमातुरेवात्मत्वादिति संक्षेपः । तस्मादहमन्य ईश्वरादिति ये मन्यन्ते तान् विवेकविज्ञानादिप्रदानद्वाराऽनुगृह्णातीश्वरः । ये त्वमेवेश्वर इति मन्यन्ते ते स्वयमेवोत्तरन्तीत्यभिप्रायेणोक्तं- ‘तेषामहं समुद्धर्ता’ इति भगवता | सम्यगुद्धर्ता समुद्धर्ता यथा पुनस्संसारसागरोन्मज्जनं न स्यात्तथा सम्यगुद्धर्तेत्यर्थः । परमपद- स्यापुनरावर्तित्वाद्भक्तानां च क्रमेण परमपदलाभाच्चेति भावः । जन्ममरणसुखदुःखरोगारोग्यशीतोष्ण- वृद्धिक्षयादिलक्षणस्संसारः । तत्र मृत्योः पतितत्वेऽपि पुनस्तद्ग्रहणं तस्य भयङ्करत्वप्रदर्शनार्थम् । समुद्रे मकर इव संसारे मृत्युरतीव भयङ्करो हि । स्वस्य स्वीयस्य वा मरणादनुमितादपि हि नित्यं बिभेति: लोकः । नतु तज्जन्मादेः । दुःखदा अपि शीतदारिद्र्यादयो न मृत्युवद्भीतिं कुर्युः, धनिकोऽपि हि मृत्युभीतो धनादिकं परित्यजत्येव । तदेवमतिभयङ्करेण दुर्वारेण मृत्युना युक्तत्वात्संसारोऽतिभयङ्करो दुस्तरश्च । ननु कथं संसारस्य सागरत्वमत आह- सागर इवेति । कस्मिन्नंशे संसारसागरयोरौपम्यमत: आह - दुस्तरत्वादिति । सागर इव दुस्तरत्वात्संसारसागर इत्युच्यते उपचारात् । संसारश्चा सौ सागर इति कर्मधारयः । नच संसारम्स एव सागर इति भाष्ये विग्रहो दर्शितः, तत्लोऽवधारणपूर्वपद- कर्मधारयोऽयं, नतु विशेषणसमास इति वाच्यं, व्याकरणशास्त्रे क्वाप्यवधारणपूर्वपदकर्मधारयादर्शनात् । सम्भावनावधारण पूर्वपदकर्मधारययोर्विशेषणसमासत्वात् ‘विशेषणं विशेष्येण बहुल’ मिति तद्विधायक - सूत्रात् । मयूरव्यंसकादित्याद्विशेष्यस्यापि संसारस्य पूर्वनिपातः । एवं रूपकसमासेषु सर्वत्राप्ययम् । अत्र संसार सागर इवेत्युपमितसमासोऽपि वक्तुं शक्यते । यत्तु रामानुजः - मृत्युभृतात्संसाराख्यात्सागरादिति, तदयुक्तम् - मृत्योरपि संसारान्तः पाति: त्वेन संसारस्य मृत्यूपमाऽनौचित्यात् । यच्च नचिरात क्षिप्रमेव भक्तान्तारयामि, ज्ञानिनस्तु चिरेणेति, तच्चायुक्तम् - ज्ञानस्यैव मोक्षं प्रत्यन्तरङ्गत्वेन सन्निहितत्वात् ज्ञानिनामेवाचिरेण मोक्षलाभः । A २२० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यत एवं तस्मात्— मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥८॥ मयीति । मय्येव विश्वरूपे ईश्वरे मनः सङ्कल्पविकल्पात्मकं आधत्स्व स्थापय । मय्येवाध्यवसायं कुर्वतीं बुद्धिमाधत्स्व निवेशय । ततस्ते किं स्यादिति शृणु - निवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं करिष्यस्येवातश्शरीरपातादूर्ध्वम् । न संशयः संशयोsa न कर्तव्यः ॥ ८ ॥ भक्तानां तु ज्ञानद्वारा क्रमेणेति भक्तानामेव चिरेण मोक्षलाभ इति सिद्धान्तात् । न चैवं नचिरादि- त्यपार्थमिति वाच्यं, केवलकर्मयोग्यपेक्षया नचिरादित्युक्तत्वात् । यज्ञयागादिकर्मानुष्ठात्र पेक्षया विश्वरू- पोपासकानां द्रुतं चित्तशुद्धिर्भवति, ततो ज्ञानप्राप्तिरिति भावः ||७|| मयीति । यत एवं मय्यावेशित चेतसां तेषामहं मृत्युसंसारसागरात्समुद्धर्ता तस्मादित्यर्थः । मनोबुद्धयो र पौनरुक्त्या याह-सङ्कल्पेति । एकमेवान्तःकरणं संशयनिश्चय गर्वस्मरणात्मकचतुर्विध- वृत्तिभेदात्क्रमेण मनोबुद्ध यहङ्कार चित्तशब्दैरुच्यते, तत्र सङ्कल्पविकल्पौ संशयः; बुद्धिमिति निश्व- यात्मिकामित्यर्थः । इदमेवाह - अध्यवसायं कुर्वतीमिति । अध्यवसायो निश्चयः । तत इति । मयि मनोबुद्धयोर्निवेशनादित्यर्थः । अत ऊर्ध्वं मय्येव निवसिष्यसि । ननु कथमाधाराधेयभाव एकस्यैवात्मन इत्यत आह- मदात्मनेति । मत्स्वरूपेण तव स्थितिरेव मयि वासस्तवेति विवक्षितेति भावः । यद्यपि देहपातात्प्रागपीश्वरस्वरूपेणैव जीवः स्थितः जीवेश्वरयोश्चैतन्यरूपत्वात्तथापि जीवन्मुक्तिदशायां कदाचिद्देहादितादात्म्याध्यासः स्यादिति न सर्वदा जीवस्येश्वरात्मना स्थितिः, विदेहकैवल्ये तु देहाद्यभावात् अज्ञानस्य च नष्टत्वान्न देहाद्यभिमान इति तदा सर्वदापि जीवस्येश्वररूपेण स्थितिः स्यात् । अत एव विदेहकैवल्यस्यापुनरावर्तित्वम् । अयं चार्य एवकारेण ज्ञाप्यते । अत ऊर्ध्वं मयि निवसिष्यस्येव नतु पुनरागमिष्यसीत्यर्थात् । यद्वा मय्येव निवसिष्यसि, नतु देहादिसंसार इत्यर्थात् । तथा चात ऊर्ध्वं सर्वदापि मय्येव निवसिष्यस्येवेति फलितार्थ: । , संशय इति । निवसिष्यसि वा न वेत्याकारक इति भावः । निवसिष्यामि नवेत्याकारक इति वा । विश्वरूपे ईश्वरे मनोबुद्धयो राधाना चित्तशुद्धिज्ञानप्राप्तिद्वारा परमात्मसायुज्यं स्यादिति परमार्थः । नच विश्वरूपोपासनमात्रादेव परमपदप्राप्तिस्त्राभिधीयत इति वाच्यं ज्ञानादेव मुक्तिरित्येतदर्थ- प्रतिपादकश्रुतिस्मृत्यादिविरोधात् । अज्ञानकृतस्य संसारस्य ज्ञानं विना नाशायोगात् । ईश्वरोपास - नस्य च क्रियात्वेनाज्ञानाविरोधित्वा द्विश्वरूपेश्वर रोपासकानां नाहं ब्रह्मेत्यहमज्ञ इत्यहं मनुष्यस् संसारीति चाज्ञानदर्शनात् । विश्वरूपे च देहे तेषामीश्वरभ्रान्तिदर्शनाद । तस्माद्विश्वरूपोपासकानामपि ज्ञानद्वारैव मोक्षः ||८|| 7 द्वादशोऽध्यायः । अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छातुं धनंजय ! ॥९॥ २२१ अथेति । अथ त्वं यथाऽवोचं तथा मयि चित्तं समाधातुं स्थापयितुं स्थिरमचलं कर्तुं न शक्नोषिचेत्ततः पश्चादभ्यासयोगेन चित्तस्यैकस्मिन्नालम्बने सर्वतस्समाहृत्य पुनःपुनः स्थापनमध्यासः, तत्पूर्वको योगस्समाधानलक्षणस्तेनाभ्यासयोगेन मां विश्वरूपमिच्छ प्रार्थ- यस्व आप्तुं प्राप्तुं हे धनंजय ! ॥९॥ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । • मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि || १०|| अभ्यास इति । अभ्यासेऽप्यसमर्थोस्यशक्तोऽसि तर्हि मत्कर्मपरमो भव मदर्थ कर्म अथेति । अथ त्वं मयि चित्तं स्थिरं यथातथा समाधातुं न शक्नोषि चेत् हे घनञ्जय । ततो मामभ्यासयोगेनाप्तुमिच्छ । यथाऽवोचमिति । यथाहमुक्तवानस्मि तथा मदुक्तप्रकारेण मयि विश्व- रूपे । अभ्यासपदार्थमाह - चित्तस्येति । खाभिमते सुन्दरे कस्मिंश्चित्पद्मादिवस्तुनि विषयान्तरा- च्चित्तमानीय स्थापयेत् । तच्चेचितं सहजचापल्याद्विषयान्तरं गच्छति तर्हि पुनरपि तदानीय पद्मादिवस्तुनि स्थापयेत् । एवं प्रत्यहं बलादपि चित्तमेकस्मिन्वस्तुनि स्थापयेच्चिरम् । एवंकरणमभ्यासः । अनेन चाभ्येसेन चित्तसमाघाने पुरुषरशक्तो भवति । चित्तसमाधानं नाम चितस्य स्वाभिमतेऽर्थे चिरं स्थापनम् । ततश्च पद्मादाविव विश्वरूपेऽपीश्वरे चित्तसमाघानं स्यादिति भवेत्तस्य विश्वरूपप्राप्तिरिति । मां विश्वरूपं प्राप्तुमिति । विश्वरूपं मां साक्षात्कर्तुमित्यर्थः । विश्वरूपे मनः स्थापयितुमिति यावत् । विश्वरूपात्मना मनः परिणमयितुमिति फलितार्थः । ध्यानेन हि ध्यातुध्येयात्मता स्यादिति । यद्वा अभ्यासयोगेन निमित्तेन मनसा करणेन मामाप्तुमिति । मां ध्यातुमित्यर्थः । विषयी - कर्तुमिति यावत् । मनसो मद्रूपत्वमापादयितुमिति फलितार्थः । मनो हि वृत्त्या बहिर्घटादिरूपं प्राप्नोति यथा तथाऽन्तरपि वृत्त्या विश्वरूपभगवद्रूपं प्राप्नुयात् । एवं विश्वरूपात्मना मनसोऽवस्थान यदि त्वं प्रार्थयसि तर्हि पद्माद्यात्मना मनसोऽवस्थापनं तावद्भ्यसे । यथा स्थूलप्रस्तरमुद्धरिष्यन् पुरुषस्तावत्सूक्ष्म प्रस्तरोद्धारणमभ्यस्यति तद्वत् ॥९॥ " अभ्यास इति । मत्कर्म परमं प्रधानं यस्य स मत्कर्मपरम ईश्वरार्पणबुद्धया यज्ञादिविहित- कर्मकारीत्यर्थ: । सहजचपलस्य चित्तस्यैकत्रावस्थानरूपाभ्यासस्यापि दुष्करत्वाच्चित्त समाधनं विनैव यज्ञादिकर्मणां सुकरत्वादभ्यां सेऽप्यसमर्थोऽसि मत्कर्म परमो भवेत्युक्तम् । कर्मणा बन्धकत्वादुक्तं मत्कर्मेति । कर्माणि हि फलद्वारा बध्नन्ति पुरुष, यदि कर्मणां फलमीश्वरे समर्पितं तर्हि कर्माणि नैव बघ्नन्ति तम् । ननु विश्वरूपोपासनादभ्याससाध्याद्भवति पुंसां सिद्धिः किंपुनस्तत्कर्मकरणादत आहे - मदर्थमिति । मदर्थं कर्माणि कुर्वन्नपि सिद्धिमवाप्स्यसि । अपिशब्दात्किं पुनर्मद्विश्वरूपोपासक इति २२२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभान्योपेतासु मत्कर्म तत्परमो मत्कर्मपरमो भव मत्कर्मप्रधान इत्यर्थः । अभ्यासेन विना मदर्थमपि कर्माणि केवलं कुर्वन् सिद्धिं सवशुद्धिं योगज्ञानप्राप्तिद्वारेणावाप्स्यसि ||१०|| अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११॥ अथेति । अथ पुनरेतदपि यदुक्तं मत्कर्मपरमत्वं तत्कर्तुमशक्तोऽसि यदि मद्योग- माश्रितः मयि क्रियमाणानि कर्माणि सन्न्यस्य यत्करणं तेषामनुष्ठानं स मद्योगः, तमाश्रित- स्सन् सर्वकर्मफलत्यागं सर्वेषां कर्मणां फलसन्न्यासं सर्वकर्मफलत्यागं ततोऽनन्तरं कुरु यतात्मवान संयतचित्तस्सन्नित्यर्थः ॥ ११ ॥ द्योत्यते । अभ्याससापेक्षत्वाद्विश्वरूपोपासनं दुष्करं, तन्निरपेक्षत्वात्कर्म सुकरमिति सूचनायाह- अभ्यासेन विनेति । केवलमिति फलसङ्गादिराहित्येनेत्यर्थः । यद्वा केवलं भक्तियोगासंस्पृष्टत्वेनेत्यर्थः । अथ वा विवेकादिराहित्येनेत्यर्थः । काऽसौ सिद्धिरत आह- सच्चेति । चित्तशुद्धिमित्यर्थः । अर्थान्तरमाह — मुक्तिमिति । कथं कर्मकरणा- न्मुक्तिरत आह- योगेति । चित्तसमाधानं योगः ॥ १० ॥ अथेति । अथ एतदपि कर्तुमशक्तोऽसि यदि तर्हि यतात्मवान् मद्योगमाश्रितश्च सन् सर्वकर्म- फलत्यागं कुरु । एतच्छब्दार्थमाह - मत्कर्मपरमत्वमिति । ईश्वरार्थं कर्मानुष्ठानमित्यर्थः । मद्योग- शब्दार्थमाह - मयीति । क्रियमाणानि कर्माणि मयि सन्न्यस्य तेषां यत्करणं स मद्योग इत्यन्वयः । मयि योगो मद्योगो मदाधारको मद्विषयो वा कर्मयोगः । ईश्वरे कर्मणां सन्न्यासो नाम तत्फल- परित्यागः । सर्व कर्म फलत्यागं कुर्विति वक्ष्यमाणत्वात् । नच पुनरुक्तिः, ईश्वरे सर्वकर्मफलसमर्प णात्मकं मद्योगमाश्रितत्वादेव त्वं सर्वकर्मफलत्यागं कुर्विति हेतुहेतुमद्भावात् । ननु मदर्थं कर्माणि कुर्विति पूर्वोक्तस्य मयि सन्न्यस्य कर्माणि कुर्वत्यधुनोक्तस्य चार्थस्य को भेद इति चेदुच्यते - ईश्वरार्थे यः कर्म करोति तेन कर्मणि कर्तृत्वाभिमानोऽपि न कर्तव्यः, ईश्वर योगाश्रितो यः कर्म करोति तेन फलत्यागमात्रमेव कर्तव्यमिति । तत्र कर्तृत्वाभिमानपरित्यागस्य दुष्करत्वात्तदपेक्षया सुकरोऽयं मार्ग उपन्यस्तः फलपरित्यागरूपो भगवता दयालुना श्रीकृष्णेनेति बोध्यम् । यद्वा ईश्वरेण यज्ञादिकर्मणां विहितत्वात्तानि केवलं मया कर्तव्यानि राज्ञा विहितानि कर्माणि भृत्येनेव, अंकरणे नरकपातादि लक्षण प्रत्यवायादिति मत्वा यः कर्म करोति स ईश्वरार्थं कर्म कर्ते - त्युच्यते । ईश्वराज्ञानिर्वर्तितया ईश्वरप्रीत्यर्थतया च तत्कर्मण ईश्वरार्थत्वात् । नच निष्कामस्य पूर्ण - कामस्य चेश्वरस्य राज्ञ इव सकामस्य भृत्यकर्मणा जीवकर्मणा कोऽर्थः ? येनेश्वरस्य प्रीतिः स्यादिति वाच्यं, फलाभावेऽपि स्वाज्ञानुसारेण कर्माणि कृतानीति तत्कर्तरि प्रीयते महेश्वरः, यथा विद्यां सम्पादयेति स्वाज्ञया गुरुकुलं प्रविश्य विद्यामधीयाने पुत्रे प्रीयते पिता तद्वत् । द्वादशोऽध्यायः । २२३ 1 अथ वा यथोक्तकर्मकरणद्वारा चित्तशुद्धिप्राप्त्यादिक्रमेण जीवा एते मुच्यन्त इति तेषु प्रीतिर्भगवतः । यथा तत्त्वविदो गुरोरिशष्ये । एवमेते ईश्वरार्थं कर्म केवलं कुर्वन्ति, अन्ये तु कृतकर्मफलमीश्वरे समर्पयन्तीति भेदः । अथ वा यज्ञादिकर्मभिरीश्वर एवाराध्यत इतीश्वराराघनबुद्ध्या कृतानि कर्माणीश्वरार्थ- कर्माणि, इन्द्रचन्द्रादित्यगणपत्यादयो देवता मया कर्मभिराराध्यन्ते यत्त्वमीषामाराधनजन्य फलं तन्न मम, किं त्वीश्वरस्यैवेति बुद्धया यानि कृतानि कर्माणि तानि तु नेश्वरार्थानि किं तर्हि तत्फलमे- वेश्वरार्थमिति मत्कर्मकृतां फलत्यागिनां च भेदः । सर्वाणि कर्माणि विधाय ब्रह्मार्पणमस्त्विति तत्फल- परित्यागस्सुकरः । इमानि सर्वकर्माण्यपीश्वराराधनार्थानीत्यनुसन्धानं तु दुष्करमिति पक्षद्वयमुपन्यस्तम् । यत्तु रामानुजः - मदर्थ कर्माणि मदीयानि । आलय निर्माणोद्यानकरणप्रदीपारोपगमार्ज- नाभ्युक्षणोपलेपनपुष्पाहरणपूजाप्रवर्तन नामसङ्कीर्तनप्रदक्षिणस्तुति नमस्कारादीनि; सर्वकर्म फलत्यागस्तु यज्ञादिकर्मफलखर्गादिपरित्याग इति, तत्तुच्छम् - यज्ञादिकर्मणामपीश्वराराधनरूपत्वेनालय निर्माणादिव- दीश्वरार्थकर्मत्वात् । अन्यथा आलयनिर्माणादिकर्माण्येव विदध्याच्छु तिरपि नतु यज्ञादीनि । ’ त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्त’ इत्यादिनेहापि यज्ञादीनामीश्वराराधनरूपत्वस्योक्त- त्वात् । किंच यज्ञाद्यपेक्षया पुष्पाहरणादिकर्मणां सुकरत्वेन यज्ञाद्यशक् तस्यैव पुष्पाहरणादिकर्माधि- कारात् । ’ अथैतदप्यशक्तोऽसीति पुष्पाहरणादिकर्माशक्तस्य यज्ञादिकर्मफलत्यागविधानमयुक्तम् । अपि च आलयनिर्माणादीनां पूर्तकर्मत्वेन पूर्तकर्मणश्च चन्द्रलोकभोगफलकत्वेन फलत्यागस्य चाहितत्वेन न तेषां सत्त्वशुद्धिरपि सिद्धयेत् किं पुनर्मोक्षः ? अपि च ‘अहरहस्सन्ध्यामुपासीत, वसन्ते वसन्ते ज्योतिषा यजे’ तेत्यादिश्रुति सिद्ध सन्ध्यायज्ञादि- कर्मपरित्यागे आलयनिर्माणादिकर्मस्वीकारे च परित्यक्तभर्तृकायास्वीकृतजाराया जारिण्या इव तवापि दुर्गतिरेव स्यात् । नच सन्ध्यायज्ञादिकर्मसु स्थित्वेवालय निर्माणादीनि कुर्यादिति वाच्यं, एकत्र कर्मणि व्यापृ- तस्य कर्मान्तरे प्रवृत्त्यसम्भवात् । यज्ञादिकर्मानधिकारिणामद्विजानां परलोकभोगायैव पूर्ताख्यकर्मणा- मीश्वरेण निर्मितत्वात् । ‘यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वाच भजते मौढ्याद्भस्म- न्येव जुहोति स’ इति प्रतिमायां भगवदाराधनस्य निन्दितत्वात् । प्रतिमार्चनस्य स्त्रीशूद्रादिसर्व सुकर- स्वेन महानुभावं पार्थैप्रति ‘अथैतदप्यशक्तोऽसीति वक्तुमयुक्तत्वात् । प्रतिमार्चनापेक्षया यज्ञादिकर्म- फलत्यागस्य सुकरत्वं विदुषामपहासास्पदमेवेति हेतोश्च । यच्च मद्योगं मद्भक्तियोगमाश्रितस्सन्ने तत्कर्तुमशक्तोऽसीत्यन्वयस्तेन दर्शितः, तदप्यसत्- मद्योगमाश्रितइत्यस्य पूर्ववाक्यान्यये समाप्तपुनरादानदोषात् । यद्यार्षेषु ग्रन्थेषु तादृशा दोषा नाश्रयन्ते तर्हि मद्योगमित्यस्य मद्भक्तियोगमित्यर्थश्च लाक्षणिकत्वादुपेक्ष्यः । मयि योगश्चित्तसमाधानमर्थाद्भक्ति- रेवेति न लक्षणा दोष इत्यभ्युपगमेऽपि भगवति चितं समाधातुमशक्तस्यैव मदर्थं कर्माणि कुर्वित्युप- 4 २२४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु इदानीं सर्वकर्मफलत्यागं स्तौति । श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद्वयानं विशिष्यते । ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥१२॥ श्रेय इति । श्रेयो हि प्रशस्यतरं ज्ञानम् । कस्मात् ? अविवेकपूर्वकादभ्यासात् । दिष्टत्वेनेश्वर कर्म परस्येश्वरे चित्तसमाघानाभावान्मद्योगमाश्रितो मदर्थ कर्माणि कर्तुमशक्तोऽसीति वर्णन - मयुक्तमेवेति । अत्र मद्योगमाश्रितस्सन्नेतदपीत्यन्वयोऽपि गम्यते । मद्योगशब्दस्य तु शङ्करोत एवार्थः । तथा चेश्वरे कर्तृत्वादिसन्न्यासपूर्वकमीश्वरार्थं कर्म कर्तुं यो न शक्नोति तेन कर्मफलपरित्यागः कर्तव्यो नियतात्मनेति सिद्ध्यति निरवद्यः पन्थाः । मास्तु ममैतत्कर्मफलमित्यनुसन्धानमात्रमेवास्य फलत्यागिनः कर्तव्यः । ईश्वरार्थं कर्मकृतस्तु ईश्वराराधनायैतत्कर्म मया क्रियत इति, अनेन कर्मणा मयेश्वर एक एवाराध्यत इति वा, ईश्वरप्रीतये एतत्कर्म क्रियत इति वा, न मया कर्म क्रियते, किं त्वीश्वरेणै- वेति वा, न मया कर्म क्रियते किंतु प्रकृत्यैवेति वा । एवमाद्यनुसन्धान कर्तव्यमिति दुष्करमीश्वर- कर्मप्रधानत्वं कर्मफलत्यागापेक्षयेति भावः ॥ ११ ॥ श्रेय इति । अभ्यासादनुष्ठानात्कर्मणां मत्कर्मपरमो भवेत्युक्तलक्षणाद्ज्ञानं शास्त्रार्थपाण्डित्य- मात्मानात्मपदार्थज्ञानमिति यावत् । श्रेयः प्रशस्यतरं हि, हिः प्रसिद्धौ । ज्ञानाच्च तस्माद्ध्यानं विश्व- रूपोपासनं विशिष्यते, - ध्यानात्तस्मात्सर्वकर्मफलत्यागो विशिष्यते, यद्यपीश्वरार्थकर्मकरणाशक्तस्यैव फलत्यागो विहितस्तथापि फलत्यागस्सर्वोत्कृष्ट एव । कुतः ? त्यागाच्छान्तिरनन्तरं त्यागादनन्तरमेव .यस्माच्छान्तिः स्यात्तस्मात्त्यागो विशिष्यते ज्ञानविशिष्टादपि ध्यानादिति । यद्यपि पूर्वं विश्वरूपोपासन-अभ्यास- मत्कर्म परमत्व फलत्यागरूपाश्चत्वार उपाया उक्तास्त एवेहापि वक्तव्याः- तेषां मध्ये कर्मफलत्याग उत्कृष्ट इति तस्य स्तवनीयत्वात्तथापि चितस्यैकत्रावस्थापनलक्षणा- भ्यासो नेह गृहीतः- अभ्यासस्य विश्वरूपोपासनहेतुत्वेन साक्षान्मोक्षमार्ग वाभावात् । विश्वरूपध्यान - सामर्थ्याय ह्यभ्यासो विहितः । ज्ञानं तु पूर्वमनुक्तमप्युक्तमिह तस्यापि मोक्षमार्गत्वेन तदपेक्षयापि फल- त्यागस्य प्राशस्त्यस्य वक्तव्यत्वात् । न चैवं ज्ञानयोगादप्यस्य प्राशस्त्यं वक्तव्यमेवेति तस्यापीह ग्रहणं भवेदिति वाच्यं, अज्ञविष- यत्वादस्य श्लोकस्य । अज्ञस्य ज्ञानयोगानधिकारेण ज्ञानयोगो हि न तस्य मोक्षमार्गः । न चाज्ञस्य कथं शास्त्रार्थपरिज्ञानमिति वाच्यं सुतरामज्ञस्यावैदिकस्य नास्तिकस्य कर्मण्यप्यनधिकारेणात्मयाथार्थ्य - ज्ञानशून्यस्यैवेहाज्ञत्वेन विवक्षितत्वात् । शास्त्रार्थविदोऽपि सम्यग्दर्शनशून्या यज्ञा इति । यद्वा अभ्यासाच्चित्तस्यैकत्र स्थापनलक्षणात् ज्ञानं शास्त्रार्थपरिज्ञानं श्रेयः, अभ्यासस्तु ईश्वर- कर्मपरमत्वाच्छेयानिति बोध्यम् । अन्यत्सर्वं पूर्ववत् । मत्कर्म परमत्व अभ्यास - शास्त्रार्थज्ञान-ध्यान-फल- त्यागानां मध्ये फलत्याग उत्कृष्ट इति । २९ द्वादशोऽध्यायः । 1 २२५ अथ वा अभ्यासाश्चित्तस्यैकत्र स्थापनलक्षणाद्ज्ञानं शास्त्रार्थयज्ञादिकर्मपरिज्ञानं लक्षणया तत्प्र- युक्तमीश्वरार्थकर्मपरत्वं श्रेयः, अन्यत्पूर्ववत् । यद्यप्यभ्यासेऽप्यसमर्थस्येश्वरार्थकर्मपरत्वं विहित, तथापि अभ्यासादविवेकपूर्वकात् श्रेय एव ज्ञानपूर्वकमीश्व र कर्म परत्वम् । विश्वरूपोपासनं प्रति त्वन्तरङ्गहेतुत्वा- द्विश्वरूपोपासनानन्तरमभ्यास उक्त इति बोध्यम् । विश्वरूपोपासनाभ्यास, मत्कर्मपरमत्व, फलत्यागानां मध्ये फलत्याग एवोत्कृष्ट इति भावः । अत्र अभ्यासाद्विश्वरूपोपासनात्मकाद्ज्ञानं ज्ञानयोग आत्मानात्मविवेचनरूप इति भावः । श्रेयस्तस्माच्च ज्ञानात्परोक्षात् श्रवणादिलक्षणाद्ध्यानं तादृशज्ञानपूर्वकमात्मोपासनं विशिष्यते । ध्याना- त्सर्वकर्मफलत्यागः सर्वकामप्रहाणं भवतीति शेषः । आत्मोपासकानामात्मैक कामत्वेन कामान्तराभावा- दिति भावः । त्यागाच्छान्तिरनन्तरं भवतीत्यर्थोऽप्यापपतति - स त्वप्रकृतत्वादुपेक्ष्यः, अनात्मविदां कर्मफलत्यागस्यात्र स्तूयमानत्वात् तस्यैव प्रकृतत्वात्, अथैतदप्यशक्तोऽसीति, कुरु कर्मफलत्याग- मिति च पूर्वमुक्तत्वात् । यत्तु रामानुजः — अभ्यासाद्भगवति स्मृत्यभ्यासाद्ज्ञानमात्मापरोक्ष्यज्ञानं श्रेयः आत्मविहितत्वे विशिष्यते, ज्ञानाद्ध्यानं विशिष्यते, ध्यानात्फलत्यागेनानुष्ठितं कर्मैव विशिष्यते, तदनन्तरं निरस्तपापतया मनसश्शान्तिर्भविष्यति, शान्ते मनस्यात्मध्यानं सम्पत्स्यते, ध्यानाच्चात्मापरोक्ष्य, तदाप- रोक्ष्यात्परा भक्तिरिति भक्तियोगाभ्यासाशक्तस्यात्मनिष्ठैव श्रेयसी, आत्मनिष्ठस्याप्यशान्तमनसो निष्ठा- प्राप्तयेऽन्तर्गतात्मज्ञानानभिसंहितफल कर्मनिष्ठैव श्रेयसीत्यर्थ इति, तत्तुच्छम् — ‘क्लेशोऽधिकतरस्तेषा- मव्यक्तासक्तचेतसा ‘मित्यात्मनिष्ठाया एव भक्तियोगाद्विश्वरूपोपासनात्मकादधिकक्लेशावहत्वस्योक्तत्वात्, ज्ञानयोग एव भक्तियोगादुष्कर इति ज्ञानयोगाशक्तस्यैव भक्तियोगेऽधिकारः । युक्तं चेदम्- ज्ञानयोगिनो ह्यात्मानात्मविवेकः, अनात्मस्वात्माभिमानत्याग उन्मेषनिमेषादिसर्वकर्मसु देहादेः कर्तृत्वं न ममेति स्वस्याकर्तृत्वानुसन्धानं दृश्यमान सर्वप्रपञ्च मिथ्यात्वनिश्चय एवमादयो बहवो गुणा आव- श्यकाः । तदभावे ज्ञानयोग सिद्धेः । तस्मादुष्करोऽज्ञस्य ज्ञानयोगः । भक्तियोगस्तु ब्राह्मणोऽहं विष्णुशर्मा मोक्षाय भगवन्तं रामचन्द्रं भजामीत्यनुसन्धानसाध्य इति न तत्र देहाभिमानत्यागः, नाप्या- त्मानात्मविवेकः, नापि कर्तृत्वाभिमानत्यागः । तस्मात्सुकरो भक्तियोगः । नच पत्रपुष्पाद्युपकरणसम्पादनक्लेशाद्दुष्करो भक्तियोग इति वाच्यं, तथासति बहूपकरणसाध्यः कर्मयोग एव दुष्कर इति कर्मयोगाशक्तस्यैव भक्तियोगाधिकार इति वक्तव्यत्वात् । तस्मान्मनः क्लेश एव क्लेशः, नतु कायक्लेशः क्लेशः । अन्यथा कर्मयोगापेक्षया कृषेरेव दुष्करत्वप्राप्तेः । एवं ज्ञानयोगस्य दुष्करत्वादेव ज्ञानिनां स विहितः । ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ! ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मिति । भक्तियोगो हि कर्मयोगान्तर्गत एवेत्युक्तं प्राक् । निष्ठाद्वयस्यैव भगवता प्रोक्तत्वेन तृतीयनिष्ठा कल्पनस्यायुक्तत्वात् । तस्मात्कर्मयोगस्तदन्तर्गत- भक्तियोगो वा ज्ञानयोगाशक्तस्याज्ञस्यैव श्रेयः प्राप्तिहेतुत्वेन विहित इति भक्तियोगांशकस्य ज्ञानयोगः, .२२६ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ज्ञानयोगाशक्तस्य तु कर्मयोग इति न वक्तुं शक्यते । भक्तियोगकर्म योगयोरेकत्वेन ज्ञानयोगं प्रत्यु- त्कर्षापकर्षयोरेकस्यैव दुर्वचत्वात् । तथा आत्मापरोक्ष्यात्परा भक्तिरस्यादित्यप्ययुक्तम् - अपरोक्षीकृतात्मस्वरूपस्य विदुष आत्मन एवेश्वरत्वेनात्मभिन्नेश्वरस्यैवाभावात्कुतो भक्तिमार्गावकाशः ? सहि सेव्यसेवकद्वयाश्रयः । प्रकृते तु आत्मेश्वरभेदाभावात्कथं सेव्यसेवकभावः ? नच भिन्न एवात्मन ईश्वर इति वाच्यं, ‘ज्ञानी स्वात्मैव मे मत’ मित्युक्तत्वादीश्वरस्य च सर्वात्मत्वात्सर्वभूतानां हृदेशे आत्मन एवावस्थानादीश्वरस्य च सर्वान्त- रत्वेनात्मत्वात् । ‘अथ योऽन्यां देवतामुपास्ते, अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु रिति भिन्नात्मज्ञानस्य श्रुत्यैव निन्दितत्वात् । तस्मादज्ञविषय एवायं भिन्नात्मज्ञानप्रयुक्तो भक्तियोगः । ’ तरति शोकमात्मवि’ दित्यात्मापरोक्ष्यज्ञानादेव सर्वसंसार निवृत्तिश्रवणात्कथं भक्तेर्ज्ञानात्परत्वम् ? किंत्वव- रत्वमेव । ज्ञानं विना भक्त्या संसारस्यानिवृत्तेः । संसारो ज्ञानकृतत्वाद्ज्ञानैकनाश्यः । नचात्म- ज्ञानादात्मानन्दलाभ एव, भक्त्या तु ब्रह्मानन्दलाभ इति वाच्यं, आत्मानन्दस्यैव ब्रह्मानन्दत्वात् । भक्तस्य ब्रह्मानन्दालाभाच्च । स्वकल्पितविश्वरूपानुभवजन्यानन्द एव हि भक्तस्य भक्तिदशायां स्फुरति । स च मायिक एव । तस्मादनित्य एव च । नित्यो हि ब्रह्मानन्दः । ब्रह्मणस्तस्य नित्यत्वात् । एवं फलतोऽधिकत्वादेव दुष्करेऽपि ज्ञानयोगे ज्ञानिनः प्रवर्तन्ते, दुष्करत्वादेव च ज्ञानिविषयोऽयम् । अज्ञा हि न दुष्करं कर्तुमर्हन्ति, किंतु प्राज्ञा एव । ततश्व ज्ञानि विषयात् ज्ञानयोगादज्ञविषयस्य भक्ति- योगस्य कथमपि नास्त्युत्कर्ष:, किंत्वपकर्ष एवेति ज्ञानयोगाशक्तस्य अज्ञस्यैव भक्तियोग इति स्थितम् । अथ आत्मनिष्ठस्यापि कर्मनिष्ठैव श्रेयसीति यदुक्तं तदयुक्तम् — आत्मनिष्ठाकर्मनिष्ठयोरेक- त्रावस्थानायोगात् । त्यक्तसर्वकर्मण एवात्मनिष्ठायामधिकारात्सन्न्यासिनः पुनः कर्मनिष्ठाप्राप्त्ययोगात् । आत्मनिष्ठाप्राप्त्यनर्हस्यैव विक्षिप्तचित्तस्याज्ञस्य चित्तशुद्धयर्थं कर्मनिष्ठायां विहितत्वात् । आत्मनिष्ठ- स्यात्मनिष्ठयैव कृतकृत्यत्वात् । ज्ञानिन एवात्मनिष्ठत्वेन तस्य कर्मानधिकारस्य पूर्वमेव स्थापितत्वा- द्वेदाविनाशिनमिति श्लोकभाष्यादौ । तस्मादज्ञस्यात्मनिष्ठाप्राप्त्यनर्हस्यैव कर्मनिष्ठा श्रेयसीति स्थितम् । यच्चानेनोक्तं – फलत्यागान्मनश्शान्तिर्मनश्शान्तेरात्मध्यानमात्मध्यानादात्मापरोक्ष्यमात्मापरोक्ष्या- द्भक्तिश्च भविष्यतीति, तत्रात्मापरोक्ष्याद्भक्तिरिति निरस्तम् । आत्मापरोक्ष्यानन्तरं कृतकृत्यत्वेन प्राप्त - प्राप्यत्वेन च कर्तव्यस्य प्राप्यस्य वा अभावात् । आत्मसाक्षात्कार एव हि सर्वाधिः । आत्मध्यानादे- वात्मापरोक्ष्यमिति तु नियन्तुं न शक्यते । आत्मोपासनं विनापि श्रवणादिना आत्मसाक्षात्कार - सम्भवात् । श्रवणाद्यशक्तस्य अनुत्तमस्यैवात्मध्यानस्य विहितत्वादुत्तमाघिकारिणां श्रवणादेरेव विहि- तत्वात् । मूले त्यागाच्छान्तिरनन्तरमिति वच्छान्तेरनन्तरं ध्यानं ध्यानादनन्तरं ज्ञानमिति क्रमस्यादर्श- नात् । किंच त्यागशान्त्योरिव ज्ञानध्यानयोरुपायोपेयभावः कार्यकारणभावो वा विवक्षितः स्याद्यदि तर्हि उपेयाद् ज्ञानादुपायस्य ध्यानस्य शान्तिद्वारा उपायस्य त्यागस्य ध्यानादुपेयाच्च श्रेष्ठत्ववचनमयुक्त स्यात् । उपायादुपेयं हि प्रशस्यतरम् । उपेयस्य प्रशस्तत्वा देवो पेयप्राप्त्यनन्तरमुपायपरित्यागः । द्वादशोऽध्यायः । २२७ तस्मादपि ज्ञानात् ज्ञानपूर्वकं ध्यानं विशिष्यते, ज्ञानवतो ध्यानादपि कर्मफलत्यागो विशिष्यत इत्यनुषज्यते । एवं कर्मफलत्यागात् पूर्वोक्त विशेषणवतः शांन्तिरुपशमः सहेतुकस्य संसारस्यानन्तरमेव स्यात्, न तु कालान्तरमपेक्षते । अज्ञस्य कर्मणि प्रवृत्तस्य पूर्वोपदिष्टोपायानुष्ठानाशक्तौ सर्वकर्मणां फलत्यागः श्रेय- स्साधनमित्युपदिष्टं न प्रथममेव, अतश्च श्रेयो हि ज्ञानमभ्यासात्’ इत्याद्युत्तरोत्तर विशिष्ट- त्वोपदेशेन सर्वकर्मफलत्यागः स्तूयते सम्पन्नसाधनानुष्ठानाशक्तावनुष्ठेयत्वेन श्रुतत्वात् । केन उपायस्यैव प्रशस्तत्वे तु उपेयप्राप्तिकामो नैव स्याज्जनानाम् । नाप्यभ्यासं प्रति ज्ञानस्योपायत्वं सङ्गच्छते- अविवेकपूर्वकत्वादभ्यासस्य ज्ञानस्य चाविवेकनाशकत्वात् । नहि भक्तिमार्गे विश्वरूपं दृश्यमानमेवेश्वरम्मन्यमानानां तद्विविक्तस्य द्रष्टुरीश्वरस्यात्मनो ज्ञान भवितुमर्हति । सति त्वनात्मविविक्तद्रष्ट्रात्मज्ञाने । नानात्मनि देहे विश्वात्मके रज्ज्येरन् ते। किंतु सच्चिदानन्दे स्वात्मन्येवेश्वरे । तस्मान्नास्त्यभ्यासे आत्मानात्मविवेक इति । तस्मादज्ञस्य कर्मणि प्रवृत्तस्य ज्ञानमार्गेऽनधिकाराद्विश्वरूपोपासनाभ्यासेश्वरकर्मपरत्वरूपोपायानुष्ठानाशक्तेश्व कर्मफलत्याग एव सुकरत्वाच्छान्तिहेतुत्वाच्च श्रेयानिति यथोक्त एवार्थः । . अथ भाष्यं व्याख्यायते— ‘प्रशस्यस्य श्र’ इति श्रादेशः । तरखर्थे ईयसुन् प्रत्ययश्चेत्यभि- प्रेत्याह - प्रशस्यतरमिति । अभ्यासाद्ज्ञानस्योत्कृष्टत्वे हेतुमाह - अविवेकपूर्वकादिति । ज्ञाने तु विवेकोऽस्तीति भावः । ज्ञानवत इति । ज्ञानयुक्तादित्यर्थः । पूर्वोक्तविशेषणवत इति । ध्यानो- त्कृष्टत्वरूपविशेषणयुक्तादित्यर्थः । उपशमो निवृत्तिः । सहेतुकस्याज्ञानस्य- संसारं प्रत्यज्ञानस्यैव हेतुत्वात् । अनन्तरमेवेति । यदा फलत्यागस्तदैवेत्यर्थः । एवकारार्थमाह - नतु कालान्तरमिति । प्रकृतश्लोकोपदिष्टार्थमाह- अज्ञस्येति । अज्ञोऽपि सन्न्यस्य यमनियमाद्यनुतिष्ठेदित्यत आह- कर्मणि प्रवृत्तस्येति । गृहस्थस्येत्यर्थः । पूर्वोपदिष्टोपायानां विश्वरूपोपासनाभ्यासेश्वर कर्मपरत्वाना- मनुष्ठानस्याशक्तौ सामर्थ्याभावे—न प्रथममेवेति । शक्त्यशक्त्यवेक्षणं विनैव कर्मफलत्यागश्श्रेय- स्साघनमज्ञस्येति न वक्तव्यमित्यर्थः । एतेनाशक्तस्यैवाज्ञस्य कर्मणि प्रवृत्तस्य कर्मफलत्यागश्श्रेयस्साघनं, नतु शक्तस्याज्ञस्य, नापि कर्मण्यप्रवृत्तस्याज्ञस्येति किंपुनः प्राज्ञस्य सन्न्यासिन इत्यर्थात्सूच्यते । अतश्चेति । अशक्तस्य कर्मिणः कर्मफलत्यागस्यैव श्रेयस्साधनत्वादित्यर्थः । उत्तरोत्तर विशिष्टत्वोपदेशेनेति । उत्तरस्योत्तरस्य ज्ञानध्यानादेः पूर्वस्मात्पूर्वस्मादध्यासज्ञानादेर्विशिष्टत्वस्योत्कृष्टत्वस्योपदेशेन कथनेन सर्व कर्म फलत्यागः सर्वोत्कृष्ट इति स्तूयते । अभ्यासात् ज्ञानस्य ज्ञानाद्ध्यानस्य च विशिष्टत्वं वस्तुस्वभावसिद्धमेव, न तद्वचनं स्तुतिः । किंतर्हि सर्व कर्म फलत्यागस्य अभ्यासज्ञानध्यानासमर्थाज्ञकर्मि विषयस्य अभ्यासज्ञान- ध्यानेभ्य उत्कृष्टत्वकथनमेव स्तुतिः, अयथार्थवर्णनस्य स्तुतित्वात् । यथा राजानं प्रति त्वमिन्द्रस्त्वं चन्द्र इति वचनस्य स्तुतित्वम् । २२८ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु साधर्म्येण स्तुतित्वम् ? ‘यदा सर्वे प्रमुच्यन्ते’ इति सर्वकामप्रहाणादमृतत्वमुक्तं, तत्प्रसिद्धं कामाश्च सर्वे श्रौतस्मार्तसर्वकर्मणां फलानि, तत्यागेन च विदुषो ध्याननिष्ठस्यानन्तरमेव शान्तिरिति सर्वकामत्यागसामान्यमन्य कर्मफलत्यागस्याप्यस्तीति तत्सामान्यात् सर्वकर्म - फलत्यागस्तुतिरियं प्ररोचनार्था । यथा चागस्त्येन ब्राह्मणेन समुद्रः पीत इति इदानीं तना नन्वेवं शक्ताज्ञविषयेभ्योऽभ्यासादिभ्यः परमशक्ताज्ञविषयत्वेन निकृष्टस्य फलत्यागस्य कुत उत्कृष्टत्वप्रतिपादनमत आह- सम्पन्नेति । सम्पन्नानामुत्तमानां साघनानां विश्वरूपोपासना दीना- मुपायानामनुष्ठानाशक्तौ । तेन धर्मेणेति । अशक्तानुष्ठेयत्वरूपधर्मेणेत्यर्थः । स्तुतित्वं कर्मफलत्यागो विशिष्यत इति । वचनस्येति शेषः । यद्वा स्तूयत इति स्तुतिः स्तुत्यं वस्तु तद्भावः स्तुतित्वं स्तुतिरिति यावत् । कर्मफलत्यागस्येति भावः । अशक्ताज्ञकर्मि विषयत्वेना सुलभत्वात्कर्मफलत्यागस्सर्वोत्कृष्ट इति कथ्यते, नतु वस्तुतो ज्ञानादिभ्य उत्कृष्टत्वादिति भावः । नन्वेवमज्ञाशक्तकर्मिजनसुलभत्वादेव कर्मफलत्यागो विशिष्ट इति स्तूयतां, त्यागाच्छान्तिरन- न्तरमिति शान्तिहेतुत्वात्कर्मफलत्यागस्योत्कृष्टत्वमिति तु न युक्तं वक्तुं कर्मफलत्यागसंसारो परमयोः कार्यकारणभावाभावेन यदनन्तरन्यायाभावात् । कर्मफलत्यागाच्चित्तशुद्धिः, ततो ज्ञानं, ततस्संसारोपरम इति क्रमात् । तस्मात्कथमज्ञकर्मिविषयात्कर्म फलत्यागात्संसारनाशोऽत आह— यदेति । यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिता’ इत्यनेन सर्वकामत्यागादमृतत्वं मोक्षः स्यादित्युक्तं, तत्सर्व- कामप्रहाणादमृतत्वं प्रसिद्धं च शस्त्रे । चकारादनुभवाच्च । निष्कामस्य सुखदर्शनादिति भावः । काम्यन्त इति कामा इति व्युत्पत्त्या आह— फलानीति । स्वर्गादीनीत्यर्थः । ज्ञाननिष्ठस्येति । सन्यासिन आत्मनिष्ठस्येत्यर्थः । अनन्तरमेवेति । कामत्यागानन्तरक्षण एवेत्यर्थः । शान्तिरिति । तत्प्रसिद्धं चेत्यन्वयः । ननु भवतु विदुषां सर्वकामत्यागादनन्तरमेव शान्तिः, प्रकृते अज्ञानां कथं कर्मफलत्यागादनन्तरमेव शान्तिरित्युक्तमत आह— सर्वकामेति । विदुषां सर्वकामत्याग इवाविदुषां कर्मफलत्यागोऽपि त्यागात्मक एवेति भवति त्यागांशे सादृश्यमुभयोः । । यद्वा विदुषां सर्वकामत्यागे इवाविदुषां कर्मफलत्यागेपि सर्वकामत्यागत्वरूपं सर्वकामत्याग- सामान्यमस्ति । कर्मफलानामेव कामत्वात्यागस्य चोभयत्रैकत्वात् । भवतु किं तत आह- तत्सामान्यादिति । विद्वत्सर्वकामत्याग सादृश्यादित्यर्थः । सर्वकामत्यागत्वरूपजातिवशादिति वा । इयं त्यागाच्छान्तिरनन्तरमित्येवेत्यर्थः । स्तुतेः फलमाह - प्ररोचनार्थमिति । कर्मफलत्यागे रुच्यु- त्पादनार्थमज्ञस्य कर्मिण इति भावः । अज्ञा उपासनाद्यशक्ता मुमुक्षवः । हा ! धिगस्मान् कास्माकं गतिरिति विद्यमाना भगवतैव कृपालुना समुपलाल्यन्ते- ‘मास्तु वः खेदः, कर्मफलत्यागो युष्माकं सुकरः, 6 सच न निकृष्टः पन्थाः, किं तूःकृष्ट एव । कर्मफलत्यागादनन्तरमेव युष्माकं मोक्षलाभा’- दिति । एवं भगवद्वचनमधिगत्य क्षिप्रमेवास्माकं फलत्यागान्मोक्षो भवेदन्येषां तु चिरादेवेति मन्यमाना उत्साहात्कर्म फलत्यागे प्रवर्तन्ते ते, ततश्व चित्तशुद्धिज्ञानप्राप्तिद्वारा क्रमेणैव मुच्यन्त इति भावः । परोचनार्थत्वे दृष्टान्तमाह-यथेति । शूद्रादीनां ब्राह्मणेषु भक्त्यादिप्रजननार्थे ब्राह्मणाः स्तूयन्तेद्वादशोऽध्यायः । २२९ अपि ब्राह्मणाः ब्राह्मणत्वसामान्यात् स्तूयन्ते, एवं कर्मफलत्यागात् कर्मयोगस्य श्रेयस्साध- नत्वमभिमतम् ॥१२॥

शास्त्रकृद्भिः किमिति ? ‘अहो ! ब्राह्मणानां महिमा ! यैः पीतस्समुद्रः, शायितो विन्ध्याद्रिः, प्रियते च दणिणभूमण्डल’ मित्येवम् । इदं हि स्तुतिवचनमेव, न यथार्थवचनमाधुनिक ब्राह्मगानां समुद्रपाना- द्यभावात् । किं तर्ह्येकेनैवागस्त्येन समुद्रपानादिकं कृतं, अगत्यस्येवेदानींतनानामपि विष्णुशर्मादीनां ब्राह्मणत्वात्तेन ब्राह्मणत्वसामान्येन स्तूयन्ते आधुनिकाः । अगस्त्यब्राह्मणस्थानीयः विद्वत्सर्व कामत्यागः, आधुनिक ब्राह्मणस्थानीयः सर्वकर्मफलत्यागः । ब्राह्मणत्वस्थानीय तु त्यागसामान्यम् । विद्वत्काम- त्यागस्य शान्तिहेतुत्वादविद्वत्कर्मफलत्यागोऽपि शान्तिहेतुत्वाद विद्वत्कर्मफलत्यागोऽपि शान्तिहेतुरिति स्तूयते कर्मफलत्यागेऽज्ञजनप्रवर्तनार्थ, यथा पीतार्णवागस्त्यब्राह्मणस्य महानुभाव त्वादतादृशा अपि ब्राह्मणा महानुभावा इति कीर्त्यन्ते ब्राह्मणपूजादौ शूद्रादीनां प्रवर्तनार्थं तद्वदिति भावः । एतेन ब्राह्मणजातेरगस्त्याश्रयेणेव त्यागस्य विद्वदाश्रयेणोत्कृष्टत्वं प्राप्तं तच्च ब्राह्मणजातेरुत्कृ- ष्टत्वमाधुनिक विष्णुशर्माद्याश्रयेऽपि न नष्टम् । आधुनिक ब्राह्मणानामप्युत्कृष्टत्वेन कीर्त्यमानत्वात् । यथा तथा त्यागस्य विद्वदाश्रयलब्धमुत्कृष्टत्वमविद्वदाश्रयादपि न नष्टमिति त्यागस्स्तूयते - त्यागा- च्छान्तिरनन्तरमिति । एवमिति । त्यागस्योत्कृष्टत्वादेवेत्यर्थः । कर्मफलत्यागाद्धेतोः- कर्मयोगस्य श्रेयस्साधनत्वमज्ञानामिति शेषः । ननु शान्तिशब्दस्य संसारोपरमार्थमुक्त्वा कर्मफलत्यागस्य शान्तिहेतुत्वासम्भवं मत्वा विद्व- त्यागस्य शान्तिहेतुत्वात्तत्साम्येनाविद्वत्त्यागोऽपि शान्तिहेतुरिति स्तूयत इति किमनया कल्पनया फलम् ? शान्तिश्चित्तशुद्धिरित्यर्थो वर्ण्यतां, तथासति अविद्वत्कर्म फलत्यागस्य चित्तशुद्धिहेतुत्वसम्भवात्सर्वं वाक्यं यथार्थमेव स्याद्युक्तमेवेदं यथार्थवादिन ईश्वरस्येतिचेत्, मैवम् - चित्तशुद्धिहेतोः फलत्यागस्य चित्त- शुद्धिसाध्यध्यानादुत्कृष्टत्ववर्णनायोगात् । नच सुलभत्वमेवोत्कृष्टत्वमिति वाच्यं, तर्हि ‘सुलभं ज्ञानमभ्या- सात् ज्ञानाद्ध्यानं च भारत ! ध्यानाकर्म फलत्यागस्त्या गाच्छान्तिरनन्तर’ मित्येव ब्रूयाद्वेदव्यासः । नच ध्यानात्फलत्याग एव सुलभः, अभ्यासात् ज्ञानं तु विशिष्टमेव, तथा ज्ञानाद्ध्यानमपि विशिष्टमेवेति वच्यं, ज्ञानध्यानयोः प्रकृतस्य विशिष्टत्वस्य त्यागे भङ्गांयोगात् । नन्देवं ध्यानादुत्कृष्टो यो विद्वत्कर्तृकस्सर्व काम त्यागस्स एवेहोच्यतां, तथासति त्यागात्तम्मा- त्संसारोपरमलक्षणशान्तिर्भवितुमर्हेति चेत्, मैवम् - अप्रकृतत्वात्तस्य । ‘अथ चित्तं न शक्नोषि समाधातुं मयि स्थिर’मित्यादिना अशक्ता ज्ञगति प्रदर्शनस्य प्रकृतत्वात् । अद्वेष्टेत्यादिना विद्वगतेः प्रदर्श- यिष्यमाणत्वाच्चाज्ञपरत्वादस्य श्लोकस्य । तस्मात्सर्वकामत्यागस्य शान्तिहेतुत्वात्सर्वकर्मफलत्यागोऽपीह शान्तिहेतुत्वेन स्तुतः प्ररोचनार्थमिति युक्तमुक्तम् - शान्तिश्च संसारोपरम इति । वस्तुतश्चित्तशुद्धिहेतोरपि कर्मफलत्यागस्य त्यागसामान्येन सर्वकामत्यागा भेदात्संसारो परम हेतुत्वेन ध्यानादुत्कृष्टत्वं ध्यानज्ञानयोस्तु ज्ञानाभ्यासाभ्यां स्वत एव मुख्यमु कृष्टत्वमिति वस्तुगतिः । एवं कर्म- २३० श्रीभगवद्गीतासु भाय्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अत्र चात्मेश्वरभेदमाश्रित्य विश्वरूपे ईश्वरे चेतस्समाधानलक्षणो योग उक्तः, ईश्वरार्थ कर्मानुष्ठानादि च । ‘अथैतदप्यशक्तो’ सीत्यज्ञानकार्यस्य सूचनात् नाभेददर्शिनो फलत्यागे सर्वकामत्यागाभेदारोपपूर्वकं संसारो परम हेतुत्वकथनं तु कर्मफलत्यागप्ररोचनार्थम् । सुलभोऽयं कर्मफलत्यागो निष्फल इति न तत्र प्रवृत्तिरस्यादज्ञानामिति कृत्वा तत्र तेषां प्रवर्तनार्थं नायं सुलभोऽपि निष्फलः, किंतर्हि सर्वोत्कृष्टफलमेव संसारोपरमस्याऽनन्तरमेव हेतुत्वादित्युक्तं भगवता । ननु य एव सर्वकामत्यागस्स एव कर्मफलत्याग इति को भेदो विद्वदविद्वदाश्रययोस्तयोः ? उच्यते — क्रियमाणकर्मणां फलत्यागः कर्मफलत्यागस्स विदुषां न सम्भवति, तेषां कर्मण्यनधिकारात् । ऐहिकामुष्मिक सर्ववस्तुविषयकामनापरित्यागस्सर्वकामत्यागः । सचाविदुषां न सम्भवति तेषां जीवित- तो जलान्नादौ कर्मनिर्वर्तकेषु समित्कुशादिषु च कामसत्त्वादिति । नन्वेवमपि विज्ञानादनन्तरमेव संसारोपरम इति वक्तव्ये कथं त्यागादित्युक्तं, नहि सर्वकाम- त्यागादप्यनन्तरमेव स्यात्संसारोपरम इति चेत्, मैवम् - आत्मस्वरूपसाक्षात्कारं विना विदुषामपि सर्व- कामत्यागो न सम्भवति, उत्कृष्टं वस्तु लब्ध्वैव हि अपकृष्टे वस्तुनि कामनां त्यजति लोकः । परमा- नन्दमये आत्मस्वरूपे अधिगते सत्येव क्षुद्रसुखहेतुष्वन्नादिषु कामनात्यागः ।

नन्वेवं ‘तरति शोकमात्मवि’ दिति ज्ञानसंसारयोर्यदनन्तरन्याय उक्तस्स न सिद्धयेत्, मध्ये कामत्यागेन व्यवधानादितिचेत्, मैवमपि - यदैवात्मसाक्षात्कारस्तदैव सर्वकामत्यागस्संसारोपरमश्च भवतीति ज्ञानानन्तरं न सर्वकामत्यागात्मकं किंचित्कृत्यं कर्तव्यमस्ति, येन तद्व्यवधानं स्यात् । यद्वा ज्ञानयोगे प्रवृत्तस्य विदुषः यदा सर्वकामत्यागस्तदा ज्ञाननिष्ठापरिपाक इति ज्ञायते । अपरिपक्कज्ञानस्य सर्वकामत्यागासम्भवात् । ज्ञानस्य परिपाक आत्मतत्त्वसाक्षात्कार एव । तथा च त्यागादनन्तरं जातायाश्शान्तेर्न त्याग एव हेतुः, किं तर्हि त्यागसहकुतं ज्ञानमेवेति न तरति शोक- मात्मविदिति श्रुतिविरोधः, नापि ज्ञानशान्त्योर्मध्ये त्यागाख्यस्य किचित्कृत्यस्य कर्तव्यतेति । अथ वा त्यागादनन्तरमेव शान्तिर्भवेदिति न त्यागशान्त्योः कार्यकारणभावः । किं तर्हि लक्ष्मणादनन्तरमेव शत्रुघ्नो जात इतिबंद्ज्ञानादादौ त्यागो जातोऽनन्तरमेव शान्तिरिति ज्ञानत्यागयो- रिव ज्ञानशान्त्योरपि कार्यकारणभाव इति । नचैवमपि ज्ञानशान्त्योर्मध्ये त्यागाख्यं किंचित्कर्तव्य- मस्तीति वाच्यं, त्यागेनैव ज्ञानं परिपक्वमित्यनुमीयमानत्वात् । यथा ज्ञानादनन्तरं संसारोपरमस्या कर्त- व्यत्वं, तथैव त्यागस्यापीति बोध्यम् । तस्माद्विदुषां यदैवात्मसाक्षात्कारस्तदैव सर्व कामप्रहाणं तदैव सर्व संसारो परम :- कामपूर्वत्वास्संसारस्येति स्थितम् ॥१२॥ ननु अविदुषामेव कर्मयोगः कर्मफलत्यागाच्छ्रेयासाधनमिति कथमुच्यते, विदुषामपि स एवे - त्यत आह- अल चेति । अत्र प्रकरणे । आत्मेश्वरभेदमात्मनस्सकाशादीश्वरस्य भेदमज्ञानकार्यमिदं मैददर्शनमिति भावः । कर्मानुष्ठानादि चेति । उक्तमिति शेषः । आदिपदात्फलत्यागस्य प्रहणम् । द्वादशोऽध्यायः । २३१ अक्षरोपासकस्य कर्मयोग उपपद्यत इति दर्शयति, तथा कर्मयोगिन अक्षरोपासनानुपपत्ति दर्शयति भगवान् - ‘ते प्राप्नुवन्ति मामेवेत्यक्षरोपासकानां कैवल्यंप्राप्तौ स्वातन्त्र्यमुक्त्वा इतरेषां पारतन्त्र्यादीश्वराधीनतां दर्शितवान् ‘तेषामहं समुद्धर्तेति । यदि हि ईश्वरस्यात्म- नच भेदमाश्रित्योक्तमिति कथं वक्तुं शक्यत इति वाच्यं, उपास्यस्य विश्वरूपस्य उपासकस्य स्वस्थ च भेदं विना उपासनायोगात् । विश्वरूपे देवे ईश्वरभ्रमं, मनुष्यदेहे जीवभ्रमं च विधाय हि विश्वरूपं भक्तो ध्यायति यज्ञादिकं कर्मापीन्द्रादिराराध्यदेवता मत्तोऽन्यः, आराधको ब्राह्मणोऽहमन्य इति भेदबुद्धिना हि क्रियते । तस्माज्जीवेश्वर भेदम। श्रित्यैव विश्वरूपध्यानादिकमत्रोक्तम् । सच भेदोऽ- ज्ञविषय इति प्रकृतवचनान्यप्यज्ञविषयाण्येव । किमत्र लिङ्गमत आह- अथैतदिति । अशक्तिर्ह्यज्ञान- कार्यम् । किमनेनाशक्तिवचनेन सूचितमत आह-नेति । अज्ञस्याक्षरोपासनं विज्ञस्य कर्मयोगश्च नोपपद्यत इति सूचितं भगवतेत्यर्थः । अशक्तस्याज्ञस्यैव योगादिविधानात् । शक्तस्य विज्ञस्य तन्न विहितमिति गम्यत इति भावः । युक्तमेवेदं कर्मयोगस्य भक्तियोगस्य वा जीवेश्वरभेदबुद्धिसाध्यत्वा द्ज्ञानयोगस्य चाभेदबुद्धि- सध्यत्वादज्ञानामभे बुद्धययोगाद्ज्ञानिनां च भेदबुद्धययोगादिति । न चात्मेश्वरभेदवादिनोऽपि ज्ञानिन एवेति वाच्यं, ‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु रिति भेदवादिनां पशुत्वस्य श्रुत्यैवोक्तत्वात् । ‘य उदरमन्तरं कुरुते अथ तस्य भयं भवति, द्वितीयाद्वै भयं भवतीत्यादिश्रुतिभ्यः भिन्नात्मज्ञानस्य निन्दितत्वाच्च । तस्मादज्ञविषयमेवेदं प्रकरणमिति । 4 ननु कर्मयोगस्याज्ञविषयत्वेऽपि तदन्तर्गतो भक्तियोगो नाज्ञत्रिषयः, किंतर्हि प्राज्ञविषय एव । एवं प्राज्ञत्वादेव भक्तानामपि मोक्षलाभो ज्ञानिवदिति शङ्कायामाह – त इत्यादिना । यद्यक्षरोपासका इव विश्वरूपोपासका अपि ज्ञानिनस्युः, तर्हि अक्षरोपासकानामिव भक्तानामपि स्वतन्त्र एव मोक्षः स्यात्, नचेष्टापत्ति: ते प्राप्नुवन्ति मामेवेति तेषामहं समुद्धर्तेति च भगवतैवाक्षरोपासकानां मोक्षे स्वातन्त्र्यं भक्तानां मोक्षे पारतन्त्र्यं चोक्तमिति भगवद्वचनविरोधात् । तस्मात्करतलामलकवत् स्वतन्त्र कैवल्यमक्षरोपासकानाम् । भक्तानां तु ईश्वरायत्तमिति न भक्ता ज्ञानिनः । ननु ईश्वराधीन कैवल्यत्वमात्रेण कथं भक्तानामज्ञत्वं, स्वाधीनकैवल्यत्वमात्रेण कथं वा अक्षरो- पासकानां विज्ञत्वमत आह— यदि हीति । यदि हीत्यस्य यस्माच्चेत्यर्थः । ते ज्ञानिन ईश्वरस्यात्म- भूता मताः । ’ ज्ञनी त्वामैव मे मत’ मित्युक्तत्वात् । तस्मादात्मेश्वरयो र मेददर्शित्वादीश्वरस्वरूपा एव ते ज्ञानिनः । अतस्तान्प्रति समुद्धरणकर्मविषयवचनं समुद्धरणमिति कर्मक्रिया तद्विषयं वचनं ज्ञानिन ईश्वरस्समुद्धरतीत्याकारकं वाक्यमित्यर्थः । अपेशलमसुन्दरमयुक्तमिति यावत् । एव स्यान्न तु पेशलम् । ज्ञानिन एवेश्वरस्यात्मत्वादिति भावः । समुद्धरणक्रिया हि समुद्धर्तुसमुद्धार्य वस्तुयतन्त्रा । उद्धर्तु- रभावे उद्धार्यस्याभावे वोद्धारणासम्भवात् । प्रकृते तु वस्तुद्वयं नास्ति - उद्धर्तुरीश्वरस्यैवोद्धार्यात्मत्वात् । न कस्यैवोद्धर्तृत्वमुद्धार्यत्वं च सम्भवति कर्मकर्तृन्यायविरोधात् । तथा च समुद्धरणक्रिया निरूपित- • २३२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु भूताः ते मता अभेददर्शित्वादक्षरस्वरूपा एव ते इति समुद्धरणकर्मविषयवचनमेव तान् प्रति अपेशलं स्यात्, यस्माच्चार्जुनस्यात्यन्तमेव हितैषी भगवान् तस्य सम्यग्दर्शनानागन्धितं कर्मयोगं भेददृष्टिमन्तमेवोपदिशति । न चात्मानमीश्वरं प्रमाणतो बुध्वा कस्यचिद्गुणभावं कर्मत्वं ज्ञानिनां ज्ञानिकर्मक समुद्धरण क्रियानिरूपितं कर्तृत्वमीश्वरस्य च नोपपद्यते । ज्ञानीश्वरयो- रेकात्मत्वात् । य एवमात्मानमेवेश्वरं मन्यन्ते ते कथमीश्वरेण वयमुद्धरिष्यामह इति भ्रमं प्रतिपद्येरन् ? कथं वेश्वरोऽपि ज्ञानिनमात्मत्वेन मन्यमानो ज्ञानिनमहं मृत्युसंसारसागरादुद्धरिष्यामीति ब्रूयात् ! न कथमपि । अत एव भक्तानामहं समुद्धर्तेत्युक्तमीश्वरेण नतु ज्ञानिनां समुद्धर्तेति । ज्ञानिनस्तु स्वात्मानं मां स्वयमेव प्राप्नुवन्तीत्युक्तमीश्वरेण ‘ते प्राप्नुवन्ति मामे’ वेति । तस्मादात्मनस्सकाशा- नि ईश्वर इति ये मन्यन्ते तेषामीश्वराधीन कैवल्यानामज्ञानामशत्वं सुप्रसिद्धमेव । भिन्नश्वरज्ञान- स्याज्ञानकार्यत्वात् । भिन्नेश्वरज्ञानं विनास्माकं कैवल्यमीश्वराधीनमिति भ्रमायोगात् । ये स्वात्मानमेवश्वरं मन्यन्ते ते मुक्ता एव नित्यमिति स्वतन्त्रमेव कैवल्यं तेषामिति न तेषा- मीश्वराधीनं कैवल्यमिति भ्रमः । ततश्च तेषामहं समुद्धर्तेति यान्प्रत्युक्तं ते भक्ता अशा एव । अज्ञानामेवेश्वराधीनं कैवल्यमिति भ्रमात् । ते प्राप्नुवन्ति मामेवेति यान्प्रत्युक्तं ते तु प्राशा एवाक्ष- रोपासकाः । प्राज्ञानामेवेश्वरात्मैक्यज्ञानेन नित्यसिद्धो मोक्ष इति मोक्षखातन्त्र्यज्ञानात् । 1 तस्मादज्ञानामेव भक्तिमार्गादावधिकारः । ज्ञानिनां त्वक्षरोपासन एवेति भक्तियोगस्याज्ञाविष- यत्वं स्थितम् । युक्तं चेदं कर्मयोगान्तर्गतत्वेनास्यापि भक्तियोगस्य कर्मयोगवदशविषयत्वम् । कर्म- योगो ह्यविषयः । ’ ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मित्युक्तत्वात् । आत्मानात्मविवेक- ज्ञानवन्तः साङ्ख्या इति साङ्ख्यशब्दार्थो ग्रन्थारम्भे भाष्ये एव दर्शित आचार्यैः । तद्विपरीतत्वाद्योगिन अशा एव । 1 अथ अद्वेष्टेत्याद्युत्तरग्रन्थस्य भूमिकामारचयति – यस्मादिति । ननु अर्जुनस्यात्यन्तहितैषिणा भगवता य एवोत्तमः पन्थास्स एवोपदेष्टव्यः, न स्वन्यः, प्रकृते च कर्मयोग एवोपदिष्ट इत्युत्तम एव कर्मयोगो ज्ञानयोगात् । मय्येव मन आघत्स्व, अभ्यासेन मामाप्तुमिच्छ, मत्कर्मपरमो भव, सर्वकर्म- फलत्याग कुर्विति ह्युपदिष्टमिति शङ्कायां भेददृष्टिमतोऽज्ञस्यैव मया कर्मयोगो हिततम इत्युक्तं प्राज्ञ- स्यामेददर्शिनस्तु ज्ञानयोग एव हिततमः स एव कर्मयोगादुत्तम:, एवमुत्तमत्वादेव ज्ञानयोगस्य ज्ञानिनो मम प्रिया इति वक्तुमारभते भगवानद्वेष्टेत्यादिनोत्तरग्रन्थेन यावदध्यायपरिसमाप्तीतीममर्थ- माह भाष्यकार ः– यस्माच्चेत्यादिना । यस्माच्चार्जुनस्यात्यन्तमेव हितैषी भगवान् तस्मादक्षरोपासकानां साक्षादमृतत्वकारणं धर्मपूगं वक्ष्यामीति प्रवर्तत इत्यन्वयः । तर्हि कर्मयोगोपदेशः किमर्थोऽत आह— तस्येति । सम्यग्दर्शनानागन्धितं सम्यग्दर्शनगन्ध- शून्यं कर्मयोग भेददृष्टिमन्तमेवो द्दिश्य तस्योपदिशति । वदष्टिमन्तमुद्दिश्य नोपदिशतीति कथं ज्ञायतेऽत्र आह-नचेति । कश्चित्प्राज्ञ आत्मान- ३० द्वादशोऽध्यायः । २३३ जिगमिषति कश्चिद्विरोधात् । तस्मादक्षरोपासकानां सम्यग्दर्शननिष्ठानां सन्न्यासिनां त्यक्त- सर्वेषणाना’ मद्वेष्टा सर्वभूताना’ मित्यादिधर्मपूगं साक्षादमृतत्वकारणं वक्ष्यामीति प्रवर्तते

मीश्वरं प्रमाणतः तत्त्वतो बुद्ध्वा ज्ञात्वा कस्यचिदन्यस्य गुणभावं शेषत्वं जिगमिषति प्राप्तुमिच्छति । नच जिगमिषतीत्यन्वयश्चकार एवार्थकः कुतो नैवेच्छतीत्यत आह - विरोधादिति । ईश्वरोन्य- स्सर्वज्ञत्वादिगुणयुक्तः, अहमीश्वरादन्यः किञ्चिदज्ञत्वादिगुणयुक्त इति यो मन्यते स एवेश्वरं भक्त्या भजते राजानमिव भृत्यः । शेषिणस्तस्येश्वरस्य स्वयं शेषभूतश्च भवति, शेषी स्वतन्त्रः, शेषस्त्वस्वतन्त्र इति विवेकः । यः पुनरीश्वरोऽहमित्यात्मानमेवेश्वरं मन्यते स हि नेश्वरं भक्त्या भजते- स्वस्यैवेश्वरत्वात् । सेव्यसेवकभावो हि द्विनिष्ठः । अतो ज्ञानी आत्मानं शेषिणमेव मन्यते नतु शेषभूतं कस्यचित् । तस्मान्नाभेददृष्टिमतो विश्वरूपोपासनादिकर्मयोगसम्भवः । अभेदज्ञानस्य शेषशेषिभावस्य च विरोधात् । तस्मादिति । भेददृष्टिमन्तंप्रति कर्मयोगस्यैवार्जुनायोपदिष्टत्वादुर्जन हितैषिणा भगवतेत्यर्थः । इत्यादीति । इत्यादिश्लोकोक्तमित्यर्थः । सर्वभूताद्वेषादिरूपमिति यावत् । आदिशब्दान्मैत्र- करुणादिसंग्रहः । साक्षादिति । भक्तानां धर्मपूगस्तु क्रमेण मोक्षकारणं, नतु साक्षादिति भावः । मोक्षंप्रति ज्ञानस्यैवान्तरङ्गत्वात् । न हि ज्ञानोदयानन्तरं मुमुक्षुणा मोक्षंप्रति किञ्चित् कर्तव्यमस्ति । कर्मयोगस्तु भक्त्यादिलक्षणो बहिरङ्गः, कर्मयोगस्य चित्तशुद्धिज्ञानप्राप्तिद्वारा मोक्षहेतुत्वेन भक्तानां ज्ञानार्थं श्रवणादेः कर्तव्यत्वादिति । एवमर्जुनस्यात्यन्तं हितैषिणा भगवताऽर्जुनायाज्ञविषयः कर्मयोगः प्राज्ञविषयो ज्ञानयोगश्चेति द्वयमुपदिष्टम् । यद्यर्जुनः प्राज्ञस्तर्हि ज्ञानयोगमभ्यसेत्, यदि त्वज्ञस्तर्हि कर्मयोगमभ्यसेदिति दृष्टया । अत एव मय्येव मन आधत्स्वेति भक्तियोगमुपदिश्य तावत्पश्चादथैतदप्यश कोसीत्यशक्तत्वमर्जुने सम्भाव्य अभ्यासयोग उक्तः । ततोऽभ्यासेऽप्यर्जुनस्याशक्तत्वं सम्भाव्य ईश्वर कर्म परमत्वमुक्तं- ‘अभ्यासेऽप्यस- मर्थोऽसी’त्यादिना । ततश्च तत्राप्यशक्तं सम्भाव्य कर्मफलत्याग उक्तः, अनेन च किं ज्ञायते ? अक्ष- रोपासनाशक्तिमर्जुने सम्भाव्यैव विश्वरूपोपासनमादावुक्तमिति । अक्षरोपासनस्य दुष्करत्वं च क्लेशोऽ- घिकतर इत्यनेन सूचितम् । वस्तुतस्तु न ह्येकस्यैवार्जुनस्य विश्वरूपोपासनाभ्यासादौ शक्तत्वमशक्तत्वं च भवितुमर्हति न वार्जुनस्य शक्तिविषयमिदमिति सर्वज्ञो भगवान वेदेति वक्तुमुचितं येन तत्राप्यशक्तोऽसीति पक्षान्तरमुपदिश्येत भगवता । तस्मादर्जुनं निमित्तीकृत्य भगवता सर्वलोकहिताय शास्त्रमिदमुच्यते । तत्र यः प्राज्ञस्सो ऽक्ष- रोपासनं कुर्यात्, यस्त्वज्ञस्स विश्वरूपोपासनं, यस्तत्राप्यशक्तस्सोऽभ्यासं यः पुनस्तत्राप्यशक्तस्स २३४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥ अद्वेष्टेति । अद्वेष्टा सर्वभूतानां सर्वेषां भूतानां न द्वेष्टा, आत्मनो दुःखहेतुमपि न मत्कर्मपरमत्वं, यस्तत्राप्यशक्तस्स फलत्यागं कुर्यात् । अतो नार्जुनस्यैतेषु सर्वेष्वधिकारप्रसङ्गः । तस्मा - दर्जुनस्य हितैषिणापि भगवता सर्वलोकहितार्थं भेददृष्टिमन्तमुद्दिश्य कर्मयोगमुपदिश्या भेददृष्टिमन्तमुद्दिश्य ज्ञानयोगोऽप्युपदिश्यत इति ज्ञानयोग एवोत्तम :- प्राज्ञविषयत्वात् । उत्तमो हि मार्गः प्राज्ञैराश्रियते, उत्तममार्गाश्रयणं प्राज्ञत्वलक्षणमिति । / यद्वा यदर्जुनेन पृष्टं तदुत्तरितं भगवता ‘ते मे युक्ततमा मता’ इति, ‘ते प्राप्नुवन्ति मामे’ - वेति च । तत्र कर्मयोगे स्वल्पः क्लेशः, ज्ञानयोगे त्वधिक इति कर्मयोगस्य सौकर्यमुक्तम् । भक्ति- मार्गेऽप्यशक्तानां गत्यन्तराणि च दर्शितानि । अतस्समाप्तो ग्रन्थः । ततश्चाद्वेष्टेत्याद्युत्तरग्रन्थारम्भानव- काश इति शङ्कायामाह — यस्माच्चेति । लोके हितैषिणो हि पुरुषा यस्य हितमिच्छन्ति तेन पृष्ट सर्वमप्युत्तरयन्ति, अत्यन्त हितैषिणस्तु पृष्टादन्यदपि ब्रुवन्ति । प्रष्टुर्हितकरत्वात्स्वोक्तार्थस्य । तथा भगवानप्यर्जुनस्यात्यन्त हितैषित्वादपृष्टमप्यर्थं हितायार्जुनस्योपदिशतीत्याह — यस्माच्चेति । श्रुते त्वक्ष- रोपासकानां धर्मपूगे क्लेशाधिवये सत्यप्यमीषां मार्ग एव सर्वाधिक इति ज्ञानमर्जुनस्य स्यात्, ततश्व क्लेशाधिक्यमभ्युपगम्याप्यर्जुनः प्रविशेदेव ज्ञानमार्गे । ततश्च स्वाधीन एव स्यादर्जुनस्यापि मोक्ष इति भगवत आशयः । अत एवात्यन्तमर्जुनस्य हितैषी भगवान्- अर्जुनं ज्ञानमार्गे प्रवर्त्य स्वाधीनमोक्षं तं कर्तुमिच्छ्रुत्वात् । अथ वा अर्जुनस्य ज्ञानमार्गे प्रवेशो माभून्नाम, ज्ञानिनां धर्मपूगश्रवणादर्जुनस्य ज्ञानिष्वीश्वर- बुद्धिर्भवेत्ततश्च ज्ञानिनां सतां सङ्गादिषु प्रवर्तेत । सत्सङ्गो हि ज्ञानलाभहेतुः । तत्प्रवृत्तिवशाद्ज्ञानी भूत्वा मुच्येतेति भगवदाशयः । एवमर्जुनस्यात्यन्त हितैषित्वादेव भगवानर्जुनस्याज्ञविषयं कर्मयोगमुप- दिश्य प्राज्ञानां धर्मपूगं वक्ष्यामीति प्रवर्तते । अन्यत्तुल्यमिति । एतेनाद्वेष्टेत्यारभ्य ज्ञानयोगप्रकरणमिति प्रकरणभेदः फलित :- अतो न कर्मिणां ज्ञानिनां वक्ष्यमाणधर्मसाम् । अद्वेष्टेत्यादि । यः कोऽपि सर्वभूतान्यद्वेष्टयैव, केषांचिद्वेष्टुमशक्यत्वात्केषांचिदयोग्यत्वा- बेत्यत आह- आत्मन इति । आत्मनस्सुखहेतुं प्राणिनमज्ञोऽपि न द्वेष्टि, दुःखहेतुं तु द्वेष्टि सर्पादिकं, प्राज्ञस्तु दु: खहेतुमपि न द्वेष्टि, किंपुनम्सुखहेतुमित्युच्यते - अद्वेष्टा सर्वभूतानामिति । कुतो न द्वेष्टीत्यत माह– सर्वभूतानीति । ‘मयि सत्यसुखाम्भोधौ बहुधा विश्ववीचयः । उत्पद्यन्ते विलीयन्ते मायामारुतसम्प्रमा’ दिति शास्त्रादात्मन्येव सर्वभूतानां मायया कल्पितत्वात्सर्वेषु भूतेषु चात्मन एव द्वादशोऽध्यायः । २३५ किञ्चिद्वेष्टि सर्वभूतान्यात्मत्वेन हि पश्यति । मैत्रः मित्रो मित्रतया वा वर्तत इति स. मैत्रः । करुण एव च, करुणा कृपा दुःखितेषु दया तद्वान् करुणः सर्वभूताभयप्रदः सन्न्या- सीत्यर्थः । निर्ममो ममप्रत्ययवर्जियः । निरहङ्कारो निर्गताप्रत्ययः । समदुःखसुखः समे सर्वत्रानुगतत्वाच्च सर्वभूतान् स्वात्मेत्येव पश्यति प्राज्ञः ‘ऐतदात्म्यमिदं सर्व, सर्वं खल्विदं ब्र’ हो - त्यादिश्रुतिभ्यः । आत्मनश्च परमप्रेमास्पदत्वं प्रसिद्धमिति नोचित आत्मनि द्वेषो मूर्खस्यापि । न हि मूर्खोऽप्यात्मत्वेनाभिमतं स्वदेहमग्न्यादिना तापयति । तथा प्राज्ञोऽप्यात्मत्वेनाभिमतं दुःखहेतुमपि सर्पादिभूतं न द्वेष्टि । नच प्राज्ञस्सर्पादिदेहमात्मत्वेन कथं प्रत्येति ? यस्स्वदेहमेवात्मत्वेन न पश्यति । देहाद्भिन्नं ह्यात्मानमीश्वरं मन्यत इति वाच्यं भूतानामात्मनि कल्पितत्वेन कल्पितस्याधिष्ठानात्मकत्वा- द्भूतान्यात्मत्वेन गृह्णाति प्राज्ञः । यद्वा आत्मनो भूतान्तरत्वादिति । नतु मूर्खवद्देहमात्मत्वेन गृह्णातीति । एवं सर्वात्मदर्शिनः प्राज्ञस्य सर्वस्याप्यात्मत्वान्न कस्मिंश्चिदपि द्वेषः । अयं हि सर्वभूताद्वेषस्सर्वात्मज्ञानप्रयुक्तत्वान्नाज्ञेषु कर्मिषु भक्तेषु वा स्वप्नेऽपि सम्भवेत्, अतः प्राज्ञधर्म एवायम् । मैल इति । मित्रस्य भावो मैत्री, मैत्री अस्यास्तीति मैत्र: ‘अर्श आद्यजन्तः’ ‘मित्रतया मैग्या वर्तत इति मैत्र इति तु फलितार्थकथनम् । इयं च सर्वभूतमैत्री प्राज्ञधर्म एव । यस्य सर्वात्म- भावस्तस्यैव सर्वत्र मैत्री नेतरस्य । एवं करुणापि । विशेषणत्रयस्य फलितार्थमाह – सर्वभूतेति । सर्वेषामपि भूतानामभयप्रदोऽभयमेव प्रदते नतु भयम् । द्वेषाभावान्मैत्री करुणयोस्तत्त्वाचेति भावः । क एवंविधोऽत आह– सन्न्यासीति । सन्न्यासिनामेव रागद्वेषयोस्समूलनाशादिति भावः । नच मैत्री करुणाभ्यां भूतेषु तस्य रागस्स्यादिति वाच्यं, रागविनापि दुःखितेषु शुनकादिषु करुणादिदर्शना- न्महताम् । करुणाभावे तु दुःखित शिष्यदुः खापनोदनार्थं गुरुर्न प्रयतेत, शास्त्रसम्प्रदायश्च विच्छिद्येत, नैघृण्यदोषश्च गुरोस्स्यात् । अतएवहीश्वरोऽपि दयासमुद्र इति गीयते । मैत्री तु स्नेहः सर्वभूतेष्वात्म- त्वेन प्रीतिः। तेषां हितैषित्वं वा । असन्न्यासिनं कर्मिणमज्ञं दृष्ट्रा भूतानि बिभ्यति - छेत्स्यत्यस्मा - निति सोमलतापश्वादयः, निरसिष्यत्यस्मानिति भूतप्रेतराक्षसादयः, अर्थ याचिष्यत्यस्मानिति राजादय इन्द्रादयश्च कृत्येष्वारोप्य पीडयिष्यन्त्यस्मानिति दारापत्यसोदरादयः । सन्न्यासिनं दृष्ट्वा तु न कोऽपि प्राणी बिभेत्यत उक्तम् — सर्वभूताभयप्रद इति । एतेन सर्वभूतभयप्रदस्य सर्वात्मज्ञानशून्य- स्याज्ञस्य कर्मिणो भक्तस्य वा अद्वेषमैत्री करुणा भूतेषु न भवन्तीति सिद्धम् । सत्सु तेषामेतेषु धर्मेषु पशुलतापुष्पफलादिच्छेदनाद्ययोगात् । तस्मादद्वेषमैत्री करुणावान् सन्न्यास्येव न कर्मी । ममप्रत्यय इति । देहादौ ममायमिति ज्ञानम् । अहं प्रत्यय इति । देहादावहमित्यभि- मानः । इदं द्वयं ज्ञानामस्ति, ब्राह्मणोऽहं ज्योतिष्टोमं करोमीति, मम हस्ते कृष्णमृगशृङ्गोऽस्तीति च २३६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ‘दुःखसुखे द्वेषरागयोरप्रवर्तके यस्य स समदुःखसुखः । क्षमी क्षमावान् आक्रुष्ट अभिहतो वा अविक्रिय एवास्ते ॥ १३॥ सन्तुष्टस्सततं योगी यतात्मा दृढनिश्चयः । 1 मय्यर्पितमनोबुद्धिय मद्भक्तरस मे प्रियः || १४ || सन्तुष्ट इति । सन्तुष्टस्सततं नित्यं देहस्थितिकारणस्य लाभे अलाभे च उत्पन्नाल- म्प्रत्ययः, तथा गुणवल्लाभे तद्विपर्यये च सन्तुष्टः सततं योगी समाहितचित्तः, यतात्मा संयतस्वभावः, दृढनिश्चयः दृढः स्थिरः निश्चयोऽध्यवसायो यस्य आत्मतत्त्वविषये स दृढ- तेषां प्रत्ययात् । सन्न्यासी तु नाहं देहादिः, न मम देहादिना कोऽपि सङ्गोऽसङ्गस्येति च प्रत्येतीति तद्वयरहितः । समेति । द्वेषजनकं दुःखं, रागजनकं सुखं दुःखजनके द्वेषाभावः, सुखजनके रागा- भावश्च यस्य स उच्यते समदुःखसुख इति । द्वेषप्रवर्तकं दुःखं रागप्रवर्तकं सुखं च खनिष्ठद्वेषप्रवर्त- कत्वरागप्रवर्तकत्वरूपविरुद्धधर्मप्रहाणेन परस्परं समं भवति । द्वेषजनकत्वरहिते दुःखे रागजनकत्वरहिते सुखे च गुणत्वरूपस्य वस्तुस्वरूपस्य वा समानस्यैव धर्मस्य सत्त्वादत उक्तम् - समदुःखसुख इति । समे तुल्ये द्वेषप्रवर्तकत्वरागप्रवर्तकत्वरूपधर्माभावात्पदार्थत्वरूपेण परस्परं समाने सुखदुःखे यस्य स समदुःखसुखः । इदं चोक्तं प्राक् ‘दुःखेष्वनुद्विग्नमनास्सुखेषु विगतस्पृह’ इति । इदं च समदुःखसुखत्वं सर्वं मिथ्येति, निर्विशेषचिन्मात्रोऽहमिति च ज्ञानाभावे न सिद्धयेदेवेति ज्ञानिन एवायं धर्मः । आकृष्टोऽविक्षिप्तः अभिहतस्ताडितो वा योऽविक्रिय आस्ते सक्षमीत्युच्यते । अयं च देहादा- बहङ्कारममकारशून्यस्य ज्ञानिन एव धर्मः । सति त्वभिमाने ताडनादिजन्यदुःखादिविकारः स्यादेव । अभिमानाभावे तु वल्मीकत्यक्तसर्पनिर्मोकताडनादिना यथा सर्पस्य न कोपादिविकारः तथाऽमुष्याऽपि । सर्पस्य निर्मोक इव ज्ञानिनो देहेऽपि अहम्ममाभिमानाभावस्य तुल्यत्वात् । कर्मिणस्तु अभिमान- सत्त्वान्न क्षमा ॥१३॥ सन्तुष्ट इति । सततंशब्द: काकाक्षिन्यायेनोभयान्वयी सततं सन्तुष्टस्सततं योगीति । देह- स्थितिकारणस्यान्नादेर्लाभे जीविताशभावादिति भावः । देहादावभिमानाभावादिति वा । यो हि देह- मात्मानमात्मीयं वा मन्यते स देहस्थित्यर्थमन्नादिलाभे तुष्यति, तदलाभे च खिद्यते । यस्तु देहाद्विलक्षणमसङ्गमात्मानं वेति किं तस्थान्नादिना देहस्थितिहेतुना ? अतस्तस्य तत्रालम्बुद्धिरुचितेति भावः । एतेन सन्तोषोऽयं कर्मिणो न सम्भवतीति सूचितम् । तथा सततं समाहितचित्तः, चित्त- विक्षेपहेत्वभावात् । देहाद्यभिमानो हि चित्तविक्षेपहेतुः- तत्पूर्वकत्वात्सर्वव्यवहारस्य । सुषुप्तौ भिमाना- 1 ३१ द्वादशोऽध्यायः । २३७ निश्चयः, मय्यर्पितमनोबुद्धिः सङ्कल्पविकल्पात्मकं मन अध्यवसायलक्षणा बुद्धि:, ते मय्येवा- पिते स्थापिते यस्य सन्न्यासिनः स मय्यर्पितमनोबुद्धिः । य ईदृशो मद्भक्तस्स मे प्रियः ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय’ इति सप्तमेऽध्याये सूचितं तदिह प्रपंच्यते ॥ १४ ॥ भावाव्यवहाराभावो दृश्यते । यद्यपि कर्मी कदा चिच्चित्तसमाधानं कुर्यात्तथापि न सर्वदा कर्तुं क्षमते । अत उक्त सततं योगीति । या फलत्यागात्कर्मणश्चित्तसमाधान लाभो यद्यपि भवेत्तथापि देहाद्यभिमानात्यागाश्चित्तसमाधानं नावतिष्ठते । देहाद्यभिमानपूर्वकं समित्कुशादिबहूपकरणसम्पादनस्य कर्तव्यत्वात्कथं कर्मिणश्चित्तसमा- धानगन्धः ? फलत्यागप्रयुक्तं चित्तसमाघानं तु फलसिद्धयसिद्धयादिसम्भावनाप्रयुक्त विकारराहित्यमा - मेवेति बोध्यम् । संयतो नियतः स्वभावः प्रकृतिर्येन स संयतस्वभावः । बलात्कारेण धर्माधर्मादिलक्षणं स्वस्व- भावमपि नियमितवानित्यर्थः । इदं च स्वभावनियमनमीश्वरस्यासाधारणो गुणो वशीकृतप्रकृतित्वा- दीश्वरस्य ज्ञानिनश्वश्वरत्वादुपपद्यत इति बोध्यम् । नच ‘स्वभावो दुरतिक्रम’ इति वाच्यं, पुरुषकारस्य व्यर्थत्वापत्तेः । अथ वा नियत आत्म- चिन्तनादिलक्षणस्स्वभावो यस्य स तथोक्ते नियमेन स्वविहिते श्रवणादौ वर्तमान इत्यर्थः । ननु कर्म्यपि नियमेन कर्मणि प्रवृत्त एवेति चेन्मैवम् — श्रवणादिप्रवृतेरेवेह स्वभावत्वेन विवक्षितत्वात् । अथ वा यतात्मा निश्चलस्वभावः, स्वभाव: कार्यकरणसङ्घात इत्यानन्दगिरिः । दृढो निश्चयोऽहं ब्रह्मेत्याकारको यस्य स दृढनिश्चयः । कर्मिणां तु नास्त्यहं ब्रह्मेति निश्चयः । देहाभि- मानानाशात्, आत्मज्ञानाभावाच्च । 1 14 मय्येवेति । स्वात्मन्येवेश्वर इत्यर्थः । नतु विश्वरूपे मयीति तस्याज्ञविषयत्वादस्य च प्राज्ञ- प्रकरणत्वात् । मद्भक्त इति । आत्मनिष्ठ इत्यर्थः । ज्ञानप्रकरणत्वादस्य । विश्वरूपोपासकस्येश्वरा- भक्तस्य प्रागुक्तधर्मायोगाच्च । स यज्ञो विश्वरूपदेहे ईश्वराभिमानित्वात् । ननु ‘यो मद्भक्तरस मे प्रिय’ इत्यस्य ‘ज्ञानी यस्स में प्रिय’ इत्यर्थवर्णनमयुक्तमत आह- प्रिय इति । सप्तमाध्यायस्ववाक्यविरोधादिह मद्भक्तो ज्ञान्येव तत्र ज्ञानी मम प्रिय इत्युक्तत्वादिह भक्तो मम प्रिय इत्युक्तौ स्ववाक्यव्याघातात् । सूचितमिति । संक्षेपत उक्तमित्यर्थः । यद्वा सप्त- माध्यायस्थात्प्रियो हि ज्ञानिन इति वचनादिहापि मद्भक्त इत्यस्य ज्ञानीत्येवार्थ इति ध्वनितमित्यर्थः । एवं च ’ प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय’ इत्यनेनैक कण्ठ्यान्मद्भक्तो मे प्रिय इत्यत्रापि ज्ञानी मम प्रिय इत्येवार्थस्वीकर्तव्य इति सिद्धम् । 1 २३८ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्ष भयोद्वेगैर्मुक्तो यस्स च मे प्रियः ॥ १५ ॥ यस्मादिति । यस्मात्सन्न्यासिनो न उद्विजते उद्वेगं न गच्छति न सन्तप्यते न संक्षुभ्यति लोकः, तथा लोकान्नोद्विजते च यः, हर्षामर्षभयोद्वेगैः हर्षश्चामर्षश्च भयं चोद्वेगच तैः हर्षामर्षभयोद्वेगैर्मुक्तः, हर्षः प्रीतिः प्रियलाभे अन्तःकरणस्योत्कर्ष: रोमांचनाभ्रुपातादि- लिङ्गश्व, अमर्षः अभिलषितप्रतिघाते असहिष्णुता, भयं वासः, उद्वेग उद्विग्नता, तैर्मुक्तो यस च मे प्रियः || १५॥ यद्वा प्रियो हि जानिन इत्यत्रैव ज्ञानिनो भगवत्प्रियत्वमुक्तमिति पुनरत्र तद्वचनं पुनरुक्तिदोषा- वहमेवेत्यत आह- प्रिय इति । सप्तमाध्याये सूचितं संक्षेपत उक्तमेव ज्ञानिन ईश्वरप्रियत्वं तत्त्वह प्रपंच्यते विस्तरेणोच्यते, तस्मान्न पुनरुक्तिदोष इति भावः ।

यत्तु रामानुजः – कर्मनिष्ठस्योपादेया गुणा अद्वेष्टेत्यादिनोच्यन्त इति, तत्तुच्छम् — कर्म - योगिनी निर्ममत्वाद्यसम्भवस्य दर्शितत्वात् । ब्राह्मणोऽहमित्याद्यभिमानं विना कर्मसु प्रवृत्त्यनुपपत्तेः । मद्भक्त इत्यस्य मां कर्मयोगेन भजमान इत्यर्थवर्णनमप्ययुक्तम् - कर्मयोगेनेति निर्मूलार्थकल्पनस्या- प्रमाणत्वात् । ज्ञानी मम प्रिय इति सप्तमाध्यायोक्तात्स्ववाक्यादेव क्रम मम प्रिय इत्यस्यार्थस्य व्याघातात् । सततं योगीत्यस्य प्रकृतिविविक्तात्मानुसन्धानपर इत्यर्थकथनमप्ययुक्तम्– प्रकृति विवि- क्तात्मानुसन्धानस्याक्षरोपासकज्ञानविषयस्य कर्मिष्वसम्भवात् । कर्मानुष्ठानात्मानुसन्धानयोर्युगपदेक- पुरुषकर्तृकृत्वानुपपत्तेः । अत एव - ‘लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ! ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मिति निष्टाद्वयमधिकारिद्वयस्य विविच्योक्तं भगवतैव । अत्रापि प्रकरणे ‘एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा’ इति कर्मयोगस्य, अक्षरात्मानुसन्धानस्य चाघिकारिद्वयनिष्ठत्वं दर्शितं भक्तानामात्मोपासकानां च कक्षद्वयेन निर्देशात् । यदि भक्तानां कर्मयोगिनामेवात्मानुसन्धानात्मकमक्षरोपासनमपि स्यातर्द्धात्मोपासकानां भक्ानां च मध्ये के योगवित्तमा इति कथं प्रष्टुं शक्यतेऽर्जुनेन ? तस्माद्भिन्नैरेव कर्मिभ्यो भविव्यमात्मानु- सन्धानपरैः । प्रपञ्चितं चैतद्बहुशः पूर्वं कर्मज्ञानसमुच्चयवादनिराकरणप्रसङ्गे ॥१४॥ यस्मादिति । उद्वेगस्सन्तापः संक्षोभ इति यावत् । प्रियस्य वस्तुनो लाभे सति जायमानोऽ- न्तःकरणस्योत्कर्षो हर्ष इत्युच्यते । रोमांचनाश्रुपातादयो हर्षस्य लिङ्गानीत्याह - रोमांचनेति । रोमांच नाश्रुपातादयो लिङ्गानि यस्य स इति बहुव्रीहिः । उद्विग्न(संक्षुब्धः । एवंविधो यस्सन्न्यासी सच मे प्रियः । चकारात्सन्न्यासिनः पूर्वश्लोकोक्ता एतच्छोकोक्ताश्च गुणा आवश्यका इति सूच्यते समुच्चयार्थात् । एवमुत्तरश्लोकेषु वक्ष्यमाणा अपीति बोध्यम् । कर्मी तु धनधान्याहरणयाचनलता-द्वादशोऽध्यायः । अनपेक्षश्शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तरस मे प्रियः ॥ १६ ॥ २३९ अनपेक्ष इति । अनपेक्षो देहेन्द्रियविषयसम्बन्धादिष्वपेक्षा यस्य नास्ति सोऽनपेक्षो निस्पृहः, शुचिः बाह्येनाभ्यन्तरेण च शौचेन सम्पन्नः, दक्षः प्रत्युत्पन्नेषु कार्येषु सद्यो यथावत्प्रतिपत्तुं समर्थः, उदासीनो न कस्यचिन्मित्रादेः पक्षं भजते य स उदासीनो यतिः, गतव्यथः गतभयः, सर्वारम्भपरित्यागी आरभ्यन्त इत्यारम्भा इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः तान् परित्यक्तुं शीलमस्येति सर्वारम्भपरित्यागी यो मद्भक्तरस मे प्रियः ॥ १६॥ पश्वादिच्छेदनादिना लोकक्षोभकः, नास्तिकप्रायाल्लोकात्स्वयमप्युद्विजते, कर्मसिद्धया हर्षः, स्त्राधिक- कर्मकर्तृष्वमर्षः, प्रायश्चित्ता देर्भयमनशनादिवलेशा दुद्विग्न तेति नामी कर्मिधर्माः किंतु ज्ञानिन एव । अत एव एवंविधो ज्ञानी भगवतः प्रियः । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय’ इत्युक्तत्वात् ॥ १५॥ अनपेक्ष इति । देहश्वेन्द्रियाणि च विषयाश्शब्दादयश्च देहेन्द्रियविषयाः तेषां सम्बन्धादिषु आदिपदा वृद्ध्यादिग्रहणम् । देहादिसम्बन्धो मम स्यात्स च चिरमवतिष्ठेदित्याद्यपेक्षा र हितोऽनपेक्षः । अथ वा विषयसम्बन्धो विषयप्राप्तिः देहश्वेन्द्रियाणि च विषयसम्बन्धश्च देहेन्द्रियविषयसम्बन्धाः, आदि- पदाज्जरारोगाद्यभावादिग्रहणम् । अयं न कर्मिणस्सम्भवति - कर्मणो देहादिसाध्यत्वेन तस्य देहादि - पाटवापेक्षत्वात् । शौचं परिशुद्धिः बाह्यं स्नानादिजन्यम् । आभ्यन्तरं तु मानसिकं शमदमादिजन्यम विक्षिप्त- चित्तत्वं हि चितस्य शुद्धिः । सन्न्यासिनस्तु चित्तविक्षेपाभावादुपपद्यते आभ्यन्तरशुद्धिः । कर्मिणस्तु नोपपद्यते - कर्मतत्साधनसम्पादनादिना चित्तविक्षेपात्तस्य । प्रत्युत्पन्नेष्विति । उत्पन्नेषूत्पन्नेषु प्रत्युत्पन्नेषु सर्वेष्वपि प्राप्तेष्वित्यर्थः । यथावत्प्रतिपत्तु- मिति । मिथ्यात्वेन ज्ञातुमित्यर्थः । कार्यमात्रं हि मिथ्या तस्य मिथ्यात्वमेव याथार्थ्य कार्यमात्रस्य । नैवं प्रतिपत्तुं कर्मी क्षमते ज्ञानाभावात् कर्मणो मिथ्यात्वज्ञाने तत्र प्रवृत्त्यनुत्पत्तेश्च । स यतिरुदा- सीन इत्यन्वयः । कर्मिणा तु मित्रादयस्तत्कार्याः, कर्मनिर्वर्तनार्थमिति भावः । गतभय इति । द्वितीयवस्त्वभावात् । ‘द्वितीयाद्वै भयं भवतीति श्रुतिः । अद्वितीयात्मैव सर्वमिति हि प्रत्येति विद्वान् । अतः कथं तस्य भयम् ? उक्तं हि मुरारिणापि ‘भयमिति किमेत- ब्राह्मण’ स्येति । कर्मिणस्तु द्वैतसद्भावादस्त्येव भयमिति भावः । २४० किंच- श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यो न हृष्यति न द्वेष्टि न शोचति न कांक्षति । शुभाशुभपरित्यागी भक्तिमान् यस्स मे प्रियः ॥ १७॥ य इति । यो न हृष्यतीष्टप्राप्तौ न द्वेष्टयनिष्टप्राप्तौ न शोचति प्रियविप्रयोगे, न चाप्राप्तं कांक्षति, शुभाशुभे पुण्यपापे कर्मणी परित्यक्तुं शीलमस्येति शुभाशुभपरित्यागी भक्तिमान् यस्स मे प्रियः ||१७|| समरशतौ च मित्रे च तथा मानावमानयोः । शीतोष्णसुखदुःखेषु समस्सङ्गविवर्जितः ॥ १८ ॥ सम इति । समश्शत्रौ च मिले च, तथा मानावमानयोः पूजापरिभावयोः, शीतोष्ण- सुखदुःखेषु समः सर्वत्र च सङ्गवर्जितः ॥ १८ ॥ अत्र गतव्यथो गतदुःख इत्यपि वक्तुं शक्यं कर्मिणः कर्मनिर्वर्तक साधनादिसम्प्रदानप्रयुक्त बहु- क्लेशसद्भावान्न गतव्यथत्वं, सन्न्यासिनस्तु नास्ति कश्चिदपि क्लेश इति गतव्यथत्वमिति भावः । सर्वारम्भाः सर्वकर्माणि इहामुत्रफलानां पशुपुत्रत्वर्गादिलक्षणानां भोग्यानां भोगा अनुभवा एवार्थाः प्रयोजनानि येषां तानीहामुत्रफलभोगार्थानि कामानां हेतूनि यज्ञादीनि, इदं हि सर्वकर्मपरि- त्यागित्वं सन्न्यासिन एव लक्षणमिति सुविदितं कर्मिणः कर्मत्यागायोगात् । य एवंविधो मद्भक्तः ज्ञानी स मे प्रियो भवति ॥१६॥ य इति । न हृष्यति, कर्मी तु कर्मपरिकरादिप्राप्तौ हृष्यत्येव, प्रायश्चित्तानिष्टप्राप्तौ द्वेष्टयेव, कर्मभ्रंशे शोचत्येव, कर्मपरिसमाप्त्यादिकं कांक्षस्येव, अशुभं कर्म त्यजन्नपि शुभं कर्म न त्यजत्येव; कर्मत्यागे कर्मित्वासिद्धेः, य एवंविधो भक्तिमान् ज्ञानवान् स मे प्रियः ॥ १७ ॥ सम इति । कर्मविघातुकेषु शत्रुषु कर्मिणो द्वेषात्तदुपकारिषु मित्रेषु प्रीतेश्च न शत्रुमित्रसमत्वं भवितुमर्हति । प्राज्ञस्य तु शत्रु मित्रयोरेकात्मबुद्धया समत्वम् । मानावमानयोर्देहादिगोचरतयाऽऽत्म- विषयत्वाभाव यः पश्यति स ज्ञानी मानावमानयोस्समः । यस्त्वहं ब्राह्मणस्सोमयाजीत्यभिमन्यते स हि कम मानं गृह्णात्यवमानं न सहत इति बोध्यम् । शीतोष्णयोस्सुखदुःखयोश्च समोऽविकृतचित्तः- शीतोष्णयोर्देहधर्मत्वं सुखदुःखयोर्मनोधर्मत्वं च पश्यन् ज्ञानी न तत्र विक्रियते । कर्मी तु देहाद्यभिमानाच्छीतादिप्राप्तौ विक्रियत इति भावः । सर्वत्रेति । देहे तदनुबन्धिषु दारापत्यपशु मित्रगृह धनधान्यादिषु च सङ्गो नास्ति सन्न्यासिनः त्यक्तसङ्गत्वात्तस्य । सर्वं परित्यज्य हि स गतः । देहस्तु तत्राहम्ममाभिमानाभावात्त्यक्तप्राय एव । कम तु सङ्ग एव असङ्गत्वे कर्मण एवासिद्धेः ॥ १८॥

किंच- द्वादशोऽध्यायः । तुल्यनिन्दास्तुमौनी सन्तुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः ॥ १९॥ ૨૨ तुल्येति । तुल्यनिन्दास्तुतिर्निन्दा च स्तुतिश्च निन्दास्तुती ते तुल्ये यस्य स तुल्य- निन्दास्तुतिः, मौनी मौनवान् संयतवाक्, सन्तुष्टो येन केनचित् शरीरस्थितिहेतुमात्रेण, तथाचोक्तं- ‘येन केन चिदाच्छन्नो येन केनचिदाशितः । यत्र वचन शायी स्यात्तं देवा ब्राह्मणं विदुरिति । किंच - अनिकेतो निकेत आश्रयो निवासो नियतों न विद्यते यस्य सोऽनिकेत: ‘अनगार’ इत्यादिस्मृत्यन्तरात् । स्थिरमतिः स्थिरा मतिः परमार्थवस्तुविषया यस्य स स्थिरमतिः भक्तिमान्मे प्रियो नरः ॥ १९ ॥ तुल्येति । निन्दास्तुत्योर्देहविषयत्वमेव न त्वात्मविषयत्वमिति पश्यन् ज्ञानी तदुभयत्र तुल्य- बुद्धिर्भवति । कर्मी तु मामयं निन्दतीति द्वेष्टि, मामयं स्तौतीति हृष्यति च- देहाभिमानादिति भावः । संयता नियमिता वाग्वागिन्द्रियं येन स तथोक्तः । मितभाषीत्यर्थः । अत्यन्ताभाषित्वे शिष्योपदेशाद्य सिद्धेरिति भावः । कर्मिणा तु बहुभाषिणा भवितव्यं त्वमेवं कुरु त्वमेवं कुरु त्वमेत- देहीत्याद्यनेकवाक्यप्रयोगस्यावश्यकत्वात्तस्य । येन केनचित्कौपीनादिना क्षुद्रपरिधाने नाच्छन्नः, येन केनचिच्छाकफलादिना आशितो भोजितः, यत्र क्वचन भूम्यादौ शायी शयितश्च स्यात्, य एवंभूत- सस् सन्न्यासी तं देवा ब्राह्मणं विदुः । एतेन ब्राह्मणशब्दस्सन्न्यासिनि सार्थक इति सिद्धम् । अत एव ब्राह्मणस्सन्न्यासीत्युक्तं भाष्यकारैर्ब्राह्मणस्य विजानत इत्यत्र । यो हि ब्रह्मज्ञानी आत्मनिष्ठस्स ब्राह्मणः सन्न्यास्येव तादृशः – अन्यस्यात्मनिष्ठायामनधिकारात् । स च सन्न्यासी देहाद्यभिमानाभावाद्ब्रह्मात्मज्ञानाच्च कौपीनच्छन्नं पीताम्बरच्छन्नं च देहं सममेव पश्यति, तथा मृष्टान्नममृष्टानं च सममेव पश्यति, हंसतूलिकातल्पं भूतलं च सममेव पश्यति । नतु कर्मी तस्य देहाभिमानात्यागाद्ब्रह्मात्मज्ञानाभावाच्चेति भावः । आश्रय इति । गृहदेवालयादिरित्यर्थः । ननु सन्न्यास्यपि क्वचन देवालयादौ वर्तत इत्यत आह - नियत इति । गृहस्थवदिति भावः । ग्रामैकरात्रन्यायेन यते सञ्चारादिति तत्त्वम् । अनि- केतशब्दस्यो क्तार्थपरत्वे प्रमाणमाह– अनगार इति । स्मृत्यन्तरेऽनगारत्वस्योक्तत्वादिह तदनुवते -" रनिकेत्तत्वस्यैवोक्तत्वादुभयोरैकार्थेन भाव्यमिति भावः । स्थिरमतिरिति । ब्रह्मैव परमार्थवस्तु तच्चाहमेवेति दृढबुद्धिः कर्मिणस्स्वप्नेऽपि न स्यात् – कर्तृत्वादिमत्संसार्यात्मज्ञानवत एव कर्मित्वात् । य एवंविधो भक्तिमान् ज्ञानी स नरों में प्रियः मनुष्यं पार्थमुद्दिश्योच्यमानत्वान्नर इत्युक्तम् ॥१९॥ २४२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु + ‘अद्वेष्टा सर्वभूताना’ मित्यादिना अक्षरोपासकानां निवृत्तसर्वेषणानां सन्न्यासिनां परमार्थज्ञाननिष्ठानां धर्मजातं प्रक्रान्तमुपसंहरति— ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ||२०| इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीता- सूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगोनाम द्वादशोऽध्यायः । य इति । ये तु सन्न्यासिनो धर्म्यामृतं धर्मादनपेतं धर्म्य च तदमृतं च धर्म्यामृत, तदमृतत्व हेतुत्वादिदं यथोक्तं- ‘अद्वेष्टा सर्वभूताना’ मित्यादिना, पर्युपासतेऽनुतिष्ठन्ति, श्रद्द- धानास्सन्तो मत्परमा यथोक्तोऽहमक्षरात्मा परमो निरतिशया गतिर्येषां ते मत्परमाः, मद्भक्ताश्चोत्तमां परमार्थज्ञानलक्षणां भक्तिमास्थिताः, तेऽतीव मे प्रिया भवन्ति । ‘प्रियो हि ज्ञानिनोत्यर्थ’ मिति यत्सूचितं तव्याख्याये होपसंहृतं ‘भक्तास्तेऽतीव मे प्रिया’ इति । यस्माद्धर्म्यामृतमिदं यथोक्तमनुतिष्ठन् भगवतो विष्णोः परमेश्वरस्यातीव मे प्रियो भवति तस्मादिदं धर्म्यामृतं मुमुक्षुणा यत्नतोऽनुष्ठेयं प्रियं विष्णोः परं धाम जिगमिषुणा इति वाक्यार्थः ॥ २० ॥ इति श्रीपरमहंस परिव्राजकाचार्यस्य श्रीमद्गोविन्दभगवत्पूज्यपाद शिष्यस्य 1 श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये भक्तियोगोनाम द्वादशोऽध्यायः । य इति । ये तु श्रद्दधाना मत्वरमाश्च सन्त इदं यथोक्तं धर्म्यामृतं पर्युपासते ते भक्का मे अतीव प्रियाः । धर्म्यं धर्मान्निवृत्तिलक्षणादनपेतं धर्म्यम् । अमृतशब्दोऽत्रोपचारादमृतिहेतुपर इत्याह- अमृतत्व हेतुत्वादिति । अमृतत्वं मोक्षः, अमृतं शाश्वतं सुखात्मकं वा ब्रह्म तद्भावोऽमृतत्वमिति व्युत्पत्तेः । ब्रह्मभावो हि मोक्षः । यथोक्तं पूर्वोक्तमित्यर्थः । योग्यमुक्तमिति वा । केनोक्तमत आह - अद्वेष्टेति । भक्ता इत्यस्यार्थमाह - भक्तिमास्थिता इति । केयं भक्तिरत आह— परमार्थ - ज्ञानलक्षणामिति । इयमेवोत्तमेत्याह — उत्तमामिति । ननु विश्वरूपोपासनात्मिका भक्तिरेवेह गृह्यतामत आह- प्रियो हीति । यद्ज्ञानिनः प्रियत्वं संक्षेपतः प्रागुक्तं तदेवेह विस्तरेणोच्यत इति नात्र भक्तानामवकाश इति भावः । फलितार्थमाह- यस्मादित्यादिना । विष्णोः परं घाम जिगमिषुणा मुमुक्षुणा इत्यन्वयः । यो हि विष्णोः प्रियस्स एव विष्णोः परं धाम प्रपद्येत न त्वन्यः । न प्रियस्य कोपि स्वकं धाम दिशेदिति भावः । द्वादशोऽध्यायः । २४३ वस्तुतस्तु ज्ञानिन आत्मत्वादेव विष्णोः प्रियत्वमिति यो विष्णोः प्रिय आत्मा ज्ञानी स विष्णोरात्मन एव स्वस्वरूपं सच्चिदानन्दात्मकं प्राप्नोतीति भावः । य एवं ज्ञानी विष्णोः प्रिय आत्मत्वात्स ज्ञानी आत्मा साक्षाद्विष्णुरेव भवति - विष्णोरेवात्मत्वात् । ज्ञानी विष्णुश्चेत्युभयमप्येक एव ह्यात्मा । तस्माद्ज्ञान्येव विष्णुरात्मेति सिद्धान्तः । यत्तु रामानुजः - अद्वेष्टेत्यादिना कर्मयोगिधर्मा उक्ताः ये त्वित्यनेन तु भक्तियोगिधर्म उच्यत इति, तत्तुच्छम् — सर्वारम्भपरित्यागस्य कर्मणि सुतरामप्यसम्भवस्य सर्वजनविदितत्वात् । नच विहितेतर कर्मपरित्यागीत्यर्थ इति वाच्यं, सर्वशब्दसङ्कोचानुपपत्तेः । सत्यां तद्विवक्षायां व्यासः निषिद्धकर्मसंत्यागीत्येव ब्रूयात् । तथा अनिकेतत्वमपि गृहिणः कर्मिणो न सम्भवति । नच निकेतादिष्वसक्त इति तदर्थ इति वाच्यं सङ्गवर्जित इत्यनेन पौनरुक्त्यादस्य तदर्थस्य च लाक्षणिकत्वात् । आत्मनि स्थिरमतिरित्यप्ययुक्तं कर्मिणोऽज्ञस्यात्म चिन्तनासम्भवात् । तथा ये त्विति श्लोकः भक्तविषय इत्यपि न युक्तं धर्वामृतमिदमिति पूर्वोक्तार्थस्येदंशब्देन परामर्शात् । पूर्वोक्ता- थस्य च कर्मिधर्मत्वेन त्वदभिमतत्वात् । · नच येत्विति तुशब्दादतीव मे प्रिया इत्यतीवशब्दप्रयोगाच्च पूर्वोक्ताधिकारिणस्सकाशाद्भिन्न एवेह ग्राह्य इति वाच्यं तुशब्दस्य विश्वरूपोपासकेभ्यो ज्ञानिवैलक्षण्यद्योतनार्थत्वात् । ज्ञानिनस्तव प्रियत्वे कस्तर्हि तव प्रियतम इति शङ्कायां ज्ञान्येव मम प्रियतमः, न त्वन्य इत्येतदर्थमतीवशब्दस्येह प्रयोगात् । न हि ज्ञान्यपेक्षया कश्चित्प्रियोऽस्तीश्वरस्य । ज्ञानी त्वात्मैव मे मतमित्युक्तत्वादात्मनश्च प्रियत्वं सुप्रथितम् । तस्मात्प्रिय प्रियतर प्रियतमत्व मेदो नेह सञ्चारयितव्यः । ज्ञानिन एकस्यैव विष्णोः प्रियत्वेन तस्यैव प्रियतमत्वादिव्यपदेश इति कृत्वा य एव मम प्रिय इत्युक्तं संक्षेपविस्त- राभ्यां स एव ज्ञानी ममातीव प्रियः, न त्वन्यः प्रियः प्रियतमो वेत्येतदर्थमिहातीवशब्दस्य प्रयु- वतत्वात् । नच ज्ञानी स्वात्मैव मे मतमित्यनेनापि भक्तस्यैव प्रियतमात्मत्वमभिहितमिति वाच्यं, ज्ञानीति कण्ठत एवोक्तत्वात् । नच भक्ता इतीह कण्ठोक्तमिति वाच्यं, पूर्वोक्तस्य- ज्ञानी स्वात्मैव मे मर्त; स च मम प्रिय इत्यस्यार्थस्याविरोधायेहापि ज्ञानिन एव भवतशब्देन ग्राह्यत्वात् । नच कथं भक्तेः ज्ञानत्वमिति वाच्यं भक्तिः पुंसि रतिः पुमान् स भगवान् यः केवलात्मास्ति वः तत्साक्षात्कृतिरेव ते किल मते ज्ञानं तदेकं न द्वयमिति मदुक्तविधया केवलात्मनीश्वरे रतेरेव ज्ञान- त्वाद्भक्तित्वाच्च । उक्तं हि भाष्यकारैरपि - ‘परमार्थज्ञानलक्षणामुत्तमां भक्ति’ मिति । एतेन चोत्तम- शब्देन विश्वरूपोपासनादिलक्षणभक्तेरधमत्वं प्रतीयते । युक्तं चैतत् भेदबुद्धिप्रस्वत्वात्तस्याः । २४४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु आत्मेश्वरभेदबुद्धिर्हि श्रुत्यादिभिर्निन्दिता । तस्माद्येत्विति श्लोकेनाद्वेष्टेत्यादिना प्रक्रान्तो ज्ञानिधर्मपूग एवोपसंहियत इत्यनवद्यम् ॥२०॥ इति श्रीबेलकोण्डोपनामक रामकविकृतौ श्रीभगवद्गीताशाङ्करभाष्यार्कप्रका शे भक्तियोगो नाम द्वादशोऽध्यायः । श्रीहयग्रीवार्पणमस्तु | भक्तियोग इति । भक्तेर्विश्वरूपोपासनात्मिकायाऽनुत्तमायाः, अक्षरोपासनात्मिकाया उत्त- मायाश्च योगस्सम्बन्धोऽत्रेति भक्तियोगः । सगुण निर्गुणेश्वरभक्तिद्वयप्रतिपादकोऽध्याय इत्यर्थ इति । भक्तिर्भजनमुपासनमिति यावत् । सगुणस्य निर्गुणस्य चेश्वरस्य । तदिह प्रोक्तमिति भक्तियोगोऽय- मध्याय इति । इति मध्यम षट्कम् ।