११

श्रीहयग्रीवाय नमः । भाग्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतासु एकादशोऽध्यायः । भगवतो विभूतय उक्ताः, तत्र च ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जग’ दिति भगवताऽभिहितं श्रुत्वा यज्जगदात्मस्वरूपमाद्यमैश्वरं तत्साक्षात्कर्तुमिच्छन्नर्जुन उवाच – अर्जुन उवाच — मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । योक्तं वचस्तेन मोहोऽयं विगतो मम ॥ १॥ मदिति । मदनुग्रहाय मदनुग्रहार्थं परमं निरतिशयं गुह्यं गोप्यमध्यात्मसंज्ञितमात्मा- नात्मविवेकविषयं यत्त्वयोक्तं वचो वाक्यं तेन ते वचसा मोहोऽयं विगतो मम । अविवेक- बुद्धिरपगतेत्यर्थः ॥ १ ॥ 1 " पूर्वाध्यायान्ते विष्टभ्याहमित्यनेन भगवता जगदात्मको मदेकांश इत्युक्तं, स्वस्य जगदात्मकत्वं तदेव प्रधानमीश्वरस्यैश्वर्य तद्दिदृक्षया पृच्छत्यर्जुन इत्याह- भगवतेति । ननु भगवति ब्रह्मणि सर्व जगत्कल्पितमिति भगवतो जगदात्मत्वमुक्तं तच्च दृश्यत एव, आकाशादिजगतो दर्शनादिति चेन्मैवम् — केवलं जगद्दृश्यते न विदं जगद्ब्रह्मणि वर्तमानत्वेन दृश्यत इति । ननु जगतो ब्रह्मणि वर्तमानत्वं द्रष्टुमशक्यं ब्रह्मदर्शनं विना तदयोगात्, ब्रह्म च हग्रूपत्वान्न दृश्यं; ततश्च जगतो ब्रह्मणि वर्तमानत्वं शास्त्रैकवेद्यमेवेति चेत्, सत्यम् — ब्रह्मणि वर्तमानत्वेन जगतो दुर्दर्शत्वेऽपीश्वरे वर्तमानत्वेन सुदर्शमेव । ईश्वरस्य मायावच्छिन्न चैतन्यलक्षणस्य माययैव जगन्मयशरीरोपपत्तेः । अयं भावः — ईश्वरस्य बहूनि रूपाणि सन्ति, तत्र प्रधानं रूपं चैतन्यं ब्रह्म तत्त्वत्त्वात्तस्य । द्वितीय तु मायावच्छिन्नचैतन्यं; तृतीयमन्तः करणावच्छिन्नं चतुर्थे विरारूपम् । ततः पद्मनाभराम- कृष्णादीनि; तत्र ब्रह्मरूपेणेश्वरस्य जगदात्मत्वं शास्त्रैकवेद्यं मायावच्छिन्न चैतन्यरूपेण च । अनुमानम- प्यत्र प्रमाणमेव । अन्तःकरणावच्छिन्नमात्मत्वान्नित्यापरोक्षमेव । विरारूपेण जगदात्मत्वं तु प्रत्यक्ष- प्रमाणवेद्यमेवेतीश्वरस्य विरारूपदिदृक्षया पृच्छत्यर्जन इति । ननु विश्वरूप ईश्वरोऽपि नित्यापरोक्ष एव; विश्वस्थ चक्षुरादिप्रमाणवेद्यत्वादिति चेत्, सत्यम् - विश्वरूपस्येश्वरस्य विश्वमेव रूपं तत्तु सर्वे न कस्य चित्प्रत्यक्षं किं त्वणुमात्रमेव । अतस्साकल्येन विश्वस्य दिदृक्षया पृच्छत्यर्जुन इति । २३ किंच- एकादशोऽध्यायः । १७७ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष ! माहात्म्यमपि चाव्ययम् ॥२॥ भवेति । भव उद्भव उत्पत्तिरप्ययः प्रलयस्तौ भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया न संक्षेपतः त्वक्तो त्वत्सकाशात्कमलपत्राक्ष ! कमलस्य पत्तं कमलपत्त्रं तद्वदक्षिणी यस्य तव स त्वं कमलपत्राक्षः, हे कमलपत्राक्ष ! महात्मनो भावो माहात्म्यमपि चाव्ययमक्षयं श्रुत- मित्यनुवर्तते ॥२॥ एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ! द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ! ॥३॥ एवमिति । एवमेतन्नान्यथा यथा येन प्रकारेणात्थ कथयसि त्वमात्मानं परमेश्वरं, तथापि द्रष्टुमिच्छामि ते तव ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिस्सम्पन्नमैश्वरं वैष्णवं रूपं पुरु- षोत्तम! ॥३॥ अथ वा विश्वं प्रत्यक्षं भवतु नाम, विश्वेन रचितावयव सन्निवेश ईश्वर विग्रहस्त्वप्रत्यक्ष इति तद्दर्शनाय पृच्छत्यर्जनः । न चेश्वरेण तादृशं रूपं ममास्तीत्युक्तं येनार्जुनस्य प्रश्नावकाशः स्यादिति वाच्यं, विष्टभ्याहमि - त्यनेनोक्तत्वात् । नच ब्रह्मण्येकदेशे जगदस्तीति हि तच्छ्लोकार्थ इति वाच्यं यत्र जगदस्ति तस्यैव ब्रह्मपादस्येश्वरभूतत्वात् । अथ वा यदि त्वमेव जगदात्मकस्त्वय्येव जगदस्ति तर्हि तादृशं तव रूपं दर्शय, तव च ताह- ग्रूपमस्तीति यशोदादिभिरुच्यत इति पृच्छत्यर्युन इति । मदनुग्रहायेति । प्रथमपादेऽक्षराधिक्यमार्षम् । आत्मानमधिकृत्य वर्तमानमध्यात्मं तदिति संज्ञाऽस्य सञ्जातमित्यध्यात्मसंज्ञितम् । आत्मानात्मविवेको विषयः प्रतिपाद्यं यस्य तदात्मानात्मविवेक- विषयम् । त्वया मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितं यद्वच उक्तं तेन ममायं मोहो विगतः ॥१॥ भवेति । हे कमलपत्राक्ष ! मया त्वत्तो भूतानां भवाप्ययौ विस्तरशः श्रुतौ, अव्ययं माहात्म्यं च श्रुतम् ॥२॥ एवमिति । हे परमेश्वर ! त्वं यथाऽऽत्मानं कथयस्यैतदेवमेव । हे पुरुषोत्तम ! ते ऐश्वरं रूपं द्रष्टुमिच्छामि । ते ऐश्वरमीश्वरस्य विष्णोस्तव सम्बन्धि रूपं विश्वरूपमित्यर्थः । ईश्वरेण मायया कल्पितमिति भावः ॥३॥ १७८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ! योगेश्वर ! ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥ मन्यस इति । मन्यसे चिन्तयसि यदि मयाऽर्जुनेन तच्छक्यं द्रष्टुमिति प्रभो स्वामिन् योगेश्वर योगिनो योगास्तेषामीश्वरो योगेश्वरः, हे योगेश्वर ! यस्मादहमतीवार्थी द्रष्टुं ततस्तस्मान्मे मदर्थं दर्शय त्वमात्मानमव्ययम् ॥ ४॥ एवं चोदितोऽर्जुनेन भगवानुवाच - श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥५॥ पश्येति । पश्य मे मम पार्थ! रूपाणि शतशोऽथ सहस्रशः; अनेकश इत्यर्थः । तानि च नानाविधान्यनेकप्रकाराणि दिवि भवानि दिव्यान्यप्राकृतानि नानावर्णाकृतीनि च नानाविधलक्षणा नीलपीतादिप्रकारा वर्णास्तथाऽऽकृतयश्चावयवसंस्थानविशेषा येषां रूपाणां तानि नानावर्णाकृतीनि च ॥५॥ पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत! ||६|| पश्येति । पश्यादित्यान्द्वादश, वसूनष्टौ, रुद्रानेकादश, अश्विनौ द्वौ मरुतस्सप्त सप्त- गणा ये तान् । तथा च बहून्यन्यान्यप्यदृष्टपूर्वाणि मनुष्यलोके त्वया त्वत्तोऽन्येन वा केनचित् पश्याश्चर्याण्यद्भुतानि भारत ! ॥ ६ ॥ मन्यस इति । हे प्रभो ! तद्रूपं मया द्रष्टुं शक्यमिति मन्यसे यदि ततस्तर्हि हे योगेश्वर ! अव्ययमात्मानं मे त्वं दर्शय । योगिन इति जात्येकवचनम् । योगिनामित्यर्थः । योगा इति चित्त - समाधानविशेषा अणिमादयो वा । तेषामीश्वरः प्रभुर्नियन्ता । एतेन सर्वा अपि योगशकय ईश्वरपर- तन्त्रा इति सूचितम् । योगिनो योगा इति पाठान्तरे योगशब्दस्य योगिपरत्वमर्श आद्यजन्तत्वादिति बोध्यम् । तत इत्यस्य तर्हीत्यर्थमनाश्रित्य तस्मादिति कारणार्थत्वमाश्रित्य यत्तदोर्नित्यसम्बन्धाद्यत इतिपद- मध्याहृत्य पदान्तराध्याहारेण वाक्यं सृजति – यस्मादहमतीवार्थी द्रष्टुमिति । अर्थी कांक्षावान् । मदर्थमिति मद्वाच्छा परिपूरणार्थमेव नतु नटस्य रामादिवेषपरिदर्शनमिव तत्र विश्वरूपसन्दर्शनं स्वप्रयोज - नार्थमिति भावः । अव्ययमवधिरहितमित्यर्थः । आत्मानं जगन्मयं त्वामित्यर्थः ॥ ४ ॥ पश्येति । भगवतो विश्वरूपत्वे विश्वगतानां सर्वेषामपि भगवद्रूपत्वस्यागतत्वात्सर्वाण्यपि तानि भगवदूपाण्येवेति कृत्वा प्राह - भगवान्मे रूपाणि शतशस्सहस्रशः पश्येति । शतसहस्रशब्दौ सङ्ख्यावाचिनौ न । किं त्वमितवा चिनावित्याह- अनेकश इति । असङ्ख्येयानीत्यर्थः । दिव्यात्मनि परमाकाशे भवान्यप्राकृतानि मायामयानि ||५|| पश्येति । तत्र कानिचिद्रूपाणि नामभिर्निर्दिशति — पश्यादित्यानिति ||६||न केवल मेतावदेव - एकादशोऽध्यायः । इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश ! यच्चान्यद्रष्टुमिच्छसि ||७|| १७९ इहेति । इहैकथमेकस्मिन्नेव स्थितं जगत्कृत्स्नं समस्तं पश्य । अद्येदानीं सचराचरं सह चरेणाचरेण च वर्तते मम देहे गुडाकेश ! यच्चान्यज्जयपराजयादि, यत् शङ्कसे- ‘यद्वा ‘जयेम यदि वा नो जयेयु’ रिति यदवोचः तदपि द्रष्टुं यदिच्छसि ||७|| किंतु- न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||८|| नेति । न तु मां विश्वरूपधरं शक्यसे द्रष्टुमनेनैव प्राकृतेन स्वचक्षुषा स्वकीयेन चक्षुषा येन तु शक्यसे द्रष्टुं दिव्येन तद्दिव्यं ददामि ते तुभ्यं चक्षुः । तेन पश्य मे मम योगमैश्वरमीश्वरस्य ममैश्वरं योगं योगशक्त्यतिशय मित्यर्थः ॥ ८ ॥ संजय उवाच - एवमुक्त्वा ततो राजन् ! महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥९॥ एवमिति । एवं तं यथोक्तेन प्रकारेणोक्त्वा ततोऽनन्तरं राजन् हे धृतराष्ट्र ! महा- योगेश्वरो महांश्चासौ योगेश्वरश्च हरिर्नारायणो दर्शयामास दर्शितवान् पार्थाय पृथासुताय परमं रूपं विश्वरूपमैश्वरम् ||९|| अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥१०॥ अनेकेति । अनेकवक्त्रनयनमनेकानि वक्त्राणि नयनानि च यस्मिन् रूपे तदनेक- वक्त्रनयनं अनेकाद्भुतदर्शनमनेकान्यद्भुतानि विस्मापकानि दर्शनानि यस्मिन् रूपे तद- नेकाद्भुतदर्शनं रूपं तथाऽनेकदिव्याभरणमनेकानि दिव्यान्याभरणानि यस्मिन् तदनेक- दिव्याभरणं, तथा दिव्याने कोद्यतायुधं दिव्यान्यनेकान्यस्यादीन्युद्यतान्यायुधानि यस्मिन् तद्दिव्यानेकोद्यतायुधं, ‘दर्शयामास’ इति पूर्वेण सम्बन्धः ॥ १० ॥ इहेति । अद्य सचराचरं सर्वं जगदिहास्मद्देहे एकस्थमेकदेशस्थ पश्य । एकस्थं जगत्पश्येति वा । हे गुडाकेश ! यच्चान्यद्रष्टुमिच्छसि तत्सर्वमपि मम देहे पश्य ||७|| नेति । प्राकृतेन मांसमयेनेत्यर्थः । स्वस्य तव चक्षुस्स्वचक्षुस्तेन । दिव्यमप्राकृतं मन्मायया कल्पितं तेजोमयमित्यर्थः ॥ ८ ॥ एवमिति । हरत्याश्रितानां संसारमिति हरिः परमात्मा । परमं परमधिकं मा नास्ति यस्मा- तत्परमं सर्वाधिकं विश्वमयमिति यावत् ॥९॥ अनेकेति । विश्वरूपमेव विशिनष्टि – अनेकेति । दृश्यन्त इति दर्शनानि, दृश्यानि विषया १८० किंच— श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥११॥ दिव्येति । दिव्यमाल्याम्बरधरं दिव्यानि माल्यानि पुष्पाण्यभ्वराणि वस्त्राणि च धियन्ते येनेश्वरेण तं दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनं दिव्यं गन्धानुलेपनं यस्य तं दिव्यगन्धानुलेपनं सर्वाश्चर्यमयं सर्वाश्चर्यप्रायं देवमनन्तं नास्यान्तोऽस्तीत्यनन्तः तमनन्तं, विश्वतोमुखं सर्वतोमुखं सर्वभूतात्मभूतत्वात् तं दर्शयामास ‘अर्जुनः ददर्श’ इति वा अध्याह्रियते ॥ ११ ॥ या पुनर्भगवतो विश्वरूपस्य भाः, तस्या उपमोच्यते- दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भास्सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ १२ ॥ दिवीति । दिव्यन्तरिक्षे तृतीयस्यां वा दिवि सूर्याणां सहस्त्रं सूर्यसहस्रं तस्य युगप- दुत्थितस्य सूर्यसहस्रस्य या युगपदुत्थिता भाः, सा यदि सदृशी स्यात्तस्य महात्मनो विश्वरूपस्यैव भासः । यदि वा न स्यात्ततो विश्वरूपस्यैव भा: अतिरिच्यत इत्यभिप्रायः ॥ १२ ॥ इति यावत् । अनेकानामद्भुतानां दर्शनं यस्मिन् तदिति वा । उद्यतान्युद्धृतानि । शत्रुमारणे उद्युक्तानीति वा । दिव्यत्वमप्राकृतत्वं मायामयत्वमिति यावत् ॥ १०॥ दिव्येति । धरतीति घरः, दिव्यमाल्याम्बराणां घरो दिव्यमाल्याम्बरधर इति समासः । गन्धानुलेपनं गन्धचर्चा । सर्वाण्याश्चर्याणि प्रकृतमुच्यन्ते यस्मिन् तं सर्वाश्चर्यमयं सर्वाश्चर्यप्रचुरमित्यर्थः । सर्वतोमुखमिति । अनेकमुखमित्यर्थः । तत्र हेतुमाह – सर्वभूतेति । एकैकभूतस्यैकैकं मुखमिति सर्वभूतानामनन्तमुखानि सन्ति, तानि सर्वाण्यपि मुखानीश्वरमुखान्येव । ईश्वरस्य सर्वभूतरूपत्वादिति भावः ॥११॥

दिवीति । उपमीयतेऽनयेत्युपमा- उपमानम् । दिवि सूर्यसहस्रस्य भा युगपदुत्थिता स्याच्चेत्सा तस्य महात्मनो भासस्सदृशी स्यात् । सम्भावितोपमालङ्कारः । दिव्येक एव सूर्योऽधुनास्ति; न तस्य भगवद्विश्वरूपसमान कान्तिः, किं तर्हि तादृशास्सूर्यास्सहस्रं दिवि स्युः, ते च संहता भवेयुः, न तु व्यस्ताः व्यस्तत्वे कान्त्युत्कर्षालाभात् । तथा च परस्पर संश्लिष्ट सहस्रसूर्यसदृशकान्ति भगवद्विश्वरूपमिति सिद्धम् । तृतीयस्यामिति । मर्त्यपातालापेक्षया स्वर्गस्य तृतीयत्वादिति भावः । सूर्यसहस्रस्य युगप- दुत्थानं विना तद्भाया युगपदुत्थानं न सम्भवतीत्यभिप्रेत्याह - युगपदुत्थितस्येति, महात्मन इति । महत्परिमाण देहस्येत्यर्थः । यावदर्थमाह - विश्वरूपस्येति । पक्षान्तरमाह – यदि वा न स्यादिति । यद्वा सा सदृशी न स्यादित्यर्थः । फलितमाह - तत इति । सूर्यसहस्रभास इत्यर्थः । अतिरिच्यत इति । उत्कृष्टा भवतीत्यर्थः ॥ १२ ॥

किंच- एकादशोऽध्यायः । तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यदेवदेवस्य शरीरे पाण्डवस्तदा ॥१३॥ १८१ तत्रेति । तत्र तस्मिन् विश्वरूपे एकस्मिन् स्थितमेकस्थं जगत्कृत्स्नं, प्रविभक्त- मनेकधा देवपितृमनुष्यादिभेदैरपश्यदृष्टवान् देवदेवस्य हरेश्शरीरे पाण्डवोऽर्जुनः तदा ॥ १३ ॥ ततस्स विस्मयाविष्टो हृष्टरोमा धनंजयः । प्रणम्य शिरसा देवं कृतांजलिरभाषत ॥ १४ ॥ तत इति । ततः तं दृष्ट्वा स विस्मयेनाविष्टो विस्मयाविष्टः हृष्टानि रोमाणि यस्य सोऽयं हृष्टरोमा चाभवत् । धनंजयः प्रणम्य प्रकर्षेण नमनं कृत्वा प्रह्वीभूतः सन् शिरासा देवं विश्वरूपधरं कृतांजलिः नमस्कारार्थं संपुटीकृतहस्तेरसन्नभाषतोक्तवान् ॥ १४ ॥ कथम् ? यत्त्वया दर्शितं विश्वरूपं तदहं पश्यामीति स्वानुभवमाविष्कुर्वन्नर्जुन उवाच- अर्जुन उवाच - पश्यामि देवांस्तव देव! देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांव दिव्यान् ||१५|| पश्यामीति । पश्याम्मुपलभे हे देव! तव देहे देवान् सर्वान्, तथा भूतविशेषसङ्घान् भूतविशेषाणां स्थावरजङ्गमानां नानासंस्थानविशेषाणां सङ्घा भूतविशेषसङ्घाः तान् किंच– ब्रह्माणं चतुर्मुखमीशमी शितारं प्रजानां कमलासनस्थं पृथिवीपद्ममध्ये मेरुकर्णिकासनस्थ- मित्यर्थः । ऋषींश्च वसिष्ठादीन् सर्वानुरगांव वासुकिप्रभृतीन् दिव्यान् दिवि भवान् ॥ १५ ॥ तत्रेति । तदा पाण्डवो देवदेवस्य तत्र शरीरे एकस्थमनेकधा प्रविभक्तं कृत्स्नं जगदपश्यत् 1 एकस्थमेकदेशस्थम् ॥ १३ ॥ तत इति । ततस्स धनञ्जयः विस्मयाविष्टो हृष्टरोमा चाभवत् । भूत्वेति वा शेषः । शिरसा देवं प्रणम्य कृताञ्जलिपुटस्सन्निदमभाषत ॥ १४ ॥ पश्यामीति । हे देव ! तव देहे सर्वान्देवान्पश्यामि तथा भूतविशेषसङ्घान्पश्यामि ; ईश कमलासनस्थं ब्रह्माणं पश्यामि सर्वान् ऋषींश्च पश्यामि दिव्यानुरगांश्च पश्यामि । यद्वा पश्यामीत्येक- क्रिययैव सर्वद्वितीयान्तपदानामन्वयः । भूतविशेषसङ्घानिति । नानाविधसंस्थान विशेष विशिष्टचराच - रात्मक भूतसमूहा नित्यर्थः । संस्थानमवयः सन्निवेशः, ईशिता प्रभुर्नियन्तेति यावत् । तत्तत्कर्मानुगुणं तं तं प्राणिनं नियमयतीति भावः । अत ननु ब्रह्मणो महात्मनः कथं पद्ममध्यस्थितिभृङ्गस्येव क्षुद्रस्येत्यत आह - पृथिवीति । पृथिव्येव पद्मं, तन्मध्यस्थमेरुरेव कर्णिका; मेरुशिखरे सत्यलोके वर्तनाद्ब्रह्मणः कमलासनस्थत्वमिति भावः । एव ‘घाताब्जयोनि हिणो विरिञ्चिः कमलासन’ इति कमलासनशब्दस्य ब्रह्मदेववा चित्वमुक्तममरादिभिः कोशकारैः । नच श्रीविष्णुमूर्तिनाभीपद्मप्रभवत्वादस्य कमलासनत्वमिति वाच्यं, विष्णोर्जगन्मयं विग्रहस्य १८२ किंच-

श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अनेक बाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादि पश्यामि विश्वेश्वर ! विश्वरूप! ॥ १६ ॥ अनेकेति । अनेकवाहूदरवक्त्रनेत्रं- अनेके बाहव उदराणि वक्त्राणि नेत्राणि च यस्य तव स त्वमनेक बाहूदस्वक्त्रनेत्रः तमनेकबा हूदरवक्त्रनेत्रं पश्यामि त्वा त्वां सर्वतः सर्वत्राs- नन्तरूपमनन्तानि रूपाण्यस्येत्यनन्तरूपः तमनन्तरूपम् । नान्तं, अन्त अवसानं, न मध्यं, मध्यं नाम द्वयोः कोट्योरन्तरं, न पुनः तवादि तव देवस्य नान्तं पश्यामि न मध्यं पश्यामि न पुनरादिं पश्यामि, हे विश्वेश्वर ! विश्वरूप ! ॥ १६ ॥ किंच- किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ||१७|| किरीटिनमिति । किरीटिनं किरीटं नाम शिरोभूषण विशेषः । तदस्यास्तीति स पादस्थानीयं पातालं नाभिस्थानीयं भूतलं शिरस्स्थानीयं तु सत्यतलमिति प्रसिद्धया भूपद्मस्यैव विष्णु- नाभीपद्मत्वात् । यद्वा ब्रह्मणश्वतुर्मुखस्य विष्णुनाभीपद्मे विलक्षणे स्थितिः प्रलयकाल एव न त्वधुनेति कृत्वा अधाना ब्रह्मणः कमलासनं मेरुशिखररूपमेवेति बोध्यम् । नच पद्माकार आसनविशेषः पद्मा- सनमित्युच्यते भद्रासनस्वस्तिकासनाद्यन्तर्गतः, तस्मिन्नासने स्थितत्वात्कमलासनस्थ इति सुवचमिति वाच्यं, विश्वरूपदर्शनक्षुभिताशयस्य चतुर्मुखस्य तदानीं नैश्चल्येन पद्मासने स्थिस्ययोगात् ।

यत्तु रामानुजः — ब्रह्माणमण्डाधिपतिं चतुर्मुखं, तथा कमलासने ब्रह्मणि स्थितमीशं चेति, तदसत् - ब्रह्मणि स्थितस्य चिन्मात्रस्य चक्षुरविषयत्वात् । नीरूपो ह्यन्तर्यामी । नच ब्रह्मणो मते स्थितमीशं रुद्रमित्यर्थ इति वाच्यं, कमलासनस्थशब्देन कमलासनमतस्थमित्यर्थस्याप्रतिपाद्यमानत्वात् । ननु ब्रह्मविष्णुरुद्राणां त्रिमूर्तित्वेऽपि विष्णोस्साक्षान्नारायणत्वात्तद्देहे ब्रह्मेत्र शिवोऽप्यस्तीति कमलासनस्थं ब्रह्माणं, तथा ईशं शिवं च पश्यामीति व्याख्येयमिति चेत्, मैवम् सर्वान्देवानित्यनेन रुद्रादित्यादिसर्वदेवानां प्रतिपादितत्वादीश्वरस्य शम्भोश्च रुद्रगणान्तः पातित्वान्न पृथक्कथनावसर इति ।

कमलासनस्थं कैलासगिरौ पद्मासनसमासीनमीशं शिवं चापश्यदिति व्याख्यानेऽपि नास्माकं कापि क्षतिः । विष्णुशिवयोश्चैतन्यात्मनाऽभेदेऽपि सङ्घतात्मना भेदसद्भावात् । विष्णोरेवावतारविशे- षत्वाद्विष्णुशिव विग्रहयो दिवि पातालस्वर्गे भवा दिव्यास्तान् ॥१५॥ अनेकेति । अनेकबा हूदरवक्त्रनेत्रमनन्तरूपं त्वा सर्वतः पश्यामि । हे विश्वेश्वर ! विरूप 1 तव पुनरन्तं न पश्यामि; मध्यं न पश्यामि; आदिं च न पश्यामि त्वामेव सर्वत्र पश्यामि न तु तवादिमध्यावसानानीति परमार्थः । द्वयोः कोट्योराद्यन्तयोरित्यर्थः ॥ १६ ॥ किरीटिनमिति । किरीटमिति जात्येकवचनमनेक किरीटयुक्त मित्यर्थः अनेकशिरस्कत्वा- एकादशोऽध्यायः । १८३ किरीटी तं किरीटिनं, तथा गदिनं गदाऽस्य विद्यत इति गदी तं गदिनं, तथा चक्रिणं च चक्रमस्यास्तीति चक्रीतं चक्रिणं च, तेजोराशिं तेजःपुंजं सर्वतोदीप्तिमन्तं सर्वतोदीप्तिर्यस्या- स्तीति स सर्वतोदीप्तिमान् तं सर्वतोदीप्तिमन्तं, पश्यामि त्वां दुर्निरीक्ष्यं दुःखेन निरीक्ष्यो दुर्निरीक्ष्यः तं दुर्निरीक्ष्यं समन्तात्समन्ततः सर्वत्र दीप्तानलार्कद्युतिमनलश्चार्कश्चानला ‘दीप्तानला तयोर्दीप्तान लार्कयो : छुतिरिव द्युतिः तेजो यस्य तव स त्वं दीप्तानलार्कधुतिः तं त्वां दीप्तानलार्कद्युतिमप्रमेयं न प्रमेयमप्रमेयम् । अशक्यपरिच्छेदमित्येतत् ॥ १७ ॥ इत एव ते योगशक्तिदर्शनादनुमिनोमि- त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययश्शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥१८॥ - त्वमिति । त्वमक्षरं न क्षरतीत्यक्षरं परमं ब्रह्म वेदितव्यं ज्ञातव्यं मुमुक्षुभिः । त्वमस्य विश्वस्य समस्तस्य जगतः परं प्रकृष्टं निधानं निधीयतेऽस्मिन्निति निधानं पर आश्रय इत्यर्थः । किंच त्वमव्ययः न तव व्ययो विद्यत इत्यव्ययः, शाश्वतधर्मगोप्ता शश्वद्भवः शास्त्रतो नित्यो धर्मो तस्य गोप्ता शाश्वतधर्मगोप्ता । सनातनो चिरन्तनः त्वं पुरुषः परमो मतोऽभिप्रेतो मे मम ॥ १८ ॥ किंच- अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥१९॥ अनादीति । अनादिमध्यान्तमादिश्च मध्यं चान्तश्च न विद्यते यस्य सोऽयमनादि- मध्यान्तः तं त्वामनादिमध्यान्तमनन्तवीर्यं न तव वीर्यस्यान्तो विद्यत इत्यनन्तवीर्यः तं त्वामनन्तवीर्य, तथाऽनन्तबाहुमनन्ता बाहवो यस्य तव स त्वमनन्तबाहुः तं त्वामनन्तबाहु, शशिसूर्यनेवं शशिसूर्यौ नेवे यस्य तव से त्वं शशिसूर्य नेत्रस्तं त्वां शशिसूर्यनेवं चन्द्रादित्य- द्विराट्पुरुषस्य । गदाचक्रयोस्तु प्राधान्येन निर्देशः । गदाचक्रशङ्खा सिधनुराद्यनन्तायुधविशिष्टमित्यर्थः । तेजसां राशि: पुञ्जो यस्य तं तेजोराशिमनन्तमित्यर्थः । यद्वा तेजोर | शिमति तेजोराशित्वरूपणं ‘स राशिरासीन्महसां महोज्ज्वल’ इतिवत् । सर्वतो दीप्तिमन्तं यस्य दीप्तिस्सर्वतः सर्वत्रास्ति तं, तेजः प्रभापिण्डः, दीप्तिस्तु प्रभेति विवेकः । अग्नितत्प्रभावत् । दुर्निरीक्ष्यं दुःखेन निरीक्षितुं शक्यं निरीक्षितुमशक्यमित्यर्थः । प्रमातुं परिच्छेत्तुमशक्यमप्रमेयम् ॥१७॥ त्वमिति । त्वं वेदितव्यमक्षरं परममसि । त्वमस्य विश्वस्य परं निधानमसि । त्वं शाश्वत- धर्म गोप्ताऽव्ययोऽसि । त्वं सनातनः पुरुष इति मे मतोऽसि । अक्षरमविनाशि परमं निरतिशयम् । फलितमाह — ब्रह्मेति । तस्यैव सर्वातिशयत्वेन निरतिशयत्वात् । कैर्वेदितव्यमत आह— मुमुक्षुभि- रिति । तेषामेव मुक्त्यर्थं ब्रह्मजिज्ञासुत्वादिति भावः । सनातनः पुराणः ॥ ॥ १८ ॥ १८४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु नयनं पश्यामि त्वां दीप्तहुताशवक्त्रं दीप्तवासौ हुताशश्च तद्वद्वक्त्रं यस्य तव स त्वं दीप्त- हुताशवक्त्रस्तं त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं समस्तं तपन्तं सन्तापयन्तम् ॥१२॥ द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्राऽद्युतं रूपमिदं तवोग्रं लोकत्रयं प्रव्यथितं महात्मन् ! ||२०|| द्यावापृथिव्योरिति । द्यावापृथिव्योरिदमन्तरं हि अन्तरिक्षं व्याप्तं त्वयैकेन विश्वरूप- घरेण दिशश्च सर्वा व्याप्ताः । दृष्ट्रोपलभ्याद्भुतं विस्मापकं रूपमिदं तवोग्रं क्रूरं लोकानां त्रयं लोकत्रयं प्रव्यथितं भीतं प्रचलितं वा हे महात्मन् ! अक्षुद्रस्वभाव ! ॥२०॥ अथेदानीं पुरा ‘यद्वा जयेम यदि वा नो जयेयुरित्यर्जुनस्य यो संशय आसीत्त- निर्णयाय पाण्डवजय मैकान्तिकं दर्शयामीति प्रवृत्तो भगवान् तं पश्यन्नाह - किंच- अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्रांजलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||२१|| अमीति । अमी हि युध्यमाना योद्वारः त्वा त्वां सुरसङ्घा येऽल भूभारावतरणायाव- तीर्णाः वस्वादिदेवसङ्घा मनुष्यसंस्थानाः त्वां विशन्ति प्रविशन्तो दृश्यन्ते । तत्र केचिद्भीताः प्रांजलयः सन्तो गृणन्ति स्तुवन्ति त्वामन्ये पलायनेऽप्यशक्ताः सन्तः, युद्धे प्रत्युपस्थिते उत्पातादिनिमित्तान्युपलक्ष्य स्वस्त्यस्तु जगत इत्युक्त्वा महर्षिसिद्धसङ्घा महर्षीणां सिद्धानां च सङ्घा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः सम्पूर्णाभिः ॥ २१ ॥ अनादीति । अनादित्वादिविशेषणविशिष्टं त्वां पश्यामीत्यन्वयः ॥ १९ ॥ द्यावापृथिव्योरिति । एकेन त्वया इदं द्यावापृथिव्योरन्तरं व्याप्तं, सर्वा दिशश्व व्याप्ताः, हे महात्मन् ! उग्रं तवेदं रूपं दृष्ट्वा लोकलयं लक्षणया तद्वर्तिनो जनाः । न च प्रतिकूलानुकूलमध्यस्थ- रूपजनत्रयमित्यभिघासिद्ध एवार्थो ग्राह्य इति वाच्यं, लोकशब्दस्य लक्षणयैव जनार्थे प्रवृत्तिर्न त्वभिध- येति तदर्थस्यापि लाक्षणिकत्वात् । प्रतिकूलत्वादिविशेषणकल्पने प्रमाणाद्यभावाच्च । प्रव्यथितं भवतीति शेषः ॥२०॥ अमीति । अमी सुरसङ्घास्त्वां विशन्ति हि । केचिद्भीता अतएव प्राञ्जलयस्सन्तो गृणन्ति । महर्षिसिद्धसङ्घास्त्वां स्वम्तीत्युक्त्वा पुष्कलाभिस्तुतिभिस्स्तुवन्ति । अमी इत्यस्यार्थमाह - युध्यमाना इति । प्रत्यक्षेण दृश्यमाना युद्धं कुर्वन्तो भीष्मादयो योद्धारः । ननु कथमेषां सुरसङ्घत्वमत आह— ये त्विति । मनुष्याणामिव संस्थानमा कारोऽवयवसन्निवेशो येषां ते मनुष्यसंस्थानाः । मनुष्यजात्यव- तीर्णा इत्यर्थः । विशन्तीति । अनेन भगवतैव भीष्मादय संहियन्त इति सूच्यते । इदमे मी च त्वेति श्लोकेन स्फुटं वक्ष्यते ॥२१॥

  • २४ किं चान्यत्- एकादशोऽध्यायः । रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्वोष्मपाश्च । गन्धर्वयक्षा सुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताचैव सर्वे ॥ २२ ॥ १८५ रुद्रेति । रुद्रादित्या वसवो ये च साध्या रुद्रादयो गणा विश्वेऽश्विनौ विश्वे देवा अश्विनौ च द्वौ देवौ मरुतश्च वायव उष्मपाश्च पितरः, गन्धर्वयक्षासुर सिद्धसङ्घा गन्धर्वा हाहाहूहूप्रभृतयो, यक्षा: कुबेरप्रभृतयः असुरा विरोचनप्रभृतयः सिद्धाः कपिलादयस्तेषां सङ्घा गन्धर्वयक्षासुरसिद्धसङ्घाः, ते वीक्षन्ते पश्यन्ति त्वां विस्मिता विस्मयमापन्नाः सन्तः ते एव सर्वे ||२२|| यस्मात्- रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्रा लोकाः प्रव्यथितास्तथाऽहम् ॥ २३ ॥ रूपमिति । रूपं महदतिप्रमाणं, ते तव, बहुवक्त्रनेत्रं बहूनि वक्त्राणि मुखानि नेत्राणि चक्षूंषि च यस्मिन् तद्रूपं बहुवक्त्रनेवं, हे महाबाहो ! बहुबाहूरुपाद बहवो बाहव ऊरवः पादाश्च यन्मिन् रूपे तद्रहुबाहूरुपाद, किंच बहूदरं बहून्युदराणि यस्मिन्निति बहूदरं, बहुदंष्ट्राकरालं बह्वीभिः दंष्ट्राभिः करालं विकृतं तद्वहुदंष्ट्राकरलं, दृष्ट्रा रूपमीदृशं लोका लौकिकाः प्राणिनः प्रव्यथिताः प्रचलिता भयेन, तथाऽहमपि ॥ २३ ॥ तवेदं कारणम्-

नभःस्पृशं दीप्तमनेकवर्ण व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्रा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ २४ ॥ नभःस्पृशमिति । नभःस्पृशं द्युः स्पृशमित्यर्थः । दीप्तं प्रज्ज्वलितं, अनेकवर्णमनेकवर्णा रुद्रेति । ये च रुद्रादित्याः, ये च वसवः, ये च साध्याः, ये विश्वेदेवाः, यौ चाश्विनौ, ये च मरुतः, ये चोष्मपाः, ये च गन्धर्वयक्षासुर सिद्धसङ्घाः, ते ते सर्वे लोका विस्मितास्सन्तः स्वां वीक्षन्त एव । रुद्राश्वादित्याश्च रुद्रादित्याः ॥ २२॥ रूपमिति । हे महाबाहो ! बहुस्वत्रनेत्रं बहुबाहूरुपादं बहूदरं बहुदंष्ट्राकरालं महत् ते रूपं दृष्ट्रा लोकाः प्रव्यथिताः । तथाहमपि प्रव्यथितः । लोकशब्दो लक्षणया लोकस्थपर इत्याह– लौकिकाः प्राणिन इति । नच ‘लोकस्तु भुवने जने’ इति कोशादभिधयैव तदर्थागम इति वाच्यं शब्दस्याने- कार्थत्वस्यान्याय्यत्वात् । एक एवाभिधेयोऽर्थः अन्ये तु लाक्षणिका एव, लाक्षणिका अर्था अपि कोशेऽभिधेयैस्सह संगृहीताः नानार्थत्व लाभायेति । ‘व्यथभयचलन यो’ रिति धातुः । तत्र चलनार्थमाश्रि- त्याह - प्रचलिता इति । तत्र हेतुमाह - भयेनेति । भयार्थाश्रयणे तु भीता इत्येव सिद्ध्यति, नतु भीत्या चलिता इति । अत आश्रितश्चलनार्थ इति बोध्यम् । तथा लोकवदित्यर्थः ॥ २३ ॥ नभस्स्पृशमिति । हे विष्णो ! नभस्स्पृशं दीप्तमनेकवर्ण व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्रा १८६ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु भयङ्करा नानासंस्थाना यस्मिन् त्वयि तं त्वामनेकवर्ण व्यात्ताननं व्यात्तानि निवृतान्यान- नानि मुखानि यस्मिन् त्वयि तं त्वां व्यात्ताननं दीप्तविशालनेत्रं दीप्तानि प्रज्वलितानि विशालानि विस्तीर्णानि नेत्राणि यस्मिन् त्वयि तं त्वां दीप्तविशालनेत्रं दृष्ट्रा हि त्वां प्रव्यथितान्तरात्मा प्रव्यथितः प्रभीतोऽन्तरात्मा मनो यस्य मम सोऽहं प्रव्यथितान्तरात्मासन् धृतिं धैर्यं न विन्दामि न लभे, शमं चोपशमनं मनस्तुष्टिं हे विष्णो ! ॥ २४॥ कस्मात् — दंष्ट्राकरालानि च ते मुखानि दृष्द्वैवं कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश! जगन्निवास ! ॥ २५ ॥ दंष्ट्रेति । दंष्ट्राकरालानि दंष्ट्राभिः करालानि विकृतानि ते तव मुखानि दृष्ट्टैवोपलभ्य कालानलसन्निभानि प्रलयकाले लोकानां दाहकोऽग्निः कालानलः तत्सदृशानि कालानल- सन्निभानि मुखानि दृष्वेत्येतत् । दिश: पूर्वापरविवेकेन न जाने दिङ्मूढो जातोऽस्मि । अतो न लभे च नोपलभे च शर्म सुखम् । अतः प्रसीद प्रसन्नो भव हे देवेश जगन्निवास! | येभ्यो मम पराजयाशङ्का प्रागेवासीत्सा चापगता यत:- अमी च त्वां धृतराष्ट्रस्य पुत्रास्सर्वे सहैवावनिपालसङ्घैः । भीष्मो द्रोणस्सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥२६॥ अमीति । अमी च त्वां धृतराष्ट्रस्य पुत्राः दुर्योधनप्रभृतयः - ’ त्वरमाणा : विशन्ति’ इति व्यवहितेन सम्बन्धः । सर्वे सहैव सहिताः अवनिपाल्सङ्घैरवनिं पृथिवीं पालयन्ती - प्रव्यथितान्तरात्मा सन् धृतिं शमं च न विन्दामि हि । ननु नभसः सर्वसंस्पृष्टत्वाद्यर्थं नभस्स्पृशमिति विशेषणम् । क्षुद्राणामपि तथात्वादत आह- धुः स्पृशमिति । अन्तरिक्षलोकस्पृशमित्यर्थः । स्वर्ग - लोकस्पृशमिति वा । व्याप्तमहाकाशमिति यावत् । त्वद्रूपगता नभोव्यापित्वव्यात्ताननत्व दीप्तविशाल- नेत्रत्वदीप्तत्वानेकवर्णत्वरूपा घर्मा लोकत्रयस्य मम च प्रव्यथितत्वे कारणम् । एवं सर्वलोकभीति - करत्वादेवैवंविधत्वद्दर्शनात्प्रव्यथितं मनो मे । भीते च मनसि कथं धैर्यशमयोरवस्थानम् न कथ- मपीत्यर्थः ||२४|| + दंष्ट्रेति । ननु कस्मात्तव धृतिशमयोरप्राप्तिरिति शङ्कायां तव रूपस्य भीषणत्वादेवेत्याह- दंष्टेति । यद्यपि पूर्वश्लोके स्वेनैवोक्तमिदं तथाऽप्यर्जुनोऽव्यवस्थित चित्तत्वात्सम्भ्रमेणोक्तमेव पुनरपि वदतीति बोध्यम् । हे देवेश ! जगन्निवास ! दंष्ट्राकरालानि कालानलसन्निभानि ते मुखानि दृष्ट्टैव दिशोऽहं न जाने । शर्म च न लभे । तस्मात्प्रसीद । पूर्वापर विवेकेनेति । इयं दिवपूर्वा, इयं तु पश्चिमेत्येवं विवेकेनेत्यर्थः । दिव्यात्रज्ञानाभावे दिशो न जाने इति वक्तुमेवासङ्गतत्वादिति भावः । दिमढ : दिङ्मोहमापन्नः ॥२५॥ अमी चेति । अमी सर्वे च धृतराष्ट्रस्य पुत्रा अवनिपालस स्सहैव । दंष्ट्राकरालानि भयान- Ap एकादशोऽध्यायः । १८७ त्यवनिपालाः तेषां सङ्घैः, किंच भीष्मो द्रोणः सूतपुत्रः कर्णः तथाऽसौ सहास्मदीयैरपि धृष्टद्युम्नप्रभृतिभिर्योधमुख्यै योधानां मुख्यैः प्रधानैः सह ॥२६॥ किंच- वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ||२७|| वक्त्राणीति । वक्त्राणि मुखानि ते तव त्वरमणास्त्वरायुक्तास्सन्तो विशन्ति, किं विशिष्टानि मुखानि १ दंष्ट्राकरालानि भयानकानि भयङ्कराणि; किंच केचिन्मुखानि प्रवि- ष्टानां मध्ये विलग्नानां दशनान्तरेषु मांसमिव भक्षितं सन्दृश्यन्ते उपलभ्यन्ते चूर्णितैः चूर्णीकृतैः, उत्तमाङ्गैः शिरोभिः ॥२७॥ कथं प्रविशन्ति मुखानीत्याह- यथा नदीनां बहवोऽम्बुवेगास्समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ २८ ॥ यथेति । यथा नदीनां स्रवन्तीनां बहवोऽनेकेऽम्बूनां वेगा अम्बुवेगास्त्वराविशेषा समुद्रमेवाभिमुखाः प्रतिमुखा द्रवन्ति प्रविशन्ति तथा तद्वत् तवामी भीष्मादयो नश्लोकवीरा मनुष्यलोके शूरा विशन्ति वक्त्राण्यभिविज्वलन्ति प्रकाशमानानि ॥ २८ ॥ ते किमर्थं प्रविशन्ति, कथं चेत्याह- " यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ||२९|| यथेति । यथा प्रदीप्तं ज्वलनमग्नि पतङ्गाः पक्षिणो विशन्ति नाशाय विनाशाय समृद्ध : उद्धृतो वेगो गतिर्येषां ते समृद्धवेगाः, तथैव नाशाय विशन्ति लोकाः प्राणिनः तवापि वक्त्राणि समृद्धवेगाः ॥ २९ ॥ कानि ते वक्त्राणि त्वरमाणास्सन्त एव विशन्ति । तथाऽसौ भीष्मो द्रोणस्सूतपुत्रश्च ते । अस्मदीयैरपि योधमुख्यैस्सह दंष्ट्राकरालानि भयानकानि ते वक्त्राणि त्वरमाणा विशन्ति ॥ २६ ॥ वक्त्राणीति । केचिच्चूर्णितैरुत्तमाङ्गैरुपलक्षिता दशनान्तरेषु विलग्नास्सन्तो मया संदृश्यस्ते । ननु दशनान्तरेषु केचित्किमिव विल्मा अत आह— भक्षितं मांसमिवेति । यथा भक्षितमांसविशेषो दन्तान्तरे लगति तद्वदित्यर्थः ॥ २७॥ यथेति । कथं विशन्तीति श्रार्तराष्ट्रादय इति कर्तुश्शेषः । यथा नदीनां बहवोऽम्बुवेगा- समुद्रमभिमुखा एंव द्रवन्ति तथाऽमी नरलोकवीरा अभिविज्वलन्ति तव वक्त्राणि विशन्ति । समुद्रे नदीनामम्बुवेगा इव तव वक्त्रेषु धार्तराष्ट्रादयो विशन्तीत्यर्थः । समुद्रस्थानीय विरारूपं, नदीसङ्गम- स्थलस्थानीयानि मुखानि, नदीजलस्थानीयान्तु धार्तराष्ट्रादय इति विशेकः ॥ २८ ॥ यथेति । प्रवेशमात्रे दृष्टान्तः पूर्वश्लोकेनोक्तः, अनेन तु नाशाय प्रवेशे दृष्टान्त इति १८८ त्वं पुनः- श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु लेलिह्यसे ग्रसमानस्समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समयं भासस्तवोग्राः प्रतपन्ति विष्णो! ॥ ३० ॥ लेलिह्यस इति । लेलिह्यसे आस्वादयसि ग्रसमानोऽन्तः प्रवेशयन् समन्तात् समन्ततो लोकान् समग्रान् समस्तान् वदनैर्वक्त्रैर्ज्वलद्भिर्दीप्यमानैस्तेजोभिरापूर्य संव्याप्य जगत्समग्र सहाग्रेण समस्तमित्येतत् । किंच भासो दीप्तयो तवोग्राः क्रूराः प्रतपन्ति प्रतापं कुर्वन्ति हे विष्णो व्यापनशील! ॥३०॥ यत एवमुग्रस्वभावोऽतः - आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर ! प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥ आख्याहीति । आख्याहि कथय मे मां को भवानुग्ररूपः अतिक्रूराकारः । नमोऽस्तु ते तुभ्यं हे देववर ! देवानां प्रधान! प्रसीद प्रसादं कुरु । विज्ञातुं विशेषेण ज्ञातुमिच्छामि विशेषसद्भावान्न पुनरुक्तिः । यद्वा अबुद्धिपूर्वकप्रवेशे नदीवेगो दृष्टान्त उक्तः, बुद्धिपूर्वकप्रवेशे तु पतङ्ग इति विवेकः । यथा पास्समृद्धवेगास्सन्तो नाशाय प्रदीप्तं ज्वलनं विशन्ति तथैव लोका- समृद्धवेगास्सन्तो नाशायैव तवापि वक्त्राणि विशन्ति । ज्वलनं दीपज्वालादिरूपमग्निम् ॥२९॥ लेलिह्यस इति । त्वं तु समन्ताज्ज्वलद्भिर्वदनैस्समग्रान् लोकान् ग्रसमानस्सन् लेलिह्यसे । हे विष्णो ! तवोमा भासः तेजोभिस्समयं जगदापूर्य प्रतपन्ति । भासो दीपादिस्थानीयास्सान्द्रास्तेजांसि तु प्रभास्थानीया विरला इति विवेकः । भाष्यकाराभिमतान्वयस्तु — त्वं समग्रं जगत्तेजोभिरापूर्य समन्ताज्ज्वलद्भिर्वदनैस्समग्रान् लोकान् प्रसमानो लेलिह्यसे । हे विष्णो ! तवोग्रा भासस्तु प्रतपन्तीति । अस्मिन्नन्वये तु भासां तेजसां. चैकार्थ्येऽप्यनन्वयदोषो नास्तीति बोध्यम् । नच तेजोभिरापूर्य जगत्समग्रमित्यस्य पूर्ववाक्यान्वये समाप्तपुनरादानदोष इति वाच्यं, अना- कांक्षितविशेषणस्यैव बहिर्भूतत्वे स दोषः, न त्वकांक्षितविशेषणस्येति सिद्धान्तात् । न चेदं तेजोभि- जगत आपूरणं विश्वरूपस्य नाकांक्षितमेव विशेषणमिति वाच्यं, तेजोभिर्जगत आपूरणं विना लोक- ग्रसनाद्यसम्भवेन तस्याकांक्षितत्वात् । व्याघ्रादयोऽपि स्वतेजसा मृगादीन् परिभूय हि ग्रसन्ते, आस्वाद-: यन्ति च । तद्वदीश्वरोऽपि स्वतेजसा जगत्परिभूयैव ग्रसते आस्वादयति च । तेजसा जगद्व्याप्तिर्हि जगत्परिभवः । येन जगदाक्रान्तं तस्य तेजस उत्कर्षः । तेजो यज्जगदाचक्राम तस्य जगतोऽपकर्ष- चेति । प्रतपन्तीत्यत्र कर्मादर्शनात्किमत्र कर्मेति सन्दिहानंप्रति धात्वर्थ संगृहीत कर्म स्वाद कर्म कोऽयं धातुरिति बोधयितुमाह — प्रेत्युपसर्गयुक्तस्य तपतेरर्थं सन्तापमिति ॥३०॥ आख्याहीति । उग्ररूपो भवान् कः ? में आख्याहि हे देववर ! ते नमोऽस्तु प्रसीद आधएकादशोऽध्यायः । भवन्तमाद्यमादौ भवमाद्यं, न हि यस्मात्प्रजानामि तव त्वदीयां प्रवृत्तिं चेष्टाम् ॥ ३१ ॥ श्रीभगवानुवाच - कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः । १८९ ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥ काल इति । कालोऽस्मि लोकक्षयकुल्लोकानां क्षयं करोतीति लोकक्षयकृत् प्रवृद्धो वृद्धिं गतो यदर्थ प्रवृद्धः तच्छृणु - लोकान् समाहर्तुं संहर्तुमिहास्मिन् काले प्रवृत्तः । ऋतेऽपि विनापि त्वा त्वां न भविष्यन्ति भीष्मद्रोणकर्णप्रभृतयस्सर्वे येभ्यस्तवाशङ्का येऽवस्थिताः प्रत्यनीकेष्वनीकमनीकं प्रत्यनीकेषु प्रतिपक्षभूतेष्वनीकेषु योधा एव योद्धारः ॥ ३२॥ भवन्तं विज्ञातुमिच्छामि । हि तव प्रवृत्तिं न प्रजानामि मया तव विश्वरूपं जिज्ञासितं प्रार्थितं च । त्वया तु व्यासाननत्वादिभिरतिघोरं रूपं दर्शितं, तत्र पृच्छामि कस्त्वमिति । किं विश्वरूपस्स एवायं त्वं यद्वा तवेदं विश्वरूपादन्यद्रपमथ वा त्वत्तोऽयमन्यः पुरुषः कश्चिद्धोराकृतिः । तव सौम्यपुरुषत्वा- दिति । चेष्टामिति । एवं घोरं रूपं धृत्वा त्वया किं वा चिकीर्षितं तदहं न जान इत्यर्थः ॥ ३१ ॥ काल इति । लोकान् समाहर्तुमिह प्रवृत्तो लोकक्षयकृत्प्रवृद्धः कालोऽहमस्मि । प्रत्यनीकेषु ये योधा अव स्थितास्ते सर्वे त्वा ऋतेऽपि न भविष्यन्त्येव । मया त्वत्प्रार्थनामनुसृत्य विश्वरूपमेव दर्शितम् । तद्धि विश्वरूपमनेकवक्त्रनयनत्वादिना स्वत एव घोरम् । तत्र च भूभूरसजिहीर्षयेश्वरस्य । ममाधुना लयव्यग्रत्वान्मम चेदं रूपमति घोरं व्यात्ताननत्वदशनान्तर विलग्नयो घत्वदंष्ट्राकरालत्वादिभिः । तस्मादेवं घोररूपोऽहमीश्वरः काल एव । किं कालो यमस्त्वम् ? नेत्याह — लोकक्षयकृदिति । सर्वेषां लोकपाललोकस्थजनसहितानां भूरादिलोकानां क्षयकृत् : नाशकारी । यमस्यापि यमोऽहमीश्वर एवं नतु यम इति भावः । यद्वा कालस्संवत्सराद्यात्मकः किम् ? नेत्याह– लोकक्षयकृदिति । संवत्सरचक्रप्रवर्तकस्य सूर्यस्यापि क्षयकृत्त्वान्नाह जन्यकालः, किंतु नित्यकाल ईश्वर एवेति भावः । +

कीदृशः कालोऽत आह– प्रवृद्ध इति । विश्वरूप ईश्वरोऽहमित्यर्थः । किमर्थं विश्वरूप- • धारणमिदमत आह— लोकानिति । अस्मिन्लोकेऽस्मिन्काले, एतान्लोकान्भीष्मद्रोणादीन्जनान् समाहर्तुं गिलितुं नाशयितुमिति यावत् । प्रवृत्तो विश्वरूपधारणे प्रवृत्तः, यज्ञा लोकसमाहरणे प्रवृत्तः । एवमत्र प्रवृत्तोऽहमिति ते दर्शयितुं प्रवृद्धः । अथा वा प्रवृद्धो प्रसनोन्मुखावस्थः । प्रत्यनीकेषु प्रतिसैन्यमुभयसेनयोरित्यर्थः । यद्वा सेनां सेनां प्रत्यवस्थिताः । उभयसेनयोरव- स्थिता’ इत्येव यावत् । प्रतिपक्षभूतेष्विति । परस्परमिति शेषः । अन्योन्यं प्रतिपक्षभूतयोयो - स्सेनयोरिति प्रत्यनीकेष्वित्यस्यार्थः । यद्वा प्रत्यनीकेषु शात्रवसैन्येषु तेषामेव प्रतिकूलसैन्यत्वेन प्रत्य- नीकत्वादिदमेवाह - प्रतिपक्षभूतेष्विति । नन्वेवं प्रतिकूलान्यनीकानि प्रत्यनीकानीति न भाषित- माचार्यैरिति चेतर्हि, वीप्सायामेव प्रतिरस्तु सर्वसैन्येष्वित्यर्थः । इमानि च सर्वसैन्यानि शात्रवाण्येवे- त्याह- प्रतिपक्षभूतेष्विति ॥ ३२ ॥ १९० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाग्योपेतासु यस्मादेवम्– तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुंक्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ! ॥३३॥ तस्मादिति । तस्मात्त्वमुत्तिष्ठ । ‘भीष्मप्रभृतयोऽतिरथा अजेया देवैरपि, अर्जुनेन जिता’ इति यशो लभस्व । केवलं पुण्यैर्हि तत्प्राप्यते, जित्वा शत्रून् दुर्योधनप्रभृतीन् संक्ष्व राज्यं समृद्धमसपत्नमकण्टकम् । मयैव एते निहता निश्चयेन हताः प्राणैर्वियोजिताः पूर्व- मेव । निमित्तमात्रं भव त्वं हे सव्यसाचिन् ! सव्येन वामेन हस्तेन शराणां क्षेप्ता सव्यसा- चीत्युच्यतेऽर्जुनः ॥३३॥ द्रोणं च भीष्मं च जयद्रथं च कर्ण तथाऽन्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् ||३४|| द्रोणमिति । द्रोणं च येषु येषु योधेष्वर्जुनस्याशङ्का तांस्तान्व्यपदिशति भगवान्, मया हतानिति । तत्र द्रोणभीष्म योस्तावत्प्रसिद्धमाशङ्का कारणम् । द्रोणस्तु धनुर्वेदाचार्यो दिव्यास्त्र सम्पन्नः, आत्मनश्च विशेषतो गुरुर्गरिष्ठः; भीष्मच स्वच्छन्दमृत्युर्दिव्यास्त्र सम्पन्नश्च परशुरामेण द्वन्द्वयुद्धमगमत् नच पराजितः । तथा जयद्रथः यस्य पिता तपश्चरति ‘मम पुत्रस्य शिरो भूमौ निपातयिष्यति यस्तस्यापि शिरः पतिष्यति’ इति । कर्णोऽपि वासव- दत्तया मोघया शक्त्या सम्पन्नस्सूर्यपुत्त्रोऽयं कानीनः, अतस्तन्नाम्नैव निर्देशः । मया हतान् त्वं जहि निमित्तमात्रेण । मा व्यथिष्ठाः तेभ्यो भयं माकार्षीः । युध्यस्व जेतासि दुर्यो- धनप्रभृतीन् रणे युद्धे सपत्नान् शत्रून् ॥३४॥ यस्मादेवं मयैव कालेनैते हनिष्यन्ते तस्मादित्यर्थः । तस्मात्त्वं युद्धायोतिष्ठ; यशो लभस्व; शत्रून् जित्वाऽकण्टकं राज्यं भुंक्ष्व; शत्रून् जित्वा यशो लभस्वेति वा काकाक्षिन्यायेन द्वयोस्सम्बध्यत इति वा । एते धार्तराष्ट्रादयः मयैव पूर्वमेव त्वद्धननात्प्रागेवेत्यर्थः । निहताः । तच्च दर्शितं तवेति भावः । हे सव्यसाचिन् ! त्वं निमित्तमात्रं भव दैवं तवानुकूलं, तेषां तु प्रतिकूलमतस्तवैव जयस्स्यात् । तथापि न त्वयोदा सितव्यं, पौरुषं विना केवलदेवालम्बनस्य क्षुद्रजनविषयत्वाद्व्यर्थत्वाच्चेति भावः । तस्मा- दुत्तिष्ठ सव्यसाचिनस्तवापि न दुष्करमिदं युद्धं, किंतु सुकरमेवेति भावः ॥ ३३ ॥ तथा मया हतानन्यानपि आशङ्का मयैते न हनिष्यन्ते यो मम पुत्रस्य शिरो भूमौ द्रोणमिति । त्वं मया हतं द्रोणं भीष्मं जयद्रथं कर्णे च जहि । योधवीरान् जहि । मान्यथिष्ठाः । युद्धयस्व । रणे सपलान् जेतासि । एतएव मां हनिष्यन्तीत्येवमाकारिका । जयद्रथः सैन्धवः । यस्येति । निपातयिष्यति तस्यापि शिरो भूमौ पतत्वित्यभिसन्धिमत्तपः यस्य पिता चरति चराचरेत्यर्थः । एवं च जीवतास्य दुर्जयत्वं सिद्धम् । सूर्यपुत्र इति । सूर्यस्य प्रसिद्धतेज आदिगुणवत्त्वात्तत्पुत्रस्य कर्णस्यापि पितृसमान गुणवत्त्वेन दुर्जयत्वमिति भावः । कथमयं सूर्यपुत्रोऽत आह— कानीन इति । कन्याया एकादशोऽध्यायः । संजय उवाच - एतच्छ्रुत्वा वचनं केशवस्य कृतांजलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ||३५|| १९१ एतदिति । एतच्छ्रुत्वा वचनं केशवस्य पूर्वोक्तं कृतांजलिस्सन् वेपमानः कम्पमानः किरीटी नमस्कृत्वा भूयः पुनरेवाह उक्तवान् कृष्णं सगद्गदं भयाविष्टस्य दुःखाभिघाता- त्स्नेहाविष्टस्य च हर्षोद्भवादश्रुपूर्णनेत्रत्वे सति श्लेष्मणा कण्ठावरोधः । ततश्च वाचोऽपाटवा- न्मन्दशब्दत्वं यत्तद्गद्गदस्तेन सह वर्तत इति सगद्गदं वचनमाहेति वचनक्रियाविशेषणमेतत् । भीतभीतः पुनः पुनर्भयाविष्टचेतास्सन् प्रणम्य प्रह्वीभूत्वा ‘आह’ इति व्यवहितेन सम्बन्धः । अत्रावसरे संजयवचनं साभिप्रायम् । कथम् ? द्रोणादिष्वर्जुनेन निहतेषु चतुर्षु तथा अन्येषु च निराश्रयो दुर्योधनो निहत एवेति मत्वा धृतराष्ट्रो जयंप्रति निराशस्सन् सन्धि करिष्यतिः ततश्शान्तिरुभयेषां भविष्यतीति । तदपि नाश्रौषीद्धृतराष्ट्रो भवितव्यवशात् || अर्जुन उवाच -स्थाने हृषीकेश ! तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ३६ ॥ स्थान इति । स्थाने युक्तं किं तत् १ तव प्रकीर्त्या त्वमाहात्म्य कीर्तनेन श्रुतेन अपत्यं कानीनः। ‘कन्यायाः कनीन च’ इति कनीनादेशः । सूर्यात्कन्यायां कुन्त्या जात इत्यर्थः । अनेन च कुन्त्याः प्रथमं प्रभूतोऽयं महासत्त्व इति सूच्यते । जेतासीति लुट्प्रयोगः । जेष्यसीत्यर्थः ॥ एतदिति । केशवस्यैतद्वचनं श्रुत्वा वेपमानः किरीटी कृताञ्जलिस्सन् नमस्कृत्वा भीतभीतस्सन् प्रणम्य कृष्णंप्रति सगद्गदं भूय एवाह । ननु सञ्जय उवाचेति वचनमत्र व्यर्थ, कृष्णार्जुनप्रश्नोत्तरिकाया असमाप्तत्वादित्यत्राह - अत्रेति, संजयवचनमिति । एतच्छ्रुत्वेत्यादिश्लोकरूपमित्यर्थः । अयं भावः – श्रीभगवानुवाच जेतासि रणे सपलानित्यन्तं वाक्यजातं ततस्त्वर्जुन उवाचे- त्यर्जुनवचनमेव निबद्धव्यं नत्वनवसरं सञ्जयवचनमिति । ततश्च कृष्णार्जुनप्रश्नोत्तरिकाया मध्ये सञ्जय - वचननिबन्धनं कालोऽस्मीत्यारभ्य जेतासि रणे सपत्नानित्यन्तं श्रीकृष्णवाक्यं श्रुत्वा सन्धि करिष्यति धृतराष्ट्र इत्याशया धृतराष्ट्रं प्रति सञ्जयो जेतासि रणे सपत्नानित्यन्तं ग्रन्थमुत्ववा तूष्णीं बभूव क्षण- कालं, तथापि धृतराष्ट्रे सन्धावप्रवृत्ते सति पुनस्सञ्जयो वक्तुं प्रववृते इत्येतद्वृत्तान्तसूचनाय सञ्जय उवा- चेति सञ्जयवचनमिह निबद्धं भगवता बादरायणेनेति । नाश्रौषीदिति । त्वदुक्तविधया सन्धिमहं करिष्यामीति नाङ्गीचकारेत्यर्थः । नन्विदमश्रवणं कस्य दोषोऽत आह- भवितव्येति । ‘यद्भावि तद्भवत्येव यदभावि न तद्भवे’ दिति न्यायात् भवि - तव्यं कुरुपाण्डवयुद्धमवश्यं भवत्येव, न त्वभवितुं शक्नोतीति भावः ॥ ३५ ॥ स्थान इति हे हृषीकेश ! तव प्रकीर्त्या जगत्प्रहृष्यति, अनुरज्यते च । तदेतत्स्थाने । १९२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु हे हृषीकेश ! यज्जगत्प्रहृष्यति प्रहर्षमुपैति तत्स्थाने युक्तमित्यर्थः । अथ वा विषयविशेषणं स्थाने इति । युक्तो हर्षादिविषयो भगवान् यत ईश्वरः सर्वात्मा सर्वभूतसुहृच्चेति । तथाऽनु- रज्यतेऽनुरागं चोपैति तच्च विषये इति व्याख्येयम् । किं च रक्षांसि भीतानि भयाविष्टानि दिशो द्रवन्ति गच्छन्ति तच्च स्थाने विषय इति; सर्वे नमस्यन्ति नमस्कारं कुर्वन्ति च, सिद्ध- सङ्घाः सिद्धानां सङ्घाः समुदायाः कपिलादीनां तच्च स्थान इति ॥ ३६ ॥ अतश्च भगवतो हर्षादिविषयत्वे हेतुं दर्शयति- कस्माच्च ते न नमेरन्महात्मन् । गरीयसे ब्रह्मणोऽप्यादिकर्ते । अनन्त ! देवेश ! जगन्निवास! त्वमक्षरं सदसत्तत्परं यत् ||३७|| कस्मादिति । कस्माच्च हेतीस्ते तुभ्यं न नमेरन् न नमस्कुर्वर्युः हे महात्मन् । गरीयसे गुरुतराय, यतो ब्रह्मणो हिरण्यगर्भस्याप्यादिकर्ता कारणम् । अतस्तस्मादादिकर्ते कथमेते न नमस्कुर्युः १ अतो हर्षादीनां नमस्कारस्य च स्थाने त्वमर्हो विषय इत्यर्थः । हे अनन्त ! देवेश ! हे जगन्निवास! त्वमक्षरं तत्परं यद्वेदान्तेषु श्रूयते । किं तत् ? सदसदिति । तत्सद्य- रक्षांसि भीतानि सन्ति दिशो द्रवन्ति । सर्वे सिद्धसङ्घाश्च नमस्यन्ति तच्च स्थाने । यद्वा विषय इति शेषः । तद्भगवान् स्थाने विषयः । एवमुत्तरत्रापि । अत्र चत्वारि वाक्यानि चतुर्ष्वपि स्थानेपदस्यानुवृत्तिः । तत्पदस्य विषयपदस्य च चतुर्ष्वपि शेष इति च बोध्यम् । तत् जगतः प्रहर्षणं स्थाने युक्तम् । तज्जगतोऽनुरञ्जनं च स्थाने युक्तम् । तद्रक्षसां पलायनं स्थाने । तत्सिद्धसङ्घ नमस्करणं स्थाने । एवं तत्तस्माद्भगवान् स्थाने युक्तो विषय इति । कस्य भगवान्युक्तो विषयोऽत आह- हर्षादीति । आदिपदादनुरागपलायननमस्कारग्रहणम् । हर्षादीनां विषयो हर्षादिविषयः भगवतो हर्षादिविषयत्वं युक्तमित्यर्थः । 1 नन्वीश्वरस्य परस्य कीर्तौ श्रुतायां कुतो जगतः प्रहर्षोऽत आह— सर्वभूतसुहृदिति । यतो भगवानीश्वरस्सर्वभूतसुहृत्, तस्मात्स्वसुहृद ईश्वरस्य कीर्तिश्रवणाज्जगतः प्रहर्षमुचितमेवेति भावः । इदं च सर्वभूतसुहृत्त्वमुपलक्षणं सर्वभूतात्मत्वस्य । स्वसुहृदः स्वात्मभूतस्य चेश्वरस्य कीर्तिश्रवणा- ज्जगतः प्रहर्षणमनुरञ्जनं च युक्तमेवेति भावः । के ते सिद्धा अत आह— कपिलादीनामिति ॥ ३६ ॥ कस्मादिति । हर्षादीनां विषयो हर्षादिविषयः । तत्त्वे भगवत्कीर्तिश्रवणादिना जगतो हर्षादिलाभाद्भगवान् हर्षादिविषय इत्युच्यते । कथमेते न नमस्कुर्युः ? अपि तु सर्वधापि नमस्कुर्युरेवे - त्यर्थः । अत इति । यस्मादेवं सर्वे त्वामेव नमस्कुर्युस्तस्मादित्यर्थः । त्वमेव हर्षादीनां नमस्कारस्य च स्थाने विषयः । स्थानेपदार्थमाह - अर्ह इति । प्रजापतिद्वारा सर्वजगत्स्रष्टुर्ब्रह्मणोऽपि प्रधानजीवस्य य उत्पादकस्स हि सर्वाधिक इति हर्षादेर्युक्तविषय इत्यर्थः । एतेन क्षुद्रदेवतादीनां हर्षाद्यनर्ह विषयत्वं सूचितम् । २५ एकादशोऽध्यायः । १९३ द्विद्यमानमसच्च यत्र नास्तीति बुद्धिस्ते उपधानभूते सदसती यस्याक्षरस्य यद्द्द्वारेण सदस- दित्युपचर्यते । परमार्थतस्तु सदसतोः परं तदक्षरं यदक्षरं वेदविदो वदन्ति तत्त्वमेव, नान्य- दित्यभिप्रायः ||३७|| पुनरपि स्तौति त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप! ||३८|| त्वमिति । त्वमादिदेवः- जगतः स्रष्टृत्वात् । पुरुषः पुरि शयनात्पुराण चिरन्तनः यत्सदसत् यच्च तत्परं तदक्षरं त्वमेवेत्यन्वयः । वर्तमानकालोपलक्षितं जगत्सत्, भूतं भविष्य- चासत् । वर्तमान एव पुत्रादावस्तीति प्रत्येति लोकः; नतुं नष्टे, नाप्युत्पत्स्यमाने । यद्वा व्यावहारिकं जगत्सत् प्रातिभासिकं त्वसत् - रज्ज्वादौ सद्बुद्धिदर्शनाद, रज्जुसर्पादौ स्वाप्निकरथादौ चास- बुद्धिदर्शनात् । अथ वा स्थूलावस्थं कार्य सत्, सूक्ष्मावस्थं कारणं त्वसत् । प्रपञ्च जगदस्तीति प्रलये सूक्ष्मतया विद्यमानेऽपि जगति नास्तीति बुद्धिरस्त्येव प्राणिनाम् । तथा च प्रपञ्चदशापत्र प्रकृति- स्सत्, प्रलयदशापन्नप्रकृतिरसदिति सिद्धम् । । अनयोश्च सदसतोरक्षरोपाधिभूतत्वादक्षरमपि सदसदित्युपचर्यत इत्याह- ते इति । ते सदसती उपधानभूते उपाधिभूते । वस्तुतोऽक्षरस्य निरुपाधिकत्वाद्भूतेत्युक्तम् । यद्द्द्वारेणेति । सदसदुपाधि- द्वारेत्यर्थः । उपचर्यते लक्षणयोच्यते । ननु अक्षरं लक्षणया सदसदित्युच्यत इत्युकं मुख्यवृत्त्या किमित्युच्यतेऽत आह— परमार्थत- स्त्विति । उपचारं विनेत्यर्थः । परं विलक्षणं सदसतो जडत्वाद् दृश्यत्वाद्विकारित्वादनित्यत्वादसत्य- त्वाच्च, अक्षरस्य चिन्मात्रत्वाद्द्रष्टृत्वादविकारित्वान्नित्यत्वात्सत्यत्वाच्च सदसद्वैलक्षण्यमक्षरस्य । यदक्षरमिति । ब्रह्मविद्भिर्यद्वस्त्वक्षरत्वेन निर्णीयोच्यते तद्वस्तु ब्रह्मेति यावत् । त्वमेवान्यत्तु त्वन्न भवतीत्यर्थः । यत्तु रामानुजः - अक्षरं जीवस्स त्वमेव, सत्कार्यावस्थप्रकृतिस्त्वमेव, असत्कारणावस्थप्रकृति- त्स्वमेव, ताभ्यां प्रकृतिपुरुषाभ्यां परं मुक्तजीव स्वरूपं यत्तदपि त्वमेवेति तन्मन्दम् — अनेकवाक्य - कल्पनाया गौरवादप्रमाणत्वाच्च वायुर्यम इति श्लोकार्थेन विभूतिनिर्देशेऽप्यन्यत्र तदभावेनात्रापि विभूति निर्देशकल्पनाया ऽनुचितत्वात् खरूपकथनपरत्वादस्योत्तरश्लोकस्य च बद्धात्ममुक्तात्मनोः स्वरूपैकत्वेन तद्भेदकल्पनस्यान्याय्यत्वाच्च ॥३७॥ त्वमिति । त्वमादिदेवः पुराणः पुरुषोऽसि । त्वमस्य विश्वस्य परं निधानमसि । त्वं वेत्तासि । त्वं वेद्यं च । त्वं परं घामासि । हे अनन्तरूप ! त्वया विश्वं ततम् । देवानामादिरादिदेवः, आदिश्वासौ देवश्वादिदेव इति वा । यो हि ब्रह्मादिस्तम्बपर्यन्तदेव- मनुष्यादि मे दभित्र चराचरसर्वप्राणिजातस्याप्राणिजातस्य च जगतस्त्रष्टा स आदिदेव ईश्वरः परमात्मा । १९४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु त्वमेवास्य विश्वस्य परं प्रकृष्टं निधानं निधीयतेऽस्मिन् जगत्सर्वे महाप्रलयादाविति । किंच वेत्तासि वेदितासि सर्वस्यैव वेद्यजातस्य । यच्च वेद्यं वेदनार्ह तदपि त्वं परं च धाम परमं पदं वैष्णवम् | त्वया ततं व्याप्तं विश्वम् । हे अनन्तरूप ! अन्तो न विद्यते तव रूपाणाम् ॥ किंच- वायुर्यमो ऽग्निर्वरुणशशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ ३९ ॥ वायुरिति । वायुस्त्वं यमश्राग्निश्च वरुणोऽपांपतिः, शशाङ्कश्चन्द्रमाः प्रजापतिस्त्वं कश्यपादिः, प्रपितामहच पितामहस्यापि पिता प्रपितामहः, ब्रह्मणोऽपि पितेत्यर्थः । नमो नमस्ते तुभ्यमस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते । बहुशो नमस्कारक्रियाभ्या- सावृत्तिगणनं कृत्वसिचोच्यते । ‘पुनश्च भूयोऽपि’ इति श्रद्धाभक्त्यतिशयादपरितोषमात्मनो दर्शयति ॥ ३९ ॥ अयमेव प्रत्यगात्माऽपीत्याह - पुराणः पुरुष इति । प्रत्यगात्माऽप्यनादिरेवेति सूचयितुमाह- चिरन्तन इति । नच परमात्मैक एवानादिरिति वाच्यं परमात्मन एव सर्वव्यापिनश्शरीरेषु प्रत्यभूपेण स्थितत्वादिति । नन्वस्य जगत्स्रष्टृत्वे जगन्नाशकः क इत्यत आह-त्वमस्येति । आदिपदादवान्तर- प्रलयसंग्रहः । सर्वं जगत्प्रलये स्वात्मन्युपसंहरतीति लयहेतुरयमेवेत्यर्थः । अत्र जगत आत्मनि स्थिति- कथनान्मध्येऽपि जगदात्मन्येव वर्तत इति स्थितिहेतुरप्ययमेवेति सिद्धम् । ननु प्रपञ्चप्रलययोर्द्वयोरपि यदि जगदात्मन्येव वर्तते तर्हि को भेदः प्रपञ्चप्रलययोरिति चेत्, उच्यते -प्रपञ्चदशायामात्मनि जगत्प्रविभक्तनामरूपं स्फुटं वर्तते । प्रलये तु नामरूपविभागान सूक्ष्मत्वादस्फुटं निलीय सुषुप्तावात्मन्यन्तः करणवदिति । वेतेति । सर्वसाक्षित्वेन सर्वज्ञत्वादिति भावः । वेद्यमिति । ननु घटादयो वेत्तुं शक्यत्वा- द्वेद्याः, अर्थं तु वेत्तुं योग्यत्वाद्वेद्यः । संसार निवर्तकत्वादस्य वेदनं योग्यमत एव श्रुतिरपि - ‘तमेवैकं जानथ आत्मान’ मिति वदति । तस्मादयमेक एव मुमुक्षुभिः ज्ञेयस्संसारनाशायेत्याह – तदपीति । ब्रह्मा- पीत्यर्थः । तस्यैव वेदनार्ह त्वात् । नचैकस्यैव ज्ञानक्रियायां कर्मकर्तृविरोधो वेतेति वेद्यमिति चेति वाच्यं, जगतो वेत्ता प्रमातृभिर्वेद्यश्चेत्यदोषात् । . वैष्णवं विष्णोः परमात्मनः स्वरूपभूतं धाम तेजः स्थानमिति वा । पद्यते गम्यत इति पदं स्वरूपं स्थानं वा । मुक्तजीवानां प्रवेशभूमित्वाद्ब्रह्मणः स्थानत्वव्यपदेशः ||३८|| वायुरिति । वाय्वादयः प्रजापत्यन्ता विभूतयः । प्रपितामह इति माहात्म्यकथनम् । तत्र पितामहस्तु विभूतिरेव । यदि तु ब्रह्मायं नाभिकमलात्प्रसुतस्स पद्मनाभो विग्रहविशेष इह विवक्षित इत्युच्येत तर्हि प्रपितामहः पद्मनाभोऽपि विभूतिरेव । ब्रह्मणि तस्यापि कल्पितत्वात् । " ननु सङ्ख्याया: क्रियाभ्यावृत्तिगणने कृत्वसुच्प्रत्ययस्य विहितत्वात्सहस्रकृत्व इत्यनेनैव बहुशो नमस्कारक्रियाभ्यावृत्तेरुक्तत्वात्पुनश्च भूयोऽपीत्यादिर्व्यर्थ इत्याशङ्कय समाधते - बहुश इति । यद्यपि - तथा

एकादशोऽध्यायः । नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व! | अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ४० ॥ १९५ नम इति । नमः पुरस्तात्पूर्वस्यां दिशि तुभ्यम् । अथ पृष्ठतस्ते पृष्ठतोऽपि ते नमोऽस्तु । ते सर्वत एव सर्वासु दिक्षु सर्वत्र स्थिताय हे सर्व ! अनन्तवीर्यामितविक्रमोऽनन्तं वीर्यमस्यामितो विक्रमोऽस्य । वीर्य सामर्थ्य विक्रमः पराक्रमः । वीर्यवानपि कश्चिच्छतु- वधादिविषये न पराक्रमते, मन्दपराक्रमो वा । त्वं त्वनन्तवीर्योऽमितविक्रमश्चेत्यनन्तवीर्या- मितविक्रमः । सर्व समस्तं जगत्समाप्नोषि सम्यगेकेनात्मना व्याप्नोषि यतः । ततस्तस्मा- दसि भवसि सर्वः त्वं, त्वया विना भूतं न किंचिदस्तीत्यभिप्रायः ||४०|| यतोऽहं त्वन्माहात्म्यापरिज्ञानादपराद्धोऽतः - सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण ! हे यादव! हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥ सखेति । सखा समानवया इति मत्वा ज्ञात्वा विपरीतबुद्ध्या प्रसभमभिभूय प्रसा यदुक्तं- ‘हे कृष्ण ! हे यादव ! हे स’ खेति च अजानता अज्ञानिना मूढेन । किमजानते- त्याह - महिमानं माहात्म्यं तवेदमीश्वरस्य विश्वरूपम् । ’ तवेदं महिमानं तमजानता’ इति तथाप्योश्शेषः । यद्यपि बहुशो नमस्कारक्रियाभ्यावृत्तिगणनं कृत्वसुचा उच्यते, तथापि पुनश्च भूयोऽ- पीति श्रद्धाभक्त्यतिशयादात्मनोऽपरितोषं दर्शयति । यद्वा श्रद्धाभक्त्यतिशयादुच्यत इति शेषः । तेन चात्मनोऽपरितोषं दर्शयतीति । अपरितोषं नमस्कार क्रियायामसन्तुष्टिम् । तृप्त्यभावमिति यावत् । बहुवारं नमस्कुर्वतोऽप्यर्जुनस्य पुनःपुनस्तं नमस्कुर्यामित्येव बुद्धिरास तृप्त्यभावाद्यथा वा बहुवारं प्रेक्ष- माणस्यापि कामिनीं कामुकस्य पुनः पुनस्तां पश्येयमित्येव बुद्धिस्तद्वदिति भावः ॥ ३९ ॥ नम इति । पृष्ठतः पश्चिम दिशीत्यर्थः । हे सर्व ! ते सर्वत एव नमोऽस्तु । पूर्वपश्चिमाति- रिक्तदिवषट्कग्रहणं सर्वतश्शब्दादिह । हे सर्व ! सर्वात्मकेत्यर्थः । सर्वतस्स्थिता येति शेषः । ते नम इति वाऽन्वयः । ननु कुतोऽहं सर्वोऽत आह— अनन्तेति । यत इति शेषः । अनन्तवीर्यामित- विक्रमस्त्वं सर्वे समाप्नोषि तत्सर्वोऽसि । अनन्तं वीर्ये यस्य सोऽनन्तवीर्यः ! अमितो विक्रमो यस्य सोऽमितविक्रमः । द्वयोः कर्मधारयः । अमितविक्रमपदवैयर्थ्य वारयति - वीर्यवानपीति । मन्द- पराक्रमो वा भवेदिति शेषः । एकेनात्मनेति स्वस्वरूपेणेत्यर्थः । चैतन्यरूपेणेति यावत् । व्याप्नोषीति चैतन्यस्य सर्वव्यापित्वादिति भावः । आत्मभूतेन त्वया सर्वस्य व्याप्तत्वेन सर्वात्मा त्वं सर्वशब्द- वाच्योऽसीत्यर्थः । अत इति । सर्वव्यापित्वात्तवेत्यर्थः ॥ ४० ॥ 1 सखेति, अपराद्ध इति । अपराधं कृतवानस्मि । इदमित्यस्य महिमानमित्यस्य च क्लीब- १९६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु वैयधिकरण्येन सम्बन्धः । ’ तवेम’ मिति पाठो यद्यस्ति तदा सामानाधिकरण्यमेव । मया प्रमादाद्विक्षिप्तचित्ततया प्रणयो नाम स्नेहनिमित्तो विस्रम्भः । तेनापि कारणेन यदुक्तवानस्मि ॥४१॥ यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथ वाऽप्यच्युत ! तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥४२॥ यदिति । यच्चावहासार्थं परिहासप्रयोजनायासत्कृतः परिभूतोऽसि भवसि त्वं; क ? विहारशय्यासनभोजनेषु विहरणं विहारः पादव्यायामः, शयनं शय्या, आसनमास्थायिका, भोजनमदनमित्येतेषु विहारशय्यासनभोजनेषु एकः परोक्षस्सन्नसत्कृतोऽसि परिभूतोऽसि अथ वाऽपि हे अच्युत ! तत्समक्षं तच्छन्दः क्रियाविशेषणार्थः । प्रत्यक्षं वा असत्कृतोऽसि तत्सर्वमपराधजातं क्षामये क्षमां कारये त्वामहमप्रमेयं प्रमाणातीतम् ॥ ४२ ॥ यतस्त्वम्- पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् i न त्वत्समोsस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव! ||४३|| पितेति । पिताऽसि जनयिताऽसि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य । पुंस्त्वमेदेन भिन्नलिङ्गत्वादाह - वैयधिकरण्येनेति । इदं विश्वरूपं तव त्वदीयं भवति । तं विश्वरूप- त्वाख्यं महिमानमजानतेतीदंम हिमपदयोर्वैयधिकरण्येन सम्बन्धः । तवेदं विश्वरूपं तदेव महिमानमिति व्यस्तरूपके तु सामानाधिकरण्यमपि सिद्धयेदेवेति बोध्यम् । तवेदं महिमानमजानता मया सखेति मत्वा प्रमादात्प्रणयेन वापि प्रसभं हे कृष्ण ! हे यादव! हे सखे! इति यदुक्तं, हे सखे! इतीत्यत्र हे सख इति भवितव्ये हे सखेति वचनमार्षम् । सामानाधिकरण्यमिति । इदंम हिमशब्दयोरेकाश्रयवृत्तित्वम् । इमं महिमानमिति पदयोर्विशेषणविषेष्यभावेनान्वय इति यावत् । प्रमादोऽनवधानता । चित्तैकाग्र्याभाव इत्याह - विक्षिप्तचित्ततेति । प्रविलम्भो वञ्चना | मया यदुक्तमिति कर्मणिप्रयोग कर्तरिप्रयोगेण विनिमयति यदुक्तवानस्मीति । अहमिति शेषः ॥ ४१ ॥ 1 यच्चेति । मयैकस्सन् त्वमपहासार्थ विहारशय्यासनभोजनेष्वसत्कृतोऽसीति यच्च, अथ वा हे अच्युत ! तत्समक्षमसत्कृतोऽसीति यत्, तत्समस्तमप्रमेयं त्वामहं क्षामये । आस्थायिका उपवेशनम् । समक्षमिति । वक्ष्यमाणत्वादेकशब्दः परोक्षवाचीत्याह – एकः परोक्ष इति । एकत्वस्यैव परोक्षत्वप्रयोजकत्वादिति भावः । गृहे स एको वर्तत इत्यनेन गृहवर्तिपुरुषखपुरुषान्तरप्रत्यक्षत्वाभावो शेकत्वेन सूच्यते । द्वयोस्तत्त्वे तु परस्परं प्रत्यक्षत्वं स्यादित्येकत्वमेव परोक्षत्वप्रयोजकम् । तदित्यस्य तथेत्यर्थ इत्याह– क्रियाविशेषणेति । अप्रमेयमपरिच्छिन्नम् । यन्मया प्रणयादिना लाघवाद्धे यादवेत्यादिकमुक्तं यच्च मया विहारादिषु तव पारोक्ष्ये परिहासार्थमसत्कृतं यच्च तव समक्ष - मसत्कृतं तत्सर्वे क्षमस्वेति त्वां प्रार्थये इत्यर्थः ॥ ४२ ॥ पितेति । ननु त्वादृश एवाहमपीति किं मत्क्षमाप्रार्थनया तवेत्यत आह—– पितेति । त्वं एकादशोऽध्यायः । १९७ न केवलं त्वमस्य जगतः पिता, पूज्यश्च पूजार्हः । यतो गुरुगरीयान् गुरुतरः कस्माद गुरु- तरस्त्वमित्याह - न त्वत्समः त्वत्तुल्यो नास्ति । नहीश्वरद्वयं सम्भवति । अनेकेश्वरत्वे व्यवहारानुपपत्तेः । त्वत्सम एव तावदन्यो न सम्भवति कुत एवान्योऽभ्यधिकस्स्याल्लोक- त्रयेऽपि सर्वस्मिन् ? अप्रतिमप्रभाव! प्रतिमीयते यया सा प्रतिमा, न विद्यते प्रतिमा यस्य तव प्रभावस्य स त्वमप्रतिमप्रभावः, हे अप्रतिमप्रभाव ! निरतिशयप्रभावेत्यर्थः ॥ ४३ ॥ यत एवम् - तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीव्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव! सोढुम् ||४४|| तस्मादिति । तस्मात्प्रणम्य नमस्कृस्य प्रणिधाय प्रकर्षेण नीचैः धृत्वा कार्य शरीरं चराचरस्यास्य लोकस्य पितासि पूज्यश्वासि गरीयान् गुरुश्चासि । हे अप्रतिमप्रभाव ! लोकत्रयेऽपि वत्समो न ह्यस्ति | अभ्यधिकोऽन्यः कुतः ? अतिशयेन गुरुर्गरीयान् गुरुणामपि गरुरित्यर्थः । गुरुर्गरीयानित्यस्य गुरूणामपि ये गुरवो ब्रह्मादयस्तेषामपि गुरुः परमगुरुः । यस्येतरो गुरुर्नास्ति स इत्यर्थः । चतुर्मुखस्यापि वेदोपदेष्टृत्वा- दिति भावः । यद्वा अतिशयेन महत्तरः ‘महतो महीया’ निति श्रुतेः । न त्वत्सम इति । ननु कुतो मत्समो नास्ति ब्रह्मविष्णुरुद्राणां त्रयाणां परस्परं समत्वादत आह— न हीति । ईश्वरस्य किमीश्वरान्तरं समः ? यद्वा जीव: ? नाद्य :- ईश्वरद्वयाभावात् ; नान्त्य:- जीवस्यासर्वज्ञत्वादसर्वकर्तृत्वादिभ्यश्च । तस्मादसम एवेश्वरः । ब्रह्मविष्णुरुद्रनामभिस्तु स एक एवेश्वरो व्यवहियते, चतुर्मुखरुद्रौ तु जीवावेव । एक एव विष्णुर्मायी मायावच्छिन्न चैतन्यलक्षण ईश्वरः । अतो नास्य समं वस्त्वस्ति । ननु ब्रह्मविष्णुरुद्रगणपति कुमारवाय्वादित्यमहेन्द्रादयोऽनेके ईश्वरास्सन्तु, को दोषस्तवाह– अनेकेति । यदि बहव ईश्वरास्तर्हि एकस्य यदा सृष्टीच्छा तदैवान्यस्य संहारेच्छा स्यात्, न चेष्टा- पत्तिः । प्रपञ्चस्यैवासम्भवप्रसङ्गात् । तथा च प्रपञ्चसृष्ट्यादिसर्वव्यवहाराणामनुपपत्तिस्स्यात् । न चैवमेकेश्वरत्वे कथं चतुर्मुखादीनां बहूनामीश्वरत्वव्यवहार इति चेदुच्यते । तत्तच्चतुर्मुखादि- शरीरावच्छिन्न सर्वज्ञचैतन्यदृष्टयेति । ये तु चतुर्मुखादिसङ्घातेऽहमभिमानिनस्ते जीवा एव यस्तेषामान्तरः कूटस्थस्स त्वीश्वरः स चैक एवेति चतुर्मुखादीनां कूटस्थदृष्ट्या ईश्वरत्वं सङ्घाताभिमानिप्रमातृदृष्ट्या तु जीवत्वमिति भावः । न चैवं सर्वेऽपि चैतन्यदृष्ट्या ईश्वरा एवेति वाच्यमिष्टापतेः । चैतन्यमेव हि सर्वत्रापीश्वर इति साक्षीति कूटस्थ इति आत्मेति चोच्यते । अत एव हि सर्वात्मत्वमीश्वरस्य । प्रतिमीयत इति । सदृशीक्रियत इत्यर्थः । प्रतिमा उपमेत्यर्थः । उपमानमिति यावत् । एवमप्रतिमप्रभावत्वा देवेश्वरस्य निरतिशयत्वं सर्वातिशयत्वं च ॥ ४३ ॥ तस्मादिति । यस्मादेवं सर्वोत्कृष्टस्त्वं तस्मादित्यर्थः । तस्मात्प्रणम्यः कार्य प्रणिधाय ईश- ( १९८ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु प्रसादये प्रसादं कारये यथा क्षमते सर्व सखे हे देव ! सोढुं प्रसहितुं त्वामहमीशमीशितारं ईड्यं स्तुत्यम् | त्वं पुनः पुत्रस्यापराधं पिता सख्युरपराधं यथा वा प्रियः प्रियायाः अपराधं क्षमत एवमर्हसि क्षन्तुमित्यर्थः ॥ ४४ ॥ अदृष्टपूर्व हृषितोऽस्मि दृष्ट्रा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव! रूपं प्रसीद देवेश ! जगन्निवास ! ||४५ || अदृष्टेति । अदृष्टपूर्व न कदाचिदपि दृष्टपूर्वमिदं विश्वरूपं तव मयाऽन्यैर्वा तदहं दृष्ट्वा हृषितोस्मि । भयेन च प्रव्यथितं मनो मे । अतः तदेव मे दर्शय हे देव ! रूपं यन्म- त्सखम् । प्रसीद देवेश ! जगन्निवास ! जगतो निवासः जगन्निवासः हे जगन्निवास ! ॥ ४५ ॥ किंच- किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रवाहो ! भव विश्वमूर्ते ! ॥४६॥ किरीटिनमिति । किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्रहस्तमिच्छामि त्वां प्रार्थये त्वां द्रष्टुमहं तथैव पूर्ववदित्यर्थः । यत् एवं तस्मात्तेनैव रूपेण वसुदेवपुत्ररूपेण चतुर्भुजेन सहस्रबाहो ! वार्तमानिकेन विश्वरूपेण, भव विश्वमूर्ते ! उपसंहृत्य विश्वरूपं, तेनैव रूपेण वसुदेवपुत्ररूपेण भवेत्यर्थः ॥ ४६ ॥ मीड्यं त्वामहं प्रसादये । हे देव ! पुत्रस्यापराधं पितेव सख्युरपराधं सखेव प्रियाया अपराधं प्रत्र इव ममापराधं सोढुमर्हसि । प्रियाया अर्हसीति पठितव्ये प्रियायाईसीत्यकारलोपपाठ आर्षः । त्वां प्रसादये त्वत्प्रसादं प्रार्थयामीत्यर्थः । प्रसादः प्रसन्नता । पितेत्यादिदृष्टान्तत्रयं साभिप्रायम् ।

अयमभिप्रायश्च – जगतस्त्रष्टृत्वात्पालकत्वाच्चेश्वरस्य पितृत्व, कार्यत्वात्पाल्यत्वाच्यार्जुनस्य पुत्रत्वम् । तथा करण प्रेरकत्वादिना ईश्वरस्य सर्वभूतसखत्वात्सखित्वमर्जुनस्य च लत्मीति कारित्वात्सखित्वम् । निरतिशय प्रेमास्पदत्वादानन्दमयेश्वरस्य प्रियत्वं तत्परतन्त्रत्वादर्जुनस्य प्रियात्वमिति । एवं च पितृत्वा- त्सखित्वात्प्रियत्वाच्च त्वं ममापराधं क्षन्तुमर्हसीति । अत्र प्रियस्त्वं प्रियाय मे इति रामानुजव्याख्या न युक्ता सा - पितेव पुत्रस्येति दृष्टान्तानु- रोघेन प्रियस्य ममेति वक्तव्यत्वात् । नच मे प्रियाय मम प्रीत्यर्थमित्यर्थ इति वाच्यं, तथापि दृष्टान्ता- ननुरोधात् । नच दृष्टान्तेऽपि पुत्रस्य प्रियाय पितेवेति वाच्यं पुत्रस्य प्रियाय पुत्रस्यापराधं पितेवेति पुत्रशब्दस्यावृत्तिप्रसङ्गात् । स्वप्रीत्यर्थमेव पिता पुत्रापराधं सहते, नतु पुत्रप्रीत्यर्थमिति सिद्धान्तात् । ‘आत्मनस्तु कामाय सर्वे प्रियं भवतीति श्रुतेः ॥४४॥ अदृष्टेति । हृषितो हृष्टः ॥ ४५ ॥ किरीटिनमिति । अहं तथैव किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुमिच्छामि । हे सहस्रबाहो ! 1एकादशोऽध्यायः । १९९ अर्जुनं भीतमुपलभ्य, उपसंहृत्य विश्वरूपं, प्रियवचनेनाश्वासयन् श्रीभगवानुवाच- श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥४७॥ मयेति । मया प्रसन्नेन प्रसादो नाम त्वय्यनुग्रहबुद्धि:, तद्वता प्रसन्नेन मया तव हे अर्जुन ! इदं परं रूपं विश्वरूपं दर्शितमात्मयोगादात्मन ऐश्वर्यस्य सामर्थ्यात् । तेजोमयं तेजःप्रायं विश्वं समस्तमनन्तमन्तर हितमादौ भवमाद्यं यद्रूपं मे मम त्वदन्येन त्वत्तोऽन्येन केनचिन्न दृष्टपूर्वम् ||४७॥ आत्मनो मम रूपदर्शनेन कृतार्थ एव त्वं संवृत्त इति, तत् स्तौति- वेदाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुयैः । एवं रूपशक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ! ॥ ४८ ॥ नेति । न वेदयज्ञाध्ययनैश्चतुर्णामपि वेदानामध्ययनैर्यथावद्यज्ञाध्ययनैश्च - वेदा- ध्ययनैरेव यज्ञाध्ययनस्य सिद्धत्वात् पृथग्यज्ञाध्ययनग्रहणं यज्ञविज्ञानोपलक्षणार्थम् । तथा न दानैः तुलापुरुषादिभिः, नच क्रियाभिरग्निहोत्रादिभिरश्रौतादिभिः, नापि तपोभिस्यै- चान्द्रायणादिभिर्घोरैः । एवंरूप एवंप्रकारेण दर्शितं विश्वरूपं यस्य सोऽहमेवरूपः न शक्योsहं नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन त्वत्तोऽन्येन कुरुप्रवीर ! ॥ ४८ ॥ मा ते व्यथा मा च विमूढभावो दृष्ट्रा रूपं घोरमीयमेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥ मेति । मा ते व्यथा माभूत्ते भयं मा च विमूढभावः विमूढचित्तता, दृष्ट्रोपलभ्य रूपं घोरमीदृग्यथा दर्शितं ममेदं व्यपेतभीर्विगतभयः प्रीतमनाश्च सन् पुनर्भूयस्त्वं तदेव विश्वमूर्ते ! तेनैव चतुर्भुजेन रूपेणोपलक्षित इति शेषः । भव । यद्यपि वसुदेवपुत्ररूपं द्विभुजमेव, तथापि चतुर्भुजत्वस्य कादाचित्कत्वात्तत्रापि तथोक्तमिति बोध्यम् ॥४६॥ मयेति । हे अर्जुन ! प्रसन्नेन मया आत्मयोगात्तवेदं तेजोमयं विश्वमनन्तमाद्यं परं तदूपं दर्शितम् । मे यद्रूपं त्वदन्येन न दृष्टपूर्वम् । आत्मयोग ईश्वरसामर्थ्य, तस्मात् ॥४७॥ नेति । हे कुरुप्रवीर ! नृलोके एवंरूपोऽहं त्वदन्येन द्रष्टुं वेदयज्ञाध्ययनैर्न शक्यः । दानैन शक्यः, क्रियाभिश्च न शक्यः, उग्रैस्तपोभिर्न शक्यः, मनुष्याणां तपआदिभिर्मद्विश्वरूपसाक्षात्कारो न स्यात्तवैकस्यैव मदनुग्रहाज्जात एवं यतस्ततस्त्वं कृतार्थ एव जात इति भावः । ननु वेदाध्ययनादेव वेदगतयज्ञभागाध्ययनमपि सिद्धमिति किमर्थं पृथग्यज्ञाध्ययनमुक्तमित्याशङ्कय यज्ञविज्ञानोपलक्षणार्थं तदिति परिहरति — वेदाध्ययनैरेवेति । यज्ञानां विशेषेण ज्ञानं विज्ञानं तर योपलक्षणार्थमिति । वेदाध्ययनैर्यज्ञविज्ञानैश्चेत्यर्थः । यज्ञविज्ञानं नाम यथायथा यज्ञाः कर्तव्यास्तथा- तथा तद्विशेषज्ञानम् । नृशब्दग्रहणाद्देवानां ब्रह्मादीनामेवेदं विश्वरूपं द्रष्टुं शक्यमिति ज्ञायते ॥४८॥ २०० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु चतुर्भुजं रूपं शङ्खचक्रगदाधरं तवेष्टं रूपमिदं प्रपश्य ॥४९॥ संजय उवाच - इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनस्सौम्यवपुर्महात्मा ॥५०॥ इतीति । इत्येवमर्जुनं प्रति वासुदेवस्तथाभूतं वचनमुक्त्वा स्वकं वसुदेवगृहे जात रूपं दर्शयामास दर्शितवान् । भूयः पुनः । आश्वासयामास चाश्वासितवांथ भीतमेनम् । भूत्वा पुनस्सौम्यवपुः प्रसन्नदेहो महात्मा ॥५०॥ अर्जुन उवाच — दृष्टेदं मानुषं रूपं तव सौम्यं जनार्दन ! इदानीमस्मि संवृत्तस्सचेताः प्रकृतिं गतः ॥ ५१ ॥ दृष्टेति । दृष्ट्रेदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जनार्दन ! इदानीमधुनाऽस्मि संवृत्तः संजातः । किं सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्चास्मि ॥ ५१ ॥ श्रीभगवानुवाच - सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अध्यस्य रूपस्य नित्यं दर्शनकांक्षिणः ॥ ५२ ॥ सुदुर्दर्शमिति । सुदुर्दर्श सुष्ठु दुःखेन दर्शनमस्येति सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम, देवा अध्यस्य मम रूपस्य नित्यं सर्वदा दर्शनकांक्षिणः दर्शनेप्सवोऽपि न त्वमिव दृष्टवन्तः, न द्रक्ष्यन्ति चेत्यभिप्रायः ॥ ५२ ॥ कस्मात् ? - नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३॥ नेति । नाहं वेदैः ऋग्यजुस्सामाथर्ववेदैश्चतुर्भिरपि न तपसा उग्रेण चान्द्रायणादिना, न दानेन गोभूहिरण्यादिना, न चेज्यया यज्ञेन पूजया वा शक्य एवंविधो यथादर्शितप्रकारो द्रष्टुं दृष्टवानसि मां यथा त्वम् ॥५३॥ मेति । ईदृग्घोरं ममेदं रूपं दृष्ट्रा ते व्यथा मास्तु । विमूढभावश्च मास्तु । त्वं व्यपेतभीः प्रीतमनाश्च सन् तदेवेदं मे रूपं प्रपश्य प्रकर्षेण पश्य ॥ ४९ ॥ इतीति । वासुदेव इति तथाऽर्जुनं प्रत्युक्त्वा भूयः स्वकं रूपं दर्शयामास । महात्मा पुन- सौम्यवपुर्भूत्वा भीमेनमाश्वासयामास च । महात्मा वासुदेव इति वा ॥५०॥ दृष्टेति । हे जनार्दन ! इदानीं तब सौम्यं मानुषमिदं रूपं दृष्ट्वा सचेताः प्रकृतिं गतः संवृत्तोऽस्मि ॥५१॥ सुदुर्दर्शमिति । त्वं यन्मम रूपं तदिदं रूपं नृणामिति शेषः । सुदुर्दर्शम्। यतो देवा अपि नित्यमस्य रूपस्य दर्शनकांक्षिणः ॥५२॥ नेति । त्वं मां यथा दृष्टवानसि तथा द्रष्टुमेवं विधोऽहं देवैर्न शक्यः । तथा एवंविधोऽहं वेदै- र्द्रष्टुं न शक्य इति वा । तपसा न शक्यः, दानेन न शक्यः, इज्यया च न शक्यः ॥५३॥ २६ एकादशोऽध्यायः । २०१ कथं पुनश्शक्य इत्युच्यते- भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ! ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ! ॥ ५४ ॥ भक्त्येति । भक्त्या तु किंविशिष्टयेत्याह- अनन्ययाऽपृथग्भूतया, भगवतोऽन्यत्र पृथक् न कदाचिदपि या भवति सा त्वनन्या भक्तिः । सर्वैरपि करणैर्वासुदेवादन्यनोपलभ्यते यया सा अनन्या भक्तिः, तयाऽनन्यया भक्त्या शक्योऽहमेवंविधो विश्वरूपप्रकारः हे अर्जुन! ज्ञातुं शास्त्रतः । न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षात्कर्तुं तत्त्वेन तच्चतः प्रवेष्टुं च मोक्षं च गन्तुं परन्तप ! ॥५४॥ अधुना सर्वस्य गीताशास्त्रस्य सारभूतोऽय निःश्रेयसार्थोऽनुष्ठेयत्वेन समुच्चित्योच्यते– मत्कर्मकृन्मत्परमो मद्भक्तस्सङ्गवर्जितः । निर्वैरस्सर्वभूतेषु यस्समामेति पाण्डव। ॥५५॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीता - सूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूप- सन्दर्शनयोगो नामैकादशोऽध्यायः । मत्कर्मकृदिति । मत्कर्मकृद मदर्थ कर्म मत्कर्म, तत् करोतीति मत्कर्मकृत् । मत्परमः करोति भृत्यः स्वामिनः कर्म, न त्वात्मनः परमा प्रेत्य गन्तव्या गतिरिति स्वामिनं प्रति- पद्यते; अयं तु मत्कर्मकृत् मामेव परमां गतिं प्रतिपद्यत इति मत्परमोऽहंपरमः, परमा गतिर्यस्य सोऽयं मत्परमः । तथा मद्भक्तो मामेव सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन च भजत इति मद्भक्तः । सङ्गवर्जितो धनपुत्रमित्रकलतबन्धुवर्गेषु सङ्गवर्जितः सङ्गः प्रीतिः स्नेहः भक्त्येति । हे परन्तप ! अर्जुन ! एवंविधोऽहं ज्ञातुं द्रष्टुं तत्त्वेन प्रवेष्टुं च ज्ञातुं तत्त्वेन द्रष्टुं प्रवेष्टुं चेति वा । तत्त्वेन ज्ञातुं द्रष्टुं प्रवेष्टुं चेति वा । अनन्यया भगवदेकपरयेत्यर्थः । भगव - द्भक्तानां भगवदनुग्रहाद्भगवद्विश्वरूपपरिज्ञानदर्शने मोक्षश्चेत्येते भवन्ति । नतु वैदिकास्तपस्विनो दातार- स्सोमयाजिनो वा मद्रूपज्ञानादौ प्रभवन्तीति परमार्थः । तत्त्वेनेति । यथावदित्यर्थः । ननु केमी भक्ताः कीदृशममीभिर्दृश्यं विश्वरूपमिति चेत्, उच्यते — ईश्वरं परोक्षत्वेन ये प्रपद्यन्ते, आत्मत्वेन प्रपद्यन्ते ये ते च द्विविधा अपि भक्ता इहोच्यन्ते । तत्त्रात्मतत्त्वविदो मायिक- मिदं विश्वरूपमिति विलासार्थं तत्पश्यन्ति । परोक्षेश्वरज्ञास्तु विश्वरूपमत्यद्भुतं भगवत इति साभि- लाषमत्यादरेण पश्यन्तीति विवेकः ॥५४॥ मत्कर्मेति । निश्श्रेयसार्थो मोक्षफलकः । समुच्चित्य निश्चित्य । मत्कर्मकृदीश्वरप्रीत्यर्थं नित्यनैमित्तिका दिविहितकर्मकारी । आसन्न्यासं कर्मणामत्यक्तव्यत्वादिति भावः । ननु भृत्योऽपि खाम्यर्थं कर्म युद्धादिकं करोति, न त्वात्मार्थमत आह– मत्परम इति । या प्रेत्य २०२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तद्वर्जितः । निर्वैरो निर्गतवैरः सर्वभूतेषु शत्रुभावरहितः, आत्मनोऽत्यन्तापकारप्रवृत्तेष्वपि । य ईदृशः स मद्भक्तो मामेति । अहमेव तस्य परा गतिः, नान्या गतिः काचिद्भवति । अयं तवोपदेश इष्टो मयोपदिष्टः हे पाण्डवेति ॥५५॥ इति श्रीपरमहंसपरिव्राजकाचार्यस्य श्रीमद्गोविन्दभगवत्पूज्यपाद शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये एकादशोऽध्यायः । गन्तव्या सा परमा गतिः । भृत्यस्तु प्रेत्य न खामिनं प्रतिपद्यत इति भृत्यस्य न खामी परमा गतिः । भक्तस्तु प्रेत्य भगवन्तमेतीति भगवान् भक्तस्य परमा गतिः । एवं यतोऽहं भक्तस्य परमा गतिरतो भक्तो मत्परम इत्युच्यते । अनेन च श्लोकेन त्वमपि मद्भक्त्यादिविशिष्टस्सम्मदर्थे युद्धाख्यं नित्यं कर्म कुरु । मत्परमो भविष्यसि, मामेवैष्यसि ज्ञानोत्पत्तिद्वारा मोक्ष्यस इति यावत् । इत्युपदेशोऽर्जुनस्य सूच्यते ॥ ५५ ॥ इति श्रीलङ्कोण्डोपनामक रामकविकृतौ श्रीमद्भगवद्गीताशाङ्करभाष्यार्कप्रकाशे विश्वरूपसन्दर्शनयोगो नाम एकादशोऽध्यायः । श्रीहयग्रीवार्पणमस्तु ।