१०

श्रीहयग्रीवाय नमः । भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतासु दशमोऽध्यायः । सप्तमेऽध्याये भगवतस्तचं विभूतयश्च प्रकाशिता नवमेव च । अथेदानीं येषु येषु भावेषु चिन्त्यो भगवान् ते ते भावा वक्तव्याः, तत्त्वं च भागवतो वक्तव्यमुक्तमपि दुर्वि - ज्ञेयत्वादित्यतः श्रीभगवानुवाच - श्रीभगवानुवाच - भूय एव महाबाहो ! शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥ भूय इति । भूय एव भूयः पुनः हे महाबाहो ! शृणु मे मदीयं परमं प्रकृष्टं निरति- शयवस्तुनः प्रकाशकं वचः वाक्यं यत्परमं ते तुभ्यं प्रीयमाणाय मद्वचनात् प्रीयसे त्वमती- वामृतमिव पिवन्, ततो वक्ष्यामि हितकाम्यया हितेच्छया ॥१॥ किमर्थमहं वक्ष्यामीत्यत आह- न मे विदुरसुरगणाः प्रभवं न महर्षयः । अहमादिहिं देवानां महर्षीणां च सर्वशः ॥२॥ नेति । न मे विदुराजानन्ति सुरगणा ब्रह्मादयः किं ते न विदुर्मम प्रभवं प्रभावं प्रभुशक्त्यतिशयं, अथ वा प्रभवं प्रभवनमुत्पत्तिम् । नापि महर्षयो भृग्वादयो विदुः । वृत्तं कीर्तयति - सप्तम इति । सप्तमेऽष्टमे नवमे चाध्याये भगवतस्तत्त्वं प्रकाशित, विभूतयश्च प्रकाशिताः । भावाः पदार्थाः । ननु तत्त्वस्योक्तत्वात्कुतः पुनर्वचनमत आह— उक्तमप्रीति । दुःखेन विज्ञातुं शक्यं दुर्विज्ञेयं ज्ञातुमशक्यमित्यर्थः । महान्तौ दीर्घाव जानुलम्बिनौ बाहू यस्य तत्सम्बुद्धिर्महा- बाहो ! अनेन भगवदंशसम्भूतत्वात्त्वं भगवद्वे। क्यश्रवणार्ह इति सूच्यते । वचसः परमत्वं कथमत आह– निरतिशयवस्तुनः प्रकाशकमिति । निरतिशयं वस्तु ब्रह्म तस्य परमत्वात्तत्प्रकाशक वाक्य- स्यापि परमत्वमिति भावः । प्रतिपाद्यमहिम्नैव वाक्यस्य गौरवादिति तत्त्वम् । प्रीयसे प्रीतिं गच्छसि – प्रीयमाणाय प्रीतिं गच्छते । यथा सुधां पिबन् पुरुषः प्रीयते तथा मद्वचः शृण्वन् त्वं प्रीयसे । तत एवं प्रीयमाणत्वात्तव; हितं संसारनिवर्तनात्मकं; तवेति शेषः । तवैव हिताय मया वक्ष्यते नतु मदर्थ– मम पूर्ण कामत्वादिति भावः ॥ १ ॥ नेति । नन्विन्द्रादयो देवाः कश्यपादयो ऋषयो वा मह्यं प्रपन्नाय तत्त्वं ब्रूयुरेवेत्याक्षिपति- किमर्थमहमिति । मे प्रभवं सुरगणा न विदुर्महर्षयश्च न विदुः । अतो न ते तुभ्यं तत्त्वं वक्तुं १४४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कस्मात्ते न विदुरित्युच्यते - अहमादिः कारणं हि यस्माद्देवानां महर्षीणां च सर्वशः सर्वप्रकारैः ॥२॥ शवनुयुः । ततश्चाहमेव ते वक्ष्यामि । एतेनेश्वरस्यैकस्यैव सर्वज्ञत्वमन्येषां सर्वेषां किञ्चिद्ज्ञत्वमेवेति सिद्धम् । नन्वहं सर्वज्ञत्वात्सर्वं वक्ष्यामीति येन प्रतिज्ञातं स किमात्मा ? उत प्रमाता ? नाद्यः - अवि- क्रियस्यात्मनो वक्तृत्वादिविकारायोगात् । नान्त्यः प्रमातुर्जीवत्वेनाऽसर्वज्ञत्वा दिति चेत्, मैवम्- यथा जीवस्य वास्तवमाध्यासिकं चेति रूपद्वयमस्ति, तथा ईश्वरस्याप्यस्ति । तत्र जीवेश्वरयोर्वास्तवं रूपं चैतन्यलक्षण आत्मैव । तदेकरूपमेव । आध्यासिकं रूपं तु प्रमातृत्वं, तज्जीवेश्वरयोर्भिन्नमेव । । । जीवानां च परस्परं भिन्नमेव । तथासति यथा जीवो व्यवहारतः प्रमाता तथा ईश्वरोऽपि प्रमातैव । यथा जीवेषु परस्परं ज्ञानतारतम्यमस्ति तथा जीवेश्वरयोरस्त्येव । तत्र प्रमाता जीवः किञ्चिद्ज्ञ :- तदुपा- ध्यज्ञानस्य परिच्छिन्नत्वात् । प्रमाता ईश्वरस्तु सर्वज्ञः- तदुपाध्यज्ञानस्यापरिच्छिन्नत्वात् । बुद्धिर्जी- वोपाधिर्माया त्वीश्वरोपाधिरिति प्रागेवोक्तम् । बुद्धेः परिच्छिन्नत्वं मायाया अपरिच्छिन्नत्वं च शास्त्रादिसिद्धम् । एवंसति यः कृष्णशरीरावच्छिन्नः प्रमाता स मायोधिक ईश्वर इति सिद्धम् । तस्य सर्वज्ञत्वमिन्द्रादिशरीरावच्छिन्नाः प्रमातारस्तु बुद्धयुपाधिका जीवा इति सिद्धं तेषां किञ्चिदज्ञत्वम् । एवं जीवेश्वरयोः प्रमातृत्वांशे किञ्चिदज्ञत्वसर्वज्ञत्वरूप भेदसद्भावेनैक्यायोगादेव तत्त्वमसीत्यादौ लक्षणा चैतन्यमात्रविषया स्वीकृता । नच श्रीकृष्णशरीरे मायावच्छिन्न चैतन्यमस्ति अस्मदादिशरीरेष्व विद्याव- च्छिन्नचैतन्यमस्तीत्यत्र किं नियामकमिति वाच्यं सर्वज्ञत्वकिञ्चिद्ज्ञत्वादेरेव नियामकत्वात् । यावद्यवहारं प्रमात्रोजीवेश्वरयोः प्रमातृणां जीवानां वा नैक्यमिति कृष्ण ईश्वर एव, इन्द्रादयस्तु जीवा एवेति स्थितम् । परमार्थतस्तु सर्वः प्रमातृवर्गो जीवगण एव । आत्मैक एवेश्वर इति बोध्यम् । एवं प्रमातुरपीश्वरस्य सर्वज्ञत्व सिद्धेरुचितैव प्रतिज्ञा तस्य । ततश्व आदिरिति । यथा पुत्रस्य प्रभवं पिता वेत्ति, पितुः प्रभवं तु न पुत्रः तद्वत्सर्वकारणत्वा- त्सर्वमीश्वरो वेत्ति, तं तु न सर्व- सर्वस्य तत्कार्यत्वादिति भावः । ईश्वरस्य सर्वादित्वं च ‘यतो वा इमानि भूतानि जायन्त’ इति श्रुति सिद्धम् । ननु यदीश्वराज्जीवा जायेरन् तर्हि जीवादित्वमीश्वरस्य स्यात्तदेव नास्ति जीवानामजत्वे- नानादित्वात् । उक्तं हि पूर्वमेव - ‘अजो नित्यशाश्वतोऽयं पुराण:’, ‘अजो ह्येको जुषमाणोऽनुशेते’ इति श्रुते । भृतोत्पत्तिश्रुतिस्तु भूतशब्दस्य देहाद्यर्थपरत्ववर्णनेन नेयेति चेत्, सत्यम् — इन्द्रादयो हि जीवा देहादिसङ्घातमेवात्मत्वेनाभिमन्यमाना देवोऽहं मनुष्योऽहं ब्राह्मणोऽहमित्येवं प्रतियन्ति, देहे. जाते सत्यात्मानं जातं देहे नष्टे सत्यात्मानं नष्टं च मन्यन्त इति तद्दृष्ट्यो त ‘महमादिहिं देवाना’ मिति ।

देहेन्द्रियादिसङ्घातस्य कार्यत्वेन तत्तादात्म्याध्यासादिन्द्रादिजीवानां कार्यत्वेन सादित्वमीश्वरस्य तु तदभावादनादित्वम् । वस्तुतस्तु जीवोऽपीश्वरवदनादिरेवेति भावः । १९ किंच- दशमोऽध्यायः यो मामजमनादि च वेत्ति लोकमहेश्वरम् । असम्मूढस्स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥ १४५ य इति । यो मामजमनादि च यस्मादहमादिर्देवानां महर्षीणां च न ममान्यो आदिर्विद्यते, अतोऽहमजोऽनादिश्व, अनादित्वमजत्वे हेतु:, तं मामजमनादि च यो वेत्ति विजानाति लोकमहेश्वरं लोकानां महान्तमीश्वरं तुरीय मज्ञानतत्कार्य वर्जितमसम्मूढस्सम्मोह- वर्जितः स मर्त्येषु मनुष्येषु सर्वपापैः सर्वैः पापैर्मतिपूर्वामतिपूर्वकृतैः प्रमुच्यते प्रमोक्ष्यते ॥३॥ इमे च देवत्वमनुष्यत्वादिजातिविशिष्टदेहा ईश्वरादेव जायन्त इति यतो वेति श्रुत्युपपत्तिः, अहमादिर्हि देवानामिति गीतोपपत्तिश्च । किं चायमीश्वरः स्वयं देहरहितस्स नेवाकाशादिभूतोत्पादनद्वारा भौतिकान्युत्पादयति सङ्कल्प- वशादेव । यद्वा भूतानि भौतिकानि च युगपदेवोत्पादयति । अथ वा हिरण्यगर्भमादावुत्पाद्य तद्वारा भूतभौतिकोत्पतिं निर्वर्तयति । यद्वा स्वयमपि मायया कंचिद्देहमधिष्ठाय वर्तमानस्सन्नेव तन्नाभीकमला- ह्माणमुत्पाद्य तेन सर्व जगदुत्पादयतीति वा । एवमादयो बहवस्सृष्टिप्रकाराः श्रुतिसूत्र पुराणादिषु दृश्यन्ते । सर्वधा चेश्वर एव देवादिजगत्कर्तेत्याह – सर्वप्रकारैरिति । एवं देवा महर्षयश्च कार्य- भूतदेवत्व मनुष्यत्वा दिविशिष्टदेहादिसङ्घाता भिमानित्वात्सादय एवेति तेषामहमेवादिर्म कार्यत्वादेहादि - - सङ्घातानाम् ॥२॥ • 10 य इति । ननु देवानां महर्षीणां च त्वमादिर्भवसि तव पुनः क आदिरत आह— य इति । अहमेव सर्वस्य जगत आदिः, न मम कोऽप्यादिः । अन्यथा तस्याप्यन्य आदिरित्यनव स्थादोषापत्तेः । एवमनादित्वादेवाहमजः जन्मरहितः उत्पादकाभावेनोत्पत्त्यभावात् । एवमजत्वेनाकार्यत्वा देवान- न्याधीनस्थितिकोऽहं, कार्य हि कारणाधीनस्थितिकम् । ततस्स्वतन्त्रत्वादहं सर्वलोकमहेश्वरो यस्यान्य ईश्वरो नास्ति स महेश्वरः यथा महाराजः । य एवंभूतं मामसंमोह ईश्वरो मत्तोऽन्य इत्याकारक- मोहरहितस्सन् वेति स्वात्मत्वेन जानाति मत्र्त्येषु मध्ये स एव विद्वान् सर्वपापैः प्रमुच्यते । ज्ञानान्तर- भावित्वात्पापप्रहाणस्याह - प्रमोक्ष्यत इति । पापपदमुपलक्षणं पुण्यानामपि तेषामपि बन्धकत्वेन पापत्वा- स्पापशब्दवाच्यत्वमिति वा । ततश्च संसारान्मोक्ष्यत इत्यर्थः । ’ ’ तद्विद्वान् पुण्यपापे विधूय निरञ्जनः परम साम्यमुपै’ तीति श्रुतेः । न चात्र भिन्नेश्वरज्ञानादेव पुंसां पापक्षयो भविष्यतीति कथमभिन्नश्वरज्ञानमवतारितं त्वयेति वाच्यं, ईश्वरतत्त्वज्ञानादेव पापक्षयः, न त्वीश्वरभ्रान्तिज्ञानादिति सिद्धान्तात् । ईश्वरतत्त्वस्य च जीवाभिन्नत्वेन भिन्नेश्वरज्ञानस्य भ्रान्तिज्ञानत्वेन पापनिवर्तनाक्षमत्वात् । प्रत्युत पापस्यैव वर्धकलात् । • जीव रूपेण वर्तमानस्येश्वरस्य नित्यस्याजस्य जन्ममृत्युप्रमुखविकारसम्पादनस्य दोषावहत्वात् । १४६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु नच कथमीश्वरस्य जीवरूपत्वमिति वाच्यं, ‘तत्सृष्ट्रा तदेवानुप्राविशत् ’ ‘ईश्वरो जीवकलया प्रविष्टो भगवा’ निति, ‘ममैवांशो जीवलोको जीवभूतस्सनातन’ इति ‘भगवानेक एवैष सर्वक्षेत्रे- ष्वव स्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुत’ इति एवमादिश्रुतिस्मृतिपुराणप्रामाण्यात् । नच मायावच्छिन्नस्येश्वरस्य कथं बुद्धयवच्छिन्न जीवत्वमिति वाच्यं, यदेव चैतन्यं मायावच्छिन्नं तदेव बुद्धयवच्छिन्नम् । चैतन्यस्यैकत्वादितीश्वरस्यैव जीवत्वोपपत्तेः । यथा महाकाशस्यैव घटाकाश- त्वोपपत्तिः । एवमीश्वरस्यैव जीवत्वा दिजो नित्यश्शाश्वत’ इतीश्वरधर्माणामजत्वनित्यत्वादीनां जीवे प्रसञ्जनं प्राक्कृतमिहैव ग्रन्थे । न चाजत्वादीनामीश्वरधर्मत्वे विवदितव्यं, ‘यो मामजमनादिं च’ इतीहैवोक्तत्वात् । " न चेश्वरवज्जीवोऽजो नित्यश्चत्येतावन्मात्रेण कथं जीवेश्वरा भेदः ? किञ्चिदज्ञत्वसर्वज्ञत्वादि- बहुवैलक्षण्यसत्त्वादिति वाच्यं किञ्चिद्ज्ञत्वादीनामाध्यासिकधर्मत्वात् । अविक्रिये निर्धर्मके बोधरूपे “आत्मनि किञ्चिदज्ञत्वादिविक्रियाऽयोगाज्जीवस्याप्यवि क्रियात्मत्वस्य प्रागेवोक्तत्वात् । तस्माज्जीवाभि- नेश्वरज्ञानमेव यथार्थज्ञानत्वेन पापनिवर्तनक्षमं पुंसामिति स्थितम् । अत एवोक्तं श्रुत्या – ‘अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु’ रिति, ‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा’ इति भारतेन च । तस्माद्भिन्नेश्वरज्ञानिन आत्मानं यथावन्नैव विदन्ति । प्रत्युतान्यथैव विदन्तीति पापकारिण एव ते नतु निष्पापाः । तथा च पापैः प्रमुच्यत इति लिङ्गाच्च जीवाभिन्नश्वरज्ञानमेवेह विवक्षित- मिति ज्ञायते । ननु इन्द्रादयो जीवास्सादय इति पूर्वश्लोकेनोक्त्वा इहाहमेवानादिरितीश्वरस्यानादित्वं चोक्त्वा कथं जीवेश्वराभेदः प्रतिपाद्यतेऽनुन्मत्तेन व्यासेनेति चेत्, मैवं वादीः – देहादिसङ्घातदृष्ट्या देवादीनां सादित्वं पूर्वमुक्तं तद्विलक्षणस्यात्मनस्त्वीश्वर | भेद इहोच्यत इत्यदोषात् । देहादिसङ्घात- विलक्षणस्स च्चिदानन्द आत्मैव हीश्वरो नित्योऽजश्च । न ह्यात्मनोऽन्यः कश्विदीश्वरो नामास्ति ।

• यत्तु रामानुजः - चेतनान्तरसजातीयो भगवानित्याकारकमोहरहितम्सन् यो मां चिदचि- द्विलक्षणतया निखिलहेयप्रत्यनीकानन्तकल्याणगुणनिलयं कर्मकृताचित्संसर्ग रूपजन्मरहितत्वेन बद्ध- जीवविलक्षणमादिमदजत्ववतो मुक्तात्मनश्च विलक्षणमजमनादिमीश्वरं जानाति स सर्वपापैः प्रमुच्यत इति, तत्तुच्छम् — चिद्रूपस्येश्वरस्य चिद्विलक्षणत्वायोगात् । ‘केवलो निर्गुण’श्चेति श्रुत्युक्तनिर्गुणस्य गुण- निलयत्वायोगात् । जायमानदेहसंसर्गस्यैव जन्मरूपत्वेन कर्मकृताचित्संसर्गो जन्मेति वक्तुमयुक्तत्वात्तस्य च गौरवत्वात् । ईश्वरस्याप्येतादृशजन्मसद्भावेना जत्वाभावात् । बद्धजीव वैलक्षण्या सिद्धेः । आदि- : मत्त्वाजत्वयोर्विरुद्धधर्म योरेकत्र सामानाधिकरण्यायोगेन मुक्तात्मनानादिमदजत्वसिद्धेः । यज्जायते तव - ड्यादिमत्, यथा घटः । यत्तु न जायते कथं तस्यादिमत्त्वम् । किंच मुक्त स्येश्वरसायुज्यमापन्नस्य कथमीश्वराद्भेदः ? येन मुक्तवैलक्षण्यमीश्वरस्य स्यात् । न चेश्वरसायुज्ये विवदितव्यं - ‘ब्रह्मविद्ब्रह्मैव इतश्चाहं महेश्वरो लोकानाम्- दशमोऽध्यायः । बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमश्शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥ . १४७ बुद्धिरिति । बुद्धिरन्तःकरणस्य सूक्ष्माद्यर्थावबोधनसामर्थ्य, तद्वन्तं बुद्धिमानिति हि वदन्ति । ज्ञानमात्मादिपदार्थानामवबोधः । असम्मोह :- प्रत्युत्पन्नेषु बोद्धव्येषु विवेकपूर्विका प्रवृत्तिः । क्षमा आकृष्टस्य ताडितस्य वा अविकृतचित्तता । सत्यं यथादृष्टस्य यथाश्रुतस्य च आत्मानुभवस्य परबुद्धिसंक्रान्तये तथैवोच्चार्यमाणा वाक् सत्यमित्युच्यते । दम:- बाह्येन्द्रि- योपशमः । शमः - अन्तःकरणस्योपशमः । सुखमाह्लादः । दुःखं सन्तापः । भवं उद्भवः । अभावस्तद्विपर्ययः, भयं च वासः, अभयमेव च तद्विपरीतम् ॥४॥ अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥५॥ अहिंसेति । अहिंसा अपीडा प्राणिनाम् । समता समचित्तता । तुष्टिः सन्तोषः पर्याप्तबुद्धिर्लाभेषु । तप इन्द्रियसंयमपूर्वकं शरीरपीडनम् । दानं यथाशक्ति संविभागः । भवतीति श्रुतेः । अपि च ‘साक्षी चेता’ इति श्रुत्युक्तस्य चेतनस्यैकस्येश्वरस्य कथं चेतनान्तर- विसजातीयत्वम् । नहि चेतनान्तरमस्ति येन तद्विसजातीयत्वं स्यादीश्वरस्य । ‘नान्योऽतोऽस्ति द्रष्टा’ इति श्रुत्या हि चेतनान्तरं निषिध्यते इति । उक्तमपीदं पुनः पुनरुच्यते मन्दमत्यनुग्रहार्थम् ॥३॥ बुद्धिरिति, इतश्चेति । मम सर्वादित्वेन अनादित्वेन, सुरगणमहर्ष्याद्यविदितप्रभावत्वेन च केवलं न महेश्वरत्वं, किंतु हेत्वन्तरादपीत्यर्थः । बुद्धिर्नान्तःकरणं तस्य द्रव्यत्वेन ज्ञानादिगुणसह- पाठायोगादित्यभिप्रेत्याह - अन्तःकरणस्येति । बुद्धिशब्दस्य तत्र प्रयोगे लोकप्रसिद्धिं दर्शयति- तद्वन्तमिति । तच्छब्दस्यान्तःकरणस्य सूक्ष्म | द्यर्थावबोधनसामर्थ्यमर्थः । बुद्धिमानिति । अन्यथा सर्वस्याप्यन्तःकरणवत्त्वाविवेषादेकस्मिन् पुरुषे बुद्धिमत्त्वप्रसिद्धिर्न सङ्गच्छेतेति भावः । वदन्ति लोका इति शेषः । बोद्धुं शक्येषु बोद्धव्येषु बोद्धुं योग्येष्विति वा विज्ञेयेष्वित्यर्थः । प्रत्युत्पन्नेषूत्पन्ने- घृत्पन्नेषु सर्वेषु कार्येष्वित्यर्थः । प्रतेर्वीप्सार्थकत्वात् । ‘सप्तम्या बहुलमम्भाव’ इति बहुलग्रहणान्नाम्भावः । देहेन्द्रियादिसर्व पदार्थेष्विति यावत् । विवेकपूर्विका आत्मानात्मविवेकपूर्विकेत्यर्थः । उत्पन्नानीमानि सर्वाण्यपि कार्याणि देहादीन्यनात्मान एवेत्याकारको विवेकः । स पूर्वः प्रथमो यस्यास्सा विवेक- पूर्विका विवेकपुरस्सरेत्यर्थः । मतिप्रवृत्तिः बुद्धिप्रवृतिः । असम्मोह इत्युच्यते । अनात्मस्वात्मेति मोहाभाव इति यावत् । आत्मानुभवस्य स्वानुभवसिद्धार्थस्येत्यर्थः । बाह्येन्द्रियाणि चक्षुरादीनि । अन्तःकरणमन्तरिन्द्रियं मनः । उपशमो निर्व्यापारता । तद्विपर्यय उत्पत्तिविपर्ययो नाश इति यावत् । तदभावो भयाभावः ॥ ४ ॥ अहिंसेति । सन्तोषमेव विवृणोति - पर्याप्तेति । लभ्यन्त इति लाभास्तेषु पर्याप्तबुद्धि- १४८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यशो धर्मनिमित्ता कीर्तिः । अयशस्त्वधर्मनिमित्ताऽकीर्तिः । भवन्ति भावा यथोक्ता बुद्धया दयो भूतानां प्राणिनां मत्त एवेश्वरात् पृथग्विधा नानाविधाः स्वकर्मानुरूपेण ॥५॥ किं च- महर्षयस्प्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥६॥ महर्षय इति । महर्षयस्तप्त भृग्वादयः पूर्वेऽतीतकालसम्बन्धिनः, चत्वारो मनवः तथा सावर्णा इति प्रसिद्धाः, ते च मद्भावा मद्गतभावना वैष्णवेन सामर्थ्येनोपेताः, मानसा मनसै- वोत्पादिता मया जाता उत्पन्नाः येषां मनूनां महर्षीणां च सृष्टिलोंके इमाः स्थावरजङ्गम- लक्षणाः प्रजाः ॥६॥ एतां विभूर्ति योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ||७|| एतामिति । एतां यथोक्तां विभूतिं विस्तारं योगं च युक्तिं चात्मनो घटनं, अथ वा योगैश्वर्यसामर्थ्यं सर्वज्ञत्वं योगजं योग उच्यते, मम मदीयं योगं यो वेत्ति तत्त्वतः तत्त्वेन यथावदित्येतत् । सोऽविकम्पेनाप्रचलितेन योगेन सम्यग्दर्शनस्थैर्यलक्षणेन युज्यते सम्बध्यते । नात्र संशयो नाऽस्मिन्नर्थे संशयोऽस्ति ||७|| रम्बुद्धिः । तृप्तिरिति यावत् । संयमो नियमनम् । शरीरपीडनमुपवास दिनेति भावः । शक्तिमनति- क्रम्य यथाशक्तिः । संविभागो धनधान्यादेरर्थिभ्यो विभजनम् । अधर्मो निमित्तं यस्यास्साऽधर्मनिमित्ता अकीर्तिर्दुष्कीर्तिः। भूतानां पृथग्विधा भावा मत्त एव भवन्ति । नन्वेकस्य क्षमादिसद्गुणसर्जनादन्य- स्याकीर्त्यादिदुर्गुणसर्जनाच्चेश्वरस्य वैषम्यदोषप्रसक्तिरत आह - स्वकर्मानुरूपेणेति । स्वेषां भूतान यानि कर्माणि पुण्यपापादिलक्षणान्यदृष्टानि तदनुरूपेण ॥५॥

महर्षय इति । एवं लोकमहेश्वरत्वे हेत्वन्तरमुक्त्वा खप्रभावमेव दर्शयति पुनरित्याह- किंचेति । मद्भावाः पूर्वे सप्त महर्षयः । तथा चत्वारो मनवो मानसास्सन्तो जाताः । मद्भावा मान- साश्व सन्तो जाता इति वा । यद्यपि मनवश्चतुर्दश, तथापि तत्रैकस्मिन् मन्वन्तरे चतुर्णामेव प्रजा- सृष्टिहेतुत्वादुक्तं चत्वार इति । ब्रह्मसावर्णो रुद्रसावर्णो घर्मसावर्णो दक्षसावर्ण इति तेषां नामानि । मयि भावना येषां ते मद्भावा:- मच्चित्ता इत्यर्थः । मम विष्णोर्भावस्सामर्थ्यं येषां त इति वा मद्भावाः । लोके जंगति इमा दृश्यमानाः प्रजा भूतानि ॥६॥

एतामिति । विस्तरं जगद्रूपमिति भावः । आत्मनो मम घटनं सङ्घटनं पितृपितामहादिरूपेण प्रजानां जगति कल्पनमिति यावत । किं तत्सामर्थ्यमत आह— सर्वज्ञत्वमिति । ननु योगसामर्थ्यं कथं योगशब्दप्रवृत्तिरत आह- योगजमिति । उच्यते लक्षणयेति शेषः । कोऽसौ योगोऽत आह- सम्यगिति । सम्यग्दर्शनमहं ब्रह्नेति ज्ञानं तस्य स्थैर्ये दृढता तदेव लक्षणं स्वरूपं यस्य तेन तथोक्तेन । अत्रत्याकार कहढज्ञानमेव योग:, तेन युज्यते युक्तो भवति ।१४९ कीदृशेनाविकम्पेन योगेन युज्यत इत्युच्यते- अहं सर्वस्य प्रभवो मत्तस्सर्व प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥८॥ अहमिति । अहं परं ब्रह्म वासुदेवाख्यं सर्वस्य जगतः प्रभव उत्पत्तिः । मत्त एव स्थितिनाशक्रियाफलोपभोगलक्षणं विक्रियारूपं सर्व जगत् प्रवर्तते, ‘इत्येव मत्वा भजन्ते सेवन्ते मां बुधा अवगतपरमार्थतत्त्वाः, भावसमन्विता भावो भावना परमार्थतत्त्वाभिनिवेशः तेन समन्विताः संयुक्ता इत्यर्थः ॥ ८ ॥ " ननु ईश्वरविभूत्यादिज्ञानाद्विदुषः कथमहं ब्रह्मेतिज्ञानमिति चेदुच्यते— परब्रह्मण ईश्वरस्यैव स्वात्मत्वादिति । अस्मिन्नर्थे ईश्वरतत्त्वज्ञानाद्ब्रह्माहमिति सम्यग्दर्शनस्थैर्यं भवतीत्युक्तार्थे संशयो नास्ति - ईश्वरेण मयैव साक्षादुक्तत्वादिति भावः । यत्तु रामानुजः - विभूतिमैश्वर्य, योग कल्याणगुणगणं, योगेन भक्तियोगेनेति, तन्मन्दम्- ईश्वरे तदैश्वर्याद्यनभिज्ञस्यापि भक्तियोगदर्शनात् । तदभिज्ञस्य तस्मिन् भक्तियोगोत्पत्तेर्लोकल एव सिद्धत्वेन वचनस्य व्यर्थत्वाच्च । राजगतैश्वर्यादिगुणाभिज्ञा हि राजानं भजन्ते । योगशब्दस्य कल्याण- गुणार्थप्रतिपादनमपि लोकशास्त्रविरुद्धम् ॥७॥ विदुषां सम्यग्दर्शनमेव दर्शयतीत्याह - कीदृशेनेति, अहमिति । अस्मच्छब्दोऽत्र लक्षणया चिन्मात्रपर इत्याह- परं ब्रह्मेति । वासुदेवशब्दो वसन्ति जगन्त्यस्मिन्निति व्युत्पत्त्या परमात्मपरः । वसति जगतीति व्युत्पत्त्या प्रत्यगात्मपरश्च । तथा च प्रत्यगभिन्नः परमात्मा वासुदेव इति वासु- देवाख्यः । प्रभव उपादानमुत्पत्तिहेतुरिति यावत् । मत्त एवेति वासुदेवाख्यात्परब्रह्मण एवेत्यर्थः । जगतः स्थितिनाशादयोऽपि मत्त एव भवन्तीत्यर्थः । मामात्मानम् । " अयमाशयः - ईश्वराज्जगज्जन्मस्थितिलया भवन्तीति श्रूयते स चेश्वरः सर्वेषु क्षेत्रेषु प्रत्य- ग्रूपेण वर्तत इति च श्रूयते, ततश्चाहमेवेश्वरः, मत्त एव सर्व जगज्जायते वर्धते लीयते च, एवमीश्वर- मात्मत्वेन मत्वा बुधास्स्वात्मानमेवेश्वरं भजन्त इति । यद्वा परब्रह्मणस्सकाशाज्जगज्जन्मादयो भवन्तीति ज्ञात्वा तमेव परमात्मानं स्वात्मभूतं बुधा भजन्त इति । परमार्थतत्त्वाभिनिवेश इति । परमार्थतत्त्वं ब्रह्म तस्मिन्नभिनिवेशोऽहमिति निश्चयः । अहं ब्रह्मेति दृढज्ञानमिति यावत् । यत्तु रामानुजः – ईश्वरः श्रीकृष्णो जगत्सृष्ट्यादिहेतुरिति ज्ञात्वा श्रीकृष्णाख्यं ब्रह्म बुधा भक्तियुक्ता भजन्त इति, तन्मन्दम् - श्रीकृष्णावतारात्पूर्वोत्तरकालस्थानां कृष्णावतारेऽपि दूरस्थानां श्रीकृष्णभजनाऽसम्भवात् सन्निहितानामपि विदुषां श्रीकृष्णदेहे ईश्वरबुद्धययोगात्, आत्मनश्च सर्वव्यापित्वादिति ॥८॥ , १५० किंच– श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योंपेतासु मच्चित्ता मगतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥ मच्चित्ता इति । मच्चित्ता मयि चित्तं येषां ते मच्चित्ताः मद्गतप्राणा मां गताः प्राप्ताः चक्षुरादयः प्राणा येषां ते मद्गतप्राणाः मयि उपसंहृतकरणा इत्यर्थः । अथ वा मद्गतप्राणा मद्गतजीवना इत्येतत् । बोधयन्तोऽवगमयन्तः परस्परमन्योन्यं, कथयन्तश्च ज्ञानबलवीर्यादि- धर्मैर्विशिष्टं मां, तुष्यन्ति च परितोषमुपयान्ति च रमन्ति च रतिं च प्राप्नुवन्ति प्रियसङ्गत्येव ॥९॥ ये यथोक्तैः प्रकारैर्भजन्ते मां भक्ताः सन्तः - तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥ तेषामिति । तेषां सततयुक्तानां नित्याभियुक्तानां निवृत्तसर्वबाद्यैषणानां भजतां सेवमानानाम् । किमर्थित्वादिना कारणेन ? नेत्याह- प्रीतिपूर्वकं प्रीतिः स्नेहः तत्पूर्वकं मां मच्चित्ता इति । देहगतानां प्राणानां चित्प्रतिबिम्बग्रहणासमर्थानामात्मगतत्वासम्भवादाह- चक्षुरादय इति । प्राणिति चेष्टते देह एभिरिति प्राणा इति व्युत्पत्त्या प्राणशब्दश्चक्षुरादिकरणपर इति भावः । चक्षुरादिविषयव्यापाराविषयत्वादात्मनः कथं तेषामात्मगतत्वमत माह - मय्युपसंहृतेति । आत्मनि चक्षुरादीनामुपसंहारो नाम निर्व्यापारत्वमेवेति बोध्यम् । मद्गतजीवना इति । आत्मखरूपा- नन्दानुभवसुधयैव जीवन्त इत्यर्थः । आत्मस्वरूपानुसन्धानं विना क्षणमपि प्राणधारणा मलभमाना इति यावत् । बोधयन्तो ज्ञापयन्तः । किं तदत आह—- तत्त्वमिति । आत्मानमिति यावत् । रमन्ति रमन्ते परस्मैपदमार्षम् । दृष्टान्तमाह – प्रियसङ्गत्येवेति । इष्टवस्तुसङ्गमादविद्वांसो यथा रमन्ते तद्वदिति । यद्वा, प्रियस्य सङ्गत्या कामिन्यो यथा रमन्ते तद्वदिति । अनेन श्लोकेन ब्रह्माभ्यास उक्त:- ‘तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधा’ इति तल्लक्षणात् ।

तुष्यन्तीति । कृतकृत्यतोच्यते - अकृतकृत्यस्य कर्तव्यशेषवत्त्वेन तुष्टययोगाद् । इयं च कृतकृत्यता गृहस्थस्य दुर्लभा - तस्य कृत्यशेषसद्भावात् । अतस्सन्न्यासिविषयमेवैतत् । तत्रापि परमहंसविषयमेव- अन्येषां सन्न्यासिनां दण्डतर्पणादिकृत्यसद्भावात् । एवं कृतकृत्यत्वादेवैते आत्मारामा भवन्ति तेषां विषयैः प्रयोजनाभावात् । विषयसुखस्य क्षुद्रत्वादात्मानन्दस्य शाश्वतत्वाचेति ॥९॥ तेषामिति । सततयुक्तानां नित्यमात्मनि चित्तसमाधानशालिनाम् । किमिदमात्मभजनं सोपा- चिकमित्याक्षिपति — किमिति । अर्थित्वमर्थादिकांक्षित्वम् । आदिशब्दादार्तिपरिहारादिकं ग्राह्यम् । प्रीतिपूर्वक मिति : आत्मनि निरतिशयप्रीतेरस्वतस्सिद्धत्वान्नात्मप्रीतेर्बलात्कारेण सम्पाद्यतेति बोध्यम् । दशमोऽध्यायः । १५१

  • भजता मित्यर्थः । ददामि प्रयच्छामि बुद्धियोगं बुद्धिः सम्यग्दर्शनं मत्तत्त्वविषयं तेन योगो बुद्धियोगः तं बुद्धियोगं येन बुद्धियोगेन सम्यग्दर्शनलक्षणेन मां परमेश्वरमात्मभूतमात्मत्वे- नोपयान्ति प्रतिपद्यन्ते, के ते ? ये मच्चित्तत्वादिप्रकारैर्मां भजन्ते ॥ १० ॥ किमर्थं, कस्य वा तत्प्राप्तिप्रतिबन्धहेतोर्नाशकं बुद्धियोगं तेषां त्वद्भक्तानां ददासी- त्यपेक्षायामाह - तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्था ज्ञानदीपेन भास्वता ॥ ११॥ तेषामिति । तेषामेव कथं नु नाम श्रेयः स्यादित्यनुकम्पार्थं दयाहेतोरहमज्ञानज- भविवेकतो जातं मिथ्याप्रत्ययलक्षणं मोहान्धकारं तमो नाशयामि, आत्मभावस्थ:– भजतामिति । प्रमातॄणामिति भावः । ददामीति । अहमात्मेति शेषः । ’ मत्तः स्मृतिः ज्ञानमपो- हनं’ चेति वक्ष्यमाणत्वादिति भावः । नच निर्विक्रियस्यात्मनः कथं दातृत्वविकार इति वाच्यं, आत्म- स्वरूपानुसन्धानवशात्पुंसामात्मैवाहं परब्रह्मेति सम्यग्दर्शनं जायत इत्यभिप्रायेणात्मज्ञानं ददातीत्युक्तत्वात् । न हि मुख्यमत्र दानं विवक्षितं येनोक्तदोषः स्यात् । योगस्संयोगः । प्रतिपद्यन्ते निश्चयेन जान- न्तीति यावत् । अथ वा प्राप्नुवन्तीत्येव । ब्रह्मैव भवन्तीति यावत् । ज्ञानिनस्सम्यग्दर्शनेन स्वस्मिन् प्रमातृत्वबुद्धि विहायात्मत्वनिश्चयं प्रतिपद्य ब्रह्मखरूपेणैव तिष्ठन्तीति परमार्थः ॥ १० ॥ 1 तेषामिति । ननु किं बुद्धियोगदानेन ? साक्षात्सायुज्यमेव भक्तानां देहीति शङ्कायां बुद्धियोग विना मत्प्राप्ति प्रतिबन्धस्याज्ञानस्य नाशो न स्यादिति भगवत्प्राप्तिप्रतिबन्धकाज्ञाननाशनार्थे बुद्धियोग- दानमावश्यकमित्युत्तरमुच्यते । किंच भक्तानां बुद्धियोगदानेन तव किं वा फलमिति शङ्कायां कृपैव फलमित्युत्तरं चोच्यते श्लोकेनानेनेत्याह – किमर्थमिति । अनुकम्पाया आकारं दर्शयति - कथन्विति । ननु निर्विकारस्यात्मनः कथं भक्त श्रेयोऽभिलाषित्वमिति चेन्नैषदोषः - मायया तदुपपत्तेः । अयं भावः - यावज्जीवानामस्त्यज्ञानं तावत्परोक्ष एवात्मा पीश्वरः । स च मायावच्छिन्न एव । जीवाज्ञानस्यैव मायायाः तदवच्छेदकत्वात् । अस्य च मायावच्छिन्नस्येश्वरस्य मायया कृपालुत्वादिक- मुचितमेव । यदा पुनर्ज्ञानेन तदज्ञानं नाशितं तदा त्वपरोक्ष एवेश्वर आत्मा । स चानवच्छिन्न एव । मायाया अभावात् । तस्य तु निर्विकारत्वेन कृपालुत्वादिकमयुक्तमिति यावदज्ञानमात्मनोऽपीश्वरस्य ‘भक्त श्रेयोऽभिलाषित्वमुपपद्यत एवेति । ननु यो बुद्धियोगेन भक्तानामज्ञानं नाशयत्यनुकम्पार्थ स किं मायावच्छिन्न उतान्तः करणा- वच्छिन्न : ? नाद्यः तस्यात्मभावस्थत्वाभावात् । नान्त्यः तस्य परिच्छिन्नत्वेन सामर्थ्याभावादिति चेत्, मैवम् — मायावच्छिन्नस्सर्वव्यापी य एवेश्वरः तस्यैवान्तः करणावच्छिन्नत्वेन आत्मभावस्थत्वसम्भवात् । अन्यथा ईश्वरस्य सर्वव्यापित्वस्यैव नाशप्रसङ्गात् । अत एव ‘ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति’ इति वक्ष्यते भगवतेहैव । नचेश्वरस्यान्तः करणत्वावच्छिन्नत्वे सति परिच्छिन्नत्वेना सर्वज्ञत्वादिकं १५२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु आत्मनो भावोऽन्तःकरणाशयः तस्मिन्नेव स्थितः सन् ज्ञानदीपेन विवेकप्रत्ययरूपेण भक्ति- - प्रसादस्नेहाभिषिक्तेन मद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावर्तिना विरक्तान्त:करणाधारेण विषयव्यावृत्तचित्त रागद्वेषा कलुषीकृतनिवातापवरकस्थेन नित्यप्रवृत्तै- काग्रध्यानजनितसम्यग्दर्शनभावता ज्ञानदीपेनेत्यर्थः ॥११॥ सम्भवेदिति वाच्यं, अन्तःकरणावच्छिन्नस्यापि सिद्धान्तेऽपरिच्छिन्नत्वाभ्युपगमात् । परिच्छिन्नत्वे तु जीवस्य घटवदनित्यत्वादिप्रसङ्गात् । नचान्तः करणावच्छिन्ने आत्मनीश्वरे सार्वश्यं नोपलभ्यत इति वाच्यं, उपलभ्यत एव तदीश्वरेण । न त्वज्ञेन त्वया, अज्ञत्वादेव तव । नचान्तः करणावच्छिन्नादन्य ‘एव मायावच्छिन्नः कश्चिदीश्वरो हृदेशे तिष्ठतीति वाच्यं, प्रमाणाभावादनुभवाभावात् । ईश्वरस्यैव जीव रूपेण क्षेत्रेष्वनुप्रवेशश्रवणात् । नच ‘द्वा सुपर्णा’ विति श्रुतिः प्रमाणमिति वाच्यं, चिदाभास- - प्रत्यगात्मपरत्वात्तच्छुतेः, अथ वा बुद्धिचिदात्मपरत्वात् । नच चिदाभास एव जीवः प्रत्यगात्मा- - स्वीश्वर इति वाच्यं, सुषुप्तौ चिदाभासलयस्य त्वयैवानुभाव्यमानत्वेन तव प्रत्यगात्मत्वात् । चिदाभासो हि संसारी । न हि सुषुप्तौ स दृश्यते- ‘अन्धोऽप्यनन्धो भवति’ इत्यादिश्रुतेश्च । " तस्मात्प्रत्यग्रूपेण हृद्देशस्थित ईश्वर एव यावदज्ञानं परोक्षस्सन् भक्तानां बुद्धियोगं ददाति माययेति सर्वमनवद्यम् । अविवेक आत्मानात्मविवेकाभावः । मिथ्याप्रत्ययोऽनात्मनि देहादावहं बुद्धिः । मोह एवान्ध- कारः तं मोहान्धकारं तमोमोह एवं तमोऽन्धकार इति श्लिष्टरूपकमिति भावः । आत्मभाव आत्मनोऽन्तःकरणस्य भाव आशय आत्माकारवृत्तिविशेष इत्यर्थः । यद्वा आत्मनस्स्वस्य भावोऽन्तः कर- णाशयः । बुद्धिवृत्तिरित्यर्थः । तस्मिन् स्थितस्सन् प्रतिफलनरूपेणेति भावः । विषयत्वेन रूपेणेति वा । ज्ञानमात्मानात्मविवेकबुद्धिः, तदेव दीपः तेन ज्ञानदीपेन मोहेऽन्धकारत्वरूपण । द्ज्ञाने दीपत्वरूपणम् । एवं ज्ञानदीप इति रूपणादेव तम इत्यत्र श्लिष्टरूपकमुक्तम् । मूले ज्ञानदीप इत्येकदेशविवर्तिरूपक- मुक्तं तदेव सावयवरूपकतया निर्दिशति भाष्यकारः - भक्तिस्नेहेत्यादिना । भक्तिरात्मप्रीतिरेव स्नेहस्तैलं तेन सिक्केन । मद्भावनाभिनिवेशो मद्भावाग्रह एव वातः स्वल्प- वायुः तेनेरितेन । अत्यन्तै वाताभावेऽधिकवातसत्त्वे वा दीपस्थित्ययोगादिति भावः । ब्रह्मचर्यादि- * साधनसंस्कारवती या प्रज्ञा सैव वर्तिर्यस्य तेन । विरक्तं यदन्तःकरणं तदेवाधारः पात्रं यस्य तेन, विषयेभ्यो व्यावृत्तमत एव रागद्वेषादिभिरकलुषीकृतं चितं तदेव निवातापवरकं वातरहितं निकेतनं तत्र तिष्ठतीति तत्स्थं तेन, चित्तान्तः करणयोरेकात्मकत्वेऽपि व्यापारभेदात्पृथङ्निर्देशः । अन्तःकरणं. रमनः, चित्त बुद्धिरिति विवेक इति रूपणम् । अथ भास्वतेति विशेषणं व्याकरोति - नित्येति । नित्यं सदा प्रवृत्तं यदेकाग्रं ध्यानं तस्मा- जनितमुदितं यत्सम्यग्दर्शनं ब्रह्मात्मसाक्षात्कारस्तदेव भा: दीप्तिस्तद्वता नित्यप्रवृत्तैकाग्रध्यानजनित- सम्यग्दर्शन भास्वता । भा अस्यास्तीति भास्वानिति ‘तदस्यास्त्यस्मिन्निति मतुप् । २० दशमोऽध्यायः । यथोक्तां भगवतो विभूर्ति योग च श्रुत्वाऽर्जुन उवाच - अर्जुन उवाच - परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥ १५३ परमिति । परं ब्रह्म परमात्मा परं धाम परं तेजः पवित्रं पावनं, परमं प्रकृष्टं भवान् । पुरुषं शाश्वतं नित्यं दिव्यं दिवि भवं आदिदेवं सर्वदेवानामादौ भवमादिदेवमजं विभुं ‘विभवनशीलम् ॥१२॥ “ईदृशम्- आहुस्त्वामृषयस्सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासस्स्वयं चैव ब्रवीषि मे ॥ १३॥ आहुरिति । आहुः कथयन्ति त्वां ऋषयः वसिष्ठादयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलोsपि एवमेवाह, व्यासश्व, स्वयं चैव त्वं च ब्रवीषि मे ॥ १३ ॥ सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः ॥ १४॥ सर्वमिति । सर्वमेतद्यथोक्तं ऋषिभिस्त्वया च एतदृतं सत्यमेत्र मन्ये, यन्मां प्रति वदसि भाषसे हे केशव । न हि ते तव भगवन् व्यक्तिं प्रभवं विदुः न देवाः, न दानवाः ॥ १४ ॥ अहं तेषामेवानुकम्पार्थमात्मभावस्थस्सन् भास्वता ज्ञानदीपेनाज्ञानजं तमो नाशयामि । अह- मनुकम्पार्थ तेषामेवेति वा । तस्मादीश्वरदत्तबुद्धियोगस्य भगवत्प्राप्तिप्रतिबन्धकाज्ञाननाशनमेव कृत्य- मिति सिद्धम् ॥११॥ परमिति । भवान् परमं पवित्रं परं धाम परं ब्रह्म भवति । देवर्षिर्नारदः । असितः, देवल:, व्यासः, एवमाद्यास्सर्वे ऋषयः त्वां शाश्वतं दिव्यमादिदेवमजं विभुं पुरुषमाहुः । स्वयं चैव मे ब्रवीषीति श्लोकद्वयान्त्रयः । ब्रह्मशब्दस्य प्रकृत्यादिपरत्वात्तद्व्युदासाय परत्व विशेषणम् । घामशब्दस्य दीपादिपर- त्वाद्व्युदासाय परत्वविशेषणम् । घाम चात्र ज्ञानम् । चिन्मयस्येश्वरस्थ अग्न्यादिते जो रूपत्वाभावात् । गङ्गादीनामपि पवित्रत्वात्तद्व्युदासाय परमत्वविशेषणम् । दिवि हृदयाकाशे भवतीति दिव्यः, देवाना- मादिरादिदेवः; आदिश्वासौ देवः आदिदेव इति वा समासः । अर्थस्त्वेक एव । विभवन व्यापन नियमनं वा शीलं यस्य तं विभवनशीलम् । अत्र सर्वे ऋषयः त्वां शाश्वतत्वादिविशेषणविशिष्टमाहुः । देवर्षिर्नारदस्तथाऽऽह । असितो देवलोऽप्येवमाह । व्यासश्चैवमाहेत्यप्यन्वयो भाष्याभिमत इति बोध्यम् । भवानित्यस्य त्वामित्यस्य च श्रीकृष्णशरीरावच्छिन्नं चैतन्यमर्थः । तस्यैव परब्रह्मत्वादिविशे- षणविशिष्टत्वात् । यद्यप्यर्जुनशरीरावच्छिन्नं चैतन्यमप्येवंविधमेव । तथापि नार्जुनस्यैतावताप्यात्मनीश्वर- प्रत्यय आसीदिति बोध्यम् । अथ वा भवानित्यस्य त्वामित्यस्य च चिन्मय आत्मेत्येवार्थः ॥१२- १३ ॥ सर्वमिति । हे केशव ! त्वं मां प्रति यदसि तदेतत्सर्वमृतं मन्ये । हे भगवन् ! देवा १५४ श्रीभगवद्गीतासु- भाष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यतः त्वं देवादीनामादि:, अतः
स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम !
भूतभावन ! भूतेश ! देवदेव ! जगत्पते ! ॥ १५ ॥
स्वयमिति । स्वयमेवात्मनाऽऽत्मानं वेत्थ जानासि त्वं निरतिशयज्ञानैश्वर्यबलादि- शक्तिमन्तमीश्वरं पुरुषोत्तम । भूतानि भावयतीति भूतभावनः, तस्य सम्बुद्धिः हे भूतभावन!. भूतेश भूतानामीशो भूतेशः, तस्य सम्बुद्धिः हे भूतेश ! हे देवदेव ! जगत्पते ! ॥ १५॥ वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥
वक्तुमिति । वक्तुं कथयितुमर्हस्यशेषेण । दिव्या हि आत्मविभूतयः, आत्मनो विभूतयो याः ताः वक्तुमर्हसि । याभिर्विभूतिभिरात्मनो माहात्म्यविस्तरैरिमान् लोकान् त्वं व्याप्य तिष्ठसि ॥ १६॥
दानवाश्च ते व्यक्तिं न विदुर्हि । हिः प्रसिद्धौ । प्रभवमादि न विदुः । तवाऽनादित्वेनादेरभावा- दिति भावः ॥ १४ ॥
स्वयमिति । हे पुरुषोत्तम ! हे भूतभावन ! हेभूतेश ! हे देवदेव ! हे जगत्पते ! त्वं स्वयमेवात्म- नात्मानं वेत्थ । आत्मस्वरूपज्ञानेनैवेत्यर्थः । पुरुषोत्तमशब्दं भगवान् स्वयमेव व्याख्यास्यति - ‘यस्मा - त्क्षरमंतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम’ इति । अतो नाल व्याख्यात आचार्यैः ।
सर्वाणि भूतानि प्रकृतिश्च पुरुषशब्दवाच्याः, तेभ्यः पुरुषेभ्य उत्तमः पुरुषोत्तमः । यद्वा पुरुष- श्वासावुत्तमश्च पुरुषोत्तमः; क्षराक्षराभ्यामुत्तमः पुरुषोऽयमित्यर्थः । पूर्णत्वात्पुरि शयनाद्वा पुरुष इति “निरुक्तिः पुरुषशब्दस्य पुरैव दर्शिता । पुरुषेभ्यो जीवेभ्यस्संसारिभ्यश्चिदाभासेभ्य उत्तमः । असंसा- - रित्वादात्मनः पुरुषोत्तम इति वा ।
भावयत्युत्पादयति ईशितः नियामक प्रभो इति यावत् । देवानामपि देवः प्रभुर्देव देवस्तत्स- म्बुद्धिः । जगतः पतिः प्रभुः पालकः जगत्पतिः तत्सम्बुद्धिः ।
यस्मात्त्वमुत्तमः पुरुषः, यस्माच्च जगत्सृष्ट्यादिहेतुः यस्माच्च जगन्नियामकः, यम्माच्च देवाना- मधिपतिस्तस्मात्त्वमेव त्वां वेत्सि, न त्वन्यः कोऽपि प्राणी त्वां वेद । त्वज्जन्यत्वात्त्वत्परतन्त्रत्वाच सर्वस्येति भावः ॥१५॥
वक्तुमिति । यत एवं ततः । या दिव्या आत्मविभूतयस्ता अशेषेण वक्तुमर्हसि हि । त्व- मिमान् लोकान् याभिर्विभूतिभिर्व्याप्य तिष्ठसि । यद्वा याभिर्विभूतिभिस्त्वमिमान् लोकान् व्याप्य तिष्ठसि ? याश्च दिव्या आत्मविभूतयस्ता अशेषेण वक्तुमर्हसि हि ॥ १६ ॥
‘‘दशमोऽध्यायः ।
कथं विद्यामहं योगिन् त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७॥
१५५
कथमिति । कथं विद्यां विजानीयामहं हे योगिन् त्वां सदा परिचिन्तयन् केषु केषु च भावेषु वस्तुषु चिन्त्योऽसि ध्येयोऽसि भगवन् मया ॥ १७॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन !
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१८॥
विस्तरेणेति । विस्तरेणात्मनो योगं योगैश्वर्यशक्तिविशेषं विभूतिं च विस्तरं ध्येय- पदार्थानां हे जनार्दन ! अर्दतेः गतिकर्मणो रूपमसुराणां देवप्रतिपक्षभूतानां जनानां नरकादि- गमयितृत्वात् जनार्दनः अभ्युदयनिश्श्रेयस पुरुषार्थप्रयोजनं सर्वेर्जनैः याच्यत इति वा । भूयः पूर्वमुक्तमपि कथय, तृप्तिः परितोषः हि यस्मान्नास्ति मे मम शृण्वतः त्वन्मुखनिस्सृतं वाक्यामृतम् ॥ १८ ॥
श्रीभगवानुवाच - हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ! नास्त्यन्तो विस्तरस्य मे ॥ १९ ॥
हन्तेति । हन्त ! इदानीं ते तव दिव्या दिवि भवा आत्मविभूतयो आत्मनो मम कथमिति । हे योगिन् ! त्वां सदा कथं परिचिन्तयन्नहं विद्याम् ? हे भगवन् ! त्वं मया केषु केषु च भावेषु चिन्त्योऽसि । योगरसम्यग्दर्शनमणिमाद्यैश्वर्ययोगो वाऽस्यास्तीति योगी तत्सम्बुद्धिः ॥ १७ ॥
विस्तरेणेति । हे जनार्दन ! आत्मनो योगं विभूतिं च विस्तरेण भूयः कथय । हि अमृत शृण्वतो मे तृप्तिर्नास्ति । ननूक्त एवं मम योगो विस्तरश्चेत्यत आह– विस्तरेणेति । संक्षेपेणोक्ता- तस्मान्नास्ति मम तृप्तिरिति भावः । कोऽसौ योगोऽत आह— एैश्वर्यशक्तिविशेषमिति । विस्तरं समृद्धिम् । केषां विस्तरोऽत आह— ध्येयेति । ध्येयाश्चिन्त्याः । पदार्था आदित्यादयः । येषु भावेषु भगवांश्चिन्त्यस्तेऽपि भावा भगवदाश्रयत्वेन चिन्त्या एवेति भावः ।
गतिकर्मण इति । गतिर्गमनं कर्म क्रिया घात्वर्थ इति यावात् । यस्य तस्य तथोक्तस्य, अर्दते’ रर्दगतियाचनयो ‘रिति धातोः रूपमर्दनमिति । अर्दयति गमयतीत्यर्दनः । जानानामर्दनो जना- र्दनः । कान् किं गमयतीत्यत आह-असुराणां नरकादिगमयितृत्वादितिं । आदिपदात्पाता- लादिग्रहणम् । असुराणामिति कर्मणि षष्ठी । देवप्रतिपक्षत्वादसुरान्नरकादि गमयतीत्याह - देवेति । भगवतो देवपक्षपातित्वाद्राक्षसान्तकत्वाश्चेति भावः । शमदमदयादिसद्गुणसम्पत्तिमत्सु भगवतः प्रीति- स्तादृशाश्व देवा एवेति बोध्यम् । अर्दतेर्यान्नार्थत्वाद्व्युत्पत्त्यन्तरमाह - अभ्युदयेति । जनैर्भक्त- रते याच्यते अभ्युदयरूपं निश्श्रेयसरूपं वा पुरुषार्थनामकं प्रयोजनमिति जनार्दनः । याचतेर्द्विकर्म- कत्वादभ्युदयेत्यादिकमुक्तम् । जना अभ्युदयादिकमेन भगवन्तं याचन्त इत्यर्थः । किं तदमृतमत आह— वाक्यामृतमिति । वाक्यरूपममृतमित्यर्थः ॥ १८ ॥
हन्तेति । इन्तेत्याश्चर्ये । दिव्या इति । दिवि आकाशतुल्ये ब्रह्मणि भवन्तीति भवाः
.१५६
श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसितं श्रीशाङ्करभाष्योपेतासु
विभूतयो याः ताः कथयिष्यामीत्येतत् । प्राधान्यतो यत्र यस प्रधाना या या विभूतिः तां तां प्रधानां प्राधान्यतः कथयिष्याम्यहं कुरुश्रेष्ठ ! अशेषतस्तु वर्षशतेनापि न शक्या वक्तुं, यतो नास्त्यन्तो विस्तरस्य मे मम विभूतीनामित्यर्थः ॥ १९ ॥
1 तत्र प्रथममेव तावच्छृणु-
अहमात्मा गुडाकेश! सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामन्त एव च ॥२०॥
अहमिति । अहमात्मा प्रत्यगात्मा गुडाकेश ! गुडाका निद्रा तस्याः ईशो गुडाकेशः, जितनिद्र इत्यर्थः । धनकेश इति वा । सर्वभूताशयस्थितः सर्वेषां भूतानामाशयेऽन्तर्हृदि स्थितोऽहमात्मा प्रत्यगात्मा नित्यं ध्येयः । तदशक्तेन चोत्तरेषु भावेषु चिन्त्योऽहं ; चिन्तयितुं शक्यो यस्मादहमेवादिर्भूतानां कारणं तथा मध्यं च स्थित्यन्तः प्रलयश्च ॥ २० ॥ ब्रह्मण्यधिष्ठाने मायया कल्पिता इति भावः । यत्रयत्र जातौ या या व्यक्तिः प्रधाना तां तामात्मविभूतिं कथयिष्यामीत्यर्थः । विभूतीनामिति । भगवत्यात्मनि ब्रह्मणि कल्पिता मायया चराचरात्मका सर्वे पदार्था विभूतिशब्देनोच्यन्ते । विशेषेण भूतिर्भवनं विभूतिरिति व्युत्पत्तेः । एकरूपेण स्थितो ह्यात्मा मायया बहुरूपो भवति । अन्तोऽवधिः नतु नाशः- विभूतीनां नश्वरत्वात् ॥१९॥
1
अहमिति । केषु केषु भावेषु कथं वा तव चिन्तनमित्यर्जुनस्य यः प्रश्नस्तत्रोत्तरं तावद्वक्ती- त्याह — तत्रेति । हेगुडाकेश ! सर्वभूताशयस्थित आत्माऽहमेव । भूतानामादिर्मध्यमन्तश्चाहमेव ।
‘निद्रालस्ये गुडाके स्या’ दित्यभिधानादाह गुडाका निद्रेति, जितनिद्र इति । परिभूत- समोगुण इत्यर्थः । अतएव जितालस्योऽपि गुडाकेश इत्युच्यते । निद्रालस्ययोस्तमोगुणकार्यत्वात् । अर्थान्तरमाह - घनेति । वनवासादिषु तपश्चर्यया जटीभूतत्वेन गुडवद्धनाः केशा यस्य स गुडाकेशः । गुडकेश इति भवितव्ये पृषोदरादित्वादाकारः ।
हृदि पदार्थ प्रत्यग्रूपेणेश्वरो नित्यं ध्येय इत्ययं प्रथमः पक्षः । अत एव लीलाशुकः - ‘उपासता मात्मविदः पुराणाः परं पुमांसं निहितं गुहायाम् । वयं यशोदा शिशुबाललीलाकथासुधासिन्धुषु लील - याम’ इत्यवोचत् ।
तदशक्तैनेति । तमिन् प्रत्यगात्मध्यानेऽशक्तेनासमर्थेन तूत्तरेषु वक्ष्यमाणेष्वादित्यादिष्वित्यर्थः । ननु कुतस्त्वमेव चिन्त्य इत्यत आह- अहमिति । मत्त एव भूतानि जायन्ते, मय्येव लीयन्ते, भूतानामन्तश्चाहमेव स्थित इत्यहमेव ध्येयः । कश्विद्धधेयः कारणं तु ध्येय इति श्रुतेः । मम कार- णत्वान्मद्भिन्नस्य सर्वस्य मदात्मकत्वाच्चेति भावः ।
रामानुजस्तु — अहमात्मतया सर्वभूताशयस्थित इति वदन् प्रत्यगात्मनोऽप्यन्तस्थितोऽयं पर- मात्मेति बभाषे । यस्सर्वेषु भूतेषु तिष्ठन् य आत्मनि तिष्ठन्नित्यन्तर्यामिब्राह्मणमत्र प्रमाणत्वेनोप-
एवं च ध्येयोऽहम् -
दशमोऽध्यायः ।
आदित्यानामहं विष्णुज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ २१ ॥
१५.७
आदित्यानामिति । आदित्यानां द्वादशादित्यानां विष्णुर्नामाऽऽदित्योऽहं ज्योतिषां रविः प्रकाशयितृणामंशुमान्रश्मिमान् । मरीचिर्नाम मरुतां मरुदेवताभेदानामस्मि । नक्षत्राणा- महं शशी चन्द्रमाः ॥ २१ ॥
‘वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ २२ ॥
वेदानामिति । वेदानां मध्ये सामवेदोऽस्मि । देवानां रुद्रादित्यादीनां वासव न्यस्तवांश्च तदेतन्मन्दम् — प्रत्यगात्मनोऽन्यस्य परमात्मनो हृदेशेऽनुपलम्भात् । मनआदिसर्वप्रपञ्चा- भावसाक्षित्वेन स्वस्य प्रत्यगात्मन एवं स्फुरणात्समाधौ । निरन्तरप्रज्ञानघने आत्मन्यन्यस्य वस्तुमनव- काशाच्च । ब्राह्मणे तु भूतशब्दः प्राणिपरः, आत्मशब्दस्तु बुद्धिपर इति न तस्योक्तार्थे प्रामाण्यम् ॥२०॥
आदित्यानामिति । अनेन च विष्ण्वादयो मद्विभूतय इति कथनेन विष्ण्वादिभावेष्वीश्वरस्य ध्येयत्वं तेषां भावानां चेश्वरात्मकतया ध्येयत्वं सूच्यते । आदित्यानां विष्णुरहं भवामीति शेषः ।
• तथा च विष्णावादित्ये ध्येय ईश्वरो हिरण्मयपुरुषरूपेणेति द्योत्यते । ‘ध्येयस्सदा सवितृमण्डलमध्यवर्ती नारायणस्सरसिजाननसन्निविष्ट’ इति स्मृतेः । ज्योतिषां नक्षत्रादीनां मध्ये अंशुमान् रविरहम् । अनेन च रवेस्तन्मण्डलस्थपुरुषस्य च ध्येयत्वं सूच्यते । मरुतां मरुन्नामक देवता विशेषाणां मध्ये मरीचि - रहम् । अनेन च मरीचेस्तदन्तरपुरुषस्य च ध्येयत्वं सूच्यते । नक्षत्राणां मध्ये शश्यहम् । अनेन चन्द्रस्य तन्मण्डलस्थहयग्रीवस्य च ध्येयत्वं सूच्यते । एवमुत्तरत्राप्यूह्यम् ।
ननु चन्द्रस्य नक्षत्रजातीयत्वाभावात्कथं निर्धारणे षष्ठीति चेत्, उच्यते—भगोलगतानां निशि भासमानानां ज्योतिः पिण्डानां नक्षत्रपदवाच्यत्वाच्चन्द्रोऽपि तादृश एवेति नक्षत्रत्वमस्ति चन्द्रस्य । परं तु स्थूलस्य ज्योतिः पिण्डस्य चन्द्रपदवाच्यत्वं, सूक्ष्माणां तु तेषां नक्षत्रपदवाच्यत्वं च लोकतस्सिद्ध- मिति । यद्वा नक्षत्राणामित्यस्य निशि भगोले भासमानानां ज्योतिः पिण्डानामित्येवार्थो वाच्यः ।
वस्तुतस्तु ‘यो वा इह यजमानोऽमुं लोकं न क्षते तन्नक्षत्राणां नक्षत्रत्व’ मिति श्रुतेर्यजमानेन पुण्य- फलभोगार्थं देहान्ते गन्तव्या लोका नक्षत्राणीत्युच्यन्ते । श्रुतौ नक्षत्र इत्यस्य गच्छतीत्यर्थः । नक्षते गच्छति यजमान एतदिति नक्षत्रमिति व्युत्पत्तिः । तथा च शशी च नक्षत्रमेव इष्टाधिकारिगन्तव्य - लोकत्वाच्छशिन इति ।
नच नक्षत्राणामधिपतिदशश्यहमिति व्याख्येयमिति वाच्यं प्रकरणविरोधात् । आदित्याना मह विष्णुरित्यादिषु निर्धारणषष्ठया एव प्रकृतत्वात् ॥२१॥
वेदानामिति । यद्यपि मन इन्द्रियं नेति वेदान्तिनस्तथापि तदेकदेशिभिर्मनस इन्द्रियस्व-
.
१५८
श्रीभगवद्गीतासु भाष्या के प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
इन्द्रोऽस्मि । इन्द्रियाणामेकादशानां चक्षुरादीनां मनश्चास्मिः सङ्कल्पविकल्पात्मकं मनश्चास्मि । भूतानामस्मि चेतना कार्यकरणसङ्घाते नित्याभिव्यक्ता बुद्धेर्वृत्तिः चेतना ॥२२॥
रुद्राणां शङ्करवास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकचास्मि मेरुशिखरिणामहम् ||२३|| -
-रुद्राणामिति । रुद्राणामेकादशानां शङ्करवास्मि वित्तेशः कुबेरो यक्षरक्षसां यक्षाणां रक्षसां च । वसूनामष्टानां पावकश्चास्म्यग्निः । मेरुः शिखरिणां शिखखतामहम् ॥२३॥
पुरोधसां च मुख्य मां विद्धि पार्थ! बृहस्पतिम् ।
सेनानीनामहं स्कन्दस्सरसामस्मि सागरः ॥ २४ ॥
पुरोधसामिति । पुरोधसां राजपुरोहितानां च मुख्यं प्रधानं मां विद्धि विजाहि हे पार्थ! बृहस्पतिम् । सहि इन्द्रस्येति मुख्यस्स्यात्पुरोधाः । सेनानीनां सेनापतीनामहं स्याभ्युपगतत्वादेकादशेन्द्रियाणीत्युक्तम् । मनस इन्द्रियत्वे च प्रमाणमिदमेव गीतावचनं भाष्य वचन च । न्यायादिमतान्तरदृष्टया मनस इन्द्रियत्वमत्रोक्तमिति मनसोऽनिन्द्रियत्ववादिन आहुः ।
मनःपूर्वकत्वाच्चक्षुरादिव्यापारस्य मनस उत्कृष्टत्वमिन्द्रियाणाम् । भूतानां सर्वप्राणि सम्बन्धि- परिणामानां मध्ये चेतना बुद्धेस्स्पष्टा वृत्तिरहमस्मि । भूतानां कार्यकरणानां देहादीनां मध्ये चेतना स्पष्टवृत्तिमती बुद्धिरहमस्मीति च वक्तुं शक्यम् । ‘प्रेक्षोपलब्धिश्चित् संवित्प्रतिपद्ज्ञप्तिचेतना’ इति बुद्धि- पर्यायत्वाच्चतनाशब्दस्य । अत एव बुद्धिश्चेतनेति भाष्ये पाठान्तरम् । उपलब्धि चित्संविदादिशब्दाना- मंपि ज्ञानमात्रे प्रसिद्धप्रयोगसत्त्वात्तत्साहचर्येण चेतनाशब्दस्यापि तत्रैव प्रयोग उचितः । अमरस्तु “लक्षणया बुद्धेः ज्ञानवत्त्वाच्चितनादिशब्दानां बुद्धिपर्यायत्वमूचे । तथा च चेतनाशब्दस्य स्पष्टबुद्धिवृति-
वाभिध्या सिद्धोऽर्थ इति श्रीशङ्कराचार्यहृदयम् ।
सङ्घात इति । तन्मध्ये इत्यर्थः । व्यक्तेति । जामदादाविति भावः । सुषुप्तौ तु ‘अस्पष्ट- द्विवृतिरस्ति, तामेवाविद्यावृत्तिमाहुः । तस्यास्तु ज्ञानत्वेन व्यवहाराभावादुक्तं व्यक्तत्वविशेषणम् । [तानां चेतनावतां सम्बन्धिनी चेतनाऽहमस्मीति रामानुजभाष्यं प्रकरणविरोधादुपेक्ष्यम् । निर्धारणे ष्ठी हिं प्रकृता ॥२२॥
रुद्राणामिति । वित्तेशस्य यक्षत्वाद्राक्षसत्व यक्षत्वयोरवान्तरभेदे सत्यप्येकजातित्वाद्यक्षरक्षसां विवेश इत्युक्तम् । यद्वा एकस्मादेव सन्ध्यारूपात्पितामहशरीराद्यक्षरक्षसां जातत्वादुभयेोरेकत्वेन निर्देशः । सशिखरा अशिखराश्चेति द्विविधाः पर्वताः । तत्र सशिखराणां पर्वतानां मध्ये मेरुरहं; अशिखराणां मध्ये उत्कृष्टस्तु हिमालयः । स च स्थावराणां हिमालय इतीश्वरत्वेन वक्ष्यते ॥२३॥
पुरोधसामिति । पुरोऽग्रे हितं दधत इति पुरोधसः पुरोहिताश्शतानन्दादयः । कुतो बृह- स्पतेः प्राधान्यमत आह- स हीति । इन्द्रस्य त्रिलोकाधिपतित्वेन महाराजत्वात्तत्पुरोहितस्योत्कृष्टत्वंदशमोऽध्यायः ।
१५९
स्कन्दः देवसेनापतिः । सरसां यानि देवखातानि सरांसि तेषां सरसां सागरोऽस्मि भावामि ॥
I
महर्षीणां भृगुरहं गिरामस्स्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ||२५|
महर्षीणामिति । महर्षीणां भृगुरहम् । गिरां वाचां पदलक्षणानामेकमक्षरमोङ्कारोऽस्मि । यज्ञानां जपयज्ञोऽस्मि । स्थावराणां स्थितिमतां हिमालयः ॥ २५ ॥
अश्वत्थस्सर्ववृक्षाणां देवर्षीणां च नारदः ।
गन्धर्वाणां चित्ररथस्सिद्धानां कपिलो मुनिः ॥ २६॥
अश्वत्थ इति । अश्वत्थः सर्ववृक्षाणाम् । देवर्षीणां च नारदः देवा एव सन्तः ऋषित्वं प्राप्ता मन्त्रदर्शिनो देवर्षयः, तेषां नारदोऽस्मि । गन्धर्वाणां चित्ररथोनाम गन्धर्वोऽस्मि । सिद्धानां जन्मनैव धर्मज्ञानवैराग्यैश्वर्यातिशयं प्राप्तानां कपिलो मुनिः ॥ २६ ॥
|
राजपुरोहितानां मध्ये इति भावः । पृथग्जनपुरोहितापेक्षया राजपुरोहितस्योत्कृष्टत्वादुक्तम् । राजपुरो- हितानामिति । सेनां नयन्ति स्ववशमापादयन्तीति सेनानयः । स्कन्दस्य देव सेनापतित्वात्प्राधान्यमिति सूचनायामाह – देवसेनापतिरिति वापीकूपतटाकादयो मनुष्यैः खाताः तेभ्यो देवखातानि संरां- स्युत्कृष्टानि तेषां च सरसां मध्ये सगरैः खातस्सागर उत्कृष्टः । यद्यपि मनुष्यखातस्सागरस्तथापि गङ्गाजलभरितत्वेन, अपारंजलवत्त्वेन, सगराणां देवाधिक प्रभावयुक्तत्वेन वा सागरस्योत्कृष्टत्वमिति बोध्यम् ।
अथ वा सगरैः खातादन्य एवं ब्रह्मसृष्टस्समुद्र इह सागरशब्देन प्रतिपाद्यत इति देवाधि- कत्वाद्ब्रह्मणस्तदीयस्सागर उत्कृष्ट इति बोध्यम् ॥ २४ ॥
महर्षीणामिति । महर्षयो मरीच्यादयः, तन्मध्ये भृगोरुत्कर्षः पादे शिवफालनेत्रप्रभावाप- हारिनेत्रवत्त्वात्, त्रिलोकजनन्या लक्ष्या एतस्मादाविर्भावाद्वा । ओंकारस्य पदत्वेन वाक्यत्वाभावाद्वाचां निर्धारणमस्य न सम्भवतीत्यभिप्रेत्याह- पदलक्षणानामिति । पदखरूपाणां गिरां पदानामित्यर्थः । गीर्यन्ते उच्यन्त इति गिर इति व्युत्पत्त्या गीरशब्दस्यापि पदवाचकत्वादिति भावः । ‘ओमित्येकाक्षरं ब्र’होति श्रुतेरेकमक्षरं प्रणव एवेत्याह-ओंकार इति । ओंकारस्य शब्दत्वाच्छब्दानां मध्ये निर्धा- रणमस्येति बोध्यम् । ब्रह्मप्रतीकत्वाद्ब्रह्मवाचकत्वाच्च प्राशस्त्यमोंकारस्येति भावः । यज्ञा द्रव्ययज्ञादयः; जपयज्ञः प्रणवजपादिलक्षणयज्ञः । तस्य चित्तशुद्धिं प्रत्यन्तरङ्गत्वेन हिंसारहितत्वेन द्रव्यार्जनादिकाय- क्लेशानावहत्वेन च प्राशस्त्यम् । स्थावराश्शिखररहिताः पर्वताः ॥ २५ ॥
अश्वत्थ इति । ‘मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतश्शिवरूपाय वृक्षराजाय ते नम’ इति भजनीयत्वादश्वत्थस्योत्कृष्टत्वम् ॥२६॥
१६०
श्रीमद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाकरभाष्योपेतासु
उच्चैश्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ २७ ॥
उच्चैश्श्रवसमिति । उच्चैश्वसमश्यानामुच्चैरश्रवा नामावराजः तं मां विद्धि विजानी- ह्यमृतोद्भवममृत निमित्तमथनोद्भवम् । ऐरावतं इरावत्या अपत्यं गजेन्द्राणां हस्तीश्वराणां, ‘तं मां विद्धीत्यनुवर्तते । नराणां च मनुष्याणां नराधिपं राजानं मां विद्धि जानीहि ||२७||
आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कन्दर्पस्सर्पाणामस्मि वासुकिः ॥ २८ ॥ -
आयुधानामिति । आयुधानामहं वज्रं दधीच्यस्तिसम्भवम् । धेनूनां दोग्ध्रीणामस्मि कामधुक् वसिष्ठस्य सर्वकामानां दोग्ध्री, सामान्या वा कामधुक् । प्रजनः प्रजनयिताऽस्मि कन्दर्पः कामः । सर्पाणां सर्पभेदानामस्मि वासुकिः सर्पराजः ॥ २८ ॥
उच्चैःश्रवसमिति । क्षीरसमुद्र जातत्वेन्द्र वाहनत्वादिभिरुच्चैश्श्रवस उत्कर्ष । अमृतोद्भव मितिपदं काकाक्षिन्यायेन उच्चैश्श्रवऐरावतयोरन्वेति । तच्च प्राशस्त्यहेतुगर्भविशेषणम् । अत्रामृतपदममृत- निमित्तमथनलक्षकमित्याह — अमृतनिमित्तमथनोद्भवमिति । अमृतं सुधा तदुपादानं समुद्रोऽपि लक्षणयाऽमृतमित्युच्यते । अमृतोद्भवं क्षीरसमुद्रजातमित्यर्थः । अमृतं मध्यमानावस्था सुधा तदुद्भव- मिति वा वक्तुं शक्यते । इरा आपः ता अस्यास्सन्तीतीरावती गंजीरूपिणी मेघवाला ॥२७॥
.
आयुधानामिति । आयुधानां खड्गादीनां मध्ये । किं दद्वज्रमत आह– दधीचीति । तथा च तपस्सारभूतत्वाद्वजस्योत्कर्ष: । दुहन्तीष्टानि दिशन्तीति दोग्ध्य, कामदायिन्यो धेनवः । तासां मध्ये वसिष्ठसम्बन्धिनी समुद्रमथनोद्भवा कामधेनुरहमस्मि । विश्वामित्र सैन्यनिषूदनसमये ग्लेच्छा- द्युत्पादनरूपस्य वसिष्ठधेनुसामर्थ्यस्य प्रसिद्धत्वादिति भावः । सामान्येति । क्षीराब्धेरजातेति भावः । अस्मिन्पक्षे धेनवः पयोदोग्ध्यः गावः तन्मध्ये कामदोग्धृत्वात्कामधुग्धेनुरुत्कृष्टा । जनयितॄणामिति शेषः । प्रजनः कन्दर्पोऽहमस्मि । तपआदिद्वारा प्रजासर्जकेभ्यो दक्षादिप्रजापतिभ्यः मैथुनद्वारा प्रजासर्जकः कन्दर्प उत्कृष्टः । मैथुनेनैव प्रजावृद्धेजतत्वान्मैथुनस्य च कन्दर्पाधीनत्वात् । नहि निष्कामस्य मैथुन - प्रवृत्तिः । इदमेव प्रजनयितेति शब्देन सूचितवान् भाष्यकारः । प्रकर्षेण विस्तरेण जनयिता प्रजनयि- तेति व्युत्पत्तेः । सृष्टिहेतूनामपि विद्याकालकर्मादीनां मध्ये कन्दर्पश्रेष्ठः । ईश्वरसङ्कल्पस्यैव काम: तस्यैव सृष्टौ प्रधानहेतुत्वाच्च । ‘तदैक्षत बहुस्या’ मिति श्रुतेः । सृष्टे (सङ्कल्पपूर्वकत्वात् । एवं कन्दर्पस्य सृष्टिं प्रति प्रकृष्टहेतुत्वादेव प्रकर्ष इति सूचयितुं प्रजन इति विशेषणम् । प्रकर्षेण जनयतीति प्रजन इति वा । कामानां मध्ये प्रजनः प्रजनयिता पुत्रोत्पत्त्यर्थः कन्दर्पः कामोऽहमस्मीति वा । यद्वा सुन्दराणामिति शेषः । जयन्तवसन्तनलकूबरादीनां मध्ये कन्दर्पस्य श्रेष्ठत्वं प्रजनयितृत्वात् । कन्दर्पो हि स्त्रीपुरुषयोर्मोहको घटयिता च । सर्पभेदानामिति । एकशिरसामित्यर्थः । सविषाणा- मिति श्रीधरः । वासुकेरेक शिरस्कत्वात्सर्पजातीयत्वम् ॥२८॥
त्वात्,
२१
दशमोऽध्यायः ।
अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमस्संयमतामहम् ॥२९॥
१६१
अनन्त इति । अनन्तश्चास्मि नागानां नागविशेषाणां नागराजश्चास्मि । वरुणी यादसामहमन्देवतानां राजा; अहं पितृणामर्यमा नाम पितृराजश्चास्मि । यमः संयमतां संयमनं कुर्वतामहम् ॥२९॥
प्रह्लादश्चास्मि दैत्यानां कालः कालयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ||३०|
प्रह्लाद इति । प्रह्लादो नाम चास्मि दैत्यानां दिति वंश्यानाम् । काल: कलयतां कलनं गणनं कुर्वतामहम् । मृगाणां च मृगेन्द्रः सिंहो व्याघ्रेो वाऽहम् । वैनतेयश्च गरुत्मान् विनतासुतः पक्षिणां पतत्रिणाम् ||३०||
पवनः पवतामस्मि रामश्शस्त्रभृतामहम् ।
झषाणां मकरचास्मि स्रोतसामस्मि जाह्नवी ॥ ३१ ॥
पवन इति । पवनो वायुः पवतां पावयितृणामस्मि रामो शस्त्रभृतामहं शस्त्राणां अनन्त इति । नागभेदानां बहुशिरसामित्यर्थः । निर्विषाणामिति श्रीधरः । शेषस्य सहस्र- शिरस्कत्वात्तज्जातीयत्वं तत उत्कर्षश्च । यादसां जलजन्तूनां वरुणस्यापि जलस्थित्या जलजन्तुत्वात्तत उत्कर्षस्तस्य कृतः । कोऽसौ वरुणोत आह- अब्देवतानां राजेति । अबभिमानिन्यो देवता अदेवता गङ्गाकृष्णादयः, तासां राजा प्रभुः । समुद्रस्य नदीपतित्वात्समुद्रस्यापि पतिरयं वरुणो गङ्गादिदेवताप्रभुरेवेति भावः । यद्यपिं यादश्शब्दोऽभिधया मत्स्यादिजलजन्तुवाची, वरुणश्च देव- जातीयः । तथापि यादश्शब्दो लक्षणया जलवासिप्राणिवाचीति बोध्यम् । पितॄणामग्निष्वात्तादीनां मध्ये अर्थमा तन्नामकः पितृराजोऽहमस्मि । संयमनं दण्डरिशक्षेति यावत् । यमो यमधर्मराजः । अप्रतिहतदण्डो हि स उत्कृष्टः ॥२९॥
प्रह्लाद इति । प्रह्लादस्य भगवद्भक्त्या दिगुणयोगित्वादुत्कर्षः । कालो हि संवत्सराद्यात्मकः । सुखेन सर्वप्राणिनां ब्रह्मादिस्तम्बपर्यन्तानामायुष्यं गणयतीति द्रव्यादिगणनाकारिभ्यस्साङ्ख्यगणकादिभ्य उत्कृष्टत्वं कालस्य । मृगा अरण्यचारिणः पशवः । हरिणगजवराहशरभादयः । सिंहव्याघ्रयोरप्यरण्य- चारि पशुत्वाविशेषान्मृगजातीयत्वम् ॥३०॥
पवन इति । पवतां जगत्परिशुद्धिहेतूनां जलान्यादीनां मध्ये वायुरुत्कृष्टः । तस्य निखिल- गगनभागचारित्वेन सर्वव्यापित्वात्सर्वपावनत्वमिति । राम इति परशुरामबलरामयोर्व्युदासायाह- दाशरथिरिति । नच दाशरथेरेव कथमुत्कृष्टत्वमिति वाच्यं रामबाणस्य सप्ततालपर्वतभूमीनां युगपत् क्षणादेव भेदकत्वेन, अमोघत्वेन च रामस्यापि सर्वक्षत्रियहन्तृपरशुरामजेतृत्वेन च राम उत्कृष्ट शस्त्र - धारिष्विति । यद्यपि परशुरामोऽप्युत्कृष्टस्तथापि तस्मादपि राम उत्कृष्ट इति दाशरथिरिह निर्दिष्टः ।
१६२
श्रीभगवद्गीतासु- भाष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
धारयितृणां दाशरथी रामोऽहम् । झषाणां मत्स्यादीनां मकरो नाम जातिविशेषोऽहम् । स्रोतसां स्रवन्तीनामस्मि जाह्नवी गङ्गा ||३१||
शस्त्रभृतश्शस्त्रादिभिर्युद्धकारिणो वीरपुरुषा भीष्मद्रोणाश्वत्थाम कर्णार्जुनरावणकुम्भकर्णादयः । रामस्यापि शस्त्रभृत्त्वात्तदन्तः प्रवेशः । शस्त्रभृत्त्वमंत्र जातिः । रामस्तु व्यक्तिरिति विवेकः । अतो राम एवात्र विभूतिः; नतु शस्त्रभृतः । शस्त्रभृतां वृक्षादिस्थानीयत्वाद्रामस्य चाश्वत्थस्थानीयत्वात राज्जातीयोत्कृष्ट- पदार्थस्यैव विभूतित्वात् ।
नच रामस्य साक्षाद्भगवत्त्वात्कथं विभूतित्वमिति वाच्यं योऽत्र दशरथादुत्पन्ने कार्यकरण- सङ्घातात्मके देहे स्फुरति तस्य चिन्मयस्यात्मनो रामस्य साक्षाद्भगवत्त्वेऽपि सङ्घातस्य जडस्यानित्यस्य कार्यस्य सविकारस्य भगवत्त्वाभावात् । भगवति परमात्मनि मायया देवादिसङ्घातानामिव तत्सङ्घात- स्यापि कल्पितत्वात् । तस्यैव सङ्घातस्य भूतशब्दवाच्यस्य प्राणिन इह दाशरथिरामत्वेन विवक्षितत्वात् । तस्य च भगवति कल्पितत्वेन भगवद्विभूतित्वात् । नच चिन्मय एव विवक्षित इति वाच्यं, चिन्मयस्य शस्त्रभृज्जातीयत्वायोगात् । शस्त्रभृतो हि प्राणिनः । प्राणिहस्तधार्यत्वाच्छस्त्राणाम् ।
एतेन रामानुजोक्तं शस्त्रभृत्त्वं विभूतिरर्थान्तराभावादिति भाष्यं, अचिद्विशेषस्य चेतनान्तरस्य वा शस्त्रभृच्छब्दवाच्यस्यात्रासम्भवादिति वेदान्तदेशिक व्याख्यानं च प्रत्याख्यातम् ।
शस्त्रभृच्छब्दवाच्यस्य दाशरथिशरीरेऽहमित्यभिमन्यमानस्य कार्यकरणसङ्घातात्मकस्य प्राणिन- श्चिन्मयादात्मनोऽन्यस्य प्रमातुरीश्वरस्य सत्त्वात् । अचिद्विशेषस्य रामदेहस्यैव साक्षाच्छ्त्र सम्बन्धसत्त्वात् चेतनस्य चिदाभासस्य च देहद्वारा शस्त्रसम्बन्धसत्त्वादस्त्येव शस्त्रभृत्, देहरूपश्चिदाभासरूपो वा । अस्मदादिशरीरेषु वर्तमानश्विदाभासो जीवः, रामकृष्णादिशरीरेषु वर्तमानस्तु ईश्वर इति व्यहारविवेकः ।
नचेश्वरस्य चिदाभासत्वमयुक्तं चिदाभासस्य संसारित्वादिति वाच्यं, जीवेश्वरावाभासेन करो- तीति श्रुत्यैव जीववदीश्वरस्यापि चिदाभासत्वस्यो क्तत्वात् । मायायां चित्प्रतिबिम्बो हीश्वरः । आभासश्च प्रतिबिम्ब एवेति चिदाभासस्यापीश्वरस्य सर्वज्ञत्वादात्मस्वरूपज्ञत्वाच्च न संसारित्वं यथा वा जीवस्यापि ज्ञानिन इति । तस्मान्मायिकत्वाद्रामावतारो विभूतिरेव न तु भगवान् ।
नच रामः परमात्मेति व्यवहारविरोध इति वाच्यं तत्र रामशब्देन चिन्मयस्यैव विवक्षि- तत्वात् । न चात्रापि सैव विवक्षेति वाच्यं शस्त्रभृत्त्वस्य तद्विवक्षाऽभावगमकत्वादित्युक्तत्वात् ।
"
किंच आदित्यादयः क्षेत्रज्ञा ईश्वरशरीरत्वाच्छस्त्रभृत्स्थानीया रामस्त्वीश्वरस्स्वयमेवेति यदुक्तं रामानुजेन तच्चासत्— शस्त्रभृतां जीवानां मध्ये शस्त्रभृतो जीवस्यैवोत्कृष्टस्य भगवद्विभूतित्वेन वक्त- व्यत्वात प्राकरणिकमर्थं विहाय जीवेभ्य ईश्वर उत्कृष्ट इति शस्त्रभृद्भ्योऽशस्त्रभृत ईश्वरस्योत्कुष्टीकरण- मिहानुचितमिति ।
मकर इति । तस्य जलजन्तुषु मत्स्येषूत्कृष्टत्वं बलक्रौर्यादिमत्त्वेन । अत एव तस्य मत्स्य - राजत्वव्यपदेशः । सवत्यो नद्यः । विष्णुपादोद्भवत्वादिना गङ्गायाः प्राशस्त्यम् ॥ ३१ ॥
दशमोऽध्यायः ।
सर्गाणामादिरन्तथ मध्यं चैवाहमर्जुन !
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् || ३२॥
१६३
सर्गाणामिति । सर्गाणां सृष्टीनामादिरन्तश्च मध्यं चैवाहमुत्पत्तिस्थितिलया अहं सर्गाणामिति । सृष्टयः क्रिया इति यावत् । तसां मध्ये उत्पत्त्यादिक्रियात्रयमी धरविभूतिः । गमनभाषणादयः क्रियान्तराणि । ताभ्य उत्कृष्टास्सर्जन रक्षणहरण क्रियाः । नच ‘उद्भवश्च भविष्यता’ मि- त्यनेन पौनस्वत्यं तत्रोद्भव शब्दस्याभ्युदयार्थकत्वात् ।
यत्तु सृज्यन्त इति सर्गास्तेषां सृष्टिस्थितिलयहेतुभूतास्तत्र तत्र स्रष्टारः पालयितारस्संहर्तारश्वाह- मेवेति रामानुजः, तन्मन्दम् — निर्धारणालाभात् । नच प्राणिनां मध्ये स्रष्टारः पालयितारस्संहर्तार - श्वाहमेवेति निर्धारणसिद्धिरिति वाच्यं, स्रष्टृत्वादिधर्मत्रयान्यतमरहितप्राणिमात्रस्यैवाभावात् । तृणा- दीनामपि कीटकादिष्टृत्वपश्वादि पालकत्व संहर्तृत्वदर्शनात् । आदिरन्तो मध्यमित्येकवचनशब्दप्रयोगाच्च । पालननाशवाचिनोर्मध्यान्तशब्दयोः पालकहारकेषु लक्षणयास्स्वीकरणीयत्वात्सम्भवति मुख्यार्थे लक्षणा- स्वीकारस्यान्याय्यत्वाच्च ।
ननु सर्गाणां प्राणिनां सृष्टिस्थितिलयानामहमेव हेतुरिति श्लोकार्थ इति चेन्मैवम् - निर्धा- रणालाभात् | अहमादिश्च मध्यं चेति पूर्वमेवास्यार्थस्योक्तत्वाच्च ।
ननु इममेव पुनरुक्तिदोषं भूतानां जीवाविष्टानामेवादिरन्तश्चेत्युक्तमुपक्रमे, इह तु सर्वस्य सर्ग - मात्रस्यैवेति विशेष इति परिहरतो भाष्यकारस्य सर्गाणां सर्वेषां गगनादिपदार्थानां सृष्टिस्थितिलयहेतु- रहमेवेत्यर्थ इत्याशय इति निश्चीयत इति चेत्तर्हि निर्धारणमला विवक्षितमिति स्रष्टृत्व रक्षकत्व संहर्तृत्वा- ण्येव विभूतिरिति च वक्तव्यं स्यात्, एतच्छ्रेोकमारभ्यैव तत्रतत्र ‘तेजस्तेजस्विनामह’ मित्यादौ निर्धारण - स्यादर्शनादित आरभ्य निर्धारणस्य प्रकरणसिद्धस्यापि भङ्ग इति बोध्यम् ।
नवं नक्षत्राणां शशीत्यत्रापि निर्धारणभङ्ग इति वाच्यं तत्र निर्धारणस्य सम्भवात् । अग- कतिस्थलेष्वेव तद्भङ्गाभ्युपगमात् । नच प्रकरणभङ्गो वक्तुर्दोषावह इति वाच्यं, भगवतस्सर्वज्ञस्य प्रकरणभङ्गादिदोषदूरत्वात् । न हि वेदेष्वार्षेषु वा ग्रन्थेषु छन्दोभङ्गादयो दोषत्वेन गृह्यन्ते विद्वद्भिः । तस्मात्प्रकरणभङ्गोऽयमार्षत्वादुपेक्ष्यः ।
अथ वा आदित्यानामित्यारभ्य जाह्नवीत्येतदन्तमेव निर्धारणषष्टीप्रकरणम् । सर्गाणामित्यारभ्य तु शेषषष्ठयपि प्रकृतैवेति निर्धारणषष्ठीवत् शेषषष्ठीप्रयोगेऽपि न प्रकरणभङ्गो दोषः ।
यद्वा विष्ण्वादयो मद्विभूतय इत्येतावदेव भगवता विवक्षितं न त्वादित्यादिमध्ये विष्ण्वादय इति । विष्ण्वादीनामादित्यादिषूत्कृष्टत्ववर्णनस्य स्वरूपकथनमात्रपरत्वात् । नचैवं नक्षत्राणां पतिरिति व्याख्यानं युक्तमिति वाच्यं, नक्षत्रेषूत्कृष्टत्ववर्णन, स्याप्यसिद्धेस्तदेति ।
१६४
श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
हे अर्जुन ! भूतानां जीवाधिष्ठितानामेवादिरन्तश्चेत्युक्तमुपक्रमे, इह तु सर्वस्यैव सर्गमात्त्रस्येति
+
नचैवं सर्गाणामिति श्लोके कापि न विभूतिरुक्तेति वाच्यं, सृष्टिस्थितिलयहेतोरीश्वरस्यैव ‘विभूतेरुक्तत्वात् । न चेश्वरो भगवानेवेति कथं तस्य विभूतित्वमिति वाच्यं, जीववदीश्वरस्यापि मायया
परमात्मनि कल्पितत्वेन ईश्वरस्यात्म विभूतित्वादिति ।
प्रकृतत्वान्निर्धारणषष्ठी नैव त्याज्येति मते, सर्गाणां भूतानां मध्ये सृष्टिस्थितिलयहेतुरीश्वराख्यः प्राण्यहमित्यप्यर्थ आपतति, ‘अहमादिश्च मध्यं च भूतानामन्त एव च’ इति श्लोकस्यापि निर्धारण- षष्ठीप्रकरणान्तर्भावेऽभिप्रेते तु, पुनरुक्तिस्स्यात् । अतस्तत्परिहारायाह — भूतानामिति ।
भूतशब्देन सजीवा विवक्षितास्सर्गशब्देन तु सजीव निर्जीवरूपं कार्यमात्रमिति । ततश्च प्राणिनां " मध्ये ईश्वराख्यः प्राप्यहं, कार्याणां मध्ये चेश्वराख्यं कार्यमहमिति । न चेश्वरस्य कार्यत्वे विवदितव्यं,
‘जीवेशावाभासेन करो’ तीति श्रुतेः ।
न चेश्वरस्य पुनरपि निर्धारणात्पुनरुक्तिरिति वाच्यं निर्धार्यमाणस्येश्वरस्याभेदेऽपि निर्धार- णाश्रयाणां भूतानां सर्गाणां च भेदात् ।
यद्वा प्राणिनां मध्ये हिरण्यगर्भाख्य ईश्वर उत्कृष्टः, सर्गाणां मध्ये तु मायाप्रतिबिम्ब ईश्वर इति निर्धार्यमाणभेदोऽपीति ।
वस्तुतस्तु भगवद्विभूतेर्भगवन्माहात्म्यरूपयोगस्य च जिज्ञासितत्वादर्जुनेन श्रीकृष्णेनापि विभूति - कथनमध्येsपि योग उक्तः प्रकृतत्वात्तस्य चेति बोध्यम् ।
तथा च अहमादिश्चेतिश्लोकवत्सर्गाणामित्येषोऽपि भगवन्माहात्म्य प्रदर्शनपर एव । विभूति- लोकेषु तु निर्धारणषष्ठी प्रकृता, नतु योगे । अतो नाव सर्गाणामिति निर्धारणषष्ठी, नापि नक्ष- त्राणामित्यत्र शेषषष्ठी ।
नन्वेवमहमादिरित्यनेनास्य पुनरुक्तमत आह-भूतानां जीवाधिष्ठितानामेवेति । एवकारान्न तु निर्जीवानाम् । सृज्यत इति सर्गः कार्ये तन्मात्रम् । नचैवं सर्गाणामित्यस्य सृष्टीनामिति प्रतिपद- मयुक्तमिति वाच्यं, सृष्टीनामित्यस्य सृष्टिविषयाणामित्यर्थात् । उत्पत्तिस्थितिलयास्तद्धेतुरित्यर्थः । अथ वा जन्मस्थितिभङ्गाः क्रिया एवार्थः ।
अहमादिश्चेति श्लोकेन तु भूतानामुत्पतिस्थितिलयहेतुरीश्वरोऽहमित्युक्तमिह तु सर्गाणामुत्पत्ति- स्थितिलया एवाहमित्युच्यते । अतो न पुनरुक्तिदोषावकाशः ।
नचैवं पुनरुक्तिशङ्काया एवानवकाशे इह तु सर्गमात्रस्येति विशेष इति कुत उक्तमाचार्यैरिति वेदुच्यते - इति विशेष इत्यस्या इत्यपि विशेष इत्यर्थः ।
अयमाशयः - आदिरन्तो मध्यमिति शब्दत्रयस्य द्विः श्रवणाच्छ्रोतॄणां पुनरुक्तिदोषशङ्का स्यात्तन्निरासे च हेतुद्वयमस्ति तत्रैक:- आदिमध्यान्तशब्दानां दर्शितार्थ भेदरूपः द्वितीयस्तु भूतसर्ग- शब्दयोरर्थ भेदरूपश्वेति ।
एवंमेव सृष्टयः क्रिया इत्यस्मिन्मते ऽपि पुनरुक्तिदोषप्रसङ्गश्शङ्कितुराशयानुगुण्येन प्रसञ्जनीयः । परिहारस्य भाष्ये कण्ठत एवोक्तत्वादिति ।
दशमोऽध्यायः ।
१६५
विशेषः । अध्यात्मविद्या विद्यानां मोक्षार्थत्वात्प्रधान मस्मि । वादोऽर्थनिर्णयहेतुत्वात्प्रवदतां प्रधानम् । अतः सोऽहमस्मि । प्रवक्तद्वारेण वदनभेदानामेव वादजल्पवितण्डानामिह ग्रहणं प्रवदतामिति ॥ ३२॥
अक्षराणामकारोऽस्मि द्वन्द्वस्सामासिकस्य च ।
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ||३३|
अक्षराणामिति । अक्षराणां वर्णानामकारो वर्णोऽस्मि । - इन्द्रः समासोऽस्मि सामासि- कस्य समाससमूहस्य । किंचामेवाक्षयोऽक्षीणः कालः प्रसिद्धः क्षणाद्याख्यः, अथ वा परमेश्वरः कालस्यापि कालोऽस्मि । धाताऽहं कर्मफलस्य विधाता सर्वजगतो विश्वतोमुखः सर्वतोमुखः ॥३३॥
विद्यानां वेदवेदाङ्गादीनाम् । मोक्षार्थत्वादिति । अन्यास्तु धर्मकामादिफलिका, इति भावः । प्रवदतां प्रवक्तृणां यः प्रधानभूतो वादस्सोऽहमस्मीति तेजस्तेजस्विनामितिवत्प्रधानमात्र निर्देशः ।
ननु वादस्य विभूतित्वाद्विभूतिषु निर्धारणषष्ठया एव प्रकृतत्वात् कथं शेषषष्ठीग्रहणमत आह- प्रवक्त्रिति ।
तर्हि निर्धारणष्ठयेवाश्रयतां, तथा च प्रवदतामित्यस्य लक्षणया प्रवक्तृधर्माणां वादजल्प- वितण्डानामित्यर्थः । तन्मध्ये वादस्योत्कर्षे हेतुमाह–अर्थनिर्णयहेतुत्वादिति । वदनभेदानां वचनविशेषाणाम् ।
प्रमाणफलतत्त्वबुभुत्सोः कथा वादः; उभयसाधनवती विजिगीषुकथा जल्पः खपेक्षस्थापनाहीना परपक्षविदलनमात्रावसाना वितण्डा । इहोपात्तानां त्रयाणां वचनभेदानां भेदान्तरोपलक्षणत्वात् छलजा- त्यादिग्रहणम् । अभिप्रायान्तरेण प्रयुक्तस्याभिप्रायान्तरेण दूषणं छल; असदुत्तरं जाति:; - इत्याद्यन्यतो ग्राह्यम् ॥३२॥
.
“अक्षराणामिति । अक्षराण्यचो हलच, तेषां मध्ये आद्यक्षरमकारोऽहम् । अकारो हि सर्व- वर्णादित्वात्प्रणवाद्यवयवत्वात्सर्ववर्ण प्रकृतित्वाच्चोत्कृष्टः । अकारस्य सर्ववर्णप्रकृतित्वं च- ‘अकारो सर्वा वागिति श्रुतिसिद्धम् । द्वन्द्वस्य स्वघटकोभयपदार्थप्रधानत्वात्प्राथान्यम् । पूर्वपदार्थप्रधानो ऽव्ययी - भाव; उत्तरपदार्थप्रधानस्तत्पुरुषः; अन्यपदार्थप्रधानो बहुव्रीहिरुभयपदार्थप्रधानो द्वन्द्व इति प्रायो वादः ।
अक्षीण इति । प्रवाहनित्य इत्यर्थः । अहमेवेत्यादिपादत्रयेण कालादय ईश्वरविभूतय इत्येतावदेवेह विवक्षितं नतु निर्धारणं षष्ठ्यन्तपदादर्शनात् । नच विभूतिषु निर्धारणषष्ठी प्रकृतेति “वाच्यं सत्यां षष्ठयां निर्धारण प्रकृतं तदभावे तु कथमिति ।
.
अथ वा नित्यानित्यलक्षणकालद्वयमध्ये ऽक्षयः कालोऽहम् । अनित्यः कालः क्षणादिरूपः, नित्यस्त्वीश्वर एवेति सिद्धान्तात् । तदेवाह — परमेश्वरो वेति ।
"
कुतस्तस्य कालवत आह— कालस्यापीति । कल्यति परिच्छिनत्ति क्षणादिरूपेण जन्य
  • कालमिति काल: परमेश्वरः । परमेश्वरेण हि सूर्यगमनादिद्वारा कालः परिच्छिद्यते । १.६६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मृत्युस्सर्वहरश्वाहमुद्भवश्च भविष्यताम् । कीर्तिश्श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ ३४ ॥ मृत्युरिति । मृत्युर्द्विविधः धनादिहरः प्राणहरथः तत्र यः प्राणहरः स सर्वहर इत्युच्यते, सोऽहमित्यर्थः । अथ वा पर ईश्वरः प्रलये सर्वहरणात्सर्वहरः सोऽहम् । उद्भव यद्वा माहात्म्य परमिदं वाक्यत्रयम् । तथा च कालस्यापि कालोऽहं धाताऽहं मृत्युरहमि भगवन्माहात्म्यकथनम् । सर्वतो मुखत्वं सर्वव्यापित्वं सर्वद्रष्टृत्वं वा । विश्वतोमुखेन मयैव सर्वस्य जगतः कर्मफलं विधीयत इति भगवन्माहात्म्यकथनमिदम् । सर्वेषां तत्तत्कर्मानुगुण्येन फलविधानसामर्थ्यमीश्वर- स्यास्तीति द्योतनाय विश्वतोमुख इत्युक्तम् । अत्रापि - ‘घाता घातॄणां भुवनस्य गोप्ता’ इति श्रुतेः घातॄणां मध्ये विश्वतोमुखो घाताऽहमिति निर्धारणं सुवचम् । रथादिनिर्मातारो धातारः, तदपेक्षया कर्मफलविधातुरीश्वरस्योत्कृष्टत्वम् । नचेश्वर एव कथमीश्वरस्य विभूतिरिति वाच्यं, घातृत्वरूपेण विभूतित्वादेवं कालत्वादिना चेति बोध्यम् । विश्वतोमुखश्चतुर्मुखो घाता हिरण्यगर्भोऽहमेवेति वा । विश्वामित्रादिभ्यस्तस्योत्कृष्टत्वादीश्वर- विभूतित्वमिति बोध्यम् ॥३३॥ मृत्युरिति । मृत्युद्वयस्य मध्ये सर्वहरो मृत्युरहम् । मृत्युद्वयं दर्शयति — धनादिहरः प्राण- हरचेति । तत्र कस्सर्वहरोऽत आह-य इति । प्राणहर एव सर्वहर इत्युच्यत इत्यर्थः । यद्वा मृत्युद्विविधः प्रपञ्चे सर्वप्राणिजीवितहर एको यमनामको मृत्युदेवतेति वा । प्रलये सर्वजगन्नाशक ईश्वरोऽन्यः । तयोर्मध्ये यस्सर्वहर ईश्वरस्सोऽहमित्याह - अथ वेति । अयं चेश्वरो मायातमोगुणावच्छिन्नो रुद्रनामक इति बोध्यम् । तथा च रुद्र ईश्वरविभूतिरिति सिद्धम् । ब्रह्मविष्णु- रुद्राणां त्रयाणामीश्वरे ब्रह्मणि कल्पितत्वेन विभूतित्वात् । अथ वा एकस्यैवेश्वरस्य मायावच्छिन्नचैतन्यलक्षणस्य स्रष्टृत्वरक्षकत्व संहर्तृत्वगुणयोगाद्ब्रह्म- विष्णुरुद्रशब्दवाच्यत्वम् । तत्र संहर्तृत्वगुणयोगी यः परमेश्वरः सोऽहम् । अस्य च सगुणेश्वरस्य निर्गुण ब्रह्मत्वायोगातद्विभूतित्व मेव । । । यत्तु वेदान्तदेशिकः – यमादेशका रिप्राणहरणाधिकृतः पुरुषविशेषो मृत्युरिति, तन्मन्दम्- तादृशस्याप्रमाणत्वात् । यमदूतानां च बहुत्वात् । नच मृत्युदेवतैवेति वाच्यं तस्या भगवदाज्ञा- परतन्त्रत्वेन यमादेशकारित्वाभावात् । ननु भूतानामन्त एव चेत्यनेन लयहेतोरीश्वरस्योक्तत्वादत्र मृत्युरीश्वर इति व्याख्यानं पुन- रुक्तमिति चेन्मैवम् – तत्र लयस्थानमात्रस्यैवोक्तत्वात् । अहमादिरिति श्लोकस्य भगवन्माहात्म्यकथन- परत्वेन विभूतिपरत्वाभावाच्च । नच सर्गाणामिति श्लोकार्थेन पुनरुक्तमिति वाच्यं, सृष्टिस्थितिलयत्रितयहेतुत्वेन तत्रेश्वरो निर्धारितः । अत्र तु केवल्ल्यहेतुत्वेनेति भेदात् सर्गेषु तत्रेश्वरो निर्धारितः मृत्युद्वये त्वत्रेति भेदादिति वा । . देशमोऽध्यायः । १६७ उत्कर्षोऽभ्युदयः तत्प्राप्तिहेतुश्वाऽहं केषाम् ? भविष्यतां भाविकल्याणानां; उत्कर्षप्राप्तियोग्या- नामित्यर्थः । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिः मेधा धृतिः क्षमा इत्येता उत्तमाः स्त्रीणामह- मस्मि । यासामाभासमात्रसम्बन्धेनापि लोकः कृतार्थमात्मानं मन्यते ॥ ३४ ॥ बृहत्साम तथा सानां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ||३५|| बृहदिति । बृहत्साम तथा सानां प्रधानमस्मि गायत्री छन्दसामहं, गायत्र्यादि- छन्दोविशिष्टानामृचां मध्ये गायत्री ऋगहमस्मीत्यर्थः । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरो वसन्तः || ३५॥ ईश्वरश्च त्रिणेत्रो रुद्र इति व्याख्याने नैव पुनरुक्तिप्रसङ्गः । मृत्युरहमिति मधुसूदनः । अत्र संहतॄणां मध्ये सर्व संहर्ता उच्चैरभितो भवत्युदेतीति उद्भवोऽभ्युदयो धर्मादिरूपः । लक्षणया अभ्युदयप्राप्तिहेतुरप्युद्भव एव । उद्भवत्यस्मात्पुंसामभ्युदय इति व्युत्पत्त्या उद्भवशब्दोऽभिधयापि दर्शितमर्थ बोधयत्येव । न चोद्भवशब्दोऽत्र उत्पत्तिपर इति वाच्यं, आदिरित्यनेन तस्योक्तत्वात् । नच मृत्युशव्दसाह - चर्यादत्रोद्भवशब्द उत्पत्तिपर एवेति वाच्यं, मृत्युशब्दस्यापि मरणार्थवा चित्वाभावादत्र । किं तर्हि ? सर्वप्राणहरणरूपाऽशुभहेतुर्मृत्युरित्युक्तत्वेन सर्वाभ्युदयरूपशुभहेतुः क इत्याकांक्षायां सोऽप्यहमेवेत्युक्त- मिति पूर्वोत्तरसङ्गति सद्भावाद्यथोक्त एवार्थः । भाविकल्याणानामिति । भाविं भविष्यत्कल्याणं शुभं येषां तेषां भाविकल्याणानां पुरु- षाणामिदमेव स्पष्टयति उत्कर्षति । उत्कर्षप्राप्तियोग्यत्वमेव भाविकल्याणत्वमिति भावः । अकल्या- णस्य सर्वहरणस्य प्रतियोगितया कल्याणलाभः । शुभाशुभे हि प्रतियोगिपदार्थों । नारीणां मध्ये कीर्त्यादिनामिका या उत्तमोत्तमाः स्त्रियः तास्सर्वा अप्यहमेव । धर्मस्य पत्न्यः कीर्त्यादिगुणाभिमानिन्यो देवताः कीर्त्यादिशब्देनोच्यन्ते । तत्र कीर्तिर्यशः धार्मिकत्वनिमित्तख्यातिः । श्रीसम्पत् । वाग्विद्या । स्मृतिस्स्मरणम् । मेधा ग्रन्थधारणशक्तिर्बुद्धेः । धृतिधैर्यम् । क्षमा मानाव- मानयोरविकृतचित्तता । कुतः कीर्त्यादीनामुत्तमोत्तमत्वमत आह-यासामिति । यासां कीर्तिलक्ष्मी- सरस्वत्यादिदेवतानामाभासमात्र सम्बन्धोऽत्यल्पसम्बन्धः, तदभिमानविषयकीर्ति सम्पदादिगुणात्पयोगगम्य इति भावः । तेनापि लोको जनः स्त्रियः पुरुषा चालानं कृतार्थ मन्यन्ते । संसारिणामज्ञानां हि कीर्तिधनादिभिरात्मनि कृतार्थबुद्धिः, विदुषां तु ज्ञानेनैव ॥ ३४ ॥ बृहदिति । साम्नां मध्ये उत्कृष्टं बृहत्सामाख्यं साम ‘बृहच्च वा इदमये रथन्तरं चे ‘ति श्रुतेः । ‘त्वामिद्धि हवामह’ इत्यस्यामृचि गीयमानं साम बृहत्साम । छन्दसामुष्गिगनुष्टुत्रिष्टुप् प्रमुखानां मध्ये गायत्री छन्दोऽहमिति व्याख्याने गायत्रीछन्दस उत्कर्षे हेतुर्नास्तीत्यभिप्रेत्याह - ऋचामिति । पाद- १६८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु बद्धो वेदभागो ऋगित्युच्यते । गायत्रीऋक् गायत्री छन्दोविशिष्टा ऋक् । गायत्रीछन्दस्तु षडक्षर- पादबद्धम् । यथा ‘मारायुधभूता बाला शफराक्षी कान्तं हरिमो गालक्ष्मीस्तनुमध्या’ इति श्लोकः एवं षडक्षरैश्चतुर्भिः पादैः बद्धा ऋक् गायत्रीछन्दोविशिष्टा । ननु यद्येवं लोकवद्वेदेऽपि षडक्षरपादचतुष्टयवत एव छन्दसो गायत्रीसंज्ञत्वं तर्हि तत्सवितुरिति मन्त्रस्य गायत्रीछन्दस्कत्वं न स्यात्, तत्सवितुरित्यस्य मन्त्रस्य विश्वामित्रऋषिस्सविता देवता गयत्री छन्द इति तु मन्त्रशास्त्रे प्रसिद्धम् । तथा ‘उदुत्यं जातवेदस’ मित्यादिमन्त्राणां च गायत्रीछन्द इति प्रसिद्धम् । एवं गायत्री त्रिपदेत्यपि प्रसिद्ध गायत्री चतुर्विंशत्यक्षरा त्रिपदा षट्कुक्षिरिति मन्त्रप्रयोगे दर्शनात् । तस्माद्वेदेऽष्टाक्षरपदत्रयैव गायत्री । एवं भूतगायत्री छन्दो विशिष्टत्वादपि तत्सवितुरित्यस्य गायत्रीमन्त्रत्वव्यवहारः । न तत्सवितुर्वरेण्यमिति सप्ताक्षरमेव प्रथमपाद इति वाच्यं णियमित्यक्षरद्वयपाठात् । नच परो- रजसि सावदोमिति चतुर्थपादोऽप्यस्तीति वाच्यं तस्य मन्त्रान्तरत्वात् । त्रिपदाया एव गायत्र्या- सर्वत्रोपदेशादिषु प्रसिद्धत्वात् । एवमुदुत्यं जातवेदसमित्यादिऋक्ष्वपि त्रिपदैवैकैका ऋक्कू, ‘उदुत्यं जातवेदसं देवं वहन्ति केतवः, दृशे विश्वाय सूर्य’ मित्यस्या एकऋत्रत्वात् । नचापत्ये तायवो यथेत्येतदप्यस्या एव पादभूतमिति वाच्यं, नवाद्या गायत्री छन्द इति वचनानुरोधेन उदुत्यं जातवेदसमिति मन्त्रे नव गायत्री ऋचां भवितव्यत्वात् । सप्तविंशतिपादानां दृश्यमानत्वाच्च । एकैकस्या ऋचः पादत्रयात्मकत्वेन भवितव्यत्वात् । तस्मादष्टाक्षरत्रिपदैव गायत्री । लोके तु चतुर्विंशत्यक्षरा गायत्री षडक्षरपादचतुष्टयवत्त्वेन पिङ्गलमुनिना कल्पिता, चतुष्पात्त्वेपि चतुर्विंशत्यक्षर सङ्ख्यायास्सत्त्वाद्गायत्रीत्वम् । नच लोकवद्वेदेऽपि चतुर्विंशत्यक्षरामृचं चतुर्धा विभज्य षड्भिरक्षरैरेकः पाद इति कल्प्यतामिति वाच्यं उदुत्यं जातवेदसमित्यत्र उदुत्यं जातवे इति पाद- विभागस्य कर्तुमशक्यत्वात् । न ह्येकस्मिन्पदे यतिविच्छेदः स्यात् । तर्हि लोक एवाष्टाक्षरं पादत्रयं गायत्रीछन्दसः कल्प्यतामिति वाच्यं लोके श्लोकानां चतुष्पादवत्त्वेन भाव्यत्वात् । तस्मादष्टाक्षर मेव गायत्रीपादः । नच गायत्र्यनुष्टुप्छन्दसोरसाङ्कर्यमिति वाच्यं, गायत्र्या स्त्रिपदत्वादनुष्टुमा तुष्पदत्वाच्च । गायत्र्याश्चतुर्विंशत्यक्षरत्वादनुष्टुभो द्वात्रिंशदक्षरत्वाच्च वैलक्षण्यात् । तथा चं त्रिष्टुभादिच्छन्दोबद्धानामृचाम्मध्ये गायत्रीछन्दोबद्धैव ऋगुत्कृष्टा । सा च ऋग्दर्शिता । ‘तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदया’ दिति । अस्य च मन्त्रस्य गायत्रीदेवताकत्वाद्गायत्री छन्दोबद्धत्वाच्च गायत्रीति व्यपदेशः । उदुत्यं जातवेदसमित्यादीनां तु गायन्त्रीछन्दस्कत्वेऽपि गायत्रीदेवताकत्वं नास्तीति नास्ति तेषां गायत्रीमन्त्र- व्यवहारः ।२२ दशमोऽध्यायः । १६९ एवं गायत्री छन्दोविशिष्टऋचामपि गायत्रीमन्त्र एवोत्कृष्ट इति त्रिष्टुभादिच्छन्दो विशिष्टाना- मृचां मध्येऽपि गायत्रीमन्त्र एवोत्तमोत्तम इति गायत्रीशब्देनात्र गायत्रीमन्त्र एव गृहीतुमर्हः ‘न गायत्र्याः परो मन्त्र’ इत्यनेन गायत्रीमन्त्रस्य प्राशस्त्यं स्फुटमुच्यते । । ननुं काऽसौ गायत्रीदेवतेति चेत्सवितुर्वरेण्यं यत्तेजस्तदेव । किं ज्योतिः न, चैतन्यमेव सूर्यमण्डलावच्छिन्नं चैतन्यं गायत्रीत्युच्यते । सूर्यस्य तावत्सर्वसाक्षित्वेनेश्वरत्वप्रसिद्धेस्तस्यापि सूर्यस्य यदन्तरं चैतन्यं तदेवेश्वरो गायत्रीत्युच्यते । नैतावताऽस्मदादिशरीरावच्छिन्नस्यानवच्छिन्नस्य वा चैत- न्यस्य गायत्रीव्यवहाराभाव:- चिच्छक्तेरेव गायत्रीत्वात् । तस्माच्चैतन्यं परं ब्रह्मैव गायत्री । न च स्त्रीलिङ्गप्रयोगात्कालीसरस्वत्यादिशक्तिर्गायत्रीति वाच्यं, चैतन्ये निर्विशेषे आत्मेति ब्रह्मेति पुंनपुंसक - शब्दयोरिव गायत्रीति स्त्रीलिङ्गस्यापि प्रयोगसम्भवात् । एवं ब्रह्मपरत्वाज्जीवब्रह्मा भेदरूपतत्त्वार्थबोध - कत्वाच्च गायत्रीमन्त्रस्सर्वमन्त्रोत्कृष्टः । अयं गायत्रीमन्त्रार्थ : - य ईश्वरो नः जीवानां धियः प्रचोदयात्प्रेरयति- ‘ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया’ इति वचनात् ‘यो भूतेषु तिष्ठ’ - नित्याद्यन्तर्यामिब्राह्मणाच्च । यच्छब्दात्तच्छब्दाध्याहारः । तस्य सवितु:- मायया जगत्सृष्टिस्थितिलय- हेतुभूतस्य देवस्य क्रीडत ईश्वरस्य सम्बन्धि तत्स्वरूपभूतं वस्तुत ईश्वरस्यैव ब्रह्मत्वादिति भावः । बिम्बभूतमिति वा । जीवेश्वरयोर्मायाविद्योपाधिद्वयप्रति फलित ब्रह्मचैतन्यप्रति बिम्ब रूपत्वादिति भावः । तत् नित्यापरोक्षतया सच्चिदानन्दरूपतया प्रसिद्धमिति वा । वरेण्यमुत्कृष्ट तेजः ज्ञानं; चैतन्यमिति यावत् । ब्रह्मेति भावः । धीमहि सोऽहमिति प्रत्यगभिन्नत्वेन पश्याम इति । गायत्रीछन्दसामहं मन्त्राणां मध्ये गायत्रीमन्त्रोऽहमित्यर्थः । ऋचां मन्त्रत्वात् । एवंसति गायत्रीत्येकवचनमपि खरसतस्सङ्गच्छते - गायत्रीमन्त्रस्यैकत्वात् । यद्वा गायत्री छन्दोविशिष्टाया ऋचः उदुत्यं जातवेदसमित्यादयः तास्सर्वा अप्यहमेव । जात्यभि- प्रायाद्गायत्रीत्येकवचनम् । गायत्रीछन्दस एकत्वादिति वा । छन्दोवाचिना हि गायत्रीशब्देन त- द्विशिष्टा ऋग्लक्षिता । तदेवं गायत्रीमन्त्रस्य गायत्रीछन्दोशिविष्टमन्त्राणां वा भगवद्विभूतित्वमिति सिद्धम् । नच गायत्रीछन्दोबद्धमन्त्राणां कुत उत्कृष्टत्वमिति वाच्यं तज्जातौ गायत्रीमन्त्रस्य पठितत्वादिति । । यद्वा ‘अग्रे वै छन्दसां गायत्री’ इति श्रुतेर्गायत्र्याश्छन्दसामग्रत्वादुत्कृष्टत्वम् । न च ‘उक्ता- त्युक्ता तथा मध्येति पिङ्गलवचनादुक्तैव छन्दः प्रथममिति वाच्यं, ‘अग्निमीले पुरोहित’ मिति ऋच एव सर्ववेदानामादित्वात्तस्याश्च ऋचो गायत्रीछन्दोबद्धत्वात् । अग्निमील इति मन्त्रस्य अग्निर्देवता, गायत्री छन्द इति मन्त्रपाठे दर्शनात् । ननु गायत्री छन्दोबद्धमन्त्राणामितरछन्दोबद्ध मन्त्रेभ्य उत्कृष्टत्वे यदि गायत्रीछन्दोबद्धत्वमेव हेतुस्तर्हि छन्दस मध्ये गायत्रीछन्दस उत्कृष्टत्वं सिद्धमेवेति गायत्रीछन्दसामहमित्यस्याभिधासिद्ध १७० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सववतामहम् ॥ ३६ ॥ द्यूतमिति । द्यूतमक्षदेवनादिलक्षणं छलयतां छलस्य कतृणामस्मि । तेजस्विनां तेजोऽहम् । जयोऽस्मि जेतृणां; व्यवसायोऽस्मि व्यवसायिनां सच्चं सत्त्ववतां साच्चिकाना- 1 महम् ॥३६॥ एवार्थो वाच्यः । त्रिष्ठुमादिच्छन्दसां मध्ये गायत्री छन्दोऽहमिति । यथा च भाषितं रामानुजेन । तद्विहाय किमिति लाक्षणिकार्थकल्पना क्लेश आचर्याणामिति चेत्, उच्यते - पादाक्षरसङ्ख्या विशेष - नियमस्य छन्दश्शब्दार्थत्वात्तन्मात्रस्य नोत्कृष्टत्वं, किंतु तद्विशिष्टस्य शब्दसमूहस्यैवेति । न च श्रुति- विरोधः, तत्रापि छन्दोविशिष्टानां मध्ये गायत्रीछन्दो विशिष्टैवोत्कृष्टेति विचक्षयाऽविरोधात् । तादृश- स्यैव मन्त्रस्य ‘अग्निमील’ इत्यस्य वेदादौ स्थितत्वेनाग्रत्वाच्च । ननु अग्निमील इति मन्त्रस्य वेदादौ स्थितस्य गायत्रीछन्दो विशिष्टत्वेन गायत्री छन्दोविशिष्टा ऋच उत्कृष्टा इति यथोच्यते तथा वेदादावग्निमील इति मन्त्रे गायत्रीछन्दसो वर्तमानत्वाद्गायत्री- छन्दोऽपि छन्दसामुत्कृष्टमिति दवतुं शक्यमेवेति चेत्, सत्यम् उक्तन्यायेन वेदादावग्नेस्सत्त्वा- दग्निरेव देवोत्कृष्ट इति वक्तुमपि शक्यत्वात् । नचेष्टापत्ति :- ‘देवानामस्मि वासव’ इति गीताविरोधात् । ‘अग्निर्वै देवानामवमो विष्णुः परम इति श्रुतिविरोधाच्च । ननु श्रुतिस्मृतिविरोधादग्नेर्वेदादिस्थितिप्रयुक्तमुत्कृष्टृत्वं मास्तुनाम, तदविरोधाद्गायत्रीछन्दसो वेदाद्यमन्त्रस्थितिप्रयुक्त उत्कर्षस्यादिति चेत्, मैवम् — अग्निशब्दोत्तरद्वितीयाविभक्तेरग्निशब्दस्य वा वेदादिगतत्वेनोत्कृष्टत्वमिति वक्तव्यत्वात् । अथ वा भवतु छन्दोमात्रस्यापि तस्योत्कर्ष:, तथापि यन्मन्त्राधीन छन्दो मात्रस्योत्कर्ष: स एव मन्त्र इहोत्कृष्टत्वेन ग्राह्यो लाघवात् । तज्जातीयत्वादन्ये च तादृशा इति बोध्यम् । वस्तुतस्तु ऋगतिरेकेण छन्दसोऽभावादृक्सत्तयैव छन्दसरसत्तावत्त्वं नतु छन्दसः स्वातन्त्र्येण सचेति कृत्वा छन्दश्शब्देनेह स्वतन्त्रसत्ताशालिनी ऋगेव प्राह्येति बोध्यम् । तस्मान्नात्र गायत्रीछन्दस ईश्वर विभूतित्वं प्रतिपादितम् । मार्गशीर्षस्य सस्यादिसम्पत्तिहेतुत्वात्, व्रताद्युचितकालत्वाद्वा उत्कृष्टत्वम् । वसन्तस्य तु ‘वसन्ते वसन्ते ज्योतिषा यजेतेति ज्योतिष्टोमकालत्वात्पुष्पसमृद्धिमत्त्वेन प्राणिसुखकरत्वा दिति वा उत्कृष्टत्वम् ॥ द्यूतमिति । छलं कुर्वन्तीति छलयन्तः तेषां छलयतां लक्षणया छलानां मध्ये द्यूतमस्मि । द्यूतलक्षणमाह — अक्षदेवनादिलक्षणमिति । क्रयविक्रयऋणदायसंवित्सङ्गरादयश्छलानि - वञ्चना- स्पदत्वात्तेषाम् । द्यूतस्य सर्वाधिकत्वं च क्षणादेव धर्मराजादीनां द्यूते पराजयेन निस्स्वभवना- दुर्योधनादीनां च राजराजीभवनाज्जयेनेति बोध्यम् । एवं घनापहरणफलकेषु वञ्चनाविषयेषु क्रयविक्र- यादिसर्वच्छलेषु द्यूतस्य प्रकृष्टत्वादेव - ‘अक्षैर्मा दीव्य’ इति श्रुतितं निषेधति । तेजस्विनां दशमोऽध्यायः १७१ वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ३७॥ वृष्णीनामिति । वृष्णीनां यादवानां वासुदेवोऽस्मि, अयमेवाहं त्वत्सखा । पाण्डवानां धनंजयः त्वमेत्र । मुनीनां मननशीलानां सर्वपदार्थज्ञानिनामप्यहं व्यासः कवीनां क्रान्तदर्शिनां उशना कविरस्मि ||३७|| यत्प्रधानं तेजः जेतृणां यः प्रधानो व्यवसायः सत्त्वत्वतां यत्प्रधानं सत्त्वं तत्सर्वमहमस्मि । नाव निर्धारणं, किंतु विभूतिमालकथनमेव । यद्वा तेज औदार्यवैभवादिगुणानां मध्ये तेजोऽहं, जयापजययोर्मध्ये जयोऽहं सन्धिविग्रह - यानयुद्धजयादिषु जेतृधर्मेषु जयोऽहमिति वा । व्यवसाय उद्योगः । उद्योगानुद्यो गयो रुद्योगोऽहं; ‘उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी’ रित्युद्योगस्य प्रशंसितत्वात् । सङ्कल्पविकल्पनिश्चयादीनां मध्ये उद्योग उत्कृष्ट इति वा । अहमेवं करिष्यामीत्यादिसङ्कल्पादिभ्यः कर्मसु प्रवृत्तिरूपस्योद्योगस्य फल- हेतुत्वेन प्रकृष्टत्वमिति बोध्यम् । सत्त्ववतां सत्त्वं सामर्थ्य, तच्च वाक्कायेन्द्रियमनो विषयत्वमेदेन चतुर्विधम् । ततश्च वाक्पाटव- कायपाटवेन्द्रियपाटव मनः पाटवानां मध्ये सत्त्वं मनः पाटवमहमस्मि । मनःपाटवस्यैव विद्यामोक्षादिहेतुत्वे- नोत्कृष्टत्वात् । यद्वा सात्त्विकानां धर्मेषु सत्त्वादिषु सत्त्वमहं सत्त्वं शमदमादिलक्षणम् । आदिपदा- यज्ञादिधर्मा ग्राह्याः । अथ वा सत्त्वरजस्तमसां मध्ये सात्त्विाकानां गुणो यस्सत्त्वं सोऽहमेवेत्यर्थः । सत्त्वस्य च शमदमज्ञानादिहेतुत्वादुत्कृष्टत्वम् ||३६|| 1 वृष्णीनामिति । वृष्णयो यादवाः । कोऽसौ वासुदेवोऽत आह-अयमेवेति । तव यस्मिन् सखेति बुद्धिस्स वसुदेवसूनुरित्यर्थः । रामावतारवत्कृष्णावतारस्यापीश्वरे कल्पितत्वादीश्वर- विभूतित्वम् । धनं जयतीति धनञ्जय इति व्युत्पत्त्या निखिलराज विजयित्वरूपोत्कर्षस्सिद्धोऽर्जुन- स्येति द्योत्यते । कृष्णार्जुनयोर्नरनारायणावतारत्वेन कृष्णस्येवार्जुनस्यापि विष्ण्ववतारत्वाद्वोत्कर्षः । नरनारायणौ हि विष्ण्वंशसम्भूतावृषी । अत्र वृष्णीनामहमिति पाण्डवानां त्वमिति चोक्तेऽस्मत्त्वच्छब्दाभ्यां ग्रहणमात्मनस्यात्, वासु- देवो धनञ्जय इत्युक्ते तु यो वसुदेवाज्जातस्स कार्यकरणसङ्घात एव वासुदेवशब्देन येन शत्रूणां धनं जितं स सङ्घात एवार्जुनशब्देन च ग्राह्यः स्यात्, तयोश्च सङ्घातयोरीश्वरविभूतित्वं युक्तमीश्वरे कल्पि- तत्वादात्मनस्तु न युक्तमात्मन एवेश्वरत्वादिति बोध्यम् । मुनयो मननशीलाः सर्वपदार्थज्ञा वा । तेषां मध्ये व्यास उत्कृष्टः । आत्मस्वरूपमननशीलत्वा- त्सूत्र पुराणादिप्रबन्धकर्तृत्वेन वेदविभाजनेन च सर्वज्ञत्वाच्च । वेदान्न्यस्यति विभजतीति हि व्यास इति १७२ श्रीभगवद्गीतासु - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ ३८ ॥ दण्ड इति । दण्डो दमयतां दमयितॄणामस्म्यदान्तानां दमनकारणम् । नीतिरस्मि जिगीषतां जेतुमिच्छताम् । मौनं चैवास्मि गुह्यानां गोप्यानाम् । ज्ञानं ज्ञानवतामहम् ||३८|| यच्चापि सर्वभूतानां बीजं तदहमर्जुन ! न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥३९॥ यदिति । यच्चापि सर्वभूतानां बीजं प्ररोहकारणं तदहमर्जुन ! प्रकरणोपसंहारार्थ विभूतिसंक्षेपमाह-न तदस्ति भूतं चराचरं चरमचरं वा । मया विना यत्स्याद्भवेद; मयाऽप्रविष्टं परित्यक्तं निरात्मकं शून्यं हि तत्स्यात् । अतो मदात्मकं सर्वमित्यर्थः ॥३९॥ व्युत्पत्तिः । ‘व्यासो नारायणो हरिरिति नारयणांशत्वाद्वा व्यासस्योत्कर्ष: । क्रान्तदर्शिनो दूरदृष्टयः । भूतभविष्यद्वृत्तान्तवेदनशीला इति यावत् । उशना शुक्रः कविरिति पर्यायाः । उशनाभिघ कवि- शुक्रोऽहमित्यर्थ: । शुक्रस्य विपश्चित्प्राथम्यं तु ‘न कश्चिन्नोपनयते पुमानन्यत्र भार्गवात् । शेषसम्प्रति- पत्तिस्तु बुद्धिमत्स्ववतिष्ठत’ इति प्रसिद्धम् । नीतिशास्त्रादिकर्तृत्वाच्च ॥३७॥ । दण्ड इति । दमयतां घर्मेषु वादिप्रतिवादिवाक्यश्रवणसाक्षिविचारणादिषु शिक्षणरूपो यो दण्डस्सोऽहमस्मि । कुतस्तस्य श्रेष्ठत्वमत आह- अदान्तानामिति । अदान्तानामपि दमेन दान्तत्वं भवतीति दमस्योत्कृष्टत्वम् । यद्वा दमस्तां राजगुर्वादीनां दमयितव्येषु भृत्यशिष्यादिषु कर्तव्या ये भावा नयभयदयादयः, तेषां मध्ये दम एवोत्कृष्टः । दमादेव भृत्यादीनां दान्तीभूतत्वादिति । निर्धा- रणानाहे तु दमयतां यः प्रधानो दण्डस्सोऽहमस्मीति बोध्यम् । एवमुत्तरत्रापि । जिगीषतां ये शौर्य- धैर्यादयो गुणास्तेषां मध्ये नीतिरस्मि । नीतिपूर्वकत्वाज्जयलाभस्य । गुह्यानां गोप्यानां धनकनकौषधा- दीनां गोपना ये वस्त्रपेटिकादयः तेषां मध्ये मौनमुत्कृष्टमहमस्मि । तथा च गुह्यशब्दोऽत्र लक्षणया गुह्यगोपनपरः । वस्त्रादिभिर्गोपितमपि वस्तु सुवर्णादिकं मौनाभावे विवृतमेव स्यात् । मद्वस्त्रग्रन्थौ रूप - कारतीति वाचैव गोण्यवस्तुनः स्फुटीकृतत्वसम्भवात् । तथा पेटिकादिभिर्गोपयितुमशक्यमपि रहस्यं वाङ्मौनेन गोपयितुं शक्यत एव । तस्मान्मौनस्य गोपनेषूत्कृष्टत्वम् । ज्ञानवतां ये ज्ञानशमदमसुखादयो गुणास्तेषां मध्ये ज्ञानमहमस्मि । ज्ञानवतां यत्प्रधानं ज्ञानं तदहमस्मीति वा ॥३८॥ यदिति । बीजानां मध्ये यत्सर्वभूतानां बीजं तदहमस्मि । सर्वभूतबीजं तु प्रकृतिरिति बोध्यम् । एतेन प्रकृतेरपीश्वरविभूतित्वं सिद्धम् । प्रकृतेस्सूक्ष्मावस्थापन्नायाः स्थूलावस्थजगद्रूपं प्रति बीजत्वं यथा बीजस्य वृक्षादिप्रतीति बोध्यम् । विस्तरेणोक्तां विभूर्ति संक्षेपेण वदति - नेति । य- चराचरं भूतं मया विना स्यात्तन्नास्ति । चरमचरं वा किमपि भूतं मया विना नास्त्येवेत्यर्थः । मया विनेत्यस्यार्थमाह— मयाऽप्रविष्टमिति । सच्चिदानन्दरूपेण सर्वव्यापिना सर्वस्यात्मभूतेन मयाऽव्याप्त- मित्यर्थः । दशमोऽध्यायः । नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ! एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ ४० ॥ १७३ नेति । नान्तोऽस्ति मम दिव्यानां विभूतीनां विस्तराणां परन्तप । न हीश्वरस्य सर्वात्मनो दिव्यानां विभूतीनामियत्ता शक्या वक्तुं ज्ञातुं वा केनचित् । एष तूद्देशतः एक- देशेन प्रोक्तो विभूतेर्विस्तरो मया ॥४०॥ यद्यद्विभूतिमत्सचं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ॥४१॥ यद्यदिति । यद्यलोके विभूतिमद्विभूतियुक्तं सत्त्वं वस्तुजातं श्रीमदूर्जितमेव वा श्रीलक्ष्मी: तया सहितमुत्साहोपेतं वा तत्तदेवावगच्छ त्वं जानीहि ममेश्वरस्य तेजोंश- कल्पितस्याधिष्ठानात्मकत्वात्कार्यस्य च कारणात्मकत्वात्सर्वं जगदीश्वरात्मकमेवेति जगतस्स्वरूप- मीश्वर एव । यथा घटस्य मृत् । यथा वा सर्पस्य रज्जुः । ईश्वरस्य जगत्यप्रवेशे तु जगतः स्वरूपस्यै- वाभावाच्छ्रन्यत्वम् । किंच सच्चिदानन्देश्वरस्याप्रवेशे जगदस्ति जगद्भाति जगत्प्रियमिति व्यवहारो न सिद्धयेत् सच्चिदानन्दानामीश्वरधर्मत्वेन जगति तत्संक्रमणं विना तादृशव्यवहारासम्भवात् । तथा च शशशृङ्गादिवज्जगन्नास्ति, न भाति, न प्रियमित्येव प्रतीयेतेति शून्यमेव स्याज्जगदिति । 3 ननु सर्वव्यापीश्वरस्य कथं जगत्यप्रवेश स्सम्भाव्येतेति चेदुच्यते – ईश्वरश्य जगतश्च पृथ- करणमेव जगतीश्वरस्याप्रवेशत्वेन विवक्षितम् । पृथक्करणं च जगति दृश्यमानानां सत्ताजाड्यादिधर्माणां विवेचनम् । अयमीश्वरधर्मः, अयं जगद्धर्म इति बुद्ध्या जगतस्सकाशादीश्वरधर्माणां विवेचने कृते सति अनृतमेव जगत्सिद्ध्यति; अनृतस्य च शशशृङ्गादिव च्छून्यत्वमेवेति । एतेन सर्वस्यापि जगत ईश्वरे कल्पितत्वादीश्वरविभूतित्वमिति सिद्धम् ॥३९॥ नेति । अन्तोऽवधिः - इयतेति यावत् । घटोऽहं पटोऽहमश्माहं मृत्तिकाऽहमित्येवं मम विभूतीस्सर्वा वक्तुमहमपि न शक्नोमि । अनन्तत्वाद्विभूतीनाम् । परं तु सर्वा अहं जानामि सर्वज्ञ- त्वात् । अन्ये तु ज्ञातुमपि न शक्नुवन्ति किंचिज्ञत्वादिति भावः । एकदेशेनेति । कासांचि - त्प्रधानविभूतीनां ग्रहणेनेति भावः । विभूतेरिति जात्येकवचनम् । विभूतीनामित्यर्थः ॥ ४० ॥ यदिति । लोके यद्यत्सत्त्वं विभूतिमत् श्रीमत्, ऊर्जितमेव वा भवति तत्तत्सत्त्वं त्वं मम तेजोंशसम्भवमेवावगच्छ । विभूतिरैश्वर्यं सामर्थ्यमिति यावत् । श्रीसम्पत् । तेजशः ज्ञानैकदेशः । यद्यपि - . ’ ममैवांशो जीवलोके जीवभूतस्सनातन’ इति वचनात्सर्वेऽपीश्वरांशसम्भवा एव । तथापि साधा - रणप्राणिषु ईश्वरीयसर्वज्ञत्वरूपज्ञानधर्मैकदेशों नास्ति, विभूतिभूतेषु तु तदस्तीति विभूतीनामीश्वर- तेजोंशसम्भवत्वम् । तेजश्चात्रोपलक्षणं बलक्रिययोः । ईश्वरस्य स्वाभाविक्यो या ज्ञानबलक्रियास्तदेश- सम्भवमित्यर्थः । अत एंवेश्वरविभूतिषु रामकृष्ण महेन्द्रादिषु ज्ञानबलक्रिया विवयदर्शनम् । 1 १७४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सम्भवं तेजसोंश एकदेशः सम्भवो यस्य तत्तेजोंशसम्भवमित्यवगच्छ त्वम् ॥ ४१ ॥ अथ वा बहुनैतेन किं ज्ञानेन तवार्जुन ! विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीता - : सूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूति- योगोनाम दशमोऽध्यायः । अथ वेति । अथ वा बहुना एतेनैवमादिना किं ज्ञातेन तवाऽर्जुन स्यात्सावशेषेण । अशेषतस्त्वमिममुच्यमानमर्थ शृणु । विष्टभ्य विशेषतः स्तम्भनं दृढं कृत्वा इदं कृत्स्नं यद्वा तेजश्शब्दोऽत्र भगस्योपलक्षणम् । ऐश्वर्यवीर्ययशश्रीज्ञानवैराग्याणि भग इत्युच्यन्ते । तदेकदेशसम्भवमिति । जीवा ईश्वरचैतन्यांशभूताः, विभूतयस्तु ईश्वरचैतन्यांशभूताः सद्गुणांश- युक्ताश्चेति भावः । अतो नात्र तेजश्शब्दस्वरूप चैतन्यपर इति बोध्यम् । यद्वा जीवाः प्रत्यगात्मानः परब्रह्मणश्चैतन्यस्यांशभूताः । महाकाशस्यैव घटाकाशाः । राम- कृष्णादिविभूतयस्तु सर्वज्ञत्वादिगुणविशिष्टस्य मायिन ईश्वरस्यांशभूताः । अत एव विभूतिष्वीश्वर- गुणैकदेशोपलम्भः । अस्मिन्पक्षे ममेश्वरस्य यत्तेजस्सर्वज्ञत्वादिगुणयोगिचैतन्यं तदंशसम्भवमित्यर्थः । नच ममैवांश इतीश्वरांशत्वमुच्यते जीवानामिति वाच्यं तत्र ममेत्यस्य परब्रह्मण इत्यर्थात् । “ईश्वरेण प्रयुक्तो मच्छदो लक्षणया परमात्मानं वक्ति, जीवेन प्रयुक्त इवास्मच्छब्दो लक्षणया प्रत्यगात्मानम् । यत्तुरामानुजः - मम तेजस्सामर्थ्य नियमनशक्तिरिति, तन्मन्दम् — ईश्वरांशेषु प्रभुषु नियमनशक्तिदर्शनेऽपि ज्ञानिविरक्तादिषु तददर्शनात् । अथ तेजस्सर्वज्ञत्वसर्वकर्तृत्वसर्वेश्वरत्वादिरूपं सामर्थ्यमित्युच्यते, तर्हि तत्तेजो भगरूपमेव । एवं च तेजश्शब्दस्य उपलक्षणत्वं विनैव भगवाचकत्वं सम्भवतीति समीचीनमेवेदं व्याख्यानम् । अव- गच्छ विद्धि ॥४१॥ अथ वेति । ननु न तदस्ति विनेत्यनेन सर्वस्य जगत ईश्वरविभूतित्वस्योक्तत्वात् विभूति - मन्तश्श्रीमन्त ऊर्जिता एव मतेजोंशसम्भवत्वान्मद्विभूतयः । अनीश्वरा दरिद्रा निरुत्साहास्तु मतेजोंशा- सम्भवत्वान्न मद्विभूतय इति वचनं विरुद्धमिति शङ्कायां मतेजोंशसम्भवं विभूत्यादिगुणयुक्तं भूतं म- द्विभूतिरिति प्राधान्येनोक्तं ध्येयत्वार्थम् । वस्तुतस्तु सर्व जगन्मद्विभूतिरेव मत्तो जातत्वान्मय्येव कल्पि - तत्वात्सर्वस्य मदात्मकत्वादित्याह - अथ वेति । अथ वेति पक्षान्तरे । • बहुनेति । आदित्योऽहमश्वत्थोऽहमिन्द्रोऽहं चन्द्रोऽहमित्येवमादिभिर्बहुभिर्ज्ञातैः किं फलं तब- न किमपीत्यर्थः । तत्त्र हेतुमाह - सावशेषेणेति । अशेषतो विभूतीनां वक्तुमशक्यत्वात्प्रत्येक- विधयेति भावः । अहमिदं कृत्स्नं जगदेकपादेन विष्टभ्य स्थितः । स्तम्भनं कृत्वेति । अभिव्याप्ये- दशमोऽध्यायः । १७५ जगदेकांशेन एकावयवेनैकपादेन सर्वभूतस्वरूपेणेत्येतत् । तथा च मन्त्रवर्ण: ‘पादोऽस्य विश्वा भूतानि’ इति स्थितोऽहमिति ॥ ४२ इति श्रीपरमहंस परिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये विभूति- योगोनाम दशमोऽध्यायः । त्यर्थः । आक्रम्येति वा नियम्येतिं वा । सर्वथापि सर्वं जगत्स्वस्यैकस्मिन्नेव पादे यथास्यात्पादान्तरे यथा न स्यात्तथा कृत्वेत्यर्थः

एतेन इदं सर्वे जगदात्मगर्भे धर्ते भगवानीश्वरः कथं शक्नुयादिति शङ्गा परास्ता । भगवतः पादमात्रमेव स्वान्तस्सर्वं जगबिभर्ति किं पुनश्चतुष्पाद्ब्रह्मेत्यर्थापत्तेः । तथा सर्वस्मिन् ब्रह्मणि जगतस्सत्त्वे मुक्तप्राप्यब्रह्माभावप्रसङ्ग इति शङ्का च प्रत्युक्ता — मुक्त - प्राप्यस्य त्रिपाद्ब्रह्मणस्सत्त्वात् । ननु निरंशस्येश्वरस्य कुतोंशित्वमत आह— तथा चेति । श्रुतिप्रामाण्यान्निरंशस्यापि सांशत्वमभ्यु- पेयमिति भावः । अस्येश्वरस्य विश्वा सर्वाणि भूतानि पादः एकशः । अस्यैकः पादो जगति वर्तत इत्यर्थः अस्यैकपादे जगद्वर्तत इति वा । अस्यैकः पादो जगद्रूपेण वर्तते इति वा । अस्यैकः पादो जगद्रूपेण दृश्यत इति वा । अत एवोक्तं सर्वभूतस्वरूपेणेत्येतदिति भाष्यकारैः । ननु श्रुत्युक्तस्यापि विरुद्धार्थस्य कथं ग्राह्यत्वमिति चेन्मैवम् - निरंशस्यापि मायया सांशत्व- सम्भवात् । माया हि ब्रह्मण एकदेशे स्थिता यथा घटशक्तिमृद एकदेशे स्निग्धमृदि । नच मायापि कथं ब्रह्मण एकदेशं विभज्य तत्र स्थितवतीति वाच्यं, मायाकृत्यस्या निर्वचनीयत्वेन तत्रातिशङ्का- नवकाशात् । अयमेव सर्वभूतात्मको ब्रह्मण एकः पादो मायीतीश्वर इति चोच्यते । मायाशबलितस्य मायावच्छिन्नस्य ब्रह्मण एवेश्वरत्वात् । निर्मायं तु शुद्धचैतन्यं परब्रह्मैव । तदेव तत्त्वं मायाया अतात्त्विकत्वेन समायस्याप्यतात्विकत्वात् । तथा मायामयानि भूतान्यप्यतात्त्विकान्येव । तदेव तत्त्वं प्रत्यगात्मेति सिद्धं जीवेश्वरैक्यम् । । यत्तु रामानुजः — मम महिम्नोऽयुतायुतांशेन विष्टभ्येति तन्मन्दम् — एकांशेनेति पदा दयुतायुतांशेनेत्यर्थालाभान्महिम्न इति पदस्यासत्त्वाच्च । सर्वस्य जगतो भगवद्विभूतित्वे वक्तव्ये जग- नियमनस्य वक्तुमनुचितत्वाच्च । तस्माच्छङ्करोत एवार्थश्शङ्करः - इति । विभूतीनां योगस्सम्बन्धो यस्मिन् स विभूतियोगो नामाध्यायः ॥४२॥ इति श्रीबेलको डोपनाक रामकविकृते श्रीभगवद्गीताशाङ्करभाष्यार्कप्रकाशे विभूतियोगो नाम दशमोऽध्यायः । श्रीहयग्रीवार्पणमस्तु ।