श्रीहयग्रीवाय नमः | भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतासु नवमोऽध्यायः । अष्टमे नाडीद्वारेण धारणायोगः संगुण उक्तः, तस्य च फलमग्न्यचिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेव अनावृत्तिरूपं निर्दिष्टं; तत्र ‘अनेनैव प्रकारेण मोक्षप्राप्तिफल- मधिगम्यते, नान्यथा’ इति तदाशङ्काव्याविवृत्सया श्रीभगवानुवाच- श्रीभगवानुवाच — इदं तु ते गुह्यतमं प्रवक्ष्याम्यनस्यवे । ज्ञानं विज्ञानसहितं यद्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १॥ इदमिति । इदं ब्रह्मज्ञानं वक्ष्यमाणमुक्तं च पूर्वेष्वध्यायेषु । तद्बुद्धौ सन्निधीकृत्येद- मित्याह । तुशब्दो विशेषनिर्धारणार्थः । इदमेव तु सम्यग्ज्ञानं साक्षान्मोक्षप्राप्तिसाधनं ‘वासुदेवस्सर्वमिति’, आत्मैवेदगँ सर्व’, ‘एकमेवाद्वितीय मित्यादिश्रुतिस्मृतिभ्यः नान्यत्, अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्तीत्यादिश्रुतिभ्यश्च । ते तुभ्यं गुह्यतमं वृत्तं कीर्तयन् पूर्वाध्यायस्यास्य च सङ्गतिं दर्शयति– अष्टमे इति । नाडी सुषुम्ना । धारणा प्राणानां नियमनम् । अनेनैव सगुणोपासनेनैव । नान्यथा । सम्यग्दर्शनेन न । व्याविनृत्सया व्यावर्त - “यितुमिच्छया । सन्निहिते वस्तुनीदंशब्दप्रयोगादाह— बुद्धौ सन्निधीकृत्येति । पूर्वेष्वध्यायेषुक्त- मुत्तरत्र वक्ष्यमाणं च तत्सर्वं ब्रह्मज्ञानं बुद्धौ सन्निहितं कृत्वा इदमित्याह विशेषार्थः । पूर्वोक्ताद्योगादस्य ज्ञानस्य वैलक्षण्यं द्योतयितुं तुशब्द इत्यर्थः । तमेव विशेषं दर्शयति इदमेवेत्यादिना - साक्षादिति । योगस्तु क्रमेणेति भावः । किं तत्सम्यग्ज्ञानमत आह— वासुदेवस्सर्वमित्यादि । ‘वासुदेवस्सर्वमिति, स महात्मा सुदुर्लभ’ इति गीतावाक्यं स्मृतिः । ‘आत्मैवेदगं सर्व, एकमेवाद्वितीयं ब्रह्म, तदिदं सर्वं यदयमात्मा’ इत्यादेरादिपदाद्ग्रहणम् । दर्शितश्रुतिस्मृतिसिद्धं सर्वं ब्रह्म । अहं ब्रह्मास्मीत्येव रूपं ज्ञान सम्यग्ज्ञानमित्यर्थः । अन्यद्ज्ञानान्तरं तु सम्यग्ज्ञानं न भवति । मोक्षप्राप्तिसाधनं न भवतीति वा । उक्तार्थे श्रुतिं प्रमाणयति - अथ य इति । अथशब्दः अविद्याप्रकरणोपक्रमार्थः । तमादुक्तात्सर्व ब्रह्मेत्येवं प्रकारादन्यथा प्रकारान्तरेण जीवोऽहमीश्वरोऽन्य इत्यादिरूपेण विदुस्तत्त्व- मिति शेषः । अन्यराजानः अन्य इन्द्ररुद्रादिः राजा प्रभुरुपास्य इति यावत्; येषां तेऽन्यराजानः भिन्नदेवतोपासका इत्यर्थः । तेऽविद्वांसः क्षय्य लोकाः क्षय्याः क्षयवन्तः स्वर्गादयो लोकाः प्रोप्या येषां ते तथोक्ता भवन्ति । ज्ञानाभावाद्यज्ञादिकर्मसु प्रवर्त्य तत्फलं क्षयिष्णु स्वर्गादिलोकं गच्छन्तीत्यर्थः । १०६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु गोप्यतमं प्रवक्ष्यामि कथयिष्यामि अनसूयवेऽसूयारहिताय । किं तत् ? ज्ञानं; किं विशिष्टम् ? विज्ञानसहितं अनुभवयुक्तम् । यज्ञानं ज्ञात्वा प्राप्य मोक्ष्यसे अशुभात्संसारबन्धनात् ॥१॥ तच्चः स्तौति - राजविद्याराजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्य सुसुखं कर्तुमव्ययम् ||२|| राजविद्येति । राजविद्या विद्यानां राजा दीप्त्यतिशयवच्त्वात् । दीप्यते हि इयमति- शयेन ब्रह्मविद्या सर्वविद्यानाम् । तथा राजगुह्यं गुह्यानां राजा । पवित्रं पावनमिदमुत्तमं सर्वेषां पावनानां शुद्धिकारणमिदं ब्रह्मज्ञानमुत्कृष्टतमम् | अनेक जन्मसहस्रसञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति यतोऽतः किं तस्य पावनत्वं वक्तव्यम् । किंच- प्रत्यक्षावगमं प्रत्यक्षेण सुखादेखि अवगमो यस्य तत्प्रत्यक्षावगम् । अनेकगुणवतोपि धर्म- विरुद्धत्वं दृष्टं न तथा आत्मज्ञानं धर्मविरोधि, किंतु धर्म्यं धर्मादनपेतम् । एवमपि स्या- यद्ज्ञात्वेति वाक्यस्याकांक्षामाह – क्रिं तद्ज्ञानमिति । विज्ञानसहितमित्यस्याकांक्षामाह- किं विशिष्टमिति । केन विशिष्टं किं विशिष्टं मोक्ष्यसे मुक्तो भविष्यसि । किं तदशुभमत आह- संसारबन्धनादिति । पापं पापवत्पुण्यस्यापि बन्धकत्वादिति भावः ॥ १॥ 1 राजेति । ‘राजदीप्तौ ’ राजते दीप्यत इति राजा, प्रसिद्धो राजापि हि सर्वेषु पुरुषेषूत्कर्षेण भाति यथा सर्वपुरुषाणां मध्ये दीप्त्यतिशयवत्त्वेन भूपस्य राजत्वं तथा सर्वविद्यानां मध्ये ब्रह्मविद्याया दीप्त्यतिशयवत्त्वेन राजत्वमितीयं ब्रह्मविद्या राजविद्या । गुह्यानां गोप्यानां राजा राजगुह्यं परमगुह्य- मित्यर्थः । कथमस्योत्तमपवित्रत्वमत आह— सर्वेषां पावनानामिति । सर्वपावनपावनत्वादुत्तमपवि- त्वमित्यर्थः । अस्य च सर्वपावनपावनत्वं कैमुतिकन्यायसिद्धमित्याह – अनेकेति । समूलं साज्ञानम् । लोके पापपरिहारकस्याग्निजलादेः पावनत्वं प्रसिद्धं, दुःखहेतोर्विप्रस्वापहरणादेः पापत्वं च, तथा धर्मस्य यज्ञादिलक्षणस्य स्वर्गादिसुखहेतुत्वेन पावनत्वमधर्मस्य चापावनत्वं दुःखहेतुत्वेन प्रसिद्धमेव । स्मयं च पावनोऽपि धर्मः शास्त्रदृष्ट्या संसारहेतुत्वेन पाप एव । ततश्च दुःखहेत्व धर्म निरासकधर्मस्य यथा पावनत्वं तथा दुःखहेतुधर्माधर्म निरासकज्ञानस्य पावनत्वम् । संसारैकदेशनरकनिवर्तकधर्माणामेव पानत्वे स्वर्ग नरकाद्यात्मकसर्व संसारनिवर्तकज्ञानस्य परमपावनत्वमर्थात्सिद्धमिति भावः । प्रत्यक्षेणावगमो यस्य तत्प्रत्यक्षावगमं, सुखादिवत्प्रत्यक्षानुभव विषयमित्यर्थः । धर्म्यमिति । ननु धर्माधर्मादिविध्वंसकस्य ज्ञानस्य कथं धर्माविरोधित्वमिति चेदुच्यते- धर्मशास्त्रं यथाधर्ममित्यादिप्रयोगात् । ‘आत्मा वाडरे द्रष्टव्यश्श्रोतव्य’ इति शास्त्रविहितत्वाद्ज्ञानस्य घत्वम् । अनेन भस्मीक्रियमाणो धर्मस्तु पुण्यादृष्टसुकृतादिपर्यायजन्मान्तरकृतसत्कर्म जन्यसद्वासन:- विशेषः । स हि जन्मप्रदत्वेन बन्धहेतुत्वाद्ज्ञानेन मुक्तिप्रदेन मामीक्रियते । नच पुराकृतसुकृतलभ्यस्य नवमोऽध्यायः । १०७ दुःखसम्पाद्यमित्यत आह- सुसुखं कर्तुं यथा रत्नविवेकविज्ञानम् । तत्र अल्पायासानां कर्मणां सुखसम्पाद्यानामल्पफलत्वं दृष्टं, दुष्कराणां च महाफलत्वं दृष्टमितीदं तु सुखसम्पा- द्यत्वात् । फलक्षयात् व्येतीति प्राप्तमत आह- अव्ययमिति । न अस्य फलतः कर्मवद्ययोऽ- स्तीत्यव्ययम् । अतः श्रद्धेयमात्मज्ञानम् ||२|| ये पुन:- अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवत्र्त्मनि ||३|| अश्रद्दधाना इति । अश्रद्दधानाः श्रद्धाविरहिता आत्मज्ञानस्य धर्मस्यास्य - स्वरूपे तत्फले च नास्तिकाः पापकारिण:, असुराणामुमनिषदं देहमात्रात्मदर्शनमेव प्रतिप्रन्नाः ज्ञानस्य कथं सुकृतनाशकत्वमिति वाच्यं, प्रारब्धसुकृत विशेषलभ्यस्य ज्ञानस्य सञ्चितसुकृतनाशकत्वे बाधकाभावात् । प्रारब्धस्य भोगं विना ज्ञानेन क्षयाभावाच्च ।
सुसुखं सुष्ठु सुखमनाया समित्यर्थः । तत्र दृष्टान्तमाह — यथेति । इदं रत्नं ब्रह्मजातीयमिदं क्षत्र जातीयमित्येवं विधरलविवेकज्ञानं यथा सुसुखं तद्वदित्यर्थ: । अयमात्मा इदमनात्मेति विवेकज्ञानस्य बुद्धिसाध्यत्वेन शरीरादिसाध्येषु कर्मस्विव श्रमाभावादिति भावः । • तत्रेति । व्यवहारभूमावित्यर्थः । व्येति विकारं प्राप्नोति नश्यतीति यावत् । इति प्राप्ते पूर्वपक्षे इति शेषः । आह उत्तरम् - अव्ययमिति । न विद्यते व्ययोऽस्येत्यव्ययम् । यथा कर्मणः फलतः क्षयस्तथा नास्येत्यर्थः । कृतं हि कर्म तत्फलं स्वर्गादिकमनुभाव्य क्षीयते, न तथा ज्ञानं नित्य- ब्रह्मफलत्वाद्ज्ञानस्य । यद्वा कर्मणां स्वरूपतः क्षयः कर्मसमाप्तावेव भवति यज्ञादिकर्मणां पञ्चषादिदिना- नन्तरमदर्शनात् । तत्फलं तु किञ्चित्कालमेव तिष्ठति न सर्वदेति फलतोऽप्यस्ति कर्मणां क्षयः । अहं स्तुवृतिरूप अणिकत्वेऽपि तत्फलस्य ब्रह्मणशाश्वतत्वान्न ज्ञानस्य फलतः क्षय इति क्षयफलत्वातु कर्मणो नाव्ययत्वमिति भावः । एतेन वृत्ति- त्या अक्षयफलत्वाद्ज्ञानस्याव्ययत्वम् । ज्ञानस्य कर्मवत्स्वरूपतः क्षयोऽस्त्येवेति सिद्धम् । शास्त्रकं गम्यादुष्करात् क्षयफलाच्च यज्ञादिलक्षणधर्मात्प्रत्यक्षगम्यं सुकरमव्ययफलं चेदं ज्ञानं सर्वस्य विश्वसनीयमित्याह - अत इति । ज्ञानस्य राजविद्यात्वाद्राजगुह्यत्वात्परमपवित्रत्वात्प्रत्यक्षाव- गम्यत्वाद्धर्म्यत्वात्सुकरत्वादव्यय फलत्वाच्चेत्यतश्शब्दार्थः । न च ‘अक्षय्यंंं ह वै चातुर्मास्ययाजिनः सुकृतं भवतीति श्रुतेः कर्मफलमप्यक्ष्यमेवेति वाच्यं, ‘कर्मप्रशंसापरत्वात्तच्छ्रुतेः ‘यवागूँ प्बि शिखा ते वर्धिष्यत’ इति वाक्यवत्प्ररोचनवाक्यं हि तत् । कर्म- फलस्य स्वर्गादेरनित्यत्वं हि श्रुतिस्मृतिन्यायसिद्धम् ||२|| अश्रद्दधाना इति । अस्य धर्मस्येत्यात्मज्ञाने धर्मत्वारोप: कुत्रांशे अश्रद्दधाना इत्यत आह– स्वरूपे तत्फले चेति । .. 1 श्रुतिविहितत्वगुणनिमित्तः । ज्ञानस्य अस्य धर्मस्य स्वरूपे फले चाश्रद्दधाना १०८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु असुतृपः पापाः पुरुषाः अश्रद्दधानाः परन्तप ! अप्राप्य मां परमेश्वरं मत्प्राप्तौ नैव आशङ्का इति मत्प्राप्तिमार्गसाधन भेदभक्तिमात्रमपि अप्राप्य इत्यर्थः । निवर्तन्ते निश्रयेन वर्तन्ते; क? मृत्युसंसारवत्र्त्मनि मृत्युयुक्तस्संसारो मृत्युसंसारः तस्य वर्त्म नरकतिर्यगादिप्राप्तिमार्गः, तस्मिन्नेव वर्तन्त इत्यर्थः ॥ ३ ॥ इति सम्बन्धः । के ते अत आह— नास्तिका इति । नास्ति दिष्टं मतिर्येषां ते नास्तिकाः, देवो नास्ति, परलोको नास्ति, धर्मो नास्ति इत्येवं प्रतिपन्ना बौद्धा इत्यर्थः । कुत एषां नास्तिकत्वमत आह - पापकारिण इति । जन्मान्तरे पापं कृतवन्तः इदानीमपि तत्संस्कारवशात्पापकरणस्वभाव- वन्तश्चत्यर्थः । नास्तिकानां मतं संक्षेपेणाह – असुराणामिति । देहमात्रात्मदर्शनरूपामसुराणां विरोचना– दीनामुपनिषदं विद्यां प्रतिपन्नाः प्राप्ता असुरवद्देह एवात्मेति मन्वाना इत्यर्थः । देह एवात्मेत्यमीषां मतमिति भावः । अस्मिन्मते कर्तुर्देहस्यात्मन इहैव नष्टत्वान्न स्वर्गनरकादिभोगप्रसङ्गः । नापि पुनर्जन्मप्रसङ्गः । निर्वाणस्य प्रदीपस्य पुनरुत्पत्त्यदर्शनात् । एवं चैहिकभोगएव भोगः । स च जारत्वचोरत्वादिनापि सम्पादनीय:- जन्मान्तराभावेन विधिनिषेधशास्त्रानर्थक्यात् । अत एवामी असुतृपः प्राणतर्पणपरायणाः; येन केनाप्युपायेनोदरम्भरयः, परदारगमनादिना मनइन्द्रियतर्पणपराश्च । देहपातमेव मोक्षं मन्यन्ते, परदारगमनादिकमेव रम्भासम्भोगादिरूपं स्वर्गे मन्यन्ते । ऐहिकमेव दुःखं नरकं मन्यन्ते । यत्प्रत्यक्ष- प्रमाणसिद्धं तदेव वस्तु; अन्यत्सर्वं तु नास्त्येवेति मतमेषाम् । अत एव पापा अभी वेदशास्त्रस्वर्गादिषु विश्वासरहितत्वदात्मज्ञाने तत्फले च विश्वासरहिताः । न चाद्वैतिनोऽप्येवंविधा एव - ब्रह्मान्यस्मिन्नविश्वासादिति वाच्यं, न वयं वेदशास्त्रादिकं नास्तीति किं तर्हि परमार्थतो नास्तीति ब्रूमः । ततश्च यावव्यवहारं पुण्यपाप सुखदुःखस्वर्ग नरक वेदशास्त्र- गुरुशिष्यजन्ममरणबन्धमोक्षादिसर्वद्वैतमस्त्येवेति । ब्रूमः, अमीषां नास्तिकानां गतिमाह — अप्राप्येति श्लोकार्थेन । ननु मामप्राप्येत्युक्तिरयुक्ता–’: बौद्धानां भगवत्प्राप्तिर्भवेद्वा न वेति शङ्काया उदये तत्परिहारार्थं मामप्राप्येति वक्तव्य, प्रकृते तु त- च्छकाया एवानुदयादित्यक्षिप्य मामप्राप्येत्यस्य मद्भक्तिमप्यप्राप्येत्यर्थमाह भाष्यकारः मत्प्राप्तावि- त्यादिना । मत्प्राप्तौ ये मर्गास्तद्भेदस्तद्विशेषरूपाया भक्तेः तन्मात्रमपि । मात्रमपीत्यनेन ज्ञानोपास नादिमार्ग भेदप्राप्तौ का कथेति सूचितम् । निर्गुणस्य भक्त्यविषयत्वेऽपि सगुणस्य भक्तिविषयत्वमस्तीति भक्तीत्युक्तम् । अथ वा आत्मन उपासनादिकं मास्तां, आत्मनि प्रीतिरपि तेषां नास्ति, सत्यां प्रीतौ मात्मदर्शनसाधनान्वेषणादिः स्यादिति प्रीतेरप्यात्मप्राप्त्युपायत्वमुक्तम् ॥३॥ 1 1नवमोऽध्यायः इति ज्ञानस्तुत्या अर्जुनमभिमुखीकृत्याह मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥ १०९ मयेति । मया मम यः परो भावः तेन ततं व्याप्तं सर्वमिदं जगत् अव्यक्तमूर्तिना न व्यक्ता मूर्तिः स्वरूपं यस्य मम सोऽहमव्यक्तमूर्तिः तेन मया अव्यक्तमूर्तिना, करणागोचर- स्वरूपेणेत्यर्थः । तस्मिन्मय्यव्यक्तमूर्ती स्थितानि मत्स्थानि सर्वभूतानि ब्रह्मादीनि स्तम्ब- पर्यन्तानि । नहि निरात्मकं किंचिद्भूतं व्यवहारायाविकल्पते । अतो मत्स्थानि मया मयेति । इदं सर्व जगदव्यक्तमूर्तिना मया ततम् । सर्वभूतानि मत्स्थानि भवन्ति । अहं
- तेषु नचावस्थितः । भाव: स्वरूपम् । ईश्वरस्य परमपरं चेति स्वरूपद्वयमस्ति । तत्र परं स्वरूपं ब्रह्म सच्चिदानन्दं, अपरं तु आध्यासिकमोङ्कारादिरूपं बहुविधम् । तत्र परेण भावेन जगतो व्याप्तिरित्याह- ममेत्यादि । मया प्रत्यगभिन्नेन परमात्मनेति यावत् । ततमिति । परमात्मनस्सच्चिदानन्दरूपत्वा- तेनैव रूपेण व्याप्तं जगदिदं सर्व- जगदस्ति, जगद्भाति, जगत्प्रियमिति प्रतीतिभिर्जगति सच्चिदानन्दा- न्वयदर्शनात् । जगति परमात्माऽव्याप्तौ तु नैताः प्रतीतय उपपद्येरन् । कार्ये हि घटे कारण मृदेश- व्याप्त्यैव हि मृद्घट इति प्रतीतिः । जगतश्च ब्रह्मकार्यत्वं स्पष्टम् । कीदृशस्तव परो भावोऽत आह– अव्यक्तमूर्तिनेति । यदि मनइन्द्रियात्मक करणगोचरस्तहीं दृश इति वक्तुं शक्येत, नतु तथा करण - गोचर इति नास्त्यस्मिन्नीदृक्ता निर्विशेषचिन्मात्रत्वात्’ । करणगोचरेण सच्चिदानन्दात्मकेन मम पर- स्वरूपेण जगदिदं सर्वं व्याप्तमिति निष्कृष्टार्थः । करणागोचरत्वं चास्य ‘यतो वाचो निवर्तन्ते अत्राप्य मनसा सह’ इत्यादिश्रुति सिद्धम् । न चानन्दः मनःकरणगोचर इति वाच्यं, वैषयिक सुखस्यैव गोचरत्वादिति । तस्मिन्पूर्वोक्ते सच्चिदानन्दरूपे ब्रह्मणि मयि ब्रह्मादीनि सर्वाणि भूतानि कार्यकरणसङ्घातात्मकानि स्थितानि रज्जौ सर्पवदित्यर्थः । मय्येव भूतानां मायया कल्पित्वादिति भावः । कुतस्त्वयि स्थितानीत्यत आह– न हीति । निरधिष्ठानभ्रमायोगाद्रमस्य चाधिष्ठानात्मकत्वान्निरात्मकं किंचिदपि वस्तु न व्यवहारयोग्यं. भवति । अन्यथा शशशृङ्गादेरपि व्यवहारार्ह त्वापत्तेरिति भावः । निरात्मकं निस्तत्त्वं स्वरूपशून्यमिति यावत् । शशशृङ्गादिरूपमिति भावः । नच रज्जुसर्पादिरूपमिति वाच्यं, रज्जुखरूपेणैव रज्जुसर्पस्य स्वरूपवत्वेन भ्रमस्य सर्पाविष्ठानभूतरज्ज्वात्मत्वेनं सात्मकत्वात् । भ्रमस्य यधिष्ठानमेव स्वरूपमधिष्ठानाति- रिक्तस्वरूपाभावात् । “नचाऽयं न्यायो भ्रमस्थले एव, किंतु कार्यमात्रेपि मृत्कार्यस्य घटस्य स्वाधिष्ठान- मृद्रूप|तिरिक्तरूपाभावेपि मृद्रूषेणैव सरूपत्वदर्शनात् । तस्माद्रमरूपं प्रमारूपं वा सर्वमपि कार्यं स्वाधि- ष्ठानमूर्तकारणात्मकत्वेन न निरात्मक, किंतु शशशृङ्गादिकमेव निरात्मकमिति स्थितम् । कार्यस्य च कारण मेवाधिष्ठानं मृद्येव घटदर्शनादिति च स्थितम् । एवं सति सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां ब्रह्मकार्यत्व। ब्रह्मण्येवं स्थितिः । ब्रह्माधिष्ठानत्वाच ब्रह्मात्मकत्वं ब्रह्मात्मकत्वादेव व्यवहारयोग्यत्वमिति ११० श्रीभगवद्गीतासु- भाष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु आत्मना आत्मवत्वेन स्थितानि, अतः मयि स्थितानीत्युच्यन्ते । तेषां भूतानामहमेवात्मा इत्यतः तेषु स्थित इति मूढबुद्धीनामवभासते; अतः ब्रवीमि न चाहं तेषु भूतेषु अवस्थितः मूर्तवत्संश्लेषाभावेन आकाशस्यापि अन्तरतमो ह्यहम् । न ह्यसंसर्गि वस्तु कचिदाधेयभावेन अवस्थितं भवति ॥ ४ ॥ सिद्धम् । तथा च व्यवहारयोग्यानां ब्रह्मकार्याणां ब्रह्मात्मकानां चामीषां भूतानां ब्रह्मणि स्थितिरुचिता – जलाहरणादियोग्यस्य मृत्कार्यस्य मृदात्मकस्य घटस्य मृदि स्थितिवदिति भावः । अत इति । व्यवहारयोग्यस्य जगतस्सात्मकत्वेन भाव्यत्वादित्यर्थः । ननु कुण्डे बदराणामिव कारणे मृदादौ कार्यस्य घटादेः स्थित्यदर्शनात्कथं भूतानां त्वत्स्थत्वमत आह - मयेति । आत्मना स्वरूपभूतेन मया भूतानामात्मवत्त्वेन खरूपवत्त्वेन हेतुना स्थितान्यासन्नित्यतो हेतोर्मयि स्थितानी- त्युच्यन्ते । यथा मृत्स्वरूपेणैव स्वरूपवत्त्वाद्धटस्य मृदि स्थितत्वं, तथा मत्स्वरूपेणैव स्वरूपवत्त्वा- भूतानां मयि स्थितत्वमिति भावः । नचानृतजडदुःखात्मकानां भूतानां कथं परमात्मस्वरूपत्वमिति वाच्यं, सर्पस्य रज्जु स्वरूपत्व- दर्शनान्नैल्यस्य गगनस्वरूपत्वदर्शनादुदकस्य किरणस्वरूपत्वदर्शनाच्च सच्चिदानन्दलक्षणपरमात्मस्वरूपस्य भूतेष्वप्यन्वयदर्शनाच्च, मृदशातिरिक्तघटस्येव सच्चिदानन्दांशातिरिक्त भूतपदवाच्यंस्यादर्शनाच सच्चिदानन्दा- स्मकान्येव भूतानि । तेषु च भूतेषूपलभ्यमानोऽनृताद्यंशो मायाकार्य नामाकारौ च मायाकार्यमेव । मृदि कम्बुग्रीवाद्याकारघटनाम्नोरिव ब्रह्मणि मनुष्यत्वाद्याकारमगुष्यादिनाम्नां मायया कल्पितत्वात् । तत्रापि नामाकारयोर्वर्तमानस्तताद्यशो ब्रह्मधर्म एवेति नामाकारयोरप्यस्ति ब्रह्मात्मकत्वम् । तस्माद्युक्त मुक्तं सच्चिदानन्दांशातिरिक्तं भूतपदवाच्यं किमपि वस्तु नास्तीति । एवं भूतानां सचिदानन्दनकरन ह्मणि स्थित सुचितम् । एवं सर्वस्य amerecarda ‘सबै ब्रह्म’ इति श्रुत्युपपतिः । ‘वासुदेव सर्व’ मिति गीतोपपत्तिश्च । नचैवं ‘जसस जगन्मिथ्या’ इत्यस्य विशेष इति वाच्यं जगतः स्वेन रूपेण मिथ्यात्वात्कारणभूत ब्रहा रूपेण सत्यत्वाश्च । यथा घटः स्वेन रूपेणासत्योऽपि कारणमृदूपेण सत्यः । उक्तं हि श्रुत्या- ‘वाचारम्भणं विकारो नामधेयं मृत्तिके - त्येव सत्य’ मिति । एवं मृदात्मकानां घटानां यथा मृदेव स्वरूपं तथा ब्रह्मात्मकानां भूतानां ब्रह्मैव स्वरूपमिति भूतानामात्मा ब्रह्म; आत्मा हि स्वरूपम् । एवं भूतानामात्मत्वादेव ब्रह्म भूतेषु स्थितम् । यथा घटाना- मात्मा मृदंशो घटेषु स्थित इत्याह- तेषामित्यादि । इतीति भूतानामात्मत्वादुभूतेष्वहं स्थित इतीतिशब्दार्थः । मूढबुद्धीना मल्पज्ञानामवभासते प्रतिभाति । एवंविधभ्रान्तिज्ञानवन्तस्ते इत्यर्थः । अतएवं मूढानामवभासमानत्वादित्यर्थः । ब्रवीमि तद्रान्तिनिरासार्थमिति भावः । अहं तेषु भूतेषु नैवावस्थित इति ब्रवीमि । तत्र हेतुमाह - मूर्तवत्संश्लेषाभावेनेति । पृथिव्यादीनां मूर्तत्वात्परस्परं नवमोऽध्यायः । १११ संश्लेषोऽस्तीति पृथिव्यां जलं जले पृथिवी वा वर्तत इति यथा वक्तुं शक्यते तथा नाहं कचिद्वर्त इति वक्तुं शक्यः । अमूर्तत्वादिति भावः । नन्वमूर्तोऽप्याकाशो घटेऽस्ति, घटश्वाकाश इत्यमूर्तस्याप्यस्ति संश्लेषः खलु मूर्तेनेत्यत आह– आकाशादप्यत्यन्तं विलक्षणतमो ह्यहमिति । सुतराममूर्तश्चदाकाशश्चक्षुरिन्द्रिया विषय एव स्यात्, तथा अविषयत्वे ‘अयमाकाश’ इति प्रतीतिरेव न स्याद्दृश्यते त्वाकाशः । इदं चाकाशस्य चक्षुर्विष- यत्वं स्ववसृष्टप्रकाशप्रयुक्तमथ वा स्वावसृष्टतमः प्रयुक्तम् ? न हि तमः प्रकाशान्यतरातिरिक्तः कश्व- नाकाश इति पदार्थ : केनापि दृश्यते । तदेवं वस्तुतोऽमूर्तत्वेऽपि तमः प्रकाशान्यतरसंश्लेषेण मूर्तत्वा- दाकाशस्य भवेदेव घटेन संश्लेषः । न चामूर्तस्याकाशस्य तमः प्रकाशसंश्लेषो वा कथमिति वाच्यं, तमः प्रकाशाभिव्याप्तत्वस्यैव तमः प्रकाशसंश्लेषत्वात् । सा चाभिव्याप्तिः प्रत्यक्षसिद्धेति न तत्रातिशयम् । तस्मादाकाशस्य तमः प्रकान्यतरा भिव्याप्ते रपरिहार्यायास्सत्त्वेन मूर्तत्वाद्भवेदेव घटेन संश्लेषः । न तथा मम सुतराममूर्तस्य । एवमाकाशस्यापि घटादिसङ्ग सद्भावा देवासङ्गोऽहमकाशादप्यत्यन्त विलक्षणः । न च त्वाप्यस्त्यज्ञानसङ्ग इति वाच्यं, चैतन्यस्याप्यज्ञानावृतत्वे जगदान्ध्यप्रसङ्गात् । ’ असङ्गोऽ- ह्ययं पुरुष’ इति श्रुतिविरोधाच्च । तस्मादज्ञानमप्यसङ्गे मयि असंसृष्टमेव वर्तते यथा भूतानि । न चात्र विप्रतिपत्तव्यं, मायया सर्वस्याप्युपपत्तेः । ननु भवतु तवामूर्तस्वात्केनापि संश्लेषाभावः, किं ततोऽत आह—न हीति । असंसर्गि वस्तु कचिदाघेयाभावेन स्थितं न हि भवति । आधाराधेयभावस्य संसर्गिवस्तुविषयत्वादिति भावः । कचित्कुल चिदाधारे इत्यर्थ: । आधेयभावेन कुत्रचित्सत्त्वे तस्य तेनैव संसर्गसम्भवेनासंसर्गित्वभङ्ग- प्रसङ्गादिति भावः । आकाशस्याप्यन्तरतमो ह्यहमिति पाठान्तरम् । तत्पक्षे नन्वाकाश एवामूर्ती न त्वमित्यत आह- आकाशस्याप्यन्तरतम इति । अव्याकृतकार्यत्वात्तावदाकाशस्याव्याकृतमन्तरं कारणं हि कार्यस्यान्तरं भवति । कारणव्याप्तत्वात्कार्यस्य । तच्चाव्याकृतं चैतन्यस्योपाघित्वाच्चैतन्येन व्याप्तमेव, यथा आकाश- स्योपाधिर्घट आकाशेन व्याप्तः । व्यापकं हि वस्तु व्याप्यस्यान्तरं भवति । किं च चैतन्येऽध्यस्तत्वा- दपि चैतन्येन व्याप्तमेवाव्याकृतं यथा रज्जावध्यस्तस्सर्पो रज्जुना व्याप्तः । अपि च यः प्रकृतौ तिष्ठन्नि- त्यन्तर्यामि ब्राह्मणमपि चैतन्यस्याव्याकृतान्तस्स्थत्वं वदति प्रकृतेरेवाव्याकृतत्वात् । अत एवान्याकृताचैतन्यं परमिति वदति श्रुतिः - ‘अव्यक्तात्पुरुषः पर’ इति । अव्यक्तमव्याकृतं पुरुषः पूर्णः चैतन्यमेवेति । तस्मादाकाशान्तरस्याप्यव्याकृतस्यान्तरत्वादाकाशस्यान्तरतमः परमात्मा । तथा च आकाशस्यैवामूर्तस्वे तदन्तरतमस्य परमात्मनश्चैतन्यस्यामूर्तत्वं किं वक्तव्यमिति भावः । न चाव्याकृतस्याप्यन्तर इति कुतो न भाषितमाचार्यैरिति वाच्यं, अव्याकृतस्य सर्वजनविदि - तत्वात् । अमूर्त आकाश इति सार्वजनीनत्वाच्च आकाशस्याप्यन्तरतन इति भाषितम् । आकाश- ११२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अत एव असंसर्गित्वात् मम - न च मत्स्थानि भूताति पश्य में योगमैश्वरम् भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ||५|| नेति । न च मत्स्थानि भूतानि ब्रह्मादीनि । पश्य मे योगं युक्ति सङ्घटनं मे मम स्यैवामूर्तत्वे आकाशस्याप्यतिशयेनान्तरः परमात्मा अमूर्त इति किं वक्तव्यमिति भावं द्योतयितुं येऽव्या- कृतपदार्थानभिज्ञास्तेषाम् । न चात्मन आकाशान्तरत्वे विवदितव्यं, आकाशशरीरं ब्रह्म । ‘य आकाशे तिष्ठ’ न्नित्यादिश्रुतिप्रामाण्यात् । ‘आत्मन आकाशस्सम्भूत’ इति श्रुतेराकाशस्यात्म कार्यत्वेनात्मन आका- शान्तरत्वाच्च । न चाव्याकृतशरीरस्याव्याकृतकार्यस्य चाकाशस्य कथमात्मशरीरत्वमात्मकार्यत्वं चेति वाच्यं, अव्याकृतोपहितस्य ब्रह्मणश्शरीरं कार्य चाकाश इत्यदोषात् । अव्याकृतद्वारा आत्मनः कार्य शरिरं चाकाश इति वा । आत्मशरीरभूतस्य कार्यभूतस्य चाव्याकृतस्य शरीरभूतं कार्यभूतं चाकाशमात्मन- इशरीरभूतं कार्यभूतं च भवत्येव परम्परयेति वा इति । हिशब्दो हेत्वर्थे । हि यस्मादहम | काशस्याप्यन्तरतमः तस्मादिति शेषः । यद्वा हिः प्रसिद्धौ । सा चाकाशशरीरं ब्रह्मेत्यादिश्रुतिस्मृतिसिद्धेति भाव इति व्याख्येयम् ॥ ४ ॥ नेति । अत एवेति तस्यार्थमाह- असंसर्गित्वान्ममेति । भूतानि मत्स्थानि-न भवन्ति, भूतानामपि नाहमाघारः । असंसर्गिवस्तुन आधारत्वस्याप्ययोगादिति भावः । एतेन मत्स्थानि सर्व- भूतानीति पूर्वोक्तमपि मृददृष्टयैव न विद्वद्दष्टयेति सिद्धम् । अन्यथा पूर्वोत्तरविरोधात् न ह्येक एव वक्ता भूतानि मत्स्थानीति, न मत्स्थानीति च ब्रूयादनुन्मत्तः । तस्मान्मयि भूतानि सन्तीति, भूतेष्वह ’ मवस्थित इति च मूढानामेव प्रतिभाति, नतु तत्त्वविदामसङ्गस्य ममाधाराधेयभावायोगादिति स्थितम् । • नन्वेवं ‘सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि, ईक्षते योगयुक्तत्मा’ इत्यादिकं पूर्वमुक्तं विरुद्धयेतेति चेन्मैवम् विद्यातारतम्येन विद्वत्तारतम्या द्विदुषां ब्रह्मविद्ब्रह्मविद्वरब्रह्मविद्वर्य ब्रह्मविद्वरिष्ठत्व- रूपभेदस्य प्रसिद्धत्वात् । ये सर्वभूतस्थमात्मानं सर्वभूतानि चात्मानि पश्यन्ति ते ब्रह्मविदः, नाहं भूतानामाधार, भूतानि च न ममेति ये पश्यन्ति ते ब्रह्मविद्वरिष्ठाः एतद्दृष्ट्या तु पूर्वोक्तब्रह्मविदः मूढा एव । अतो न विरोध इति । ननु यथान्यायं पूर्वमुपपादितस्य मतस्य कथं प्रतिक्षेप इति चेदुच्यते - ब्रह्मण्यसङ्गस्वप्रकाशे कालत्रयेपि कार्यैस्सह माया नास्त्येव - ‘एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किञ्चनं’ इत्यादिशास्त्रात् । नच ज्ञानकाल एव नास्ति - अज्ञानकाले स्वस्त्येव, यथा रज्जुसर्पोऽभ्यासकालेऽस्ति, रज्जुयाथात्म्य- ज्ञानकाल एव नास्तीति वाच्यं ब्रह्मणो विकारित्वापत्तेः । प्रपञ्चसद्भावाभावाभ्यां हि विकारः प्राप्तो ब्रह्मणः । स हि न युज्यते । सदैकरूपस्याविक्रियस्य ब्रह्मणः विकारित्वे त्वनित्यमेव स्याद्ब्रह्म- लोके १५ नवमोऽध्यायः । ११३ विकारिणो घटादेरनित्यत्वदर्शनात् । नित्यं हि ब्रह्म, सजातीयविजातीयस्वगत भेदशून्यमविक्रियं निर्वि- शेषचिन्मात्रमसङ्गं च । कथं तत्राज्ञानकाले वा प्रपञ्चस्य सद्भावः ? रज्जुसर्पदृष्टान्तोऽपि न युक्तः - रज्जौ सर्पस्यापि कालत्रयेऽभावात् । न ह्यध्यासात्प्राक्काले पश्चात्काले चासन् सर्पः अध्यासकाले भवितुमर्हति यस्य रज्जौ सर्पभ्रम आसीत्स एव भ्रमनिवृत्त्यनन्तरं रज्जुरेवायं न सर्पः; केवलमहं भ्रान्तोस्मीति हि प्रत्येति । नच भ्रमकाले रज्जुसर्पाकारेण परिणत एवेति वाच्यं, क्षीरस्य दध्यात्मनेव रज्जोस्सर्पाकारेण परिणन्तुं सामर्थ्याभावात् । सति तु तत्सामर्थ्यं भ्रमं विनापि - परिणतैव भवेत् । नहि क्षीरं दध्यात्मना भ्रमकाले परिणमते, किंतु प्रमाकाल एव दघ्नः प्रमात्वात् । नापि भ्रमकाले रज्जाव पूर्वस्सर्प उदेतीति वाच्यं, सर्पोदयस्यैव भ्रमत्वात् । न च माध्यमिक व च्छून्यवादापत्तिः, सत्यब्रह्माभ्युपगमात् । न च रज्जावपूर्वस्सर्प उदेतीति खसिद्धान्तभङ्गप्रसङ्ग इति वाच्यं तस्याप्यत्रैव तात्पर्यात् । भ्रान्तदृष्ट्या सर्प उदेतीत्युक्तं, न त्वभ्रान्त- दृष्ट्येति सिद्धान्तात् । न चैवं प्रपञ्चस्यात्यन्तापलापे विज्ञानवादापत्तिः, क्षणिकविज्ञानवादिनां तेषां सत्यज्ञानवादिना - मस्माकं च भेदात बुद्धिस्थः प्रपञ्च बहिस्स्थ इवावभातीति विज्ञानवादिनः; वयं तु प्रपञ्चो न · बुद्धिस्थः, नापि बहिस्स्थः, किं तु भ्रान्तदृष्ट्या बहिस्स्थ इव प्रतिभातीति वदामः । तस्मादस्माकं न - विज्ञानवादापत्तिः । न च ‘सर्वं खल्विदं ब्रह्म’ इति श्रुतिविरोधः यद्रजतं सा शुक्तिरितिकन्द्रान्तदृष्ट्या प्रतीयमान- मिदं जगन्न जगत् किं तु ब्रह्मैव ब्रह्मण्येव तेषां जगद्रान्त्युदयाद्रज्जौ सर्पभ्रान्त्युदयवदिति श्रुति- तात्पर्यात् ।
न चैवं प्रपञ्चस्यात्यन्तासत्त्वे शशशृङ्गवत्प्रपञ्चो व्यवहारयोग्यो न भवेदेवेति वाच्यं, व्यवहार- स्यैवासत्त्वेन तद्योग्यत्वस्य का कथा ? भ्रान्तदृष्टया तु व्यवहारोऽस्ति, तद्योग्यं जगच्चास्ति, न विद्वद्दृष्टया । शशशृङ्गादिकं तु भ्रान्तदृष्ट्यापि नास्तीति कथं तस्य भ्रान्तदृष्टिसिद्धव्यवहार योग्यत्वम् ? यो यद्दृष्टि- सिद्धस्स हि तद्व्यवहारयोग्यः, यथा खमद्रष्टृदृष्टिसिद्धरस्वामप्रपञ्चस्स्वम द्रष्टृव्यवहारयोग्य इति । तस्माद्ब्रह्मणि निष्प्रपञ्चे कालत्रयेऽपि प्रपञ्चो नास्त्येव । एवं प्रपञ्चस्याभावादेव प्रपचे ब्रह्मास्तीति ववतुं न शक्यते । न हि शशशृङ्गे किमपि वस्तु वर्तेत; शशशृङ्गं वा कस्मिंश्चिद्वस्तुनि । विद्वद्दृष्टया खलु शशशृङ्गतुल्यः प्रपञ्चः । श्रान्तदृष्ट्या तु रज्जुसर्पतुल्यः । ’ वन्ध्या कुमारवचने भीतिश्चदस्ति किञ्चन, शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तदिति तेजोबिन्दूपनिषत्प्रसिद्धेः । उक्तं चेदं गीतायामेव- ‘नासतो विद्यते भावो नाभावो विद्यते सत’ इति । ततश्च एकस्मिन्काले सतो वस्तुनः कालान्तरेऽभावो न युक्त:- नाभावो विद्यते सत इत्युक्त- त्वात् । तथा एकस्मिन्कालेऽसतो वस्तुनः कालान्तरे भावोऽपि न युक्तः- नासतो विद्यते भाव इत्युक्तत्वात् । तदेवं ज्ञानकालेऽसतः प्रपञ्चस्य अज्ञानकाले चासत्त्वमयुक्तम् । न हि सत्यं ब्रह्मज्ञान- ११४ श्रीभगवद्गीतासु भाष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ऐश्वरं ईश्वरस्य इममैश्वरं, असङ्गतां दर्शयति- ‘असङ्गो न हि सज्ज’तेति । इदं चाश्चर्य- मन्यत् पश्य ! भूतभृदसङ्गोऽपि सन् भूतानि बिभतिः न च भूतस्थः यथोक्तेन न्यायेन कालेऽस्ति, अज्ञानकाले नास्तीति वक्तुं शक्यते । अत एव हि ब्रह्मैव सत्, अन्यदसत् इति ‘अवि- नाशि तु तद्वि’द्धीत्यत्र प्रतिपादितम् । ’ तत्सत्यमतोऽन्यदार्त’ मिति श्रुतिश्च । 3 तस्मादज्ञानकालेऽपि नास्त्येव प्रपञ्चः । तत्सत्त्वं तु भ्रान्तिसिद्धमेव निष्प्रपञ्चे ब्रह्मणि प्रपञ्चा - योगादिति स्थितम् । आध्यासिकः कश्चन प्रपञ्चो ब्रह्मण्यस्तीति पूर्वमतसंग्रहार्थः । सोऽपि नास्ती - त्युत्तरमतसंग्रहार्थः । ब्रह्मण्याध्यासिकप्रपञ्च सत्त्ववादिनामेव मूढबुद्धित्वे कृष्णशङ्कराभ्युपगते सति वास्तव- प्रपञ्च सत्त्वत्वादिनां द्वैतिनां विशिष्टाद्वैतिनां च मूढबुद्धित्वं किं वक्तव्यम् ? न चाय वादश्श्रीमदचलमतगुरुशिवरामदीक्षितीय इति वाच्यं तन्मते अब्रह्मत्वादात्मनः । स्वरूपनाशस्यैव जीवस्य पुरुषार्थत्वप्रसङ्गाच्च । अहं ब्रह्मास्मीति श्रुतिविरुद्धं हि तत् । किं च परिपूर्ण माया चेति तत्त्वद्वयमप्युपगतवन्तस्ते । वयं तु परिपूर्णमेकमेवेति भेदात् । न च दृग्दृश्यमिति पदार्थद्वयं भवद्भिरप्यभ्युपगतमिति वाच्यं, मृढबुद्धिविषयत्वात्तदभ्युपगमस्य । न हि तत्त्वविद्दृष्ट्या दृश्यं तत्त्वं भवितुमर्हति शशशृङ्गतुल्यम् । न च बन्धमोक्षादिव्यवस्थानुपपत्तिः, इष्टापत्तेः । उक्तं हि कैवल्योपनिषदि - ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति । बद्धदृष्टयैव बन्ध-’ मुक्तिव्यवस्था, न तु विद्वद्दृष्ट्या - नित्यमुक्ते निष्प्रपञ्चे ब्रह्मणि तदयोगात् । नच गुरुशिष्यादिसम्प्रदायोच्छेदप्रसङ्गश्शास्त्रवैयर्थं वा, अतिगुह्यस्यास्यार्थस्य गुरुशास्त्रे विना दुर्ज्ञेयत्वात् । ‘गुरुशास्त्रे विनात्यन्तं गम्भीरं ब्रह्म वेत्ति क’ इत्युक्तं हि विद्यारण्यगुरुभिः । न च वेदशास्त्रवैयर्थ्य तदर्थयज्ञाद्यनुष्ठानाभावादिति वाच्यं मूढार्थ तस्यावश्यकत्वात् । ’ त्रैगुण्य- ’ विषया वेदा’ इत्युक्तमन्त्रैव । तस्मादात्मा न भूतस्थः; नापि भूतान्यात्मस्थानि भूतानामभावादिति स्थितम् । कस्मादभावो भूतानामिति चेदसंसर्गित्वादेवात्मनः । सत्सु भूतेषु तैस्स्यादात्मनो हि संसर्गः कयापि विधया । असंसर्गित्वे श्रुतिं प्रमाणयति- ‘असङ्गो न हि सज्जत’ इति । आत्मेति शेषः । मे ऐश्वर योग पश्य ! ईश्वरस्य मम सम्बन्धिनं योगं पश्येत्यर्थः । योगशब्दस्य फलितार्थ - माह - याथात्म्यमिति । ‘न च मत्स्थानि भूतानि न चाहं तेष्ववस्थित’ इत्युक्तं निष्प्रपञ्चत्वरूपं मत्तत्त्वं पश्येत्यर्थः । पश्येति क्रियापदं पुनराकृष्याह – इंदं चाश्चर्यमन्यत्पश्येति । वाक्यशेषोऽयम् । अन्यदि- त्यनेन पूर्वोक्तमेकमाश्चर्यमिति सूचितम् । प्रत्यक्षादिबहुप्रमाणगम्यस्य प्रपञ्चस्य सशास्त्रं सयुक्तिकं सानु- भवमभावस्य प्रदर्शितत्वात्तस्याश्चर्यत्वमिति भावः । असङ्गोऽपि सन् भूतभृद्भूतानि बिभर्तीति व्युत्पत्तिः । एवं भूतभृत्सन्नपि न च भूतस्थः । यथोक्तेन पूर्वोक्तेन न्यायेन भूतस्थत्वानुपपत्तेर्दर्शितत्वादित्यन्वयः । असंसर्गिणः क्वचिदप्याघेयभावेनावस्थितिर्न सम्भवतीति पूर्वोक्तन्यायः । नवमोऽध्यायः । ११५ दर्शितत्वात् भूतस्थत्वानुपपत्तेः । कथं पुनरुच्यते ’ असौ मम आत्मा’ इति विभज्य देहादि- सङ्घातं तस्मिन्नहङ्कारमध्यारोप्य लोकबुद्धिमनुसरन् व्यपदिशति - ‘मम आत्मा’ इति, न पुन- रात्मनः आत्मा अन्य इति लोकवदवजानन् । तथा भूतभावनः भूतानि भावयति उत्पादयति वर्धयतीति वा भूतभावनः ॥५॥ ननु स्वस्यैवात्मत्वान्ममात्मा भूतभावन इति कथमुच्यत इत्याक्षिपति - कथमिति । समा धत्ते — विभज्येति । देहादिसङ्घातं विभज्यात्मनः पृथक्कृत्य तस्मिन् सङ्घाते अहंकारमध्यारोप्य अहंबु - यध्यासं कृत्वा लोकबुद्धिमनुसरन् व्यपदिशति यथा लोकस्सङ्घातेऽहंबुद्धया अहं मनुष्य इति व्यव - हरति तादृशसङ्घाताद्विलक्षणं चात्मानं ममात्मेति तद्वदित्यर्थः । लोकदृष्ट्या ममात्मेति निर्देश इत्यर्थः । ननु लोक बुद्धिमनुसरन्निति कथमुच्यते, खबुद्धयैवोक्तवानित्यत आह-न पुनरिति । न हि सर्वज्ञः कृष्णः लोकवदजानन्नात्मतत्त्वमविदन् ममात्मेति ब्रूयात् । लोकस्याज्ञानमेवाभिनीय दर्शयति- आत्मन आत्माऽन्य इति । मम पुस्तकमितिवन्ममात्मेति वचनं ह्यात्मनो मच्छब्दवाच्यादन्य आत्मा पुस्तकवदिति भेदज्ञानपूर्वकम् । तस्मान्ममात्मेत्यस्य अहमात्मेत्येवार्थः । असङ्गस्यात्मनो युक्तमेवाभूतस्थत्वं भूतभृत्त्वं तु विरुद्धमिति विरोधादाश्चर्यमिदमिति भावः । यद्वा भूतभृतोऽपि ममाभूतस्थत्वं विरुद्धं भूतान्यन्तः प्रविश्य बिभर्तीति हि भूतभृत् । न चान्तस्थस्य कथं भरणमिति वाच्यं, प्राणस्यान्तरस्थस्यापि देहभरणदर्शनात् । तस्माद्विरुद्धमिदमाश्वर्यमिति भावः । अथ वा अभूतस्थस्य मम भूतभृत्त्वं विरुद्धं - भूतान्तस्स्थितिप्रयुक्तत्वाद्भूतभरणस्येति । अस्य च विरोधस्य परिहारश्चेत्थं– असङ्गोऽप्ययं मायया भूतभृदिति, मायया भूतभृदप्यहं वस्तुतो न भूतस्थ इति । अभूतस्थोऽप्यहं मायया भूतभृदिति, तत्त्वविद्दृष्ट्या न भूतस्थोऽपि मूढ- दृष्टया भूतस्थत्वाद्भूतभृदहमिति । तथा असङ्गा क्रियोऽपीत्यर्थः । वस्तुतो भूतानामेवाभावे इदं भूतभावनत्वं चात्मनि मायया प्रतिभाति मूढदृष्टीनाम् । नच विदुषामप्यस्ति प्रपञ्चसाक्षात्कार इति वाच्यं, ‘मध्याहार्क मरीचिकास्त्रिव पयः पूरो यदज्ञानतः खं वायुर्ज्वलनो जलं क्षितिरिति त्रैलोक्यमुन्मीलति । यत्तत्त्वं विदुषां निमीलति पुनः सम्भोगिभोगोपमं सान्द्रानन्दमुपास्महे हृदि सदा वामार्धजानि शिवम् ||’ इति कृष्णमिश्रोक्तेः । ’ मालाफणीव च निलीयति यत्प्रबोधा’ दित्यन्यत्राप्युक्तेः । ब्रह्मात्म- साक्षात्कारशालिनां नास्ति पुनः प्रपञ्चसाक्षात्कार: यथा सुषुप्तौ सर्वेषां यथा वा समाघौ योगिनामिति । न च यावत्प्रारब्धं विदुषामपि देहादिप्रपञ्चोऽस्त्येवेति वाच्यं, ‘यथा रज्जुं परित्यज्य सर्वे गृह्णाति वै भ्रमात् । तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ॥ रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति । अधिष्ठाने तथा ज्ञाते प्रपचे शून्यतां गते ॥ देहस्यापि पञ्चत्वात्प्रारब्धावस्थितिः कुतः । अज्ञानजन- बोधार्थ प्रारब्धमिति- चोद्यते ॥’ इति नादबिन्दूपनिषदि दर्शनान्नास्ति विदुषः प्रारब्धादिकमिति ॥५॥ · ११६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यथोक्तेन श्लोकद्वयेन उक्तमर्थ दृष्टान्तेनोपपादयन्नाह -
यथाकाशस्थितो नित्यं वायुस्सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥ यथेति । यथा लोके आकाशस्थितः आकाशे स्थितः नित्यं सदा वायुः सर्वत्र गच्छ- तीति सर्वत्रगो महान् परिमाणतः, तथा आकाशवत्सर्वगते मयि असंश्लेषेणैव स्थितानीत्येव - मुपधारय विजानीहि ॥६॥ यथेति । नन्वसङ्गस्य तव वस्तुतोऽभूतस्थत्वेऽपि मायया वा कथं तदुपपत्तिरित्यमूमाशङ्कां दृष्टान्तेन परिहरतीत्याह—यथेति, उक्तमर्थमिति । असङ्गित्वभूतभृत्त्वादिरूपम् । महानिति । महत्परिमाण इत्यर्थः । न तु निरतिशय महत्त्वं ब्रह्मनिष्ठत्वात्तस्येति सूचयितुमाह - परिमाणत इति । न तु स्वरूपत इति भावः । आकाशगस्य वायोर्यथा आकाशेन न संश्लेषः तथा मत्स्थानां भूतानां मया न संश्लेषः । तथा च मायया मयि भूतानां सत्त्वेऽपि न ममासङ्गित्वस्य क्षतिः कापीति भावः । मूढदृष्टिमभ्युपेत्येदमुक्त; वस्तुतस्तु मयि भूतानि माया वा कालत्रयेऽपि न सन्त्येव - अद्वितीयत्वा- न्ममासङ्गत्वाच्च । यत्तु रामानुजः - अन्तर्यामिणा मया सर्वं ततं मदधीनस्थितिकत्वात्सर्वं मयि स्थितं तदधीन- स्थितिकत्वाभावादहं न तेषु स्थितः । घटे जलानीव मयि भूतानि न स्थितानि निरालम्बने ऽप्याकाशे मयैव धृतस्सन् वायुर्यथा तिष्ठति तद्वत्सर्वमपीति, तदसत् — अन्तर्यामी हि सर्वस्य जगतोऽन्तरेव व्याप्तुमीष्टे, न तु बहि:- अन्तर्यामित्वादेव । इयं चान्तरेवेश्वरस्य व्याप्तिश्श्रुतिविरुद्धा- ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित’ इति श्रुतेः । सर्वव्यापिन ईश्वरस्यान्तरेव व्याप्तिरिति व्याप्तिसंकोचस्यान्याय्यत्वाच्च । न चान्तर्यामिणोऽन्यः कश्चन बहिर्व्यापी विद्यते, तथासति कश्चिदीश्वरोऽन्तर्यामी कश्चित्तु बहिर्व्यापीतीश्वर द्वित्वप्रसङ्गात् ।: 1 नाप्यन्तर्याम्यधीनस्थितिकानि स्थावरजङ्गमात्मक भूतानि तेषां जीवाधीनस्थितिकत्वात् । ‘जीवा- पेतं वा व किल शरीरं म्रियत’ इत्यादिशास्त्रात् । न चान्तर्याम्यपगमादेव शरीरमरणमिति वाच्यं, अचेतनेष्वप्यन्तर्यामिणस्सत्त्वेन मृतशरीराद्धस्मनो वान्तर्यामिणोऽपगत्यसम्भवात् । ‘यः पृथिव्यां तिष्ठन् ’ इत्याद्यन्तर्यामिब्राह्मणात् । न च जीवोऽप्यन्तर्याम्यधीनस्थितिक इति वाच्यं नित्यस्य जीवस्य पराधीनस्थितिकत्वायोगात् । न च जीवः परतन्त्र इति वाच्यं जीवगतपारतन्त्र्यस्य बुद्धिधर्मत्वात् । अचेतनं हि चेतन परतन्त्र, चेतनस्तु स्वतन्त्र एव - चेतनत्वादेव । किं च यदि मूलकर्तुरीहगर्थविवक्षा तर्हि - ‘मद्वशानि तु भूतानि न चाहं तद्वशः पुनः’ इत्येव ब्रूयात् । घटे जलानीव मयि भूतानि न स्थितानीत्येतदप्ययुक्तं– विश्वरूपे तस्मिन् तथैव भूतानां सत्त्वात् । नवमोऽध्यायः । ११७. तथा विश्वरूपस्य दर्शयिष्यमाणत्वात् । तव मते चिदचिद्विशिष्टस्य साकारस्यैवेश्वरत्वेन विश्वरूपस्या- पीश्वरत्वात् । तथा सर्वाधारस्य स्वयमाघारान्तरानपेक्षस्य वायोर्निरालम्बनेऽप्याकाशे स्थितिसम्भवात्किमीश्वरधृतत्व- वर्णनेन ? यदि वायुरीश्वरेणा धृतस्स्यात्तर्हि निरालम्बने आकाशे अस्थित्वा क्व वर्तेत ? तद्ब्रूहि ! येन वायोराकाशस्थित्यर्थमीश्व रधृतत्वमुच्येत । यथा वायुराकाशस्थितस्तथा भूतानि मत्स्थानीत्येतावत एव मूलस्य स्थिते मयैव धृत इति मूलाति- रिक्तांशकल्पनं तव हि निर्मूलमप्रमाणमयुक्तं च मया धृतो यथा खस्थो वायुरिति मूलस्याभावात् । दाष्टन्तिकेऽपि तथा मत्स्थानि भूतानि मद्धृतानीति भावयेति मूलस्याभावात् । आकाशस्थितस्य वायोरीश्वरधृतत्ववदीश्वर स्थितस्य जगत ईश्वरधृतत्वमिति वचनस्याप्ययुक्तत्वात् । न हि दृष्टान्ते ईश्वर- धृतो वायुरीश्वरे स्थितः, किं तु ईश्वरादन्यस्मिन्नाकाशे एव । दाष्टन्तिके तु ईश्वरधृतानि भूतानीश्वर एवेति कथमनयोरर्थयोर्दृष्टान्तदान्तिक भावः ? आन्तरेणेश्वरेण धृतानां कथं वेश्वरे स्थितिः ? बहि- रीश्वरस्यैवाभावात् । उक्तं हि प्राक्त्वया - अन्तर्यामिणा मया ततमिति । यदि तु बहिरप्यस्तीश्वरस्तर्हि स भवेदेव भूतानामाधारो वायोरिवाकाश इति किमीश्वरधृतत्ववर्णनेन ? किं च ईश्वरेण धृतत्वादेव वायुराकाशे वर्तते इत्युक्तं स चाकाशः केन धृतः ? कुत्र वर्तते ? स एवं ह्यज्ञातांशः पुनर्वक्तव्यः सर्वज्ञेन । वायोराकाशसत्त्वं तु सर्वविदितमेव प्रत्यक्षत्वात् । यदि त्वाकाश ईश्वरेण धृत ईश्वरे वर्तत इति मतं, तर्हि स एवार्थ इह दृष्टान्तीकर्तव्यः : दार्शन्तिकानुरोधात् । तत्परित्यागे कारणं नोपलभामहे । यद्यप्यनेनोक्तम् - ममात्मा मम सङ्कल्प इति, तदप्यसत् - आत्मशब्दस्य मुख्यार्थपरित्यागे कारणाभावात् । भूतभावनक्रियां प्रति कर्ता ह्यात्मा, सङ्कल्पस्तु हेतुरेवेति कर्तारमात्मानं विहाय सङ्क- ल्पस्य भूतभावनकर्तृत्ववर्णनं चायुक्तं – सत्या मेतद्विवक्षायां व्यासो ब्रूयादात्मना भूतभावन इति । न च मत्सङ्कल्प एव भूतभावनः किंपुनरहमित्यर्थापत्ति सूचनाय ममात्मा भूतभावन इत्युक्तमिति वाच्यं, सङ्कल्पातिरेकेणेश्वरस्य भूतभावनत्वासिद्धेः । ’ तदैक्षत बहु स्यां प्रजाये’ येति सङ्कल्पपूर्वकत्व - श्रवणात्सृष्टेः । न हीश्वरः कुलाल इव दण्डचक्रादिव्यापारेण घटं केन चियापारेण जगन्निर्माति, किं तु सङ्कल्पादेव । येन मम सङ्कल्प एव भूतभावनः किंपुनरहमित्युच्येत । सङ्कल्पेनैवाहं भूतभावन इत्युक्तेऽपि तादृशार्थापत्तेस्सुलभत्वाच्च । । तस्मान्मम वसुदेवसुतस्य दृश्यमानावयवसन्निवेशवतः पुरुषस्य आत्मा स्वरूपं सच्चिदानन्दलक्षणं परमात्मेति शङ्करोक्त एव समीचीनार्थः । नच षष्ठयनुपपत्ति:- कृष्णस्यैवात्मत्वादिति वाच्यं, दर्शित- विधया तत्परिहारात् । कार्यकरणसङ्घातात्मत्वेन सच्चिदानन्दात्मकत्वेन च विवक्षाभेदेन ममात्मेति षष्ठयन्तप्रथमान्तपदद्वयनिर्देशादिति ॥६॥ ११८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु एवं वायुः आकाश इव मयि स्थितानि सर्वभूतानि स्थितिकाले; तानि - सर्वभूतानि कौन्तेय! प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ||७||
सर्वेति । सर्वभूतानि कौन्तेय! प्रकृतिं त्रिगुणात्मिकां अपरां निकृष्टां यान्ति मामिकां मदीयां कल्पक्षये प्रलयकाले । पुनर्भूयस्तानि भूतानि उत्पत्तिकाले कल्पादौ विसृजामि उत्पादयाम्यहं पूर्ववत् ॥७॥ एवमविद्यालक्षणम्- प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्रमवशं प्रकृतेर्वशात् ॥८॥ प्रकृतिमिति । प्रकृति स्वां स्वीयामवष्टभ्य वशीकृत्य विसृजामि पुनः पुनः प्रकृतितो जातं भूतग्रामं भूतसमुदायमिमं वर्तमानं कृत्स्नं समस्तं अवशं अस्वतन्त्रं अविद्यादिदोषैः सर्वेति । प्रकृतिं यान्ति मायायां निलीयन्त इत्यर्थः । हे कौन्तेय ! सर्वभूतानि कल्पक्षये मामिकां प्रकृतिं यान्ति, कल्पादावहं पुनस्तानि विसृजामि | ननु यस्य यत्र यस्तस्य तस्मादेवोदयस्तत्रैव स्थितिरिति निष्कर्ष :- घटस्य मृदि लयस्थित्यो- मृद उदयस्य च दर्शनात् । प्रकृते तु भूतानां प्रकृतौ लयः परमात्मनि स्थितिरिति चोच्यते, कथं पुन- रस्य विरोधस्य परिहार इतिचेत्, उच्यते-भूतानां परमात्मनि स्थितिर्मायाद्वारैव नतु स्वतः – निष्प्रपञ्चत्वात्तस्य । तथा च परमात्मनि मायास्तिः तस्यां तु भूतानि स्थितानि; तस्यामेव लीयन्ते; तस्या एव जायन्त इत्यविरोधः । नच मायायास्वे ब्रह्मणस्सद्वितीयत्वापत्ति:- अग्निशक्त्याग्नेरिव मायया स्वशक्त्या परमात्मन- स्सद्वितीयत्वायोगात् । यदि ब्रह्मणः पृथङ्निरूपयितुं शक्या स्यान्माया तर्हि तया सद्वितीयत्वं स्याद्ब्रह्मणः नतु तदस्ति । नचैवं मायाया एवं जगज्जन्मस्थितिलयहेतुत्वे- ‘यतो वा इमानि भूतानि जायन्त’ इति श्रुति- बेझलक्षणं न स्यादिति वाच्यं जगदाकारपरिणतमायाधिष्ठानत्वेन ब्रह्मणि लक्षणसमन्वयात् । एवं मायाद्वारेणैवेश्वरस्य भूताधारत्वं, नतु स्वत इति कृत्वैव मत्स्थानि भूतानीति, नच मत्स्थानि भूतानीति च प्रोक्तम् ॥ ७॥ प्रकृतिमिति । अहं स्वां प्रकृतिमवष्टभ्य प्रकृतेर्वशादवशमिमं कृत्स्नं भूतग्रामं पुनः पुनर्विसृजामि । कुतः प्रकृतिमवष्टभ्य विसर्जनं भूतग्रामस्यात आह- प्रकृतितो जात मिमि । इदमुपलक्षण- प्रकृत्यां लीन- मित्यस्य मूतग्रामलयोदययोः प्रकृत्याधारत्वात्प्रकृत्याश्रयणं विना नेश्वरस्य भूतग्रामसर्जनं सम्भवतीति भावः । नचैवमीश्वरस्येश्वरत्व भङ्गः- प्रकृतिवशीकरणस्यैवेश्वरत्वात् । जीवो हि प्रकृतिपरतन्त्रः । तस्मादीश्वरःनवमोऽध्यायः । परवशीकृतं प्रकृतेर्वशात् स्वभाववशात् ||८|| ११९ तर्हि तस्य ते परमेश्वरस्य, भूतग्राममिमं विषमं विदधतः, तन्निमित्ताभ्यां धर्माधर्माभ्यां सम्बन्धस्यादित्यत इदमाह भगवान् - न च मां तानि कर्माणि निबध्नन्ति धनंजय ! उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥ नेति । नच मामीश्वरं तानि भूतग्रामस्य विषमसर्गनिमित्तानि कर्माणि निबध्नन्ति धनंजय ! । तत्र कर्मणामसम्बन्धित्वे कारणमाह - उदासीनवदासीनं यथा उदासीन उपेक्षकः कथित तद्वदासीनं, आत्मनोऽविक्रियत्वादसक्तं फलसङ्गरहितं, अभिमानवर्जितं, ‘अहं करोमि ’ स्वमायया सर्व जगत्प्रतिकल्पं पुनःपुनरुत्पादयति प्रतिप्रलयं च पुनः पुनर्मायायां विलापयति । एवमपि विचित्रप्राणिसर्गप्रयुक्तवैषम्यनैर्घृण्ये नेश्वरस्येत्याह – प्रकृतेर्वशादवशमिति । प्रकृतिः स्वभावो धर्मा- धर्मसंस्कारः प्राक्तनजन्मार्जित आत्मनिष्टः कर्मपर्यायः । स्वखकर्मानुगुणं सृजत ईश्वरस्य न वैषम्यादि- दोषप्रसक्तिरिति भावः ॥८॥ , नेति । ननु चौर्य सेवादिकर्मानुगुण चोरभृत्यादिशिक्षणरक्षणादिवशाद्राज्ञ इव कर्मानुगुणविषम- भूतसृष्टिवशादीश्वरस्य धर्माधर्मादिसम्बन्धः स्यादिति शङ्कते - तहति । विषममिति क्रियाविशेषणम् । तन्निमित्ताभ्यां विषमभूतसर्गनिमित्ताभ्याम् । हे धनञ्जय ! उदासीनवदासीनं तेषु कर्मस्वसक्तं मां तानि कर्माणि नच निबध्नन्ति; नच नैवेत्यर्थः । तानि कानीत्यत आह - भूतेति । विषमसर्गस्य निमित्तानि भूमग्रामस्य सम्बन्धीनि कर्माणि पूर्वप्रपञ्चार्जितानि अदृष्टानि पुण्यापुण्यरूपाणि मां परमेश्वरं न निबध्नन्ति, किंतु भूतग्राममेव निबध्नन्ति । सुखदुःखादिसंसारसम्पादनद्वारेति भावः । यद्यप्यन्यदीयकर्मभिरन्यस्य बन्धश्शंकितुमयुक्तः, तथापि अन्यदीयकर्मानुगुणस्वव्यापारैस्त्वस्य बन्धः ‘स्यादिति शङ्कयेदमुक्तम् । ततश्च भूतग्रामसम्बन्धिकर्माणि तदनुगुणविषमसृष्टिद्वारा नेश्वरस्य बन्धका- नीति सिद्धम् । पूर्वप्रपञ्चार्जितभूतग्रामकर्मानुगुणानि विषमाणि भूतग्रामसृष्ट्यादीनि कर्माणि नेश्वरं निबध्नन्तीति परमार्थः । तंत्र एवंसति कर्मणां सृष्टयादिकर्मणां सृष्टयादिव्यापारहेतुभूतग्रामादृष्टाख्यकर्मणामिति वा । अबन्धकत्वे धर्माधर्मादिसंसारासम्पादकत्वे । उदासीनवदासीनमित्यनेन न तूष्णीं स्थितिर्विवक्षिता– निष्क्रिये आत्मनि तूष्णीमासनरूपक्रियाया अप्ययोगात् । किं तु यथा द्वयोर्विवदमानयोश्चित्तक्षोभादिकं विकारं भजमानयोस्ततो रुदासीनोऽन्यस्तत्र न कश्चिद्विकारं भजते तद्वदीश्वरोऽपीत्ययमर्थोऽत्र विवक्षित इत्याह- आत्मनोऽविक्रियत्वादिति । अविक्रियात्म स्वरूपाभिज्ञत्वादविक्रियमित्यर्थः । अनेन च ईश्वरस्येव जीवस्यापि यद्यप्यात्माऽविक्रियस्तथापि जीवस्तदनभिज्ञत्वा द्विक्रियत इवेति सूचितम् । असक्तमिति । कर्मस्वासङ्गो हि द्विविध:- फलाऽऽसङ्गरूपः, कर्तृत्वाभिमानरूपश्च । तदुभय- रहितमित्याह — फलेति । अभिमानस्याकारं दर्शयति- अहं करोमीति । तेषु कर्मस्वहं करोमी- १२० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु इति तेषु कर्मसु अतोऽन्यस्यापि कर्तृत्वाभिमानाभावः फलासङ्गाभावाश्वासम्बन्धकारणम् । अन्यथा कर्मभिर्बध्यते मूढः कोशकारवदित्यभिप्रायः ||९|| तत्र ‘भूतग्राममिमं विसृजामि’ ‘उदासीनवदासीन’ मिति च विरुद्धमुच्यते, इति तत्परिहारार्थमाह- मयाध्यक्षेण प्रकृतिस्सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥१०॥ मयेति । मयाऽध्यक्षेण सर्वतो दृशिमात्रस्वरूपेण अविक्रियात्मना अध्यक्षेण मया, मम माया त्रिगुणात्मिकां अविद्यालक्षणा प्रकृतिः सूयते उत्पादयति सचराचरं जगत् । तथा च मन्त्रवर्ण:- एको देवस्सर्वभूतेषु गूढस्सर्वव्यापी सर्वभूतान्तरात्मा, कर्माध्यक्षस्सर्वभूताधि- त्यभिमानवर्जितमित्यन्वयः । कर्मस्विति । सृष्टयादिव्यापारेषु । अत इति । कर्मस्वसक्तत्वेनेश्वरस्य कर्मबन्धाभावादित्यर्थः । असम्बन्धः धर्माधर्मादिसंसारासम्बन्धः । अन्यथेति । कर्मस्वसङ्गाभाव इत्यर्थः । कर्मसु सङ्गसत्त्वे इति वा । बध्यते संसारं प्राप्यत इत्यर्थः । मूढ आत्मस्वरूपानभिज्ञः । अनात्मन्यात्माभिमानशालीति वा । कोशकारवदिति । कोश- कारः कीटविशेषः (आन्ध्रे गव्वपुरुगु) स हि स्वबन्ध कोशं तनोति, रन्ध्राभावात्तत्रैव कोशे म्रियते ‘तद्वज्जीवः कर्मसु सङ्ग कुरुते संसारमापद्यते च ॥९॥
भयेति । ननु भूतग्रामस्य विषमोऽपि सर्ग आत्मनोऽविक्रियत्वज्ञमीश्वरं न निबध्नातीत्युक्तं न युक्तं, आत्मनस्सत्य विक्रियत्वे ईश्वरो भवत्वात्मनोऽविक्रियत्वज्ञः । तदेव न सम्भवति - भूतग्राममिमं कृत्स्नं विसृजामीति भूत सर्जनरूपविकारस्यात्मनि प्रोक्तत्वात् । न हि क्रियावानात्मा विकाररहितः स्यात् । उदासीनेऽपि विवादादिक्रियाराहित्यं हि विकाराभावे हेतुः । तस्मादविक्रियत्वं भूतसर्गादिकर्तृत्वं चेति विरुद्धधर्मद्वयस्यात्मनि सामानाधिकरण्यं न सङ्गच्छत इत्याक्षिपति — तत्त्रेति । तत्र पूर्वोक्तार्थे । मया अध्यक्षेण सता प्रकृतिस्सचराचरं सूयते । हे कौन्तेय ! अनेन हेतुना जगद्विपरिवर्तते । दृशिमात्रं चैतन्यमेव स्वरूपं यस्य तेन दृशिमात्रस्वरूपेण । अध्यक्षः प्रभुस्साक्षीति यावत् । यथा देहे गच्छति सति देहधर्म गमनं देहिन्यारोप्य देही गच्छतीति प्रत्येति लोकस्तथा प्रकृत्यां सृष्टि कुर्वाणायां प्रकृतिधर्म सर्ग प्रकृतिमति मायिनीश्वरे आरोप्य सृजति जगदीश्वर इति वदति शास्त्रविज्जनः । तथा च प्रकृत्यामेव क्रिया न त्वात्मनीति क्रियाभावादात्मा भवत्यविक्रियः । एवमविक्रियमात्मानं वेत्तीतीश्वरो भवत्युदासीनवदासीनः । स्रष्टृप्रकृतिसाक्षित्वादीश्वरस्य स्रष्टृत्वव्यप- देशश्वति न कश्चिद्विरोध इति समाधानार्थः । सूयते - उपलक्षणमिदं रक्षतिहरत्योः । चराणि जङ्गमानि .. मनुष्यादीनि अचराणि स्थावराणि तर्वादीनि तत्सहितं सचराचरं सृष्ट्यादिषु ईश्वरः साक्ष्येव न कर्ता । प्रकृतिरेव कर्त्रीत्युक्तार्थे श्रुतिं प्रमाणयति — एक इति । गूढः दुर्विज्ञेयत्वेन स्थितः कर्माध्यक्षः अकर्म- 1 । १६ ** नवमोऽध्यायः ॥ १२१ वासस्साक्षी चेता केवलो निर्गुणश्च’ इति हेतुना निमित्तेनानेन अध्यक्षत्वेन कौन्तेय ! जग- वश्यः । अधिवास आधारः चेता चेतनः । चकारान्निष्क्रियः । अनेन मन्त्रवर्णेन साक्षित्वे सिद्धे परमेश्वरस्य अगतिकत्वात्कर्तृत्वं पतितं प्रकृत्यामिति बोध्यम् । ‘अजामेकां लोहितशुक्लकृष्णां बह्रीं प्रजां जनयन्ती सरूपा ‘मित्यादयस्तु साक्षात्कर्तृत्वं बोधयन्ति प्रकृत्या इति वेद्यम् । ननु यद्येवं जगज्जन्मादिहेतुत्वं प्रकृतेः स्यात्तर्हि ‘यतो वा इमानि भूतानि जायन्ते इति श्रुतेः प्रकृतेरेव लक्षणं स्यात्, न चेष्टापत्ति:- ‘ईक्षतेर्नाशब्द ’ मिति प्रकृतेस्तन्निरासात् । ‘मूलप्रकृतिरविकृति’- रिति साङ्ख्यशास्त्रस्यैव सिद्धान्तत्वप्रसङ्गाच्च । उक्तं हि तत्र प्रकृतेर्जगत्कर्तृत्वं पुरुषस्यौदासीन्यं चेति चेत्, मैवम् - ईश्वराधिष्ठितप्रकृतेः प्रकृतिसंसृष्टेश्वरस्य वा जगज्जन्मादिहेतुत्वं भवितुमर्हति न तु केवलप्रकृतेः, केवलेश्वरस्य वा तस्या जडत्वात्तस्य चिन्मात्रस्वाच्च । न हि जडायास्सङ्कल्परूपं ज्ञानं सम्भवति; नापि चिन्मात्रस्य मायावृत्तिरूपस्सङ्कल्पस्सम्भवति । . तत्रः साङ्ख्याः केवलप्रकृतेरेव जगद्धेतुत्वं वदन्तीति नास्माकं साङ्ख्यमतप्रवेशदोषः; केव- –लेश्वरस्य सृष्टयादिहेतुत्वं वयं निषेधाम इति न श्रुतिविरोधश्च । यतो वेति श्रुतिर्हि मायिनमीश्वर जगद्धेतुं नृते । न च मायाद्वारा ब्रह्मापि जगत्कारणं ब्रूते श्रुतिरिति वाच्य, संस्यास्माकमिष्टत्वात् । ब्रह्मणि क्रेवले सृष्ट्यादिक्रियायोगादेव हि मायाया द्वारकारणत्वमभ्युपेयते । तस्मादीश्वरप्रकृत्यो रविवेके एव ईश्वरस्य जगत्कर्तृत्व, यथा देहदेहिनोरविवेंके एवं देहिनो गन्तृत्वम् । सति तु विवेके ईश्वरो नैव कर्ता, यथा देही नैव गन्ता । प्रकृतिरेव कमी यथा देह व गन्ता इति स्थितम् । २० न च मायावच्छिन्न चैतन्यस्येश्वरत्वात्प्रकृति विवेकेन सिद्धयेदीश्वर एवेति वाच्य, मायाव- च्छिन्नत्वरूपेश्वरत्वस्यासिद्धावपि चैतन्यरूप ईश्वरस्सिद्ध एवेति, ईश्वरस्य स्वस्वरूप हि चैतन्यमात्रमेव । मायावच्छिन्नत्वं त्वाध्यासिकरूपमेव मायायाश्चैतन्ये अभ्यस्तत्वात् । जीवस्यापि चैतन्यमेव स्वस्व- रूपम् । अन्तःकरणावच्छिन्नत्वं स्वाध्यासिकमेव अन्तःकरणस्य चैतन्येऽध्यस्तत्वात् । एवं चैतन्यमात्ररूपत्वादेव जीवेश्वरयोरैक्यं ब्रुवन्ति श्रुतयः तत्त्वमस्यादयः । अत एवेहापि एको देव इत्युक्तम् । एक एव हि जीवेश्वरयोसामा चैतन्यलक्षण आत्मा हि स्वरूपम् । तस्माच्चतन्यलक्षणस्यात्मनोऽकर्तृत्वेनाविक्रियत्वादुदासीनवदासीन एवेश्वरः । जगत्कर्तृत्वं तु “प्रकृतिगतं प्रकृतिसङ्गादात्मनीश्वरेऽध्यस्तमेवेति स्थितमीश्वरस्याविक्रियत्वमात्मनः । श्लोकस्योत्तरार्ध व्याख्याति - हेतुनेति, अध्यक्षत्वेनेति । ईश्वरस्याभ्यक्षत्वेनेत्यर्थः । इदानी जगद्यकात्मकं स्फुटखरूपं, प्रलये त्वस्फुटत्वादन्यत्तात्मकम् । अनेन च प्रलयेऽपि न नाशः सम्भवति • भूतग्रामस्येति सूचितं- सुक्ष्मरूपेण तदानीमपि सत्त्वादिति । विपरिवर्तते विशेषेणः परिवृत्ति परिभ्रमणं प्रतिपद्यते । व्यक्तावस्थं जगदव्यक्तावस्थं भवति, तच्च पुनर्व्यक्तावस्थं भवतीत्येवं कुलालचक्रवज्जगत्परिभ्रमतीत्यर्थः । १२२ श्रीभगवद्गीतासु- भाष्या प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु . त्सचराचरं व्यक्ताव्यक्तात्मकं विपरिवर्तते सर्वावस्थासु । दृशिकर्मत्वापत्तिनिमित्ता हि जगतस्सर्वा प्रवृत्ति :- ‘अहमिदं भोक्ष्ये, पश्यामीदं शृणोमीदं, सुखमनुभवामि, दुःखमनु- भवामि, तदर्थमिदं करिष्ये, इदं ज्ञास्यामि’ इत्याद्या अवगतिनिष्ठा अवगत्यवसानैव । ‘यो केवलायाः प्रकृतेर्जडत्वेन जगद्विपरिवर्तनासम्भवात्साक्षिण्यध्यक्षे मयि प्रकृतिमधितिष्ठति सति प्रकृतिर्जगद्विपरिवर्तयतीति परमार्थः । चित्प्रतिबिम्बसहिता बुद्धिर्यथा जडापि चेतनीभूय पश्यामि शृणोमीत्येवं व्यवहरति तद्वच्चित्प्रति- बिम्बसहिता प्रकृतिर्जडः पि चेतनीभूय सृष्ट्यादिव्यवहारं करोतीति भावः । समष्टयज्ञानं प्रकृतिः, व्यष्टज्ञानं तु बुद्धिः । अत एव सर्वव्यापिनी प्रकृतिः, परिच्छिन्ना तु बुद्धिरिति विवेकः । एतेनेश्वरस्याध्यक्षत्वं नाम प्रकृतौ प्रतिफलनमिति सिद्धम् । ईश्वरे प्रकृत्यां प्रतिफलत्येव प्रकृतेस्सृष्ट्या दिसामर्थ्य सम्भवस्योक्तत्वात् । यद्वा अध्यक्षत्वं प्रेरकत्वं तच्च लोहायस्कान्तन्यायेनेति नेश्वरस्य विकारप्रसङ्गः । इदं च प्रेरणमन्तः प्रवेशपूर्वकमेव यः प्रकृतौ तिष्ठन्नित्याद्यन्तर्यामि ब्राह्मणात् । इदं चेश्वरस्य प्रकृत्यामन्तः प्रवेनं. प्रतिबिम्बरूपेणैव · खखरूपेण तु प्रवेशात्प्रागेव सिद्धत्वात् । परिपूर्ण हि चैतन्यं सर्वव्यापि । एवं च ईश्वरः प्रतिबिम्बरूपेण प्रकृत्यां प्रविश्य तां सृष्ट्यादिषु नियमयतीत्यध्यक्षस्तस्या इति फलितम् । अथ वा यक्ष प्रभुत्वं प्रकृतिं सर्वेश्वरीं स्ववशीकृत्य राज्यश्रियमिव राजा तया सृष्ट्यादि-. लीला निर्वर्तयतीति प्रकृत्यध्यक्ष ईश्वरः । यद्वा अध्यक्षयति प्रत्यक्षीकरोति सर्वं स्वत एवेत्यध्यक्षस्साक्षी; ईश्वरो हि मायया सर्व साक्षा- त्करोति, मायां तु स्वरूपभूत चैतन्येनैव । अज्ञानस्य साक्षिप्रत्यक्षसिद्धत्वात् । सुषुप्तावज्ञानस्य साक्षि- णानुभूयमानत्वादिति सिद्धमीश्वरस्य मायासाक्षित्वम् । एवमीश्वरे साक्षित्वेन तिष्ठति सत्येव माया जगद्व्यापारं विधते; यथा राजनि साक्षित्वेन तिष्ठति सति सेना युद्धव्यापारं विधते तद्वत् । जडत्वेन स्वतोऽसमर्थाया मायाया ईश्वरसाक्षात्कारवशाच्चै न्य- लामेन सृष्ट्या दिसामर्थ्यसिद्धिरिति भावः । अथ वा अध्यक्षत्वमधिष्ठातृत्वं; जडापि प्रकृतिरीश्वराधिष्ठानवशाज्जगद्विधते; यथा जडोऽपि देहो जीवाधिष्ठानवशाद्गमनादिकं कर्म, यथा वा जडोऽपि खड्गो भटाघिष्ठानवशात् छेदनमिति । ननु प्रकृतेर्जगद्यापारं प्रतीश्वरस्याध्यक्षत्वं निमित्तमस्तु नाम, जगतो विपरिवर्तनं प्रति कथं तन्निमित्तमत आह— सर्वेति । सर्वासु बाल्यादिषु जाग्रदादिषु सुखित्यादिषु चावस्थासु । दृशिर्ज्ञान- क्रिया तन्निरूपितकर्मत्वं दृशिकर्मत्वं दृश्यत्वं तस्यापत्तिः प्राप्तिः सा निमित्तं यस्यास्सा हंशिकर्मत्वापत्ति- निमित्ता; हिः प्रसिद्धौ । जगतस्सर्वावस्थासु सर्वा प्रवृत्तिर्दृशिकर्मत्वापत्तिनिमित्ता हीत्यन्वयः । प्रवृत्ति - " मेवाभिनीय दर्शयति — अहमिदं भोक्ष्य इत्यादिना । इत्याद्येत्याद्यपदाद्द्राणनाक्षन विसर्गादिक्रिया- न्तरसंग्रहः । अस्याश्च जगत्प्रवृत्तेरात्मैव निष्टा पर्यवसानं चेत्याह– अवगतिनिष्ठा अवगत्यवसानेति । नवमोऽध्यायः । १२३ अस्याध्यक्षः परमे व्योमन्’ इत्यादयश्च मन्त्रा एतमर्थं दर्शयन्ति । ततश्च एकस्य देवस्य अवगतिः ज्ञानमात्मा - तस्यैव सर्वाधारत्वात्सर्वशेषित्वाच्चेति भावः । तदेवमवगति निष्ठत्वादवगत्यव- सानत्वाच्च जगत्प्रवृत्तेरवगतिकर्मत्वापत्तिनिमित्तकत्वमित्यवगतेरेव जगद्विपरिवर्तनं प्रति हेतुत्वादीश्वर- स्याध्यक्षत्वं जगद्विपरिवर्तनं प्रति निमित्तमेव । अवगतेरेवेश्वरत्वादध्यक्षत्वाच्चेति सिद्धम् । तन्त्रैव- अयमाशय: - ब्रह्मादिस्तम्बपर्यन्तचराचरात्मक जगत्पदवाच्यभूतग्रामस्य सर्वापि प्रवृत्तिश्चेतनपर- - जडस्य तस्य स्वतः प्रवृत्त्ययोगात् । जडस्य चेतन पारतन्त्र्यं च चेतनकटाक्षाधीनशक्तिमत्त्वं स्वत एव शक्तिमत्त्वे पारतन्त्र्यायोगात् । तथा च चेतनेनात्मना दृश्यमानस्सन्नेव भूतग्रामोऽहमिदं भोक्ष्य इत्यादिकं व्यवहारं करोति, न तु स्वतस्तस्याचेतनत्वात् । तस्मादचेतनानां देहेन्द्रियान्तःकरणानां भोजनदर्शनमननादिप्रवृत्तीः प्रति चेतनात्मदृश्यमानत्वमेव निमित्तम् । इदमेव चेतनकर्तृकम चेतन कर्मकं दर्शन नियमनमिति प्रेरणमिति च वदन्ति । यस्मादेवमचेतनस्य जगतस्सर्वासु प्रवृत्तिषु चेतनकर्तृकं दर्शनं निमित्तं तस्माज्जगद्विपरिवर्तनं प्रत्यपि तदेव निमित्तं साक्षित्वं च साक्षाद्दर्शनमेव । यद्वा विपरि- वर्तत इत्यस्य विविधं प्रवर्तत इत्यर्थः । अन्यत्तुल्यम् । एवं जगत्प्रवृत्तेश्चेतनकर्तृकदर्शनहेतुकत्वा- चेतनस्येश्वरस्याध्यक्षत्वं जगत्प्रवृत्तिषु निमित्तं भवति, यथा प्रकृतिप्रवृत्तिष्विति स्थितम् ।
एवमीश्वरस्य जगत्प्रकृत्योरध्यक्षत्वे श्रुतिं प्रमाणयति — यो अस्याध्यक्ष इति । अस्य जगत- स्सकारणस्येत्यर्थः । अध्यक्षस्साक्षी । परमे व्योमन् परमाकाशे स्थित इति शेषः । व्योमन्नित्यत्र ‘सुपां सुलुक्’ इति सप्तम्यालुक् । स्वे महिम्नि व्यवस्थित इतिवत्परमव्योमरूपस्यापि परमात्मनः परम- व्योमस्थितिरुक्ता । न तु परमेश्वरस्सर्वाधारो निराधारश्च कुत्रचित्स्वेतराधारे स्थातुमुचितः । यद्वा अव्याकृतं परमं व्योम- ‘एतस्मिन् खल्वक्षरे गार्ग्याकाश’ इति श्रुतेः । अथ वा हृदयाकाश एव परमव्योम- ‘यो वै स बहिर्धा पुरुषादाकाशो यो वै सोऽन्तः पुरुष आकाशो योऽयमन्तर्हृदय आकाश’ इति श्रुतेः । ईश्वरस्य प्रकृतिबुद्धयन्तस्स्थत्वं चान्तर्यामिब्राह्मण- प्रसिद्धम् । मायावच्छिन्न चैतन्यलक्षणो हीश्वर ईश्वरत्वेन रूपेण प्रकृतौ प्रत्यवत्वेन रूपेण बुद्धौ च वर्तत इति सिद्धान्तात् । " ननु यो बुद्धौ स्थितः प्रत्यगात्मा स न जगतोऽध्यक्षः, किं तु स्वोपाधिबुद्धीन्द्रियादीनामेव- अपरिपूर्णत्वात् पूर्णो हि परमात्मा; परिच्छिन्नस्तु प्रत्यगात्मा; किं चास्ति प्रत्यवपरयोर्महान् मेदः - प्रत्यक्षत्वाप्रत्यक्षत्व रूपरसद्वितीयत्वाद्वितीयत्वरूपश्च तदुक्तं वाक्यवृत्ती- ‘आलम्बनतया भाति योऽस्म- स्प्रत्ययशब्दयोः । अन्तःकरण सम्भिन्नबोधस्स त्वंपदाभिधः ॥ मायोपाधिर्जगद्योनिस्सर्वज्ञत्वादिलक्षणः । पारोक्ष्यशबलस्सत्याद्यात्म कस्तत्पदाभिधः ॥ प्रत्यवपरोक्षतैकस्य सद्वितीयश्वपूर्णते । विरुद्धयेते यतस्तस्मा- लक्षणा सम्प्रवर्तते ॥’ इति । एवं विरोधादेव हि तत्त्वमस्यादिस्थले लक्षणास्वीकारः । तचोक्तं तत्रैव ‘मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे । मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते ॥ तत्त्व- १.२४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सर्वाध्यक्षभूतचैतन्यमात्त्रस्य परामार्थतः सर्वभोगानभिसम्बन्धिनोऽन्यस्य चेतनान्तरस्याभावे मस्यादिवाक्येषु लक्षणा भागलक्षणा । सोऽयमित्यादिवाक्यस्थपदयोरिवं ना परा’ इति । तस्मान्न प्रत्य- मात्मनः परमात्मधर्मो जगदध्यक्षत्वं नापि परमात्मनो बुद्धिस्थत्वमिति चेत्, मैवम् - यस्साक्षादपरोक्षा त्यपरोक्ष एव परमात्मा । ’ येन सर्वमिदं ततमिति गीतावचनात्परिपूर्ण एव प्रत्यगात्मा; बुद्धौ, चैतन्यस्या भिव्यक्तत्वादुद्बुद्ध्यवच्छिन्नमित्युच्यते चैतन्यं न तु बुद्धिपरिच्छिन्नत्वादन्यथा परिच्छिन्नत्वे जडत्वानित्यत्वाद्यापत्तेः घटादिवदिति । तस्मादेक एवात्मा जगद्धेतुत्वादिधर्मवैशिष्टयेन परमात्मेति, बुद्ध्यभिव्यक्तत्वादिधर्मवैशिष्ट्येन, प्रत्यगात्मेति चोच्यत इति कृत्वा यः परमात्मा स एव बुद्धिस्थितः, यो बुद्धिस्थितः प्रत्यगात्मा स एव जगदध्यक्षः परमात्मा चेति स्थितम् । न च वाक्यवृत्तिविरोध- अज्ञा हि प्रत्यगात्मानं परिच्छिन्नं परमात्मानं परोक्षं च मन्यन्त इति तद्दृष्टया तद्वाक्यप्रणयनात् । कथमन्यथा तैरेवाचार्यैरुपनिषद्भाष्यारम्भे याथात्म्यं चात्मनश्शुद्धत्वापाप- विद्धत्वैकत्वनित्यत्वा शरीरत्वसर्वगतत्वादीत्युच्येत । नच परमार्थतोऽभेदेऽपि यावद्व्यवहारमस्त्यैवोपाधिको भेदो जीवेश्वरयोरिति वाच्यं, औपाधिक- मेदस्योपाघिगतत्वेनात्मगतत्वासम्भवात् । कथमन्यथा- ‘ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठतीति ब्रूयात् ? ईश्वरो हि व्यवहारदशायां प्रत्यग्रूपेण भूतानां हृदेशे तिष्ठतीति हि तदर्थः । परमार्थदशायां भूतादे- रेवाभावात् । तस्माद्यावद्व्यवहारमपि न प्रत्यगात्मपरमात्मभेद: । ईश्वरस्यैव प्रत्यगात्मत्वात् । न च निरीश्वरसाङ्ख्यमतप्रवेशापत्तिर्व इति वाच्यं जगद्धेतोरीश्वरस्याभ्युपगतत्वादस्माभिः न हि बुद्धिसृष्टेः प्राग्बुद्ध्यभिव्यक्तत्व लक्षणं प्रत्यक्त्वमस्ति परमात्मनः, येन प्रत्यगात्मैक एवास्ति, न परमात्मेत्युच्येत साङ्ख्यैरिवास्माभिः । 1 नापि द्वैतमतप्रवेश: - परमात्मनोऽन्यः प्रत्यगात्मेत्यनभ्युपगमात् । अत एव ‘एकमेवाद्वितीय ब्रह्म, स आत्मा’ इत्यादिश्रुतिभिरात्मभेदो निषिद्धः । न केवलं श्रुतिभिर्युक्तिभिश्चात्ममेदो न स्थास्यति । तथाहि - किमात्मभेदः केनापि ज्ञायते ? उत न ? आद्ये किमात्मना ? उतानात्मना ? नात्मना - आत्मदृश्यस्यात्मभेदस्य श्वेतपीता देरिवात्मधर्मत्वायोगात् नानात्मना तस्य जडत्वात् । यदि न ज्ञायते तर्हि शशश्रङ्गवन्नैवास्ति । किंच किमात्मभेद आत्मनो भिन्न उताभिन्नः ? आद्ये- अनात्मधर्मः एव सः । द्वितीये- आत्मव्यतिरेकेण निरूपणासम्भवाद्भेदस्यात्मन एकत्वमेव स्यात् । न च आत्मानो बहवः, तथाच एकात्मभेदः अन्यात्मना न गृह्यत इति वाच्यं, ‘नान्योऽतोस्ति द्रष्टा’ इति श्रुतेः । आत्मभेद विना आत्म बहुत्वस्यासिद्धेश्व । तदिदं सर्वमभिप्रेत्याह — एकस्येति ।
सर्वाध्यक्षभूतेति । साक्षित्वस्यापि परमार्थत आत्मन्यसम्भवादुक्तं भूतेति । साक्षिवत् स्थित- मित्यर्थः । चैतन्यमेव चैतन्यमात्रम् । सर्वभोगानभिसम्बन्धिनः सर्वभोगसम्बन्धरहितस्य । असङ्गत्वा- दद्वितीयत्वाच्चेति भाव: : 4 नवमोऽध्यायः । १२५ भोक्तुरन्यस्याभावात् किं निमित्ता इयं सृष्टिरित्यत्र प्रश्नप्रतिवचने अनुपपन्ने, ‘को अद्धा वेद क इह प्रवोचत् कुत आजाता कुत इयं विसृष्टि:’ इत्यादिमन्त्रवर्णेभ्यः । दर्शितं च भगवता - ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव’ इति ॥ १० ॥ एवं मां नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वजन्तूनामात्मानमपि सन्तम्- अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥११॥ अवजानन्तीति । अवजानन्ति अवज्ञां परिभवं कुर्वन्ति मां मूढा अविवेकिनः मानुषीं मनुष्य सम्बन्धिनीं तनुं देहमाश्रितं, मनुष्यदेहेन व्यवहरन्तमित्येतत् । परं प्रकृष्टं भावं परमात्मतत्त्वमाकाशकल्पमाकाशादप्यन्तरतममजानन्तो मम भूतमहेश्वरं सर्वभूतानां महान्त- मीश्वरं स्वात्मानम् ॥ ११॥ नन्वेवं विषस्येश्वरस्य सृष्टिर्न स्वार्था स्वस्यासङ्गत्वादविक्रियत्वाच्च, नापि परार्था - अन्यस्था- भावादित्यक्षिपति — ततश्चेत्यादिना । भोक्तृत्वस्य चेतनधर्मत्वेनाचेतनस्य भोक्तृत्वायोगात् । चेतनस्य’ चैकत्वेन चेतनान्तराभावात्तस्य च चेतनस्याविक्रियत्वेन भोक्तृत्वायोगाद्यर्थेयं सृष्टिरिति प्रष्टुराशयः । इत्यत्र - इत्यस्मिन्नाक्षेपे । परिहरति– प्रश्नप्रतिवचनेऽनुपपन्ने इति । तत्र श्रुतिमेव प्रमाणयति को अद्धेति । अद्धा साक्षात्को वेद, न कोऽपीत्यर्थः । इहास्मिन्नर्थे कः प्रवोचत् को वदेन्न कोऽपीत्यर्थः । आ इत्याश्वर्ये । इयं विसृष्टिर्विसर्गः कुतो जाता कस्माद्धेतोर्जाता, कुतः कस्मादुपादानादिति । यद्वा कुतः कुत इति सम्भ्रमादौ द्विरुक्तिः । ईश्वरस्य परिपूर्णकामस्याविक्रयस्य प्रपञ्चसृष्टौ निमित्तं कोपि न वेदेति श्रुत्यर्थः । 7 नच लीलैव प्रयोजनमिति वाच्यं, चिन्मात्रे लीलाया अध्ययोगात् । एवं कर्तुरीश्वरस्य प्रपञ्च- सृष्टौ प्रयोजनाभावादपि मायामय्येव सृष्टिरेष्टव्या । सर्वमप्यसङ्गतं मायया हि सङ्गतमिव भवति । उक्तार्थे गीतां प्रमाणयति -अज्ञानेनेति । कृत्स्नजगदाकारपरिणतमायया आत्मानात्मविवेक- ज्ञानमावृतं तेन हेतुना आत्मस्वरूपविज्ञानाभावाज्जन्तवो मुह्यन्ति । आत्मानात्मतादात्म्याभ्यासं प्रतिप- द्यानात्मगतं कर्तृत्वादिकमात्मन्यारोप्य आत्मा कर्तेति मोहं प्रपद्यन्ते । वस्तुतस्त्वकर्ताऽविक्रिय एवात्मे- श्वरः । सृष्टयादिव्यापारस्तु प्रकृत्या एव । दर्शनश्रवणादिव्यापारस्तु जगत एव । जगतः प्रकृतेश्वयं प्रवृत्तिस्सर्वापीश्वर कटाक्षलब्धैवेत्यनवद्यम् ॥१०॥ अवजानन्तीति । नित्यमविनाशिनं भूतग्रामस्तु निराशीति भावः । शुद्धं निर्मलं बुद्ध ज्ञातारम् । मूढाः मम भूतमहेश्वरं परं भावमजानन्तस्सन्तः मानुर्षी तनुमाश्रितं मामवजानन्ति । आकाशकरूपमाकाशतुल्यं तद्वन्निर्लेपमित्यर्थः । आकाश एवं किं न स्यादत आह- आकाशादपीति । आकाशमभिव्याप्य वर्तमानमित्यर्थः । सर्वभूतानामीश्वर आत्मा परमपुरुषः परमार्थसत्यः श्रीनारायण एवाय १२६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु वासुदेवः, न तु मनुष्यमात्र इत्येवं रूपं मत्तत्त्वमविद्वांसो मूढा मां मनुष्यं मत्वा तिरस्कुर्वन्तीति पर्यव- सन्नोऽर्थः । मनुष्योऽयं गोपोऽयं यादवोऽयमित्येवमवज्ञां कुर्वन्तीति यावत् । अत्र मानुषीं तनुमित्युपलक्षणं तेन क्रिमिकीटपक्षिपश्वादिषु सर्वेषु देहेषु सन्तमात्मानमीश्वरं श्रीकृष्णं परं ब्रह्माविदित्वा जीवं मत्वा तत्रापि क्रिम्यादिरूपं मत्वा क्रिम्यादिदेहानामात्मनश्च तादात्म्या- ध्यासेन क्रिमिरयमात्मा कीटोयमात्मा - इत्यादिविधया स्वात्मानमेव तिरस्कुर्वन्ति आत्मानात्मविवेक- शून्या मूढा इति सिद्धम् । ततश्च विवेकिभिरात्मानमनात्मभ्यो विविच्य सच्चिदानन्देश्वररूपतया प्रतिपत्तव्यमित्युपदिष्टप्रायम् । यत्तु रामानुज :- असक्तं तेषु कर्म स्वित्यत्र तत्र वैषम्ये प्रयोजकत्वरूपसम्बन्ध र हितमिति, मयाध्यक्षेणेत्यत्र सत्यसङ्कल्पेन मयाध्यक्षेणेक्षितेति, पश्य मे योगमैश्वरमित्यत्र मम वसुदेवसुनो सत्य- सङ्कल्पत्वं नैर्घृण्यादिदोषरहितत्वमित्यादिकं योग पश्येति, प्रकृतश्लोके च भूतमहेश्वरं मां मनुष्यतन्वा- श्रयणमात्रेण ममापारकारुण्यौदार्य सौशील्यवात्सल्यादि निबन्धनं मनुष्यत्वसमाश्रयणलक्षणमिमं परं भाव- मजानन्तो मूढास्तिरस्कुर्वन्तीति चौचत् । तदेतत्सर्वं मन्दम् - तेषु कर्मस्थिति शब्दद्वयात्तत्र वैषम्य इत्यर्थावगमो न सम्भवतीति सर्व-: विदितम् । नच तेषु कर्मसु यद्वैषम्यं तत्रासक्तमित्यर्थ इति वाच्यं, वैषम्यपदाध्याहारगौरवात्तस्याप्रमाण- त्वाच । सर्वान्तर्यामिण ईश्वरस्य विषमकर्मगतवैषम्यप्रयोजकत्वस्यापि सम्भवात्कथं तत्सम्बन्धरा हित्यसिद्धिः ? तथा सत्यसङ्कल्पेनेक्षिता प्रकृतिरित्यप्ययुक्तं प्रकृतिं विना ईश्वरस्य सङ्कल्पायोगात् । मायांवृत्तिः खलु सङ्कल्पः- यथा मनोवृत्तिः । तथा वसुदेव सूनोर्ममेत्यप्ययुक्तं- देहस्यैव वसुदेवसूनुत्वादात्मनश्च तद्विलक्षणत्वादीश्वरस्यात्मत्वा- कृष्णस्य विवेकेन आत्मनि वसुदेवसूनुदेहतादात्म्याभिमानस्यायुक्तत्वात्प्रकृतानुपयोगाच ।
तथा मामित्यस्य व्यव हितेन भूतमहेश्वरमित्यनेन सम्बन्धकल्पनमन्याय्यं परं भावमित्यस्य मनु- ष्यत्वसमाश्रयणलक्षणं भावमित्यर्थ वर्णनमप्ययुक्तं मनुष्यत्वसमाश्रयणस्य परभावत्वायोगात् । अप्राकृत- दिव्यविग्रहसमाश्रयणं हि परो भावः । अन्यथा अस्मदादीनामपि मनुष्यत्वसमाश्रयणस्य परभावत्वापत्तेः । नचेश्वरीयमनुष्यत्व समाश्रयणस्य वात्सल्यादि निबन्धनत्वात्परभावत्वमिति वाच्यं, अशरीरस्येश्वरस्य वात्सल्यादिनापि मनुष्यत्वाश्रयणायोगात् । मनुष्यत्वं हि देहाश्रयम् । ईश्वरस्य मनुष्यदेहाश्रयणमपि न परभावः, किंतु मायिकभाव एव । सच्चिदानन्दरूपत्वमेव हीश्वरस्य परो भावः । अन्यत्सर्वमपरो भाव एव अनुत्कृष्टत्वात् । नचेश्वरस्य मायया मनुष्यदेहाश्रयणं परो भाव इति वाच्यं परमव्योमनिलयेश्वरीय प्राकृतदेह- स्यापरभावत्वापत्तेः । मायया सर्वचराचरदेहजालाश्रयस्येश्वरस्य मनुष्यदेहाश्रयणमात्रं कथं वा परो भावो भवितुमईति ? मानुषीं तनुमाश्रितमिति कण्ठोक्तस्य मनुष्यतन्वाश्रयणस्य परं भावमिति शब्दाभ्यां गूढं पुनर्वचनस्य व्यर्थत्वात्क्लिष्टत्वाच्च पूर्वोक्तार्थपरामर्शकस्य तदिदमाद्यन्यतमशब्दस्याभावाच्च मूले इति ॥ ११ ॥ नवमोऽध्यायः । ततश्च तस्य ममावज्ञाभावनेन हताः ते वराकाः । कथम् ?- मोघाशा मोधकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृति मोहिनीं श्रिताः ॥ १२ ॥ १२७ मोघेति । मोघाः वृधा आश आशिषः येषां ते मोघाशाः, तथा मोघकर्माणः यानि चाग्निहोत्रादीनि तैरनुष्ठीयमानानि कर्माणि तानि च तेषां भगवत्परिभवात्, स्वात्मभूतस्य अवज्ञानात्, मोघान्येव निष्फलानि कर्माणि भवन्तीति मोधकर्माणः । तथा मोघज्ञानाः मोघ निष्फलं ज्ञानं येषां ते मोघज्ञानाः, ज्ञानमपि तेषां निष्फलमेव स्यात् । विचेतसः विगत- विवेकाश्च ते भवन्तीत्यभिप्रायः । किंच ते भवन्ति राक्षसीं रक्षसां प्रकृतिं स्वभावं आसुरीं असुराणां च प्रकृति मोहिनीं मोहकरी देहात्मवादिनीं श्रिता आश्रिताः । ‘छिन्धि, भिन्धि, पिब, खाद, परखमपहर’ इत्येवं वदनशीलाः क्रूरकर्माणो भवन्तीत्यर्थः । ‘असुर्या नाम ते लोका’ इति श्रुतेः ॥ १२॥ ये पुनः श्रद्दधाना भगवद्भक्तिलक्षणे मोक्षमार्गे प्रवृत्तास्ते- महात्मानस्तु मां पार्थ! दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥१३॥ महात्मान इति महात्मानोऽक्षुद्रचित्ता मामीश्वरं पार्थ! देवीं देवानां प्रकृति शम- दमदयाश्रद्धादिलक्षणां आश्रितास्सन्तो भजन्ति सेवन्ते ऽनन्यमनसोऽनन्यचित्ताः, ज्ञात्वा भूतादि भूतानां वियदादीनां प्राणिनां चादिं कारणमव्ययम् ॥ १३ ॥ मोघाशा इति । अवज्ञाभावनं तिरस्कारकरणम् । वराका नीचाः । भगवदनुग्रहाभावे जन्तूना- माशीः प्राप्तिरेव तावन्न भवेत् कथंचित्तत्प्राप्तावपि वैयर्थ्यमेव तासां स्यादित्याह – मोघाशा इति । भगवत्परिभवादिति पदं स्वयमेव व्याख्याति — स्वात्मभूतस्य चात्रज्ञानादिति । भगवतः स्वात्मभूत- स्येश्वरस्य परिभवादवज्ञानादिति । ज्ञानं शास्त्रार्थपाण्डित्यम् । न त्वात्मानात्मविवेकः । विचेतस इति विवेकाभावस्य वक्ष्यमाणत्वात् । राजसतामसमेदेन राक्षसासुरप्रकृत्योर्भेदः । यद्वा एकैव प्रकृती राक्षसा- नसुरांश्चाश्रित्य वर्तत इति तदर्थमुभयग्रहणम् । प्रकृतिमेव दर्शयति — छिन्धीत्यादिना । छिन्धि - भिन्धि प्राणिनश्छेदय मेदय पिब मदिरामिति रक्तमिति वा शेषः । खाद भक्षय मांसमिति शेषः । परस्वं परकीयं घनम् । वदनं भाषणं शीलं स्वभावः येषां ते वदनशीलाः । क्रूराणि लोकद्रोहकारीणि कर्माणि येषां ते क्रूरकर्माणः । एतेन राक्षसासुरप्रकृतिसम्मूढानामेव जन्तूनां भगवत्परिभव सिद्धम् । भगवदवज्ञाकराः प्राणिनः । मोघाशाः मोघकर्माणः मोघज्ञाना विचेतसश्च भवन्ति राक्षसी- मासुरीं च प्रकृतिं श्रिता भवन्त्येवेत्यन्वयः ॥१२॥ + महात्मान इति । हे पार्थ! महात्मानस्तु देवीं प्रकृतिमाश्रितास्सन्तो ऽनन्यमनसो भूत्वा भूतादिमव्यय मां ज्ञात्वा भजन्ति । मामीश्वरं स्वात्मभूतमिति भावः । ‘आत्मन आकाशस्सम्भूत’ " १२८ - कथम् ? – श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नसस्यन्तंश्च मां भक्त्या नित्ययुक्ता उपासते ॥ १४ ॥ सततमिति । सततं सर्वदा भगवन्तं ब्रह्मस्वरूपं मां कीर्तयन्तः यतन्तश्च इन्द्रियोप- संहारशमदमदयाहिंसादिलक्षणैर्धर्मैः प्रयतन्तश्च दृढव्रता दृढं स्थिरमचाल्यं व्रतं येषां ते दृढव्रता नमस्यन्तश्च मां हृदयेशयमात्मानं भक्त्या नित्ययुक्तास्सन्त उपासते सेवन्ते ॥ १४ ॥ केन केन प्रकारेण उपासत इत्युच्यते- ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५॥ 4 ज्ञानेति । ज्ञानयज्ञेन ज्ञानमेव भगवद्विषयं यज्ञः तेन ज्ञानयज्ञेन यजन्तः पूजयन्तो मामीश्वरं चाप्यन्ये अन्यामुपासनां परित्यज्योपासते । तच्च ज्ञानं - ‘एकत्वेनैकमेव परं ब्रह्म’ इति परमार्थदर्शनेन यजन्त उपासते; केचिच्च पृथक्त्वेन - आदित्यचन्द्रादिभेदेन स एव भगवान् विष्णुरवस्थित इत्युपासते, केचित्- ‘बहुधा अवस्थितः स एव भगवान् सर्वतो - मुखः विश्वतोमुख मिति तं विश्वरूपं सर्वतोमुखं बहुधा बहुप्रकारेणोपासते ॥ १५ ॥ - इत्यादिश्रुतिभ्य आत्मनो भूतादित्वम् । न व्येति विक्रियत इत्यव्ययः, तम् । आत्मैवेश्वरो भूतादि- व्ययश्चति ज्ञात्वा स्वात्मानं महात्मानो भजन्तीत्यर्थः ॥ १३ ॥ सततमिति, नमस्यन्त इति । नमस्कुर्वन्तः । नन्वादित्यचन्द्रादिरूपस्येश्वरस्य नमस्कार्यत्व- मस्तु नाम, कथं पुनरात्मन इति चेदुच्यते - परोक्षमीश्वरं यथा द्वैतिनो नमस्कुर्वन्ति तद्वदद्वैतिन आत्मानमिति । भवत्या नित्ययुक्तास्सर्वदा संहिताः सदा भक्तियुक्ता इत्यर्थः । यद्वा नित्ययुक्ता अनव- रतसमाहिताः । भक्तिः प्रीतिः । आत्मन उपासनं नाम- आत्मस्वरूपानुसन्धानमेवेति बोध्यम् ||१४|| … ज्ञानेति । अन्ये मोघाशेति श्लोकोक्तेभ्य इतरे । महात्मान इत्यर्थः । मां ज्ञानयज्ञेन यजन्त- स्सन्त उपासतेऽपि च अपिचेत्यस्य एवेत्यर्थः । तत्र केचिदेकत्वेन मामुपासते, परे पृथक्त्वेन मामुपासते, इतरे विश्वतोमुखं मामुपासते । एवं महात्मानो मां बहुधोपासते इत्यन्वयः । ईश्वरं तचापीत्यनेनान्योपासनायाः प्राप्तत्वादाह - अन्यामुपासनां परित्यज्येति । ईश्वरमेवेत्यर्थः । नत्वी - श्वरमन्यं चेति । अन्योपासना चेह यक्षरक्षः पिशाचाद्युपासनेति बोध्यम् । क्षुद्रकामार्थं हि ते तैरुपास्यन्ते. क्षुदैः । तचेश्वरविषयं ज्ञानं बहुविधमिति शेषः । एवं ज्ञानस्य बहुविधत्वा ज्ञानयज्ञेन यजनं च बहुविधमिति भावः । तत्र एकमेव परं ब्रह्मेति परमार्थदर्शनलक्षणः प्रधानः कश्चिद्ज्ञानयज्ञः । तत्रोत्तमानां ज्ञानिना- मधिकारः, एकमेव ब्रह्म चन्द्रादित्यादिदेवतारूपेण पृथक्त्वेन स्थितमिति यद्ज्ञानं तल्लक्षणोऽन्यो ज्ञान-१७ नवमोऽध्यायः । १२.९ यज्ञः । तत्र मध्यमानामधिकारः । एकमेव ब्रह्म विश्वरूपेण स्थितमिति यद्ज्ञानं तल्लक्षणोऽपरो ज्ञान- यज्ञः । तत्र मन्दानामधिकारः । विश्वरूपध्यानस्य मन्दाधिकारिविषयत्वात् । यत्तु रामानुजः — महात्मानस्ते भूतादिमव्ययं वाङ्मनसागोचरनामकर्मस्वरूपं परमकारुणिकतया साधुपरित्राणाय मनुष्यत्वेनावतीर्ण मां ज्ञात्वेति, आत्मान्तं मद्दास्यव्यवसायिनो मामुपासत इति, बहुधा पृथक्त्वेन विश्वतोमुखं जगदाकारेण विश्वप्रकारमवस्थितं मामेकत्वेनोपासत इति च तत्सर्वं मन्दम्- महात्मानः कृष्णावतारमुपासत इत्युक्तौ रामावतारोपासकानां क्षुद्रात्मत्वं स्यात् । यदि महात्मानो राम- कृष्णादिमनुष्यावतारमुपासत इत्युच्यते तर्हि मत्स्याद्यवतारोपासकानां क्षुद्रात्मत्वं स्यात् । अथ यदि महा- त्मानोऽवतारमुपासत इत्युच्यते तर्हि पर-व्यूह - विभव - अन्तर्यामि - अर्चात्मकतया पञ्चधावस्थितस्येश्वरस्य विभवोपासका एव महात्मानः, अन्ये तु पराद्युपासका क्षुद्रा इत्येवोक्तं स्यात् । परो नित्यविभूति - र्नारायणः, व्यूहः वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाः, विभवा रामकृष्णाद्यवताराः, अन्तर्यामी हृदेशस्थ ईश्वरः, अर्चा वेङ्कटेश्वरश्रीरङ्गभद्राद्विरामप्रभृतय इति विवेकः । ननु महात्मानः कृष्णावतारमेवोपासत इति नास्माभिरुच्यते, किं तर्हि महात्मान एव कृष्णाव- तारमुपासत इति चेन्मैवम् — क्षुद्राणामपि कृष्णोपास्तिदर्शनात् । न च महतामेव कृष्णे ईश्वर बुद्धि- रिति वाच्यं, क्षुद्राणामपि तद्दर्शनात् । ननु ये कृष्णमवजानन्ति त एव क्षुद्राः, येषां कृष्णे ईश्वरत्वबुद्धिः ते महान्त एवेति चेन्नैतदपि युज्यते — श्रीरामनरसिंहगणपति कुमारशङ्करपार्वत्यादीन् येऽवजानन्ति ते न क्षुद्राः येषां तेषु नेश्वरत्व - बुद्धिस्ते महान्त इत्यस्यापत्तेः । न चेष्टापत्ति :- पाषण्डिनस्तवेष्टापत्तावपि वैदिकानामस्माकं तस्यानिष्ट- त्वात् । शिवविष्णुगणपतिकुमारादीनां सर्वेषामीश्वरावतारत्वाविशेषात् । तस्मादवतारिणमीश्वरं विहायावतारस्य कृष्णस्य भजनवर्णनमिहायुक्तमेव । न चावतार एवेह प्रकृत इति वाच्यं सर्वभूतानीत्यादिना ईश्वरस्यैव प्रकृतत्वात् । मां भूतादिमव्ययं ज्ञात्वेत्यस्य वाङ्मनसेत्याद्यर्थवर्णनं सुतरामयुक्तं तच्छन्दाभ्यां तदर्थांनागमात् । न च लक्षणया तदर्थागम इति वाच्यं, अभिधेयपरित्यागे कारणाभावात् । किं च यो मनुष्यत्वेनावतीर्णस्स देह एव नेश्वर इति मनुष्यदेहे ईश्वरबुद्धिशालितस्ते न महात्मानः, किं तु क्षुद्रात्मान एव । क्षुद्राणामेव बौद्धादीनां देहात्मबुद्धिदर्शनात् । न च यः कृष्ण देहमहमित्यभिमन्यते तस्मिन्नीश्वरबुद्धिर्महतामिति वाच्यं देहात्मभ्रमवतस्सर्व- ज्ञेश्वरत्वायोगात् । अनीश्वरे तस्मिन्नीश्वरबुद्धिमतां महत्त्वायोगाच्च । नापि महतां कृष्णदेहे ईश्वर- देहबुद्धिरिति वाच्यं सर्वेष्वपि देहेष्वीश्वरस्यान्तर्यामित्वेन सर्वदेहानामीश्वर देहत्वात् । न च कृष्णदेहे ईश्वरावतारबुद्धिर्महतामिति वाच्यं, ईश्वरस्य चिद्रूपस्य देहत्वेनावतारायोगात् । न च कृष्णदेहावच्छिन्न- चैतन्ये महतामीश्वरांशत्वेनेश्वरावतारबुद्धिरिति वाच्यं ब्रह्मादिस्तम्बपर्यन्तनिखिलचराचरदेहावच्छिन्न- १.३० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यदि बहुभिः प्रकारैरुपासते, कथं त्वामेवोपासत इत्यत आह- अहं ऋतुरहं यज्ञः स्वधामहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ १६ ॥ अहमिति । अहं ऋतुः श्रौतकर्मभेदोऽहमेव, अहं यज्ञः स्मातः । किं च स्वधाऽन्नमहं चैतन्यस्य- ‘ममैवांशो जीवलोके जीवभूतस्सनातन’ इतीश्वरांशत्वस्य वक्ष्यमाणत्वात् । न च कृष्ण- देहान्तरचैतन्ये महतामीश्वरबुद्धिरिति वाच्यं सर्वदेहान्तरचैतन्यस्यापीश्वरत्वात् । तस्माच्चिन्मयस्येश्वरस्य न मनुष्यत्वेनावतार, नापि कृष्णशरीरावच्छिन्नस्यैव चैतन्यस्येश्वरत्वम् । न च कृष्णशरीरस्य मायामयत्वात्तदवच्छिन्नं चैतन्यं सर्वेश्वर इति वाच्यं सर्वस्यापि मायामयत्वात् । अवच्छेदकानां भेदेऽपि चैतन्यस्यैकत्वात्परिपूर्णत्वाच | " तस्मात्सर्वत्रावस्थितं परिपूर्ण चिन्मयमीश्वरमात्मानं मां ज्ञात्वेत्येवार्थस्समीचीनः । तथा सत्येव भूताद्यव्ययपदार्थानुगुण्यलाभात् । तथा आत्मान्तं दास्यमित्यप्ययुक्तं - आत्मन एवेश्वरत्वेन सर्वशेषित्वात्कथमात्मनोऽन्यशेषत्व- सम्भव इति । तथा पृथक्त्वेनावस्थितस्य विश्वतोमुखस्यैकत्वेनोपासनमित्यप्ययुक्तं – तादृशोपासनस्य भ्रान्ति- रूपत्वात् । न च घटशरावादिपृथक्त्वेनावस्थिताया मृद एकत्वेन मृत्त्वेनोपासनवदिदं न भ्रान्तिरूपमिति वाच्यं, अविकारस्येश्वरस्य मृद इव परिणामायोगात् । न च सूक्ष्म चिदचिद्विशिष्टस्येश्वरस्य स्थूलजग- दाकारपरिणामोऽस्तीति वाच्यं तत्रापि विशेषणांशस्यैव सूक्ष्मस्य स्थौल्यप्राप्तिरूपपरिणामो न तु विशे- व्यांशस्येश्वरस्येति कृत्वा ईश्वरस्य स्थूलजगदाकारपरिणामाभावात् । न च स्थूलजगच्छरी र कत्वमीश्वरस्य पृथवत्वमिति वाच्यं, शरीराणां पृथक्त्वेऽपीश्वरस्य शरीरिणः पृथक्त्वायोगात् । अन्यथा सूक्ष्मशरीराणा- मपि पृथक्त्वेन तद्विशिष्टेश्वरस्यापि पृथक्त्वप्रसङ्गात् । न चेष्टापत्ति:- एकत्वेनेश्वरस्योपासनासम्भवात् । तस्मात् स्थूलजगदाकारेण सूक्ष्मजगदाकारेण वा बहुधा पृथक्त्वेन परिणामः प्रकृत्या एव नेश्वर- स्येति नेश्वरः पृथक्त्वेन स्थितः । अस्मन्मते तु माययेश्वरस्य विश्वरूपत्वं घटते मायायां सर्वसम्भवात् । न च सर्वेष्वपि शरीरेषु एक एवेश्वरः पृथक्त्वेन स्थित इति वाच्यं, एकस्य पृथक्त्वस्थितेर्भ्रान्तिरूपत्वाद्धटपृथक्त्व स्थाकाशाभेद- कत्ववच्छरीर पृथक्त्वस्येश्वरा भेदकत्वात् । अत एव हीश्वरस्यात्मन एकत्वमेको देव इत्यादिश्रुति सिद्धम् । यदि तु सर्वशरीरावस्थितमीश्वरमेकत्वेनोपासत इत्युच्यते तत्सम्मतमेव- मूलात्तु नैतादृशार्थ- लाभः । न च पृथक्त्वेनेत्यस्य सर्वशरीरावस्थितत्वेनेति लाक्षणिकार्य इति वाच्यं, लाक्षणिकार्थकल्पन- स्यान्याय्यत्वात् । न हि मुख्यार्थस्य बाधः, येन लक्षणाश्रयणम् ॥१५॥ अहमिति । ननु तव परब्रह्मत्वादेकत्वेनोपासकानां त्वदुपासकत्वमस्तुनाम, कथं पुनरादित्य- चन्द्रादिदेवतान्तरोपाकानां विश्वरूपोपासकानां च त्वदुपासकत्वमित्याक्षेपसङ्गतिं पूवोत्तरश्लोकयोर्दर्श- नवमोऽध्यायः । १३१. पितृभ्यो यद्दीयते । अहमौषधं सर्वप्राणिभिर्यदद्यते तदौषधशब्दशब्दितं व्रीहियवादिसाधा- रणम् । अथ वा स्वधेति सर्वप्राणिसाधारणमन्नं, औषधमिति व्याध्युपशमनार्थ भेषजम् ! मन्त्रोsहं, येन पितृभ्यो देवताभ्यश्च हविर्दीयते । अहमेवाज्यं, हविव । अहमग्निः, यस्मिन् हूयते हविः सोऽग्निरहम् । अहं हुतं हवनकर्म च ॥ १६॥ किंच- पिताsहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोङ्कार ऋक्सामयजुरेव च ॥ १७ ॥ पितेति । पिता जनयिताऽहमस्य जगतः माता जनयित्री, धाता कर्मफलस्य प्राणिभ्यो विधाता, पितामहः पितुः पिता, वेद्यं वेदितव्यं पवित्रं पावनमोङ्कारः, ऋक्साम- यजुरेव च ॥ १७॥ यति - यदिति । सर्वस्यापि जगतो मयि कल्पितत्वात्कल्पितस्याधिष्ठानानतिरेकात्सर्वं खल्विदं ब्रह्मेति श्रुतेश्व सर्वमप्यहमेव । यत्त्वादित्यादिदेवता शरीरावच्छिन्नं चैतन्यं तस्य मद्रूपत्वादादित्यादयोऽप्यहमेव । ततश्वश्वबुद्ध्याऽऽदित्याद्युपासने विश्वोपासने वेश्वरोपासनमेव कृतं भवतीति भावत्समाधानस्य । अहं ऋतुर्भवामीति शेषः । एवमुत्तरत्रापि । ओषध्यः फलपाकान्ता श्रीह्मादयः तासामिदमौषधमन्त्रं हुतं हव- नाख्यं कर्म क्रिया ॥ १६ ॥ ’ पितेति । " मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यह’ मिति, अहं बीजप्रदः, पितेति च वचनाज्जगतः पितृत्वमीश्वरस्य । जगन्मातुः प्रकृत्या ईश्वरेऽध्यस्तत्वादीश्वरस्य प्रकृतिरूपत्वेन जग- मातृत्वम् । पितामहो हिरण्यगर्भस्तस्यापीश्वरे कल्पितत्वादीश्वरस्य पितामहत्वम् । यद्वा पितैव हिरण्य- गर्भः, पितामहस्त्वीश्वर इति । अथ वा पुत्रं प्रति पिता यथा निमित्तकारणं, माता तूपादानकारणं तद्वज्जगत्प्रतीश्वरस्य निमित्तत्वादुपादानत्वाच्च पितृत्वं मातृत्वं च । (मातुरुदरात्पुत्रोत्पत्तिदर्शनात्- ‘जनि- कर्तुः प्रकृति ‘रिति मातुरुपादानत्वं तत्र पितुर्निमित्तत्वान्निमित्तकारणत्वमिति विवेक: । ) यद्येव - मीश्वरो जगतः पिता तर्हि, कः पुनरीश्वरस्य पितेत्यत आह- पितामह इति । ईश्वरस्य पितेश्वर एव न त्वन्यः कश्चिदस्ति - अजत्वात्तस्येति भावः । " रामानुजस्तु — जगति तत्र तत्र देवदत्तादीन् पुत्रान् प्रति पितृत्वेन ये विष्णुमित्रादयस्सन्ति मातृत्वेन च याः कलावत्यादयः पितामहत्वेन च ये यज्ञदत्तादयः धातृत्वेन च ये उपपतयश्शम्भुदत्तादयः ते सर्वेऽपीश्वर एव - ईश्वर शरीरत्वात्तेषामीश्वरस्य च तदन्तर्यामित्वादित्याह तन्मन्दम् — जगतः पितेति कृत्स्नजगतोऽपत्यस्थानीयत्वेन तत्प्रति विष्णुमित्रादीनां पितृत्वाद्यसम्भवात् सत्यां मूलकर्तुरिदं विवक्षायां पिताऽहमत्र जगतीत्येव ब्रूयान्न तु पिताऽहमस्य जगत इति । " वेद्यं ज्ञेयं वस्त्वहमेव, पवित्र पावनं वस्त्वहमेव । यद्वा वेद्यं यत्पवित्रं तद्वस्त्वहमेव, ओङ्कारोऽह- मेव, ऋक्सामयजुरात्मनो वेदोऽहमेव । ऋगहमेव, सामाहमेव, यजुरहमेवेति प्रत्येकान्त्रयो वा ॥१७॥ १३२ किंच- श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु गतिर्भर्ता प्रभुस्साक्षी निवासशरणं सुहृत् । प्रभवः प्रलयस्स्थानं निधानं बीजमव्ययम् ॥ १८ ॥ 9 गतिरिति । गतिः कर्मफलं, भर्ता पोष्टा, प्रभुः स्वामी, साक्षी प्राणिनां कृताकृतस्य, निवासः यस्मिन्प्राणिनो निवसन्ति शरणमार्तानां प्रपन्नानामर्तिहरः । सुहृत् प्रत्युपकारानपेक्ष- स्सन्नुपकारी, प्रभव उत्पत्तिर्जगतः प्रलयः प्रलीयतेऽस्मिन्निति, तथा स्थानं तिष्ठत्यस्मिनिति निधानं निक्षेपः कालान्तरोपभोग्यं प्राणिनां बीजं, प्ररोहकारणं प्ररोहधर्मिणां, अव्ययं यावत्संसारभावित्वादव्ययं, न ह्यबीजं किंचित्प्ररोहति; नित्यं च प्ररोहदर्शनाद्वी जसन्ततिः न व्येतीति गम्यते ॥१८॥ किंच- तपाम्यहमहं वर्षे निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन! ॥ १९ ॥ तपामीति । तपाम्यहमादित्यो भूत्वा अहं वर्ष कैश्चिद्रश्मिभिरुत्सृजामि चतुरो मामान् । उत्सृज्य पुनर्निगृह्णामि कैश्चिद्रश्मिभिरष्टभिर्मासैः पुनरुत्सृजामि प्रावृषि | अमृतं 4 गतिरिति । अत्र जगत इति पूर्वश्लोकस्थस्य पदस्यानुवृत्तिः । जगतो गतिरहं जगतो भर्ताह- मित्याद्यम् । साक्षी साक्षाद्रष्टा । कृतं सत्कर्म, अकृतं दुष्कर्म । यद्वा कृतं विहितमकृतम विहितम् । कृतं चाकृतं च कृताकृते तयोत्समाहारः कृताकृतं तस्य । कृताकृतयोरित्यर्थः । निवासो निलयः । निवसन्त्यस्मिन्निति निवासः । प्रभवत्यस्मादिति प्रभव उपादानम् । प्रभवस्थानप्रलयशब्दैः सृष्टिस्थिति- लयहेतुत्वमुच्यते । अव्ययं यावत्संसारमविनाशीत्यर्थः । अबीजं बीजरहितं किञ्चित्सस्यादि न हि प्रसे- हति । प्ररोहदर्शनादिति । संसाररूपांकुरस्येति भाव: । बीजसन्ततिः पुण्यपापादिलक्षण कर्म सन्तति- रिति भावः । न व्येति व्ययं नैति । अत्रापि जगति या यास्स्वर्गादिगतयः धारयितारश्शा शितारः साक्षिणो वेश्मानि शरण्यपुरुषाः हितैषिणः । प्रभवप्रलयस्थानं घटादेः कार्यस्योत्पत्तिप्रलययोर्यत् स्थानं मृदादि तत् निधानमुत्पाद्यमुप- संहार्ये च घटादि । अव्ययानि कारणानि च तत्सर्वमहमेवेति रामानुजः - इदं च भाष्यं पूर्वोक्तदोषा- देवोपेक्ष्यम् ॥१८॥ तपामीति । अहं तपामि; अहं वर्ष निगृह्णामि; अहं वर्षमुत्सृजामि च । केन रूपेण तपसी- त्यत आह-आदित्यो भूत्वेति । वर्षोत्सर्जन निग्रहणेऽप्यादित्यरूपेणैवेत्यभिप्रेत्याह - कैश्चि- द्रश्मिभिरिति । ’ याभिरादित्यस्तपति रश्मिभिरित्यादिश्रुतेरिति भावः । सूर्यरश्मीनामेव कासां चित्पर्जन्यरूपत्वाद्वर्षोत्सर्जनं रश्मीनाम् । चतुरो मासानिति । आषाढा दिमासचतुष्कमित्यर्थः । अत्यन्त - संयोगे द्वितीया । अष्टभिर्मासैरिति । अष्टमासानित्यर्थः । पुनरिति । अनेन वर्षोत्सर्जन निग्रहणयोः नवमोऽध्यायः । १३३ चैव देवानां मृत्युश्च मर्त्यानां सदसद्यस्य यत्सम्बन्धितया विद्यमानं तत्सत्, तद्विपरीतमसदे - वाहमर्जुन! । न पुनरत्यन्तमेवाद्भगवान् स्वयं कार्यकारणे वा सदसती ये पूर्वोक्तैर्विवृत्ति- प्रकारैरेकत्वपृथक्त्वा दिविज्ञानैर्यज्ञैर्मा पूजयन्त उपासते ज्ञानविदः, ते यथाविज्ञानं मामेव प्राप्नुवन्ति ॥१९॥ ये पुनरज्ञाः कामकामा:- त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ॥ २० ॥ त्रैविद्या इति । त्रैविद्याः ऋग्यजुस्सामविदः मां वस्त्रादिदेवरूपिणं सोमपाः सोमं पिबन्तीति सोमपाः, तेनैव सोमपानेन पूतपापाः शुद्धकिल्बिषाः, यज्ञैरग्निष्टोमादिभिरिष्ट्रा पूजयित्वा स्वर्गतिं स्वर्गमनं स्वरेव गतिः स्वर्गतिः तां प्रार्थयन्ते । ते च पुण्यं पुण्यफल- मासाद्य सम्प्राप्य सुरेन्द्रलोकं शतक्रतोः स्थानमश्नन्ति भुंजते दिव्यान् दिवि भवानप्राकृतान् देवभोगान् देवानां भोगा देवभोगास्तान् ||२०|| प्रवाहानादित्वं द्योत्यते बीजांकुरवत् । अमृतं मृत्यभावस्तस्य देवधर्मत्वादाह - देवानामिति । यद्वा मरणाभावहेतुस्सुधाऽमृतम् । मृत्युर्मरणं मरणहेतुर्देवताविशेषो वा । मृत्युदेवता हि प्रसिद्धा । यस्य पुत्रादेदे: यत्सम्बन्धितया विद्यमानं पित्रादिरूपं वस्तु तदहमेव । तद्विपरीतमिति सम्बन्धितया अविद्य- मानमित्यर्थः । असम्बन्धितया विद्यमानमिति यावत् । विद्यमानं वस्तु सत् | अविद्यमानं तु असत् । इत्युक्तौ शशशृङ्गादेरपि भगवदूपत्वं स्यात् । तच्चानिष्टं सद्रूपस्य भगवतशशशृङ्गादिरूपत्वासम्भवादि- स्याह-न पुनरिति । यद्वा सत् व्यक्तत्वात् स्फुटं कार्यम् । असदव्यक्तत्वादस्फुटं कारणमित्याह- कार्येति ।
यत्तु रामानुजः - सद्वर्तमानम सदतीतमनागतं चेति, तन्मन्दम् - येन केनापि रूपेण सर्वस्य सर्वदापि वर्तमानत्वेनातीतानागतयोरपि वर्तमानत्वात् ॥१९॥ “विद्या इति । तिस्रो विद्या अधीयते विदन्ति वा त्रैविद्याः । शुद्धं निरस्तं किल्बिषं येषां ते शुद्धपापा निष्पापा इत्यर्थः । स्वरित्यव्ययं खर्गे वर्तते । तस्य गतिस्स्वर्गतिः स्वर्गं प्रति गमनमि- त्येकोऽर्थः । अर्थान्तरमाह - स्वरेव गतिरिति । गम्यत इति गतिः प्राप्यस्थानम् । त्रैविद्या सोमपाः पूतपापा- मां यज्ञैरिष्ट्रा स्वर्गतिं प्रार्थयन्ते याचन्ते । ते पुण्यं सुरेन्द्रलोकमासाद्य दिवि दिव्यान् देव- भोगानश्नन्ति । सुरेन्द्रलोकस्य साक्षात्पुण्यत्वाभवादाह – पुण्यफलमिति । पुण्यशब्दोऽत्र लक्षणया पुण्यफलपरः । पुण्यं ज्योतिष्टोमादिजन्यमदृष्टाख्यं सत्कर्म । इदमेवा पूर्वमित्युच्यते । जीव निष्ठं चेदम् । ज्योतिष्टोमादिलक्षणः कर्मविशेषो धर्माख्यो वा पुण्यम् । शतक्रतोरिन्द्रस्य स्थान स्वर्गं यदर्चिरादिमार्ग - पर्वभूतम् । दिव्यानिति पदं व्याख्याति - दिवि भवानिति । भवार्थे यत्प्रत्ययः । दिवि स्वर्गे । अप्राकृतानिति । अभौमा नित्यर्थः । नतु प्रकृत्यजन्यानिति सर्वस्यापि जगतः प्राकृतत्वात् । भोगा इति । भुज्यन्त इति भोगाः; ये भोगास्सुधारम्भादयो देवैर्भुज्यन्ते तानेवैते भुञ्जत इत्यर्थः ॥ २०॥ .. 75 १३४ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ते तं भुंक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ २१ ॥ ते इति । ते तं भुंक्त्वा स्वर्गलोकं विशालं विस्तीर्ण क्षीणे पुण्ये मर्त्यलोकमिमं लोकं विशन्त्याविशन्ति । एवं यथोक्तेन प्रकारेण । त्रयीधर्म केवलं वैदिकं कर्माऽनुप्रपन्ना गतागतं गतं चागतं च गतागतं गमनागमनं, कामकामाः कामान् कामयन्त इति कामकामा लभन्ते गतागतमेव, न तु स्वातन्त्र्यं क्वचिल्लभन्त इत्यर्थः ॥ २१॥ ये पुनर्निष्कामास्सम्यग्दर्शिनः- अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥ अनन्या इति । अनन्या अपृथग्भूताः परं देवं नारायणं मामात्मत्वेन गतास्सन्त- त इति । ते स्वर्गे गताः पुरुषाः स्वर्गलोकं भुक्त्वा तल्लोकस्थान् भोगाननुभूयेत्यर्थः । पुण्ये खर्लोकभोगप्रदप्रारब्धकर्मविशेषे क्षीणे भोगक्शान्नष्टे सति मर्त्यलोकं विशन्ति मुद्गरमुसलप्रहारादिभि- रिन्द्रचोदितै राजा निकैर्देवैर्निहतास्सन्तो देवदेहं विहाय पुनर्मनुष्यदेहं प्रपद्यन्त इत्यर्थः । त्रयीधर्ममनु- प्रपन्नाः कामकामा एवं गतागतं लभन्ते । त्रयी वेदत्रयं तत्प्रतिपादितो धर्मः ज्योतिष्टोमादिकर्मरूपः, तं त्रयीधर्ममेवानुप्रपन्ना नतु निवृत्तिधर्मम् । शमदमादियुक्त सन्न्यासमित्याह— केवलमिति । वैदिकं वेदोक्तं कर्म प्रवृत्तिमार्गमिति भावः । अनुप्रपन्नाऽनुसृत्य प्राप्ताः प्रवृत्तिमार्गनिरतान् पूर्वान्मरीच्यादी- ननुसृत्य स्वयमपि तत्र प्रवृत्ता इत्यर्थः । पूर्वपूर्वजन्मकृतकर्मवासनामनुसृत्य तत्रैव प्रवृत्ता इति वा । ग गमनं स्वर्गप्रतीति भावः । आगतमागमनं मत्यलोकं प्रतीति भावः । गतागतयोस्समाहारो गतागतं गतागत इत्यर्थः । जन्ममरणलक्षणस्संसारस्तेषामवर्जनीय इति भावः । एवकारार्थमाह-न त्विति । क्वचिदपि लोके स्वातन्त्र्यं स्वतन्त्रेणावस्थानं नैव लभन्ते । अहो ! कामकामानां कर्मिणां दुरद- स्थेति भावः ॥२१॥ नन्वन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान् । सत्यं वहत्येव; किं त्वयं विशेष:- अन्ये ये भक्तास्ते आत्मार्थं स्वयमपि योगक्षेममीहन्ते; अनन्यदर्शिनस्तु नात्मार्थं योगक्षेममीहन्तेः न हि ते जीविते मरणे वा आत्मनो गधिं कुर्वन्तिः केवलमेव भगवच्छरणास्ते; अतो भगवानेव तेषां योगक्षेमं वहतीति- अनन्या इति । मत्तोऽन्यो न भवन्तीत्यनन्या मदभिन्ना इत्यर्थः । कथमभेदो जीवेश्वरयो- रत्यन्तविलक्षणयोरत आह– आत्मत्वेनेति । यदेव जीवस्य स्वरूपभूतं चैतन्यं तदेवेश्वर इति जीव- नवमोऽध्यायः । १३५ चिन्तयन्तो मां ये जनाः सन्न्यासिनः पर्युपासते, तेषां परमार्थदर्शिनां नित्याभियुक्तानां सतताभियोगिनां योगक्षेमं योगोऽप्राप्तस्य प्रापणं, क्षेमस्तद्रक्षणं, तदुभयं वहामि प्रापयाम्यहं : ‘ज्ञानी त्वात्मैव मे मतम्’, ‘सच मे प्रियः यस्मात्तस्मात्ते ममात्मभूताः प्रियाचेति ॥ २२ ॥ स्यात्मैवेश्वरः । स्वात्मा हि स्वस्मादपृथग्भूतः - स्वस्यैवात्मत्वात् । तथा चेश्वरस्य जीवात्मत्वाज्जीवेश्वरयो- पृथग्भाव इति भावः । गताः प्राप्ताः । नारायण ईश्वरोऽहमेवेति प्रत्ययं प्रतिपन्ना इत्यर्थः । सन्न्यासिन इति । त्यक्तसर्वकर्माण इत्यर्थः । कर्मिणामात्मस्वरूप चिन्तनानधिकारात्तेषां तदसम्भवाच्चेति भावः । पर्युपासते परितस्सर्वतस्सर्वावस्थास्वित्यर्थः । उपासते भजन्ते; आत्मारामा भक्तीत्यर्थः । अभियोग आत्मनि चित्त- समाधानम् । तद्रक्षणं प्राप्तस्य परिरक्षणम् । यदणिमाद्यैश्वर्यं ज्ञानिभिर्ज्ञानात्र प्राप्तं तदीश्वरस्स्वयमेव ज्ञानिनः प्रापयति; यत्तु ज्ञानं तैः प्राप्तं तच्च परिरक्षति विस्मरणाद्यजननद्वारेति भावः । कुत ईश्वरो ज्ञानिनां योगक्षेमं वहतीत्यत आह- ज्ञानी त्विति । ज्ञानिनामीश्वरात्मत्वे- नेश्वरस्य प्रियत्वादित्यर्थः । आत्मनः प्रियत्वं च प्रसिद्धम् । न च जीवस्यैवेश्वर आत्मेति कथमीश्व- रस्य जीव आत्मा स्यादिति वाच्यं, एकमेव चैतन्यं जीवस्येश्वरस्य च स्वरूपमितीश्वरस्याप्यात्मा जीव एव । आत्मा हि स्वरूपम् । तस्माच्चैतन्यरूपा ज्ञानिन ईश्वरस्यात्मभूता एव । चैतन्यरूप ईश्वरश्व ज्ञानिनामात्मभूत एव । अत एव ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय’ इत्युक्तमत्रैत्र । आत्मा हि प्रिय इति । न चाऽज्ञा अपि चैतन्यरूपत्वात्प्रिया एवेश्वरस्येति वाच्यं, अज्ञानां देहादेरेवात्मत्वे- नाभिमतत्वेन तस्या चैतन्यरूपत्वान्नेश्वर प्रियत्वमिति । 1
नन्वीश्वरो ज्ञानिनामेव योगक्षेमं वहतीति कथमुच्यते ? भक्तानामपि तं वहत्येवेत्याक्षिपति- नन्विति । अन्येषामिति ज्ञानिभिन्नानामित्यर्थः । आत्मार्थं स्वार्थम् । ईहन्ते वाञ्छन्ति । गधिं कांक्षाम् । ‘गृधू अभिकांक्षाया’ मिति धातुः । भावार्थे क्तिन् । हिशब्द: ‘नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालमेव प्रतीक्षेत निर्देशं भृतको यथा’ इति नारदपरिव्राजकोपनिषत्प्रसिद्धिं दर्शयति । भगवान् शरणमाश्रयो येषां ते भगवच्छरणाः । आत्मैकनिरता इत्यर्थः । न तु भक्तवद्योगक्षेमादि- निरता इति भावः । ज्ञानिभिरकांक्षितमपि योगक्षेमं भगवान् स्वयमेव वहति; भक्तैस्तु कांक्षितमेव वहति भगवानित्ययं विशेष इति फलितार्थः । तथा च भक्ता भगवता स्वयोगक्षेमं वाहयन्ति, न तु भगवान् स्वयमेव भक्तानां योगक्षेमं वहति । ज्ञानिनस्तु न भगवता तं वाहयन्ति, किं तु भगवानेव ज्ञानिनां तं वहतीति सिद्धम् । यत्तु रामानुजः – मद्भाक्तानां मत्प्राप्तिरूपं योगमपुनरावृत्तिलक्षणं क्षेमं च वहामीति, तन्मन्दम् —— ईश्वरस्य परिपूर्णचैतन्यरूपस्यात्मनः नित्याप्तत्वेनाप्राप्तत्वाभावात् । ईश्वरं प्राप्तानां पुन- रावृत्तिशङ्काया एवाभावेनापुनरावृत्तिं वहामीति वचनस्य व्यर्थत्वेनायुक्तत्वात् ॥२२॥ १३६ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु नन्वन्या अपि देवताः त्वमेव चेत्, तद्भक्ताश्च त्वामेव भजन्ते; सत्यमेवम्- येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयाऽन्विताः । तेऽपि मामेव कौन्तेय! यजन्त्यविधिपूर्वकम् ॥ २३ ॥ य इति । येऽप्यन्यदेवताभक्ता अन्यासु देवतासु भक्ता अन्यदेवताभक्तास्सन्तः यजन्ते पूजयन्ति श्रद्धयाऽऽस्तिक्यबुद्ध्याऽन्विता अनुगताः, तेऽपि मामेव कौन्तेय ! यज- न्त्य विधिपूर्वकं, अविधिरज्ञानं तत्पूर्वकं यजन्त इत्यर्थः ॥ २३ ॥ कस्मात्तेऽविधिपूर्वकं यजन्त इत्युच्यतेः यस्मात् — अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तच्त्वेनातश्च्यवन्ति ते ॥ २४ ॥ अहमिति । अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्वेन भोक्ता च प्रभुरेव च । मत्स्वामिको हि यज्ञ:- ‘अधियज्ञोऽहमेवाल’ इति युक्तम् । तथा न तु मामभिजानन्ति तत्त्वेन यथावत् । अतश्वा विधिपूर्वकमिष्ट्रा यागफलाच्च्यवन्ति प्रच्यवन्ते ते ||२४|| येऽप्यन्यदेवताभक्तास्तत्त्वेनाविधिपूर्वकं यजन्ते तेषामपि यागफलमवश्यम्भावि । कथम् ? - यान्ति देवत्रता देवान् पितृन् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥ यान्तीति । यान्ति गच्छन्ति देवत्रता देवेषु व्रतं नियमो भक्तिश्च येषां ते देवत्रता य इति । नन्वादित्यादीनां त्वद्रूपत्वस्योक्तत्वादादित्यादिचिन्तकानामपि योगक्षेमं त्वयैव वहनीय- मादित्यादिभक्तानामपि त्वद्भक्तत्वाविशेषादित्याक्षिपति – नन्विति । येऽप्यन्यदेवताभक्ताश्श्रद्धयान्विता- स्सन्तोऽन्यदेवता यजन्ते तेऽपि मामेव यजन्ते ममैवान्यदेव तारूपत्वात् । किं त्वविधिपूर्वकं यजन्ते । नहि तेषामादित्यादिभक्तानामादित्यादिदेवता ईश्वरात्मिका इति ज्ञानमस्तीति भावः ॥२३॥ अहमिति, देवतात्वेनेति । इन्द्रादिदेवतारूपत्वेनेत्यर्थः । यज्ञेषु हविर्भागभोक्तारो ये इन्द्रा- दित्यशङ्करादयो देवास्ते सर्वे मयीश्वरे स्वात्मनि कल्पिता इति मदात्मका एव । इन्द्रादिदेवताशरीरा- वच्छिन्नचैतन्यस्येश्वरत्वा दिन्द्रादीनामीश्वरात्मकत्वमिति वा । अहं स्वामी प्रभुर्यस्य स मत्स्वामिकः । मम विष्णोरधियज्ञत्वाद्यज्ञस्याहं प्रभुरित्याह– अधियज्ञ इति, यथावदिति । एक एवेश्वर इन्द्रादि- सर्वदेवतात्मकस्सर्वयज्ञात्मक स्सर्वयज्ञप्रभुरित्यादिरूपेणेत्यर्थः । च्यवन्ति भ्रश्यन्ति । कस्मादपादानादित्यत आह— यागफलादिति । ज्ञानादिलक्षणादिति भावः । न तु स्वर्गादिलक्षणात् तस्य तेषामवश्य- म्भावित्वस्य वक्ष्यमाणत्वात् । ये तु ज्ञानिनस्सर्वात्मकमीश्वरं ज्ञाखा यत्किञ्चिदपि फलमनभिसन्धाय केवलं यज्ञादिकर्म कुर्वन्ति ते ज्ञानप्राप्तिद्वारा मोक्षं लभन्ते, न त्वज्ञा इति भावः ॥ २४ ॥ यान्तीति । देवान् यान्ति देवलोकं गच्छन्तीत्यर्थः । एवमुत्तरत्रापि । वैष्णवा विष्णोरीश्वर- १८ नवमोऽध्यायः । १३७ देवान् यान्ति । पितॄनग्निष्वात्तादीन्यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ता: । भूतानि विनायक मातृगण चतुर्भगिन्यादीनि यान्ति भूतेज्या भूतानां पूजकाः । यान्ति मद्याजिनो मद्यजनशीला वैष्णवा मामेव यान्ति, एवं समानेऽप्यायासे मामेव भजन्तेऽज्ञानात्, तेन तेऽल्पफलभाजो भवन्तीत्यर्थः ॥ २५ ॥ न केवलं मद्भक्तानामनावृत्तिक्षणमनन्तफलं सुखाराधनचाहम् । कथम् !—- पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥२-६॥ पत्त्रमिति । पत्रं पुष्पं फलं तोयमुदकं यो मे मह्यं भक्त्या प्रयच्छति, तदहं पत्रादि भक्त्योपहृतं भक्तिपूर्वकं प्रापितं भक्त्युपहृतमश्नामि गृह्णामि, प्रयतात्मनः शुद्धबुद्धेः ॥२६॥ यत एवमतः- यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय! तत्कुरुष्व मदर्पणम् ॥२७॥ यदिति । यत्करोषि स्वतः प्राप्तं यदश्नासि यच्च जुहोषि हवनं निर्वर्तयसि श्रत स्मार्त वा, यद्ददासि प्रयच्छसि ब्राह्मणादिभ्यो हिरण्यान्नाज्यादि, यत्तपस्यसि तपः चरसि स्यात्मनो भक्ताः । मां यान्ति, ईश्वरसायुज्यं लभन्तः इत्यर्थः । ते देवादिभक्ता अल्पफलं क्षुद्रफलं स्वर्गादिकं - नश्वरत्वात्तस्य । अनेन विष्णुभक्तानां विष्णुसायुज्यरूपमहाफलप्राप्तिरिति द्योतितम् । यत्तु रामानुजः - देवत्रता देवान् यजामह इति सङ्कल्पशालिनः देवान् यान्त्या तीदि, तन्मन्दम् — सङ्गल्पमात्रेण क्रियाकरणं विना फलसिद्धयोगात् । अन्यथा ‘अहं काशीं गमिष्यामीति सङ्गल्पवशादेव काशीगमनं विनापि गङ्गास्नान विश्वेश्वरदर्शनादिजन्यफलसिद्धिप्रसङ्गात् ॥२५॥ 1 पत्त्रमिति । न केवलमित्यस्यानन्तफलमित्यनेन सम्बद्ध:, किंतु मदाराधनें सुखमनाया सोऽप्य- स्तीत्याह – सुखाराधन इति । सुखेनाराधनं यस्य स सुखाराधनः; सुखेनाराध्य इत्यर्थः । कथं तव सुखाराधनत्वमित्याक्षिपति — कथमिति । यो में भक्त्या पत्रं पुष्पं फलं तोयं प्रयच्छति प्रयतात्मनो भक्त्युपहृतं तदहमश्नामि– शुद्धबुद्धेस्सम्बन्धीति शेषः । मे मह्यं हृदयेशयात्मने सर्वव्यापिने परमात्मन इतिं वा । आदित्यमण्डलस्थाय पुरुषायेति वा । ईश्वराय पत्राद्युपहरणं च मानसिकमिति बोध्यम् । ननु अभोक्तुरीश्वरस्य कथं पत्राद्यशनमिति चेदत एव गृह्णामीति व्याख्यातमश्नामीतिपदं भाष्यकारैः । ईश्वरस्य सर्वव्यापित्वेन सर्वसंसृष्टत्वात्सर्वं तेन स्वीकृतमेवेति भावः । काल्यादिदेवताराधने तु रक्तमांसादिवस्तुसम्पादन प्रयासः, ईश्वराराधने तु पत्रपुष्पादीनां सर्व- सुलभत्वान्न तत्सम्पादनप्रयास इति सुखाराधन ईश्वर इति श्लोकस्यान्वयः ॥ २६॥ यदिति । यत एवं भक्तकर्तृकपत्राद्युपहरणे नापीश्वरस्तुष्टस्तस्मै भक्ताय महाफलं प्रदत्ते तस्मा- दित्यर्थः । यद्युद्धादिकं गमनादिकं वा कर्म करोषि स्वतो यदृच्छया प्राप्तं यदन्नं व्रीह्मादिकमना सिं यदाज्यादिकं जुहोषि अग्नौ प्रक्षिपसि । इदमेवाह — श्रौतं स्मार्त वा हवनं निर्वर्तयसीति । श्रुति- १३८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कौन्तेय ! तत्कुरुष्व मदर्पणं मत्समर्पणम् ॥२७॥ एवं कुर्वतस्तव यद्भवति तच्छृणु- शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ २८ ॥ शुभेति । शुभाशुभफलैः शुभाशुभे इष्टानिष्टे फले येषां तानि कर्माणि शुभाशुभफलानि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माण्येव बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैः, एवं मदर्पणं कुर्वन् मोक्ष्यसे । सोऽयं सन्न्यासयोगोनाम सन्न्यासश्वासौ मत्समर्पणतया कर्मत्वाद्योग- श्वासाविति तेन सन्न्यासयोगेन युक्त आत्मान्तः करणं यस्य तव स त्वं सन्न्यासयोग- युक्तात्मासन् विमुक्तो कर्मबन्धनैः जीवन्नेव पतिते चास्मिन् शरीरे मामुपैष्यस्यागमिष्यसि ॥ रागद्वेषवान् तर्हि भगवान्, यतो भक्ताननुगृह्णाति, नेतरानिति, तन्न- समोsहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाऽप्यहम् ॥ २९ ॥ सम इति । समः तुल्योऽहं सर्वभूतेषु । न मे द्वेष्योस्ति न प्रियः । अग्निवदहं– दूरस्थानां यथाग्निः शीतं नापनयति, समीपमुपसर्पतामपनयति तथाहं भक्ताननुगृह्णामि, स्मृतिसिद्धां होमक्रियां निष्पादयसीत्यर्थः । मदर्पणमिति । ईश्वरार्पणमस्त्विति मनश्शुद्धिपूर्वकं मां समर्पयेत्यर्थः । एवं सति फलसङ्गत्यागो भवतीति भावः ॥२७॥ 1 1 तमेव भावं स्फुटयति - शुभाशुभेति, एवं कुर्वत इति । सर्वमपीश्वरार्पणं कुर्वत इत्यर्थः फलसङ्गे सति कर्माणि शुभाशुभफलैबध्नन्ति पुरुष, तत्त्यागे तु नास्त्यस्य कर्मबन्धः । तत्त्यागश्च तस्येश्व- रार्पणाद्भवतीति समीश्वरायार्पयितव्यमिति भावः । मोक्ष्यसि त्यक्ष्य से निर्मुक्त कर्मबन्धनो भविष्यसि मुक्तो भविष्यसीति यावत् । सोऽयं पूर्वोक्त ईश्वरार्पणबुद्धया कर्मकरणात्मकः सन्न्यासयोगः । ईश्व- रार्पणतया फलसङ्गत्यागात्सन्न्यासः । सन्न्यासशब्दस्य त्यागार्थकत्वात् । कर्मानुष्ठानरूपत्वाद्योग इत्याह — कर्मत्वादिति । जीवन्नेव बन्धनैः कर्मभिर्विमुक्तस्सन् जीवन्मुक्ति प्राप्तस्सन्नित्यर्थः । सति कर्मसु कर्तृत्वाभिमाने फलसङ्गे च तत्सिद्ध्यसिद्धिभ्यां हर्षशोकादिविकारस्यात्, तदभावे तु विका- . राभावाज्जीवन्मुक्तिरिति भावः । निर्विकारतयावस्थानस्यैव जीवन्मुक्तिरूपत्वात् । पतिते मृते सति– मामुपैष्यसि मत्सायुज्यं प्राप्स्यसि ब्रह्मैव भविष्यसीत्यर्थः ॥ २८ ॥ · सम इति, रागद्वेषवानिति । भक्तेषु रागः, अभक्तेषु द्वेषः । तावस्य स्त इति रागद्वेषवान् । प्राकृतराजादिवदिति भावः । तन्न भगवतो रागद्वेषवत्त्वं न । सम इति । सर्वभूतेष्वात्मन एकरूप- त्वेन सर्वघटेनाकाशस्येव स्थितत्वादिति भावः । एवं सर्वत्रैकरूपत्वादविक्रियत्वाच्चात्मनो न कश्चि- दूद्वेष्यः, न कश्चित्प्रियश्चास्ति । प्रीति द्वेषयोनिर्धर्मके आत्मन्ययोगादिति भावः । अस्य सर्वसंमत्वे दृष्टान्तमाह — अग्निवदिति । दृष्टान्तं विवृणोति — यथेति ।नवमोऽध्यायः । १३९ नेतरान् । ये भजन्ति तु मामेश्वरं भक्त्या मयि ते स्वभावत एव न मम रागनिमित्तं– वर्तन्ते । तेषु चाप्यहं स्वभावत एव वर्ते, नेतरेषु । नैतावता तेषु द्वेषो मम ॥ २९ ॥ अग्नेश्शीतापनयनं स्वभावः, स चाग्निः खसमीपं प्राप्तानां सर्वेषामप्यविशेषेणैव शीतमपनयति ; स्वसमीपमगतानां तु न; नैतावताग्ने रागद्वेषरूपः पक्षपातः किं त्वग्निसमीपाप्राप्तिः पुरुषस्यैवापराधः । यदि समीपं प्राप्तानां मध्ये केषांचिच्छीतमपनीय केषांचिन्नापनयेत्तर्हि स दोषः स्यादग्नेः । दस्ति । तस्मादग्निर्यथा सर्वसमः तथा परमेश्वरोऽपि स्वमाश्रिताननुगृह्णाति, नेतरानिति कृत्वा भगव- दनाश्रयणं पुरुषस्यैव दोषः, न तु भगवत इति । न त्वेत- ननु अग्नेः परिच्छिन्नत्वाद्दूरस्थानामग्निसेवा न स्यादात्मनस्तु सर्वव्यापिनः कथं कैश्चिदसे- व्यत्वमिति चेन्नैष दोषः – सेवाया ज्ञानपूर्वकत्वात्सर्वव्यापिनमप्यात्मानं येन विदन्ति त आत्मना नित्यसङ्गता अप्यात्मानं नैव सेवन्ते; यथा स्वगृहस्थमपि निधिं ये न विदन्ति ते तं न भजन्त एव । यथा वा स्वकण्ठगतमपि चामीकरं ये विस्मृतवन्तस्ते तं न भजन्त एव तद्वदिति । भक्तानामीश्वरे वर्तनमीश्वरस्य भक्तेषु वर्तनं च अग्नेरौष्ण्यवत्स्वभाव एवेत्याह — ये भज- न्तीति । स्वभावत एवेत्येवकारार्थमाह-न मम रागनिमित्तमिति । भक्तानां मयि वर्तने मम भक्तेषु वर्तने वा मम भक्तानां वा रागो न निमित्तं, किंतु स्वभाव एवेत्यर्थः । तथाऽभक्तानां मय्यवर्तने ममाभक्तेष्ववर्तने मम भक्तानां वा द्वेषो न निमित्तं, किंतु स्वभाव एवेत्याह- नैतावतेति । भक्तानामीश्वरे वर्तनं नाम ईश्वरपरायणत्वं तस्य च भक्तेषु वर्तनं भक्त- परायणत्वमिति बोध्यम् । नच ज्ञानिनां स्वात्मपरायणत्वेन भवितव्यत्वात्कथमीश्वरपरायणत्वमीश्वरस्य वा आत्मारामस्य कथं भक्तपरायणत्वमिति वाच्यं ज्ञानिनामात्मन एवेश्वरत्वादीश्वरस्य च भक्तानामेवात्मत्वात् । भक्तोऽत्र ज्ञानी प्रकरणादात्मभक्तेश्च ज्ञानसाध्यत्वात् । तथा च ज्ञानिनाऽऽत्मत्वेनाभिमतं यचैतन्यं तस्येश्वरत्वात् ज्ञानिनि वर्तमान ईश्वर आत्मनि वर्तमान एव । ईश्वरे वर्तमानो ज्ञानी च स्वात्मनि वर्तमान एवेति ज्ञानीश्वरावुभावप्यात्मनि वर्तना- दात्मपरायणावेवेति नात्र जीवेश्वरभेदः प्रसञ्जनीयः । मयीश्वरे स्वात्मभूते ते वर्तन्ते, तेषु च स्वात्म- भूतेषु ज्ञानिष्वहं वर्त इत्यर्थात् । न च ज्ञानिनामीश्वरात्मत्वे विवदितव्यं, ‘ज्ञानी त्वात्मैव मे मत’ - मित्यत्रैवोक्तत्वात् । ननु मयि तें तेषु चाहमिति अस्मत्तच्छब्दाभ्यां जीवेश्वरयोर्भेदेन निर्देशाज्जीवानां च बहुत्वेन निर्देशात्कथं जीवानामेकेश्वराभेद इति चेदुच्यते— सप्तम्यन्तयो रस्मत्तच्छन्दयो लक्षणया चैतन्यमात्र- वाचित्वात्प्रथमान्तयोरभिघया प्रमातृवाचित्वात्प्रामातॄणां च बहुत्वाज्जीववदीश्वरस्यापि प्रामतृत्वस्याभ्यासि - कत्वात्प्रमातुरीश्वरात्सर्वज्ञात्प्रमातारो जीवाः किञ्चिदज्ञा भिन्ना एव, बहव एव च । पारमार्थिकं तु जीवानामीश्वरस्य च स्वरूपं चैतन्यमेवेति सिद्धो जीवेश्वराभेदश्चेति ।
- १४० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु शृणु मद्भक्तेर्माहात्म्यम्- अपि चेत्सुदुराचारो भजते मामनन्यभाकू । साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः ॥ ३० ॥ अपि चेदिति । अपिचेद्यद्यपि सुदुराचारः सुष्ठु दुराचारः अतीव कुत्सिताचारोऽपि भजते मामनन्यभगनन्यभक्तिस्सन्, साधुरेव सम्यग्वृत्त एव स मन्तव्यः सम्यग्यथावत् व्यवसितो हि सः यस्मात्साधुनिश्चयस्सः ॥ ३० ॥ उत्सृज्य बाह्यां दुराचारतामन्तस्सम्यग्व्यवसायसामर्थ्यात— क्षिप्रं भवति धर्मात्मा शश्वच्छान्ति निगच्छति । कौन्तेय! प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ३१ ॥ क्षिप्रमिति । क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्त एव । शश्वन्नित्यं शान्तिमुपशमं निगच्छति प्राप्नोति । शृणु परमार्थं वचः; हे कौन्तेय ! प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु; न मे मम भक्तो मयि समर्पितान्तरात्मा मद्भक्तः न प्रणश्यतीति ॥ ३१ ॥ किंच- मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ ३२ ॥ मामिति । मां हि यस्मात् पार्थ ! व्यपाश्रित्य मामाश्रयत्वेन गृहीत्वा येऽपि स्युः यत्तु वेदान्तदेशिकः अहं च ते चान्योन्यं पित्रादिष्विव न्यस्तभरा इति पिंण्डितार्थ इति, तत्तुच्छम् — ईश्वरे जीवानां न्यस्तभरत्वेऽपि जीवेष्वीश्वरस्य न्यस्तभरत्वानुपपत्तेः । ईश्वरो हि / खतन्त्रः सर्वरक्षकश्चेति नास्येतरकर्तृकरक्षापेक्षा, ययेश्वरः स्वरक्षाभरं जीवे न्यसेत् । जीवस्तु परतन्त्र आत्तानं रक्षितुमक्षमश्चेति खरक्षाभरमीश्वरे विन्यसेत् । अत एव हि जीवानामीश्वरशरणागतिन तु जीवशरणा- गतिरीश्वरस्य । अन्यथा ईश्वरस्येश्वरत्वमेव नश्येदिति ॥२९॥ अपि चेदिति । सुदुराचारोऽप्यनन्यभावसन्मां भजते चेत् स साधुरेवेति मन्तव्यः, हि स सम्य- ग्ध्यवसितः । सुष्टु दुष्ट आचारो यस्य स सुदुराचारः । अन्यं न भजत इत्यनन्यभाक् । व्यवसितो निश्चितो निश्चयवानिति यावत्, सम्यक्साधु व्यवसितं निश्चयो यस्य स सम्यग्व्यवसित इत्येकं पदं वा । ब्रह्मवाहमिति यस्य निश्चयज्ञानं तत्सामर्थ्यात्स पुरुषो दुराचारोऽपि साधुरेव - देहाद्यनात्म- धर्मत्वादाचारस्य, न तेनात्मज्ञानिनः कापि क्षतिरात्मनो नित्यशुद्धबुद्धमुक्तस्वरूपत्वात्, ज्ञानिन- श्वात्मत्वादिति भावः ॥ ३०॥ क्षिप्रमिति । दुराचारोऽपि सम्यग्व्यवसायसामर्थ्यात्साधुरेवेत्युक्तं यत्तत्प्रौढ्योक्तमेव । वस्तुतस्तु सम्यग्व्यवसायसामर्थ्यात्स दुराचारमुत्सृज्य सदाचार एव भवतीत्याह – उत्सृज्येति । धर्मे आत्मा चित्तं यस्य स धर्मात्मा; निगच्छति प्राप्नोति ॥ ३१ ॥ मामिति । ये पापयोनयः स्युः ते स्त्रियो वैश्याश्शूद्रा अपि हे पार्थ! मां व्यपाश्रित्य परं गतिं यान्ति । हि यस्मादेवं तस्मादीश्वरभक्तो न प्रणश्यतीति त्वमेव प्रतिजानीहि । शूद्धाणों वेदेषु नवमोऽध्यायः । 1 १४१ भवेयुः पापयोनयः पापा योनिर्येषां ते पापयोनयः पापजन्मानः । के ते इति, आह— स्त्रियो वैश्यास्तथा शूद्राः तेऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिम् ॥ ३२ ॥ किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ ३३ ॥ किं पुनरिति । किं पुनर्ब्राह्मणाः पुण्याः पुण्ययोनयो भक्ता राजर्षयः, तथा राजनच ते ऋषयश्च राजर्षयः । यत एवमतः । अनित्यं क्षणभंगुरमसुखं च सुखवर्जितमिमं लोकं मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्व माम् ||३३|| कथम् १- मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ||३४|| इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीता- सूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्या- राजगुह्ययोगो नाम नवमोऽध्यायः । मन्मना इति । मन्मना मयि वासुदेवे मनो यस्य तव स त्वं मन्मना भव । तथा वैदिकेषु कर्मसु चानधिकारत्वात्पापजन्मत्वम् । वैश्यानां द्विजत्वेन तत्राधिकारेऽपि धान्याद्विक्रयविक्रय- वृत्त्या पापित्वं तेषाम् । कलौ वैश्यानां शूद्रप्रायत्वादिति वा ॥ ३२॥ 1 किं पुनरिति । पापयोनयः स्त्रीवैश्यशूद्रा अपि भगवद्भक्ताश्चेत्परां गतिं यान्ति; किंपुनः पुण्य- योनयो ब्राह्मणा राजर्षयश्च भगवद्भक्ताः परां गतिं यान्तीति वक्तव्यमित्यर्थः । अर्थापत्तिरितिरियं कैमुत्येनार्थसाधनात् । यतः एवमिति । भगवद्भजनान्मनुष्याणां परमपदप्राप्तिर्यस्माद्भवति तस्मादित्यर्थः । क्षणभंगुरं क्षणादेव भङ्गशीलं नित्यं मृत्योस्सन्निहितत्वादिति भावः । एतेन भगवन्तं श्वो भजिष्यामीत्येव कालयापना न कर्तव्येति सिद्धम् । असुखमिति । रोगादिभूयिष्ठत्वान्मनुष्यदेहस्येति भावः । एतेन विषयेषु न सक्तव्यमिति सूचितम् तत्र सुखलेशस्याप्यभावात् । इदंशब्दस्य सन्निहितवा चित्वादाह- मनुष्यलोकमिति । मनुष्यदेहं प्राप्येत्यर्थः । लोक्यते ज्ञायत इति लोको देह इति - व्युत्पत्तेः । नच किमनित्येन मानवदेहेनेत्युपेक्षितव्यमित्याह — पुरुषार्थसाधनमिति । न हि पशुपक्ष्यादयः पुरुषार्थ मोक्षं साघयितुमर्हन्ति तेषां विवेकाभावादिति भावः । ननु पतत्वयं मनुष्यदेहः पुनर्मनुष्यदेहान्तरप्राप्तौ पुरुषार्थाय यतिष्य इत्यत आह– दुर्लभमिति । अतीतानेकजन्मार्जितसुकृत परिपाक व शादेतन्मनुष्य- देहलाभ:, अस्य नाशे तु पुनरेतादृश देहप्राप्तिर्दुष्प्रापैवेत्यर्थः । अत एव भांगवते प्रह्लादः - - ‘कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थद’ मित्युक्तवान् । मनुष्यत्वं लब्ध्वा मनुष्य जन्म प्राप्येत्यर्थः । वर्तमान इति शेषः । राजर्षिस्त्वमिति च । मामीश्वरमात्मानं भजख ॥ ३३ ॥ मन्मना इति । मन्मना भव मद्भक्तो भव ! मद्याजी भव ! मां नमस्कुरु । एवं युक्त्वा १४२ श्रीभगवद्गीता - भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मद्भक्तो भव । मद्याजी मद्यजनशीलो भव । मामेव च नमस्कुरु । मामेवेश्वरमेष्यस्यागमि- ष्यसि युक्त्वा समाधाय चित्तम् । एवमात्मानं अहं हि सर्वेषां भूतानामात्मा, परा च गतिः, परमयनं तं मामेवम्भूतमेष्यसीत्यतीतेन सम्बन्धः । मत्परायणस्सन्नित्यर्थः || ३४॥ इति श्री परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पादपूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये नवमोऽध्यायः । मत्परायणस्सन्नात्मानं मामेवैष्यसि । युक्त्वेत्यस्यार्थमाह - चित्तं समाधायेति । कुतस्तवात्मत्वमत आह— अहं हीति । सर्वभूतात्मत्वान्ममात्मत्वमित्यर्थः । मत्परायण:- अहं परमयनं परा गतिर्यस्य स तथोक्तः । इदमेवाह – अहं परा च गतिरिति । गतिः प्राप्यः । परायणशब्दगतपरपदार्थमाह- अनन्तमिति । अयनविशेषणत्वात्वलीबत्वम् । परमनन्तमयनं गतिः परायणं, अहमेव परायणं यस्य स मत्परायणः । एवम्भूतमिति । सर्वभूतानामात्मानं परायणं चेत्यर्थः । अतीतेनेति । युक्त्वै - ष्यसीत्यस्यातीतत्वम् । एष्यसि प्राप्स्यसि । यद्वा मत्परायण इत्यस्य मामेवैष्यसीत्यतीतेन सम्बन्धः - मत्परायणस्त्वं मामेवैष्यसीति । तदे - वाह - मत्परायणस्सन्नित्यर्थ इति । एवं युक्त्वाऽऽत्मानं मामेवैष्यसि मत्परायणश्च भविष्यसीति वाक्यद्वयान्वयभ्रमव्युदासायोक्तमतीतेन सम्बन्ध इति । वाक्यद्वयान्वये तु ईश्वरसायुज्यप्राप्त्यनन्तरमपि मुक्तस्येश्वरपरायणत्वरूप कर्तव्यशेषसम्भव इत्येष दोषः । मुक्तस्य कृतकृत्यत्वप्रसिद्धेः । नच मामेवैष्यसि युक्त्वैवमात्मानमिति समाप्तस्य वाक्यार्थस्य मत्परायण इति पुनरादानात्समाप्त- पुनरादानदोष | पतिरिति वाच्यं एवं मत्परायण एवं मामेवैष्यसि, नोचेनेतीश्वरसायुज्यप्राप्तिं प्रतीश्वर- परायणत्वस्याकांक्षितत्वेन तद्दोषाप्रसक्तेः । ईश्वरपरायणत्वं नामानवरत मीश्वरखरूपानुसन्धानरूपतदेकनिष्ठत्वमिति बोध्यम् । तस्मात्त्वमीश्व- रार्पणबुद्धया स्वधर्ममिमं संग्रामं निरभिमानस्सन् तावत्कृत्वा पश्चात्सर्वकर्माणि सन्न्यस्य सम्यग्दर्शनं सम्पाद्य स्वात्मस्वरूपानुसन्धानपरो भव । तथा सति तव ब्रह्मभावो भविष्यतीति पर्यवसन्नार्थः ॥ ३४ ॥ राजविद्या च तद्राजगुह्यं च राजविद्याराजगुह्यं तस्य योगोऽत्रेति राजविद्याराजगुह्ययोगः । , इति श्री बेल्लको डोपनामक रामकविकृते श्रीमच्छाङ्करभगवद्गीता - भाष्यार्क प्रकाशे नवमोऽध्यायः । श्रीहयग्रीवार्पणमस्तु ।