श्रीहयग्रीवाय नमः । भाग्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतासु अष्टमोऽध्यायः । ‘ते ब्रह्म तद्विदुः कृत्स्र’ मित्यादिना भगवताऽर्जुनस्य प्रश्नबीजान्युपदिष्टानि; अत- स्तत्प्रश्नार्थमर्जुन उवाच - अर्जुन उवाच - किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ! अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥१॥ ‘अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ! प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ||२॥ किं तद्ब्रह्मेति ॥ १॥ अधियज्ञ इति ॥२॥ एषां प्रश्नानां यथाक्रमं निर्णयाय श्रीभगवानुवाच- श्रीभगवानुवाच — अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥ अक्षरमिति । अक्षरं न क्षरतीत्यक्षरं पर अत्मा, ‘एतस्य वा अक्षरस्य प्रशासने गार्गि हे पुरुषोत्तम ! यदात्मभक्ता विदुरित्युक्तं तद्ब्रह्म किम् ? तत्कर्म किम् ? अधिभूतं किम् ? प्रोक्तं शास्त्रज्ञैः अघिदैवं च किमुच्यते ? अधिभूतं किम् ? अघिदैवं च किमित्यर्थः । किं किं वस्तु ब्रह्माध्यात्म | दिशब्दैरुच्यत इत्यर्थः ॥ १ ॥ अधियज्ञ इति । हे मधुसूदन ! अस्मिन् देहे कोऽवियज्ञः ? कथं चिन्तनीय इति शेषः । प्रयाणकाले च त्वं नियतात्मभिः कथं ज्ञेयोऽसि ॥२॥ अक्षरमिति । परममक्षरं ब्रह्मेत्युच्यते । क्षरति नश्यति । अक्षरशब्दस्य परमात्मवाचित्वे श्रुति प्रमाणयति — एतस्येति । यद्वा अक्षरस्य ब्रह्मत्वे श्रुतिं प्रमाणयति – एतस्येति । ईश्वरस्यैव सर्व- नियन्तृत्वेन सर्वप्रशासकत्वादीश्वरस्य प्रशासने सूर्यचन्द्रमसौ विधृतौ तिष्ठतः । गार्गि इति सम्बोधनम् । विधृतावन्तर्यामिणा तेनैव विशेषेण धृतौ सन्तौ तस्यैव शासने तिष्ठतः । ईश्वराज्ञापरतन्त्रौ सूर्यचन्द्रमसौ दिवारात्री कुरुत इत्यर्थः । ‘भीषास्माद्वातः पवते, भीषोदेति सूर्य’ इति श्रुतेः ।सप्तमोऽध्यायः । " ५९ सूर्याचन्द्रमसौ विधृतौ तिष्ठत’ इति श्रुतेः । ओङ्कारस्य ‘ओमित्येकाक्षरं ब्रह्म’ इति परेण विशेषणादग्रहणम् । परममिति च निरतिशये ब्रह्मणि अक्षरे उपपन्नतरं विशेषणम् । तस्यैव परस्य ब्रह्मण: प्रतिदेहं प्रत्यगात्मभाव: स्वभाव:- स्वो भावस्स्वभावः, अध्यात्ममुच्यते आत्मानं देहमधिकृत्य प्रत्यगात्मतया प्रवृत्तं परमार्थब्रह्मा वसानं वस्तु स्वभावोऽध्यात्ममुच्यते; अध्यात्म- शब्देनाभिधीयते । भूतभावोद्भवकरः भूतानां भावो भूतभावः तस्योद्भवो भूतभावोद्भवः तं ननु ओमित्येकाक्षरं ब्रह्मेति श्रुत्या ओंकारस्याप्यक्षरत्वाद्ब्रह्मत्वाच्च अक्षरं ब्रह्मेत्यस्य ओंकारो ब्रह्मेत्यर्थः किं न स्यादित्यत आह - ओंकारस्येति । ओंकारस्याग्रहणमित्यन्वयः । ओमित्येकाक्षरं ब्रह्मेतिश्रुत्या ओंकारस्येहाक्षरशब्देनाग्रहणम प्रतिपादनम् । तत्र हेतुमाह — परमेण विशेषणादिति । ‘अक्षरं ब्रह्म परम’ मिति परमत्वविशेषणसत्त्वादक्षरस्याल नोंकारग्रहणमित्यर्थः । ननु ओंकारस्य वेदादित्वेनोत्कृष्टत्वात्परममक्षरमोंकारोऽपि भवितुमर्हतीत्यत आह- परम- मिति । पर उत्कृष्टो मा न विद्यते यस्मात्तदिति व्युत्पत्त्या परमशब्दस्य निरतिशयवा चित्वाद्ब्रह्मणोऽ- न्यस्य सर्वस्यापि सातिशयत्वादकारस्य च वर्णात्मकस्य जडस्य कार्यस्य सातिशयत्वात्परमं निरतिशय- मक्षरं ब्रह्मैव, न त्वोंकार इति भावः । निरतिशये अक्षरे ब्रह्मणि परममिति विशेषणमुपपन्नतरमित्यन्वयः ।
। , एवमक्षरं ब्रह्म परममिति प्रथमपादं व्याख्याय ‘स्वभावोऽध्यात्ममुच्यत’ इति द्वितीयपादं व्याख्यातुमारभते —— तस्यैवेति । स्वभावः स्वस्य परब्रह्मणो भावः प्रतिदेहं प्रत्यगात्मरूपेण भवनं स्वभावः । ब्रह्मणः प्रत्यभूपेण देहे देहे अवस्थानमिति यावत् । स्वो भावस्स्वभाव इति समासे तु तस्येति ब्रह्मवाचिपदाध्याहारप्रसङ्गः । अध्यात्ममित्युच्यते - आत्मन्यध्यात्म मिति । नात्र विभक्त्यर्थे - व्ययीभाव समासो ग्राह्यः । तस्य तप्तम्यर्थपर्यवसानादित्यभिप्रेत्याह – आत्मानं देहमिति । अधिकृ- त्याधिष्ठित्य प्रवृत्तं स्थितं परमार्थब्रह्मावसानं परमार्थे सत्यं यद्ब्रह्म पूर्वोक्तं परं ब्रह्म तदेवावसानं समाप्ति - र्यस्य तत्तथोक्तं, परमार्थब्रह्मरूपेण पर्यवसितमित्यर्थः । परमार्थब्रह्मभूतमिति यावत् । एवंविधं वस्तु स्वभावशब्दार्थः । निरुपाधिकं चैतन्यं मायोपाधिकं चैतन्यं वा ब्रह्म, प्रतिदेह प्रत्यग्रूपेण स्थितमन्तः करणोपाधिकं चैतन्यं स्वभाव शब्दवाच्यमध्यात्म मिति यावत् । परमात्मा ब्रह्म, प्रत्यगात्मा त्वध्यात्ममिति फलितार्थः । ननु अध्यात्मं प्रत्यगात्मविषर्यं वस्त्विति पूर्वं भाषितमधुना तु प्रत्यगात्मैवेत्युच्यते, अतः कथं पूर्वोतर विरोधपरिहार इति चेदुच्यते- पूर्वं कृ त्रपदानुगुण्येन वस्त्विति पदमध्याहृत्याध्यात्ममित्य- स्यान्ययीभावसमास उक्त इदानीं तु समासान्तरमिति । यद्वा प्रत्यगात्मविषयं प्रत्यगात्मशब्दप्रयोग- विषयमर्थात्प्रत्यगात्मैवेति कृत्स्नमित्यस्य पूर्णमित्यर्थः । अध्यात्ममुच्यत इत्यस्यार्थमाह- अध्यात्मशब्देनाभिधीयत इति । अध्यात्ममित्युच्यत इत्यन्वयादेतदर्थकाभः । • ६० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु करोतीति भूतभावोद्भवकरः भृतवस्तुत्पत्तिकर इत्यर्थः । विसर्गों विसर्जनं देवतोद्देशेन चरु- पुरोडाशादेर्द्रव्यस्य परित्यागः स एव विसर्गलक्षणो यज्ञः कर्मसंज्ञितः कर्मशब्दित इत्येतत् । एतस्माद्धि वीजभूताद्दृष्ट्यादिक्रमेण स्थावरजङ्गमानि भूतान्युद्भवन्ति ॥ ३ ॥ एवं किं तद्ब्रह्म किमध्यात्ममिति प्रश्नद्वयस्य पादद्वयेनोत्तरद्वयं दत्वा किं कर्मेति प्रश्नस्य पादद्वयेनोत्तरमाह — भूतेति । भूतानां प्राणिनां भावस्सत्ता, तस्योद्भव उत्पत्तिर्भूतभावोद्भवः, तस्य करः कर्ता उत्पत्तेः प्रागपि सिद्धानां भूतानामभिव्यक्त्यभावादसत्प्रायाणामुत्पत्तिवशात्सत्ता सिद्ध्यति– जन्माधीनत्वात्सत्तायाः । जन्मानन्तरभावी खलु सत्ताख्यो विकारः । पुत्रो जातः, जातः पुत्रोऽस्तीति व्यवहारात् । फलितमाह — भूत वस्तूत्पत्तिकर इति । भूतानां सिद्धानामेव वस्तूनां प्राणिनां देह- सङ्घटनद्वारा उत्पत्तिकर इत्यर्थः । लिङ्गशरीरावच्छिन्ना जीवा अनादिकालमारभ्य स्थिताः प्रलयेऽप्येषां न नाशः । मोक्ष एव लिङ्गभङ्गाख्यो नाशः | अमी हि स्थूलशरीरसंयोगाख्यमुदयं तद्वियोगारूपं नाशं च कर्मवशात्प्रपद्यन्ते । तत्र स्थूलशरीरसंयोगाख्य उदय इह भूतभावोद्भवशब्देनोच्यत इति भावः । यद्वा भवन्तीति भूतानीति, भूतशब्दः कार्यमात्रपरः । भूतानां कार्यकरणसङ्घातादिरूपाणां कार्याणां भावस्य सत्ताया उद्भवकर:- कार्यनिष्ठसत्ताया जन्माधीनत्वात् । जन्मनः प्राक्कार्यस्य चाभावा- त्सत्त्वे च पुनरुदयायोगात्सद्वस्तुनः जन्मनः प्रागभावायोगाच्च जन्माधीनसत्ता कान्येव कार्याणीत्यभिप्रेत्य भूतसत्ताया उत्पत्तिकर इत्यस्य भूतवस्तूत्पत्तिकर इति फलितार्थ उक्तो भाष्यकृद्भिः । भूतवस्तूनि कार्य- पदार्थाः कार्यमात्र सर्वमित्यर्थः । तदुत्पत्तिकरः तत्सत्तासम्पादको जन्मद्वारेति यावत् । विसर्गो यज्ञः । यज्ञस्य विसर्गलक्षणत्वादित्याह - स एवेति । यज्ञो यजनं देवपूजा, सा च हविरर्पणरूपेति यज्ञस्य विसर्ग एव लक्षणं स्वरूपमिति भावः । एवं विसर्गलक्षणस्य यज्ञस्य क्रियात्वा- त्कर्मशब्दवाच्यत्वमित्याह - कर्मसंज्ञित इति । कर्मेति संज्ञा कर्मसंज्ञा सास्य सञ्जातेति कर्मसंज्ञितः । तारकादित्वादितच् । यावदर्थमाह- कर्मशब्दित इति । कर्मशब्दप्रतिपाद्य इत्यर्थः । वृष्टयादिक्रमे- णेति । ‘यज्ञाद्भवति पर्जन्यः पर्जन्यादन्नसम्भवः, अन्नाद्भवन्ति भूतानीति क्रमः प्रागुक्तः । ननु ’ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः, यज्ञ द्भवति पर्जन्यो यज्ञः कर्मसमुद्भव’ इति तृतीयाध्याये यज्ञस्य कर्मसमुद्भवत्वमुक्तमिदानीं तु कर्मत्वमेवोच्यत इति पूर्वोत्तरविरोध इति चेत्, मैवम् - यज्ञशब्दस्यापूर्वमिति कर्मेति च र्थद्वयसत्त्वाद्यज्ञोऽपूर्वमिति कर्मेति च मतभेदेन व्यवहाराव, यज्ञोऽपूर्वमिति मते यज्ञोत्पादककर्मणि यज्ञशब्दप्रयोगस्य लाक्षणिकत्वात्, यज्ञः कर्मेति मते कर्मजन्ये अपूर्वे यज्ञशब्दप्रयोगस्य लाक्षणिकत्वात् यज्ञशब्दस्य मुख्यवृत्त्या प्रागपूर्वत्वमुक्तं, गौणवृत्त्या त्विदानीं कर्मत्वमुक्तम् । यद्वा गौणवृत्त्या प्रागपूर्वत्वमुक्तमिदानीं मुख्यवृत्त्वा कर्मत्वमुक्तमिति पूर्वोत्तरविरोध- परिहारात् । , सप्तमोऽध्यायः । अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर! || ४ || ६१ अधिभूतमिति । अधिभूतं प्राणिजातं अधि भवतीति । कोऽसौ ? क्षरः क्षरतीति क्षरः विनाशी भावो यत्किञ्चिज्जनिमद्वस्त्वित्यर्थः । पुरुष: पूर्णमनेन सर्वमिति, पुरि शयनाद्वा पुरुष:, आदित्यान्तर्गतो हिरण्यगर्भः सर्वप्राणिकरणानामनुग्राहकः । सोऽधिदैवतमधियज्ञः सर्वयज्ञाभिमानिनी देवता विष्ण्वाख्या ‘यज्ञो वै विष्णु’ रिति श्रुतेः । स हि विष्णुरहमेवा- त्रास्मिन्देहे यो यज्ञस्तस्याहमधियज्ञः । यज्ञो हि देह निर्वर्त्यत्वेन देहसमवायीति देहाधि- करणो भवति, देहभृतां वर ! ॥४॥ एवं च कर्मरूपाद्यज्ञादपूर्वयज्ञं, तस्मद्वृष्टिः, तस्मादन्नं, तस्मात्प्रजा इत्यपि क्रमस्सिद्धः । भाष्ये तु वृष्टेरेवादित्वमुक्तम् । तत्तु कर्मापूर्वयोरेकयज्ञशब्दवाच्यत्वलक्षणैक्यव्यवहारादिति बोध्यम् । एतस्मा- दिति वाक्यं विसर्गस्य भूतभावोद्भव करत्वं स्फुटयितुं निबद्धमिति बोध्यम् ॥३॥ अधिभूतमिति । भूतशब्दार्थमाह - प्राणिजातमिति । प्राणिसमूहः; भूतशब्दाद्भूतत्वग्रहणेन तत्समूहलाभः । अधिशब्दार्थमाह- अधि भवतीति । अधिकृत्य भवतीत्यर्थः । कोऽसौ यो भूत- जातमघि भवतीत्युच्यत इति पृच्छति — कोऽसाविति । उत्तरयति -क्षरो भाव इति । क्षरति नश्य- तीति क्षरः, भवति जायत इति भावः । ‘जातस्य हि ध्रुवो मृत्यु ‘रिति सिद्धान्तादाह – जनिमदिति । जनेरुक्तत्वे विनाश उक्तप्राय इति भावः । उत्पत्तिविनाशवदिति यावत् । भूतशब्देन सर्वप्राणिग्रहणा- तमधिकृत्य सम्भवान्न प्राणिपदार्थजातमेव क्षरो भावः । स च देहादिरूपः शीतोष्णादिरूपश्वेति बोध्यम् । पूर्ण व्याप्तम् । पुरि शरीरे शयनादासनात् । पुरं चादित्यशरीरं हिरण्यगर्भस्य तत्र स्थितत्वा- त्पुरुषशब्दवाच्यस्य । आदित्यान्तर्गतस्सूर्यमण्डलमध्यस्थः हिरण्यगर्भः हिरण्मयः हिरण्यश्म श्रुत्वादिगुणक ईश्वरः सर्वेषां प्राणिनां करणानामिन्द्रियाणानुमग्राहकः शक्तिप्रदः; देवतैव दैवतमादित्यस्य च देव- जातित्वाद्दैवतत्वं तदधिकृत्य स्थितं वस्त्वधिदैवतम् ।
यज्ञमधिकृत्य वर्तमानोऽधियज्ञः सर्वेषु यज्ञेष्वभिमानवान् । विष्णोर्यज्ञाभिमानित्वे श्रुतिं प्रमाणयति- यज्ञो वै विष्णुरिति । यज्ञ. भिमानित्वादेव यज्ञशब्दवाच्यत्वमिति भावः । कौऽसौ विष्णुरत आह- अहमेवेति । कृष्ण एवेत्यर्थः । विष्ण्ववतारत्वात्कृष्णस्येति भावः । तस्याहमवियज्ञः तस्य देहाश्रयस्य यज्ञम्याधियज्ञोऽभिमानी अहम् । देहं समवैति सङ्गच्छन इति देहसमवायी देहसङ्गतः, देहाधिकरणः देह अधिकरणमाधारो यस्य सः, देहभृतः प्राणिनस्तेषां वर श्रेष्ठ! यस्मात्त्वं श्रेष्ठस्तस्मात इदमुच्यते मयेति भावः । अधिदैवतमधियज्ञश्च यद्यपि प्रत्यगात्मैव, आदित्य देहोपाधिकत्वाद्विष्णुदेहोपाधिकत्वाच्च । तथापि तयोरीश्वरशरीरोपाधिकत्वेन पृथङ्निर्देश :- प्रत्यगात्मनां जीवशरीरोपाचिकत्वात् । ६२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु एवं ब्रह्माध्यात्माधिदैवाधियज्ञानामेकत्वं सिद्धं - आत्मत्वाच्चतुर्णाम् । अत आत्मज्ञानेन तद्ज्ञान- सिद्धिरिति कृत्वा ते ब्रह्म तद्विदुरध्यात्मं विदुः साधिदैवं साधियज्ञं च मां विदुरिति पूर्वोक्तं सुसङ्गतम् । अथ यज्ञस्य कर्मण अधिभूतस्य कार्यजातस्य आत्मकार्यत्वादात्मज्ञानेन तद्ज्ञान सिद्धिः मृद्ज्ञानेन मृत्कार्यघटादिज्ञानवदिति कृत्वा ते साधिभूतं मां विदुः कर्म च विदुरिति पूर्वोक्तं सुसङ्गतम् । अत्र रामानुजः — क्षेत्रज्ञसमष्टिरूपं प्रकृति विनिर्मुक्तमात्मस्वरूपं ब्रह्म; आत्मनि सम्बध्यमानं भूतसूक्ष्मतद्वासनादिकं प्रकृतिस्वभावः मनुष्यादिभावोद्भवकरो योषित्पुरुषसंसर्गजो रेतो विसर्जनं कर्म; शब्दस्पर्शादिस्साश्रयः क्षरो भावोऽधिभूतं; इन्द्रप्रजापतिकृत्स्त्रदैवतोपरि वर्तमानो विलक्षण शब्दादिभोक्ता पुरुषोऽधिदैवतं ; अधियज्ञैराराध्यतया वर्तमान इन्द्रादौ मम शरीरभूते आत्मतयाऽवस्थितोऽहमेवाधियज्ञः; . तत्र मुमुक्षुभिः प्राप्यतया ब्रह्म, स्याज्यतयाध्यात्मं, उद्वेजनीयतया परिहरणीयतया च कर्म ज्ञातव्यं; ऐश्वर्या- र्थिभिः प्राप्यतयाधिभूतमधिदैवतं च ज्ञातव्यं; महायज्ञादि नित्यनैमित्तिकानुष्ठानवेलायां त्रयाणामधिकारिणा- मधियज्ञोऽनुसन्धेय इति प्राह, अत्रोच्यते -क्षेत्रज्ञस्यैकत्वेन तावत् क्षेत्रज्ञसमष्टिर्नास्ति ‘क्षेत्रज्ञं चापि मां विद्धीति वक्ष्य- माणत्वात् । अन्तःकरण भेदात्क्षेत्रज्ञ मेदोपचारपक्षेऽपि तब मते चिदचिच्छरीरकत्वेनेश्वरस्य क्षेत्रज्ञसमष्टि- रूपत्वं न सम्भवति- न हि क्षेत्रज्ञसमष्टिरीश्वरः क्षेत्रज्ञशरीरस्स्यात् । नापि क्षेत्रज्ञसमष्टिर्ब्रह्म, ईश्वरस्त्वन्य- श्चिदचिच्छरीरक इति वाच्यं ब्रह्मण ईश्वरशरीरत्वापत्तेः । ननु ब्रह्मणः परमात्मनोऽन्यैव क्षेत्रज्ञसमष्टिरिह ब्रह्मशब्देनोच्यते गौणवृत्त्येति चेन्मैवम्- मुख्यार्थपरित्यागे कारणाभावात् । अक्षरं ब्रह्म परममिति परमं ब्रह्मेति शब्दद्वयस्य परमात्मनि योगरूढ - त्वात् । नच परममित्यस्य प्रकृतिविलक्षणमित्यर्थ इति वाच्यं तथात्वेऽपि प्रकृतिविलक्षणस्य परब्रह्मण एव ग्राह्यत्वात् । ब्रह्मणश्च क्षेत्रज्ञादन्यत्वे जडत्वापत्तेः । क्षेत्रक्षेत्रज्ञोभयातिरिक्तस्य वस्तुन एवाभावान्न क्षेत्रक्षेत्रज्ञविलक्षणब्रह्मसिद्धिः । ब्रह्मसधर्मत्वात्क्षेत्रज्ञो ब्रह्मेति वक्तव्ये तथोक्ते चाक्षरं ब्रह्म परममिति तद्विहाय क्षेत्रज्ञसमष्टिपर्यन्तार्थकल्पनस्याप्रमाणत्वात्, अयुक्तत्वाच्च । नहि परमाक्षरसमष्टिर्ब्रह्मेत्युक्तं मूल- कर्त्रा - येन क्षेत्रज्ञसमष्टिरुच्येत । नच क्षेत्रज्ञसमष्टिरूपमात्मस्वरूपमित्यपि युक्तं, आत्मन एव क्षेत्रज्ञत्वेन तस्यैव तत्समष्टिरूपत्ववर्णनस्यायुक्तत्वात् । नचात्मनां स्वरूपं क्षेत्रज्ञममष्टिरूपमिति वाच्यं, त्रीहीगा- मिवात्मनां राश्यभावात् । नच क्षेत्रज्ञपमष्टिरात्मस्वरूपं परमात्मनश्शरीरमित्यर्थ इति वाच्यं परमात्म- शरीरत्वे आत्मनः विनाशित्वापत्तेः । शीर्यत इति हि शरीरम् । नच तन्नियाम्यत्वात्तच्छरीरत्वमात्मन इति वाच्यं, अद्वितीये आत्मनि नियामकादिद्वैतायोगात् । सुषुप्तावात्मनो नियाम्यत्वादर्शनात् । व्यवहारकाले तु शरीरादितादात्म्याघ्यासप्रयुक्तत्वान्नियाग्यत्वस्य । नच यं यूयं प्रत्यगात्मेति व्यवहरथ, तमेव वयं परमात्मेति व्यवहरामः; यं तु यूयं प्रमातेति चिदाभास इति च व्यवहरथ तं वयं प्रत्यगात्मेति व्यवहरामः; चिदाभासानां पारतन्त्र्यमनेकत्वं च भवद्भिरभ्युपेतमेवेति वाच्यं चिदाभासस्यैव वस्तुतः प्रत्यगात्मत्वात् । सर्पाभासस्येव वस्तुतो रज्ज्वा- सप्तमोऽध्यायः । ६३. त्मता । सुषुप्तौ चिदाभासलयसाक्षी आत्मा कथं चिदाभासस्यात् । चिदाभासो ह्यनात्मा । आत्मा हि स्वयम् । यः प्रमातृत्वरहितः प्राज्ञः सुषुप्तिसिद्ध आत्मा स एव हि प्रबोधे स्वानुभूतमज्ञानमानन्दं च स्मरति - ‘सुखमहमस्वाप्यं, न किञ्चिदवेदिष’ मिति । कथमन्यानुभूतार्थस्यान्यस्मरणम् ? अतः प्रत्यगात्मैव स्वयं चिदाभासतादात्म्यमापद्य संसारमापद्यत इवेति न प्रत्यगात्मप्रमात्रेर्भेदः । चिदाभासस्य वास्तवं रूपं चिदेव, अन्तःकरणविशिष्टचैतन्यलक्षणप्रमातुर्वास्तवं रूपं चैतन्यमेवेति प्रकृतिविनिर्मुक्तमात्मस्वरूपं चैतन्यं प्रत्यगात्मैव । नतु चिदाभासत्वप्रमातृत्वविशिष्टचैतन्यस्य प्रकृतिविनिर्मुक्तत्वं- प्रकृतिपरिणामा- न्तःकरणविशिष्टत्वात् । M तस्मात्प्रकृतिविनिर्मुक्तमात्मस्वरूपं चैतन्यमेव तच क्षेत्रज्ञत्वात्क्षेत्रज्ञमेव; निरुपाधिकत्वादेकमेव; द्वैताभावादद्वितीयमेव । नहि प्रकृतिविनिर्मुक्ते वस्तुनि उपाधिद्वैतं वा भवितुमर्हति - सर्वस्यापि द्वैतस्य प्रकृतितत्कार्यरूपत्वात् । एवंविधं च चैतन्यं सच्चिदानन्दलक्षणं परं ब्रह्मैवेति सिद्धमक्षरं परमं ब्रह्मत्यस्य भगवत्पादोक्त एवार्थो ब्रह्म, नतु तदतिरिक्तः कश्चिज्जीवः सर्वे जीवा वा । ब्रह्मानतिरिक्तस्यैव जीवस्या - त्मनः प्रकृति विनिर्मुक्तत्वं, तदतिरिक्तस्य तु प्रकृतिसंसृष्टत्वमेवेति । तथा आत्मनि सम्बध्यमानं भूतसूक्ष्मतद्वासनादिकमित्यप्ययुक्तम् - असङ्गे आत्मनि भूत- सूक्ष्मादिसम्बन्धायोगात् । ‘असङ्गोऽह्ययं पुरुष’ इति हि श्रुतिः । नच मायया तत्सम्बन्धोपपत्तिः, तव मते भूतसूक्ष्मादेस्सत्यत्वेन मायिकत्वाभावात् । एवं सत्यया प्रकृत्या आत्मस्वरूपस्य विनिर्मुक्तिरपि न सम्भवति, नहि सत्यं निवर्तमान क्वापि दृष्टं श्रुतं वा । यदि सत्यापि प्रकृतिरीश्वरसेवया निवर्तते तर्हि कथमीश्वरस्य चिदचिद्विशिष्टत्वम् । नचेश्वरस्य प्रकृत्यनिवृत्तिरिति वाच्यं, ईश्वरस्यैव प्रकृत्यनिवृत्तौ कथं तत्सेविनां तन्निवृत्तिरुपपद्यते ? यदि प्रकृतिसङ्गो दोषस्तर्हि कथं स ईश्वरस्य हेयप्रत्यनीकस्य भवितु- मर्हति ? यदि तु गुणस्तर्हि कथं मुमुक्षोस्त्याज्यः ? न चेश्वरस्य प्रकृतिसङ्गो गुणः, जीवस्य तु दोष इति वाच्यं, जीवेश्वरयोरुभयोरपि ज्ञानैका कारत्वेन समानधर्मत्वात्तत्रैकस्मिन् प्रकृतिसङ्गो गुणोऽन्यस्मिन् दोष इति कल्पयितुमनुचितत्वादप्रमाणत्वाच्च । नच शुद्धप्रकृतिसङ्ग ईश्वरस्य गुणः, अशुद्धप्रकृतिसङ्गो जीवस्य दोष इति वाच्यं, मुक्तस्य जीवस्येश्वरसाधर्म्याङ्गीकारात् । तस्य शुद्धप्रकृतिसङ्गोऽवश्यं स्यादिति कथं मुमुक्षुभिः प्रकृतिविनिर्मुक्त मात्मस्वरूपं प्राप्यं स्यात् ? नचाशुद्धप्रकृतिविनिर्मुक्तं शुद्धप्रकृतिसंस्पृष्टमात्मस्वरूपं प्राप्यमिति विवक्षित- मिति वाच्यं तथात्वे आत्मस्वरूपस्य नित्यसिद्धत्वेनाप्राप्यत्वाच्छुद्धप्रकृतिरेव प्राप्येति कृत्वा प्राप्यतयात्र ज्ञातव्या प्रकृतिरेव, न त्वात्मस्वरूपम् । तथा चाक्षरं ब्रह्म परममित्यस्य परमं शुद्धमक्षरं प्रकृतिर्ब्रह्मेत्यर्थो वाच्यः, नतु प्रकृतिविनिर्मुक्त- मात्मस्वरूपं ब्रह्मेति । नच तथैवोच्यत इति वाच्यं, शुद्धाशुद्धप्रकृतिद्वयसाधारणस्य स्वभावशब्दस्य अशुद्ध- प्रकृतिपरत्वे प्रयोजकाभावात् । न चाक्षरं ब्रह्म परममित्यनेन शुद्धाया उक्तत्वात्स्वभावशब्देन पारिशेषक- न्यायेनाशुद्धोच्यत इति वाच्यं, ईश्वरश्शुद्धप्रकृतिविशिष्ट एवेत्युक्तौ अशुद्धप्रकृतेरीश्वरा सम्बन्धित्वप्रसक्तेः । नचेष्टापत्ति:- सर्वमपीश्वरस्य शरीरभूतमिति तवाभ्युपगमात् । ६४ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु भूतसूक्ष्मादीनां जीवप्रकृतिकार्यत्वे जीवस्यैव जगत्स्रष्टृत्वापत्तेः, ईश्वरप्रकृतिकार्यत्वे जीवस्य तत्सम्बन्धायोगात् । ईश्वरस्यैव तत्सम्बन्धापत्तेः, तन्मोक्षार्थमीश्वरस्यापीश्वरान्तरभजनप्रसक्तेः, सर्वजग- त्सृष्ट्यादिहेतोः प्रकृतेरेकत्वेन प्रकृतिद्वयकल्पनस्यायुक्तत्वात् । जीवानामनेकत्वेनाशुद्धप्रकृतीनामनेकाना- मपि कल्पनीयत्वापत्तेः । किं चेश्वरप्रकृतेः ‘दैवी ह्येषा गुणमयीति गुणमयत्वेन शुद्धत्वस्याप्यसम्भवात् । शुद्धसत्त्वात्म- कत्वं हि प्रकृतेरीश्वरसम्बन्धिन्याश्शुद्धत्वम् । कथं त्रिगुणमयप्रकृतेश्शुद्धसत्त्वात्मकत्वम् ? कथं वा शुद्ध- सत्त्वात्मिकाया ईश्वरप्रकृतेस्सकाशत्तामस पृथिव्यादिभूतोत्पत्तिः ? न हि महाभूतस्रष्टृत्वं जीवस्योचितं ‘आत्मन आकाशस्सम्भूत’ इत्यादिश्रुतिविरोधात् । ‘यतो या इमानि भूतानि जायन्त’ इत्यादिश्रुत्यन्तरसंवादेनात्मशब्दस्येह परमात्मपरत्वावधारणात् । तस्मा- . देकैव गुणमयी प्रकृतिः, ययेदं सृष्टं यया मुह्यन्ति भूतानि च ।- न चेश्वरस्यैव शुद्धेत्यशुद्धेति च प्रकृतिद्वयमस्ति तत्राशुद्धप्रकृत्या जगत्सृष्ट्यादिकं करोति; शुद्धा तु ईश्वरस्य दिव्यमङ्गलविग्रहभूतेति वाच्यं, ईश्वरविग्रहस्या प्राकृतत्ववर्णनात् । न च अप्राकृतत्वं नामाशुद्धप्रकृत्यकार्यत्वमिति वाच्यं तथा कल्पने प्रमाणाभावात् । ईश्वरस्य जीवभूतप्रकृतिरेका, भूम्या - छुपादानभूता प्रकृतिरन्येतीहैवोक्तत्वेन तृतीयप्रकृतिकल्पनस्याप्रमाणत्वात्तद्विरुद्धत्वाच्च । ‘अप्राणोऽह्य- मनाशुभ्र ’ इत्यादिना ईश्वरस्य सशरीरत्वनिषेधेन विग्रहाभावाच्च सच्चिदानन्दमयेश्वरस्वरूपं मुक्त्या सर्व- स्यापि प्राकृतत्वेन तस्यैकस्यैवाप्राकृतत्वादप्राकृतं दिव्यमङ्गलं च स्वरूपमीश्वरस्य सच्चिदानन्दमेव न त्वन्यत् । यस्तु वैकुण्ठादौ विष्ण्वादिदेहसङ्घस्स मायामय एव दृश्यत्वाज्जडत्वाच्च । तदुपासकानां च तत्सधर्म देहप्राप्तिर्भवत्येव, न तु मुक्ति: । अशरीरस्यैव मुक्तित्वात् । लिङ्गभङ्गो हि मोक्षः । तथा रेतो- विसर्जनं कर्म मुमुक्षुभिः ज्ञातव्यमिति यदुक्तं तद्विदुषां श्रवणानन्दायते । क्रिमिकीटपक्षिपश्वादिभिरपि स्वत एव ज्ञातस्य मैथुनस्य मुमुक्षुभिरपि ज्ञातव्यत्ववचनात् । ’ जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिल’ मिति भगवद्भक्तानामेव ब्रह्मज्ञानवन्मैथुनकर्मज्ञानं नेतरेषा - मिति श्रीकृष्णाशयं वर्णितवतस्तव पाण्डित्यमहो ! वस्तुतश्शेषांश एवासि ! कथमन्यथा तवेदृशं पाण्डित्यम् ? अथ वा मैथुनप्रियाणां भवतां मध्वानां चेदं वचनं युक्तमेव शिष्यस्त्रीबाहुमूलयोश्शङ्खचक्रानवत् । यच्च रेतोविसर्जनस्यैव भूतभावोद्भवकरत्वं तदप्ययुक्तम् — जरायुजाण्डजस्वेदजो द्विज्जाख्यं चतुर्विधप्राणिमध्ये जरायुजाण्डजयो रेतोजत्वेपि स्वेदजोद्भिज्जयोस्तदभावात् । तथा अत्र देहे इति प्रत्यक्षदृश्यमानार्जुनादिदेहवा चिनोऽत्रेतिशब्दस्य इन्द्रादिवाचित्वमप्ययुक्तम् — इन्द्रादीनां परोक्षत्वात् । इन्द्रादिदेह इवार्जुनादिदेहेऽप्यात्मतयाऽवस्थितत्वेनेश्वरस्य तत्परित्यागे कारणाभवात् ।
अधिदैवतशब्दस्य अतिदैवतशब्दवदेवतोपरीत्यर्थ सिद्धिरण्ययुक्ता - अधियज्ञ इत्यस्य च यज्ञा- राज्य इत्यर्थोऽप्ययुक्तः —— उपर्यर्थे आराध्यार्थे वाघिशब्दप्रयोगाभावात् ।
I ‘आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । चतुर्विधा भजन्ते मा ‘मिति भगवद्भजने चतुर्णा- मधिकारिणां सत्त्वेन त्रयाणामिति कथनं न्यूनमेवेति प्रागेवोक्तम् ॥४॥ अष्टमोऽध्यायः । अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ||५|| ६५ अन्तकाल इति । अन्तकाले च मरणकाले मामेव परमेश्वरं विष्णुं स्मरन् मुक्त्वा परित्यज्य कलेबरं शरीरं, यः प्रयाति गच्छति, स मद्भावं वैष्णवं तत्त्वं याति; नस्ति न विद्यतेऽत्रास्मिन्नर्थे संशयो याति वा नवेति ॥५॥ अन्तकाल इति । ‘प्रयाणकालेऽपि च मां ते विदुयुक्तचेतस’ इति भगवतो ते ‘प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिरित्यर्जुनेन पृष्टं तत्रोत्तरमाह - अन्तकाल इति । परमेश्वरं विष्णुं प्रत्य- गभिन्नं ब्रह्म; आत्मन एव व्यापकत्वाद्विष्णुत्वं, निरतिशयेश्वरत्वाच्च परमेश्वरत्वमिति विवेकः । स्मरन् अहं ब्रह्मास्मीत्यनुसन्दधानस्सन्मन सेत्यर्थः । केवलमात्मखरूपं चिन्तयन्निति वा । मनो निर्वृत्तिकं विधाय तूष्णीमात्मानमनुभवन्निति वा । प्रयाति गच्छति म्रियत इति यावत् । स्थूलशरीर- त्यागपूर्वकप्रयाणस्यैव मरणत्वात् । । ननु तत्त्वविदः प्राणोत्क्रमणाभावेन गमनाभावात्प्रयातीत्ययुक्तमिति चेदुच्यते – प्रयातीति लोकसिद्धार्थानुवादमात्रम् । तथा च यस्तत्त्वविच्छरीरं मुक्त्वा प्रयातीति लोकैर्मन्यते स कापि न प्रयाति, किं तु सर्वतः पूर्णस्य निर्विशेषचिन्मात्रस्य ममात्मनो भावं तत्त्वं सच्चिदानन्दरूपं यातीति । यद्वा शरीरं मुच्यतीत्यतोऽनतिरिक्तार्थमेव शरीरं मुक्त्वा प्रयातीति वाक्यम् । न च पुनरुक्तिः, वाचं वदति कार्ये करोतीत्यादिवददुष्टत्वात् । तथा च शरीरं मुक्त्वा यः प्रयातीत्यस्य यो म्रियत इत्येतावानेवार्थ इति सिद्धम् । अथ वा प्रयातीत्यस्य म्रियत इत्यर्थः । प्रयाणकाल इत्यत्रत्यप्रयाणशब्दस्य मरणार्थदर्शनात् । मरणं च प्राणत्यागः । तथा च प्रयाति प्राणांस्त्यजतीति यावत् । लिङ्गशरीरात्मकत्वात्प्राणा उपलक्षणं लिङ्गशरीरस्य । एवं प्राणत्यागो लिङ्गशरीरत्याग इति सिद्धम् । तथा च यः कलेबरं स्थूलं मुक्त्वा प्रयाति लिङ्गं परित्यजति स मद्भावं ब्रह्मसायुज्यं याति निरुपाधिकस्यैवात्मनो ब्रह्मत्वम् । न च कारण- शरीरसत्त्वात्कथं निरुपाधिकत्वमिति वाच्यं कारणशरीरस्याज्ञानस्य नाशं विना लिङ्गनाशाभावालिङ्ग- नाशेनैव कारणनाशस्य सिद्धत्वात् । नच स्थूलशरीरनाशा देव सूक्ष्मदेहसत्त्वेपि वैष्णवपदप्राप्तिर्भवतीति वाच्यं, ‘स्वधर्मनिष्ठश्शतजन्मभिः पुमान्विरिञ्चितामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवः पदं यथाऽहं विबुधाः कलात्यये ’ इति भागवते रुद्रवचनात् । कलात्ययो लिङ्गभङ्गः तस्मिन् सत्येव वैष्णवपदप्राप्तिः । किंच सति लिङ्गशरीरे तत्तादात्म्याध्यासः स्यात्ततश्व संसारित्वं स्यात्, तस्मात्तन्नाशं विना कथम संसारिब्रह्मभावप्राप्तिः ? न च सलिङ्गा एव मुक्तिक्षेत्रं वैकुण्ठलोकं गच्छन्तीति वाच्यं तस्य वैकुण्ठस्य सगुणमुक्ति- क्षेत्रत्वात्सत्यलोकत्वात् । नच सगुणमुक्तिरेवेह विवक्षितेति वाच्यं मद्भावमिति ब्रह्मसायुज्य रूपनिर्गुण- मुक्तिवर्णनात् । नच मद्भावो मत्स्वभावो मदाकार इति वाच्यं निराकारस्येश्वरस्याकाराभावात् । नच ६६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु न मद्विषय एवायं नियमः किं तर्हि १ यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ||६|| यं यमिति । यं यं वापि यं यं भावं देवताविशेषं स्मरन् चिन्तयन् त्यजति परि- त्यजत्यन्ते प्राणवियोगकाले कलेवरं शरीरं तं तमेव स्मृतं भावमेवेवैति नान्यं; कौन्तेय! सदा सर्वदा, तद्भावभावितस्तस्मिन् भावस्तद्भावः स भावितः स्मर्यमाणतया अभ्यस्तो येन स तद्भावभावितस्सन् ॥६॥ निराकारमपीश्वरमात्मानं यदाकारोपहितं स्मरति तदाकारं प्राप्नोतीति वाच्यं तत्त्वविदा निराकारस्यै- वात्मनस्सच्चिदानन्दरूपस्य स्मर्यमाणत्वात् । अतत्त्वविदो हि साकारमीश्वरं कल्पयित्वा ध्यायन्ति स्वत- स्सिद्धे रूपे सति कल्पितरूपध्यायिनामतत्त्ववित्त्वं सर्वसम्प्रतिपन्नम् । नहि रज्जुं सर्पत्वेन ध्यातवान् पुरुषः रज्जुतत्त्वविदिति वक्तुं शक्यते । वास्तवस्वरूपवेतृत्वं हि तत्त्ववित्त्वम् । वास्तवं रूपं चात्मन- सच्चिदानन्दमेव । तस्मात्साकारेश्वरध्यायिनां वैकुण्ठादिलोकगमनसम्भवेऽपि निराकारप्रत्यगभिन्नब्रह्मात्मध्यायिनां न वैकुण्ठादिलोकगमनसम्भवः– श्रुतिस्मृत्यादिविरोधात्तथा च मरणकाले आत्मस्वरूपचिन्तकास्तत्त्वविदो मद्भावं ब्रह्मत्वमेव प्रयान्ति, न तु लोकान्तरम् । मद्भावमित्यत्रत्यस्य भावशब्दस्य च रूपार्थवर्णनमयुक्तं- भावशब्दादाकारार्थालाभात्, धर्म- वांचित्वाद्भावशब्दस्य । न च निर्धर्मकस्यात्मनः कथं धर्म इति वाच्यं स्वरूपस्यैव धर्मत्वादत्र । अत एव हि वैष्णवं तत्त्वमित्युक्तं भाष्यकृद्भिः । विष्णोरात्मन इदं वैष्णवं तत्त्वं स्वरूपं सच्चिदानन्दात्मकं याति ब्रह्मैव भवतीत्यर्थः ।
ननु पूर्वमेव ब्रह्मणस्सत आत्मनः कथं पुनर्ब्रह्मभाव इति चेन्मैवम् पूर्व नाहं ब्रह्मेति विप- रीतज्ञानसत्त्वात्तस्य समूलस्य निवृत्तेरेवेह ब्रह्मभावप्राप्तित्वेन विवक्षितत्वात् ॥५॥ 1 यं यमिति । मद्विषय एव आत्मविषय एव, भावः पदार्थः, देवताविशेष इन्द्ररुद्रादिः । प्रायेणास्तिकानामिन्द्रादित्यादिदेवतोपासकत्वादिदमुक्तम् । वस्तुतस्तु यं यं भावं पदार्थमात्रमित्येवार्थः । मन्ते मृगस्मरणेन भरतस्य मृगजन्मप्राप्तिदर्शनात् । कोऽसावन्तकालोऽत आह—- प्राणवियोगकाल इति । प्राणवियोगोपलक्षितकाले इत्यर्थः । वस्तुतः कालस्यानन्तत्वादियमुक्तिः । परमार्थदशायामेव हि कालस्य नाशः । शरीरं स्थूलमित्यर्थः । एवकारार्थमाह – नान्यमिति । कौन्तेयेति सम्बुद्धिरि- त्याह- हे कौन्तेयेति । स्त्रीभ्यो ढक् । कुन्त्या अपत्यं कौन्तेयः । तस्मिन्निन्द्रादिदेवताविशेषे भाव- श्वितासक्तिः । भावितो वासितः । आहिताग्न्यादित्वाद्भावितशब्दस्य परनिपातः । भाविततद्भाव इत्यर्थः । सदा तद्भावभावितस्तन्नत एव अन्ते यं यं भावं वापि स्मरन् कलेबरं त्यजति कौन्तेय! तं तमेवैति । सदा उद्भावभावनां विना अन्ते तद्भावस्मरणं न भवतीत्यत उक्तम्- सदा तद्भावभावित इति । अष्टमोऽध्यायः । ६७ न तु स्मृतभाव प्राप्तौ सदा तद्भावभावनाकारणम् । यद्यन्ते भावनावशात्सुकृतवशाद्दुष्कृतवशाद्वा इन्द्रादि- देवतास्मरणं स्त्रीपश्वादिस्मरणं वा जायते पुंसस्तहींन्द्रादिलोकं प्राप्नोति स्त्र्यादिजन्म वा प्राप्नोतीति निष्कर्षः । न त्विन्द्रादिदेवभावापत्ति:- अनेकेन्द्रादिप्रसङ्गात् । एतेनान्ते विष्णुमूर्तिस्मरणाद्वैकुण्ट- लोकप्राप्तिरित्यपि सिद्धम् । एतेन ’ आकुश्य पुत्त्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण उपैति मुक्ति’ मित्यत्र मुक्तिशब्दो वैकुण्ठलोकपर एव, न तु ब्रह्मसायुज्यपर इति च सिद्धम् । ननु ब्रह्मसायुज्यमिति काचन मुक्तिर्नास्त्येव; वैकुण्ठलोकप्राप्तिरेव मुक्ति:; तत्र स्थिताना- मनन्तगरुडादिसुरिणां नित्यमुक्तत्वात्तल्लोकप्राप्तानामेव शुकादीनां मुक्तत्वव्यवहारात् । ब्रह्मसायुज्ये तु ब्रह्मणि जीवानां लयात्स्वनाशस्तस्या पुरुषार्थत्वमेव स्यात् ; नापि नित्यानां जीवानां लयो भवितु- मर्हति - ‘निरञ्जनः परमं साम्यमुपै’ तीति श्रुतेर्बह्मसाम्यमेव जीवानां न तु सायुज्यं; साम्यं च सच्चि - दानन्दत्वात्मकं शुद्धसत्त्वात्मकशरीरवत्त्वं सर्वज्ञत्वादिकं चेति द्वैतिनां पूर्वपक्ष: । अत्रोच्यते - मुक्तिर्नाम मोक्षः परित्याग इति यावत् । कस्येत्याकांक्षायां न स्थूलशरीरस्य– तथात्वे नीवीमोक्षस्यापि मोक्षत्वापत्तेः । किं तु प्रियाप्रियस्पर्शस्य सुखदुःखादिद्वन्द्वस्येति यावत् । स च सशरीरस्य न सम्भवति- ‘अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशत ’ इति श्रुतेः । न च स्थूलशरीर- रहितस्य सम्भवतीति वाच्यं, स्वप्ने स्थूलशरीराभावेऽपि द्वन्द्वदर्शनात् । सुषुप्तौ स्थूलसूक्ष्म शेरीरद्वयाभावे द्वन्द्वादर्शनाच्च । शरीरद्वयरहितस्यैव तत्सम्भवः । न हि मनःप्राणयोस्सतोः मनोधर्माणां कामसुखदुःखा- दीनां प्राणधर्माणां क्षुत्तृडादीनां भवेदननुभवो स्मरणं वा । प्रियाप्रिययोरनुभव वत्स्मरणमपि हि सुख- दुःखावहम् । यद्यपि वैकुण्ठलोके अप्रियानुभवो नास्ति, तथाऽप्यप्रियस्यानुभूतस्य स्मरणमस्त्येव - मनस- स्सत्त्वादिति कथं वैकुण्ठलोकस्य मुक्तिक्षेत्रत्वम् ? सगुणमुक्तिक्षेत्रमिति तु सुखातिशयसद्भावादुपचारा- दुक्तम् । एवं वैकुण्ठलोके स्थूलसूक्ष्मशरीरद्वयसत्त्वेन जीवस्याशरीरत्वाभावात्प्रियाप्रियस्पर्शमोक्षो नास्त्येव । तव मते ब्रह्मसायुज्यं तु नास्त्येव । अथ ‘अशरीरं वा वसन्त’ मिति श्रुतेर्विषयाभावादप्रामाण्यमेव प्राप्तम् । तद्धययुक्तमास्तिकानां तस्माच्छु तिप्रामाण्यादस्ति तावदशरीरत्वं जीवानां तदेवाशरीरत्वं ब्रह्म- सायुज्यमित्युच्यते- शरीरा संस्पृष्टशुद्ध चैतन्यस्यैव ब्रह्मत्वात् । 4 नच जीवस्य ब्रह्मणि लयोsपुरुषार्थ इति वाच्यं, चैतन्यरूपे जीवे अन्तःकरण विशिष्टत्वरूप- जीवत्वस्यैव नाशः, नतु जीवस्येति स्वनाशाभावात् । अन्तःकरणराहित्यस्यैव ब्रह्मसायुज्यत्वान्न जीवा - नित्यत्व दोषप्रसक्तिः । ब्रह्माभिन्नत्वाज्जीवस्य । ब्रह्म हि नित्यमिति सम्प्रतिपन्नम् । ‘निरञ्जनः परमं साम्य’ मित्यत्र च परमं निरतिशयं निरुपाधिकं वा साम्यं समत्वमेकत्वमभेदमिति यावत्, उपैतीत्यर्थात् । यत्सर्वदैकरूपं तद्धि समं, यदनेकरूपं तद्विषममिति समत्वस्यैकत्वात् । तस्मा- टाकाशस्येव घटनाशेन महाकाशसाम्यं जीवस्याप्युपाविनाशेन ब्रह्मसाम्यमिति सिद्धं ब्रह्मसायुज्यम् । नहि पूर्णस्य चैतन्यस्यावच्छेदकान्तःकरणनाशे जीवेश्वरमेदो भवितुमर्हति, येन जीवस्य ब्रह्मसायुज्यं न सिद्धयेत् । ચૂંટ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यस्मादेवमन्त्या भावना देहान्तरप्राप्तौ कारणम्- तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ७ ॥ तस्मात्सर्वेषु कालेषु मामनुस्मर यथाशास्त्रं; युध्य च युद्धं च स्वधर्मे कुरुः मयि वासुदेवे अर्पिते मनोबुद्धी यस्य तत्र स त्वं मय्यर्पितमनोबुद्धिस्सन् मामेव यथास्मृतमेष्य- स्यागमिष्यसि ; असंशयः न संशयोऽत्र विद्यते ॥ ७ ॥ द्वैतिनां तु नास्त्येव ब्रह्मसायुज्यं प्रत्यगभिन्नं ब्रह्मेति ज्ञानाभावात्तेषाम् । अत एव ते खदृष्ट्या ब्रह्मसायुज्याभावं ब्रुवन्ति - यथा नास्तिकाः खदृष्ट्या ब्रह्माभावमिति संक्षेपः ॥ ६ ॥ तस्मादिति । तस्माच्छब्दार्थमाह- यस्मादित्यादिना । अन्त्यभावना मरणकालिकं स्मरण- मित्यर्थः । यं यं वापि स्मरन्निति पूर्वोक्तानुगुण्यात् । अनुभवजन्यः स्मृतिहेतुः संस्कारो भावनेति न्यायशास्त्रम् । भावनाजन्यत्वाच्च स्मरणस्य भावनात्वेन व्यपदेश इह कृतः । यद्वा अन्तकाले स्थिता वासना स्मरणद्वारा देहप्राप्तौ कारणमिति बोध्यम् । तस्मादिति । अन्तकालोपलक्षितमत्स्मरणस्य मत्सायुज्यहेतुत्वादित्यर्थः । सर्वेषु कालेष्विति । अहोरात्रादिविभागा- पेक्षया बहुत्वम् । सर्वदापीत्यर्थः । सर्वदापि मयि भावे सत्येवान्ते मत्स्मरणं लभ्यते, नतु यदा कदापि वेति भावः । एवं मत्स्मरणमपरित्यजन्नेव शास्त्रविहितं स्वधर्म युद्धं कुर्वित्याह - मय्यर्पितमनोबुद्धि- युध्य चेति । शास्त्रमनतिक्रम्य यथाशास्त्रं शास्त्रसिद्धमित्यर्थः । शास्त्रं च दर्शितं- ‘श्रेयान् स्वधर्मो विगुणः परधर्मा’ दिति, क्षत्रियस्य युद्धं स्वधर्म इति च । · ननु आत्मभजनलक्षणज्ञाननिष्ठायां सन्न्यासिनामेवाधिकाराद्ज्ञानिनां कर्मण्यनधिकाराच्च कथ- मर्जुनायोभयं कर्तव्यतयोपदिश्यते भगवता कर्म च ज्ञानं च सर्वेषु कालेषु मामनुस्मरेति, युद्धयेति च । भिन्नपुरुषानुष्ठेयत्वं हि कर्मज्ञाननिष्ठयोर्दर्शितं प्राक् । नचैककालावच्छेदेन न दर्शितं तदिति वाच्यं सर्वेषु कालेष्वति युद्धकालेऽपि भगवद्भजनस्य प्रोक्तत्वात् । नच युद्धातिरिक्तेषु सर्वकालेवि त्युच्यत इति वाच्यं मय्यर्पितमनोबुद्धिस्सन् युद्धयेत्युक्तत्वात् युद्धकालेऽपि भगवद्भजनस्य कर्तव्यत्वापत्तेः किंच कुरु कर्मैव तस्मात्त्वमिति पूर्वमुक्त्वा कथमधुना मामनुस्मर युद्धय चेति चकारेण कर्मज्ञानसमुच्चय उच्यते भगवता वा ? तस्मात्समुच्चयो भगवदभिमत एवेत्यनेन ज्ञायते मामनुस्मर युद्धय चेति विधानेनेति चेत्, मैवम् — अर्जुनमतत्त्ववित्त्वाद्ज्ञाननिष्ठायामनधिकारिणमभिप्रेत्य ‘कुरु कर्मैव तस्मात्त्व’ मित्युक्तं प्राक् । इदानीं तु स्वोपदेशमहिम्ना तत्त्वविदग्रेसरमर्जुनं मत्वा जनकादिवत्रं लोकसंग्रहार्थं कर्म कुरु, ज्ञाननिष्ठायां च वर्तस्वेत्युच्यते भगवतेति न पूर्वापरविरोधः । नाप्यनेन कर्मज्ञानसमुच्चयसिद्धिः - मोक्षाय स्वं युध्य चेत्यनुक्तत्वात् । कर्मज्ञानसमुच्चय एव मोक्षफलको नतु केवलं ज्ञानमित्याकारकसमुच्चयवादो प्रस्माभिर्निराकृतः ।अष्टमोऽध्यायः । ६९ नच कर्मज्ञानयोरेकपुरुषानुष्ठेयत्वासम्भवश्च प्रोक्त इति वाच्यं कर्तृत्वाभिमानादिपूर्वक कर्म निष्ठाया ज्ञाननिष्ठायाश्चैकपुरुषानुष्ठेयत्वासम्भवस्यास्माभिरुक्तत्वात्, कर्तृत्वाभिमानादिरहितकर्मणाम कर्मत्वस्यैव प्रत्युतोक्तत्वात् । तस्मात्तत्त्व विदाऽर्जुनेन जनकादिना वा क्रियमाणं कर्म न कर्म, वासुदेवेन क्रियमाणं कर्मैवेति नास्ति कर्मज्ञानसमुच्चयः । एतावताऽर्जुनं प्रति कृष्णस्यायमुपदेशस्सिद्ध:- भो अर्जुन ! त्वं यद्यतत्त्ववित्तर्हि कर्मण्येव तवाधि- कार इति कुरु स्वधर्मे युद्धम् । यदि तत्त्ववित्तर्हि मत्तत्त्वस्मरणमविहायैव लोकसंग्रहार्थं युद्धं कुरु स्वधर्मे जनकादिवदिति । नचार्जुनस्यासन्न्यासिनः कथमात्मभजनमिति वाच्यं, क्षत्रियाणां सन्न्यासाश्रमस्वीकारस्यानावश्य- कत्वाज्जनकादेः सन्न्यासं विनापि ज्ञाननिष्ठत्वदर्शनाच्च । नच तत्त्वदोऽर्जुनस्य ज्ञाननिष्ठायामेवाधिकारात्कर्मण्यनधिकाराद्यद्धय चेत्युक्तिरयुक्तेति वाच्यं, फलाभिसन्ध्यहङ्काररहितस्य युद्धस्या कर्मत्वेनास्मिन्नर्जुनस्याधिकारसत्त्वात् । नच तूष्णींभाव एवाकर्मेति वाच्यं तस्यापि कर्मत्वस्य स्थापितत्वात्कर्मण्यकर्म यः पश्येदिति श्लोके ।
- नचैवं ब्राह्मणानामपि गृहस्थानामस्त्यधिकारो ज्ञाननिष्ठायामिति वाच्यं ब्राह्मणानां ज्ञाननिष्ठा घि- कारसिद्ध्यर्थमेव सन्न्यासस्य श्रुतिभिर्विहितत्वात् । नच ‘सर्वधर्मान्परित्यज्य मामेकं शरणं व्रजे ‘त्यर्जुनस्यापि सन्न्यासो विहित इति वाच्यं, सर्व - परिग्रहपरित्यागमात्रस्यैव तेन विधानात् । नच तं विनापि ज्ञाननिष्ठा सिद्धौ तस्य विधानं व्यर्थमिति वाच्यं सति राज्यादिपरिग्रहे विषयव्याकुलचित्तस्यात्मनि मनस्समाधानं दुर्लभमित्यभिप्रेत्य तद्विधानात् । नच प्रकृते परिग्रहपरित्यागं विनापि ज्ञाननिष्ठोपदिष्टेत्ययुक्तमिति वाच्यं, सत्यपि परिग्रहे जनकादिव- च्चिन्तविक्षेपाभावे परिग्रहपरित्यागस्यानावश्यकत्वात् । देहभृतांवरेत्या दिसम्बोधनैरर्जुनस्य स्वोपदेशमहिम्ना जनका दितौल्यप्राप्तिरासीदिति भगव धृदयस्य ज्ञायमानत्वात् । भो अर्जुन ! यदि त्वं जनकादिवद्दृढबोधस्तर्हि सर्वधर्मपरित्यागमकृत्वैव मामनुस्मर युद्धय च, यद्यदृढबोधस्तर्हि तावद्युद्धय, पश्चात्सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज- इत्यर्जुनं प्रति कृष्णोप- देशसिद्धेः । नचार्जुनं तत्त्वविदं मत्त्वैव मामनुस्मर युद्धय चेत्युक्तं कृष्णेनेत्युक्तं प्राणिदानीं तु अहदबोध मत्वा सर्वधर्मान्परित्यज्येत्युच्यत इत्युच्यते कथमिदं विरुद्धमिति वाच्यं, अर्जुनं निमित्तीकृत्य सर्वलोको- पकारार्थमस्य शास्त्रस्य प्रवृत्तत्वात् क्वचिदर्जुनस्य दृढबोधत्वेन क्वचिददृढबोधत्वेन च निर्देशस्सम्भवत्येव । दृढबोधानामदृढबोधानां च पुंसां शास्त्राधिकारिणां सत्त्वात् । तस्मात्तत्त्वविज्जनकादिदृष्टयोक्तमिदं मामनुम्मर युद्धय चेति । यथा भगवता नारायणेन चतु- र्मुखाय मामनुम्मरन् सृष्टिं कुरु भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचिदित्युक्तं तद्वत् । अतस्तत्त्व- विदः क्षत्रियस्यार्जुनस्य ज्ञाननिष्ठायां स्थितस्यापि युद्धे प्रवृत्तिस्सम्भवत्येव जनकादिवद्ब्रह्मादिवश्च । श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु न चैतावता कर्मज्ञाननिष्ठयोर्युगपदेकपुरुषानुष्ठेयत्वमागतमिति वाच्यं ज्ञाननिष्ठपुरुषकृतकर्मण कर्मत्वाभावात् । यथा सन्न्यासिकृतानां भिक्षाटनादिकर्मणां यथा वा वासुदेवकृतानां, दुष्टशिक्षणादि कर्मणामिति । न चाहं ब्रह्मास्मीति स्मरतः कथं कर्मसु प्रवृत्तिरिति वाच्यं, ‘प्रकृतेः क्रियमाणानि गुणैः कर्मा’ णीति पूर्वोक्तत्वेन प्रकृतिगुणैरेव कर्मणां क्रियमाणत्वान्न कर्मसु तत्त्वविदः प्रवृत्तिः । तत्त्वद्धि आत्मा आत्मा हि पूर्णोऽचलः प्रवृत्तिनिवृत्त्यविषयः । अज्ञो वा तत्त्वविदि तद्देहाद्याश्रयं कर्मारोपयति, यथ आत्मनि स्वदेहाश्रयं भोजनादिकर्म । नैतावता कर्तृत्वप्रसक्तिस्तत्त्वविदः, न ह्यज्ञजनारोपितनैल्येन गगनस्य नीलत्वं प्रसज्ज्यते । य एवंवित् स देहादिभिः कर्म कुर्वन्नप्यकर्तेव । ‘कुर्वन्नपि न लिप्यत’ इतीहैवोक्तं हि । अत एव तत्त्वविदा कृतं कर्माप्यकर्मैव- अबन्धकत्वादिति न तत्त्वविदः कर्मण्यधिकार इति । 1 ननु अन्तका लोपलक्षितात्मस्मरणस्यैव मुक्तिहेतुत्वात्तस्य च सार्वकालिकात्मभजनलभ्यत्वान्मुमुक्षवे अर्जुनाय सर्वेषु कालेषु मामनुस्मरेत्येतावदेव वक्तव्यं, न तु युध्य चेति युद्धकरणस्यान्तकालिकात्म- स्मरणाहेतुत्वादिति चेदुच्यते— नेह युद्धं कर्तव्यतयोपदिश्यते, किं तु युद्धादुपरमं माकार्षीरिति युद्धा- दुपरमस्या कर्तव्यत्वमुपदिश्यते - निवृत्तिलक्षणत्वाद्गीताशास्त्रस्य । तस्माद्युध्यस्व विगतज्वर इत्यत्राचार्यै- रेवैतद्भाषितम् । नन्वेवमपि अन्तकाले आत्मस्मरणलाभार्थं सर्वदा मामनुस्मरेत्येतावदेव वक्तव्यं, न तु युद्धा- दुपरमोडकर्तव्य इति चेत्सत्यं, आत्मस्मरणलाभार्थं युध्य चेति नोक्तं, किं तु सर्वदाप्यात्मानं स्मरतोऽपि तव युद्धादुपरमादनुपरम एव श्रेयानैहिक प्रतिष्ठा हेतुत्वादित्युच्यते- ‘शरीरयात्रापि च ते न प्रसिद्धये- दकर्मण’ इति हि प्रागेवोक्तम् । न च मुमुक्षोस्तत्त्वविदः किमैहिकप्रतिष्ठयेति वाच्यं, लोकसंग्रहार्थं मुमुक्षुणा तत्त्वविदापि प्रति- ठैव सम्पादनीया, न त्वप्रतिष्ठा; अन्यथा अल्पज्ञोऽपि तत्त्ववित्तौल्यमात्मनि सम्भाव्य विडुराहादिवदभक्ष्य- भक्षणादिकं कुर्यातेन चाघः पतेदेवं च लोकोपद्रवकारिण्येव स्यात्तत्त्वविदः प्रवृत्तिः । लोकानुग्रह एव कर्तव्यस्तत्त्वविदा वासुदेववत् । न चैवं तत्त्वविदा ब्राह्मणेन गृहस्थेन लोकसंग्रहार्थं कर्मैव कर्तव्यं, न तु सन्न्यसितव्यमिति वाच्यं, लोकसंग्रहार्थं सन्न्यासस्यैव स्वीकर्तव्यत्वात् । उन्मार्गान्निवर्त्य शास्त्रविहितमार्गे प्रवर्तनं हि लोकस्य लोकसंग्रहः । सन्न्यासस्तु नोन्मार्गः, किं तु विहितमार्ग एव- ‘ब्राह्मणो निर्वेदमायात्, यदह- रेव विरजेत्तदहरेव प्रव्रजेदित्यादिश्रुतिभ्यः । स च सन्न्यासः ज्ञानार्थमेव मुमुक्षोर्ब्राह्मणस्य विहितः इति कृत्वा जन्मान्तरीयसन्न्यासाश्रमसामयिक वेदान्तश्रवणादिबललब्धतत्त्वज्ञानोऽपि वामदेवादिवत्तत्त्ववि- द्गृहस्थः लोकसंग्रहार्थं सन्न्यासाश्रमं स्वीकृत्य वेदान्तश्रवणं गुरुसन्निधौ कुर्यादेव । यथा वा भगव- त्पादश्रीशङ्कराचार्यास्वत एव तत्त्वविदोऽपि सन्न्यस्य श्रीभगवत्पूज्यगोविन्दपादगुरुसन्निधौ वेदान्तश्रवण- मकुर्वन् तद्वदिति । किंच- अष्टमोऽध्यायः । अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥८॥ ७१ अभ्यासेति । अभ्यासयोगयुक्तेन मयि चित्तसमर्पणाविषयभूते एकस्मिन् तुल्यप्रत्य- न च क्षत्रियादीनां विनैव सन्न्यासं ज्ञाननिष्ठाप्राप्तिर्ब्राह्मणस्य तु नेति किमपराद्धं ब्रह्मणेनेति वाच्यं, अतीव जन्मान्तरार्जित पुण्यातिशयबललभ्यत्वाद्ब्राह्मणत्वस्य महापुण्यो हि ब्राह्मणः । अत एव तस्य सन्न्यासाश्रमस्वीकारयोग्यता । सन्न्यासाश्रमो हि सर्वलोकवन्द्यः- यथा ब्राह्मणस्सर्ववर्णवन्धः । तत्त्वज्ञान- मसम्पाद्य मृतस्याप्यस्य न यमदर्शनं, किं त्विन्द्रदर्शनमिति स्वर्गप्राप्तिरेव । अथ वा पुनर्ब्राह्मणजन्मप्राप्तिः, तत्त्वज्ञानसम्पादने च सन्न्यासाश्रम स्वीकारो ऽन्तरङ्गसाधनं सति परिग्रहे चित्तविक्षेपाद्वेदान्तश्रवणासिद्धे- रिति मुमुक्षोः परिग्रहपरित्याग आवश्यक एवेति कृतं ब्राह्मणेन महदेव सुकृतं न त्वपरार्द्ध - यत्सन्न्या- साश्रमस्वीकारयोग्यता ब्राह्मणस्य । यस्तु ब्राह्मणस्सन्नपि परिग्रहपरित्यागं नेच्छति वैराग्याभावात्तस्य सन्यासाश्रमस्वीकार योग्यतैव नास्ति । ’ यदहरेव विरजेत्तदहरेव प्रव्रजे ’ दिति वैराग्यस्यैव सन्न्यासं प्रति हेतुत्वम् । एवं वैराग्यहीन - त्वादिहामुत्रफलभोगकाम परवशस्य गृहस्थस्य कुतः पुनर्वेदान्तश्रवणप्रसक्तिः ? ’ अथातो ब्रह्मजिज्ञा’ से ति साधनचतुष्टय सम्पन्नस्य हि ब्रह्मविचारेऽधिकार इत्युक्तं बादरायणेन । य एवं गृहस्थश्शमदमादिसम्पत्त्यभावेऽपि कथञ्चित्कुतूहलितया : वेदान्तश्रवणे प्रवर्तते, सहि स्वयमुन्मार्गे प्रवर्तमानः लोकं चोन्मार्गे प्रवर्तयतीति न तस्याचार आस्तिकैर्गृहीतुमुचितः । न च कुतू- हलकृतमपि वेदान्तश्रवणमनर्थकमिति वाच्यं वेदपाठवत्सुकृतहेतुत्वादेतत्संस्कारेण जन्मान्तरेऽपि सन्न्या- साश्रमस्वीकारसम्भवात् । सन्न्यासस्वीकारप्रतिबन्धकपापस्य निष्कामकर्मादिना नाशे सति सन्न्यास - सम्भवात् । तस्मान्मुमुक्षोर्गृहस्थस्य ब्राह्मणस्य सन्न्यासाश्रमस्वीकारपूर्वकमेव ज्ञाननिष्ठायामधिकारः, सन्न्या- साभावे तु कर्मनिष्ठायामेव । क्षत्रियादीनां तु तत्त्वविदां विनापि सन्न्यास ज्ञाननिष्ठायां कर्मनिष्ठायां वा स्वार्थे लोकसंग्रहार्थं वाऽधिकार इति सुस्थम् ॥७॥ अथ यश्चाधिदैवतं पुरुषं चिन्तयति स तं यातीत्युच्यते - श्लोकद्वयेनाभ्यासेनेति, कवि- मिति च । हेपार्थ ! यः अभ्यासयोगयुक्तेन नान्यगामिना चेतसा परमं पुराणं कविं दिव्यं सर्वस्यानु- शासितारं धातारमणोरणीयांसमादित्यवर्णं तमसः परस्तात्स्थितमिति शेषः । अचित्यरूपं पुरुषमनुम्मरेत्, स तमनुचिन्तयन् याति; यः परमत्वादिविशेषणविशिष्टं पुरुषमनुध्यायति स तमेव पुरुषं यातीत्यर्थः । अस्य च पुरुषस्येश्वरत्वादाह - मयीति । पुरुषे इत्यर्थः । समर्पणा समर्पणं विलक्षणप्रत्ययैर्विसजातीय- ज्ञानैरनन्तरितः अव्यवहितः तुल्यप्रत्ययानां सजातीयज्ञानानामावृत्तिरभ्यास एव लक्षर्गं स्वरूपं यस्य सः विलक्षण प्रत्ययानन्तरिततुल्यप्रत्ययावृत्तिरभ्यासः । सच प्रकृते पुरुषविषय इत्यभिप्रेत्योक्तं मयीति 1
७२ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यावृत्तिलक्षणो विलक्षणप्रत्ययानन्तरितोऽभ्यासः । स चाभ्यासो योगः तेन युक्तं तत्रैव व्यापृतं योगिनःश्वेतः तेन चेतसा नान्यगामिना नान्यत्र विषयान्तरे गन्तुं शीलं अस्येति नान्यगामि तेन नान्यगामिना, परमं निरतिशयं पुरुषं दिव्यं दिवि सूर्यमण्डले भवं, यांति गच्छति, हेपार्थ ! अनुचिन्तयन् शास्त्राचार्योपदेशमनुध्यायन्नित्येतत् ॥८॥ किं विशिष्टं च पुरुषं यातीत्युच्यते- कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥९॥ कविमिति । कविं क्रान्तदर्शिनं सर्वज्ञं पुराणं चिरन्तनं अनुशासितारं सर्वस्य जगतः प्रशा- शितारं, अणोस्सूक्ष्मादप्यणीयांसं सूक्ष्मतरं, अनुस्मरेदनुचिन्तयेद्यः कश्चित् स सर्वस्य कर्मफल- जातस्य धातारं विधातारं विचित्रतया प्राणिभ्यो विभक्तारं अचिन्त्यरूपं नास्य रूपं नियतं विद्यमानमपि केनचिच्चिन्तयितुं शक्यत इति अचिन्त्यरूपः तं, आदित्यवर्ण आदित्यस्येव योगश्चित्त समाधानमभ्यासरूपो योगोऽभ्यासयोगः । तेन युक्तमभ्यासयोगयुक्तं तेन; आभ्यास– योगे व्यापृतेनेत्यर्थ इत्याह– तत्रैवेति । न अन्यगामि नान्यगामि नञर्थकनशब्देन समासः, नत्रा सह समासे तु अनन्यगामीति स्यात् । अनुचिन्तयन्ननुसृत्य ध्यायन् । किमनुसृत्येत्यत आह– शास्त्राचार्योप- देशमिति । क्रान्तदर्शिनं दूरदर्शिनं; फलितमाह —— सर्वज्ञमिति । चिरन्तनमनादिमनुशासितारं नियन्तारम् ।
सूक्ष्मा दुर्ज्ञेयादित्यर्थः । न त्वणुपरिमाणात्सूक्ष्मं परमाणुभूतमित्यर्थः । तथात्वे परमात्मनो विष्णोर्व्यापकत्वभङ्गप्रसङ्गात् । ‘अणोरणीयान् महतो महीया’ निति श्रुतिविरोधात् । न चाणोर्जीवा- त्सूक्ष्मतरमणीयांसमिति वाच्यं, जीवस्याणुत्वे सावयवत्वप्रसङ्गात्ततश्चानित्यत्वप्रसङ्गात्सर्वगतत्वासम्भवप्रस- लाच्च । निराकृत एवायं प्रागेव जीवाणुत्ववादः । ईश्वरस्य परमाणुप्रायत्वे महतो महीयानिति श्रुति - विरोधः, सर्वव्यापित्वाद्यनुपपत्तिश्चेत्यनुपदमेवोक्तम् । विचित्रतया विलक्षणत्वेन परस्परं भिन्नत्वेनेत्यर्थः । विभक्तारं विभज्य कृतवन्तम् । अयं प्राणी यस्मात्कर्मण इदं फलमनुभवत्विति व्यवस्थापूर्वकं कर्मफलानि निर्मितवन्तमित्यर्थः । अचिन्त्यरूपं चिन्त- यितुमशक्यमचिन्त्यं रूपं विग्रहो यस्य तं हिरण्यश्मश्रुत्वादिविलक्षणसंस्थान विग्रहत्वात्केन चिच्चिन्तयितुं न शक्यते रूपमस्येत्यर्थः । प्रत्यक्षदृष्टं वस्तु चिन्तयितुं शक्यते, अदृष्टमपि दृष्टसरूपम् । इदं तु हिरण्य- गर्भस्य रूपं शास्त्रैकगम्यत्वादृदृष्टविलक्षणत्वाच्च चिन्तयितुं न शक्यत इत्यभिप्रायः । 1 न तु रूपस्याभावादचिन्त्यत्वमित्याह - विद्यमानमपीति । चैतन्यप्रकाशः चैतन्यवत्सर्वमादि- त्यादिकं प्रकाशयतीति चैतन्यप्रकाशः । यथा चैतन्यं सर्वं बोधयति तथा पुरुषस्य वर्णो हिरण्मयत्वात्सर्व भासयति प्रदीपादिवदित्यर्थः । यथा आदित्यस्य वर्णस्सर्वजगदवभासकः प्रत्यक्षः तथा पुरुषस्यापीत्यर्थः । १० अष्टमोऽध्यायः । ७३: नित्य चैतन्य प्रकाशो वर्णो यस्य तमादित्यवर्णं तमसः परस्तादज्ञानलक्षणात् मोहान्धकारात् परं तं, अनुचिन्तयन् यातीति पूर्वेण सम्बन्धः ॥९॥ अज्ञानमूढहृदयस्य पुरुषध्यानासम्भवा दाह - तमसः परस्तात् स्थितमिति । न चेश्वरस्य पुरुषस्य कथं रूपसद्भाव इति वाच्यं, मायया तत्सद्भावात् । अथ वा अस्मद्देहस्थित आत्मा यथा प्रत्यगात्मेति व्यवह्नियते, तथा देवस्य सूर्यस्य मण्डले स्थ आत्मा परमात्मेति व्यवह्रियते । अतोऽस्य परमपुरुषत्वं प्रतीचस्तु पुरुषत्वमेवं सति सूर्यमण्डलान्त- स्स्थस्य पुरुषस्याधिदैवतस्य यद्वास्तवं रूपं नित्य चैतन्यात्माकं तदेवेह ध्येयत्वेन प्राप्तत्वेन चोच्यते । न तु कल्पितं हिरण्यश्मश्रुत्वा दिविशिष्टं रूपम् । न चैवमचिन्त्यरूपमिति विरुद्धयेदिति वाच्यं, यदस्य पुरुषस्य विद्यमानं पारमार्थिकं रूपं सच्चिदानन्दात्मकं तत्केनापि चिन्तयितुमशक्यमवाङ्मनसगम्यत्वादि- त्यविरोधात् । अत एवेदं तमसः परस्तात् स्थितम् । अज्ञानपारगमनं विना चैतन्यसाक्षात्कारासम्भवात् । अज्ञानमत्र समुद्रस्थानीयं तन्नाशस्तु परपारस्थानीयः । यथा अन्धकारावृतचक्षुषो घटादिरप्रत्यक्षः तथा अज्ञानावृतचेतसः पुरुषोऽप्रकाशः । अत उक्तमज्ञानात्परतः स्थितमिति । पुरुषस्य स्वरूपमाह - आदित्यवर्णमिति । यथा आदित्यस्य वर्णोऽस्ति तथा पुरुषस्य नित्यचैतन्य प्रकाशोऽस्तीत्यर्थः । यथा आदित्यस्सर्वजगदवभासकत्वेन प्रकाशात्मकवर्णशाली तथा पुरुषस्सर्वजगदवभासकत्वेन प्रकाशात्मक- चैतन्यशालीति यावत् । आदित्यस्य प्राकाशो दीप्तिः, पुरुषस्य प्रकाशस्तु चैतन्यं ज्ञानमिति विवेकः | अत एवोक्तं नित्यचैतन्य प्रकाश इति नित्यचैतन्यात्मकः प्रकाश इत्यर्थः । अस्य परमपुरुषस्य चैतन्यरूपस्य कर्मफलविधातृत्वादिकं तु माययोपपद्यते । सूक्ष्मात्सूक्ष्मतरत्वं चास्मिन्नुपपन्नतरम् । हिर- व्यश्मश्रुत्वादिविशिष्टपुरुषे तु नातीवोपपद्यते साकारस्य दुर्जेयत्वासम्भवात् । अणोरणीयानिति श्रुतिश्च चैतन्यपरैव - साकारस्य पुरुषस्य महतो महीयस्त्वासम्भवात् । न चैवमध्यात्माधिदैवतयोरेकत्वमेवेति वाच्यं, इष्टापत्तेः । एक एवं ह्यात्मा सूर्यमण्डलमध्यस्थः पुरुषोऽधिदैवतमिति, अस्मदादिदेहस्थः प्रत्य- गात्माऽध्यात्ममिति चोच्यत इत्यौपाधिक एव यध्यात्माधिदैवतयोर्भेदः । + . न च स्वान्तरस्थमात्मानं विहाय सूर्यान्तरस्थस्यात्मनश्चिन्तनं व्यर्थमिति वाच्यं न व्यर्थम् । यम्सूर्ये भक्तः तस्य सूर्यभक्तिरूपप्रतिबन्धसद्भावात्प्रत्यगात्मोपासनं न घटते । स्वात्मभक्तस्यैव हि स्वात्मो- पासनं घटते । तस्य सूर्यभक्तस्य मुमुक्षोरात्मनि प्रीतिं जनयितुं हितैषिणी श्रुतिः सूर्यबिम्बोपाधिक- पुरुषोपासनं विहितवती । यथा महिषीस्नेहप्रतिबद्धस्य भिक्षोर्महिष्युपाधिकं ब्रह्मोपदिश्य गुरुस्तं भिक्षु- मात्मनि व्युत्पन्नं चकार तद्वतिदि । एतेन मुक्तिकामानां विष्णुरुद्रादिभक्तानामपि विष्णुरुद्रादिशरी- रावच्छिन्न आत्मैवोपास्यः; न तु शरीरमिति सिद्धम् । एवं सूर्यमण्डलस्थे पुरुषे चिन्त्यमाने सति तत्स्वरूपसाक्षात्कारो जायते, ततश्च स एव पुरुष - स्सर्वगत इति स्वात्मनस्तत्पुरुषस्य चाभेदनिश्चयो जायते, ततश्च प्रत्यगभिन्नपरमात्मसाक्षात्काराद्वासायुज् प्राप्नोतीति भावः । ७४ किंच- श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव । अवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥ प्रयाणेति । प्रयागकाले मरणकाले मनसाऽचलेन चलनवर्जितेन भक्त्या युक्तः भजनं भक्तिः तया युक्तो योगबलेन चैव योगस्य बलं योगबलं समाधिजसंस्कारप्रचयजनितं चित्त- स्थैर्यलक्षणं योगबलं तेन च युक्त इत्यर्थः । पूर्व हृदयपुण्डरीके वशीकृत्य चित्तं तत ऊर्ध्व- गामिन्या नाड्या भूमिजयक्रमेण भ्रुवोर्मध्ये प्राणमावेश्य स्थापयित्वा सम्यगप्रमत्तस्सन्, स एवं विद्वान् योगी ‘कविं पुराण’ मित्यादिलक्षणं तं परं परतरं पुरुषमुपैति प्रतिपद्यते दिव्यं द्योतनात्मकम् ॥१०॥ योगमार्गानुगमनेनैव ब्रह्मविद्यामन्तरेणापि ब्रह्माप्यत इत्येवं प्राप्ते, इदमुच्यते - पुनरपि वक्ष्यमाणेनोपायेन प्रतिपिपत्सितस्य ब्रह्मणो वेदविद्वदनादिविशेषणविशेष्यस्याभिधानं करोति भगवान् - यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ ११ ॥ यदिति । यदक्षरं न क्षरतीत्यक्षरं अविनाशि वेदविदो वेदार्थज्ञाः, वंदन्ति ‘तद्वा एत- अत्रायं विवेक:- यः परमात्मानं प्रत्यग्रूपेण भजमानस्सदा मरणकाले स्मरति, यश्च सूर्य- मण्डलमध्यस्थपुरुषरूपेण स एवाहमिति भजमानोऽन्ते स्मरति तावुभावपि तत्त्वविदौ ब्रह्मभावं प्राप्नुतः । यस्तु परमात्मानं हिरण्यश्मश्रुत्वा दिविशिष्ट सूर्यबिम्बस्थपुरुषरूपेण भजमानोऽन्ते स्मरति स हिरण्यगर्भ - लोकं प्रप्नोतीति ॥ ८–९॥
’ प्रयाणेति । एवं ज्ञानिनोऽन्ते कर्तव्यं प्रदर्श्य योगिनः प्रदर्शयति – प्रयाणेत्यादिना भजनमात्मस्वरूपानुसन्धानं पूर्वमादौ ततः पश्चान्नाड्या सुषुम्नया भूमिजय आसनजयः तत इन्द्रियप्राण मनोजयाः क्रमशब्दार्थः । न केवलयोगिनः परमपुरुषसायुज्यप्राप्तिरित्याह - विद्वान् योगीति 1 दीव्यतेद्यतनार्थकत्वादाह – दिव्यं द्योतनात्मकमिति । चैतन्यरूपमित्यर्थः । यद्यपि रोगार्तस्य म्रियमाणस्य योगिनो दुर्लभोऽयं योगस्तथापि योगिनो योगाभ्यासेन नीरोगत्वान्मृत्युहेतोः कस्यचिद्रोगस्यो- त्पत्तेः प्राक्स्वयमेव मरणाय यतेत योगीति बोध्यम् । स्वाधीनमरणत्वाद्योगिनो न रोगोत्पत्तिरिति वा ॥ १० ॥ यदिति । वक्ष्यमाणेति सर्वद्वाराणीति श्लोकद्वये इति भावः । प्रतिपत्तुमिष्टं प्रतिपिपत्सितं तस्य विशेष्यस्य ब्रह्मणोऽभिधानमिति सम्बन्धः । विशेष्यस्य विशिष्टस्येत्यर्थः । अभिधानं नाम ओमि- त्येतदिति भावः । वेदविदां वदनं वचनमादिशब्दाद्यति विशनब्रह्मचर्य चरणयोर्ग्रहणम् । ‘स्थाणुरयं भारवाहः किलाभूदधीत्य वेदं न विजानाति योऽर्थ’ मिति श्रुतेः । अध्ययनविधेः फलवदर्थावबोधपर्य- न्तत्वादाह - वेदार्थज्ञा इति । ‘सर्वे वेदा यत्पदमामन’ न्तीति श्रुतेर्वेदार्थो ब्रह्म तदृज्ञा ब्रह्मविद इति अष्टमोऽध्यायः । ७५ दक्षरं गार्गि ब्राह्मणा अभिवदन्ति’ इति श्रुतेः सर्वविशेषनिवर्तकत्वेन अभिवदन्ति ‘अस्थूल- मनण्वहस्व मदीर्घ’ मित्यादिश्रुतेः । किंच विशन्ति प्रविशन्ति सम्यग्दर्शनप्राप्तौ सत्यां यद्यतयः यतनशीलाः सन्न्यासिनो वीतरागाः वीतो विगतः रागो येभ्यस्ते वीतरागाः । यच्चाक्षर- मिच्छन्तः ज्ञातुमिति वाक्यशेषः । ब्रह्मचर्यं गुरौ चरन्ति आचरन्ति तत् ते पदं तदक्षराख्यं पदं पदनीयं ते तव, संग्रहेण संग्रहः संक्षेपः तेन संक्षेपेण प्रवक्ष्ये कथयिष्यामि ॥ ११ ॥ ‘स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति, तस्मै स होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कार’ इत्युपक्रम्य ‘यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ इत्यादिना वचनेन ‘अन्यत्र यावत् । गार्गि ! तत्प्रसिद्ध मक्षरमेतत्पूर्वोक्तं ब्रह्मैवेति ब्राह्मणाः ब्रह्मवेत्तारोऽभिवदन्ति अभितो वदन्तीति श्रुत्यर्थः । सर्वेभ्यो विशेषेभ्यो निवृत्तं निर्गतं सर्वे विशेषा निवृत्ता यस्मात्तदिति वा सर्व विशेषनिवृत्तं तत्त्वेन निर्विशेषत्वेनेत्यर्थः । निर्विशेषत्वे ब्रह्मणः श्रुतिं प्रमाणयति — अस्थूलमिति । स्थौल्य सौक्ष्म्य- हस्वत्वदीर्घत्वादिरहितमित्यर्थः । प्रविशन्ति सायुज्यं प्राप्नुवन्तीत्यर्थः । कदेत्यत आह- सम्यग्दर्शन- प्राप्ताविति । ब्रह्मात्मसाक्षात्कारे सतीत्यर्थः । मोक्षाय यतनशीलत्वमिहामुत्रार्थफलभोगविरक्तानामेव सम्भवति, न त्वविरक्तानाम् । ते च विरक्तास्सन्न्यासिन एवेत्यभिप्रेत्याह – सन्न्यासिन इति । रागो दृष्टश्रुतविषयासक्तिः । वाक्यशेष इति । यदक्षरमिच्छन्त इति वाक्ये ज्ञातुमिति शेष इत्यर्थः । ब्रह्म- चर्य वेदाध्ययनादिकं गुरौ गुरुसन्निधावित्यर्थः । चरन्ति अर्थाद्ब्रह्मचारिणः; यद्वा ब्रह्मजिज्ञासवः । पदनीयं प्राप्यं ब्रह्मेति यावत् । तस्यैवा पुनरावृत्तित्वेन मुमुक्षुभिः प्राप्यत्वात् । प्रवक्ष्ये इत्युत्तमपुरुष- निर्देशादहमित्यस्याक्षेपः । कथयिष्यामीति पर इत्यादिश्लोकद्वयेनेति भावः । वेदविदो यदक्षरं वदन्ति वीतरागा यतयो यद्विशन्ति यदिच्छन्तः कुशला ब्रह्मचर्यं चरन्ति तत्पदं ते संग्रहेण प्रवक्ष्ये इत्यन्वयः ॥११॥ ननु प्रत्यग्रूपेण पुरुषरूपेण च परमात्मनो भजनमुक्तं प्रयाणकाले च तत्स्मरणात्सायुज्यलाभ- श्वोक्तः तस्मात्सर्वद्वाराणीत्याद्युत्तरग्रन्थारम्भो व्यर्थ इति शङ्कायां न व्यर्थ :- उत्तमाधिकारिणां पूर्वोक्त- विघया ब्रह्मप्रतिपत्तिसम्भवेऽपि मन्दमध्यमाधिकारिणां तदसम्भवात्तेषां गति प्रदर्शनार्थोऽयमुत्तरमन्थ इत्याह स य इत्यादिना । स य इत्यादिरुपनिषत् । अस्या अयमर्थ:– हे भगवन् मनुष्येषु मध्ये यः प्रायणान्तं मरणावधि ओंकारमभिध्यायीत स तेन ओंकारध्यानेन कतमं लोकं जयति साधयति ? प्राप्नोतीति यावत् । तस्मै एवं पृष्टवते शिष्याय स गुरुरुवाच- हे सत्यकाम ! ओंकार इति यत्तदेतत्परं ब्रह्म अपरं ब्रह्म च भवतीति शेषः । इत्युपक्रम्य आरभ्य यः पुनरेतं परं पुरुषं त्रिमात्रेण अकारोकारमकाररूपमात्रात्रयवता प्लुतखरेणेति ओमित्येकेनाक्षरेण वर्णेन अभिध्यायीत स सामभिः ब्रह्मलोकमुन्नीयते प्राप्यते । अन्यत्र धर्माद्धर्मरहितमन्यत्राधर्मादधर्मरहितम् । आमनन्ति वदन्ति तपोभिः कृच्छ्रचान्द्रायणादिभिश्चित्तशुद्धिद्वारा ७६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु धर्मादन्यत्राधर्मा’ दिति चोपक्रम्य ‘सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति, यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्’ इत्यादिभिश्च वचनैः परस्य ब्रह्मणो वाचकरूपेण प्रतिभावत्प्रतीकरूपेण च परब्रह्मप्रतिपत्तिसाधनत्वेन मन्दमध्यमबुद्धीनां विवक्षितस्योङ्कारस्योपासनं कालान्तरे मुक्तिफलमुक्तं यत्तदेवेहापि ‘कविं पुराणमनुशासितारं ’ ‘यदक्षरं वेदविदो वदन्ति’ इति चोपन्यस्तस्य च परस्य ब्रह्मणः पूर्वोक्तरूपेण प्रतिपत्त्युपाय- भूतस्योङ्कारस्य कालान्तरमुक्तिफलमुपासनं योगधारणासहितं वक्तव्यं प्रसक्तानुप्रसक्तं च यत्किञ्चिदित्येवमर्थ उत्तरो ग्रन्थ आरभ्यते- सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । सूर्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥१२॥ सर्वेति । सर्वद्वाराणि सर्वाणि च तानि द्वाराणि च सर्वद्वाराणि उपलब्धौ तानि सर्वाणि संयम्य संयमनं कृत्वा, मनो हृदि हृदयपुण्डरीके निरुध्य निरोधं कृत्वा - निष्प्रचार- मापाद्य, तत्र वशीकृतेन मनसा हृदयादूर्ध्वगामिन्या नाड्या ऊर्ध्वमारुह्य मृयधायात्मनः प्राणं आस्थितः प्रवृत्तः योगधारणां धारयितुम् ॥ १२॥ ब्रह्मज्ञानसम्भवात्तपांसि सर्वाणि च यद्वदन्तीत्युक्त- किं तत्पदमत आह श्रुतिः - ओमित्येतदिति । वाचकरूपेणेति । वाचकत्वरूपेणेत्यर्थः । प्रतीकरूपेणेति । प्रतीकमारोपालम्बनं तदूपेणे- त्यर्थः । यथा प्रतिमा विष्ण्वादिदेवतारोपालम्बनं तद्वदोंकारोऽपि परब्रह्मारोपालम्बनमित्यर्थः । ब्रह्मणो वाचकत्वात्प्रतीकत्वाच्च मन्दमध्यमबुद्धीनां ब्रह्मप्रतिपत्तौ साधनमोंकार इति तस्योपासनं च ब्रह्मलोक- प्राप्तिद्वारा क्रममुक्तिफलकमिति च श्रुत्योक्तम् । यत् तदेव इहापि गीताशास्त्रेऽपीत्यर्थः । श्रुत्यर्थविव- रणपरत्वाद्गीताशास्त्रस्येति भावः । पूर्वोक्तरूपेण श्रुत्युक्तरूपेणेत्यर्थः । वक्तव्यं भगवतेति शेषः । अयं भावः - ओमित्येतत् शब्दतोऽर्थतश्च परमपरं चेति द्विविधं ब्रह्म; तत्र शब्दतोऽपरं ब्रह्म, अर्थतस्तु परं ब्रह्मति विवेकः । शब्दस्य ब्रह्मप्रतीकत्वादपरब्रह्मत्वमर्थस्य ब्रह्मत्वात्परब्रह्मत्वम् । तत्र ओमित्येतस्य पर- ब्रह्मणो भजनं सायुज्यलाभश्च पूर्वमुक्तं तच्चोत्तमाधिकारिविषयम् । अथ ओमित्येतस्य अपरब्रह्मणो ब्रह्म- वाचकस्य त्रिमात्रस्योंकारस्य शब्दस्य भजनं ब्रह्मलोकप्राप्तिद्वारा क्रममुक्तिश्च वक्ष्यते । तच्च मन्दमध्य- माघिकारिविषयमिति । प्रसक्तानुप्रसक्तं प्रसङ्गादागतमित्यर्थः । किञ्चिदिति । ब्रह्मभुवनादयः पुनरावर्तिन इत्यादिक- मित्यर्थः । B सर्वेति । द्वाराणि साधनानि करणानीति यावत् । कुत्र तदाह - उपलब्धाविति । विष- यानुभवे इत्यर्थः । रूपशब्दादि विषयानुभवसाघनचक्षुश्श्रोत्रादिद्वाराणि नियम्येति यावत् । हृदयपुण्डरीके पुण्डरीकाकारे हृदयकोशे निष्प्रचारमापाद्य निर्वृतिकं विधाय तत्र हृदि वशीकृतेन स्थिरीकृतेनेत्यर्थः मनसा सहेति शेषः । मूर्ध्नि ब्रह्मरन्ध्रे आघाय निघाय आस्थितः धारयितुं प्रवृत्तः ॥१२॥ 1 अष्टमोऽध्यायः । ७७ तत्रैव च धारयन्- 1 ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥१३॥ ओमिति । ओमित्येकाक्षरं ब्रह्म ब्रह्मणोऽभिधानभूतमोङ्कारं व्याहरन् उच्चारयन् तदर्थ- भूतं मामीश्वरमनुस्मरन् अनुचिन्तयन् यः प्रयाति म्रियते स त्यजन् परित्यजन् देहं शरीरं ‘त्यजन् देह’ मिति प्रयाणविशेषणार्थं देहत्यागेन प्रयाणमात्मनः, न स्वरूपनाशेनेत्यर्थः । स एवं याति गच्छति परमां प्रकृष्टां गतिम् ॥ १३ ॥ किंच- अनन्यचेतास्सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ! नित्ययुक्तस्य योगिनः || १४ | अनन्येति । अनन्यचेताः नान्यविषये घेतो यस्य सोऽयमनन्यचेताः, योगी सततं सर्वदा यो मां परमेश्वरं स्मरति नित्यशः । सततमिति नैरन्तर्यमुच्यते; नित्यश इति दीर्घ- ओमिति । तत्रैव मूयैव धारयन् प्राणानिति शेषः । ब्रह्मवाचके ओंकारे ब्रह्मशब्दो लाक्ष- णिक इत्याह- ब्रह्मणोऽभिधानभूतमिति । वस्तुतो ब्रह्मणि वाच्यवाचकभावाभावादाह - अभि- धानभूतमिति । अभिधानतुल्यमित्यर्थः । ब्रह्मणो वाचकमिद स्थितमिति यावत् । तदर्थभूतमोंकार- वाच्यम् । प्रयाणविशेषणार्थमिति देहत्यागरूपं मरणं प्रपद्यत इत्यर्थः । तदेवाह - देहेति । देहत्यागे - नैवात्मनो मरणं, न तु स्वरूपनाशेन - यथा देहस्य स्वरूपनाशेन मरणं तद्वनेत्यर्थः । स एवं मृत इति शेषः । गम्यत इति गतिः प्राप्यस्थानं हिरण्यगर्भलोकमिति यावत् । स्वर्गादिलोकापेक्षया तस्य प्रकृष्टत्वं बोध्यम् । अथ वा हिरण्यगर्भलोकप्राप्तिद्वारा प्रकृष्टां गतिं मुक्ति यातीति- कालान्तरमुक्तिफलत्वादका- रोपासनस्य । न च ओंकारोपासकस्यापीश्वरस्मरणसत्त्वान्मुक्तिरेव स्यादिति वाच्यं परोक्षेश्वरस्मरणमेव तस्य, न प्रत्यगभिन्नेश्वरस्मरणमिति कृत्वा भिन्नेश्वरस्मरणस्य मुक्त्यहेतुत्वात् । मामनुस्मरन्निति निर्देशादयं योगी ओंकारं वाचकरूपेणोपास्ते, न तु प्रतीकरूपेणेति ज्ञायते । यः प्रतीकरूपेणोपास्ते ओंकारं तस्य हि ओंकार एव ब्रह्मबुद्धिः । अन्नादौ सालग्रामादौ वा ब्रह्मबुद्धिवद्विष्ण्यादिबुद्धिवचेति न तस्यास्तयों का - रातिरिक्तेश्वरस्मरणम् | सर्वद्वाराणि संयम्य मनः हृदि निरुध्य च आत्मनः प्राणं मूयघाय योगधारणामास्थित सन् ब्रह्म ओमित्येकाक्षरं व्याहरन् मामनुस्मरन् यः देहं त्यजन् प्रयाति स परमां गतिं यातीति श्लोकद्वय- स्यान्वयः | अक्षरशब्दोऽत्र वर्णवाच्येव - प्रणवाभिधायकत्वादिति ॥१३॥ अनन्येति । अन्यस्मिन् विषये चेतो यस्य सोऽन्यचेताः स न भवतीत्यनन्यचेताः ; विषया- मासक्तचित इत्यर्थः । नित्यश इत्यनेन षण्मासान् संवत्सरं वेति दीर्घकालत्वं नोच्यत इत्यन्वयः । ७८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कालत्वमुच्यते । न षण्मासं संवत्सरं वा, किं तर्हि ? यावज्जीवं नैरन्तर्येण यो मां स्मरती - त्यर्थः । तस्य योगिनः, अहं सुलभः सुखेन लभ्यः, हे पार्थ! नित्ययुक्तस्य सदा समाहित- चित्तस्य योगिनः । यत एवमत: अनन्यच्चेतास्सन् मयि सदा समाहितो भवेत् ||१४|| यत एवमिति । यस्मादेवं नित्यशो मां स्मर्तुमेदेकतानचित्तस्य योगिनस्सुलभोऽहमतस्तस्मादित्यर्थः । अनन्यचेता विषयानासक्तचित्तः । समाहितो मदेकतानचित्तः भवेन्मुमुक्षुरिति शेषः । एतच्छोको तमीश्वरस्मरणं यद्यहं ब्रह्मास्मीत्याकारकं तर्हि साक्षान्मुक्तिरेव स्मर्तुः यदि तु परो- क्षेश्वरस्मरणं तर्हि क्रममुक्तिरिति बोध्यम् । यद्वा मन्दबुद्धीनामोक्कारोपासनं कालान्तर मुक्तिफलकं सर्वद्वाराणीति श्लोकद्वयेनोक्तम् । मध्यम- बुद्धीनां तु अहं ब्रह्मास्मीत्युपासनमिदं विधीयते, यस्य मुमुक्षोर्बहुवारं वेदान्तश्रवणे कृतेऽपि अहं ब्रह्मा- स्मीति ज्ञानं न जायते प्रतिबन्धादि बाहुल्यात स सर्वदाप्यहं ब्रह्मास्मीति जपेन्मत्रवत् । तेन च सर्व- प्रतिबन्धक्षये इहैव जन्मनि मुक्तिर्भवेत्प्रतिबन्धशेषे तु कालान्तरे मुक्तिः । यस्य मुमुक्षोर्बुद्धिमान्द्या- द्वेदान्तश्रवणेपि नाधिकारस्स ओङ्कारोपासनं कुर्यादिति भावः । एवं मन्दाघिकारिणां मध्यमाधिकारिणां च ब्रह्मप्राप्त्युपायतया ओङ्कारोपासनमहं ब्रह्मास्मी- त्युपासनं च यथाप्रतिज्ञमुपदिष्टं भगवता । यत्तु रामानुजः - अभ्यासयोगयुक्तेनेत्यादिना ऐश्वर्यार्थिनामुपासनप्रकारो ऽन्त्यप्रत्ययप्रकारचोक्तः; यदक्षरमित्यादिना कैवल्यार्थिनां; अनन्यचेता इत्यनेन तु ज्ञानिनामिति, तत्तुच्छम् — ऐश्वर्यार्थिनां परमपुरुषप्राप्त्यसम्भवात् परमं पुरुषं दिव्यं यातीति स तं परं पुरुषमुपैति , दिव्यमिति च परमपुरुष - प्राप्तेरुक्तत्वात् । नच परमपुरुषप्राप्तिरिह परम पुरुषैश्वर्यप्राप्तिरेवेति वाच्यं मुख्यार्थ परित्यागस्यान्या- य्यत्वाल्लाक्षणिकार्थकल्पनस्यायुक्तत्वात् । अमीषां श्लोकानामैश्वर्यार्थिपरत्वे प्रमाणाभावात् । ऐश्वर्यार्थी भगवद्भक्तः परं पुरुषमुपैतीति मूले सति ऐश्वर्यार्थिनः परमपुरुषप्राप्त्यभावरूपमुख्यार्थबाधेन तादृशलाक्ष- णिकार्थः कल्प्येत, नतु तथा मूलमस्ति । किंच- ऐश्वर्यार्थिनः पुनरावृत्ति स्वयमेव वक्ष्यति परमपुरुषश्चायं विष्णुरेव । दिव्यं मामिति वचनादिति त्वयैवोक्तत्वात् । विष्णोरैश्वर्यप्राप्तिश्च विष्णुसारूप्यं मत्समानाकारो भवतीति स्वयैवोक्तत्वात् । इदं च सारूप्यं विष्णुलोकं गतानामेव भवितुमर्हति तत्र स्थितानामेव पुरुषाणां शङ्खचक्रचतुर्भुजादि- मत्त्व श्रवणात् । सच विष्णुलोकोऽपुनरावत्यैव तव मत इति कथमैश्वर्यार्थिनां विष्णुभक्तानां विष्णुसारूप्यं गतानां पुनरावृत्तिः ? तब मते सायुज्यस्याभावात् । सालोक्यसारूप्यसामीप्यानामेव मुक्तित्वाद्यदि सारूप्यं प्राप्तस्य पुनरावृत्तिस्तर्हि सालोक्यं सामीप्यं च प्राप्तानां पुनरावृत्तिस्स्यादित्यपुनरावृत्तिपदस्यैवाभावप्रसङ्गः । 1 मामुपेत्य तु कौन्येत्यस्य मत्सायुज्यं प्राप्तस्येत्यर्थवादे तव स्वमतभ्रंशः, परमतप्रवेशश्च । मल्लोक- मुपेत्येत्यर्थवादे विष्णुसारूप्यं प्राप्तानामैश्वर्यार्थिनां पुनरावृत्तिर्न स्यादिति व्याघातः । अत उभयतः पाशा रज्जुरियं तव । विष्णुलोकस्यापि पुनरावर्तित्वे ‘आब्रभुवनाल्लोका’ इति न सङ्गच्छते । ब्रह्म-अष्टमोऽध्यायः । ७९ लोकादुपरितनस्यापि विष्णुलोकस्य पुनरावर्तित्वात् । न चैश्वर्यार्थिनश्चतुर्मुखादिलो कान् प्राप्य पुनरा- वर्तन्त इति वाच्यं, ऐश्वर्यार्थिनामपि विष्णूपासकानां चतुर्मुखादिलोकप्राप्तेरयुक्तत्वात्परमं पुरुषं दिव्यं यातीति विष्णुलोकप्राप्तेरेव युक्तत्वात् त्वया तथैवोक्तत्वात् । तस्माद्विष्णुभक्तानामप्यैश्वर्यार्थिनां न विष्णुलोकप्राप्तिः, नापि विष्णु सारूप्यप्राप्तिः, किं तर्हि मनुष्यलोकप्राप्तिरथ वा स्वर्गलोकप्राप्तिः । ततश्च पुनरावर्तितव तेषाम् । " यदि तु वैकुण्ठैश्वर्यार्थिनस्ते तर्हि तेषां विष्णुलोकप्राप्तिरपुनरावृत्तिश्च । इदमेतेषां वैकुण्ठेश्व र्यार्थित्वं न सकामत्वरूपं मोक्षकामत्ववत् किं तर्हि निष्कामस्वरूपमेव । एवं निष्कामानां मोक्ष- कामानां विष्णुलोकप्राप्तिरपुनरावृत्तिश्वोचितैव । एत एव हि कैवल्यार्थिनः । कैवल्यं हि मोक्षः । मोक्षश्च वैकुण्ठप्राप्तिरेव तव मते । ज्ञान्यपि कैवल्यायेवेति न तयोः पृथक्करणमुचितम् । नच कैवल्यमात्मस्वरूपं तत्कैवल्यार्थिभिः प्राप्यते, ज्ञानिना तु परमात्मा प्राप्यत इति भेदोऽ- स्तीति वाच्यं यत्कैवल्यार्थिना प्राप्यते तदात्मखरूपं कैवल्यायैवेति कथमात्मन एव प्राप्तृत्वप्राप्यत्वे ! कथं वा नित्यसिद्धस्यात्मस्वरूपस्य पुरुषार्थत्वम् ? कथं वा केवलस्यात्मनः परमात्मभेदः ? कथं वा ज्ञानिनः परमात्मप्राप्तिः ? सत्यात्मपरमात्मभेदे | नच क्षीरनीरन्यायेनात्मपरमात्मनोस्संयोग इति वाच्यं निरवयवत्वादुभयोः । अवयवसंयोग- पूर्वको ह्यवयविसंयोगः । नापि क्षीरनीरयोरिवात्मपरमात्मनोज्ञनै काकारयोरस्ति कश्चिद्विशेषः, येनाय- मात्माऽयं परमात्मेति व्यवहारः स्यात् । यदि क्षीरे नीरमिव परमात्मन्यात्मा निलीय वर्तेत तर्हि जीव- स्यासौ निलयंनावस्थानपुरुषार्थ :- स्वरूपस्यैव लीनत्वात् । नच जीवः परमात्मनि प्रविश्यानन्दमनुभवतीति वाच्यं परिपूर्णेऽनवकाशे चैतन्यघने परमात्मनि जीवस्य प्रवेष्टुमवकाशस्यैवाभावात् । सावकाशत्वे तु परमात्मनोऽपूर्णत्वं चलनं च स्यात् । तदेतदखिलं श्रुतिविरुद्धं गीताशास्त्रविरुद्धं च । ‘पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते’ ‘अचलोऽयं सनातन ? इत्यादिशास्त्रात् । तस्माद्ज्ञा निकैवल्यार्थिनोर्नास्ति फलतः कश्चिदपि भेदः । ब्रह्मण एव तदुभयप्राप्यत्वात् । नच नित्याप्तस्य ब्रह्मणः कथं प्राप्यत्वमिति वाच्यं हिरण्यनिधिदृष्टान्तेन नित्याप्तमपि ब्रह्म माययाऽप्राप्तमिव भाति यस्मात्तस्माद्ज्ञानेन तत्प्राप्तिव्यपदेशः । किंच- ‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन !, मामुपेत्य तु कौन्तेय ! पुनर्जन्म न विद्यत’ इति भगवत्प्राप्तेरेवा पुनरावर्तित्वमुक्तं न त्वात्मप्राप्तेः । यदि भगवद्भिन्न आत्मा तर्हि तत्प्राप्तिः पुनरावर्ति- न्येव स्यात् । न ‘चाव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिं यं प्राप्य न निवर्तन्त’ इत्यात्मप्राप्तेरपुनरावर्तित्वं वक्ष्यत इति वाच्यं परमात्मवाचित्वादक्षरशब्दस्य- ‘एतस्य वा अक्षरस्य प्रशासने गार्गि ! सूर्याचन्द्रमसौ ८० श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तव सौलभ्येन किं स्यादित्युच्यते; शृणु तन्मम सौलभ्येन यद्भवति- मामुपेत्य पुनर्जन्म दुःखालय मशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५॥ मामिति । मामीश्वरमुपेत्य मद्भावमापद्य पुनर्जन्म पुनरुत्पत्तिं नाप्नुवन्ति । न प्राप्नु- विधृतौ तिष्ठत’ इति श्रुतेः, ‘यं प्राप्य न निवर्तन्ते तद्धाम परमं मम’ इति वाक्यशेषाच्च विष्णुधाम्न एवापुनरावर्तित्वम् । अपि च यथाशत्रुभिरपहृतं राज्यं राजा पुनर्भगवदनुग्रहादिना प्राप्नोति तथा कामक्रोधादिभि - रपहतमात्मखरूपं भगवदनुग्रहादिना जीवः पुनः प्राप्नोतीति हि तवाशयः । स न सङ्गच्छते - राज्ञः पृथग्राज्यमिव जीवात्पृथगात्मस्वरूपं यदि स्यात्तयमुपपद्येत, न स्वेतदस्ति - अपृथक्सिद्धं ह्यात्मनः सच्चि - दानन्दात्मकं स्वरूपं सच्चिदानन्दातिरिक्तस्यात्मवस्तुन एवाभावात् । अत एव हि तस्य स्वरूपमिति निर्देशः । यथा घटस्य कम्बुग्रीवत्वादिकं स्वरूपं तत्स्वरूपव्यतिरेकेण घटाभावश्च । राज्ञो राज्यं तु न स्वरूपं, किं तु अतिरिक्तमेव । तस्मान्नात्मस्वरूपस्यान्येनापहरणमपहृते तस्मिन्नात्मनाशप्रसङ्गात् । नापि पुनस्तत्प्राप्तिः - अनित्यत्वंप्रसङ्गात् । यद्धि प्राप्यते तदुपायसाध्यत्वादनित्यमेव- कार्यानित्यत्वस्य सम्प्रति- पन्नत्वात् । न च प्रकृतिसंसृष्टेनात्मना प्रकृतिवियुक्तत्वमाप्यत इति वाच्यं, असङ्गस्य प्रकृति संसृष्टत्वस्यैवा- भावात् । ‘असङ्गो ह्ययं पुरुष’ इति हि श्रुतिः, ‘नित्यस्सर्वगतस्स्थाणुरचलोयं सनातन’ इति गीता च । न हि संसृष्टस्य सर्वगतत्वं येन संसृष्टस्तद्गतत्वासम्भवात् नापि बुद्ध्यादिसंसृष्टस्य सर्वगतत्वं परि- च्छिन्नत्वात् । किं च यः प्रकृतिवियोगः परमात्मनैव दुर्लभः कथं स जीवेनाप्येत ? न च परमात्मा प्रकृति- वियुक्त एवेति वाच्यं चिदचिद्विशिष्टस्य परमात्मत्वात् । न च विशिष्टोऽपि वियुक्त एवेति वाच्यं, विशिष्टत्ववियुक्तत्ययोर्वैयधिकरण्यात् । एवं प्रकृतिविशिष्टे परमात्मनि क्षीरनीरन्यायेन ज्ञानिजीवानां निलीयावस्थानमप्ययुक्तं प्रकृतेरैक्यविरोधिन्यास्सत्त्वात् । . अपि च सगुणमुक्तिर्निर्गुणमुक्तिरिति द्विविधैव मुक्तिश्शारीरकशास्त्रसिद्धा । तत्र निर्गुणमुक्ति- ब्रह्मसायुज्यं, सगुणमुक्तिस्सत्यलोकप्राप्तिरेवंस्थिते त्वया अक्षरप्राप्तिरिति तृतीया मुक्तिः कल्प्यते, तद्धि शास्त्रविरुद्धम् । अपि च अक्षरं प्राप्ता अमी जीवाः प्रकृतिवियुक्तास्सन्तः परमात्मानमप्राप्य कथं वर्तेरन् ? पूर्णो हि परमात्मा सर्वेषामाघारः । न हि गगनमप्राप्य घटो वर्तेत । यद्यमी परमात्मन्येव स्थितास्तर्हि प्राप्त एव परमात्मेति को भेदो ज्ञानिकैवल्यार्थिनोः ? यदि तु ज्ञानिनोऽपि वैकुण्ठलोकप्राप्तिस्तर्हि ऐश्वर्यार्थिकैवल्यार्थिनोरेकत्वमिति नात्राधिकारित्रयकल्पनोचिता रामानुजीया ॥१४॥ मामिति । ’ तस्याहं सुलभः पार्थ’ इत्यत्राक्षिपति तवेति । किं फलं स्यात् ? मद्भावं
११ अष्टमोऽध्यायः । ८१ वन्ति । किं विशिष्टं पुनर्जन्म नं प्राप्नुवन्तीति तद्विशेषणमाह–दु:खालयम् । दुःखाना- माध्यात्मिकादीनां आलयमाश्रयं आलीयन्ते यस्मिन् दुःखानीति दुःखालयं जन्म न केवलं दुःखालयं, अशाश्वतं अनवस्थितस्वरूपं च नाप्नुवन्ति ईदृशं पुनर्जन्म, महात्मानो यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताः । ये पुनर्मां न प्राप्नुवन्ति ते पुनरावर्तन्ते ॥ १५ ॥ मत्सायुज्यमिति यावत् । आदिपदादा धिदैविका घिभौतिकग्रहणम् । दुःखालयमित्यस्यार्थान्तरमाह- आलयमिति । आलयं लयपर्यन्तं तस्मिन् पुनर्जन्मनि दुःखानि सन्तीत्यर्थः । दुःखान्यालय यस्मिन् तदुःखाय्यमिति समासः । अनवस्थितं नैकरूपं स्वरूपं यस्य तत् । देवमनुष्याद्यनेकाकारत्वाज्जन्मन इति भावः । एतेन ब्रह्मणोऽदुःखालयत्वं शाश्वतत्वं च सूच्यते । मोक्षाख्यां सिद्धमिति शेषः । गत- मिति वा । मामुपेत्य न प्राप्नुवन्तीत्यनेन सिद्धमर्थमाह- ये पुनरिति । पुनरावर्तन्ते पुनर्जन्म प्राप्नुवन्तीत्यर्थः । महात्मानः परमां संसिद्धिं गता अत एव मामुपेत्य अशाश्वतं दुःखालय पुनर्जन्म नाप्नुवन्ति । ननु मामुपेत्येत्यनेनैव संसिद्धिं गता इति सिद्धत्वात्तदुक्तिः पुनरुक्तिरेवेति चेन्मैवम्- संसिद्धिं गता इत्यत्र प्रतीयमानस्य सगुणमुक्तिमन्यद्वा चित्तशुद्धयादिकं गता इत्यर्थस्य व्यावृत्तये मामुपे- येत्युक्तम् । मामुपेत्येत्यस्य मां सेवित्वेत्याद्यर्थस्य प्रतीयमानस्य व्यावृत्तये संसिद्धिं गता इत्युक्तमि - त्यदोषान् । तस्मान्मम सौलभ्ये पुंसामपुनरावृत्तिस्स्यादिति भावः । अयं श्लोकः सायुज्याभाववादिनां कण्ठपाशायते : मामुपेत्येति सायुज्यश्रवणात् । न च मामि- त्यस्य मत्सालोक्यं मत्सामीप्यं मत्सारूप्यं वेत्यर्थ इति वाच्यं, मुख्यार्थपरित्यागे लाक्षणिकार्थकल्पने च कारणप्रमाणाभावात् । न च राजानमुपेत्येत्यादाविव मामुपेत्येत्यत्रापि सन्निधिप्राप्तिरेव मुख्यार्थ इति वाच्यं राजानमुपेत्येत्यादौ साक्षात्प्राप्तेर्बाघितत्वेन सन्निधिप्राप्तिकल्पना, न तु प्रकृते मुख्यार्थस्य बाघ इति कथं तत्कल्पना ? तस्मात्सन्निधिप्राप्तिर्न मुख्यार्थः । न च कान्तां प्राप्येत्यत्रेव मामुपेत्येत्यत्रापि जीवेश्वरयोस्संयोगोऽर्थ इति वाच्यं, सावयवद्रव्ययो- रवयवसंयोगद्वारा संयोगसम्भवेऽपि निरवयव योस्सयोगासम्भवात् । जीवेश्वरयोर्निरवयवत्वं च सम्प्रति- पनम् । अत एवेश्वरस्य चिद्वैशिष्टयासम्भवाच्चिदचिद्विशिष्ट ईश्वर इति वादोऽस्यात्यन्तमयुक्तः । न च लक्ष्मीवदनन्तवद्वा जीवस्सशरीरस्सशरीरमीश्वरं संश्लिष्यास्ते इति वाच्यं, औपाधिकस्य तादृशसंश्लेषस्यानित्यत्वात् । विश्लेषस्यापि सम्भवात् । मामुपेत्य न पुनरावर्तत इति वक्तुमयुक्तत्वात् । लक्ष्म्या अपि विष्णुं विहाय क्षीरसमुद्रे पुनर्जातत्वात् । सशरीराणामनन्तानां जीवानां मुक्तानां परिच्छिन्न- विष्णुशरीरसंश्लेषस्याप्यसम्भवात् । गरुडविष्वक्सेनादीनां विश्लेषेणैव सत्त्वात् । एवंविधसशरीरेश्वरस्यैव रामकृष्णादिरूपेण पुनरावृत्तौ तद्भक्तानां पुनरावृत्तेः पुनः कैमुतिकन्यायसिद्धत्वात् । तस्मादशरीर एंवेश्वरः, न तु विशिष्टः । जीवश्वाविद्यया सशरीरोऽपि विद्यया शरीरबन्धान्निर्मुक्त ईश्वरभावमशरीरत्वं मोक्षमापद्यते, न पुनरावर्तत इति स्थितम् ॥१५॥ ८२ : श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु किं पुनस्त्वत्तोऽन्यत्प्राप्ताः पुनरावर्तन्त इत्युच्यते- आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ! मामुपेत्य तु कौन्तेय! पुनर्जन्म न विद्यते ॥ १६ ॥ आ ब्रह्मेति । आबूह्मभुवनात् भवन्त्यस्मिन् भूतानीति भुवनं ब्रह्मणो भुवनं ब्रह्मभुवनं; ब्रह्मलोक इत्यर्थः । आ ब्रह्मभुवनात्सह ब्रह्मभुवनेन, लोकास्सर्वे पुनरावर्तिनः पुनरावर्तनस्वभावाः; आ ब्रह्मेति । त्वत्तोऽन्यत्कि वा पदं प्राप्ताः पुनरावर्तन्त इति प्रश्ने उच्यते - आब्रह्मेति । आ इति छेदः । अभिविध्यर्थकोऽयमाङ् । आ ब्रह्मभुवनाद्ब्रह्मभुवनमभिव्याप्य । फलितमाह — सह- ब्रह्मभुवनेनेति । सर्वेषां लोकानामुपरि वर्तमानः ब्रह्माण्डाद्वहिस्स्थः हिरण्यगर्भस्वामिकः द्विपरार्धाव - सानः सगुणमुक्तिक्षेत्रमर्चिरादिमार्गावधिः सत्यलोको ब्रह्मभुवनम् । स एतान् ब्रह्म गमय’तीति, तान् वैद्यतान् पुरुषोऽमानव एत्य ब्रह्मलोकान् गमयति, ’ ते तेषु लोकेषु पराः परादतो वसन्त’ इति च श्रुतेः । बहुवचनं तु तदवान्तरकैल। सवैकुण्ठलोकसंग्रहार्थम् । ननु ब्रह्मभुवनादित्यत्राङो मर्यादार्थकत्वमुचितं - ब्रह्मलोकस्यार्चिरादिमार्गावघेरपुनरावर्तित्वात् । ‘शुक्लकृष्णे गती घेते जगतश्शास्त्रते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुन’ रितीहैव वक्ष्य- माणत्वात् । ’ अनावृत्तिः शब्दात्’ इति शारीरकसूत्रेणापि ब्रह्मलोकस्यानावृत्तित्वस्य सिद्धान्तितत्वादिति चेन्मैवम् — यदनित्यं तत्पुनरावर्तीति, - यन्नित्यं तदपुनरावर्तीति व्याप्तिद्वयस्य सम्प्रतिपन्नत्वात् पुनराव- तिनस्स्वर्गादेरनित्यत्वदर्शनादपुनरार्तिनः परब्रह्मणः नित्यत्वदर्शनाच्च यदि सत्यलोकोऽपुनरावर्ती स्यात्तर्हि नित्यः स्यात्, न चेष्टापत्तिः ब्रह्मभिन्नस्य सर्वस्याप्यनित्यत्वात् । ’ तत्सत्यमतोऽन्यदार्त’ मिति श्रुतेः । नित्यत्वे च ‘एकमेवाद्वितीयं ब्रह्म’ इति श्रुत्युक्तब्रह्माद्वैतस्य बाधात् । अद्वितीय स्वसमानाधिकवस्तु- रहितमित्यर्थवर्णनस्याप्रमाणत्वादयुक्तत्वाच्च । न हीश्वरसमानाधिकवस्तुसद्भावशङ्का कस्यापि जायते, येन तन्निवृत्त्यर्थं श्रुतिरद्वितीयं ब्रह्मेति ब्रूयात् । एकमेवेति पदद्वयानर्थक्याच्च । किं च ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पद’- मिति स्मृतेः महाप्रलये ब्रह्मणा हिरण्यगर्भेण सह सर्वेऽपि ज्ञानिनस्सन्तः परं पदं प्रविशन्तीति साधिपस्य सलोकस्य सत्यलोकस्य नाशसम्भवात् । पूर्वोत्तरवाक्यविरोधपरिहारस्त्वेवं नेयः- तथा हि, अस्मिन्महाप्रलये ब्रह्मलोकोऽयं नश्यति ; प्रल- यावसाने पुनर्ब्रह्मलोको जायते; अतोऽस्ति ब्रह्मलोकस्य पुनर्जन्मेति पुनरावृत्तिस्वभाववानेव ब्रह्मलोकः । यद्यपि यो ब्रह्मलोको नष्टस्स एव पुनर्जात इति वक्तुं न शक्यते, तथापि अत्यन्तसादृश्यात्लेयं दीपज्वालेतिवत्सोऽयं ब्रह्मलोक इति प्रत्यभिज्ञया तथोच्यते । यद्वा अत्यन्तासतो जन्मायोगाच्छशशृङ्गादे- जन्मादर्शनाद्ब्रह्मलोकः स्वकारणे मायायां निलीय वर्तमानः पुनर्जायत इति । अथ वा स्वकारणभूत- मायाद्वारा सोऽयं ब्रह्मलोक इति निर्देश:- कारणभेदं विना कार्यभेदस्य दुर्वचत्वात् । वस्तुतस्तु नष्टस्य अष्टमोऽध्यायः । ८३ हे अर्जुन ! मामेकमुपेत्य तु कौन्तेय ! पुनर्जन्म पुनरुत्पत्तिः न विद्यते ॥ १६ ॥ ब्रह्मलोकस्य पुनरागमनं मास्तुनाम, यज्जन्मनाशवत्तत्पुनरावर्तीतीह विवक्षितम् । तथा च ब्रह्मलोकस्यापि जन्मनाशवत्त्वात्पुनरावर्तित्वमिति । अथ शुक्लयार्चिरादिकया गत्या ब्रह्मलोकं गतानां जीवानामपुनरावृत्तिस्तु ब्रह्मलोके नष्टे तंत्र स्थिता जना न पुनस्संसाराय स्वर्गभूम्यादिकमायान्ति प्रलयावसानेऽपि परं तु ब्रह्मणा सहैव मुच्यन्त इत्यभिप्रायेणोक्ता । अत एव ‘अनावृत्तिश्शब्दा ‘दिति ‘कार्यात्यये तदध्यक्षेण सहातः परमभिधाना’ दिति च सूत्रसाङ्गत्यम् । न च ब्रह्मलोकस्यैव पुनरावर्तित्वे तद्वतजनानां कुतः पुनरपुनरावर्तित्वमिति वाच्यं, विद्यावैभवा- दिति । न च लोकनाशे लोकस्थजननाशाल्लोकवल्लोकस्थजनोऽपि पुनरावर्त्यैवेति वाच्यं, नाशमात्रं न पुनरावृत्तिकारणं, किं तु जन्म हेतुर्नाशः । तथा च ब्रह्मलोकस्थजनानामुपाधिपरित्यागरूपो नाशः न पुनर्जन्महेतुः । ब्रह्मलोकस्य तु मायानिलयनरूपो नाशः पुनर्जन्म हेतुरिति न कश्चिद्दोषः । एतेन ब्रह्म- लोकं प्राप्तानां स्वर्गादिप्राप्तवदवर्जनीयनाशत्वाच्च ब्रह्मलोकस्य पुनरावर्तित्वमिति सिद्धम् । ‘यद्यपि खर्गादिलो कान्गता इव ब्रह्मलोकं गता अपि उपाधिपरित्यागरूपं नाशं प्रपद्यन्ते, तथापि उपाध्यन्तरस्वीकाररूपं जन्म न प्रपद्यन्त इति कृत्वा ‘अनावृत्तिशब्दादित्युक्तं सूत्रकृता । एतेन प्रति- पद्यमाना ‘इमं मानवमावर्ते नावर्तन्त’ इति श्रुत्या च ‘एकया यात्यनावृत्ति’ मिति गीतया च । तस्माद्ब्रह्मलोकं गतानां पुनर्जन्माभावेऽपि ब्रह्मलोकः पुनरावर्त्येव । तदिदं सर्वमभिप्रेत्याह भगवान् भाष्यकार :- सहद्ब्रह्मभुवनेनेति, पुनरावर्तनस्वभावा इति च । ब्रह्मलोकस्यापि जन्म- नाशवत्त्वात्पुनरावर्तनस्वभाववत्त्वं तस्मान्नश्वरत्वात्सर्वेऽपि लोकाः पुनरार्तिन एव । किं तदपुनरावर्ति पदमत आह— मामिति । तुशब्दो ब्रह्मलोक दिवैलक्षण्यार्थः । तेन च मामे- वेत्यवधारणं फलति । मामुपेत्य मत्सायुज्यं प्राप्य स्थितस्येति शेषः । ब्रह्मभूतस्येत्यर्थः । पुनर्जन्म न विद्यते । ननु ब्रह्मलोकं प्राप्तानामपि पुनर्जन्म न विद्यत एवेति कृत्वा मामेकमुपेत्येति कथमुक्तमत आह - पुनरावर्तिन इति । जन्मनाशावावृत्तिशब्दार्थः । मद्गतानां न जन्मनाशरूपपुनरावृत्तिरित्यर्थः । यद्वा ब्रह्मलोकं गतानां जीवानां तत्र दिव्यशरीरपरिग्रहरूपं जन्मास्तीति विद्यत एव पुनर्जन्म, तत्परित्यागप्रयुक्तो नाशश्च । परब्रह्मगतानां तु न शरीरसम्बन्धो नापि तन्नाश इति भगवन्तमात्मानं गतस्यैव न पुनर्जन्म | न च कैवल्यं गतस्यापि शरीरत्यागनाशोऽतीते वाच्यं शरीरं त्यक्तवत एव भगवत्प्राप्तत्वान्न पुनश्शरीरत्याग इति । तस्मान्निर्गुणं ब्रह्म गतवत एवाऽपुनरः वृत्तिः । न च ‘अनावृत्तिदशब्दा दिति सूत्रविरोधः, संगुणमुत्ति क्षेत्रं गतस्याप्यपुनरावृत्तिदर्शनादिति वाच्यं, सगुणमुक्ति गतस्य तात्कालिकशरीरपरित्यागानन्तरं पुनश्शरीरपरिग्रहाभोव इत्यभिप्रायेण तत्सूत्रप्रवृत्तेरिति । ननु भगवन्तं गतानां पुनर्जन्माभावे को हेतुरिति चेदुक्त एवं उपाध्यभावादिति । एतेन ब्रह्मलोकं गतानामपि स्वर्गादिलोकं गतानामिवोपाघिसद्भावात्पुनर्जन्मा त्वमस्तीति सूचितम् । ८४ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु T नैतावता ब्रह्मलोकं गतानां पुनर्जन्मसद्भावशङ्कयः- तत्र सम्यग्दर्शनेन तेषामज्ञानस्य समूलस्य नष्टत्वात् । अत एव ‘इह चेदवेदीदथ सत्यमस्ति न चेदिहा वेदी महती विनंष्टि:’ इति श्रुतिः ब्रह्मज्ञान मनुष्यलोकएव सम्पादनीयं नतु स्वर्गादिलोकेषु तेषां मोहातिशयजनकत्वात्, यद्यपि ब्रह्मलोके सुसम्पाद तथापि तल्लोकप्राप्तिर्दुस्सम्पादेत्यवोचत् । अथ वा पुनरावृत्तिवाचिना पुनर्जन्मशब्देन तद्धेतुभूतस्थानत्रंशो लक्ष्यते; न हि पत्तनं गतस्य तत्स्थानभ्रंशं विना ग्रामं प्रति पुनरावृत्तिस्सम्भवति । स्थानभ्रंशश्च स्थान- त्यागः । एवं स्वर्गादिमिव ब्रह्मलोकं गतस्यापि स्थानभ्रंशोऽस्ति - ब्रह्मलोकत्यागपूर्वकत्वात्परमपदप्रवेशस्य । ब्रह्म प्राप्तानां तु न स्थानभ्रंशः । अतएव सर्वे लोकाः पुनरावर्तिनः, ब्रह्मकमेवापुनरावर्ति । अनावृत्ति- श्शब्दादिति सूत्रं तु ब्रह्मलोकं प्राप्तः पुनरसंसारमण्डलं प्रति नावर्तत इत्यभिप्रायेणोक्तं बादरायणेनेति बोध्यम् । • तस्मात् ये स्वर्गादिलोकान् गतास्ते पुनस्संसारं प्रतिपद्यन्त इति हेतोः पुनरावर्तिन इत्युच्यन्ते । ये ब्रह्मलोकं गतास्ते स्वाश्रयलोकस्य पुनरावर्तित्वात, स्वेषामुपाधिमत्त्वात्स्वोपाधिनाशस्या वर्जनीयत्वाद्वा पुनरावर्तिन इत्युच्यन्ते । यस्तु परं ब्रह्म प्राप्तस्स यया कयापि विधया पुनरावर्तीति वक्तुं न शक्यत इति कृत्वा ये पुनम न प्राप्नुवन्ति ते पुनरावर्तन्ते, मामेकमुपेत्य तु पुनरावृत्तिर्न विद्यत इति भाषितमाचार्यैः अर्चरादिकया गत्या ब्रह्मलोकं प्राप्तो न पुनरावर्तत इति तु पुनस्सँसारं न प्रतिपद्यत इत्यभिप्रायगर्भ इति न कोऽपि व्याघातः । . अनित्यत्वात्स्वर्गादिलो कवद्ब्रह्मलोकः पुनरावर्ती, ब्रह्मलोकं गतानां ब्रह्मकृतमहावाक्योपदेशजन्य- ब्रह्मात्मैक्यज्ञानवत्तया ब्रह्मभूतत्वान्न पुनरावृत्तिरिह लोकेऽपरोक्षीकृतात्मतत्त्वशुकवामदेवादिवदिति निष्कर्षः । तस्मात्- ‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन !’ इति, ‘तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना:’ इति, ‘एकया यास्यनावृत्ति’ मिति, ‘तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तत’ इति च सर्व- वाक्यानि निर्विरोधानीति संक्षेपः । • यत्तु रामानुजः – मां सत्यसङ्कल्पं सर्वज्ञमुपेत्येति, तदसत् — जीवेश्वरभेदकमायोपाधिसत्त्वे जीवेश्वरसायुज्यायोगात् मायाऽभावे सङ्कल्पाययोगांत् । " नच विद्यया जीवोपाधेरविद्याया नाशेऽपीश्वरोपाधेर्मायाया अनाशादस्त्येवोपाधिरीश्वरस्य, सोपा- चिकेऽपीश्वरे निरुपाधिकस्य जीवस्य प्रवेशस्सम्भवति लवणोदके शुद्धोदकस्येव, उभयोरप्युपाधिसत्त्व एव प्रवेशासम्भव इति वाच्यं, जीवस्यैव स्वविद्यया स्वाविद्यां नाशयितुं शक्तत्वे किमीश्वरस्य स्वविद्यया स्वमायां नाशयितुं नासीच्छक्ति: । मायाया अनाश्यत्वे तु सोपाधिकादीश्वरान्निरुपाधिको जीव एवाधिकं निरुपाधिकत्वेन जीवस्य ब्रह्मत्वादिति कथं जीवस्येश्वरप्राप्तिः ? मायोपाधिकमेव ब्रह्मेत्युक्तौ तु जीव एव सर्वाधिकस्स्यात, सोपाधिकाद्धटाकाशा निरुपाधिको हि महक शोऽधिक, उपाधिना हचुपहितः परिच्छिद्यते । अन्यथा उपाधेरुपाधित्वस्यैवाभावात् । अष्टमोऽध्यायः । ८५. नच मायायास्सर्वव्यापित्वात्तदुपाधिकेश्वरस्यापि व्यापित्वमेव नतु परिच्छिन्नत्वमिति वाच्यं, निरुपाधिकेषु जीवेषु मायाव्याप्तेरभावेन मायायात्सर्वव्यापित्वाभावात् । एवमुपाधिपरिच्छिन्ने ईश्वरे निरुपाधिकस्य जीवस्य प्रवेशोऽपि न सम्भवति उपाधेस्तत्प्रवेश- प्रतिबन्धकत्वात् । नहि घटाकाशे महाकाशः प्रविशेत् । नच जीवस्याणुत्वात्प्रवेश उचित इति वाच्यं, जीवस्याणुत्वे कृत्स्नशरीरव्या पिवेदनोपलम्भाभाव- प्रसङ्गात् परिमाणे द्रव्यस्य घटादेरनित्यत्वदर्शनेन जीवस्याप्यनित्यत्वप्रसङ्गात् । मायाया व्यवहित- मीश्वरमणुरपि जीवः प्रवेष्टुं न शक्नुयाच्च । " नच मायायामेव प्रविशेदिति वाच्यं प्रलयेऽपि मायाप्रवेशसत्त्वेन ज्ञानयोगाद्यानर्थक्यप्रसङ्गात्, सुषुप्तिवन्मुक्तावपि जीवस्याज्ञानाभिभूतत्वप्रसङ्गाच्च । माया ज्ञानम् । एवं मायां प्रविष्टस्य पुनरसंसारं प्रत्यावृत्तिप्रसङ्गाच्च । मायां गतो हि प्रलये प्रपञ्चदशायां पुनरावर्तते । ततश्च ‘मामुपेत्य तु कौन्तेय ! पुनर्जन्म न विद्यत’ इति वचो व्याहन्येत । 1 नच मायां भिवा तदन्तर्गतमीश्वरचैतन्यं प्रविशेज्जीव इति वाच्यं, मायाया अनवकाशत्वादभे- द्यत्वाच्च । भेद्यत्वे कथमीश्वर एनां न भिन्द्यात् ? मायाया बहिरीश्वरस्य सत्त्वे सर्वव्यापित्वभङ्गप्रसङ्गात् । ‘अन्तर्बहिश्च तत्सर्व व्याप्य नारायणस्स्थित’ इति श्रुतेः । मायाया अन्तरपीश्वरचैतन्यस्य व्यापित्वे निरवकाशत्वेन जीवप्रवेशायोगात् । सावकाशत्वे तु व्यापित्वायोगात् । चैतन्याहू हिरेव मायायास्सत्त्वे मायायामेव कारणभूतायां कार्यप्रपञ्चसत्त्वेन चैतन्ये प्रपञ्चसत्त्वायोगात् । प्रपञ्चस्य चेश्वरे सत्त्वश्रवणात् । ‘पादोऽस्य विश्वा भूतानि’ इति श्रुतेः । . नचाद्वैतमतेऽपि चैतन्ये निरवकाशे कथं प्रपञ्चसत्त्वमिति वाच्यं, मायया तदुपपत्तेः । नच मायायाः कथं सत्त्वमिति वाच्यं, मायात्वादेव । नातिशङ्कनीया हि सा माया । अतिशङ्कायां माया- स्वरूपस्यैवासिद्धेः । तस्मान्मामित्यस्य प्रत्यगभिर्न्न ब्रह्मेत्येवार्थः । नन्वेवं सर्वत्र मामित्येव किमिति वचनं, त्वामिति कुतो न ब्रूयात् ? त्वच्छब्दार्थस्यापि प्रत्य- गभिन्नब्रह्मत्वादिति चेन्मैवम् – वक्तुर्ब्रह्मात्मसाक्षात्कारेण स्वात्मनि ब्रह्मत्वनिश्चयान्मामित्युक्तिः । श्रोतुश्च तदभावे स्वात्मनि जीवत्वनिश्चयात्त्वमित्यनुक्तिरिति । न च वक्तुः कृष्णस्य परमात्मत्वेन मामित्युक्तिरिति वाच्यं, स्कान्दपुराणे माघमाहात्म्ये केन चिद्विप्रेण भार्यां प्रति तत्त्वोपदेशसमये- ‘मयि सर्वाणि भूतानि तेषु चाहमवस्थितः । मत्तः परतरं नैव विद्यतेऽहमतः पर’ मित्युक्तम् । कोऽत्र मच्छब्दार्थः ? न च जीव एवेति वाच्यं, जीवस्य सर्वभूताधा- रत्वसर्वभूतान्तरात्मत्वसर्वपरतरत्वनिरतिशयत्वानामीश्वरधर्माणामसिद्धेः । न ह्येकस्मिन् भूते मनुष्यादि- देहे वर्तमानस्य जीवस्याणोस्सर्वभूताश्रयत्व सर्वान्तरत्वे सम्भवतः । जीवशदधिकस्येश्वरस्य सत्वेन जीवस्य सर्वाधिकत्वनिरतिशयत्वे वा न सम्भवतः । तस्मान्मच्छन्दोऽत्र परमात्मैव 1 न हि वक्ता विप्रमात्रः परमात्मा भवितुमर्हति वासुदेववत् येन त्वदुक्तरीत्या मच्छन्दार्थः परमात्मेति वक्तुं शक्येत । तस्मा- कृष्णवत्सर्वोऽपि तत्त्ववित्परमात्मैव । परमात्मन एवात्मत्वात्तत्त्वविदश्वात्मत्वात् । अतो नात्र गीताशास्त्रे ८६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ब्रह्मलोकसहिताः लोकाः कस्मात् पुनरावर्तिनः ? कालपरिच्छिन्नत्वात् । कथम् ? - सहस्रयुगपर्यन्तमहर्य ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ||१७||
सहस्रेति । सहस्रयुगपर्यन्तं सहस्रं युगानि पर्यन्तः पर्यवसानं यस्याह्नस्तदहः सहस्र- युगपर्यन्तं ब्रह्मणः प्रजापतेः विराजो विदुः । रात्रिमपि युगसहस्रान्तां अहः परिमाणमेव । के विदुरित्याह- अहोरात्रविदः कालसङ्ख्याविदो जना इत्यर्थः । यतः एवं कालपरिच्छिन्ना- स्ते, अतः पुनरावर्तिनो लोकाः ॥ १७ ॥ श्रीकृष्णोक्तस्य मच्छब्दस्य क्वापि जीवभिन्नश्वरपरत्वमर्थ इति भ्रमितव्यं, प्रत्युत प्रत्यगभिन्नं ब्रह्मैवार्थ इति ज्ञातव्यमित्यलम् ॥१६॥ 2 सहस्रेति । कस्माल्लोकाः पुनरावर्तिन इति प्रश्नः । कालपरिच्छिन्नत्वादित्युत्तरम् । कथं कालपरिच्छिन्ना इति पुनः प्रश्नः । सहस्रंयुगेत्यादिकमुत्तरमिति विवेकः । यद्यस्मात्ते प्रसिद्धा अहोरात्त्रविदो जनाः, ब्रह्मणो हिरण्यगर्भस्याहस्सहस्रयुगपर्यन्तं रात्रिं युग- सहस्रान्तां च विदुः, तस्मादाब्रह्मभुवनाल्लोकाः पुनरावर्तिनः । · युगशब्दोऽत्र चतुर्युगसमाहारात्मक महायुगपर:- ‘चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते’ इति स्मृत्यन्तरसंवादात् । यद्यपि ब्रह्मणो दिनान्ते स्वर्गादिलोकान्तराणामेव नाशो न तु ब्रह्मलोकस्य; तथापि एवं विधब्रह्मदिनानां षष्टयुत्तरत्रिशते ब्रह्मणस्संवत्सरो भवति । तादृशसंवत्सराणामर्धशते परार्ध ब्रह्मणो • भवति । द्विपरार्घावसानं ब्रह्मणः परमासुः । द्विपरार्घावसाने ब्रह्मलोकस्यापि नाशः । अतः कालपरि- च्छिन्न एव स्वर्गादिलोकवद्ब्रह्मलोकोऽपि । यस्यायुः कालः क्षपयति स कालपरिच्छिन्न इत्युच्यते । एवंविधकालपरिच्छेद र हितस्त्वेक एवेश्वर आत्मा जन्मनाशरहितत्वेन नित्यत्वादात्मनः । स चात्मा नित्यमशरीर एव शरीरित्वे शरीराधीनजन्मनाशवत्त्वप्रसङ्गात् । • न च ज्ञानात्प्राक्शरीर एवात्मेति वाच्यं तदापि सशरीरत्वस्य मायिकत्वात् । कारस्यात्मनः सदैकरूपस्य कदाचित्सशरीरत्वं कदा चिदशरीरत्वं च भवितुमर्हति । न हि निवि- एतेन संशरीरा विष्णुरुद्रगणपति कुमारादयस्तत्तद्वादिभिरीश्वरत्वेनाभ्युपगताः सर्वेऽपि शरीरिणो देवाः कालपरिच्छिन्ना नश्वरा जीवा एवेति सिद्धम् । अशरीरस्यैकस्यैवात्मन ईश्वरत्वात् । यदि तु विष्ण्वादिशब्दैस्तत्तच्छरीरान्तरस्सर्वव्यापी आत्मा विवक्षितस्तर्हि स ईश्वर एवेत्यदोषः । तस्मात् ब्रह्म सत्यं जगन्मिथ्येति स्थितम् । ब्रह्मभिन्नानां सर्वेषां लोकानां लोकस्थानां लोक- पालानां च कालावच्छिन्नत्वेन नश्वरत्वाद्ब्रह्मण एकस्यैवाकालावच्छिन्नत्वेन नित्यत्वान्नश्वरत्वस्यैव त्रिकालबाध्यत्वरूपस्य मिथ्यात्वलक्षणत्वात्त्रिका लाबाध्यत्वरूपनित्यत्वस्यैव सत्यत्वलक्षणत्वाच्च । अत एवं ये नित्यमात्मानं प्रपद्यन्ते ते न पुनर्जन्म प्रतिपद्यन्ते; ये स्वनित्यान् ब्रह्मलोकादीन् प्राप्नुवन्ति ते पुनर्जन्म प्रतिपद्यन्त इति सिद्धम् ॥१७॥ अष्टमोऽध्यायः । प्रजापतेरहनि यद्भवति रात्रौ च तत् उच्यते- अव्यक्ताव्यक्तयस्सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥ ૮૭ अव्यक्तादिति । अव्यक्तादव्यक्तं प्रजापतेः खापावस्था तस्मादव्यक्ताव्यक्तयः व्यज्यन्त इति व्यक्तयः स्थावरजङ्गमलक्षणास्सर्वाः प्रजाः प्रभवन्ति अभिव्यज्यन्ते, अब आगम अह- रागम:, तस्मिन्नहरागमे काले ब्रह्मणः प्रबोधकाले । तथा राज्यागमे ब्रह्मणः स्वापकाले ‘प्रलीयन्ते सर्वाः व्यक्तयः तत्रैव पूर्वोक्तेऽव्यक्तसंज्ञके ॥ १८ ॥ अव्यक्तादिति । श्लोकस्यार्थं संक्षेपत आह- प्रजापतेरिति । यज्जगदित्यर्थः । स्वपतो निद्राणस्य, स्वापावस्था निद्रावस्था । अज्ञानमिति यावत् । समष्टिरूपमिति भावः । व्यष्टिरूपमज्ञान तु अस्मन्निद्रारूपम् । इदं च समष्टयज्ञानं नाव्याकृतं तद्धीश्वरोपाधिः ।
अत्रेदं बोध्यम् — यत्रैकमेव लिङ्ग निलीयते तद्व्यष्टयज्ञानं प्राज्ञस्योपाधिः । यत्र सर्वाणि लिङ्गानि निलीयन्ते महाभूतानि तु न लीयन्ते तत्समष्टयज्ञानं हैरण्यगर्भस्वापाख्यं प्राज्ञसमष्ट्युपाधिः । प्राज्ञभेदप्रयोजकाभावात्प्राज्ञस्योपाधिरिति वा । यत्र सर्वाणि लिङ्गानि पञ्चभूतैस्समं निलीयन्ते तदव्या- कृतमीश्वरोपाधिः । इदं चाव्याकृतं महाप्रलये वर्तते तदानीमेवं मूर्तीमूर्तसर्वदृश्यलयात् । मोक्षे त्वव्याकृतस्यापि नाश इति । एवं सति अव्यक्तशब्दो यद्यप्यव्याकृतपरस्तथापि नेहाव्यक्तशब्देनाव्याकृतं गृहीतमुचितमहरागमे राज्यागमे इति लिङ्गात् । प्रजापतेर्हिरण्यगर्भस्य अहोरात्रिसद्भावः । यत्र प्रजापतिर्जागर्ति तदहः, यत्र ‘स्वपिति सा रात्रिरिति न हीश्वरस्य जाग्रदाद्यवस्थास्सन्तीति । नन्वेवमव्याकृतोपाधिकस्यैवेश्वरत्वे तस्य महाप्रलय एव सत्त्वेन कालत्रयव्यापकत्वमीश्वरस्य न स्यादिति चेन्मैवम् — यदेव चैतन्यमव्याकृतेनोपहितं तदेव प्रपञ्चमूर्तीमूर्तभ्यामुपहितं तदेव चेश्वर इति नेश्वरस्य कालत्रयाव्यापकत्वं तदुपाध्यव्याकृतमपि मूर्तीमूर्तात्मना परिणतं सदवतिष्ठत इति वा नाव्या- कृतस्येदानीमभावः । यद्वा मृदि घटादिवदव्याकृतोपहिते ईश्वरे मूर्तीमूर्तजगदिदं कल्पितमिति कृत्वा घटादौ सत्यपि यथा मृदस्ति तथा जगति सत्यपि अव्याकृतमस्त्येवेति न कश्चिद्दोषः । नचाव्याकृतमपि न कालत्रयव्यापकं मुक्तावसत्त्वादिति वाच्यं, मुक्तौ कालस्यैवाभावात् । जगतः प्राकू, जगतः पश्चात्, जगतः स्थितौ च कालत्रयव्यवहारात् । अव्याकृतस्य च तत्र त्रयेपि सत्त्वादिति । अत्राव्यक्तशब्दः कारणवाची कार्यस्याव्यक्तं रूपं कारणात्मकमिति श्रीधरः । कार्य हि सृष्टेः प्रागनभिव्यक्तं सत्कारणात्मना वर्तत इति तस्याशयः । अस्मिन्पक्षे व्यक्तीनां भौतिकीनां कारणमव्यत्त भूतजातमेवेह ग्राह्यं ब्रह्मदिनप्रलये भूतजातस्य सत्त्वात् । व्यक्तस्य तु भूतजातस्याव्यक्तमव्याकतं कारणं तत्तु ब्रह्मप्रलय इति बोध्यम् । ८८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाग्योपेतासु अकृताभ्यागमकृतविप्रणाशदोषपरिहारार्थं विधिनिषेधबन्धमोक्षशास्त्रप्रवृत्तिसाफल्य- प्रदर्शनार्थमविद्यादि क्लेशमूलकर्माशयवशाच्च अवश: भूतग्रामो भूत्वाभूत्वा प्रलीयतेत्यतस्संसारे वैराग्यप्रदर्शनार्थं च इदमाह - भूतग्रामस्स एवायं भूत्वा भूत्वा प्रलीयते । राज्यागमेऽवशः पार्थ! प्रभवत्यहरागमे ॥ १९ ॥ भूतग्राम इति । भूतग्रामः भूतसमुदाय: स्थावरजङ्गमलक्षणो यः पूर्वस्मिन् कल्पे आसीत्स एवायं नान्यः । भूत्वाभूत्वा अहरागमे, प्रलीयते पुनः पुनः राज्यागमे । अह्नः क्षये : अवश: अस्वतन्त्र एव, हे पार्थ! प्रभवति जायते अवश एवाहरागमे ॥ १९ ॥ नचोत्पत्ति - ननु अव्यक्ताव्यक्तयः प्रभवन्तीत्युक्तं किमिमा व्यक्तयः प्रभवात्पूर्वं सन्ति ? उत न ? आधे- उत्पत्तिवैयर्थ्यम् । अन्त्ये- असत्कार्यवादापत्तिरिति चेन्मैवम् आद्यपक्षस्यैव परिग्रहात् । वैयर्थ्य, सूक्ष्मावस्थावस्थितानां व्यक्तीनां स्थूलावस्थाप्राप्तेरेवोत्पत्तित्वात् । न ये सूक्ष्मावस्थावस्थिता व्यक्तयस्सर्वा हिरण्यगर्भोपाघावज्ञाने निलीय वर्तन्ते, प्रपञ्चे तु स्थूलावस्थावत्त्वेन तत आगच्छन्तीत्युक्तं, तत्र व्यक्तीनां सूक्ष्मावस्था किं प्राथमिकी ? -उत स्थूलावस्थेति चेन्मैवम् - अनादित्वात् ॥ १८॥ भूतेति । ननु अव्यक्तात्प्रभूता व्यक्तयः पुनरव्यक्तं प्रविष्टाः प्रलये । प्रलयावसाने तु पुनरन्या एव व्यक्तयः प्रभवन्ति । ततश्च पूर्वकरूपस्था व्यक्तयः स्वकृतं कर्म साकल्येनानुपभुज्यैव प्रकृतौ लीना इति कृतहानदोष एकः । प्रलयावसाने पुनरव्यक्तादुद्भूता व्यक्तय अकृतकर्मफलं भुञ्जत इत्यकृताभ्या- गमदोषो द्वितीयः । न हीमाः पूर्वकल्पे कर्मकृतवत्यः, किं तु पूर्वकल्पस्थाभ्यो ह्यतिरिक्ता एवैता इतिं विनैव शास्त्राचार्योपदेशादिकं प्रलये अक्लेशेनैव सर्वे जीवा मुच्यन्त इति सर्वमुक्तिरूपो दोषस्तृतीयः, विहितानुष्ठातारो निषिद्धानुष्ठातारश्च स्वर्गिणो नारकिरणश्च सर्वेऽप्यविशेषेण प्रलयेऽव्यक्ते लीयन्त इति विधिनिषेधशास्त्रवैयर्थ्यदोषश्चतुर्थः । एतद्दोषचतुष्टयपरिहारार्थ उत्तरश्लोक इत्याह भाष्यकार: अकृतेति । फलान्तरमाह - अविद्यादीति । आदिपदाद्रागद्वेषादयः । अविद्यादीनां क्लेशानां मूलभूत कर्म । जीवादृष्टं त्वद्युक्त आशयोऽन्तः करणं तद्वशात् । अविद्या दिक्लेश कर्माशयैरपरामृष्टस्त्वीश्वर एक एवेति भावः । मूत्वाभूत्वा कल्पेकरूपे इति भावः । कार्यकरणसङ्घातात्मको भूतग्रामः । स्थावरजङ्गमशरी- राभिमानी साभासबुद्धिरूपजीव समुदाय इत्यर्थः । अयं हि लिङ्गशरीरी जीवसमुदायः कल्पेकल्पे जायते स्थावरजङ्गमात्मकस्थूलशरीरसंयोगात् । तद्वियोगाच प्रलये प्रलये म्रियते । एतेन यः पूर्वकल्पस्थो भूतग्रामस्स एवायं वर्तमानकल्पस्थो न त्वन्य इति न कृतहानाकृता- भ्यागमदे षद्वयप्रसङ्गः । स्थूल शरीरनाशेऽपि लिङ्गशरीरस्य प्रलयेऽप्यज्ञाने निलीय वर्तमानत्वेन न१२ अष्टमोऽध्यायः । ८९ यदुपन्यस्तमक्षरं तस्य प्राप्त्युपायो निर्दिष्ट :- ‘ओमित्येकाक्षरं ब्रह्म’ इत्यादिना । अथे- दानीमक्षरस्यैव स्वरूपनिर्विवक्षयेदमुच्यते, अनेन योगमार्गेण इदं गन्तव्यमिति- परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥२०॥ पर इति । परः व्यतिरिक्तो भिन्नः कुतः ? तस्मात्पूर्वोक्तात् । तुशब्दोऽक्षरस्य विवक्षितस्याव्यक्ताद्वैलक्षण्यविशेषणार्थः । भाव अक्षराख्यं परं ब्रह्म । व्यतिरिक्तत्वे सत्यपि सालक्षण्यप्रसङ्गोऽस्तीति तद्विनिवृत्यर्थमाह — अन्य इति । अन्यो विलक्षणः स चाव्यक्तः प्रलये जीवानां मुक्तिरिति न सर्वमुक्तिप्रसङ्गः । तत्तज्जीवान्तः करणेषु तत्तज्जीवकृत सुकृतदुष्कृतकर्म- वासना सत्त्वात् तद्वासनावशेन पुनः प्रपञ्चे तत्तदु चितपुण्यपापशरीरभोगसत्त्वाच्च न विधिनिषेधशास्त्र- वैयर्थ्यम् । गुरुशास्त्रोपदेशं विना लिङ्गशरीरस्य कालतो नाशाभावान्न मोक्षशास्त्रवैयर्थ्यमिति सिद्धम् । अव्यक्तं चतुर्मुखस्य शरीरमिति रामानुजः, तदयुक्तम् — चतुर्मुखस्य स्थूलशरीरे जीवानां प्रवेशायोगादतएव ततो निर्गमायोगाच्च । न च पितृदेहात्पुत्रदेह इव चतुर्मुखदेहाद्भूतग्राम उदेतीति वाच्य, चतुर्मुखस्य मनसैव प्रायेण सर्वप्रपञ्चस्य जातत्वात् । सङ्कल्पपूर्विका हि सृष्टिः । सनकादीनां ब्रह्ममानसपुत्त्रत्वेन ब्रह्मशरीरजत्वाभावाच्च । चतुर्मुखदेहात्प्रजापत्यादिदेहानां जातत्वेऽप्यस्मदादिदेहाना . मजातत्वाच्च । तत्तद्यष्टिशरीरे तत्तज्जीव इव ब्रह्मशरीरे सर्वजीवानां सत्त्वमित्यप्ययुक्तम् — तथासति ब्रह्मशरीरे सर्वेषां स्वीयत्वाभिमानस्य भवितव्यत्वात् । निद्रावस्थायामभिमानाभावेऽपि प्रलयावसानोत्तरक्षणे तत्स- द्भावात् । न चोत्तरक्षण एव तत आविर्भवन्तीत्यदोष इति वाच्यं, उत्तरक्षण एवं सर्वस्थूलशरीरसृ- ष्टयभावाद्येन तत उत्तिष्ठेरन्, प्रजापत्यादिक्रमेण चिरकालाय हि प्रपञ्चसृष्टिः । न च तत्रैवाज्ञाने निलीय वर्तन्त इति वाच्यं, तथासति लाघवादज्ञानमेवाव्यक्तमिति वक्तव्यत्वात्, किंपुनर्ब्रह्मशरीरपरिग्रहेण ॥ १९ ॥ ॥ पर इति । वृत्तमनुवदति - यदिति । यदक्षरं वेदविदो वदन्तीति यदक्षरमुपन्यस्तं तस्याक्षरस्य ब्रह्मणः प्राप्तौ उपायसाधनं निर्दिष्ट ओंकारोपासनरूपः विष्णुस्मरणरूपश्च । आदिपदादनन्यचेता इति श्लोकस्य संग्रहः । मामुपेत्येत्यादिकं तु प्रसङ्गादुक्तमिति भावः । अथ अक्षरस्य प्राप्त्युपायनिर्देशानन्तरमित्यर्थः । अक्षरस्य उपेयस्य ब्रह्मण इत्यर्थः । एवकारान त्वन्यस्येति भावः । स्वरूपस्य निर्ववतुमिच्छा निर्विवक्षा तया । इदं पद्यद्वयं उक्तिप्रकारमेव दर्शयति- अनेनेति । अनेनोक्तेन योगमार्गेण गन्तव्यं ब्रह्मेदमित्युच्यते । पर इति । पृथग्भूत इत्यर्थः । घटा- पटवदिति भावः । ननु घटाद्भिन्नोऽपि पटो दृश्यत्व जडत्वादिधर्मैर्घटसलक्षण एवेति तद्वदुव्यक्ताद्भिन्नोऽयमक्षरो न कि. मव्यक्तसलक्षण इति शङ्कते — व्यतिरिक्तत्वे सत्यपीति । तद्विनिवृत्त्यर्थमव्यक्तसालक्षण्यप्रसङ्गनिरा- ९० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अनिन्द्रियगोचरः । ‘परस्तस्मादित्युक्तः कस्मात् पुनः परः १ पूर्वोक्ताद्भूतग्रामचीजभूतादविद्या- लक्षणादव्यक्तात् । सनातनः चिरन्तनः यः स भावः सर्वेषु भूतेषु ब्रह्मादिषु नश्यत्सु न विनश्यति ॥ २० ॥ सार्थम् । विलक्षणः विभिन्नलक्षणः । दृश्यत्व जडत्वमिध्यात्वप्रमुखलक्षण वदव्यक्तं द्रष्टृत्वचिदात्मत्व- सत्यत्वप्रमुखलक्षणवानक्षर इति भावः । नेन्द्रियगोचर इति । एतेन संस्कृतमनोगोचरत्वं सिद्धम् । मनसोऽनिन्द्रियत्वात् । यद्वा मतभेदेन मनसोऽपीन्द्रियत्वादगोचर इत्येवार्थः । वाङ्मनसाविषयत्वाद्ब्रह्मणः । न च सुतरामगोचरत्वे शून्यवादापत्तिरिति वाच्यं, साक्षिचैतन्येन स्वेनैव स्वस्य भास्यत्वाच्छ्रन्यस्यापि साक्षिभास्यत्वादभास्यत्वे शून्यस्यैवाभावप्रसङ्गात् । तस्मादत्यन्तागोचरोऽप्यात्मत्वादेवाक्षरस्सिद्ध्यति - आत्मन एवासिद्धौ सर्वां - सिद्धिप्रसङ्गात् । तस्मात्पूर्वोक्तादित्यर्थः । ननु पूर्वमुक्तो भूतग्राम एवेत्यत आह-भूतग्रामबीजभूतादिति । एतेन भूतग्रामादपि वैलक्षण्यमुक्तप्रायम्- भूतग्रामस्याप्यव्यक्तकार्यस्य मृत्कार्यस्य घटस्य मृदात्मत्व- मिवाव्यक्तात्मत्वात् । जलादेर्मृद्वैलक्षण्ये उक्ते सति अनुक्तस्यापि घटवैलक्षण्यस्य सिद्धत्वात् । न च अव्यक्तस्याऽचिद्रूपत्वाद्भूतग्रामस्य चिदचिदात्मकत्वाच्च कथमेकात्मत्वमिति वाच्यं, भूत- ग्रामस्य चिदचिदात्मकत्वे अव्यक्त प्रभवत्वस्यैवा सम्भवप्रसङ्गात् । न ह्यज्ञानाद्ज्ञानं जायते, नापि नित्यं ज्ञानं कथमपि जायते, तस्मादेक एवाक्षरश्चिदात्मकः, तस्मादन्यस्सर्वोऽपि भूतग्रामोऽचिदात्मक एव । अविद्यालक्षणादज्ञानस्वरूपात् ब्रह्मादिषु हिरण्यगर्भादिस्तम्बान्तेषु कार्यकरणसङ्घातात्मकेषु भूतेषु प्राणिषु नश्यत्सु सत्सु, यस्तस्मादव्यक्तात्परोऽन्यस्सनातनोव्यक्तो भावः स तु सर्वेषु भूतेषु नश्यत्सु न विनश्यति । भवति सर्वत्र सर्वदास्तीति भावः- सद्रूप:; अत एवोक्तमक्षराख्यं परं ब्रह्मेति । ब्रह्मण एकस्यैव सद्रूपत्वादन्यस्य सर्वस्यापि मिथ्यात्वात् । स सर्वेषु भूतेषु नश्यत्सु न विनश्यतीत्यनेन ‘अविनाशि तु तद्विद्धि येन सर्वमिदं तत’ मिति पूर्वोक्तं स्मारितम् । यस्स इत्येकत्वनिर्देशेन चात्मन एकत्वं स्थापितम् । न च सर्वेषु भूतेषु जीवेषु नश्यत्सु परमात्मा नश्यतीति वाच्यं, ‘अजो नित्यश्शाश्वत’ इति पूर्वोक्तविरोधात् । यदि तु जीवास्सच्चिदाभासा बुद्धय इति विवक्षितं तर्हि संसारिणस्ते अनन्ता नश्वरा एव तेऽपि मुक्तावेव नश्यन्ति, न तु प्रलये । अन्यथा प्रलये सर्वमुक्तिप्रसङ्गात् । न चैवं सर्वेषु भूतेषु नश्यत्स्विति कथमुक्तमिति वाच्यं, स्थूलदेहनाशाभिप्रायात् । लोके स्थूलदेहनाशादेव हि ‘मृतो देव- दत्त’ इत्यादिप्रतीतिः । सूक्ष्मदेहश्वाविद्यायां निलीय संस्कारात्मना वर्तत इति तस्य नाश औपचारिकः । कारण देहस्त्वविधैव । सा चाविद्या विक्षेपशक्ति संकोच्य केवलामावरणशक्तिमवलम्ब्य जीवान्मोहययन्ती वर्तते प्रलये सुषुप्तौ निद्रेव । एवमव्यक्तस्य प्रलये नाशाभावादेव भूतेषु नश्यत्स्वित्युक्तम् । न त्वव्यक्ते नश्यतीति । न चैवमव्यक्तस्य नित्यत्वप्रसङ्गः, मुक्तौ तन्नाशात् ।
अष्टमोऽध्यायः । ९१ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥२१॥
अव्यत इति । योऽसावव्यक्त अक्षर इत्युक्तः, तमेवाक्षरसंज्ञकमव्यक्तं भावमाहुः परमां प्रकृष्टां गतिम् । यं परं भावं प्राप्य गत्वा न निवर्तन्ते संसाराय, तद्धाम तत् स्थानं परमं प्रकृष्टं मम; विष्णोः परमं पदमित्यर्थः ॥ २१ ॥ ननु अव्यक्तं प्रजापतेः स्वापावस्थेत्युक्तं कथं तत्र ब्रह्मणोऽपि नाश: ? येन ब्रह्मादिष्वित्युच्यते इति चेन्नायं दोषः - यदेवाज्ञानं प्रजापतेर्निशायां वर्तते तदेव प्रजापतेर्मरणेऽपीति । नित्यनैमित्तिक- महाप्रलयेषु त्रिष्वप्यव्यक्तमेकमेव । सत्यप्यवान्तरविशेषे वस्त्वैक्यात् । तस्मात्प्रजापतेः स्वापावस्थेव मरणावस्थाप्यव्यक्तमेवेति । एवं महाप्रलये स्थावरजङ्गमात्मक ब्रह्मादिस्तम्बपर्यन्त सर्व स्थूलदेहानां स्वरूपतो नाशात् सूक्ष्मदेहाना- मविद्यायां लयरूपनाशादेक एवाक्षर आत्मा तमसः परः तमसस्साक्षी सन्वर्तत इत्यविनाशी । एवं स्थिते कोऽत्र जीवेश्वरभेदस्य जीवभेदस्यावकाशो वा ? न कोऽपि । यत्तु रामानुजः - अव्यक्तोऽयमक्षरो जीवः, जात्येकत्वादेकत्वनिर्देश इति, तत्तुच्छम् - प्राण- धारणस्य जीवलिङ्गत्वात्प्राणिनां जीवानामव्यक्तप्रभवत्वेनाव्यक्तात्परान्यत्वाभावात् नश्वरत्वेन चाविना- शित्वाभावात् । त्वदभिमतानाममीषां जीवानां सर्वभूतशब्दवाच्यत्वेन सर्वेषु भूतेषु नश्यत्स्वित्यनेन परामृष्टत्वादक्षरस्य चामीभ्यो विलक्षणत्वात्, लिङ्गिनां जीवानां प्रमाणव्यक्तत्वेनाव्यक्तत्वायोगात् । सर्वोपाधिविनिर्मुक्तस्याक्षरस्य प्राणाभावेन प्राणधारणप्रयुक्तजीव त्वाभावात, भेदकाभावेन भेदाभावात्, भेदकसत्त्वे सर्वोपाधिविनिर्मुक्तत्वाभावात्, अक्षरादधिकस्य परमपुरुषस्य सत्वे ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिरिति श्रुतिविरोधात् । तस्मादव्यक्तोऽयमक्षरः प्रत्यगभिन्नः परमात्मैव ॥२०॥ अव्यक्त इति । तमेवाक्षरसंज्ञकं भावं परमां गतिमाहुरित्यन्वयः । भावः परब्रह्म । गम्यत इति गतिः प्राप्यस्थानम् । पदमिति यावत् । कस्मादव्यक्तस्य प्रकृष्टगतित्वमत आह-यं प्राप्य न निवर्तन्त इति । अपुनरावर्तित्वादव्यक्तोऽयमात्मा परमं पदमन्यत्सर्व पुनरावर्तित्वात्परमं पदं न भवति स्वर्गादिकमिति भावः । संसाराय संसारमनुभवितुमित्यर्थः । तदिति विधेयप्राधान्यात्वलीबत्वम् । तन्मम विष्णोः परमं घामेत्यन्वयः । घामशब्दार्थमाह– स्थानमिति । यावदर्थमाह — पदमिति । स्वरूपमिति फलितार्थः । नहि सर्वव्यापिनो विष्णोः किञ्चित् स्थानं भवितुमर्हति । न वा विष्णोरक्षरस्य स्थानमक्षर एवं भवितुमर्हति । एतेनाक्षरस्य स्वरूपं निरुक्तमव्यक्तात्परत्वं तदन्यत्वं सनातनत्वमव्य- क्तत्वमविनाशित्वं सर्वभूतविनाशसाक्षित्वं तद्विष्णोः परमं पदमिति श्रुत्युक्त परमपदत्वमपुनरावर्तित्वं भावत्वं चेत्येवं रूपम् । ततश्च सच्चिदानन्दरूपत्वं सिद्धम् । नचानन्दरूपत्वमसिद्धमिति वाच्यं, अव्यवास्य दुःखात्मत्वेन तद्विलक्षणत्वेन तत्सिद्धेः । ९२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तल्लब्धेरुपाय उच्यते- पुरुषस्स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ||२२|| पुरुष इति । पुरुषः पुरि शयनात् पूर्णत्वाद्वा स परः पार्थ !, परो निरतिशयः यस्मात्पुरुषान्न परं किंचित् । स भक्त्या लभ्यस्तु ज्ञानलक्षणया अनन्यया आत्मविषयया ।
यत्तु रामानुजः - - अचेतनप्रकृतिरेकं नियमनस्थानं जीवप्रकृतिर्द्वितीयं मुक्तस्वरूपं तु परं नियमनस्थानमिति, तदल्पम् — मुक्तात्मखरूपस्य स्वाभिन्नत्वेन स्वनियाम्यत्वाभावात् । यदि मुक्तस्यापि नियमनं तर्हि मुक्तत्वस्यैवासिद्धि: - नियमनस्य दुःखहेतुत्वात् । नहि मुक्तौ लेशतोऽपि दुःखसद्भावः । सत्यप्यनात्मन्यन्तः करणे तत्तादात्म्याभ्यासस्याभावमात्रेण सुषुप्तावेव नास्ति किञ्चिदपि नियमन जीवस्येति स्थिते कथं पुनस्सर्वोपाधिनाशेऽपि जीवस्य नियमनं भवेत् ? तस्माज्जीववास्तववरूपापरिज्ञानमूलकमिदं रामानुजभाष्यम् ।
यत्तु धाम तेज इत्यस्यैव व्याख्यानान्तरं तद्युक्तमेव परं तु विष्णुशेषत्वमक्षरस्यायुक्तम्- अक्षरस्यैवात्मत्वेन सर्वशेषित्वादात्मन एव व्यापकत्वेन विष्णुस्त्वाच्च । प्रकृति वियुक्त ज्ञानैकाका- रयोरात्मपरमात्मनोश्शेषशेषिभावकल्पनाऽयोगाच्च । मुक्तस्याप्यपरिच्छिन्नज्ञानरूपत्वेन विष्णोस्तद्वैलक्षण्या- योगाच्च । अपरिच्छिन्नज्ञाने परिच्छेदकाभावेन जीवेश्वरभेदानव काशाच्च । परिच्छेदकसत्त्वेऽपरिच्छिन्न- ज्ञानरूपालभाश्च । ज्ञानबहुत्वे एकस्य ज्ञानस्य ज्ञानान्तरेणैव परिच्छेदला भेनापरिच्छिन्नत्वासम्भवाच्च ॥ २१॥ पुरुष इति । भूतानि यस्यान्तस्स्थानि, सर्वमिदं येन ततं स परः पुरुषस्तु हे पार्थ! अनन्यया भक्त्या लभ्यः भवतीति शेषः । पुरि देहे शेत इति पुरुषः । पिपर्ति पूरयति सर्वमिति वा पुरुषः । परिपूर्णस्यापि देहान्तरावस्थितिर्घटते पूर्णस्याकाशस्येव घटान्तरवस्थिति: । घटकत्वं तु मायाया एव- नह्यन्यस्यैवंविधशक्तिः । एवं पूर्णत्वादेव परः । नहि परिपूर्णादधिकं वस्तु किञ्चिद्भवितुमर्हति । पूर्णा - दन्येषां सर्वेषामपूर्णानामल्पत्वात् । 1 पुरुषस्य परत्वे श्रुतिं प्रमाणयति - पुरुषादिति । ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चि- - त्साकाष्ठा सा परा गतिः ॥’ इति यस्माच्छुत्युक्तं तस्मात्पुरुषः पर इत्यर्थः । महान्महत्तत्त्वमव्यक्तं प्रकृतिर्माया । पुरुष आत्मा; पूर्वोक्तोऽव्यक्तोऽक्षर इति विवेकः । भक्तिरत्र ज्ञानमेवेत्याह– ज्ञानलक्षणमिति । अद्वितीये आत्मनि सेवाद्ययोगादिति भावः । अनन्यया अनन्यविषययेत्यर्थः । फलितमाह — आत्मविषययेति । आत्मविषयया भक्त्या आत्मज्ञाने - नेति सिद्धम् । ‘ज्ञानादेव तु कैवल्य’ मित्यादिशास्त्रादिति भावः । नच निरवकाशे आत्मनि कथं भूतानि सन्तीति वाच्यं, मायया निरवकाशेऽप्यात्मनि भूतानामवकाशलाभात् । सत्स्वपि भूतेषु आत्मनो निरवकाशत्वाभङ्गाच्च । ननु भूतानां कुतः पुरुष- अष्टमोऽध्यायः । ९३ यस्य पुरुषस्यान्तरस्थानि मध्यस्थानि भूतानि कार्यभूतानि कार्य हि कारणस्यान्तर्वर्ति भवति । येन पुरुषेण सर्वमिदं जगत् ततं व्याप्तं आकाशेनेव घटादि ॥ २२ ॥ स्यान्तरवस्थितिरत आह— कार्यभूतानीति । कार्यत्वाद्भूतानां कारणे पुरुषेऽवस्थितिरुचितेत्यर्थः । औचित्यमेव दर्शयति-कार्य हीति । हिः प्रसिद्धौ । घटादेर्मृदादौ रजतादेः शुक्तिकादौ च सत्त्वा - दिति भावः । विवर्तजगदधिष्ठानत्वाज्जगदाकारपरिणतमायाधिष्ठानत्वाद्वा पुरुषस्य भूताधिष्ठानत्वोपपत्तिः । न केवलं भूतानामन्तरवस्थितत्वेन भूतेभ्यो बहिरेव पुरुषोऽस्ति, किन्त्वन्तरपीत्याह — येन सर्व- मिदं ततमिति । ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित’ इति श्रुतेरिति भावः । अत एव पूर्णत्वात्पुरुषत्वं पुरुषस्य । नचैवं पुरुषे भूतसत्त्वे पुरुषस्य सद्वितीयत्वापत्तिरिति वाच्यं मृदि घटसत्त्वे घटेन मृदस्सद्विती- यत्वादर्शनात् । शुक्तिकायां रजतसत्त्वे रजतेन शुक्तिकायाः सद्वितीयत्वादर्शनाद्गगने नैल्यसत्त्वे ‘नैल्येन ’ गगनस्य सद्वितीयत्वादर्शनाच्च । नहि मायामयैर्वस्तु भिस्सत्यस्य सद्वितीयत्वं - मरीचिकाजलैर्भूमेः पंकिल- त्वादर्शनात् । नच मायया सद्वितीयत्वमिति वाच्यं तस्यापि मिथ्यात्वात् । नहि परमार्थतो मायास्ति । एतेन भूतानां यत्प्रदेशे सत्त्वं तत्प्रदेशस्यात्मनाऽव्याप्यत्वादपूर्णत्वमात्मन इति शङ्कापि प्रत्युक्ता । वस्तुतः पुरुषे भूतानामसत्त्वात् । मृदि घटाकारस्येव घटनाम्न इव च पुरुषे भूतनामाकारयोः कल्पितत्वात् । तस्मादेकमेवाद्वितीयं ब्रह्म पुरुषः । सच ज्ञानैकलभ्यः । पुरुषस्वरूपज्ञानपूर्वकत्वात्पुरुषस्वरूप- लाभस्य । नच नित्यसिद्धस्वरूपस्य कः पुनरपरो लाभ इति वाच्यं नित्यसिद्धेऽप्यर्थेऽज्ञातेऽलब्धत्व- व्यवहारात् । यो हि घटस्वरूपं न जानाति स पुरः स्थितमपि घटं नैव लभेतेति । यत्तु रामानुजः - परः पुरुषः परमपुरुषो विष्णुः, नतु प्रत्यगात्मा । तस्य पुरुषत्वेन परम- पुरुषत्वाभावात् स च भक्त्या लभ्य इति, तन्मन्दं - उक्तलक्षणपुरुषाधिकस्य परमपुरुषशब्दवाच्यस्य कस्यचिदभावात् । ‘पुरुषान्न परं किञ्चिदिति श्रुत्या पुरुषाधिकस्य निरस्तत्वाच्च । मत्तः परतरं नान्य’- दिति गीतया च मत्तः पुरुषात्परतरं नान्यदस्तीत्येव श्रुत्यनुसारेणोक्तत्वाच्च । ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततमिति श्लोकस्य भवतापि पुरुषपरत्वेन व्याख्यातत्वात्कुतोऽयं पुरुषः परो न भवेत् ? पुरुष- स्यैव सर्वव्यापकत्वे परमपुरुषकल्पनं व्यर्थ, यदि तु पुरुषो न सर्वव्यापकस्तर्हि पुरुषत्वमेव पुरुषस्य भज्येत, अविनाशिश्लोकोक्तं ’ येन सर्वमिदं तत’ मित्येतद्विरुद्धयेत । नच तत्र सर्वपदस्य देहादिपरत्वेन संकोच इति वाच्यं, मानाभावात् । व्यष्टिदेहव्यापित्वेनैव पुरुषस्य पूर्णत्वे घटोदरव्यापित्वेन जलस्यापि पूर्णत्वप्रसङ्गात् । किं च तव मते पुरुषस्याणुत्वे सुतरां पूर्णत्वानुपपत्तिः । नचात एव पुरुषोत्र परमपुरुष इत्युक्तमिति वाच्यं, अविनाशीति श्लोके पुरुषस्यैवोक्तत्वात् । तस्माज्जीवेश्वरयोर्द्वयोस् सर्वव्यापित्वमनुप- पन्नम् । उक्तं तु द्वयोरपि सर्वव्यापित्वम विनाशीति । पुरुषस्स इति च श्लोकद्वयेन भगवतैवेत्येतदनुप- पत्तिपरिहाराय जीवेश्वरयोरभेदोऽवश्यमभ्युपगन्तव्यो भवता । ९४ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु प्रकृतानां योगिनां प्रणवावेशितब्रह्मबुद्धीनां कालान्तरमुक्तिभाजां ब्रह्मप्रतिपत्तये उत्तरो मार्गो वक्तव्य इति ‘यत्र काले ’ इत्यादिविवक्षितार्थसमर्पणार्थमुच्यते; आवृत्तिमार्गोपन्यास इतर मार्गस्तुत्यर्थ:- यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ! ॥ २३॥ यत्रेति । यत्र काले प्रयाता इति व्यवहितेन सम्बन्धः । यत्र यस्मिन् काले त्वनावृत्तिं अपुनर्जन्म आवृत्तिं तद्विपरीतां चैव । योगिन इति । योगिनः कर्मिणचोच्यन्ते, कर्मिणस्तु गुणत:- ‘कर्मयोगेन योगिना’ मिति विशेषणात् योगिनः । यत्र काले प्रयाता योगिनः अना- वृत्तिं यान्ति, यत्र काले च प्रयाता आवृत्ति यान्ति तं कालं प्रवक्ष्यामि भरतर्षभ ! ॥ २३ ॥ तस्मान्नास्ति पुरुषातिरिक्तः परमपुरुषो यो भक्त्या लभ्यः । परमशब्द साहचर्ये विनापि पुरुष- शब्दस्यैव परमात्मनि प्रयोगदर्शनाच्च । तेनेदं पूर्ण पुरुषेण सर्वे ‘सहस्रशीर्षा पुरुष’ इत्यादिश्रुतिषु । न चैवं परमात्मैव पुरुषः जीवस्तु पुरुषशब्दवाच्यो नैवेति वाच्यं, जीवस्य पुरुषत्वस्य सर्वसम्प्रतिपन्नत्वेन तत्र विप्रतिपत्तेरेवाभावात् । । ननु अव्यक्तोऽक्षर इति श्लोकोक्तादस्य पुरुषस्य वैलक्षण्यमक्षरपुरुषयोर्जीवेश्वरत्वरूपे भेदे सत्येव सिद्धयति न त्वन्यथेति कृत्वा जीवोऽक्षरः, ईश्वरस्तु परमपुरुष इति चेन्मैवम् - अव्यक्तश्लोकेन पुरुषस्य स्वरूपमुक्तमनेन पुरुषस्य प्राप्त्युपाय उच्यत इत्येतद्वैलक्षण्यार्थकत्वात्तुशब्दस्य । अन्यथा प्रकृतिविविक्ता- ज्ञानैका काराज्जीव तादृशस्यैवेश्वरस्य कीदृशं वैलक्षण्यं स्यात् । न च ज्ञानबलशक्त्याद्याधिक्यारूपत्वरूपं तस्योपाधिधर्मत्वादुपाधेश्च मुक्तौ नष्टत्वात् । न चेश्वरस्यास्त्युपाधिरिति वाच्यं जीवो निरुपाधिक ईश्वरस्तु सोपाधिक इति वाक्यस्य वक्तुर्लज्जावहत्वात् । निरुपाधिकं हि चैतन्यं ब्रह्म । ईश्वरस्तु न ब्रह्म सोपाधिकत्वाज्जीवस्तु ब्रह्मैव निरुपाधिकत्वादिति । यदुपासनया जीवस्यैव ब्रह्मत्वं किं तस्येश्वरस्याब्रह्मत्वं न्याय्यम् ? तस्मादव्यक्ताद्विलक्षणोऽक्षरः पुरुषः प्रत्यगभिन्नः परमात्मैव । तल्लाभोपायश्च ज्ञानमेव ! न भक्तिः- भवतेद्वैतविषयत्वाद्वैतस्य च भयहेतुत्वेन मुक्त्यनुपायत्वात् ॥२२॥ यत्रेति । यत्र काले तु प्रयाता योगिन अनावृत्तिमावृत्तिं चैव यान्ति हे भरतर्षभ ! तं कालं वक्ष्यामि – प्रणवावेशितब्रह्मबुद्धीनामिति । प्रणवे ओंकारे आवेशिता आहिता ब्रह्मबुद्धिर्ब्रह्मेति दृष्टिर्यैस्तेषां तथोक्तानां; प्रणवं ब्रह्मदृष्टयोपासमानानामित्यर्थः । ‘ओमित्येकाक्षरं ब्रह्म व्याहरन् ’ इति श्लोकोक्तरीत्येति भावः । ब्रह्मप्रतिपत्तये हिरण्यगर्भलोकप्राप्तये । ब्रह्मलोकप्राप्तिद्वारा परमात्मप्राप्तय इति वा । उत्तरमार्गोऽर्चिरादिमार्गः । वीक्षितार्थ अपेक्षितार्थः । तत्समर्पणार्थमुत्तरमार्गे वक्तव्य इत्येतदर्थे यत्र काल इत्याद्युच्यत इत्यन्वयः । ननु तर्हि उत्तरमार्ग एवोच्यतामत आह - आवृत्तीति । ज्ञानिस्तुत्यर्थमज्ञानि चरित्रकथनवदिति भावः ! यत्र काले यस्मिन्मार्गे इत्यर्थः । कालशब्दस्यात्र लक्षणया कालाभिमानिदेवतोपलक्षितमार्ग- अष्टमोऽध्यायः । ९५ परत्वम् । ‘एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनरिति वक्ष्यमाणश्लोकार्थानुगुण्येन सावृत्तित्वानावृत्ति- त्वयोर्मार्गधर्मत्वेन कालधर्मत्वाभावात् । प्रयाता मृताः स्थूलशरीरवियोगात्मकं मरणं प्राप्य प्रयाणं कृत- वन्त इत्यर्थः । तं कालं तं मार्गमित्यर्थः । यत्र मार्गे प्रयाता योगिनोऽनावृत्तिं यान्ति तं दक्षिणमार्गे च तुभ्यं वक्ष्यामीत्यर्थः । श्रोतुस्सावधानत्वापादनाय वक्ष्यामीत्युक्तिः । नच कालशब्दस्य मार्गीर्थकथनं भाष्यविरुद्धमिति वाच्यं तत्र प्रयाता गच्छन्तीत्यादौ भाष्य एव तत्रेत्यस्य मार्गार्थदर्शनात् । तदनुसारेणात्रापि मार्गार्थकथनस्यैवोचितत्वात् । ननु भाष्यमपि मूलविरुद्धमेव, मूले कालशब्दस्यैव दर्शनात् । दक्षिणायने शरतल्पं गतस्य भीष्मस्य स्वच्छन्दमरणस्य उत्तरायणपुण्यकालनिरीक्षणाच्चेति चेन्नैवम् -‘शुक्लकृष्णे गती येते’ इति, ‘एते सृती पार्थ जान’ निति च गत्योरेव परामृष्टत्वात् । न चोत्तरायणे शुक्लपक्षे अह्नि मृता उत्तरमार्गेण यान्ति; दक्षिणायने कृष्णपक्षे रात्रौ मृता दक्षिणमार्गेण यान्तीत्येतदर्थं कालमार्गावुभावपि वक्तव्याविति वाच्यं तथासति उत्तरायणे यस्य कस्यापि पापिनो मृतिर्न स्यात्, दक्षिणायने यस्यकस्यापि सुकृतिनो मृतिर्न स्यात् । न त्वेवं व्यवस्था दृश्यते; क्रिमिकीटपशुपक्ष्यादीनां स्थावराणां च उत्तरायणेऽपि मरणदर्शनात् । ब्रह्मविदादीनां दक्षिणायनेऽपि मरणदर्शनाच्च । किं च उत्तरायणे कृष्णपक्षेऽह्नि मृतानां तत्रैव शुक्लपक्षे रात्रौ मृतानां वा नोत्तरमार्गगतिस्स्यात् ; तथा दक्षिणायने शुक्लपक्षे रात्रौ मृतानां तत्रैव कृष्णपक्षेऽह्नि मृतानां वा न दक्षिणमार्गगतिस्स्यात् । न चैवंविधानां प्रयाणार्थ ः कश्चिदक्षिणोत्तरान्तरालमार्गः श्रयते । न चाधोगतिरिति वाच्यं, पापिनामेव तत्र गतिसद्भावात् । न चामी पापिन एवेति वाच्यं, विहिताचरणानामपि तथा मृतिदर्शनात् । अपि च दक्षिणायने कृष्णपक्षे निशायामेव मृतानां चन्द्रलोकप्राप्तौ किंपुनरुत्तरायणे कृष्णपक्षे निशायां मृतानां किं वा पुनर्दक्षिणायने शुक्लपक्षेऽह्नि मृतानामित्यर्थापत्तेश्च स्यादेव चन्द्रलोकप्राप्तिः । न चेष्टापत्तिः, ‘धूमो रात्रिस्तथा कृष्णष्षण्मासा दक्षिणायन’ मिति तत्रैव मृतानां चन्द्रलोकप्राप्तिवर्णनात् । किं च अहोरात्रिशुक्लकृष्णपक्षोत्तरायणदक्षिणायनव्यतिरिक्तकालस्यैवाभावात् तेषां च कालानां सुकृतिमृतिविषयत्वान्नारकिणां मृतिकाल एव नास्ति यत्र मृताः पापिनो नरकं गच्छेयुः । अपि चास्तु अहरादीनां कालपरत्वं कथंपुनरग्निज्र्ज्योतिर्धूमानाम् ? न ह्यग्निरिति ज्योतिरिति धूम इति च कश्चन कालविशेषोऽस्ति । एवमकालवाच्यग्न्यादिशब्द साहचर्यादहर । दिशब्दानामप्यकाल- वाचित्वमेवोचितं, न तु कालवाचित्वम् । तस्मादग्न्यादिशब्दा देवतावाचका एव । देवताश्चेमा अर्चि- रादिमार्गे यथाक्रमं सन्ति । योगिनमतिवाहयितुं सम्पिण्डितकरणग्रामत्वेन स्वतो गन्तुमशक्यम् । 1 ननु अहरादयः कालवाचिन एव न चोक्तदोषापत्तिः । यत्र प्रयाता योगिन एव ब्रह्मलोकादिकं गच्छन्ति, न त्वन्ये इति चेन्मैवम् - प्रणवोपासकानां योगिनां दक्षिणायने मृतानां चन्द्रलोकप्राप्ते- भवितव्यत्वात् । अयोगिनां सोमयाजिनामुत्तरायणे दक्षिणायने वा मृतानां चन्द्रलोक प्राप्त्यसम्भावात् । ९६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु न च कर्मयोगिनोऽपि योगिन एवेति वाच्यं तथासति उत्तरायणे मृतानां कर्मयोगिनां तेषां चन्द्र लोकप्राप्त्यसम्भवात् । न चैवं भीष्मस्योत्तरायण कालावेक्षणं व्यर्थमिति वाच्यं न व्यर्थ - लोकसंग्र- हार्थत्वात् । ‘सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले’ इति भागवताद्भीष्मस्य ब्रह्मसायुज्यं प्राप्तस्य उत्तरमार्गेणापि गमनासम्भवात् । न हि परिपूर्णब्रह्मभावापत्रस्य गत्यागती स्तः । ननु कोऽसौ लोकसंग्रह इति चेदुच्यते - योगिनां स्वाधीनमरणत्वात्सर्वैरास्तिकैर्योगित्वेन भवितव्यं, ते च योगिन उत्तरायणपुण्यकाले एव म्रियेरन् उत्तरायणे मृतानां तेषां पुत्रैर्विधीयमानं श्राद्धादिकमप्युत्तरायण एव भवेत्तेन च तच्छ्राद्धादेर्महाफलत्वं तत्कर्तुश्च महाफललाभ इति । अथ वा प्रायेण पुण्यकाले मृतानामेव पुण्यलोकावाप्तिरित्येतत्प्रदर्शनार्थं भीष्मस्य तादृशांचरणम् । यद्वा स्वच्छन्दमरणोऽहमिति दर्शयितुं लोकस्येति । ननु तत्त्वविदो गत्यागत्यभावात्काला पेक्षाभावेऽपि चन्द्रलोकं ब्रह्मलोकादिकं वा जिगमिषो- रस्ति कालापेक्षा - पुण्यकाले मृतानामेव पुण्यलोकावाप्तिरिति चेन्मैवम् - शारीरकशास्त्रविरोधात् । तथाहि - (सू- तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्य नुस्मृतियोगाच्च हार्दानु- गृहीतश्शताधिकया ४-२ - १७) तस्य म्रियमाणस्य जीवस्य ओक आयतनं हृदयं तस्यायं नाडीमुखं तस्य ज्वलनं भाविफलम्फुरणं प्रद्योताख्यं तेन प्रकाशितद्वारः विद्यासामर्थ्यात्, विद्याशेषगत्यनुस्मृति- योगाच, हार्दानुगृहीतः हृदयालयेन सूपासितेन ब्रह्मणा हार्देनानुगृहीतः, शताधिकनाड्या मूर्धस्थानादेव विद्वान्निष्क्रामति, अन्ये तु स्थानान्तरेभ्यः । ’ शतं चैका च हृदयस्य नाड्यः, तासामूर्धानमभि- निस्सृतैका, तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्कन्या उत्क्रमणे भवन्तीति श्रुतेः । अन्या अन्येषामविदुषा- मुत्क्रमणे विष्वङ् नानाविधाः नाड्यो भवन्तीत्यर्थः । सुषुम्नाख्या नाडी हृदयान्निर्गता दक्षिणतालु- कण्ठान्तस्तननासिका मध्यभितिद्वारा ब्रह्मरन्धं प्राप्ता सूर्यरश्मिभिरेकीकृता । ब्रह्मलोकमार्गस्सगुणब्रह्मोपास- कस्य विदुष इति भावः । ( सू - रश्म्यनुसारी ४.२-१८) तस्माच्छताघिकया सुषुम्नाख्यनाड्या निष्क्रामन् पुरुषो रश्म्यनु- सारी निष्क्रामति; सूर्यरश्मिसम्बद्धत्वात्सुषुम्ना नाड्या इति तस्माच्छब्दार्थः । ( सू - निशि नेति चेन्न सम्बन्धस्य यावद्देह भावित्वाद्दर्शयति च ४-२-१९) तत्किमविशेषेणैवा- हनि रात्रौ वा म्रियमाणस्य रश्म्यनुसारित्वम् ? आहोस्विदहन्येवेति संशयः; अहन्येवेति पूर्वपक्ष:; तेन रात्रौ मृतस्य रश्मिप्राप्त्यर्थं सूर्योदयप्रतीक्षास्ति पूर्वपक्षे । इदमेवाह - निशि नेति । निशि मृतस्य सूर्य- रम्यनुसारित्वं नेति चेन्न, नाडी रश्मिसम्बन्धस्य यावद्देहभावित्वात् । यावद्देहभावी हि नाडीरश्मि- सम्बन्धः । दर्शयति तमर्थ श्रुति:- ‘अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते अमुष्मिन्नादित्ये सृप्ता’ इति । अमुष्मादादित्यात्मतायन्ते विस्तरेण निर्गच्छन्ति या रश्मयः ता आसु नाडीषु देहस्थासु सृप्तास्सम्बद्धा भवन्ति । आभ्यो नाडीभ्यो याः प्रतायन्ते ता अमुष्मिन्नादित्ये सृप्ता भवन्तीत्यर्थः । निदाघसमये च निशास्त्रपि किरणानुवृतिरुपलभ्यते तापादि- १३ · अष्टमोऽध्यायः । 1
९७ कार्यदर्शनात् । स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वम् । यदि तु रात्रौ प्रेतो विनैव रश्म्यनुसारेणोर्ध्व आक्रमेत रम्यनुसारानर्थक्यं स्यात् न ह्येतद्विशिष्याभिधीयते यो दिवा मैति स रश्मीनपेक्ष्योर्ध्व आक्रमते, यस्तु रात्रौ सोऽनपेक्ष्यैवेति । अथ तु विद्वानपि रात्रिप्रायणापराधमात्रेण नोर्ध्व आक्रमेत, तर्हि पाक्षिक- फला विद्येति अप्रवृत्तिरेव तस्यां स्यात्, मृत्युकालानियमात् । अथापि रात्रौ प्रेतोऽहरागमं निरीक्षेत, अहरागमेऽप्यस्य कदाचिद्रश्मिसम्बन्वानहं शरीरं स्यात् पावकादिसम्पर्कात् । ‘स यावत् क्षिप्येन्मन स्तावदादित्यं गच्छति’ इति श्रुतिरनुदीक्षां दर्शयति । क्षिप्येन्द्रियेत । तस्मादविशेषेणैवेदं रात्रि दिव रश्म्यनुसारित्वम् । ( सू अतश्चायनेपि दक्षिणे ४-२-२० ) अत एवचो दीक्षानुपपत्तेः । विद्याया अपाक्षिकफलत्वाच्च । दक्षिणायनेऽपि म्रियमाणो विद्वान् प्राप्नोत्येव ब्रह्मलोकं- उत्तरायणमरणप्राशस्त्यप्रसिद्धेः भीष्मस्य च प्रतीक्षादर्शनात् । आपूर्यमाणपक्षाद्यान् षडुदडेति मासानिति च श्रुतेरपेक्षितव्यमुत्तरायणमितीय- माशङ्का सूत्रेणानेन परिहृता । षडुदयासानेतीति श्रुत्यन्वयः । प्राशस्त्यप्रसिद्धिरविद्वद्विषया । भीष्मस्य तु विदुषोऽप्युत्तरायणप्रतीक्षणमज्ञानामुत्तरायणे दैवान्मरणं चेत्प्रशस्तमित्यभिज्ञाभिवदनरूपाचारपरिपाल- नार्थमिति । एतेनाविदुषामेवोत्तरायणमरणं परलोकसुखावहत्वेन प्रशस्तं विदुषां तु दहराद्युपासकानां दक्षिणायनमरणमपि ब्रह्मलोकप्रापकमेव अर्चिरादिमार्गस्यायनद्वयेऽप्यनावृतत्वादिति स्थितम् । श्रुति- रपि– ’ तेऽर्चिषमभिसम्भवन्ति, अर्चिषोऽहः, अह्न आपूर्यमाणपक्षमा पूर्यमाणपक्षाद्यान् षडुदङेति मासां - स्तान्मासेभ्यः संवत्सरं संवत्सरादादित्य’ मित्यर्चिरहरादीनां प्राप्यत्वेन देवतारूपत्वमेव ब्रूते, न तु काल- विशेषात्मकत्वं न ह्नि मृतोऽह्नश्शुक्लपक्ष शुक्लपक्षान्मासान्वा प्राप्नुयात् । श्रुत्यन्तरमपि – ‘स एवं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकमिति, इमे चार्चिरादयो गन्तृणां नेतार’ इति । ‘आतिवाहिकास्ताल्लिङ्गा दिति (४-३-४ ) सूत्रेणापि सिद्धान्तितम् । तस्माद्ब्रह्मलोकादिकं प्रेप्सोर्विदुषो नास्ति कालापेक्षा । " अथ वा योगिनः प्रति चायमहरादिकालविनियोगोऽनावृत्तये स्मर्यते, स्मार्ते चैते योगसाङ्ख्येन श्रौते - ‘सू. योगिनः प्रति च स्मर्यते स्मार्ते चैते’ (४-२-११) सूत्रात् । तथा च यः श्रुत्युक्तो दहराद्युपासको विद्वान् तस्य नास्ति कालनियमः । यस्तु स्मृत्युक्तः " ‘अनाश्रितः कर्मफलं कार्य कर्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रिय’ इत्युक्तनिष्काम कर्मानुष्टानलक्षणो योग- स्तद्वतः अकर्तृत्वानुभवरूपम् । ‘इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्’ इति स्मृत्युक्तं यत्साङ्ख्यं तद्वतस्साङ्ख्ययोगिनश्च कालापेक्षास्ति । अत एव ‘यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन’ इत्युक्तं, न तु यत्र मार्गे इति । तथा च प्रकृतश्लोकस्थयोगिशब्दस्य निष्कामकर्मानुष्ठातृपरत्वमकर्तृत्वानुसन्धातृ- परत्वं च वक्तव्यं, न तु दहराद्युपासकपरत्वमिति सिद्धम् । · वस्तुतस्तु नायमनुपदोक्तः पक्षस्समीचीनः - श्रुतिस्मृत्योर्भिन्नार्थत्वस्यायुक्तत्वात्- ‘अग्निर्ज्योति- रहश्शुक्कष्षण्मासा उत्तरायणम् । धूमो रात्रिस्तथा कृष्णष्षण्मासा दक्षिणायन’ मिति श्रौतयोरेव देवयान- श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तं कालमाह- अग्निज्योतिरहश्शुक्लष्षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः || २४ ॥ अग्निज्योंतिरिति । अग्निः कालाभिमानिनी देवता, तथा ज्योतिरपि देवतैव कालाभिमानिनी । अथ वा अग्निज्योतिषी यथाश्रुत एव देवते । भूयसां तु निर्देश: पितृयाणयोरत्र स्मर्यमाणत्वात् । यदा पुनः स्मृतावप्यग्न्याद्या देवता एवातिवाहिक्यो गृह्यन्ते, तदा न कश्चिद्विरोध इति भाष्याच्च कालशब्दो मार्गपर एव । न च कालशब्दो देवतापर इति भाष्यरत्नप्रभार्या दृश्यत इति वाच्यं, मार्गस्यापि देवतामयत्वात् । यत्रार्चिरादिदेवता आतिवाहिक्यस्स एव हि मार्गः तस्माद्यत्र काल इत्यस्य यस्मिन्मार्ग इत्येवार्थः । योगिनस्सर्वद्वाराणि संयम्येत्युक्तलक्षणयोगशालिनः ; ध्यायिन इति यावत् । अमीषां धूमादि- मार्गपथिकत्वाभावादाह– कर्मिणश्चेति । ननु योगिशब्दात्कथं कर्म्यर्थलाभोत आह— गुणत इति । गौण्या वृत्त्येत्यर्थः । गौण्या कर्मणि योगशब्दप्रवृत्तौ प्रयोगं प्रमाणयति - कर्मयोगेनेति । कर्मैव योगः कर्मयोगः । न हि कर्म- योगयोस्सादृश्यं विना कर्मणि योगत्वरूपणं सम्भवति । मुख इव करे चन्द्रत्वरूपणाभावादिति भावः । चित्तशुद्धिहेतुत्वादिकं तु कर्मयोगयोस्सादृश्यं तद्द्वारा कर्मयोगिनोरपि सादृश्यात्कर्मिणि योगि- शब्दप्रयोगः । यद्वा कर्मिणि योगिशब्दप्रवृत्तौ गीतां प्रमाणयति – ‘कर्मयोगेन योगिना’ मिति । योगिनामिति पदस्य तत्र हि कर्मिणामित्यर्थः । ध्यायिनीव कर्मिण्यपि चित्तसमाधान सत्त्वाद्योगिशब्द- प्रयोग इति भावः । एतेन योगिनामेव देवयानेन ब्रह्मलोकप्राप्त्याऽपुनरावृत्तिः; कर्मिणां तु पितृयाणेन चन्द्रलोक- प्राप्त्या पुनरावृत्तिरेवेति सिद्धम् । O यत्र काले प्रयाता योगिनोऽनावृत्तिं यान्ति तं कालं यत्र कांले प्रयाता योगिन आवृत्तिं यान्ति तं कालं च वक्ष्यामि हे भरतर्षभ ! श्रुणु इत्यन्वयः । भरतर्ष भेति सम्बोधनेन श्रोतुं योग्यत्वमस्त्यर्जुन- स्येति सूच्यते ॥२३॥ । अग्निरिति । तत्रेत्यनेन यत्रेत्यस्याक्षेपः । यत्र अग्निः ज्योतिः अहः शुक्लः षण्मासा उत्तरायणं चास्तीति शेषः । तत्र प्रयाता ब्रह्मविदो जनाः ब्रह्म गच्छन्तीत्यन्वयः । यथाश्रुते अग्निदेवता ज्योति- देवता चेत्यर्थः । ननु कालशब्दस्य कालाभिमानि देवतोपलक्षितमार्गपरत्वमुक्तमिति कृत्वा नास्मिन्मार्गे कालाभि- मानिभिन्नदेवतासत्त्वमुचितं, यदि तथा भिन्नदेवतासत्वमपीष्यते तर्हि कालशब्दस्य तादृशार्थवर्णन- मनुचितमित्यत आह— भूयसामिति । भूयसां बहूनां कालाभिमानिदेवानां सत्त्वादिति शेषः । यत्र काले तं कालमिति निर्देशः ।अष्टमोऽध्यायः । ‘तत्र काले ’ ‘तं कालं’ इति आम्रवणवत् । तथा अहर्देवता अहरभिमानिनी; शुक्लः शुक्लपक्ष- देवता; षण्मासा उत्तरायण; तत्रापि देवतैव । मार्गभूता इति स्थितोऽन्यत्रायं न्याय: । तत्र तस्मिन् मार्गे प्रयाता मृताः गच्छन्ति ब्रह्म ब्रह्मविदः ब्रह्मोपासका : ब्रह्मोपासनपरा जना: अस्मिन्मार्गे कालाभिमानिदेवतानां भूयसीनां सत्त्वादस्य मार्गस्य कालशब्देन व्यवहारः । अग्न्यादिरूपा कालाभिमान्यश्पसंख्याक देवतावत्त्वेऽपि अहरादिरूपकालाभिमानि बहुसङ्ख्याक देवता सत्त्वा- दयं मार्गः काल इत्युच्यत इत्यर्थः । तत्र दृष्टान्तमाह — आम्रवणवदिति । यथा आमलक्याद्यल्पसङ्खाकवृक्षान्तरवदपि वनमात्र- बाहुल्यवत्त्वादाम्रवणमित्युच्यते तद्वदित्यर्थः । प्रनिरन्तरिति सूत्रेणात्र णत्वम् । ननु मार्गचिह्नानां भोगभूमीनां वा ततच्छब्दैरुपादानसम्भवे किमिति देवताग्रहणमग्न्यादि- ‘शब्दैरित्याशङ्कयाह — मार्गभूता इति, अयं न्याय इति । आतिवाहिककथनात्मको न्याय इत्यर्थः । उक्तं हि सूत्रभाष्ये । तथा च लोकप्रसिद्धेष्वप्यातियान्त्रिकेष्वेवंजातीयक उपदेशो दृश्यते । गच्छ त्वमितो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तमिति । ननु प्रकृतश्लोकोक्ता अग्न्यादयः किं मार्गचिह्नानि ? उत भोगभूमयः ? अथ वा नेतारो गन्तृणामिति संशयः । तत्र मार्गचिह्नानीति पूर्वपक्ष: । तत्स्वरूपत्वादुपदेशस्य । यदा हि कश्चिल्लोके ग्राम नगरं वा प्रतिष्ठा समानोऽनुशिष्यते गच्छेतः त्वममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं ततो नगरं वा प्राप्स्यसीति एवमिहाप्यर्चिषोऽहरहर्न आपूर्यमाणपक्षमिति । यद्वा भोगभूमय इति पूर्वपक्ष: । तथा हि लोकशब्देनान्यादीनुपनिबध्नाति - अग्निलोकमागच्छतीत्यादि । लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते - मनुष्यलोकः पितृलोको देवलोक इति च । अहोरात्रेषु ते लोकेषु सज्जन्त इत्यादि । तस्मान्नातिवाहिका अर्चिरादयः । अचेतनत्वादप्येतेषामातिवा हि कत्वानुपपत्तिः । लोके हि चेतना एव पुरुषा राजनियुक्ता दुर्गेषु मार्गेष्वतिवाह्यानतिवाहयन्तीत्येवं प्राप्ते आहाचार्यः (आति- वाहिका स्तल्लिङ्गादिति ४-३-४ सूत्रम् ) । अर्चिरादिका आतिवाहिका एव तल्लिङ्गात् । चन्द्र- मसो विद्युतः तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयतीति, अमानवस्यातिवाहिकत्वस्य सिद्धत्वात्तलिङ्गे- नार्चिरादीनामप्यातिवाहिकत्वसिद्धिः । यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्तास्ते च मानवास्ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणममानव इति । ननु लिङ्गमात्रमगमकं न्यायाभावात्, नैष दोषः । (सू- उभयव्यामोहात्तत्सिद्धेः ५) एताव- दर्चिरादिमार्गगास्ते देहवियोगात्सम्पिण्डित करणग्रामा इत्यस्वतन्त्राः, अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्य- मित्यतोऽचिराद्यभिमानिनश्चेतना एव देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते । लोके च मत्तमूर्छितादयः सम्पिण्डित करणग्रामाः परप्रयुक्तवर्त्मानो भवन्ति । अनवस्थितत्वादप्यर्चिरादीनां न मार्ग- लक्षणत्वोपपत्तिः । नहि रात्रौ प्रेतस्याहः स्वरूपाभिसम्भव उपपद्यते । नच प्रतिपालनमस्तीत्युक्तं पुरस्तात्, ဝ श्रीभगवद्गीतासु भाय्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ‘क्रमेण’ इति वाक्यशेषः । नहि सद्योमुक्तिभाजां सम्यग्दर्शननिष्ठानां गतिः आगतिर्वा ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवितुमर्हति । अर्चिरादिशब्दता चैषामचिराद्यभिमानादुपपद्यते । सम्पिण्डितकरणग्रामत्वादेव गन्तॄणां न तत्रोपभोगस्सम्भवति । लोकशब्दस्त्वनुपभुञ्जानेष्वपि गन्तृषु गम- यितुं शक्यते । अन्येषां तल्लोकवासिनां भोगभूमित्वात् । अतोऽग्निस्वामिकं लोकं प्राप्तोऽग्निनाति- वाह्यते, वायुस्वामिकं लोकं प्राप्तो वायुनेत्येवं योजयितव्यमिति । I 42 अथार्चिरादिमार्ग व्याख्यास्यामः - वशीकृतप्राणा योगिनस्सन्निहितमृत्युं विदित्वा निश्श्रेणिकथा प्रासादमिव सुषुम्नया मूर्धानमधिरुह्य तं भित्वा सुषुम्ना सम्बद्ध सूर्यरश्मिषु प्रविश्य तदनुसारेण तावदग्नि- लोकं गच्छन्ति । तत्रैवाग्निलोके ज्योतिर्देवताको ज्योतिर्लोक इति कश्चिदवान्तरलोकोऽस्ति । तं च गच्छन्ति । अग्निर्ज्योतिरिति द्वयोर्निर्देशात् । श्रुतौ तु ‘तेऽर्चिषमभिसंभव’ न्तीत्यग्निलोक एक एवोक्तः ज्योतिर्लोकस्याग्निलोकेऽन्तर्भावाशयेन । एतेनाग्निरूपं ज्योतिरिति वेदान्तदेशिकोक्तं परास्तम् । तथासत्यभ्नेरेव ज्योतिष्ट्रेन ज्योति: पदवैयर्थ्यात् । तेन चाग्निना ज्योतिषा वा अतिवाहितास्सन्तः अहर्लोकं गच्छन्ति यस्य चाहरभिमानि देवताविशेषः प्रभुः । तेन चातिवाहिताश्शुक्ललोकं गच्छन्ति; यस्य शुक्लपक्षदेवताभिमानी प्रभुः । तेन चातिवाहितास्तत उत्तरायणलोकं गच्छन्ति । तेन चातिवा- हितास्संवत्सरलोकं गच्छन्ति । तेन चातिवाहिताः पुनर्देवलोकं गच्छन्ति । ततः तेन चातिवाहिता वायुलोकं गच्छन्ति । वायुनातिवाहिता आदित्यलोकं गच्छन्ति । आदित्येनातिवाहिताश्चन्द्रमोलोकं गच्छन्ति । पितृयाणप्राप्यचन्द्रलोकादपरोऽयम् । अत एव ज्योतिश्शास्त्रेषु चन्द्रादुपरि सूर्य इति, भागवतादिषु सूर्यादुपरि चन्द्र इति च द्वेधा निर्देशस्सङ्गच्छते - चन्द्रद्वयसद्भावात् । तेन चन्द्रमसाति- बाहिता विद्युल्लोकं, ततस्तु अमानवः पुरुषः कश्चन हिरण्यगर्भ नियुक्त एत्य विद्युल्लोकाद्वरुणलोकं वरुणलोकादिन्द्रलोकमिन्द्रलोकात्प्रजापतिलोकं प्रजापतिलोकाद्ब्रह्मलोकं गमयति । इति ब्रह्मलोको व्याख्यातः । अयमर्चरादिमार्ग : उत्तरदिवस्थत्वादुत्तरमार्गः । देवलोकविषयत्वाद्देवयानमिति चोच्यते । अत्रापि मार्गे ये ब्रह्मलोकं गतास्त एवापुनरावर्तिनः । ततोऽर्वाक्तन लोकगतास्तु पुनरावर्तिन एव । न चार्वाक्कनलोकाप्राप्तिरिति वाच्यं, अग्निवाय्वाद्युपासकानामग्न्यादिलोकप्राप्तेः । अत एव हीन्द्रलोकं स्वर्गं गतानामपि पुनरावृत्तिः । तस्मान्नोत्तरमार्गप्राप्तिमात्रेण पुंसामपुनरावृत्तिः, किंतु ब्रह्म- लोकप्राप्तिवशादेवेति स्थितम् । ननु ब्रह्म ब्रह्मविदो गच्छन्तीत्यत्र यथाश्रुतं ब्रह्मविदस्सायुज्यंप्राप्तिरूपमर्थं विहाय ब्रह्मोपासनपराः क्रमेण ब्रह्म गच्छन्तीत्यर्थक रूपनमन्याय्यमित्यत आह-न हीति, सद्योमुक्तिभाजामिति । ‘ब्रह्मवि- मैव भवतीति श्रुतेः । ब्रह्मज्ञानमन्वेव तेषां मुक्तिरित्यर्थः । अथ वा ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये, अथ सम्पत्स्ये’ इति श्रुतेः ज्ञानिनां देहपात - मन्वेव मुक्तिरित्यर्थः । अष्टमोऽध्यायः । १०१ . कचिदस्ति ‘न तस्य प्राणा उत्क्रामन्ति’ इति श्रुतेः । ब्रह्मसंलीनप्राणा एव ते ब्रह्ममया ब्रह्म- भूता एव ते । क्रमेण तु गच्छन्ति ब्रह्मविदो जनाः ॥२४॥ धूमो रात्रिस्तथा कृष्णष्षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥ धूम इति । धूमो रात्रिः धूमाभिमानिनी राज्यभिमानिनी च देवता । तथा कृष्ण: कृष्णपक्षदेवता । षण्मासा दक्षिणायनमिति च पूर्ववद्देवतैव । तत्र चन्द्रमसि भवं चान्द्रमसं ज्योतिः फलमिष्टाधिकारी योगी कर्मी प्राप्य भुक्त्वा तत्क्षयादिह पुनः निवर्तते ॥२५॥ गतिरागतिर्वा नास्तीति । ‘तत्त्वविदः प्राणा नोत्क्रामन्ति, अत्रैव समवलीयन्ते’ इति श्रुतेः । न हि परिपूर्णस्य ब्रह्मणः कापि गमनं कुतश्चिदागमनं वा सम्भवतीति भावः । न च मुक्तोऽयं ब्रह्मविदेव, न ब्रह्मेति वाच्यं, ‘ब्रह्मविद्ब्रह्मैव भवतीति श्रुतेः । एतेन जीवाणुत्ववादः परास्तो जीवमध्यमपरिमाणत्ववादश्च । अणोर्जीवस्य पूर्णब्रह्मत्वायोगात्, मध्यमपरिमाणस्य जीवस्य नित्यब्रह्मत्वायोगाच्च । न च ब्रह्माप्यपूर्णमेवेति वाच्यं, बृहत्यर्थानुगमात् । अपूर्णस्य न हि निरतिशयवृद्धिः । ब्रह्मशब्दस्य ब्रह्मणि प्रयोगे निरतिशयवृद्धिर्हि प्रवृत्तिनिमित्तम् । वृद्धिमात्रस्य प्रवृत्तिनिमित्तत्त्वे तु देहादिरपि ब्रह्म भवेदिति । अत्र ब्रह्मविदो जना ब्रह्म हिरण्यगर्भं गच्छन्तीत्यप्यर्थः प्रतिभाति परं तु साक्षाद्धिरण्यगर्भप्रा प्रत्ययोगात् ब्रह्मपदस्य ब्रह्मलोक इति लाक्षणिकार्थः कल्पनीयः स्यादिति तदुपेक्षितं भाष्यकारैः । ओमित्येकाक्षरं ब्रह्मेत्यादिना ब्रह्मोपासकस्य प्रकृतत्वान्मार्गस्य चास्य ब्रह्मोपासकपरत्वाद्ब्रह्मविद इत्यस्य ब्रह्मोपासनपरा इत्युक्तम् । ब्रह्मबुद्धया प्रणवादिकं दहरादिकं वोपासमाना इत्यर्थः । एतेन कर्मिणां क्रमेणापि ब्रह्मप्राप्त्यभावस्सिद्ध:- तेषां मार्गान्तरस्य वक्ष्यमाणत्वात् ॥२४॥ धूम इति । । यत्र ‘धूमो रात्रिस्तथा कृष्णष्षण्मासा दक्षिणायन’ मित्येतास्सन्ति तत्र मार्गे योगी गत्वा चान्द्रमसं ज्योतिः प्राप्य निवर्तते, षण्मासा दक्षिणायनमिति षण्मासात्मको यो दक्षिणायनकोल- स्तदभिमानि देवतेत्यर्थः । चान्द्रमसँ चन्द्रलोकस्थम् । ज्योतिषो भोग्यत्वाभावादाह– फलमिति । इष्टं यागः, तत्रा घिकारी इष्टाधिकारी सोमयाजीत्यर्थः । फलितमाह — कर्मीति । अपिशब्दात्पूत - कारिग्रहणम् । कर्मिशब्देनेष्टाधिकारिग्रहणात् । ये शास्त्रसिद्धं स्वस्ववर्णाश्रमविहितं यज्ञादिलक्षणं कर्म सकाममाचरितवन्तः ते, ये वा वापी- कूपादिपुण्यकर्माणि कृतवन्तस्ते चैते उभे अपि चन्द्रलोकं पितृयाणेन गत्वा तत्र स्वकृतकर्मफलं भुक्वा पुनरिह जन्मने प्रति निवर्तन्त इति परमार्थः । ‘अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति’ इत्यादिश्रुतिरत्रानुसन्धेया ॥२५॥ १०२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु शुक्लकृष्णे गती ह्येते जगतश्शाश्वते मते । एकया यात्यनावृत्तिमन्ययाssवर्तते पुनः ॥ २६ ॥ शुक्लकृष्णे इति । शुक्लकृष्णे शुक्ला च कृष्णा च शुक्लकृष्णे, ज्ञानप्रकाशकत्वात् शुक्ला, तदभावात् कृष्णा ; एते शुक्लकृष्णे हि गती जगत इत्यधिकृतानां ज्ञानकर्मणोः, जगतः सर्वस्यैव एते गती सम्भवतः । शाश्वते निन्ये, संसारस्य नित्यत्वात्, मते अभिप्रेते । तत्रैकया शुक्लया यात्यनावृत्ति, अन्यया इतरया आवर्तते पुनः भूयः ॥ २६ ॥ नैते सृती पार्थ! जानन् योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन! ॥२७॥ नेति । एते यथोक्ते सृती मार्गों पार्थ ! जानन् संसाराय एका, अन्या. मोक्षाय इति, योगी न मुह्यति कश्चन कश्चिदपि । तस्मात्सर्वेषु कालेषु योगयुक्तस्समाहितो भव अर्जुन ॥ शुक्लेति । देवयानस्य शुक्लत्वे पितृयाणस्य कृष्णत्वे च हेतुमाह-ज्ञानेति । ब्रह्मलोकं प्राप्तानां सम्यग्दर्शनसम्भवाद्ब्रह्मलोकप्रापक मार्गस्य ज्ञानप्रकाशकत्वमिति भावः । तदभावाद्ज्ञानप्रकाशना- भावात् शुक्लस्य चन्द्रादितेजसः घटादिपदार्थप्रकाशकत्वं, नीलस्य तमसस्तदप्रकाशकत्वं च प्रसिद्धमिति प्रकाशकत्वगुणयोगाच्छुक्लत्वं देवयानस्य, तदभावात्कृष्णत्वं पितृयाणस्येति तत्त्वम् । शुक्लपक्षसम्बन्धात्कृष्णपक्षसम्बन्धाच्च देवयानपितृयाणयोस्तत्तच्छब्दवाच्यत्वमिति केचित् । त- न्मन्दम् - सत्स्वहरादिषु शुक्लकृष्णयोरेव ग्रहणे हेत्वभावात् । आद्यमर्चिषमन्त्यं ब्रह्माणं वाऽवलम्ब्यैव वक्तव्यत्वात् । तथैवार्चिरादिमार्गे धूमादिमार्ग इति च प्रसिद्धत्वादिति ।
जगच्छन्दार्थमाह – ज्ञानकर्मणोरधिकृतानामिति । प्रपञ्चस्याग्रहणे हेतुमाह — नेति । पापिनां नारकगत्यन्तरसद्भावादिति भावः । कथं गत्योर्नित्यत्वमत आह- संसारस्येति । यावद्व्यवहारं नित्यत्वादित्यर्थः । प्रवाहरूपेणानाद्यनन्तत्वमिति वा । पूर्वपूर्वसंसारादुत्तरोत्तरसंसार इति संसारो हाय- मनादिरनन्तश्च । एतेन परमार्थतः स्वरूपतश्च संसारवद्गत्योरपि तदन्तरस्थयोर्न नित्यत्वमिति सिद्धम् । तत्र गतिद्वयमध्ये याति पुरुषोऽधिकृत इति शेषः । + ननु तैत्तिरीयकश्रुतिप्रामाण्यात् धूमादिमार्गेण पितॄणामेव महिमानं गत्वा चन्द्रलोकं प्राप्तो यो दक्षिणायने मृतो विद्वान् सोऽपि ब्रह्मलोकं गत्वा नावर्तत एवेति कृत्वा कथमुक्तमन्यायाऽऽवर्तत इति चेन्नैष दोष:, अविद्वान् चन्द्रलोकं गत आवर्तत इति तदर्थात् । ‘विदुषश्चन्द्रलोकं गतस्यापि प्रारब्धा- बसाने देवयानेन पुनब्रह्मलोकप्राप्तिस्सम्भवत्येवेति ॥२६॥ नेति न मुह्यतीति । धूमादिमार्गेण चन्द्रलोकं गत्वा तत्र भोगान् भुञ्जीयेति, इन्द्रलोकादीन् देवयानेन गत्वा वा तत्र भोगान् भुञ्जीयेति मोहं नापद्यते । अशाश्वतत्वा तद्भोगानां पुनरावर्तित्वाच स्वस्य । ततश्च न कर्मस्विष्टापूर्तेषु प्रवर्तते । परं तु मोक्षप्रदं ब्रह्मलोकं प्रणवाद्युपासनद्वारेण देवयानेन शृणु तस्य योगस्य माहात्म्यम्- अष्टमोऽध्यायः । वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥२८॥ इति श्रीमहाभारते शतसाहस्यां संहितायां नैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णा- र्जुनसंवादे तारक (अक्षर) ब्रह्मयोगोनामाष्टमोऽध्यायः । १०३ वेदेष्विति । वेदेषु सम्यगधीतेषु यज्ञेषु च साद्गुण्येनानुष्ठितेषु तपस्सु च सुतप्तेषु, दानेषु च सम्यग्दत्तेषु एतेषु यत्पुण्यफलं प्रदिष्टं शास्त्रेण, अत्येत्यतीत्य गच्छति तत्सर्वं फलजातं, इदं विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तमर्थ सम्यक् अवधार्य अनुष्ठाय योगी परं उत्कृष्टमैश्वरं स्थानमुपैति च प्रतिपद्यते, आद्यं आदौ भवं कारणं ब्रह्म इत्यर्थः ॥ २८ ॥ इति श्री परमहंस परिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीम- च्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये अष्टमोऽध्यायः । गन्तुमेव प्रवर्तत इत्यर्थः । तस्मादिति । यस्मान्मार्गद्वयज्ञो योगी न मुह्यति तस्मादित्यर्थः । स्वोप- देशेन सृतिद्वयं जानतोऽप्यर्जुनस्य चित्तसमाघानाभावे मोहः स्यादित्यत आह-योगयुक्तो भवाऽर्जु- नेति ॥२७॥ वेदेष्विति । साक्षाद्वेदादिषु पुण्याभावादाह - सम्यगन्तेष्वित्यादीनि विशेषणानि । सम्य- . गन्तास्सम्यक्परिसमाप्ताः तेषु, दानेषु दीयन्त इति दानानि सुवर्णादीनि तेषु सर्ववेदपारायणात्साद्गुण्येन यज्ञानुष्ठानात्तपःकरणात्पुण्यक्षेत्रेषु द्रव्यविनियोगाच्च यत्फलं भवति पुंसामिति शास्त्रेणोच्यत इत्यर्थः । योगी इदं विदित्वा तत्सर्वं फलजातमस्येति ततोऽधिकं लभत इत्यर्थः । न केवलं वेदनमात्रात्कि तर्हि एतदनुष्ठानादेवेत्याह-उक्तमर्थमिति । सप्त प्रश्ना:- किं ब्रह्म ? किमध्यात्मम् ? किं कर्म ? / किमधि- दैवम् ? किमधिभूतम् ? कोऽघियज्ञः ? प्रयाणकाले कथं ज्ञेय ईश्वर इति । ऐश्वरमीश्वरस्येदं वैष्णव- मित्यर्थः । स्थानं स्वरूपमित्यर्थः । आदौ सर्वस्य जगत आदौ भवति अस्ति प्रकाशत इति वा भवं, ‘सदेव सोम्येदमग्र आसी’ दिति श्रुतेरिति भावः । कार्यस्य पश्चाद्भवत्वादाह - - आद्य कारणमिति । ‘यतो वा इमानि भूतानि जायन्तेत्यादिना । ब्रह्मण एव परमकारणत्वादाह – ब्रह्मेति । ईश्वरखरूप- भूतं सच्चिदानन्दं ब्रह्म प्राप्नोतीत्यर्थः; मुक्तो भवतीति यावत् । सति सम्यग्दर्शने साक्षात्तदभावे ब्रह्म- लोकप्राप्तिद्वारेण वा सायुज्यं लभत इति भावः । यत्तु रामानुजः — परं स्थानं परं पदं वैकुण्ठमिति — तदयुक्तं, वैकुण्ठस्य सत्य - लोकावान्तरविशेषस्य सादित्वेनानादित्वाभावादाद्यमनादिमिति तेन व्याख्यातत्वाच्च । नच ’ तदक्षरे परमे व्योमन् ’ इति श्रुतेः परमव्योमरूपवैकुण्ठलोकोऽनादिरिति वाच्यं ब्रह्मण एवाक्षरपरमव्योमत्वात् । भूताकाशातिरिक्तश्चिदाकाशो हि परमव्योम । स चाविनाशित्वादक्षरः । चित आकाशत्वं च निष्प्रप- १०४ श्रीभगवद्गीतासु- भाष्याकप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्चत्वरूपं निर्लेपत्वादिरूपं वा । यदि त्वात्मातिरिक्तं परमव्योमेति किञ्चिद्वस्तु स्यात्तर्हि तन्निलयस्तदाघेय आत्मा ब्रह्म तन्यून एव स्यात् - आधेयस्य न्यूनत्वादाधारात् । तच्चायुक्तं निरतिशयत्वाद्ब्रह्मणः । नहि गुणत एव निरतिशय आत्मा, किं तु स्वरूपतोऽपि । अन्यथा निरतिशयत्वस्यार्थजरतीयतापत्तेः । सर्वा - 1 धारस्य परस्य ब्रह्मणो व्योमाधेयत्वे सति सर्वाधारत्व भङ्गाच्च । परमव्योमान्तरस्य तस्य सर्वव्यापित्वाभाव- प्रसङ्गाच्च । तस्मात्सर्वव्यापिनस्सर्वाधारस्य सर्वात्मनो विष्णोर्नास्ति किञ्चिन्नियतं स्थानं, यद्योगी प्रयायात् । सति तु तस्मिन् स्थाने विष्णुत्वस्यैव भङ्गप्रसङ्गादित्यलम् । अक्षरपरब्रह्मयोग इति । अक्षरस्याविनाशिनः परब्रह्मणः परमात्मानः योगस्सम्बन्धो यस्मिन् स तथोक्तः । अक्षरपरब्रह्मस्वरूप तत्प्राप्त्युपायादेरस्मिन्नध्याये प्रोक्तत्वात् ॥ २८ ॥ अमू अर्चिरादिसंग्रह लोक- ‘अग्निर्ज्योतिरहश्शुक्लष्षण्मासा उत्तरायणम् । संवत्सरो देवलोको वायुलोकस्ततः परः ॥ आदित्यश्चन्द्रमा विद्युलोकश्च वरुणालयः । इन्द्रः प्रजापतिर्ब्रह्मा विद्युतोऽमानवः पुमान् ॥’ अग्न्यादयश्चतुर्दश लोकाः । अग्न्यादिलोकेषु अग्न्यादयः मानवा एव पुरुषा आतिवाहिकाः, विद्युल्लोकादनन्तरेषु तु अमानवः पुरुष आतिवाहिकः । अग्निर्ज्योतिरुभावप्येक एवार्चिर्लोक इति बोध्यम् । ‘धूमो रात्रिः कृष्णपक्षष्षण्मासा दक्षिणायनम् । संवत्सरः पितृलोक आकाशश्चन्द्रमण्डलम् ॥ इत्ययं धूमादिमार्ग संग्रह श्लोकः । इति श्री बेल कोण्डोपनामक रामकविकृते श्रीमच्छङ्करभगवद्गीताभाष्यार्कप्रकाशे ज्ञानविज्ञानयोगो नाम अष्टमोऽध्यायः । १४