०७

श्रीहयग्रीवाय नमः । भाग्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवद्गीतास सप्तमोऽध्यायः । ‘योगिनामपि सर्वेषां मतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मत’ इति प्रश्नबीजमुपन्यस्य, खयमेव ‘ईदृशं मदीयं तत्त्वमेवं मद्गतान्तरात्मा स्यादित्येत- द्विवक्षुः । श्रीभगवानुवाच — मय्यासक्तमनाः पार्थ! योगं युंजन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥ मयीति । मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनो यस्य सः मय्यासक्तमनाः, हेपार्थ! योगं युंजन्मनस्समाधानं कुर्वन्, मदाश्रयः अहमेव परमेश्वरः आश्रयो यस्य स मदाश्रयः । यो हि कश्चित् पुरुषार्थेन केनचिदर्थी भवति स तत्साधनं कर्माग्निहोत्रादि तपो दानं वा • पूर्वोत्तराध्याययोस्सङ्गतिं दर्शयति - योगिनामिति, प्रश्नबीजमुपन्यस्येति । कीदृश वासु - देवस्य तव तत्त्वम् ? कथं वा योगी वासुदेवगतान्तरात्मा स्यात् ? इत्यर्जुनस्य प्रश्नद्वयं यथा स्यात्तथो- क्त्वेत्यर्थः । नहि ’ तस्माद्योगी भवार्ज’ नेति ( भग - ६-४६) श्लोकेनैव पूर्वाध्यायस्य समाप्तौ कृतायां दर्शितयोः प्रश्नयोरुत्थितिस्स्यादिति भावः । एतेन तत्पदार्थस्य वासुदेवस्य तत्त्वनिर्धारण परमिदं सप्तमा- ध्यायप्रभृतिकं मध्यमषट्कं गीताशास्त्रस्येति सूचितम् । स्वयमेवेति । अर्जुनेनापृष्टस्सन्नेवेत्यर्थः । शिष्यप्रीत्यादिनेति भावः । ’ मदीयं तत्त्वमीदृशं योगी एवं महतान्तरात्मा स्यादित्येतदशद्वय विवक्षुर्वक्तुमिच्छुर्भगवानुवाच - मयीत्यादिकम् । हे पार्थ! त्वं मय्यासक्तमनाः मदाश्रयस्सन् योगं युञ्जन् असंशयं समयं मां यथां ज्ञास्यसि तच्छृणु इत्यन्वयः । मयीत्यस्यार्थमाह – परमेश्वर इति । ननु अस्मत्पदस्य बक्तरि शक्तिः बंता च कृष्णः सङ्घातविशेष एवेति कथं मयीति कृष्णोक्तपदस्य परमेश्वरार्थलाभ इति चेदुच्यते—कृष्णस्य सङ्घातविशेषेहमभिमानाभावात्स्वस्वरूप चैतन्ये परमात्मन्येवाहं बुद्धिसत्त्वादस्मच्छन्दस्य चात्र लाक्षणिकत्वादिति । नचैवमस्मदादिभिरप्यहं परमात्मेत्युच्येतेति वाच्यं इष्टापत्तेः । नचाहं ब्रह्मास्मीत्यत्राहपदस्य प्रतीचि लक्षणेति वाच्यं प्रत्यवपरयोरभेदात् । नच परः परोक्षः प्रत्यगात्मा त्वपरोक्ष इति वाच्यं, ‘यस्साक्षा- दपरोक्षाद्ब्रह्मेति श्रुतेः परस्याप्यपरोक्षत्वात् । नच परः परमाकाशेऽस्ति प्रत्यगात्मा तु हृदीति वाच्यं, हृदयाकाशस्यैव परमाकाशत्वात् । ‘ईश्वरस्सर्वभूतानां हृदेशेऽजुन तिष्ठतीति (भग- १८ - ६१ ) गीतायां अन्तर्यामिब्राह्मणेन च ईश्वरस्य हृदि स्थितिप्रतिपादनाच्च । नच परस्यैव प्रत्यक्त्वे भ्रामणाद्यनुपपत्ति:- स्वस्य श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु किंचिदाश्रयं प्रतिपद्यते, अयं तु योगी मामेवाश्रयं प्रतिपद्यते, हित्वा अन्यत्साधनान्तरं मय्येव आसक्तमनाः भवति । यस्त्वमेवंभूतस्सन् असंशयं समग्रं समस्तं विभूतिचलशक्त्यैश्व- र्यादिगुणसम्पन्नं मां यथा येन प्रकारेण ज्ञास्यसि संशयमन्तरेण ‘एवमेव भगवा’ निति, तच्छृणु - उच्यमानं मया ॥ १ ॥ स्वभ्रामणाद्ययोगादिति वाच्यं, कार्यकरणसङ्घातस्यानात्मन एवात्ममायया भ्राम्यमाणत्वात् । अन्यथा प्रतीचस्सति भ्रमणे विकारित्वादनित्यत्वापत्तेः । नच निर्विकारस्यात्मनः कथं भ्रामणादिविकारापत्तिरिति वाच्यं, अविकारस्यैव अयस्कान्तोपलस्य लोहभ्रामणदर्शनात् । न ह्ययमात्मा स्वयमेवाडनात्मनो भ्रामयति कुलालश्चक्रमिव, किंतु मायया । सा हि सर्वाघटित घटना धुरंधरा स्वाश्रयं प्रत्यगात्मानमविकुर्वत्येव कार्य निर्वहति, यथा इन्द्रजालमाया गगनमविकुर्वत्येव तत्र गन्धर्वनगरं निर्माति तद्वत् । तस्मात्कृष्णोक्तस्य अस्मच्छन्दस्य लक्षणया वृतिरात्मनि । यद्वा अभिधयैवेति ब्रूमः - रुद्रादित्यादिसङ्घातविशेषाणां जीवत्वमिव कृष्णसङ्घातविशेषस्येश्व- रत्वात्, कृष्णोक्तस्यास्मच्छब्दस्य परमेश्वर इत्यर्थ उचित एव । न च सङ्घातविशेषत्वे समाने सति कुतः कृष्ण एवेश्वरो न रुद्रादित्यादय इति वाच्यं कृष्णसङ्घातस्य मायामयत्वाद्रुद्रादीनामस्मदादीनां च सङ्घातस्य कर्माधीनत्वादिति । तस्माच्छ्रीकृष्ण देहेन्द्रियाद्याकारपरिणतमायावच्छिन्नचैतन्यस्य परमेश्वरत्वं युक्तं देवमनुष्यादिदेहावच्छिन्न चैतन्यस्य जीवत्वमिवेति संक्षेपः । कीदृशः परमेश्वर इत्यत आह- वक्ष्यमाणेति । वक्ष्यमाणानि विशेषणानि प्रकृतिद्वयवत्त्व- सर्वजगत्प्रभवत्वसर्वात्मत्वादीनि यस्य तस्मिन् तथोक्ते; अर्थी प्रयोजनवान्; देवदत्तेन पुत्रवानितिव- स्प्रयोगः । यत्किञ्चित्पुरुषार्थाकांक्षीत्यर्थः । आश्रयमाधारं प्रतिपद्यते प्राप्नोति; आश्रयतीत्यर्थः । अयं त्विति तुशब्दो वैलक्षण्यार्थः । मामेवेति । आत्मानमेवेत्यर्थः । न तु तपोदानादिकमित्येवकारार्थः । अमुमेव विशदयति-हित्वान्यदिति, यस्त्वमिति । यो योगी मय्यासक्तमना मदाश्रयश्च भवति स एवेति शेषः । त्वमेवं भूतस्सन् मय्यासक्तमना मदाश्रयश्च भवन् सन्नित्यर्थः । यद्वा यो मदाश्रयस्सन् मय्यासक्तमना भवति यो मय्यासक्तमनास्सन् मदाश्रयो भवतीति वा त्वमेवंभूतस्सन्नित्यन्वयः । अथ वा एवंभूतो यथोक्तध्याननिष्ठपुरुषवदेव मय्यासक्तमना यस्त्वं स त्वं तथाविधस्संन्निति । वस्तुतस्तु य इति प्रक्षिप्तमेव । असंशयमिति क्रियाविशेषणम् । तदेवाह - संशयमन्तरेणेति । निस्संशयं यथा तथेत्यर्थः । आत्मस्वरूपे सामग्र्याऽसामग्र्यायोगादाह – समस्त विभूतीत्यादि । समस्तैः विभूतिर्विभवः; बलं शक्तिः; ऐश्वर्यमादिपदाद्ज्ञानेच्छादिग्रहणम् । एतैर्गुणैस्सम्पन्नं; तत्र बलं शरीरसामर्थ्य, शक्तिर्मनस्सामर्थ्य- मिति विवेकः । मामिति । मायाविनमीश्वरमित्यर्थः । शुद्धब्रह्मणि विभूत्याद्ययोगात् । ज्ञानस्याकारमाह - एवमेव भगवानिति । एवमेव भगवानिति यथा ज्ञास्यसीत्यन्वयः । तन्मयोच्यमानं शृणु येन प्रकारेण मयोक्ते सति त्वं मामेवमेव भगवानिति ज्ञास्यसि तेन प्रकारेणाहं सप्तमोऽध्यायः । ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । ‘यज्ञात्वा नेह भूयोऽन्यत् ज्ञातव्यमवशिष्यते ॥ २ ॥ ज्ञानमिति । तच्च मद्विषयं ज्ञानं ते तुभ्यमहं सविज्ञानं विज्ञानसहितं स्वानुभवयुक्त- मिदं वक्ष्यामि - कथयिष्याम्यशेषतः कात्स्न्र्त्स्न्येन । तत् ज्ञानं विवक्षितं स्तौति श्रोतुरभिमुखी- करणाय । यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा नेह भूयः पुनरन्यत् ज्ञातव्यं पुरुषार्थसाधनमवशिष्यते नावशिष्टं भवति इति । मत्तत्त्वज्ञो यः स सर्वज्ञो भवतीत्यर्थः ॥ २ ॥ वच्मि मयोच्यमानं तद्वचनं शृण्वत्यर्थः । यद्वा एवंप्रकारेण त्वं मां ज्ञास्यसि तत्प्रकारवत् मयोच्यमानं शृण्वत्यर्थः । अथ वा तदित्यव्ययं तथेत्यर्थे वर्तते । तथा शृण्वत्युक्ते किं शृण्वित्याकांक्षाया जातत्वा- तत्पूरणार्थमाह भाष्यकारः - मयोच्यमानमिति । अर्थाद्वचनमिति लभ्यते ज्ञानमिति वा । अत्र यथा येन ज्ञानेनेति रामानुजः, तत्तु ‘प्रकारवचनेथा’ लिति पाणिनीयशासन विरुद्धत्वा- दुपेक्ष्यम् । मूलकर्तुस्सत्यामेतद्विवक्षायां येन ज्ञास्यति तच्छृण्वित्येव ब्रूयात् ॥१॥ ज्ञानमिति । किंविषयं ज्ञानमत आह- तच्च मद्विषयमिति । ज्ञानं शास्त्रार्थपरिज्ञान, विज्ञानं तस्य स्वानुभव करणमिति प्रागुक्तम् । ज्ञानस्य विज्ञानसाहित्यप्रतिपादनं च ज्ञानस्यानुभव - पर्यवसायित्वं स्वानुभवसिद्धस्यैव ज्ञानस्य प्रामाण्यं चेत्येतद्द्योतयितुं कृतम् । एवं च स्वानुभवयुक्तनाम स्वस्य सर्वज्ञेश्वरस्य अनुभवसिद्धमित्यर्थः । तेन च वक्ष्यमाणज्ञानस्य परमप्रामाण्यं सिद्धं भवति । यथानुभवं तव शास्त्रार्थज्ञानं वक्ष्यामीति परमार्थः । यद्वा सविज्ञानं यथा तथेति क्रियाविशेषणम् । तथा च मदुक्तं ज्ञानं यथा तवानुभवारूढं भवेत्तथा ज्ञानं वक्ष्यामीत्यर्थः । अस्य च ज्ञानस्य ईश्वरविषयत्वा- दाह — मत्तत्त्वज्ञ इति । सर्वज्ञो भवतीति ; ईश्वरतत्त्वस्यैवात्मत्वादीश्वरस्य च सर्वज्ञत्वादात्मवित्पुरुष- स्सर्वज्ञ एवेत्यर्थः । अथ वा ममेश्वरस्य तत्त्वं प्रत्यगभिन्नं ब्रह्मैव, यस्तद्वेद स सर्वज्ञ एव सर्वस्य ब्रह्मत्वा- दित्यभिप्रायः । एतेन तत्त्वविदः कथं सर्वज्ञत्वं सर्वप्रपञ्चसाक्षात्काराभावादिति निरस्तम् — ब्रह्मज्ञानस्यैव सर्वज्ञानत्वात्, एकविज्ञानेन सर्वविज्ञानस्यैतदभिप्रायेणैव श्रुत्या प्रतिज्ञातत्वात्, घटपटादिसर्वप्रपञ्च ज्ञानस्य निष्प्रयोजनत्वात्, प्रत्युत द्वैतज्ञानस्य बन्धहेतुत्वाच्चेति । अनेन श्लोकेन आत्मज्ञानमेव परमपुरुषार्थ- साधनं तद्वानात्मैवेश्वर इति सिद्धम् । यत्तु रामानुजः - विज्ञानं विविक्ताकारविषयं ज्ञानं यथाऽहं मध्यतिरिक्तात्समस्तचिदचि- द्वस्तुजातान्निखिलहेयप्रत्यनीकतयाऽनव घिका तिशयासङ्ख्येयकश्याणगुणगणानन्तमहाविभूतितया च विविक्तः, तेन विविक्तविषयज्ञानेन सह मत्स्वरूपविषयं ज्ञानं वक्ष्यामीति, तत्तुच्छम् — विविक्ताकारविषय- ज्ञानस्य विज्ञानत्वें अविविक्ताकारविषयज्ञानस्य ज्ञानत्वापत्तेः स्वरूपविषयज्ञानस्य नैव ज्ञानत्वमुपपद्यते– ईश्वरस्वरूपस्य त्वदुक्तविघया विविक्तत्वेन तद्ज्ञानस्यापि विविक्तविषयज्ञानत्वेन विज्ञानत्वापत्तेः । नच ईश्वरश्चिदचिद्वस्तुजाता द्विविक्त इति ज्ञानं विज्ञानं, ईश्वरः सच्चिदानन्दमय इत्यादिज्ञानं ज्ञानमिति वाच्यं तथात्वे ज्ञानविज्ञानयोरन्योन्याश्रयदोषापत्तेरुभयस्याप्यसिद्धेः, ईश्वरस्य प्रपञ्चाद्विविक्तत्वविज्ञानं विना 8 + श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सच्चिदानन्दमयत्वज्ञानानुदयात्, सच्चिदानन्दमयत्वज्ञानं विना प्रपञ्च विविक्तृत्वविज्ञानानुदयाच्च ईश्वरः सच्चिदानन्दरूपः प्रपञ्चोऽनृतजडदुःखात्मक इति ज्ञाने सतीश्वरः प्रपञ्चाद्विविक्त इति विवेकस्योपदेशं विनैव सिद्धत्वेन सविज्ञानत्वविशेषणानर्थक्यप्रसङ्गात् । अविवेकस्याज्ञानत्वेन विवेकज्ञानरूपविज्ञानाति- रिक्तज्ञानसद्भावस्याप्रमाणत्वाच्च, घटपटविवेकं विना घट इति पट इति च स्वरूपज्ञानस्यानुदयाच्च । 1 ननु सर्वथाऽपि घट इति स्वरूपज्ञानाद्भटः पटाद्भिन्न इति विवेकज्ञानं भिन्नमेव- ज्ञाने घट- मात्रस्यैव विषयत्वात् विवेकज्ञाने घटपटयोस्तद्भेदस्य च विषयत्वात् । तथेश्वर इति ज्ञानादीश्वरः सच्चि - दानन्दरूप इति ज्ञानाद्वेश्वरः प्रपञ्चाद्भिन इति विज्ञानस्य विवेकज्ञानरूपस्य बैलक्षण्यमवश्वमभ्युपेयमिति चेत ; तर्ह्यकारभेदात् ज्ञानविज्ञानभेद इवाकारभेदात् ज्ञानभेदोऽपि स्यादेव घटः पटः कुड्यं कुसूल- मिति । नचेष्टापत्ति :- विषयभेदेऽपि विषयिणो ज्ञानस्याभेद इति सिद्धान्तात् । अन्यथा प्रतिविषयं ज्ञानमिव प्रतिज्ञानं ज्ञातापि भिद्यत एव । तथात्वे एकस्मिन्नेव देहे नानाजीवसत्त्वप्रसङ्गः । नच चैतन्य- रूपज्ञानस्यैकत्वेऽपि बुद्धिवृत्तिरूपज्ञानानामनेकत्वात्स्वत एव भेद:- वृत्तेः क्षणिकत्वात्, क्षणे क्षणे जाय- मानानां वृत्तीनामभेदस्य दुर्वचत्वादिति वाच्यं वृत्तेः क्रियारूपाया जडत्वेनाज्ञानत्वाद्वृत्तिप्रतिफलित- चैतन्यस्यैव ज्ञानत्वात्तत्रापि तस्माद्वृत्तिभेदेऽपि न ज्ञानभेदः, ज्ञानस्य नित्यत्वात्स्वप्रभत्वाच्च न जन्मादिकं किंतु वृत्तेरेव । तदेव ज्ञानं चैतन्यात्मकमीश्वर इति सिद्धमीश्वरस्यात्मनो ज्ञानैकाकारत्वम् । ननु वृत्तावेव ज्ञानत्वमुपचारादुच्यते; सैव वृत्तिर्ज्ञानविज्ञानभेदभिन्नाः सा चेश्वरविषयेहोच्यते- सच्चिदानन्दरूप ईश्वर इति ईश्वरः प्रपञ्चाद्विविक्त इति च; इतिचेत्, मैवम् - - वृत्तिज्ञानं वृत्तिविज्ञानं ‘चेति वृत्तिद्वैविध्यस्य काप्यप्रसिद्धेः त्वदुक्तवृत्तिविज्ञानस्यापि वृत्तिज्ञानत्वात् यथा घट इत्येतद्वृत्तिज्ञानं तथा घटः पटाद्भिन्न इत्येतदपि वृत्तिज्ञानमेव हि । ननु घटादिप्रत्यक्षस्थलेऽन्तःकरणस्य चक्षुर्द्वारा विषयदेशं गतस्य विषयाकारेण यः परिणामः स वृत्तिरिति परिभाषितत्वाद्धट इत्यस्य वृत्तिज्ञानत्वेऽपि घटः पटाद्भिन्न इत्यस्य न वृत्तिज्ञानत्वं- घटपटयो- रप्रत्यक्षत्वेऽपि घटः पटाद्भिन्न इत्यस्य ज्ञानस्य जायमानत्वाद्धटपटरूपेणान्तःकरणपरिणामाभावात्, घट- पटभेदाका रेणान्तःकरणस्य परिणामासम्भवाच्च । ततश्च घटः पटाद्भिन्न इतीदं विज्ञानमेव न वृत्तिज्ञान- मिति चेन्न, एवमपि वृत्तिज्ञानचैतन्यज्ञानातिरिक्त विज्ञानस्याप्रसिद्धत्वात्, तत्कल्पनाया गौरवत्वात्, सुखाद्याकारान्तःकरणपरिणामवद्धटपट भेदाकारान्तःकरणपरिणामस्य भवितव्यत्वाद्धटपट भेदज्ञानस्यापि वृत्ति- ज्ञानत्वसम्भवात् । ननु भवतु नाम विज्ञानमपि वृत्तिज्ञानं, तथाऽपि घटपटज्ञानयोरिव ज्ञानविज्ञानयोर्दर्शितयोर- स्त्याकार भेदाद्भेदः कल्पित इति चेत्सत्यम् - कल्पितोऽस्तुनाम भेदः, न तस्येह प्रयोजनं - ईश्वर- स्वरूपस्यैवेह वक्ष्यमाणत्वात्तावतैवेश्वरजगतोर्वैलक्षण्य सिद्धेः । प्रपञ्चवैलक्षण्यस्यैवेश्वरस्वरूपत्वाच्च । यः प्रपञ्च विलक्षणत्वेनेश्वरं न जानाति स ईश्वरस्वरूपानभिज्ञ एव हि ईश्वरस्वरूपस्य प्रपञ्च विलक्षणत्वात् । ’ 1 सप्तमोऽध्यायः । ५ तस्मात्प्रपञ्च विलक्षणसच्चिदानन्दमयेश्वरस्वरूपज्ञानमेव ज्ञानमित्युच्यते । न तु प्रपञ्च विलक्षणेश्वरज्ञानस्य विज्ञानत्वं तदेकदेशस्य । अथ यदुक्तं चिदचिद्वस्तुवैलक्षण्यमीश्वरस्य तत्राचिद्वैलक्षण्यसत्त्वेपीश्वरे चिद्वैलक्षण्यं नास्ति– चिद्रूपत्वादीश्वरस्य, नहि चिद्वपश्चिद्विलक्षणों भवेत् । नच किंचिदज्ञसावद्यजीववाची चिच्छन्दोऽत्र, तस्माच्च जीवात्सर्वज्ञो निरवद्य ईश्वरो विलक्षण एवेति वाच्यं, चैतन्यवाचिनश्चिच्छब्दस्य तादृशजीव- वाचित्वासम्भवात् । जीवेश्वरयोर्द्वयोरपि वस्तुतश्चिन्मात्रत्वात्किञ्चिद्ज्ञत्वसर्वज्ञत्वादीनामुपाधिधर्मत्वात् । उपाध्योर्घटमठयोर्भेदेप्युपहितस्याकाशस्यैकरूपत्ववन्मायाविद्ययोरुपाध्योर्भेदेपि चैतन्यस्यैकरूपत्वात् । तस्मान्न चिति किंचिद्ज्ञत्वादिजीवधर्मा वा भवितुमर्हन्ति निर्धर्मकत्वाच्चितः । । नापि चिन्मात्रे ईश्वरे कल्याणगुणसम्भव:- सत्त्वगुणविकारत्वात्कल्याणगुणानां चैतन्यस्य च निर्गुणत्वात् । नच सत्ताचित्त्यानन्दादिगुणानां सत्त्वात्कथं निर्गुणत्वं ब्रह्मण इति वाच्यं ब्रह्मणोऽपृथ- ग्भूतत्वात्तेषां सत्तादीनामेव ब्रह्मस्वरूपत्वात् । न च सद्रूपत्वं सत्तारूपत्वं च कथमेकस्येति वाच्यं, नारायणस्य तद्रूपत्वतत्त्वरूपत्वयोर्भवताऽप्यभ्युपगतत्वात् । ’ तदैक्षत, तत्त्वं नारायणः पर’ इति श्रुतेश्च । तस्मात्तच्छब्दतत्त्वशब्दयोर्यथा ब्रह्मवाचकत्वं तद्वत्सच्छन्दसत्ताशब्दयोः चिच्छब्दचित्त्वशब्दयोश्च ब्रह्मवाच- कत्वमेव, नतु धर्मधर्मिवाचकत्वम् । नच निर्गुणे ब्रह्मणि निर्गुणत्व धर्मसत्त्वात्कथं निर्धर्मकत्वमिति वच्यं तथासति निर्धर्मकत्वस्यापि धर्मरूपत्वेन निर्धर्मकत्वाभावस्यैव धर्मभावरूपत्वापत्तेः । नचेष्टापत्ति:- निर्धर्मकत्वाभावस्य धर्मस्वरूपत्वेन धर्माभावरूपत्वासम्भवात् । अथ यदि निर्धर्मकत्वं धर्माभाव इत्येव मतं तर्हि निर्गुणत्वमपि गुणभाव इत्येवेष्यताम् । गुणस्यैव धर्मत्वाद्गुणाभावो हि धर्माभावः । तथा च निर्गुणब्रह्मणो निर्धर्मकत्व - मव्याहतम् । किंच यन्निर्गुणे ब्रह्मणि वर्तमानं निर्गुणत्वं तद्ब्रह्मरूपमेव सत्तादिवत् । अपि च निर्गुणत्वं हि गुणाभावः, सच · ब्रह्मरूप एव सर्वाभावस्यैव ब्रह्मरूपत्वात् । निष्प्रपञ्चं हि ब्रह्म । नच भावरूपस्य ब्रह्मणः कथमभावरूपत्वमिति वाच्यं, अभावरूपस्य सर्वस्य यथा भावरूपत्वं तथैव भावरूपस्य ब्रह्मणोऽभावरूपत्वं- भावाभावविषये भ्रान्तत्वाल्लोकस्य । लोको हि कालत्रयेप्यविद्यमानत्वादभावरूपं जगद्भावं मन्यर्ते, तद्विलक्षणं ब्रह्माभावं मन्यते । तथा लोकैस्सर्वाभावत्वेन व्यवह्रियमाणो भावपदार्थ एव ब्रह्म, सर्वत्वेन व्यवह्रियमाणोऽभाव- पदार्थ एव प्रपञ्चः । तस्माद्भाव एव सर्वाभावो ब्रह्मेति । नच कथं सर्वाभावस्य भावत्वमिति वाच्यंय, यथा घटाभावाभावस्य भावत्वं तथैवेति सर्वस्याभावरूपत्वे सर्वाभावो भावाभावः । भाव इत्यप्रसक्तानुप्रसक्तेन ॥२॥ सच भाव एवेति ६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अतो विशिष्टफलत्वादुर्लभतरं ज्ञानं कथमिति, उच्यते- मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥३॥ मनुष्याणामिति । मनुष्याणां मध्ये सहस्रेषु अनेकेषु कश्चिद्यतति प्रयत्नं करोति सिद्धये सिद्धयर्थम् । तेषां यततामपि सिद्धानां सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां । कश्विदेव हि मां वेत्ति तत्त्वतो यथावत् || ३ || मनुष्याणामिति, अत इति । मत्तत्त्वज्ञानेन ज्ञातव्यपरिशेष / भावादित्यर्थः । अस्यैव फलित- माह - विशिष्टफलत्वादिति । सर्वोत्कृष्टफलप्रदत्वादित्यर्थः । मोक्षप्रदत्वादिति यावत् । मोक्षस्यैव सर्वोत्कृष्ट फलत्वादिति भावः । सहस्रशब्दोऽत्र न सङ्ख्याविशेषवाची । किंत्वनन्तवाचीत्याह — अनेके- ष्विति । सिद्धये मोक्षार्थं यततीति योगाद्यनुष्ठानरूपं प्रयत्नं करोति । एवं मोक्षाय यतमानानां मध्ये कश्चिदेव कुशली मत्तत्त्वज्ञानपूर्वकं मुक्तो भवतीत्याह – यततामिति, सिद्धानामिति । भाविनीं वृत्ति- माश्रित्य निर्देशः । सिद्धिं प्राप्तुमर्हाणामित्यर्थः । सिद्धा एवेति । ये यतन्ते ते सिद्धा एव मोक्षाय; मुक्तप्राया एवेत्यर्थः । औपचारिकोऽयं सिद्धशब्दः । एषां मुक्तप्रायत्वं च इहजन्मनि जन्मान्तरे - वाऽवश्यं मुक्तिलाभादिति भावः । यद्वा ये मोक्षाय यतन्ते ते पुरुषा वस्तुतो नित्यमुक्तात्मरूपत्वात्सिद्धा एवेत्यर्थः । कश्चिदेवेति । यः कोऽपि धन्य इत्यर्थः । न त्वेक एवेति नियमः, येन कश्चिदेव न द्वाविति वेदान्तदेशिकेन शङ्करमतं दूष्येत, मृषारोपणप्रथमदेशिको हि वेदान्तदेशिकः । अनेन च कश्चि- देवेति वचनेन न सर्वसुलभमिदं ज्ञानं, किंतु यस्यकस्यापि सुकृतिनः सुलभत्वाद्दुर्लभतरमेवेति सिद्धम् । इदमेव हि ज्ञानस्य दुर्लभतरत्वमवतारिकायामुक्तमाचार्यैर्दुर्लतरं ज्ञानमिति । । । । यत्तु रामानुजः - मनुष्याः शास्त्राधिकारयोग्याः, तेषां सहस्रेषु कश्चिदेव सिद्धिपर्यन्तं यतते, सिद्धिपर्यन्तं यतमानानां सहस्रेषु कश्चिदेव मां विदित्वा मत्तः सिद्धये यतते; मद्विदां सहस्रेषु कश्चिदेव तत्त्वतो यथाऽवस्थितं मां वेति । न कश्चिदित्यभिप्रायः स महात्मा सुदुर्लभः, मां तु वेद न कश्चने ’ ( भग - ७ - १६ ) ति हि वक्ष्यत इति, तत्तुच्छम् — देवादीनामपि शास्त्राधिकारयोग्यत्वस्य शारिरकसूत्रैर्बादरायणेन व्यवस्थापितत्वात् । सिद्धये यतत इत्यस्य सिद्धिपर्यन्तं यतत इत्यर्थासिद्धेः, सिद्धये यतत इति पदद्वयस्य आवृत्त्या वाक्य- भेदकल्प नस्यान्याय्यत्वात्, मां विदित्वा मत्त इति पदत्रयस्य मूलाद्बहिः कल्पितत्वेनाप्रमाणत्वात्, सिद्धिपर्यन्तं यतमानानां मध्ये कश्चिदेव सिद्धये यतत इत्यस्य वाक्यस्यानन्वितत्वात् - सिद्धिपर्यन्तं यत- मान एव हि सिद्धये यतमानः । कश्चिन्मां वेत्तीत्यस्य न कश्चिन्मां वेत्तीत्यर्थोऽप्ययुक्त:- विरुद्धलक्षणा- श्रयणस्याप्रमाणत्वात् । मां तु वेद न कश्वनेति तु मद्भक्तं मच्छरणं विना कोऽपि मां न वेदेति विवक्षयोक्तत्वात् । अन्यथा येन केनापीश्वरतत्त्वस्य दुर्ज्ञेयत्वे ईश्वरतत्त्वं सम्प्रदायसिद्धं नैव भवेत् । तच्चानिष्टमीश्वरतत्त्वस्यैव लोपप्रसङ्गात् । ’ दृश्यते त्वय्यया बुद्धथेत्यादि नेश्वरतत्त्वस्य ज्ञेयत्व श्रवणाच्च । ‘तमेवं विदित्वातिमृत्युमे ‘नीति (श्वेता- ३-८) श्रुत्या ईश्वरतत्त्वज्ञानादेव मुक्तिप्रतिपादनात्तस्य चागोच- 1 सप्तमोऽध्यायः । श्रोतारं प्ररोचनेनाभिमुखीकृत्याह-

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा || ४ || भूमिरिति । भूमिरिति पृथिवीतन्मात्रमुच्यते न स्थूला, ‘भिन्ना प्रकृतिरष्टधा’ इति रत्वे मुक्तिरेवाप्रसिद्धेः मुक्त्यर्थं वेदान्तशास्त्रे न कस्यचित्प्रवृत्तिः । गृहस्थ सन्न्यासाश्रमे प्रवर्तयदिदं वेदान्तशास्त्रमनर्थकरमेव भवेत् त्रिवर्गसाधकगृहस्थाश्रमत्यागात् । मोक्षस्य सन्न्यासाश्रमस्वीकारेणाला- भाव । तस्मान्मां यः कोऽपि धन्यो वेत्तीत्यविभिप्रायः, नतु न वेत्तीति । अथ यदुक्तं वेदान्तदेशिकेन मनुष्यशब्दो न जातिविशेषाभिप्रायः, किंतु सिद्धार्थयतन योग्य- मात्राभिप्राय इति, तदपि तुच्छम् — मुख्यार्थपरित्यागे कारणाभावात् । अर्जुनस्यं मनुष्यत्वान्मनुष्याणां भवतामिदं ज्ञानं दुर्लभतरमित्येतावत एवार्थस्य भगवता विवक्षितत्वात् । देवादीनामेतद्ज्ञानदौर्लभ्य- सौलभ्यश्रवणेनार्जुनस्य फलाभावात् । यच्च सिद्ध्यर्थयतनमात्रं प्रायेण सर्वसाधारणमतस्सिद्धिपर्यन्तमित्युक्तमिति, तच्चासत्, सिद्ध्यर्थ- यतनमात्रस्याप्यसर्वसाधारणत्वात् । नहि सर्वे सिद्धयर्थं यतमाना उपलभ्यन्ते । संसारप्रयतनमेव हि सर्वसाधारणम् । किंच य एव सिद्धयर्थं यतते स एव सिद्धिपर्यन्तं यतते, मध्ये तद्यतनं नैव जहाति, दैवान्मरणसम्भवे तु जन्मान्तरेपि यतत एव । अथवा सिद्धयर्थं यतमानानां सहस्रेषु सिद्धिपर्यन्तं कश्चि- घतत इति वक्तव्य, सिद्ध्यर्थं यतमानानां सर्वेषामपि सिद्धिपर्यन्तयतनासम्भवात् । यस्य कस्यचिदेव - तत्सम्भवाच्च । तच नोक्तं मूलकर्ता । यदि रामानुजेन तदुच्यते तर्हि निर्मूलमेव तत् । यच्च यततामपि सिद्धानां कश्चिन्मां वेति मद्वेदिषु च कश्चिन्मां तत्त्वतो वेत्तीति वाक्यद्वयं विवक्षितमिति च तत्तुच्छम् — तादृशविवक्षागमक पदाभावान्मूले । नहि यततामपि सिद्धानां कश्चिन्मां वेत्ति मद्विदां सहस्रेषु कश्चिन्मां तत्त्वतो वेतीति मूले स्थितम् । तदेतत्कल्पनमपि निर्मूलमेव । किंच निर्मूलमप्यसङ्गतं च- यो मां वेस्ति स मां तत्त्वतो न वेत्ति, किंतु अन्य एव सः यो मां तत्त्वतो वेत्तीति वचनस्यायुक्तत्वात् । नहि य ईश्वरं तत्त्वतो न वेत्ति स ईश्वरं वेत्तीत्युच्यते, यश्वेश्वरं तत्त्वतो वेत्ति स ईश्वरं न वेस्तीत्युच्यते । नच मां वेत्तीत्यनेन सामान्यत ईश्वरवेदनं, मां तत्त्वतो वेत्तीत्यनेन विशेषत ईश्वरवेदनं चाभिप्रेतमिति वाच्यं निर्विशेषचिन्मात्रे इश्वरे सामान्य- विशेषभावकल्पनायोगात् । नच परोक्षापरोक्षत्वाभ्यां भेद इति वाच्यं, ‘यत्साक्षादपरोक्षाद्र’ ह्मेति ईश्वरस्य नित्यापरोक्षब्रह्मत्वात् । आत्मन एवेश्वरत्वाच्च । न ह्यात्मा कस्यचिदप्रत्यक्षः । नच ईश्वर- स्वरूपस्वभावज्ञानाभ्यां तद्भेदोपपत्तिरिति वाच्यं, य ईश्वरस्वरूपं वेत्ति स एवेश्वरस्वभावं वेत्ति - ईश्वर- स्वरूपस्यैवेश्वरस्वभावत्वात् । नहि स्वरूपादन्यस्स्वभावोऽस्ति । यस्तु स्वरूपादन्य: स्वभाव: स मायैव– स्वरूपस्यैकस्यैव सत्यत्वात् । तस्माद्य ईश्वरं तत्त्वतो वेत्ति स एवेश्वरं वेत्ति, यश्वेश्वरं तत्त्वतो न वेत्ति स ईश्वरं नैव वेत्तीति स्थितम् ॥३॥ भूमिरिति । प्ररोचनं रुच्युत्पादनं । आहेति । स्वतत्त्वमिति शेषः । ईश्वरस्य स्वरूप श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु वचनात् । तथा अबादयोपि तन्मात्राण्येवोच्यन्ते – आपोऽनलो वायुः खं मनः इति मनसः कारण महङ्कारो गृह्यते । बुद्धिरित्यहङ्कारकारणं महत्तत्त्वम् । अहङ्कार इत्य विद्यासंयुक्तमव्यक्तम् । यथा विषसंयुक्तमन्नं विषमित्युच्यते, एवमहङ्कारवासनावदव्यक्तं मूलकारणमहङ्कार इत्युच्यते प्रवर्तकत्वादहङ्कारस्य । अहङ्कार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके, इतीयं यथोक्ता प्रकृतिम मम ऐश्वरी माया शक्तिरष्टधा भिन्ना भेदमागता ॥ ४ ॥ स्वभावश्च तावदुच्येते- तद्ज्ञानादीश्वरज्ञानसिद्धेः । प्रकृतिशब्दश्व स्वरूपस्वभावयोरुभयोरपि प्रयुज्यते । अत ईश्वरस्य स्वरूपमेका प्रकृतिः स्वभावोऽन्या प्रकृतिः । तत्र प्रथममनात्मनि ज्ञाते सति पश्चा- दात्मज्ञानं सुभमिति तावदनात्मभूतेश्वरस्वभावनामकप्रकृतिं लक्षयति-भूमिरिति । अष्टौ प्रकृतय इति श्रुतेः; ‘मूलप्रकृतिर विकृतिर्महदाद्याः प्रकृति विकृतयस्सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृति: पुरुष’ इति साङ्ख्यशास्त्राच्च मूलप्रकृतेः महदहङ्कारपञ्चतन्मात्राणां च प्रकृतीनां विकृतीनां सप्तानां प्रकृतिपदवाच्यत्वम् । प्रकृतिरुपादानं - ‘जनिकर्तुः प्रकृति’ रिति पाणिनि- सूत्रात् । विकृतिः कार्यं अनादित्वात्सर्वजगदुपादानत्वाच्च मायायाः प्रकृतित्वं विकारषोडशककारणत्वा- मूलप्रकृतिकार्यत्वाच्च । महदादिसप्तकस्य प्रकृतित्वं विकृतित्वं चेति । तत्र प्रकृतित्वांशग्रहणेन मह- । दादीनां सप्तानां प्रकृतित्वेन व्यपदेशः । भूतपञ्चकमिन्द्रियदशकं मनश्चेति विकारषोडशकम् । तस्य तु कार्यत्वमेव, न कारणत्वमिति कृत्वा नास्ति प्रकृतित्वेन व्यपदेशः । यद्यपि भौतिकान् देहान् प्रति भूतानां स्थूलानामप्यस्ति कारणत्वं, तथाऽपि देहानां तत्त्वेष्वप्रवेशात्तत्त्वानामेव परस्पर कार्यकारणभावस्य तत्र विवक्षितत्वात् । षोडशकात्कस्यापि तत्त्वस्याप्रादुर्भावान्नास्ति प्रकृतित्वं षोडशकस्य । यद्धि प्रलयेऽपि न नश्यति तदेव हि तत्त्वं साङ्ख्यानामभिमतम् । यद्वा प्राणादिवायुपञ्चकमिन्द्रियदशकं मनश्चेति विकारषोडशकमिति वेद्यम् । इदं सर्वमभिप्रेत्याह – भूमिरिति । पृथिवीतन्मात्रमुच्यत इत्यादि । अपञ्चीकृतसूक्ष्मभूतानां तन्मात्रत्वेन व्यवहारः । एभ्यएव तन्मात्रेभ्यः पञ्चीकृतेभ्यः स्थूलभूतो- स्पतिः, यान्यधुनोपलभ्यन्ते तानि स्थूलभूतानि । एतद्भूतोत्पतेः प्राक् स्थितानि तु तन्मात्राणीति विवेकः । शब्दस्पर्शरूपाणि तन्मात्राणीति केचित् । कुतः स्थूलानि विहाय तन्मात्राणां ग्रहणमत आह- भिन्ना प्रकृतिरष्टथेति वचनादिति । स्थूलभूतानां प्रकृतित्वाभावादित्यर्थः । तथा मनसः प्रकृतित्वाभावान्मनश्शब्दोऽत्र स्वकारणमहङ्कारं लक्ष्यतीत्याह - मन इति । मनोऽन्तः करण महङ्कारस्तु तत्कारणं तत्त्वान्तरमिति विवेकः । महत्तत्त्वं बुद्धिरित्याह- बुद्धिरितीति । मूलप्रकृतिरेवाहङ्कार इत्याह- अहङ्कार इति । अविद्याहङ्कारवासना तत्संयुक्तमव्यक्तं मूलप्रकृतिरहङ्कार इत्युच्यते । कुतोऽस्याहङ्कारशब्दवाच्यतेत्यत्र दृष्टान्तमाह — यथेति । दान्तिकमाह - एवमिति । अहङ्कारवासना अविद्याऽस्मिन् अस्तीति अहङ्कारवासनावत् । मूल- कारणमादिकारणमनादीत्यर्थः । मूलप्रकृतिरिति यावत् । अव्यक्तस्य अहङ्कारशब्दवाच्यत्वे हेत्वन्तरमाह - प्रवर्तकत्वादिति । अहङ्कारस्य प्रवर्तकत्वा- त्प्रवर्तकमव्यक्तमहङ्कारशब्दवाच्यमित्यर्थः । अहङ्कारस्य प्रवर्तकत्वमेव दर्शयति - अहङ्कार एवेति ।सप्तमोऽध्यायः । सर्वस्य लोकस्य कर्मसु प्रवृत्तौ अहङ्कार एव कारणमहमिदं कुर्यामित्यहङ्कारपूर्वक सङ्कल्पाभावे कर्मसु प्रवृत्त्यसम्भवात् । नन्वेवमहङ्कारस्य भवतु प्रवर्तकत्वं कथं पुनरव्यक्तस्येति चेदुच्यते–अज्ञानमूलकत्वादनात्म- न्यात्माभिमानरूपस्याहङ्कारस्य, अहङ्कारगतं तत्प्रवर्तकत्वमप्यज्ञानगतप्रवर्तकत्वमूलकमेव - कारणधर्म पूर्व- कत्वात्कार्यधर्मस्येति । माया ह्यात्मस्वरूपमावृत्य सर्वं सर्वत्र प्रेरयति । कासौ प्रकृतिरत आह-मायेति । कासौ मायेत्यत आह- शक्तिरिति । ईश्वरनिष्ठ जगज्जननादिसामर्थ्यामित्यर्थः । अष्टधा भिनेति । कार्यकारणरूपेणेति भावः । महदादीनां सप्तानां कार्यप्रकृतित्वान्मूलप्रकृतेः कारणप्रकृतित्वाच्चेति बोध्यम् । ननु साङ्ख्यमतस्य शारीरकशास्त्रे बादरायणेन प्रत्याख्यातत्वात्कथं तस्यैवेहोपन्यासस्स्वयमेव इति चेदुच्यते – शारीर के प्रकृत्यादीनां ब्रह्मणः पृथक्त्वं दूषितं, न तु प्रकृत्यादीनां स्वरूपमेव निषिद्धं – मायादिपदार्थानां तत्राप्यभ्युपगतत्वात् । न च महत्तत्त्वाहङ्कारतत्त्वानभ्युपगम:- बुद्धेरेव महत्तत्त्वत्वात् । एवमेव बुद्धयाख्यमन्तःकरणं मन इत्यहङ्कार इति च वृत्तिभेदाद्द्विघोच्यते- ‘अहंवृत्तिरिदंवृतिरि- त्यन्तःकरणं द्विधेति विद्यारण्यवचनात् । तत्रावृत्तिरहङ्कार इदंवृत्तिस्तु मनः । अन्तःकरणपरिणामत्या- वृत्तिद्वयात्मक मनोऽहङ्कारद्वयस्य महत्तत्त्वकार्यत्वेन व्यवहारः । तत्र च अहंवृत्तिपूर्वकत्वादिदंवृते- रहङ्कार कार्यत्वव्यपदेशो मनस इति । किंच साङ्ख्यंमते मूलप्रकृतेरेव जगदुपादानत्वमुक्तं न ह्यात्मन:- ‘न प्रकृतिर्न विकृतिः पुरुष’ इत्यात्मन उपादानत्वनिषेधात् । इह तु ‘जन्माद्यस्य यत’ ( सू १ - १ ) इति पुरुषस्यैवोपादानत्वमुच्यते मायाद्वारेति । एवमादि बहुवैलक्षण्यं साङ्ख्याद्वैतयोरुह्यम् । तस्मान्नात्र साङ्खयमतोपन्यासः । अथ वा ‘अदुष्टमन्यतो ग्राह्य’ मिति न्यायात्सादयोक्तोऽप्यदुष्टोंशो ग्राह्य एव । तत्र च प्रकृ- त्यष्टकस्य दर्शितस्य ग्रहणं न दुष्टं श्रुतिसिद्धत्वादित्यतस्तदेश इह गृह्यते । ‘न प्रकृतिर्न विकृतिः पुरुष’ इति तु न गृह्यते श्रुतिविरोधात् । यद्यपि वस्तुतः पुरुषस्याप्रकृतित्वम विकृतित्वं, तथाऽपि मायाद्वारा तस्य प्रकृतित्वं श्रुत्युक्तमिति बोध्यम् । यत्तु रामानुजः— भूम्यादयः यथाश्रुति स्थूलभूताद्यर्थबोधका एवेति तत्प्रत्युक्तम् — स्थूल- भूतादीनां प्रकृतित्वाभावप्रतिपादनात् । यच्चोक्तं देशिकेन - ‘एषा हि पूर्वमेका पश्चादष्टधा परिणतेति, तदसत् - पञ्चभूतमनो- बुद्धयहङ्कारात्मनैव परिणतेति वक्तुमशक्यत्वाभूतपञ्चक प्राणपश्ञ्च केन्द्रियदशक विषयपञ्चकमनोबुद्धयह- कारात्मना अष्टाविंशतिधा परिणतेति वक्तव्यत्वात् । घटात्मना परिणतमृदतिरिक्तापरिणतमृद्वभु तादिरूपेण परिणतप्रकृत्यतिरिक्ता परिणतप्रकृतेस्सत्त्वेन पूर्वमेका पश्चादष्टघेति वक्तुमयुक्तत्वात् । कार्यात्मना अष्टधा कारणात्मना एकेति च नवधा स्थितेति वक्तव्यत्वात् । न च कृत्स्नाऽपि प्रकृतिः कार्यात्मना परिणतैवेति वाच्यं, ईश्वरोपाधेरव्याकृतस्यैवाभावप्रसङ्गात् । जीवस्य च कारणशरीरभूताः-.. १० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ! ययेदं धार्यते जगत् ॥ ५॥ अपरेति । अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धनात्मिकेयम् । इतः अस्या यथोक्तायास्त्वन्यां विशुद्धां प्रकृतिं ममात्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्रज्ञलक्षणां प्राणधारण निमित्तभूताम्; हे महाबाहो ! यया प्रकृत्या इंदं धार्यते जगदन्त:- प्रविष्टा ॥५॥ ज्ञानाभावप्रसङ्गात् । न चेष्टापत्ति :- सुषुप्तावज्ञानानुभव सत्त्वात् । व्यवहारकालेऽप्यहमज्ञ इत्यनुभव- सिद्धाज्ञानस्य दुरपलापत्वाच्च, घटज्ञानेन तदज्ञाननिवृत्तिदर्शनाच्च । न चाज्ञानं ज्ञानाभाव एव न मायेति वाच्यं, अनादिभावत्वे सति ज्ञाननिवर्त्यत्वस्य मायालक्ष- णत्वादज्ञानस्य च तथात्वात् ज्ञानाभाववानहमिति प्रतीत्यभावात्, अज्ञानवानहमिति प्रतीतिसत्त्वात्, भावरूपमेवाज्ञानं, न त्वभावरूपमिति ॥४॥ अपरेति । इयं पूर्वोक्ताऽष्टधा भिन्ना प्रकृतिरपरा । इतस्त्वन्यां जीवभूतां मे प्रकृतिं परां विद्धि । हेमहाबाहो ! ययेदं जगद्धार्यते । प्रकृतिशब्दार्थमाह- ममात्मभूतामिति । मत्स्वरूपभूता- मित्यर्थः । पूर्वश्लोकोक्तप्रकृतिस्तु ईश्वरस्वभावभूतेति विवेकः । जीवभूतां जीवयति चेतयति देहमिति जीवः तदूपां, क्षेत्र जानातीति क्षेत्रज्ञः; देहेन्द्रियाद्यनात्मपदार्थस्सर्वोऽपि क्षेत्रमित्युच्यते । व्यक्ती- भविष्यत्ययमंशः त्रयोदशाध्याये । आत्मा कूटस्थः तल्लक्षणां तत्स्वरूपाम् । अनेन ईश्वरस्वरूपं जीव एवेति जीवेश्वराभेदः स्पष्टः । जीवति प्राणान् बिभर्ति अस्माद्देह इति जीवः । जीव प्राणधारणे इति व्युत्पत्तिमाश्रित्याह- प्राणधारणनिमित्तभूतामिति । देहस्व प्राणधारणे जीवो निमित्तभूत इत्यर्थ: । ‘जीवापेत वा व किल शरीरं म्रियत’ (छां- ६-११-३३ ) इति श्रुतेः । म्रियते प्राणत्यागं करोतीत्यर्थः । ‘मृञ् प्राणत्यागे’ इति धातुः । ननु पूर्णस्य जीवस्य कथमपगमनं येन शरीरस्य मरणं स्यादिति चेदुच्यते - परिपूर्णस्यापि जीवस्य बुद्धयुपाधिवशाद्गमनादि सम्भवतीव घटोपाधिवशादाकाशस्येव । ’ ध्यायतीव लेलायती ‘वेति श्रुतेः । यथा बुद्धौ ध्यायन्त्यामात्मा ध्यायतीव बुद्धौ चलन्त्यामात्मा चलतीव तथा बुद्धावुत्क्रामन्त्या- मात्मा उत्क्रामतीवेति भावः । एवं चैतन्यस्य प्राणधारण निमित्तभूतत्वमपि बुद्ध्यवच्छिन्नत्वरूपेणैवेति बोद्धयम् । कथम्भूतया धार्यते जगदत आह- अन्तः प्रविष्टयेति । अन्तर्यामिनारायणादिशब्दवाच्य- कूटस्थसाक्षिप्रत्यगात्मरूपेण जीवो जगदन्तः प्रविश्य घारयतीत्यर्थः । यद्य ‘प्यन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित’ इति जीवस्य सर्वजगदन्तर्बहिर्व्याप्तिरस्ति, तथापि बहिर्व्याप्य स्थितस्य तस्य न जग- द्धारकत्वमित्यभिप्रेत्याह— अन्तः प्रविष्टयेति । अन्तर्व्याप्य स्थितयेत्यर्थः । यथाश्रुतार्थे तु परिपूर्णस्य कथं प्रवेश इति चोद्येत । सप्तमोऽध्यायः । एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥६॥ एतदिति । एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः येषां भूतानां यद्वा परिपूर्णस्यापि बुद्ध्युपाधिवशात्प्रवेशस्सम्भवत्येव - ‘तत्सृष्ट्रा तदेवानुप्राविश’ दिति श्रुतेः । बुद्धधवच्छिन्नत्वाकारेण प्राविशदिति तदर्थः । इदं च स्थावरजङ्गम देहापेक्षयोक्तमचेतनेषु तु नापूर्वोस्ति कश्वनेश्वरस्य प्रवेशः । एवमन्तर्व्याप्य स्थितं चैतन्यं जीव इति, कूटस्थ इति, साक्षीति, आत्मेति च व्यवहरन्ति; बहिर्व्याप्य स्थितं तु ईश्वर इति ब्रह्मेति च व्यवहरन्ति । अस्य चान्तर्बहिर्भावस्य चैतन्ये कल्पितत्वा- द्वस्तुतो निष्प्रदेश मेकरूपमद्वैतमेव चैतन्यमिति न जीवेश्वरभेदावकाशः । नच जीवस्य कथमचेतनान्त- स्स्थितिरिति वाच्यं चिदाभासलक्षण जीवस्यैव तदनुपपत्तिर्न तु प्रत्यगात्मलक्षण जीवस्य - ‘चेतनाचेतन- भिदा कूटस्थात्मकृता नहि । किंतु बुद्धिकृताभासकृतैवेत्यवगम्यता’ मिति वचनात् । यत्तु रामानुजः - इश्वरस्याचेतनरूपा चेतनरूपा च प्रकृती द्वे स्तः; तत्र भोग्यभूताऽचेतन- प्रकृति: भूमिराप इति श्लोकेन दर्शिता; भोक्तृभूता तु चेतनप्रकृतिः सेहोच्यत इति, तत्तुच्छम्- ‘अविकार्योयमुच्यत’ (भग- २ - २५) इति जीवस्य चेतनस्य भोवतृत्वविकारनिषेधात् ; अहंवृत्तिरूप- विज्ञानमयकोशात्मकबुद्धेरेव भोक्तृत्वात् तस्याश्च वस्तुतो जडत्वेन भोक्तृभोग्यात्मकप्रकृतेरचेतनत्वात्, चेतनस्य च जीवस्या कर्तृत्वेनाप्यभोक्तृत्वात् । ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कार- विमूढात्मा कर्ताहमिति मन्यते ’ ( भग- ३ २७ ) इति, ‘न करोति न लिप्यत’ (भग- १३-३२) इति च। जीवस्या कर्तृत्वस्येहैव प्रतिपादितत्वात् । ‘निष्कलं निष्क्रियं शान्त’ (श्वेता - ६- १९) मित्यादि - श्रुतेः कर्तृबुद्धितादात्म्याभ्यासप्रयुक्तत्वाच्च जीवे कर्तृत्वभ्रमस्य तदध्यासाभाववत्यां सुषुप्तौ जीवस्य कर्तृत्वादर्शनात् । अकर्तुर्भोक्तृत्वायोगात्तथासति सोमयाजिनोऽन्यस्यैव स्वर्गफलभोगप्रसङ्गात्, त्वन्मत- रीत्या अणुना जीवन भोक्ता कृत्स्नस्य जगतोऽधार्यमाणत्वात् ॥५॥ एतदिति, परापरे इति । क्षेत्रज्ञलक्षणा परा प्रकृतिः, क्षेत्रलक्षणा त्वपरेति विवेकः । इदं- प्रत्ययविषयः भूम्यादिः क्षेत्र महंप्रत्ययविषयस्तु चिदात्मा क्षेत्रज्ञ इति विवेकः । न चाहङ्कारोऽप्यहं प्रत्ययविषय इति वाच्यं ममाहङ्कार इति प्रतीत्या अहङ्कारस्य केवलाहंप्रत्यय- विषयत्वाभावात् । न च ममात्मेति प्रतीत्या आत्माऽपि केवलाहंप्रत्ययविषयो नेति वाच्यं स्वरूप- वाचित्वात्तत्रात्मशब्दस्य । न चाहंप्रत्ययविषत्वस्यापि सत्त्वादहङ्कारस्य पाक्षिकात्मत्वं स्यादिति वाच्यं, अनात्मनः पाक्षिकात्मत्वस्यासम्भवात्; आत्मतादात्म्याभ्यासप्रयुक्तत्वाच्च तदहम्प्रत्ययविषयत्वस्येति । योनी कारणे उपादाने इति यावत् । न च क्षेत्रज्ञस्य कथं भूतप्रकृतित्वं कार्यकारणयोस्साल- क्षण्यनियमात् भूतानां जडत्वात् क्षेत्रज्ञस्य च चेतनत्वादिति वाच्यं, परिणामपक्षे एव कार्यकारण- सालक्षण्यनियमः, न तु विवर्तपक्षे इति सिद्धान्तात् । १२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तान्येतद्योनीनि भूतानि सर्वाणीत्येवमुपधारय जानीहि । यस्मान्मम प्रकृती योनिः कारणं सर्वभूतानां, अतोऽहं कृत्स्नस्य समस्तस्य जगतः प्रभवः उत्पत्तिः प्रलयो विनाशस्तथा प्रकृति- द्वयद्वारेणाहं सर्वज्ञ ईश्वरः जगतः कारणमित्यर्थः ॥६॥ मायाप्रकृतेर्भूतानां परिणाम्युपादानत्वेऽपि क्षेत्रज्ञप्रकृतेर्भूतानां विवर्ताधिष्ठानत्वात् एवं जग- द्रूपविवर्ताघिष्ठानत्वलक्षणोपादानत्वसम्भवात्प्रकृतिशब्दवाच्यत्वं क्षेत्रज्ञस्य । प्रकृतिर्हद्युपादानम् । तस्मा- द्रज्जुसर्पस्येव जीवस्सर्वभूतानामुपादानमिति स्थितम् । स्वाभिन्न कार्यजनिहेतुत्वमुपादानत्वमिति लक्षणात् । इदं विधिष्ठाने परिणामिनि चानुगतं साधारणं लक्षणम् । तदेव सर्वभूतानां चेतनविवर्तत्वाच्चेतन- योनित्वं, मायापरिणामत्वान्मायायो नित्वमित्यस्ति परापरप्रकृतिद्वययोनित्वम् । परिणाम विवर्तलक्षणे तु उपादानसमसत्ताक कार्यापतिः परिणामः, तद्विषमसत्ताककार्यापत्तिर्विवर्त इति बोध्ये 1 सत्ता च पारमार्थिकी व्यावहारिकी प्रातिभासिकी चेति त्रिविधा, तत्र आद्या ब्रह्मणि क्षेत्रज्ञे; द्वितीया जगति; तृतीया स्वमप्रपञ्चे रज्जुसर्पादौ चेति विवेक: । मृद्घटयोरिव मायाजगतोर्व्यावहारिक- सत्तावत्त्वादुपादानसमसत्ताकं घटादिकमिव जगद्रूपं कार्य परिणामः । रज्जुसर्पयोरिव व्यावहारिकप्राति- भासिकसत्ताकयोः ब्रह्मजगतोः पारमार्थिकव्यावहारिक सत्ता कयोर्भिन्नसत्ताकत्वात्सर्परूपमिव जगद्रूपं कार्ये विवर्त इति बोध्यम् । सर्वाणि भूतानि कार्यकरणसङ्घातात्मकानि भौतिकानि, पृथिव्यादिमहाभूतानि च कार्यमात्र सर्वमित्यर्थः । महदादिसप्तकमपि मूलप्रकृतिक्षेत्रज्ञयोनिकमेव कार्यत्वात् । मूलप्रकृतिस्तु न कस्यचि - त्कार्यमनादित्वादत एव तस्या मूलप्रकृतित्वव्यपदेशः । मूलं कारणमित्यर्थः । क्षेत्रज्ञस्त्वजो नित्यश्शाश्वत इत्यनादिरेव । ततश्च मूलप्रकृतिं क्षेत्रज्ञं विहाय सर्वं जगत्कार्यभूतमेवेति बोध्यम् । एवमनादिरपि मूलप्रकृतिस्सान्तैव नैयायिकाभिमतप्रागभाववत् । न तु नित्या क्षेत्रज्ञवत् । एवं क्षेत्रज्ञमूलप्रकृत्योः नित्यत्वानित्यत्वाभ्यां ज्ञानजाड्याभ्यां च महदस्ति वैलक्षण्यमिति सिद्धम् । ननु सर्वभूतानां क्षेत्रक्षेत्रज्ञलक्षणप्रकृतिद्वययोनित्वकथनात्कृत्स्नस्य जगतः प्रभवः प्रलयश्च तत्प्रकृतिद्वयमेव स्यान्न त्वीश्वर इति स्थिते कथं- ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ (भग ७-६) इत्युच्यते, अत आह— यस्मादिति, प्रकृतिरिति । स्वरूपं स्वभावश्चेत्यर्थः । मत्स्वरूपस्य चैतन्यस्य क्षेत्रज्ञस्य मत्स्वभावस्य मायाया मूलप्रकृतेश्च सर्वजगदुपादानत्वादीश्वरोऽहं सर्वजगदुपादानं भवामीत्यर्थः । उपादानान्मृदादेर्घटादिकार्यं जायते, पुनरुपादान एव लीयते- घटस्य मृद्येव लयदर्शनात् । तथा चोपादानमेव कार्योत्पत्तिप्रलययोरधिष्ठान मित्यभिप्रायादाह – प्रभवः प्रलयस्तथेति । अहं स्वरूप - स्वभावद्वारा जगदुपादानभूतस्सर्वेश्वर इत्यर्थः । कृत्स्नस्य प्रत्यक्षानुमानागमप्रमाणसिद्धस्य सर्वस्येत्यर्थः । जगतः जायत इति जं, गच्छतीति गमिति जगत् । ह्रस्वस्य पिति कृतीति तुकू । उत्पत्ति- विनाशरूपावस्थावदित्यर्थः । अनित्यमिति यावत् । तस्य प्रभवः प्रभवत्यस्मादिति प्रभव उत्पत्ति- स्थानम् । प्रलीयतेऽस्मिन्निति प्रलयः विनाशस्थानम् । भवामीति शेषः । उपादानत्व ॥ देति भावः । सप्तमोऽध्यायः ।। भाष्ये उत्पत्तिविनाशशब्दावपि उत्पत्तिविनाशस्थानपरौ । अन्यथा जन्ममरणरूपधर्मपरत्वे अनन्वयप्रसङ्गात् । न हीश्वसे जगतो जन्मधर्मो मरणधर्मो वा भवेत् । जगतः कारणमिति सृष्टि- स्थितिलयकारणमित्यर्थः । ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति, यत्प्रयन्त्यभि - संविशन्ति’ ( तै- उ- ९-१) इति श्रुतेरिति भावः । 1 कृत्स्रजगदाकारपरिणतमायाघिष्ठानचैतन्यमात्म परमार्थकूटस्थ साक्षिक्षेत्रज्ञेश्वरब्रह्मादिशब्दप्रतिपाद्य- महमेवेत्यत्र पर्यवसन्नार्थः । अनेन जीवेश्वरभेदवादः समूलमुन्मूलितः । यत्तु रामानुजः — चेतनाचेतनप्रकृत्योर्द्वयोरपीश्वरयोनित्वमित्युवाच तत्तुच्छम् – ‘अजो नित्यश्शाश्वतोऽयं पुराण’ इतीश्वरात्सकाशाज्जीवस्य जन्माभाव निषेधात् । सति तु जन्मनि ‘जातस्य हि ध्रुवो मृत्यु’ रिति जीवस्य विनाशप्रसङ्गात् । प्रकृतिपुरुषकालादीनामनादित्वस्य भवताऽप्यभ्युपगतत्वेन अंजामित्यादिश्रुत्यनुसारेण च मायाया अनादित्वेनेश्वरात्सकाशात्तस्या अपि जन्माभावात् । सति तु मायाया जन्मनि मायोत्पत्तेः प्रागीश्वरस्यामाथित्वप्रसङ्गात् । ’ मायिनं तु महेश्वर’ मिति श्रुतिविरोधात्, निर्मायस्येश्वरस्य मायाजननसामर्थ्याभावेन मायाया उत्पत्त्ययोगात्, ईश्वरसामर्थ्यस्यैव शक्तिरूपस्य मायापदवाच्यत्वात् एतन्मायाजननसामर्थ्यरूपमायान्तरसत्त्वे तन्मायाजननसामर्थ्यरूपमायान्तरस्यापि कपनीयत्वात्तस्या अपि तदन्यमायाया इत्येव मनवस्थाप्रसङ्गात्, ईश्वरसामर्थ्यातिरिक्तमायानामक- तत्त्वान्तरस्याप्रसिद्धत्वात्, साङ्ख्यमतस्य चावैदिकत्वेनाप्रमाणत्वात् । तस्मात्सिद्धं जीवस्येव मायाया अप्यनादित्वमिति कथमेतद्योनित्वमीश्वरस्य । अत एव हि परमेश्वरात्सकाशाज्जीवा जायन्त इति दोषाद्भागवतमतं प्रत्याख्यातं भगवद्बादरायणेन शारीरकशास्त्रे । न च बुद्ध्युपाधिपरिच्छिन्नत्वरूपेण जीवस्य जन्म, लद्भङ्गरूपेण च नाशो मोक्षरूप इति वाच्यं, उपाधिगतजन्मनाशाभ्यामुपहितस्य न सम्बन्ध इति सिद्धान्तः । अन्यथा आकाशस्यापि घटजन्मनाशाभ्यां जन्मनाशप्रसङ्गात्, बुद्धिपरिच्छिन्नस्यापि शरीरोपाधिजन्मनाशाभ्यां जन्मनाशप्रसङ्गात् । नचेष्टापत्ति :- ‘न हन्यते हन्यमाने शरीरे’ (भग- २ २०) इती हैवोक्तत्वात्, तत्त्वकथनावसरे औपाधिकातात्त्विकजन्मनाशकथनायोगाच्च । तस्माज्जीवस्य मायाया चामेश्वरयोनित्वम् । या तु श्रुतिस्तेनोपन्यस्ता ‘महानव्यक्त लीयते, अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते, तमः परे देव एकीभवति’ इति, तस्याः श्रुतेन स्वाभिप्रेतार्थबोधकत्वं, किंतु अव्यक्तत्वाक्षरत्वतमस्त्वानि प्रकृतेरवस्थाविशेषा एव । प्रकृतेश्वात्मनि लयोऽस्मदभ्युपगत एव । नच तदकार्यस्य तस्मिन् कथं लय इति वाच्यं, अकार्यस्यापि प्रागभावस्य लयदर्शनात्, गगनाकार्यस्यापि मेघस्य गगने लयदर्शनात्, कार्पासजन्यस्यापि पटस्याग्नौ लयदर्शनात्कार्यस्यैव कारणएव लय इति न नियमः । नाप्यनया श्रुत्या मायायालय उच्यते, किं तु ‘तमः परे देव एकीभवति’ इत्येकीभावएव । स च ब्रह्मणः पृथक्कार्यकरणादिरूपेणानवस्थानमेव । न चालाक्षरशब्दो जीववाचीति वाच्यं, अक्षरमिति क्लीबस्य तस्य जीववाचित्वाभावात् । श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु न हि ‘अजो नित्यश्शाश्वत’ इति जीवं नित्यं ब्रुवाणा श्रुतिरेवेह जीववाच्यक्षरशब्दो हि पुंलिङ्गः । जीवं विनाशिनं ब्रूयात्स्ववचोव्याघातात् । " न च जीवस्य ब्रह्मण्यज्ञानद्वारा सुषुप्तौ लयो दृश्यते श्रूयते च- ‘सति सम्पत्स्य न विदुः सति सम्पत्स्यामह’ इति श्रुतेः, अनुभवाच्च । ततश्च जीवस्याज्ञाने लयः, सजीवस्य चाज्ञानस्य तमसो ब्रह्मणि परमात्मनि लय इति वाच्यं, जीवस्य सुषुप्तौ ब्रह्मणि सम्पत्तिर्नाम ब्रह्मस्वरूपेणावस्थानमेव । ‘प्राज्ञे- नात्मना सम्परिष्वज्य’ इति श्रुत्यन्तरात् । न च ब्रह्मणा जीवस्य सङ्गस्तत्राप्यभिप्रेत इति वाच्यं तथापि जीवस्य लयाभावात् । न हि नष्टस्य जीवस्य ब्रह्मणा सह सङ्गस्स्यात्- विद्यमानपदार्थद्वयस्यैव परस्परसङ्गदर्शनात्, गगनकुसुमेन गगनस्य सङ्गादर्शनाच्च । तस्माज्जीवस्याविद्यक संसारित्वरूपप्रहाणपूर्वक ब्रह्मस्वरूपस्थितिरेव सति सम्पत्ति:- वाक्य- शेषात् । सति सम्पत्स्यामह इति न विदुरिति हि वाक्यशेषः । नष्टानां जीवानां वेदनस्यैवाप्रसक्तेः कथ- मप्रसक्तस्य निषेधः । न विदुरिति ज्ञानानुभवो जीवानाम् । अयं च बहुत्वनिर्देश उपाध्यभिप्रायेण, नतु वस्तुतः - आत्मैकत्वात् । अथ वा जीवोपाधेरन्तःकरणस्याज्ञाने लयस्तस्य च ब्रह्मणीत्योपाधिक एव जीवस्य लयः श्रुत्या विवक्षितः नतु वस्तुतः - अपरिच्छिन्नस्य पूर्णस्य नित्यस्य तस्य नाशायोगात्, जीवस्यैव वस्तुतो ब्रह्म- त्वाच्च । नहि घटाकाशान्महाकाशो भिद्यते, येनं बुद्ध्युपाधिकाज्जीदादीश्वरो भिद्येत । एवमुपाधि- विलयादेव हि जीवस्य ब्रह्मस्वरूपेणावस्थानं सुषुप्तौ प्रलये मुक्तौ वा । तत्र सुषुप्तिप्रलययोर्जीवोपाधे- र्वासनारूपेण वर्तमानत्वात्पुनरागतिः । मुक्तौ तु सर्वात्मना लयान्न पुनरावृत्तिरुपाघेरिति बोध्यम् । इथं चोपाधिर्जीवेऽज्ञानकल्पितेति ज्ञानेन निवर्तत एव । अत एव ज्ञानात्केवलान्मुक्ति ब्रुवन्ति श्रुतयः । . अथ यदि त्वयापि जीवस्योपाधिभङ्ग एव जीवस्य ब्रह्मणि लय इति विवक्ष्यते, तर्हचपसिद्धान्त- स्तव - त्वन्मते सायुज्यस्यैवाभावात् । यदि तु वास्तवो जीवस्य लयो विवक्ष्यते तर्हि नित्यत्वश्रुतिविरोधः । यदि प्रलये जीवानां लयः, प्रपञ्चे पुनः तदन्येषां जीवानामुदयश्च तर्हि कृतनाशीकृताभ्यागमप्रसङ्गः । स्रष्टुरीश्वरस्य च वैषम्यनैघृण्य दोषप्रसक्तेः । नच कर्मसापेक्षत्वात्तदप्रसक्तिरिति वाच्यं कर्तुरेवाभावे कुतः कर्मसत्त्वम् ? जीवादृष्टं हि कर्मशब्दवाच्यम् । ‘न जायते म्रियते वा विपश्चिन्नायं भूत्वा भविता वा न भूयः’ (भग- २-२० ) इति हि स्मृतं भगवतेहैव । श्रुतं च तथा, व्याख्यातं च त्वया तथा; अतः स्ववचनविरोधोऽपि । या तु स्मृतिरनेनोपन्यस्ता ‘प्रकृतिर्या मया ख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि’ इति, सा च न प्रकृतिपुरुषयोः प्रलये परमात्मनि वास्तवं लयं ब्रूते - विरोधात् । किंतु प्रकृतिरकार्यक्षमा लीनेव वर्तत इति, पुरुषश्च बुद्धिपरिच्छिन्नो जीवोऽज्ञानतादात्म्याध्यासमापद्य लीन हव वर्तत इति च औपचारिकलयं ब्रूते । अन्यथा प्रलये मायायास्स्वरूपतः सर्वात्मना नाशे सति जीवा विनापि यतनं सुच्यन्त एवेति मोक्षशास्त्र वैयर्थ्यम् । सर्वजीवमुक्तौ प्रपञ्चे पुनर्जीयान्तरसृष्टिप्रसङ्गः । न यतः तस्मात् - सप्तमोऽध्यायः । मत्तः परतरं नान्यत्किञ्चिदस्ति धनंजय ! मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥ १५ मत्त इति । मत्तः परमेश्वरात्परतरं अन्यत्कारणान्तरं किंचिन्नास्ति न विद्यते, अहमेव जगत्कारणमित्यर्थः । हेधनंजय ! यस्मादेवं तस्मान्मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं जगत् प्रोतमनुस्यूतमनुगतं अनुविद्धं प्रग्रथितमित्यर्थः । दीर्घपटतन्तुवत् सूत्रे मणिगणा इव ॥ चेष्टापत्ति:- जीवस्य जन्मनाशहीनस्य जन्मनाशप्रसङ्गः, कृतहानाकृताभ्यागमदोषप्रसङ्गः, ईश्वरस्य च वैषम्यादिदोषप्रसङ्गः । प्रलये जीवनाशपक्षे चेमे दोषास्सम्भवन्ति हि । तस्माद्यथा सुप्तः पुरुषः ब्रह्मणि लीन इत्युच्यते तथैव प्रलयेऽपीति न वास्तवो जीवस्य लयः । अन्यथा हि सतो जीवस्य नाशे असतो जीवस्य पुनरुत्पत्तौ च ’ नासतो विद्यते भावो नाभावो विद्यते सतः’ (भग- २-१६ ) इति गीतावचनमेव विरुद्ध येत असतस्सत्ताऽयोगात्सतश्चासत्तायोगादनुपपन्ना चेयं कल्पना । न चैवं कथं सतः प्रपञ्चस्यापि लय इति वाच्यं प्रपञ्चस्यासत्त्वात् । न च कथमसतः प्रतीतिः शशशृङ्गादेरनुपलम्भादिति वाच्यं, असतो रज्जुसर्पादेरुपलभ्यमानत्वात् । असतोऽप्युपलभ्यमानत्वादेव प्रपञ्चस्य शुक्तिरजतादिवन्मिथ्यात्वस्यास्माभिरुच्यमानत्वात् । यत्प्रतीयते बाध्यते च तद्धि मिथ्या इन्द्र- जालादिवत् । तस्मान्नित्यस्य जीवस्य प्रलये मुक्तौ वा न लयः, मायायाश्च प्रलये न लयः, किं तु मुक्तावेव । प्रलये प्रकृतिपुरुषयोर्लयस्मरणं त्वौपचारिकमेव । एवं प्रकृतिपुरुषयोः प्रलये लयाभावादेव प्रपचे नोत्पत्तिः । अतो नेश्वरयोनित्वं प्रकृतिपुरुषयोरिति स्थितम् || ६ || 1 मत्त इति । हे धनञ्जय ! मत्तोऽन्यत्परतरं किंचिदपि नास्ति । मत्तोऽन्यत्किचित्परतरं नास्तीति वा । सूत्रे मणिगणा इव मयीदं सर्वं प्रोतम् । यस्मात्तस्मादिति । यस्मादहं सर्वस्य जगतः प्रभवः, प्रलयश्च तस्मादित्यर्थः । अन्यशब्द सत्त्वादत्र परतरशब्दो नान्यपरः- पौनरुक्त्यात्किन्तु कारणपर इत्याह- कारणान्तरमिति । कारणस्य कार्यापेक्षयोत्कृष्टत्वात्परशब्दवाच्यत्वमतिशयेन परं परतरं प्रधानकारण- मित्यर्थः । मृदादिकारणे घटादिकार्यस्यानुगतत्वदर्शनादाह - मयि सर्वमिदं प्रोतमिति । मयि प्रत्यगभिन्ने ब्रह्मणीदं प्रमेयं सर्वं जगत्प्रोतम् । दृष्टान्तमाह भाष्यकार: — दीर्घपटतन्तुवदिति । यथैकस्यां दीर्घ- तन्तौ पटः प्रोतः तद्वदित्यर्थः । घटाकारपरिणतमृदि घट इव जगदाकारपरिणतमायायां जगदनुगतम् । तादृशमायाधिष्ठानत्वादात्मनोपि जगदनुस्यूतत्वव्यवहार इति भावः । साक्षादन्तर्यामिण्यात्मन्यपीदं जग- दनुगतम् । कथमित्यत्र दृष्टान्तमाह मूलकारः - सूत्रे मणिगणा इवेति । यथा सूत्रे मणिगणाः प्रकर्षेण ग्रथितास्तथा आत्मनि जगदित्यर्थः । एवं दृष्टान्तद्वयसाधारण्यायैव प्रोतशब्दस्यानुगतप्रग्रथित- रूपार्थद्वयकथनं भाष्ये । एतेनान्तः प्रविष्टेन सूत्रेण मणिगणा यथा धार्यन्ते तथा अन्तः प्रविष्टजीव - प्रकृत्या जगद्धार्यत इति दृष्टान्तसूचितः ॥७॥ १६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते-

रसोsहमप्सु कौन्तेय! प्रभास्मि शशिसूर्ययोः । प्रणवस्सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥८॥ रस इति । रसोsहं, अपां यः सारः सरसः तस्मिन् रसभूते मयि आपः प्रोता इत्यर्थः । एवं सर्वत्र । यथाऽहमप्सु रस एवं प्रभाऽस्मि शशिसूर्ययोः । प्रणव ओंकार- स्सर्ववेदेषु । तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः । तथा खे आकाशे शब्दस्सारभूतः । तस्मिन्मयि खं प्रोतम् । तथा पौरुषं पुरुषस्य भावः, पौरुषं यतः पुंबुद्धिः नृषु, तस्मिन् पौरुषे मयि पुरुषाः प्रोताः ॥८॥ पुण्यो गन्धः पृथिव्यां च तेजश्वास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ||९|| पुण्य इति । पुण्यस्सुरभिर्गन्धः पृथिव्यां चाहमस्मि तस्मिन्मयि गन्धभूते पृथिवी प्रोता । पुण्यत्वं गन्धस्य स्वभावत एव पृथिव्यां दर्शितमवादिषु रसादेः पुण्यत्वोपलक्षणार्थम् । रस इति । ननु सर्व जगत्त्वय्येव कुतः प्रोतं, किंतु तत्कारणे तत्तत्कार्य प्रोतं यथा मृदि घटः तन्तुषु पटश्चेति शङ्कायां तत्तद्धर्मविशिष्टे मय्येव तत्तत्कार्य प्रोतमित्याह - रस इति । शब्दादिपञ्च- तन्मात्रेभ्यः खादिपञ्चभूतोत्पत्तिश्रवणात्स्वकारणेषु शब्दादिषु खादिभूतानि प्रोतानि तानि च कारण - भूतानि शब्दादिवस्तून्यहमेव मज्जन्यत्वेन तेषां मदात्मकत्वात् यथा घटः पृथिवीजन्यत्वात्पृथिव्यात्मकः । पृथिव्यां पुण्यो गन्धोऽस्मि, विभावसौ कोऽसौ रसोडत आह- अपां यस्सार हे कौन्तेय ! अहमप्सु रसोऽस्मि, खे शब्दोऽस्मि, तेजोऽस्मि, अनुक्तमपि वायो स्पर्शोऽस्मीतीह ज्ञातव्यम् । इति । सारः स्थिरांशः, कार्यस्य कारणं स्थिरांशः । यथा घटस्य मृत्तिका कुण्डलस्य कनकं तथsपां रसः सारः । एवं खादीनामपि शब्दादयस्सारा इत्यूह्यम् | रसभूत इति । मायया रसाकारेण परिणते इत्यर्थः । मय्यात्मनीत्यर्थः । प्रभा चन्द्रिका आतपश्च चन्द्रिका रूपमातपरूपं च यतेजोऽस्ति शशिसूर्ययोस्तदहमेवेत्यर्थः । ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । चन्द्रमसि यचाग्नौ ततेजो विद्धि मामकम् ॥’ (भग- १५-१२) इति वक्ष्यमाणत्वात् तेजोऽतिरेकेण चन्द्रसूर्यरूपकार्याभावाच्चन्द्रसूर्यस्थिरांशस्तेज एवेत्यर्थः । एवमग्नेरपि। ओंकारस्य सर्ववेदादित्वात्स ओंकारोऽहमेव, पुरुषस्य भाव इति धीर्थमिति यावत् । निर्वीर्यस्य क्लीबत्वात्पुंस्त्व हेतुर्वीर्यमेव । कारणभूते च वीर्ये कार्यभूताः पुरुषाः देहशब्दवाच्याः प्रोताः वीर्यमयत्वाद्देहानाम् । यद्यप्यत्र पुरुषशब्दः पुरुषदेह परः तथाऽपि त्र्यादिदेहानामपि वीर्यकार्यत्वा- विशेषाद्देहमात्रपरः । मूले तु नृषु मनुष्येषु पुरुषेष्विति यावत्, स्त्रीनपुंसकयोवीर्याभावात् । यत्पौरुषं वीर्यमस्ति स्थिरांशभूतं तदहमस्मीत्यर्थः ॥ ८ ॥ पुण्य इति । इदं पुण्यत्व विशेषणं रसादीनामपि देयमित्याह – उपलक्षणार्थमिति । पृथि- ३ सप्तमोऽध्यायः । १७ अपुण्यत्वं तु गन्धादीनां अविद्याधर्माद्यपेक्षं संसारिणां भूतविशेषसंसर्गनिमित्तं भवति । तेजश्च दीप्तिवास्मि विभावसौ अग्नौ, तथा जीवनं सर्वभूतेषु येन जीवन्ति सर्वाणि भूतानि तज्जीवनं, तपश्चास्मि तपस्विषु तस्मिंस्तपसि मयि तपस्विनः प्रोताः ॥ ९ ॥ बीजं मां सर्वभूतानां विद्धि पार्थ! सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥१०॥ बीजमिति । बीजं प्ररोहकारणं मां विद्धि सर्वभूतानां हे पार्थ! सनातनं चिरन्तनम् । व्यादिषु स्वाभाविका गन्धादयः पुण्याः; आगन्तुकास्त्वपुण्या इत्याह- अपुण्यत्वं त्विति । अविद्या चाधर्मश्चाविद्याधर्मौ तदादीनपेक्षत इति तथोक्तं, भूतविशेषसंसर्गो निमित्तं हेतुर्यस्य तत्तथोक्तम् । अविद्याधर्मादिप्रयुक्तभूतविशेषसंसर्गजन्या गन्धादयोऽपुण्या इत्यर्थः । यथा पृथिवीजलसंयोगजन्यौ जल- गन्धपृथिवीरसौ तद्वदिति भावः । अयं च पृथिवीजलसंयोगादिः संसारिणां भोगार्थमविद्याधर्मादिवशाद्भवतीत्याह — विद्याधर्मा- द्यपेक्षमिति । तत्र सर्वस्याविद्यकत्वादविद्यावशाद्भवतीति सिद्धमेव । अधर्म शास्तु दुःखहेतुर्दुर्गन्धः. कर्दमादिजन्यः ; आदिपदाद्धर्मवशाज्जलचन्दन संयोगादिजन्यसुगन्धोऽप्यागन्तुक इति बोध्यम् । एवं रसादिष्वपि ।

  • जीवन्त्यनेनेति जीवनमन्नमित्यर्थः । ’ अन्नाद्भूतानि जायन्ते जातान्यन्नेन जीवन्ति, अन्नं प्रय- न्त्यभिसंविशन्तीति (तै- उ-) श्रुतेः । भूतानामन्न कार्यत्वात्सर्वमन्ने प्रतिष्ठितमित्यर्थः । अद्यत इत्यन्न व्रीह्यादिमयं जलं च । एवं कारणे रसादौ कार्यस्य जलादेः प्रोतत्वमुक्त्वा अथाकारणेऽपि तपसि तपस्विनां प्रोतत्व- माह - तपश्चेति । ननु कथमकारणे तपसि तपस्विनां प्रोतत्वमिति चेदुच्यते–यथा कार्य कार- णाश्रयमेवं तपस्विनः तप आश्रया इति तपस्विनां तपसि प्रोतत्वमौपचारिकमिति । एवं बुद्धिर्बुद्धिमता - मस्मीत्यादिष्वपि बोध्यम् । यद्वा पूर्वत्र रसजलादिष्वप्ययमेवाश्रयाश्रयिभावो बोध्यः । तथा च रसा- द्याश्रयत्वाज्जलादीनां रसादिषु प्रोतत्वमिति । नच गुणिनमाश्रित्य गुणो वर्तत इति गुण्येव गुणस्याश्रय इति गुणिन्येव गुणः प्रोतो न तु गुणे गुणी प्रोत इति वाच्यं, गुणोऽस्यास्तीति गुणीति व्युत्पत्त्या गुणवत्वस्य गुणपूर्वकत्वाद्गुण एव गुण्याश्रय इति । गुणिनि गुणस्यैव प्रधानत्वात्प्रधानाश्रयत्वादप्रधानानां प्रधानभूतो गुण एवाप्रधानगुण्याश्रय इति । अत एवापां यस्सार इति आकाशे शब्दस्सारभूत इति च भाष्यम् । सार: प्रधान इत्यर्थात् । एवं तपः प्रधानत्वात्तपआश्रयत्वाच्च तपस्विनस्तपसि प्रोताः । तथा बुद्ध्याश्रत्वाद्बुद्धिप्रधानत्वाच बुद्धिमन्तों बुद्धौ प्रोताः । बलाश्रयत्वाद्वलप्रधानत्वाच्च बलवन्तो बले प्रोता इत्याद्याम् । यद्वा कारणाभावे कार्या- भाववद्विशेषणाभावे विशिष्टाभावात्कारणे कार्यमिव विशेषणे विशिष्टं प्रोतमिति वेद्यम् ||९|| बीजमिति । हेपार्थ! मां सर्वभूतानां सनातनं बीजं विद्धि । बीजशब्दार्थमाह — प्ररोह- १८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कारणमिति । प्ररोहः प्रादुर्भावः, तत्र कारणं यथा वृक्षाणां प्रादुर्भावे वटादिबीजजातं कारणं तद्व- त्सर्वभूतप्रादुर्भावे अहमेव अनादिकारणमित्यर्थः । तथा च बीजत्वधर्मविशिष्टे मयि सर्वभूतानि प्रोता- नीति फलितार्थः प्रकरणानुरोधात् । न च जीवनं सर्वभूतेष्विति पुनरुक्तिः, ईश्वरस्य जीवनभूतत्व- बीजभूतत्वधर्मद्वयवशात्सर्वभू-प्रोतत्वस्य द्वेधोक्तिरित्यदोषात् । इदं च बीजमव्यक्तं मायैव वृक्षस्थानीयं स्थूलं जगत्प्रति सूक्ष्माया मायाया एव बीजस्थानीय- त्वात् । चिन्मात्रेश्वरे ‘अस्थूलमन’ ण्विति श्रुत्या स्थूलत्वस्य सूक्ष्मत्वस्य च निषिद्धत्वात् । तदेवं माया- भूते मयि सर्वभूतानि प्रोतानीति सिद्धम् । नच ‘मयि सर्वमिदं प्रोत’ मित्यस्य पुनरुक्तिरिति वाच्यं तस्यैव विवरणपरत्वादस्य । यद्वा ‘सूत्रे मणिगणा इवेति दृष्टान्तानुरोधान्मयि प्रत्यगात्मनीति तत्रार्थः; अत्र तु प्रकृत्यात्मक इति भेदात् ; अथवा दीर्घपटतन्तुवदिति दृष्टान्तानुरोधान्मयीत्यस्य जगदाकारपरिणतमायाघिष्ठानब्रह्मचैतन्ये इति तत्रार्थ; अत्र तु मायाभूते मयीत्येवेति भेदात् । मयि सर्वमित्यनेन प्रत्यक्त्वेन ब्रह्मत्वेन वा सर्वजगदधिष्ठानत्वमीश्वरस्योक्तम् ; जीवनं सर्वभूते- ष्वित्यनेन तु अन्नत्वेन रूपेग; बीजं मां सर्वभूतानामित्यनेन तु मायात्वेन रूपेणेति विवेकः । नन्वन्नस्य ईश्वरविवर्तत्वादीश्वराश्रितमायापरिणामत्वाद्वा ईश्वरस्यान्नात्मत्वमस्तु, कथं पुनर्मायात्मत्वं मायाया अकार्यत्वादिति चेत्, उच्यते - ईश्वरातिरिक्तस्य सर्वस्यापीश्वरे अध्यस्तत्वान्मायापीश्वरेऽध्य- स्तैव; अन्यथा मायाया अनध्यस्तत्वे सत्यत्वापत्तेः । नचेश्वरे जगदध्यस्तं मायया सा तु केनाध्यस्तम् ? न केनापि- अन्यस्याभावात् भावे वा तस्याप्यन्यस्तस्याप्यन्योऽध्यासकर्ता स्यादित्यनवस्थादोष इति न मायाया अध्यस्तत्व सिद्धिरिति वाच्यं, सा स्वयमेवाध्यस्तेति ‘माया चाविद्या च स्वयमेव भवतीति श्रुतेः । न चासम्भव:- श्रुतिप्रामाण्येन सर्व- सम्भवात् । युक्त्या च ज्ञाननिवर्त्यमायाया अध्यस्तत्वसिद्धेः । न ह्यनध्यस्तं सत्यं वस्तु ज्ञानान्निवर्तेन, अनिवर्त्यत्वस्यैव सत्यत्वस्वरूपत्वाद्धर्मिग्राहकमानेनाध्यस्तमायस्यैवेश्वरस्य सिद्धे:- ‘यतो या इमानि भूतानि जायन्त’ इति श्रुतिसूचितेन जगज्जन्मादिलिङ्गकानुमानेन मायिन ईश्वरस्यैव सिद्धत्वादेवं मायायाः स्वय- मेवाध्यस्तत्वादेवाकार्यत्वमनादित्वं च । ततश्च स्वाध्यस्तान्नात्मत्वमिव स्वाध्यस्तमायात्मत्वमपीश्वरस्य युक्तमेवेति न कश्विद्दोषः । मायाया अनीश्वरात्मत्वे मायापरिणामस्यान्नस्याप्यनीश्वरात्मत्वप्रसङ्गात् । 1 सनातनमिति । अनादीत्यर्थः । अस्मिन्वेदान्तमते दृग्दृश्यं चेति द्वावेव पदार्थों; दृक् क्षेत्रज्ञ आत्मा, दृश्यं क्षेत्रम् । तत्त्रिविधमव्याकृतममूर्त मूर्त चेति । तत्राव्याकृतमव्यक्तमज्ञानं माया मूलप्रकृति- रीश्वरोपाधिः सैवामूर्तस्याकाशादेर्मूर्तस्य पृथिव्यादिप्रपञ्चस्य च कारणत्वाद्बीजमित्युच्यते । यस्य कस्या- प्यकार्यत्वात्सनातनमिति च । तच्चान्याकृतमेकविधमेव । मूर्तमूर्ते तु दृश्यपृथिव्यादिप्रपञ्चात्मना बहुविधे कार्ये च; तत्र मां मयि मत्त इत्याद्यस्मच्छन्दप्रतिपाद्योऽत्र दृवपदार्थ आत्मा सनातन बीजशब्दप्रतिपाद्यं तु अव्यक्तम् ; रसाबादिशब्दप्रतिपाद्यं तु मूर्तमूर्तात्मकं जगदिति विवेकः । एवं यद्यपि बीजशब्दादे- वाव्याकृतपदाथलाभः, तथाऽपि तस्यानादित्वं स्फुटयितुं सनातनमिति विशेषणम् ।सप्तमोऽध्यायः । १९ किं च बुद्धिर्विवेकशक्तिः अन्तःकरणस्य बुद्धिमतां विवेकशक्तिमतामस्मि तेजः प्रागल्भ्यं तद्वतां तेजस्विनामहम् ॥ १० ॥ I बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥११॥ बलमिति । बलं सामर्थ्य ओजः बलवतामहं तच्च बलं कामरागविवर्जितं, कामश्च राग कामरागौ - कामस्तृष्णा असन्निकृष्टेषु विषयेषुः रागो रंजना प्राप्तेषु विषयेषुः ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं सच्च महमस्मि न तु यत्संसारिणां तृष्णा रागकारणम् । किं च धर्माविरुद्धः धर्मेण शास्त्रार्थेनाविरुद्धो यः प्राणिषु भूतेषु कामः; यथा देहधारणमात्राद्यर्थः अशनपानादिविषयः स कामः अस्मि हे भरतर्षभ ! || ११ || यद्वा कारणमात्रवाची बीजशब्दः पृथिव्यादिकारण भूजलादीनि, घटादिकारणभूतपृथिव्यादीनि, पुत्रादिदेह कारणभूतपित्रादिदेहान्, वृक्षांदिकारणभूत बीजादीनि चावान्तर कारणजातं ब्रूयादिति तद्व्यावृत्तये सनातनपदम् । नहि पृथिव्यादिष्वनादिकारणत्वमस्ति । नचेश्वरे अनादिकारणत्व सत्त्वात्तत्रातिव्याप्ति- रिति वाच्यं, ईश्वरस्यं निर्विशेषचिन्मात्रस्य वस्तुतः कारणत्वाभावात् वस्तुतोऽनादिकारणत्वस्यैवात्र विवक्षितत्वात् ईश्वरस्य च मायाद्वारैव जगत्कारणत्वादिति । सनातनं मां सर्वभूतानां बीजं विद्धीति वान्वयः । सर्वभूतपदेन मूर्तीमूर्त प्रपञ्चग्रहणात्तत्कारणस्याव्याकृतस्यैव बीजपदेन ग्रहणमिति । , . अत्र बीजमुपादानत्वं सर्वेषां परिणामिद्रव्याणां स्वकार्यपरिणाम सामर्थ्यमिति यद्वा तत्तदवान्तरो- पादानद्रव्यमिति वेदान्तदेशिकः, तदसत् - धर्मिवाचिनो बीजशब्दस्योपादानत्वरूपधर्म वा चित्वासम्भवात्, सति मुख्यार्थसम्भवे लक्षणाया अनाश्रयणीयत्वात् । अवान्तरोपादानमित्यपि न युक्तं - सर्वशब्दस्वारस्य- भङ्गापतेः । बुद्धिशब्दो नात्रान्तःकरणपर:- सर्वेषामपि बुद्धिमत्त्वेन बुद्धिमतामिति विशिष्य वक्तुमयुक्तत्वात् ; किंतु विवेकशक्तिपर इत्याह- बुद्धिर्विवेकशक्तिरिति । सदसद्वस्तुविवेचनसामर्थ्यमित्यर्थः । कस्येयं शक्तिरत आह— अन्तःकरणस्येति । बुद्धिमतामाश्रयभूता प्रधानभूता च बुद्धिरहमस्मीत्यर्थः ॥ १० ॥ बलमिति, ओज इति । शरीरपाटवमित्यर्थः । इन्द्रियपाटवं वा तदुभयं वा । असन्निकृष्टाः दूरस्था:; रञ्जना आसक्तिः; सति बले त्र्यादिविषयेषु - कामरागौ भवत इति तृष्णारागयोर्बलं कारण- मित्युक्तम् । परमकारणं तु तयोरज्ञानमेव । ननु बलवतां बलमस्मि, भूतेषु कामोऽस्मि इत्येवालं; किमिति कामरागविवर्जित्व ग्रहणमिति चेदुच्यते—- यथा संसार्यविद्याऽधर्माद्यपेक्षभूतविशेषसंसर्गनिमित्त पुण्यगन्धादिव्यावृत्तये गन्धादीनां पुण्यत्वविशेषणं कृतं तथैव संसार्यविद्याधर्माद्यपेक्षदुष्टबल कामव्यावृत्तये कामरागविवर्जितत्वधर्माविरुद्धत्व- विशेषणकरणमिति । यद्यपि दुष्टा अदुष्टाश्च सर्वेऽपि भगवदात्मका एव, तथाऽपि ग्राह्यत्वा येाऽदुष्टानामेव भगव- २० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु । ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥१२॥ किंच, य इति । ये चैव सात्त्विकाः सच्च्चनिर्वृत्ताः भात्रा: पदार्थाः, राजसाः रजो- निर्वृत्ताः, तामसाः तमोनिर्वृत्ताश्च ये केचित् प्राणिनां स्वकर्मवशात् जायन्ते भावाः तान्मत्त एव जायमानानित्येवं विद्धि सर्वान्समस्तान् । एवं यद्यपि ते मत्तो जायन्ते, तथापि न त्वह दात्मत्वमुक्तम् । अत एवोत्तरश्लोके सर्वस्यापि भगवदात्मत्वमुच्यते । एवमेवोत्तरत्रापि ‘वृक्षाणामह- मश्वत्थ’ इत्यादिना तावदुत्कृष्टवस्तूनां स्वात्मत्वमुक्त्वा पश्चात् ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जंग’ (भग- १०-४२ ) दिति सर्वस्यापि स्वात्मत्वं वक्ष्यति । एतेन च उदकादिषु वर्तमाना रसादयो भगवद्रूपेणोप (स्या इति, तपोबुद्धि तेजोबल कामा- श्वाविरुद्धा आत्मनि सम्पादयितव्या इति च योगिन उपदेशस्सूचितः ॥ ११ ॥ ये चेति । सत्त्वादागताः सात्त्विकाः सत्त्वगुणाज्जाता इत्यर्थः । निर्वृत्ता निष्पन्ना जाता इति यावत् । रजस इमे राजसाः; तमस इमे तामसाः । यद्वा रजसा निर्वृता राजसाः, तमसा निर्वृत्तास्तामसाः । तेन निर्वृत्तमित्यण् । के ते भावा अत आह—- ये केचित्प्राणिन इति । कुत- । स्तेषां सात्त्विकत्वादिकमत आह- स्वकर्मवशादिति । स्वादृष्टप्रयुक्तसत्त्वादिगुण निर्वृत्ता इत्यर्थ: । एतेन पदार्थानां सात्त्विकत्वादिकं स्वकर्मप्रयुक्तमेव, न तु मत्प्रयुक्तमितीश्वरस्य वैषम्यादिदो ’ परिहृतः । मत्त एवेतीश्वरात्सकाशादेवेत्यर्थः । ननु सत्त्वादिभ्यो जातानां भावानां कथमीश्वरजातत्वावधारणमिति चेदुच्यते,— सत्त्वाद्या कार परिणतमायावच्छिन्नत्वादीश्वरस्येति ईश्वराधिष्ठितमायागुणभूतसत्त्वादिकार्यत्वाद्भावानामीश्वर कार्यत्वमिति वा । परमकारणजन्यस्य वस्तुनोऽवान्तर कारणजन्यत्वव्यभिचारेऽपि अवान्तर कारणजन्यस्य वस्तुनः परप- कारणजन्यत्वं नैव व्यभिचरति, यथा घटशकलानां मृत्तिकामयत्वं न तु शकलम्यत्वं घटस्य तद्व- दिति भावः । मत्त एवेत्यवधारणेन च ये सत्त्वादयस्त्रयो गुणाः ते वस्तुतोऽहमेव; यथा रजतं वस्तुतः शुक्ति- कैवेति गम्यते । मत्त इति पञ्चमी । जनिकर्तुः प्रकृतिरपादानं स्यादपादाने पञ्चमी स्यादिति व्याकरणात्प्रकृति- रूपापादाने विहितेति कृत्वा तदनुगुणं पदमिह योजयति — जायमानानिति । अन्यथा पञ्चम्यनुप पतेरिति भावः । समस्तानिति । भावानित्यर्थः । तत्र सात्त्विका भावा देवादयः, राजसा मनुष्यादयः, तामसा स्तिर्यगादय इति विवेकः । ननु प्राणिनामीश्वरजातत्ववचनादप्राणिनामन्यजातत्वं प्रतिभातीति चेन्मैवम् — अनुपलब्ध कर्तृकक्षित्यादिकार्यलिङ्गकानुमानेनेश्वरस्य तर्कादिमते सिद्धत्वात् तार्किकादयः अप्राणिक्षित्यादिभव सप्तमोऽध्यायः । २.१ तेषु तदधीनः तद्वशः, यथा संसारिणः ते पुनर्मयि मद्वशाः मदधीनाः || १२ || कर्तारमीश्वरं मन्यन्त एवेति नाप्राणिनामीश्वराज्जातत्वमिह वक्तव्यमन्यत सिद्धत्वात् । किं तर्हि देव - दत्ताद्यज्ञदत्तो यज्ञदत्ताद्विष्णुमित्र इत्येवं प्राणिनामेव जन्म प्राणिनस्सकाशाद्भवतीति लोकसिद्धतया तन्निरासकं शास्त्रसिद्धं प्राणिनामीश्वरात्सकाशाज्जन्मे होच्यत इति । न च कथं वाङ्मात्रेण लोक सिद्धार्थ परित्याग इति वाच्यं भ्रमप्रमादादिदूषित लोके दृष्टयपेक्षया शास्त्रस्यैव बलवत्तरत्वात्, शास्त्राविरोधिलोकदृष्टेरेव प्रमाणत्वात् । अन्यथा सूर्योदयास्तमयचन्द्रक्षयग्रहण- कलङ्कगगननैल्यप्रमुखानामपि लोकदृष्टिसिद्धानां सत्यत्वं स्यात्, शास्त्रं तु ‘यतो वा इमानि भूतानि जायन्ते’ ( तै- उ- ४१) इति प्राणिनामीश्वरादेव जन्मादिकं ब्रूते । नित्यस्यैकस्याविक्रियस्येश्वरस्यात्मनो नास्ति जन्मादि; देवदत्तादिदेहाकारपरिणतमायायास्सकाशा- द्विष्णुदत्तादिदेहानां जन्म | " न च मायापरिणामाद्देहात्कुतः पुनः परिणामोदय इति वाच्यं, अन्नपरिणामस्यापि रक्तस्य क्षीराकारपरिणामदर्शनात्, मृत्परिणामाद्धटात् कपालपरिणामोदयदर्शनाद्द्बीजपरिणामाक्षात् पुष्पादि- परिणामोदयदर्शनात्, मेघपरिणामाज्जला बुदबुदादिपरिणामोद दर्शनात् इहापि देहभुक्तान्नस्य रक्ता- त्मना रक्तस्य वीर्यात्मना वीर्यस्य च पिण्डात्मना परिणाम इति न कश्चिद्दोषः । ननु ‘सर्वभूतस्थमात्मानं सर्वभूतानि चात्म’ नीति ( भग- ६- २९) पूर्वमुक्त्वा कथमधुना ‘न त्वहं तेषु ते म’यीति विरुद्धमुच्यत इत्यत आह- तदधीन इति । अधीनपदम्यात्र शेषः । तस्य चावृत्तिः, वचनविपरिणामश्च । अहं तेष्वधीनो न । ते तु यय्यधीना इति । यथेति । यथा भावा मदधीनास्तथाऽहं न तदधीन इत्यर्थः । के ते भावा अत आह— संसारिण इति । संसरन्तीति संसारिणः; आत्मानात्मतादात्म्या- ध्यासवन्त इति भावः । न त्वात्मा तस्य मम चैकत्वादित्येतदर्थं संसारिपदनिवेश:- आत्मनोऽसंसा- रित्वात् । न च कथमात्मान्यस्य जडस्य संसारित्वमिति वाच्यं, आत्माभाससत्त्वाद्बुद्धौ साभासबुद्धिर्हि जीवः संसारी । आभासः प्रतिबिम्ब: । अन्यत्रान्यधर्मप्रतिफलनं तच्चाज्ञानाद्भवति । ननु पितुर्जातः पुत्रो यथा पितुर्वशे पिता च पुत्रस्य वशेऽस्ति तद्वत्त्वयाऽपि भूतवशे, भूतैश्व त्वद्वशे स्थातव्यमेवेति कुतस्तव भूतावशत्वमत आह— यद्यपीति । मत्तो जाता अपि त एव यद्वशे सन्ति, न त्वहं तद्वशे इत्यर्थः । स्वस्य सर्वेश्वरत्वात्प्राणिनां परतन्त्रत्वाच्चेति भावः । एवमपरतन्त्रत्वा- देवेश्वरस्येश्वरत्वम् । लोके सर्वस्याप्यचेतनस्य चेतनवशत्वदर्शनादात्मनश्वतनस्य वशे सर्वमचेतनं प्राणिजातं वर्तत इति बोध्यम् । न च बुद्धिश्चेतनैवेति वान्यं, आत्मधर्मप्रतिफलनप्रयुक्तत्वाद्बुद्धिगत- चेतनत्वस्य । स्वतोऽचेतनैव बुद्धिः । मायापरिणामत्वान्मायायाश्च जडत्वादिति बोध्यम् । एतेन प्राणिशब्दवाच्या संसारिणः कार्यकारणसङ्घातात्मका नात्मा, किंतु तद्विलक्षणस्तदुपादान- मीश्वर एवात्मेति सिद्धम् ॥१२॥ ५२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु एवम्भूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभूतात्मानं निर्गुणं संसारदोष- बीजप्रदाहकारणं मां नाभिजानाति जगदित्यनुक्रोशं दर्शयति भगवान्, तच्च किं निमित्तं जगतो ज्ञानमित्युच्यते- त्रिभिर्गुणमयैर्भावैरेभिस्सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३ ॥ त्रिभिरिति । त्रिभिर्गुणमयैर्गुणविकारै: रागद्वेषमोहादिप्रकारैः भावैः पदार्थः एभिः यथोक्तैः सर्वमिदं प्राणिजातं जगत् मोहितमविवेकतामापादितं सत् नाभिजानाति मां; एभ्यः गुणेभ्यः यथोक्तेभ्यः परं व्यतिरिक्तं गुणविलक्षणं च अव्ययं व्ययरहितं जन्मादिसर्वभाव- विकाररहितमित्यर्थः ॥ १३॥ त्रिभिरिति श्लोकमवतारयति - एवमिति । एवं पूर्वोक्तरूपेण भूतं स्थितमेवम्भूतं पूर्वोक्त- विधमित्यर्थः । परमश्चासावीश्वरश्च परमेश्वरस्तं ब्रह्मविष्णुरुद्रेन्द्रादीश्वराणामीश्वरमित्यर्थः । निरुपाधि- केश्वरमिति वा । नित्यो विनाशरहितः; शुद्धो निरवद्यः; बुद्धः सर्वज्ञः; मुक्तः संसाररहितः; स्व: स्वासाधारणः भावो धर्मों यस्य तं तथोक्तं नित्यं शुद्धं बुद्धं मुक्तं चेत्यर्थः । नित्यत्वादिधर्मवन्त- मित्यक्षरार्थः । निर्धर्मकेऽप्यात्मनि नित्यत्वादयो धर्माः कल्पिता व्यवहारार्थमिति बोध्यम् । तच्च कल्पनमनित्याशुद्धजडबद्धजगद्वैलक्षण्यार्थम् । यद्वा नित्यादिपदान्यनित्यवैलक्षण्याद्यर्थबोधकानि लक्षणया । तथा चानित्यत्वादिधर्मानात्मनि निरस्यन्ति नित्यादिपदानि; नतु नित्यत्वादिधर्मान् कल्पयन्तीति न कश्चिद्दोषः । कोऽसौ परमेश्वरोऽत आह- सर्वभूतात्मानमिति । पूर्वोक्तानां सर्वेषां भूतानामात्मभूत- मित्यर्थः । नास्मिन् सत्त्वादिगुणास्सन्तीत्याह - निर्गुणमिति । गुणकार्याभावादिति भावः । नच मायाया गुणवत्वादात्मनश्च मायित्वाद्गुणवत्त्वमात्मन इति वाच्यं वस्तुतो निर्मायत्वादात्मनः, मायाया एव मिध्यात्वेन तद्गुणानामपि मिथ्यात्वान्मिथ्यागुणैरात्मनि सगुणत्वस्यासम्भवान्मिथ्यामरीचिकोदकेन भूमेः पंकिलत्ववदिति वा सिद्धान्तात् । मां जगत्प्राणिन इत्यर्थः । नाभिजानाति । किमर्थ ज्ञानमत आह- संसारबीजदोषप्रदाहायेति । संसारबीजभूता दोषा अविद्यातत्कार्य रागद्वेषादयश्च तेषां प्रकर्षेण दाहाय दहनार्थं तुलानग्निनेत्रेति भावः । अनुक्रोशं दयाम् । कुतस्त्वां जगन्न जानातीत्याक्षिप्रति तच्चेति । तस्य चाक्षेपस्य परि- हारोऽनेन श्लोकेनोच्यत इत्याह- उच्यते, त्रिभिरितीति । 1 इदं सर्वं जगत् एभिर्गुणमयैस्त्रिभिर्भावर्मोहितं सत् एभ्यः परमव्ययं मां नाभिजानाति । त्रिभिं- गुणमयैरिति । त्रिगुणमयैरित्यर्थः । सत्त्वादिगुणत्रयपरिणामभूतैरिति यावत् । रागद्वेषमोहादिप्रकारैः तदादिरूपैरित्यर्थः । रागः सात्त्विको राजसश्च द्वेषो राजसः, मोहस्तु तामस इति विवेक: । आदि- पदात्सुखदुःखादिग्रहणम् । अचेतनस्य मृदादेर्मोहासम्भवादाह - प्राणिजातमिति । देवमनुष्यादि -

सप्तमोऽध्यायः । दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४॥ २३ देवी देवस्य ममेश्वरस्य विष्णोः स्वभावभूता हि यस्मादेषा यथोक्ता गुणमयी मम माया दुरत्यया दुःखेनात्ययः अतिक्रमणं यस्यास्सा दुरत्यया । तत्रैवं सति सर्वधर्मान् परि- त्यज्य मामेव मायाविनं स्वात्मभूतं सर्वात्मना ये प्रपद्यन्ते ते मायामेतां सर्वभूतमोहिनीं तरन्त्यतिक्रामन्ति; ते संसारबन्धनान्मुच्यन्ते इत्यर्थः ॥ १४ ॥ · चेतनवर्ग इत्यर्थः । अविवेकतां विवेकराहित्यं, विवेक आत्मानात्मविवेकः; स न विद्यते येषां ते अविवेकाः तेषां भावं आपादितं प्राप्तिं व्यतिरिक्तमन्यं गुणविलक्षणं चेति गुणगतलक्षण भिन्नलक्षण- वन्तमित्यर्थः । चकारात् स्वरूपतः स्वभावतश्च गुणेभ्योऽत्यन्तभिन्नमित्यर्थः । तत्र स्वरूपतो भेदाय परमिति, स्वभावतो भेदाय गुणविलक्षणमिति च पदद्वयनिर्देशः । न व्येति विकारमापद्यत इत्यव्ययः । व्ययो विकारः, न तु परिक्षयमात्रम् । प्राणिनां रागद्वेषमोहादिभिरन्तःकरणस्यात्मानात्म विवेचनसामर्थ्यं नष्टे सति देहादिविलक्षणात्मज्ञानं न सम्भवतीति परमार्थः ॥ १३ ॥ दैवीति । सत्त्वादिगुणमयरागद्वेषादिमोहितमपि जगन्मायामोहितमेव मायागुणत्वात्सत्त्वादीना- मित्यभिप्रेत्याह भाष्यकारः — कथं पुनरिति । देवस्येयं देवी तां; कोऽसौ देवो अत आह—- वैष्णवीमिति । केयं विष्णुदेवसम्बन्धिनीत्यत आह-मायामिति । काऽसौ मायेत्यत आह- त्रिगुणात्मिकामिति । सत्त्वादिगुणत्रयस्वरूपाम् । कुत्रोक्तेयमत आह - एतामिति । पूर्वश्लो- कोक्तामित्यर्थः । अतिक्रामतीति जगदिति कर्तृशेषः । इति शङ्कायामुच्यते दैवीति । 1 दीव्यति स्वयं प्रकाशत इति देवः, ईष्टे शक्नोतीतीश्वरः, वेवेष्टि व्याप्नोतीति विष्णुः । कोऽसौ देव ईश्वरो विष्णुश्चेत्यत आह — ममेति । आत्मन इत्यर्थः । स्वभावः जगन्मोहकत्वजग- ज्जन्मादिहेतुत्वादिः गुणास्सत्त्वादयः प्रकृतमुच्यन्ते यस्यां सा गुणमयी त्रिगुणात्मिकेत्यर्थः । सत्त्वादि - गुणत्रयस्वरूपेति यावत् । दुःखेनात्येतुं शक्या दुरत्यया अत्येतुमशक्येत्यर्थः । तत्रेत्यध्याहारः । तदर्थ - माह - एवं सतीति । मायाया दुरत्ययत्वे सतीत्यर्थः । ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज (भग- १८-६६ ) इति वक्ष्यमाणत्वादाह – सर्वधर्मान् परित्यज्येति, मामेवेति । यस्य मायया मोहिताः तं मायावन्तं मामेवेत्यर्थः । कंस्त्वमत आह— स्वात्मभूतमिति । स्वेषां भजमानानामात्म- भूतमात्मानमित्यर्थः । सर्वात्मना सर्वभावेन प्रपद्यन्ते भजन्ते साक्षात्कुर्वन्तीति यावत् । 1

आरोपितसर्वाधिष्ठानभूतरज्जुस्वरूपज्ञानाद्वज्जुसर्पभ्रमो यथा निवर्तते, तथाऽऽरोपितंदेहादिप्रपञ्चाधिष्ठान- भूतात्मतत्त्वज्ञानान्माया सकार्या निवर्तत इति परमार्थः । आत्मानात्मविवेकपूर्वकमात्मसाक्षात्कारे सति कुतः पुनरात्मानात्मनोरविवेकस्यावकाशः । अविवेकस्य चाभावे तदनुमेयमायायाः कथं सत्त्वम् ? न कथमपीत्यर्थः । यद्यप्यात्मसाक्षात्कारमात्रेण देहपातं विना मायाकार्यप्रपञ्च नाशाभावेन मायायास्सत्त्वमनुमीयते, २४ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तथाऽपि कृतात्मसाक्षात्कारस्य माया दुग्धपटवन्निस्सारा न बन्धहेतुरिति बोध्यम् । अत एव संसारबन्धना- न्मुच्यन्त इति भाषितमाचार्यैः । यद्वा मायाया आवरणशक्तिर्विक्षेपशक्तिरिति शक्तिद्वयमस्ति तत्रावरणशक्त्या जीवानामात्म- स्वरूपावरणं तत्पूर्वकरसंसारश्च भवति, विक्षेपशक्त्या सर्वप्रपञ्चोदयः तत्रात्मसाक्षात्कारेणावरणशक्ति- नश्यति ; नतु विक्षेपशक्तिः - आत्मज्ञानविक्षेपशक्त्योरविरोधात् । घटसाक्षात्काराद्धि तद्विरोधिघटावरण- मज्ञानमेव नश्यति, इमामेवावरणशक्तिमविद्येति व्यवहरन्ति केचित् । तदेवमात्मसाक्षात्कारेणाविद्यया नाशेऽपि मायाया अनाशात्प्रपञ्चप्रतीतावपि न संसारः । तथा चाविद्याजनितात्मानात्मविवेकमूलक संसारः दिद्ययात्मसाक्षात्काररूपया समूलो निवर्तते । यथा अन्धकारस्थस्थाणुपुरुषाविवेकमूलकः स्थाणुपुरुषसंशयः प्रदीपप्रभयाऽन्धकारे नष्टे सति समूलो निवर्तते तद्वदिति श्लोकस्य परमार्थः । एतेन देहादिप्रपञ्च न पुरुषस्य बन्धहेतुः, येन देहादिनाशं विना पुरुषस्य संसार निवृत्तिर्न स्यादित्यापत्तिर्दीयेत, किं तु देहाद्यनात्मतादात्म्याध्यास एव । सत्वात्मज्ञानेनैव निवर्तते । अतो मुमुक्षुणाऽत्मज्ञानमेव सम्पाद्यं गुरुशुश्रूषा वेदान्तश्रवणादिनेति सिद्धम् । अनेन चात्मज्ञानेनात्मन्यारोपितोऽनात्मतादात्म्याध्यासो निवर्तते; अनात्मनस्तु देहादयः प्रार- बघावसाने निवर्तन्ते; तदेवमात्मज्ञानाज्जीवन्मुक्तिर्देह तत्त्वात्मज्ञानपूर्वका द्विदेहमुक्तिरिति सिद्धम् । वस्तुतस्तु आत्मनि कालत्रयेऽपि देहादिप्रपञ्चाभावाद्य आत्मानं साक्षात्करोति न तद्दृष्टया कोऽप्याविद्यको मायिको वाऽज्ञानप्रपञ्चोऽर्थ प्रपञ्चश्चेत्यात्मज्ञानात्सकार्याया मायाया निवृत्तिरिति बोध्यम् । अहङ्कःरममकारादिरूपोऽज्ञानप्रपञ्चो यस्यैव जीवसृष्टं द्वैतमिति व्यवहाराश्रयत्वं, अर्थप्रपञ्च तु भूम्यादिरूपो यस्येश्वरसृष्टद्वैतमिति व्यवहाराश्रयत्वं तत्र जीवप्रपञ्च एव पुंसां बन्धकः, न त्वीश्वरसृष्ट- प्रपञ्च इति । अत्राह रामानुजीय:- त्वदन्यश्शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष जनार्दन ! || इत्येवं निश्चयरूपं प्रपत्तिमतमिहोपदिश्यते भगवता — तत्र मामिति विष्णुः प्रपत्तव्य इति, एवेति न देवतान्तरं प्रपत्तव्यमिति, प्रपद्यन्त इति भक्तिज्ञानादिभ्यः प्रपत्तिरेव गरीयसी कर्तव्येति बहु- वचनेन जीव भेदः, मां प्रपद्यन्त इति प्रपत्तिक्रियाकर्तृकर्मणोर्जीवेश्वरयोर्भेद: ‘मायामेतां तरन्ति त’ इति प्रपन्नानामेव मोक्षलाभो मायानिवृत्तिपूर्वक इति च सिद्धम् । तदेवं स्वरसतः सिद्धमर्थं विहाय शाङ्करी कुकल्पना अनादरणीयेति । अत्रोच्यते - नेदं प्रपत्तिप्रकरणं - ‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषत’ इति (भग ७ - २) प्रक्रम्य ‘ते ब्रह्म तद्विदुः कृत्स्न ’ ( भग - ७ - २) मित्युपसंहरिष्यमाणत्वात् । ‘प्रियो हि ज्ञानिनोऽत्यर्थ ’ मिति ४ Do सप्तमोऽध्यायः । २५ यदि त्वां प्रपन्ना मायामेतां तरन्ति कस्मात्त्वामेव सर्वे न प्रपद्यन्त इत्युच्यते नेति । न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५ ॥ न मां परमेश्वरं नारायणं दुष्कृतिनः पापकारिणः मूढाः प्रपद्यन्ते नराधमाः नराणां मध्ये अधमा निकृष्टाः । ते च मायया अपहृतज्ञानाः सम्मुषितज्ञाना आसुरं भावं हिंसानृ- तादिलक्षणमाश्रिताः || १५॥ (भग- ७-१७) ‘ज्ञानवान् मां प्रपद्यत इति (भग ७ - १९) च ज्ञानस्यैव मध्ये कीर्तितत्वादसकुन् । नच ज्ञानिन एव प्रपत्तिरूपदिश्यत इति वाच्यं ज्ञानिनः स्वात्मन एवेश्वरत्वेन स्वात्मा तिरिक्तप्रपत्तव्येश्व- राभावात् । उक्तं हि सर्वभूतस्थमात्मानं ’ (भग- ६- २९) इत्यादिना ईश्वरस्यात्मत्वम् । ‘ज्ञानी स्वात्मैव मे मत’ (भग ७ - १८) मिति भगवता चेहैवोक्तम् । ईश्वरस्य चान्तर्यामित्वादात्मव्यतिरिक्त- स्यान्तर्यामिणश्चादर्शनात्, आत्मेश्वरयोर्भेदे ईश्वरस्यासर्वात्मत्वप्रसङ्गात् प्रपद्यन्त इति बहुवचनस्य उपाधिभेदबोधकत्वात् । सोपाधिकस्यात्मनः प्रपत्तृत्वान्निरुपाधिकस्य तस्यैव प्रपत्तव्यत्वात् मामि- त्यस्माच्छन्दस्य स्वभावादेवात्मपरत्वादात्मनोऽन्यस्य दैवतस्यैवाभावात् सर्वदेवशरीरोपहितात्मन एकत्वात्, विष्णोश्चात्मत्वाच्छरीरस्य चानात्मत्वेनाविष्णुत्वात्, मामित्यनेनात्मपरिग्रहे तु वसुदेवात्मज कृष्णशरीर- स्यैव वक्तुः परिग्राह्यत्वात्तस्य च नष्टस्य प्रपत्तेरधुनातनानां पूर्वकालिकानां च कर्तुमशक्यत्वादसम्भावि- तत्वाच्च, अनात्मोपासनया मायातरणासम्भवाच्च, मायायाश्यात्माश्रयाया आत्मसाक्षात्कारं विनाऽनिवृत्तेरिति । , आत्मप्रपदनं च- ‘तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदु- र्बुधाः ॥’ इत्युक्तलक्षणब्रह्माभ्यास एव ब्रह्मण एवात्मत्वात् । अयं च ब्रह्माभ्यासो न धर्मान्तरसक्तस्य सुलभ इत्यत आह- सर्वधर्मान्परित्यज्येति । अनेन चात्मप्रपत्तौ सन्यासिनामेवाधिकारो न तु गृहस्थानामिति सूचितम् । तस्यैव सर्वकर्म- सन्न्यासविधानेन सर्वधर्मपरित्यागसम्भवात् । न हि परित्यक्तसर्वधर्मो गृहस्थो भवितुमर्हति सर्वधर्म- कर्तृत्वस्यैव गृहस्थलक्षणत्वात् । न चायमंशो भाष्ये क्वाप्यनुक्त इति शङ्कयम्, ज्ञाननिष्ठायास्सन्न्यास्येक- विषयत्वस्य भाष्ये स्फुटमुक्तत्वादात्मप्रपत्तेश्च ज्ञाननिष्ठा रूपत्वात् । ब्रह्मणि स्थितिर्हि ज्ञाननिष्ठा । ब्रह्म त्वात्मैव खलु तस्मादात्मप्रपत्तिः ब्रह्मनिष्ठा ज्ञानयोग आत्मसमाधिरित्येतच्छब्दाः पर्याया एव, न त्वति - रिक्तार्थबोधकाः । तदेवं ये सन्न्यस्य मां प्रपद्यन्ते त एव मायां तरन्तीति बोधयितुमेव सर्वधर्मान् परित्यज्येति भाषितमाचार्यैः । त मायातरणात्मक संसार निवृत्तिका मैर्मायानिवर्तकात्म साक्षात्कारा- यावश्यं सन्न्यासाश्रमः स्वीकर्तव्यो विवेकवद्भिरिति सिद्धम् । अत एव ज्ञानिनां सन्न्यास एवाधिकार इति, गृहस्थानां न ज्ञानयोगेऽधिकार इति चासकृदुक्तं भाष्यकारैः ॥ १४ ॥ नेति । दुष्कृतिनो मूढा नराधमाः मायया अपहृतज्ञाना अत एवासुरं भावमाश्रितास्सन्तः मां न प्रपद्यन्ते, जन्मान्तरदुष्कृतवशान्मायया आत्मानात्मविवेकेऽपहृते सति देहादिष्वात्माभिमानग्रस्ता- २६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ये पुनर्नरोत्तमाः पुण्यकर्माणः, चतुर्विधा भजन्ते मां जनास्सुकृतिनोऽर्जुन ! आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ! ॥ १६ ॥ चतुर्विधा इति । चतुर्विधाः चतुष्प्रकारा भजन्ते सेवन्ते मां जनाः सुकृतिनः पुण्य- कर्माणः हे अर्जुन ! आर्तः आर्तिपरिगृहीतः तस्करव्याघ्ररोगादिना अभिभूतः आपन्नः, जिज्ञासुर्भगवत्तत्त्वं ज्ञातुमिच्छति यः, अर्थार्थी धनकामः, ज्ञानी विष्णोः तत्त्वविच्च हे भरतर्षभ । स्सन्तः देहादिविलक्षण आत्मा नास्ति न भातीत्येवं ब्रुवाणाश्शिश्नोदरपरायणाः ’ आढयोऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया’ इत्यादि (भग- १६ - १५ ) वक्ष्यमाणासुरसम्पच्छालिनस्संसरन्तीत्यर्थः ॥ १५ ॥ चतुर्विधा इति । चतस्रो विधा: प्रकारा रीतयो तेषां ते चतुर्विधाः, सुकृतं जन्मान्तरार्जितं पुण्यकर्म येषामस्ति ते सुकृतिनः ‘अत इनि ठना’ विती निप्रत्ययः । सुकृतिनां चातुर्विध्यमेव दर्शयति- आर्त इत्यादिना । आर्तिः पीडा दुःखमिति यावत् । आपन आपदं प्राप्तः, अतएव - ‘विपदस्सन्तु ‘श्वासु संकीर्त्यते हरिः’ इति भागवते कुन्ती प्राह । घनकाम इत्युपलक्षणं- पुत्रादिकामानाम् । अमीषां चतुर्णां मध्ये ज्ञानी साक्षादात्मानं मत्वा वासुदेवं भजते, अन्ये त्रयस्त्वीश्वरं परोक्ष मत्वेति विवेकः । यद्यपि ज्ञान्येक एवात्मानमेव भजते, अन्ये त्वार्तादयः रोगादिनिवृत्त्यर्थं ज्ञानार्थे धनाद्यर्थं वा औषधादिकं कर्म योगादिकं कृष्यादिकं वा सेवन्ते, देवतान्तराणि वा भजन्ते, वासुदेवं वा भजन्ते नतु तत्र नियमः; तथापि आर्तादिषु सुकृतिनो वासुदेवं भजन्ते, अन्ये तु भेषजादिकमिति बोध्यम् । अत एव सुकृतिन इत्युक्तम् ।

यद्वा ये आर्तिहरणाद्यर्थं देवतान्तरादिकं भजन्ते तेऽपि वासुदेवमेव भजन्ते वासुदेवस्य सर्वा- त्मत्वात् । ’ येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः, तेऽपि मामेव कौन्तेय ! यजन्त्यविधिपूर्वकम्’ इति नवमाध्याये ( श्लो २३) वक्ष्यमाणत्वात् । ऐश्वर्यादिमदमत्तास्तु दुष्कृतिनो न मां कथञ्चिदपि कथमपि भजन्त इति सूचयितुमार्तग्रहणमर्थार्थि- ग्रहणं च । अनेन श्लोकेन आर्तिनिवारणार्थ दारापत्यधनादिसिद्ध्यर्थं ज्ञानार्थं मोक्षार्थं च भगवानेक एव नृणां सेव्य इत्युपदिष्टम् । सोपाधिकं निरुपाधिकं वा यस्येश्वरभजनं नास्ति स नराधमः पापश्शोच्य एवेति भावः । ननु ‘पूर्वजन्मकृतं पापं व्याधिरूपेण बाधते’ इति शास्त्रात्पापफलस्य व्याधेः कथं सुकृत्याश्रयत्व - मेवं दारिद्र्यप्रयुक्तस्य धनार्थित्वस्य वा कथं सुकृत्याश्रयत्वं दारिद्र्यस्य पापफलत्वादिति चेत्, मैवम्- मनुष्यजन्मनः पुण्यपापमिश्र फलत्वात्पापफलं व्याध्यादिकमनुभवन्नपि पुरुषः कृतपुण्य एव तन्निवृत्त्यर्थं भगवन्तं भजते; भगवद्भजनस्य सुकृतं विना दुर्लभत्वात् । नच धनिकस्यार्तस्य धनभोगेन सुकृतस्य सप्तमोऽध्यायः । तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ १७॥ २७ तेषामिति । तेषां चतुर्णां मध्ये ज्ञानी तत्त्ववित् तत्त्ववित्त्वान्नित्ययुक्तो भवति; एकभक्तिश्च । अन्यस्य भजनीयस्यादर्शनादतः स एकभक्तिर्विशिष्यते विशेषमाधिक्य मापद्यते; अतिरिच्यत इत्यर्थः । प्रियो हि यस्मादहमात्मा ज्ञानिनः, अतस्तस्याहमत्यर्थं प्रियः प्रसिद्धं हि लोके, ‘आत्मा प्रियो भवति’ इति । तस्मात् ज्ञानिन आत्मत्वाद्वासुदेवः प्रियो भवती- त्यर्थः । स च ज्ञानी मम वासुदेवस्य आत्मैवेति मम अत्यर्थं प्रियः ||१७|| क्षीणत्वादीश्वरभजनं न स्यादिति वाच्यं सुकृतकर्मणां विचित्रत्वेनानन्तत्वेन च धनभोगप्रदसुकृतकर्मणो धनभोगप्रदानेन क्षीणत्वेऽपीश्वरभजन प्रदसुकृतकर्मणोऽक्षीणत्वात्तस्माच्चतुर्विधास्सुकृतिनः परोक्षमपरोक्षं वाऽऽत्मानमीश्वरं भजन्त इति स्थितम् । भरतवंश्या राजानो भरताः तेषामृषभः श्रेष्ठो भरतर्षभः तत्सम्बुद्धिः । कृष्णार्जुनयोर्नरनाराय- णावतारत्वान्नरावतारस्यार्जुनस्य भरतर्षभत्वमिति भावः । शौर्यधैर्यादिसम्पन्नत्वादिति वा । अनेन च श्लोकेन शात्रवाभिभूतिरूपविपदं प्राप्तस्य तत्त्वजिज्ञासो : राज्यकामस्य च तव सुकृतिनो मद्भजनमवश्यं कर्तव्यं, तच्च मद्भजनं तवानभिसंहितफलस्वधर्मयुद्धानुष्ठानरूपमेवेत्यर्जुनस्य उपदेशस्सूच्यते ॥ 1 तेषामिति । ननु किमार्तादयश्चत्वारः समाः, उत तेषां मध्ये कश्चिद्विशिष्यत इत्यत आह- तेषामिति । तेषां मध्ये इत्यर्थः । नित्ययुक्तः सदाप्यात्मनि चित्तसमाधानवान् भवति; कुतस्तत्त्ववि- त्त्वादात्मयाथात्म्य वित्त्वादात्मत्वादेवेत्यर्थः । भज्यते सेव्यत इति भक्तिः; भक्तिरिति पाणिनिसूत्रात् । एक आत्मेत्यर्थः । भक्तिर्यस्य स एकभक्तिः । एकस्मिन्नात्मनि भक्ति: स्नेहविषेषो यस्य एकभक्तिरिति वा; आत्मैकम जनतत्पर इत्यर्थः । एवं ज्ञानी नित्ययुक्तत्वादेकभक्तित्वाच्च तेषां मध्ये विशिष्यते । अत इति । यस्मादहं ज्ञानिन आत्मा तस्मादित्यर्थः । मम ज्ञानिन आत्मत्वादिति यावत् । अत्यर्थ भृशं आत्मा प्रियो भवतीति लोके प्रसिद्धं शास्त्रे च- ‘आत्मनस्तु कामाय सर्वे प्रियं भवतीति परम- प्रेमास्पदत्वात्प्रियतमत्वमात्मनः प्रसिद्धम् । तस्माच्छन्दार्थ स्वयमेवाह— ज्ञानिन आत्मत्वादिति । ज्ञानिनो वासुदेवः प्रियो भवति आत्मत्वाद्वासुदेवस्येत्यन्वयः । स च ज्ञानी मम प्रिय इत्यत्र हेतु- माह - आत्मैवेत्यत इति । आत्मैवेति हेतोरित्यर्थः । आत्मत्वादिति यावत् । यथा ज्ञानिन आत्मत्वाद्वासुदेवः प्रियः तथा वासुदेवस्यात्मत्वाद्ज्ञानी प्रियः ज्ञानिवासुदेवयोरेकात्मरूपत्वादिति भावः । हि यस्मान्नित्ययुक्त एकभक्तिर्ज्ञानी तेषां विशिष्यते तस्मादहं ज्ञानिनोऽत्यर्थं प्रियः; सच मम प्रिय इत्यन्वयः । ज्ञानी नित्ययुक्त एकभक्तिरत एव तेषां विशिष्यते । हि यस्मादहं ज्ञानिन आत्मा तस्मादहं ज्ञानिनोऽत्यर्थ प्रियः । स च मम आत्मत्वात्प्रिय इति वा ‘तेषां ज्ञानी नित्ययुक्त एकभत्तिविशिष्यते’ अत एवेति शेषः । अहं ज्ञानिनोऽत्यर्थे प्रियः स च मम प्रियो भवति । हि: प्रसिद्धौ इति वा । ’ तेषां ज्ञानी नित्ययुक्त एकभक्तिविशिष्यते ’ अहमात्मत्वादिति शेषः । ज्ञानिनोऽ- २८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु त्यर्थ प्रियः भवामि स चात्मत्वान्मम प्रियो भवतीति वा । न चात्मपदाध्याहारे नास्ति प्रमाणमिति वाच्यं, ‘ज्ञानी त्मात्मैव मे मत’ मिति (भग- ७-१८) वक्ष्यमाणवाक्यस्यैव प्रमाणत्वात् । यद्वाऽहं ज्ञानिनोऽत्यर्थ प्रियः, स च मम प्रिय इत्येवालान्वयः । तत्र हेतुस्तु ‘ज्ञानी त्वात्मैव मे मत’ मिति वक्ष्यते । अतएव तत्कस्मादित्या हेत्यवतारितं ज्ञानी त्वात्मैवेति वावयं भाष्यकारैः । अत्रात्मत्व हेतूप- न्यासस्तु वक्ष्यमाणश्लोक सिद्धार्थस्येव स्पष्टार्थमनुवाद इति बोध्यम् । यत्तु रामानुजः - ज्ञानिनो मदेकप्राप्यस्य मया योगो नित्यः मय्येकस्मिन्नेव भक्ति:, अतस्स एव विशिष्यते । अत्यर्थमत्यभिधेयं ज्ञानिनोऽहं यथा प्रियस्तथा सर्वज्ञेन सर्वशक्तिना मयाऽप्यभिधातुं न शक्यत इत्यर्थ इति, इतरयोस्तु यावत्स्वाभिलषितप्राप्ति मया योगः; स्वाभिलषिते तत्साधनत्वेन च मयि भक्तिरिति च तदसत् — सति जीवस्येश्वरेण नित्ययोगे नित्यप्राप्त एवेश्वर इति कथं तस्य प्राप्यत्वम् ? अप्राप्तस्य हि प्राप्यत्वं सम्भवति । कथं वा परोक्षेण परमपदवैकुण्ठनिलयेनेश्वरेण जीवानां नित्ययोगः ? कथं परोक्षेणान्तर्यामिणा वा ? न हि त्वमेवं कुर्विति प्रेरकः कश्चिद्धृदये कस्यापि प्रत्यक्षः, किं त्वनुमेय एव जीवपारतन्त्र्यादिलिङ्गाद । न च ’ अंगुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति, आदित्यवर्ण’ इत्यादिश्रुत्या हृदि साकार ईश्वरोऽस्तीति वाच्यं निरवयवाणुप्रायजीवान्तर- परमाणुभूतेश्वरस्य भवदभिमतस्य साकारत्वायोगात्, ‘अशब्दम स्पर्शमरूपमव्यय’ मित्यादिश्रुति विरोधाच्च, अंगुष्ठमात्रत्वादेः कल्पितरूपत्वाच्च । न च कल्पितेश्वररूपेण नित्ययोगो विवक्षित इति वाच्यं, वास्तव- स्वरूपपरित्यागे कारणाभावात् रूपं कल्पयित्वाऽहं भजनीय इतीहेश्वरेणानुक्तत्वात्तत्त्वकथनप्रकर- णत्वाच्चास्य । " तथा एकभक्तिशब्देनापि नात्मातिरिक्तपरोक्षेश्वरभक्तिरुच्यते, किं तर्हि आत्मभक्तिरेव । वस्तु- स्वरूपदर्शनं विना वस्तुनि प्रीत्यात्मकभक्त्ययोगात् । कल्पितार्चादिस्वरूपी त्वज्ञजनविषये ज्ञानिनः प्रीत्ययोगात् । ‘यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हित्वाऽच भजते मौढ्याद्भस्मन्येव जुहोति सः ॥’ इति भागवते व्यासेन मौढ्यादिति मूढजनविषयोऽर्चाभजनादिरिति दर्शितत्वात्तत्त्वविद एव ज्ञानित्वात्सच्चिदानन्दरूपस्य च तत्त्वत्वादतो न ज्ञानिनः कल्पितेश्वराकारे प्रीतिरुपपद्यते । अहं ज्ञानिनोऽभिधेयमतिक्रम्य प्रिय इति वाक्यस्यानन्विवतत्वात्, अभिधेयमतिक्रम्येत्यस्मा- दभिधातुं न शक्यत इत्यर्थालाभात्, अभिधानमतिक्रम्येत्यस्मादेव तादृशार्थलाभसम्भवात् प्रसिद्ध- भृशार्थपरित्यागे कारणाभावात् । विषयगत प्रियत्वस्यापीयता रहितत्वेनेश्वरप्रियत्वस्येयत्तारहितत्ववचनस्यानर्थकत्वात् विषयप्रियत्वं सातिशयमीश्वरप्रियत्वं तु निरतिशयमित्येव वक्तव्यत्वात् ईश्वरस्य चानात्मत्वे निरतिशयप्रियत्वायोगात्, आत्मनो निरतिशयप्रियत्वस्य च श्रुत्यादिसिद्धत्वात्, आत्माभिलषितप्रदानादिनैव परोक्षेश्वरस्य मियत्वव्यवहार इति परोक्षेश्वरस्याप्यात्मशेषत्वात्, ‘सत्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः’ इति प्रह्लादस्य कृष्णस्मरणजन्यानन्दस्तु आत्मानन्द एव,सप्तमोऽध्यायः । नादयस्त्रयो वासुदेवस्य प्रिया न, किं तर्हि ? उदारास्सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ १८॥ ३९ त्रयोऽपि मम प्रिया एवेत्यर्थः । न हि ज्ञानी त्वत्यर्थं प्रियो भवतीति विशेषः । उदारा इति । उदाराः उत्कृष्टाः सर्व एवैते कश्चिद्भक्तो मम वासुदेवस्य अप्रियो भवति । तत्कस्मादित्यत आह- ज्ञानी त्मात्मैव नान्यो मत्त इति मे मम मतं निश्चयः । आस्थित नातिरिक्त:- कृष्णस्यात्मत्वात् । साकारेश्वर ध्यानजन्योऽप्यानन्दः चूतफलाद्यनुभवजन्यानन्दवदात्मानन्द- प्रतिबिम्बानन्द एव न त्वतिरिक्तः । तेन च प्रतिबिम्बानन्दापेक्षया मुख्यत्वं बिम्बानन्दस्यास्त्येवेति सातिशय एव प्रह्लादस्य कृष्णस्मरणजन्यानन्दः, यदि कृष्णस्साकार ईश्वरः । एवमीश्वरस्मरणाद्भक्तस्य निरतिशयानन्दला भेन प्रियतमत्वमीश्वरस्य यथा तथा भक्तस्मरणादपीश्वरस्य निरतिशयानन्दलाभेन प्रियतमत्वं भक्तस्येत्येतदप्यपहासास्पदम् । परिपूर्णानन्दस्येश्वरस्य भक्तस्मरणा- दधिकानन्दलाभ इति, तदभावे आनन्दनाश इति च कल्पनस्याप्रमाणत्वादयुक्तत्वाच्च, ईश्वरेणाप्यान- न्दार्थ भक्तस्य स्मरणीयत्वापत्तेः, सर्वसेव्यस्यापीश्वरस्य स्वभक्त सेवकत्वदोषापत्तेः । आर्तो जिज्ञासुरर्थार्थी ज्ञानी चेति चतुर्विधान् सुकृतिन उपक्रम्य, तत्र ज्ञानी विशिष्यत इत्युक्त्या इतरेषु तेष्विति वक्तव्ये इतरयोस्त्विति वचनमयुक्तम् । नचार्तस्यार्थार्थिनश्चैकाधिकारित्वा- देकत्वमिति वाच्यं, अनार्तस्यार्थार्थित्वादर्थानर्थिन आर्तत्वाच्च । नच व्याधिनिवृत्तिरूपं घनादिरूपं वा अर्थ प्रयोजनमर्थयते आर्तोऽर्थार्थी वेत्यस्त्युभयत्रार्थार्थित्वरूपमेकत्वमिति वाच्यं तथासति ज्ञानार्थित्व- रूपमर्थार्थित्वं जिज्ञासावप्यस्तीति, आर्तजिज्ञास्वर्थार्थिनां त्रयाणामप्येकत्वापत्तेः । ज्ञानस्यापि प्रयोजन - रूपार्थत्वाविशेषात् । आर्तो जिज्ञासुरर्थार्थीति त्रयाणां पृथगुपदेशानर्थक्याच्च । जिज्ञासुरर्थार्थी ज्ञानीति त्रिविधास्सुकृतिनो मां भजन्त इति अर्थार्थी ज्ञानीति द्विविधा इति वा वक्तव्यत्वापत्तेः । तस्मादितरयो- स्त्विति वचनमयुक्तमेव ॥१७॥ उदारा इति । ननु सर्वसमस्य वासुदेवस्य कुतो ज्ञान्येव प्रियः, इतरे त्रयो न प्रिया इति शङ्कायामाह - न हीति । अर्तादयस्त्रयो वासुदेवस्य प्रिया न हीति न, किं तर्हि ? किंतु सर्वशब्दः पूर्वोक्त त्रित्वपर इत्याह– त्रयोऽपीति । उदारशब्दस्य फलितार्थमाह– प्रिया एवेति । यथा राजभक्तो राज्ञः प्रियस्तद्वदिति भावः । तत् ज्ञानिनोऽत्यर्थे प्रियत्वमित्यर्थः । कस्माद्धेतोरित्यपेक्षायामाह - भगवानिति शेषः । आत्मैवाहमेवेत्यर्थः । एवकारार्थमाह - नान्य इति । पञ्चम्यास्तसिः मत्त इति । ननु ‘विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनिं । शुनि चैव श्वपाके च पण्डितास्समदर्शिनः ’ इति (भग- ५ ५८ ) त्वदुक्तरीत्या तव सर्वसमस्य सर्वमप्यात्मैवेति कुतो ज्ञान्येवात्मा नेतरे त्रयः, इत्यत आह— आस्थितस्सहीत्यादि । हि सः युक्तात्मा सन् मामेवानुत्तमां गतिमास्थितः- आस्थित ३० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु 1 आरोढुं प्रवृत्तः स ज्ञानी, हि यस्मात् ‘अहमेव स भगवान् वासुदेवः नान्योऽस्मि’ इत्येवं युक्तात्मा समाहितचित्तस्सन्मामेव परं ब्रह्म गन्तव्यं अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः॥ १८ ॥ आरोढुं प्रवृत्त इत्यस्य फलितार्थमाह- गन्तुं प्रवृत्त इति । युक्तस्समाहित आत्मा मनो यस्य स युक्तात्मा । अस्यैव चित्तसमाधानस्याकारमाह- अहमेवेत्यादि । स भगवान् वासुदेवोऽहमेव । अहं वासुदेवादन्यो नास्मि न भवामि । अहं ब्रह्मास्मीति महावाक्यार्थजन्यं ज्ञानमिदमिति भावः । गम्यते प्राप्यत इति गतिः, न विद्यते उत्तमा यस्यास्सा अनुत्तमा सर्वोत्तमेत्यर्थः परब्रह्मण आत्मन एव परमप्राप्यत्वादनुत्तमगतित्वमिति भावः । ’ ब्रह्मविदाप्नोति पर ‘मिति (तै- आ- ९ - १) ‘ब्रह्मविद्ब्रह्मैव भव’ - तीति च श्रुतेरिति भावः । अयमाशय: - यद्यप्यार्तादयस्सर्वेऽप्यात्मभूता एव, तथापि योऽहं ब्रह्मास्मीति वेद स एवाहं ‘ब्रह्मविद्ब्रह्मैव भव’तीति श्रुतेः । यस्तु नाहं ब्रह्मेति वेद स नैवाहं, ब्रह्मविद आत्मत्वादब्रह्मविदोऽना- त्मत्वाच्च । ब्रह्मविद्धि कूटस्थमात्मानं मन्यते, स च कूटस्थो ब्रह्मैव चिन्मात्रत्वात् | अब्रह्मवित्तु अकूटस्थं कर्तारं भोक्तारं च जीवमात्मानं मन्यते स चाकूटस्थो न ब्रह्मविकारित्वादकूटस्थस्य ब्रह्मणश्चाविका- रित्वात् । तथा च आर्तादिभिरात्मत्वेनाभिमतस्संसारी जीवो नाहमित्यार्तादयो नाहम् । ज्ञानिना कूटस्थश्चिदात्मैवात्मत्वेनाभिमत इति स चिदात्माहमेवेति ज्ञानी त्वहमेव । तस्मादार्तादयस्संसारिणश्चिदाभासा मत्प्रिया एव । ज्ञानी तु चिदात्मा कूटस्थोऽहमेवेति स्थितम् । ननु अहमेव स भगवान् वासुदेवो नान्योऽस्मीत्येवासमाहितचित्तो ज्ञानी चिदात्मत्वात्परं ब्रह्म प्राप्त एवेति कथमुच्यते ? परं ब्रह्म गन्तुं प्रवृत्त इति चेदुच्यते - यः परं ब्रह्मात्मानं गतः स हि केवलानुभवानन्दरूपेणैवावतिष्ठते, न त्वहं ब्रह्मास्मीत्यनुसन्धत्ते - सर्वोपाधिलयेन तादृशानुसन्धानहेतो- श्वितोपाघेरभावात् । तस्माद्यो ब्रह्मात्मनाऽवस्थास्यति स युक्तात्मा भवतीत्यभिप्रायाद्गन्तुं प्रवृत्त इत्युक्तम् । न च चिदात्मनो ज्ञानिनः कथं गन्तुं प्रवृत्तिरिति वाच्यं, चिदात्मापि मायया बुद्धयादितादात्म्यं प्रतिपद्य संसारी भूत्वा शनैस्तत्तादात्म्यं विहाय कूटस्थात्मस्वरूपानुसन्धानेन स्वचिदात्मत्वं पुनः प्राप्तुं प्रवृत्त इव प्रतिभाति । सर्वस्य बन्धमुक्त्यादिव्यवहारस्य मायामयत्वाद्वस्तुतस्तदसिद्धेरस्माकमलङ्कार एवेति । 1 । ननु त्रिगुणात्मिका देवेन विष्णुना क्रीडार्थ निर्मिता प्रकृतिर्माया । अस्या मायाशब्दवाच्यत्व- मासुरराक्षसास्त्रादीनामिव विचित्रकार्यकरत्वेन । यथा च- ‘ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥ तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमेकैकश्येनसूदित’ मित्यादौ । अतो मायाशब्दो न मिथ्यार्थवाची । इन्द्रजालिकादिष्वपि केनचि- न्मन्त्रौषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेरुत्पादकत्वेन मायावीति प्रयोगः । तथा मन्त्रौषधादिरेव च तत्र माया । सर्वप्रयोगेष्वनुगतस्यैकस्यैव शब्दार्थत्वात् । तत्र मिथ्यार्थेषु मायाशब्द- प्रयोगो मायाकार्यबुद्धिविषयत्वेनौपचारिकः । मञ्चाः क्रोशन्तीतिवत् । अतः सत्यैव माया ‘मायां तु सप्तमोऽध्यायः । 1 ३१ प्रकृतिं विद्यान्मायिनं तु महेश्वर’ मिति श्रुतेः । ’ त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते । ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् ॥ योगनिद्रा महामाया’ इत्यादिप्रयोगाच्च । प्रकृतितत्त्वाभिमानि - देवता वा माया । उभयथापि सत्यैव माया, न मिथ्येति कृत्वा कथं बन्धमुक्त्यादिव्यवहारस्य मिथ्यात्वं, तद्धेतुमायाया वेति रामानुजीयपूर्वपक्ष: । अलोच्यते - एषा गुणमयी पारमार्थिकी भगवन्मायैवेति मायायाः पारमार्थिकत्वं सत्यत्वं ब्रूते स्म रामानुजः । किमिदं मायानिष्ठं सत्यत्वमविनाशित्वरूपम् ? यद्वा अर्थक्रियाकारिविचित्र कार्य- जनकत्वरूपम् ? नाद्यः - प्रकृतिपुरुषयोः परमात्मनि लयस्य त्वयैवोपन्यस्तत्वात् । ’ तस्मान्न विज्ञानमृतेऽस्ति किञ्चित्कचित्कदाचिद्द्विज वस्तुजातम्, सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्’, ‘अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न सन्देहो नाशि द्रव्योपपादितम् ॥ यत्तु कालान्तरे- णापि नान्यसंज्ञामुपैति वै । परिणामादिसम्भूतां तद्वस्तु नृप तच्च किमिति पराशरेणोक्तमिति त्वयै- वोदाहृतत्वान्नासत इति श्लोकव्याख्यानावसरे नाशिद्रव्योपपादितस्य नाशित्वेन नाशिनो जगत उपा- दानस्य प्रकृतेरपि नाशवत्त्वेन भाव्यत्वात्प्रकृतेस्सत्यत्वे तदुपपादितस्य जगतोऽपि सत्यत्वप्रसङ्गात् । ज्ञानं यथा सत्यमसत्यमन्यदित्यात्मनो ज्ञानाकारस्यैकस्यैव सत्यत्वमन्यस्य प्रकृतित्वादेरज्ञानस्य चासत्यत्वं स्फुट- मुक्तं हि पराशरेण । तस्मान्नास्ति मायाया अविनाशित्वरूपं सत्यत्वं त्वन्मतेनापि । न द्वितीय:- अर्थक्रियाकारिकार्यजनकत्वस्य सत्यत्वे निद्राया अपि सत्यत्वप्रसङ्गात् । सा हि स्वाप्नप्रपञ्चं सृजति माया यथा जाग्रत्प्रपञ्चं, रज्जुसर्पभ्रमजनकाविद्यापि सत्या स्यादर्थक्रियाकारिकार्य- जनकत्वात् । न च रज्जुसर्पादिर्नार्थक्रियाकारीति वाच्यं भ्रमकम्पादिकारित्वात् । भवतु वा प्राति- भासिकरजतस्य व्यावहारिकरजतवत्कटकाद्यर्थक्रियाकारित्वाभावः, न तावता व्यावहारिकरजतस्य पार- मार्थिकसत्यत्वम् । परमार्थतो रजतस्यैवाभावात् । न हि सुषुप्तावात्मनि रजतादिप्रपञ्चः प्रतिभाति । तस्मादर्थक्रियाकारिविचित्र कार्यजनकत्वमात्रेण न मायायाः पारमार्थिकत्वं परमार्थतो मायाया अभावात् । न हि विनाशि वस्तु परमार्थतोऽवतिष्ठते - परमार्थतोऽवस्थान विनाशयोर्विरुद्धत्वात् । यच्च विनाशि वस्तुतस्तु तन्मिथ्यैव यथा घटो यथा वा रज्जुसर्पः । तस्माद्विनाशित्वान्मायाऽपि मिथ्यैव । अविना- शित्वमेव सत्यत्वप्रयोजक- नार्थक्रियाकारित्वादिकमिति सिद्धान्तात् । अथ यदीश्वरस्याविनाभूता शक्तिर्माया सत्यैवेश्वरवदित्युच्यते तच्चासत्— ‘जहात्येनां भुक्त- भोगामजोऽन्यः’ इतीश्वरेण प्रकृतेः त्यक्तत्व श्रवणात् । न ह्यविनाभूता त्यक्तुं शक्यते, नापि सत्येनेश्व- रेण त्यक्ता माया सत्या भवितुमर्हति - मायायाः सत्यत्वे च ‘मायामेतां तरन्ति ते’ (भग- ७- १४) इति मायायास्तर्तव्यत्ववचनं च न सङ्गच्छते । नच सत्यस्यापि नदीजलस्य बाहुभ्यां तरणवत्सत्याया अपि मायायाः प्रपदनेन तरणमुपपद्यत इति वाच्यं, नाशरहितत्वेन मायायाः पारायोगात् । पारप्राप्तेरेव तरणत्वात् । पारस्य च नाशरूपत्वात् । नहि पारे नदीस्वरूपमस्ति । नदीस्वरूपाभावस्यैव पारत्वा- ३२ श्रीभगवद्गीतासु - भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तद्वन्मायाया अपि पारो नाश एव । नच संसारमण्डले मायास्ति, विष्णुपदे तु नास्ति, अतो माया- तरणमुपपद्यत इति वाच्यं, सत्याया विष्णुपदे सत्त्वायोगात् । ’ नासतो विद्यते भावो नाभावो विद्यते सतः’ (भग- २-१६) इति हयुक्तं भगवता । तथा विष्णुपदे अविद्यमानाया मायायास्सत्त्वं चायुक्तम् । अत एव माया मिथ्येत्युक्तमस्माभिः । या हि सर्वत्र नास्ति सा मिथ्या यथा घटः । व्यति- रेकेण यथा आत्मा । आत्मा हि सर्वत्रास्ति । अत एव तस्य न कदाचिदप्यभावः । अत एव स सत्यः । उक्त हि पराशरेणापि - ‘ज्ञानं सत्यम सत्यमन्य’ दिति । तस्मान्माया विनाशित्वान्मिथ्यैव न सत्या । विचित्रकार्यकरत्वेनास्या मायाशब्दवाच्यत्वमित्येतदस्माकमिष्टमेव ‘ऐन्द्रजालिकशक्तेरपि विचित्र- कार्यकारिण्या मायाशब्दवाच्यत्वात् । सर्वस्यापि प्रपञ्चस्य मायामयत्वे राक्षसास्त्रादीनां मायामयत्वमस्म (क- मिष्टमेव । शम्बरस्य मायासह त्रमित्यत्रापि मायाशब्दो मिध्यार्थ पर एव चक्रनाश्यत्व लक्षण मिथ्यात्वस्य सत्त्वात् । किंचासुरकल्पिता मायाः प्रातिभासिक्य एव रज्जुसर्पादिवन्नः पुनर्व्यावहारिक्योपि, ऐन्द्रजालि- कादयश्च प्रातिभासिक्य एव । घ , यदुक्तमैन्द्रजालिकमणिमन्त्रादिकल्पितार्थानां मिथ्यात्वेऽपि मणिमन्त्रादिरूपा माया सत्यैवेति तदपहासास्पदम् । सर्वत्र शक्तेरेव मायापदवाच्यत्वादीश्वरशक्तिर्मायेति त्वयाऽप्यभ्युपगम्यत्वात्, मणि- मन्त्रादिगतविचित्रशक्तेश्च मायायाः विचित्रकार्यानुमेयायास्सत्यत्वस्य दुर्वचत्वात् मिथ्या कार्यजनक - शक्तेरमिथ्यात्वस्यासम्भवात्, शक्तेरसत्यत्वे तत्कार्यस्यापि सत्यत्वापत्तेः, गन्धर्वनगरादिकार्यानुमेयाया मणि- मन्त्रादिशक्तेः कार्यकाल एव सत्त्वेन कार्यकालात्प्राक्पश्चाश्चाभावेन रज्जुसर्पस्येव प्रातिभासिकत्वसिद्धेः; प्रातिभा सिकत्वस्यैव मिथ्यात्वात् । इन्द्रजालशक्तिमत्सु मणिमन्त्रादिषु मायाशब्दवाच्यत्वे सति ऐन्द्र- जालिकेपि तद्वाच्यत्वप्रसङ्गात्, लोके तथा प्रसिद्ध्यभावात्, न छैन्द्रजालिकं तन्मण्यादिकं वा लोको मायेति प्रपद्यते, किं तर्हीन्द्रजालमेव । मण्यादिकं तु मायासाधनमिति प्रत्येति । पिच्छाभ्रमणमात्रेण ऐन्द्रजालिको गगने गन्धर्वनगरं निर्मातीत्युक्तौ पिञ्छा भ्रमणपदस्य मायेत्यर्थ इति नहि कोपि विवेकी ब्रूते, किं तर्हि मायामयत्वाद्गन्धर्वनगरमेव मायेति वक्ति । पिच्छाभ्रमणं तु तादृशमायाजननसाधन- मिति । तथा च मणिमन्त्रादयो मायावत्पदार्था एव, नतु माया । मणिमन्त्रादिशक्तिस्तु माया, सा तु मणिमन्त्रादेस्सकाशात्पृथक्सत्त्वासत्त्वाभ्यां दुर्निरूपेति मिथ्यैव । यवर्थस्य मिथ्यात्वेपि तद्विषयबुद्धिः पारमार्थिकीति, तदसत् - बुद्धेः पारमार्थिकत्व व्यावहारि- कत्वप्रातिभासिकत्वानां विषयाधीनत्वात् । ब्रह्मेति बुद्धिः पारमार्थिकी विषयस्य ब्रह्मणः पारमार्थिकत्वात् । घट इति बुद्धिर्व्यावहारिकी - विषयस्य घटस्य व्यावहारिकत्वात् । रज्जौ सर्प इति बुद्धिः प्रातिभासिकी- विषयस्य रज्जुसर्पस्य प्रातिभासिकत्वादिति सिद्धान्तात् । विषयस्यैव मिथ्यात्वे तद्विषयक विज्ञानस्य सत्यत्वं ह्ययुक्तम् । अन्यथा भ्रमप्रमाज्ञानयोरैक्यप्रसङ्गात् । नच भ्रान्तिज्ञानमपि स्वरूपतः सत्यमिति वाच्यं, रज्जावयं सर्प इति ज्ञाने विषयस्य सर्पस्यासत्यत्वे अयं सर्प इति ज्ञानस्य कथं सत्यत्वम् ? यत्तु विषयाति- रिक्तं शुद्धं ज्ञानस्वरूपं तदात्मैव तस्य चोत्पादकं किमपि नास्ति - अजत्वादविक्रियत्वाच्चात्मनः; अतो न ५ ज्ञानी पुनरपि स्तूयते - सप्तमोऽध्यायः । बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥ २३ बहूनामिति । बहूनां जन्मनां ज्ञानार्थ संस्काराश्रयाणामन्ते समाप्तौ ज्ञानवान् प्राप्तपरि- मिथ्यार्थविषयस्य ज्ञानस्यं पारमार्थिकत्वं तदभाववति तत्प्रकारका नुभवोऽयथार्थानुभव इति न्यायशास्त्राच्च, विषयसत्यत्वासत्यत्वयोरेव ज्ञानसत्यत्वा सत्यत्वप्रयोजकत्वस्य लोकतस्सिद्धत्वाच्च । एवं मिथ्यार्थविषयज्ञान स्यापि सत्यत्वे अग्निना सिञ्चेदिति वाक्यजन्यज्ञानस्यापि सत्यत्वापत्तेरप्रामाण्यमेव स्यात्सर्पस्य । तस्मादनिर्वचनीयेश्वरशक्तिरेव माया- इन्द्रजालशक्तिव देवमनिर्वचनीयत्वादेव मायाकार्ये जगत्यपि मायात्वव्यवहारः ( अनिर्वचनीयत्वं मिथ्यात्वस्य लक्षणम् ) । न चैवं ‘ऋते मायां विशालाक्षी’ मित्यादिप्रयोगा निर्वाह इति वाच्यं, मायावत्यां विशालाक्ष्यां मायाशब्दप्रयोगात् । अन्यथा लक्ष्म्याद्याकारपरिणतमायावच्छिन्न चैतन्ये कथं मायाशब्दप्रयोगस्स्यात् ? न हि लक्ष्यादयश्चैतन्यशून्य जडप्रकृतिरूपाः । न च प्रकृतिरपि चेतनैवेति वाच्यं, ‘ईक्षेतेर्नाशब्द’ (ब्र- सू- १- १ - ५) मिति प्रकृते र चेतनत्वस्य शारीरकसूत्रे सिद्धान्तितत्वात् । लक्ष्मीपार्वत्यादीनां ब्रह्मविष्ण्वादीनां वा शरीरगत एव स्त्रीत्वपुंस्त्वभेदो न त्वात्मगत इति कथं लक्ष्म्यादीनां स्त्रीणां प्रकृतित्वं ब्रह्मादीनां पुंसामीश्वरत्वं च ? न कथमपि । जगन्नियमनादिकं तु विष्णोरिव लक्ष्म्या अपि सङ्गच्छत एवात्मत्वात्, अतो विष्णुरिव लक्ष्मीरपीश्वर एव, न माया । एवं ईश्वरत्वेन मायावत्त्वादेव लक्ष्म्यां मायाशब्दप्रयोगः । यदा तु लक्ष्म्या ईश्वरशक्तित्वेन परिग्रहस्तदा लक्ष्मीर्यायैव, न त्वीश्वरः- विवक्षाधीनत्वाच्छब्दप्रवृत्तेः । कथमन्यथा ‘तव पूर्वपरिग्रहा’ मित्युच्येत ? पूर्वपरिग्रहत्वं लक्ष्म्या विष्णोरनपायिन्याः परि- महात्प्राग्विष्णोर्मायावित्वासिद्धेः । नच प्रकृतिर्देहाद्या कारपरिणता, माया तु तदभिमानिदेवता लक्ष्मीरिति वाच्यं देहाद्याकारपरिणतप्रकृतेरेव मायात्वात्, अग्न्यादीनां वागाद्यभिमानिदेवतात्वात्, बिराट्पुरुष- स्यैव कृत्स्त्रप्रपञ्चाभिमानि देवतात्वात् लक्ष्म्या एव विराट्पुरुषत्वे तल्लामेऽपि मायात्वालाभात् । सति तु मायात्वे लक्ष्म्या अपि मिथ्यात्वापत्तेः । न हि निर्विशेषचैतन्यरूपा लक्ष्मीर्माया भवितुमर्हति, किं तु मायाविन्येव जगज्जननादिसामर्थ्यरूपमायाया लक्ष्म्यामपि सत्त्वात् । तस्मालक्ष्म्याश्शक्तिरेव माया, न तु लक्ष्मीः । सा च शक्ति: ‘निस्तत्त्वा कार्यगम्याऽस्य शक्ति- मयाग्निशक्तिव’ दिति पञ्चदश्युक्तरीत्या निस्तत्त्वा मिथ्यैव । तदेवं मायामयत्वाद्वन्धमुक्त्या दिव्यवहारस्य मिथ्यात्वं सुस्थितम् ॥ १८॥ बहूनामिति । पुरुषः बहूनां जन्मनामन्ते वासुदेवस्सर्वमिति ज्ञानवान् सन् मां प्रपद्यते । यद्वा पुरुषः बहूनां जन्मनामन्ते ज्ञानवान् सन् वासुदेवस्सर्वमिति मां प्रपद्यते । ‘अथ वा बहूनां जन्मनामन्ते ज्ञानवान् पुरुषः वासुदेवस्सर्वमिति मां प्रपद्यते । स महात्मा सुदुर्लभः । पशुपक्ष्यादिबहुजन्मान्त इति भ्रान्तिवारणायाह – ज्ञानार्थ संस्काराश्रयाणामिति । आत्म- ३.४ श्रीभगवद्गीता - भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु पाकज्ञान: मां वासुदेवं प्रत्यगात्मानं प्रत्यक्षतः प्रपद्यते । कथम् ? वासुदेवस्सर्वमिति । य एवं साक्षात्कारजनक योगादिसुकृतजन्यसंस्काराश्रयाणामित्यर्थः । अनेकेषु सहस्रेषु मनुष्यजन्मसु प्राग्योगी कर्मी वा भूत्वा वेदान्तविचारं वा कृत्वा ज्ञानार्थसंस्कारमुपचित्येदानीं जन्मनि तत्संस्कारवशाद्वेदान्त- विचारे प्रवृत्त्य ज्ञानं प्राप्तवानित्यर्थः । किं तद्ज्ञानमत आह- परिपाकेति । फलभूतमात्मसाक्षात्का- रात्मकं ज्ञानं प्राप्त इत्यर्थः । आत्मैवेदं सर्वमित्यारिकां ज्ञानस्य परां काष्ठां प्राप्त इति वा । प्रपद्यते निरन्तरं भजते साक्षात्करोतीति वा । कथं प्रपद्यत इत्याक्षिपति - कथमिति । कथं ज्ञानवानिति वाऽऽक्षिपति - कथमिति । सर्वस्य वासुदेवत्वे स्वस्यापि वासुदेवत्वं सिद्धमिति भावः । यद्वा सर्वमप्यहमेव ममैव वासुदेवत्वात्सर्वस्य च वासुदेवमयत्वादिति भावः । वसति सर्वभूतेष्विति वासुः, दीव्यति स्वयं प्रकाशत इति देवः, सुवास देवो वासुदेव आत्मा- आत्मन एव सर्वान्तरत्वात् स्वयंप्रभवत्वाच्च । दीपादिप्रातिलोम्येनाञ्चति भासत इति प्रत्यक्, दीपादयो हि स्वात्मानमन्यांश्च परस्मै भासयन्ति । आत्मा तु स्वात्मानमन्यांश्च स्वस्मै भासयतीति दीपादिप्रातिलोम्यादात्मा प्रत्यक्छब्दवाच्यः । यद्वा प्रति सर्वमयति गच्छति व्याप्नोति जानातीति वा प्रत्यक्, सर्वव्यापी सर्वसाक्षी चेत्यर्थः । अतति सर्व व्याप्नोतीत्यात्मा, उभयोः कर्मधारयः । प्रत्यगात्मा अहंशब्दलक्ष्यार्थः कूटस्थः ; तच्छब्दलक्ष्यार्थस्तु परमात्मा; उभयोश्च चिन्मा- त्रत्वादेकत्वं तत्त्वमस्यहं ब्रह्मास्मी’ त्यादिश्रुति सिद्धम् । अतएव भाष्ये कचिद्वासुदेवं परमात्मानं कचि- स्प्रत्यगात्मानं च प्रतिपादयति भाष्यकारः । प्रत्यगात्मपरमात्मशब्दयोरेकार्थवाचित्वाभिप्रायात् । स इति तच्छब्दार्थमाह–य इति । सर्वेषामात्मा सर्वात्मा तं सर्वभूतात्मभूतमित्यर्थः । नारायणं परमात्मानं वासुदेवमेवमुक्तरीत्या वासुदेवस्सर्वमिति विघयेत्यर्थः । यः प्रपद्यते स इत्यर्थः । महात्मा समाभ्यधिकरहितः, समाभ्यधिकराहित्यं हि महत्त्वं तच्चात्मनः स्वतस्सिद्धमेव । आत्मान्यस्य सर्वस्य मिथ्यात्वेन तस्य समाभ्यधिकवस्तुरहितत्वात् । आत्मारूपं वस्तु तु जगदस्त्येव यावद्व्यवहारम् । व्यवहारेऽपि आत्मनस्समधिकं वा वस्तु नास्ति । रत्वाच्च । आत्मान्यस्य जगतोऽचेतनत्वात्परतन्त्रत्वाच्चेति भावः । घिको’वेति । ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति श्रुतेरिति भावः । न च ईश्वरपरा सा श्रुतिर्न ज्ञानिपरेति वाच्यं, ज्ञानिन आत्मत्वादात्मन ईश्वरत्वाच्च सर्वासामपीश्वरपरश्रुतीनां ज्ञानिनि समन्वय- लाभात् । यथा अज्ञानिनि जीवे सर्वजीवश्रुतिसमन्वयलाभः । आत्मन एकस्यैव चेतनत्वादीश्व- अत उक्त ’ न तत्समो ऽन्योऽस्त्यभ्य- नन्वज्ञस्य जीवत्वमनुभवसिद्धं, प्राज्ञस्येश्वरत्वं तु नानुभवसिद्धं यस्मिन् कस्मिन्नपि ज्ञानिनि सर्वज्ञत्वसत्यकामत्वादीश्वरधर्माणामनुपलम्भादिति चेत्, उच्यते - सर्व ब्रह्मेति ज्ञानमेव सर्वज्ञस्त्रं, न तु सर्वप्रपञ्चद्रष्टृत्वम् । तथा सत्ये आत्मनि काम एव सत्यकामत्वं, न त्वमोघ तृष्णत्वम् । तच्च ज्ञानिनि दृश्यत एवेति । सप्तमोऽध्यायः । ३५ अथ वा ये सर्वज्ञत्वादयो धर्मा भवद्भिरीश्वरे दृश्यन्ते न ते धर्मा ईश्वरगताः, किं तु मायागता एव सच्चिदानन्दा एवेश्वरगतधर्माः । ते तु ज्ञानिन्यपि सन्तीति । यद्वा विष्ण्वादिशरीरोपाधिके आत्मनि ये सर्वज्ञत्वादिधर्मास्सन्ति ते ज्ञानिशरीरोपाधिकेऽप्यात्मनि सन्त्येव - आत्मन एकत्वात् । नचैवमज्ञानिशरीरोपाधिकेऽप्यात्मनि सन्तीति वाच्यं इष्टापत्तेः । परं तु अज्ञ आत्मानं न वेत्तीत्यत उक्तम् — ज्ञानिशरीरोपाधिकेति । तथाच एकस्यैवात्मन ईश्वरस्य विष्ण्वादिशरीरप्रदेशेषु सर्वज्ञत्वाद्युपलम्भः । अस्मदादिशरीरदेशेषु तु किञ्चिदज्ञत्वाद्युपलम्भः । इयं च निष्प्रदेशे आत्मनि प्रदेशकल्पना मायिकैव । यथा एकस्मिन्नेव गगने कचित्प्रदेशे बहुजल मेघोपलम्भः, क्वचिन्निर्जलमेघोपलम्भः तद्वत् । अतो न जीवेश्वरभेदावकाशः सर्वज्ञत्वादिधर्मनिमित्तः कल्पयितुं शक्यते आत्मनि पूर्णे एकरूपे । वस्तुतस्तु हिरण्यगर्भचतुर्भुजत्रिलोचनषडाननगजाननलक्ष्मीपार्वती सरस्वतीप्रभृतयः इन्द्रयमवरु- णादयः आदित्यचन्द्राग्न्यादयः पितरो वसवस्सिद्धसाध्यादयो मनुष्याः पशुपक्षिसरीसृपकीटादयः व्रीहि- वृक्षलतादय: स्थावराश्च सर्वेऽपि प्राणिनः जीवा एव ‘जीवप्राणधारणे’ इति धातोः प्राणित्वस्य प्राण- धारणस्य जीवधर्मत्वात् । ‘अप्राणोऽयमनाश्शुभ्र ’ इति श्रुत्या ईश्वरस्याप्राणत्वाच्च । न चाप्राणाः पाषाणादय ईश्वर इति वाच्यं तेषां शुभ्रत्वभारूपत्वाद्यभावात् । हिरण्यगर्भादीनां जीवत्वस्य सूत्रभा- प्यादिसिद्धत्वात् । ‘हिरण्यगर्भस्समवर्तताग्रे’ इति श्रुत्या हिरण्यगर्भस्यैव प्रथमजीवस्योक्तत्वात् । चतु- र्भुजादीनां सर्वेषां हिरण्यगर्भसन्ततिगतत्वात् । विराट्पुरुषस्यापि हिरण्यगर्भपुत्रत्वात् । हिरण्यगर्भश्व सत्यलोकस्वामी ब्रह्मा । ईश्वरो हि स्वयमविकारीः सन् हिरण्यगर्भादिद्वारेण सृष्ट्यादिकं करोति । अत एव ‘घाता यथापूर्वमकल्पय ’ दिति । हिरण्यगर्भस्य स्रष्टृत्वमुपपद्यते । । एवं चतुर्भुजत्रिलोचनयो रक्षकत्वनाशकत्वे । त्रयोऽपीमे सत्यलोकाधिपतय एवेति केचित् । एकस्यैव सत्यलोकस्य सत्यवैकुण्ठ कैलासात्मना भेदादिति । यथैकैव भूः भारतादिखण्ड भेदभिन्ना । बैकुण्ठकैलासौ सत्यादर्वाक्तनावित्यन्ये । अयमेव सत्यलोकः सगुणमुक्तिक्षेत्रमिति व्यवह्रियते । इमे ब्रह्मविष्णुरुद्रास्त्रयोऽपि स्वयम्भुव इति केचित् । हिरण्यगर्भ एव स्वयम्भूः विष्णुरुद्रौ तत्पुत्राविति परे । विष्णुः स्वयम्भूः, ब्रह्मा तत्पुत्रो रुद्रन्तु तत्पौत्र इत्यपरे । रुद्रस्स्वयम्भू, ब्रह्मविष्णू तत्पुत्रावित्यन्ये । । स्वयं प्रभवत्वेऽपि मायाया इवैषामुत्पत्तिलक्षणो विकारोऽस्त्येव । स्वयं भवति जायत इति स्वयम्भूरिति व्युत्पत्तेः । मायामयत्वाच्च तद्विग्रहादीनाम् । ततश्च सर्वथा शरीरेन्द्रियप्राणमनोभृन एते त्रयोपि कार्यत्वा जीवा एव । एक एव ह्यज ईश्वर:- अशरीत्वात्तम्य जन्मायोगात् । सशरीराणां च जन्ममर- णयोरवर्जनीयत्वाज्जन्ममरणादिविकारशालिनो ये ते जीवास्संसारिण एवेति सिद्धान्तात् । हिरण्य- गर्भस्य द्विपरार्थावसायित्वेन नाशश्रवणात् । तस्मादक्तिनानां ब्रह्मदिनप्रलयादिष्वेव नाशसम्भवात् । एवं हिरण्यगर्भस्यैव जन्ममृत्युग्रस्तत्वेन जीवत्वे तत्सृष्टानामिन्द्रादीनां देवानां दक्षादीनां प्रजापतीनां सनकादीनां परमहंसानां नारदादीनामृषीणां पितृसिद्धसाध्यादीनां मनुष्यपशुपक्ष्यादीनां वृक्षादीनां वा ३६ श्रीभगवद्गीतासु - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु जन्ममृत्युग्रस्तानां जीवत्वे का विप्रतिपत्तिः ? न कापीत्यर्थः । एवं रामकृष्णाद्यवताराश्च वैष्णवारशरीरि- त्वेन जन्मजरामरणसुखदुःखादिविकारग्रस्तत्वाज्जीवा एव । विष्णोरेव शरीरित्वेन लक्ष्मी वियोगसंयोगादि- सुखदुःखादिमत्वेन च जीवत्वे का पुनस्तदवताराणां जीवस्वे विप्रतिपती रामकृष्णादीनाम् ? तथा च जन्मादिविकारवत्त्वस्य जीवलिङ्गत्वात्सशरीरस्य च जन्मादिविकारवत्त्वात्सशरीरा ब्रह्मविष्ण्वादयस्सर्वेऽपि जीवा एव । अशरीर एक एवात्मा । एवंस्थिते जीवेश्वरविभागे ये सर्वज्ञत्वसर्वशक्तित्वो पलक्षितेश्वरत्वेन तवान्यस्य वा अभिमताः ब्रह्मविष्णुरुद्रादयस्ते सर्वेपि जीवा एवेति कथं जीवस्यासार्वज्ञत्वा सर्वशक्तित्वा- सम्भवः ? कथं वा निर्विकारे ईश्वरे निर्धर्मके सर्वज्ञत्वादिसम्भवः ? तस्मात् किंचिद्ज्ञत्वादिगुणवानिव सर्वज्ञत्वादिगुणवानपि जीव एवेश्वरः । ब्रह्मादिष्वीश्वरत्वव्यवहारस्तु भूपालादिषु नृणामीश्वरत्वव्यवहारवत् । जीवोपि भूपालो यथा प्रजाः पालयन्नीश्वर इत्युच्यते, तथा ब्रह्मादिरपि लोकान् सृजन् अवन् हरंश्चेश्वर इत्युच्यते । नच ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुत्या सृष्टिस्थितिलयानामीश्वरधर्मत्वमुक्त- मिति वाच्यं, अस्मदादिशरीरसृष्टिस्थितिलयहेतुब्रह्मादिजीवसृष्टिस्थितिलयहेतुत्वेन परमकारणत्वादीश्वरस्य जगत्सृष्ट्यादिव्यवहारः । यथा पुत्र देहसृष्टिहेतुं पितृदेहं सृष्टवतः पितामह देहस्य पुत्रदेहस्रष्टृत्वं तद्वत् । यथा वा भूखण्डपालकराजाधिराजस्य भूपालकत्वं तद्वत् । यथा प्रजापतिद्वारा हिरण्यगर्भस्य जगत्सष्टृत्वं तथा हिरण्यगर्भद्वारा जगत्त्रष्टृत्वमीश्वरस्येति बोध्यम् । हिरण्यगर्भाद्याकारपरिणतमायाघिष्ठानत्वाद्वा हिरण्य- गर्भादिस्तम्बान्तजगदाकारेण विवर्तमानत्वाद्वा । तस्माद्धिरण्यगर्भादिस्तम्बान्तयावच्छरीरिजातस्य सिद्धं जीवत्वम् । तत्र केषांचित्सर्वज्ञत्वं केषां चित् किञ्चिद्ज्ञत्वं च तरतमभावेन सिद्धम् । अतो न ज्ञानि- न्यात्मनीश्वरधर्म सर्वज्ञत्वाद्यसम्भवदोषः - सर्वज्ञत्वादीनामीश्वरधर्मत्वाभावात्, जीवधर्मत्वाच्च । बुद्धिधर्मा हि ते । साभासबुद्धयश्च जीवास्संसारिणः । नच ‘सर्वज्ञस्सर्ववि’ दिति श्रुतिविरोधः, सर्वावभासकत्व - लक्षण सर्वज्ञत्वस्य तत्र विवक्षितत्वात् । अथ वा क्षेत्रशब्दवाच्यं सर्वे जगदात्मैक एव जानातीति स क्षेत्रज्ञस्सर्वज्ञ एव । य एनं क्षेत्रज्ञमात्मानं वेद स ज्ञान्यपि सर्वज्ञ एव । एवं क्षेत्रज्ञात्मवित्त्वादेव हिरण्यगर्भादीनां सर्वज्ञेश्वरत्वम् । न च हिरण्यगर्भादयो जीवा इति पूर्वोक्तविरोधः, कार्यकरणसङ्घाताभिमानिदृष्ट्या तेषां जीवत्वमात्म- दृष्ट्या त्वीश्वरत्वमिति सिद्धान्तेनाविरोधात् । यं कार्यकरणसङ्घातं चतुर्मुखत्वचतुर्भुजत्व त्रिलोचनत्वद्विभु- मत्वचतुष्पात्त्वादिविशेषवन्तं त्वं ब्रह्मविष्णुरुद्रमनुष्यपश्वादिं मन्यसे, स सर्वोपि जीव एव विकारित्वात् । यस्तु तस्य सर्वस्यान्तर आत्माऽदृश्यस्य द्रष्टा क्षेत्रज्ञ आत्मा ईश्वरः स चैक एवेति ज्ञानी ईश्वर एवात्मत्वात् । अज्ञास्तु जीवा एवानात्मत्वात् । कार्यकरणसङ्घातं हि ते अनात्मानमात्मानं मन्यन्ते । श्रुतयश्च हिरण्यगर्भादीन् क्वचिदीश्वरान् ब्रुवन्ति आत्मदृष्ट्या, कचिज्जीवान् ब्रुवन्ति सङ्घातदृष्टये ति न विरोधः । नन्वेवं संसारिजीवस्यासंसार्यात्मनश्च भेदे सिद्धे कथमद्वैत सिद्धिरिति चेदुच्यते - यस्सङ्घात- मात्मानं मन्यते स सङ्घाताभिमानी जीव एव वेदान्तश्रवणादिना ज्ञातविवेकस्सन् सङ्घातातिरिक्तक्षेत्रज्ञ- मेवात्मानं मन्यते । ततश्व क्षेत्रज्ञ आत्मैव भवति । तथा च जीवस्यैव वस्तुतः क्षेत्रज्ञत्वादद्वैतसिद्धिः । सप्तमोऽध्यायः । ३७ सर्वात्मानं मां नारायणं प्रपद्यते स महात्मा; न तत्समोऽन्योस्ति, अधिको वा । अतः सुदुर्लभः, ‘मनुष्याणां सहस्रे ’ ष्विति हि उक्तम् ||१९|| आत्मैव सर्वे वासुदेव इत्येवमप्रतिपत्तौ कारणमुच्यते- कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियतास्स्वया ॥२०॥ कामैरिति । कामैस्तैस्तैः पुत्रपशुस्वर्गादिविषयैर्हृतज्ञाना: अपहृतविवेकविज्ञानाः; प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवादात्मनः अन्याः देवताः; तं तं नियमं देवताराधनाय प्रसिद्धो ननु यस्सङ्घा क्षेत्रज्ञ वा आत्मानं मन्यते स किमात्मा ? उतान्यः ? नाद्यः - आत्मनस्तथा- विघ मननासम्भवात् । नान्त्यः - अन्यस्य आत्मबुद्धययोगात् क्षेत्रज्ञे । तद्योगे वा तद्बुद्धेर्भ्रान्तिरूपत्वा- दिति चेन्मैवम् - आत्मैव मायया प्राप्तजीवभावस्सन्नात्मानं मायया सङ्घातं मन्यते, विद्यया त्वात्मानं क्षेत्रज्ञ कूटस्थमिति । यथा पुरुष आत्मानं निद्रया हस्त्यादिरूपं मन्यते, प्रबोधे नतु यथापूर्व मनुष्यं तद्वत् । नच कथमपि कार्यात्मनः माययापि विकारिजीवत्वमिति वाच्यं, मायायां तर्काद्यसम्भवात् । रज्ज्वादेरपि मायया सर्पाद्याकारेण प्रतीयमानत्वात् । वस्तुत आत्मनि जीवत्वासम्भवस्य चास्माकमलङ्कारत्वात् : तस्मादेक एवात्मा क्षेत्रज्ञ ईश्वरः मायया हिरण्यगर्भादिस्तम्बान्तशरीरि जीवभावमापन्नस्सन् बद्ध इव मुमुक्षुरिव मोक्षाय यतमान इव प्रतिभाति; मुक्त इति च व्यवह्नियते; वस्तुतस्तु नात्मनि बद्ध- मुक्तादिव्यवहारः- ‘न निरोधो न चोत्पत्तिर्न बद्धो नच साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थ’ तेति शास्त्रात् । य एवमात्मतत्ववित्स ज्ञानी सर्वज्ञ ईश्वर आत्मा नारायण एव । एवंविधश्व ज्ञानी दुर्लभ एवेत्याह–अत इति । अनेकजन्मसञ्चितज्ञानार्थ संस्कारपरिपाकजन्य- त्वादात्मज्ञानस्येत्यर्थः । स ज्ञानी सुष्ठु दुर्लभः प्राप्तुमशक्यः । अस्य दुर्लभत्वे पूर्वोक्तगीतावाक्यमेव प्रमाणयति — मनुष्याणामिति । अनेकसषत्रेष्वपि मनुष्येषु तत्त्वविदेकोपि लभ्येत वा नवेति भावः । एवं ज्ञानिदौर्लभ्योक्त्या आत्मतत्त्वज्ञानस्य दुर्लभत्वं सिद्धं तेन च आत्मनो दुर्लभत्वं सिद्धयति । इदं श्रात्मनो दुर्लभत्वमाश्चर्यवत्पश्यति कश्चिदेनमिति प्रागेवोक्तम् । अहो भगवन्माया ! यतः सर्वात्मभूतत्वेन सर्व प्रत्यक्ष सर्वसुलभमपि कूटस्थचैतन्यमासीत्परोक्षं सुदुर्लभम् । यतश्चात्मन्यप्यनात्मभ्रमोऽनात्मन्यप्यात्मभ्रमो ब्रह्मादिस्तम्बपर्यन्तानां सर्वेषां जीवानाम् ॥ १९ ॥ कामैरिति । ननु सर्वोपि आत्मैव बासुदेवस्सर्वमिति कुतो न प्रतिपद्यत इत्याक्षिपति- आत्मैवेति । वासुदेव आत्मैव सर्वमित्येवमप्रतिपत्तौ प्रतिपत्त्यभावे, सर्वस्येति शेषः । अन्यदेवता इति किमपेक्षयान्यत्वमत आह— आत्मनो वासुदेवादिति । देवता इत्येवालं मनुष्यपश्वादिवदेवतानाम- प्यनात्मत्या देवत्वादेश्शरीरधर्मत्वात् । अन्यशब्दस्तु स्पष्टार्थः । आत्मनस्सकाशादनात्मानो देवा अभ्या इति देवतानामनात्मतां स्फुटयितुमन्यशब्दप्रयोग इति भावः । ३८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यो यो नियमस्तं तं आस्थाय आश्रित्य अधिष्ठाय प्रकृत्या स्वभावेन जन्मान्तरार्जितसंस्कार विशेषेण नियताः नियमिताः स्वया आत्मीयया ॥२०॥ यो यो यां यां देवतां जन्मान्तरे आराधितवान् तत्संस्कारवशादिह जन्मनि स स तां तां भज इत्याह-प्रकृत्या नियाः स्वयेति । अत्र रामानुजः प्रकृत्या पापवासनया नियता अन्यदेवता विष्णुव्यतिरिक्तेन्द्रादिदेवत आश्रित्याचयन्ते इति, तदसत् - पापवासनया नियतानां देवतामजनायोगात्, देवतानाराधकानां नास्तिकानां पापिनां सत्त्वात्, विष्णुदेवा राघनव दिन्द्ररुद्रादिदेवाराधनस्यापि पुण्यवासनाप्रयुक्तत्वात् इन्द्रादिदेववद्विष्णुदेव- स्यापि देवत्वजातिमत्त्वेन तदाराधकस्य रुद्रादिदेवाराघकेभ्य उत्कर्षस्य दुर्वचत्वात् । यथा विष्णुविग्रह - शुद्धसत्त्वमयस्तथा शिवविग्रहोऽपि शुद्धसत्त्वमय एव । एवं ब्रह्मादिविग्रहा अपि सत्त्वमया एवेति वैष्णवशैव हैरण्यगर्भ कौमारशाक्तेयादिप्रवादात्, नृसिंहाद्यवतारेषु विष्णोरपि तमोगुणदर्शन त्, दक्षिणा- मूर्त्याद्यवतारेषु शिवस्यापि सत्त्वगुणदर्शनात् । एकस्यैवेश्वरस्यात्मनः मायाविनः मायानिष्ठसत्त्वादिगुणभेदेन स्रष्टृत्वविवक्षायां ब्रह्मति, पाल- कत्वविवक्षायां विष्णुरिति, संहर्तृत्व विवक्षायां रुद्र इति च नामभिर्व्यवहारः, न तु ब्रह्मविष्णुरुद्राणां शरीरिणामीश्वरत्वं शरीरित्वेश्वरत्वयोर्विरुद्धत्वादिति सिद्धान्तेन विष्णुदेवस्य सत्त्वमयत्वं ब्रह्मदेवस्य राजसत्वं रुद्रदेवस्य तामसत्वं वा कल्पयितुमशक्यं हि सर्वेषामपि देवानां सात्त्विकत्वान्मनुष्याणां राजसत्वादवृक्षादीनां तामसत्वाच्च सत्त्वगुणोद्रेकं विना देवजन्मायोगात् । तस्य च मलिनसत्त्वात्मकाविद्या हि जीवोपाधिश्शुद्धसत्त्वात्मिका तु मायेश्वरोपाधिरिति स्थिते कथं मायोपाधिकयोर्ब्रह्मरुद्रयो राजसतामसत्वे ! कथं वा एकस्येश्वरस्य त्रित्वप्रसक्तिः ? तस्मान्न ब्रह्मविष्णु- रुद्रात्रयोsपि शरीरिण ईश्वरभूताः, किं तर्हि एकस्यैवेश्वरस्य ब्रह्मविष्णुरुद्रनामानि सृष्टिस्थितिसंहार- प्रयुक्तानि । ततश्च अन्यदेवतापदेनैव विष्णुदेवोऽपीन्द्ररुद्रब्रह्मादिदेववद्गृह्यते देवत्वात् । विष्णुदेवस्यान्यत्वमात्मापेक्षयास्ति । अनात्मत्वादेवस्य मनुष्यादिवत् । एवमात्मनोऽन्यान्विणुं रुद्रं ब्रह्माणमन्यं वा यो य उपास्ते स सर्वोपि तत्कामहृतज्ञान एव यो निष्कामो मोक्षकामो वा स एक एवात्मानमुपास्ते प्रपद्यते वा; ये तु चित्तशुद्धयर्थं निष्कामा अपि विष्ण्वादीनुपासते ते तु मध्यस्था एव; न त्वज्ञानाः प्राज्ञा इति बोध्यम् । साकार ब्रह्मोपासनत्वात्तस्य । न च ‘मोक्षमिच्छेज्जनार्दना ‘दिति स्मरणाद्विष्णूपासनं मोक्षप्रदमिति वाच्यं तत्र जनार्दनशब्द- स्यात्मवाचित्वात् । अथ वा चित्तशुद्धिद्वारा विष्णूपासनं ज्ञानप्रदत्वान्मोक्षप्रदमिति । एवं ‘ज्ञानं महेश्वरादिच्छे’ दिति महेश्वरोपासनस्यापि ज्ञानप्रदत्वमुक्तमेव । किं बहुना ? निष्कामस्सन् य कमपि देवं सर्वेश्वरत्वेनोपास्ते चेतेन चित्तशुद्धिर्भवेदेव, न तु विष्णुमेवेत्यादिर्नियम:- निर्गुणब्रह्मणि कल्पितानां सर्वासां व्यक्तीनां सगुणब्रह्मत्वेन व्यपदेशात्- माययातेषां च कामिनाम्- सप्तमोऽध्यायः । यो यो यां यां तनुं भक्तः श्रद्धयाचितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥२१॥ ३९ य इति । यो यः कामी यां यां देवतातनुं श्रद्धया संयुक्तः भक्तश्च सन्नचितुं पूज- यितुमिच्छति, तस्य तस्य कामिनः अचलां स्थिरां श्रद्धां तामेव विदधामि स्थिरीकरोमि । २१ ॥ शरीरेन्द्रियादियुक्तं ब्रह्म हि सगुणब्रह्म । इदं सगुणब्रह्मत्वं पाषाणदार्वादिष्वप्यस्ति । कथमन्यथा श्रीरङ्ग- नाम्यादीनां सगुणब्रह्मत्वम् ? परंत्वज्ञाः पाषाणादिकं सगुणब्रह्मेति न जानन्ति, किं तु पाषाणत्वादिरूपेणैव प्रतिपद्यन्ते । अत एव ‘वासुदेवस्सर्वमिति, स महात्मा सुदुर्लभ’ इत्युक्तम् । न च निर्गुणब्रह्मविदेव महात्मेति वाच्यं निर्गुणब्रह्मविदेव सगुणब्रह्मविच्च । न हि निर्गुणत्व- सगुणत्वयोर्भेदेऽपि ब्रह्मभेदः । निर्गुणमेकमेव ब्रह्म सर्वजगद्रूपेण सगुणं सत्परिणतं माययेति यो वेद स एव हि ब्रह्मवित् । स एव महात्मा । तस्मादिन्द्रादिदेववद्विष्णुदेवोऽप्यनात्मैव । अथ वा विष्णुदेववदिन्द्रादिदेवोऽपि सगुणब्रह्मैवेति न रुद्रादिदेवोपासनापेक्षया विष्णुदेवोपासनस्य प्राशस्त्यं किं तु सर्वदेवभजनापेक्षया आत्मभजनमेव प्रशस्तमिति स्थितम् ॥२०॥ 1 यो य इति । तेषां च कामिनां मध्ये तनुं देवतामित्यर्थः । आत्मनि देवतात्वा दिजा- त्यभावात् । शरीर एव तत्सत्त्वात् । अनेन च ये देवतोपासकास्ते अनृतजडदुःखात्मकशरीरोपासका एव, न त्वात्मोपासका इति स्पष्टम् । यो यो भक्तः यां यां तनुं श्रद्धया अर्चितुमिच्छति तस्य तस्य तामेव श्रद्धामहमचलां विदधामि तामेव तत्तद्देवताविषया मेवेत्यर्थः । अत्र रामानुजः — यां यामादित्यादिरूपामन्तर्यामिणो मम तनुमिति । ‘य आदित्ये तिष्ठन् - यस्यादित्यश्शरीर’ मिति श्रुतेरित्याह । तदस्मन्मतरीत्या युक्तमपि खमतरीत्या विरुद्धमेव । तथा हि- चिदचिद्विशिष्टस्सकलकल्याणगुणनिलयः दिव्यमङ्गलविग्रहो हि विष्णुः शङ्खचक्रादि- - दिव्यायुधधरः परमेश्वरस्तव मते, तस्य कथमन्तर्यामित्वम् ? कथं वा आदित्यादिशरीरवत्त्वम् ? आदि- त्यादिशरीराणि हि तत्तदभिमानि जीव सम्बन्धीनि तत्तच्छरीरसम्बन्धादेवादित्यादीनां जीवत्वव्यवहारात् । जीवस्य च शारीरकत्वस्य शारीरकसूत्रभाष्यादौ स्थापितत्वात् । न चादित्यादिशरीरेषु आदित्यादिजीवास्सन्ति तेष्वीश्वरोऽस्तीति वाच्यं, अणुपरिमाणेषु निरवयवेषु च जीवेषु दिव्यमङ्गल विग्रहस्येश्वरस्य सत्त्वायोगान्मध्यमपरिमाणस्य चिदचिद्विशिष्टस्य च चिदन्तस्थित्ययोगात् । अस्मन्मतरीत्या तु सर्वात्मन ईश्वरस्य सर्वमपि शरीरभूतमेवेति सर्वस्येश्वरतनुत्वोपपत्तिः । नचैवं सर्वस्यापीश्वरशरीरत्वे अशरीरेश्वरश्रुतिविरोध इति वाच्यं वस्तुतोऽशरीरस्यापीश्वरस्य मायया सशरीरत्वमिति सिद्धान्तात् । नच मायबाप्यशरीरस्य कथं सशरीरत्वसम्भव इति वाच्यं, मायायां सर्व- सम्भवात् । असम्भावितसर्वार्थसम्भावनस्यैव मायात्वात् ॥२१॥ ४० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ययैव पूर्वे प्रवृत्तः स्वभावतः यो यः यां यां देवतातनुं श्रद्धया अर्चितुमिच्छति - स तया श्रद्धया युक्तस्तस्थाराधनमीहते । लभते च ततः कामान् मयैव विहितान्हितान् ॥ २२॥ • स इति । स तया मद्विहितया श्रद्धया युक्तस्सन्, तस्याः देवतातन्वाः राधनं आरा धनमीहते चेष्टते लभते च ततस्तस्या आराधिताया देवतातन्वाः कामान् ईप्सितान् मयैः परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान्निमितान् हि यस्मात्ते भगवता विहिता कामा: तस्मात्तानवश्यं लभत इत्यर्थ: । ‘हिता’निति पदच्छेदे हितत्वं कामानामुपचरित कल्प्यम् ; न हि कामा हिताः कस्यचित् ॥ २२ ॥ स इति । मद्विहितया मया स्थिरीकृतयेत्यर्थः । नतु मयोत्पादितयेति स्वभावत एवोत्पन्न त्वात् । देवतातन्वाः देवतारूपायास्तन्वा इत्यर्थः । देवतायाः कार्यकरणसङ्घाताभिमानी न्द्रादिजीवस तनुश्शरीरं तम्या इति वा । चेष्टते करोति तस्यास्सकाशात् राघनमाराधनं पूजामिति यावत् । खाभा विकश्रद्धया देवतामर्चितुमिच्छति । मत्स्थिरीकृतश्रद्धया तु देवतामचतीति विवेकः । विहितान्निर्मिता तु दत्तानित्यर्थः । एतद्देवतोपासकस्य एतत्कामलाभ इति सव्यवस्थं निर्मितानित्यर्थः । एतेनेश्वरकृत व्यवस्थामनतिक्रम्यैव तत्तद्देवतास्तं तं कामं तस्मै तस्मै सेवकाय दिशन्ति, नतु स्वातन्त्र्येणेति सर्वस्येश्वर पारतन्त्र्यं सूचितम् । स तया श्रद्धया युक्तस्सन् तस्याराधनमीहते मयैव विहितान् तान् कामान ततो लभते च ।

हिशब्दस्य शेषपूरणेन वाक्यान्तरत्वं दर्शयति — हि यस्मादिति । यस्मात्ते कामा मयैवैतद विहितास्तस्मादेते तान् कामान् लभन्ते तत्तद्देवताद्वारेणेत्यर्थः । हिशब्दमात्रस्य वाक्यान्तरीकरणमस्वरस मित्यभिप्रेत्याह — हितानिति । हितप्रायानित्यर्थः । कामिभिर्हि तत्वेनाभिप्रेतानिति यावत् । उप चरितमारोपितमित्यर्थः । गौणोऽयम् । कामेषु हितत्वव्यवहारो न मुख्य इति भावः । तत्रोपपत्ति माह-न हीति । प्रिया एव कामा न तु हितास्संसारबन्धहेतुत्वादिति भावः ।

हि तानिति पदच्छेदेऽपि हिशब्दस्य प्रसिद्धयर्थमुक्त्वा एकवाक्यान्वयस्सुकर एव, परंतु ईश्व देवतोपासकार्थं कामान्निर्मितवानिति कोऽपि न वेदेति तदर्थस्याप्रसिद्धत्वाद्धिशब्दस्यात प्रसिद्धय कथनमनुपपन्नमिति भाष्यकारहृदयम् । मयैव विहितानिति पदाभावे तु उपासको देवतायास्सकाशा कामान् लभत इत्येतावत उक्तौ हिशब्दस्य प्रसिद्ध्यर्थत्वमुपपद्यत एव तदर्थस्य सर्वविदितत्वात् । रामानुजस्तु - तत्तद्देवताराधकस्यापि तत्तत्कर्मानुगुणः तत्तत्फलप्रदोऽहमेवेति व्याचख्यौ तद युक्तमेव — तत्तत्फलप्रददेवताकारपरिणतमायाघिष्ठानस्येश्वरस्य तत्तत्फलप्रदत्वमिति । वस्तुतः फलप्रद तु विरुद्धमेव निर्धर्मकत्वादात्मनः ॥२२॥

सप्तमोऽध्यायः । यस्मादन्तवत्साधनव्यापारा अविवेकिनः कामिनश्च ते, अतः- अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥ २३॥ ४१ अन्तवदिति । अन्तवद्विनाशि तु फलं तेषां तद्भवत्यल्पमेधसां अल्पप्रज्ञानाम् । देवान् देवयजो देवान् यजन्त इति देवयजः, ते देवान् यान्ति । मद्भक्ता यान्ति मामपि । एवं समानेऽप्यायासे मामेव न प्रपद्यन्ते अनन्तफलाय । अहो ! खलु कष्टतरं वर्तते इत्यनुक्रोशं दर्शयति भगवान् ॥ २३ ॥ किं निमित्तं मामेव न प्रपद्यन्ते इत्युच्यते- अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ||२४|| अव्यक्तमिति । अव्यक्तमप्रकाश व्यक्तिमापन्नं प्रकाशं गतमिदानीं मन्यन्ते मां नित्यप्रसिद्धमीश्वरमपि सन्तं अबुद्धयो अविवेकिनः परं भावं परमात्मस्वरूपमजानन्तोऽवि- वेकिनः ममाव्ययं व्ययरहितमनुत्तमं निरतिशयं मदीयं भावमजानन्तो मन्यन्त इत्यर्थः ॥ २४ ॥ अन्तवदिति । अन्तवान् साधनव्यापारः कारकव्यापारो येषां ते अन्तवत्साधनव्यापाराः । अतः कामिनामन्तवत्साधनव्यापारत्वादित्यर्थः । अल्पमेधसां ’ नित्यम सिच्प्रजामेधयो’ रित्यसिच् । यजन्ते पूजते । यजदेवपूजादिष्विति धातुपाठः । मद्भक्ता आत्मसेविनः, मामात्मानमनादिमनन्तं सच्चिदानन्दमयमीश्वरं परब्रह्म यान्ति; मुच्यन्त इति यावत् । आयासो भजनश्रमः । इदं च देवयजनात्म- भजनवलेशसाम्यप्रतिपादनं स्थूलदृष्टधैव । सूक्ष्मदृष्टया तु अनेक कारणोपसंहारपूर्वक देवयजनमेवाति- क्लेशावहमात्मयजनं तु सुलभमेव । ‘आत्मत्वात्सर्वभूतानां सिद्धत्वादिह सर्वत’ इति प्रहादेनोक्तत्वाद्भागवते कारकोपसंहारा- भावाच न कश्चिदपि क्लेशः । किंतु विषयप्रवणस्य मनस आत्मन्यवस्थापनमेवेह क्लेशः । तच्चाविर- क्तानां दुष्करमपिं विरक्तानामभ्यासवशेन सुकरमेव । विरक्तानां सन्न्यासिनामेव चात्मभजनेऽधिकार इति प्रागेवोक्तम् । तथाच देवयजने वाचिककायिकमानसिक क्लेशास्त्रयस्सन्ति, आत्मभजने तु मानसिक- क्लेश एक एव । तस्मादात्मभजने देवयजनवन्नातीवायास इति बोध्यम् । अनन्तफलाय मोक्षायात्मसायुज्यायेति यावत् । कष्टतरमतिकष्टं वर्तते जनानामिति शेषः । अल्पमेधसां तेषां तु तत्फलमन्तवद्भवति । तुशब्दात्प्राज्ञानां निष्कामानां मद्भक्तानामनन्तं फलं भवतीति सूच्यते ॥२३॥ अव्यक्तमिति । नन्वनन्तफलाय किमिति सर्वे परमात्मानमेव न प्रतिपद्यन्त इत्याक्षेपसङ्गतिं पूर्वोत्तरश्लोकयोर्दर्शयति - किंनिमित्तमिति । केन निमित्तेनेत्यर्थः । अबुद्धयः ममाव्ययमनुत्तमं परं भावमजानन्तस्सन्तः मामव्यक्तं व्यक्तिमापन्नं मन्यन्ते । व्यक्तमिति भावेक्तः । व्यक्ति : प्रकाश इति ४२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यावत् । तन्न विद्यते यस्य तमव्यक्तम्; प्रकाशोऽत्र ज्ञानम् ; तथा चाव्यक्तमज्ञातमिति फलितार्थः । व्यक्तिमापन्नं व्यक्तं ज्ञातमिति यावत् । मन्यन्ते सम्भावयन्ति उत्प्रेक्षन्त इति यावत् । नित्यप्रसिद्धं सदाप्यपरोक्षमात्मत्वादिति भावः । परमुत्कृष्टं भावं स्वरूपं सच्चिदानन्दात्मकं रूपमित्यर्थः । व्ययो नाशो विकार इति वा । न विद्यते उत्तमो यस्मात्तमनुत्तमम् । मदीयं ममेदं ‘वृद्धाच्छः ’ राहोश्शिर इतिवद्भेदनिर्देश औपचारिकः । ईश्वरस्यैव सच्चिदानन्द- रूपत्वेन सच्चिदानन्दानामीश्वरीयत्वायोगात् । अत एव हि आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति तद्धर्माः । अपृथक्त्वेपि चैतन्यात्पृथगिवावभासन्त इति प्रोक्तमार्यैः । विषयानुभवश्चैतन्यं नित्यत्वं सवेति विवेकः । आत्मैवेश्वर इत्यविदित्वा परोक्षमीश्वरं वैकुण्ठादिगतं विष्ण्वादिकं मन्यमानाः परोक्षो विष्णु- रीश्वरोऽधुना श्रीकृष्णरूपेण भक्तानुग्रहार्थं दुष्टशिक्षणार्थ चावतीर्ण इति आत्मानात्मविवेकशून्या ईश्वर- तत्त्वमविद्वांसो मूढा जना मन्यन्त इति निर्गलितार्थः । एतेनात्मपरमात्म भेदवादिनो द्वैतिनो विशिष्टा - द्वैतिनश्च निरस्ताः । न च सर्वेश्वरो विष्णुरजहत्स्वभाव एव; वसुदेवसूनुरवतीर्ण इति ममैवं परं भावमजानन्तः प्राकृतराजसूनुसमानमितः पूर्वमनभिव्यक्तमिदानीं कर्मवशाज्जन्मविशेषं प्राप्य व्यक्तिमापन्नं मामबुद्धयो मन्यन्त इति रामानुजभाष्यात्कथमनेन श्लोकेन विशिष्टाद्वैतिनिरास इति वाच्यं, अयुक्तत्वात्तद्भाष्यस्य । तथा - कृष्णावतारस्येतः पूर्वमनभिव्यक्तत्वमिदानीं व्यक्तत्वं च सर्वविदितमेवेति कुतस्तद्ज्ञान- ‘स्याज्ञविषयत्ववर्णनम् ? न हि त्रेतायुगे कृष्णावतारोंऽस्ति न वा कलियुगे, किं तु द्वापरान्त एव । ततश्च तस्य पूर्वमव्यक्तत्वं मध्ये व्यक्तिमापन्नत्वं च सिद्धमेव, एवं तस्य व्ययोऽपि सिद्ध एव द्वाप- रावसाने कृष्णावतारनाशेन कलियुगे तददर्शनात् । अतः कथमव्ययत्वं कृष्णावतारस्य ? न च लीलावशाद्व्यक्तिमापन्नं मां कर्मवशाद्व्यक्तिमापन्नं यतो मन्यन्ते ततस्ते अबुद्धय इति वाच्यं, मूले कर्मवशादिति पदाभावात्तन्निर्मूलपदकल्पनस्य चाप्रमाणत्वात् । कल्पनेऽपि स्वेष्टा सिद्धेः । तथाहि - भागवते विदुरमैत्रेयसंवादे भगवद्बादरायणेन कश्चित्प्रश्नोत्तरग्रन्थः कृतः; तं तावच्छृणु- ‘ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः । लीलया वापि युज्येरन् निर्गुणस्य गुणाः क्रियाः | क्रीडायामुद्यमोsर्भस्य कामश्चक्रीडिषाऽन्यतः । स्वतस्तृप्तस्य च कथं निवृत्तस्य सदा खतः ॥ अस्राक्षीद्भगवान् विश्वं गुणमय्यात्ममायया । तया संस्थापयत्येतद्भूयः प्रत्यभिधास्यति ॥ देशतः कालतो योऽसाववस्थातरस्वतोऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ एतस्मिन् मे मनो विद्वन् खिद्यते ज्ञानसङ्कटे । तन्मे पराणुद विभो कश्मलं मानसं महत् ॥ स इत्थं चोदितः क्षत्त्रा तद्विजिज्ञासुना मुनिः । प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः || सेयं भगवतो माया यन्न येन विरुद्ध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ सप्तमोऽध्यायः । यथार्थेन विना पुंसो मृषैवात्मविपर्ययः । प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिना ॥ यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः । दृश्यते सन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः ॥’ इति चिन्मात्रस्याविकारिणो निर्गुणस्येश्वरस्य कथं लीलायापि गुणक्रियासम्बन्ध: ? देशका- लादिभिरलुप्तज्ञानस्य तस्य कथं प्रकृतिसम्बन्धः ? भगवतस्तस्य कथं दुर्भगत्व कर्मक्लेशौ भवत इति प्रश्ननिष्कर्षः । मायया सर्वमप्युपपद्यते यथा निद्रया जीवस्य स्वशिरश्छेदनादिकं, यथा जलचलनवशा - चन्द्रप्रतिबिम्बस्य चलनादिकं तद्वदात्मन्यसन्नप्यनात्मगुणो मायावशात्प्रतिभातीत्युत्तरप्रन्थार्थः - •

एवं स्थिते निर्विशेषचिन्मात्रेश्वरस्य कथं लीलया वापि जन्मादिसम्बन्धः ? कथं वा कर्मवशा- तस्य जन्म नेत्यपि वक्तुं शक्यते ? दैत्यहननार्थं भृगोर्भार्यां हत्वा तेन ‘अहमिव त्वमपि भार्यावियोग- मनुभवेति दत्तशापस्सन् विष्णुः तच्छापनिर्वहणार्थं तत्पापक्षयार्थ च श्रीरामरूपेणावतीर्य सीतावियोग- मनुबभूव हि । तथा रामावतारे निगूढस्सन् वालिनं हत्वा तत्पापफलभूतं किरातशरताडनकृतं शरीर- वियोगं कृष्णावतारेऽनुबभूव हि । तथा च जन्मान्तरार्जितसुकृतदुष्कृत प्रयुक्तसुखदुःखफला नुभवशालिनः कृष्णावतारादेः कथमकर्मप्रयुक्तत्वम् ? कथं वा लीलया स्वदुः खप्रयोजक कर्मकरणम् ? न हि कोsपि लीलयाऽग्नौ पतति । लीलाप्रयुक्ते वा कर्मप्रयुक्ते वा जन्मजरामरणसुखदुःखादिविकारजाते सति कथमीश्वरत्व- मीश्वरस्य ? निर्विकारो हीश्वर:- ‘अजो नित्य’ इत्यादिश्रुतेः । तस्मादीश्वरस्य लीलया कर्मणा वा न कृष्णावतारपरिग्रहस्सम्भवति । नच माययापि न सम्भवतीति वाच्यं, मायायां सर्वसम्भवात् ईश्वरस्य न वस्तुतो जन्मादिविकारः, किंतु मायया जन्मादियुक्त हावस्माकं प्रतिभातीति हि तदर्थः । तस्मान्नित्यशुद्धबुद्ध सिद्धमुक्तस्वभावमात्मानमीश्वरं ये कृष्णात्मनाऽवतीर्ण परोक्षमीश्वरं मन्यन्ते त एवाबुद्धयः । यद्यपि मायामयं कृष्णावतारं प्राकृतराजसूनुसमं ते मन्यन्ते तेऽप्यबुद्धय एव । तथापि तदपेक्षयाप्यबुद्धयः पूर्वोक्ता इति बोध्यम् । आत्मानात्मविवेकशून्याः पूर्वोक्ताः, अनात्मस्वेव तारतम्य- ज्ञानशून्या एते इति भेदात् । ननु यथा राजसूनवः प्राकृता मायामयास्तथा कृष्णोऽपीति कथं कृष्ण एव मायामय इत्युच्यत इति चेत्, उच्यते — यथा व्यावहारिकसर्पस्यापि प्रातिभासिक सर्पवन्मायामयत्वे सत्यपि प्रातिभासिक- सर्पमेव मायामयं ब्रवन्ति लोका:, तथा लोकदृष्ट्या कृष्णस्यैव मायामयत्वमिति । मायाकार्यभूतपरिणामत्वाद्भौतिकत्वेन प्राकृतत्वं राजसूनूनां, कृष्णशरीरस्य तु साक्षान्माया- कार्यत्वमेव नतु भूतपरिणामत्वमित्य भौतिकत्वादप्राकृतत्वेन मायामयत्वेन च व्यपदेशः । " एवं च गगनगन्धर्वनगरादितुल्यः कृष्णावतारः । साक्षाद्गन्धर्वनगरादितुल्यास्तु प्राकृतराजसूनव इति सिद्धम् । गन्धर्षनगरादीना मिन्द्रजालक ल्पितानामिव मायाकल्पितस्य कृष्णावतारस्य प्रातिभासिकत्वेन मायामयत्वम् । एवमभौतिकत्वेन मायामयत्वादेव कृष्णावतारस्य गोवर्धनोद्धरणादिलो कातिगचेष्टासम्भवः । यथा या निद्राजन्यस्य खामगजादेः पर्वतोद्धरणादिचेष्टा सम्भवः । ४४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु इयं च माया आत्मन ईश्वरस्य स्वभाव एवेति बहुवारमुक्तम् । अत एव रामकृष्णादीना- मीश्वरावतारत्वव्यवहारः । आत्ममायाकार्यत्वाद्रामकृष्णादिशरीराणाम् । यद्यप्येक एवात्मा स्वमायया रामकृष्णादिरूपेणेव मनुष्यपश्वादिरूपेणापि परिणत एवेति राम- कृष्णादीनामिव देवमनुष्यपश्वादीनां सर्वेषामपीश्वरावतारत्वमेव सुवचं, तथापि आत्मा साक्षात्स्वमायया रामकृष्णादिरूपेण परिणतः, महदहङ्कारभूतादिद्वारा तु मनुष्यादिरूपेण परिणत इति न मनुष्यादीना- मीश्वरावतारत्वव्यवहारः । नच साक्षान्मायापरिणामस्य महत्तत्त्वस्येश्वरावतारत्वव्यवहारापतिरिति वाच्यं इष्टापत्तेः । हिरण्य- गर्भात्मकत्वाच्च महत्तत्त्वस्य । हिरण्यगर्भो हीश्वरस्य प्रथमावतारः । तस्यैव प्रथमत्वाज्जीवानाम् । तथा रुद्रमयंस्याहङ्कारस्यापीश्वरावतारत्वमेव । तस्मादभौतिकत्वात्साक्षान्मायामया ईश्वरावताराः, अन्ये तु भौतिकत्वात्प्राकृता जीवावतारा इति स्थितम् । ननु दृश्यत्व जडत्व स्थूलत्वाद्यंशेष्वविशेषादेते देहा ईश्वरावताराः, एते पुनर्जीवनामिति कथं सुज्ञेयमिति चेदुच्यते - लोकातिगप्राभववशादिति । येषु येषु देहेषु लोकातिगं चरित्रं दृश्यते ते ते ईश्वरदेहाः । यथा समुद्रपानहालाहलपान- पर्वतोत्क्षेपणदावानलक बलन सेतु निर्माणस्तम्बोद्गमनभूम्युद्धरणवेदाहरणत्रिलोकाभिव्यापनादिलो कातिगः कर्मभिः अगस्त्यशम्भुहनूमत्कृष्णदाशरथिनरसिंहवराहमत्स्यवामनादीनामीश्वर । वतारत्वम् । लोकसामान्यचरित्रास्तु जीवदेहा:- यथा मनुष्यादयः । अमुमेव भौतिकाभौतिकरूपजीवेश्वर देह भेदमवलम्ब्य भौतिक देहस्थमात्मानं जीव इति, अभौ - तिक देहस्थमात्मानमीश्वर इति च व्यवहरन्ति । देहभेदाज्जीवांश्चानेकान् वदन्ति । ईश्वरं च देह- भेदादेवानेकविधं ब्रुवन्ति खखमतरीत्या तत्तद्देहावच्छिन्नमीश्वरं पृथक्पृथग्वदन्ति । अयमेव जीवेश्वरव्यवहारः श्रुतिभिरप्यनूद्यते स्वमतमद्वैतं सिद्धान्तयितुम् । नहि पूर्वपक्षानुवाद विना सिद्धान्तस्सुकरः । नैतावता जीवेश्वरविभागः श्रुत्यभिप्रेत इति भ्रमितव्यमनुवादमात्रत्वात्तस्य । श्रुत्यभिमतमर्तं तु दर्शितमेव- आत्मैक एवेश्वर इति तद्भिन्नास्सर्वे अनात्मान’ इति, तत्र कल्पिता इति च । तथा च य एवमात्मानात्मविवेकशून्याः प्राकृताः ते हि रामकृष्णशङ्करागस्त्यहनूमदादींस्तत्त- त्कार्य करणसङ्घातविशेषात्मकानीश्वरत्वेन प्रतिपद्यन्ते । ये तु विवेकिनः ते हि विध्वस्तनिखिलोपाधिक निरस्ताशेषविशेषं सच्चिदानन्दं सर्वभूतान्तरस्थमात्मानमेकमेवेश्वरं प्रतिपद्यन्ते । इति सिद्धं ज्ञानिना- मद्वैतमज्ञानां च द्वैतम् । विशिष्टाद्वैतं तु सङ्कराणामेव- अश्रौतत्वाद्विशिष्टाद्वैतपदस्य । विशिष्टत्वाद्वैतत्वयोस्सामानाधि- करण्यायोगाच्च । प्रतिपादितमिदं विस्तरेण मयैव सिद्धान्तविन्दुव्याख्यानभूते सिद्धान्तसिन्धुनाम के ग्रन्थे इत्यत इहोपरम्यते । तदेवमज्ञानसिद्धो द्वैतव्यवहारो मुमुक्षुभिर्नादरणीय:- द्वैतस्य भयहेतुत्वात् ‘द्वितीयाद्वै भयं भव’- सप्तमोऽध्यायः 1 तदज्ञानं किं निमित्तमित्युच्यते- नाहं प्रकाशस्सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ २५ ॥ ४५ नेति । नाहं प्रकाशः सर्वस्य लोकस्य केषांचिदेव मद्भक्तानां प्रकाश अहमित्यभि- प्रायः । योगमायासमावृतः योगः गुणानां युक्तिर्घटनं सैव माया योगमाया, तया योग- मायया समावृतः; संछन्न इत्यर्थः । अत एव तीति श्रुतेः । अतश्चाभयका मेनाद्वैतभाष्यमेव श्रोतव्यं, भूतखात्तदर्थस्य ॥२४॥ मूढो लोकोऽयं नाभिजानाति मामज- तदर्थश्च मन्तव्यो निदिध्यासितव्यः, ब्रह्म- नेति । कुत एवं परमात्मनस्तव स्वरूपं सर्वैरविदितमित्याक्षिपति - तदज्ञानं किंनिमित्त- मिति । किं निमित्तं यस्य तत्किनिमितं; केन निमित्तेन भवतीत्यर्थः । इत्यस्याक्षेपस्य समाधान- मुच्यते– नाहमिति श्लोकेन । अहं सर्वस्य प्रकाशो न भवामि, अयं योगमायासमावृतो मूढो लोकः अजमव्ययं मां नाभिजानाति । प्रकाशत इति प्रकाशः प्रत्यक्ष इत्यर्थः । सर्वस्याप्यप्रकाशकत्वे तु ज्ञानमार्गसम्प्रदायस्यैवाप्र- वृत्तिस्यादत आह— केषांचिदिति । ममात्मनो भक्ता मद्भक्ता आत्मरतास्तत्त्वविद इति यावत् । आत्मतत्त्वविदामेव आत्मनि भक्ति:- यथा स्त्रीसौन्दर्यविदामेव स्त्रियां भक्तिः । सच्चिदानन्दलक्षणात्म- खरूपवेदनाभावादेव लोकस्य नात्मरतिरिति भावः । गुरुशास्त्रादिना आत्मतत्त्वे ज्ञाते सति पुंसामात्मनि रतिर्भवति, तत आत्मसाक्षात्कारो जायते; एवंविधास्तु पुरुषास्सुदुर्लभा इति प्रागेवोक्तमत एवाह — केषांचिदेवेति । अत्यल्पसङ्ख्यानामेवेत्यर्थः । द्वित्रादीनामेवेति भावः । ननु केचिदेव त्वां जानन्ति न तु सर्वे इत्यत्र को हेतुरत आह— योगमायेति । केषां- चिदेव शङ्करसनकनारदादीनां योगमाययाऽनावृतानामहं प्रकाशः, न तु सर्वस्य लोकस्य - योगमाया- समावृतत्वात्सर्वस्येत्यर्थः । काऽसौ योगमायेत्यत आह-योग इति । गुणानां सत्त्वादीनां युक्तिर्योगः । युक्तिशब्दार्थ- माह - घटनमिति । सैवेति युक्ति रेवेत्यर्थः । योग एव माया योगमायेति समास इति भावः । ‘त्रिभिर्गुणमयैर्भावैरेभिस्सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥’ इति पूर्वमेवो लोकस्य योगमायासमावरणप्रयुक्त मोहवत्त्वं सत्त्वादिगुणत्रयसंयोगवश लोकस्य बुद्धिर्मोहमापद्यते सुख- दुःखनिद्रादिलक्षणं, ततश्चैवं मूढो लोको मां नाभिजानाति एवं गुणसंयोगमूढबुद्धित्वाल्लोकस्याहमप्र- काश इति भावः । (योगमायाशब्दस्यार्थान्तरमाह - अथ वा भगवत इति । चित्तस्य समाधानं समाधिः प्रणि- धानं चिन्तनं सङ्कल्प इति यावत् । भगवतसङ्कल्प इत्येव पादान्तरम् । तत्कृता माया अविवेकः योगकृता माया योगमायेति मध्यमपदलोपसमासः । ४६. श्रीभगवद्गीतासु - भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मव्ययम् । यया योगमायया समावृतं मां लोको नाभिजानाति नासौ योगमाया मदीया सती मम ईश्वरस्य मायाविनो ज्ञानं प्रतिबध्नाति यथान्यस्यापि मायाविनो माया तद्वत् ॥ २५॥ अथ वा स कृतो यया सा तत्कृता योगहेतुरित्यर्थः । योगहेतुर्माया योगमायेति समासः । स्वतो निर्विशेषस्य ब्रह्मणः मायायोगादेव सङ्कल्पः जगत्सर्गादिविषयः सम्भवति । अस्मिन् पक्षे माया- नामाऽज्ञानमेव भावरूपमिति ।) ’ लोकश्चात्र चिदाभास एव प्रमातृनामकः, न तु साक्षी प्रत्यगात्मा- साक्षिण एवानृतत्वे जग- दान्ध्यप्रसङ्गात् । मामनात्मविलक्षणं स्वात्मभूतं परमात्माभिन्नं प्रत्यचं नाभिजानाति । ननु यथा लोको योगमायासमावृतज्ञानस्सन् त्वां न वेति, तथा त्वमप्यात्मानं न वेत्सि कि- मित्यत आह- ययेति । मम स्वाधीनमायत्वान्मायायाश्च मदीयत्वान्ममैव मायाप्रेरकत्वान्मत्परतन्त्रा मन्नियाम्या मद्दत्तशक्तिर्माया मां मोहयितुं न क्षमत इत्यर्थः । मदीया सतीति मदीया भूत्वेत्यर्थः । तत्र दृष्टान्तमाह — यथेति । अन्यस्येति ऐन्द्रजालि - कादेरित्यर्थः । यथा ऐन्द्रजालिकप्रयुक्ता माया द्रष्टृनेव मोहयति, न त्वैन्द्रजालिकं तद्वदित्यर्थः । एवं मायाऽमोहितत्व | देवेश्वरस्येश्वरत्वमिति भावः । अत्र लोकस्य योगमायासमावृतत्वं नाम घटादिवन्नाज्ञानविषयत्वं चैतन्यवन्नाज्ञानाश्रयत्वं, किं तु योगमायाप्रतिबद्धज्ञानत्वमेव परमेश्वरस्य ज्ञानं माया न प्रतिबध्नातीति वाक्यानुसारात् । व्यतिरेक- दृष्टान्तो हि जीवस्येश्वरः । इदं च मायया प्रतिबद्धं ज्ञानं जीवस्य न स्वरूपचैतन्यं तस्यावरणे जगदान्ध्यप्रसङ्गात् । व्याप- कस्य तस्य व्याप्यया माययाऽऽवृत्तत्वासम्भवान्मायाया अपि भासकत्वाच्च चैतन्यस्य । किं तर्हि वृत्ति- ज्ञानमेव । मायया जीवावच्छेदकान्तःकरणस्य सत्यावृतत्वे वृत्तिज्ञानस्य प्रतिबन्धो भवति । अन्तःकरणे योगमायासछन्ने सति अहं ब्रह्मास्मीति वृत्तिज्ञानं नोदेतीत्यर्थः । इदं च जीवावच्छेदकान्तःकरणगतं मायावृतत्वं जीवेऽध्यस्तमित्यभिप्रेत्योक्तम् — योगमाया- समावृतो लोक इति । योगमायासमावृतान्तःकरण इत्यर्थः । योगमायाप्रतिबद्धज्ञान इति फलितार्थ- कथनम् । अन्तःकरणावरणपूर्वकत्वाद्ज्ञानप्रतिबन्धस्य । न च ज्ञानमेव मायाssवृतमिति किमिति नोच्यत इति वाच्यं उत्पन्नस्य ज्ञानस्य मायांवरणा- सम्भवात् । अत एवोक्तं ज्ञानं न प्रतिबध्नातीति न त्वावृणोतीत्युक्तम् । न चेश्वरस्यान्तः करणाभावेन वृत्तिज्ञानस्यैवाभावात्कुत उक्तं परमेश्वरस्य ज्ञानं न प्रतिबध्नाति मायेति अप्रसक्तस्य निषेधो नर्थक इति वाच्यं, मायावृत्तिज्ञानसत्त्वादीश्वरस्य । न चेश्वरीयापि माया कुत ईश्वरज्ञानं न प्रतिबन्नातीति वाच्यं, ईश्वरावच्छेदकमायाया माया- वरणाभावेन तदीयज्ञानस्य मायाप्रतिबन्धाभावात् । न हि माया स्वयमेव स्वम । वृणुयात् स्ववृत्तिः वा प्रतिबध्नीयात् । , यत एवं अतः – सप्तमोऽध्यायः । वेदाहं समतीतानि वर्तमानानि चार्जुन ! भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ २६ ॥ ૨૭ वेदेति । अह तु वेद समतीतानि समतिक्रान्तानि भूतानि वर्तमानानि चार्जुन" ! तस्मादीश्वरोपाघेरनावृतत्वादीश्वरस्य ब्रह्माहमस्मीति सदापि ज्ञानमस्ति । जीवोपाघेरावृतत्वा- जीवस्य ज्ञानं प्रतिबद्धमिति सिद्धम् । ननु यदि जीवेश्वरयोस्स्वरूपचैतन्यमनावृतं तर्हि तस्य कुतो न भानमिति चेदुक्तमेव जीवान्तः- करणस्यावृतत्वादिति । ननुक्तमेव परं तु तदयुक्तमन्यस्यावरणमन्यस्याप्रकाश इति चेन्नायं दोषः चक्षुष आवरणे घटस्या प्रकाशदर्शनात् । न च घटोऽप्यज्ञानावृत एवेति वाच्यं चक्षुषोऽन्तःकरणस्य वांगुलिनाऽज्ञानेन वावृतत्वे सति घटाप्रकाश सिद्धौ घटावारकज्ञानान्तराभ्युपगमस्य व्यर्थत्वात् । तस्मान्न चैतन्यस्यावरणम् । ननु यद्येवं जीवेश्वरयोर्मायावृतत्वानावृतत्वाभ्यां भेदस्तर्हि कथमद्वैतसिद्धिरिति चेदुच्यते- यावद्यवहारं सत्यप्योपाधिके भेदे परमार्थतश्चैतन्यैकरसत्वेन तयोरेकत्वाज्जीवेश्वरयोश्चैतन्यात्मना अद्वैत- सिद्धिरिति ॥२५॥ वेदेति, यत इति । यस्मादेवं पूर्वोक्तरीत्या परमेश्वरस्य ज्ञानं माययाऽप्रतिबद्ध; लोकस्य ज्ञान मायया प्रतिबद्धमतः एवं ममामायावृतत्वाल्लोकस्य च मायावृतत्वादित्यर्थः । हे अर्जुन ! अहं समतीतानि वर्तमानानि भविष्याणि च भूतानि वेद, मां तु कश्चन न वेद । अहं त्विति तुशब्दो जीववैलक्षण्यार्थः । प्रत्यगभिन्नः परमात्मा परमेश्वरोऽहंशब्दार्थः । नच मायावच्छिन्नचैतन्यस्य परमेश्वरस्य अन्तःकरणोपहितचैतन्यस्य प्रत्यगात्मनश्च कथमभेद इति वाच्यं, मायावच्छिन्नेश्वरस्य मायोपहितब्रह्मणश्चैवयं तावत्सर्वविदितमवच्छिन्नत्वोपहितत्वयोर्भेदेऽपि मायाया अभेदेनेवरब्रह्मणोरप्यभेदात् । एवं मायोपहितान्तःकरणोपहितयोः प्रत्यग्ब्रह्मणोरप्यभेद एव- उपाध्योर्भेदेऽप्युपहिताभेदात् । तथा मायावच्छिन्नान्तःकरणोपहितयोरप्यभेद एव- उपाध्योर्भेदेऽप्युप- हिताभेदात् । यदेव चैतन्यं मायावच्छिन्नं मायोपहितं च तदेवान्तःकरणोपहितमपीति । नचैवमन्तः- करणावच्छिन्नं चैतन्यमपि तदेवेति जीवोपि प्रत्यगीश्वरब्रह्माभिन्न एवेति वाच्यं इष्टापत्तेः । तर्हि लोको मां न वेदाहं सर्व वेदेति कुतो भेदेन निर्देशो जीवेश्वरयोरिति चेदुच्यते- उपाधिकृताज्ञत्वप्राज्ञत्वसंसारित्वासंसारित्वादिभेदादिति । न चैवं प्रत्यब्रह्मणोरभेदेप्यस्ति प्रत्यगीश्वरयोर्भेद इति वाच्यं, जीवस्येवेश्वरस्यापि स्वरूपत्वा-: स्प्रत्यगात्मनः । नच ब्रह्मैवेश्वरस्य स्वरूपमिति वाच्यं प्रतीच एव ब्रह्मत्वात् ब्रह्मणोऽन्तःकरणप्रदे- शोपलभ्यमानत्वमात्रेण प्रत्यक्त्वस्योक्तत्वात् । तस्मात्प्रत्यगभिन्न एव परमेश्वरः /- 1 ४८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु भविष्याणि च भूतानि वेदाहं मां तु वेद न कश्चन मद्भक्तं मच्छरणमेकं मुक्त्वा मत्तत्त्व- वेदनाभावादेव न मां भजते ॥ २६ ॥ भविष्याणीति । भविष्यन्तीत्यर्थः । भूतानीति । प्राणिन इत्यर्थः । वेद जानामि ; स्वरूप- चैतन्येन मायावृत्त्या वेति भावः सृष्टेः प्रागीश्वरस्य मायावृत्तिरूपेण सद्भावश्रवणात् । मां तु कश्चना- प्यविद्वान् प्राणी न वेद न जानाति । अविदुषामीश्वरस्यानात्मत्वेन परोक्षत्वादित्यभिप्रायः । न चाविद्वानिति किं, सर्वोपि न वेदैवेति वाच्यं सर्वस्याप्यनीश्वरत्वे शास्त्रप्रवृत्त्यनुपपत्तेः । नहीश्वरमविद्वांस आचार्यव्यासादयश्शुकादिभ्यश्शिष्येभ्य ईश्वरतत्त्वमुपदिशेयुः । अत एवाह–मद्भक्तं मच्छरणमेकं मुक्त्वेति । आत्मभक्त आमैकश्शरणश्च स एक एव मां वेद, तस्यात्मतत्त्वज्ञत्वान्न ह्यात्मतत्त्वज्ञानं विना पुंसामात्मरत्यादिकं भवितुमर्हति तस्य चात्मज्ञस्येश्वरोऽपरोक्ष एवात्मत्वादीश्वरस्य । यद्यपि विदुषामिवाविदुषामपीश्वर आत्मैव तथाप्यविद्वांस ईश्वरमात्मानं न मन्यन्ते, किं स्वन्यमेवेत्यत उक्तं विदुषामात्मैवेश्वरो न त्वविदुषामिति । अविद्वांसो ह्यनात्मन्यन्तःकरणादा- वात्मबुद्धिं दधत इति तेषामन्तःकरणादिरेवात्मेत्यन्तः करणादिसङ्घाता एवाविद्वांसः प्राणिनः । विद्वांस्तु आत्मनीश्वरे एवात्मबुद्धिं धत्त इति विदुष ईश्वर एवात्मेति विद्वानात्मैवेश्वरः । नतु कार्यकरणसङ्घात- रूपः प्राणी । तथा च विद्वानात्मैव मामात्मानं वेत्ति न त्वन्यः कोऽपि प्राणीति युक्तमुक्तम्- मां तु वेद न कश्वनेति । सर्वाणि भूतानि अहमेव वेद, मामप्यहमेव वेद, किमपि भूतं मां न वेद, यो विद्वान्मां वेद स विद्वानात्माहमेवेति न ममान्यवेद्यत्वसम्भव इति फलितार्थ: । ‘चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रं यन्मनसा न मनुते, येनाहुर्मनो मतं, विज्ञातारमरे केन विजानीयात् ’ इति श्रुतिभ्यः ज्ञातात्मा केनापि न दृश्यते । दृश्यत्वे सति घटस्येवात्मनो जडत्वमिथ्यात्वादिप्रसक्ते:- रूपेणात्मना कार्यकरणसङ्घाताद्यात्मक सर्वप्रपञ्चस्य भास्यमानत्वेनैव सर्वस्य दृश्यत्वात् । तस्य भासा सर्वमिदं विभा’ तीति श्रुतेः । प्रपञ्चावभासकादित्यादिज्योतिषामपि तेनैव भास्यमानत्वात्तस्य चानन्य- भास्यत्वादत एव स्वयंज्योतिष्टुप्रसिद्धि:, प्रत्यक्त्वप्रसिद्धिश्च । दीपादिप्रातिलोम्येन सर्वे जगदात्मानं चात्मने भासयतीति प्रत्यवपदनिरुक्तेर्दर्शितत्वात् । अनन्यभास्यत्वे सति सर्वावभासकत्वस्य स्वयंज्योति - लक्षणत्वात्, स्वयंज्योतिषि दीपादौ दर्शितलक्षणसमन्वयात्, अनन्यभास्यत्वे सत्यात्मने सर्वावभासकत्वस्य प्रत्यक्स्वयंज्योतिर्लक्षणत्वात् । अथ वा अनन्यभास्यत्वे सति सर्वावभासकत्वमित्येव प्रत्यवस्वयंज्योति- लक्षणम् । दीपादीनां च चक्षुरादिभास्यत्वसत्त्वान्न तत्रातिव्याप्तिर्लक्षणस्य । प्रकृतश्लोकेन च मां तु वेद न कश्चनेत्यनेनानन्यभास्यत्वस्य, अहं सर्व वेदेत्यनेन सर्वावभासकत्वस्य चोक्तत्वात्प्रत्यवस्वयंज्योतिर्लक्षण- पर एवायं श्लोकः । ननु अनन्यभास्यत्वे सति सर्वावभासकत्वमित्येतदात्मनो लक्षणमसम्भवि- आत्मनि ‘दृश्यते स्वग्र्यया बुद्धयेति बुद्धिवेद्यत्वश्रवणादिति चेन्मैवम् — विचारात्मिकया बुद्धया आत्मतत्त्वमीदृशमिति9) सप्तमोऽध्यायः । ४९ ज्ञानमात्रं जायते, न त्वात्मसाक्षात्कार :- तस्यानन्याधीनत्वादिति । कथमन्यथा ‘विज्ञातारमरे केन विजानीया’ दित्यादिश्रुतिविरोधनिरासः । अथ वा जाग्रत्स्वप्नवद्विक्षेपशून्यायां सुषुप्तिवल्लयशून्यायां च शान्तायामेकाग्रायां बुद्धौ पूर्वोक्त- लक्षणस्वयम्प्रभ आत्मा स्फुरतीति बुद्धिवेद्यत्योपचार आत्मन इति बोध्यम् । इदं चैतच्लोकोक्तमनन्यावभास्यत्वे सति सर्वावभासकत्वमात्मनो लक्षणं द्वैतादिमतेषु न सिद्ध्यति - भिन्नयोर्जीवेश्वरयोः परस्परवेद्यत्वसत्त्वेनानन्यावभास्यत्वाभावात् । न चेश्वरावभास्यत्वस्य जीवे सत्त्वेन जीवे प्रकृतिलक्षणासम्भवेऽपीश्वरे जीवावभास्यत्वाभावा- लक्षण सङ्गतिरिति वाच्यं, ’ तमेवं विदित्वातिमृत्युमे’ तीत्यादिना जीवज्ञेयत्वसत्त्वादीश्वरे । ‘यततामपि कश्चिन्मां वेत्ति तत्त्वत’ इतीहैवोक्तत्वात् । मुक्तौ जीवानामीश्वरसाक्षात्कारसत्त्वाच्च । अस्मन्मते त्वात्मन एव वेदितृत्वाद्वेद्यत्वाच्च न लक्षणानुपपत्तिः - आत्मावभास्यत्वस्यान्यावभास्यत्व- प्रतियोगित्वात् । आत्मा खल्वन्यप्रतियोगी; न ह्यन्यं यः कोऽप्यात्मत्वेन प्रत्येति । न चैकस्यैव कर्तृ- ‘कर्मत्वं कथमिति वाच्यं, मायया तदुपपत्तेः । न चास्त्यन्तर्यामिण ईश्वरस्य जीवानवभास्यत्वमिति वाच्यं, सुतरामन्तर्यामिण ईश्वरस्य जीवप्रमाऽविषयत्वे अन्तर्यामिण एवासिद्धेः । मां तु वेद न कश्वनेत्युक्तं तस्य फलमाह —मत्तत्वेति । आत्मज्ञानं विना आत्मभजना- सम्भवादिति भावः । नन्वयं श्लोक ईश्वरपर एव सर्वज्ञेश्वर श्रीकृष्णपरमात्मना अहमिति मामिति चोक्तत्वात् । अत एव तीतानागतवर्तमान सर्वभूतज्ञानरूपसर्वज्ञत्वोपपत्तिरिति चेनेति केनोक्तम् ? न च प्रत्यगात्मपर इति त्वयोक्तमिति वाच्यं प्रत्यगात्मा हीश्वरः । न चान्तःकरणावच्छिन्नः प्रत्यगात्मा, मायावच्छिन्नः परमात्मेश्वर इति वाच्यं, कृष्णस्यापि तच्छरीरान्तरान्तःकरणावच्छिन्नत्वेन प्रत्यगात्मत्वान्न हि कृष्णशरीरेऽन्तः करणाभावः, न वा तदवच्छिन्नप्रत्यगात्माभावः । कथमेवं प्रत्यगात्मनः कृष्णस्यापीश्वरत्वम् ? यदि प्रत्यगात्मा जीवः स्यात् । न च कृष्णशरीरगतान्तः करणं साक्षान्माया- परिणामत्वान्मायैवेति वाच्यं महत्तत्त्वात्मकस्याऽस्मदन्तःकरणस्यापि साक्षान्मायापरिणामत्वेन मायात्वा- पत्तेः । न च शुद्धसत्त्वात्मकत्वात्कृष्णान्तः करणं मायेति वाच्यं, योगिचित्तस्यापि शुद्धसत्त्वमयत्वेन मायात्वापत्तेः । न च कृष्णस्य सर्वभूतसाक्षात्काररूपसर्वज्ञत्ववत्त्वादीश्वरत्वमिति वाच्यं वसिष्ठादि- योगिनामपि जीवानां तद्वत्त्वेनेश्वरत्वापत्तेः । न च योगा द्यजन्यं सर्वज्ञत्वं कृष्णस्यास्तीति कृष्णस्सर्वज्ञ ईश्वर इति वाच्यं तत्रापि कृष्णशरीरान्तरान्तः करणावच्छिन्नप्रत्यगात्मन एव सर्वज्ञत्वेनेश्वरत्वात् । आत्माभासवशादेवान्तःकरणस्यापि ज्ञातृत्वलाभात् । न च यदि कृष्णोऽपि प्रत्यगात्मा अस्मदादिवत्त- सर्वज्ञ एव स्यान्न हि प्रत्यागात्मनामस्माकं सर्वज्ञत्वमनुभवसिद्धम् । न ह्यनुभवसिद्धं प्रत्यगात्मना - मसार्वश्यं शास्त्रशतेनापि निराकर्तुं शक्यते; तस्मात्सर्वज्ञः कृष्णः परमात्मैव न प्रत्यगात्मेति वाच्यं, यदि प्रत्यगात्मनां किंचिद्ज्ञत्वं स्वाभाविकं स्यात्तर्हि सदैकरूपमेव स्यात्तत्किञ्चिदज्ञत्वं; नतु तथा दृश्यते । . ५० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु बालस्याकाराद्यक्षरापरिज्ञानात्तस्यैव तरुणस्य वेदवेदाङ्गादिवित्त्वात्तस्यैव वृद्धस्य पुनस्तद्विस्माराच्च । किंच सुषुप्तावपि तत्किञ्चिद्ज्ञत्वं दृश्येत, न तु दृश्यते । तस्मादन्तःकरणधर्म एव किञ्चिदज्ञत्वमन्तःकरणं च संकोच विकासादिकं प्राप्नोति । लीने चास्मिन्नन्तः करणे सुषुप्तौ नास्ति किञ्चिदज्ञत्वोपलम्भः । एव- मन्तःकरणे सति किञ्चिदज्ञत्वसत्त्वं तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यां किञ्चिदज्ञत्वस्यान्तःकरण- धर्मत्वं स्थितम् । यथा किञ्चिदज्ञत्वं तथा सर्वज्ञत्वमप्यन्तःकरणधर्म एव । योगाभ्यासादिना योग्यन्तः- करणस्य विकसितस्य सर्वज्ञत्वसम्भवाद्वशिष्टविश्वामित्राद्यन्तःकरणस्य सर्वज्ञत्वसर्व कर्तृत्वादिश्रवणात् । अन्तःकरणस्य चायं धर्मः केवलं जडस्य चित्प्रतिबिम्ब सम्बन्धकृत एवेति तद्धर्म अरोप्यते चिति सर्वज्ञ आत्मा किञ्चिद्ज्ञ आत्मेति । वस्तुतस्त्वात्मनः अन्तःकरणादिसर्वावभासकत्वात्सर्वज्ञत्वं, सर्वज्ञस्य किश्चिद्ज्ञस्य वा अन्तःकरणस्य सर्वस्यापि साक्षी खल्वात्वा । तथा च सर्वज्ञान्तःकरण साक्षित्वात्प्रत्य- गात्मनि सर्वज्ञत्वोपचारः, किञ्चिदज्ञान्तःकरणसाक्षित्वात्किञ्चिद्ज्ञत्वेपचारश्च । नचैवमनन्यावभास्यत्वे सति सर्वावभासकत्व लक्षणस्य सर्वज्ञान्तः करणेऽतिव्याप्तिरिति वाच्यं तस्य साक्षिभास्यत्वेनानन्यभास्यत्वाभावात् । सर्वावभासकत्वं स्वतस्सर्वावभासकत्वमिति विवक्षितम् । तथा चान्तःकरणस्य चित्प्रतिफलनसामर्थ्यादेव भासकत्वं, नतु स्वत इति न तत्रातिव्याप्तिरिति वा । अनेन च सर्वज्ञान्तःकरणेनात्मनस्तादात्म्याध्यासात्सर्वज्ञः परात्मेति, किञ्चिदज्ञान्तः करणेनात्मन- स्वादात्म्याध्यासात्किञ्चिद्ज्ञः प्रत्यगात्मेति च भ्रान्ता व्यवहरन्ति । विवेकिनस्तु आत्मान्तःकरणयो- स्तादत्म्याध्यास निरस्य अन्तःकरणादिसर्वसाक्षित्वेन सर्वावभासकत्वात्प्रत्यगात्मानमेव सर्वज्ञमीश्वरं वदन्तीति स्थितम् । नन्वेवमीश्वरस्य कृष्णस्य स्वाभाविकानवाधिकातिशयासङ्ख्येययोगविभववदन्तःकरणत्वात्सर्वज्ञत्व- मर्जुनादीनां तु तादृशान्तःकरणरा हित्यादसर्वज्ञत्वमितीमं व्यवहारसिद्धमेव जीवेश्वर भेदमाश्रित्य अहं सर्वाणि भूतानि वेद मां तु न कश्चनेत्युक्तं कृष्णेन न तु तत्त्वदृष्टया तत्त्वत आत्मनि सर्वभूत- ज्ञानादिरूपान्तःकरणधर्म सर्वज्ञत्वाभावादिति चेन्मैवम् — तत्त्वकथनसमये शास्त्रदृष्टेरेव आश्रयणीयत्वेन लोकदृष्टेरनाश्रयणीयत्वात् । तादृशान्तःकरणादिसहितेश्वरस्य साकारस्य रामकृष्णादेस्सर्वविदितत्वेन मां तु वेद न कश्चनेति वचनस्यायुक्तत्वात् । न च प्रत्यगात्मनः परिच्छिन्नस्य सर्वभूतसाक्षात्कारो न सम्भवतीति वाच्यं प्रत्यगात्मनः परि- च्छिन्नत्वे घटादिवदनित्यत्वप्रसङ्गात् । ‘नित्यस्सर्वगतस्स्थाणुरचलोऽयं सनातन’ इति वाक्यविरोधात् । परिपूर्ण एव प्रत्यगात्मा । स च सर्वगतत्वात्सर्वं वेदैव; तदन्यस्य सर्वस्यापि जडत्वात्स एव सर्वे वेद; तंतु कोऽपि न वेद तदाभासयुक्तमप्यन्तःकरणं तन्नैव भासयेन्न हि सूर्यादिप्रतिबिम्बं सूर्यादिकं भासयति । इदं चान्तःकरणगतं वेत्तृत्वं तदन्तर्गतचिदाभासस्यैवेति चिद्धर्म एवायमिति न जड- स्यान्तःकरणस्य वेत्तृत्वप्रसङ्गः । तस्मात्स्वतो नास्त्येवान्तःकरणस्य किञ्चिद्ज्ञत्वं, सर्वज्ञत्वं वा जडस्येति सिद्धूमात्मन एव सर्वद्रष्टृत्वम् । सप्तमोऽध्यायः । ‘नान्योऽतोऽस्ति द्रष्टेति श्रुतिरप्यमुमेवार्थमाह- अतोऽस्मादात्मनोऽन्यो द्रष्टा नास्तीति श्रुत्यर्थः । यदि श्रुतिगतस्यात इत्यस्य जीवोऽर्थः तर्हि द्रष्टुरीश्वरस्य जीवादन्यस्य सिद्धत्वेन तदपलापः सम्भवति । यदि त्वीश्वरोऽर्थस्तर्हीींश्वरादन्यस्य जीवस्य द्रष्टुरपलापः । अथ वा जीवस्य दृश्यत्वेन जडत्वमनित्यत्वं चेति द्वैतिमते न श्रुत्युपपत्तिः । एवं श्रुतिविरुद्धत्वादेव तार्किकादिद्वैतमतान्यप्रमा- णानि । श्रुतेरेव प्रबलप्रमाणत्वात्तदनुग्रहादेव स्मृतीनां प्रामाण्यात् । एवं प्रत्यगभिन्नपरमात्मन एकस्यैव सर्वद्रष्टृत्वं, तदन्यस्यान्तःकरणादिसर्वप्रपञ्चस्यापि दृश्वत्वमिति सिद्धम् । न च भूतानि प्रत्यगात्मानः, अहंशब्दार्थस्तु परमात्मेति वाच्यं कार्यकरणसङ्घाताभिमानिन- स्तदात्मकास्साभासबुद्धयः प्राणिनो जीवा एवेह भूतानीति सिद्धान्तात् । भवन्तीति भूतानीति हि व्युत्पत्तिः । प्रत्यगात्मनोऽन्यत्सर्वमपि जगत्कार्यत्वेन भूतशब्दवाच्यं हि । प्रत्यगात्मात अजो नित्य इति मन्त्रान्न कार्यभूतः । स एवेह हंशब्दार्थ :- तदन्यस्य परमात्मनोऽभावात् । स चैक एव- द्रष्टृन्तर- निषेधश्रवणात् । स एव सर्वज्ञ :- क्षेत्रज्ञत्वात्सर्वस्य च क्षेत्रत्वात् । आभासोऽपि चित्कार्यत्वान्मिथ्यात्वाच क्षेत्रमेव बुद्ध्यादिवत् । आभासस्सत्य एव चिद्रूपत्वात्तस्य च चिद्भेदः कल्पित इति केचित् तन्मते तु आभासोऽपि प्रत्यगात्मैवेति न तस्य क्षेत्रत्वं बुद्ध्यादय एव क्षेत्रम् । नच चिच्चिदाभासयोरुभयोः कथं प्रत्यगात्मत्वमिति वाच्यं चिच्चिदाभासभेदस्य कल्पितत्वेन तदभेदस्य सिद्धत्वादेकैव चिदुपाधिवशा बिम्बप्रतिबिम्बाभावेन दृश्यते । यथा एकमेव मुखं दर्पणोपाधि- वशादिति बिम्बप्रतिबिम्बभावस्योपाधिकत्वेनातात्त्विकत्वादिति । अत्र च एकस्मिन्नेवाज्ञाने चित्प्रतिफलति; तत्र बिम्बभूता चिदीश्वरः; प्रतिबिम्बभूता तु जीव इति बिम्बप्रतिबिम्बभावेन जीवेश्वरयोः कल्पितं भेदमाहुः । एकस्मिन्नेवान्तःकरणे चित्प्रतिफलति । तत्र बिम्बभूता चित्कूटस्थः प्रत्यगात्मा, प्रतिबिम्बभूतस्तु जीव इति केचित् । अमं च बिम्बभूतं प्रत्यगात्मानमीश्वरं वक्ष्यति कृष्णएव ‘ईश्वरस्सर्वभूतानां हृदेशेऽर्जुन तिष्ठ’ - तीति प्रत्यग्रूपेण तिष्ठतीति तदर्थात् । सर्वथापि बिम्बचैतन्यमीश्वरः, प्रतिबिम्बचैतन्यं जीवः । श्लो॥ ‘स्वत्प्रभुजीवप्रियमिच्छसि चेन्नरहरिपूजां कुरु सततं प्रतिबिम्बालंकृतिविधिकुशला बिम्बालंकृतिमादधते । भव मरुभूमौ विरसायां त्वं चेतोभृङ्ग भ्रमसि वृधा भज भज श्रीलक्ष्मीनरसिंहानघपद सरसिजमकरन्दम् ॥’ इति शङ्कराचार्यो केश्च । अयं च प्रतिबिम्बो जीवः उपाधिभूतबुद्धिधर्मान् कर्तृत्वादीनात्मन्यध्यस्य संसरतीव, यथा सूर्यप्रति बिम्बस्तज्जलचलना चलतीव । बिम्बस्य तूपा घिसंयोगाभावादुपाधिसंयोगे सति प्रतिबिम्ब ध्यैवा- नुदयानोपाधिधर्मसम्बन्ध इति प्रत्यगात्मेश्वरो निर्विकारः । प्रतिबिम्बोपि वस्तुतो बिम्बाभिन्नत्वादविकार एव- उपाधितादात्म्यभ्रमात्तु विकारी वेति सिद्धं जीवस्यास्य संसारित्वमीश्वरा भेदश्च । ५३ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अयं च प्रतिबिम्ब: बुद्धितादात्म्याध्यासात् क्षेत्रत्वं प्रत्यम्बिम्बतादात्म्यात्तु क्षेत्रज्ञत्वं च प्रतिपद्यत इति प्रतिबिम्बस्य भूतत्वेन प्रत्यक्त्वेन च निर्देशस्सङ्गच्छते विवक्षाभेदात् । तथा च यः प्रतिबिम्ब आत्मानं चिद्रूपं वेद स ज्ञानी प्रत्यगात्मैव; यस्तु प्रतिबिम्ब आत्मानं कर्तारं भोक्तारं च वेद बुद्धितादात्म्याध्यासात्सोऽविद्वान् जीव एव न प्रत्यगात्मा - केवल प्रतिबिम्बस्य जीवत्वाभावेपि उपाधिधर्माध्यस्त प्रतिबिम्बस्य संसारित्वेन जीवत्वात् । अमुमेव जीवेश्वरविभागमाश्रित्य प्रवृत्तोऽयं श्लोकः वेदाहमिति । बिम्बभूत ईश्वरोऽहं प्रत्य- गात्मा सर्वाणि वेद भूतानि । यः प्रतिबिम्बो बिम्बप्रतिबिम्बैक्यरूपं तत्त्वं वेत्ति स च प्रत्यगात्मैवेति सर्वाणि वेद भूतानि, मां च वेद स्वाभिन्नमात्मानम् । यस्तूपाधितादात्म्यमापन्नः प्रतिबिम्बस्स सर्वाणि वेद, मां च न वेदेत्यर्थः । यः प्रतिबिम्ब एवं प्रत्यगात्मानं न वेद स किञ्चिदज्ञः ; यस्तु प्रतिबिम्ब आत्मानं वेद स सर्वज्ञ इति सिद्धं बिम्बस्येव प्रतिबिम्बस्यापि सर्वज्ञत्वम् । बिम्बैक्येऽपीमे प्रतिबिम्बा अनेकान्तःकरणानामने- कत्वात् । सूर्यैक्येपि तत्प्रतिविम्बानेकत्ववत् । अत एवैक ईश्वरो जीवा अनेके इति व्यवहारः । 1 वस्तुतस्तु बिम्बप्रतिबिम्बैक्याज्जीवेश्वरयो रभेद एव । कृष्णश्च वसिष्ठादिवदस्मदादिवच्च प्रतिबिम्ब एव । परं तु वसिष्ठादिव विम्बतादात्म्यमापन्नः, न त्वस्मदादिवद्बुद्धितादात्म्यमापन्नः अतएव बिम्बा- भेदमात्मनि सिद्धवत्कृत्य सर्वेश्वरं सर्वज्ञं प्रत्यगात्मानमहमित्यात्मत्वेन व्यवहरति । एवं वामदेवोऽप्यहं मनुरभवमित्यादि प्रोवाच । प्रह्लादश्च ‘मत्तस्सर्वमहं सर्वे मयि सर्वे सनातन’ इति । यस्तु बिम्बभूत ईश्वरस्स शुद्धचैतन्यं ब्रह्मैव तस्य नास्ति वक्तृत्वादिव्यवहारः- शरीराद्यभावात् । परं तु सर्व केवलं वेद- चैतन्यरूपत्वात् । ’ न तस्य कार्य करणं च विद्यते स सर्वज्ञस्सर्व वि’ दिति श्रुतेः । तस्मात्सिद्धं प्रत्यगात्मन ईश्वरस्य सर्वज्ञत्वमनन्यवेद्यत्वं च । नच ज्ञानिप्रतिबिम्ब जीववेद्यत्व- मस्तीति वाच्यं तस्य बिम्बानन्यत्वाद्ज्ञानिनः प्रतिबिम्बस्य । एतेनान्तःकरणादाव हमभिमानी प्रतिबिम्बो जीवः किञ्चिदज्ञः परतन्त्रः संसारी, बिम्बस्तु सर्वज्ञ ईश्वरः प्रत्यगात्मेत्योपाधिकजीवेश्वरभेदः । तत्प्रयुक्तः सर्वव्यवहारः । वस्तुतो जीवेश्वरैक्यादद्वैतं चेति सर्वमनवद्यं सिद्धम् । यथा मुखमेव दर्पणवशात्प्रतिमुखत्वेन प्रतीयते तथा चैतन्यमेवोपाधित्रश/ज्जीवत्वेन प्रतीयते; न तु वस्तुतो जीवोऽस्ति, यथा प्रतिमुखं वस्तुतो नास्ति । तथा च ब्रह्मैव मायया प्राप्त जीवभावं सत्संस- रति, विद्यया च विमुच्यत इव । न तु मायाद्युपाधिषु नीरूपेषु ब्रह्मणो नीरूपस्य कश्चिदस्ति प्रति- बिम्ब:- असम्भवात् । तदेवं परमार्थदृष्ट्या जीवस्यैव ब्रह्मत्वाज्जीव एव प्रत्यगात्मा सर्वज्ञश्च । तदन्य- त्सर्वे जडं दृश्यं च । अत एवोक्तं सर्वमहं वेद मां तु वेद न कश्चनेति / य एवमात्मानं न वेद स ब्रह्मापि जीवः किश्चिदज्ञोऽज्ञ एव । स चोपाधिभेदादनेक एत्र, तस्यैवेह भूतशब्देन ग्रहणम् । अयं हि कार्यकरणसङ्घाते भूतशब्दवाच्येऽहमभिमानी । सप्तमोऽध्यायः । ५३ केन पुनर्मत्तस्ववेदन प्रतिबन्धेन प्रतिबद्धानि सन्ति जायमानानि सर्वभूतानि मां न विजानन्तीत्यपेक्षायामिदमाह- इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ! सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ! ||२७||

इच्छेति । इच्छाद्वेषसमुत्थेन इच्छा च द्वेषश्च इच्छाद्वेषौ ताभ्यां समुत्तिष्ठतीति इच्छा- द्वेषसमुत्थस्तेन इच्छाद्वेषसमुत्थेन, केनेति विशेषापेक्षायामिदमाह - द्वन्द्वमोहेनेति । द्वन्द्व- निमित्तो मोहो द्वन्द्वमोहः तेन तावेव इच्छाद्वेषौ शीतोष्णवत् परस्परविरुद्धौ सुखदुःखतद्धेतु- विषयौ यथाकालं सर्वभूतैस्सम्बध्यमानौ द्वन्द्वशब्देन अभिधीयेते । तत्र यदा इच्छाद्वेषौ यश्चैवमात्मानं वेद स जीवोऽपि ब्रह्मैव तस्य च पूर्णत्वादात्मन एकत्वं ब्रह्मणः । तस्मात्तत्त्ववि - दूदृष्टया एक एवात्मा सर्वज्ञ ईश्वरः । यतत्त्वविदृष्ट्या स्वीश्वराद्भिन्ना अनेके जीवास्संसारिणः । तदनुसारेण चायं श्लोकः तत्त्वविदां सर्वज्ञ आत्मान्येत्वनात्मानो जडाः प्राणिन इति वाक्यार्थमतत्त्व - विदां तु सर्वज्ञ ईश्वरो जीवास्तु किश्चिदज्ञा नेश्वरज्ञा इति वाक्यार्थे च जनयतीति युक्तम् । यत्तु रामानुजः— मां कृष्णं कश्चनापीश्वरमवतीर्णे न वेदेति, तदसत् — मां न वेदेत्येव मूले स्थितत्वेन ईश्वरमवतीर्णमिति मूलाद्बहिः कल्पनस्याप्रमाणत्वात् । मां कृष्णं न वेदेति वर्णनं त्वयुक्तं - कृष्णस्य सर्वतात्कालिकजनविदितत्वात् ॥ २६॥ इच्छेति । पूर्वस्मिन् श्लोकभाष्ये मद्भक्तं मच्छरणमेकं मुक्त्वा मां कोऽपि न जानातीत्युक्तम् । तत्र शङ्कते - त्वदभक्तानां त्वदशरणानां च कार्यकरणसङ्घाताभिमानिनां जीवानां त्वत्तत्त्व वेदने कः प्रति- बन्ध इति केनेत्यादिना – यद्यपि योगमायाप्रतिबन्ध इति प्रागुक्तं, तथापि प्रतिबन्धान्तरं पृच्छति- पुनरिति, जायमानानीति । कार्यकरणसङ्घाततादात्म्याभ्यासाच्छरीरेषु जायमानेषु जीवा अपि जाय- माना इव प्रतिभान्तीति भावः । सर्वभूतानीति कार्यकरणसङ्घाताभिमानिनश्चिदाभासाः साभासबुद्धय इति वा । मामात्मानं न विजानन्ति, शरीरादिकं तेऽपि विजानन्त्येवेति मामित्युक्तम् । उक्तं हि भागवते बादरायणेनैव– ’ न यस्य सख्यं पुरुषो वै विसख्युस्सखा वसन् संवसतः पुरेऽस्मिन् । गुणो यथा गुणिनोऽव्यक्तदृष्टस्तस्मै महेशाय नमस्करोमि -’ इति कार्यकरणसङ्घाताभि- मानिनां जीवानामन्तर्यामी सङ्घातप्रवर्तकत्वात्सखाः तस्य च तादृशं सख्यं जीवो न वेति । यथा शरी- रादिकं जीवस्येति श्लोकार्थः । तथा च शरीरादिवेत्तृत्वादजडा जीवाः किमिति स्वमात्मानमेवेश्वरं न जानन्तीत्याक्षेपार्थः । इच्छा इष्टविषयेषु रागः; द्वेषोऽनिष्टविषये प्रीतिः समुत्तिष्ठति जायते द्वन्द्वनिमितो द्वन्द्वजन्यः; द्वन्द्वं निमित्त यस्य स इति बहुव्रीहेः । इच्छाद्वेषरूप द्वन्द्व निमित्तनो हेनेत्यर्थः । तावेत्र पूर्वोकावेवेत्यर्थः । इच्छाद्वेषसमुत्थेनेत्यत्रोत वेवेति यावत् । प्रीतिरूपस्य रागम्य द्वेषस्य चाप्रीतिरूपस्य परस्परविरोवा- दाह - परस्परविरुद्धाविति । तत्र दृष्टान्तमाह - शीतोष्णवदिति । सुखे सुखहेतुस्रगन्धादौ चेच्छा नायते, दु.खे दुःखहेतु चोरसर्पादौ च द्वेषो जायते पुंसामिति कृत्वाह - सुख दुःख उद्धेतुविषयाविति । ५४ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपैतासु सुखदुःख तद्धेतुसम्प्राप्त्या लब्धात्मकौ भवतस्तदा तौ सर्वभूतानां प्रज्ञायाः स्ववशापादनद्वारेण परमार्थात्मतत्त्वविषयज्ञानोत्पत्तिप्रतिबन्धकारणं मोहं जनयतः । नहीच्छाद्वेषदोषवशीकृत- चित्तस्य यथाभूतार्थविषयं ज्ञानमुत्पद्यते बहिरपि । किमु वक्तव्यं ताभ्यामाविष्टबुद्धेः सम्मूढस्य प्रत्यगात्मनि बहुप्रतिबन्धे ज्ञानं नोत्पद्यत इति । अतस्तेनेच्छाद्वेषसमुत्थेनं द्वन्द्व- मोहेन, भारत ! भरतान्वयज, सर्वभूतानि सम्मोहितानि सन्ति सम्मोहं सम्मूढतां सर्गे जन्मनि उत्पत्तिकाले इत्येतत् ; यान्ति गच्छन्ति हे परन्तप । मोहवशान्येव सर्वभूतानि जायमानानि जायन्त इत्यभिप्रायः । यत एवं अतस्तेन द्वन्द्वमोहेन प्रतिबद्ध प्रज्ञानानि सर्व- भूतानि सम्मोहितानि मामात्मभूतं न जानन्ति; अत एवात्मभावेन मां न भजन्ते ॥२७॥ सुखदुःखे तद्धेतू च विषयावाश्रयौ ययोस्तौ तथोक्तौ कालमनतिक्रम्य यथाकालं कालश्च कर्माधीन इति बोध्यम् । यस्य प्राणिनः यस्मिन् काले यथाप्रारब्धं यत्रेच्छा यत्र वा द्वेषो भवितव्यः, तस्य तस्मिन् काले तत्तद्विषये रागो द्वेषो वा भवतीत्यर्थः । तत्र एवं स्थिते इत्यर्थः । यदा यस्मिन् काले लब्धात्मकौ लब्धसत्ताकौ भवतः, उत्पद्येते इत्यर्थः । तदा तौ सर्वभूतानां मोहं जनयत इत्यन्वयः । तत्र द्वारमाह- प्रज्ञाया इति । बुद्धि रागद्वेषवशां विधायेत्यर्थः । मोहं विशिनष्टि — परमार्थेति । परमार्थस्सत्य आत्मा तद्विषयस्य ज्ञानस्योत्पत्तेः प्रतिबन्ध- कारणं, न तुत्पन्नज्ञानप्रतिबन्धको मोहः, किं तु ज्ञानोत्पत्तेरेव प्रतिबन्धक इत्यर्थः । तदेव विशदयति-

  • न हीत्यादिना । इच्छाद्वेषरूप दोषपरवशीकृतचित्तस्य बहिरपि भूतार्थ- विषयं ज्ञानं नोत्पद्यते हि भूतार्थाः सिद्धार्थाः स्त्र्यादयः सुभगायामपि स्त्रियां द्वेषे सति सुभगत्वज्ञाना- नुदयात् । दुर्भगायामपि रागे सति सुभगत्वज्ञानोदयाच्चेति भावः । बहिरपीत्यपिशब्दार्थमाह — किम्विति । बहवः प्रतिबन्धा यस्मिन् तस्मिन् बहुप्रतिबन्धे बहु- प्रतिबन्धे सतीति वा, प्रत्यगात्मविषयं ज्ञानम् । मूढस्य यथावस्थितबाह्यविषयज्ञानस्यैवानुदये यथावस्थि- तान्तरप्रत्यगात्मविषयज्ञानस्यानुदयः किं पुनर्वक्तव्य इत्यर्थः । संमोहं यान्तीत्यस्यार्थमाह-संमोहितानि सन्तीति । सम्यङ्मोहितानि भवन्ति । कदा यान्तीत्यत आह- सर्ग एवेति । मोहितान्येव जायन्ते, न तु जन्मानन्तरं मोहं यान्तीत्याह - मोहवशान्येवेति । अतिबालस्यापि मात्रादौ रागस्यान्यत्रारागस्य च दर्शनादिति भावः । प्रज्ञानमात्मज्ञानम् । मोहस्य कार्यमाह – मां न जानन्तीति । आत्मभावेनात्मेति बुद्धया- केचिन्मूढा आत्मनोऽन्य ईश्वर इति दार्वादिरूपमीश्वरं भजन्ते केचिदतिमूढा नास्तिका नैवेश्वरं भजन्त इत्यत उक्तमात्मभावेनेति । हे भारत! हे परन्तप ! सर्वभूतानि इच्छ द्वेषसमुत्थेन द्वन्द्वमोहेन सर्गे संमोहं यान्तीत्यन्वयः । रागद्वेषपरवशचितः पुमान् सर्वदाऽपीष्टवस्तुसिद्धयेऽनिष्टवस्तुनाशाय च यतमानः, इष्टविषय- सप्तमोऽध्यायः । ५५ के पुनरनेन द्वन्द्वमोहेन निर्मुक्तास्सन्तः त्वां विदित्वा यथाशास्त्रमात्मभावेन भजन्त इत्यपेक्षितमर्थ दर्शयितुमुच्यते- 1 येषां स्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ २८ ॥ येषामिति । येषां तु पुनरन्तगतं समाप्तप्रायं क्षीणं पापं जनानां पुण्यकर्मणां पुण्यं कर्म येषां सच्चशुद्धिकारणं विद्यते ते पुण्यकर्माणः तेषां पुण्यकर्मणां ते द्वन्द्वमोह निर्मुक्ताः यथोक्तेन द्वन्द्वमोहेन निर्मुक्ताः भजन्ते मां परमात्मानं दृढव्रताः । एवमेव परमार्थतत्त्वं नान्यथा इत्येवं सर्वपरित्यागतेन निश्चितविज्ञाना दृढव्रता उच्यन्ते ॥ २८॥ ते किमर्थं भजन्त इत्युच्यते- जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ २९ ॥ जरेति । जरामरणमोक्षाय जरामरणयोः मोक्षार्थं मां परमेश्वरमाश्रित्य मत्समाहित- प्राप्तिमनिष्टविषयनाशं च पुरुषार्थं मन्यमानः, तदुभयमेव कामयमानः, आत्मानात्मविवेकशून्यं कार्य- करणसङ्घाततादात्म्याभिमानेन मोहेनात्मानं कर्तारं भोक्तारं च मन्यमानः नात्मानमीश्वरं जानाती- तीच्छाद्वेषरूपद्वन्द्वमोह एवात्मज्ञाने प्रतिबन्धः । तन्नाशाय च रागद्वेषौ न कर्तव्यौ साधकेनेति प्रागेव प्रतिपादितं सूचितं चानेन ॥२७॥ येषामिति । पुण्यकर्मणां येषां जनानां तु पापमन्तगतं ते द्वन्द्वमोह निर्मुक्ता दृढव्रतास्सन्तः मां भजन्ते । अन्तं नाशं गतमन्तगतं ’ तद्विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपै’ तीति श्रुत्या मुक्तिदशायामेव पुण्यापापयोस्सर्वात्मना क्षय इत्यभिप्रेत्याह - समाप्तप्रायमिति । यद्वा मनुष्यजन्महेतु- भूतमिश्रकर्मणः प्रारब्धस्य यावद्देहपातमक्षीणत्वेपि तदन्यत्सर्वे पापं क्षीणमित्याह - क्षीणं पापमिति । देवपूजादिष्विवात्र व्रताभावात्कथं दृढव्रतत्वमत आह- निश्चितविज्ञाना इति । दृढं निश्चितं व्रतं ज्ञानं येषां ते, व्रततेर्गत्यर्थर्त्वात् ज्ञानार्थत्वम् । ज्ञानस्याकारं दर्शयति — एवमेवेति । सच्चिदानन्द- लक्षणमेवेत्यर्थः । परमार्थतत्त्वमात्मतत्त्वम् । एवकारार्थमाह - नान्यथेति । जन्मान्तरकृतादिह जन्मनि कृताद्वा निष्कामकर्मणः यज्ञादिरूपाद्योगादिरूपाद्वा पुण्यशब्दिता- चित्तशुद्धौ सत्यां रागादिदोषाश्चित्ते पदं न लभन्ते; प्रत्युत चित्तादपयान्ति ततश्चापैति मोहः; नष्टे च मोहे आत्मानात्मविवेको जायते; तत आत्मानं साक्षात्कृत्य तामेव भजन्ते तत्रैव रमन्ते च जीवा इत्यर्थः ॥२८॥ जरेति । एवमात्मभजनस्य मोक्ष एव फलमित्याह – जरेति । जरामरणयोरुपलक्षणमिदं जन्मादिविकाणाम् । मोक्षस्त्यागस्तस्मै; मयीश्वरे आत्मनि सम्यगाहितं स्थापितं चितं येषां ते मत्समा- हितचिताः, प्रयतते आत्मभजनरूपं प्रयत्नं कुर्वन्ति । तद्विदुरिति तच्छन्द्राद्यच्छन्द्रलाभ इत्यभिप्रेत्याह- ५६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु चित्तास्सन्तो यतन्ति प्रयतन्ते ये ते यत् परं ब्रह्म तद्विदुः कृत्स्नं समस्तमध्यात्मं प्रत्यगात्म विषयं वस्तु तद्विदुः कर्म चाखिलं समस्तं विदुः ॥ २९ ॥ । यत्परं ब्रह्म तद्विदुरिति । ब्रह्मशब्दस्य प्रकृत्यादिपरत्वभ्रमव्युदासायाह भाष्यकारः - - परं ब्रह्मेति परं सर्वजगद्विलक्षणं सर्वोत्कृष्टं वा । अध्यात्ममात्मनीति विभक्त्यर्थेऽव्ययीभावः । सप्तम्यास्तु विषयत्व - मर्थ इत्याह — प्रत्यगात्मविषयमिति । किं तदात्मविषयं कृत्स्नं यद्विदुरित्युच्यतेऽत आह- वस्त्विति । तत्त्वमित्यर्थः । सच्चिदानन्दरूपं सर्वज्ञत्व सर्वान्तरत्वादिरूपं वा कर्म यज्ञादिलक्षणम् । एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय श्रुत्या ब्रह्मणि विज्ञाते सर्व विज्ञातं भवतीत्युक्तत्वात् । आत्मनश्च ब्रह्माभिन्नत्वात्सर्वस्य च ब्रह्मकार्यत्वादात्मज्ञानाद्ब्रह्मज्ञानं सर्वज्ञानं च सम्भवति । जरामरणमोक्षश्च पुरुषार्थ- स्सिद्ध्यतीत्यर्थः । नन्वात्मविदामपि शुकादीनां मरणश्रवणाद्वसिष्ठादीनां च जरादर्शनात्कथं जरामरणमोक्षः ? स ह्यमृतपान विष्ण्वादिवरदानप्रयुक्त एव देवानां विभीषणमार्कण्डेयादीनां च जरामरणराहित्यदर्शनात्पुराणे- ष्विति चेन्मैवम् — देवादीनामपि ब्रह्मदिनप्रलये मरणसद्भावान्नामृतपानादिना मरणाभावः । परं तु जरामरणधर्म व देहतादात्म्याभावादेव । न ह्यात्मनोऽजस्य नित्यस्याविकारस्य जन्मादिसम्भव:, येनात्म- विदो जराद्यापत्तिः । अत्मविद्ध्यात्मा । ’ ब्रह्मविद्ब्रह्मैव भवतीति श्रुतेः, भविष्यतीत्यनुक्त्वा भवतीति वर्तमान निर्देशाश्च । यस्तु शुकादीनां देहत्यागः स यज्ञदृष्टधैव कल्पितः । यद्यात्मनः पूर्णस्यासङ्गस्य शरीरसंयोगोस्ति तहींदानीं तद्वियोगो भवतु नतु सोस्ति विरोधात् । तस्माल्लोकदृष्टचैव शुकादीनां मुक्तिरपि । उक्त हि प्रागेव बन्धमुक्त्यादिसर्वव्यतहार आध्यासिक इति । इह त्वात्मविद आत्मज्ञानाज्जरामरणादि- विकारवदनात्मतादात्म्याध्यास निवृत्तिरेवोच्यते, नतु मोक्षः । आत्मनो नित्यमुक्तत्वात् । अथ वा ज्ञानिनोऽपि प्रारब्धदेहधर्माणां जरामरणादीनामनुभवस्यावर्जनीयत्वादेतद्देहपरित्यागा- नन्तरमज्ञस्येव पुनर्देहसम्बन्धाभावान्नास्ति पुनर्जरामरणप्रसक्तिरित्यभिप्रेत्योक्तं जरामरणमोक्षार्थमिति । पुनर्जन्मनिवृत्त्यर्थमिति यावत् । नच ‘तत्त्वविदः प्राणा नोत्क्रामन्तीति श्रुतेः प्राणोत्क्रमणस्यैव मरणत्वात्कथं ज्ञानिनो मरणमिति वाच्यं, प्राणोत्क्रमणाभावेऽपि प्राणत्यागोऽस्त्येव तत्त्ववित्प्राणादीनां वाय्वादिषु लयश्रवणात् । ‘मृञ् प्राणत्याग’ इति मरणं वा प्राणत्यागः । न चैवमज्ञस्य सप्राणस्यैव लोकान्तरगमनात्कथं मरणमिति वाच्यं, शरीरात्माभिमानिनोऽज्ञस्य शरीरप्राणवियोगरूपप्राणत्यागसद्भावात् । यद्वा जरेत्युपलक्षणं- रोगादीनां; जरारोगादिप्रयुक्तस्य प्राणोत्क्रमणलक्षणस्य मरणस्य मोक्षार्थ- मित्यर्थः । तत्त्वविद एव हि प्राणोत्क्रमणासम्भवः । परिपूर्णस्य तस्य लोकान्तरगमनासम्भवात् । तस्मादात्मभजनस्य जरामरणमोक्षः परब्रह्मादिज्ञानं च फलम् ॥१९॥ सप्तमोऽध्यायः । साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ३० ॥ इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्र श्री कृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो- नाम सप्तमोऽध्यायः । ५७ साधिभूतेति । साधिभूताधिदैवं अधिभूतं चाधिदैवं च अधिभूताधिदैवं तेन सहा- धिभूताधिदैवेन वर्तत इति साधिभूताधिदैवं च मां ये विदुः साधियज्ञं च साधियज्ञेन साधि- यज्ञं ये विदुः प्रयाणकाले मरणकालेपि च ते मां विदुर्युक्तचेतसः समाहितचित्ता इति ॥ ३० ॥ इति श्रीपरमहंस परिव्राजकाचार्यवर्य श्रीगोविन्द भगवत्पूज्यपादशिष्य श्रीमच्छङ्करभगवत्पादकृतौ श्रीमद्भगवद्गीताभाष्ये ज्ञान- विज्ञानयोगो नाम सप्तमोऽध्यायः । साधिभूतेति । ये मद्भक्ता अधिभूताधिदैवाधियज्ञसहितं मां विदुः ते युक्तचेतसः प्रयाण- कालेऽपि मां विदुश्व । जीवद्दशायां दृढाभ्यासविषयस्यैव वस्तुनो मरणकालेऽपि स्मरणसम्भवात् । तथा च ‘यान्ते मतिस्सा गतिरिति न्यायेनान्ते नारायणस्मरणसिद्धयर्थं जीवद्दशायां नारायणभजनमवश्यं कर्तव्यं विषयेषु सङ्गं त्यक्त्वा मुमुक्षुभिः । भरतो हि मृगसङ्गेनान्ते मृगं स्मरन् न मुक्ति ययावपि तु मृगजन्मैव । अतः परब्रह्मसायुज्यायान्ते नारायणस्मरणमावश्यकं पुंसाम् । तच्च नारायणस्मरणं नारा- यणनामोच्चारणमात्रं न किं तर्हि प्रत्यगात्मनो नारायणस्य यत्तत्त्वं सच्चिदानन्दलक्षणं तस्य स्मरण सच्चिदानन्दं ब्रह्माहमस्मीति । तच्च विषयेषु रागद्वेषौ विहाय प्रत्यगात्मनि मनसस्समर्पण विना न सम्भवतीत्यभिप्रेत्याह– युक्तचेतस इति । येषां तु सन्निपातादिना मरणकाले चित्तसमाधानं दुर्लभं ते हि पुनर्जन्म प्रतिपद्य पूर्वाभ्यासवशेन पुनरात्मभजने यतन्ते - सर्वधाप्यन्ते नारायणस्मरणं विना न मुक्तिरिति स्थितम् । ‘काश्यां तु मरणान्मुक्ति’ रिति तु काश्यामन्तकाले शङ्करेण तारकमन्त्रे उपदिष्टे सति पुन - जन्मनि तारकोपासनपूर्व कमात्मज्ञानं लब्ध्वा मुच्यते जन्तुरित्यभिप्रायगर्भे वाक्यम् । न च ज्ञानान्मुक्ति- रिति श्रुतिविरोधः, अन्तकालोपलक्षितज्ञानान्मुक्तिरिति तदर्थात् । ज्ञानाज्जीवन्मुक्तिरिति वा । वस्तुतस्तु नित्यमुक्तस्यात्मनो न कोऽपि बन्घो मोक्षो वा । ज्ञानी त्वात्मैवेति न तस्यान्तकाले जीवद्दशायां वा किञ्चिदात्मस्मरणादिकं मुक्तये कर्तव्यमस्ति - ज्ञानादेव कृतकृत्यत्वात् । येषां तु नास्ति तादृशं निश्वयज्ञानं तेषामन्तकाले नारायणस्मरणं कर्तव्यमिति बोध्यम् ॥३०॥ इति श्रीबेल्लं कोण्डोपनामकरामकविकृते श्रीमच्छङ्करभगवद्गीताभाष्यार्कप्रकाशे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ।