श्रीहयग्रीवाय नमः । भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु- श्रीभगवद्गीतासु षष्ठाध्यायप्रारम्भः । अतीतानन्तराध्यायान्ते ध्यानयोगस्य सम्यग्दर्शनंप्रत्यन्तरङ्गस्य सूत्रभूताः श्लोकाः ‘स्पर्शान् कृत्वा बहिर्बाह्यानित्यादय’ उपदिष्टाः तेषां वृत्तिस्थानीयोऽयं षष्ठोऽध्याय आरभ्यते । तत्र ध्यानयोगस्य बहिरङ्ग कर्मेति यावद्ध्यानयोगारोहणासमर्थः तावद्गृहस्थेन अधिकृतेन कर्तव्य कर्मेत्यतः तत् स्तौति । ननु किमर्थं ध्यानयोगारोहणसीमाकरणं यावतानुष्ठेयमेव विहितं कर्म यावज्जीवं, न– ‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यत’ इति विशेषणादारूढस्य च शमेनैव सम्बन्धकरणात् । आरुरुक्षोरारूढस्य च शमः कर्म चोभयं कर्तव्यत्वेनाभिप्रेतं चेत् स्यात्तदा आरुरुक्षो रारूढस्येति शमकर्मविषयभेदेन विशेषणं विभागकरणं चानर्थकं स्यात् । पञ्चमाध्यायानन्तरं षष्ठाध्यायकथने का वा सङ्गतिरिति शङ्कां निराकरिष्यमाणः वृत्तानुवादपुर- स्सरमध्यायान्तरमवतारयति - अतीतेति । पञ्चमाध्यायान्ते आत्मज्ञानंप्रत्यन्तरङ्गसाधनस्य ध्यानयोगस्य : सूत्रभूता श्लोकाः “स्पर्शान्कृत्वा बहिर्बाह्यान्” इत्यादयो उपदिष्टाः । तेषां विवरणस्थानीय एष षष्ठोऽध्यायः । तत्र प्रथमं तावद्यावद्ध्यानयोगाररोहणासमर्थ: गृहस्थः तेन अधिकृतेन ध्यानयोगबहिरङ्ग- साधनं कर्म शास्त्रविहितमनुष्ठेयं, यदा तु ध्यानयोगारोहणसमर्थो भवति तदा कर्मोपरम इति भावः । एतेन पञ्चमाध्यायानन्तरं षष्ठाध्यायकथने हेतुहेतुमद्भाव एव सङ्गतिरिति सूचितम् । ध्यानयोगारोहणसीमाकरणमिति । यावद्ध्यानयोगारोहणसामर्थ्यं तावदिति मर्यादाया विधानमित्यर्थः । यावता निश्वयेनेत्यर्थः । विहितं कर्म यावज्जीवं मरणपर्यन्तमित्यर्थः । अनुष्ठेयमेष- " यावज्जीवमग्निहोत्रं जुहुया " दिति श्रुतेरिति भावः । 1 परिहरति - नेति । “आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥” इति वक्ष्यती हैवाध्याये भगवान् योगमारुरुक्षोः कर्मणा सम्बन्धः; योगारूढस्य तु शमेन सर्वकर्मसन्न्यासात्मकेन सम्बन्धः भगवदभिप्रेतः । ततश्च यावद्ध्यानयोगा रोहण समर्थस्तावत्कर्म कुर्यात्, सति तु योगारोहणे सन्न्यासमेव कुर्यादिति न यावज्जीवं कर्म करणम् । । T ननुभयस्योभयं कर्तव्यत्वेनाभिमतं भगवत इति शङ्कते - आरुरुक्षोरिति । अभिप्रेत स्याच्चदि त्यन्वयः । शङ्कां निराकरोति - आरुरुक्षोरिति । मुनेरारुरुक्षुत्वमित्यारूढत्वमिति च विशेषणं व्यर्थ – मुनेश्शमः कर्म च कर्तव्यमिति वचनादेव आरुरुक्षोरारूढस्य च मुनेरुभयकर्तव्यत्वसिद्धेः । २४२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तत्राश्रमिणां कश्चिद्योगमारुरुक्षुर्भवत्यारूढश्च कश्चिदन्येनारुरुक्षवो न चारूढास्ता- नपेक्ष्यारुरुक्षोरारूढस्य चेति विशेषणं विभागकरण चोपपद्यत एवेति चेन्न, तस्यैवेति वचना- त्पुनर्योगग्रहणाच्च योगारूढस्येति य आसीत् पूर्वं योगमारुरुक्षुस्तस्यैवारूढस्य रामएव कर्तव्यः, कारणं हि योगफलं प्रत्युच्यत इत्यतो न यावज्जीवं कर्तव्यत्वप्राप्तिः कस्यचिदपि कर्मणः । ननु स्पष्टार्थं विशेषणमत आह— विभागकरणश्चेति । आरुरुक्षोः कर्म कारणमिति, आरूढस्य शमः कारणमिति च विभागकरणं व्यर्थमुभयेनोभयस्यापि कर्तव्यत्वात् । ननु योगमारुरुक्षोर्मुनेर्यत्कर्मयोगारूढस्य मुनेर्यश्च शमः- तदुभयमनारुरुक्षिऩयोगा नाम नारूढयोगानां च कर्तव्यत्वेन भगवताभिप्रेतमिति शङ्कते - तत्त्रेत्यारभ्य चेदित्यन्तेन ग्रन्थेन । तत्रेत्यस्य व्यवहारभूमा- वित्यर्थः । अनारुरुक्षूणा मनारूढनां चेति पदद्वयस्य मूले शेषः । योगमारुरुक्षोर्मुनेर्विहितं कर्म कारण- मुच्यते, योगारूढस्य तस्य मुनेश्शम एव शमश्च कारणमुच्यत इति पूर्वपक्षिमतानुसारेण श्लोकस्यान्वयः । परिहरति-नेति । -नेति । कारणमाह - तस्यैवेति वचनादिति । यः पूर्वं योगमारुरुक्षुरभवत्स एवेदानीं योगमारुढो भवति । अतएव तस्यैवेति तत्पदेन पूर्वोक्तप्रकृतयोगारुरुक्षुग्रहणम् । ततश्च आरुरुक्षुत्वारूढत्वयोः कालभेदेनैकपुरुषनिष्ठत्वादाश्रमिणां मध्ये कश्चिदारुरुक्षुः कश्चिदारूढश्चेति पुरुष- भेदवर्णनमयुक्तमिति भावः । कारणान्तरमाह – पुनरिति । योगारूढस्येति पुनर्योगग्रहण | चित्यन्वयः । आरूढस्येत्येतावत jarat योगमारुरुक्षुरित्यतो योगपदस्यावाप्यनुवर्तनेन योगमारूढस्येतीष्टसिद्धौ व्यर्थं पुनर्योगपदग्रहण- मित्यर्थः । नचेदं चोद्यं सिद्धान्तेपि समानमिति वाच्यं, सिद्धान्ते पुनर्योगपदाभावे य एय योगमारुरुक्षुस्स एवारूढ इत्युक्तौ किमारूढ इत्याकांक्षायां योगमिति वक्तुं न शक्यते - एकस्मिन्नेकदा आरुरुक्षुत्वारूढ- त्वयोः स्थित्ययोगात् । तथा च आसनादिकमारूढ इत्यापतेदिति । नच यः पूर्व योगमारुरुक्षुस्स इदानीमारूढः किमारूढ इति शङ्कायां सान्निध्याद्योग मेवेति वाच्यं यः पूर्वे यत्कामितवान् स इदानीं तदेवाप्तवानित्यत्र नियामकाभावात् । पूर्वं काश जिगमिषु- रिदानीं रामेश्वरं गत इति दर्शनाच, पूर्वस्मिन्नहनि सोऽहं यज्ञं करिष्यइति सङ्कल्पितवतः पुरुषस्य परस्मिन्नहनि वैराग्यात्कर्म सन्न्यासस्य दर्शनाच्च । तस्माद्यः पूर्व योगमारुरुक्षुस्स इदानीं योगमारूढ इति पुनरवश्यं वक्तव्यो योगशब्दः । . पूर्वपक्षिमतेतु- योगमारुरुक्षोरारूढस्य च कर्म शमश्व कारणमित्येतावतैव योगमा रूढस्येति सिद्ध्यतीति व्यर्थमेव पुनर्योगग्रहणम् । शम एवेति नतु कर्मेत्येवकारार्थः । ननु मूले शमः कारणमुच्यत इत्येवोक्तं, न तु शमः कर्तव्य इत्यत आह- कारणमिति । हि यतः शम इति शेषः । योगफलंप्रति कारणमुच्यते तत- श्शमः कर्तव्य इति सिद्ध्यतीत्यर्थः । योगफलंप्रति शमस्य साधनत्वाद्योगफलार्थिना शमः कर्तव्य इति मूलेन सूचितमिति भावः । योगफलं सम्यग्दर्शनमिति विवेकः । षष्ठोऽध्यायः । २४३ योगविभ्रष्टवचनाच्च गृहस्थस्य चेत्कर्मिणो योगो विहितः षष्ठेऽध्याये - स योगविभ्र- ष्टोपि कर्मगतिं कर्मफलं प्रप्नोतीति तस्य नाशाशङ्कानुपपन्ना स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा मोक्षस्य नित्यत्वादनारभ्यत्वे स्वं फलमारभत एव नित्यस्य च कर्मणो वेदप्रमाणावबुद्धत्वात् । फलेन हि भवितव्यमित्यवोचाम - अन्यथा वेदस्यानर्थक्यप्रसङ्गादिति । नच कर्मणि सत्युभयविभ्रष्टवचनमर्थवत् कर्मणो विभ्रंशकारणानुपपत्तेः । कर्म कृत- मीश्वरे सन्न्यस्तमिति अतः कर्तुः कर्मफलं नारभत इति चेन्न, ईश्वरे सन्न्यस्तस्य अधिकतर - फलहेतुत्वोपपत्तेः । अत इति । योगारूढस्य कर्म कर्तव्यत्वाभावादित्यर्थः । कस्यचिदपि कर्मणो यावज्जीव कर्तव्यत्वप्राप्तिर्नेत्यन्वयः । उक्तार्थे हेत्वन्तरमाह - योगविभ्रष्टवचनाच्चेति । ‘कच्चिन्नोभयविभ्रष्टरिनाभ्रमिव नश्यतीति, शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते’ इति च योगभ्रष्टप्रतिपादनात् । संग्रहवाक्यमेव विवृणोति – गृहस्थस्येत्यादिना । अर्जुनेन योगभ्रष्टस्य नाश आशंकितः – “कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यतीति । योगो ध्यानयोगस्तस्यैवेह प्रकृतत्वात् । तस्माद्रष्टो योग- भ्रष्टः यस्य योगो विहितस्स एव ततो अंशमाप्तुमर्हति न त्वन्यः । नहि शूद्रः कर्मभ्रष्टो भवेत्, किंतु द्विज एव तस्यैव कर्मविधानात् । तथा च यदि गृहस्थस्य ध्यानयोगो विहितस्तर्हि योगभ्रष्टस्य गृहस्थस्यार्जुनेन नाश आशंकितस्स्यात्तच्चानिष्टं- ध्यानयोगाद्रष्टोपि गृहस्थः पुनः कर्मणि स्थित्वा तत्फलं प्राप्नुयादेवेति । ननु नास्ति कर्मणां फलमिति वादिनंप्रत्याह- अवश्यमिति । अनारभ्यत्वे अकार्यत्वे नित्यत्वादकार्यमेकं मोक्षरूपं फलं विहाय तदतिरिक्ता धर्मार्थकामास्त्रयोपि कर्मभिरारभ्यन्त एव । ननु काम्यस्य कर्मणः कामप्रयुक्तत्वादस्तु फलवत्त्वं, नित्यस्य तु तन्नास्ति अकामप्रयुक्तत्वादित्यत आह– नित्यस्य चेति, अन्यथेति । नित्यस्य वेदमूलस्य कर्मण: फलाभाव इत्यर्थः । आनर्थक्य- मिति । निष्फलनित्यकर्म विधानादिति भावः । एवं योगभ्रष्टस्यापि गृहस्थस्य फलप्रदकर्मसत्त्वात् छिन्नाभ्रमिव नश्यतीत्येतन्नाशाशङ्काऽनुचितार्जुन- स्येति प्रतिपाद्य, कच्चिन्नोभयविभ्रष्ट इत्यंशमपि विवृणोति — नचेति ।
उभयविभ्रष्टत्वनाम कर्मयोगध्यानयोगद्वयतो विभ्रंशः नायं गृहस्थस्य घटते तस्य कर्मसत्त्वा- दित्याह - कर्मणि सतीति । कर्माण्यसन्न्यस्यैव ध्यानयोगे प्रवृत्तत्वाद्गृहस्थस्य यदा ध्यानयोगाद्भ्रंश- स्तादा कर्मयोगे स प्रवर्तत एवेति कथमस्य कर्मयोगाद्भ्रंशः, न कथमपीति भावः । ननु कर्मणो विभ्रंशकारणमस्ति कर्मणामीश्वरार्पणात्मकमिति शङ्कते - कर्म कृतमिति । अतः ईश्वरार्पितत्वादित्यर्थः । कर्मेति कर्तृपदं । नारभते न जनयतीत्यर्थः I ३४४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मोक्षायैवेति चेत् स्वकर्मणां कृतानामीश्वरे सन्न्यासो मोक्षायैव न फलान्तराय योग- सहितो योगाच्च विभ्रष्ट इत्यतः तं प्रति नाशाशङ्का युक्तैवेति चेन्न, एकाकी यतचित्तात्मा निराशीरपरिग्रहः ब्रह्मचारित्रते स्थित इति च कर्मसन्न्यासस्य विधानान्न चात्र ध्यानकाले स्त्रीसहायत्वशङ्का, येन एकाकित्वं विधीयते । नच गृहस्थस्य निराशीरपरिग्रह इत्यादिवचन- मनुकूलं- उभयविभ्रष्टप्रश्नानुपपत्तेश्च । यद्वा कर्मयोग विहाय ध्यानयोगे प्रवृत्तः तमपरिसमाप्यैव मृतो यो गृहस्थः स उभयभ्रष्ट इत्युच्यत इति पूर्वपक्षमभिप्रेत्याह — नचेति । कर्मणि सतीति । कर्मसन्न्यासस्याकृतत्वादित्यर्थः । नच कर्मयोगाननुष्ठानमेव सन्न्यास इति वाच्यं शूद्रस्यापि सन्न्यासित्वापत्तेः । तस्माद्विधिपूर्वकः कर्मसन्न्यास एव सन्न्यासः । स यस्यास्ति तस्य सन्न्यासिनः कर्म नास्ति । अन्यस्य त्वस्त्येवेति । ननु यदितःप्राक् गृहस्थेनं कर्म कृतं तदीश्वरायार्पितमेवेति नास्ति गृहस्थस्यास्य कर्मेति शङ्कते - कर्म कृतमिति । अधिकतरेति अनीश्वरसमर्पितकर्मफला पेक्षयात्यधिकेत्यर्थः । ननु मोक्षापेक्षया कर्माणीश्वरे समर्पितानि कर्मयोगिना - अतस्तानि कर्माणि मेक्षेतरं फलं जनयितुं नेशते - सच मोक्षः परिपक्ककर्मयोगसाध्यः - कर्मयोगपरिपाकश्च यावज्जीवमनभिसंहितफलकर्मानु- ष्ठानादेव भवति नतु मध्ये कर्मत्यागात् तस्माद्यः कर्मयोगमनुतिष्ठन् तं विहाय ध्यानयोगमाश्रित्य तमप्यपरिसमाप्यैव मृतो गृहस्थः स कर्मयोगाद्ध्यानयोगाच्च भ्रष्ट इत्युभयभ्रष्ट एवेति शङ्कते - मोक्षायैवेति चेदिति । संग्रहवाक्यं विवृणोति — स्वकर्मणामिति ।
अत्र योगपदं कर्मयोगध्यानयोगोभयपरं योगद्वयसहितो योगद्वयाद्रष्टश्चेत्यर्थः । अतः उभय- भ्रष्टत्वादित्यर्थः । तं प्रतीति एवमुभयभ्रष्ट गृहस्थंप्रतीत्यर्थः ।
1 परिहरति नेति । “योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ प्रशान्तात्मा विगतभीर्ब्रह्मचारित्रते स्थितः । मनस्संयम्य मचिसो युक्त आसीत मत्परः ||” इतीव वक्ष्यते । एतच्छोको काना मे का कित्व | परिग्रहत्व ब्रह्मचर्याणां गृहस्थेऽसम्भवात्सन्न्यासि - विषय एवायं ध्यानयोगो न गृहस्थविषय इत्यर्थः । ननु एकाकीत्यनेन सन्न्यासी नोच्यते, किंतु गृहस्थ एव । सद्वितीयस्यापि तस्य ध्यानका ले स्त्रीवियोगेन एकाकित्वमप्युपपद्यत इत्यत आह-नचेति । यदि ध्यानकाले स्त्रीसहायत्वशङ्का स्यातर्हि तन्निवृत्तये एकाकित्वविधानं सार्थकं स्यात् नतु तदस्ति, नहि कर्मकाल इव ध्यानकाले गृहस्थेन स्त्रीसहायेन भाव्यमिति विधिरस्ति, तस्मान्नात्रैकाकिशब्दस्य स्त्रीसहायरहित इत्यर्थः । किंतु सन्न्यासीत्येव । ननु एकाकिनच्चासहाया इति एकाकिशब्दस्यासहाय इत्यर्थः । तच्चासहायत्वं गृहस्थस्य ध्यान - काले आवश्यकनिति भवतु, यथा कथञ्चिद्गृहस्थस्याप्य सहायत्वविविरत आह-न च गृहस्थ- षष्ठोऽध्यायः । ३४५ अनाश्रित इत्यनेन कर्मिण एव सन्न्यासित्वं योगित्वं चोक्तं प्रतिषिद्धं च निरग्ने- रक्रियस्य च सन्न्यासित्वं योगित्वं चेति चेन्न, ध्यानयोगंप्रति बहिरङ्गस्य सतः कर्मणा फलाकांक्षा सन्न्यासस्तुतिपरत्वान्न केवलं निरग्निरक्रिय एव सन्न्यासी योगी च, किं तर्हि स्येति । कामपरिग्रहाभावादीनां गृहस्थेऽसम्भवात्तत्साधारण्यादेकाकित्वमपि सन्न्यासिविषयमेवेत्यर्थः । पूर्वोक्तमेव कारणं पुनराह — उभयेति ।
ननु योगसहितस्य योगाच्च विभ्रष्टस्य गृहस्थस्योभयभ्रष्टत्वमुपपद्यत एवेति प्रागुक्तशङ्कायाः कः परिहारः १ येनोभयविभ्रष्टप्रश्नानुपपत्तेश्चेति वक्तुं शक्यत इतिचेत्, उच्यते - एकाकीत्यादिना सन्न्यासिन एव ध्यानयोगेऽधिकारस्य विहितत्वाद्गृहस्थस्य ध्यानयोगारोहणं नास्त्येव - येन कर्मयोगत्याग आशङ्कयेत, गृहस्थस्य भ्रंशहेतु :- एवं गृहस्थस्य ध्यानयोगारोहणाभावादेव न कर्मयोगाद्भ्रंशः, नापि ध्यानयोगादिति नास्ति गृहस्थस्योभयभ्रष्टत्वप्रसक्तिः । सन्न्यासिनस्तु सोस्ति- कर्माणि सन्न्यस्य ध्यानयोगमधिष्ठितत्वेन कर्मफलभ्रंशाद्ध्यानयोगस्य चापकत्वेन ध्यानयोगभ्रंशाच । नहि कर्माणि सन्न्यस्य ध्यानयोगे प्रवृत्तस्सन्न्यासी ध्यानयोगानुष्ठान- स्याशक्यत्वे तं विहाय पुनः कर्मसु प्रवर्तितुमर्हति । नच सन्न्यासिनोपि प्रागनुष्ठितकर्मफलसत्त्वात्कथमुभयभ्रंश इति वाच्यं, सर्वकर्मसन्न्यासेन पूर्वा- चरितसर्वकर्मफलत्यागस्यापि कृतत्वात्पूर्वा चरितकर्मफलभूतस्वर्गादिकामस्य सन्न्यासेऽनधिकारात् इहामुत्र- फलभोगविरागस्य सन्न्यासहेतुत्वात्, “यदहरेव विरजेत्तदहरेव प्रत्रजे ‘दिति श्रुतेः । न सन्न्यासिनो गृहस्थाश्रमसमयानुष्ठितयज्ञादिकर्मफलसम्भवः, चित्तशुद्धिस्तु दृष्टफलमेवेति न तन्निराकर्तुं त्यक्तं वा शक्यते । तस्मात् सन्यासिनः पूर्वाचरितकर्मवैफल्यात, सन्न्यासाश्रमस्वीकारानन्तरं कर्मणामकर्त- व्यत्वाच न कर्माणि सन्तीति कर्मभ्रंशस्तावत्सम्पन्नः । ध्यानयोगस्याप्यसाघितत्वेन तु योगभ्रंशश्च जायते । अत उभयभ्रष्टत्वं सन्यासिन एवोपपद्यत इति कृत्वा गृहस्थविषयोभयभ्रष्टप्रश्नानुपपत्तिदुर्वारैव । एतावता यावद्ध्यानयोगारोहणासामर्थ्यं तावद्गृहस्थेन कर्म कर्तव्य, सति तु सामर्थ्य सन्न्यस्य ध्यानयोगः कर्तव्य इति सन्न्यासिन एव ध्यानयोगेऽधिकारः ज्ञानयोगवत् - नतु गृहस्थस्येति सिद्धम् । ननु अनाश्रितः कर्मफलमिति प्रकृतश्लोकेन कर्मिण एव सन्न्यासित्वं योगित्वं चोक्तं- ‘स सन्न्यासी च योगी’चेति अनग्नेरक्रियस्य च सन्यासित्वं योगित्वं च प्रतिषिद्धम्- ‘न निरग्निर्न चाक्रिय’ इति । तथा च यः कर्मयोगी गृहस्थस्स एव सन्न्यासी ध्यानयोगी च, नतु त्वदुक्तसन्न्यासाश्रमी सन्न्यासी योगी वा भवितुमर्हतीति गृहस्थस्य कर्मिण एव ध्यानयोगेऽधिकारः, नतु सन्न्यासिन इति भगवतो मतमित्याक्षि- पति - कर्मिण एवेति । यद्वा सन्न्यास इति कश्चनाश्रमो नास्त्येव, किं तर्हि कर्मफलसन्न्यासी गृहस्थ एव सन्न्यासीति भगवतो मतमित्याक्षिपति – कर्मिण एवेति । परिहरति–नेति । स्तुतिपरत्वादिति दर्शितवचनस्येत्यर्थः । फलाकांक्षायाः सन्न्यासः त्यागः तस्य स्तुतिः तत्परत्वात् । स्तुतिप्रकारमेव दर्शयति न केवलमित्यादिना स्तूयत इत्यन्तेन प्रन्थेन ।
२४६ श्रीभगवद्गीता - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कर्म्यपि कर्मफलासङ्गं सन्न्यस्य कर्मयोगमनुतिष्ठन् सत्रशुद्धयर्थं सन्न्यासी च योगी च भवतीति स्तूयते । न चैकेन वाक्येन कर्मफलासङ्गसन्न्यासस्तुतिश्चतुर्थाश्रमप्रतिषेधश्चोपपद्यते । नच प्रसिद्धं निरग्नेरक्रियस्य च परमार्थसन्न्यासिनः श्रुतिस्मृतिपुराणेतिहासयोग- शास्त्रविहितं सन्न्यासित्वं योतित्वं च प्रतिषेधति भगवान् स्ववचनविरोधाच्च सर्वकर्माणि मनसा सन्न्यस्य नैव कुर्वन्नकारयन् आस्ते मौनी सन्तुष्टो येन केनचित् अनिकेत स्थिरमतिः ‘विहाय कामान् यस्सर्वान् पुमांश्चरति निस्पृहः, सर्वारम्भपरित्या’ गीति च तत्रतत्र भगवता स्ववचनानि प्रदर्शितानि तैर्विरुध्यते चतुर्थाश्रमप्रतिषेधः । यः कर्मफलमनाश्रित्य कार्य कर्म करोति सच सन्न्यासी योगी च भवति निरग्निरक्रिय एव सन्न्यासी योगी च न । इति श्लोकस्यान्वयः + कर्मफलासङ्गं सन्न्यस्य त्यक्त्वा सत्त्वशुद्धयर्थं कर्मयोगमनुतिष्ठन् कर्म्यपीति भाष्यान्वयः । ननु ‘सन्न्यासी च योगी’ चेत्यनेन कर्मयोगिस्तुतिः, ‘न निरग्निर्न चाक्रिय’ इत्यनेन सन्न्यासप्रतिषेधश्च भगवताऽभिप्रेत इत्यत आह-न चैकेनेति । वाक्य भेदाभावात् तादृशाभिप्राय- कल्पना नोपपद्यत इत्यर्थः । ननु श्लोकैकत्वेपि वाक्यस्य द्वित्वमस्त्येव, अनाश्रित इत्यारभ्य योगीचेत्यन्तमेकं वाक्यं, न निरग्निर्न चाक्रिय इति द्वितीयं वाक्यमतो नात्रैकवाक्यत्वम् । यद्वा यः कर्मफलमनाश्रित्य कार्य कर्म करोति स एव सन्न्यासी योगी चेत्येव, वाक्यं स एवेत्येवकारार्थविवरणं न निरग्निर्नचाकिय इत्यतो न वाक्यद्वित्वम् । तथा च एकेनैव वाक्येन कर्मस्तुतिसन्न्यासप्रतिषेधावुपपद्येते एव, यथा ‘आत्मैव ह्यात्मनो बन्धु’ रित्यत्र आत्मनो बन्धुत्वमन्यस्याबन्धुत्वश्चेति द्वयमेकेन वाक्येन बोध्यते तद्वदित्यत्राह न च प्रसिद्धमिति । प्रसिद्धं सन्न्यासित्वं योगित्वं च न च प्रतिषेधति भगवानित्यन्वयः ! ननु श्रुत्याद्यपेक्षया सर्वज्ञस्य भगवतस्सर्वस्वतन्त्रस्य प्रमाणत्वाच्छुत्यादिविरुद्धमपि भगवान् ब्रूया- देव, तदेव भगवद्वचनमस्माकं प्रमाणमपीत्यत आह- स्ववचनविरोधाच्चेति । खवचनान्येवोदाहरति– सर्वकर्माणीत्यादिना । ’ यदहरेव विरजेत्तदहरेव प्रत्रजे’ दित्यादयश्श्रुतयः । ’ यथोक्तान्यपि कर्माणि परीहाय्य द्विजोत्तमः’ इत्यादयः स्मृतयः । भागवतादिपुराणेषु च प्रसिद्ध सन्न्यासः । वस्तुतस्तु - सिंहो माणवक इतिवत्कर्मी सन्न्यासीति वचनं गौणं स्तुतिपरमित्यविवादम् | साच स्तुतिः प्रसिद्ध सिंहवत्प्रसिद्धसन्न्यासिनस्तत्त्व एव सम्भवति न त्वत्यन्तासत्वे । नहि प्रसिद्ध सिंहस्याभावे सिंहो माणवक इति वक्तुं शक्यते । सिंहवच्छौर्यधैर्यादिसम्पन्नो माणवक इति हि तत्र विवक्षितं वक्त्रा । किंचालङ्कारिकैः - ‘नायं शुधांशुः किंतर्हि सुधांशुः प्रेयसीमुख’ मिति प्रसिद्धसुधांश्वपहवपूर्वक कामिनीमुखे सुधांशुत्वमारोप्यमाणं दृश्यते, तत्रापि सन्तमेव प्रसिद्धसुधांशुमपनुत्य ते मुखे सुधांशु- त्वारोपं कृतवन्तः न त्वत्यन्तासन्तम् । तद्वदिहापि निरग्निर्न सन्न्यासी, किंतु कर्येव’ सन्न्यासीति बननेन प्रसिद्धे सन्न्यासिनि सन्न्यासित्वमपनुत्य कर्मिणि तदारोपितमिति सिद्धएव प्रसिद्धसन्न्यासी । अपि च- प्रसक्तस्यैव निषेधो नाप्रसक्तस्येति नियमात्परमार्थसन्न्या सिनस्सुतरामभावे कथं तन्निषेध उपपद्यते ? अतो नाक चतुर्थाश्रमप्रतिषेथो भगवता विवक्षित इति कल्पयितुं शक्यं ब्रह्मणोपि । षष्ठोऽध्यायः । २४७ तस्मान्मुनेर्योगमा रुरुक्षोः प्रतिपन्नगार्हस्थ्यस्याग्निहोत्रादिफलनिरपेक्षमनुष्ठीयमानं ध्यानयोगारोहण साधनत्वं सच्चशुद्धिद्वारेण प्रतिपद्यत इति स सन्न्यासी च योगी चेति स्तूयते ॥ श्रीभगवान – आनाश्रितः कर्मफलं कार्य कर्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥ अनाश्रितेति । अनाश्रितः न आश्रित अनाश्रितः, किं कर्मफलं कर्मणां फलं यत्त- दनाश्रितः कर्मफलतृष्णारहित इत्यर्थः । यो हि कर्मफले तृष्णावान् स कर्मफलमाश्रितो भवति, अयं तु तद्विपरीतो योग्नाश्रितः कर्मफलं एवंभूतस्सन् कार्य कर्तव्यं नित्यं काम्य- विपरीतमग्निहोत्रादिकं कर्म करोति निर्वर्तयति यः कश्चिद्य ईदृशः कर्मी स कर्म्यन्तरेभ्यो विशिष्यत इत्येतमर्थमाह - स सन्न्यासी च योगी चेति, सन्न्यासः परित्यागो यस्यास्ति स सन्न्यासी च, योगी च योगश्चित्तसमाधानं यस्यास्तीति स योगी चेत्येवंगुणसम्पन्नोयं तस्मादिति । सन्न्यासिन एव ध्यानयोगाधिकारादित्यर्थः । मुनेरिति । मननशीलस्येत्यर्थः । नतु सन्न्यासिन इति प्रतिपन्नगार्हस्थ्यस्येति विशेषणात् । अनुष्ठीयमानमग्निहोत्रादि कर्मेति शेषः । स इति । य एवं फलनिरपेक्षः शुद्धयर्थं कर्मयोगमनुतिष्ठति स इत्यर्थः । अथ श्लोकं व्याख्यातुमारभते - अनाश्रित इति । नञ्तत्पुरुषः आश्रित इति कर्तरिक्तः । तेन कर्माकांक्षा जातेत्याह — किमिति । किमनाश्रित इत्यर्थः । आकांक्षां पूरयति – कर्मफलमिति । 1 ननु कालान्तरभाविनः जन्मांतरभाविनश्च कर्मफलस्य कथमाश्रयणप्रसक्तिः येनानाश्रित इति तन्निषेधस्यार्थवत्त्वमत आह- कर्मफलतृष्णेति । कर्मफले आशाराहित्यमेव तदनाश्रयणमित्युच्यत इत्यर्थः । । कथं पुनराशाराहित्यमात्रेण फलानाश्रयणमत आह—यो हीति । फलस्य कामप्रयुक्तत्वात्कामा- भावे फलाभाव इत्यर्थः । 1 तद्विपरीत इति तृष्णावत्पुरुषाद्विलक्षण: कोयमत आह— योऽनाश्रित इति । एवम्भूतस्सन्निति कर्मफलमनाश्रितस्सन्नित्यर्थः । कार्य कर्तुं योग्यं । किं तत्कार्यमत आह - नित्यमिति । नित्यस्य काम- प्रयुक्तत्वाच्छास्त्रैकमूलत्वाच्चेति भावः । नतु काम्यमित्याह - काम्य विपरीतमिति । काम्यस्य काम- प्रयुक्तत्वा तद्वैपरीत्यं नित्यस्येति भावः । 1 ईदृश इति फलनिरपेक्षं नित्यकर्म कर्तेत्यर्थः । कर्म्यन्तरेभ्य इति । फलसापेक्षं कर्माणि कुर्वय इत्यर्थः । विशिष्यते उत्कृष्टो भवति नतु सन्न्यासिभ्यो नापि ध्यानयोगिभ्य उत्कृष्टत्वमस्य कर्मयोगो पेयत्वात्सन्न्यासध्यानयोगयोः नहि क्वाप्युपाय उपेयाद्विशिष्यमाणो दृष्टः श्रुतो वेति भावः । स इति कर्मयोगीत्यर्थः । परमार्थसन्न्या सिवैलक्षण्या याह – सन्न्यासः परित्याग इति । तथा परमार्थयोग वैलक्षण्यायाह — योगश्चित्त समाधानमिति । एवंगुणसम्पन्न इति परित्यागचित्त समाधान- रूपगुणयुक्त इत्यर्थः । २४८ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशङ्करभाष्योपेतासु मन्तव्यः, न केवलं निरग्निरक्रिय एव सन्न्यासी योगी चेति मन्तव्यः । निर्गता अग्नयः कर्माङ्गभूता यस्मात् स निरग्निः । अक्रियश्च अनग्निसाधना अविद्यमानाः क्रियास्तपोदा- नादिका यस्यासावक्रियः । अयं भावः - यथा सिंहो माणवक इति गौणप्रयोगे सिंहशब्दस्य मुख्यार्थ केसरादिमदाकृति विशेषं विहाय लक्षणया शौर्यधैर्यादिगुणयोगमर्थं वदन्ति बुधा: माणवकस्सिहवच्छे धौर्यादिगुणविशिष्ट इति तद्वत्कर्मी योगी सन्न्यासी चेति वचनेपि योगिसन्न्यासिशब्दयोः कर्मसन्न्यासिध्यानयोगरूपार्थो विहाय लक्षणया कर्मी सन्न्यासिवद्योगिवच्च परित्यागचित्त समाधानरूपगुणविशिष्ट इत्यर्थो ग्राह्यो विद्वद्भिः । तथा च शौर्यधैर्यादिनिमित्तो यथा माणवके सिंहप्रत्ययः, तथा परित्यागनिमित्तश्चित्तसमा- धाननिमित्तश्च कर्मिणि सन्न्यासि प्रत्ययो योगिप्रत्ययश्चेति । यथा सन्मसी कर्माणि परित्यजति तथा कर्मी कर्मफलानि परित्यजतीति कर्मिसन्न्यासिनोः परित्यागविषये सादृश्यम् । यथा योगी ब्रह्मणि चितं समाधत्ते तथा कर्मी कर्मणि चित्तं समाधत्त इति कर्मियोगिनोस्सादृश्यं चित्तसमाधाने । कर्मणि चित्तसमाधानं च “योगः कर्मसु कौशल " मित्यनेन प्रतिपादितं फलतृष्णाभावादिरूपम् । 1 तस्मान्न मुख्यं सन्न्यासित्वं योगित्वं वा कर्मिणि सम्भवति - विरोथात्किन्तु गौणमेव । विरोधश्व कर्मसन्न्यासकर्मकरणयोः प्रसिद्ध एव । ध्यानयोगेप्यस्ति हि यज्ञादिविहितकर्मपरित्याग इति । यद्यपि सन्न्यासीत्यनेनैव योगीत्यपि सिद्धं - सन्न्यासिन एव योगाधिकाराद्योगिन एव सन्न्या- सित्वात्तथापि ज्ञानयोगनिष्ठस्सन्न्यासीह सन्न्यासिशब्देन, ध्यानयोगनिष्ठस्सन्न्यासी तु योगिशब्देनोच्यत इति वैलक्षण्यं बोध्यम् । किंच यदीह कर्मिणि मुख्यं सन्न्यासित्वं विधित्सितं तर्हि सन्न्यासियोगिशब्दयोरन्यतरेणैवाल, परन्तु गौणं विधित्सितं सन्न्यासिनि तु गुणद्वयमस्ति परित्यागश्चित्तसमाधानं चेति । तदेव प्रवृत्ति - निमित्तीकृत्य सन्न्यासियोगिशब्दद्वयं तत्र प्रवर्तते तस्यैव गुणद्वयस्य कर्मिण्यपि यथाकथञ्चित्सत्त्वेन कर्मिणि गौणं सन्न्यासित्वं विधित्सितमिति सन्न्यासी योगीति शब्दद्वयप्रयोगस्सार्थकः । ननु निरग्निरित्यनेनैवा क्रियत्वस्य लाभाद्यर्थमक्रिय इति पदमत आह- अनग्निसाधना इति । अग्निसहित क्रियाप्रतिषेधो निरग्निशब्देनोक्तः- अग्निरहित क्रियाप्रतिषेधायाऽक्रिय इति पदमावश्यक- मित्यर्थः । सामयः क्रिया यज्ञादयः प्रसिद्धाः, निस्मयः क्रियास्त्वप्रसिद्धा इति तद्बोधनायाह - तपो - दानादिका इति । अविद्यमानाः क्रिया यस्यासावक्रिय इति सम्बन्धः- नञोस्त्यर्थानां वाच्यो वाचोत्तर- पदलोप इति वार्तिकात्समास उत्तरपदलोपश्च । ३२ षष्ठोऽध्यायः । २४९ ननु च निरग्नेरक्रियस्यैव च श्रुतिस्मृतियोगशास्त्रेषु सन्न्यासित्वं योगित्वं च प्रसिद्ध; कथमिह साग्नेः सक्रियस्य च सन्न्यासित्वं योगित्वं चाप्रसिद्धमुच्यत इति, नैष दोष:– कयाचिद्गुणवृत्त्योभयस्य सम्पिपादयिषितत्वात् ॥१॥ नन्वप्रसिद्धाभिधानमिदमयुक्तं भगवत इत्याशङ्कय परिहरति– ननु चेत्यादिना । गुणवृत्त्येति लक्षणयेत्यर्थः । सम्पादयितुमिष्टं सम्पिपादयिषितं तत्त्वात् । न वयं निरग्येर क्रियस्य च सन्न्यासित्वं योगित्वं वा प्रतिषेधामः, नापि साग्नेस्सक्रियस्य तदुभयं विदधामः, किंतु यथोक्तकर्मयोगिनो रक्षणया सन्न्यासित्वं योगित्वं च ब्रूमः – सन्न्या सियोगिसादृश्यस्य परित्यागचित्तसमाधानरूपस्य कर्मणि सत्त्वादतो न श्रुतिस्मृत्यादिविरोधः । यत्तु रामानुजः - यः कर्म करोति स ज्ञानयोगनिष्ठः कर्मयोगनिष्ठश्च सः निरग्निः कर्म- स्वप्रवृत्तो न भवति, अक्रियः केवलज्ञाननिष्ठश्च न भवति, ज्ञानयोग निष्ठस्य तु केवलज्ञाननिष्ठैव कर्म - योगनिष्ठस्य तूभयमस्तीत्यभिप्राय इति, तत्तुच्छम् — यः कर्मी सन्न्यासी योगी च भवतीत्युक्तः कथं स एव कर्मी निरग्निर्न भवति अक्रियश्च न भवतीति वक्तुं शक्यते ? न ह्येकस्मिन्नेव कर्मिणि सन्न्या- सित्वविधिः तत्प्रतिषेधश्चति द्वयमुपपद्यते निरम्य क्रियशब्दौ हि सन्न्यासिनं बोधयतः - तस्यैवाग्नि- क्रियाभावात् । न च निरग्न्यक्रियशब्दौ कर्मस्वप्रवृत्तं ज्ञाननिष्ठं च बोधयतो न तु सन्न्यासिन मिति वाच्यं, सन्न्यासिन एवं तथात्वात् । न हि गृहस्थस्य कर्मसु प्रवृत्त्यभावः ज्ञाननिष्ठा च सम्भवतः । कर्म- स्वप्रवृत्तिर्हि कर्मसन्न्यासः स एवं ज्ञाननिष्ठा च । नच गृहस्थस्यापि नास्तिकस्यातुरस्य वा कर्मस्वप्र- वृत्तिरिति वाच्यं तादृशगृहस्थस्यात्र शास्त्र प्रसक्त्यभावात् । कर्म करोतीति आस्तिकं शक्तमेव गृहस्थ- मुद्दिश्य हयुच्यते । । किंच स सन्न्यासी च योगीचेति चकारेण सन्न्यासित्वयोगित्वसमुच्चयस्य कर्मणि त्वदभिमतस्य सिद्धत्वेन न निरग्निर्न चाक्रिय इति पुनरुकं । न केवलं कर्मस्वप्रवृत्तो न केवलं ज्ञाननिष्ठश्चेत्येतस्य सन्न्यासी च योगी चेत्यनेनैव सिद्धत्वादिति भावः । अपि च न केवलं कर्मखप्रवृत्त इत्यनेन कर्म - खप्रवृत्तश्चेत्येव लभ्यते, नतु कर्मसु प्रवृत्त इति । तथा च यः कर्म करोति स कर्मखप्रवृत्तो ज्ञान- निष्टश्चेति सिद्धम् ; तच्च पुनरुक्तं कर्मस्वप्रवृत्तत्वस्य ज्ञाननिष्ठत्वस्य चैक्यात् । तथा यः कर्म करोति स सन्न्यासी योगी कर्मस्वप्रवृत्तो ज्ञाननिष्ठश्चेति त्वदभिमतयोजनया हि सिद्धं तत्र कर्मकरण सन्न्यासयोः कर्मयोग कर्माप्रवृत्त्योः कर्मनिष्ठत्वज्ञाननिष्ठत्वयोश्व विरोधो बालस्यापि विदित एव । सन्न्यासीत्यस्य ज्ञाननिष्ठ इत्यर्थाश्रयणेपि कर्मकरणकर्माप्रवृत्योः कर्मयोगनिष्ठत्वज्ञानयोगनिष्ठत्वयोश्च विरोधः स्फुट:; ज्ञाननिष्ठो ज्ञाननिष्ठश्चेति कर्मस्वप्रवृत्तश्चेति शब्दतोर्थतश्च पुनरुक्तम् । यः कर्म करोति स कर्मयोगीति सर्वैर्विदितमेवेति कृत्वा यः कर्म करोति स योगीत्युक्तिर्व्यर्था पुनरुक्ता च यः कर्म करोति स न निरग्निर्न चाक्रियः, किंतु साग्निस्सक्रिय एवेति सर्वजनविदितत्वान्न निरग्निर्न चाक्रिय इत्युक्तिव्यर्था पुनरुक्ता च । २५० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न सन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ २ ॥ तत्कथं कर्मफलसङ्कल्पस्य सन्न्यासात्सन्न्यासित्वं योगाङ्गत्वेन च कर्मानुष्ठानात्कर्म- फलसङ्कल्पस्य च चित्तविक्षेप हेतोः परित्यागाद्योगित्वं चेति गौणमुभयं न पुनर्मुख्यं सन्न्या- सित्वं योगित्वं चाभिप्रेतमित्येतमर्थ दर्शयितुमाह-यमिति । यं सर्वकर्मतत्फलपरित्याग- लक्षणं परमार्थसन्न्यासमिति प्राहुः श्रुतिस्मृतिवादाः योगं कर्मानुष्ठानलक्षणं तं परमार्थ- सन्न्यासं विद्धि विजानीहि । हेपाण्डव ! कर्मयोगस्य प्रवृत्तिलक्षणस्य तद्विपरीतेन निवृत्तिलक्षणेन परमार्थसन्न्यासेन कीदृशं साम्यमङ्गीकृत्य तद्भाव उच्यत इत्यपेक्षायामिदमुच्यते– अस्ति हि परमार्थसन्न्यासेन साम्यं कर्तृद्वारकं कर्मयोगस्य, यो हि परमार्थसन्न्यासी स सन्त्यक्तसर्वकर्मतत्साधनतया सर्वकर्म- अथ कर्मयोगनिष्ठस्योभयनिष्ठत्वमित्येतद्व्याहतं - कर्मयोगनिष्ठस्य कर्मयोगनिष्ठत्वेन ज्ञानयोगनिष्ठस्य ज्ञानयोगनिष्ठत्वेन उभयनिष्ठस्योभयनिष्ठत्वेन च भाव्यत्वात्कर्मयोगनिष्ठस्य वा ज्ञानयोगनिष्ठस्य वा उभय- निष्ठत्वासम्भवात् । तथा एकस्य पुरुषस्य उभयनिष्ठत्वमपि नैव सम्भवति- ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मिति भगवतैव साङ्ख्ययोगयोर्भिन्नपुरुषानुष्ठेयत्वस्योक्तत्वात् स्थितिगतिवत् ज्ञानकर्मणोः परस्परं विरोधाच्च । प्रपञ्चितं चैतदधस्तात् । तस्मान्न कर्मयोगनिष्ठस्य ज्ञानयोगनिष्ठत्वमुभयनिष्ठत्वं वा स्वप्नेपि सम्भवति । यद्येवमसम्भावि - तार्थं ब्रूयाद्भगवांस्तर्हि सोप्यप्रमाणभूत एव स्यात् । अहो ! रामानुजस्य पाण्डित्यम् ! येन भगवत्यप्रमाण- बुद्धिरापादिता ॥१॥ अत्रादौ किंचिद्याख्यानं भ्रष्टम् । प्राहुरत आह- श्रुतिस्मृतिवादा इति । श्रुतिस्मृतिवाक्यानीत्यर्थः । श्रुतीः स्मृतीश्च बदन्ति ये ते इति वा । श्रुतिस्मृतिविज्ञा- इत्यर्थः । ननु कर्मसन्न्यास कर्मानुष्ठानयोर्मिथो विरोधात्कथं कर्मसन्न्यासस्य कर्मानुष्ठानरूपयोगत्वसम्भव इत्याक्षिपति - कर्मयोगस्येति । आक्षेप समाधते - अस्ति हीत्यादिना । कर्मयोगस्य परमार्थसन्न्यासेन कर्तृद्वारकं साम्यमस्ति हीत्यन्वयः । तदेव विवृणोति - यो हीत्यादिना । सन्यासिनि योगिनि च फलविषयसङ्कल्पत्याग- रूपांशस्यैक्यात्कर्तृसाम्यप्रयुक्तं साम्यं सन्न्यासयोगयोरस्तीत्यर्थः । 7 तत्त्रेयान् विशेषः सन्न्यासी कर्मविषयं तत्फलविषयं च सङ्कल्पं सन्न्यस्यति ; योगी तु न. कर्मविषयं, किंतु तत्फलविषयमेव- कर्मविषयसङ्कल्पस्यापि त्यागे कर्मानुष्ठानासम्भवादिति ।षष्ठोऽध्यायः । २५१ तत्फलविषयं संकल्पं प्रवृत्तिहेतुकामकरणं सन्न्यस्यति; अयमपि कर्मयोगी कर्म कुर्वाणएव फलविषयं सङ्कल्पं सन्न्यस्यतीत्येतमर्थ दर्शयिष्यन्नाह - नहि यस्मादसन्न्यस्तसङ्कल्पः असन्न्यस्तः अपरित्यक्तः फलविषय सङ्कल्पोऽभिसन्धिर्येन सोऽसन्न्यस्तसङ्कल्पः कञ्चन कश्चिदपि कर्मी योगी समाधानवान् भवति न भवतीत्यर्थः । फलसङ्कल्पस्य चित्तविक्षेपहेतुत्वात्तस्माद्यः कश्चन कर्मी सन्न्यस्तसङ्कल्पो भवेत्स योगी समा- धानवानविक्षिप्तचित्तो भवेत् - चित्तविक्षेपहेतोः फलसङ्कल्पस्य सन्न्यस्तत्वादित्यभिप्रायः । एवं परमार्थसन्न्यासकर्मयोगयोः कर्तृद्वारकं सन्न्याससामान्यमपेक्ष्य यं सन्न्यासमिति प्राहु- योगं तं विद्धि पाण्डवेति कर्मयोगस्य स्तुत्यर्थ सन्न्यासत्वमुक्तम् ॥२॥ अयमेव सङ्कल्पः कामस्य कारणं, सच कामः कर्मसु प्रवृत्तेर्हेतुरित्याह — प्रवृत्तिहेतुकामकारण- मिति । सङ्कल्पस्य विशेषणम् । कामकारणस्य सङ्कल्पस्यैव त्यागात्कामस्यानुदयः, ततश्च कर्मस्वप्र- वृत्तिस्सन्न्यासिन इति भावः । नच योगिनोऽपि सङ्कल्पत्यागात्कामानुदये कथं कर्मसु प्रवृत्तिरिति वाच्यं, फलविषयसङ्कल्प- त्यागात्फलक मानुदयेऽपि योगिनः कर्मविषयसङ्कल्पत्यागाभावात्कर्मकामोदयेन कर्मसु प्रवृत्तिसिद्धेः । नच फलसङ्कल्पाभावे योगिनः कुतः कर्मसक्कल्प इति वाच्यं, ईश्वरप्रीतिरूपे चित्तशुद्धिरूपे पापक्षयरूपे वा नित्यकर्मफले योगिनः कामसत्त्वात् तस्य चेश्वरप्रीत्यादिरूपस्य फलस्य पुण्यपापान्य- तरत्वाभावेन देव तिर्यगादिजन्मद्वाराऽबन्धकत्वेन फलत्वाभावात् । नचैवं मोक्षस्यापि फलत्वाभाव इति वाच्यं तस्येष्टत्वात् नहि वयं नित्यसिद्धं सच्चिदानन्द ब्रह्मरूपं मोक्षं फलं ब्रूमः - यज्जन्यं यच्च बन्धकं तदेव हि फलम् । अतएव नित्यकर्मण: फलाभाववचनमप्युपपद्यते । यद्वा यस्य कस्यापि फलस्य सङ्कल्पो मास्तु योगिनः, तथापि स कर्म करोत्येव - गृहस्थेनाधि– कृतेन कर्म कर्तव्यमित्येवंरूपेश्वराज्ञातिक्रमे नरकभयात् । अतएव प्रत्यवायपरिहारार्थानि नित्यकर्माणीति कर्मिणां राद्धान्तः ! नच प्रत्यवायपरिहारएव फलमित्यस्ति तत्सङ्कल्पात्फलसङ्कल्पो योगिन इति वाच्यं प्रत्यवाया- भावस्य भावरूपफलत्वायोगात् । फलं हि खर्गादिकं पुत्रादिकं भावरूपमेवेष्यते । नच रोगाभावस्या - रोग्यस्य फलत्वमस्तीति वाच्यं, अरोगस्य भाव आरोग्यं दृढगालत्वादिकं तद्धि भाव एवेति । अथ वा ईश्वराज्ञारूपत्वान्मया कर्माणि कर्तव्यानि गृहस्थेनेत्येतावत्येव बुद्धियोगिनः - तावतैव कर्मानुष्ठानसम्भवात् । अतो न यस्यकस्यापि फलस्य सङ्कल्पप्रसक्तिरिति । न हीति । हि असन्न्यस्तसङ्कल्पः कश्चन योगी न भवति । तस्मात्कर्मयोगिनः फलसङ्कल्प- सन्न्यासरूपसन्न्यासवत्त्वेन सन्न्यासित्वं सिद्धमिति भावः । एतेनैकस्मिन्नेव कर्मणि चित्तविक्षेप हेतुफल- सङ्कल्पत्यागाद्योगित्वं सन्न्या सित्वं चेत्युभयं सम्भवति लक्षणयेति सिद्धम् । सन्यस्तसङ्कल्पस्य सन्यासित्वं तावत्प्रसिद्धम् अत्र च श्लोके असन्न्यस्तसङ्कल्पस्यायो गित्व- २५२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥ ध्यानयोगस्य फलनिरपेक्षः कर्मयोगोपि बहिरङ्गसाधनमिति तं सन्न्यासत्वेन स्तुत्वाऽधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति- कथनेन सन्न्यस्तसङ्कल्पस्यैव योगित्वं प्रतिपादितम् । ततश्च सन्न्यासिनो योगिनश्च सन्न्यस्तसङ्कल्पत्वं समानधर्म इति सिद्धम् । एवं सन्न्यासियोगिनोस्साम्यात्तद्वारा सन्न्यासयोगयोस्साम्यमिति निष्कर्षः । वस्तुतस्तु सर्वकर्मतत्फलविषयसङ्कल्पसन्न्यासाद्यथा सर्वकर्मसन्न्याससिद्धिस्सन्न्यासिनः तथा सर्व- कर्मफलविषय सङ्कल्पसन्न्यासाद्योगसिद्धियगिन इति सन्न्यासयोगयोः कारणद्वारा किमपि साम्यमस्त्येव – सङ्कल्पस्सन्न्यासप्रयुक्तत्वात्सन्यासयोगयोः यथा मृज्जन्यत्वाद्धटशरावरयोः साम्यं तद्वत् । यत्तु रामानुजः – सन्न्यासं ज्ञानयोगं योगं कर्मयोगं विद्धि कर्मयोगान्तर्गतत्वादात्मयाथात्म्य- ज्ञानस्य । अनात्मन्यात्मतादात्म्याभिमानः सङ्कल्पस्तदपरित्यागी कर्मयोगी न भवत्येवेति, तत्तुच्छम्- योगान्तर्गतस्य ज्ञानस्य योगशब्दवाच्यत्वं तावद्विरुद्धं पेटिकान्तर्गतस्य वस्त्रस्यापि पेटिकाशब्दवाच्यत्वा- पत्तेः । लक्षणाश्रयणं तु दुष्टं - मुख्यार्थपरित्यागे कारणाभावात् । नापि कर्मयोगे ज्ञानयोगस्यान्तर्भावः- कर्मयोगोपेयत्वा द्ज्ञानयोगस्य । नाप्यात्मान्ये आत्माभिमानस्य सङ्कल्पत्वं, किं तर्ह्यध्यासत्वमेव । तस्य परित्यागे कर्मयोगस्य स्वरूपासिद्धिरेव - अकर्तृत्वादात्मनः, अनात्मनां च जडत्वात् । नहि जडस्य वा घटादेः कर्तृत्वं दृष्टं लोके श्रुतम् । किंच अहं कर्म कुर्यामिति सङ्कल्पमूलकत्वं कर्मणस्सर्वसम्प्रतिपन्नम् । स चाहङ्कारेऽनात्मन्यात्मा- भिमानप्रयुक्तः- अहङ्कारस्यैव कर्तृत्वात्, आत्मनश्चाकर्तृत्वात् । तस्थाप्यभिमानस्य परित्यागे कथं कर्मयोगसिद्धिः । अतो न कर्मयोगिनोऽध्यासनिवृत्तिरावश्यकी, किं तर्हि देहातिरिक्तः कश्चिन्नित्य आत्माऽस्तीत्येतावत्येव बुद्धिस्तस्यावश्यकी । नच अनात्मनां जडत्वादात्मनश्चाकर्तृत्वे विधिशास्त्रवैयर्थ्यात् - ‘कर्ता शास्त्रार्थवत्त्वा ’ दित्यधिकर- णानुसाराच्च कर्तेवात्मेति वाच्यं शास्त्राणामविद्यावद्विषयत्वात् देहाद्यनात्मसङ्घाते आत्माभिमानिनः कर्तुस्सत्त्वान्न शास्त्रवैयर्थ्यं, नाप्यधिकरणविरोध :- ‘निष्कलं निष्क्रियं शान्त’ मित्यादिश्रुतिविरोधादात्मा त्वकर्तेव । अन्यथा कर्तृत्वे सति भोक्तृत्वं स्यात्तदुभयसत्त्वे विकारित्वं स्यात्तस्यापि सत्त्वेऽनित्यत्वं स्यात्- ‘अजो नित्यश्शाश्वत’ इति ‘अविकार्योऽयमुच्यत’ इति गीताशास्त्रोक्तार्थ एवाप्रमाणः कल्पित- स्स्यात् । तस्मान्नास्त्यात्मनः कर्तृत्वमिति सिद्धान्तः । य एवमात्मानमकर्तारं वेत्ति कथं तस्य कर्म कुर्यामिति सङ्कल्पः, येन कर्मयोगप्रवृत्तिः । तस्मा - दज्ञ एव । कर्मयोगी । ज्ञानार्थं हि स कर्मयोगे प्रवृत्तः । यदि प्रागेव ज्ञानी तर्हि कुतस्तस्य कर्मयोग- प्रवृत्तिः । कस्मान्न कर्मयोगे ज्ञानस्यान्तर्भावः । उक्तमपीदं पुनःपुनर्मया वर्ण्यते प्रतिपत्तृप्रतिपत्तिदार्व्याय ॥ वृत्तं कीर्तयन्नारुरुक्षोरिति श्लोकमवतारयति - ध्यानयोगस्येति । षष्ठोऽध्यायः । २५३ आरुरुक्षोरिति । आरुरुक्षोः आरोदुमिच्छोरनारूढस्य ध्यानयोगे ऽवस्थातुमसमर्थस्ये- त्यर्थः । तस्यारुरुक्षोर्मुनेः कर्मफलसन्न्यासिन इत्यर्थः । किमारुरुक्षोर्योगं कर्म कारणं साधन- मुच्यते योगारूढस्य पुनस्तस्यैव शम उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढत्वस्य साधनमुच्यत इत्यर्थः । यावद्यावत्कर्मभ्य उपरमते तावत्तावन्निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । आरुरुक्षोरिति । योगमा रुरुक्षोरित्यन्वयः । योगोऽत्र ध्यानयोगः, नतु कर्मयोगः कर्मयोग- मारुरुक्षोः कर्म कारणमिति वक्तुमयुक्तत्वात्, कर्मयोगारोहणस्यैव कर्मकरणरूपत्वात् । अयं हि ध्यानयोगमारोढुं केवलमिच्छति, नतु ध्यानयोगमारुह्य स्थातुं क्षमते; अत एवारुरुक्षुरित्युच्यते इत्यभिप्रे- त्याह- अनरूढस्येत्यादि । ध्यानयोगस्य मन इन्द्रियजयप्रयुक्तत्वात्तज्जयस्य च दुष्करत्वादुक्तमसमर्थस्येति । दृष्टस्मृत- सर्वविषयेभ्यो व्यावर्त्य केवलात्मनि मनः स्थापयितुमसमर्थस्येत्यर्थः । ननु सन्न्यासवाचिनो सुनिशब्दस्य कथमिह प्रयोगोऽत आह— कर्मफलसन्न्यासिन इति । योगिनोपि कर्मफलसन्न्यासित्वेन गौण्या वृत्त्या सन्न्या सित्वान्मुनिशब्दबोध्यत्वमस्तीति भावः । भविष्य - त्सन्न्यासित्वाद्भाविनीं वृत्तिमाश्रित्य ओदनं पचतीतिवन्मुनिरिति निर्देश इति वा । कर्मकारक देवता- स्वरूपादिमननशीलत्वान्मुनिरिति वा वक्तुं शक्यते । प्रपञ्चस्य ब्रह्मेव पुत्रस्य पितेव वा मुनेः कर्म कारणमिति भ्रमव्युदासायाह — साधनमिति । कर्मरूपसाधनेन मुनिर्योगमारोढुं प्रभवति निश्श्रेणिकया प्रासादं पुरुष इवेति भावः । एतेन ध्यान- योगारोहण साधनत्वं कर्मणस्सिद्धम् । तस्यैवेति । य एवं कर्मानुष्ठानद्वारा योगमा रूढस्तस्यैवेत्यर्थः । शमः सन्न्यास इति यावत् । ननुं कर्मयोगस्य साधनमित्युक्तं, शमः पुनः कस्य कारणमत आह-योगारूढत्वस्येति । कर्मयोगो ध्यानारोहणसामर्थ्य मात्रं जनयति पुरुषस्य, ध्यानयोगारोहणं तु शमसाध्यमेवेत्यर्थः । यद्वा निश्श्रेणिकया पुरुषः प्रासादमिव कर्मणा मुनिर्ध्यानयोगमारोहति केवलम् । आरुह्य तत्र चिरं स्थातुं तु मुनेश्शम एव साधनं यथा प्रासादमारुह्य चिरं स्थातुमासनादिकं साधनं पुरुषस्य । एतेन योगे यश्चिरमवस्थितस्स एव योगारूढः, न तु योगारोहणमात्रेणेति सिद्धम् । एतदनुसारेण योगारूढत्वस्येत्यस्य योगमारुह्य चिरमवस्थानस्येत्यर्थो वाच्यः । पूर्वस्मिन् मते तु यथाश्रुत एवार्थः । ननु कथमुपरमस्य योगारूढत्वसाधनत्वमत आह— यावद्यावदिति । तथासतीति चित्तसमा- धाने सतीत्यर्थः । अयमाशय: - कर्मिणः फलसङ्कल्पत्यागेन चित्तविक्षेपाभावेपि कर्मकारक सामग्री सम्पादनाया- सादिना मन् इन्द्रियजयस्तस्य दुष्करः, ततस्तस्य चित्तसमाधानं दुर्लभमिति न कर्मी कथमपि योगारूढो भवितुमर्हति, किंतु सन्यासिन एवायासाभावादिन्द्रियजयश्चित्तसमाधानं चेति सन्न्यास्येव योगारूढो २५४ श्रीभगवद्गीतासु- भाष्यार्क प्रकाश विलसित श्रीशाङ्करभाष्योपेतासु तथासति स योगारूढो भवति । तथाचोक्तं- ‘नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्ड निधानमार्जवं ततस्ततश्च परमः क्रियाभ्य’ इति ॥३॥ यदा हि चेन्द्रियार्थेषु न कर्मस्वनुषञ्जते । सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥ अथेदानीं कदा योगारूढो भवतीत्युच्यते - यदेति । यदा समाधीयमानचित्तो योगी हि यस्मात् इन्द्रियार्थेषु इन्द्रियाणामर्थारशब्दादयस्तेष्विन्द्रियार्थेषु कर्मसु च नित्य- भवितुमर्हति । अतः सन्न्यासिन एव ध्यानयोगेऽधिकारः, कर्मिणस्तु ध्यानयोगारोहणसामर्थ्याय कर्म- योग एवाधिकार इति । स्वोक्तार्थे प्रमाणमाह — नैतादृशमिति । ब्राह्मणस्य सन्न्यासिन इत्यर्थः – तस्यैव वक्ष्यमाण- गुणयोगसम्भवात् एतादृशं वक्ष्यमाणवित्ततुल्यमित्यर्थः । वित्तं नास्ति । किं तद्वत्तमत आह- यथेति । एकता सर्वत्रात्मैकत्वबुद्धिः, समता सर्वत्रात्मसमत्वबुद्धिः, सत्यता ब्रह्मात्मैकसत्यत्वबुद्धिः, शीलं सत्स्वभावः स्थितिर्ब्रह्मनिष्ठा, दण्डनिधानं मनोवाक्कायानां दण्डकरणं, तेषां दण्डोनाम नियमन; स्वायत्तीकरणमिति यावत् । आर्जवं सर्वत्र ऋजुबुद्धि:, ततस्ततस्ताभ्यस्ताभ्यः क्रियाभ्यः सर्वकर्मभ्य इत्यर्थः । उपरमः निवृत्तिश्व इत्येतत्सर्वे ब्राह्मणस्य वित्तं नतु कनकादिकं तद्ध्यनात्मज्ञस्य वित्तम् । तस्य च लौकिकवित्तस्य वैदिक वित्तस्य चास्ति महदन्तरं यत्तेन तस्य संसारः, अनेन त्वस्य संसारनाश इति । अत उक्तं नैतादृशं वित्तमस्तीति । तस्मादुपरतिरेव योगारूढत्वं सम्पादयतीत्यनवद्यम् । योगोऽत्र वैराग्यं; तथा च यावद्वैराग्योदयं कर्म कार्य, विरक्तस्य तु सन्न्यास एव ज्ञानपरिपाक- साधनमिति मधुसूदनः । योगो ज्ञानयोगश्शमस्समाधिरिति तु श्रीधरः । यत्तु रामानुजः — यावदात्मावलोकनरूपमोक्षावाप्ति कर्म कार्यमित्यर्थ इति, यच्च वेदान्त- देशि कश्शमः कर्मनिवृत्तिरेव नतु पारित्राज्यमिति, तदुभयं तुच्छम् — परमते आत्मावलोकनस्यामोक्षत्वात्, कर्मणा आत्मावलोकनासम्भवात् आत्मावलोकनस्य वेदान्तविचारसाध्यत्वादथवा समाधिसाध्यत्वात् । शमः कर्मनिवृत्तिर्न तु पारिव्राज्यमित्येतदयुक्तं - गृहस्थस्य कर्मिणः कर्मनिवृत्त्यसम्भवात्सन्न्या सिनः कर्मासम्भवाच्च कुतः कर्मनिवृत्ते रपारिव्राज्यम् । नच गृहस्थस्यापि ध्यानयोगारूढस्य कर्मनिवृत्तिरिति वाच्य, गृहस्थस्य ध्यानयोगारूढत्वस्यैवासम्भवात् । तस्मात्कर्मसन्न्यासं विना कर्मनिवृत्तिर्न सम्भवतीति शमः प्रारिव्राज्यमेव ॥ ३॥ यदेति । हि यस्मादिति । यस्मात्कर्मसु विषयेषु चानुषङ्गाभावात्सर्वसङ्कल्पसन्न्यासाच्च योगा- रूढो भवति पुरुषस्तस्माद्योगारूढत्वस्य शमः कारणमित्यर्थः । इन्द्रियाणामिति ग्राह्यग्राहकभावसम्बन्धे शेषे षष्ठी । इन्द्रियग्राह्येष्वर्थेष्वित्यर्थः । अर्थाशब्दादयो विषया:- अर्थ्यन्ते प्रार्थ्यन्ते संसारिभिरित्यर्थः । यदा हि वेत्यत्रत्यस्य चकारस्य कर्मस्वित्यनेनान्वय इत्याह- कर्मसु चेति । चतुर्विधानि कर्माणि - तत्र नित्यानि अग्निहोत्रादीनि, नैमित्तिकानि दर्शादीनि काम्यानि कारीरीष्ट्यादीनि प्रति- षिद्धानि हिंसादीनि । षष्ठोऽध्यायः । २५५ नैमित्तिककाम्यप्रतिषिद्धेषु च प्रयोजनाभावबुद्धया नानुषजते; अनुषङ्गं कर्तव्यताबुद्धिं न करोतीत्यर्थः । सर्वसङ्कल्पसन्न्यासी सर्वान् सङ्कल्पान इहामुत्रार्थकामहेतून् सन्न्यसितुं शील- मस्येति सर्वसङ्कल्पसन्न्यासी योगारूढः; प्राप्तयोग इत्येतत् । तदा तस्मिन् काले उच्यते । सर्वसङ्कल्पसन्न्यासी तिवचनात्सर्वांश्च कामान् सर्वाणि च कर्माणि सन्न्यसेदित्यर्थः । सङ्कल्पमूला हि सर्वे कामा: ‘सङ्कल्पमूलः कामो वै यज्ञास्सङ्कल्पसम्भवाः । काम! जानामि ते मूलं सङ्कल्पात्किल जायस’ इत्यादिस्मृतेः । सर्वकामपरित्यागे च सर्वकर्मपरित्यागः सिद्धो भवति, ‘स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते’ इत्यादिश्रुतिभ्यः, ‘यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टित’ मित्यादिस्मृतिभ्यश्च न्यायाच्च । नहि सर्वसंकल्प - एतेषु कुतो नानुषज्जते इत्यत आह- प्रयोजनाभावबुद्धयेति । विषयभोगसुखस्य कर्मफलस्य अल्पत्वास्थिरत्वसातिशयत्वदुः खोदर्कत्वाद्यनुसन्धानेन तस्याप्रयोजनत्वान्नास्ति विषयजन्यं कर्मसाध्यं वा किञ्चिदपि प्रयोजनं विवेकिन इति भावः । ननु कर्मणां घटादिवत्स्वरूपाभावात्कथं तत्सङ्गः पुरुषस्य, येन तन्निवारणं सार्थकं स्यादत आह– कर्तव्यताबुद्धिमिति । कर्माणि मया कर्तव्यानीत्याकारकबुद्धिरेव कर्मसु सङ्गः । स्वरूपवत्सु विषयेषु तु साक्षादेव सङ्ग इति बोध्यम् । यद्वा विषयेषु कर्तव्यता बुद्धिर्ब्राह्यता बुद्धिस्सङ्ग इति । 1 इहेति । इह मनुष्यलोके अर्थाः पशुपुत्रादयः, अमुत्र परलोके अर्थाः खर्गादयः तेषु इहामु- त्रार्थेषु कामास्तृष्णाः तेषां हेतवः कारणानि तान् कामस्य सङ्करूपप्रभवत्वात्कामहेतुत्वं सङ्कल्पस्येति भावः । शीलं स्वभावः ताच्छील्ये णिनिः । सन्न्यासीति । योगमारूढो योगारूढः द्वितीयेति योग- विभागात्समासः । यावदर्थमाह — प्राप्तयोग इति । यो विषय कर्मसङ्गरहितः सर्वसङ्कल्पसन्न्यासी च तेन ध्यानयोगस्सम्यक्प्राप्त इत्यर्थः । उच्यते विद्वद्भिरिति शेषः, शास्त्रैरिति वा । नन्वत्र सङ्कल्पसन्न्यास एवोक्तो, नतु कामसन्न्यास इत्यत आह— सर्वेत्यादि । कारणस्य सङ्कल्पस्यैव त्यागे कुतः कार्यस्य कामस्य सत्त्वमिति भावः । सङ्कल्पमूला इति । सङ्कल्पो मूलः कारणं येषां ते सङ्कल्पमूलाः । हिशब्दः प्रसिद्धि बोतयति । तामेव प्रसिद्धिं दर्शयति-संकल्प- मूल इत्यादिना । एवं सङ्कल्प त्यागात्कामत्यागमुक्त्वा कामत्यागात्कर्मत्यागसिद्धि वदति – सर्वेति / कथं कामपरित्यागे कर्मपरित्याग इत्यत्र श्रुत्यादीन् प्रमाणयति - सः कामी यथाकामः यत्पुरुषार्थकामः भवति तत्क्रतुः तत्पुरुषार्थसाधनानुष्ठानदृढनिश्चयो भवति यत्क्रतुर्भवति यदनुष्ठानदृढ निश्चयो भवति तत्कर्म कुरुते । न्यायाच्चेति । यो यत्कामः सः तत्साधकं कर्म कुरुते तत्तत्कामहेतुत्वात्तत्तत्कर्मणः, यथा जलकामः कूपं गच्छतीत्यनुमानादित्यर्थः । न्यायमेव व्यतिरेखमुखेन द्रढयति-नहीति । स्पन्दितुं चलितुमपि चलनसङ्कल्पाभावे चलना- भावादिति भावः । यद्वा चलनसङ्कल्पाभावें चलनकामाभावाच्चलनकामाभावे चलनाभावाचेति भावः । सङ्कल्पाभावे कर्माभाव इति व्यतिरेकव्याप्तिरनेन दर्शिता । सङ्कल्पसत्त्वे कर्मसत्त्वमित्यन्वयं- .२५६ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सन्न्यासी कश्चित् स्पन्दितुमपि शक्तस्तस्मात्सर्वसङ्कल्पसन्न्यासीतिवचनात्सर्वान्कामान् सर्वाणि च कर्माणि त्याजयति भगवान् ||४|| उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥ यदैवं योगारूढस्तदा आत्मा आत्मना उद्घृतो भवति संसारानर्थवातादतः उद्धरेदिति । उद्धरेत् संसारसागरे निमग्नमात्मानमात्मना स्वत ऊर्ध्वं हरेद्योगारूढतामापादयेदित्यर्थः । व्याप्तिस्तु श्रुत्यादिभिर्दर्शिता । अन्वयव्यतिरेकयोययत्वं च शास्त्रप्रसिद्धम् । तथा च न्यायाच्चेत्यस्य अन्वयव्यतिरेक रूपन्यायादित्यप्यर्थो वाच्यः । अनुमानमप्येतन्न्यायाधीनसत्ताकमेव व्याप्तिज्ञानस्यैव तत्रापि कारणत्वात् ; वह्निसत्त्वे धूमसत्त्वं, वहयभावे धूमाभाव इत्यन्वयव्यतिरेकवशादेव हि पर्वते वह्निरनुमा शक्यते धूमवत्त्वलिङ्गेन इति । तस्मादिति । सङ्कल्पसन्यासे कामसन्न्यासपूर्वक कर्म सन्न्याससिद्धेरित्यर्थः । त्याजयतीति योगानुष्ठात्रेति शेषः । अतस्सर्वकर्मसन्न्यास्येव योगारूढः, नतु गृहस्थ इति नास्ति गृहस्थस्य योगाधिकार इति भावः । यत्तु विषयाननुषङ्गाभ्यासरूपः कर्मयोग इति रामानुजः, तत्तुच्छम् — कर्मानुष्ठानविषयाननु- षङ्गयोर्मिथो विरुद्धत्वात् इन्द्रियाणां हविरादिविषयानुषङ्गाभावे यज्ञादिकर्मानिष्पत्तेः ॥४॥ उद्धरेदिति । आत्मा स्वयमात्मना स्वेन संसारानर्थवातादुद्धृतो भवति । यद्यप्यात्मनो निमज्जनमुद्धरणं चेति द्वयमसम्भवि, तथापि साभासबुद्धेः बुद्धिप्रतिफलितचिदाभासस्य वा जीवस्य प्रमातुः कूटस्थात्मस्वरूपापरिज्ञानमूलकं यदासीत्संसारसागरे निमज्जनं तदिदानीं कूटस्थात्मस्वरूपज्ञाना- द्विनश्यतीत्यभिप्रेत्येदमुक्तम् । अस्ति हि यावदात्मसाक्षात्कारं बन्धमुक्त्यादिस्सर्वोपि व्यवहारः अविद्यावस्थायां यथा जले चलतिसति तत्प्रतिफलितस्सूर्यबिम्बश्वलन्निव लक्ष्यते, तथा बुद्धौ संसरन्त्यां तत्प्रतिफलितश्चिदाभासस्संसर- न्निव दृश्यतेऽज्ञानात्- ‘ध्यायतीव लेलायती ’ वेति श्रुतेः । तस्यां च बुद्धयां योगेन स्थिरीकृतायां सत्यां, असंसार्यात्मस्वरूपसाक्षात्कारो जायते यथा जले निश्चले सति निश्चलसूर्य प्रतिबिम्ब साक्षात्कारः । यत एवं ततो योगेन बुद्धि स्थिरीकुर्यात्पुरुषः । ततश्वात्मा संसारत्रातादुद्धृतो भवतीत्यर्थः । उद्धरेदिति । अनिमग्नस्योद्धरणासम्भवादाह – संसारसागरे निमग्न इति । संसारसागर- निममबुद्धितादात्म्या ध्यासात्स्वयमध्यात्मा तत्र निमग्न इव स्थितः, नतु वस्तुतो निमग्न इति भावः । आत्मानं स्वं स्वतः स्वेन सार्वविभक्तिकः तसिः । उदित्युपसर्गस्याव्ययस्य ऊर्ध्वार्थिकत्वादाह- ऊर्ध्व हरेदिति । नेदमूर्ध्वनयनं स्वर्गाद्यवलोकगमनं तस्यापि ससारमण्डलान्तः पातित्वात् । नापि सत्यलोकगमनं - तस्यापि मायिकत्वादित्यभिप्रेत्याह - योगारूढता मापादयेदिति । प्रमातुरात्मन आत्म- स्वरूपावलोकननिष्ठत्वापादनमेवोर्ध्वनयनम् । तत एव संसारसागरोद्धरणरूपोर्ध्वगमनसम्भवादिति भावः । ३३ षष्ठोऽध्यायः । २५७ नात्मानमवसादयेत् नाऽधो नयेत् । आत्मैव हि यस्मादात्मनो बन्धुः, न ह्यन्यः कश्चिद्वन्धु- संसारमुक्तये भवति । बन्धुरपि तावत् मोक्षप्रतिकूल एव स्नेहादिबन्धनायतनत्वात्तस्माद्युक्त- अवसादयेत् खेदयेत् नाशयेदिति वा । तच्चाघोनयनरूपमेवेत्याह–अधोनयेदिति । संसारसागरे न पातयेदित्यर्थः । आत्मावलोकनाभावे संसारसागरपातादिति भावः । ननु कूपे पतितं तत उद्गन्तुमशक्तं यथोपरिस्थो रज्ज्वादिसाधनैरुद्धरति, तद्वत्संसारसागरे निमग्नं पुरुषमुद्धरेदेव कश्चिदन्यो गुर्वादिरीश्वरादिर्वा इत्यत आह- आत्मैवेति । महावाक्योपदेशमात्रमेव गुरुः करोति; चित्तशुद्धिरूपमनुग्रहमेवेश्वरः करोति; पुरुषस्तु वाक्यार्थमननं निदिध्यासनं च स्वयमेव कुर्यात् । एवं विचारेणात्मसाक्षात्कारानुदये गुरुक्तविघया प्राणायामादिरूपं योग स्वयमेवाभ्यसेत् ; विषयेभ्य इन्द्रियाणि मनश्च स्वयमेव निवर्तयेत्; कूटस्थमात्मानं च स्वयमेव साक्षात्कुर्यात्, न त्वन्य- पुरुषसहायसाध्यं किमप्यस्ति यथा सुषुप्तिः स्वैकसाध्या तथा समाधिरपि स्वैकसाध्य एंव । यत एवं तत आत्मैवात्मनो बन्धुरित्युच्यते - मुक्तिप्रदत्वात् । यथा बन्धुः पुरुषस्य भोजनादिसत्कारदानेन सुखप्रदस्तद्वदिति भावः । आत्मा आत्मनो बन्धुरित्यनुक्त्वा आत्मैवात्मनो बन्धुरित्युक्तं, तत्रावधार- णार्थमाह-बन्धुरपीति । आत्मन आत्मैव बन्धुः, न त्वन्यः प्राकृतः पितृभ्रात्रादि : - ते हि मोक्ष- प्रतिकूलत्वादात्मनो नैव बन्धवः । नहि पुरुषार्थप्रतिबन्धकस्य लोके बन्धुत्वं दृश्यते, द्रव्यापहारिणं द्रव्यागमप्रतिबन्धकं वा पुरुष न हि लोको बन्धुं स्वस्य मन्यते, कं तर्हि ? शत्रुमेव । मोक्षस्तु परमपुरुषार्थ इति सर्वास्तिकजन - सम्मतम् । यस्तु तस्य प्रतिकूलः कथं स बन्धुर्भवेत् । अतो मोक्षरूपपरमपुरुषार्थप्रतिकूलाः पितृभ्रात्रादयः सर्वेपि नैव बन्धवः, किं तर्हि शत्रव एव पुरुषार्थप्रतिकूलत्वात् । कुतस्तेषां मोक्षप्रतिकूलत्वमत आह- स्नेहादिबन्धनायतनत्वादिति । स्नेहशोकमोहादि- बन्धनस्थानत्वादित्यर्थः । पित्रादिर्हि पुत्रादिं स्नेहादिना पाशस्थानीयेन दृढं बघ्नात्येव, नतु मोचयतीत्यर्थः । ‘मय्ययं स्नेहादिमान् यतस्ततोऽस्मिन्मया स्नेहादिमता भाव्यं, कथं मय्यनुरागिणमिमं पुत्रादिजन परित्यजेय, इमे वा मामनुरागिणं विहाय क गच्छेयुः’ इत्येवं परस्परं स्नेहमयपाशेन निबद्धा बन्धवः परस्परं बन्धका एवेति भावः । एतेन मुमुक्षोः पितृपुत्रादिसर्वस्व जनपरित्यागरूपः सन्यासाश्रमस्वीकार आवश्यक इति सूचितम् । तस्मादिति । प्राकृतानां पित्रादीनां मोक्षप्रतिकूलत्वेना बन्धुत्वादित्यर्थः । आत्मैवेति । योगारूढ आत्मैवेत्यर्थः । अन्यस्यात्मनश्शत्रुत्वस्यानन्तरमेव वक्ष्यमाणत्वादिति भावः । नच पित्रादेर- प्यात्मत्वात्कथं तस्याबन्धुत्वमिति वाच्यं, न ह्ययमात्मानं पित्रादि मन्यते, किं तु देहादिसङ्घातमेव- सङ्घातस्य चानात्मत्वं सर्वसम्मतम् । न ह्यात्मनि पित्रादिभेदोऽस्ति, येनाऽयमात्मा मत्पिता अयं मद्रातेत्येवं प्रतीयात् । किं तर्हि देहादिसङ्घाते पित्रादिभेदोस्ति - देहादिसङ्घातगता कारभेदाद्धि पितायं भ्रातायमित्येवं प्रत्येति लोकः । २५८ श्रीभगवद्गीतासु - भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मामात्मैव ह्यात्मनो बन्धुरिति । आत्मैव रिपुः शत्रुः, योऽन्योऽपकारी बाह्यश्शत्रुः स आत्मप्रयुक्त एवेति युक्तमवधारणं- आत्मैव रिपुरात्मन इति ॥ ५ ॥ बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥ आत्मैव बन्धुरात्मैव रिपुरात्मन इत्युक्तं तत्र किं लक्षण: आत्मा आत्मनो बन्धुः, किंलक्षणो वा आत्मा आत्मनो रिपुरित्युच्यते–बन्धुरिति । बन्धुरात्मात्मनस्तस्य तस्या- त्मनस्स आत्मा बन्धुः, येनात्मनात्मैव जितः - आत्मा कार्यकरणसङ्घातो येन वशीकृतः जितेन्द्रिय इत्यर्थः । अनात्मन अजितात्मनस्तु शत्रुभावे वर्तेत आत्मैव शत्रुवत् । यथा अनात्मा शत्रुरात्मनोऽपकारी तथा आत्मा आत्मन अपकारे वर्तत इत्यर्थः ॥ ६ ॥ आत्मैव रिपुरिति असम्पादितयोग आत्मैवात्मनश्शत्रुः । यस्मादयमात्मानं संसारसागरे निमज्जयति यथा शत्रुः घनाद्यपहरणेन पुरुषं दुःखसागरे निमज्जयति तद्वदिति । अत्राप्यवधारणार्थमाह–योन्य इति । अपकारित्वं शत्रोर्लक्षणम् । ननु पूर्ववाक्येन पित्रादि- बन्धूनां मोक्षप्रतिकूलत्वाच्छत्रुत्वमिति व्यवस्थापितं, सत्सु च तेषु शत्रुषु कथमात्मैव शत्रुरित्यवधारणं युक्तं स्यादत आह- आत्मप्रयुक्त इति । यद्वा धनाद्यपहारिषु बाह्येषु शत्रुषु बहुषु सत्सु कथमात्मैवे - त्यवधारणमत आह— आत्मप्रयुक्त इति । अयंभावः - पितृपुत्रादिषु बन्धुषु क्षेत्रवित्ताद्यपहारिषु शत्रुषु वा नास्ति स्वतो बन्धुत्वं शत्रुत्थ वा, किं तर्हि आत्मप्रयुक्तमेव तत् ममायं पुत्रो ममेदं धनमित्यादिममकाराभावे अहमनेन वर्धितोऽह- मनेन नाशित इत्याद्यहङ्काराभावे कः कस्य कथं बन्धुर्भवेत्कथं वा शत्रुर्भवेत् ? न कथमपि । तथा च अहङ्कारममकाररूपात्माभिमानप्रयुक्तत्वाद्वन्धुत्वशत्रुत्वयोः बन्धुरशत्रुश्चात्मप्रयुक्त एवेति । एतेन पूर्ववाक्योक्तं बन्धुगतं मोक्षप्रतिकूलत्वरूपं शत्रुत्वं एतद्वाक्योक्तमर्थादिपुरुषार्थप्रतिकूलत्व- रूपं शत्रुगतं शत्रुत्वं चात्मप्रयुक्तमेव- पित्रादिपिण्डेष्वात्मनः स्नेहाभावे, शत्रुहृतघनादिष्वात्मनो ममका- राभावे च पित्रादीनां मोक्षप्रतिकूलत्वस्य शत्रूणामर्थप्रतिकूलत्वस्य चासम्भवादिति सिद्धम् । अत एवोकमात्मैव बन्धुरात्मैव रिपुरात्मन इति ॥ ५ ॥ जितेन्द्रिय आत्मैवात्मनो बन्धुः, अजितेन्द्रिय आत्मैवात्मनश्शत्रुरिति पर्यवसन्नार्थः । येनात्मना आत्मैव जितः तस्यात्मनस्स आत्मा बन्धुः, अनात्मनस्तु शत्रुत्वे आत्मैव शत्रुवद्वर्तेतेत्यन्वयः । किं लक्षणं यस्य स किंलक्षण:–तस्यात्मनस्स आत्मेति । जितात्मन आत्मनः जितात्मा आत्मा इत्यर्थः । यो हि जितात्मा आत्मा स एव स्वस्य जितात्मनो बन्धुरिति यावत् । कथं स्वेनैवात्मना स्वयमात्मा जितो भवेदित्यत आत्मशब्दस्यार्थान्तरमाह- कार्य करणसङ्घात इति । कार्य देहः करणानीन्द्रियाणि तेषां सङ्घातस्समूहः । इन्द्रियव्यापाराधीनत्वात्कायव्यापारस्य नं कायजयस्य पृथग्वचनमित्यभिप्रेत्याह - जितेन्द्रिय इति । अत्रेन्द्रियशब्देन मनसोपि ग्रहणं– वेदान्तमतैकदेशे मनसोपीन्द्रियत्वात् । अन्तरिन्द्रियमिति हि तस्य व्यवहारः ।
षष्ठोऽध्यायः । जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥७॥ २५९ जितात्मान इति । जितात्मनः कार्यकरणसङ्घात आत्मा जितो येन सः जितात्मा; तस्य जितात्मनः प्रशान्तस्योपशान्तस्य परमात्मा समाहितः साक्षादात्मभावेन वर्तत इत्यर्थः । अनात्मनः अविद्यमान इति नार्थ: तस्यासम्भवात् असङ्गतत्वाच्च । किंतु अजितात्मन इति । शाकपार्थिवादित्वाज्जितपदलोपः । अविद्यमानपदस्यैवाजित इत्यर्थ इति वा धातूनामनेकार्थ- स्वात् । नञोस्त्यर्थानामिति विद्यमानपदलोपः । अस्वाधीनत्वाद्विरुद्ध आत्मा यस्य स अनात्मेति वा । नत्र विरोधार्थकत्वात् अजितेन्द्रियस्येत्यर्थः । आत्मैवेति । अजितेन्द्रियः स्वयंमेवेत्यर्थः । शत्रुवद्वर्तनं नाम अपकारकरणमित्याह - यथेत्यादिना । अजितेन्द्रियस्यात्मापकारित्वं चात्मनस्संसार सागरे पातनमेव, शत्रोरात्मापकारित्वं चात्मनो दुःखसागरे पातनम् । तस्मादजितेन्द्रियस्सन् पुरुषो नात्मानमवसादयेत् शत्रुवत्, किंतु जितेन्द्रियस्स- नात्मानमुद्धरेन्मित्रवदिति फलितार्थः ॥ ६ ॥ जितात्मन इति; प्रशान्तस्येति । वाचिकमानसिककायिकसर्वव्यापारोपरमरूपं प्रकृष्टं शर्म प्राप्तस्येत्यर्थः । समाहितः सम्यगाहितः स्थितः भवतीति शेषः । सम्यक्पदार्थमाह सांक्षादिति । प्रत्यक्षमित्यर्थः । केन रूपेण साक्षात्त्वमत आह- आत्मभावेनेति । माहितशब्दार्थमाह वर्तत इति । साक्षादात्मत्वेन प्रतिभातीति यावत् । व्यस्त्व जितात्मा स आत्मानं कूटस्थमविदित्वा प्रमातारमात्मानं मत्वा कूटस्थमीश्वरमन्यं परोक्षं मन्यते अतो न तद्दृष्ट्या परमात्मान आत्मत्वेन वर्तनं यः पुनर्जितेन्द्रियस्स आत्मानं कूटस्थमीश्वरं वेतीति तंदूदृष्ट्या परमात्मान एवात्मत्वेन वर्तनमिति भावः । „ जितेन्द्रियस्यैव स्वात्मभूतपरमात्मसाक्षात्कारो न त्वजितेन्द्रियस्येति परमार्थः । छात्र जितात्मनः प्रशान्तस्य हृदि परमात्मा समाहित इत्यप्यन्वयस्सम्भवति, अर्थस्तु पूर्वोक्त एव । शास्त्रोपदेशशमदमादिसंस्कृतमनस आत्मदर्शने करणत्वात्तादृशे समाहिते मनसि परमात्मा स्वयमात्मत्वेन स्फुरतीत्यर्थः । उक्त हि हंसगुह्ये व्यासेन भागवते — ‘यदोपरामो मनसो नामरूपरूपस्य दृष्टस्मृतसम्प्रमोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिषद्मने नम’ इति जितेन्द्रियस्य मनस्युपरते हंसाख्यात्म- स्फुरणं स्वत एव भवतीति श्लोकार्थः । यद्यपि ‘ईस्वरस्सर्वभूतानां हृदेशेर्जुन तिष्ठतीति सर्वस्यापि हृदि परमात्मा समाहित एव, तथापि नतु सर्वो वेति किंतु प्राज्ञ एव । ततश्च यं परमात्मानं हृदतं न वेति परमात्मा तस्य हृदि अवर्तमान इव वर्तते । पारोक्ष्येणं यस्तु वेति तस्य हृदि साक्षादात्मत्वेन वर्तत एवेत्यभिप्रायेण - ‘जितात्मनः प्रशान्तस्य परमात्मा समाहित’ इत्युक्तं व्यासेन । शङ्करेण च तथैव भाषितं साक्षादात्मभावेन वर्तत इत्यर्थ इति । साक्षादात्मत्वेन प्रतिभातीति पूर्वोक्तरीतौ तु न कापि शंकेति बोद्धयम् । २६० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु किंच शीतोष्णसुखदुःखेषु च, तथा माने च अवमाने च मानावमानयोः पूजापरिभवयोस्सम- स्स्यात् ॥७॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्ठाश्मकाञ्चनः ||८|| ज्ञानेति । ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानं विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभवकरणं ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तः संजातालंप्रत्ययः आत्मा यस्य स ज्ञानविज्ञानतृप्तात्मा कूटस्थः अप्रकम्पो भवतीत्यर्थः । विजितेन्द्रियश्च ईदृशो युक्तस्समाहित इति उच्यते कथ्यते । स योगी समलोष्ठाश्मकाञ्चनः लोष्ठाश्मकाञ्चनानि समानि यस्य सः ॥ सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥९॥ किंच, सुहृदिति । सुहृदित्यादिश्लोकार्थमेकं पदं । सुहृदिति प्रत्युपकारानपेक्षयैवोपकर्ता; मित्रं स्नेहवान्; अरिः शत्रुः उदासीनः न कस्यचित्पक्षं भजते; मध्यस्थः विरुद्ध योरुभयोर्हितैषी; किंचेति । जितेन्द्रियस्य योगिन इदमप्यावश्यकमिति भावः । सम इति मूले शेषः जितेन्द्रिय इति, योगीति वा कर्तुरुभयत्र शेषः । समो हर्षविषादवर्जितः । साम्याभावे तु विकार- प्रसङ्गेन जितेन्द्रियत्वं भज्येत, तेन च योगो नैव निष्पद्येत, तस्मात्समत्वं योग उच्यत इति प्रागुक्त- स्समत्वरूपो योगोऽपि व्यानयोगिन आवश्यक इति भावः ॥७॥ ज्ञानेति । ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः पुरुषः युक्त इत्युच्यते । योगीत्यादिक- मुत्तरश्लोकान्वयि । तथैवेति शास्त्रोक्त विधयैवेत्यर्थः । स्वानुभव करण स्वानुभवापादनम् । ज्ञानविज्ञा- नयोर्विषयपारोक्ष्याऽपरोक्ष्याभ्यां भेद इति भावः । अलंप्रत्ययोऽलंबुद्धिः, आत्मा मन, बुद्धिर्वा । कूटवतिष्ठतीति कूटस्थः निर्विकारः, अप्रकम्पो निश्चल इति यावत् । यद्यपि वस्तुतः आत्मा कूटस्थएव, तथापि बुद्धौ चलन्त्यामकूटस्थ इव प्रति- भातीति कूटस्थ इत्युक्तम् । बुद्धिचाञ्चल्याभावात्कूटस्थरूपेण प्रतिभातीत्यर्थः । निश्चलबुद्धिरिति कूटस्थशब्दस्य यावदर्थः समाहितश्चित्तसमाधानवान् । योगो हि चित्तसमाधानं, उच्यते शास्त्रैः शास्त्रज्ञै- रिति वा । नत्वनेवंविधस्य क्वापि कथमपि चित्तसमाधानं भवितुमर्हतीति भावः ॥८॥ + . सुहृदिति । समलोष्ठाश्मकाञ्चनः सुहृदादिषु साधुषु पापेष्वपि च समबुद्धियोगी विशिष्यते । लोष्ठं मृत्पिण्डः अश्मा पाषाण उपलो मणिर्वा काञ्चनं हेम एतानि यस्य समानि स समलोष्ठाश्म- काञ्चन:- लोष्ठादिषु न परित्याज्यताबुद्धिः काञ्चने न स्वीकार्यता बुद्धियोगिन इत्यर्थः । लोष्ठादिकमिव काश्चनमपि परित्यजत्येव नतु स्वीकरोतीति यावत् । द्रव्यसाध्यप्रयोजनाभावादस्य । इदं तु काञ्चने भ्रमराहित्यं दुष्करं योगिनः । यत उक्तं- ‘वेधा द्वेघा भ्रमं चक्रे कान्तासु कनकेषु च । तासु तेष्वप्यना- सक्तः साक्षाद्भर्गो नराकृति’ रिति । तस्मात्काञ्चनं मलवत्परित्याज्यं योगिनः ।षष्ठोऽध्यायः ।, ३६१ द्वेष्यः आत्मनः अप्रियः; बन्धुस्सम्बन्धीत्येतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रति- षिद्धकारिषु सर्वेषु तेषु समबुद्धिः कः कर्ता किं कर्मेत्यव्याकृतबुद्धिरित्यर्थः । विशिष्यते; स मुच्यत इति पाठान्तरम् । योगारूढानां सर्वेषामयमुत्तम इत्यर्थः ॥ ९ ॥ योगी युब्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १०॥ I अतएव उत्तमफलंप्राप्तये - योगीति । योगी ध्यायी युञ्जीत समादध्यात् सततं सर्वदा आत्मानमन्तःकरणं रहस्येकान्ते गिरिगुहादौ स्थितस्सन एकाकी असहायः रहसि स्थितः; एकाकी चेति विशेषणात् सन्न्यासीत्यर्थः । यतचित्तात्मा चित्तमन्तःकरणमात्मा समबुद्धिरिति । समा अविकृता बुद्धिर्यस्य स समबुद्धिः समः आत्मा तस्मिन् बुद्धिर्यस्य स समबुद्धिरिति वा - समदर्शीत्यर्थः । इदमेवाहाव्याकृतबुद्धिरिति । अव्याकृतो निर्विकार आत्मा, अव्याकृता विकृतिरहिता बुद्धिर्यस्य स इति वा । बुद्धिमेवाभिनीय दर्शयति - कः कर्ता किं कर्मेति । आत्मनोऽविकारित्वादनात्मनोऽचेतनत्वा- नास्ति कर्ता । तथा आत्मान्यस्य सर्वस्यापि मृषात्वात्कर्मापि नास्ति । यद्वा ममाकर्तृत्वाद्देहादेरना- त्मत्वान्नास्ति कर्मेत्यर्थः । विशिष्यत इति । न ज्ञानयोगिभ्यः - सर्वोत्तमत्वा तेषां न च कर्मयोगिभ्यः- कर्मयोग्यपेक्षया घ्यानयोगिन उत्कर्षस्य स्वतस्सिद्धत्वेन वचनानर्हस्यात् । किंतु स्वेतरध्यानयोगिभ्य एवेत्यभिप्रेत्याह- योगारूढानामिति । सर्वेषां मध्ये इत्यर्थः । सर्वत्र समबुद्धिमत्त्वात् समबुद्धेश्व ज्ञानयोग प्रधानांशत्वा- चेति भावः ||९|| योगीति । योगी रहसि स्थितः एकाकी यतचित्तात्मा निराशीरपरिग्रहश्च सन्नात्मानं सततं युञ्जीत घ्यायीत, ध्यानशील: आत्मानं युञ्जीत चितं ब्रह्मणि समादध्याद्ब्रह्मणि चित्तसमाधानं कुर्यात् । असहायः भार्यादिसहायरहितः; गृहस्थस्य गृहएव स्थितिः, नतु गिरिगुहादौ, भार्यासहितस्यैव गृहस्थस्य कर्मस्वधिकारो नतु तद्रहितस्येति । यद्वा गृहस्थस्य भार्यादिसहायपरित्यागोऽनुचितः- भार्यादि- त्यागस्य दोषावहत्वात्- ‘ऋतौ भार्यामुपेया’ दित्यादिशास्त्रात् । अतो न गृहस्थस्यैकाकित्वं रहस्स्थितत्व वा सम्भवतीति कृत्वा एकाकी रहसि स्थित इति विशेषणात्सन्न्यासिलाभ इत्याह - रहसीति । नच भार्यापरित्यागो गृहस्थस्येव सन्न्यासिनोपि दोषावहएव ‘ऋतौ भार्यामुपेया’ दिति शास्त्र- विरोधादिति वाच्यं, ऋताविति शास्त्रस्य परिसङ्ख्या विघित्वेन ऋतुकालइव तदितरकालेष्वपि भार्यागमनं यस्य नित्यप्राप्तं तं गृहस्थं प्रत्येव ऋतावेव भार्यामुपेयादिति विहितं नतु सन्यासिनं प्रति । वस्य भार्याया एवाभावेन तद्गमनस्याऽप्राप्तत्वात् । न चैतदर्थम पूर्व विधिरेव स इति वाच्यं, गृहस्थे भार्यागमनस्य नित्यप्राप्तत्वेनापूर्वविधित्वाभावात् । सन्न्यासिनस्सर्वपरि त्यागस्य विधानाच्च यदहरेव विरजेत्तदहरेव मनजे’ दित्यादिशास्त्रेण । २६२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशक्लिसित श्रीशाङ्करभाष्योपेतासु देहश्व संयतौ यस्य सः यतचित्तात्मा निराशीर्विगत तृष्णः अपरिग्रहः परिग्रहरहितश्च । सन्न्या- सित्वेपि त्यक्तसर्वपरिग्रहस्सन् युब्जीतेत्यर्थः ॥ १० ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मः । नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥११॥ अथेदानीं योगं युब्जानस्य आसनाहारविहारादीनां योगसाधनत्वेन नियमो वक्तव्यः; प्राप्तयोगलक्षणं तत्फलादिकं चेत्यत आरभ्यते तत्र आसनमेव तावत् प्रथममुच्यते — शुचा विति । शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा देशे स्थाने प्रतिष्ठाप्य स्थिरमचलं आत्मन आसनं नात्युच्छ्रितं अतीवोच्छ्रितं अत्युच्छ्रितं नाप्यतिनीचं तच्च चेलाजिनकुशोत्तरं चेलं अजिनं कुशाश्चोत्तरे यस्मिन्नासने तदासनं चेला जिनकुशोत्तरं विपरीतोल क्रमवेलादीनां प्रतिष्ठाप्य ॥११॥ तस्मादे का कित्वं रहस्स्थितिश्वति द्वयं सन्न्यासिनएव, नतु गृहस्थस्य- गृहे तिष्ठतीति गृहस्थः, गृहे भार्यया सह तिष्ठतीति गृहस्थ इति च व्युत्पत्तेः । संयतौ नियमितौ युक्ताहारविहारादिना स्वायत्तीकृतावित्यर्थः । परिग्रहः धनधान्यादिः । यद्यपि सन्न्यासिनोऽपरिग्राह्यमेव तथापि सन्न्यासोचितकाषायाम्बरौदिपरिग्रह निषेघायोक्तमपरिग्रह इत्याह- सन्न्यासित्वेपीति । सन्यासिनो यः परिग्रह आवश्यकः तमपि त्यजेदित्यर्थः । एतेन दिगम्बरत्वं दण्डकमण्डलुराहित्यं च परमहंससन्न्यासाश्रमलक्षणं सूचितम् । यद्वा सन्न्यासी भवन्नपि यः कश्चन देवालयादिधर्मकार्यार्थे धनादिपरिग्रह सम्पादयेत् तं प्रत्याह– अपरिग्रह इति । सन्न्यासिनो देवालयादिधर्मकार्यसाध्यप्रयोजनाभावात्सन्न्यासिनो मुमुक्षुत्वान्मोक्ष- स्याकार्यत्वात्कि मुमुक्षोरसन्न्यासिनो धर्मकार्यैरधर्मकायैर्वा । तस्मात्सन्न्यासित्वेपि परिग्रहरहितएव स्या- द्योगी । सति परिग्रहे तद्रक्षादिव्यग्रस्य चित्तस्य ब्रह्मणि समाघानालाभादिति भावः । यत्तु रामानुजः - योगी कर्मयोगनिष्ठः यतचित्तात्मा यतचित्तमनस्क इति, तत्तुच्छम्- कर्मयोगिनो विजनस्थित्यसम्भवात् कारकादिसापेक्षो हि कर्मयोगः । यतचित्त इत्यनेन यतमना इत्यनेन वा विवक्षितमनोजये सिद्धे यतचित्तमनस्क इति चित्तमनसोर्ग्रहणं पुनरुक्तम् ॥१०॥ शुचाविति । प्राप्तयोगलक्षणं योगारूढलक्षणं च वक्तव्यं तत्फलादिकं च वक्तव्यमित्यतो हेतो- रारभ्यते उत्तरग्रन्थ इति शेषः । शुचौ स्वभावतः शुद्धे परिशुद्ध संस्कारतो विविक्ते विजने वा – निस्संसारे इत्यर्थः । संसारः पशुशिश्वादिः । शुचौ देशे नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं स्थिरमात्मन आसनं प्रतिष्ठाप्येत्यन्वयः । आसनं दार्वादिमयं पीठं । विपरीत इति । कुशा जिन चेलानी- त्यर्थः । आसनस्योपरि कुशाः, तदुपर्यजनं, तदुरि चेलं चेति क्रमः प्रतिष्ठाप्य स्थापयित्वा ॥११॥ षष्ठोऽध्यायः । तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥ १६३ किंच, तवेति । तत्र तस्मिन्नासने उपविश्य योगं युंज्यात्- समाधानं कुर्यात् । कथं, सर्वविषयेभ्य उपसंहृत्य एकाग्रं कृत्वा मनः । यतचित्तेन्द्रियक्रियः चित्तं च इन्द्रियाणि च चित्तेन्द्रियाणि तेषां क्रियाः संयताः यस्य सः यतचित्तेन्द्रियक्रियः । स किमर्थं योगं युज्ज्यादित्याह — आत्मविशुद्धये अन्तःकरणस्य शुद्धयर्थमित्येतत् ॥ १२ ॥ समं काय शिरोग्रीवं धारयन्नचलं स्थिरः । सम्प्रेभ्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥ बाह्यमासनमुक्तमधुना शरीरधारणं कथमित्युच्यते– सममिति । समं कायश्च शिरव ग्रीवा च काय शिरोग्रीवं, तत् समं धारयन्नचलं च समं धारयतश्चलनं सम्भवत्यतो विशिष्ट्य - चलमिति । स्थिरःस्थिरोभूत्वेत्यर्थः । संप्रेक्ष्य सम्यक्प्रेक्षणं दर्शनं कृत्वेवेतीवशब्दो लुप्तोद्रष्टव्यः । न हि स्वनाशिकाग्रसम्प्रेक्षणमिह विधिस्थितं, किं तर्हि चक्षुषोर्डष्टिसन्निपातः । स चान्तःकरण- समाधानापेक्षो विवक्षितः स्वनासिकाग्रसम्प्रेक्षणमेव चेद्विवक्षितं मनस्तत्रैव समाधीयेत, आत्मनि हि मनस्समाधानं वक्ष्यति आत्मसंस्थं मनः कृत्वेति । तस्मादिवशब्दलो पेनाक्ष्णो! दृष्टिसन्निपात एव सम्प्रेक्ष्येत्युच्यते । स्वं दिशश्च अनवलोकयन् दिशां चावलोकनं स्वय- मकुर्वन्नित्येतत् ॥१३॥ 1 तत्रेति । तत्रासने उपविश्य यतचित्तेन्द्रियक्रियस्सन् मन एकामं कृत्वा आत्मविशुद्धये योगं युज्यात् । एकाग्रमिति । एकमयं चिन्तनीयमस्येत्येकाग्रम् । ‘एकाग्रमेकताने स्यादेकाग्रे चाप्यना, कुले’ इति विश्वः । एकतानं सावधानं आत्मैकध्यानपरमिति यावत् । इदं च मनसो विषयप्रत्याहारं विना न सम्भवतीत्यभिप्रेत्याह - सर्वविषयेभ्य उपसंहृत्येति । निवस्येत्यर्थः । आत्मविशुद्धये आत्मा नात्र कूटस्थः- तस्य सर्वपवित्रीकरणचणस्य स्वतः पवित्रतमस्य भवितव्यशुद्ध्यभावात् । किंतु मन एवेत्याह- अन्तःकरणमिति । तस्य शुद्धिर्नाम रागादिदोषाभावः प्रसन्नतेति यावत् ॥ १२ ॥ सममिति । कायशिरोग्रीवं सममचलं च धारयन् स्थिरो भूत्वा स्वं नासिकाग्रं सम्प्रेक्ष्यम दिशश्वानवलोकयन् सन् प्रशान्तात्मा विगतभीः ब्रह्मचारित्रते स्थितश्च सन् योगीति शेषः; मनः संयम्य मचितः युक्तः मत्परश्च सन्नासने इति शेषः । आसीत इति श्लोकद्वयस्यान्वयः । कायशिरोग्रीवमिति समाहारत्वादेकत्वं क्लीवत्वं च । कायश्च शिरश्व प्रीवा च तत्समाहारः कायशिरोग्रीवम् । कण्ठश्रोणिमध्यदेशोत्र कायः - ऊर्वादिकायस्यासनबन्धनेनैव समीकृतत्वादचली - कृतत्वाच्च । ग्रीवाग्रहणं स्पष्टार्थ - शिरवलनं विना ग्रीवाचलनासम्भवात् शिरसि समेऽचले च कृते सति ग्रीवायात्समत्वाचलत्वलाभाच्च । स्थिर इति। स्थैर्यमत्र बुद्धिगतं बोध्यम्– कायगतस्योक्तत्वात् । स्थिरबुद्धिरित्यर्थः । यद्वा काय- २६४ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु प्रशान्तात्मा विगतभीर्ब्रह्मचारित्र ते स्थितः । मनस्संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४ ॥ किंच, प्रशान्तेति । प्रशान्तात्मा प्रकर्षेण शान्तः आत्मान्तःकरणं यस्य सोऽयं प्रशान्तात्मा, विगतभीः विगतभयः, ब्रह्मचारित्रते स्थितः ब्रह्मचारिणो व्रतं ब्रह्मचारित्र्तं ब्रह्मचर्यं गुरुशुश्रूषा- भैक्षभुक्त्यादि तस्मिन् स्थितस्तदनुष्ठाता भवेदित्यर्थः । किंच मनस्संयम्य मनसो वृत्तीरुप- संयम्येत्येतत् । मच्चित्तो मयि परमेश्वरे चित्तं यस्य सोऽयं मच्चित्तः, युक्तः समाहितस्स- नासीत उपविशेत्; मत्परः अहं परो यस्य सोऽयं मत्परो भवति । कश्चिद्रागी स्त्रीचित्तो न तु स्त्रियमेव परत्वेन गृह्णाति, किं तर्हि राजानं महादेवं वा । अयं तु मच्चित्तो मत्परच ॥ युजन्नेवं सदात्मानं योगी नियतमानसः । शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५॥
- अथेदानीं योगफलमुच्यते – युञ्जन्निति । युञ्जन् समाधानं कुर्वन् एवं यथोक्तेन विधिना सदात्मानं सर्वदा योगनियतमानसः नियतं संयतं मानसं मनो यस्य सोयं नियत- मानस:- शान्तिमुपरति निर्वाणपरमां निर्वाणं मोक्षः परमा निष्ठा यस्याश्शान्तेः तां निर्वाण- परमां मत्संस्थां मदधीनां अधिगच्छति प्रप्नोति ॥१५॥
- शिरोग्रीवं सममचलं धारयन्नतएव स्थिर इति । अनेन च स्थिरपदेन चिरकालं कायाद्यचलनपूर्वक - मासने स्थातुं क्षम इति व्यज्यते ।
- दृष्टिसन्निपात इत्यस्य दृष्टेस्सन्निपातो रूपादिविषयप्रवृत्तिराहित्यमित्यर्थः । स चेति । दृष्टिसन्निपात इत्यर्थः । अन्तःकरणस्य समाधानमपेक्षत इत्यन्तःकरणसमाधानापेक्ष अन्तःकरणसमाधानार्थ इत्यर्थः । तत्रैव नासाग्र सम्प्रेक्षण एव । स्वं स्वीयमित्यर्थः । स्वयमिति वा । स्वो ज्ञातावात्मनि स्वमिति आत्मार्थे क्लीबत्वात् ॥१३॥
- 1
- प्रशान्तात्मेति । शान्तः प्रसन्नः । विगतभीरिति । निर्जन देशस्थित्यादिप्रयुक्तभयरहितः सर्व- शून्यात्मावलोकनप्रयुक्तभयरहित इति वा । अभये भयदर्शन इति निर्विकल्पसमा घेर्भयहेतुत्वमुक्तं हि गौडपादाचार्यैः । मनस्संयमनं नाम मनसो निर्वृत्तीकरणं; कामादिवृत्तिसत्त्वे मनश्वाश्चरयादिति भावः ।
- ‘मचितः आत्मनिष्ठमना इत्यर्थः । परमेश्वरस्यैवात्मत्वात् । ननु यो यश्चित्तस्स तत्परएव भव- तीति मत्पर इति विशेषणं व्यर्थमत आह—- कश्चिदिति । परत्वेन उत्कृष्टत्वेन प्राप्यत्वेनेति वा । अयं योगी तु मत्परश्च मय्येव परत्वबुद्धिमान् ॥ १.४ ॥
- युब्जन्निति । योगी नियतमानसः एवं सदा आत्मानं युञ्जन् मत्संस्थां निर्वाणपरमां शान्ति- मधिगच्छति । आत्मानमन्तःकरणं युञ्जन् ब्रह्मणि समाहितं कुर्वन्नित्यर्थः । शन्तिसुपरतिं सर्वकर्म सन्न्यासमिति यावत् । निष्ठापर्यवसानं फलमिति यावत् । मदधीनामिति । अकर्तात्मस्वभाव भूतामित्यर्थः एवं समाहितमना निर्व्यापारस्तूष्णीमात्मानमवलोकयन् वर्तत इत्यर्थः ॥ १५॥
- ३४
- षष्ठोऽध्यायः ।
- नात्यश्नतस्तु योगोस्ति नचैकान्तमनश्नतः ।
- नचातिस्वमशीलस्य जाग्रतो नैव चाऽर्जुन ॥ १६॥
- २६५
- योगिनः आहारादिनियम उच्यते — नेति । न अत्यनतः आत्मसम्मितं अन्नपरिमाणं अतीत्य अश्नतः अत्यश्नतः योगोस्ति, नचैकांतमनश्नतः योगोस्ति; तदुक्तं- ‘यदुह वा आत्मसंमित- मन्नं तदवति तन्न हिनस्ति यद्भूयो हिनस्ति तद्यत्कनी यो न तदव’ तीति श्रुतेः । तस्माद्योगी आत्मसम्मितादन्नादधिकं न्यूनं वा नाश्नीयात् । अथ वा योगिनो योगशास्त्रे परिपठिता- दन्नपरिमाणादतिमात्रमश्नतो योगो नास्ति, उक्तं हि ‘अर्ध सव्यन्जनान्नस्य तृतीयमुदकस्य च । वायोस्सञ्चरणार्थं तु चतुर्थमवशेषयेत् ॥’ इत्यादिपरिमाणम् । तथा न चातिस्त्रमशीलस्य योगो भवति नैव चातिमात्र जाग्रतो योगो भवति चार्जुन ! ॥ १६ ॥
- युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
- युक्तस्वभावबोधस्य योगो भवति दुःखहा ॥ १७॥
- कथं पुनर्योगो भवतीत्युच्यते - युक्ताहारेति । युक्ताहारविहारस्य आहियत इत्याहा - रोनं हिरणं विहार: पादक्रमः तौ युक्तौ नियतपरिमाणौ यस्य; तथा अन्या च नियता चेष्टा यस्य कर्मसु तथा युक्तस्वमावबोधस्य युक्तौ स्वमावबोधौ स्वप्नच अवबोधथ तौ नियतकालौ यस्य तस्य युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो योगो भवति दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्वसंसारदुःखक्षयकृद्योगो भवतीत्यर्थः ॥ १७॥
- नेति; आत्मसम्मितमिति । आत्मनः स्वस्य सम्यक् मितं सम्मितं आत्मतृप्तये पर्याप्तमित्यर्थः । स्वजठरकोशाय पर्याप्तमिति वा ।
- यदिति श्रुतेरयमर्थ:- उ ह वेति प्रसिद्धौ । यदात्मसम्मितमन्नं तत्पुरुषं भोक्तारमवति रक्षति । तवं न हिनस्ति न नाशयति रोगादिजननद्वारेति भावः । यद्भूयः अपरिमितमन्नं त हिनस्ति; यत्कनीयः अल्पमप्यन्नं तन्नावति, किंतु हिनस्त्येवेत्यर्थः ।
- यस्मादिति । आत्मसम्मितान्न्यूनाधिकान्नयोररक्षकत्वात्प्रत्युत हिंसकत्वाश्वित्यर्थः । अरूपा- नाशने शरीरधारणं न सम्भवति, अघिकान्नाशने शरीरादीनामात्मवश्यत्वं न सम्भवतीति भावः ।
- व्यञ्जनानि घृतसूपादीनि । अर्धमिति । अन्नकोशस्येति शेषः । अयं श्लोकः ‘द्वौ भागौ पूरयेदन्नैः तोयेनैकं प्रपूरयेत् । मारुतस्य प्रचारार्थं चतुर्थमवशेषयेदिति प्रकारान्तरेणापि पठ्यते । अर्थस्त्वभिन्न एव । अन्नैरिति बहुत्वं व्यञ्जनापेक्षया । एतेन मिताशिन एव योगलाभ इति सिद्धम् ।
- अतिस्वप्नशीलं अतिखप्नोऽत्यन्तनिद्राशीलं यस्य स अतिस्वप्नशील :- नक्तं दिवमपि निद्राण इत्यर्थः । तस्य अतिनिद्रा अतिजागरणं च योगिना परित्याज्यमित्युत्तरार्थः ॥ १६ ॥
- युक्तेति । आह्वियते भुज्यते । पादक्रमः पादविक्षेपः सञ्चार इति यावत् । न केवलमाहार-
- २६६
- श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
- यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
- निस्पृहस्सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥ -
- अथाऽधुना कदा युक्तो भवतीत्युच्यते - यदेति । यदा विनियतं विशेषेण नियतं संयतं एकाग्रतामापनं चित्तं हित्वा बाह्यार्थचिन्तामात्मन्येव केवलेऽवतिष्ठते, स्वात्मनि स्थिति लभत इत्यर्थः । निस्पृहस्सर्वकामेभ्यो निर्गता स्पृहा तृष्णा दृष्टादृष्टविषयेभ्यो यस्य योगिनः स युक्तस्समाहित इत्युच्यते तदा ॥ १८ ॥
- यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
- योगिनो यतचित्तस्य युब्जतो योगमात्मनः ॥ १९ ॥
- योगिनः समाहितचित्तस्योपमोच्यते - यथेति । यथा दीप: प्रदीपः निवातस्थो . निवाते वातवर्जिते देशे स्थितः नेङ्गते न चलति सा उपमा उपमीयते अनयेत्युपमा योगज्ञैः
- चित्तप्रचारदर्शिभिः स्मृता चिन्तिता योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्जतो योग- मनुतिष्ठत आत्मनः समाधिमनुतिष्ठत इत्यर्थः ॥ १९ ॥
- रहितो गमनरहितश्च स्यात्, नाप्यतिमात्रमाहारवान् सञ्चारवान् वा स्यादित्यर्थः । कर्मसु स्नानादिषु; चेष्टा व्यापारः; अवबोधो जागरम् ॥१७॥
- यदेति । मनसः केवलात्मस्थितिला मे सति तदात्मानन्दानुभवव्यग्रतया तन्मनो न बाह्यविषया- नुभव सुखमपेक्षते तुच्छत्वादस्य । अतः सर्वकामेषु निस्पृहत्वं जायते । य एवंविधो योगी स युक्त इत्युच्यते विद्वद्भिशास्त्रेण वा ॥ १८ ॥
- यथेति । निवातस्थो दीपो यथा नेङ्गते सा यतचित्तस्यात्मनो योगं युञ्जतो - योगिन उपमा स्मृता । उपमोच्यते उपमानमुच्यत इत्यर्थः । यथेति । य इत्यर्थः । सेति विधेयप्राधान्यात् स्त्रीत्वम् । स इत्यर्थः । दीप इति यावत् । यो दीपो निवातस्थो नेङ्गते स दीपो योगिन उपमा स्मृता निवातस्थों निश्चलदीपो योगिन उपमानभूत इत्यर्थः ।
- कैः स्मृतेत्यत आह-योगज्ञैरिति । योगिन एवं स्वानुभवानुसारेण स्वस्योपमानं निवातस्थ - दीपमुक्तवन्त इत्यर्थः । योगं युञ्जत इति पार्कं पचतिं वाचं वदतीत्यादिवन्निर्देशः ।
- यद्वा योगशब्दसान्निध्यबला चुञ्जत इत्यस्य अनुष्ठानसामान्यमेवार्थः, नतु योगानुष्ठानविशेष:- पौनस्वत्यात् । अत एवाहानुतिष्ठत इति; आत्मनो योगं युञ्जत आत्मनः समाधिमनुतिष्ठत इत्यर्थः । ब्यात्मात्र मनः तस्यैव समाधेयत्वात् । बुद्धिरिति वा, नतु प्रत्यक्कू तस्य समाधानाद्ययोगात् ।
- •
- अथ वा आत्मा प्रत्यगेव - विषयविषयिभावसम्बन्धे शेषे षष्ठी । आत्मनो योगमात्मविषयकं योगमित्यर्थः । योगश्चित्तसमाधानम् । पूर्वोक्तार्थे तु समाधानमात्रमेवार्थः । आत्मविषयक चित्त समाधान नाम आत्मनि चित्तसमाधानं तद्युञ्जतोऽनुतिष्ठत इति । आत्मनि चित्तं समाहितवत इत्यर्थः । आत्मनि समाहित चित्तस्येति यावत् । आत्मनो मनस इति मते तु मनसो योगं समाधानं प्रकरणादात्मन्येवेति बोध्यम् ।
- 1
- षष्ठोऽध्यायः ।
- यत्रोपरमते चित्तं निरुद्धं योगसेवया ।
- यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥
- २६७
- एवं योगाभ्यास बलात् एकाग्रीभूतं निवातप्रदीपकल्पं सत्, यत्रेति । यत्र यस्मिंश्च काले उपरमते चित्तमुपरतिं गच्छति निरुद्धं निवारितं योगसेवया सर्वतो निवारितप्रचारं योगानुष्ठानेन यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेनान्तः करणेन आत्मानं परं चैतन्यं ज्योतिस्स्वरूपं पश्यन्नुपलभमानः स्व आत्मनि तुष्यति तुष्टिं भजते ॥२०॥
- सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
- वेत्ति यत्र नचैवायं स्थितश्चलति तत्त्वतः ॥२१॥
- किंच- सुखमिति । सुखमात्यन्तिकं अत्यन्तमेव भवतीत्यान्तिकं अनन्तमित्यर्थः । यत्तद्बुद्धिग्राह्यं बुद्ध्यैवेन्द्रियनिरपेक्षया गृह्यत इति बुद्धिग्राह्यं अतीन्द्रियमिन्द्रियगोचरातीत-
- यथा निवातस्थो दीपः न चलति तथा आत्मयोगे स्थितो योगी न चलतीति परमार्थः । न च योगिन आत्मत्वेन आत्मनश्चाचलत्वेन चलनस्य प्रसक्तिरेव नास्तीति कुतो निषेध इति वाच्यं, बुद्धि- चाञ्चल्यप्रयुक्तस्थारोपितचलनस्यात्मनि प्रसक्तत्वेन तनिषेधसम्भवात् ।
- यद्वा यतचित्तस्य योगं युञ्जतो योगिन आत्मनश्चित्तस्य सोपमेत्यन्वयः । एवं च निवातस्थित- दीपवदात्मस्थितं योगिनश्चित्तं न चलतीति पर्यवसन्नार्थः । अयमेव निर्विकल्पसमाधिः- यत्र निर्वृत्ति- कस्य मनस आत्मस्वरूपे लीनवदवस्थानम् ।
- श्लोकस्य योजनान्तरमुच्यते - यतचित्तस्यात्मनो योगं युञ्जतो योगिनश्चित्तं नेङ्गत इत्यस्मिन्नर्थे यथा निवातस्थो दीपों नेङ्गते सा एषोर्थ उपमा दृष्टान्तो योगशैः स्मृतेति । यथा निवातस्थो दीपो नेते तथा योगिन आत्मस्थं चितं नेङ्गत इति वाक्यार्थद्वयस्य दृष्टान्तदाष्टन्तिकभाव इत्यर्थः । आत्मस्थयो गिचित्तं निवातस्थदीपवन्न चलतीत्येव पर्यवसन्नार्थः ।
- अन्यापि योजना प्रदर्श्यते– यथा सम्यक् निवातस्थः निवाते सम्यगवस्थापित इत्यर्थः । दीपों नेङ्गते सा निवातस्थो निश्चलस्स दीप इत्यर्थः । अन्यत्पूर्ववत् ॥ १९ ॥
- यत्रेति । प्रदीपकल्प सदिति चित्तविशेषणम् । उपरमते निर्व्यापारं भवति, सर्वतः सर्व- विषयेभ्यः उपलभमानः अनुभवन् ज्योतिर्ज्ञानम् ॥२०॥
- सुखमिति । यत्तत्प्रसिद्धमित्यर्थः । यद्वा यत् तत् इति पदद्वयम् । यदात्यन्तिकमतीन्द्रियं बुद्धिप्रा च तत्सुखं यत्र वेत्तीत्यन्वयः ।
- 4
- बुद्धिग्राह्यमिति । ’ दृश्यते त्वग्र्यया बुद्धये ‘ति श्रुतेरिति भावः । यद्यपि विषयसुखमर्पि बुद्धयैव गृह्यते, तथार्पान्द्रियद्वारा गृह्यते - विषयेन्द्रियसंयोगाभावे विषयसुखस्यैवानुदयेन कुतः पुनस्त- स्प्रत्यक्षं केवलाया बुद्धेरित्याह- इन्द्रियनिरपेक्षयेति । कुत इन्द्रिय निरपेक्षत्वमत आह- अतीन्द्रिय- मिति । इन्द्रियगोचरं हि वस्तु बुद्धया तत्सापेक्षया गृझते, इदं त्विन्द्रियातीतमिति नात्र बुद्धेरिन्द्रि-
- २६८
- श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
- 1
- मविषयजनितमित्यर्थः । वेत्ति तदीदृशं सुखमनुभवति यत्र यस्मिन्काले । नचैवायं विद्वा- नात्मस्वरूपे स्थितस्तस्मान्नैव चलति तत्त्वतः; तत्त्वस्वरूपान्न प्रच्यवत इत्यर्थः ॥ २१ ॥
- यं लब्ध्वा चापरं लाभं मन्यते नाधिकं यतः ।
- यस्मिन् सिद्धो न दुःखेन गुरुणापि विचाल्यते ॥ २२॥
- किंच- यमिति । यं लब्ध्वा यमात्मलाभं लब्ध्वा प्राप्य च अपरमन्यं लाभान्तरं ततोऽधिकमस्तीति न मन्यते न चिन्तयति, किंच- यस्मिन्नात्मतत्त्वे स्थितो न दुःखेन शस्त्रपातादिलक्षणेन गुरुणा महतापि न विचाल्यते ॥२२॥
- तं विद्यादुःखसंयोगवियोगं योगसंज्ञितम् ।
- स निश्चयेन योक्तव्यो योगो निर्विण्णचेतसा ॥ २३ ॥
- यत्रोपरमत इत्याद्यारभ्य यावद्भिर्विशेषणैर्विशिष्ट आत्मावस्थाविशेषो योग उक्तः । तमिति । तं विद्याद्विजानीयात् - दुःखसंयोगवियोगं दुःखैस्संयोगो दुःखसंयोगः तेन वियोग: दुःखसंयोगवियोगः तं दुःखसंयोगवियोग योग इत्येव संज्ञितं विपरीतलक्षणेन विद्याद्विजा- यापेक्षेति भावः । ननु विषयसुखमपि मानसिकत्वेनातीन्द्रियमेव, मनो हि तव मते नेन्द्रियमत आह- अविषयजनितमिति । विषयेन्द्रियसंयोगजं सुखमतीन्द्रियं न भवति इन्द्रियपरतन्त्रत्वादिति भावः ।
- ईदृशमुक्तलक्षणं सुखमात्मस्वरूपभूतमानन्दं– अयं योगीत्यर्थः । तस्मात्तत्त्वतः तत्त्वादात्म- स्वरूपा दित्यर्थः । न चलतीत्यस्यार्थमाह - प्रच्यवत इति । नैव भ्रश्यतीत्यर्थः । योगिनं आत्म- स्वरूपाच्चित्तस्य अंशस्साक्षादेव सम्भवति, विदुषस्तु अनात्मतादात्म्याभ्यासद्वारेति विवेकः ॥२१॥
- यमिति । यं लब्ध्या ततोऽधिकमपरं लाभ न च मन्यते, यस्मिन् स्थितो गुरुणा दुःखेनापि
- न विचारयते । लभ्यत इति लाभः प्राप्यं वस्तु ॥२२॥
- तमिति । तं दुःखसंयोगवियोगं योगसंज्ञितं विद्यात् । स योगः अनिर्विण्णचेतसा निश्चयेन योक्तव्यः दुःखसंयोगवियोग: दुःखसंयोगाभावः दुःखासंयोग इति यावत् । ननु वियोगस्य कथं योग- संज्ञेत्यत आह - विपरीतलक्षणेनेति । विरुद्धलक्षणयेत्यर्थः ।
- यद्वा योगेप्यस्मिन् दुःखसंयोगाभावरूपविपरीतलक्षणसत्त्वाद्योगमेवानुं दुःखसंयोगवियोगं विद्यात् । अस्मिंश्च पक्षे योगसंज्ञितं तं दुःखसंयोगवियोगं विद्यादित्यन्वयः ।
- ननु यत्तच्छब्दार्थयोरैक्येन भाव्यत्वात् यत्रोपरमते यत्र चैवात्मना वेति यत्र न चैवाय इत्येषु स्थलेषु यच्छब्दस्य कालार्थ उक्तः, यं लब्ध्वा यस्मिन् स्थित इत्यत्र य आत्मार्थ उक्तः तं विद्या- दिति तच्छब्दस्य तु योगार्थ उक्त इति कथमिदमुपपद्यते यत्तदोर्भिन्नार्थत्वमिति चेदुच्यते - तं तत्का- लोपलक्षितं तदात्मविषयकं च योगमित्यर्थाददोष इति ।
- ननु रामानुजभाष्यरीत्या यच्छब्दपञ्चकस्य योगार्थ एव वाच्यः, तथा च सति तं योगमिति स्वरसतस्सिद्ध्यति यत्तदोरेकार्थत्वं, इदानीं तु तच्छब्दस्य लक्षणाश्रयणं दुष्टमिति चेन्मैवम्-यत्र योगे
- षष्ठोऽध्यायः ।
- २६९
- नीयादित्यर्थः । योगफलमुपसंहृत्य पुनरन्वारम्भेण योगस्य कर्तव्यतोच्यते- निश्चया- निर्वेदयोः योगसाधनत्वविधानार्थं सः यथोक्तफलो योगो निश्चयेनाध्यवसायेन योक्तव्यः । अनिर्विण्णचेतसा न निर्विण्णमनिर्विण्णं किं तच्चेतः तेन निर्वेदरहितेन चेतसा चित्तेनेत्यर्थः ॥ योगसेवया चित्तं निरुद्धमिति वाक्यस्य पुनरुक्तिदोषस्तत्वात् । योगश्चित्तवृत्तिनिरोध इति पतञ्जलिना भाषितमिह च योगश्चित्तसमाधानमित्युक्तम् । तथा च चित्तं निरुद्धमित्यस्य योग इत्यस्य चैकार्थ्या- त्पुनरुक्तिः; योगे योगसेवयेति पुनरुक्तिर्विदितैव ।
- किं च चित्तनिरोधरूपस्य योगस्य चित्तनिरोधाधिकरणत्वमसम्भवि । उक्तं हि योगे चित निरुद्धमित्यधिकरणत्वं योगस्य । एकस्यैव योगस्याधिकरणत्वं योगसेवयेति हेतुत्वं च विरुद्धम् । तस्मा- चित्तनिरोधे चित्तनिरोधसेवया चित्तनिरोध इति वाक्यार्थस्य दुष्टत्वं सर्वविदितम् ।
- तथा यत्र योगे आत्मानमात्मना पश्यन्नित्यप्ययुक्तम् - मनसा आत्मदर्शनस्यैव योगत्वात् । योगो हि आत्मनि चित्तसमाधानम् । तथा च योगस्यैव योगाधिकरणत्वमिहापि विरुद्धम् ।
- यं योगं लब्ध्वा ततोऽधिकमपरं लाभ न मन्यत इत्यप्ययुक्तं– योगप्राप्यस्य योगादधिकस्य मोक्षलाभस्य योग्याकांक्षितस्य सत्त्वात् । अस्मन्मते तु आत्मस्वरूपस्यैव मोक्षत्वान्न मोक्षस्याधिक्यमपरत्वं वा स्यादात्मन इति नैष दोषः ।
- यस्मिन् स्थित इत्यस्य योगे स्थित इत्यप्ययुक्तम्– योगस्य चित्तसमाधानात्मकस्य क्रियारूपस्य पुरुषाधिकरणत्वासम्भवात् । नच स्थित इत्यस्य व्यापृत इत्यर्थ इति वाच्यं तदर्थस्य लाक्षणिकत्वे- नाभिधेयत्वाभावात् । ष्ठा गतिनिवृत्ताविति हि धात्वर्थः स्मर्यते इति ।
- यच्च उपरमते अतिशयेन रमत इति रामानुजः, तच्च तुच्छम् — उपोपसर्गसङ्गतरमघातोरुप- रत्यर्थस्यैव दर्शनात् अर्थान्तरवर्णनस्य च क्लिष्टत्वात् उपरमेदपरत उपरम्येत्यादौ त्वयाध्यस्मदुक्तार्थ- स्यैव स्वीकृतत्वात् ।
- उपसंहृते योगफले किमिति योगस्य पुनः कर्तव्यत्वमुच्यते, तत्राह — योगफलमिति । आत्म- सुखानुभव आत्मतुष्टिरात्मलाभः दुःखसंयोगवियोगश्चत्येतानि योगफलानि । फलमिति तु जात्येक- वचनम् । प्रकारान्तरेण योगस्य कर्तव्यत्वोपदेशारम्भोऽत्रान्वारम्भः किमर्थं तद्वचनमत आह— निश्व- येति । निश्चयानिर्वेदौ योगस्य साधनभूतावतस्तावस्य योगारम्भे कर्तव्यावित्यर्थः । स इत्यस्यार्थमाह- यथोक्तेति । यथोक्तानि फलानि यस्य स यथोक्तफलो योगः । ध्यानयोगः निश्वयेन योक्तव्यः ।
- केन योक्तव्य इति करणाकांक्षां पूरयति - अनिर्विण्णचेतसेति । न निर्विण्णमनिर्विण्ण निर्वेदरहितमित्यर्थः । तच्च तच्चेत इति कर्मधारयः । तेन, कर्ता तु योगसाधकः पुरुष इति बोध्यम् । सांधकेन अनिर्विण्णचेतसा निश्वयेन स योगो योक्तव्य इत्यन्वयः ।
- अनिर्विण्णं चेतो यस्य तेनेति बहुव्रीहिसमासेपि यद्यपि कर्तृलाभ:, तथापि करणस्य चेतसः प्राथान्येन निर्देशो न स्यात् तद्धि करणं प्राधान्येन ज्ञेयं, कर्ता तु वचने विनापि सिद्धयत्येवेति कर्म- धारयसमास उक्तः ।
- २७०
- श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
- सङ्कल्पप्रभवान् कामस्त्यक्त्वा सर्वानशेषतः ।
- मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥
- किंच- सङ्कल्पेति । सङ्कल्पप्रभवान् सङ्कल्पः प्रभवो येषां कामानां ते सङ्कल्पप्रभवाः कामाः तान् त्यक्त्वा परित्यज्य सर्वानशेषतः निर्लेपेन; किंच, मनसैव विवेकयुक्तेन इन्द्रिय- ग्राममिन्द्रियसमुदायं विनियम्य नियमनं कृत्वा समन्ततः समन्तात् ॥ २४ ॥
- योगसिद्ध्यादिषु संशये योगानुष्ठाने निर्वेदे च सति योगो न सिद्धयेदतस्तौ द्वौ न कर्तव्या- विति फलितार्थः ॥२३॥
- सङ्कल्पेति । प्रभवत्यस्मादिति प्रभवः कारणं सङ्कल्पात्प्रभवन्तीति सङ्कल्पप्रभवा इत्यपि वक्तुं शक्यम् । कामा] विषयाभिलाषाः अशेषतो निश्शेषेण; सति कामशेषे तेन लेपस्स्यादिति फलितमाह- निर्लेपेनेति । कामानां सङ्कल्पप्रभवत्वविशेषणं तु कामत्यागस्सङ्कल्पत्यागात्सुकर इति द्योतयितुम् । तेन सर्वसङ्कल्पत्यागपूर्वकं सर्वकामपरित्यागं कृत्वेति सिद्ध्यति । समन्ततः सर्वविषयेभ्य इत्यर्थः । विनियम्य निवर्त्य मनोविनियमने इन्द्रियविनियमनमप्रयत्नत एव सिद्धयति, मनोव्यापारपूर्वकत्वा- दिन्द्रियव्यापारस्येति भावः ।
- यत्तु रामानुजः — काम्यन्त इति कामा विषयाः ते द्विविधा:- स्पर्शजाः सङ्कल्पजाश्चेति, तत्र स्पर्शजाः शीतोष्णादयः स्वरूपतस्त्यवतुं न शक्याः, सङ्कल्पजास्तु पुत्रमित्रादयः स्वरूपेणैव त्यक्तुं शक्याः; अत एवाशेषतस्सङ्कल्पजाः कामारत्याज्या इति, तन्मन्दम् — किमत्र स्पर्शोनाम त्वगिन्द्रियग्राह्यो गुणः ? यद्वा विषयेन्द्रियसम्बन्धः ? आद्ये- शीतोष्ण भेदभिन्नस्य स्पर्शस्यैव विषयत्वेन स्पर्शजत्वं शीतोष्णादेर्न सम्भवति; किंच यथा असङ्कल्पजस्पर्शविषयसत्त्वं तथा असङ्कल्पजशब्दादिविषयसत्त्वमपीति न विषय- द्वैविध्यासिद्धिः । दरीस्थितेन जलस्थितेन वा योगिना शीतस्पर्शस्य उष्णस्पर्शस्य च स्वरूपतस्त्यक्तं शक्यत्वान्न तयोः स्वरूपतो त्याज्यत्वसिद्धिः । द्वितीये - विषयेन्द्रियसम्बन्धरूपस्पर्शोद्भवा विषया इत्ययुक्तं- विषयोत्पत्तेः प्रागेव विषयेन्द्रियसम्बन्धस्य कारणत्वेन वर्तमानत्वेन विषयोत्पत्तेः प्रागेव विषय- सिद्धेः इन्द्रियसंसृष्टविषयाद्विषयोत्पत्तिरिति स्वस्मात्स्वोत्पत्तिप्रसङ्गाच, विषयोत्पत्तेः प्राग्विषयेन्द्रिय- सम्बन्धायोगाच्च ।
- तस्मात् स्पर्शजा भोगा एव, नतु विषयाः । स्पर्शास्तु विषया एव स्पृश्यन्त इति स्पर्शा इति ‘मात्रा स्पर्शास्तु कौन्तेयेत्यत्र निरुक्तत्वात् ।
- तथा पुत्रक्षेत्रादयो विषयाश्च न स्वसङ्कल्पजाः, किं त्वीश्वरसङ्कल्पजा एव- ‘तदैक्षत बहु स्यां प्रजाये’ येति सङ्कल्प्य तत्सृष्ट्रा तदेवानुप्राविशत्, सच्च त्यच्चा भवदिति, तत्तेज एैक्षत तत्तेजः सृष्ट्वा ’ इत्यादिना ईश्वरस्य जगत्स्रष्टृत्व स्योक्तत्वाद्वेदेन ।
- इमे चेश्वरसङ्कल्पना विषया अपि सर्वे न स्वरूपतस्त्यवतुं शक्याः, न हि सार्वभौमेण राज्ञा भूरूपो विषयस्त्यक्तुं शक्यः- सर्वस्था अपि भूमेः स्वीयक्षेत्रत्वात् । परन्तु तत्र स्वीयत्वाभिमान एव त्यक्तुं शक्यते । स एव हि जीवसङ्कल्पसृष्टः प्रपञ्चः जीवस्य बन्धकश्च ।षष्ठोऽध्यायः ।
- शनैरशनैरुपरमेबुद्ध्या धृतिगृहीतया ।
- आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ २५ ॥
- १७१
- शनैरिति । शनैशनैर्न सहसा उपर मेदुपरतिं कुर्यात्, कय बुद्धया; किं विशिष्टयाधृतिगृही- तया धृत्या धैर्येण गृहीतया धृतिगृहीतया धैर्ययुक्तयेत्यर्थः । आत्मसंस्थं आत्मनि संस्थितं आत्मैव
- नहि स्तनादिमत्त्रीपिण्डे भार्यात्वरूपभोग्यत्वबुद्धयभावे मृण्मये क्षेत्रे स्वीयत्वबुद्ध्यभावे च तदुभयं पुरुष बध्नीयात्, स हि जीवसङ्कल्पसम्भवः स्वीयत्वाद्यभिमानरूपः काममयः प्रपञ्चः योगिना सर्वात्मना त्याज्यः योगविरोधात् । अत एवोक्तं- ‘सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषत’ इति ।
- ईश्वरसङ्कल्पसृष्टो विषयप्रपञ्चस्तु चेलाजिनकुशासनादिरूपो योगिनस्साधनभूत एवेति न तस्य सर्वस्यापि त्याग उचितश्शस्यश्च । तस्मात्कामा अत्र विषयाभिलाषा एव, नतु विषयाः ॥२४॥
- शनैरिति । शनैःशनैरिति नित्यार्थे द्विर्भावः । धृतिगृहीतया बुद्ध्या मन आत्मसंस्थं कृत्वा शनैरशनैरुपरमेत्, किञ्चिदपि न चिन्तयेत्, उपरमेदित्यस्यैव व्याख्यानभूतं तुरीयपादम् ।
- ननु मनसः कथमात्मनि स्थिति :- ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमेत्युत्तुलक्षणे भूमात्मनि निर्विशेषे चिन्मात्रे अद्वितीयब्रह्मणि निरवकाशे परमार्थसत्ये मनसो व्याव- हारिकसत्यस्य जडस्य द्वितीयवस्तुनः स्थित्ययोगात् सत्यामात्मनि मनसः स्थितौ तेन मनसा सद्वितीय- स्स्यात्खल्वात्मा सविशेषश्च जडसंसृष्टश्च । अतएव हि - ‘यत्र वाचो निवर्तन्ते अप्राप्य मनसा स’ हेति श्रुतिर्मनसोप्यविषयत्वं वक्त्यात्मनः । नच सर्वभूतानि चात्मनीति सर्वस्यापि जगत आत्मन्येव स्थितत्वस्य वक्ष्यमाणत्वेन मनोमात्रस्यात्मनि स्थितौ को व्याघात इति वाच्यं, आत्मनि सर्वभूतस्थितेरविद्या- कृतत्वात् । अविद्याकृतानि हि सर्वाणि भूतानि न परमार्थसत्यानि । अन्यथा ‘एकमेवाद्वितीयं ब्रह्मेति श्रुतिभ्या कोपस्स्यात् । नच तथैवात्मनि मनसः स्थितिरप्यविद्या कृतैवेति वाच्यं तदभिप्रायवर्णनस्येहानुप- युक्तत्वात् । न ह्यात्मनि मनो रज्जौ सर्पवदविद्यया कल्पितं वर्तत इत्यभिप्रायेणात्मसंस्थं मनः कृत्वे- त्युक्तं, तथासति कृत्वेत्यस्य वैयर्थ्यापत्तेः । करणात्प्रागपि तत्रैव सत्वात् । वस्तुविषयेभ्यो मनो निवर्त्य आत्मन्येव स्थापयेदिति हघुच्यते । इदं च स्थापन नाविद्याकार्ये, किंतु विद्याकार्यमेव । तस्मात्कथ- मात्मनि मनः स्थापयितुं शक्यते योगिना विदुषा वेति अत आह— आत्मैवेति । पेटिकायां वस्त्रस्ये- वात्मनि मनसः स्थापनं नेह विवक्षितं, किंतु आत्मतत्वानुसन्धानमेव मनस आत्मनि स्थापनमिति विवक्षितम् । आत्मतत्वं च ‘इदं सर्व यदयमात्मा सबै खल्विदं ब्रह्म नान्यत्किञ्चन मिष’ दित्यादिश्रुतिभ्यः सर्वमात्मैव, आत्मनोऽन्यत्किञ्चिदपि नास्तीत्येवंरूपमिति ज्ञायते इति ।
- 1
- ननु न ततोन्यत्किञ्चिदस्तीति सर्वाभावत्वं युक्तमद्वितीयत्वाद्भूमात्मन:- सच्चिदानन्दस्वरूप- स्यात्मनस्तु सर्वात्मकत्वमयुक्तं - सर्वस्य अनृतजडदुःखात्मकत्वात्प्रपञ्चस्य । अतः कथमात्मैव सर्वमिति ज्ञानं यथार्थज्ञानं भवितुमर्हतीति चेत्, उच्यते—- रज्जौ सर्पस्येवात्मन्येव सर्वस्य मायया कल्पितत्वेन भ्रान्त्या प्रतीयमानमिदं सर्वे वस्तुत आत्मैव यथा रज्जौ भ्रमणप्रतीयमानस्सर्पो वस्तुतो रज्जुरेवेति । तस्माद्वज्जो सर्पात्मत्वमिव स्थाणोः पुरुषात्मत्वमिव गगनस्य नीलात्मकत्वमिवात्मनर सर्वात्मकत्वं युक्त. मेवेति ।
- २७२
- श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
- सर्वे न ततोन्यत्किचिदस्तीत्योवमात्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । एष योगस्य परमोsवधिः ॥२५॥
- यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
- ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥
- तत्रैवं आत्मसंस्थं मनः कर्तुं प्रवृत्तो योगी, यत इति । यतोयतो यस्माद्यस्माच्छब्दादे- निमित्तान्निश्चरति निर्गच्छति स्वाभाविकदोषात् मनश्चञ्चलमत्यर्थ चलमत एवास्थिरम् । तत- स्तस्मात्तस्माच्छब्दादेर्निमित्तान्नियम्य तत्तन्निमित्तयाथात्म्य निरूपणेनाभावीकृत्य वैराग्यभाव - नया चैतन्मनः आत्मन्येव वशं नयेत् आत्मवश्यतामापादयेत् । एवं योगाभ्यास बलात् योगिनः आत्मन्येव प्रशाम्यति मनः ||२६||
- न किञ्चिदपि चिन्तयदिति । आत्मनोऽन्यस्य कस्य चिदपि वस्तुनोऽभावात्किञ्चिदपि न चिन्तयेत्किं त्वात्मानमेवमेव चिन्तयेत् इयमेवात्मैकचिन्ता उपरतिरित्युच्यते - सर्वव्यापारोपरम- रूपत्वात् । एष इति उपरम इत्यर्थः । आत्मैकचिन्तनमिति यावत् ॥२५॥
- ●
- "
- 1
- यत इति श्लोकमवतारयति - तत्रेति । योगारम्भे इत्यर्थः । चञ्चलमस्थिरं मनः तो यतो निस्सरति ततस्तत एतन्नियम्यात्मन्येव वशं नयेत्, यतोयतस्ततस्तत इति च वीप्सार्थे द्विर्भावः । निमित्तादिति । मनसो निस्सरण क्रियांप्रति हेतुभूतादित्यर्थः । मनो हि शब्दाद्यर्थः श्रोत्रादिद्वारा बहिर्निर्गच्छति ।
- स्वाभाविकदोषादिति । मनसः प्रवृत्तिस्वभावत्वादित्यर्थः । अग्नेरौष्ण्यादिवन्मनसः प्रवृत्तिरेव स्वभावः, नतु निवृत्तिरिति भावः । स्वाभाविकः स्वभावसिद्धः स चासौ दोषः प्रवृत्तिरूपः स्वाभाविक- दोषः; तस्मादित्यक्षरार्थः । सङ्कल्पविकल्पात्मकस्य मनसः प्रवृत्तिरेव स्वभावः ब्रवृत्तेरसङ्कल्पविकल्पपूर्व- कत्वादिति रहस्यम् । स्वाभाविकदोषो रागादिरिति वा ।
- कथं नियमनमत आह— तत्तदिति । निमित्तभूतानां शब्दादीनां तेषां तेषां विषयाणां याथात्म्यं मृषात्वरूपं तस्य निरूपणेन हेतुना । अभावीकृत्य तत्तन्निमित्तान्यभावरूपाणि कृत्वा मृषैवायं शब्दादिप्रत्ययः, नतु वस्तुतरशब्दादयस्सन्ति- आत्मान्यस्य सर्वस्य मिथ्यात्वादित्येवं विवेकज्ञानेन मनस- शब्दादिषु प्रवृत्तिं वारयित्वेत्यर्थः ।
- एवं मनसश्शब्दादिसक शान्निवर्तने तत्तद्याथात्म्यरूपणमेकं हेतुमुक्त्वा अन्यमाह — वैराग्य- भावनया चेति । क्षयिष्णुत्वात्सातिशयत्वाद्दुः खोदर्कत्वाश्च न विषयेषु सक्तव्यमित्येवं विषयवैराग्य- मुत्पाद्येत्यर्थः । वैराग्यस्य विरागत्वस्य भावना चिन्तनं तयेत्यक्षरार्थः ।
- 1
- आत्मन्यवेति । न तु विषयेष्वित्येवकारार्थः । मनसो विषयपारवश्यं वारयित्वा स्वाधीनतां सम्पादयेदित्यर्थः । एवं पूर्वोक्तप्रकारेण मनसो विषयप्रवृत्तिवारणपूर्वकमात्मप्रावण्यापादनेनेत्यर्थः । प्रशा- म्यति प्रकर्षेणोपशमं प्राप्नोति । आत्मन्येव लय प्रान्नोतीत्यर्थः । प्रशान्तमनसमित्युत्तरश्लोके मनः- प्रशान्तेर्वक्ष्यमाणत्वादिह तदानुगुण्येनं भाष्ये वाक्यशेष उक्त इति बोध्यम् ॥२६॥
- K
- षष्ठोऽध्यायः ।
- प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
- उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥२७॥
- २७३
- प्रशान्तेति । प्रशान्तमनसं प्रकर्षेण शान्तं मनो यस्य सः प्रशान्तमनाः तं प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमं निरतिशयमुपैति उपगच्छति । शान्तरजसं प्रक्षीणमोहादिक्लेश- रजसमित्यर्थः । ब्रह्मभृतं जीवन्मुक्तं ब्रह्मैव सर्वमित्येवं निवयं ब्रह्मभूतमकल्मषमधर्मादि- वर्जितम् ॥२७॥
- युजनेवं सदात्मानं योगी विगतकल्मषः ।
- सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥२८॥
- युज्जन्निति । युब्जन्नेवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः सदात्मानं विगतकल्मषो विगतपापः सुखेनानायासेन ब्रह्रासंस्पर्श ब्रह्मणा परेण संस्पर्शो यस्य तद्ब्रह्म- संस्पर्श अत्यन्तं अन्तमतीत्य वर्तत इत्यत्यन्तमुत्कृष्टं निरतिशयं सुखमश्नुते प्राप्नोति ॥ २८ ॥
- प्रशान्तेति । प्रशान्तमनसं शान्तरजसं ब्रह्मभूतमकल्मषमेनं योगिनमुत्तमं सुखमुपैति हि । प्रशान्तमनसमात्मनि लीनहृदयमत एव शान्तरजसे शान्तं नष्टं रजः मोहादिक्लेशः यस्य तम् ।
- रजोधूलिर्यथा गगनमावृत्य तदप्रकाशजनकं वर्तते तद्वन्मोहादिक्लेश आत्मानमावृत्य तदप्रकाशको वर्तत इति गौण्या वृत्त्या रजश्शब्दप्रयोगो मोहादिक्लेशे । यद्वा रजो रंजोगुणः तरकार्यमोहादौ तत्त्वेन व्यपदेश उपचारादिति । अथ वा रजः मोहादिक्लेशहेतुभूतरजोगुणः । उपलक्षणमिदं सत्त्वतमसोरपि । ध्वस्तसत्त्वरजस्तमोगुणमित्यर्थः ।
- अतएव ब्रह्मभूतं ब्रह्मणा तुल्य; नित्यसमासः । तौयं च मुक्तत्वरूपम् । यथा ब्रह्म नित्यमुक्त तथायं योगी जीवन्मुक्त इति । अतएवाह - जीवन्मुक्तमिति ।
- ब्रह्माभिन्ने आत्मनि ब्रह्मतुल्यत्ववचनम स्वरसमित्यर्थान्तरमाह - ब्रह्मैवेति । सर्वे ब्रह्मेति निश्वय- ज्ञानवन्तमित्यर्थः ।
- । यस्य सर्वं ब्रह्मैवेति निश्चयः स स्वयमपि ब्रह्मैव । ततश्च ब्रह्मभूतं ब्रह्मैव भूत- मित्यर्थ: - ‘ब्रह्मविद्ब्रह्मैव भव’ तीति श्रुतेः । अतएवाकल्मषं धर्माधर्मसंस्कारवर्जितमधर्मवद्धर्मस्यापि बन्धकत्वात्करमषत्वम् । भाष्ये आदि- पदाद्धर्मग्रहणम् । नहि ब्रह्मणि धर्माधर्मसंस्कारास्सन्तीति भावः । एनं योगिनमुत्तमं सुखमात्मानन्दः स्वयमेवोपैति । हिः प्रसिद्धौ । मनोलये सुषुप्त्यादौ स्वरूपसुखाविर्भावः प्रसिद्ध इत्यर्थः ॥ २७॥ युज्जन्निति । योगी एवं सदा आत्मानं युञ्जन् विगतकल्मषस्सन्, सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते - आत्मानं मनः युञ्जन् ब्रह्मणि समादधानः; आत्मानं कूटस्थं युञ्जन् पश्यन्निति वा । योगोऽस्यास्तीति योगी । योगान्तरायसत्त्वे कथं योगसत्त्वमित्यभिप्रेत्याह – योगान्तरायवर्जित इति । अन्तराया विघ्नाः, यद्वा आत्मानं युञ्जन्नित्यनेनैव योगिलाभाद्योगिपदं व्यर्थमित्यभिप्रेत्याह — योगी २७४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥ इदानीं योगस्य यदुत्कृष्टं निरतिशयं फलं ब्रह्मैकत्वदर्शनं सर्वसंसारविच्छेदकारणं तत्प्रदर्शयति- सर्वेति । सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वमात्मानं सर्वभूतानि चात्मनि ब्रह्मादीनि च सर्वभूतान्यात्मन्येकतां गतानि ईक्षते पश्यति । योगयुक्तात्मा समाहिता- न्तःकरणस्सन्, सर्वत्र समदर्शनः सर्वेषु ब्रह्मादिस्थावरान्तेषु विषयेषु सर्वभूतेषु समं निर्विशेष ब्रह्मात्मैकत्वविषयं दर्शनं यस्य सः सर्वत्र समदर्शनः ॥ २९ ॥ योगान्तरायवर्जित इति । सदेति विनाभावात्सर्वदा विगतपाप इति । पुण्यस्यापि पापत्वाद्विगतपुण्यपाप इत्यर्थः । पूर्वश्लोके सुखं योगिनमुपैतीत्युक्तमिदानीं तु योगी सुखमुपैतीति । अतः पूर्वश्लोकार्थस्यैव भङ्गयन्तरेण कथनमिदं, न त्वन्यार्थस्य । यद्वा पूर्वश्लोके जीवन्मुक्तिदशानुभाव्यसुखलाभ उक्तः, इह तु विदेहमुक्तिदशानुभाव्यसुखलाभ इति विवेकः । अथ वा पूर्वश्लोके योगदशानुभाव्य ‘आत्मानन्द उक्तः, इह तु ब्रह्मानन्द इति । नच कथं ध्यानयोगान्मोक्षसुखलाभ इति वाच्यं, ध्यानयोगाद्ज्ञानलाभद्वारा मोक्षसुखलाभात्, ज्ञानलाभस्य चोत्तरश्लोके वक्ष्यमाणत्वात् । श्लोकद्वयमपीदं जीवन्मुक्ति सुखपरमेवेति पक्षे तु नैवोद्य- स्यावकाश:– संसारो परमरूपजीवन्मुक्तिसुखस्य ज्ञानिन इव योगिनोपि योगदशायामनुभाव्यत्वात् ॥ २८ ॥ सर्वेति, उत्कृष्टं फलमिति । एतेन पूर्वश्लोकोक्तं सुखं योगस्य न परमं फलं, किन्त्ववान्तर- फलमेवेति सूचितम् । अत्मानन्दानुभवशालिनोपि योगिनो ज्ञानाभावे पुनरुत्पत्तिप्रसङ्गात्, खानुभूयमा- नात्मानन्दस्यारमत्वेन ज्ञानं विना तस्य कृतकृत्यत्वाभावाच्च । तस्माद्यथा व्यवायस्य तात्कालिकसुख- लाभोऽवान्तर फलं, पुत्रोत्पत्तिः प्रधानफलं तद्वद्योगस्य तात्कालिक सुखलाभोऽवान्तरफलं, ज्ञनोत्पत्तिरेव प्रधानं फलमिति । कीदृशं ज्ञानं योगस्य फलमत आह— ब्रह्मात्मैकत्वदर्शनमिति । अहं ब्रह्मास्मीति ज्ञानमित्यर्थः । न ह्यस्माद्ज्ञानादन्यं सर्वसंसारविच्छेदे हेतुरस्तीत्याह — सर्वेति । · अज्ञानकार्यस्य संसारस्य सम्यग्ज्ञानं विना नहि निवृत्तिः, अज्ञानकृतात्मानात्मतादात्म्याघ्यास- प्रयुक्तः स्थूलोहं काणोहं सुख्यहं दुःख्यहमित्यादिसंसारः अज्ञानकृत एवेश्वराद्भिन्नोऽहं ममेश्वरश्शास्ते- स्यादिसंसारश्च । अहं सच्चिदानन्दरूप आत्मा नतु देहादिसङ्घातरूपः, अहं ब्रह्मैव नतु तद्भिन्नः, ईश्व- रश्व ब्रह्मैव नतु तद्भिन्नः, चैतन्यरूपत्वादेवं चाहमीश्वरादभिन्न एवेत्याकार कब्रह्मात्मैक्यज्ञान विना नैव निवर्तते । नहि रज्जावारोपितस्सर्पो रज्जुज्ञानं विना निवर्तते, येनात्मन्यारोपितस्संसार आत्मज्ञानं विना निवर्तेत । तस्माद्ब्रह्मात्मैकत्वज्ञानमेव संसारछेदकारणं, नतु कर्मणापि समुच्चय:- कर्मज्ञानयो- रूपमुच्चयानुपपत्तेः, कर्म संसारयोरविरोधाचेत्यसकृदुक्तं प्राकू । · पुरुष इति शेषः । योगयुक्तात्मा सन्, सर्वत्र समदर्शनो भूत्वा सर्वभूतस्थमात्मानं सर्वभूतानि आत्मनि च ईक्षते इत्यन्वयः । षष्ठोऽध्यायः । २७५ आत्मन्येकतां गतानि आत्मामेदं प्राप्तानि यथा सर्पों रज्जावैक्यं गच्छति तद्वत् । कार्यकारण- सङ्घात इह भूतशब्देन विवक्षितः । ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविश’न्तीति श्रुत्या भूतानां स्वोपादाने आत्मनि लयस्योक्तत्वात् । कार्यस्य घटादेः कारणे मृदादौ लयदर्शनात् । कार्यस्य कारणे लयो नाम कारणामेदेनाऽवस्थानमेव, न त्वन्यदिति सिद्धान्ता- दात्मनि सर्वभूतलय एवं सर्वभूतानामात्मन्येकत्वप्राप्तिरिति भावः । नच कथं प्रलयात्प्रागात्मनि सर्वभूतलय इति वाच्यं प्रलयेपि सूक्ष्मभूतसत्त्वात् । न प्रलये सर्वभूतानामात्मनि लयः- तथासति ज्ञानं विनैव प्रलये सर्वमुक्तिप्रसङ्गात् । किं तु परमार्थदशाया- मात्यन्तिकप्रलये मोक्षरूपे एव सर्वभूतलयः । 1 प्रलयो हि चतुर्विध:- नित्यः, नैमित्तिकः, महान्, आत्यन्तिकश्चेति । तत्र सुषुप्तिर्नित्यप्रलयः; ब्रह्मणो निशायां नैमित्तिकप्रलयः ; ब्रह्मणश्वतुर्मुखस्य द्विपरार्थावसाने महाप्रलयः; मोक्ष आत्यन्तिक- प्रलयः । आत्मस्वरूपश्च मोक्ष एवेत्यात्मस्वरूपे सर्वभूतलय उचितएव । एतेन यस्सर्वेषु भूतेषु वर्तते स आत्माऽहमेव, इमानि तु सर्वाणि भूतानि कालत्रयेपि मयि न सन्त्येवेति समदर्शी विद्वानीक्षते पश्यति जानातीत्यर्थ इति सिद्धम् । ब्रह्मात्मनोरेकत्वमेव विषयो यस्मिन् तद्ब्रह्मात्मैकत्वविषयं दर्शनं ज्ञानं विषयीत्यर्थः । ज्ञानस्य विषयित्वं ज्ञेयस्य विषयत्वं च न्यायमतप्रसिद्धं च । इदं च ज्ञानमहं ब्रह्मास्मीत्याकारकवृत्तिरूपं, न तु चैतन्यरूपं तस्य निर्विशेषत्वेन निर्विषयत्वात् ।
यत्तु रामानुजः – सर्वभूतसमानाकारं स्वात्मानं स्वात्मसमानाकाराणि सर्वभूतानि च पश्य- तीति, तत्तुच्छम् — सर्वभूतस्थमिति आत्मनीति च सर्वभूतानामात्मनश्चाधिकरणत्वस्योक्तत्वात् । सर्वेषु भूतेषु तिष्ठतीति सर्वभूतस्थ इति हि समासः । अनेन च समासेन भूतानामधिकरणत्वं स्फुट - मुक्तम् । आत्मनीति च अधिकरणे सप्तमी । अत्मनोऽधिकरणत्वं च स्फुटमुक्तम् । तदेवं स्फुट- मुक्तस्याधिकरणत्वस्य त्यागोऽप्रमाणमेव । नच कथमेकस्यैवात्मन आधारत्वमाधेयत्वं चेत्युभयं सम्पद्यत इति वाच्यं, आकाशे घटस्य घटे आकाशस्य च सत्त्वदर्शना देवमेवात्मनि भूतानां भूतेषु चात्मनस्सत्त्वानुमानस्य सुकरत्वात् सर्वान्तरस्सर्वाधार इत्यादिशास्त्राच्च । जागरावस्थायां देहेष्वात्मसत्त्वस्य स्वप्ने आत्मनि रथादिप्रपञ्चसत्त्वस्य च सर्वानुभव- सिद्धत्वाच्च, नहि स्वप्ने आत्मातिरिक्तं रथाद्यधिकरणं किश्चिदस्ति । तस्मात्सर्वभूतस्थमात्मानमित्यस्य सर्वभूतसमानाकारमात्मानमिति, सर्वभूतानि चात्मनीत्यस्य स्वात्मसमानाकाराणि सर्वभूतानीति चार्थः स्वमताभिनिवेशकल्पितो मूलविरुद्ध इति स्वस्यापि विदित- मेव रामानुजस्य । किंच यदा सर्वभूतसमानाकारत्वं स्वात्मन उक्तं तदैव स्वात्मसमानाकारत्वं सर्वभूतानां सिद्ध- मेवेति पुनस्तद्वचनं व्यर्थमेव । २७६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यो मां पश्यति सर्वत्र सर्वे च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ||३०|| एतस्यात्मैकत्वदर्शनस्य फलमुच्यते - य इति । यः मां पश्यति वासुदेवं सर्वस्यात्मानं सर्वत्र सर्वभूतेषु सर्वं च ब्रह्मादिभूतजातं मयि सर्वात्मनि पश्यति, तस्यैवमात्मैकत्वदर्शिनः अहमीश्वरो न प्रणश्यामि न परोक्षतां गमिष्यामि स च मे न प्रणश्यति स च विद्वान्मे अपि च भूतशब्दः महाभूतेषु प्राणिषु कार्येषु च प्रयुज्यते, न त्वात्मनि भूतत्वाभावात्तस्य । नच प्राण्येवात्मेति वाच्यमात्मनः प्राणादिसम्बन्धाभावात् । न च प्राणोपाधिकत्वादात्मा प्राण्येवेति वाच्यं घटोपाधिकत्वादाकाशो घटीति वाच्यत्वापत्तेः । उपाधेरपमार्थत्वात्परमार्थात्मतत्त्वस्य चेहोप- दिश्यमानत्वात् ।
- यद्यात्मनां बहुत्वं जात्येकत्वं च स्यात्तर्हि घटानामिवात्मनामपि परस्परसाम्यमज्ञेनापि विदित- मेवेति व्यर्थोयमुपदेशः; नापि तेन किञ्चिदपि फलम् । तस्माद्यदि भूतशब्द आत्मवाची तर्हि आत्मन एवात्मस्थत्वमसम्भवि । यदि भूतशब्दों देहादि- सङ्घातवाची तर्हि तस्यात्मसमानाकारत्वमसम्भवि । देहादेर्जडत्वादात्मनश्च चेतनत्वात् । अतस्तुच्छं रामानुजभाष्यम् ॥२९॥ य इति । सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनीक्षतेत्यस्यैवानुवादः- यो मां पश्यति सर्वत्र सर्वे च मयि पश्यतीति । एतस्यात्मैकत्वदर्शनस्य फलं तु तस्याहं न प्रणश्यामि; स च मे न प्रणश्य- तीति । इति विवेकः । मामिति । प्रत्यगभिन्नं परमात्मानमित्यर्थः । यः पूर्वश्लोके सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनीक्षत इत्युक्तः स एवायं सर्वत्र परमात्मानं सर्वे च परमात्मनि पश्यतीत्यनूदित :- स्वात्मन एवं परमात्मत्वादात्मदर्शनमेव परमात्मदर्शनमिति हेतोः । आत्मैकत्वदर्शिन इति । सर्वत्रापीश्वराभिन्न आत्मैक एवास्तीति ज्ञानशालिन इत्यर्थः । ईश्वरपारोक्ष्याभावः फलमित्याह - न प्रणश्यामीति । कृतप्रत्यगभिन्नब्रह्मात्मसाक्षात्कारस्य न पुन- रीश्वरपारोक्ष्यं, यथैतादृशज्ञानप्राप्तेः प्रागीश्वरपारोक्ष्यं तद्वदिति भावः । सति त्वीश्वरपारोक्ष्ये ईश्वरात्स्वस्य संसारश्च स्यात्- ‘भीषास्माद्वातः पवत इति, य उदर- मन्तरं कुरुते अथ तस्य भयं भव’ तीत्यादिश्रुतिभ्यः । अत ईश्वरपारोक्ष्याभाव उत्कृष्टं फलमेव मोक्षरूपत्वात् । फलान्तरमाह – सच मे न प्रणश्यतीति । ईश्वरस्यापि स्वयं परोक्षो न भवति, वाञ्छति हि भृत्यादिः सर्वदापि राजपारोक्ष्याभावं स्वस्य स्वपारौक्ष्याभावं राज्ञश्व । कामुकश्च स्वस्य कामिनी- पारोक्ष्याभावं कामिन्याश्च स्वपारोक्ष्याभावं तद्वद्विद्वानपि स्वस्येश्वरपारोक्ष्याभावमीश्वरस्य च स्वपारोक्ष्या- भावं वान्छतीति तदुभयं तस्य सिद्ध्यतीति भावः । षष्ठोऽध्यायः ।
२७७ ईश्वरस्य स्वपारोक्ष्याभावे स्वस्य चेश्वरपारोक्ष्याभावे हेतुमाह - तस्य चेति । ईश्वरस्य विदुषश्च एकात्मत्वादित्यर्थः । नन्वात्मत्वेपि कथं पारोक्ष्याभाव इत्यत आह-स्वात्मेति । प्रकाशः प्रत्यक्ष एवकारान्न तु कदाचिदप्यप्रकाश इत्यर्थः । न हि स्वस्य स्वाप्रत्यक्षत्वमिति भावः । ननु तस्याहं न प्रणश्यामि स च मे न प्रणश्यतीति आत्मपरमात्मनोर्भेद एवोपदिष्टो भगवता, तस्याहमिति, स च म इति, न हि तदहंशब्दयोरेकार्थत्वमिति चेन्मैवम् सर्वभूतस्थमात्मानं सर्व- भूतानि चात्मनीति य एव धर्म आत्मन उक्तः, सर्वभूतस्थत्वसर्वभूतान्तरत्वरूपः स एव यो मां पश्यति सर्वत्र सर्वे च मयि पश्यतीति परमात्मनोप्युक्तः । न हि धर्मभेदं विना धर्मिभेदः सम्भवति - धर्म भेदस्यैव धर्मिभेदप्रयोजकत्वात् । तथा च सर्वभूतस्थमिति, यो मामिति च वाक्यद्वयेनात्मपरमात्मैकत्वं प्रतिपाद्य कथं पुनस्त- स्याहमिति वाक्यद्वयेन आत्मपरमात्ममेदं प्रतिपादयेत्सर्वज्ञो भगवान् । 7 नच सर्वभूतस्थितात्मस्थितत्वात्परमात्मनस्सर्वभूतस्थितिः, सर्वभूताश्रयत्वात्परमात्मनि सर्वभूत- स्थितिश्चोच्यते - पर्यङ्ककशिपुश। यिनः पुरुषस्य पर्यङ्कशायित्वं देहाश्रयपीठाश्रयभूमेर्देहाश्रयत्वं च यथोच्यते तद्वदिति वाच्यं, यदि तथा आत्मनि परमात्मास्ति परमात्मन्यात्मास्तीति च विवक्षा व्यासमुनेः- तर्हि सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनीत्यनन्तरं – ईक्षते मयि चात्मानं तमात्मनि च मामपीत्येव ब्रूयादृजुमार्गेण, नतु वक्रमार्गेण - वक्रमार्गाश्रयणस्य निष्फलत्वात्प्रतिपत्तृक्लेशकरत्वाच्च । यः कोपि स्वादृशो हि महानुभावः यो मां पश्यति सर्वत्रेत्यस्य सर्वत्र स्थिते आत्मनि स्थितं मां यः पश्यतीत्यर्थ जानीयात् । निरवयवे निरवकाशे आत्मवस्तुनि कथं परमात्मस्थित्यवकाशः ? आत्मनो निरवयवत्वं सम्प्रतिपन्नम् । नच निरवकाशत्वे विप्रतिपत्तव्यं - सावयवस्यैव सावकाशत्वं न तु निर- वयवस्येति सिद्धान्तात् । नहि निरवयवः परमाणुस्सावकाशः । नचैवं कथं निरवयवे ब्रह्मणि जंगत्स्थित्यवकाश इति वाच्यं तदनवकाशस्यैवास्माकमिष्टत्वान्न हि वयं सद्वितीयं ब्रह्म ब्रूमः, येन जगतो ब्रह्मणि स्थितिरस्माकमिष्टा स्यात् - रज्जौ सर्पवद्ब्रह्मणि जग- न्मायया प्रतिभाति, नतु वस्तुत इत्यसकृदुक्तं हि । एतेन निरवयवे निरवकाशे परमात्मन्यात्मस्थितिश्च प्रत्युक्ता । परमात्मन्यप्यात्मसत्त्वे आत्मन एवं परमात्मान्तरत्वेन त्वदुदाहृतान्तर्यामिब्राह्मणविरोधात् । सर्वान्तरः खलु परमात्मा । नच परमात्मन्यात्मा माययास्तीति वाच्यं, आत्मनो नित्यशुद्धबुद्धमुक्तस्वभावस्य मायिकत्वा- सम्भवात् । देहादेरसत्त्वमात्मनश्च सत्त्वं- ‘नासतो विद्यते भाव’ इत्यादिना त्वयाप्यभ्युपेतम् । असत्त्व- मेव हि मायिकत्वम् । सतो नाशायोगान्मायिकस्य चावर्जनीयनाशत्वाद विनाशस्वभावः सत्त्वं विनाश- स्वभावस्त्वसत्त्वमिति त्वयैवोक्तत्वात् । तस्मात्सन्नात्मा न मायिकः, येन मायया तस्यात्मनः परमात्मनि स्थितिः स्याज्जगत इव । तदेवमात्मनि परमात्मनः परमात्मनि चात्मनः स्थित्ययोगात् सर्वभूतस्थमात्मानमित्यनेन, यो मां २७८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु वासुदेवस्य न प्रणश्यति न परोक्षी भवति तस्य च मम चात्मैकत्वात् । स्वात्मा हि नाम आत्मनः प्रकाश एव भवति ॥ ३०॥ सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वधा वर्तमानोपि स योगी मयि वर्तते ॥ ३१ ॥ - यस्माच्च अहमेव सर्वात्मैकत्वदर्शी, सर्वेति । इत्येतत्पूर्व श्लोकार्थमनूद्य सम्यग्दर्शनं तत्फलं मोक्षो विधीयते । सर्वधा सर्वप्रकारैवर्तमानोपि सम्यग्दर्शी योगी मयि वैष्णवे परमे पश्यति सर्वत्रेत्यनेन च आत्माभिन्नस्य परमात्मनः परमात्माभिन्नस्य चात्मनः सर्वत्र स्थितिरुक्ता । नतु भिन्नात्मन इति सिद्धेऽद्वैते कथं तस्याहमिति स च म इति च भेद उच्यते भगवताऽऽत्मेश्वरयोः । ननु भवतु पूर्ववाक्वविरोधः, तथापि तस्याहमिति स च म इति च प्रसिद्धस्य आत्मेश्वरभेदस्य कथमपलाब इति चेत् उच्यते — श्रोतुरर्जुनस्य जीवेश्वरभेदबुद्धयाविष्टत्वात्तं प्रति तथा तस्याहं सच म इत्युपदेशः । लोकसिद्धजीवेश्वरभेदानुवादमात्रं तस्याहं स च म इति । नतु तत्त्वनिर्णय रूपमिति । तथा च य ईश्वरत्वेन लोकस्याभिमितः परोक्षश्च परमात्मा स तत्त्वविदो न परोक्षः । यश्च जीवत्वेन लोकस्याभिमतस्तत्त्ववित्स च नेश्वरस्य परोक्ष इति तस्याहं न प्रणश्यामि स च मे नं प्रणश्यतीत्यस्यार्थः । एवमापरोक्ष्ये हेतुर्भाष्यकृता दर्शित आत्मैकत्वादिति । जीवेश्वरयोश्चैतन्यात्मना एकत्वान्न तत्रापरोक्ष्याभाव शंकेति भावः । यद्यपि तस्याहं न प्रणश्यामीत्यनेनैवेष्ट सिद्ध्यति, तथापि दाय स च म इत्यप्युक्तम् । यत्तु रामानुजः - यः सर्वत्रात्मवस्तुनि च मां पश्यति, मयि सर्वमात्मवस्तु च पश्यतीति, तत्तुच्छम् — आत्मवस्तुनीति आत्मवस्त्विति च मूलाद्बहिः पदद्वयस्य कल्पनाया अप्रमाणत्वात् । अर्था- सम्भवस्तु दर्शित एव ॥३०॥ सर्वेति । य एकत्वमास्थितस्सन् सर्वभूतस्थितं मां भजति स योगी सर्वथा वर्तमानोपि मयि वर्तते । अत्र पूर्ववाक्यं पूर्वोक्तसम्यग्दर्शनानुवादपरं, द्वितीयं तु तत्फलप्रदर्शनपरमिति विवेकः । यस्मादिति । यस्मात्सर्वात्मैकत्वदर्शी विद्वानहमेव न तु मत्तोन्य इत्येवकारार्थः । तस्मात्स मय्येव वर्तत इत्याह- सर्वेति श्लोकेन भगवान् । | । 4 सर्वभूतस्थमिति । यो मां पश्यति सर्वत्रेति च पूर्वोक्त श्लोकद्वयार्थभूतं सम्यग्दर्शनमनेन श्लोकेनानूद्य तत्फलं मोक्षो विधीयत इत्यन्वयः । तत्र सर्वभूतस्थितं यो मां भजत्येकत्वमास्थित इत्येतद्याख्यातप्रायमिति न तस्य भाष्यं कृतम् । एकत्वं स्वात्माभेदमित्यर्थः । आस्थितः प्राप्तः । भजति प्राप्नोति पश्यतीति यावत् । सेवाया द्वैति - विषयाया अद्वैतात्मन्ययोगात् । सर्वधेति । ज्ञानोत्पत्तिपर्यन्तमेव शास्त्रनियमः, न तु पश्चात् । ततश्च यथेच्छं यथाप्रारब्ध- षष्ठोऽध्यायः । २७९ पदे वर्तते - नित्यमुक्त एव स न मोक्षं प्रति केनचित्प्रतिबध्यत इत्यर्थः ॥ ३१ ॥ मुत्पन्नसम्यग्दर्शनो वर्तेतैव नतु तस्य कोपि शास्त्रनिर्बन्धः । शास्त्रस्याविद्यावद्विषयत्वाद्विदुषोऽविद्याया विद्यया नाशितत्वाच्चेति भावः । i मयि मदीये इत्यर्थः । तमेवाह - वैष्णवे इति । विष्णोर्व्यापकस्य परमात्मनो मम सम्ब- न्धिनि परमे उत्कृष्ठे पदे स्वरूपे सच्चिदानन्दलक्षणे वर्तते । यद्वा ‘तद्विष्णोः परमं पद’ मित्युक्तलक्षणे वैष्णव परमपदशब्दाभिधेये मयीत्यर्थः । स्वस्वरूपस्य स्वाभिन्नत्वाद्यद्वैष्णवं स्वस्वरूपं परमपदशब्दाभिधेयं तत्साक्षाद्विष्णुरेव न तु विष्णोरन्यत् - निर्धर्मकपरमानन्दबोधस्वरूपे विष्णावात्मनि धर्मधर्मिभावकल्पनायोगादिति भावः । स्वस्वरूपे वर्तनं च विदुषः स्वस्वरूपेणावस्थानमेव; न त्वाधाराधेयभावरूपं स्वस्य स्वरूपस्य च आधाराधेयभावायोगात् । स्वमेव हि स्वरूपम् । इदमेव स्वस्वरूपेणावस्थानं मुक्तिः । ब्रह्मभावापत्ते- मोक्षत्वाद्ब्रह्मभावस्य च ब्रह्माभिन्ने आत्मनि कालत्रयेपि सत्त्वादित्यभिप्रेत्याह - नित्यमुक्त एव स इति । ईश्वरस्य नित्यमुक्तत्वं सर्वसम्मतं, जीवस्य नित्यमुक्तत्वं तु सम्यग्दर्शिन एव सम्मतं - तस्यैव जीवेश्वरा भेदज्ञानात् । अत उक्तम् - स एव नित्यमुक्त इति । सम्यग्दश्यैव नित्यमुक्तः, अन्ये भेद- वादिनस्तु न मुक्ताः किंतु बद्धा एव भीतिग्रस्तत्वादिति भावः । ननु कथमस्य सम्यग्दर्शिनोपि नित्यमुक्तत्वं देहादिबन्धसत्वादत आह-नेति । नास्य मोक्ष- प्रतिबन्धकं किञ्चिदपि वस्त्वस्ति । ब्रह्मात्मैकत्वज्ञानेन सूर्यस्थानीयेन तमस्स्थानीयस्याज्ञानस्य पिशा - चादिस्थानीय देहादिकार्यसहितस्य समूलं नाशितत्वादिति भावः । अतो यावत्प्रारब्धं देहादिसत्त्वेपि विदुषो न तेन कश्चिद्बन्धः - दग्धपटवदेहादेस्तस्याबन्धकत्वाद । यद्वा धर्माधर्मादिसंस्काररूपप्रतिबन्धक सत्त्वात्कथं सम्यग्दर्शनमात्रेण मोक्षलाभस्तत्त्वविद इत्यत आह— नेति । विद्यया धर्माधर्मादिसंस्काराणां नाशितत्वान्न तत्प्रतिबन्ध इत्यर्थः ।
यत्तु रामानुजः — मयि वर्तते मत्साम्यमेव पश्यतीत्यर्थ इति, तत्तुच्छम् – तत्पदाभ्यां तदर्थालाभस्य सर्वविदितत्वात् | आत्मपरमात्मनोर्द्वयोर्वस्तुनोर्दर्शने सति रत्नदर्पणयोरिव तत्साम्यं सुबोधं स्यात्, नतु तदस्ति - न हि समाधौ अन्यत्र वा द्वयोर्दर्शनं सम्भवति, किं स्वात्मन एकस्यैव– अनुभव - मात्रस्यैव समाधौ परिशेषात्, अनुभवरूपत्वाच्चात्मनः । / यदि चतुर्भुजत्वादिमत्पिण्डः परमात्मा द्विभुजत्वादिमत्पिण्डो जीवात्मा च स्यात्तर्हि बुद्धिद्वयं स्यात्, तत्रापि न साम्यस्यास्त्यवकाश :- ईश्वर विग्रहस्याप्राकृतत्वाज्जीवविग्रहस्य च प्राकृतत्वात् । यदि तु स्वभिन्नः परमात्मा स्वेन दृष्टः स्यात् तर्हि परमात्मनो ज्ञेयत्वं स्यात्तद्धि न सहते श्रुति:- ‘साक्षी चेता केवलो निर्गुण’श्वेत्यादिः ; ‘नान्योतोस्ति द्रष्टेति च परमात्मनो ज्ञातृत्वमेव ब्रूते श्रुतिर्न तु ज्ञेयत्वम् । सति च ज्ञेयत्वे घटादिवज्जड एव स्यात्परमात्माऽनित्यश्च । तंदेवमात्मपरमात्मरूपवस्तुद्वयदर्शन | सम्भवान्नास्ति तत्साम्यस्यावकाशः ॥ ३१॥ २८० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ! सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२ ॥ किंचान्यत्स्यात्, आत्मेति । आत्मा स्वयमेवोपमा तद्भाव औपम्यं तेनात्मौपम्येन सर्वत्र सर्वभूतेषु समं तुल्यं पश्यति योर्जुन ! स च किं समं पश्यतीत्युच्यते यथा मम सुख मिष्टं तथा सर्वप्राणिनां सुखं अनुकूलं । वाशब्दश्चार्थे । यदि वा यच्च दुःखं ममानिष्टं प्रतिकूलं यथा तथा सर्वप्राणिनां प्रतिकूलं अनिष्टं दुःखमिति । एवमात्मौपम्येन सुखदुःखे अनुकूल- प्रतिकूल तुल्यतया सर्वभूतेषु समं पश्यति, न कस्यचित्प्रतिकूलमाचरति, अहिंसक इत्यर्थः । अत्मेति । हे अर्जुन ! य आत्मौपम्येन सर्वत्र सुखं वा यदि वा दुःखं समं पश्यति स योगी परमो मत इत्यन्वयः । ननु यदि विदुषो मोक्षंप्रति न कश्चित्प्रतिबन्धस्तर्हि विद्वान् यथेष्टमाचरेदिति पक्षे विद्वान् हिंसामपि कुर्यादेवेत्यत आह- किंचान्यदिति । आत्मा स्वयमेवोपमा उपमानमात्मोपमा तस्या भाव आत्मौपम्यम्; स्वसादृश्यं तेनात्मौपम्येन खदृष्टान्तेनेति यावत् । सुखं वा सुखं च सम तुल्यं पश्यति, यदि वा यच्च यद्वेत्यर्थः । दुःखं समं पश्यति, कथं सुखदुःखयोस्सर्वत्रात्मौपम्येन सम- दर्शनमत आह-यथेति । यथा मम सुखमिष्टमनुकूलं तथा सर्वप्राणिनामपि सुखमिष्टं यथा वा मम दुःखमनिष्टं प्रतिकूलं तथा सर्वप्राणिनामपि दुःखमनिष्टमित्येवमात्मौपम्येन सर्वभूतेषु सुखदुःखे अनुकूल- प्रतिकूल तुल्यतया समं पश्यतीत्यन्वयः ।
- सममित्यस्यार्थः तुल्यतयेति साम्येनेत्यर्थः । किमेतद्दर्शनेन फलमत आह-न कस्यचिदिति । यथा स्वस्य प्रतिकूलं दुःखकरं तथैव सर्वस्यापीति यो वेत्ति स कथं परस्य प्रतिकूलमाचरेत् ? न कथ- मपीत्यर्थः । तस्यापि फलितार्थमाह–अहिंसक इति । : ननु अज्ञोपि यथा स्त्रीगमनं स्वस्य सुखं तथा परस्यापि सुखमेव यथा शस्त्रपातः स्वस्य दुःखं तथा परस्यापि दुःमेवेति जानात्येव । कथमन्यथा स्वमित्रस्य परस्य जारस्त्रियमर्पयेत् कथं वा स्वशत्रोः परस्य शस्त्रपातं कुर्याद्वपुषि ! तस्माद्यर्थोयमुपदेश इतिचेत्, मैवम् – अत एव खलु न कस्यचित्प्रति- कूलमाचरतीति भाषितमाचार्यैः । यो हि स्वस्येव परस्यापि स्त्रीगमनं सुखमिति तदपहरणं दुःखमिति च मन्यते स कथं परस्त्रीहरणरूपं परस्य प्रतिकूलमाचरेत् । यस्तु परस्त्रीहरणरूपं परस्य प्रतिकूलमाचरति, स हि स्वस्त्रीहरणतुल्यं परस्त्रीहरणं नैव मन्यते, किंतु परस्त्रीहरणं स्वस्य सुखमित्येव मन्यते । अथ वा आत्मौपम्येन सर्वत्र समं सुखं दुःखं वा पश्यन् यः परस्य प्रतिकूलं नाचरति स योगी परम इत्येव भगवद्वाक्यमिति ब्रूमः । तत्र च परस्य प्रतिकूलं नाचरतीति तु वाक्यशेष इति । एवं च अहिंसकत्वमनेन श्लोकेन योगिनः परमसाधनमित्युक्तम् । तस्य चाहिंसकत्वस्य सर्व- श्रात्मौपम्येन सुखदुःखंसमदर्शनं कारणमिति च । अत एव य एवमहिंसक इति भाष्यकारैरहिंसकत्व - मेवानुदितम् /३६ षष्ठोऽध्यायः । २८१ य एवमहिंसकस्सम्यग्दर्शननिष्ठस्स योगी परम उत्कृष्टो मत अभिमतस्सर्वयोगिनाम् ||३२|| अर्जुन:- योऽयं योगस्त्वया प्रोक्तस्साम्येन मधुसूदन ! एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् ||३३|| एतस्य यथोक्तस्य समदर्शनलक्षणस्य योगस्य दुःखसम्पाद्यतामालक्ष्य शुश्रूषुस्तत्प्रा- प्त्युपायमर्जुन उवाच -य इति । योऽयं योगस्त्वया प्रोक्तस्साम्येन समत्वेन हे मधुसूदन ! एतस्य योगस्याहं न पश्यामि नोपलभे चञ्चलत्वान्मनसः किं स्थिरामचञ्चलां स्थितिम् ॥ चञ्चलं हि मनः कृष्ण ! प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ||३४|| प्रसिद्धमेतत् ; चञ्चलमिति । चञ्चलं हि मनः कृष्ण ! इति कृपतेर्विलेखनार्थस्य रूपम् । भक्तजनपापादिदोषापकर्षणात्कृष्णः तस्य संबुद्धि: हे कृष्ण ! चञ्चलं, न केवलमत्यर्थ न केवलमहिंसकत्वमात्रमेव योगिन उत्कर्षावहं, किंतु सम्यग्दर्शनपूर्वकं तत् । अन्यथा अज्ञोऽ- प्यहिंसक उत्कृष्टस्स्यादित्याह - सम्यग्दर्शननिष्ठ इति । ब्रह्मात्मैकत्वदर्शननिष्ठ इत्यर्थः । एतेन ब्रह्मात्मैकत्वदर्शनसम्पन्नस्यापि योगिनो भूतदयाऽऽवश्यकीति सूचितम् । यत्तु रामानुजः — परपुत्रजन्ममरणादिसमं स्वपुत्रजन्ममरणादिकं यः पश्यतीत्यर्थ इति, तत्तुच्छम् — अर्थस्य साधुत्वेपि एतदर्थबोधक शब्दाभावान्मूले । आत्मन एव मूले उपमात्वेन ग्रहणात् । परपुत्रजन्ममरणादिनापि स्वस्य सम्बन्धो नास्तीत्येतदेशस्य दुर्वचत्वात् । परस्य शत्रोः पुत्रजन्मना तन्मरणेन च स्वस्य वैमनस्य सन्तोषरूपविकारदर्शनात्परस्य स्वेतरस्य भावादेः पुत्रजन्म तन्मरणाभ्यां स्वस्य सुखदुःखविकारदर्शनाच, तेन च विकारदर्शनेन तत्सम्बन्धस्यानुमीयमानत्वात् । नहि सम्बन्ध विना कार्योदयः । शत्रुपुत्रजन्ममरणादिवत्स्वपुत्र जन्ममरणादिकं द्रष्टव्यमित्यनेन स्वपुत्रजन्ममरणयोरपि दुःख- सुखयोः कर्तव्यत्वापत्तेः । स्वबन्धुपुत्र जन्ममरणादिवदिति स्वीकारे उपदेशानर्थक्यापत्तेः । अज्ञोपि हि स्वबन्धुपुत्रोदयादाविव स्वपुत्रोदयादौ सुखादिकं भजत्येव । तस्मान्नात्र स्वपुत्रजन्ममरणादेः परपुत्र जन्म- मरणादिसाम्यमनेनोच्यत इति वक्तुं शक्यते । न च परोल शत्रु मित्राभ्यामन्य उदासीनः, तत्पुत्रजन्मतन्मरणादिना न स्वस्य कोपि विकार इति वाच्यं सर्वसमस्य भूतदयादिशालिनः पुरुषस्य परपुत्रमरणस्यापि दुःखावहत्वात् । अन्यथा नैर्घृण्य-, स्यापि गुणत्वापत्तेः । तस्मात्स्वस्य यथा पुत्रजन्मसुखं तन्मरणं च दुःखं तद्वत्परस्यापीति बुध्वा यः परस्य पुत्रद्रोहाद्यनिष्टं नाचरति स योगी परम इत्येव श्लोकार्थः ॥ ३२ ॥ य इति । साम्येन समत्वेनोपलक्षित इति शेषः । सर्वत्र समदर्शनरूपो योग इत्यर्थः । चञ्च- लत्वादिति । कस्येत्यत आह-मनस इति । मनसश्चञ्चलत्वादेतस्य स्थिरां स्थितिमहं न पश्यामीत्यन्वयः ॥ चञ्चलमिति । हिः प्रसिद्धौ । विलेखन छेदनं कर्षति भिनत्ति भक्तपापादिदोषमिति कृष्ण आत्मा, आत्मचिन्तनाद्धि सर्वपापक्षयः । ‘कृषिर्भुवाचकश्शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं २८२ - श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु चलं प्रमाथि प्रमथनशीलं च प्रमनाति शरीरमिन्द्रियाणि च विक्षिपत्सत् परवशीकरोति 1 किंच- बलवत् न केनचित् नियन्तुं शक्यम् । किंच दृढं तन्तुनाभवत् तस्यैवंभूतस्य मनसः अहं निग्रहं निरोधं मन्ये- वायोरिव यथा वायोर्दुष्करो निरोधः ततोपि दुष्करं मन्य इत्यभिप्रायः ॥ ३४ ॥ श्रीभगवानुवाच - असंशयं महाबाहो ! मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥ श्रीभगवानुवाच — एवमेव यथा ब्रवीषि, असंशयमिति । असंशयं नास्ति संशयः महाबाहो ! मनो दुर्निग्रहं चलमित्यत्र । किं त्वभ्यासेन तु अभ्यांसोनाम चित्तभूमौ कस्यां चित्समानप्रत्ययावृत्तिश्चित्तस्य वैराग्येण । वैराग्यं नाम दृष्टादृष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्ण्य ब्रह्म कृष्ण इत्यभिधीयत’ इति निरुक्त्यन्तरम् । भवतीति भू:- भूसत्तायाम् । परमानन्दसद्रूप इत्यर्थः । सच्चिदानन्दरूपत्वादात्मन इति भावः । तन्तुनाभ ऊर्णनाभः कीटविशेषः; सहि तन्तून् यथाऽविच्छेदेन सृजिति वयति दृढं कीटान्तरां- स्तत्र बध्नाति तद्वन्मनोपि सङ्कल्पविकल्पादीनविच्छेदेन सृजति तैः पुरुषं बध्नाति च दृढमिति भावः । एतेन दृढमित्यस्य दृढबन्धक मित्यर्थ सिद्धः । तन्तुनाग इति पाठे वरुणपाशाख्यस्तोयचरः पदार्थस्तन्तु- नागस्स ह्यतिदृढत्वादच्छेद्य इति बोध्यम् । वायोरिवेत्यत्रत्यस्य इवशब्दस्य औपम्यवाचित्वमयुक्तम्- - उत्कृष्टस्य मनस अपकृष्टेन वायुना औपम्यायोगात् । उपमानस्य हि चन्द्रादेरुत्कृष्टतया भाव्यं मुखादेरुपमेयात् । वेगवत्तादिषु मनसो वाय्वपेक्षया उत्कृष्टत्वं प्रसिद्धम् । तस्मादव्ययानामनेकार्थत्वादिव शब्दस्यात्र अप्यर्थकत्वमित्यभिप्रेत्याह- वायोरपीति । सुष्ठु दुष्करः सुदुष्करः तं सुदुष्करम् । कृष्ण ! मनः चञ्चलं प्रमाथि बलवद्हढं च भवति । अहं वायोरिव तस्य निग्रहं सुदुष्करं मन्ये इत्यन्वयः । दुःखेन कर्तुं शक्यों दुष्करः; कर्तुमशक्य इत्यर्थः । ईषद्वदिति खर् ॥ ३४ ॥ . असंशयमिति । असंशयमित्यर्थाभावेऽव्ययीभाव इत्यभिप्रेत्याह–नास्ति संशय इति । कुलासंशयमत आह- मनो दुर्निग्रहं चलमित्यत्रेति । त्वदुक्तार्थे न कश्चित्संशयः चञ्चलं हि मन इति त्वदुक्तार्थस्सत्य एवेत्यर्थः । तुशब्दार्थमाह- किं त्विति । कस्यांचिच्चित्तभूमौ चित्तस्य समानप्रत्ययावृत्तिरभ्यासः; चित्तस्य भूमिः स्थलं विषय इति यावत् । विष्णुमूर्त्यादिरूप इति भावः । समानप्रत्यया एकाकारज्ञानानि तेषामावृत्ति:; यथा प्रणवोपासकानां प्रणवश्चित्तभूमिः । ओं ब्रह्म प्रणवो ब्रह्मेति वा । असकृच्चिन्तन संमानप्रत्ययावृत्ति :– यथा वा विष्णुमूर्त्यपासकानां विष्णुमूर्तिश्चित्तभूमिः तद्विषयास्समानप्रत्ययाः– विष्णुमूर्तिर्ब्रह्म विष्णुमूर्तिर्ब्रह्म इत्याकारकाः । तेषामावृत्तिः यथा वा आत्मोपासकानामात्मा चित- भूमिः। तद्विषयाश्चित्तस्य समानप्रत्ययाः अहं ब्रह्मास्मि अहं ब्रह्मास्मीत्येवंरूपा बुद्धिवृत्तयः; तेषामावृतिरिति । षष्ठोऽध्यायः । २८ई तेन वैराग्येण च गृह्यते विक्षेपरूपः प्रचारः चित्तस्य । एवं तन्मनो गृह्यते निगृह्यते निरुध्यत इत्यर्थः ॥ ३५ ॥ असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३६ ॥ यः पुनरसंयतात्मा तेन, असंयतात्मनेति । असंयतात्मना अभ्यासवैराग्याभ्यामसंयत आत्मा अन्तःकरणं यस्य सोऽयमसंयतात्मा तेन असंयतात्मना योग: दुष्प्रापः दुःखेन प्राप्यत इति मे मतिः । यस्तु पुनर्विश्वात्मा अभ्यासवैराग्याभ्यां वश्यत्वमापादितः आत्मा मनो यस्य सोऽयं वश्यात्मा, तेन वश्यात्मना तु यतता भूयोपि प्रयत्नं कुर्वता शक्योऽवाप्तं योग उपायतः यथोक्तादुपायात् ||३६|| अर्जुनः - अयतिश्श्रद्धयोपेतो योगाच्चलितमानसः । आप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥३७॥ तत्र योगाभ्यासाङ्गीकरणेनेहलोक परलोकप्राप्तिनिमित्तानि कर्माणि सन्न्यस्तानि, योगसिद्धिफलं च मोक्षसाधनं सम्यग्दर्शनं न प्राप्तमिति योगी योगमार्गान्मरणकाले चलित- . दोषाः क्षयिष्णुत्वसातिशयत्वदुः खोदर्कत्वादयः, तेषां दर्शनाभ्यासादसकृद्दर्शनादित्यर्थः । जातमिति शेषः । वैतृष्ण्यं विगता तृष्णा विषयाभिलाषो यस्य स वितृष्णं तद्भावो वैतृष्ण्यं तृष्णाभाव इत्यर्थः गृह्यते किं गृह्यतेऽत आह— चित्तस्य प्रचार इति । चित्तप्रचारस्याकारमाह - विक्षेपरूप इति । विक्षेपश्चलनं विषयेषु प्रवृत्तिरित्यर्थः । विषयसङ्कल्पविकल्पादिरूपा क्रियेति यावत् । चित्तविक्षेप- निरोधें सति चित्तनिरोधो जातप्राय इत्याह– एवं तन्मनो गृह्यत इति । तन्मनः चञ्चलं मन इत्यर्थः हेमहाबाहो ! चल मनो दुर्निग्रहमित्यसंशयम् । तु तदिति शेषः । हे कौन्तेय ! अभ्यासेन वैराग्येण च गृह्यते पुरुषेणेति शेषः । चञ्चलमपि मनः अभ्यासवैराग्याभ्यां साधनाभ्यां चित्तविक्षेप- निरोधद्वारा | पुरुषेण निरुद्धं भवतीत्यर्थः । सङ्कल्पविकल्पादि क्रियास्वभावस्य मनसंस्सहसा निर्व्यापारीकरणस्याशक्यत्वात् प्रणवाद्यालम्बन- चिन्तनात्मकक्रियायां तन्मनः प्रवर्त्यविषय दोषदृष्ट्या विषयचिन्तनान्निवर्त्य च शनैरशनैस्स्वाधीनं कुर्या - स्वभावदुष्टं वाजिनमिव कुशल इत्यभिप्रायः ||३५|| असंयतेति । असंयतोऽनियतः; अस्वाधीन इत्यर्थः । दुःखेन प्राप्तुं शक्यो दुष्प्रापः प्राप्तु- मशक्य इत्यर्थः । मे मतिर्मम मतम् । भूयोपीति । इतः प्राक् मनसस्स्वायत्तीकरणे प्रयत्नस्य कृतत्वा- भूयोपीत्युक्तम् । अनेन जितेपि मनसि न विश्वासः कर्तव्यः, किंतु सर्वदापि तज्जय एव कृतावधान भवितव्यमन्यथा स्वाभाविकदोषस्य पुनरप्यापातप्रसङ्गान्मनस इति सूचितम् । उपायस्साधनानुष्ठानम् । तचोक्तं निश्वया निर्वेवेदसमदर्शनादिकम् ॥ ३६ ॥ अयतिरिति, योगाभ्यासकरणेनेति । असन्न्यासिनो योगमार्गानधिकारादिति भावः । 1 २.८४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु चित्त इति तस्य नाशमाशङ्कयार्जुन उवाच – अयतिरिति । अयतिः अप्रयत्नवान् योगमार्गे श्रद्धया आस्तिक्यबुद्ध्या चोपेतः योगादन्तकाले चलितं मानसं मनो यस्य स चलितमानसः भ्रष्टस्मृतिः सः अप्राप्य योगसंसिद्धि योगफलं सम्यग्दर्शनं कां गतिं हेकृष्ण गच्छति ॥३७॥ कच्चिन्नोभयविभ्रष्टरिछन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो ! विमूढो ब्रह्मणः पथि ||३८|| कच्चिदिति । कच्चित् किं नोभयविभ्रष्टः कर्ममार्गाद्योगमार्गाच्च विभ्रष्टस्सन् छिन्नाभ्र- मिव नश्यति किं अप्रतिष्ठो निराश्रयः हेमहाबाहो ! विमूढस्सन् ब्रह्मण: ब्रह्मप्राप्तिमार्गे ॥ योगमार्गाद्ध्यानमार्गात् । मरणकाल इति । तदानीं कफवातदोषवशादिति भावः । चलितं विक्षिप्तं चित्तं यस्य सः । न हि म्रियमाणस्य चित्तसमाघानं सुकरमिति भावः । नाशमिति । कर्मतत्फलसन्न्यासा दैहिकामुष्मिक भोगभ्रंशः, योगस्य चासमाप्तत्वान्मोक्षाद्श इत्युभयभ्रंशरूपो नारा इति भावः । गृहस्थस्य कर्मफलभ्रंशरूपनाशासम्भवात्, मोक्षभ्रंशमात्रेण नाशस्य दुर्वचत्वान्नायं गृहस्थविषयः प्रश्नः, किंतु सन्न्यासिविषय एवेति प्रागेव व्यावस्थापितमाचार्यैः । अयतिः श्रद्धयोपेतः योगाच्चलितमानसः सन्यासीति शेषः प्रकरणात् । योगसंसिद्धिमप्राप्य हेकृष्ण ! कां गतिं गच्छति । यतत इति यतिः, न यतिरयतिः अयतमानः । यावदर्थमाह — प्रयत्नवानिति । यद्वा गतिरिति वद्यतिरिति । भावप्रत्ययान्तः । न विद्यते यतिः प्रयत्नो यस्य सोऽयतिः । अप्रयत्नः प्रयत्नोऽस्यास्तीति प्रयत्नवान् स न भवतीत्यप्रयत्नवानिति भाष्ये विग्रहः । आफलोदयं प्रयत्नरहित इत्यर्थः । सुतरामप्र- यत्रत्वे योगाच्चलितमानस इति वक्तुमयुक्तत्वात् । श्रद्धाल योगमार्गविषयिण्येव प्रकरणादित्याह - योगमार्गे इति । विषयसप्तमी । आस्तिक्य- बुद्धिः अस्ति दिष्टं मतिर्यस्य स आस्तिकः तद्भाव आस्तिक्यं तद्बुद्धिः । योगप्राप्यमोक्षादाव स्तित्व- बुद्धिरित्यर्थः । गम्यते प्राप्यत इति गतिः । अष्टेनानेन किं प्राप्यत इत्यर्थः ॥ ३७ ॥ I कच्चिदिति । हेमहाबाहो ! पूर्वश्लोकोक्तो योगी अप्रतिष्ठः - ब्रह्मणः पथि विमूढस्तन्नतं एक उभयभ्रष्टस्सन्, छिन्नाभ्रमिव न नश्यति कच्चित् ? सन्न्यासस्वीकारात्कर्ममार्गभ्रंशः, योगस्यासमाप्तत्वाद्योग- मार्गाद्भ्रंश इत्युभयभ्रंशवानुभयभ्रष्टः । छिन्नाभ्रं वायुना विशकलितो मेघः तद्धि निराश्रय गगन एवं नश्यति, नतु पर्वतादिकं स्वस्थानं प्राप्नोति, नापि समुद्रं गम्यस्थानं, किंतु मध्य एवं नश्यति अत उभय- भ्रष्टमेव तत् । स्वस्थानत्यागाद्गन्तव्यस्थानाप्राप्तेश्च तद्वदयमपीति भावः । असङ्गस्य ब्रह्मणः कथं मार्गसङ्गित्वमत आह— ब्रह्मप्राप्तिमार्गे इति । मोक्षमार्ग इत्यर्थः । अभ्युदयमार्ग विहाय मोक्षमार्गे प्रविष्टः कालाद्यभावात्तत्र निरालम्बनं विमोहं च प्राप्तस्तन्नयं योगी न नश्यति किमित्यर्थः । नश्यति किमिति प्रष्टव्ये न नश्यति किमिति प्रश्नः । तादृशयोगिनो नाशाभावः ३७ षष्ठोऽध्यायः । एतं मे संशयं कृष्ण ! छेत्तुमर्हस्यशेषतः । त्वदन्यस्संशयस्यास्य छेत्ता नहयुपपद्यते ॥३९॥ २८५ एतमिति । एतं मे मम संशयं कृष्ण ! छेत्तुमपनेतुमर्हसि - अशेषत: त्वदन्य- स्त्वत्तोन्यः ऋषिर्देवो वा छेत्ता नाशयिता संशयस्यास्य न हि यस्मादुपपद्यते न सम्भवति; अतः त्वमेव छेत्तुमईसीत्यर्थः ॥ ३९ ॥ श्रीभगवानुवाच — पार्थ! नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिदुर्गतिं तात ! गच्छति ॥४०॥ श्रीभगवानुवाच — पार्थेति । पार्थ ! नैवेह इहलोके, नामुत्र परस्मिन् लोके वा विनाशस्तस्य विद्यते नास्ति; नाशोनाम पूर्वस्माद्धीनजन्मप्राप्तिः । स तस्य योगभ्रष्टस्य नास्ति । न हि यस्मात्कल्याणकृच्छुभकृत् कश्चिदुर्गतिं कुत्सितां गतिं हे तात! तनोत्यात्मानं पुत्र- स्वस्येष्ट इति सूचयितुं छिन्नाभ्रमिवेति तु व्यतिरेकदृष्टान्तः । यथा छिन्नाभ्रं नश्यति तथायं न नश्यति किमिति । अत्र छिन्नाभ्रं पूर्वस्माद्वहतो मेघाच्छिन्नरशकलः । परं बृहन्मेघमप्राप्य पूर्वं बृहन्मेषं च त्यक्त्वा मध्ये यथा नश्यति तद्वदिति केचित् ।
यत्तु रामानुजः — यथावस्थितं स्वर्गादिसाधनभूतं कर्म फलाभिसन्धिरहितस्यास्य पुरुषस्य स्वफलसाधनत्वेन प्रतिष्ठा न भवतीत्यप्रतिष्ठः । प्रकान्ते ब्रह्मणः पथि विमूढः तस्मात्पथः प्रच्युत अत उभयभ्रष्ट इति, तत्तुच्छम् — स्वर्गादिसाधनभूतस्यापि फलाभिसन्धिरहितस्यानुष्ठितस्य कर्मणः चित्त- शुद्धिदुरितक्षयादिरूपमहाफलसत्त्वात्, ईश्वरार्थमनुष्ठितस्यापि कर्मणो महाफलसत्त्वात्स्वर्गाद्यसाधन नित्य- कर्मफलसत्त्वाच्च न गृहस्थस्य योगमार्गाश्रयणमात्रेण कर्मपथभ्रंशः । तस्मान्न गृहस्थं प्रत्युभयभ्रष्टप्रश्नोप- पतिः । प्रतिपादितं चैतदध्यायारम्भएव श्रीमच्छङ्करभगवत्पादाचार्यैः ॥ ३८ ॥ एतमिति । एतं पूर्वोक्तं सन्न्यासिनोऽप्रतिष्ठितयोगस्योभयभ्रष्टत्वप्रयुक्तनाशसत्त्वासत्त्वरूपमि - त्यर्थः । ईश्वरादन्यत्वं द्विपात्पश्वादिष्वप्यस्ति परं तु तेषु दर्शितसंशयच्छेदनसामर्थ्यशङ्काया एवासम्भव इत्यभिप्रेत्याह — ऋषिर्देवो वेति । ऋषिर्मन्त्रद्रष्टा वसिष्ठादिः । देवो ब्रह्मादिः । सामान्यतस्संशय- च्छेदनसामर्थ्यशास्यपि ऋषिदेवो वा नास्य संशयस्य छेदने प्रभवतीति मन्येहमित्यर्थः । अत इति । यस्मादन्यः प्रकृतसंशयच्छेत्ता नास्ति तस्मादित्यर्थः । तवैव सर्वज्ञत्वादिति भावः ॥ ३९ ॥ पार्थेति । ऐहलौकिकतिर्यगादिहीनजन्मप्राप्तिरूपः, पारलौकिकनारक्यादिहीनजन्मप्राप्तिरूपो वा नाशो नास्ति योगभ्रष्टस्येत्यर्थः । कल्याणकृतो दुर्गतिप्राप्त्यसम्भवस्सर्वविदित एव । योगो हि परं कल्याणम् । तस्माद्योगकृतो नास्ति दुर्गतिप्राप्तिरिति द्वितीय वाक्यार्थः । हेतात हेशिष्य ! कथं शिष्ये तातशब्दप्रयोगोऽत आह– तनोतीत्यादि । आत्मानं पुत्ररूपेण तनोति विस्तारयत्युत्पादयतीति यावत् तातः । ’ अङ्गादङ्गात्सम्भवसि हृदयादविजायस’ इति श्रुतेः पितृभुक्तान्नपरिणामरूपवीर्यमयत्वाच्च पुत्रस्य । नच कथमात्मनो जन्यत्वं जनकत्वं वेति वाच्यं पितृ- देहात्पुत्रदेहो जायत इति कार्यकारणसङ्घातरूपयोरेव पितृपुत्रयोरिह ग्रहणात् । २८६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु रूपेणेति पिता तात उच्यते - शिष्योपि पुत्रवदित्यपुत्त्रोपि तात उच्यते; न गच्छति ॥४०॥ प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीस्समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥ किं त्वस्य भवति, प्राप्येति । योगमार्गे प्रवृत्तस्सन्न्यासी सामर्थ्यात् प्राप्य गत्वा पुण्यकृतामश्वमेधादियाजिनां लोकान् तत्त्रोषित्वा वासमनुभूय शाश्वतीनित्याः समाः संवत्सरान् तद्भोगक्षये शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥ अथ वा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ||१२||
- अथ वेति । अथवा श्रीमतां कुलादन्यस्मिन् योगिनामेव दरिद्राणां कुले भवति एवं पितुस्ता शब्दवाच्यत्वमुत्पाद्य पुत्रस्यापि तद्व्युत्पादयति — पितैवेति । ‘आत्मा वै पुत्रनामा’- सीति श्रुतेरिति भावः । अथ शिष्यस्य तत्त्वं प्रतिपादयति — शिष्योपीति । ‘वंशो द्वेधा विद्यया जन्मना’ चेति शास्त्रात्पिता पुत्रं जन्मना जनयति; आचार्यस्तु शिष्यं विद्यया जनयति । तथा च विद्यया जन्यजनकभावश्शिप्याचार्ययोरस्तीति गुरुः पिता, शिष्यस्तु पुत्रः । दर्शितरीत्या यथा पुत्रस्तातः तथा शिष्योपि तात एवेत्यभिप्रेत्याह - शिष्योपि पुत्रवदिति ।
- अपुत्रोपीति पुत्रसदृशः शिष्योपीत्यर्थः । नञर्थस्तत्सादृश्यस्याप्यर्थत्वात् । नच पुत्रादन्योऽपुत्र इति तदन्यत्वमत्र नञर्थ इति वाच्यं तथासति पुत्रादन्यस्य घटस्याप्यपुत्रत्वापत्तेः । न चेष्टापत्तिः, अपुत्रस्य घटस्य तातपदवाच्यत्वापत्तेः । शिष्योपि पुत्र उच्यत इत्येतावन्मात्रमेव केषुचित्पुस्तकेषु पाठान्तरं दृश्यते ॥ ४० ॥
- प्राप्येति । योगभ्रष्टः पुण्यकृतां लोकान् प्राप्य शाश्वतीः समाः उषित्वा शुचीनां श्रीमतां गेहे अभिजायते; कोसौ योगभ्रष्टोत आह- योगमार्गे प्रवृत्तस्सन्न्यासीति । योगमार्गे प्रवृत्ति विना ततो अंशायोगात् । असन्न्यासिनो योगमार्गेऽधिकाराभावाच्चेति भावः । इदमेव सूचयति — सामर्थ्या- दिति । योगभ्रष्टपदग्रहणबलादित्यर्थः ।
- पुण्यमश्वमेधयागादिरूपं धर्मं कृतवन्त इति पुण्यकृतः । पुण्यं कुर्वन्तीति तु विग्रहः । तेषां लोकानिति यान् लोकान् ते गच्छन्ति तानित्यर्थः । नित्या इति । अनेका इत्यर्थः । अविनाशित्व- रूपनित्यत्वासम्भवात्संवत्सराणाम् । कदा जायते अत आह— तद्भोगक्षये इति । प्रारब्धक्षयं विना देवादिशरीरपातासम्भवादिति भावः । वेदविहितकर्माननुष्ठातृषु शुचित्वासम्भवादाह-यथोक्तकारिणा- मिति । उक्तमनतिक्रम्य यथोक्तं कर्तुं शीलं येषां ते यथोक्तकारिणः; वेदविहितानुष्ठातार इत्यर्थः । तेषां विभूतिस्सम्पत् अभिजायते अवश्यं जायते ॥४१॥
- अथ वेति । अथ वेति पक्षान्तरात् पूर्वं श्रीमत्कुलजन्मपक्षस्योक्तत्वादिदानीं तद्भिन्नदरिद्र कुल- जन्मपक्ष उच्यत इत्याह- श्रीमतां कुलादन्यस्मिन्निति । योगिनां कर्मयोगिनां दरिद्राणां कुले वंशे ।
- षष्ठोऽध्यायः ।
- २८७
- जायते धीमतां बुद्धिमताम् । एतद्धि दुर्लभतरं एतद्धि जन्म दरिद्राणां योगिनां कुले दुर्लभ- तरं दुःखलभ्यतरम् पूर्वमपेक्ष्य लोके जन्म यदीदृशं यथोक्तविशेषणे कुले ॥४२॥
- तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् ।
- यतते च ततो भूयस्संसिद्धौ कुरुनन्दन ! ॥ ४३ ॥
- यस्माच्च तत्रेति । तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्धया संयोगं लभते पौर्व- दैहिकं पूर्वस्मिन् देहे भवं पौर्वदैहिकं यतते च प्रयत्नं च करोति ततस्तस्मात्पूर्वकृतात् संस्कारात् भूयो बहुतरं संसिद्धौ संसिद्धिनिमित्तं हे कुरुनन्दन ! ॥ ४३ ॥
- ननु
- श्रीमतां कुले जन्मैव श्लाध्यं, न तु दरिद्राणां योगिनामिति मन्वानमा लक्ष्यार्जुनमाह- एतद्धीति । एतच्छब्दार्थमाह–दरिद्राणां योगिनां कुले जन्मेति । अयोगिनां दरिद्राणां कुले जन्मनः पापहेतुत्वाद्योगिनामपि धनिकानां कुले जन्मनो मदहेतुत्वाच्च दरिद्राणां योगिनामित्युक्तम् । दुःखेन लब्धुं शक्यं दुर्लभमतिशयेन दुर्लभं दुर्लभतरं दुःखेनापि लब्धुमशक्यमित्यर्थः । किमपेक्षयेत्यत आह— पूर्वमपेक्ष्येति । शुचीनां श्रीमतां गेहे जन्मांपेक्ष्येत्यर्थः । तत्तु शुचीनां श्रीमतां गेहे जन्म दरिद्र योगिकुलजन्मेतरजन्मापेक्षया उत्कृष्टमेवेति बोध्यम् ।
- यथोक्तविशेषण इति दरिद्रत्वयोगित्वरूपविशेषणद्वयविशिष्टे इत्यर्थः । यदीदृशं जन्म तदेतज्जन्म लोके दुर्लभतरं हीत्यन्वयः । हिः प्रसिद्धौ ॥ ४२ ॥
- तत्रेति । दरिद्रयोगिकुलजन्मनः कुतः प्राशस्त्यं, श्रीमच्छुचिकुलजन्मापेक्षयेत्यत आह-तत्रेति । ननु दरिद्रयोगिकुले जातस्य योगभ्रष्टस्य पौर्वदैहिक बुद्धिसंयोगलाभ:; श्रीमच्छुचिकुले जातस्य तस्यैव तल्लाभोनेति कुत उच्यत इति चेत्, उच्यते— दारिद्रयानुभवेन पूर्वजन्मार्जितं पापमेव क्षीयते, न तु सुकृतं दारिद्र्यानुभवस्या सुकृतफलत्वात् ‘भिक्षिता शतमखी सुकृतं यत्तत्परिश्रमविदः स्वविभूतौ’ इति श्रीहर्षेण इन्द्रैश्वर्यस्य शतमखी सुकृतजन्यत्वस्योक्तत्वात् ऐहिकैश्वर्यस्यापि सुकृतपरिपाक - रूपत्वस्य शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायत इत्यनेनैवोक्तत्वात् ।
- तस्माद्यैस्सम्पदनुभूयते तैः पूर्व सुकृतक्षय एव सम्पाद्यते — अत एव ‘पूर्वपुण्यविभवव्यय- लब्धास्सम्पदो विपद एव विसृष्टा’ इति श्रीहर्षरसम्पदां पूर्वपुण्यक्षयकारित्वेन विपद्रूपत्वमेवावोचत् । तदेवं सम्पदनुभवेन पूर्वार्जितयोगसुकृतस्य क्षीणत्वान्नास्ति श्रीमच्छुचिकुलजातस्य पौर्वदैहिक बुद्धिसंयोग- लाभ: । दरिद्रयोगिकुलजातस्य तु दारिद्र्यानुभवेन योगसुकृतस्या क्षीणत्वात्तद्बलेन पौर्वदैहिकबुद्धि- संयोगलाभः । तस्माद्यस्य योगसुतं सम्पदनुभवेन क्षीर्णं सोऽपकृष्टएव दरिद्रयोगिकुलजातापेक्षया - अस्य योगसुकृतांकुरस्याक्षीणस्य पुनः प्रयत्नेनाभिवृद्धिं गमिष्यमाणत्वात् । तस्मात्सम्पदनुभवनाशितयोगांकुरा- च्छ्रीमच्छुचिकुलजन्ननः दारिद्रयानुभवा नाशितवर्धितयोगांकुरं दरिद्रयोगिकुलजन्मैव परमोत्तमम् ।
- तं पूर्वजन्मसम्पादितं संयोग सम्बन्धं । बुद्धिश्चित्तसमाधानरूपो योगः । तद्विषयं ज्ञानं वा आत्म- विषया बुद्धिरिति वा । पौर्वदैहिकमनुशतिकादित्वादुभयपदवृद्धिः । संसिद्धाबिति विषयसप्तमी । संसिद्धिर्मोक्षस्सम्यग्दर्शनं वा ॥ ४३ ॥
- २८८
- श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
- पूर्वाभ्यासेन तेनैव हियते ह्यवशोपि सः । जिज्ञासुरपि योगस्य शब्दब्रह्माविवर्तते ॥ ४४ ॥
- पूर्वाभ्यासेनेति । यः पूर्वजन्मनि कृतोऽभ्यासः स पूर्वाभ्यासः तेनैव बलवता हियते हि यस्मात्, अवशोपि सः योगभ्रष्टः तेन कृतं चेत् योगाभ्यासजनितसंस्कारात् बलवत्तर- मधर्मादिलक्षणं कर्म तदा योगाभ्यासजनितेन संस्कारेण हियते; अधर्मश्चेद्बलवत्तरः कृतस्तेन योगजोपि संस्कारोऽभिभूयत एव; तत्क्षये तु योगजस्संस्कारः स्वयमेव कार्यमारभते । नं दीर्घकालस्थस्यापि विनाशस्तस्यास्तीत्यर्थः । अतो जिज्ञासुर्योगस्य स्वरूपं ज्ञातुमिच्छन्नपि योगमार्गे प्रवृत्तः सन्न्यासी योगभ्रष्टस्सामर्थ्यात् - सोपि शब्दब्रह्म वेदोक्तकर्मानुष्ठानफलमति- वर्तते अपाकरिष्यति । किमुत बुध्वा योगं तन्निष्ठोऽभ्यासं कुर्बन् ॥४४॥
- पूर्वेति । अवशोपि सः तेनैव पूर्वाभ्यासेन हियते योगस्य जिज्ञासुरपि शब्दब्रह्मातिवर्तते । सः दरिद्रयोगिकुले जात इत्यर्थः । इदमेवाह - योगभ्रष्ट इति ।
- पूर्वाभ्यासेन हियत इति सामान्यत उक्तांशे विशेषमाह - तेनेति । योगभ्रष्टेनेत्यर्थः । तेन कर्म नं कृतं चेदित्यन्वयः । कीदृशं कर्मेत्यत आह — बलवत्तरमिति । किमपेक्षयेत्यत आह- योगाभ्यासेति । किं लक्षणं कर्मात आह- अधर्मादीति । आदिपदाद्धर्मग्रहणम् । धर्माधर्मापेक्षया योगसंस्कारो बलवत्तरस्स्याच्चेदित्यर्थः । तदेति तर्हीत्यर्थः । हियत इति योगाभ्यासं प्रति नीयत इत्यर्थः । पुनर्योगमार्गे प्रवर्त्यत इति यावत् ।
- विपक्षे किं भवेदित्यत आह— अधर्मश्चेति । धर्मस्याप्युपलक्षणमिदम् । अधर्मादिलक्षणं योग- संस्कारापेक्षया बलवत्तरं कर्म तेन कृतं चेत्तर्हि तेन कर्मणा योगजोपि संस्कारोऽभिभूयत एव ।
- नच अधर्मेण बलवत्तरेण योगसंस्कारस्याभिभवोस्तु नाम, कुतः पुनर्धर्मेणेति वाच्यं, अधर्मवद्धर्म- स्यापि योगप्रतिबन्धकत्वाभ्युपगमात् । अधर्मजन्यद्वन्द्वरोगादेरिव धर्मजन्यबलसम्पदादेरपि चित्तविक्षेप- हेतुत्वेन योगप्रतिबन्धकत्वमिति ।
- नच योगसंस्कारोपि धर्मसंस्कार एव- योगस्य धर्मत्वादिति वाच्यं, ‘अशुक्लकृष्णं कर्मयोगिन स्त्रिविधमितरेषा’ मिति सूत्रान् छुक्लकृष्ण मिश्रपदवाच्यधर्माधर्मतदुभयात्मक कर्मभिन्नमेव योगिनः कर्मादृष्टाख्य- मशुक्लकृष्णमिति धर्माधर्मसंस्कारभिन्न एव योगसंस्कारः ।
- ननु अधर्मादिलक्षणकर्मणा योग संस्कारस्याभिभव इति किं, नाश इत्येव वक्तव्यमत आह- नेति । दीर्घकालस्थस्यापि तस्य योग संस्कारस्य नाशो नास्तीत्यन्वयः । कालान्तरेणापि योगसंस्कारः स्वकार्ये योगलक्षणमारभत एव, नतु सर्वात्मना नश्यतीत्यर्थः । तस्मान्न सर्वधा योग संस्कारस्य वैफल्य- मिति भावः ।
- अत इति । सर्वधा योगसँस्कारस्य नाशाभावादित्यर्थः । जिज्ञासुरपीति । न तु ज्ञातयोग- स्वरूपोपीत्यपेरर्थः । किमुत ज्ञातयोगखरूप इति यावत् । शब्दब्रह्म शब्दो वेदः तद्रूपं ब्रह्म शब्दब्रह्म । रक्षणया वेदोक्त कर्मानुष्ठानफलमित्यर्थः । अतिक्रम्य वर्तते अतिवर्तते । फलितार्थमाह- अपाकरिष्य-
- षष्ठोऽध्यायः ।
- २८९
- I
- तीति । निरसिष्यतीत्यर्थः । वेदोक्तकर्मानुष्ठानजन्यं फलं तुच्छीकृत्य तद्विहाय महत्तरमेव फलं प्राप्स्यतीति भावः । तन्निष्ठः योगनिष्ठ: । जिज्ञासुरपीत्यपिशब्दार्थ स्वयमेव स्फुटीकरोति - किमुते- त्यादिना ।
- यत्तु रामानुजः - शब्दब्रह्म देवमनुष्यादिशब्दप्रतिपाद्यप्रकृतिरिति, तत्तुच्छम् — ब्रह्मशब्दे - नैव प्रकृत्यर्थलाभे शब्दपदवैयर्थ्यात् । नच शब्दाभिलापयोग्यं ब्रह्मैवाभिधीयते प्रकृतिरिति, अन्यत्तु परब्रह्मेति वाच्यं, परब्रह्मरूपशब्दा मिलापयोग्य ब्रह्मत्वस्य परब्रह्मण्यपि सत्त्वात् । नच देवमनुष्यादिशब्दाभि- लापयोग्यं ब्रह्मात्र विवक्षितमिति वाच्यं, देवमनुष्यादिविशेषशब्दाभावान्मूले ।
- किंच शब्दशब्दस्य शब्दाभिलापयोग्यार्थलाभोपि न लक्षणां विना निर्वोढुं शक्यते, अतोऽस्मन्मत इव तव मतेपि लक्षणा स्वीकृतैव । अथ योगं जिज्ञासुना प्रकृतिः कथमतिवर्त्यत ? न कथमपि । प्रक्रू- त्यतीतो हि तव मते परमात्मैव तदधीनत्वात्प्रकृतेः । मुक्ताश्च भगवदनुग्रहा देव मायां तरन्ति न तु स्वतः, नहि योगं जिज्ञासुः परमात्मा, नापि मुक्तः किंतु बद्धजीव एव; कथमस्य प्रकृत्यतिवर्तनम् ।
- नच स च योग जिज्ञासुर्योगं ज्ञात्वा योगमनुष्ठाय प्रकृतिमतिवर्तत इत्यभिप्रायाज्जिज्ञासुरित्युक्त- मिति वाच्यं, जिज्ञासुरपीत्यपिशब्देन ज्ञातयोगयोगानुष्ठातृभ्यां जिज्ञासोः पृथक्करणात् अन्यथापि शब्दवैयर्थ्यप्रसङ्गात् ।
- अपि च अनुष्ठितयोगस्यापि न योगानुष्ठानमात्रेण प्रकृत्यतिवर्तनं, किंतु तज्जन्यसम्यग्दर्शनेनैव । ततश्च ज्ञानिन एव प्रकृत्यतिवृत्तिर्न तु योगिन इति सिद्धे किं पुनर्जिज्ञासितयोगस्य इति ।
- यच्चोक्तमत्र ज्ञानानन्दमयस्त्वात्मा शेषोऽस्य परमात्मन इति वेदान्तदेशिकः, तच्च तुच्छम्- ज्ञानानन्दमय इति मयंटः किं प्राचुर्यमर्थः ? यद्वा विकारः ? अथ वा स्वार्थ: : नाद्यः- आनान्दप्राचुर्ये दुःखाल्पत्वप्रतीतेः । न द्वितीयः- निर्विकारत्वादात्मनः, अकार्यत्वाच्च । नान्त्य:- वैयर्थ्यात् ।
- वैलक्षण्यार्थकस्तुशब्दोप्ययुक्त:- किमिदं बैलण्यं परमात्मापेक्षया ? उत अनात्मापेक्षया ? नाद्यः- परमात्मनस्तव मते आनन्दमयत्वाद्ज्ञानस्वरूपत्वाश्च । ‘आनन्दमयोऽभ्यासा’ दिति सूत्रे आनन्दमय ईश्वर इति हि त्वयोक्तम् । कथं ज्ञानानन्दमयः परमात्मा तादृशादेवात्मनो भिन्नः स्यात् । अस्मन्मते पि आनन्दरूपत्वादुभयोर्न भेदः । न द्वितीय:- विज्ञानमयानन्दमय कोश योरनात्मनोज्ञानानन्दमयादात्मनो बैलक्षण्यस्य दुरुपपादत्वात् । नच विज्ञानमय कोशो जीवः, आनन्दमयकोश ईश्वरश्चेति वाच्यं, विज्ञानमय- मात्मानमुपसंक्रम्येति विज्ञानमयस्यानन्दे लयश्रवणात्, जीवस्य नित्यत्वाच्च । एवमानन्दमयस्याप्यानन्दे लयसम्भवेन तस्येश्वरत्वायोगाश्च । कोशवदात्मस्वरूपावरकत्वेन विज्ञानमयस्यानन्दमयत्य च कोशत्व- व्यवहारादात्मनश्च कोशान्तरत्वात् ।
- एवं विज्ञानानन्दमय कोशयोरान्तरस्य ज्ञानानन्दरूपस्यात्मनो न परमात्मशेषत्वमनन्यशेषत्वादात्मनः, सर्वेप्रति शेषित्वाच्च । आत्मभिन्नत्वे तु ईश्वरस्याप्यात्मशेषत्वापत्तेः प्रपञ्चवत् ।
- नहि ज्ञानानन्दरूपादात्मनो भिन्न ईश्वरो ज्ञानानन्दरूपो भवितुमर्हति । तथासति भेदायोगात् ।
२९० श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥ कुतश्च योगित्वं श्रेय इति प्रयत्नादिति । प्रयत्नात्प्रयतनाद्यतमानस्तु अधिकं प्रयत- मान इत्यर्थः । तत्र योगी विद्वान् संशुद्धकिल्विषः संशुद्धपापः अनेकजन्मसंसिद्धः अनेकेषु जन्मसु किंचित्संस्कारजातमुपचित्य तेनोपचितेनानेकजत्मकृतेन संसिद्धः अनेकजन्मसंसिद्ध- स्ततस्समुत्पन्नसम्यग्दर्शनस्सन् याति परां गतिं प्रकृष्टां गतिम् ॥ ४५ ॥ तपस्वियोsधिको योगी ज्ञानिभ्योपि मतोऽधिकः । afreeधिको योगी तस्माद्योगी भवार्जुन ! ॥४६॥ यस्मादेवं तस्मात्, तपस्विभ्य इति । तपस्विभ्योऽधिको योगी, ज्ञानिभ्योपि ज्ञान- मत्र शास्त्रार्थपाण्डित्यं तद्वद्भयोपि अधिको मतः ज्ञातोऽधिक इति कर्मिभ्योऽग्निहोत्रादि कर्म तयोऽधिको योगी तस्माद्योगी भवार्जुन ! ॥४६॥ नच घटाद्धटस्येव मृण्मयान्मृण्मयस्य ज्ञानानन्दरूपादात्मनो ज्ञानानन्दरूप ईश्वरो भिन्न इति वाच्यं, घटयोर्भेद प्रत्याकार भेदस्य प्रयोजकस्य सत्त्वात् । जीवेश्वरयोस्तु ज्ञानैकाकारत्वेन भेदप्रयोजकाका- रान्तरासत्त्वात् । नच स्वरूपतो भेदाभावेपि धर्मतस्सोस्ति; आत्मनः किंचिद्ज्ञत्वात्परमात्मनश्च सर्वज्ञत्वादिति वाच्यं, किंचिद्ज्ञत्वसर्वज्ञत्वयोरुपा विधर्मत्वेनात्मधर्मत्वाभावाद, औपाधिकभेदस्य चातात्त्विकत्वात् । रस्मान्नस्त्यात्मनः परमात्मान्यः शेषी किंत्वात्मैव सर्वस्य शेषी ॥४४॥ प्रयत्नादिति । ननु यतमान इत्यनेनैवालं, कः पुनः प्रयत्नादित्यस्यार्थः ? प्रत्युन पुनरुक्तिरत -अधिकमिति । तत्र योगमार्गे इत्यर्थः । पापस्य सम्यक शुद्धिर्नामाभावः । तेन संशुद्धं निरस्त- मित्यर्थः । संसिद्धः सम्यक्चित्तशुद्धिलक्षण सिद्धि प्राप्त इत्यर्थः । उपचित्य वर्धयित्वा यथा अनेकदिनेषु अनेकरूपिकास्सम्पाद्य घनी भवति कुशलस्तद्वदनेकजन्मसु अनेकयोगसंस्कारान् सम्पाद्य तत्समवायेन संसिद्धिं भजते योगीत्यर्थः । ततस्संसिद्धिलाभानन्तरं ज्ञानप्राप्तिद्वारा मुक्तो भवतीत्याह - समुत्पन्नेनेति । परां गतिं मोक्षम् ॥४५॥ तपस्विभ्य इति । कथं नित्यमुक्तेभ्यः ज्ञानिभ्यः योगिन आधिक्यमत आह-ज्ञानमत्र शास्त्रार्थपाण्डित्यमिति । नतु ब्रह्मात्मैक्यज्ञानमित्यर्थः । मुक्ति प्रति ज्ञानस्य साक्षात्साधनत्वात् ज्ञान- साधनयोगस्य परम्परा साधनत्वाच्चेति भावः । तस्मादिति । यस्माद्ध्यायोगी तपस्याद्यधिकस्तस्मा - दित्यर्थः । आधिक्यस्यैव सर्वेराकांक्ष्यमाणत्वादिति भावः । ननु क्षत्रियस्याज्ञस्य ते कर्मयोग एवाधिकार इति ‘कुरु कर्मैव तस्मात्त्वं, कर्मण्येवाधिकारस्तु’ इत्यादिना भगवता पूर्वमर्जुनं प्रत्युपदिष्टमिदानीं तु योगी भवेत्युच्यते, ध्यानयोगश्च संन्यासिन एवषष्ठोऽध्यायः । योगिनामपि सर्वेषां मद्भतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ ४७॥ इति श्रीभवगद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे. श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः । २९१ योगिनामिति । योगिनामपि सर्वेषां रुद्रादित्यादिपरायणानां मतेन मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान् श्रदधानस्सन् भजते सेवते यो मां स मे मम युक्ततमोऽतिशयेन युक्तो मतोऽभिप्रेत इति ॥४७॥ इति श्रीपरमहंसपरिव्राजकाचार्य गोविन्दभगवत्पाद- पूज्य शिष्य श्रीमच्छङ्करभगवत्पादकृतौ गीताभाष्ये षष्ठोऽध्यायः । नतु गृहस्थस्येति सिद्धान्तितं, क्षत्रियस्य नास्ति सन्न्यासाधिकार इति स्थापितमतः कथमुच्यते योगी भवार्जुनेति चेत्; नैष दोषः - युद्धादिरूपं कर्मयोगमनुष्ठाय ततस्सन्न्यस्य योगी भवार्जुनेति श्रीकृष्ण- तात्पर्यात् । नच क्षत्रियस्य सन्न्यासेऽनधिकार इति वाच्यं शिखायज्ञोपवीतत्यागादिरूपसमन्त्रक मुख्य सन्न्यासे क्षत्रियस्यानधिकारेपि दारापत्यादि सर्वपरिग्रहपरित्याग रूपा मुख्यसन्न्यासेऽधिकारोऽस्त्येव - मुचुकुन्दादीनां क्षत्रियाणां सर्वपरिग्रहपरित्यागपूर्वकं कस्मिंश्चिद्विजने देशे ध्यानयोगावस्थितत्वस्य पुराणादिष्ववगमादेता- दृशसन्न्यासस्यैव क्षत्रियस्य विहितत्वेन विध्यतिक्रमदोषाभावाच्च । नचैवं सन्न्यासिन एवं ध्यानयोगेऽधिकारे कथमसन्न्यासिनां वसिष्ठादीनां ध्यान योगित्वमिति वाच्यं लोकातीतचरितानां तेषामिहोदाहरणस्यायुक्तत्वात्तत्त्वविदो हि ते यथाप्रारब्धं यथा कथंचिः द्वर्तन्ते । प्रपञ्चितं चैतदथस्ताद्बहुशः । तस्मांद्युक्तमुक्तं भगवता योगी भवार्जुनेति ॥४६॥ योगिनामिति । यः श्रद्धावान् सन् मद्गतेनान्तरात्मना मां भजते, स मे सर्वेषां योगिनां मध्ये युक्ततमो मतः । योगः कापि ध्येये वस्तुनि चित्तसमाधान; स च ध्येयनानात्वान्नानाविध इति तद्वन्तोपि नानाविधा एवेत्याह- योगिनामपि सर्वेषामिति । सर्वेषामित्यस्यार्थमाह– रुद्रादित्यादिपरायणानामिति । रुद्रादित्यादयः परमयनं प्राप्यं येषां तेषां तथोक्तानां रुद्रादित्याद्युपासकानामित्यर्थः । यो यमुपास्ते स तमुपैतीति न्यायात् । रुद्रादि- त्यादिध्यानपराणामिति पाठान्तरम् । आदिपदेन विरादिरण्यगर्भेन्द्रादिदेवानां परमेश्वरस्य च ग्रहणम् । वासुदेव इति । परमेश्वर इत्यर्थः । वसति जगत्ययमिति, वसन्ति जगन्त्यस्मिन्निति वासुः; स चासौ देवस्स्वप्रकाशो वासुदेव इति व्युत्पत्तेः । मामिति । सगुणं निर्गुणं वा परमात्मानमित्यर्थः । २९२ श्रीभगवद्गीतासु भाथ्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सेवत इति । सोहमस्मीतिबुद्धया प्रत्यगभेदेन चिन्तयतीत्यर्थः । ममेति । सर्वज्ञस्य ममेत्यर्थः । एतेन सर्वज्ञेश्वरेण यदभिप्रेतं तत्तथैव भवतीति भगवदभिप्रेतार्थस्य सत्यत्वं सूच्यते । रुद्रादित्यादीनां जीवत्वात्तदुपासनाया भिन्नोपासनत्वाद्वासुदेवस्य च परमात्मत्वात्तदुपासनाया अभिन्नोपासनात्वाच्च वासुदेवपरो योगी रुद्रादित्यादिपरयोग्यपेक्षया परमोत्कृष्ट इति भावः । ननु अन्तःकरणमायावच्छिन्नयोः प्रत्यक्परयोर्भिन्नत्वात्तदभेद चिन्तनम न्नादेर्ब्रह्मा भेदचिन्तनमिव काल्पनिकमेवेति चेत् मैवम् — यदेव मायावच्छिन्नं चैतत्वं तदेवान्तःकरणावच्छिन्नमिति प्रत्यवपरयो - रभेदस्य वास्तवत्वात् । घटमठाद्युपाधिभिराकाशस्येव मायान्तः करणाभ्यां चैतन्यस्य भेदाभावाच्च । नच प्रत्यक्परयोः परिच्छिन्नत्वपूर्णत्वप्रयुक्तोऽस्ति विशेष इति वाच्यं, ययोरौपाधिकत्वेनातात्त्वि- कत्वाद्वस्तुतश्चैतन्ये मायान्तः करणयोरभावाच्च ‘एकमेवाद्वितीयं ब्रह्मेति हि श्रूयते । अन्यथा प्रतीचः परिच्छिन्नत्वाभ्युपगमे घटादिवदनित्यत्व जडत्वादिकं स्यात्तच्चानिष्टमजो नित्य इत्यादिशास्त्रात् । नच प्रत्यगात्मा जीव एव जीवेश्वरयोरस्ति हस्तिमशकयोरिव महदन्तरमिति वाच्यं, ‘जीव प्राणधारण’ इत्यनुशासनात्प्राणधारिण एव जीवाः; प्रत्यगात्मा तु अप्राण एव- ‘अप्राणो मनाश्शुभ्र’ इति श्रुतेः । तस्माद्देवमनुष्यादिभेदभिन्नकार्यकरणसङ्घातविशेषेष्वहंममाभिमानिनश्चिदाभासा एव जीवा. ; अमीषां च प्रतीचि कूटस्थे कल्पितत्वेन वस्तुतः प्रत्यगात्मत्वमेव रज्जौ कल्पितस्य सर्पस्य वस्तुतो रज्ज्वात्म- त्ववत् । अत एव तत्त्वमस्यादिश्रुतयः जीवेश्वरयोरभेदं ब्रुवन्ति लक्षणया । तथाहि, अन्तःकरणविशिष्टचैतन्यं संसारिजीवशब्दाभिधेयं त्वम्पदस्य वाच्यार्थः । अन्तःकरणोप- हितं निस्संसारं प्रत्यवचैतन्यं लक्ष्यार्थः । मायाविशिष्टचैतन्यं जगत्कर्तृ ईश्वराख्यं तत्पदस्य वाच्यार्थः । मायोपहितं परं ब्रह्माख्यं चैतन्यं लक्ष्यार्थः । असिपदस्यैक्यमर्थः । वाच्यार्थयोरैक्यानुपपत्त्या लक्ष्यार्थयो- स्तदुच्यते यदेव चैतन्यं मायोपहितं तदेवान्तःकरणोपहितं तदेव मायोपहितं चेति- मायान्तः करणो- पाधिभेदेप्युपहिताभेदात् ; तथाच तत्त्वमसीत्यस्य वाक्यस्य अखण्डं ब्रह्मैव लक्ष्यार्थः । एवमनेन प्रथमषट्केन त्वंपदार्थो निर्धारितः; संसारिणश्चिदाभासस्य कूटस्थे कल्पितस्य स्वस्य रूपं प्रत्यक्चैतन्यमेव निर्धर्मकपरमानन्द बोधरूपमिति ॥१७॥ इति बेल्लङ्कोण्डोपनामक रामकविकृते श्रीमच्छङ्करभगवद्गीता - भाष्यार्कप्रकाशे षष्ठोध्यायः । समाप्तं प्रथमषट्कम् । श्रीहयग्रीवार्पणमस्तु ।