श्रीमते हयग्रीवाय नमः | भाग्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु- श्रीभगवद्गीतासु पञ्चमोऽध्यायः । ‘कर्मण्यकर्म यः पश्ये’ दित्यारभ्य ’ स युक्तः कृत्स्नकर्मकृत्, ज्ञानाग्निदग्धकर्माणं, शारीरं केवलं कर्म कुर्वन्, यदृच्छालाभसन्तुष्टो ब्रह्मार्पणं ब्रह्महविः, कर्मजान्विद्धि तान् सर्वान्, सर्व कर्माखिलं पार्थ, ज्ञानाग्निस्सर्वकर्माणि, योगसन्न्यस्तकर्माण मित्येत व चने सर्वकर्मणां सन्न्यासमवोचत् भगवान् । ‘छित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारते ‘त्यनेन वचनेन योगं च कर्मानुष्ठानलक्षणं अनुतिष्ठेत्युक्तवान् । उभयोश्च कर्मानुष्ठानकर्मसन्न्यासयोः स्थितिगतित्र- त्वरस्परविरोधात् एकेन सह कर्तुमशक्यत्वात् कालभेदेन च अनुष्ठानविधानाभावादर्थादेतयो- रन्यतरकर्तव्यताप्राप्तौ सत्यां यत्प्रशस्यतरमेतयोः कर्मानुष्ठानकर्मसन्न्यासयोस्तत्कर्तव्यं नेतर- दित्येवं मन्यमानः प्रशस्यतरबुभुत्सया अर्जुन उवाच – सन्न्यासं कर्मणां कृष्णेत्यादिना । द्वितीयेऽध्याये कर्मयोगं ज्ञानयोग च प्रतिपाद्य तत्र कमणो ज्ञानस्य श्रेयस्त्वमुपपादितं भगवता । अत एव तृतीये- ‘ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दने ‘त्यर्जुनेनोक्तम् । ततस्तृतीये ज्ञानयोगस्य साङ्ख्यविषयत्वात्कर्मयोगस्य च योगिविषयत्वादर्जुनस्य चासाङ्ख्यत्वात्कर्मयोग एव कर्तव्य इति प्रति- पादितम् । चतुर्थे स्वयमेव भगवान् ज्ञानयोग पुनः प्रशशंस । तदन्ते च ज्ञानेन संशयं छित्वा योगमातिष्ठे- त्यर्जुनाय योग एवोपदिष्टः । एवंस्थिते अर्जुनः पृच्छति पञ्चमाध्याये – सन्न्यासमिति । ननु कर्मयोगज्ञानयोगयोर्द्वयोरपि निश्श्रेयसहेतुत्वं भगवतोक्तं, तत्र मुक्ति प्रति साक्षात्साधनत्वं कर्मयोगसाध्यत्वं च ज्ञानस्य प्रतिपादयन् कर्मयोगस्य ज्ञानयोगद्वारा मुक्तिहेतुत्वं नतु साक्षादिति च प्रतिपादयन् कर्मयोगाद्ज्ञानयोगमेव श्रेयांस स्थापयामास भगवान् । अर्जुनस्य च ज्ञानयोगानवि- कारित्वेन ‘कुरु कर्मैव तस्मात्त्व’ मिति कर्मयोगमेव श्रेयस्करं प्रतिपादयामास । एवंस्थिते कथमर्जुनस्येह प्रश्नावकाश: ? स्वस्य कर्मयोग एव श्रेयानिति; द्वयोर्ज्ञानयोग एव श्रेयानिति च स्फुटमुक्तत्वाद्भगवता अर्जुनेन च सावधानं ज्ञातत्वा तदर्थस्येति चेत्, उच्यते- नायमर्जुनस्य प्रश्नः कर्मयोगज्ञानयोगयो- स्तारतम्यज्ञानार्थः, नापि कर्मज्ञानयो: किं तर्हि सन्न्यास कर्मयोगयोः प्रश्नसामर्थ्याच्चास्य सन्न्यासस्य ज्ञानरहितसन्न्यासत्वमवगम्यते, यद्यपि ‘न च सन्न्यसनादेव सिद्धिं समधिगच्छती ‘ति ज्ञानरहित- सन्न्यासस्य सिद्ध्यहेतुत्वमुक्तम् । ‘कर्मणैव हि संसिद्धिमास्थिता जनकादय’ इति कर्मयोगस्य सिद्धि- हेतुत्वं चोक्तं भगवता । तेन च सन्न्यासाद्ज्ञानहीनात् कर्मयोगश्श्रेयानिति ज्ञातुं शक्यं, तथापि विस्तरेण बुभुत्सया पृष्टमर्जुनेनेति बोध्यम् । २०२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ननु चात्मविदो ज्ञानयोगेन निष्ठां प्रतिपिपादयिषन् पूर्वोदाहृतैर्वचनैर्भगवान् कर्म- सन्न्यास समवोचत्, न त्वनात्मज्ञस्य । अतश्च कर्मानुष्ठान कर्म सन्न्यासयोः भिन्नपुरुषविषयत्वा- दन्यतरस्य प्रशस्यतरस्य बुभुत्सया अयं प्रश्नोऽनुपपन्नः । सत्यमेवं, त्वदभिप्रायेण प्रश्नो नोपपद्यते, प्रष्टुः स्वाभिप्रायेण पुनः प्रश्नो युज्यत एवेति वदामः कथं, पूर्वोदाहर्तेर्वचनैर्भगवता कर्मसन्न्यासस्य कर्तव्यतया विवक्षितत्वात् । प्राधान्यमन्तरेण च कर्ता तस्य कर्तव्यत्वासम्भवाद्नात्मविदपि कर्ता पक्षे प्राप्तोऽनूद्यत एव, न पुनरात्मवित्कर्तकत्वमेव कर्मसन्न्यासस्य विवक्षितमित्येवं मन्वानस्यार्जुनस्य कर्मानुष्ठान- कर्म सन्न्यासयो र विद्वत्पुरुष कर्तकत्वमप्यस्तीति पूर्वोक्तेन प्रकारेण तयोः परस्परविरोधादन्य- तरस्य कर्तव्यत्वे प्राप्त प्रशस्यतरं च कर्तव्य नेतरदिति प्रशस्यतरविविदिषया प्रश्नो नानुपपन्नः । सन्न्यास योगं च शंससीत्यर्जुनेनोक्तं- तत्र व सन्न्यास उक्तः ? क्व वा योग इत्यत आह- कर्मणीत्यादि । कालभेदेनेति योममादौ कृत्वा पश्चात्सन्न्यासं कुर्वित्यनुक्तत्वादित्यर्थः । I शङ्कते — ननु चेति । ‘लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मिति भिन्नपुरुषविषययोः ज्ञानकर्मणोरन्यतरस्य श्रेयस्करत्वज्ञानेन नार्जुनस्य किमपि फल, सत्यपि ज्ञानयोगस्य कर्मयोगस्य वा उत्कर्षे कर्मिणा ज्ञानस्य ज्ञानिना कर्मगश्च कर्तुमशक्यत्वादतो व्यर्थोऽयं प्रश्न इति शंकितुराशयः । अङ्गीकृत्य परिहरति — सत्यमिति । न त्वदुक्तविधोर्जुनस्याभिप्रायः, किं तु भिन्नविध:- त- मेवार्जुनाभिप्रायं दर्शयति — पूर्वेति । प्राधान्यमन्तरेण प्राधान्यज्ञानं विनेत्यर्थः । अनयोरिदं प्रधान- मिति ज्ञात्वैव प्रधाने ज्ञानयोगे कर्ता प्रवर्तते, एवं प्रधानत्वादेव सन्न्यासः कर्तव्यतया भगवता चतु- र्थाध्यायेऽभिहितः । नन्वेवं कर्मयोगात्कर्मसन्न्यासः प्रधान इत्यभिहितप्राय एवेति पुनः प्रश्नोऽनुपपत्र इत्यत आह- अनात्मविदपीति । अज्ञः प्राज्ञो वा सर्वोपि जनः प्रधानमेवानुतिष्ठासति न त्वप्र- धानमिति कृत्वा प्रधाने कर्मसन्न्यासे अज्ञोपि प्रवर्तेतैव- तस्य चाज्ञस्य किं सन्न्यासः श्रेयानुत कर्मयोग इति युज्यते प्रश्नोऽर्जुनस्येति भावः । ननु ज्ञानयोगेन साङ्ख्यानामिति प्राज्ञस्यैव सन्न्यासविधानात्कथमज्ञस्य पाक्षिक्यपि सन्न्यासे: प्रवृत्तिरत आह-न पुनरिति । कर्म सन्न्यासस्यात्मवित्कर्तृकत्वमेव विवक्षितमिति तु न- एवं मन्वानस्यार्जुनस्य प्रश्नो नानुपपन्न इति सम्बन्धः । यदि भगवता कर्मसन्न्यास आत्मविद्विषय एव, न त्वज्ञविषय इति विवक्षितं तर्हि ‘नच सन्न्यसनादेव सिद्धिं समधिगच्छतीति ज्ञानहीन सन्न्यासास्तित्वं कथं बोध्येत । नहि ज्ञानहीनसन्न्यासस्यैवाभावे ततस्सिद्धिर्नास्तीति वक्तुं शक्यते तस्मात्सान्न्यासः स्याप्यनात्मविद्विषयत्वमस्तीत्यर्जुनस्याभिप्रायः । युक्तं चेदम् - विद्वत्सन्न्यासस्येव विविदिषासन्न्यासस्यापि शास्त्रसिद्धत्वात्। विविदिषुर्विद्यासिद्ध्यर्थं यज्ञादिकर्मयोगमिव पक्षे सन्न्यासमपि कुर्यादेव, तस्मादनात्मवि- दपि सन्न्यासे कर्ता पक्षे प्राप्तएवेति कृत्वा किमज्ञस्य सन्न्यासः श्रेयानुत कर्मयोग इति प्रश्न उचित एवार्जुनस्य । 15 पञ्चमोऽध्यायः २०३ प्रतिवचनवाक्यार्थनिरूपणेनापि प्रष्टुरभिप्राय एवमेवेति गम्यते । कथं, सन्न्यासकर्म- योग निश्श्रेयसकरौ, तयोस्तु कर्मयोगो विशिष्यत इति प्रतिवचनमेतन्निरूप्यम् । किमनेन आत्मवित्कर्तृकयोस्सन्न्यासकर्मयोग योनिश्श्रेयसकरत्वं प्रयोजनमुक्त्वा तयो- रेव कुतश्चिद्विशेषात्कर्मयोगस्य विशिष्टत्वमुच्यते ? अहोस्विदनात्मवित्कर्तकयोस्सन्न्यासकर्म- योगयोस्तदुभयमुच्यत इति किंचातः यद्यात्मवित्कर्तकयोस्सन्न्यास कर्मयोगयोनिश्श्रेय- सकरत्वं तयोस्तु कर्मसन्न्यासात्कर्मयोगस्य विशिष्टत्वमुच्येत यदि वाऽनात्मवित्कर्तृकयोः सन्न्यासकर्मयोगयोस्तदुभयमुच्येतेति । अलोच्यते- आत्मवित्कर्तृकयोस्सन्न्यासकर्मयोगयोरसम्भवात्तयोर्निश्श्रेयसकरत्ववचनं तदीयाश्च कर्मसन्न्यासात् कर्मयोगस्य विशिष्टत्वाभिधानमित्येतदुभयमनुपपन्नम् । यद्यात्म- विदः कर्मसन्न्यासः, तत्प्रतिकूलश्च कर्मानुष्ठानलक्षणः कर्मयोगः सम्भवेतां तदा तयोर्नि श्श्रेयसकरत्वोक्तिः कर्मयोगस्य च कर्मसन्न्यासाद्विशिष्टत्वाभिधानमिति एतदुभयमुपपद्येत । ननु सन्यासात्केवलात्सिद्धिर्नास्ति, कर्मणैव संसिद्धिमा स्थिता इति च केवलसन्न्यासात्कर्म- योगस्य प्राशस्त्यं प्रतिपादितमेवेति व्यर्थोऽयं प्रश्न इति चेन्मैवम् संसिद्धिशब्दस्य चित्तशुद्धयर्थकत्वा- त्सिद्धिशब्दस्य च मोक्षार्थकत्वात् । यथा केवलसन्न्यासान्न मोक्षः तथा कर्मयोगादपि नैव मोक्ष:- यथा कर्मयोगाश्चित्तशुद्धिस्तथा केवलसन्न्यासादपि स्यादेव चित्तशुद्धिः - अन्यथा विविदिषासन्न्यास विधायक - शास्त्रानर्थक्यप्रसङ्गात् । तस्मादज्ञकर्तृकयोस्सन्न्यास कर्मयोगयोस्समचलत्वमेव सिद्धमतीतग्रन्थेन तु विषमबलत्वमिति कृत्वा तयोस्तारतम्यजिज्ञासया प्रश्नोयमुचित एवार्जुनस्य । नच विस्तरेण बुभुत्सया पृष्टमिति स्ववचनव्याघातस्तवेति वाच्यं, प्रश्ने एकस्मिन्नप्यनेकाभिप्रायकल्पनस्य गुणत्वात् । ननु परहृदयस्याप्रत्यक्षत्वात्कथं त्वया विदितोऽर्जुनस्याभिप्राय इत्यत आह- प्रतिवचनेति । किं तत्प्रतिवचनं, कथं वा तन्निरूपणमिति पृच्छति — कथमिति । तत्र प्रतिवचनं दर्शयति— सन्न्यासेति । ‘सन्न्यासः कर्मयोगश्च निश्श्रेयसकरा वुभौ । तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यत इति श्लोकरूपं प्रतिवचनमित्यर्थः । तन्निरूपणं कथयति — एतदिति । प्रतिवचनवा व प्रमेतच्छन्दार्थः एतन्निरूप्यं वस्तु दर्शयिष्यामस्तथाहीति शेषः । यद्वा एष: अर्जुनाभिप्रायो निरूप्यो यस्य तदेतन्निरू- प्यमिति प्रतिवचनविशेषणम् । 1 निरूपणप्रकारं दर्शयति — किमनेनेत्यादिना । अनेन प्रतिवचनेन कर्मयोगस्य विशिष्टत्व- मुच्यते किमित्यन्वयः । तदुभयमिति । निश्श्रेयसकरत्वं कर्मयोगस्य सन्यासाद्विशिष्टत्वं चेत्यर्थः । विशिष्टत्वमुत्कृष्टत्वं । गुणदोषविवेकार्थं पृच्छति - किंचात इति । यदि कर्मयोगस्य विशिष्टत्वमुच्येत अतः अस्मिन्पक्षे किं दूषणमिति शेषः । यदि वा सन्न्यास कर्मयोगयोस्तदुभयमुच्येत अतोत्र पक्षे किंच किं वा फलमिति प्रश्नार्थः । इतिशब्दः प्रश्नपरिसमाप्तौ । सिद्धान्ती समाधानं वच्मीति प्रतिजानाति - अवोच्यत इति । अत्र शङ्कायामित्यर्थः । प्रश्ने इति वा तदीयाच्चेति । आत्मवित्कर्तृकादित्यर्थः । 1३०४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु आत्मविदस्तु कर्मसन्न्यासकर्मयोगयोरसम्भवात्तयोर्निश्श्रेयसकरत्वाभिधानं कर्मसन्न्यासाच्च कर्मयोगो विशिष्यत इति चानुपपन्नम् । अत्राह किमात्मविदः कर्मसन्न्यासकर्मयोगयोरुभयोरप्यसम्भवः ? आहो सिदिन्य- तरस्य ? यदा चान्यतरस्यासम्भवः तदापि किं कर्मसन्न्यासस्यासम्भवः ? उत कर्मयोगस्येति असम्भवकारणं च वक्तव्यमिति । अत्रोच्यते-आत्मविदो निवृत्तमिथ्याज्ञानत्वात् विपर्ययज्ञानमूलस्य कर्मयोगस्या- सम्भवस्स्यात्, जन्मादिसर्वविक्रियारहितत्वेन निष्क्रियमात्मानमात्मत्वेन यो वेत्ति तस्यात्म- वि: सम्यग्दर्शनेनापास्त मिथ्याज्ञानस्य निष्क्रियात्मस्वरूपावस्थानलक्षणं सर्वकर्मसन्न्यास- मुक्ता तद्विपरीतस्य मिथ्याज्ञान मूल कर्तृत्वाभिमान पुरस्सरस्य सक्रियात्मस्वरूपात्रस्थानरूपस्य ज्ञानसहितादिति यावत् । कर्मयोगकर्म सन्न्यासयोरनात्मवित्कर्तृकत्व यथा सम्भवति तथा न सम्भवत्ये- वात्मवित्कर्तृकत्वमिति कृत्वा प्रथमपक्षे अनुपपत्तिर्दूषण, द्वितीयपक्षे उपपत्तिः फलमिति भावः । आत्मवित्कर्तृकयोः कर्मयोगकर्म सन्न्यासयोरसम्भवं श्रुत्वा तदसहमान: पूर्वपक्षयति–अत्राहे- त्यादिना । आहेत्यस्य पूर्वपक्षीति कर्तुश्शेषः । किमात्मवित्कर्तृकस्सन्न्यासो नास्ति ? यद्वा आत्मवि- कर्तृकः कर्मयोगो नास्तीति पूर्वपक्षस्य फलितार्थ: ।
उत्तरमाह - अत्रोच्यत इत्यादिना । आत्मवित्कर्तृकः सन्न्यासोऽस्त्येव किंतु कर्मयोगो नास्तीत्यर्थः । तत्र हेतुमाह - आत्मविदो निवृत्तमिथ्याज्ञानत्वादिति । मिथ्याज्ञानं कर्ताहं ममेदं कर्मेत्याद्याकारकं भ्रमज्ञानं, मिथ्याभूतमज्ञानमिति वा । आत्मविदः कर्मयोगासम्भवं प्रति मिथ्याज्ञान- निवृत्तेः । कुतो हेतुत्वमत आह - विपर्ययेति । कर्मयोगस्य विपर्ययज्ञानमूलत्वादित्यर्थः । मिथ्या- ज्ञानमूलः कर्मयोगः कथं पुनर्मिथ्याज्ञान र हितस्यात्मविदस्सम्भवेदिति भावः । संग्रहवाक्यमेव विवृणोति – जन्मादीति । निष्क्रियमात्मानमात्मत्वेन यो वेत्ति तस्यात्मविदः कर्मयोगस्याभावः प्रतिपाद्यत इति सम्बन्धः । आत्मनो निष्क्रियत्वे हेतुमाह – जन्मादीति । आदि- पदात्सत्तावृद्ध्यादिभावविकारपञ्चकग्रहणम् । लोके सविक्रियस्यैव वस्तुनस्सक्रियत्वदर्शनान्निर्विकारस्यात्मनो निष्क्रियत्वमिति भावः । वैदिका योगिनश्च केचिन्निष्क्रियमात्मानमीश्वरत्वेन विदन्तीत्यत आह- आत्मत्वेनेति । एतेनात्मेश्वरभेदवादिनोऽनात्मवित्त्वमेव मिथ्याज्ञानवत्त्वादिति सिद्धम् । ननु स्वभिन्नस्येश्वरस्य कथ- मात्मत्वेन ग्रहणमत आह— आत्मानमिति । ईश्वरो हि जीवस्यात्मैव- स्वरूपत्वात् - स आत्मा
तत्त्वमसीति श्रुतेश्वति भावः । 1 आत्मविदोपि मिथ्याज्ञानं किं न स्यादत आह— सम्यगिति । सम्यग्दर्शनं तत्त्वज्ञानं निष्क्रियं सच्चिदानन्दं ब्रह्माहमस्मीत्या कारकं, तेनापास्तं निरस्तं मिथ्याज्ञानं कर्ताहं ब्राह्मण इत्याद्याका- रकमयथार्थज्ञानं तन्मूलभूतमज्ञानं वा यस्य तस्य तथोक्तस्य । नन्वेतादृशस्यात्मविदः कर्मसन्न्यासोप्यनुपपन्न एवेत्यत आह– सर्व कर्म सन्न्यासमुक्त्वेति । पञ्चमोऽध्यायः २०५ कर्मयोगस्येह गीताशास्त्रे तततत्व आत्मस्वरूपनिरूपणप्रदेशेषु सम्यग्ज्ञानमिध्याज्ञानतत्कार्य- विरोधाभावः प्रतिपाद्यते यस्मात्तस्मादात्मविदो निवृत्तमिथ्याज्ञानस्य विपर्ययज्ञानमूलः कर्मयोगो न सम्भवतीति युक्तमुक्तं स्यात् । केषुकेषु पुनरात्मस्वरूपनिरूपणप्रदेशेषु आत्मचिदः कर्माभावः प्रतिपाद्यत इति अलो- च्यते–अविनाशि तु तद्विद्धीति प्रकृत्य ‘य एनं वेत्ति हन्तारं वेदाविनाशिनं नित्य’- मित्यादौ तत्र आत्मविदः कर्माभाव उच्यते । ननु च कर्मयोगोप्यात्मस्वरूपनिरूपणप्रदेशेषु तत्रतत्र प्रतिपाद्यत एव तद्यथा- ‘तस्मा- कस्मादस्य सन्न्यासस्सम्भवतीत्यत आह-निष्क्रियेति । निष्क्रियो ह्यात्मा निष्क्रियात्मस्वरूपेणैव तिष्ठतीति कृत्त्वा तत्त्वविदो निष्क्रियात्मनः निष्क्रियात्मखरूपावस्थानलक्षणः कर्मसन्न्यासस्सम्भवत्येवेत्यर्थः । आत्मविदः कर्मसन्न्यासस्येव कर्मयोगस्य कुतो सम्भवोऽत आह– तद्विपर्ययस्येति । कर्म- सन्न्यासविपरीतत्वात्कर्मयोगस्यात्मवित्कर्तृकत्वाभाव इत्यर्थः । कस्माद्विपरीतत्वमस्येत्यत आह- मिथ्येति । मिथ्याभूतमज्ञानं तत्प्रयुक्तोऽध्यासो वा मिथ्याज्ञानं तदेव मूलं कारणं यस्य स चासौ कर्तृत्वाभिमानः पुरस्सरः पूर्वो यस्य तस्य सम्यग्ज्ञानमिथ्याज्ञानयोः तन्मूलकनिष्क्रियात्माभिमानकर्तृ- त्वाभिमानयोश्च सन्न्यासकर्मयोगकारणयोः परस्परं विपरीतत्वात्सन्न्यासकर्मयोगयोश्च विपरीतत्वमिति भावः । न केवलं कारणद्वारैव, किंतु स्वरूपतोपि तयोर्वैपरीत्यमित्याह- सक्रियेति । निष्क्रियात्मस्वरू- ‘पावस्थानात्सक्रियात्मस्वरूपावस्थानं विपरीतमित्यर्थः । C आत्मविदः कर्मयोगस्याभावः के प्रतिपाद्यते अत आह— इहेति । तदर्थमाह – गीताशास्त्र इति । गीताशास्त्रपि कुत्रे प्रतिपाद्यतेऽत आह-तत्र तत्रेति । तेषु तेष्वित्यर्थः । तच्छन्दार्थमाह- आत्मेति । आत्मविदः कर्मयोगस्याभावे किं कारणमत आह- सम्यगिति । सम्यग्ज्ञानमिथ्या- ज्ञानयोः तत्कार्ययोः कर्मसन्न्यासकर्मयोगयोश्च विरोधात्सहानवस्थानलक्षणविरोधात् । नहि विरुद्धधर्म यो- त्सामानाधिकरण्यं कापि सम्भवतीति भावः । यद्वा सम्यग्ज्ञानमिथ्याज्ञानयोः तत्कार्ययोश्रमनिवृत्ति- भ्रमसद्भावयोश्च मिथो विरोधात्कर्तृत्वादिभ्रममूलः कर्मयोगः निवृत्तिभ्रमस्यात्मविदो न सम्भवतीति भावः । नचात्मवित्कर्तृकस्य कर्मयोगस्यैवासम्भवे कथं तत्त्वविदो जनकादेः कर्मसु प्रवृत्तिरिति वाच्यं, जन- कादिकर्तृकयज्ञादिकर्मणः आत्मवित्सन्न्यासिकर्तृक भिक्षाटनादिवद्वासुदेवकर्तृकसृष्ट्यादिवच्च कर्मत्वाभावस्य प्रागेव प्रतिपादितत्वात् । उपसंहरति– यस्मात्तस्मादिति । यस्मादात्मविदः कर्मयोगस्याभावो गीताशास्त्रे प्रतिपाद्यते तस्मादित्यर्थः । गीताशास्त्रे आत्मविदः कर्मयोगाभावप्रतिपादनं तच्छब्दार्थः । तत्रतत्रेति पूर्व सामान्ये नोक्तत्वात्तद्विशेषबुभुत्सया पृच्छति - कश्चित्केषु केष्विति । प्रतिपाद्यत इति भगवतेति शेषः । गीताशास्त्रे आत्मस्वरूपनिरूपणप्रदेशेषु आत्मविदः कर्माभाव एव प्रतिपादित इति नियन्तुं न शक्यते - कर्मयोगस्यापि प्रतिपादितत्वादिति शङ्कते - ननु चेति । कर्मयोगप्रतिपादनप्रकारमेव २०६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु द्युध्यस्व भारत, स्वधर्ममपि चावेक्ष्य, कर्मण्येवाधिकारस्ते’ इत्यादौ । अतश्च कथमात्मविदः कर्म- योगस्यासम्भवः स्यादिति । अत्रोच्यते, सम्यग्ज्ञानमिथ्याज्ञानतत्कार्य विरोधात् ज्ञानयोगेन साङ्ख्यानामात्मतत्त्व- विदामनात्मवित्कर्तृककर्मयोगनिष्ठातो निष्क्रियात्मस्वरूपावस्थानलक्षणायाः ज्ञानयोगनिष्ठायाः पृथक्करणात् कृतकृत्यत्वेनात्मविदः प्रयोजनान्तराभावात्तस्य कार्य न विद्यत इति कर्तव्यान्त- राभाववचनाच्च ‘न कर्मणामनारम्भात्, सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगत’ इत्यादिना चात्मज्ञानाङ्गत्वेन कर्मयोगस्य विधानात्, ‘योगारूढस्य तस्यैव शमः कारणमुच्यत’ इत्यनेन चोत्पन्नसम्यग्दर्शनस्य कर्मयोगाभाववचनाच्छारीरं केवलं कर्म कुर्वन्निति च शरीरस्थिति- कारणव्यतिरिक्तकर्मणो निवारणात्, ‘नैव किंचित्करोमीति युक्तो मन्येत तत्त्वविदित्यनेन च शरीरस्थितिमात्रप्रयुक्तेष्वपि दर्शनश्रवणादिकर्मस्वात्मयाथात्म्यविदो नाहं करोमीतिप्रत्य- दर्शयति - तद्यथेत्यादिना । आत्मविदः कर्मयोगस्यासम्भवे पूर्वोक्तं हेतुं पुनरनुवदति हेत्वन्तरकथ- नार्थम् — सम्यग्ज्ञानेति । हेत्वन्तरमाह — ज्ञानेति । अनात्मवित्कर्तृककर्मयोगनिष्ठातः साङ्ख्यानां ज्ञानयोगनिष्ठायाः पृथक्करणादित्यन्वयः । साङ्ख्यानां साङ्ख्यकर्तृकाया इत्यर्थः । केन वाक्येन पृथक्करण - मत आह— ज्ञानयोगेनेति । 1 ननु अनात्मवित्कर्तृककर्मयोगनिष्ठा तस्साङ्ख्यकर्तृकज्ञाननिष्ठायाः पृथक्करणेपि आत्मवित्कर्तक- सन्त्यासस्य न पृथक्करणमित्यत आह- आत्मतत्त्वविदामिति । निष्क्रियात्मस्वरूपावस्थानलक्षणाया इति च । आत्मविद एव साङ्ख्याः सर्वकर्मसन्न्यास एव ज्ञानयोगनिष्ठेति भावः । पुनरपि हेत्वन्तरमाह– कृतकृत्यत्वेनेति । आत्मविदः कर्मयोगसाध्यप्रयोजनान्तराभावात्कर्मा- भावः । प्रयोजनान्तराभावे हेतुमाह- कृतकृत्यत्वेनेति । कृतं कृत्यं सर्वे येन स कृतकृत्यः तद्भावेन कर्तव्यशेषाभावेनेत्यर्थः । आत्मविदः कर्तव्यशेषाभावे प्रमाणमाह – तस्येति । आत्मवित्तच्छब्दार्थः चकारेण कर्मयोगस्याकृतकृत्याज्ञविषयत्वं बोध्यते । अकृतकृत्याज्ञविषयत्वात्कर्मयोगस्यात्मविद्यसम्भव इति भाव: । इतश्च पुनरात्मविदः कर्मासम्भव इत्याह–नेति । कर्मयोगस्यात्मज्ञानाङ्गत्वेन विधाना- त्प्रतिपन्नात्मज्ञानस्य कर्मयोगासम्भवः । केन वाक्येन तद्विधानमत आह-न कर्मणामित्यादि । यथा अनात्मविदः कर्मयोगो विहितस्तथा आत्मविदः कर्मसन्न्यासो विहित इत्यात्मविदः कर्मसन्यास- विधानाच्च कर्मासम्भव इत्याह– उत्पन्नेति । केन वाक्येनात्मविदः कर्माभाव उक्त इत्यत आह- योगारूढस्येति । कर्म सन्न्यासविधानादित्यनुक्त्वा कर्मयोगाभाववचनादिति वचनेन कर्मसन्न्यासो न विधिः, किंतु स्वाभाविक एवेति गम्यते निष्क्रियत्वादात्मन इति भावः ।
इतश्चात्मविदः कर्मासम्भव इत्याह– शारीरमिति । शरीरस्थितिमात्रफलक भिक्षाटनादि- कर्मव्यतिरिक्तकर्म निवारणादात्मविदः कर्मयोगासम्भवः । ननु यद्यात्मविदो भिक्षाटनादिकर्म सम्भवति तर्हि स कर्म्येव स्यादत आह—– नैवेति । समाहितचेतास्तत्त्ववित्सन्न्यासी शरीरस्थितिमात्रफलकेष्वपि पञ्चमोऽध्यायः । २०७ यस्य समाहितचेतस्तया सदाऽकर्तव्यत्वोपदेशादात्मतत्वविदः सम्यग्दर्शनविरुद्धो मिथ्या- ज्ञानहेतुकः कर्मयोगः स्वप्नेपि न सम्भावयितुं शक्यते । यस्मात्तस्मात् अनात्मवित्कर्तृकयोरेव सन्न्यासकर्मयोगयोर्निश्श्रेयसकरत्ववचनं तदी- याच कर्मसन्न्यासात् पूर्वोक्तात्मवित्कर्तक सर्वकर्म सन्न्यासविलक्षणात् सत्येव कर्तृत्वविज्ञाने कमैकदेशविषयात् यमनियमादिसहितत्वेन च दुरनुष्ठेयात् सुकरत्वेन च कर्मयोगस्य विशिष्टत्वाभिधानमित्येव प्रतिवचनवाक्यार्थ निरूपणेनापि पूर्वोक्तः प्रष्टुरभिप्रायो निश्चीयत इति स्थितम् । दर्शनश्रवणादिकर्मसु अहं करोमीति कर्तृत्वाभिमानं न कुर्यादिति भगवदुपदेशादित्यर्थः । तत्त्ववि - त्सन्न्यासी पश्यन् शृण्वन्नपि नाहं करोमीति यस्मान्मन्यते तस्मादयं कर्मी नैव भवति कर्तृत्वाभिमान- पुरस्सर कर्मकर्तुरेव कर्मित्वादिति भावः । आत्मतत्त्वविदः कर्मयोगः स्वप्नेपि सम्भावयितुं न शक्यत इत्यन्वयः । तत्र हेतुगर्भं विशेषणद्वयमाह - सम्यगिति । सम्यग्दर्शनविरुद्धत्वान्मिथ्याज्ञानहेतु- कत्वाच्चत्यर्थः । सम्यग्दर्शनेन कर्मयोगमूलमिथ्याज्ञानस्य बाधात्कर्मयोगस्य तद्विरुद्धत्वमिति भावः । तस्मादिति । आत्मवित्कर्तृककर्मयोगासम्भवादित्यर्थः । तदीयादिति । अनात्मवि- कर्तृकादित्यर्थः । कर्म सन्न्यासात्कर्मयोगस्य विशिष्टत्वाभिधानमित्यन्ययः । किमयमनात्म विश्कर्तृकः कर्मसन्न्यास आत्मवित्कर्तृकसन्न्यासलक्षण इत्यत आह—– पूर्वोक्तेति । ज्ञानसाहित्य राहित्याभ्या- मुभयो वैलक्षण्यमिति भावः । भेदमेव दर्शयति– सत्येवेति । कर्तृत्वविज्ञाने सतीत्यन्वयः । अज्ञ- कर्तृकसन्न्यासे कर्ताहमिति विपरीतज्ञानमस्ति - अहं भिक्षामटामि पश्यामीत्याद्यभिमानसत्त्वादज्ञस्य । तत्त्ववित्कर्तृकसन्न्यासे तु नैवं कर्तृत्वविज्ञानमस्ति नाहं करोमीति तत्त्वविनिश्चयादिति भावः । भेदान्तरमाह — कर्मैकदेशविषयादिति । कर्मण एकदेश एव विषयो यस्य स कर्नैकदेश- विषयस्तस्मात् - अज्ञो हि यज्ञयागादिकं कर्मैकदेशमेव सन्न्यस्तवान् नतु सर्वे कर्म अज्ञसन्न्यासिनः दण्डतर्पणस्नानभिक्षाटनादिकर्मसत्त्वात् तेषु च स्वाचरितेषु कर्मसु कर्तृत्वाभिमानसत्त्वात् । प्राज्ञकर्तृक- . सन्न्यासस्तु सर्वकर्मविषय एवेति द्वयोर्भेद इति भावः । ’ भेदान्तरमाह – यमेति । प्राज्ञकर्तृकसन्न्यासस्य न यमनियमादिसापेक्षा - प्राज्ञस्या कर्तृत्वेन यमादिकर्तृत्वाभावादिति भावः । यद्वा अज्ञकर्तृकात्सन्न्यासादज्ञकर्तृकः कर्मयोगः कुतो भवति विशिष्टोत आह–यमेति । दुरनुष्ठेयात्स्वनुष्ठेयो हि विशिष्यते- ‘आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् । प्रीतिः प्रसादो माधुर्यमक्रोधश्च यमा दश ॥ दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ । व्रतोप- वासौ मौनं च स्नानं च नियमा दश ॥’ आदिपदादासनादिग्रहणम् । पूर्वोक्त इति अविद्वत्कर्तृकयोः कर्मानुष्ठानकर्मसन्न्यासयोर्मध्ये किं श्रेय इत्येवंरूप इति भावः । ननु आत्मवित्कर्तृकात्सन्न्यासादनात्मवित्कर्तृकः कर्मयोगर श्रेयानिति भगवत्प्रतिवचनवाक्यार्थ- निरूपणं सुकरमिति चेन्मैवम् - साक्षान्मोक्षहेतोर्विद्वत्सन्न्यासात्परम्परया मोक्षहेतोर विद्वत्कर्मयोगस्थ २०८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेताखु वैशिष्ट्यं स्वप्नेषि सम्भावयितुं न शक्यमिति हेतोः एवंविधज्ञानेन फलाभावाच प्रशस्यतरं हि कर्तव्य- स्वार्थ जिज्ञासितं - नह्यात्मविदः प्रशस्ततरमपि कर्म सम्भवति । तस्मादात्मवित्पुरुषः निवृत्तमिथ्या- ज्ञानत्वात्कर्मयोगं नैवानुतिष्ठेत्किं तु सन्न्यासमेव विदध्यादिति न तत्र मया ज्ञातव्योंऽशोस्ति, किंतु यस्त्वनात्मविन्मुमुक्षुस्स कर्मयोगं कुर्याद्वा, उत कर्मसन्न्यास : किं तदुभयोः प्रशस्यतरमिति जिज्ञासया पृच्छत्यर्जन इति भावः । ? ननु कर्मण्यकर्मेत्यादिना यः कृष्णेन प्रोक्तः कर्मसन्न्यासस्स आत्मवित्कर्तृक एव- ज्ञानमार्गत्वा तस्य । अतः कथं तस्यानात्मवित्कर्तृकत्वम् ? येन अनात्मवित्कर्तृकसन्यास कर्मयोगयोः प्रशस्यतर- बुभुत्सा स्यादर्जुनस्येति चेन्मैवम् - यद्यपि कृष्णेनात्मवित्कर्तृक एव सन्न्यास उक्तस्तथापि तत्रानात्मवि- दपि कर्ता पक्षे प्राप्त इति भाष्यकारैरुक्तत्वात्तस्यानात्मवित्कर्तृकत्वमप्यस्तीति । अयमाशयः कर्मसन्न्यासे सम्यग्दर्शनाद्धेतोर्यथा आत्मवित्कर्ता प्राप्तः तथा कर्मफला- नित्यत्वादिदर्शनप्रयुक्तवैराग्यादिना अनात्मविदपि कर्ता पक्षे प्राप्त एव । नच ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मित्यात्मविदस्सन्न्यासोऽनात्मविदः कर्मयोगश्च नियमितः कृष्णेनेति वाच्यं, आत्म- वित्सन्न्यासमेव कुर्यादिति आत्मविदस्सन्न्यासस्य नियमितत्वेपि आत्मविदेव सन्न्यासं कुर्यादिति सन्न्यासस्यात्मवित्कर्तृकत्वस्या नियमितत्वात् । नचैवं कर्मयोगस्याप्यनात्मवित्कर्तृकत्वं न नियमितमिति आत्मवित्कर्तृकत्वमपि कर्मयोगस्य सम्भवतीति वाच्यं सम्यग्दर्शनमिथ्याज्ञानतत्कार्यविरोधान्मिथ्याज्ञान- मूलकर्मयोगस्य सम्यग्दर्शनवत्पुरुषकर्तृकत्वासम्भवात् । नचैवं सम्यग्दर्शनमूलस्य कर्मसन्न्यासस्यापि कथं मिथ्याज्ञानवत्पुरुषकर्तृकत्वसम्भव इति वाच्यं सर्वकर्म सन्न्यासस्य सम्यग्दर्शनमूलकत्वेपि कर्मैकदेश- विषयसन्न्यासस्य अतन्मूलकत्वेनाज्ञकर्तृकत्वसम्भवात् । 1 नच सर्वकर्मसन्न्यास इति कर्मैकदेशसन्न्यास इति च द्विविधसन्न्याससद्भावे प्रमाण न पश्याम इति वाच्यं, भाष्यकारवचनस्यैव प्रमाणत्वात् । कुटीचकादेः कमैकदेशसद्भावस्य परमहंसस्यावधूतस्य सर्वकर्माभावस्य च शास्त्रे दर्शनाच्च । नच प्रमाणसद्भावेप्युपपत्तिसद्भावो नेति वाच्यं, एकस्मिन्नपि सन्न्यासे ज्ञानसाहित्यराहित्याभ्यां दर्शितद्वैविद्धयोपपत्तेः । तस्मात्सर्वकर्म सन्न्यासात्मके ज्ञानसहित- सन्न्यासे विषये आत्मविदेव कर्ता, कर्नैकदेश सन्न्यासात्मके ज्ञानरहितसन्न्यासे अनात्मविदेव कर्तेति कृत्वा सन्न्याससामान्ये आत्मविद इवानात्मविदोपि कर्तुः प्राप्तिरस्त्येव । ननु कर्मयोगेन योगिनामिति अनात्मवित्कर्मयोगमेव कुर्यादिति कृष्णेन नियमितस्वात्कथं तस्य सन्न्यासे पाक्षिक्यपि प्रवृत्तिरिति चेन्मैम् - यमनियमादिपूर्वकध्यानयोगात्मक कर्म योगानुष्ठानयोग्यता- सम्पादककर्मैकदेशसन्न्यासस्यानात्मवित्कर्तकस्य कर्मयोगोपायत्वेन कर्मयोगानतिरिक्तत्वात् । तस्मादना- त्मवित्पुरुषस्सन्न्यस्य ध्यानयोगमभ्यसेत्, असन्न्यस्य यज्ञादिकं वा कुर्यादित्यज्ञस्य सन्न्यासे पाक्षिक- प्रवृत्तिरस्त्यैव । न चाविद्वत्कर्तृकसन्याससद्भावे प्रमाणं नास्तीति वाच्यं, ‘नच सन्यसनादेवे ‘ति भगव - द्वाक्यस्यैव प्रमाणत्वादिति । २७ पञ्चमोऽध्यायः २०९ ननु कर्मण्यकर्मेत्यादिना दर्शितं ज्ञानं कर्मयोगोपकारकमेव नतु सन्न्यासविषयं- ‘तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः । छिवैनं संशयं योगमातिष्ठोत्तिष्ठ भारते’ त्यध्यायोपसंहारे कर्मानुष्ठाने पि संशय- निरासार्थं ज्ञानमावश्यकमिति प्रतिपादितम् । ‘न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योभिजानाति कर्मभिर्न स बध्यते ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृत’ मिति चोपक्रमे ज्ञानपूर्वकं कर्मानुष्ठेयमिति दर्शितम् । एवमुपक्रमोपसंहा- रैकरूप्यात् ‘यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ स्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोपि नैव किञ्चित्करोति सः ॥ यज्ञायाचरतः कर्म समग्रं प्रविलीयते । ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते जुने ‘ति च मध्येपि ज्ञानपूर्वकं कर्मानु- ष्ठानस्य दर्शितत्वाच्च । आत्मविश्कर्तृकः कर्मयोगस्सम्भवत्येव - वाक्यान्तरैरात्मविदरसन्न्यासोपि दर्शितः । अत एव ’ सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससीत्युक्तमर्जुनेन । तथा च आत्मवित्कर्तक कर्म- योगसन्न्यासयोस्तारतम्यबुभुत्सयैवायं प्रश्नोऽर्जुनस्येति युक्ततरम् । किंचाज्ञस्य कर्मसम्भवे सत्यपि विशिष्टकर्मयोगो न सम्भवति - कर्मयोगो हि कर्मसु फल. भि- सन्ध्यादिपरित्यागप्रयुक्तः । स च त्याग आत्मज्ञानं विना नैव सम्भवति । अतएव हि त्यक्त्वा कर्म- फलासङ्गमिति श्लोकस्य प्रवृत्तिमार्गस्थात्मविद्विषयत्वं व्याख्यातं भाष्यकारैरपि । ’ ज्ञेयस्स नित्यसन्न्यासी यो न द्वेष्टि न कांक्षती ‘ति भगवत्प्रतिवचनादपि कर्मयोगस्यात्मवित्कर्तकत्वमेव निश्चीयते । नहि ज्ञान विना रागद्वेषक्षयः स्यात् । तस्मादात्मवित्कर्तृकयोरेव सन्न्यास कर्मयोगयोस्तारतम्यबुभुत्सया कृतोऽयं प्रश्नोऽर्जुनेनेति रामानुजादयः । अत्रोच्यते - यद्ज्ञानं कर्मयोगस्योपकारकं यत्तु ज्ञानं कर्मसन्न्यासस्य तदुभयं विविच्य त्वं न वेत्सि, येनेयमाशङ्कासीत्तव - आत्मा नित्यः, ईश्वरार्थमहं कर्म करोमि, माभून्मम क्षयिष्णु स्वर्गादि- फलं, इन्द्रियाणां विषयप्रावीण्यं मया वारणीयं, मनश्च स्ववशे स्थापयितव्यं, शीतोष्णादिर्द्वन्द्वजात सोढव्यं, कर्मणस्सिद्धयसिद्धयोस्समचितेन भाव्यं, इत्यादिज्ञानं कर्मयोगस्योपकारकम् । कर्म सन्न्यासस्य तु आत्मा अविक्रियोकर्ताऽभोक्ता सच्चिदानन्दब्रह्मरूपः, कर्माणि देहायाश्रयाण्येव इत्यादिज्ञानम् । इदमेव सम्यग्दर्शनमित्युच्यते । यस्यैतद्ज्ञानं स एवात्मविदित्युच्यते । अत आत्मवित्कर्तृकस्य कर्म- योगस्यासम्भव एव । यस्त्वात्मवित्कर्तृकः कर्मयोगो दर्शितः ‘त्यक्त्वा कर्मफलासङ्ग’ मित्यादिना स न कर्मयोगः, किं स्वकर्मैव- लोकसंग्रहार्थत्वान्निरभिमानपूर्वकत्वाच्च तस्येति बहुशः प्रपञ्चितम् । यत्तु ज्ञानासिना सँशयं छित्वा योगमातिष्ठेत्युक्तं ज्ञानं तद्धि नात्मज्ञानं, किंतु शोकमोहादि- दोषज्ञानमेव । तच कर्मयोगस्योपकारकम् । तथैव दर्शितं भाष्यकृद्भिः – शोकमोहादिदोषसम्य- ग्दर्शनमिति । न त्वात्मदर्शनमित्युक्तम् । अथवा, तत्त्वविदा मया लोकसंग्रहार्थं कर्म कर्तव्य वा न वेत्याकारक संशयं छित्वा जनकादिदृष्टान्तेन कर्म कुर्विति तदर्थः । तथा च ज्ञाननाम तत्र लोक- २१० श्रीभगवद्गीता - भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ‘ज्यायसी येत्कर्मणस्ते’ इत्यत्र ज्ञानकर्मणोस्सहासम्भवे ‘यच्छ्रेय एतयोस्तन्मे ब्रूही’- त्यैव पृष्टोऽर्जुनेन भगवान् साङ्ख्यानां सन्न्यासिनां ज्ञानयोगेन निष्ठा पुनः कर्मयोगेन योगिनां निष्ठा प्रोक्तेति निर्णयं चकार । नच सन्न्यसनादेव केवलात्सिद्धिं समधिगच्छतीति वचनाद्ज्ञानसहितस्य सिद्धिसाधनत्वमिष्टं कर्मयोगस्य च विधानात् ज्ञानरहितः सन्न्यासः श्रेयान् ? किंवा कर्मयोगः श्रेयानित्येतयोर्विशेषबुभुत्सया अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १॥ सन्न्यासमिति । सन्न्यास तु परित्यागं कर्मणां शास्त्रीयाणामनुष्ठानविशेषाणां शंससि संग्रहार्थ विदुषापि कर्म कर्तव्यं मया क्षत्त्रियेणेत्याकारकं बोध्यम् । यद्वा ज्ञानमात्मतत्त्व ज्ञानमेवास्तु– संशयः किमहं ब्रह्म उत नेत्याद्याकारक एवास्तु, तथापि न क्षतिः- लोकसंग्रहार्थं कर्मकर्तव्यत्वोपदेशात् । सर्वधापि कृतकृत्यस्याविक्रियब्रह्मरूपेणावस्थितस्य तत्त्वविदः कर्मासम्भव एव किं तु ब्रह्मरूपे- णावस्थानलक्षण सर्वकर्म सन्न्यासस्यैव सम्भव इति न कश्चिद्दोषः । नच भगवता कर्मण्यकर्मेत्यादिना ज्ञानिकर्तृक एव सन्न्यासोऽभिहितः, अर्जुनस्तु तदविदित्वा पप्रच्छेति वाच्यं तथासति कृष्णेन मयोक्त- रसन्न्यासो ज्ञानिकर्तृक एव न त्वज्ञानिकर्तृकः, स तु कर्मयोगाद्विशिष्ट एव- यस्त्वज्ञानिकर्तृकः सन्न्यासः स तु कर्मयोगादपकृष्ट इत्येव प्रतिवचनं ब्रूयात्, तस्माच्छङ्करोत्तमेवापङ्कम् । संक्षेपविस्तराभ्यामुक्तोर्थो जिज्ञासोबुद्धयारूढो भवतीति न्यायाद्विस्तरेणोक्तमर्थं संक्षिप्याह- ज्यायसी चेदिति । इत्यत्रेति गीताशास्त्रे तृतीयाध्याये इत्यर्थः । सहासम्भव इति सहानुष्ठानासम्भव इत्यर्थः । युगपदेकपुरुषानुष्ठेयत्वासम्भव इति यावत् । यच्छ्रेय इति । ’ तदेकं वद निश्चित्य येन श्रयोऽहमाप्नुयामिति पृष्टत्वादिति भावः । निर्णयञ्चकारेति । ‘लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मिति श्लोकेनेति भावः । साङ्ख्ययोगयो - भिन्नपुरुषानुष्ठेयत्वेन निर्णीतत्वान्नाद्य पुनः प्रश्नावकाश इत्यर्थः । हेत्वन्तरादपि नेत्याह-न चेति, इष्टमिति । अभिमतें भगवत इति शेषः । कर्मयोगत्य चेति कर्मयोगस्य च सिद्धिसाधनत्व मिष्टमि- त्यन्वयः —– सिद्धिसाधनत्व मिष्टमिति पदद्वयस्यात्राप्यनुकर्षणात् । कस्मात्कर्मयोगस्य सिद्धिसाधनत्व - मिष्टमत आह– विधानादिति । ‘छित्वैनं संशयं योगमातिष्ठेति कर्मयोगस्य भगवता विहितत्वात् । - निर्थकस्य च विध्ययोगादिति भावः । एवं ज्ञानसहितसन्न्यासस्य कर्मयोगस्य च सिद्धिसाधनत्वस्य भगवदिष्टत्वान्नाद्य साङ्ख्ययोगयोर्विशेषबुभुत्सया पुनः प्रश्नावकाश इत्यर्थः । तर्हि केनाभिप्रायेण प्रश्नोपपत्तिरत आह— ज्ञानेति । ज्ञानरहित इति अज्ञकर्तृक इत्यर्थः । अज्ञस्य किं सन्न्यासः श्रेयान् ? किं वा कर्मयोगरत्र्यानित्यभिप्रायेणार्जुनप्रश्न उपपद्यत इत्यर्थः । … सन्न्यासमिति । हेकृष्ण ! कर्मणां सन्न्यास पुनः कर्मणां योगं च शमसि । एतयोर्यच्छेयः सुनिश्चितं तदेकं मे ब्रहीत्यन्वयः । काम्यानां निषिद्धानां च कर्मणां सन्यास विहितानां कर्मणां 4 पञ्चमोऽध्यायः 1 २११ कथयसीत्येतत्। पुनर्योगं च तेषामेवानुष्ठानमवश्यकर्तव्यत्वं शंससि अतो मे कतरच्छ्रेय इति संशयः । किं कर्मानुष्ठानं श्रेयः किं वा तद्धानमिति प्रशस्यतरं चानुष्ठेयम् ? अतथ यच्छ्रेयः प्रशस्यतरमेतयोः कर्मसन्न्यास कर्मानुष्ठानयोर्यदनुष्ठानाच्छ्रेयोवाप्तिर्मम स्यादिति मन्यसे तदेकमन्यतरत्सहैकपुरुषानुष्ठेयत्वासम्भवान्मे ब्रूहि सुनिश्चितमभिप्रेतं तवेति ॥ १ ॥ श्रीभगवानुवाच — सन्न्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ । तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ २ ॥ स्वाभिप्रायमाचक्षाणो निर्णयाय श्रीभगवानुवाच — सन्न्यास इति । सन्न्यासः कर्मणां परित्यागः कर्मयोगश्च तेषामनुष्ठानं तावुभावपि निश्श्रेयसकरौ मोक्ष कुर्वाते- ज्ञानो- त्पत्तिहेतुत्वेन उभौ यद्यपि निश्श्रेयसकरौ, तथापि तयोस्तु निःश्रेयसहेत्वोः कर्मसन्न्यासा - केवलात्कर्मयोगो विशिष्यते ॥ २ ॥ ज्ञेयस्स नित्यसन्न्यासी यो न द्वेष्टि न कांक्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥ कस्मादित्याह - ज्ञेय इति । ज्ञेयो ज्ञातव्यस्स कर्मयोगी नित्यसन्न्यासीति यो न योग चाहं शंसामीति न व्याघात इत्यभिप्रेत्याह – शास्त्रीयाणामिति । शास्त्रेण विहितानां नित्यानां नैमित्तिकानां चेत्यर्थः । अनुष्ठानविशेषाः अग्निहोत्रादि क्रियाविशेषाः । शंसुस्तुताविति स्मरणात्स्तुते- रेत्राभावात्कथनमात्रमेवाभिप्रेतमित्याह – कथयसीत्येतदिति । कर्मण्यकर्म य: पश्येदित्यादिनेति भावः । योगं शंससीति । योगमातिष्ठेत्युक्तत्वादिति भावः । एवं कर्मसन्न्यास कर्मानुष्ठानयो- द्वयोरपि कर्तव्यत्वोपदेशादेकेन सह कर्तुमशक्यत्वाच्च किं मया कर्तव्यमिति मम संशयो जात इत्याह- अत इति । किंशब्दादद्वयोर्निर्धारणे उतरच्प्रत्यये कतरदिति रूपं भवति । द्वयोर्मध्ये किं श्रेय इत्यर्थः । संशयमेवाभिनीय दर्शयति - किमिति, तद्धानमिति । कर्मत्याग इत्यर्थः । श्रेय इति 1 प्रशस्थस्य श्रादेशः अतिशयेन प्रशस्यं श्रेयः । इदमेवाभिप्रेत्याह - प्रशस्यतरमिति । यद्यपि विहितत्वादुभयमपि प्रशस्यमेव, तथापि प्रशस्यतरंबुभुत्सया पृच्छामीत्यर्थः । किं तव प्रशस्यतरज्ञानात्फल ‘तत्राह - प्रशस्यतरं चानुष्ठेयमिति, अतश्चेति । प्रशस्यतरस्यैवानुष्ठेयत्वादित्यर्थः । योगस्य प्रशस्य- तरत्वं च श्रेयः प्रदत्वादेवेत्याह — श्रेयोवाप्तिरिति । निश्श्रेयसप्राप्तिरित्यर्थः । योगद्वयमपि श्रेयो- वापकत्वात्कर्तव्यमेवेत्यत्राह — सहकेति । युगपदेकेन योगद्वयस्याप्यनुष्ठातुमशक्यत्वान्नैकेनोभयं कर्तव्य- मित्यर्थः । सर्वज्ञस्य तव यदभिप्रेतं तदेव मादृशेन कर्तव्यमित्याह – तवेति ॥ १ ॥
1 सन्न्यास इति, केवलादिति । ज्ञानसहितस्य सन्न्यासस्य साक्षान्मोक्षहेतुत्वेन कर्मयोगा- दुत्कृष्टत्वादिति भावः, विशिष्यते उत्कृष्टो भवति ॥२॥ ज्ञेय इति । यो दुःखं तद्धेतुं वा न द्वेष्टि सुखं तद्धेतुं वा न कांक्षति स नित्यसन्यासीति ज्ञेयः । हेमहाबाहो हि निर्द्वन्द्वः पुरुषः सुखं बन्धात्प्रमुच्यते नित्यं सदा सन्न्यासोऽस्यास्तीति नित्य- श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु द्वेष्टि किंचिन कांक्षति दुःखं सुखं वा तत्साधनं च एवंविधो यः कर्मणि प्रवर्तमानोपि राग- द्वेषाद्ययोगात्स नित्यसन्न्यासीति ज्ञातव्य इत्यर्थः । निर्द्वन्द्वो द्वन्द्ववर्जितः । हि यस्मात् हे महाबाहो सुखं बन्धादनायासेन प्रमुच्यते || ३ || साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितस्सम्यगुभयोर्विन्दते फलम् ॥४॥ सन्न्यास कर्मयोगयोर्हि भिन्नपुरुषानुष्ठेययोर्विरुद्धयोः फलेपि विरोधो युक्तः न तूभयो- निःश्रेयसकरत्वमेवेति प्राप्त इदमुच्यते – साङ्ख्ययोगाविति । साङ्ख्ययोगौ पृथग्विरुद्ध भिन्न- फलौ बालाः प्रवदन्ति, न पण्डिताः पण्डितास्तु ज्ञानिनः एकं फलं अविरुद्धमिच्छन्ति । कथं एकमपि साङ्ख्ययोगयोस्सम्यगास्थितस्सम्यगनुष्ठितवानित्यर्थः । उभयोर्विन्दते फलमुभयो- स्तदेव हि निश्श्रेयसफलम् । अतो न फले विरोधः । ननु सन्न्यासकर्मयोगशब्दौ प्रस्तुत्य साङ्ख्योगयोः फलैकत्वं कथमिहाप्रकृतं ब्रवीति, नैष दोष:- यद्यप्यर्जुनेन सन्न्यासं कर्मयोगं च केवलमभिप्रेत्य प्रश्नः कृतः, भगवांस्तु तदपरि- त्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य शब्दान्तरवाच्यतया प्रतिवचनं ददौ – साङ्ख्ययोगा- विति । तावेव सन्न्यासकर्मयोगी ज्ञानतदुपायसमत्वबुद्धित्वादिसंयुक्तौ साङ्ख्ययोगशब्द- ‘बाच्याविति भगवतो मत अतो नाप्रकृतप्रक्रियेति ||४|| सन्न्यासी प्रसिद्धस्तु न सर्वदा सन्न्यासी किन्त्वाश्रमस्वीकारानन्तरमेवेति भावः । एवं कर्मयोगिनो नित्यसन्न्यासित्वादेव सन्न्यासाद्योगो विशिष्यते इत्युक्तम् । एतेन कर्मयोगिनापि सन्न्यासिनेव राग- द्वेषादिद्वन्द्ववर्जितेन भाव्यमित्युपदेशस्सू चितः । किं च सुखमित्यनेन च कर्मयोगस्य सन्न्यासाद्वैशिष्ट्यं सूचितम् । सन्न्यासे यमादीनां दुष्करत्वेन तस्य क्लेशावहत्वात् प्रमुच्यत इति । परम्परयेति शेषः । ज्ञानोत्पत्तिद्वारेति यावत् ॥३॥ साङ्ख्येति । साङ्ख्ययोगयो इशब्दतोऽर्थतश्च पार्थक्यसम्भवात्कथमपृथक्त्वमत आह– विरुद्धेति । विरुद्धे अत एव भिन्ने फले ययोस्तौ तथोक्तौ फलेऽभेदादपृथक्त्वमित्यर्थः । ननु सायशब्दस्य ज्ञानयोगाभिधायिश्वात्प्रकृतसन्न्यासस्य च ज्ञानहीनत्वात्को ऽयम प्रस्तुतप्रसङ्ग इति शङ्कते - नन्विति । अयमाशय उत्तरपक्षस्य - यथा साङ्ख्ययोगयोस्साक्षात्क्रमेण च निश्श्रेयससा - धनत्वं तथा ज्ञानहीनमुन्यासकर्मयोगयोरपि परम्परया निश्श्रेयससाधनत्वमेवेति नास्ति फलतो भेद- स्तयोरनयोर्वा य एव प्रकृतः सन्न्यासस्स एव ज्ञानयुक्तो भवति साङ्ख्यशब्दवाच्य इति न सन्न्यासा - दतिरिच्यते साङ्ख्यं नापि योगात्कर्मयोग इति । ननु अर्जुनेन सन्न्यासस्य ज्ञानहीनसन्न्यासत्वेनाभिप्रेतत्वेपि कर्मयोगस्य न ज्ञानशून्यत्वेनाभि- प्रेतत्वं वक्तुं शक्यम् - ज्ञानशून्यकर्मानुष्ठानस्य कर्मयोगशब्दवाच्यत्वाभावात् फलाभिसन्ध्यादिपूर्वक- कर्मानुष्ठानस्य च संसारहेतुत्वेन निश्श्रेयसफलाभावात् तादृश कर्माचरणस्य ज्ञानहीन सन्न्यासाद्विशिष्ट- पञ्चमोऽध्यायः यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥५॥ २१३ एकस्यापि सम्यगनुष्ठानात्कथमुभयोः फलं विन्दत इत्युच्यते - यदिति । यत्साङ्ख्यैः ज्ञाननिष्ठेस्सन्न्यासिभिः प्राप्यते स्थानं मोक्षाख्यं तद्योगैरपि गम्यते- ज्ञानप्राप्त्युपायत्वेनेश्वरे समय कर्माण्यात्मनः फलमनभिसन्धायानुतिष्ठन्ति ये ते योगाः योगिनस्तैरपि परमार्थज्ञान- सन्न्यासप्राप्तिद्वारेणानुगम्यत इत्यभिप्रायः । अतः एकं साङ्ख्यं च योगं च यः पश्यति फलैकत्वात्स पश्यति सम्यक्पश्यतीत्यर्थः । एवं तर्हि कर्मयोगात्सन्न्यास एव विशिष्यते, कथं तर्हीदमुक्तं तयोस्तु कर्मसन्न्यासा- त्कर्मयोगो विशिष्यत इति, शृणु तत्र कारणं त्वया पृष्टं केवलं कर्मसन्न्यासं कर्मयोगं चाभिप्रेत्य तयोर्यच्छ्रेयस्तन्मे ब्रूहीति, तदनुरूपं प्रतिवचनं मयोक्तं कर्मसन्न्यासात्कर्मयोगो विशिष्यत इति ज्ञानमनपेक्ष्य, ज्ञानसव्यपेक्षस्तु सन्न्यासस्साङ्ख्यमिति मयाऽभिप्रेतः । परमा- र्थयोगश्च स एव । यस्तु कर्मयोगो वैदिकः स तादर्थ्याद्योगः सन्न्यास इति चोपचर्यते ॥५॥ त्वस्य वक्तुमयुक्तत्वाच्च । एवं सति केवलं कर्मयोगमभिप्रेत्यार्जुनेन प्रश्नः कृतः तदुपायसमत्वबुद्धि- त्वादियुक्तस्स एवं योगशब्दवाच्य इति च भाष्यकारोक्तमसङ्गतं, ज्ञानोत्पत्तिहेतुत्वेन उभौ यद्यपि निश्श्रेयसकराविति स्ववचनन्याघातश्चेति चेत्, मैवम् - कर्मयोगोत्र कर्मानुष्ठानम् – स च फलसङ्गादि- वर्जित एवेति चितशुद्धिहेतुत्वेन निश्श्रेयसफलक एव । अयमेव कर्मयोगः ‘सिद्ध्यसिद्धयोस्समो भूत्वा समत्वं योग उच्यत’ इति समत्वबुद्धिशमादिविशेषयुक्तस्सन योगशब्दवाच्य इति ॥४॥ यदिति । साङ्ख्यमात्मतत्त्वज्ञानं तद्येषामस्ति ते साङ्ख्या ज्ञानिनः ज्ञानस्य च वेदान्तश्रवणा- द्यधीनत्वात्तत्र च सन्न्यासिनामेवाधिकारादाह – सन्न्यासिन इति । योगस्समत्वादिलक्षणः एषा- मस्तीति योगिनः अर्शआद्यजन्तौ द्वावपि शब्दौ ।
4 एवं तहीति । साङ्ख्यस्य साक्षान्मोक्षकारणत्वेन योगस्य परम्परया मोक्षसाधनत्वेन चेत्येवं शब्दार्थः । तर्हीति शङ्कार्थः । कथं तर्हि कथं वा ज्ञानही नात्सन्न्यासात्कर्मयोग एव विशिष्यते सुकरत्वा- दप्रमादत्वाच्च साङ्ख्यशब्दवाच्याद्ज्ञानसहित सन्न्यासान्तु कर्मयोगो न विशिष्यते, किं तु निकृष्यंत एवेत्यर्थः । कर्मसन्न्यासात्कर्मयोगो विशिष्यत इत्यत्र केवलसन्न्यासकर्मयोगी मया विवक्षितौ त्वत्प्रश्नानुगुण्याय, इह तु साङ्ख्ययोगशब्दाभ्यां ज्ञानसहितसन्न्यासकर्मयोगौ विवक्षितौ, यद्यपीदं त्वया पृष्टं तथापि पृष्टादधिकस्यैव वक्तव्यत्वात्प्रियशिष्याय गुरुणा त इदमप्युक्तम् । ज्ञानसापेक्षः परमार्थसन्न्यासस्साङ्ख्यशब्दार्थः । स एव परमार्थसन्न्यास एव परमार्थयोगश्च भवति, एवं परमार्थतस्सन्न्यासयोगयोश्शब्दत एव भेदः न त्वर्थतोपीति सिद्धम् । अथ यस्तु वैदिकः कर्मयोगस्स योग इति सन्न्यास इति चोपचर्यते ज्ञेयस्स नित्यसन्न्यासीत्युक्तत्वात् इति । एतेन एक सायं च योगं च यः पश्यति स पश्यतीत्यस्य साङ्ख्ययोगयोर्वस्तुत एकत्वादेकत्वज्ञानं सम्य- कानमित्यर्थान्तरं च मूलस्य सिद्धम् ।૨૨૪ 246 श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपैतासु सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥६॥ कथं तादर्थ्यमित्युच्यते — सन्न्यास इति । सन्न्यासस्तु पारमार्थिकः महाबाहो दुःख- माप्तुमयोगतः योगेन विना योगयुक्तो वैदिकेन कर्मयोगेन ईश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तो मुनिः मननादीश्वरस्वरूपस्य मुनिः ब्रह्म परमात्मज्ञानलक्षणत्वात् प्रकृतस्सन्न्यासो ब्रह्मो- च्यते न्यास इति ब्रह्म, ‘ब्रह्मा हि परः परो हि ब्रह्मेतिश्रुतेः ब्रह्म परमार्थसन्न्यासं परमात्म- अत्रायं विवेक:- सन्न्यासयोगौ पारमार्थिकापारमार्थिकत्वभेदेन प्रत्येकं द्विविधौ - आत्मवि- त्कर्तृकः पारमार्थिकसन्न्यासः, अनात्मवित्कर्तृकस्त्वन्यः, आत्मवित्कर्तृको लोकसंग्रहार्थः पारमार्थिको योगः, अनात्मवित्कर्तृकश्चित्तशुद्धयर्थस्त्वन्यः, तत्र यः पारमार्थिकस्सन्न्यासस्स पारमार्थिकयोगान्न भिद्यते, सन्न्यासिन इव योगिनोपि कर्तृत्वाद्यभिमानराहित्येन तत्कर्मणोऽकर्मत्वस्योक्तत्वात् । अनात्मवि- स्कर्तृकृतौ सन्न्यासयोगौ च न भिद्येते- उभयोरनुष्ठात्रोः कर्तृत्वाद्यभिमानस्य सत्त्वाद्यज्ञादीनामिव यमा- दीनामपि कर्मत्वाच्च, अतएव कर्मयोगे स्यान्तर्भावस्समाधियोगस्य- केवलसन्न्या सिविषयस्येति । यद्वा, पारमार्थिको ज्ञानहीनश्चेति सन्न्यासो द्विविधः । समत्वादिबुद्धियुक्तः केवलश्चेति कर्म- योगो द्विविधः । तत्र पारमार्थिकसन्न्यासस्साङ्ख्यं - समत्वादिबुद्धियुक्तः कर्मयोगः परमार्थयोग इति ॥५॥ सन्न्यास इति । हेमहाबाहो सन्न्यासस्तु अयोगत आप्तं दुःखम् । योगयुक्तो मुनिरचिरेण ब्रह्माधिगच्छति । दुःखमाप्तुमिति दुर्लभ इत्यर्थः । मननाद्ध्यानात् । ननु कथं योगिनो चिराद्रह्म- प्राप्तिर्ज्ञाननिष्ठया व्यवधानादित्यत आह– ब्रह्मसन्न्यासमिति । कथं पारमार्थिकस्यापि सन्न्यासस्य ब्रह्मशब्दवाच्यतेत्यत्र हेतुमाह - परमात्मज्ञानलक्षणत्वादिति । परमात्मज्ञानं लक्षण स्वरूपं यस्य तत्त्वात् । परमात्मज्ञानलक्षणे सन्न्यासे परमात्मवाचिब्रह्मशब्दप्रयोग औपचारिक इति भावः । ₹ • एवं ब्रह्मशब्दस्य सन्न्यासे प्रयोगश्श्रुतिसिद्ध इत्याह–न्यास इति । ब्रह्म ब्रह्मशब्दवाच्यः न्यासः सन्न्यासः परः सत्यादिसर्वसाधनोत्कृष्ट इति । ब्रह्मा हिरण्यगर्भः हि यस्मादाहेति शेषः । तस्मा- न्यास एवावराणि तपास्यत्य रेचयदति चक्रामेत्यन्वयः । हिः प्रसिद्धाविति वा । ननु हिरण्यगर्भोक्त- मात्रेण कथं न्यासस्य सर्वातिशायित्वमत आह- परो हि ब्रह्मेति । हि यस्माद्ब्रह्मा हिरण्यगर्भः परः सर्वोत्कृष्ट:- आदिपुरुषत्वादिति भावः । यद्वा परः परमात्मरूप एव, नतु जीवः । यद्यप्यसौ हिरण्यगर्भो देहधारी तथापि पर इति वक्तुं शक्यते तच्चिष्यत्वेन तत्समानज्ञानत्वात् । अत एव श्वेताश्वतरा आमनन्ति- ‘यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै’ इति । इयं श्रुतिस्तैत्तिरीयक- विद्यारण्यभाष्ये न्यास इति ब्रह्मा हि परः परो हि ब्रह्मेत्येव दृश्यते - न्यास एवोत्तमो मोक्षहेतुरिति ब्रह्मा हिरण्यगर्भो मन्यत इत्येवं विद्यारण्यैर्व्याख्याता च । तद्रीत्या तु न्यासे ब्रह्मशब्दप्रयोगं प्रति प्रमाणतया नेयं श्रुतिरुदाहर्तव्याः । किंतु- मुक्तिहेतुत्वाच्चेति भाष्ये पूरणीयं सन्न्यासो मुक्तिहेतुत्वाच्च ब्रह्मेत्युच्यतेः । सुक्तेर्बह्मस्वरूपत्वातद्धेतौ तत्पदप्रयोग औपचारिकः । नेत्रानन्दश्चन्द्र इतिवदिति भावः । मनुका 1. „ पञ्चमोऽध्यायः । २१५ ज्ञाननिष्ठालक्षणं न चिरेण क्षिप्रमेव अधिगच्छति प्राप्नोति, अतो मयोक्तं कर्मयोगो विशिष्यत इति ॥६॥ न्यासस्यैव मोक्षहेतुत्वं सत्यतपश्शमदमादीनां सत्त्वादिति शङ्कायां न्यास एक एव मोक्षहेतुर्नान्य इत्यत्र श्रुति पठति — न्यास इति । इति भाष्यं व्याख्येयम् । श्रुतौ ब्रह्मा हि परः परो हि ब्रह्मेति द्विरुक्तिः तत्त्वमसि त्वन्तदसीतिवद्दार्थ्यायेति कैश्चिदुच्यतेः । ब्रह्माः न्यासो मोक्षहेतुरिति मन्यते - स च परो हि परमात्मरूपो हि- ‘परो हि परमात्मैव ब्रह्मा हिरण्य+ गर्भ इति वक्तुं शक्यत’ इति विद्यारण्यस्वामिनः । ‘तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत्’ इत्युत्तरवाक्यं श्रुते:- अवराणि न्यासा- पेक्षया अल्पमनि तपांसि सत्यदमादीनि । सत्यादीनां साक्षान्मोक्षहेतुत्वाभावात्स्वर्गादिक्षयिष्णुपुरुषार्थहेतुत्वाच तेभ्यो न्यासस्य साक्षान्मोक्षहतोरुत्कर्ष इति भावः । अत इति । योगस्य पारमार्थिकसन्न्यासप्राप्त्युपायत्वादित्यर्थः । ननु सन्यासोपि केवल- स्तादृश एवेति कथं कर्मयोगस्य विशिष्टत्वमिति चेत्सत्यं, तथापि योगयुक्तस्य पारमार्थिक सन्न्यासप्राप्ति- रचिरेणैव भवेदन्यस्य तु चिरेणेति केवलसन्न्यासापेक्षया कर्मयोगस्य चित्तशुद्धिं प्रत्यन्तरङ्ग-साधनव्यमितिः भावः । केवलसन्न्यासिनः विषयप्रवृत्तिस्वभावस्य मनसः प्राणायामादिना स्ववशीकरणं चिरकालसाध्यं, योगिनस्तु कामादित्यागात्सुलभमिति गूढाभिसन्धिः । अस्य श्लोकस्य योगयुक्तः पुमानचिरेणैव मुनिस्सन्न्यासी भूत्वा ब्रह्म परमं पदमधिगच्छतीत्य- प्यन्वयस्सुवचः । योगादचिरादेव पारमार्थिकसन्न्यासलाभस्ततो ब्रह्मप्राप्तिरित्यर्थः । न चिरेणेति नञ- कनशब्देन सह समासः, न चिरेणेति पदद्वयमिति वा, चिरेण ब्रह्म नाधिगच्छति, किन्त्वचिरेणैवेत्यर्थः । अस्मिन्पक्षे चिरेणापि नाधिगच्छतीत्यपार्थप्रती तिस्स्यादिति समासपक्ष एवोचितः ।
ननु अयोगतत्सन्न्यासों दुर्लभ इत्यनेनैव योगतरसन्न्यासस्सुलभ इति सिद्धत्वाद्यर्थे श्लोक - स्योत्तरार्थमिति चेन्मैवम् - यस्माद्योगिनस्सन्न्यासस्तु लभस्तस्मादयोगतरसन्न्यासो दुर्लभ इति हेतुहेतु- मद्भावस्य पूर्वोत्तरार्थयोर्विवक्षितत्वात् । अतएव अयोगत इत्यस्य ‘योगेन विनेत्यर्थ’ उक्त आचार्य योगरहितस्येति । यस्मादयोग तरसन्न्यासो दुर्लभस्तस्माद्योगयुक्तस्सन्न्यास लभत इति वा हेतुहेतुमद्भावो बोध्यः । ननु योगयुक्त एव सन्न्यासमाप्नोति नतु योगरहित इत्यनेन योगसाहित्यं सन्न्यासस्य सिद्ध- मिर्ति, चेन्मैवम् — कर्मानुष्ठानलक्षणयोगस्य कर्मसन्न्यासलक्षणसन्न्यासस्य च साहित्यासम्भवात्तेजस्तिमिर- वत् । नच नायं कर्मत्यागलक्षणस्सन्न्यासः, किंतु पारमार्थिकः परमात्मज्ञानलक्षण इति वाच्यं परमात्म- ज्ञाननिष्ठालक्षणसन्न्यासस्यैव सर्वकर्मत्यागरूपत्वात् न ह्यज्ञस्सर्वं कर्म त्यक्तुं शक्नुयात्- देहादितादा- स्म्याभ्यासेन तस्य कर्ताहमिति विपरीत बुद्धिसत्त्वात् । तूष्णीं तिष्ठामीति विपरीतबुद्धिविषयस्यापि तूष्णीं- भावस्य कर्मत्वस्य सिद्धान्नितत्वात् । तस्माद्येन योगो युक्तस्स चितशुद्धिद्वारा ज्ञान प्राप्य योग सन्य- स्यैव पारमार्थिकसन्न्यासमाप्नोतीति सर्वमनुवद्यम् । २१६ श्रीभगवद्गीतासु भाष्या प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥७॥ यदा पुनरयं सम्यग्दर्शनप्राप्त्युपायत्वेन - योगेति । योगेन युक्तो योगयुक्त:– विशुद्धात्मा विशुद्धसत्व :- विजितात्मा विजितदेह :- जितेन्द्रियश्च सर्वभूतात्मभूतात्मा सर्वेषां भूतानां ब्रह्मादीनां स्तम्बपर्यन्तानां आत्मभूत आत्मा प्रत्यक्वेतनो यस्य स सर्वभूतात्म- भूतात्मा सम्यग्दर्शीत्यर्थः । स तत्रैव वर्तमानोपि लोकसंग्रहाय कर्म कुर्वन्नपि न लिप्यते- न कर्मभिर्वध्यत इत्यर्थः । न चासौ परमार्थतः करोतीत्येतत् ||७||
यत्तु रामानुजः - कर्मयोगयुक्तस्यात्मप्र तिस्सुलभा, ज्ञानयोगयुक्तस्य तु कष्टसाध्येति, तत्तुच्छम् —— आत्मप्राप्तिः किं मुक्तिरुत ज्ञानम् ? नाद्यः कर्मणा मुक्त्ययोगात् । आत्मप्राप्तेर्मुक्तित्वेन त्वयानभ्युपेतत्वाच्च । द्वितीये यदात्मज्ञानं कर्मयोगसुपापं तद्योगस्यैव ज्ञानयोगत्वेन कथं ज्ञानयोग- दुष्प्रापत्वं ज्ञानस्य । नच ज्ञानयोगगतं ज्ञानं परोक्ष, कर्मयोगप्राप्यं त्वपरोक्षमिति वाच्यं, परोक्षज्ञानं विनाऽपरोक्षज्ञानालाभात्तथापि ज्ञानयोगसुप्रापमेवापरोक्षज्ञानं, कर्मयोगस्तु परोक्षज्ञानमुत्पाद्य तत एवाप- रोक्ष जनयेदिति बहिरङ्गसाधनमेवेत्यलम् ||६|| योगेति । योगयुक्तः पुरुषः विशुद्धात्मा विजितात्मा जितेन्द्रियश्च भूत्वा सर्वभूतात्मभूतात्मा च भूत्वा कुर्वन्नपि न लिप्यते - योगिनो योगवशान्मनश्शरीरेन्द्रियजयानन्तरमात्मतत्त्वज्ञानं जायते, स ततः कर्म कुर्वन्नपि न लिप्यतः इत्यर्थः । सर्वभूतेति । यः स्वस्यात्मा प्रत्यक्चेतनः स एव सर्वभूतानामप्यात्मेति यो मन्यते स सर्व - भूतात्मभूतात्मेत्युच्यते । इदं च ज्ञानं ब्रह्मात्मा भेदज्ञानाद्भवति न त्वन्यथा, ततश्च अहं ब्रह्मास्मीति : सम्यग्दर्शनवान् सर्वभूतात्मभूतात्मेत्युच्यत इत्यभिप्रेत्याह— सम्यग्दर्शीत्यर्थ इति । तत्रैवेति सम्य- ग्दर्शन एवेत्यर्थः । कर्मबन्ध एव कर्मलेप इत्याह-न कर्मभिर्वध्यत इति । कुतोस्य कर्तुरलेप इत्यत आह-न चेति । परमार्थत आत्मनोऽकर्तृत्वान्नायमात्मवित्कर्ता भवति आत्मविद एवात्मत्वा- दिति भावः । यत्तु रामानुजः सर्वभूतेति विशेषणेन ज्ञानैकाकारतया सर्वात्मनां साम्यमुच्यत इति, तत्तुच्छम् – मूलकारानभिप्रेतत्वादस्यार्थस्य । यदि मूल कर्तुस्सोभिप्रायस्तर्हि सर्वभूतात्मतुल्यात्मेत्येव ब्रूयात् । किंच व्यर्थ एवायं सर्वात्मनां स्वरूपतौल्योपदेशः- सर्वदेहानां भौतिकत्वेन तुल्यत्वोपदेशवत्- नाप्य- त्यन्तसाम्ये वक्तुं भेदोपि युज्यते भेदकविशेषस्यैवाभावात् । यदि तूपाघितो भेद इति तर्हि सिद्ध- मात्मैकत्वं घटाद्युपाधिभेदे सत्यप्याकाशैक्यवत् । किं च यदिदमात्मन आकारत्वेनोच्यते ज्ञानं किं तचैतन्यमथवा वृत्तिः ? न द्वितीयः तस्य मनोजन्यत्वात् । आद्ये चैतन्यस्य सर्वविशेषविलयसाक्षित्वं सुषुप्त्याद्यनुभवसिद्धम् । तस्य च निर्विशेष- परिपूर्ण परिच्छिन्न चैतन्यस्य कथं भेदसिद्धि:- भेदकस्यैवाभावात् । अत एव ह्येकमेवाद्वितीयं ब्रह्मत्युप- दिश्यते श्रुत्या । तस्मादलं भेदवादेन भयहेतुना ‘द्वितीयाद्वै भयं भवतीति श्रुतेः ॥७॥ २८ पञ्चमोऽध्यायः नैव किंचित्करोमीति युक्तो मन्येत तत्ववित् । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन श्वसन् ॥८॥ २१७ नेति । नैव किंचित्करोमीति युक्तस्समाहित सन् मन्येत चिन्तयेत् तत्त्वविदात्मनो याथात्म्य तत्त्वं वेत्तीति तत्त्ववित् परमार्थदर्शीत्यर्थः ॥ ८ ॥ प्रलपन् विसृजन् गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ||९|| कदा कथं वा तत्त्वमवधारयन्मन्येतेत्युच्यते – पश्यन्निति । मन्येतेति पूर्वेण सम्बन्धः । तस्यैव तत्त्वविदः सर्वकार्य करणचेष्टासु कर्मसु अकर्मैव पश्यतः सम्यग्दर्शिनः सर्वकर्मसन्न्यास एवाधिकार :- कर्मणोऽभावदर्शनात् । न हि मृगतृष्णिकायामुदकबुद्धया पानाय प्रवृत्त उदकाभावज्ञानेपि तत्रैव पानप्रयोजनाय प्रवर्तते ॥९॥ नैवेति । तत्त्ववित् युक्तस्सन् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्निषन् निमिषन्नपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् सन् अहं किञ्चिन्न करोम्येव इति मन्येत इति श्लोकद्वयान्वयः । दर्शनं चक्षुरिन्द्रियकर्म, न त्वात्मनः, श्रवणं श्रोत्रेन्द्रियकर्म, स्पर्शनं स्वगिन्द्रियस्य कर्म, घ्राण घ्राणेन्द्रियस्य, अशनं वक्त्रस्य, गमनं पादस्य, खपनमन्तःकरणस्य, अन्तःकरणोपरमस्यैव स्वापत्वात् । श्वसनं प्राणवायोः, प्रलपनं वागिन्द्रियस्य, विसर्जन पायोः, ग्रहणं हस्तयोः, उन्मेषनिमेषौ पक्ष्मणोः, इति विवेकः ||८|| इन्द्रियार्थी विषया दर्शनादयः रूपादयो वा कर्मस्वकर्मैव पश्यत इति कर्मण्यकर्म यः पश्येदि- त्युक्तरीत्येति भावः । सम्यग्यथावदात्मानं पश्यतीति सम्यग्दर्शी, तस्य कुतोस्य कर्मस्वनधिकार इत्यत आह - - कर्मण इति । तत्त्वविदृष्ट्या कर्मणामभावादेव कर्मस्वनधिकार इत्यर्थः । तत्रैव दृष्टान्त- माह—यथेति । मृगतृष्णिकायामुदकमिवात्मनि कर्म अज्ञानवशात्प्रतीतं, ततस्तत्राज्ञः प्रवर्तते यस्तु मृगतृष्णिकायामुदकाभावमिव आत्मनि कर्माभावं वेत्ति स कथं तत्र प्रवर्तेत, न कथमपीत्यर्थः । एतेन योऽहङ्करोमीति मन्यते तस्यैव कर्माधिकार इति सिद्धम् । ननु दर्शनादिकर्माणि कुर्वन्नपि न करोमीति यो मन्यते स हि मिथ्याज्ञानीति चेन्मैवम् - यथोक्तदयैवायमात्मदृष्टया कर्माभावात्, यानि कर्माणि कुर्वन्ति तेषां देहेन्द्रियादीनामनात्मत्वाच । ननु तर्हि कथं पश्यन्नित्यादिकमुक्तमिति चेल्लोकदृष्ट्येति विद्धि, लोकदृष्ट्या कर्माणि कुर्वन्निव प्रतीयमानोपि वस्तुतो न करोतीत्यर्थः । उक्तं हि विश्वामित्रेणाध्यात्मरामायणे- ‘रामो न गच्छति न तिष्ठति नानुशोचत्याकांक्षते त्यजति नो न करोति किञ्चित् । आनन्दमूर्तिरचलः परिणामहीनो माया गुणाननुगतो हि तथा विभाति’ इति । न च परमात्मविषयं तदिति वाच्यं, आत्मत्वात्परमात्मनः न ह्यात्मनोऽन्यः कश्चित्परमात्मा नामास्ति- ‘एकमेवाद्वितीयं ब्रह्मेत्यादिश्रुतिविरोधात् ॥९॥
श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेता सु ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥ यस्तु पुनरवित्प्रवृत्त कर्मयोगे - ब्रह्मणीति । ब्रह्मणीश्वरे आधाय तदर्थ कर्म करोमीति भृत्य इव स्वाम्यर्थं मोक्षेपि फले सङ्गं त्यक्त्वा करोति यः सर्वाणि कर्माणि, लिप्यते न स पापेन सम्बध्यते, पद्मपत्रमिवाम्भसा उदकेन- केवलं सच्चशुद्धिमालमेव फलं तस्य कर्मणस्यात् ॥१०॥ कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि । : योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ॥ ११ ॥ यस्मात् कायेनेति । कायेन देहेन मनसा बुद्धया च केवलैरिन्द्रियैरपि ममत्व- वर्जितैरीश्वरायैव करोमि न मम फलायेति ममत्वबुद्धिशून्यैरिन्द्रियैः केवलशब्दः कायादिभि- रपि प्रत्येकं सम्बध्यते । सर्वव्यापारेषु ममत्ववर्जिताः योगिनः कर्मिणः कर्म कुर्वन्ति सङ्ग त्यक्त्वा फलविषय आत्मशुद्धये सवशुद्धय इत्यर्थः । तस्मात्तत्रैव तवाधिकार इति कुरु कर्मैव ॥११॥ युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥ यस्माच्च युक्त इति । युक्त ईश्वराय कर्माणि न मम फलायेत्येवं समाहितस्सन् ब्रह्मणीति । यः ब्रह्मणि आधाय सङ्गं त्यक्वा कर्माणि करोति सः अम्भसा पद्मपत्रमिव पापेन न लिप्यते । नैव किञ्चित्करोमीति युक्तो मन्येत । तत्त्वविदित्यस्य कर्माणि करोतीत्यस्य च एकपुरुषविषयत्वसम्भवादाह यस्तु पुनरतत्त्वविदिति । आधाय न्यस्य समप्येति यावत् । पापेन न लिप्यत इत्येवोक्तं, नतु ब्रह्म प्राप्नोतीति । अत आह—- केवलमिति । तस्येति ईश्वरार्पणबुद्धया निस्सङ्ग कृतस्येत्यर्थः ।
यत्तु रामानुजः – ब्रह्मणि इन्द्रियाकारेणावस्थितायां प्रकृतौ कर्माण्याधायेति, तत्तुच्छम्- इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्नित्यनेन पौनरुक्त्यात् ॥ १० ॥ कायेनेति । ‘कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेस्स्वभावात् । करोमि यत्त- त्सकलं परस्मै नारायणायेति समर्पयामी’ ति सर्ववैदिकजनेन सन्ध्यावन्दनाद्यन्तेषु पठ्यमानस्य श्लोकस्य मूलभूतोऽयम् । सङ्कल्पविकल्पात्मकं मनः, अध्यवसायात्मिका बुद्धिरिति विवेकः । ममत्वबुद्धिशून्यैरिति । : कर्तृगता ममत्वबुद्धिः करणेष्वारोपिता । अथावा ममत्वबुद्ध्यप्रयुक्तैरित्यर्थः । अत एवाह ममत्व - वर्जिता इति, तत्रैवेति । नतु साङ्ख्ये इत्येवकारार्थः ॥ ११ ॥
युक्त इति । निष्ठायां ज्ञाननिष्ठायामित्यर्थः । ननु कथं ज्ञाननिष्ठाभवमोक्षस्य कर्मयोगेन पञ्चमोऽध्यायः । २१९ कर्मफलं त्यक्त्वा परित्यज्य शान्ति मोक्षाख्यां आप्नोति । नैष्ठिकीं निष्ठायां भवां सच्च- : शुद्धिज्ञानप्राप्तिसर्वकर्मसन्न्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः । यस्तु पुनरयुक्तः असमाहितः कामकारेण करणं कारः कामस्य कारः कामकारः तेन कामकारेण कामप्रेरिततयेत्यर्थः । मम फलायेदं करोमि कर्मेत्येवं फले सक्तो निबध्यते । अतस्त्वं युक्तो भवेत्यर्थः ॥ १२ ॥ सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देहे नैव कुर्वन्न कारयन् ॥ १३ ॥ यस्तु परमार्थदर्शी सः, सर्वेति । सर्वाणि कर्माणि सर्वकर्माणि मनसा सन्न्यस्य परि- त्यज्य नित्य नैमित्तिकं काम्यं प्रतिषिद्धं च सर्वकर्माणि तानि मनसा विवेकबुद्धया कर्मादा- वकर्मदर्शनेन सन्त्यज्येत्यर्थः । आस्ते तिष्ठति सुखं त्यक्तवाङ्मनः कायचेष्टो निरायासः प्रसन्न- चित्त आत्मनोन्यत्र निवृत्तसर्वबाह्यप्रयोजन इति सुखमास्त इत्युच्यते । वशी जितेन्द्रिय इत्यर्थः । क आस्त इत्याह-नवद्वारे पुरे देहे सप्त शीर्षण्यान्यात्मनः उपलब्धिद्वाराणि, सिद्धिरत आह- सच्चशुद्धीति । कर्मयोगात्सत्त्वशुद्धिः, ततः परोक्षज्ञानप्राप्तिः, ततस्सर्वकर्म सन्न्यासः, ततोऽपरोक्षज्ञाननिष्ठा, ततो विदेहकैवल्यात्मको मोक्ष इत्यर्थः । वाक्यशेष इति । येनार्थः परिसमा- प्यते पदेनाहार्येण स वाक्यशेष इत्युच्यते । असमाहित इति । फलाशाविक्षिप्तचित्त इत्यर्थः । काम- कारः कामस्य शायाः कारः करणं कामकारः तेन फलाशायुक्तत्वेनेत्यर्थः । निबध्यते कर्मभिर्जन्मादि- रूपं संसारं प्राप्यत इत्यर्थः । किमनेन श्लोकेनोपदिष्टमर्जुनायेत्यत आह-अत इति । योगेन मुक्तिसत्त्वादयोगेन बन्धसत्त्वाचेत्यर्थः । त्वमिति मुक्तिकाम इत्यर्थः ॥ १२ ॥ सर्वेति । युक्त इत्यनेन पूर्वश्लोकस्य योगिपरत्वनिश्चयात्सन्न्यस्येत्यनेनास्य श्लोकस्य साङ्ख्य- परत्वनिश्चयाच्च साङ्ख्ययोगयोरुभयोरेक पुरुषाननुष्ठेयत्वादाह - यस्तु परमार्थदर्शी स इति । सर्वकर्माणि मनसा सन्न्यस्य वशीसन्, नैव कुर्वन् न कारयंश्च सन् नवद्वारे पुरे देहे सुखमास्ते । मनसेति न करणे तृतीया - कर्मत्यागं प्रति मनसोऽकरणत्वात् अत आह— विवेकबुद्धयेति । मनश्शब्दोत्र स्ववृत्तिरूपविवेकज्ञानं लक्षणया बोधयतीति भावः । ततश्च हेतौ तृतीयेति बोध्यम् । मनःपूर्वकत्वा- द्वाकायचेष्टयोस्ताभ्यामपि मनस आयासो भवेदिति कृत्वा आह— त्यक्तवामनः कायचेष्ट इति । वावचेष्टा भाषण, मनश्वष्टा आलोचनं, कायचेष्टा गमनादिकम् । प्रसन्नं शान्तं चित्तं यस्य स प्रसन्नचित्तः आत्मनोन्यत्र - आत्मभिन्नेषु सर्वेषु बाह्येषु विषयेषु प्रयोजनं यस्य निवृत्तं स निवृत्त सर्वबाद्यप्रयोजनः । अथवा निवृत्तानि सर्वाणि बाह्यानि प्रयोजनानि यस्य स तथोक्त:- आत्मैकप्रयोजन इति यावत् । . नव द्वाराणि यस्य तत् नवद्वारं तस्मिन् नवद्वारे, नवद्वाराण्याह– सप्तेति । आत्मनः पुरुषस्य शीर्षण्यानि शिरोगतानि उपलब्धिद्वाराणि शब्दादिज्ञानसाधनानि सप्त श्रोत्रे चक्षुषी नासे वक्त्रं चेति, अर्वागधोभागे मूत्रपुरीषयोर्विसर्गरत्यागः अर्थः प्रयोजनं कार्य वा ययोस्ते द्वे द्वारे इति शेषः । मिलित्वा नवद्वाराणीति भावः । ३२० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अर्वा मूत्रपुरीषविसर्गार्थे, तैर्द्वारैर्नवद्वारं पुरमुच्यते शरीरं पुरमिव पुरमात्मैकस्वामिकं तदर्थ- प्रयोजनैथेन्द्रियमनोबुद्धिविषयैरनेकफल विज्ञानस्योत्पादकैः पौरैरिवाधिष्ठितं तस्मिन् नवद्वारे पुरे देहे सर्व कर्म सन्न्यस्य आस्ते । किं विशेषणेन ? सर्वोपि देही सन्न्यास्य सन्न्यासी वा देह एवास्ते, तत्रानर्थकं विशेषण- मिति, उच्यते - यस्त्वज्ञो देही देहेन्द्रिय सङ्घातमात्रात्मदर्शी स सर्वो गेहे भूमावासने वा आस इति मन्यते - नहि देहमात्रात्मदर्शिनो गेह इव देहे आस इति प्रत्ययस्सम्भवति, देहादि- सङ्घातव्यतिरिक्तात्मदर्शिनस्तु देहे आस इति प्रत्यय उपपद्यते - परकर्मणां च परस्मि- नात्मन्यविद्ययाध्यारोपितानां विद्यया विवेकज्ञानेन मनसा सन्न्यास उपपद्यते - उत्पन्नविवेक- कथं शरीरस्य नवद्वारपुरत्वं, तद्धि पत्तनधर्मः अत आह— पुरमिव पुरमिति गौणोयं प्रयोगः । सिंहो माणवक इतिवत्पुरे देहे इति । यथा पुरस्य नवद्वारत्वं तथा देहस्यापीति साम्यं स्फुटम् । कोस्य देहपत्तनस्य स्वामी अत आह— आत्मेति । आत्मा एक एव स्वामी यस्य तत् आत्मैकस्वामिकं । ननु पुरे पौरास्सन्ति, अत्र देहे तु के पुनः पौरस्थानीया अत आह—तदर्थेत्यादि । तस्मै आत्मने इदं तदर्थं प्रयोजनं येषां तैस्तदर्थप्रयोजनैः अनेकेषां फलानां विज्ञानस्य अनेकफलस्य विविधज्ञानस्येति वा उत्पादकैः । इन्द्रियमनोबुद्धयः विषयाश्च तैरेव पौरैरधिष्ठितम् । ननु देहे सर्व कर्म सन्न्यस्यास्ते इति विशेषणेन विशेषवचनेन किम् ? इति शङ्कते - किमिति । कुतो विशेषणस्य वैयर्थ्यमत आह— सर्व इति । यथा सन्न्यासी देहे आस्ते, तथा असन्न्यास्यपि देहे वास्ते तत्रैवसति देहे इति विशेषणमनर्थकमिति प्रश्नः । 1 उत्तरमाह - यस्त्विति । कोसावज्ञोऽत आह— देहेति । देहेन्द्रियसङ्घातरूपमेवात्मानं पश्यति, नतु तद्भिन्नं यस्सोऽयमज्ञः । आसे तिष्ठामि । कुतस्तथा मन्यते अत आह— नहीति । यो देह- मेवात्मानं मन्यते सहि यत्र देह आस्ते तत्रैवाहमास इति मन्यते देहस्यैवात्मत्वात् । देहश्च भूम्यादिषु वर्तते न तु देहे - अधाराधेयभावस्य द्विनिष्ठत्वेन एकस्यैव देहस्य आधारत्वमाधेयत्वं च न सम्भवतीति । तस्मात्प्राज्ञ एव देहे आस इति मन्यते न त्वज्ञः । ततश्च न सर्वसाधारण्येन देहिनो देहे आसन मिति कृत्वा अज्ञव्यावृत्त्यर्थं अज्ञाभिमतभूम्याद्यासनव्यावृत्त्यर्थं वा विशेषणस्यावश्यकत्वान्न वैयर्थ्यशङ्का - सन्यासश्च ज्ञान्येकाश्रय इति युक्तं सन्न्यासिनो देहे आसनमिति भावः । ननु त्यागस्य प्रसक्तिपूर्वकत्वादात्मनि कर्मणां प्रसक्तेरेवाभावात्कथं सन्न्यस्येत्युक्तमत आह- परकर्मणामिति । देहेन्द्रियकर्माणि परकर्माणि तान्यविद्ययाऽऽत्मन्यारोपितानीत्यज्ञानादात्मनि कर्म- प्रसङ्गः । अतो विद्यया तत्सन्न्यासोपपत्तिः । केयं विद्येत्यत आह - विवेकज्ञानेनेति । आत्मानात्म- विवेकज्ञानेनेत्यर्थः । ननु मनसा सन्न्यस्येति मूले उक्तमत आह- मनसेति । मनश्शब्दस्य विद्ये- स्वार्थ इति भावः । 1पञ्चमोऽध्यायः २२१ ज्ञानस्य सर्वकर्मसन्न्यासिनोपि गेह इव देह एव नवद्वारे पुरे आसनं प्रारब्धफल शेषसंस्का- रानुवृत्त्या देहएव विशेषविज्ञानोत्पत्तेर्देह एवास्त इत्यस्त्येव विशेषणफलं- विद्वदविद्वत्प्रत्यय- भेदापेक्षत्वात् । यद्यपि कार्यकरणकर्माण्य विद्ययात्मन्यध्यारोपितानि सन्न्यस्यति, तथापि कृत- सन्न्यासस्यात्मसमवायि तु कर्तत्वं कारयितृत्वं च स्यादित्याशङ्कयाह – नैव कुर्वन् स्वयं च नच कार्य करणानि कारयन् क्रियासु न प्रवर्तयन् । ननु यस्तत्त्ववित्तस्य कथमतत्त्वविद इव देहे स्थितिरुपपद्यते प्रत्युत देहत्यागाद्ब्रह्मणि स्थिति- रेवोचितेत्यत आह-उत्पन्नेति । यथाऽनुत्पन्नविवेकः पुरुषः यावत्प्रारब्धावसानं देहमत्यजन्नेव गेहे आस्ते तथा विवेक्यपि प्रारब्धफलशेष संस्कारानुवृत्त्या देहे एवास्ते । प्रारब्धं कर्मविशेषः तत्फलं शरीर- भोगादिः तस्य शेषः तस्य संस्कारः तस्यानुवृत्तिः तया यावत्प्रारब्धावसानं विवेक्यपि देहे आस्ते इत्यर्थः । यद्वा ननु य आत्मवित्स हि सर्वत्र वर्तते, सर्व चात्मनि तस्मिन्वर्तत इति कृत्वा आत्मवि- स्पुमान् देहे एवास इति नैव मन्येत, किंतु सर्वत्रास इत्येव मन्येत इत्यत आह-उत्पन्नेति । याव स्मारब्धावसानं विवेक्यपि देहे आस इति मन्यत इत्यर्थः । सर्वकर्मसन्न्यासिनोपि प्रारब्धफलशेष- संस्कारानुवृत्त्या देह एवासनं सम्भवतीति शेष इत्यन्वयः ।
हेत्वन्तरमाह - देह एवेति । स्थूलसूक्ष्मकारणात्मना देह स्त्रिविध:- तत्र सूक्ष्मदेहस्य प्रधानाङ्ग मनः, तस्मिन्मनोमये देहेएव विशेषविज्ञानस्योत्पत्तेर्हेतोर्देह एवास्त इत्युक्तं, विवेकी अन्तर्मुखत्वा- न्मनस्येवात्मानमनुसन्धत्त इति मनस्येवास्त इति भावः । यद्वा श्वादिदेहेषु विशेषविज्ञानाभावान्मनुष्यदेहे एव तत्सद्भावाद्विशेषविज्ञानोत्पत्तिहेतावस्मिन् देहे वर्तमानोहं तत्त्वविदासमिति कृत्वा देह एवास इति तत्त्वविन्मन्यत इत्यर्थः । अथवा संस्कारानुवृत्त्या हेतुना देह एव विशेषविज्ञानस्य अवस्थानविषयज्ञानस्योत्पते हैतो- रित्येकएव हेतुर्विदुषो देह आसनस्य । फलसत्त्वे हेतुमाह - विद्वदिति । विदुषो देह आस इति प्रत्ययः, अविदुषस्तु भूम्यादावास इति प्रत्यय इति विबेकः । एतावता श्लोकस्य पादत्रयं व्याख्यातमथ तुरीयपादं व्याख्यातुमाक्षेपसङ्गतिमाह – यद्यपीति । अविद्ययाऽऽत्मन्यध्यस्तानां कर्मणां सन्न्यासो विद्ययोपपद्यत इत्युक्तं, स सन्न्यासो न कर्मणां परित्याग- रूपः, किंतु नात्मनि कर्माणि सन्ति देहेन्द्रियादिसङ्घात एवेत्यनुसन्धानमेव विद्यया सन्न्यस्येत्युक्त - स्वात् । ततश्च देहाद्याश्रयदर्शनादिकर्मयत्त्वात्तत्कर्तृत्वमात्मनि समवैति – आत्मसमवेतस्यैव देहेन्द्रिय- सङ्घातस्य कर्मदर्शनात् । तथा अन्तर्यामिण आत्मनस्सङ्घातप्रेरकत्वात्कारकत्वमप्यात्मनि समवैति देहादीनां पारतन्त्र्यदर्शनात् । तस्मादात्मा स्वयमकर्तापि देहादिभिः कर्म करोति, अथवा कारयतीति कृत्वा कथं सन्न्यासिनः कर्माभाव इत्यत आह भगवान्नैव कुर्वन्न कारयन्त्रितीत्यर्थः । स्वयं कुर्वन्तीति । देहादिभिः करणैरात्मा न कर्म करोति । देहादिभिः प्रयोज्यकर्तृभिर्वा २२२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु किं यत्तत्कर्तृत्वं कारयितृत्वं च देहिनः स्वात्मसमवायिसत्सन्न्यासान्न भवति यथा गच्छतो गतिः, किंवा स्वत एवात्मनो नास्तीति ? अत्रोच्यते - नास्त्यात्मनः स्वतः कर्तत्वं कारयितृत्वं चोक्तं ‘ह्यविकार्योंयमुच्यते, शरीरस्थोपि कौन्तेय न करोति न लिप्यत’ इति, ‘ध्यायतीव लेलायती वे ‘ति च श्रुतेः ॥ १३ ॥ न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥ किंच, नेति । न कर्तृत्वं स्वयं कुर्विति, नापि कर्माणि रथघटप्रासादादीनि ईप्सित- तमानि लोकस्य सृजति उत्पादयति प्रभुरात्मा, नापि रथादि कृतवतस्तत्फलेन संयोग कर्म- फ़लसंयोगमुत्पादयति । यदि विचिदपि स्वयं न करोति न कारयति च देही कस्तर्हि कुर्वन् कारयश्च प्रवर्तत इत्युच्यते - स्वभावस्तु स्वो भावः स्वभावः अविद्यालक्षणा प्रकृतिर्माया प्रवर्तते ‘दैवी ह्येषा गुणमयी ति वक्ष्यमाणा ॥ १४ ॥
न कर्म कारयतीत्यर्थः । न कर्ता नापि कारक आत्मेति यावत् । विद्यया सर्व कर्म सन्न्यासादिति भावः । अत्र शङ्कते किमिति । गच्छतो गतिरिव देहिनस्स्वात्मसमवायिसद्यत्कर्तृत्वं कारयितृत्व चास्ति, तत्सन्न्यासान्न भवतीति किमित्यन्वयः । आत्मसमवेतयोः कर्तृत्व कारकत्वयोः किं सन्न्यासा - चिवृत्तिः ? उत आत्मनि कर्तृत्व कारकत्वयोस्समवेतत्वमेव नास्तीति ? आधे- पृथिव्यां समवायसम्बन्धेन वर्तमानस्य गन्धस्य यथा पृथिवीनाश बिना न नाशः, तथा आत्मसमवेतस्य कर्तृत्वादेरात्मनाशं विना न नाशः, तथा च विद्यया सन्न्यासेन वा नात्मसमवेतयोः कर्तुत्वकारकत्वयोर्निवृत्तिरुपपद्यते । ततो द्वितीयमाश्रित्योत्तरमाह - अत्रोच्यत इति, स्वत इति । समवायेनेत्यर्थः । नतु भ्रान्त्यैवेति भावः । कुतो नास्तीत्यत आह- अविकार्य इति । अविकार्ये आत्मनि कर्तृत्वादि- विकारायोगादिति भावः । गीतावाक्ये प्रमाणत्वेनोपन्यस्य श्रुतिमुपन्यस्यति - ध्यायती वेति । बुद्धौ अध्यायन्त्यामात्मा ध्यायतीव प्रतिभाति, बुद्धौ चलन्त्यामात्मा लेलायति चलतीव इति । तस्माद्गच्छति पुरुषे गतिरिव आत्मनि कर्तृत्वादिर्न समतीत्युपपद्यते कर्माभावस्सन्न्यासिनः ।
यत्तु रामानुजः कर्माणि देहे सन्न्यस्येति, तद्वेदाविनाशिनमिति श्लोकभाष्ये भाष्यकारैरेव प्रत्याख्यातम् । सम्पूर्वस्य न्यासस्य त्यागार्थकत्वेन निक्षेपार्थकत्वायोगादित्यादिना ॥१.३॥ नेति । प्रभुः लोकस्य कर्तृत्वं न सृजति, कर्माणि न सृजति, कर्मफलसंयोग न सृजति, स्वभा- वस्तुः प्रवर्तते प्रभुरीश्वर आत्मा ईश्वरस्यैवात्मत्वात् । लोको देहेन्द्रियादिसङ्घातः लोक्यते दृश्यते ज्ञायत इति लोक इति व्युत्पत्तेः । कर्तृत्वं न सृजति नोत्पादयति, स्वमिदं कुर्विति लोकं न प्रवर्त- पति कर्म स्वित्यर्थः । लोकेन न कारयतीति यावत् । नैव कुर्वन्न कारयन्नित्यस्यैवार्थस्य सुबोधत्वाय भ ङ्गयन्तरेणोपपादनमिदमिति, न पुनरुक्तिः । प्रवर्तते कुर्वन् कारयश्च सन्निति शेषः । लोकस्य कर्तत्वादिकं सृजन् सन्निति वा खभावस्यैवं प्रवृत्तत्वे प्रमाणमाह- दैवीति । ‘दैवी ह्येषा गुणमयी मम माया
पञ्चमोऽध्यायः । नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥
२२.३.. परमार्थतस्तु, नेति । नादत्ते न गृह्णाति भक्तस्य कस्यचिदपि पाप नचैवादत्ते, सुकृत दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति सप्तमाध्याये वक्ष्यते । अथवा स्वभावस्य मायत्वे प्रमाणमाह - दैवीति । देवस्य विष्णोरीश्वरस्यात्मनः स्वभावः दैवीति- वक्ष्यमाणत्वादित्यर्थः । अत्र स्वभावः वासनेति रामानुजः, तत्तुच्छम् - असङ्गस्यात्मनः प्रकृतिसंसर्गस्यैवासम्भवेन तत्कृतदेहाद्यात्माभिमानजनितवासनाया दूरापास्तत्वात् । निर्धर्मकपरमानन्दबोधस्वरूपे आत्मनि देहा- द्यात्माभिमानस्य तत्कृतवासनाया वा स्थातुमयुक्तत्वात् इति ॥ १४ ॥
नादत्त इति । स्वभावस्तु प्रवर्तते इति मायिकस्य कार्यस्योक्तत्वादाह - परमार्थतस्त्विति । तशब्दो वैलक्षण्यार्थः । न पुनः स्वभावत इति तदर्थः । विभुः कस्यचित्पापं नादते, कस्यचित्सुकृतं च नैवादत्ते, अज्ञानेन ज्ञानमावृतं तेन जन्तवो मुह्यन्ति । यो हि ब्रह्महत्यादिमहापातकापनुत्तये जन्मान्तरसञ्चितपापापनुत्तये वा भगवति भक्ति तनोति तस्य भक्तस्य पापं विभुरीश्वर आत्मा नादत्ते, यश्चश्वरार्पणबुद्धया यज्ञदानजपादिकर्माणि करोति तस्य यज्ञादिकर्मजन्यं सुकृतमपि नादत्ते न स्वीकरोति - असङ्गस्यात्मनः पुण्यपापसम्बन्धाभावात् । सति तु पुण्यपापसम्बन्धे धर्माधर्मवश्यत्वेनेश्वरत्वस्यैव व्याघातात् इत्याह- नादत्ते न गृह्णातीत्यादि प्रयुक्तं दत्त समर्पितमिति यावत् । नच भक्ता ईश्वराय विष्णवे शिवायान्याय दैवताय वा सुकृतादितं समर्पयन्ति, न त्वात्मन इति वाच्यं, ‘आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छती’ ति स्मरणाच्छिवादिदेवतान्तरसमर्पितमपि सुकृतादिकमात्मानमेव प्राप्नोति । नच केशवमिति विष्णुपर्यायदर्शनात् शिवादिदेवतान्तरसमर्पितस्य विष्णुगामित्वमेव, न त्वात्म* गामित्वमिति वाच्यं विष्णोरेवात्मत्वात् । नच विष्णुरपि शिवादिवदनात्मैवेति वाच्यं शिवादेरना- त्मत्वस्यैवासिद्धेः । नच त्र्यक्षत्वादिधर्म विशिष्टानां शिवादीनां कथमात्मत्वमिति वाच्यं चतुर्भुजत्वादिधर्म- विशिष्टविष्णावपीदं चोद्यं समानम् । नचैवं शिवविष्ण्वादयः सर्वेप्यनात्मान एवेति वाच्यं देहबुद्धचा अनात्मत्वेपि अन्तर्यामिबुद्धया आत्मत्वात् । तस्माच्छिवादिबुद्धया समर्पितमपि सर्वं शिवादिदेह- स्थितात्मसमर्पितमेव भवति । यस्तु शिवादिदेहस्थित आत्मा स एवं भक्तदेहस्थितोपीति युक्तमुक्त- मात्मने समर्पयन्तीति । अत एवाकाशात्पतितमिति स्मृतिश्च सङ्गच्छते, कथमन्यधा देहान्तरसमर्पित वस्तु देहान्तरगामि भवेत्, येन शिवाद्यर्पितं वस्तु विष्ण्वर्पितं भवतीत्युच्येत । नच केशवपदं चतुर्भुजत्वादिविशिष्टविग्रह विशेषपरमिति वाच्यं क आत्मा को ब्रह्मात्मेति कोशात् ईशः प्रभुः वाति गच्छति जानातीति वः वातेर्ड: द्रष्टेत्यर्थः । कश्चासावीशः केशः केशश्वासी. बश्च केशव इति व्युत्पत्त्या आत्मपरत्वात् केशवशब्दस्य । नच योगा ढिर्बलीयसीति यौगिको योगरूढोर्थ एवं बलवानिति वाच्यं, बलवत्त्वेपि तस्यार्थस्येहानन्वयेनोपेक्ष्यत्वात् । २२४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु भक्तैः प्रयुक्तं विभुः । किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादि सुकृतं प्रयुज्यत इत्याह- अज्ञानेनावृतं ज्ञानं विवेकज्ञानं तेन मुह्यन्ति - करोमि कारयामि भोक्ष्ये भोजयामी- त्येव मोहं गच्छन्त्यविवेकिनस्समारिणो जन्तवः ||१५|| ननु यद्ययमात्मा नादत्ते कस्यचित्पापं नचव सुकृतं तर्हि ईश्वरार्पणमस्त्विति कथं स्वानुष्ठित- यागादिसुकृतस्येश्वरे प्रयोगो भक्तानाम् ? कथं वेधरस्य पूजादिकमिति शङ्कते — किमर्थमिति । प्रयुज्यते समर्प्यते । अज्ञानमविद्या न तु ज्ञानाभावः – तस्यावरणत्वायोगात् । आवरणं हि भावकार्य– यथा घटाद्यावरणं तमः भावरूपं तद्वत् । न च तमोपि तेजोभाव एवेति वाच्यं तमसि तम इत्येव सर्वः प्रत्येति, नतु तेजोभाव इति कृत्वा सर्वलोकव्यवहारविरोधात् । आवृतं नाशितमित्यर्थः । अथवा ज्ञानं बुद्धिरित्यर्थः । आवृतं छादितं मलेन दर्पणमिवेति भावः । तेन ज्ञानस्याज्ञानावृतत्वेन हेतुना करोमि अहँ पूजादिकमिति शेषः । कारयामि अहं पूजादिकं पुत्रादिनेति शेषः । भोक्ष्ये अह- मन्नादिकमिति शेषः । भोजयामि। अहमन्नादिकमतिथ्यादिनेति शेषः । अत्र मत्त ईश्वरोऽन्योस्ति, स मत्पापं नाशयति, मया दत्तमल्पमपि सुकृतं गृहीत्वा मम बहु फलं दास्यतीत्याकारकोपि मोहो ज्ञेयः । एतन्मोहप्रयुक्तत्वादेव कर्मणां कर्तृत्वस्य कारयितृत्वस्य च ईश्वरादात्मनि भेदमे सत्येव कर्ताहं कारकोहं भोक्ताहं फलदाता त्वीश्वर इत्यादिभ्रमसम्भवात् । तस्मादात्मानात्मविवेकशून्या एवैते य ईश्वरार्थमपि कर्माण्यनुतिष्ठन्तीत्याह – अविवेकिन इति । अत एवैते जन्ममरणादिलक्षणं संसारं प्राप्नुवन्तीत्याह - संसारिण इति । जायन्ते पुनः पुनरुत्पद्यन्ते अविवेकव शादिति जन्तव इति व्युत्पत्तेरिति भावः ।
यत्तु रामानुजः - नादत्ते नापनुदति अज्ञानेन प्राचीन कर्मणास्य ज्ञानमावृतं संकुचितं तेना- ज्ञानेनेति, तत्तुच्छम् — आदानस्य अपनोदना भेदानौचित्यात् आदानापनोदनयोर्भिन्न क्रियात्वात् । आदत्त इत्यस्यापनोदनार्थकत्वस्य व्याकरणकोशा दिविरुद्धत्वात् आत्मज्ञानस्य सर्वपुण्यपापतूला ग्नित्वस्य ज्ञानाग्नि- दग्धकर्माणमित्यनेनोक्तत्वादात्मनस्सुखदु: खापनोदनसम्भवाच्च । तथा पुत्रादेः पापं दुःखं च नादत्त इत्य- प्ययुक्तम् - पुत्रादेरात्मत्वादात्मनि च पापाद्ययोगात् । यदि पुत्रादिस्सङ्घात इति मर्त, तर्हि तस्य सङ्घातस्य आत्मसम्बन्धित्वमेव नास्तीति कथमुक्तं स्वसम्बन्धितया भिमतस्य पुत्रा देरिति । ननु सङ्घातो न स्वसम्बन्धी, किंतु तथाभिमत इतिचेन्नैतदपि युज्यते - स्वप्रभे निर्विशेषे आत्म- न्यभिमानायोगात् । यस्तु ममायं पुत्रोहमन्यः पितेत्यभिमन्यते, सहि सङ्घात एव । नच सङ्घातस्या- चेतनस्य कथमभिमान इति वाच्यं तत्र चिदाभाससत्त्वात् कथमन्यथा अन्तःकरणस्य केवलस्य सङ्क- ल्यादिव्यापार उपपद्येत ? य एवं पुत्रादिकं स्वसम्बन्धिनं मन्यते स पुत्रादेर्दुःखं यथाशक्त्यपनुदत्येवेति कथमुक्तं नापनुदतीति । तथा रावणादिर्देहादिसङ्घ तो रामादेः प्रतिकूलस्य देहादिसङ्घातस्य भार्यापहारादिना सुखमप- नुनोदैवेति कथमुक्तं प्रतिकूलतया भिमतस्य सुखं नापनुदतीति । तथा अज्ञानशब्दस्य कर्मार्थकत्वमप्यनुप- २९ पञ्चमोऽध्यायः ।
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
[[२२५]]
ज्ञानेनेति । ज्ञानेन तु येनाज्ञानेनावृता मुह्यन्ति जन्तवस्तदज्ञानं येषां जन्तूनां विवेक- ज्ञानेनात्मविषयेण नाशितमात्मनो भवति, तेषां जन्तूनामादित्यवद्यथादित्यः समस्तं वस्तुजात- मवभासयति, तद्वत् ज्ञानं ज्ञेयं वस्तु सर्व प्रकाशयति तत्परं परमार्थतत्त्वम् ॥ १६॥
पन्नमज्ञानकर्मणोः कार्यकारणभावेन भेदात् । यदि ज्ञानविरोधिकर्माज्ञानशब्देन विवक्षितं तर्हि, मूलकर्ता कर्मणेत्येव ब्रूयान्न त्वज्ञानेनेति ।
कर्मणो ज्ञानावरणत्वं चानुपपन्नम् अद्रव्यात्वात्कर्मणः, आवरणस्य च द्रव्यकार्यत्वात् । ननु कर्मणा ज्ञानस्यावरणं नाम कर्मणा हेतुना ज्ञानस्य संकोच इत्यर्थः इति चेन्मैवमपि ज्ञानावरणरूपेण कर्मणेति त्वयोच्यमानत्वात् - नहि कर्मणो ज्ञानसंकोचनं स्वरूपं, किंतु गुण एव । नच कर्मापि गुण एवेति वाच्यं, गुणकर्मणोर्भेदात् । नच पुण्यापुण्यसंस्काररूपमिदं कर्म गुण एवेति वाच्यं तादृशस्य गुणस्य संस्काररूपत्वेन ज्ञानावरणरूपत्वाभावात् ।
किंच न कर्मणो ज्ञानविरोधित्वमपि युक्तं- कर्मणो ज्ञानोपायत्वात् । नच यद्ज्ञानविरोधि कर्म तदेवेह गृह्यत इति वाच्यं, अज्ञानशब्दस्य ज्ञानविरोधिवस्तुमात्रोपस्थापनक्षत्रत्वेन ज्ञानविरोधिवस्तु- विशेषाबोधकत्वात् सति ज्ञानविरोधितया प्रत्यक्षे अज्ञाने मायारूये तद्विहायान्यार्थ बोधनस्यासम्भवात् । नासुरशब्दो राक्षसान्विहायान्यान्बोधयितुमीष्टे । तस्मात् नञो विरोधार्थमभ्युपेत्य न ज्ञानमज्ञानं ज्ञानविरोधीत्यर्थस्य वचनेपि तादृशमज्ञानं मायैव भवितुमर्हति तस्या एव तथात्वात् ।
नहि कर्म वा अन्यद्वा एकान्तेन ज्ञानविरोधि - यज्ञादिकर्मणां गुरुशास्त्रादिद्वैतस्य च ज्ञानोपायत्वेन ज्ञानाविरोधदर्शनात् । तथा तेनेत्यस्य प्रकृतवाक्यार्थपरामर्श न्याय्यं विहाय अज्ञानेनेत्यर्थकल्पनं चान्याय्य, अज्ञानं ज्ञानावरण- द्वारैव मोहयति नतु साक्षादिति कृत्वा अज्ञानेन मुह्यन्तीति वचनं पुनरयुक्तम् । इति ॥ १५ ॥
ज्ञानेनेति । येषां तु तद् आत्मनोऽज्ञानं ज्ञानेन नाशितं
यद्वा येषां तु तद् अज्ञानम् आत्मनो ज्ञानेन नाशितं,
अथवा येषां तु तदात्मनो ऽज्ञानम् आत्मनो ज्ञानेन नाशितम् ।
तेषां ज्ञानम् आदित्यवत् तत्-परं प्रकाशयति ।
आत्मनः स्वस्याज्ञानं स्व-स्व-रूपावरकम् अज्ञानमित्यर्थः ।
स्वविवेकज्ञानावरकमिति वा ।
ज्ञानेन विद्यया आत्म-विषय-ज्ञानेनेत्य् अर्थः ।
नाशितम् । द्वितीययोजनायां तु येषां तत्पूर्वोक्तमज्ञानं येन ज्ञानमावृतं तदित्यर्थः । आत्मनो ज्ञानेन अहं ब्रह्मास्मीत्याकारकस्वस्वरूपज्ञानेन आत्मविषयज्ञानेनेति यावत् ।
नाशितम् । तृतीययोजनायां तु आत्मस्वरूपावरकमज्ञानमात्मस्वरूपज्ञानेन नाशितमिति आत्मविषय- ज्ञानेनात्मविषयाज्ञानं नाशितमिति चार्थः । 1 भाष्ये - तृतीययोजनानुसारेणैवात्मशब्दस्यावृत्तिमभिप्रेत्योक्तं- विवेकज्ञानेनात्मविषयेण नाशित- मात्मनो भवतीति । तदज्ञानमिति कर्तृपदं पूर्वमेवोक्तम् । आत्मनस्तदज्ञानमित्यन्वयः । ज्ञायतेनेनेति ज्ञानम् । ज्ञेयं वस्तु चात्रात्मैव । सर्वमिति । साकल्येनेत्यर्थः । अथवा ज्ञेयं सर्व वस्तु ब्रह्मैव– २२६ श्रीभगवद्गीतासु - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सर्वस्य ब्रह्मत्वात् । नच कथं ब्रह्मणः परमार्थतत्त्वस्य द्रष्टुज्ञेयत्वमिति वाच्यं, अध्यस्तत्वाद्ज्ञेयत्वस्य तस्मिन् परमार्थतस्तु ज्ञातृज्ञानतत्करणानामभावात्कथं ज्ञेयत्वं ब्रह्मणः स्यात् ।
ननु ज्ञानं तत्प्रकाशयतीत्ययुक्तम्- - प्रकाशात्मकस्य ज्ञानस्य प्रकाशकत्वायोगात्, आत्मनैव सर्वस्य भास्यमानत्वाच्च- ‘तस्य भासा सर्वमिदं विभाती ‘ति श्रुतेः । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ त्यात्मन एव ज्ञानस्वरूपत्वाच्चतिचेत्, मैवम् — सर्वावभासक चैतन्यरूपमप्यात्मानमविद्याऽऽनृत्य वर्तते । अविद्यात्मनो - रविरोधादात्मनैवाविद्यया भास्यमानत्वाच्च । तस्याश्चाविद्याया विद्यैव विरोधिनी - सैव विद्येह ज्ञानशब्देन विवक्षिता - सातु बुद्धिवृत्तिरूपा, नतु प्रकाशरूपा । इयं बुद्धिवृत्तिर्विद्या आत्मावरका विद्यां नाशयति । तत आत्मप्रकाशो जायत इति ब्रह्मवस्तुप्रकाशकत्वमुक्तं विद्यायाः । तस्माच्चैतन्यभासितयैव बुद्धिवृत्त्या ज्ञानेन करणेन आत्मावर काज्ञाननाशनद्वारा आत्मा प्रकाश्यते, घटावरकाज्ञाननाशनद्वारा घट इवेति न कश्चिद्दोषः । एतेन बुद्धिवृत्तिरूपं ज्ञानं न प्रकाशात्मक, किंतु प्रकाशकरणात्मकमेव- प्रकाशात्मकं ज्ञानं तु चैतन्यमेवेति सिद्धम् ।
यत्तु रामानुजः –
तेषाम् इति विनष्टाज्ञानानां बहुत्वाभिधानाद् आत्म–स्व-रूप–बहुत्वम्
आदित्य-दृष्टान्तेन च प्रभा-प्रभावतोर् इव ज्ञातृ-ज्ञानयोर् अवस्थानम्
आत्मनो ज्ञानधर्मवत्त्वं च प्रतिपादितम् इति,
तत् तुच्छम् —
‘तेन मुद्यन्ति जन्तव’ इति पूर्वश्लोकोक्तं जन्तूनामिह तत्पदेन परामर्शात् ।
जन्तवश्च भूतानि प्राणिन एव,
न त्वात्मा - आत्मनो जन्तुत्वासम्भवात् ।
अजो ह्यात्मा ।
विश्वास-टिप्पनी
teShAm referring to something other than yeShAm of the same shloka is bizarre (as anyone with any experience with any language - let alone sanskrit - can veryify), but that’s in keeping with shankara’s prior “brilliance” in this regard - (यम् ए॑वैष वृणुते ते॒न लभ्यः मुण्डकोपनिषद् मन्त्र 3.2.3).
जायत इति जनिमांस्तु जन्तुः । यदि जन्तव इत्यनेनापि आत्मान एव लक्षणया विवक्षिता इत्युच्येत, तर्हि महदनिष्टं यदात्मनस्स्वप्रभस्यापि मोहः ! मोहादयो धन्तःकरणधर्माः । अथ यद्यन्तःकरणतादात्म्याभिमानादात्मनो मोह इत्युच्यते, तहींमे जन्तवः न निरुपाधिकात्म- भूताः, किंतु सोपाधिका एवेति सिद्धम् । अन्तःकरणाद्युपाधिकृतमात्मबहुत्वमस्माकमिष्टमेव । एवं सोपाधिकानां जन्तूनामात्मनां मोह इत्युक्त्वा तेषामिति तच्छब्दपरामृष्टानां तज्जन्तूनां कथमकमा - दुच्यते निरुपाधिकत्वम् ? नच विनष्टाज्ञानानामुपाधिगन्धाभाव इति वाच्यं, अज्ञानविनाशमात्रेण तत्कार्यभूतान्तः करणा- द्युपाधिस्वरूपनाशाभावात् । नच वस्तुत उपाध्यभावादज्ञानादेवोपाधिसम्भवादज्ञाननाशे कुत उपाध्यनाश इति वाच्यं, अस्य वचनस्य परमार्थविषयत्वाभावात् । परमार्थतोऽज्ञानस्यैवाभावात्कथमुच्येताज्ञान ज्ञानेन नाशितमिति । ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थतेति कैवल्योपनिषछु तेः । तस्मादुपाधिभेदादेव तेषामिति बहुत्वसिद्धेः आत्म बहुत्वकल्पन गौरवादप्रमाणत्वा चोपेक्ष्यम् । तथा निर्धर्मके आत्मनि ज्ञानधर्मकल्पनमप्ययुक्तं वृत्तिरूपं हीदं ज्ञानमन्तःकरणधर्गः, न त्वात्म- धर्मः । अन्तःकरणक्षये वृत्त्यदर्शनात् । नच तस्य भासेति श्रुत्या ज्ञानस्यात्मधर्मत्वमिति वाच्यं, होशिर इति वदौपचारिक भेदवादात् । आत्मस्वरूपभूतज्ञानेनेति तदर्थात् । यद्यत्मा ज्ञानवान् स्यातहिं ज्ञानमान्तरं स्यादात्मनः पृथिव्या गन्थ इव । तच्चानिष्टमात्मनस्सर्वान्तरत्वविरोधात् । पञ्चमोऽध्यायः तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ||१७|| २२७ तबुद्धय इति । यत्परं ज्ञानप्रकाशितं तस्मिन्ब्रह्मणि गता बुद्धिर्येषां ते तद्बुद्धयः तदात्मानः तदेव परं ब्रह्मात्मा येषां ते तदात्मानः- तन्निष्ठा निष्ठा अभिनिवेशस्तात्पर्य सर्वाणि: कर्माणि सन्न्यस्य तस्मिन् ब्रह्मण्येवावस्थानं येषां ते तन्निष्ठाः- तत्परायणाश्च तदेव परमयनं परा गतिर्येषां भवति ते तत्परायणा:- केवलात्मरता इत्यर्थः । ते गच्छन्ति एवंविधा अपुन- रावृत्ति अपुनर्देहसम्बन्ध - ज्ञाननिर्धूतकल्मषाः यथोक्तेन ज्ञानेन निर्धूतो निर्हतो नाशितः कल्मषः पापादिसंसरणकारणदोषो येषां ते ज्ञाननिर्धूतकल्मषा यतय इत्यर्थः ॥ १७ ॥ ननु नात्मा सर्वान्तरः, किं तु परमात्मैव - ‘य आत्मानमन्तरो यमयतीति श्रुतेरिति वाच्यं, आत्मानं प्रमातारं यः कूटस्थ आत्मान्तरो यमयतीति तछु त्यर्थात् । कूटस्थस्य साक्षिण आत्मनोऽ- न्यस्यादर्शनात्साक्षीचेतेति श्रुत्या परमात्मन एव साक्षित्ववचनाच्च नात्मनोन्यः परमात्मा, किं त्वात्मैव । नच ’ कूटस्थोऽक्षर उच्यते, उत्तमः पुरुषस्त्वन्य’ इति वक्ष्यत इहैव कूटस्थात्परमात्मभेद इति वाच्यं, तत्र कूटस्थशब्देन मायाया विवक्षितत्वात् । उत्तमपुरुषस्य कूटस्थादन्यत्वे अकूटस्थत्वस्य सिद्धत्वा- तद्ध्यनिष्टमनित्यत्वापत्तेः । नच ज्ञाता आत्मा कथं ज्ञानं स्यादपि तु ज्ञानवानेवेति वाच्यं त्वयाप्यात्मनो ज्ञानस्वरूप- स्याभ्युपगतत्वात् । निर्विशेषज्ञानस्य तार्किकादिभिरप्यभ्युपगतत्वात् । न च निर्विशेषज्ञाने कथ ज्ञातृत्वविशेष इति वाच्यं ज्ञातृत्वस्यापि कल्पितत्वात् । अथवा ज्ञातृत्वस्य ज्ञानानन्यत्वादिति ॥ १६ ॥ 1 तबुद्धय इति । तच्छब्दार्थमाह — यदिति । ज्ञानप्रकाशितं परमार्थतत्त्वं ब्रह्म तच्छब्दार्थः । प्रकृतत्वादिति भावः । तस्मिन् बुद्धिर्येषां ते तद्बुद्धय इति समासः । गतेति तु फलितार्थकथन स्थितेत्यर्थः । ननु तदात्मान इति व्यर्थमज्ञस्यापि तदात्मत्वाव्यभिचारादिति चेन्मैवम् - ययप्यज्ञोपि तदा- स्मैव तथापि स तथा न जानाति, प्राज्ञस्तु जानाति, अत उच्यते तदात्मेति प्राज्ञः । अहं ब्रह्म- त्यात्मज्ञानवन्त इत्यर्थः । ब्रह्मण्येवेति । न कर्मादावित्येवकारार्थः । परा गतिः परमं प्राप्यं अपुन- रावृत्ति पुनरावृत्त्यभावं मोक्षमिति यावत् । पुनरावृत्तिशब्दार्थमाह – पुनर्देहसम्बन्धमिति । यतीनां सन्न्यासिनामेव ब्रह्मनिष्ठादिसद्भावादाह - यतय इति । ननु तद्बुद्धयं इत्यादीनि चत्वारि विशेषणानि - एकार्थबोधकत्वात्पुनरुक्तानीति चेन्मैवम् - सूक्ष्मदृष्टया अर्थभेदसत्त्वात् । तथाहि तद्बुद्ध्य इत्यनेन परोक्ष्येण ब्रह्मज्ञानं, तदात्मान इत्यनेन ब्रह्मात्मापरोक्षज्ञानं, तन्निष्ठा इत्यनेन नैरन्तर्येण तत्स्वरूपानुसन्धानं, तत्परायणा इत्यनेन तद्रतिश्चाभि- हितमिति ॥१७॥ । २२८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेता सु विद्याविनयसम्पन्न ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डितास्समदर्शिनः ॥ १८ ॥ येषां ज्ञानेन नाशितमात्मनोऽज्ञानं ते पण्डिताः कथं तत्त्वं पश्यन्तीत्युच्यते — विद्येति । विद्याविनयसम्पन्न विद्या च विनयश्च विद्याविनयौ विद्या आत्मनो बोधः, विनयः उपशमः ताभ्यां विद्याविनयाभ्यां सम्पन्नो विद्वान् विनीतश्च यो ब्राह्मणः तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डितास्समदर्शिनः- विद्याविनयसम्पन्ने उत्तमे संस्कारवति ब्राह्मणे साच्चिके, मध्यमायां च राजस्यां गवि संस्काररहितायां, अथमे च केवलताम से हस्त्यादौ, सच्चादिगुणैस्तज्जैव संस्कारैस्तथा राजसैः तथा तामसैश्च संस्कारैरत्यन्तमेवासंस्पृष्टं सम- मेकमविक्रियं तद्ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः ॥ १८ ॥ हैव तैर्जितस्सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ १९॥ ‘नन्यभोज्यान्नास्ते दोषवन्त ‘स्समासमाभ्यां विषमसमे पूजात’ इति स्मृतेः । न तर्हि ते विद्येति । कथमिति कथं ते पण्डिता इत्याक्षेपः । समाधानमाह – तत्त्वं पश्यन्तीति । यतस्ते ज्ञाननाशितात्माज्ञानास्तत्त्वं पश्यन्ति, ततः पण्डिता इत्यर्थः । अयमेवार्थः श्लोकेनानेनोच्यत इत्याह- उच्यत इति । यद्वा तै पण्डितास्तत्त्वं कथं पश्यन्तीति प्रश्नः । तेषां पण्डितानां कीदृशं तत्त्वज्ञान- मित्यर्थः । तस्योत्तरमनेनोच्यत इत्याह– उच्यत इति । पण्डिता ब्राह्मणादिषु समदर्शिनो भवन्ती- त्यन्वयः । नन्वव्युत्पन्नस्य बालस्याप्यस्ति ब्राह्मणादिषु समदर्शित्वं ब्राह्मणत्वादिविवेकग्रहणसामर्थ्याभावादत आह- समं ब्रह्म द्रष्टुं शीलं येषां ते समदर्शिन इति । ननु ब्राह्मणादीनां वैषम्ये प्रत्यक्षसिद्धे कथं तत्र ब्रह्मण समत्वमत आह— सच्चादीति । सत्त्वादिगुण भेदात्तत्कृतसंस्कार भेदाच्च ब्राह्मणादिभेदो युक्तः । आत्मनस्तु तद्गुणादिस्पर्शाभावाद्भेदो न युक्त इत्यर्थः । कुतः स्पर्शाभावोत आह— अविक्रियमिति । सति तु गुणादिस्पर्शे आत्मनो विक्रिया स्यातच्चानिष्ट’ म विकार्योऽयमुच्यत’ इत्यादिप्रमाणविरोधादिति भावः । नन्वविक्रियस्याप्यात्मनः प्रतिशरीरं भिन्नत्वात्कथं समत्वमत आह- एकमिति । आत्मन- शरीरभेदप्रयुक्तो भेदो नास्ति घटादिप्रयुक्तो भेद आकाशस्येवेति भावः । एवमेकत्वादेवास्याविकि- यत्वमन्यथा सति सजातीयादिभेदे विकारित्वमेव स्यादवृक्षादिवत् - भेदो हि विकार:- तस्माद्यस्सर्वत्रा- प्येकमद्वितीयं ब्रह्मात्मानं पश्यति स एव पण्डितो न त्वन्यः । तच्च समदर्शित्वमेव पण्डितस्य तत्त्वज्ञानं न त्वन्यदिति ॥ १८ ॥ इहेति । ननु यदि ब्राह्मणादिषु सर्वत्राप्यात्मन एकत्वेन समबुद्धि: पण्डितस्य तर्हि ब्राह्म- णादिभिस्समं गवादयोपि पूज्या एव एवंविधस्यान्नभोजनं दोषावहं स्मृतिविरोधादित्याक्षिपति- पञ्चमोऽध्यायः । २३९ दोषवन्तः कथं, इहेति । इहैव जीवद्भिरेव तैस्समदर्शिभिः पण्डितैः जितः वशीकृतः सर्गो जन्म येषां साम्ये सर्वभूतेषु ब्रह्मणः समभावे स्थितं निश्चलीभूतं मनः अन्तःकरणं निर्दोषं हि, यद्यपि दोषवत्सु श्वपाकादिषु मूढैस्तदोषैर्दोषवदिव विभाव्यते, तथापि दद्दोषैरस्पृष्टमिति निर्दोषं दोषवर्जितं, हि यस्मात् नापि स्वगुणभेदभिन्नं निर्गुणत्वाच्चैतन्यस्य- वक्ष्यति च भगवान् नन्विति । अभोज्यं भोक्तुमयोग्यमन्नं येषां ते अभोज्यान्नाः यद्दत्तान्नं शिष्टानामभोज्यं ते इत्यर्थः । अत एव ते पण्डिताः दोषवन्तः भवन्तीति शेषः । समेतिस्मृतेरयमर्थ:-कुलशीलविद्यादिभिस्तुल्यस्समः तद्विपरीतोऽसमः विषमसमशब्दौ भावपरौ समाहारद्वन्द्वः । पूजातः पूजयामासनपरिचरणादिकायां विषमसमे समेन सह पूजायां विषमे वैषम्ये असमेन च समे साम्ये क्रियमाणे तदन्नमभोज्यं इति मिताक्षरा । ‘नित्यमभोज्य’ मिति सूत्रादभोज्यपद - स्यानुवृत्तिः तत्प्रकरणस्थत्वादेतत्सूत्रस्य । अन्नलाभस्तु पशुपालेति सूत्रगतभोज्यान्नशब्दगतान्नशब्दानुवृत्ते- रिति बोध्यम् । सूत्रस्यायमाशय: - यज्ञादौ विदुषां पूजासमये वेदविदो वेदविद्भिस्समं षडङ्गविदष्षडङ्गविद्भिस्ममं ब्रह्मविदो ब्रह्मविद्भिस्समं शास्त्रविदश्शास्त्रविद्भिश्च समं पूजनीया यजमानेन । तत्र यदि वेदविदष्षडङ्गविद्भि- स्समं ब्रह्मविदो वेदविद्भिस्समं षडङ्गविदशास्त्रविद्भिस्समं पूज्यन्ते, तर्हि तद्यज्ञाद्यन्नमभोज्यं, समेन वेद- विदा समं वेदविदो पूजितत्वादसमेन षडङ्गविदा समं वेदविदः पूजितत्वाच्च यजमानस्य सदोषत्वा- तद्वारा तदन्नमपि सदोषमेवेत्यमोज्यमिति । तस्मात्पण्डितेन न ब्राह्मणादिषु गवादिषु च समदृष्टिः कर्तव्येति पूर्वपक्ष: । । परिहरति — नेति । तथेत्यर्थः । ते ब्राह्मणादिषु समदर्शिनः पण्डिताः दोषवन्तो न भवन्ति । तत्र हेतुमाक्षिपति - कथमिति । प्रकृतश्लोकेन हेतुरुच्यत इत्याह- इहेति । येषां मनः साम्ये स्थितं तैरिहैव सर्गो जित: - इहैव जीवद्दशायामेवेत्यर्थः । तदेवाह - जीवद्भिरेवेति । किं तत्साम्य- मत आह— सर्वभूतेषु ब्रह्मणस्समभाव इति । सर्वभूतेष्वप्येकमेव ब्रह्मास्तीत्येवंरूपे ब्रह्मसाम्ये इत्यर्थः । स्थितं दृढमवस्थितमित्यर्थः । ननु कस्माद्ब्रह्मसाम्यविद्भिरिव सर्गो जित इत्यत आह- निर्दोषमिति । हि यस्माद्ब्रह्म निर्दोषं समं चेति । । ननु कुतो निर्दोषत्वं ब्रह्मणः सदोषश्वादिशरीरावस्थितस्य तत्संसर्गाद्दोषवत्त्वेन भाव्यत्वाच्चण्डाल- गृहस्थितब्राह्मणवदित्यत आह- यद्यपीति । तद्दोषैः श्वपाकादिदोषैः विभाव्यते ज्ञायते । श्वपाकादि- सङ्घातस्य तदन्तर्गतात्मनश्चाविवेकान्मूढाश्वपाकादीनात्मत्वेन प्रतिपद्य दुष्ट आत्मेति मन्यन्त इत्यर्थः । तथापीति । एवं मूढैर्विभावितत्वेपीत्यर्थः । तद्दोषैरस्पृष्टमिति घटादिदोषैराकाश इवेति भावः । अध्यस्त सर्पदोषै रज्जुवदिति वा । असङ्गस्य पुरुषस्य वस्तुतरशरीरसङ्गस्यैवाभावात्कुतः पुनस्तद्दोषप्रसङ्ग इति तत्त्वम् । ननु निर्दोषमपि ब्रह्म समं न भवति - गुणवत्त्वात्प्रकृतिवदित्यत आह- नापीति । यथा २३०. श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु इच्छादीनां क्षेत्रधर्मत्वमनादित्वान्निर्गुणत्वादिति च नापयन्त्या विशेषा आत्मनो भेदकास्सन्ति- प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेः । ततस्समं ब्रह्मकं च तस्माद्ब्रह्मण्येव ते स्थिताः, तस्मान्न दोषगन्धमालमपि तान् स्पृशति देहादिसङ्घातात्मदर्शनाभिमानाभावात्तेषाम् । · देहादिसङ्घातात्मदर्शनाभिमानवद्विषयं तु तत् सूत्र ‘समासमाभ्यां विषमसमे पूजात’ प्रकृतिः स्वकीयसत्त्वादिगुणभेदाद्बहुविधा न तथा ब्रह्म बहुविधं सगुणत्वाभावात् । चैतन्यात्मकस्य ब्रह्मगो निर्गुणत्वे गीतामेव प्रमाणयति – वक्ष्यति चेति । ब्रह्मणोऽनादित्वान्निर्गुणत्वाच्च इच्छादीनां न ब्रह्म- धर्मत्वं, किंतु क्षेत्रधर्मत्वमेवेति त्रयोदशा ध्याये- ’ अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् । इच्छा द्वेषस्सुखं दुःखं सङ्घातश्चेतना धृतिः ॥ एतत्क्षेत्रं समासेन सविकारमुदाहृत’ मिति वक्ष्यमाणत्वादिति भावः । ननु मास्त्वात्मनो गुणतो भेदः, विशेषतस्तु भेदो भविष्यति, नित्यद्रव्यवृत्तयो व्यावर्तका विशेषा:- यैः परमाण्वादीनां मिथो भेदस्सिद्ध्यति इति शङ्कायां किमिमे विशेषा आत्मनि स्थित्वा आत्मानं भेदयन्ति उत शरीरे स्थित्वेति विकल्प्य तत्र निर्विशेषे आत्मनि विशेषस्थित्ययोगाच्छरीरे स्थित्वेति प्राप्ते परिहरति — नापीति । आत्मनो भेदका विशेषाः प्रतिशरीरं शरीरेशरीरे न सन्ति शरीरस्यानित्यत्वाद्विशेषाणां नित्यद्रव्यवृत्तित्वाच्चेति भावः । ननु पृथिव्यादिपरमाण्वारब्धे शरीरे तन्त्वारब्धे पटे तन्तव इव परमाणवस्सन्ति, ते हि नित्य- द्रव्याणि - अतस्तत्र विशेषास्सन्त्येवेत्यत आह– तेषां सच्चे प्रमाणाभावादिति । वेदान्तमते- ब्रह्म- भिन्नस्य सर्वस्याप्यनित्यत्वेन नित्यद्रव्यस्यैवाभावात् गुणवत्त्वस्य द्रव्यलक्षणत्वेन निर्गुणे ब्रह्मणि द्रव्य- त्वाभावाश्च नित्यद्रव्यवृत्तित्वे सति व्यावर्तकत्वरूपलक्षणस्यासम्भवादप्रमाणैव विशेषकल्पना इति । विशे- षाणामभ्युपगमेपि शरीर(श्रयाणां तद्वतपरमाण्वाश्रयाणां वा तेषां शरीरभेदकत्वं परमाणुभेदकत्वं वा स्यात्, न त्वात्मभेदकत्वमन्यगत विशेषस्यान्यभेदकत्वासम्भवात् । नहि घटगताः पृथिवीपरमाणुगता वा विशेषा आकाश भेदयितुं क्षमन्ते इति तस्मान्नास्ति विशेषकृतोप्यात्मभेदः । 14 1 1 तत इति । आत्मभेदप्रयोजकाभावादित्यर्थः । सममिति । सर्वत्रैकरूपमित्यर्थः । कुत- स्समत्वमाह - एक चेति । सर्वत्राप्येकस्यैव ब्रह्मणः स्थितत्वात्समत्वमित्यर्थः । श्लोकतुरीयपादं व्याख्याति तस्मादिति । यस्मात्तेषां मनः साम्ये स्थितं तस्मादित्यर्थः । यद्वा यस्मान्निर्दोषं समं ब्रह्म तस्मादित्यर्थः । ब्रह्मणो निर्दोषत्वादित्यर्थः । ब्रह्मण्येवेति नतु दोषवत्पिण्डे इत्यर्थः । तस्मा- दिति । ब्रह्मण्येव स्थितत्वाद्ब्रह्मणश्च निर्दोषत्वादित्यर्थः । गन्धो लेशः । तान् पण्डितान् समदर्शिनः कुतो न स्पृशतीत्यत आह- देहादीति । येषां देहादिसङ्घाते दोषवति आत्माभिमानो नास्ति तेषां कथं सङ्घातगत दोषस्पर्श इत्यर्थः । 1 अथ सूत्रस्य गतिं दर्शयति - देहादीति । ये सङ्घातमात्मत्वेनाभिमन्यते तद्विषयं समासमाभ्या- मिति सूत्रं, न त्वात्मविद्विषयम् । ननु कथमिदं ज्ञायतेऽत आह— पूजात इति । पूजायां विषये इत्युक्तत्वात्पूजायाश्च कर्मत्वात्कर्मविषयमेवेदं, नतु ज्ञानविषयमित्यर्थः ।पञ्चमोऽध्यायः । २३१ इति पूजाविषयत्वेन विशेषणाद्दश्यते हि च ब्रह्मवित् षडङ्गविचतुर्वेदविदिति पूजादानादौ गुणविशेषसम्बन्धः कारणं ब्रह्म तु सर्वगुणदोष सम्बन्धवर्जितमित्यतो ब्रह्मणि ते स्थिता इति युक्तं, कर्मविषयं च सूत्रं समासमाभ्यामित्यादि । इदं तु सर्वकर्मसन्न्यासविषयं प्रस्तुतं सर्व- कर्माणि मनसेत्यारभ्याध्यायपरिसमाप्तेः ॥ १९ ॥ न प्रहृष्येत्प्रियं प्राप्य नो द्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ २० ॥ यस्मान्निर्दोषं हि समं ब्रह्म आत्मा तस्मात् नेति । न प्रहृष्येत् प्रहर्ष न कुर्यात्, प्रियमिष्टं प्राप्य नोद्विजेत, प्राप्य चाप्रियं अनिष्टं लब्ध्वा देहमात्रात्मदर्शिनां हि प्रियाप्रिये ननु कर्मणि कथमस्योपयोगोऽत आह— दृश्यत इति । पूजादानादौ कर्मणि ब्रह्मवित् षडङ्गविच्चतुर्वेदविदित्येवं गुणविशेष सम्बन्धरूपं तारतम्यकारणं दृश्यते । हिः प्रसिद्धौ । पूजायां प्राप्तायां कः प्रथमं पूज्य इति शङ्कायां ब्रह्मविदादौ पूज्य इति ब्रह्मवित्त्वरूपगुण विशेष सम्बन्धाद्ब्रह्मवित्प्रथमं पूज्यते, पश्चात्तु वेदविदित्येवमित्यर्थः । यस्तु ब्रह्मनिष्ठः तस्य पूजाप्रसक्तिरेव नास्ति तस्य निर्गुणे निर्दोषे च ब्रह्मण्येव स्थितत्वादित्याह— ब्रह्मत्विति । गौतमस्मृति गीता श्लोकयोर्विभिन्नविषयत्वान्न विरोध इत्युप- संहरति - कर्मविषयं चेति । • एतेन पण्डितस्य जनकादेरपि ज्ञानविषय एव ब्राह्मणगवादिसमदर्शित्वं नतु पूजादिकर्मविषये इति लोकसंग्रहो दर्शितः । पूजादेरसङ्घातविषयत्वात्सङ्घातेषु च गुणदोषतारतम्यसत्त्वात् । ज्ञानस्य त्वात्मविषयत्वादात्मनश्चैकत्वादिति । अतो ज्ञानविषयेण विद्याविनयेति श्लोकेन न कोपि स्मृत्यादि- सिद्धस्य लोकधर्मस्य भङ्गः - ब्राह्मणं श्वपाकादिकं च समदृष्टया पूजयेदित्यनुक्तत्वात् । किंतु ब्रह्मणे श्वपाकादो च वर्तमानमात्मानं समं पश्येदित्युक्तत्वात् । नचेदं समदर्शनं पूजोपयोगि, प्रत्युत सर्वद्वैतनिरासेन पूजानिर्मूलकमेव । सत्यां पूज्यपूजक- पूजासाधनपूजा रूपभेदबुद्धौ अद्वितीय ब्रह्मबुद्धेरेवानुदयात्तदुदये सूर्योदये तमस इव भेदबुद्धेस्सर्वात्मना नाशाच्च । तस्माद्युक्तमुक्तं पण्डिता ब्राह्मणादिषु समदर्शिन इति । नतु समपूजका इत्ययुक्तमुक्तं, येनाशङ्कयेत स्मृत्यादिविरोध इति । आ अध्यायपरिसमाप्तेरिति छेदः । यावदध्याय समाप्तीत्यर्थः ।
अत्र ‘इहैव तैर्जितस्सर्ग’ इत्येतज्जीवन्मुक्तिव्यवस्थापकं जीवद्भिरेव जन्मादिलक्षणस्संसारो जित इति जीवतां संसारजयरूपमुक्तिप्रतिपादनात् आत्मसु ज्ञानैकाकारतया साम्यमेवानुसन्दधाना मुक्ता एवेत्यर्थ इति रामानुजः, संसारो जित इति मुक्तप्रायास्त इत्यर्थ इति वेदान्तदेशिक श्चार्थाज्जीव- न्मुक्तिमभ्युपगतवन्तावेव - गत्यभावात्, मूलस्यार्थान्तरपरिकल्पनेऽवकाशाभावाच्च । अतो योऽमीषां द्वैतिनां च जीवन्मुक्तिप्रतिक्षेपणो समीचीनो वादस्सोऽनेन पराहत एव गीताविरोधात्, स्वाभ्युपगमविरोधा- चति ज्ञेयम् ॥१९॥ नेति । स्थिरबुद्धिरसम्मूढो ब्रह्मणि स्थितो ब्रह्मवित् प्रियं प्राप्य न प्रहृष्येत्, अप्रियं प्राप्य २३२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु हर्षविषादौ कुर्वाते, न केवलात्मदर्शिनः तस्य प्रियाप्रियप्राप्त्यसम्भवात् । किंच सर्वभूतेष्वेकः समो निर्दोष आत्मेति स्थिरा निर्विचिकित्सा बुद्धिर्यस्य स स्थिरबुद्धि:- असम्मूढः सम्मोह- वर्जितश्च स्यात् यथोक्तब्रह्मवित ब्रह्मणि स्थितः अकर्मकृत्सर्वकर्मकृत्सन्न्यासीत्यर्थः ॥२०॥ बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ॥ किंच ब्रह्मणि स्थितः, बाह्येति । बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाच बाह्यस्पर्शाः स्पृश्यन्त इति स्पर्शाः शब्दादयो विषयास्तेषु वाह्येषु स्पर्शेषु । असक्त आत्मान्तःकरणं यस्य सोयमस- क्तात्मा विषयेषु प्रीतिवर्जितस्सन् विन्दति लभते आत्मनि यत्सुखं तद्विन्दतीत्येतत् । स ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिवयोगस्तेन योगेन युक्तस्तस्मिन् व्यापृत आत्मा- न्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मा । सुखमक्षयमश्नुते व्याप्नोति । तस्माद्वाह्यविषयप्रीतेः क्षणिकाया इन्द्रियाणि निवर्तयेत् आत्मन्यक्षयसुखार्थीत्यर्थः ॥ २१ ॥
नोद्विजेत, यद्वा — ब्रह्मवित् प्रियं प्राप्य न हृप्येत्, अप्रियं प्राप्य नोद्विचेत्, स्थिरबुद्धिरसम्मूढश्च स्यात् एवंविधो ब्रह्मवित् ब्रह्मणि स्थित इत्युच्यत इत्यन्वयः । असम्भवादिति । ‘अशरीरं वा वसन्तं न प्रियाप्रिये स्पृशत’ इति श्रुतेरिति भावः । निर्विचिकित्सा निस्संशया | सम्मोह : अनात्मस्वात्माभिमानः । ब्रह्मणि स्थितो ब्रह्मनिष्ठः । नतु कर्म- निष्ठ इत्याह- अकर्मकृदिति । कर्मवृन्न भवतीत्यकर्मकृत् । फलितार्थमाह - सर्वकर्मसन्न्यासीति ॥ 1 " बाह्येति । यः बाह्यस्पर्शेष्वसक्तात्मा सन् आत्मनि सुखं विन्दति ब्रह्मयोगयुक्तात्मा स अक्षयं सुखमश्नुते । आत्मनि सुखमित्यस्यार्थमाह - आत्मनि यत्सुखं तदिति । आत्मानन्दमित्यर्थः । ननु आत्मन एव सुखत्वात्कथमात्मनि सुखमित्युक्तमिति चेन्नैष दोषः । आनन्दं ब्रह्मणो विद्वानितिवद्भेदस्य कल्पितत्वात् । आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति तद्धर्माः । अपृथक्त्वेपि चैतन्यात्पृथगिवावभासन्त इत्युक्तत्वाच्च । ननु य आत्मसुखं बिन्दति स आत्मैवेति कथमेकस्य आत्मनः प्राप्याप्राप्तृभाव इति चेत्, नैष दोषः । एक एवात्मा सुखरूपत्वेन प्राप्यः- अनुभवरूपत्वेन प्राप्ता चेति । यद्वा प्रमातृत्वेन प्राप्ता ब्रह्मत्वेन प्राप्यश्चेति । अथवा यदात्मनस्सुखस्वरूपेणावस्थानं तदेव सुखानुभव इतीह विवक्षि- तत्वान्न प्राप्यप्राप्तृभावप्रसक्तिः । आत्मनि सुखं बिन्दतीत्यनेना उमरतिरात्मक्रीड इति श्रुत्यर्थोऽभिप्रेतः । ब्रह्मयोग इति । ब्रह्म आत्मा योगश्चित्तसमाधानम् । अक्षयमिति । आत्मसुखस्याक्षयत्वादिति भावः । तस्मादिति । ब्रह्मा- नुसन्धानस्याक्षयसुखत्वादित्यर्थः । बाह्यविषयप्रीतेः शब्दाद्यनुभवजन्यसुखात् आत्मनि यदक्षयं सुखं तदर्थी पुरुषः । यः पुमान् ममाक्षयसुखलाभस्स्यादिति वाञ्छति स न बहिर्विषयेषु सज्जेत्, तत्र क्षणिक सुखसत्त्वात्, किंतु आत्मस्वरूपानुसन्धान एव सज्जेत् तत्रैवाक्षयसुखसत्त्वात्- विषयाणां क्षणि- कत्वात्तत्सुखमपि क्षणिकं नित्यत्वादात्मनस्तत्सुखं च नित्यमिति बोध्यम् ॥ २१॥ ३० पञ्चमोऽध्यायः । ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ||२२|| २३३ इतश्च निवर्तयेत् य इति । ये हि यस्मात्संस्पर्शजाः विषयेन्द्रियसंस्पर्शेभ्यो जाताः भोगा मुक्तयो दुःखयोनय एव ते अविद्याकृतत्वाद्दश्यन्ते हि । आध्यात्मिकादीनि दुःखानि तन्निमित्तान्येव यथेह लोके तथा परलोकेपीति गम्यते । एवशब्दान्न संसारे सुखस्य गन्ध- मात्रमप्यस्तीति बुद्ध्वा विषयमृगतृष्णिकाया इन्द्रियाणि निवर्तयेत् । न केवलं दुःखयोनय एव, आद्यन्तवन्तश्च आदिर्विषयेन्द्रियसंयोगो भोगानां, अन्तश्च तद्वियोग एव । अतः ये हीति । हि ये भोगास्संस्पर्शजाः ते दुःखयोनय एव आद्यन्तवन्तश्च भवन्ति । तस्मात् हे कौन्तेय तेषु बुधो न रमते । संस्पर्शस्सम्बन्धः । कयोरित्यत आह - विषयेन्द्रियेति । विषयस्य शब्दादेरिन्द्रियस्य श्रोत्रादेश्व संस्पर्शाः सम्बन्धाः, भोगा भुक्तयोऽनुभवा इति यावत् । दुःखानां योनयः कारणानि दुःखयोनयः । अविद्याकृतत्वादिति भोगानामिति शेषः । अनात्मन्यात्माभिमानः अनात्मीये आत्मीयाभिमानश्चात्राविद्ये- त्युच्यते । अविद्याकार्यत्वात्तत्र तदुपचारः ।
अहं शब्दं शृणोमि, ममायं शब्दः, ममेदं श्रोत्रमित्यादिभ्रमप्रयुक्तत्वाद्भोगा अविद्याकृता इत्युच्यन्ते । एल्लोगवशादेवाध्यात्मिकादिदुःखप्राप्तिः पुरुषाणां प्रतिकूलभोगस्य अनुकूलभोगाभावस्य च तापहेतुत्वात् । तन्निमित्तानिीति भोगनिमित्तानीत्यर्थः । बहुव्रीहिः । ऐहलौकिकभोगस्य दुःखहेतु- त्वानुभवेन पारलौकिकभोगस्यापि दुःखहेतुत्वमनुमीयत इत्याह-यथेति । पारलौकिको भोगो दुःख- प्रदः विषयेन्द्रियसंस्पर्शजन्यभोगत्वात्, ऐहलौकिक भोगवदित्यनुमानम् । 1 नच कथमनुमानमात्रेण रम्भासम्भोगादिस्वर्गसुखस्य दुःखहेतुत्वमिति वाच्यं, “क्षीणे पुण्ये मर्त्यलोकं विशन्ती"ति शास्त्रात् क्षयिष्णुत्वदोषेण सातिशयित्वादिना च खर्गभोगोपि भयदुःखादि- हेतुरेवेति । दुःखयोनय एवेत्यत्र एवकारस्यार्थमाह – एक्शब्दादिति । न तु सुखयोनय इत्यर्थः । यद्वा, गम्यत एव शब्दादित्येकं वाक्यं – शब्दादागमात्प्रमाणादित्यर्थः । किमेतद्ज्ञानस्य भोगा दुःख- योनय एवेत्याकारकस्य फलमत आह— इति बुद्ध्वेति । विषया एव मृगतृष्णिका तस्यास्सकाशात् यथा मृगतृष्णिकायामुदकं नास्ति तथा विषयेषु सुखं नास्तीति विषयेषु मृगतृष्णिकात्वरूपणम् । न केवलं दुःखयोनय एवेत्यनन्तरं किन्त्विति पूरणीयं, आद्यन्तौ एषां स्त इति आद्यन्तवन्तः विषयेन्द्रियसंयोगजन्यत्वाद्भोगानां विषयेन्द्रियसंयोग एवादिः । विषयेन्द्रियवियोगनाश्यत्वाद्भोगानां तद्वियोग एवान्तः । यथा चक्षुरिन्द्रियस्य कामिनीरूपसम्बन्धे पुरुषस्य भोगः, तत्सम्बन्धनाशे भोगनाश इति । २३४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु आद्यन्तवन्तः अनित्याः मध्यमक्षणभावित्वादित्यर्थः । हे कौन्तेय ! न तेषु भोगेषु रमते बुधः विवेकी अवगतपरमार्थतच्चः । अत्यन्तं मूढानामेव हि विषयेषु रतिर्दृश्यते यथा पशु- प्रभृतीनाम् ॥ शक्नोतीहैव यस्सोढुं प्राक्छरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तस्स सुखी नरः ॥ २३ ॥ ॥२२॥ अयं च श्रेयोमार्गप्रतिपक्षी कष्टतमो दोषः सर्वानर्थप्राप्तिहेतुः दुर्निवारचेति तत्परिहारे यत्नोऽधिकतरः कर्तव्य इत्याह- श्रीभगवान् — शक्नोतीति । शक्नोत्युत्सहते इहैव जीवन्नेव यस्सोढुं प्रसहितुं प्राक्पूर्वं शरीरविमोक्षणात मरणात्, मरणसीमाकरणाज्जीवतोऽवश्यम्भावी हि कामक्रोधोद्भवो वेगः अनन्तनिमित्तवान् हि स इति यावन्मरणं तावन्न विस्रम्भणीय इत्यर्थः । काम इन्द्रियगोचरप्राप्ते इष्टे विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुखहेतौ या तृष्णा स कामः क्रोधश्रात्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो विद्वेषः स क्रोधः, तौ कामक्रोधौ उद्भवौ यस्य वेगस्य स कामक्रोधोद्भवो वेगः- रोमा- अतः विषयेन्द्रियसंयोगवियोगप्रयुक्त जन्मनाशवत्त्वादित्यर्थः । सिद्धार्थमाह—अनित्या इति । तत्र हेतुमाह - मध्यमेति । विषयेन्द्रियसंयोगात्पूर्वक्षणे विषयेन्द्रियवियोगक्षणे च भोगा न सन्ति, किंतु विषयेन्द्रियसंयोगक्षण एवेत्यर्थः । एतेन विषयसुखस्य क्षणिकत्वं विवृतम् । बुध इति । न तर्कादिशास्त्रवेतेत्याह – विवेकेति । आत्मानात्मविवेकवानित्यर्थः । सति विवेके किं भवतीत्यत आह- अवगतेति । आत्मैव परमार्थतत्त्वमन्यत्सर्वं मृषैवेति जानातीत्यर्थः । य एवं वेत्ति स कथं नित्यसुखमात्मानं विहाय विषये सुखे क्षणिके रज्ज्येत ? न कथमपीत्यर्थः । ये तु विषयेषु रतास्ते अतीव मूढा एव, न त्वल्पज्ञा अपीत्याह - अत्यन्तेति । आत्मा- नात्मविवेकशून्यत्वमत्यन्तमूढत्वं देहात्मभ्रमवत्त्वं वा । ननु ये विषयरतास्ते मूढा एवेत्यत्र को दृष्टान्त इत्यत आह-यथा पश्विति । प्रभृतिशब्दात्पक्षिसर्पादिग्रहणम् । तस्माद्बुधेनात्मरतिनैव भाव्यम् । योऽनात्मरतस्सोऽबुध एव । इमे चात्मरतिविषयरती गृहस्थस्य दुष्करे । तस्य इन्द्रियदमनेऽनधिकारात् । अतस्सर्वकर्मसन्त्यास्येव बुधः, गृहस्थास्तु मूढा एव ॥२२॥ शक्नोतीति । य इहैव शरीरविमोक्षणात्प्राक् कामक्रोधोद्भवं वेग सोढुं शक्नोति, स युक्तो नरः सुखी अयं चेति वक्ष्यमाणः कामक्रोधोद्भवेगरूप इत्यर्थः । ननु जीवन्नेवेत्यनेन मरणात्प्रागिति लब्धत्वात्पुनस्तद्वचनमनर्थकमत आह- मरणसीमाकरणादिति । अनन्तानि निमित्तानि उत्पत्ति- कारणानि अस्य सन्तीति अनन्तनिमित्तवान् । हिः प्रसिद्धौ तावन्मरपर्यन्तमित्यर्थः । न विस्रम्भ- णीयः न विश्वसनीयः । कामक्रोधयोः खरूपे दर्शयति — काम इत्यादिना । इन्द्रियगोचरप्राप्ते इन्द्रियाणां गोचरं पञ्जमोऽध्यायः । २३५ ञ्चनप्रहृष्टने त्रवदनलिङ्गोन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगः गात्रप्रकम्पस्वेदसंदष्टोष्टपुटरक्त- नेत्रादिलिङ्गः क्रोधोद्भवो वेगः तं कामक्रोधोद्भवं वेगं यः जीवन सोढुं प्रसहितुं शक्नोति, स युक्तो योगी सुखी चेह लोके नरः ॥२३॥ योऽन्तस्सुखोऽन्तरारामस्तथाऽन्तज्योतिरेव यः । स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥ कथं भूतश्च ब्रह्मणि स्थितो ब्रह्म प्राप्नोतीत्याह श्रीभगवान् य इति । यः अन्त- रात्मनि सुखं यस्य सोन्तस्सुख:- तथान्तरेवात्मनि आराम आरमणमाक्रीडा यस्य सोन्त- राराम:- तथा अन्तरेवात्मन्येव ज्योतिः प्रकाशो यस्य सोन्तर्ज्योतिरेव य ईदृशः स योगी ब्रह्मनिर्वाणं ब्रह्मनिर्वृति मोक्षं इह जीवन्नेव ब्रह्मभूतस्सन् अधिगच्छति प्राप्नोति ॥ २४ ॥ विषयं प्राप्ते इन्द्रियगोचरतां प्राप्ते इत्यर्थः । इन्द्रियविषयभूते इति यावत् । सुखहेतौ अत एव इष्टे विषये स्त्रीपुत्रादौ या तृष्णा स कामो विधेयप्राधान्यात्स इति पुंलिङ्गनिर्देशः । . सच विषयः त्रिविध:- श्रूयमाणः, स्मर्यमाणः, अनुभूतश्चेति । यथा देशान्तरस्थितां कामिनीं श्रुत्वा तत्र सकामो भवति पुरुषः । तामेव मनसि स्मृत्वा स्मृत्वा च स्मरणमिह चिन्तनम् । तामेव सन्निहितामनुभूय तत्र सकामो भवतीति । सति वक्त्तरि श्रवणं तस्मिन्नसति तु स्मरणमिति विवेकः । श्रूयमाणस्मर्यमाणानुभूयमानान्यतमेष्टविषयविषया तृष्णा काम इत्युच्यत इति निष्कृष्टार्थः । तथा दृश्यमानश्रूयमाणस्मर्यमाणान्यतमानिष्टविषयविषयविद्वेषः क्रोधः । उद्भवत आभ्यामित्युद्भवौ उपादान- भूतावित्यर्थः । कामक्रोधाभ्यामुद्भव उत्पत्तिर्यस्य स कामक्रोधोद्भव इत्यपि समासो वक्तुमुचितः । नेत्रे च वदनं च नेत्रवदनं प्रहृष्टं च तन्नेत्रवदनं च प्रहृष्ट नेत्रवदनं रोमांचनं प्रहृष्ट नेत्रवदनं च रोमाञ्चन- प्रहृष्ट नेत्रवदने लिने चिह्ने यस्य स रोमाञ्चनप्रहृष्टनेत्रवदनलिङ्ग:- अन्तःकरणस्य प्रक्षोभः प्रकृष्टं चलने विकार इति यावत् तद्रूपः । गात्रप्रकम्पश्शरीरचलनं प्रस्वेदो धर्मजलोद्वमः सन्दष्टोष्टपुटौ रक्तनेत्रे एतदादीनि लिङ्गानि यस्य स तथोक्तः । युक्तो योगी चित्तसमाधानवानित्यर्थः । सुखी चेहेति चकारात्परलो केपीत्यर्थः । अयं श्लोको न केवलं सन्न्यासिविषयः, किंतु योगिविषयोपि साङ्ख्ययोगयों- र्द्वयोरपि श्रेयोमार्गत्वेन दर्शितवेगस्य तदुभयमार्गप्रतिपक्षित्वात् ॥ २३॥ " य इति । आक्रीडा विहार इति यावत् । ज्योतिर्दृष्टिरिति यावत् । अन्तरेवेत्येवकारान्न बहिर्विषयेष्वित्यर्थः । ब्रह्मनिर्वाणं ब्रह्मानन्दं ब्रह्मभूतः ब्रह्मतुल्य इति नार्थः, किंतु ब्रह्मैव भवन् इत्यर्थः । आत्मन एव ब्रह्मत्वादिति भावः । 1 अत्र योगीत्यनेन कर्मयोगीति न श्रमितव्यं तस्यात्मरत्याद्यभावात् । किं त्वात्मनि चित्तसमा - धानवान् सन्न्यास्येवेह योगी ॥ २४ ॥ २३६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशङ्करभाष्योपेतासु लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानस्सर्वभूतहिते रताः ||२५|| किंच, लभन्त इति । लभन्ते ब्रह्मनिर्वाणं मोक्षमृषय सम्यग्दर्शिनस्सन्न्यासिन:- क्षीण- कल्मषाः क्षीणपापा: निर्दोषाः छिन्नद्वैधाः छिन्नसंशयाः यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषां भूतानां हिते आनुकूल्ये रताः अहिंसका इत्यर्थः ॥ २५ ॥ कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ||२६|| किंच, कामेति । कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां सन्न्यासिनां यतचेतसां संयतान्तःकरणानां अभित उभयतो जीवतां मृतानां च ब्रह्मनिर्वाण मोक्षः वर्तते विदितात्मनां विदितः ज्ञातः आत्मा येषां ते विदितात्मानः तेषां सम्यग्दर्शिनामित्यर्थः । सम्यग्दर्शननिष्ठानां सन्न्यासिनां सद्योमुक्तिरुक्ता । कर्मयोगश्वेश्व - रार्पित सर्वभावेन ईश्वरे ब्रह्मण्याधाय क्रियमाणः सच्चशुद्धिज्ञानप्राप्तिसर्वकर्मसन्न्यासक्रमेण मोक्षायेति भगवान् पदेपदेऽबूवीद्वक्ष्यति च ॥ २६ ॥ स्पर्शान् कृत्वा वहिर्यायांश्चक्षुश्चैवान्तरे अबोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥२७॥ अथेदानीं ध्यानयोगं सम्यग्दर्शनस्यान्तरङ्गं विस्तरेण वक्ष्यामीति तस्य सूत्रस्थानी- यान् श्लोकानुपदिशति स्म - स्पर्शानिति । स्पर्शान् शब्दादीन् कृत्वा बहिर्बाद्यान्न श्रोत्रादि- लभन्त इति । क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाण लभन्ते- ऋगतावितिधातोः ऋषिशब्दो निष्पन्नः । गत्यर्थानां ज्ञानार्थत्वादाह - ऋषयस्सम्यग्दर्शिन इति । सन्न्यासिनामेव ज्ञाननिष्ठाधिकारादाह — सन्न्यासिन इति ॥ २५॥ कामेति । कामक्रोधवियुक्तानां यतचेतसां विदितात्मनां यतीनां ब्रह्मनिर्वाणमभितो वर्तते । अभित उभयत इति देहत्यागात्प्रागनन्तरं चेत्यर्थः । ईश्वरे अर्पितस्सव भावो येन तेन पुरुषेण ईश्वरे ब्रह्मण्याधाय क्रियमाणः कर्मयोगश्च सत्त्वशुद्धयादिक्रमेण मोक्षाय भवतीति शेषः । इति भगवान् पदेपदे प्रतिपदमब्रवीत् - वक्ष्यति चोत्तरत्र ॥२६॥ 1 स्पर्शानिति । अन्तरङ्गं साधनमिति शेषः । अनेन कर्मयोगस्य सम्यग्दर्शनं प्रति बहिरङ्ग- साधनत्वं सूचितम् । ततश्च- " तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यत” इति वचनं कर्मयोगस्तुति- परमेवेति सिद्धम् । यद्वा ज्ञानहीनात्केवल कर्म त्यागम (वरूपात्सन्न्यासात्कर्मयोगस्य विशिष्टत्वं तत्राभिप्रेतमिति । प्राणायामादियुक्तः केवलसन्न्यासस्तु कर्मयोगादुत्कृष्ट एवं ज्ञानं प्रत्यन्तरङ्गत्वात् । अनेन च ध्यानयोग- स्यान्तरङ्गत्ववचनेन, कर्मयोगो ध्यानयोगद्वारा सम्यग्दर्शनस्योपायभूतो न तु साक्षादिति च व्यज्यते । पञ्चमोऽध्यायः । २३७ द्वारेणान्तर्बुद्धौ प्रवेशिताः शब्दादयो विषयास्तान चिन्तयता शब्दादयो बाह्या बहिरेव कृताः भवन्ति तानेवं बहिः कृत्वा चक्षुचैवान्तरे भ्रुवोः कृत्वेत्यनुषज्यते । तथा प्राणापानौ नासा- भ्यन्तरचारिणौ समौ कृत्वा ॥२७॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यस्सदा मुक्त एव सः ॥ २८ ॥ यतेति । यतेन्द्रियमनोबुद्धिर्यतानि संयतानीन्द्रियाणि मनो बुद्धिश्च यस्य सः यते- वक्ष्यत्यमुमर्थं भगवान्भाष्यकार एव - " यावद्ध्यानयोगारोहणसमर्थः तावद्गृहस्थेन कर्म कर्तव्य " मित्यनु- पदमेव । सूत्रस्थानीयान् सूत्रभूतान् संक्षेपतोऽर्थप्रकाशकानिति यावत् । उपदिशति स्म उपदिदेश– लट्स्मे इति स्मयोगे भूतार्थे लट् । ननु बाह्यान् स्पर्शान् बहिः कृत्वेति वचनं व्यर्थ- बाह्यत्वेन तेषां बहिरेव सत्त्वादन्तः कर्तमशक्य- त्वेन तत्प्राप्तिं विना अन्तरकृत्वेति निषेधायोगाचेत्यत आह— श्रोत्रादीति । शब्दादिस्पर्शानां श्रोत्रादिद्वारान्तप्रवेशस्य सत्त्वात्तेषां बहिःकरणोपदेशस्सफलः । तद्बहिः करणं च तदचिन्तनमेव, तदेवं यो विषयान्न चिन्तयति तेन विषया बहिः कृता एव भवन्ति । मनसा शब्दादिचिन्तने अकृते सति श्रोत्रादीनां विषयान्तःप्रवेशनसामर्थ्यांभावात् । मनःपूर्विका हि इन्द्रियाणां प्रवृत्तिः । एवमिति । विषयाचिन्तनद्वारेत्यर्थः ।
ननु बाह्यस्य घट | देवस्तुनश्श्रोत्रादिद्वाराप्यन्तः प्रवेशो ऽनुचित :- असम्भवात् न हि घटादि वस्तु अन्तः प्रविष्टं दृश्यत इति चेत्, मैवम् - अन्तः प्रवेशोनाम विषयस्य बुद्धेर्विषयात्मकत्वमेव दृश्यते हि कामिनीविग्रहस्य चक्षुर्द्वारेणान्तः प्रवेशः । कथमन्यथा सकृद्दृष्टा नारी चक्षुषि मीलितेपि हृदि स्फुरे- कामुकस्य । कथं वा चक्षुषा कामिनीदर्शनं विना कामिन्या हृद्यस्फुरणं तस्माद्युक्तमुक्तं विषयाणा- मिन्द्रियद्वारा बुद्धिप्रवेश इति । मनःपूर्वकेन्द्रियविषयसंयोगे सति तन्मनस्तस्मिन्विषये दृढलग्नं सद्विषयाकारतां प्रतिपद्यत इतीद- मेव विषयाणामन्तः प्रवेश इति भावः । मनसो विषयचिन्तनाभावे तु मनसि विषयाणामप्रवेश इत्ययमेव विषयबहिष्कार इति बोद्धधम् । चक्षुरिति । दृष्टिमिति यावत् । भ्रुवोरन्तर इति यथा भ्रूमध्यभागो वीक्ष्येत चक्षुषा तथा कृत्वेत्यर्थः । नासाभ्यन्तरचारिणौ नासिकामध्ये सञ्चरन्तौ प्राणापानौ वायू उच्छासनिश्वासात्मिकाविति भावः । कथमन्यथा हृदि प्राणो गुदेऽपान इत्युक्तलक्षणप्राणापानयोः नासाभ्यन्तरचारित्वं स्यात्, एकएव वायुर्नासापुटेन निष्क्रामन् प्रविशश्च प्राणोऽपान इति चोच्यते । उच्छ्रासनिःश्वासयोस्समीकरणं नाम न दीर्घमुन् नापि निःश्वसन्नित्यर्थः । यद्वा नैवोच्छ्रसन् नापि निःश्वसन्नित्यर्थः । कुम्भके स्थित इति यावत् ॥२७॥ यतेति । यः सदा यतेन्द्रियमनोबुद्धिः मोक्षपरायणः विगतेच्छाभयक्रोधो मुनिः स मुक्त एव । २३८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु न्द्रियमनोबुद्धि: मननान्मुनिस्सन्न्यासी मोक्षपरायणः मोक्ष एव परमयनं परमा गतिर्यस्य सोयं मोक्षपरायणो मुनिर्भवेत्, विगतेच्छाभयक्रोधः इच्छा च भयं च क्रोधश्व इच्छाभय- क्रोधास्ते विगताः यस्मात् स विगतेच्छाभयक्रोधः- य एवं वर्तते सदा सन्न्यासी मुक्तएव सः। न तस्य मोक्षायान्यः कर्तव्योऽस्ति ॥ २८ ॥ भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥ इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुनसंवादे कर्मसन्न्यासयोगो नाम पञ्चमोऽध्यायः । एवं समाहितचित्तेन किं विज्ञेयमित्युच्यते - भोक्तारमिति । भोक्तारं यज्ञानां तपसां यद्वा यो मुनिः यतेन्द्रियमनोबुद्धिः मोक्षपरायणः विगतेच्छाभयक्रोधः सदा वर्तत इति शेषः । स मुक्त एव । • कथमस्य मुक्तत्वमत आह— न तस्येति । मोक्षसाधनान्तरानुष्ठानराहित्यमेवास्य मुक्तत्व- मित्यर्थः । एतस्मिन् ध्यानयोगे कृते सति ज्ञानप्राप्तिद्वारा मोक्षस्य भविष्यत्वान्नान्यो मोक्षोपायोऽनुष्ठेय इति भावः । न चास्य योगिनो ज्ञानमनुष्ठेयमिति वाच्यं, ज्ञानस्यानुष्ठेयत्वाभावात् । नच श्रोतव्य इति ज्ञाने विधिः श्रूयत इति वाच्यं तस्य विधिच्छायावचनत्वात् । नच सुतरां ज्ञाने विध्यभावे विधि- च्छायावचनमपि व्यर्थमिति वाच्यं, स्वाभाविक विषयप्रवृत्तिविमुखीकरणार्थत्वाद्विविच्छायावचनस्य । ननु “ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना " मिति साङ्ख्यानां ज्ञानयोगो विहित इति चेत्तत्र ज्ञानयोगस्य सन्न्यासार्थकत्वात् । यद्वा ब्रह्मणि चित्तसमाधानार्थकत्वात् । उक्त हि ब्रह्मसंस्थोऽमृतत्वमेतीति ब्रह्मसंस्थत्वं ज्ञानयोगा- त्मकं सम्न्यासिनो मोक्षकारणमिति श्रुत्या । • तस्माद्धयानयोगिनो मोक्षाय कर्तव्यों नास्त्येव । किंतु ज्ञातव्योस्ति तदुत्तरश्लोकेन वक्ष्यते । नच ब्रह्मणि चित्तसमाधान कर्तव्यमस्त्येवेति वाच्यं तस्य ध्यानेनैव सिद्धत्वात् । नचैवं ध्यानयोगज्ञानयोगयोरेकत्वमिति वाच्यं ब्रह्मणि चित्तसमाधानरूपांशे एकत्वेपि यत्र चितं समाहितं तद्ब्रह्मेति ज्ञानं ध्यानयोगिनो नास्ति अन्यस्य त्वस्तीति वैलक्षण्यसत्त्वात् । अतएव समाहितचितेन ब्रह्मकमेव ज्ञातव्यमिति वक्ष्यत्यनन्तरश्लोकेन ॥२८॥ भोक्तारमिति । यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृद मां ज्ञात्वा योगीति शेषः । शान्तिमृच्छति । पञ्चमोऽध्यायः । २३९ च कर्तृरूपेण देवतारूपेण च सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तमीश्वरं सर्वलोकमहेश्वरं सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्युपकारनिरपेक्षतयोपकारिणं सर्वभूतानां हृदयेशयं सर्वकर्म- फलाध्यक्ष सर्वप्रत्ययसाक्षिणं नारायणं मां ज्ञात्वा शान्ति सर्वसंसारोपरतिमृच्छति प्राप्नोति ॥ इति परमहंस परिव्राजकाचार्य गोविन्दभगवत्पादपूज्यशिष्य श्रीमच्छङ्करभगवत्पादकृतौ गीताभाष्ये पञ्चमोऽध्यायः । समाहितचित्तेनेति । पूर्वोक्तध्यानयोगिनेत्यर्थः । यज्ञानां तपसां च भोक्तारं कथं भोक्तृत्व- मत आह— कत्रिति । यो यज्ञानां तपसां च कर्ता स एव तत्फलमै हिकमा मुष्मिकं च भुंक्ते इति कर्तुरेव भोक्तृत्वादाह - कर्तृरूपेणेति । यजमानेन तपस्विना च हविरादिना यः पूज्यते देवस्स तद्धविरादिकं भुंक्त इति देवानां भोक्तृत्वादाह - देवतारूपेणेति । महान्तमिति । यस्मादधिकः यस्य समानो वा नास्ति स महान् तन्निरुपाधिकमिति वा कथमस्य कर्तृदेवतात्मकत्वमत आह– सर्वभूतानां हृदये शयमिति । हृदये शेत इति हृदयेशयः तं शयवासवासिष्वलुक् । कथमस्य सर्वलोकेश्वरत्वमत आह- सर्वकर्मफला- ध्यक्षमिति । सर्वेषां कर्मफलानामध्यक्षः प्रभुः तं, अयमेक एव पुंसां स्वस्वकर्मानुगुणं फलप्रदः, तत्रेन्द्रादीनां वृथैवाभिमानः वयं फलप्रदा इति । अस्माकं च वृधैव भ्रमः इन्द्रादयः फलदा इति च । एवं सर्वकर्म फल्दत्वादेवायं सर्वलोकमहाप्रभुः । कथमस्य सर्वभूतसुहृत्त्वमत आह- सर्वप्रत्ययसाक्षिण- मिति । सर्वेषां प्रत्ययानां बुद्धिवृत्तीनां साक्षिणं साक्षाद्रष्टारं प्रेरकमिति यावत् । अन्तर्यामिण एव साक्षित्वात् । अन्तः स्थित्वा तत्तदिन्द्रियद्वारा तत्तद्विषयानुभवमयमेव दिशति पुरुषस्येत्यर्थः । अत एवायं नारायण इत्याह- नारायणमिति । न रीयन्ते न क्षीयन्ते यावद्व्यवहारमिति नराः प्राणिनः साभास- बुद्धिशब्दवाच्या जीवा इत्यर्थः । यद्वा न रीयन्त इत्यराः ते न भवन्तीति नाराः क्षयिष्णव इत्यर्थः । कार्यकरणसङ्घातात्मका जन्तव इति यावत् । तेषां समूहो नारं । तदेवायनं स्थानं यस्य स नारायणः तदयति प्राप्नोति वा नारायणः तं सर्वभूतहृदयेशयमित्यर्थः । नराणां जीवनामिमानि फलानि नाराणि तेषामयनं प्राप्तिर्यस्मात्तं नारायणं सर्वकर्मफलाध्यक्षमित्यर्थः । नारस्य अयनं प्राप्तिरस्मात्फलानां यस्मात नारायणमिति वा । अर्थस्तु स एव । नराणां जीवानामिमे नाराः प्रत्ययाः तानयति वेतीति नारायणः तं सर्वप्रत्ययसाक्षिणमित्यर्थः । नारं जीवसमूहमयति वेत्तीति वा नारायणः तं सर्वजीवसाक्षिणमित्यर्थः । सर्वजीवसाक्षित्वादेव सर्वप्रत्ययसाक्षित्वं सिद्धं । भवतीति बोध्यम् । मामिति । आत्मभूतमित्यर्थः । आत्मन एव नारायणत्वान्नारायणस्येव कृष्णत्वाच्चेति भावः । अन्यथा नारायणस्यात्मभिन्नत्वे तद्ज्ञानेन २४० श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशङ्करभाष्योपेतासु · संसारो पर तिर्न स्यात्पुंसां - अन्यज्ञानेनान्यसंसार निवृत्त्ययोगात्, भिन्नात्मज्ञानस्य प्रत्युत भयहेतुत्वात्- ‘य उदरमन्तरं कुरुते अथ तस्य भयं भवतीति श्रुतेः । शान्तिर्मोक्षमित्यर्थः तस्यैव संसारो परमरूपत्वात् । ऋच्छति ऋगताविति धातोः प्राघ्रेति ऋच्छादेश इति । एतेन ध्यानयोगिनोपि ब्रह्मात्मज्ञानादेव मोक्षः न तु स्वत इति सिद्धम् । अत एव " तमेवं विदित्वा तिमृत्युमे” तीत्यादिश्रुतिविरोधो न गीता- शास्त्रस्य । यत्तु रामानुजः - मां ज्ञात्वा मदाराधनरूपः कर्मयोग इति सुखेन तत्र प्रवर्तत इत्यर्थ इति, तत्तुच्छम् - मूले मां ज्ञात्वा शान्तिमृच्छतीति ज्ञानशान्तिप्राप्त्योर्मध्ये कियानन्तरव्यवधान- स्यानुक्तत्वात् । तत्कल्पनस्य चाप्रमाणत्वाद्दर्शितश्रुतिविरोधाच्च - सर्वकर्माणि मनसेत्यारभ्य सन्न्यासस्यैव प्रस्तुतत्वेन कर्मयोगस्यात्रा प्रस्तुतत्वाच्च, स्पर्शानित्यादिना च ध्यानयोगस्यैवोक्तत्वाच्च नात्र कर्मयोगस्याव - काशः । नापि कर्मयोगफलभूत चित्तशुद्धिलभ्यज्ञानप्राप्त्यनन्तरं पुनः कर्मयोगस्य कर्तव्यत्वप्रसक्तिः । इति बेल्लं कोण्डोपनामक रामकविकृतौ श्रीमद्भगवद्गीता- शाङ्करभाष्यार्कप्रकाशे पञ्चमोऽध्यायः ।३१