०४

श्रीहयग्रीवाय नमः | भाग्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु- श्रीभगवद्गीतासु चतुर्थाध्यायप्रारम्भः । योऽयं योगोऽध्यायद्वयेनोक्तो ज्ञाननिष्ठालक्षणस्सन्न्यासः कर्मयोगोपायो यस्मिन् वेदार्थः परिसमाप्तः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च गीतासु च सर्वासु अयमेव योगो विवक्षितो भगवता । अतः परिसमाप्तं वेदार्थ मन्वानः तं वशंकथनेन स्तौति- श्रीभगवानुवाच — इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽत्रवीत् ॥१॥ इममिति । इममध्यायद्वयेनोक्तं योगं विवखते आदित्याय सर्गादौ प्रोक्तवानहमव्ययं जगत्परिपालयितॄणां क्षत्त्रियाणां बलाधानाय । तेन हि योगबलेन युक्तास्समर्था भवन्ति ब्रह्मक्षत्रे परिरक्षितुं ब्रह्मक्षत्रे परिपालिते जगत्परिपालयितुं अलम् । अव्ययं अव्ययफलत्वात् न ह्यस्य योगस्य सम्यग्दर्शन निष्ठालक्षणस्य मोक्षाख्यं फलं व्येति सच विवखान् मनवे प्राह, मनुरिक्ष्वाकवे स्वपुत्राय आदिराजायाब्रवीत् ॥ १॥ योयमिति । अध्यायद्वयेनोक्तो ज्ञाननिष्ठालक्षणः सन्न्यासः कर्मयोगरूपश्चोपाय इति यो योगः कर्मयोगरूपो ज्ञानयोगरूपश्वाध्यायद्वयोक्तो यो योग इत्यर्थः । यस्मिन्नुभयात्मके योगे प्रवृत्ति- लक्षणो निवृत्तिलक्षणश्च वेदार्थः परिसमाप्तः सर्वाखपि गीतासु भगवता विवक्षितः सोऽयमेव योगः । अतः योगस्योक्तत्वादित्यर्थः । वेदार्थ परिसमाप्तं मन्वानः तं वंशकथनेन सम्प्रदायकथनद्वारा स्तौति श्रीभगवान् — इममिति, योगमिति । कर्मज्ञानोभयात्मक श्रेयः प्राप्त्युपायभूतं योगमित्यर्थः । अव्यय न विद्यते व्ययः क्षयः बलस्य यस्मात्सोऽव्ययः तमित्यभिप्रेत्याह – बलाधानायेति । मनोवाक्कायानां बलं वर्धयितुमित्यर्थः । ब्रह्मक्षत्रे ब्राह्मणक्षत्रियजाती तयोरेव याजनादिना दण्डनादिना च धर्मप्रतिष्ठापकत्वा- दिति भावः । अव्ययस्यार्थान्तरमाह — अव्यय फलत्वादिति । अव्ययमस्यास्तीत्यव्ययः । तमित्यर्श आद्यजन्त इति भावः । अव्यय फलत्व पद घटिताव्ययशब्दार्थमाह-नहीति । न व्येति न विपर्ययं प्राप्नोती- त्यव्ययं मोक्षाख्यं फलम् । मोक्षस्य अविक्रियब्रह्मरूपत्वादिति भावः । यद्वा अव्ययशब्दस्यायमेक एवार्थः । किमर्थं त्वं प्रोक्तवान्विवस्वते योगमित्याकांक्षापूरणाय बलाघानायेत्युक्तमिति व्याख्येयं भाष्यम् ॥ चतुर्थोऽध्यायः । एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । सकालेनेह महता योगो नष्टः परन्तप ॥ २ ॥ १५१ एवमिति । एवं क्षत्रियपरम्पराप्राप्तमिमं राजर्षयः राजानश्च ते ऋषयश्चेति ते राजर्षयो विदुः । इमं योगं स योगः इह लोके कालेन महता दीर्घेण नष्टः विच्छिन्नसम्प्रदाय संवृत्तः, हे परन्तप ! आत्मनो विपक्षभूताः परा इत्युच्यन्ते तान् शौर्यतेजोभिः गभस्तिभिः भानुरिव तापयतीति परन्तपः शत्रुतापन इत्यर्थः ॥ २ ॥ स एवायं मया तेद्य योगः प्रोक्तः पुरातनः । भक्तोसि मे सखा चेति रहस्यं ह्येतदुत्तमम् || ३ || दुर्बलान जितेन्द्रियान्प्राप्य नष्टं योगमुपलभ्य लोकं चापुरुषार्थ सम्बन्धिनम् । स इति । स एवायं मया ते तुभ्यं अद्य योगः प्रोक्तः पुरातनः सनातनः भक्तोसि मे सखा चासीति । रहस्य हि यस्मात् एतदुत्तमं योगो ज्ञानमित्यर्थः ॥ ३ ॥ अर्जुन :- अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ||१|| भगवता विप्रतिषिद्धमिदमुक्तमिति माभूत्कस्यचिद्बुद्धिरिति तत्परिहारार्थ चोद्यमिव कुर्वन्नर्जुन उवाच – अपरमिति । अपरं अर्वाक् वसुदेवस्य गृहे भवतो जन्म, परं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्य तत्कथमेतद्विजानीयां अविरुद्धार्थतया यस्त्वमादौ प्रोक्तवानिमं योगं स एवेदानीं मह्यं प्रोक्तवानसीति ||४|| एवतिमि । परम्परा गुरुशिष्यसम्प्रदायः । नष्ट इति सम्प्रदायविच्छेदाददर्शनं गत इत्यर्थः । तेजोभिः प्रतापैः ॥२॥ भ स इति । दुर्बलान जितेन्द्रियान्प्राप्य नष्टं योगमुपलभ्य ज्ञात्वा अपुरुषार्थसम्बन्धिनं पुरुषार्थ- विधुरं लोकं च उपलभ्य सएवायं पुरातनो योगोद्य मया ते प्रोक्तः । ननु किमिति मामेवोक्तवानसीत्यत आह - भक्तोसि म इति । ननु भक्ता अपि बहवस्सन्त्येवेत्यत आह- सखा चेति । ननु कुतो भक्ताय सख्य एवैतद्वक्तव्यमत आह - रहस्यमिति । एतदिति क्लीवत्वादाह — योगो ज्ञानमिति । अतीव रहस्यत्वादमुं योगं नाभक्ताय ब्रूयान्नाप्यसखायेत्यर्थः ॥३॥ अपरमिति, चोद्यमिवेति । इवशब्दादर्जुनः कृष्णं परमेश्वरं । वेदैवेति सूच्यते । अथवा ‘अजो नित्यश्शाश्वतोऽयं पुराण’ इति भगवदुपदेशादनादिमात्मानं वेदैवार्जुन इति सूच्यते । अर्वा - गिति । नूतनमित्यर्थः । जन्मनोऽधिकरणाकांक्षां पूरयति - वसुदेवस्य गृहे इति । अथवा अर्वा - कब्दार्थमाह-वसुदेवस्य गृहे इति, विजानीयामिति । ननु मयोक्तं त्वया श्रुतमेवेत्यत आह– अविरुद्धार्थतयेति । अविरुद्धार्थे त्वदुक्तमिति कथं प्रत्ययं भजेयमित्यर्थः । अर्वाक्तनत्य तव सर्गादा- वभावादिति भावः ॥ ४॥ १५२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु श्रीभगवान् - बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ! तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ||५|| या वासुदेवे अनीश्वरा सर्वज्ञाशङ्का मूर्खाणां तां परिहरन् भगवानुवाच - यदर्थो ह्यर्जु- नस्य प्रश्नः । बहूनीति । बहूनि मे व्यतीतानि अतिक्रान्तानि जन्मानि तव च । हेअर्जुन ! तान्यहं वेद जानामि सर्वाणि, न त्वं वेत्थ त्वं न जानीषे धर्माधर्मादिप्रतिबद्धज्ञानशक्तित्वात् । अहं पुनर्नित्यशुद्धबुद्धमुक्तस्वभावत्वादनावरणज्ञानशक्तिरिति वेदाहं परन्तप ||५| अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥६॥ कथं तर्हि तव नित्येश्वरस्य धर्माधर्माभावे जन्मेति, उच्यते–अज इति । अजोपि जन्मरहितोपि सन्, तथा अव्ययात्मा अक्षीणज्ञानशक्तिस्वभावोपि सन्, तथा भूतानां ब्रह्मादिस्तम्बपर्यन्तानां ईश्वरोप ईशनशीलोपिसन प्रकृतिं मम वैष्णवीं मयां त्रिगुणात्मिकां यस्या वशे सर्वमिदं जगद्वर्तते, यया मोहितं जगत्सत् स्वमात्मानं वासुदेवं न जानाति तां प्रकृतिं स्वामधिष्ठाय वशीकृत्य सम्भवामि देवानिव जात इव आत्ममायया आत्मनो मायया न परमार्थतो लोकवत् ॥ ६॥ + बहूनीति, यदर्थ इति । मूर्खप्रत्यायनार्थ इत्यर्थः । श्रीकृष्णं भगवन्तं सर्वे मूर्खा अपि जानीयुरिति बुद्धया अर्जुनेन पृष्टत्वादस्यार्थस्येति भावः । ननु त्वमिवाहमपि जन्ममरणादिमानेव तत्कुतस्त्वं वेत्थ, नाहं वेद्मीत्यत आह- धर्माधर्मेति । जीवाः प्रकृतिपरतन्त्रत्वात्प्रतिबद्धबुद्धयः किञ्चिदज्ञाः, ईश्वरस्तु प्रकृत्यवश्यत्वादप्रतिबद्धबुद्धिः सर्वज्ञः इति नित्यश्शाश्वतश्शुद्धो निर्मल: बुद्धः प्राज्ञः मुक्तश्च खभावो यस्य सः न विद्यते आवरणं यस्यास्सा अनावरणा ज्ञानशक्तिर्यस्य सः एकस्याप्यात्मनः प्रकृतिकृतोऽस्ति जीवेश्वर भेदो मठाद्युपाधिकृत इवाकाशभेदः । अजस्याप्यात्मनश्शरीरसम्बन्धकृतानि सन्ति जन्मानि चेति न काचिदिहानुपपत्तिः || ५॥ अजोपीति । ननु अजस्यापि जीवस्य धर्माधर्म संस्कारवशाज्जन्मनाशौ भवतां नाम- धर्माधर्म- कृतत्वाच्छरीरसंयोगवियोगयोः । ईश्वरस्य तु नित्यमुक्तस्य कथं धर्माधर्मसद्भावो येन जन्मादिकं स्यादिति शङ्कायामयं श्लोकः प्रवृत्त इत्याह- कथमिति, अजोपीति । पुण्यापुण्यकर्माधीनशरीरसंयोगरहितोपी- त्यर्थः । ’ आत्मा यत्ने धृतौ बुद्धौ स्वभावे परमात्म’ नीति कोशादाह – स्वभाव इति । भूतानामीशन च भीषाऽस्माद्वातः पवत इत्यादिश्रुतिसिद्धम् । ईशनं नियमनं विष्णोः परमात्मन इमां वैष्णवीं त्रयो गुणास्सत्त्वादय आत्मा स्वरूपं यस्यास्तां त्रिगुणात्मिकां स्वमात्मानं प्रत्यग्रूपम् । ननु प्रकृतिमधिष्ठायापि कथमजस्य जन्मेत्यत आह- अत्ममाययेति । आत्मनो मम मायया इन्द्रजालतुल्यया विचित्रशक्त्ये- त्यर्थः । व्यतिरेकमाह - न परमार्थतो लोकवदिति । यथा लोकः परमार्थतः सम्भवति न तथेत्यर्थः । ननु प्रकृतिमाययोरेकार्थत्वात्प्रकृतिमधिष्ठाय मायया सम्भवामीत्ययुक्तमुक्तं मूलकर्त्रा - न परमार्थतो लोकव- २० चतुर्थोऽध्यायः । १५३ दिति भाष्यकर्ताप्ययुक्तमुक्तं- परमार्थतो लोकस्यैवाभावादिति चेत्, मैवम् - अविद्यामात्र प्रकृतिः, दोषसहकृता विद्या तु माया, अविद्योपादानकं कार्य व्यावहारिकत्वात्परमार्थतो जातमित्युक्तं- मायोपा- दानकं तु प्रातिभासिकत्वान्न परमार्थत इति । यथा अविद्याजन्यस्सर्पस्सत्यसर्पो मायामयस्तु रज्जुसर्पो मिथ्यासर्पः, यथा वा जाग्रत्प्रपञ्चोऽविद्याजन्यस्सत्यप्रपञ्चः स्वानप्रपञ्चो मायामयो मिथ्याप्रपञ्चः तद्व- जीवानां शरीरसंयोगोऽविद्याजन्य :- ईश्वरस्य तु मायामय इत्यदोषात् । प्रकृतिमधिष्ठायेति वचनं तु जीवानामिव नास्याविद्यामयश्शरीरसंयोगः अविद्याया एतत्परतन्त्रत्वादेतस्य शरीरसंयोगं कर्तुं न क्षमत इति बोधनार्थम् । अविद्या हि जीवान् स्ववशीकृत्य तेषां स्वजन्यशरीरसंयोगं विधत्ते । नात्र कूटस्थ आत्मा जीवशब्देन विवक्षितः, किंतु साभासबुद्धिरेव विज्ञानात्मा जीव इति । कूटस्थ आत्मा हीश्वरा- दभिन्नः तत्त्वमस्यादिश्रुतेः । जीवस्य वास्तवं रूपं कूटस्थ आत्मैव, व्यावहारिकं तु साभासबुद्धिरिति विवेकः । · यद्वा त्रिगुणात्मिका माया प्रकृतिः, इन्द्रजालशक्तितुल्या तु मायेति विवेकः । तथाच प्रकृति- कार्ये जीवानां देहेन्द्रियादिकं व्यावहारिकं मायाकार्यमीश्वरस्य देहेन्द्रियादिकं तु ऐन्द्रजालिकगन्धर्व- नगरवत्प्रातिभासिकम् । अतएव न परमार्थतो लोकवदिति भाषितमाचार्यैः । अत्र परमार्थत इत्यस्य व्यवहारत इत्यर्थः । नतु वस्तुत इति वस्तुतो लोकस्यैवाभावात् । अत्रेदं बोध्यम् — व्यावहारिकसत्, पारपार्थिकसत् प्रातिभासिकसत्, अत्यन्तासच्चेति चतु- विधं पदार्थजातम् । तत्र व्यावहारिकसत् जाग्रद्दशायामदुष्टप्रमाणैरनुभूयमानं जगन्मनुष्यपशुपक्ष्यादिकं भूम्यादिभूतात्मकं च, पारमार्थिकसत् एकमेवाद्वितीयं ब्रह्म, प्रातिभासिकयत् स्वप्नेन्द्रजालरज्जुसर्पादिकं यदुष्टप्रमाणैर्गृह्यते प्रतिभानसमयमात्रवर्ति, अत्यन्तासत्तु वन्ध्यापुत्रशशशृङ्गादिकं प्रतीतितोपि तस्या - भावात् । तदुक्तं ‘वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायत’ इति । एवं स्थिते ईश्वरावतारा रामकृष्णादयः नात्यन्तासन्तः- प्रतीतितत्सत्त्वात्, न पारमार्थिकसन्तः - परमार्थदशायामभावात् नापि व्यावहारिक सन्तः - अतर्कितजन्मादीनां तेषां व्यावहारिकत्वासम्भवात् । अतः प्रातिभासिकसत्त्वमवशिष्टं तेषां युक्तं च तदविचारितरमणीयत्वादुन्धर्वनगरादिवत् । नहि चतु- र्भजश्शङ्खचकादिमान्किरीटादिभूषितस्सर्वज्ञश्शिशुः कस्याश्चिदासीदिति केनचिदुक्ते कोपि सम्प्रतीया- त्सत्योंयं वृत्तान्त इति । तथा स्तम्भान्नरसिंहो भयाकृतिः पुरुष आविरासीदित्युक्तेपि यद्धि विचारा तत्खल्विन्द्रजालवन्मिथ्या । यद्यपि सिद्धान्ते व्यावहारिकं जगदपि विचाराक्षममेव- ‘एतस्मात्किमिवेन्द्रजालमपरं यगर्भवास- स्थितं रेतश्चेतति हस्तमस्तकपदप्रो भूतनानांकुर’ मिति, तथापि रेतो बीजमृदा दे सकाशादेहवृक्षघटादि- जन्मनस्सर्वानुभव सिद्धत्वान्न तत्र कस्यचिदप्याश्चर्यलेशः, अप्रमाणबुद्धिर्वा । ततस्तद्विचारक्षममित्युच्यते यल्लौकिकानामाश्चर्याविषयभूतम् । यत्तु तदाश्चर्यविषयभूतं तद्विचारक्षमं मिथ्येत्युच्यते - यथा गन्धर्वनगरा- दिकमिति । तस्मादिन्द्रजालवद्विचित्रहेतुरीश्वरशक्तिर्माया, सर्वसाधारणा तु प्रकृतिरिति ।१५४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ! अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ||७|| तश्च जन्म कदा किमर्थं चेति, उच्यते - यदेति । यदा यदा हि धर्मस्य ग्लानिर्हानिः वर्णाश्रमादिलक्षणस्य प्राणिनामभ्युदय निश्श्रेयससाधनस्य भवति, भारत ! अभ्युत्थानमुद्भवः अधर्मस्य तदा तदा आत्मानं सृजाम्यहं मायया ॥ ७॥ अथवा प्रकृतिर्माया चेत्येकमेव वस्तु- वशीकृतप्रकृतिरहं प्रकृत्यैव सम्भवामि, नतु धर्माधर्मादि- नेत्येतदर्थमात्ममाययेत्युक्तं- यो हि धर्माधर्मादिसंस्कारसचिवप्रकृतिजन्यो मनुष्यादिस्स परमार्थतो जात इत्यु- च्यते । यस्तु केवलमायाजन्यो रामकृष्णादिस्स परमार्थतो न जात इति अत इवेत्युच्यते - यथा अज्ञस्य सकामं कर्म वस्तुतः कर्मैव । प्राज्ञस्य तु निष्कामं तत्कर्म न वस्तुतः कर्म, किंतु कर्मेवाभाति - अबन्ध- कत्वात् । तथा प्राज्ञस्येश्वरस्याबन्धकत्वाद्रामकृष्णादिदेहधारणलक्षणं जन्म न वस्तुतो जन्म, किंतु जन्मेव प्रतिभाति - अबन्धकत्वादज्ञस्य जीवस्य तु मनुष्यादिदेहधारणलक्षणं जन्म वस्तुतो जन्मैव- बन्ध- कत्वादित्यभिप्रायः । द्वैतिनश्च ईश्वरस्य न कर्माधीनं जन्म, किं तु लीलयैवेत्याहु:- सा च लीला मायातोऽनतिरिक्तैव मायामयत्वाल्लीलायाः । नहि वस्तुतो निर्विशेषे ईश्वरे लीला सम्भवेदित्यलम् । एतेन जीव पदवाच्यायाः प्रकृतिपरतन्त्रायास्साभासबुद्धेर्यथा प्रकृतिजन्यशरीरसंयोगात्मकं जन्मास्ति, तथा ईश्वरपदवाच्यस्य प्रकृत्यपरतन्त्रस्य कूटस्थस्यात्मनो नास्ति प्रकृतिजन्यशरीरसंयोगात्मकं जन्म, किंतु मायामयमेव तदिति पर्यवसन्नश्श्लोकार्थः । नुन ईश्वरशरीरस्य प्रातिभासिकत्वेन मायामयत्वं, जीवशरीराणां व्यावहारिकत्वेन प्रकृतिमयत्व- मिति विवेको दुष्करः- यावद्व्यवहारमर्जुनशरीरवत् कृष्णशरीरस्यापि वर्तमानत्वादिति चेत्, मैवम् - कृष्णशरीरस्यानेकविधत्वेन दृश्यमानत्वात्कदा चिददृश्यमानत्वाच्च मायामयत्वं यथा रज्जुसर्पस्य कदाचि - द्दण्डादिरूपेण दृश्यमानत्वात्कदाचिददर्शनाच्च मायामयत्वं - तद्वत् । तस्मादर्जुनादिवन्नास्ति परमार्थतो जन्म कृष्णस्येति कृष्णस्य नित्याजेश्वरत्वं युक्तम् । यत्तु रामानुजः - नेदं कृष्णस्य जन्म इन्द्रजालादिवन्मिथ्या, किंतु सत्यमेव- प्रकृतिं स्वभाव- .मष्ठाया जहदेव आत्ममायया सङ्कल्पज्ञानेन सम्भवामि ईश्वरस्य स्वस्वरूपं च ‘आदित्यवर्ण हिरण्यवर्ण सर्वे निमेषा विद्युतः पुरुषा’ दित्यादिश्रुति सिद्धमिति, तत्तुच्छम् -’ सच्चिदानन्दं ब्रह्म, निष्कलं निष्क्रियं शान्तम- शब्दमस्पर्शमरूपमव्यय’ मित्यादिश्रुत्या ईश्वरस्य नीरूपत्वस्वभावसिद्धेः हिरण्यवर्णत्वादिरूपस्य उपासनार्थ कल्पितत्वेन इन्द्रजालवन्मायामयत्वसिद्धेश्च, ईश्वरस्य सविग्रहत्वे सर्वान्तरत्वसाक्षित्वाद्यसिद्धेश्च दृश्यत्वेन घटादिवद नित्यत्वप्रसङ्गाच, सङ्कल्पेनाप्यजस्य जन्मायोगाच्च, असङ्गपुरुषस्येश्वरस्य वस्तुतश्शरीरसङ्ग योगाच्च मिथ्यैवाय कृष्णावतारः ॥ ६॥ यदा यदेति । हेभारत यदा यदा धर्मस्य ग्लालिर्भवति, अधर्मस्याभ्युत्थानं भवति तदा तदा आत्मानं सृजामि । आत्मानं मां सृजाम्याविर्भावयामि । कथमात्मनोऽजस्य जन्मेत्यत आह- माययेति ||७|| चतुर्थोऽध्यायः । परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगेयुगे ॥ ८ ॥ १५५ किमर्थम् - - परित्राणायेति । परित्राणाय परिरक्षणाय साधूनां सन्मार्गस्थानां विनाशाय च दुष्कृतां पापकारिणाम् । किंच धर्मसंस्थापनार्थाय धर्मस्य सम्यक् स्थापनं धर्मसंस्थान तदर्थं सम्भवामि युगेयुगे प्रतियुगम् ॥८॥ जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥९॥ तत् जन्मेति । जन्म मायारूपं कर्म च साधूनां परित्राणादि मे मम दिव्य अप्राकृत- मैश्वरम् । एवं यथोक्तं यो वेत्ति तत्त्वतः तत्त्वेन यथावत् त्यक्त्वा देहमिमं पुनर्जन्म पुन- रुत्पत्ति नैति न प्राप्नोति, मामेति प्राप्नोति स मुच्यते अर्जुन ! ||९|| परित्राणायेति । साधूनां परित्राणाय, दुष्कृतां विनाशाय, धर्मसंस्थापनार्थाय च युगेयुगे अहं सम्भवामि साधूनां सन्मार्गस्थानां देवर्ष्यादीनाम् । यत्तु रामानुजः – विष्णुविरहासहानां वैष्णवाग्रेसराणामिति, तदवतीव तुच्छम् - किं ज्ञानिनो वैष्णवाग्रेसराः ? उताज्ञानिनः ? आद्ये- ‘वासुदेवस्सर्वमिति, समहात्मा सुदुर्लभ’ इत्युक्तरीत्या सर्व ब्रह्मेति, सर्वगत्वादनन्तस्य ’ स एवाहमवस्थितः, मत्तस्सर्वमहं सर्वे मयि सर्व सनातन’ इति प्रहा- दोक्तरीत्या ब्रह्माहमस्मीति च येषां ज्ञानमस्ति त एवाद्वैतिनो वैष्णवाग्रेसराः । तेषां कथं विष्णुविरह- प्रसङ्गः । विष्णोरेव स्वात्मत्वात्सदापि विष्ण्वभिन्नात्मानन्दानुभवव्यग्रत्वाच्च । न द्वितीय:- विष्णुमजानतां वैष्णवत्वासम्भवात् - ये विष्णुं जानन्तस्तत्र भक्तिं तन्वन्ति ते हि वैष्णवाः - ‘विष्ण्वर्पिताखिलाचा रस्स हि वैष्णव उच्यत’ इति शास्रात् । नच ‘न चलति निजवर्णधर्मतो यः स्थिरमनसं तमवेहि विष्णुभक्त’ मिति वचनात्स्ववर्णाश्रमधर्मस्थो वैष्णव इति वाच्यं, तस्य योगित्वाद्योगिन एव वैष्णवत्वे ज्ञानिनोऽवैष्ण- वत्वापत्तेः । ‘प्रियोहं ज्ञानिनोत्यर्थमहं सच मम प्रिय’ इति वक्ष्यमाणगीताविरोधाच्च । नहि विष्णुप्रियो ज्ञानी वैष्णवो न भवतीति वक्तुं शक्यम् । भवतु वा योगिनोपि ज्ञानशून्यस्य वैष्णवत्वं कथं पुनस्तस्य भगवद्विरहासहत्वम् ? भगवत्स्वरूपस्वभावादिज्ञानस्यैवाभावात् । नच तप्तशङ्खचक्रचिह्नधारिणछिद्रोर्ध्व- पुंडधरा अर्चापूजका द्विजा वैष्णवा इति वाच्यं, तापादीनां वेदविरुद्धाचारत्वेन एवंविधदुराचारवतां दुष्कृतां विनाशायैव भगवदवताराविर्भावाच्च । नामी वैष्णवाः । तापादीनां द्विजेतराविषयत्वं तु मामके शूद्रधर्मदर्पणाख्ये ग्रन्थे विस्तरतो द्रष्टव्यम् । तस्मात्साधुपददर्शनमात्रेण नेह वैष्णवजनाडम्बरः प्रसवतु- मर्हति ॥८॥ जन्मेति । एवं यः मे जन्म दिव्यं कर्म च तत्त्वतो वेति- हे अर्जुन ! सः देहं त्यक्त्वा पुनः जन्म नैति मामेति । मायारूपं मिथ्याभूतमित्यर्थः । ईश्वरस्येदं एैश्वरम् । पुनर्जन्म नैति, मामेती- स्यस्य फलितमाह - स मुच्यत इति । अजो नित्यश्शुद्धी बुद्धो मुक्त आत्मा खतो न जायते, किंतु माययैव, तस्य चेष्टितं च न प्राकृत, किं त्वप्राकृतं लोकातीतमेवेति यो वेद स मुच्यत इत्यर्थः । १५६ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेता सु वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १० ॥ नैष मोक्षमार्ग:- इदानीं प्रवृत्तः किं तर्हि पूर्वमपि वीतेति । वीतरागभयक्रोधाः रागश्च भयं च क्रोधच वीता: येभ्यस्ते मन्मया : ब्रह्मविदः ईश्वराभेददर्शिनः मामेव च परमें- वरमुपाश्रिता:- केवलज्ञाननिष्ठा इत्यर्थः । बहवः अनेके ज्ञानतपसा ज्ञानमेव परमात्मविषयं तपः तेन ज्ञानतपसा पूताः परां शुद्धं गतास्सन्तः मद्भावमीश्वरभावं मोक्षमागतास्समनुप्राप्ताः इतरतपोनिरपेक्षाः । ज्ञाननिष्ठा इत्यस्य लिङ्गं ज्ञानतपसेति विशेषणम् ॥१०॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ ११ ॥ तव तर्हि रागद्वेषौ स्तः, यतः केभ्यश्चिदेव आत्मभावं प्रयच्छसि न सर्वेभ्य इति उच्यते- य इति । ये यथा येन प्रकारेण येन प्रयोजनेन यत्फलार्थितया मां प्रपद्यन्ते तांस्तथैत्र तत्फलदानेन भजामि - अनुगृह्णामीत्येतत् । अहं तेषां मोक्षं प्रत्यनर्थित्वात् । न ह्येकस्य मुमुक्षुत्वं फलार्थित्वं च युगपत्सम्भवति । अतो ये यत्फलार्थिनः तान् तत्फलदानेन ये यथोक्तकारिणस्त्वफलार्थिनो मुमुक्षवश्च तान् ज्ञानप्रदानेन ये ज्ञानिनः सन्न्यासिनो मुमुक्षवश्च तान्मोक्षप्रदानेन, तथा आर्तानामार्तिहरणेन इत्येवं यथा प्रपद्यन्ते ये तांस्तथैव भजामीत्यर्थः । तं यथा यथोपासते तन्तमेव फलं लभत’ इति श्रुतेः । न पुनः रागद्वेषनिमित्तं मोहनिमित्तं वा कश्चिद्भजामि सर्वदापि सर्वावस्थस्य ममेश्वरस्य वर्त्म ननु ईश्वरजन्मकर्मज्ञानात्कथं जीवस्य मुक्तिरिति चेदुच्यते - ईश्वरो हि जीवस्य स्वखरूपम् । तस्मादीश्वरतत्त्वज्ञाने सति जीवतत्त्वं ज्ञातमेवेति भवति मुक्तिरिति । यत्तु रामानुजः — मज्जन्मकर्मणी ज्ञात्वा निष्पापो भूत्वा मामाश्रित्य मदेकप्रियो मच्चितो मामेव प्राप्नोतीत्याह तदप्रमाणम् - मूलाद्बहिर्बहूनां पदार्थानां कल्पितत्वान्मदाश्रयणादीनाम् ||९|| वीतेति । वीतरागभयक्रोधाः मामुपाश्रिताः ज्ञानतपसा पूताः बहवो मन्मयाः मद्भावमागताः – रागभयादित्यागपूर्वकं केवलज्ञानयोगमाश्रित्य तत एव परिशुद्धा अनेके ब्रह्मविदो मोक्ष प्राप्ता इत्यर्थः । केवलज्ञाननिष्ठा इति । इतरतपोनैरपेक्ष्येण ज्ञानयोगनिष्ठा इत्यर्थः । ननु किमत्र ज्ञापकमत आह- लिङ्गमति । ज्ञानतपसा पूता इति विशेषणमेव लिङ्ग ज्ञापकम् । ज्ञानमेव तपो ज्ञानतप इति हि समासः । तत्रैवकारेण तपोन्तरव्यवच्छेद इति भावः । यद्वा ज्ञाने तपस्त्वारोपणात्तपोन्तरव्यवच्छेदः । सति त्वितरतपसि किमिति ज्ञाने तपस्त्वारोपणपूर्वकं कृत्रिमतपसो ज्ञानस्योपादानम् । नहि ज्ञान वस्तुतस्तपं इति ॥ १०॥ य इति । तमिति श्रुतेरयमर्थः - तमीश्वरं यथा यथा येन येन प्रकारेण यं यमर्थमभिसन्धायेति यावत् । उपासते पुरुषाः तं तमेव फलमर्थं लभते प्राप्नुवन्तीति वचनव्यत्ययश्छान्दसः । सर्वावस्थस्येति 1 चतुर्थोऽध्यायः । १५७ मार्गमनुवर्तन्ते मनुष्याः यत्फलार्थितया यस्मिन् कर्मणि अधिकृताः ये प्रवर्तन्ते ते मनुष्याः उच्यन्ते पार्थ सर्वशः सर्वप्रकारैः ॥ ११ ॥ · कांक्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥ यदि तवेश्वरस्य रागद्वेषाभावात् सर्वप्राणिष्वनुजिघृक्षायां तुल्यायां सर्वफलप्रदानसमर्थ च त्वयिसति- ‘वासुदेवस्सर्व’ मिति वास्तवज्ञानेनैव मुमुक्षवस्सन्तः कस्माच्चामेव सर्वे न प्रपद्यन्त इति, शृणु तत्र कारणम् - कांक्षन्त इति । कांक्षन्तः प्रार्थयन्तः कर्मणां सिद्धिं फलनिष्पत्तिं यजन्ते इह अस्मिल्लोके देवताः इन्द्राग्न्याद्याः । ‘अथ योऽन्यां देवतामुपास्तेऽ न्योऽसावन्योहमस्मीति न स वेद यया पशुरेवं स देवाना’ मिति श्रुतेः तेषां भिन्नदेवता- याजिनां फलकांक्षिणां क्षिप्रं शीघ्रं हि यस्मात् मानुषे लोके मनुष्यलोके हि शास्त्राधिकारात् क्षिप्रं मानुषे लोक इति विशेषणात् । अन्येष्वपि कर्मफलसिद्धिं दर्शयति भगवान् — मानुषे लोके वर्णाश्रमादिकर्माधिकार इति विशेषः । तेषां वर्णाश्रमाद्यधिकारिणां कर्मिणां फलसिद्धि: क्षिप्रं भवति कर्मजा कर्मणो जाता ||१२|| सर्वप्रकारमवस्थितस्येत्यर्थः । ब्रह्मादिस्थावरान्तरूपेण सच्चिदानन्दरूपेण च स्थितस्येति यावत् । मायया वस्तुतश्चति भावः । मम वर्त्मानुवर्तन्ते मदुक्तमार्गानुष्ठानद्वारा मामेव भजन्ते इत्यर्थः । यत्तु रामानुजः— मम वर्त्म मत्स्वभावमनुवर्तन्ते अनुभूयानुवर्तन्त इति, तत्तुच्छम् — वर्त्मनः स्वभावार्थाभावात् । अनुभूयेतिपदाभावाच्च । मनुष्याणां सर्वप्रकारै भगवत्स्वभावानुभवस्य दुष्करत्वाच्च ॥

कांक्षन्त इति । अथेति श्रुतेरयमर्थः — यः अन्यामिन्द्रादिदेवतां असावन्यः अहमन्योस्मी- स्युपास्ते कर्मफलदाता इन्द्रः तद्भोक्तात्वहमिति भेदबुद्धयोपास्ते इत्यर्थः । सः न वेद - अज्ञ इत्यर्थः । तत्र दृष्टान्तमाह — यथा पशुरिति । यथा पशुर्मनुष्याणां भोग्य एवं स कर्मी देवानां भोग्य इति देवपशुरेवेत्यर्थः । भिन्नदेवतेति । वासुदेवस्य सर्वात्मत्वात्स्वात्माभिन्नदेवतात्वं नत्विन्द्रादीनां तेषा - मसर्वात्मत्वात् । दर्शितं चैतद्भागवते व्यासेनैव - ’ एवं गजेन्द्रमुपवर्णितनिर्विशेषं ब्रह्मादयो विविधलिङ्ग- भिदाभिमानाः । नैते यदोपससृपुर्निखिलात्मकत्वात्तत्राखिलामरमयो हरिराविरासी’ दिति । तथा च इन्द्रादयः भिन्नदेवताः वासुदेव एक एवाभिन्नदेवतेति बोध्यम् । वस्तुतस्तु वासुदेवो नाम न कश्चित्कार्यकरणसङ्घातविशेषे अहमित्यभिमानवान् पुरुषः इन्द्रादि- बत्, किंतु नित्यशुद्धबुद्ध आत्मैवेति कथमात्मनो भिन्न देवतात्वमिति ज्ञेयम् । हिशब्दः प्रसिद्धि द्योतकः । तामेव प्रसिद्धिमाह - शास्त्राधिकारादिति । मानुषे लोके भूलोके, तत्रापि मनुष्याणां तेष्वपि त्रैवर्णिकानामेव शास्त्राधिकारः । शास्त्रस्य च फलवत्त्वाच्छास्त्राधिकारिणामेव फलसिद्धिरिति भावः । ननु मानुषे लोके कर्मजा सिद्धिः क्षिप्रं भवतीति कौर्थः क्षिप्रपदनिर्देशेनेत्यत आह–अन्येष्वपीति । अन्येषु लोकेषु कर्मजा सिद्धिश्विराय भवतीत्यर्थः 1 १५८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः । . तस्य कर्तारमपि मां विद्धयकर्तारमव्ययम् ॥ १३ ॥ मानुष एव लोके वर्णाश्रमादिकर्माधिकारो नान्येषु लोकेष्विति नियमः, किं निमित्त इति । अथवा वर्णाश्रमादिप्रविभागोपेता मनुष्याः मम वर्त्मानुवर्तन्ते सर्वश इत्युक्तं, करमा- त्पुनः कारणात् नियमेन तवैव वर्त्मानुवर्तन्ते नान्यस्येति ? उच्यते-चातुर्वर्ण्यमिति । चत्वार एव वर्णाश्चातुर्वर्ण्य मया ईश्वरेण सृष्टमुत्पादितं गुणकर्मविभागशः गुणविभागशः कर्म- विभागशश्च गुणास्सच्चरजस्तमांसि तत्र सात्विकस्य सत्त्वप्रधानस्य ब्राह्मणस्य शमो दमस्तप इत्यादीनि कर्माणि सत्त्वोपसर्जनस्य रजःप्रधानस्य क्षत्रियस्य शौर्यतेजः प्रभृतीनि कर्माणि, तम उपसर्जनस्य रजः प्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि, रजउपसर्जनस्य तमः प्रधानस्य शूद्रस्य शुश्रूषैकमेव कर्मेति, एवं गुणकर्मविभागशश्चातुर्वर्ण्य मया सृष्टमित्यर्थः । तच्चेदं चातुर्वर्ण्य नान्येषु लोकेषु । अतो मानुषे लोके इति विशेषणम् । हन्त ! तर्हि चातुर्वण्यस्य सर्गादे: कर्मण: कर्तृत्वात् तत्फलेन युज्यसे अतो न त्वं नित्यमुक्तो नित्येश्वर इति उच्यते- यद्यपि मायासंव्यवहारेण तस्य कर्मणः कर्तारमपि सन्तं मां परमार्थतो विद्धयकर्तारम् । ननु अन्येषु लोकेषु कर्माधिकारस्यैवाभावात्कथं कर्मसिद्धिरिति चेदुच्यते - इहानुष्ठितानामेव विविधानां कर्मणां फलान्यपि विविधानि पुत्रपशुस्वर्गादिरूपाणि भवन्ति, तत्र पशुपुत्रादिरूपा ऐहिक- कर्मसिद्धिः क्षिप्रं भवति, स्वर्गादिरूपा आमुष्मिककर्मसिद्धिस्तु चिराय भवतीति कर्माधिकाराभावेपि स्वर्गलोकादिषु कर्मसिद्धयस्सन्त्येवेति । कर्मसिद्धयः कर्मफलानि ॥१२॥ चातुर्वर्ण्यमिति । मया चातुर्वर्ण्य गुणकर्मविभागशः सृष्टम् । तस्य कर्तारमपि मामकर्तार- मव्ययं विद्धि । चतुर्वर्णशब्दात्स्वार्थे ष्यञ् । चातुर्वर्ण्यं सत्त्वमुपसर्जनमप्रधानं यस्य स सत्त्वोपसर्जन: तस्य शुश्रूषा त्रैवर्णिकसेवा । यतस्सर्वज्ञोहं गुणकर्मविभागपूर्वकं चातुर्वर्ण्य सृष्टवांस्ततो मनुष्या ममैव वर्त्मानुवर्तन्ते - स्वस्वविहितवर्णाश्रमधर्मानुष्ठानद्वारा तद्विधायकं मामेव सेवन्त इत्यर्थः । मनुष्यलोके चातुर्वर्ण्यस्य गुणकर्मविभागवतस्तत्त्वादिहैव कर्माधिकारः । अन्येषु लोकेषु तु चातुर्वर्ण्याभावान्न कर्माधि- कार इत्यन्योर्थ:– द्वेधा अवतारिकायाः कृतत्वाद्भाष्यकारैरस्य श्लोकस्य । सर्गादेरित्यादिपदात्स्थिति- लययोर्ग्रहणम् । कर्मणः क्रियायाः यः यत्कर्मकर्ता स तत्फलेन युक्तो भवति यथा कृषीवलस्सस्येनेति व्याप्तिसत्त्वा चातुर्वर्ण्यसृष्ट्यादिकर्मकर्ता त्वमपि तत्फलेन युज्यस एव भवतु को दोषस्तत्राह — न त्वं नित्यमुक्त इति । कर्मफलबद्धस्य कथं मुक्तत्वमिति भावः । नन्वीश्वरस्य मम किं मुक्त्येत्यत आह- नित्येश्वर इति । वद्धस्यानीश्वरत्वं लोकन्यायेनापि सिद्धमिति भावः । अस्मिन्प्रश्ने प्रतिजानाति - उच्यत इति । किमुच्यते तदाह- यद्यपीत्यादिना । सव्यवहारः एकीकृत्य व्यवहारः तादात्म्याभ्यास इति यावत् । माययैव सृष्ट्यादीनि कर्माणि क्रियन्ते, नत्वीश्वरेण तस्याक्रियत्वात् । मायालादारम्या- ध्यासात्तु कर्तृत्वमारोप्यतेऽज्ञैरीश्वरे इति भावः । इदमेवोक्तं विश्वामित्रेणाध्यात्मरामायणे - ‘रामो न चतुर्थोऽध्यायः । अतएव चाव्ययं असंसारिणं च मां विद्धि || १३ ॥ न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ १४॥ १५९ येषां तु कर्मणां कर्तारं मां मन्यसे परमार्थतः तेषामकर्तेवाहम् । यतः, नेति । न मां तानि कर्माणि लिम्पन्ति - देहाद्यारम्भकत्वेन अहङ्काराभावात् । न चैतेषां कर्मणां फले मे मम स्पृहा तृष्णा । येषां तु संसारिणां अहं कर्तेत्यभिमानः कर्मसु स्पृहा च तत्फलेषु तान् कर्माणि लिम्पन्तीति च युक्तं तदभावन्न मां तानि कर्माणि लिम्पन्तीत्येवं योन्योपि मा- मात्मत्वेनाभिजानाति, नाहं कर्ता, न मे कर्मफले स्पृहेति । स कर्मभिर्न बध्यते तस्यापि न देहाद्यारम्भकाणि कर्माणि भवन्तीत्यर्थः ॥ १४ ॥ क्रान्तैः एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्माचं पूर्वैः पूर्वतरं कृतम् ॥१५॥ एवमिति । नाहं कर्ता, न मे कर्मफले स्पृहेति । एवं ज्ञात्वा कृतं कर्म पूर्वैरप्यति- : मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं न तूष्णीमासनं नापि सन्न्यासः कर्तव्यः । तस्मात्त्वं गच्छति न तिष्ठति नानुशोचत्याकांक्षते त्यजति नो न करोति किञ्चित् ! आनन्दमूर्तिरचल: परिणाम- हीनो मायागुणाननुगतो हि तथा विभाति ॥’ इति । कथं कर्तुरकर्तृत्वमत आह- परमार्थत इति । वस्तुतोऽकर्ताप्यहं मायया कर्तेव प्रतीय इत्यर्थः । अत एवेति । वस्तुतोऽकर्तृत्वादेवेत्यर्थः । यस्संसरति स व्यतीत्युच्यते- संसारस्यैव विकारत्वादित्यभिप्रायादाह – अव्ययमसंसारिणमिति । निर्विकार- मित्यर्थः ॥ १३ ॥ २ नेति । लिम्पन्ति बन्नन्तीत्यर्थः । केन प्रकारेणेत्यत आह- देहाद्यारम्भकत्वेनेति । आदि- पदादिन्द्रियादिग्रहणं, विषयादिग्रहणं वा । न कर्मभिर्मम जन्मवृद्ध्यादिरूपसंसारात्मको लेपोऽस्तीत्यर्थः । तत्र हेतुमाह — अहङ्काराभावादिति । कर्ताहमिति विपरीतज्ञानाभावादित्यर्थः । ननु भगवतः कृष्णस्य नास्ति कर्मलेप, नास्ति कर्मफलस्पृहेति ज्ञानमात्रात्कथमन्येषामस्मदादीनां मुक्तिरत आह— मामात्म- त्वेनेति । यः कर्मलेपरहितः कर्मफलतृष्णारहितश्चेश्वरः स एवाहं, अहमेव स ईश्वर इति मदभिन्नमात्मानमात्माभिन्नं च मां यो वेत्ति - एवमीश्वरात्मदर्शिनः कीदृशी बुद्धिर्भवतीत्यत आह- नाहं कर्ता न मे कर्मफले स्पृहेति । ममैवेश्वरत्व |दीश्वरस्यैवात्मत्वाच्च नाहं कर्ता न मे कर्मफले स्पृहेति यो जानातीत्यर्थः । सः पुरुषः कर्मभिर्न बध्यते । तस्यापि कर्माणि नित्यानि नैमित्तिकानि काम्यानि निषिद्धानि वा तदाचरितकर्माणि देहाद्यारम्भाकाणि न भवन्ति । फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वादिति भावः । एतेन फलाभिसन्ध्यहङ्कारयोस्सत्त्वे एव कर्मणां बन्धकत्वं नतु तदभावे इति सिद्धान्तितम् ॥ १४ ॥

एवमिति । एवंशब्दार्थमाह - नाहं कर्ता न मे कर्मफले स्पृहेतीति । पूर्वैरित्यस्यार्थ - माह– अतिक्रान्तैरिति । प्राचीनैरतीतैरित्यर्थः । कर्मैवेत्येवकारव्यावर्त्यर्थमाह-न तूष्णीमासन १६० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु पूर्वैरप्यनुष्ठितत्वात् । यद्यज्ञः आत्मशुद्धयर्थं तत्त्रविच्चेलोकसंग्रहार्थ- पूर्वैर्जन कादिभिः पूर्वतरं कृतं नाधुना कृतं निर्वर्तितम् ||१५|| किं कर्म किमकर्मेति कवयोप्यत्र मोहिताः । तत् कर्म प्रवक्ष्यामि यद्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥ नन्वत्र कर्मवेत्कर्तव्यं तद्वचनादेव करोम्यहं किं विशेषितेन पूर्वैः पूर्वतरं कृतमिति, उच्यते - यस्मान्महद्वैषम्यं कर्मणि, कथम् ? किमिति । किं कर्म किंवा अकर्मेति कत्रयो मेधाविनोपि अत्रास्मिन् कर्माकर्मविषये मोहिताः मोहं गताः । तत् अतस्ते अहं कर्माकर्म च प्रवक्ष्यामि । यत् ज्ञात्वा कर्मादि मोक्ष्यसे अशुभात्संसारात् ॥ १६ ॥ कर्मणो ह्यपि बोद्धव्य बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ १७ ॥ 1 न चैतत्त्वया मन्तव्यं कर्मनाम देहादिचेष्टा लोकप्रसिद्धम् । अकर्म च तदक्रिया तूष्णीमासनम् । किं तत्र बोद्धव्यमिति, कस्मात् उच्यते - कर्मण इति । कर्मणः शास्त्र - विहितस्य हि यस्मादप्यस्ति बोद्धव्यं बोद्धव्यं चास्त्येव विकर्मणः प्रतिषिद्धस्य । तथा अकर्म- णच तूष्णींभावस्य बोद्धव्यमस्ति ते । त्रिष्वपि अस्तीत्यध्याहारः कर्तव्यः । यस्माद्गहना विषमा दुर्विज्ञेया । कर्मण इत्युपलक्षणार्थं कर्मादीनां कर्माकर्मविकर्मणां गतिर्याथात्म्यं तत्त्वमित्यर्थः ||१७|| नापि सन्न्यास इति । तूष्णीमासनं तूष्णीं स्थितिः अकरणमिति यावत् । सन्न्यास आश्रमविशेषः । तस्माच्छब्दार्थमाह — पूर्वैरप्यनुष्ठितत्वादिति । के ते पूर्वे अत आह— जनकादिभिरिति । पूर्वतरं पूर्वमेवेत्यर्थः । तरप्प्रत्ययार्थमाह - नाधुनाकृतमिति । कृतशब्दार्थमाह - निर्वर्तितमिति । पूर्वै- रपि मुमुक्षुभिरेवं ज्ञात्वा कर्म कृतं, तस्मात्पूर्वैः पूर्वतरं कृतं कर्मैव त्वं कुरु इत्यन्वयः । किमर्थं कर्म कर्तव्यमत आह— यद्यज्ञस्तर्द्धात्मशुद्धयर्थं चित्तशुद्धये कर्म कुरु, यदि तत्त्ववित्तर्हि लोकसंग्रहार्थ कर्म कुर्विति ॥१५॥

किमिति, तद्वचनादेवेति । ईश्वरस्य तवादेशेनेत्यर्थः । नहि पूर्वाचार ईश्वरादेशादधिक इति भावः । पूर्वैः पूर्वतरं कृतमिति विशेषितेन विशेषणेन कर्मण इति भावः । किं कर्मण: पूर्वे: पूर्वतरं कृतमिति विशेषणेन- न किमपि फलमित्यर्थः । यस्मात्कर्मणि महद्वैषम्यमस्ति तस्मात्पूर्वैः पूर्वतरं कृतमिति विशेषितं कर्म । कथं वैषम्यमित्यतः: श्लोकोऽयं प्रवृत्त इत्याह- कथं किमिति । यदेव पूर्वैः पूर्वतरं कृतं तत्कर्मेति मेधाविनोपि जानीयुः, नतु स्वबुद्धया । इदं कर्मेदमकर्मेति ज्ञातुं क्षमन्त इत्यर्थः । सर्वज्ञोहं तु तत्पूर्वैः पूर्वतरं कृतं कर्माकर्म च तुभ्यं वक्ष्यामि तद्ज्ञानफलमाह - यदिति ॥ १६ ॥ 1 कर्मण इति । किं तत्र बोद्धव्यमित्येतत्त्वया न मन्तव्यमित्यन्वयः । कस्मान्न मन्तव्यमित्यत उच्यते - कर्मण इति श्लोकः । कर्मणः कर्मसम्बन्धि बोद्धव्यं ज्ञातव्यं तत्त्वमस्ति । एवमुत्तरखापि । २१

चतुर्थोऽध्यायः । कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्त्रकर्मकृत् ॥ १८ ॥ १६१ किंपुनस्तत्त्वं कर्मादे| यद्बोद्धव्यं वक्ष्यामीति प्रतिज्ञातं तदुच्यते - कर्मणीति नैतावता स्वया कर्मणोऽकर्मणो विकर्मणो वा तत्त्वं ज्ञातं, किंतु ज्ञातव्यमवशिष्टमेवेत्यर्थः । अत्र कर्म मोक्षसाधनभूर्त, विकर्म विविधं नित्यनैमित्तिक काम्यादिरूपं कर्म, अकर्म ज्ञानमिति रामानुजभाष्यं तुच्छम् - नित्यादिविविधकर्मणामेव फलाभिसन्धिरहितानां परम्परया मोक्षसाधनकर्मत्वात्कर्म विकर्मणो- र्भेदस्य दुर्वचत्वात् । नञः स्वप्रतियोग्यभावबोधनस्वाभाव्यादिहननादाविवात्रापि कर्माभावरूपार्थ एव भवितुमर्हति - नञो विरोधाद्यर्थास्तु लाक्षणिका एव- नहि मुख्यार्थसम्भवे लाक्षणिकार्थस्वीकारो न्याय्यः । किं च कर्मविरोधित्वाद्ज्ञानमकर्मेति वक्तुमपि तवाशक्यं तव मते ज्ञानकर्मणोर्विरोधाभावात् । ज्ञान- पूर्वकं कर्मानुष्ठेयमिति त्वयाऽसकृदुक्तत्वात् । नापि नञोऽत्र सादृश्यमर्थः कर्मज्ञानयोस्सादृश्याभावात् । नच तदन्यत्वमत्रार्थ :- कर्मणोऽन्यस्य द्रव्यादेस्सत्त्वेन ज्ञानस्यैवाश्रयणे मानाभावात् । नापि तदल्पत्व- मर्थ:- कर्मण उत्कृष्टत्वाद्ज्ञानस्य । नापि प्रकरण: ज्ञानलाभ:- कर्म प्रकरणत्वादस्य - ‘कांक्षन्तः कर्मणां सिद्धि’ मित्यादिना हि कर्म प्रकृतमिति ॥ १७॥ कर्मणीति । यः कर्मण्यकर्म पश्येत्, यः अकर्मणि च कर्म पश्येत्, मनुष्येषु स बुद्धिमान् युक्तः कृत्स्नकर्मकृश्च भवतीत्यन्वयः । अत्र तावदिदं वेद्यम् - सप्तम्यधिकरणे चेति सूत्रेणाघिकरणे सप्तमी विहिता । आधारोऽधि- करणमिति सूत्रेणाधारस्याधिकरणसंज्ञा विहिता । स चाधारस्त्रिविध:- औपश्लेषिको वैषयिकोऽभिव्यापक- श्चेति । क्रमेण कट्यामास्ते, मोक्षे इच्छास्ति, सर्वस्मिन्नात्मास्तीत्युदाहरणानि । एवं स्थिते कर्मण्यकर्म- णीति कर्माकर्मणोर्विहितायास्सप्तमी विभक्तेर्वैषयिक आधारोऽर्थ इति केचित् । अभिव्यापकाधारोर्थ इत्यन्ये । तत्राद्यपक्षे श्लोकस्यायमर्थः - यः कर्मणि क्रियत इति कर्म देहादिचेष्टा तस्मिन्विषये अकर्म कर्माभावमात्मानमिति यावत् पश्येज्जानीयात्, अकर्मणि देहादिव्यापरोपरमे कर्माभावे कर्म च यः - पश्येत्, मनुष्येषु मध्ये स मनुष्यः बुद्धिमान् युक्तः । कृत्स्नकर्मकृत्कृतकृत्य इत्यर्थः । भवतीति । अयं भावः – लोक आत्मानं कर्मत्वेन देहादिव्यापारोपरममकर्मत्वेन च गृह्णाति अन्त्या - यथा मन्दान्धकारगत गुणं सर्पत्वेन सर्प च गुणत्वेन गृह्णाति तिमिराद्युपहतदृष्टिः पुरुषः तद्वत् । एवं स्थिते य आत्मानमात्मत्वेन देहादिव्यापारोपरमं कर्मत्वेन च गृह्णाति स बुद्धिमत्त्वादिगुणशाली । यथा गुण गुणत्वेन सर्प सर्पत्वेन च जानन्पुरुषो बुद्धिमां स्तद्वत् । नच कर्माभावस्य कथमात्मत्वमिति वाच्य, कल्पिताभावस्याधिष्ठानात्मकत्वात्कर्मण आत्मनि कल्पितत्वेन कर्माभाव आत्मैवेति । यथा गुणकल्पित- सर्पाभावो गुणएव तद्वदिति तस्मादज्ञजनाभिमतं कर्माकर्मेति अकर्म कर्मेति च विद्वान् जानीयात् इति । अस्मिन्नेव पक्षेऽर्थान्तरमवगम्यते तथाहि — कर्मणि कर्माश्रयत्वात्कर्तृत्वेनाज्ञजनाभिमते जीवे विषये अकर्म न विद्यन्ते कर्माणि क्रिया यस्मिंस्तदकर्म निष्क्रियं ब्रह्म यः पश्येत् यमज्ञजनः कर्तारं

१६२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कर्मणि क्रियत इति कर्म व्यापारमात्रं तस्मिन् कर्मणि अकर्म कर्माभाव यः पश्येत्, अकर्मणि संसारिण- जीवं मन्यते, तमात्मानमक संसारि ब्रह्म यः पश्यतीत्यर्थः । अयमात्मा ब्रह्मेति श्रुतेरिति भावः । तथा अकर्मणि ब्रह्मणि विषये च कर्म यः जीवं पश्येत्, अन्यत्वेन परोक्षत्वेनेश्वरत्वेन चाज्ञजनाभि- मतं ब्रह्म स्वत्वेन प्रत्यक्षत्वेन प्रत्यक्त्वेन चात्मानं यः पश्यतीत्यर्थः । तत्त्वमसीति श्रुतेरिति भावः । एवं जीवब्रह्मणो ब्रह्मजीवयो: चात्यन्ताभेददर्शी बुद्धिमत्त्वादिगुणशालीति । कर्माश्रयत्वानाश्रयत्वाभ्यां तत्प्रयुक्तसुखदुःखभोगलक्षणसं सारवत्त्वतदभावाभ्यां च यो व्यावहारिं- कोऽस्ति जीवेश्वरभेदः न स पारमार्थिक :- परमार्थतः कर्मतत्फलयोरभावात्- ‘एकमेवाद्वितीयं ब्रह्मेति श्रुतेः । व्यवहारतोपि कर्मतत्फले जीवस्योपाधिकत्वेनोपाधिगते एव, नतु स्वरूपगते- चिदेकरसत्वा- जीवस्येति निष्क्रियमविक्रियं च ब्रह्मैव जीव इति भावः । नच कर्माकर्मादितत्त्वकथनप्रकरणे जीव- ब्रह्मैक्यकथनमसङ्गतमिति वाच्यं कर्ममात्रमनात्मगतमेव, न त्वात्मगतं आत्मनो निष्क्रिय ब्रह्मरूपत्वादिति वचनस्य प्रकृतसङ्गतत्वात् । अर्थानुपपत्तेर्लक्षणाबीजस्य सत्त्वादल कर्मशब्देन तदाश्रयो जीवो लक्ष्यत इति न लक्षणाश्रयणस्य दुष्टत्वमिति मन्तव्यम् । . . तृतीयोप्यर्थोऽत्रावगम्यते - तथाहि– कर्मणि कर्माश्रये देहादिसङ्घाते विषये अकर्म ब्रह्म यः • पश्येत्, सङ्घातस्य ब्रह्मणि कल्पितत्वेन सङ्घातं ब्रह्माभिन्नं यः पश्यतीत्यर्थः । कल्पितस्याधिष्ठानानति - रेकादिति भावः । अतएव ‘सर्व खल्विदं ब्रह्मे ‘ति श्रूयते । तथा अकर्मणि उपरतव्यापारे च सङ्घाते विषये कर्म तूष्णीमासनरूपकर्माश्रयं यः पश्येत्, उपरतव्यापारमपि सङ्घातं तूष्णीमासनरूपकर्माश्रयं यः पश्यतीत्यर्थः । सङ्घातस्य निष्क्रियत्वायोगादिति भावः । स बुद्धिमत्त्वादिगुणशालीति । . · द्वितीयपक्षे तु श्लोकस्यायमर्थः यः कर्मणि कर्माश्रये कर्तरि अकर्म कर्मराहित्यं पश्येत्, अकर्मणि कर्माभावे देहादिचेष्टोपर मे कर्म कर्मत्वं च पश्येत् स बुद्धिमत्त्वादिगुणशालीति । अयं भाव:- आत्मनि कर्म समवेततया वर्तत इति लोक आत्मानं कर्माश्रयत्वेन कर्तारं मन्यते, तस्मिश्च कर्तृत्वे- नाभिमते आत्मनि प्राज्ञः पुनः कर्मराहित्यं पश्येत्, निष्कलं निष्क्रियं शान्तमिति श्रुतेर विक्रियत्वादि- युक्तितश्चाकर्तारमेवात्मानं मन्यते विद्वान् कर्म च देहादिसङ्घातगतमेव मन्यते न त्वात्मगतम् । तथा– व्यापारवयापारोपरमोपि कर्मैवेति कृत्वा मूढैरकर्मत्वेनाभिमतं व्यापारोपरमं कर्मत्वेनैव प्रतिपद्यते प्राज्ञ इति । नचैव कर्तर्यकर्म यः पश्येदित्येव किमिति नोक्तवान् व्यास इति वाच्यं यत्र लोकाः कर्म पश्यन्ति तत्र बुद्धिमानकर्म पश्येदिति बोधयितुं कर्मणीत्युक्तत्वात् । कर्तृशब्दात्कर्माश्रयत्वप्रतीतिझटिति भवेदिति भावः । इति । यथा प्रवृत्तिस्तथा निवृत्तिरपि कर्मैव उभयमपीदमनात्म देहादिसङ्घातगत मेवावि- द्यया चात्मन्यध्यस्तमिति तत्पुनरात्मैव कल्पितस्याधिष्ठानात्मत्वादिति कृत्वा निष्क्रियोऽविक्रियश्वात्मेति पक्षद्वय संगृहीतार्थः । अथ भाष्यं व्याख्यायते — विहितप्रतिषिद्धतदुभयभिन्न सर्व कर्म संग्रहार्थमाह-व्यापारमात्र- मिति । नञोऽभावार्थकत्वादाह - कर्माभाव इति । कर्माभावे कर्म यः पश्येदित्यन्वयः । ननु चतुर्थोऽध्यायः । १६३ चकर्माभावे कर्तृतंत्रत्वात् प्रवृत्तिनिवृत्त्योः वस्त्व प्राप्यैव हि सर्वक्रियाकारकादिव्यवहारोऽ- विद्याभूमावेव कर्म यः पश्येत् पश्यति, स बुद्धिमान् मनुष्येषु स युक्तो योगी च कृत्स्नकर्म कृत् समस्त कर्मकृच्च स इति स्तूयते कर्माकर्मणोरितरेतरदर्शी । ननु किमिदं विरुद्धमुच्यते– ‘कर्मण्यकर्म यः पश्येदकर्मणि च कर्म य’ इति नहि अकर्म कर्म स्यात्, कर्म वा तथा अकर्म- तत्र कथं विरुद्धं पश्येद्रष्टा । न, अकर्मैव परमा- र्थतः सत्कर्मवदवभासते मूढदृष्टेर्लोकस्य, तथा कर्मैव अकर्मवत् । तत्र यथाभूतदर्शनार्थमाह भगवान् कर्मण्यकर्म य: पश्येदित्यादि । अतो न विरुद्धं बुद्धिमत्वाद्युपपत्तेश्च बोद्धव्यमिति कर्माभावे कथं कर्मदर्शनमत आह-कर्तिति । प्रवृत्तिनिवृत्त्योः कर्तृतन्त्रत्वात् यत्कर्तृतन्त्र तत्कर्मेति व्याप्त्या प्रवृत्तिवन्निवृत्तिरपि कर्मैवेति कृत्वा निवृत्तिरूपे कर्माभावेपि कर्मदर्शनं युक्तमिति भावः । ननु प्रवृत्तेः कारकाधीनत्वादस्तु कर्मत्वं, वस्त्वधीनाया निवृत्तेः कथं पुनः कर्मत्वमत आह—वस्त्विति । हि यस्मात् वस्तु परमार्थतत्त्वमप्राप्यैव अविद्याभूमावेव सर्वः क्रियाकारकादिव्यवहार अस्तीति शेषः । हिः प्रसिद्धाविति वा । सर्वोपि क्रियाकारकफलव्यवहारोऽविद्यादशायामेव प्रवृत्त इति कृत्वा प्रवृत्तिव न्निवृत्तिरपि वस्तुसंस्पर्शशून्यत्वेन वस्त्वनधीनत्वाद्युक्तं प्रवृत्तिलक्षणायां देहादिचेष्टायामिव निवृत्तिलक्षणे तदुपरमेपि कर्मत्वदर्शनं बुद्धिशालिन इति भावः । परमार्थतत्त्वं ब्रह्मैकमेव वस्तु, तच्चाद्वयमसङ्ग चेति न तदधीनत्वं निवृत्तेः । नच देहादिरपि वस्त्वेवेति वाच्यं, ’ तत्सत्यमतोन्यदार्त’ मिति श्रुत्या ब्रह्मग एकस्यैव सत्यत्वेन वस्तुत्वात् वस्तु हि सत्यमसत्यत्वादवस्तुन इति तत्त्वम् । कृत्स्नकर्म क्रुदिति आत्मज्ञस्य कृतकृत्यत्वेन कर्तव्याभावादिति भावः । इतरेतरदर्शीति । इतरस्मिन्नितरत् पश्यतीति तथोक्तः । कर्मण्यकर्मदर्शी अकर्मणि कर्मदर्शी चेत्यर्थः ।

अत्राक्षिपति – नन्वित्यादिना । विरुद्धाभिधानमेवाभिनीय दर्शयति — कर्मणीत्यादिना । विरोधमेव दर्शयति- नहीत्यादिना । अत्रापरोप्यस्ति विरोध :- यः कर्म कर्म जानाति अकर्म चाकर्म स न बुद्धिमान्, किंतु यः कर्माकर्म जानाति, अकर्म च कर्म जानाति, सएव बुद्धिमानिति । नहि विरुद्धद्रष्टा कापि बुद्धिमान् भवेत्, बुद्धिमान् वा विरुद्धं पश्येत् । आक्षेपं परिहरति — नेत्यादिना । परमार्थतोऽकर्मैव सन्मूढदृष्टेर्लोकस्य कर्मवदवभासते, तथा परमार्थतः कर्मैव मूढदृष्टेर्लोकस्याकर्मवदवभासते - तत्र विपर्यये यथाभूतदर्शनार्थं सत्यज्ञानाय भगवान् कर्मण्यकर्म यः पश्येदित्याद्याहेत्यन्वयः । अतो हेतोः कर्मण्यकर्मदर्शनमकर्मणि च कर्मदर्शनं न विरुद्धमि- त्याह — अत इति । .. ननु भगवता यथाभूतदर्शनार्थमिदमुक्तमिति कथमवगम्यते, तत्राह - बुद्धिमत्त्वादीति । बुद्धि- मत्त्वाद्युपपत्तेश्च यथाभूतं च बोद्धव्यमित्युच्यते । भगवतेति शेषः । द्वितीयश्च एवार्थक :- यो हि यथा- भूतं पश्यति स एव बुद्धिमान्युक्तश्च भवति यथा यथाभूतरज्जुद्रष्टा प्रकृते च कर्माकर्मणोरितरेतरदर्शी बुद्धिमत्त्वादिगुणवत्त्वेनोक्त इति कर्माकर्मणोरितरेतरदर्शनमिदं यथाभूतदर्शनमेव । अन्यथा हि कर्मा क-१६४ श्रीभगवद्गीतासु भाष्या प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु च यथा भूतदर्शनमुच्यते । नच विपरीतज्ञानादशुभान्मोक्षणं स्यात्, यद्ज्ञात्वा मोक्ष्यसेऽशुभा- दितिचोक्तम् । तस्मात्कर्माकर्मणी विपर्ययेण गृहीते प्राणिभिः तद्विपर्ययग्रहण निवृत्त्यर्थ भगवतो वचनं कर्मण्यकर्म य: पश्येदित्यादि । न चात्र कर्माधिकरण अकर्मास्ति- कुण्डे बदराणीव । नाप्यकर्माधिकरणं कर्म अभावत्वादकर्मणः । अतो विपरीतगृहीते एव कर्मा- कर्मणी- लौकिकैर्यथा मृगतृष्णिकायामुदकं, शुक्तिकायां रजतम् । में तरेतरदर्शिनोऽस्योक्तं बुद्धिमत्त्वादिकमनुपपन्नं स्यादित्यभिप्रायः । फलवलादपीदं यथाभूतदर्शनमेवे- त्यवगम्यत इत्याह-नचेति । विपरीतज्ञानाद्धेतोः पुरुषस्याशुभान्मोक्षणं नैव स्यात्, इह च यज्ञा- त्वा मोक्ष्यसेऽशुभादित्युक्तम् । तस्मात्कर्माकर्मणो रितरेतरदर्शनस्याशुभमोक्षहेतुत्वात्तदर्शिनश्च बुद्धिमत्त्वा- द्युपपत्तेरित्यर्थः । ननु कर्माकर्माणी विपर्ययेण गृहीते प्राणिभिरित्युक्तमयुक्तं यतस्ते देहेन्द्रियादिचेष्टारूपं कर्म कर्मेति तदभावमकर्मेति च अविपर्ययेणैव गृहीतवन्त इत्यत आह-नचेति । अत्र लोके बदरीफलानां कुण्डमिव घट इव कर्मणामधिकरणमकर्म नास्ति, तथा अकर्माधिकरण कर्मापि नस्ति । तत्र हेतुमाह - अभावत्वादिति । अकर्मणः कर्माभावस्याभावरूपत्वेनासत्त्वात्कथं तस्य कर्माधिकरणत्वम् ? कथं वा कर्मणस्तदधिकरणत्वम् ? अतो हेतो लौकिकैर्विपरीतगृहीते एव कर्माकर्मणी इति । तत्र दृष्टान्तमाह- यथा मृगतृष्णिकायामुदकमिति । नको दृष्टान्तोऽर्थसिद्धयेऽलमिति मन्वानं प्रत्याह दृष्टान्तान्तरं - शुक्तिकायां रजतमिति । ननु बुद्धिमानेव निवृत्तिलक्षणे कर्माभावे कर्म पश्यति - प्रवृत्तिलक्षणे च कर्मणि कर्माभावं पश्यतीति कर्माकर्मविपर्ययदर्शी, न तु लौकिका इति चेन्मैत्रम् - प्रवृत्तिलक्षणं निवृत्तिलक्षणं चेत्युभयात्मकं कर्म लौकिकैरात्मनि मृगतृष्णिकायामुदकमिवाध्यस्तम् । ततश्चात्माकर्तेति आत्मा तूष्णीमास्त इति च प्रत्येति लोक:- तदेवमकर्मण्यात्मनि कर्मप्रत्यय एको विपर्ययः, तूष्णी- मासनरूपे कर्मण्यकर्मप्रत्ययोऽन्य इति । ननु अभावत्वादकर्मणो नास्ति कर्माधिकरणत्वं कर्माधिकरण- कत्वं चेति यदुक्तं भाष्यकारैस्तदसत् - आत्मत्वेना कर्मणः भावरूपत्वादिति चेत्सत्यम् — कर्माभावों यच्चात्मत्वेन मतो लौकिकैस्तर्हि भावरूप एव स्यान्न तु तथा मत इति । ननु लौकिकैर्भावरूपे देहे अथवा भावरूपे आत्मनि कर्म तदभावश्च गृह्यते, नतु कर्माभावे कर्मेति कथं विपर्ययदर्शित्वं तेषामिति चेत्, उच्यते– यत्र कर्माभावस्तत्रैव कर्म गृहीतवन्त इति कृत्वा कर्माभावे कर्म गृहीतवन्त इत्युक्त- मिति । अथवा ननु लौकिका अकर्मणि कर्म कर्मण्यकर्म च विपर्ययेण पश्यन्तीत्युक्तं, तदसत् - अकर्मणि कर्मणः कर्मण्यकर्मणश्च सत्त्वादित्यत आह-नचेति । बदराणामधिकरणं कुण्डमिव कर्मणोऽधिकरणमकर्म नैवास्ति कर्म चाकर्मणोधिकरणं न भवत्येव । कुतः अकर्मणोऽभावत्वादिति । नन्वकर्मणोऽभावत्वे सुतरां कथं लौकिकानामपि तद्ग्रहणमत आह— मृगतृष्णिकायामिति । मृग- तृष्णिकायामुदकं शुक्तिकायां रजतं चात्यन्तासदपि यथा भ्रान्तैर्गृह्यते तद्वदिति । न चाकर्मण्यकर्म कर्मणि कर्म च पश्यति बुद्धिमानित्यत्रापि तुल्यस्स दोष:- अकर्मणोऽभावत्वात्कथमभावेऽभावदर्शनमिति, न चतुर्थोऽध्यायः । १६५ ननु कर्म कर्मैव सर्वेषां न क्वचिद्यभिचरति, तन्न- नौस्थस्य नावि गच्छन्त्यां तटस्थे- जगतिपु नगेषु प्रतिकूलगतिदर्शनाद्दुरेषु चक्षुषा सन्निकृष्टेषु गच्छत्सु चैत्रमैत्रादिजनसङ्खेबु गत्यभावदर्शनात् । एवमिहाप्यकर्मणि कर्मदर्शनं कर्मणि च अकर्मविपरीतदर्शनं येन तन्निराकरणार्थमुच्यते - कर्मण्यकर्म य: पश्येदित्यादि । चेन्मैवम् — बुद्धिमदभिमतस्याकर्मण आत्मत्वेनाभावत्वाभावात् । नचात्मन्यात्मानं पश्यतीति कथ- मेकस्यैवात्मन आधाराधेयभाव इति वाच्यं विषयसप्तमीत्वादात्मविषये आत्मानं पश्यतीत्यर्थादात्मान- मात्मानं पश्यतीति फलितार्थाच्च । ननु त्वयाऽऽदौ सप्तम्यन्तरमाश्रित्याधाराधेयभाव एवोक्त इति चेत्सत्यम् - आत्मनि यदसत्त्वं कर्मणां तदेव कर्माभावोस्तीत्यनेन विवक्षितत्वात्तत्रेति । नच भाष्य- विरोधस्तवेति वाच्यं, तात्पर्यैक्यात् । किंच अनुपलब्धिप्रामाण्यादभाव इति कश्चित्पदार्थोस्तीति कति- चिदद्वैतिनः, अभावस्य सत्तायोगान्नास्तीति परे तत्र प्रथमपक्षाश्रयणे भूतले घटाभाववदात्मनि कर्मा- भावोऽस्त्यैवेति नाधाराधेयभावानुपपत्तिरात्माकमणोः । द्वितीयपक्षे तु तदनुपपत्तिरस्त्येव । भाष्यकारास्तु द्वितीयपक्षमेवावलम्ब्य विषयसप्तमीं स्वीचकुरिति दिक् । अयमत्र निष्कर्षः - यद्वस्तुतो कर्म तल्लौकिकैः कर्मेति गृहीतं तत्र च कर्मणि विषये पुन- बुद्धिमतो कर्मज्ञानमस्ति यद्वस्तुतः कर्म तल्लौकिकैरकर्मेति गृहीतं, तत्र चाकर्मणि विषये पुनर्बुद्धिमतोस्ति कमज्ञानमिति । तथा च वस्तुतो कर्मण्यकर्मज्ञानं बुद्धिमतः प्रमा, वस्तुतः कर्मणि कर्मज्ञानं च तस्मि स्तद्बुद्धेः प्रमात्वात् । एवं वस्तुतो कर्मणि लौकिकानां कर्मज्ञानं भ्रमः, वस्तुतः कर्मण्यकर्मज्ञान च– अतस्तिस्तद्बुद्धेर्भ्रमत्वात् । वस्तुतोऽकर्म आत्मा वस्तुतः कर्म तु देहादिचेष्टा तदुपरमश्चति ।

तत्र शङ्कते - नन्विति । सर्वेषामपि कर्म कर्मैव अकर्माकर्मैव- कर्माकर्म वा क्वचिदपि न व्यभिचरति - यथा घटस्सर्वान्प्रति घट एव अघटश्च सर्वान्प्रत्यघट एव तद्वदिति भावः । परिहरति- तन्नेति । नगेषु वृक्षेषु न गच्छन्तीति नगाः वृक्षा हि तटस्था वस्तुतः स्थावराः तटस्थान्प्रति च स्थावरा एव नौस्थानां तु जङ्गमा इव प्रतिभान्ति - नौस्था हि पुरुषा नावि गच्छन्त्यां तटस्थान्वृक्षान्गच्छत इव पश्यन्ति । इदं लौकिकानामकर्मणि कर्मदर्शनस्य निदर्शनम् । अथ कर्मण्य कर्मदर्शनस्याह — दुरेष्विति । दूरेषु अत एव असन्निकृष्टेषु विशेषतस्सन्निकर्ष- रहितेषु सामान्यतोपि सन्निकर्षाभावे दर्शनानुपपत्तेरिति भावः । यद्वा सन्निकृष्टेषु अपरोक्षेष्वित्यर्थः । दूरस्थत्वेन प्राप्तां परोक्षत्वशङ्कां वारयितुं सन्निकृष्टेष्वित्युक्तमिति भावः । गच्छत्सु गतिमत्सु चैत्रमैत्रादि- जनसङ्गेषु चक्षुषा गत्यभावदर्शनात् । दूरस्था हि जनसङ्घाः गच्छन्तोपि वस्तुतः अगच्छन्त इव भान्तीति भावः । इदं कर्मण्यकर्मदर्शनस्य निदर्शनम् । दृष्टान्तमुक्त्वा दाष्टन्तिकमाह - एवमिति । यथा गतिक्रियारहितत्वेनाकर्मणि वृक्षे नौस्थानां कर्मदर्शनं यथा वा गतिक्रियासहितत्वेन कर्माश्रये दूरस्थजन- सङ्घ पुरुषस्याकर्मदर्शनं तद्वदित्येवंशब्दार्थः । लौकिकानामिति शेषः । अकर्मणि कर्मरहिते आत्मनि कर्मदर्शनं कर्मणि देहादिव्यापारोपरमरूपे अकर्मदर्शनं कर्माभावदर्शनं चेति विपरीतदर्शनमस्तीति । तन्निराकरणार्थ भागवतमिदं वचनमित्याह – येनेति । येन विपरीतदर्शनस्तत्त्वेन लौकिकानां तन्निरा- १६६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तदेतदुक्तप्रतिवचनमप्यसकृत् अत्यन्तविपरीतदर्शनभाविततया मोमुद्यमानो लोकः श्रुतमप्यसकृत्तत्त्वं विस्मृत्य विस्मृत्य मिथ्याप्रसङ्गमवतार्यावतार्थ चोदयतीति पुनरुत्तरमाह भगवान् - दुर्विज्ञेयत्वं चालक्ष्य वस्तुनः- अव्यक्तोयमचिन्त्योयं, न जायते म्रियत इत्यादिना । आत्मनि कर्माभावः श्रुतिस्मृतिन्यायप्रसिद्ध उक्तः वक्ष्यमाणश्च । तस्मिन्नात्मनि कर्माभावे अकर्मणि कर्मविपरीतदर्शनमत्यन्तरूढं यतः किं कर्म किमकर्मेत्यत्र कत्रयोपि मोहिताः देहा- श्रयं कर्म आत्मन्यध्यारोप्य अहं कर्ता ममैतत्कर्म मयास्य फलं भोक्तव्यमिति च तथाऽहं तूष्णीम्भवामि येनाहं निरायास: अकर्मा सुखी स्यामिति कार्यकरणाश्रयं व्यापारोपरमं तत्कृतं च सुखित्वमात्मन्यध्यारोप्य न करोमि किंचित्तूष्णीं सुखमासमित्यभिमन्यते लोकः । तत्रैवं लोकस्य विपरीतदर्शनापनयनायाह भगवान् कर्मण्यकर्म यः पश्येदित्यादि । करणार्थं विपरीतदर्शननिराकरणाय ‘कर्मण्यकर्म यः पश्ये’ दित्याद्युच्यते भगवता - आदिपदादकर्मणि च कर्म य इत्यादिग्रहणम् । प्रवृत्तिनिवृत्त्योरभावेन निष्क्रियत्वादविक्रिय आत्मेति विवक्षया भगवतैष श्लोक- उक्त इति भावः । नन्दिमविक्रियत्वमात्मनः पूर्वमेवोक्तमिति पुनरुक्तमिदानीमत आह– तदेतदिति । अन्य- कोऽयमचिन्त्योयं, न जायते म्रियत’ इत्यादिना असकृदुक्तप्रतिवचनमपि दत्तोत्तरमपि तदेतत्कथ- मविक्रिय आत्मेति चौध लोकश्वोदयतीति हेतोर्भगवान्पुनरुत्तरमाहेत्यन्वयः । असकृश्चोदयतीति वा किं कृत्वा चोदयति तत्राह — मिथ्याप्रसङ्गमवतार्यावतार्येति । वीप्सायां द्विर्भावः । तत्र हेतुमाह- असकृच्छ्रतमप्यात्मतत्त्वं विस्मृत्य विस्मृत्येति । तत्त्व विस्मरणे हेतुमाह – विशेषणविधया मोमुद्यमान इति । अतिशयेन मोहं प्राप्नुवन्नित्यर्थः । मोहा धिक्यप्राप्तौ हेतुमाह- अत्यन्तविप- रीतदर्शनभाविततयेति । अत्यन्त मिथ्याज्ञानसंस्कारवत्त्वेनेत्यर्थः । भगवतः पुनर्वचने हेत्वन्तरमाह - दुर्विज्ञेयत्वं चेति । वस्तुन आत्मतत्त्वस्य दुर्विज्ञेयत्वमालक्ष्य चेत्यन्वयः । । उक्तमनुवदन्नुपसंहरति ! - आत्मनीति | आत्मनि श्रुतिस्मृतिन्यायप्रसिद्धः कर्माभाव उक्त:- अव्यक्तोयमित्यादिनेति भावः । वक्ष्यमाणश्च वक्ष्यते चेत्यर्थः । सर्वकर्माणि मनसा सन्न्यस्येत्यादिनेति भावः । श्रुतयः ‘न जायते म्रियते वा विपश्चित् अविनाशी वाडरेयमात्मे’ त्येवमादयः । स्मृतय:- ‘रामो न गच्छति न तिष्ठति नानुशोच’ तीत्याद्याः । आत्मा अकर्ता असङ्गतत्वाद्विभुत्वाच्चाकाशव- दित्यादिन्याया इति विशेकः । अकर्मणीत्यस्य प्रतिपदं कर्माभाव इति निष्क्रिये इत्यर्थः । यद्वा कल्पितसर्पाभावस्य गुणरूपत्वेन कल्पितकर्माभाव आत्मरूप एवेति बोध्यम् । कर्मविपरीतदर्शनमिति । कर्म च तद्विपरीतं च कर्मविपरीतं विपरीतं कर्मेत्यर्थः । यद्वा विपरीतमिति भावे क्तः कर्मविपर्यय इत्यर्थः । तस्य दर्शनं ज्ञानमत्यन्तरूढं लौकिकानामिति शेषः । कवयोऽपीति । अपिना किं पुन- रविद्वांसो लौकिका इति गम्यते । तदेव विपरीतदर्शनमभिनीय दर्शयति — देहेति । ननु लोको देहाश्रयं गमनादिकर्मात्मन्यारोप्य गन्ताहमिति मन्यत इति यत्तद्भवतु भ्रमः- देहादिव्यापारोपर मे अक- महमिति यन्मन्यते कथं तस्य भ्रमत्वमकर्मत्वाद्वस्तुत आत्मन इत्यत आह- तथाऽहमिति । कार्य-

1 चतुर्थोऽध्यायः । १६७ अत्र च कर्म कर्मैव सत्कार्यकरणाश्रय कर्मरहिते आत्मनि अविक्रिये सर्वैरध्यस्त यतः पण्डितोप्यहंकरोमीति मन्यते तत आत्मसमवेततया सर्वलोकप्रसिद्धे कर्मणि नदीकूल- स्थेष्विव वृक्षेषु गतिप्रातिलोम्येन अकर्म कर्माभावं यथाभूतगत्यभावमिव वृक्षेषु यः पश्येत्, अकर्मणि च कार्यकरणव्यापारोपरमे कर्मवदात्मन्यध्यारोपिते तूष्णीमकर्मा सुखमास इत्यह- ङ्काराभिसन्धिहेतुत्वात्तस्मिन्नकर्मणि च कर्म यः पश्येत् यः एवं कर्माकमविभागज्ञः स बुद्धिमान् पण्डितः मनुष्येषु । स युक्तो योगी कृत्स्नकर्मकृच्च । स अशुभान्मोक्षितः कृतकृत्यो भवती- त्यर्थः । अयं श्लोकः अन्यथा " व्याख्यातः कैश्चित् – कथं, नित्यानां किल कर्मणामीश्वरा- थत्वेनानुष्ठीयमानानां फलाभावादकर्माणि तान्युच्यन्ते गौण्या वृत्त्या । तेषां चाकरण अकर्म । करणाश्रयव्यापारोपरमस्य वस्तुत आत्मन्यसम्भवात्कथं तत्प्रयुक्तमकर्मत्वं स्यादात्मनः १ अतो लौकि- काभिमतमकर्मण्यात्मन्यकर्मज्ञानमपि भ्रम एवेति । तत्रेति व्यवहारभूमावित्यर्थः । I अथ श्लोकं व्याख्याति — अत चेति । अत्र व्यवहारभूमौ कार्यकरणाश्रयं कर्म कर्मैव सत् स्वेनैव रूपेणावस्थितं सदित्यर्थः । कर्मरहिते अविक्रिये आत्मनि सर्वैरध्यस्तमित्यन्वयः । उक्तार्थे लोकव्यवहारं प्रमाणयति — यत इति । पण्डितस्तार्किकादिः । अपिशब्दात्किमुत पामर इति गम्यते । तत इति आत्मनि सर्वलोकस्य कर्तृत्वाभिमानसत्त्वादित्यर्थः । आत्मसमवेततयेति । आत्मनि सम- वायेन वर्तमानतयेत्यर्थः । ननु कथं कार्यकरणव्यापारोपरमे पण्डितस्य कर्मबुद्धिः स्यादत आह— अहङ्काराभिसन्धिहेतुत्वादिति । यथा अहं कर्म करोमि फलायेति कर्मण्यहङ्काराभिसन्धी स्तः, तथा अहं तूष्णीमासे सुखायेति कर्माभावेप्यहङ्काराभिसन्धी स्त इति कर्माभावोपि कर्मैव । यद्यदहङ्काराभि- सन्धिहेतुकं तत्तत्कर्मेति सिद्धान्तादिति भावः । 9 यत्र व्यापारोस्ति तत्रैव तदुपरमोपि यथा वृक्षे चलनं चलनाभावश्च । तथा चात्मनि व्यापारा- भावाद्व्यापाराभावोपि नास्त्येव - प्रसक्तिपूर्वकत्वान्निषेधस्य 12 व्यापारतदभावावुभावपि देहाद्याश्रयावेव । नात्माश्रयौ । किंच यत्र व्यापारोपरमोस्ति स उपरतव्यापार इत्युच्यते यथा तिष्ठन्पुरुषः गमनोपरमा- दुपरतगमनः, यथावाऽभाषमाणः पुरुषः भाषणोपरमादुपरतभाषणो मौनीति । एवमुपरतक्रियो कर्मात्मेति ववतुं न शक्यते - उपरमात्प्रागात्मनि क्रियाप्रसक्ते:- न क्रिये आत्मनि काललयेपि क्रिया सम्भावयितुं शक्या । एतदभिप्रायेणैवात्मनि कर्माभावः श्रुत्यादिभिरुक्तः । एतेन प्रसक्तिपूर्वकत्वान्निषेधस्य कथ- मात्मनि कर्मनिषेध इति चोद्यं परिहृतम् - भ्रान्तिप्रसक्तकर्मनिषेधपरत्वात्तद्वचनस्येति । 1 य एवमिति । कालत्रयेपि आत्मनि कर्माभावादात्मैवाकर्म ! अज्ञस्त्वात्मनि कर्म मन्यते देहाद्याश्रयं - देहादिव्यापारोपरनरूपं कर्म च कर्माभावं मन्यते देहाद्याश्रयं तचात्मनि मन्यते - इमे चाज्ञजनाभिमते कर्माकर्मणी द्वे अध्यात्मनि न स्तः कालत्रयेपि । अत एवात्माऽकर्म इति यः कर्मा- कर्मविभागौ जानातीति । ‘यज्ञात्वा मोक्ष्यसेऽशुभादित्युक्तत्वादाह - अशुभान्मोक्षितः कृतकृत्यो भवतीति । य आत्मानमेवाकर्म जानाति देहादिव्यापारं तदुपरमं च कर्म जानाति तस्य देहादि- १६८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तच्च प्रत्यवायफलत्वात् कर्मोच्यते गौण्यैव वृत्त्या । तत्र नित्ये कर्मणि अकर्म य: पश्येत्फला- भावात् यथा धेनुरपि गौरगौरित्युच्यते, क्षीराख्यं फलं न प्रयच्छतीति तद्वत्, तथा नित्या- करणे स्वकर्मणि कर्म यः पश्येत् नरकादिप्रत्यवायफलं प्रयच्छतीति । नैतद्युक्तं व्याख्यान- मेवं ज्ञानादशुभान्मोक्षानुपपत्ते:- ‘यज्ञात्वा मोक्ष्यसेऽशुभा’ दिति भगवतोक्तं वचनं बाध्येत । कथं, नित्यानामनुष्ठानादशुभात्स्यान्नाम मोक्षणं, नतु तेषां पलाभावज्ञानात् नहि नित्यानां फलाभावज्ञानमशुभमुक्तिफलत्वेन चोदितं नित्यकर्मज्ञानं वा नच भगवतैवेहोक्तम् । एतेन कर्मणि अकर्मदर्शनं प्रत्युक्तम् । व्यापाररूपस्य तूष्णीमासनरूपस्य वा कर्तव्यस्याभावात्कृतकृत्यत्वमिति भावः । एतेन - यस्तूष्णीमास्ते, यो वा व्याप्रियते नासावात्मा, किंतु देहादिसङ्घात एव । ततश्च व्यापारात्मिके जाग्रत्स्वप्नावस्थे निर्व्यापारात्मिका निद्रावस्था चेत्यवस्थात्रयमात्मनो नास्त्येवेत्यवस्थात्रयसाक्षित्वरूपं तुरीयत्वं कूटस्थत्वं चात्मनस्सिद्धम् - य एवमात्मतत्त्ववित्पुमान् सहि मुक्तएव ’ तरति शोकमात्मवित्, ब्रह्मविद्ब्रह्मैव भव’ती - त्यादिश्रुतिभ्यः । अत एवाशुभान्मोक्षित इत्युक्तमिति । गौण्या लक्षणयेत्यर्थः । यथा कर्माभावस्य फलाभावस्तथा नित्यकर्मणोपि फलाभाव इति सादृश्यमत्र निमित्तमिति बोध्यम् । अकर्मकर्मणोतु यथा निषिद्धकर्मणः पापफलवत्त्वं तथा नित्यकर्माकरणस्यापीति । यद्वा यथा विहितस्य कर्मणः पुण्यं फलं तथा नित्याकरणस्य पापं फलमिति । अथ वा यथा कर्मणः फलवत्त्वं तथाऽकरणस्यापीति सादृश्य बोध्यम् । अयमर्थ:- नित्यकर्म कर्मेति तदकरणमकर्मेति मूढा जानन्ति न त्वेतद्युक्तं यत्फलव तदेव कर्म फलाभावात्तु न नित्यकर्म कर्म - प्रत्यवायरूपफलवत्त्वात्तु न नित्याकरणमकर्म, किंतु नित्यकर्म अकर्म नित्यकर्माकरणं तु कर्म इति योऽभिजानाति स बुद्धिमानिति । एवं परमतमुपपाद्य दूषयति– नैतद्व्याख्यानं युक्तमिति, एवंज्ञानादिति । नित्यकर्मणां फलाभावज्ञानात्तदकरणात्प्रत्यवायोऽस्तीति ज्ञानाच्चेत्यर्थः । नित्यानामिति । अयं भाव:- ‘यज्ञात्वा 1 मोक्ष्यसेऽशुभा ‘दिति भगवता ज्ञानमात्रादेव मुक्तिरभिहिता, नतु यद्ज्ञात्वा नित्यकर्म कृत्वा मोक्ष्यस इत्युक्तम् । नित्यकर्म तु कृतं सदेव पापनिवृत्तिलक्षणाशुभमोक्षहेतुर्भवति नतु ज्ञानमात्रम् । तथा नित्यकर्माकरणे प्रत्यवायानुपपतेः । वेदाध्ययनमात्रेण नित्यकर्माणि ज्ञातान्येवेति यज्ञयागाद्यनुष्ठानापतेश्च । अतो नित्यकर्मणामनुष्ठानमेवाशुभान्मोचकं पुंसां, नतु तद्ज्ञानमात्रम् । यथा काम्यकर्मज्ञानं न स्वर्गादि- फलदं यथा वा कृष्यादिकर्मज्ञानं न सस्यादिफलदं तद्वदिति । नित्यानां फलाभावज्ञानं नित्यकर्मज्ञान वां अशुभमुक्तिफलत्वेन न चोदितं वेदेनेति शेषः । यथा- ‘तरति शोकमात्मवि’ दित्यात्मज्ञानं शोक- तारकत्वेन चोदितं तद्वदिति भावः । ननु वेदेन चोदितं मास्तुनाम- भगभतैवोक्तं गीतास्त्रित्यत आह- नवेति । भगवता चेह गीतासु नैवोक्तम् । एतेनेति । नित्यकर्मणां फलभावज्ञानस्याशुभमोचकत्वा- भाववचनेनेत्यर्थः । कर्मण्यकर्म यः पश्येदित्यस्य परोक्तं व्याख्यानं निराकृतमित्यर्थः । एतेनाकर्मणि २२ चतुर्थोऽध्यायः । । १६९ न कर्मणि कर्मेति दर्शनं कर्तव्यतयेह चोद्यते - नित्यस्य तु कर्तव्यतामात्रम् । नच अकरणान्नित्यस्य प्रत्यवायो भवतीति विज्ञानात् किञ्चित्तत्फलं स्यात्, नापि नित्याकरण ज्ञेयत्वेन चोदितं, नापि कर्माकर्मेति मिथ्यादर्शनादशुभान्मोक्षणं बुद्धिमत्वं युक्तता कृत्स्त्रकर्म- कृत्त्वरूपं च फलमुपपद्यते, स्तुतिर्वा । मिथ्याज्ञानमेव हि साक्षादशुभस्वरूपं कुतोन्यस्मादशुभा- न्मोक्षणं नहि तमस्तमसो निवर्तकं भवति । ननु कर्मणि यदकर्मदर्शनं, अकर्मणि वा कर्मदर्शनं न तन्मिथ्याज्ञानं, किं तर्हि गौर्ण फलाभावभावनिमित्तं न- कर्माकर्मविज्ञानादपि गौणात्फलस्याश्रवणात् । नापि श्रुतहान्यश्रुतकल्प- कर्मदर्शनं प्रत्युक्तमिति पाठान्तरे एतेनाशुभमोक्षणासम्भव प्रदर्शनेन कर्मण्यकर्मदर्शननिराकरणोक्त- न्यायेनेत्यर्थः ।

अथाकर्मणि च कर्म य इत्यस्य परोक्तमर्थ दूषयति — नहीत्यादिना । नित्याकरणं कर्मेति पश्येदिति नेह चोद्यते भगवता, किंपुनश्चोद्यते तदाह – नित्यस्येति । नित्यं कर्म कर्तव्यमित्येव चोद्यते - कुरु कर्मैवेत्यादिनेति भावः । ननु नित्याकरणं कर्मेति माचोद्यतां नाम, नित्याकरणात्प्रत्यवाय इति यो जानाति स बुद्धिमानितीहोच्यत इत्यत्राह —-नचेति । ननु नित्याकरणात्प्रत्यवाय इति यो वेत्ति स नित्यं कर्म कुरुते, ततश्चाशुभान्मुच्यत इत्यस्ति नित्याकरणात्प्रत्यवायज्ञानात्फल्म शुभमुक्ति- रूपमिति चेन्मैवम् — तद्धयशुभमुक्तिरूपं फलं नित्यकर्माचरणजन्यमेव नतु प्रत्यवायज्ञानजन्यमन्यथां नित्याकरणात्प्रत्यवाय इति ज्ञानमात्राद्विनैव कर्माचरणमशुभमुक्तिप्रसङ्गात् । नच प्रत्यवायज्ञानस्य नित्यकर्मप्रवर्तकत्वरूपं फलमस्तीति वाच्यं, अशुभमोक्षणफलस्यैव भगवता प्रतिज्ञातत्वात् । प्रत्यवार्य जानद्भिरपि बहुभिः प्रारब्धवशान्नित्यकर्मणामनाचरितत्वान्मूढैरपि क्रियमाणत्वाच्च । ननु नित्याकरणं ज्ञेयमेव निषिद्धकर्मवत्परिहारायेति कृत्वा नित्याकरणमिह ज्ञेयत्वेन चोयत इत्यत आह- नापीति । नित्यान्येव ज्ञेयत्वेन चोदितान्यनुष्ठानाय नतु नित्याकरणं कापि चोद्यते- नित्यचोदनादेव नित्याकरणनिषेधोऽर्थात्सिध्यतीति न पुनर्निव्याकरणचोदनावकाशः । ननु तत्त्वज्ञाना- दिव कर्माकर्मज्ञानान्मुक्तिरस्यादत आह– नापीति । तत्त्वज्ञानादेव मुक्तिर्न तु मिथ्याज्ञानादिति सर्व- संग्मतं- रज्जुयाथात्म्यरूपतत्त्वज्ञानाद्धि कृत्रिमसर्पजन्यभयकम्पादिनिवृत्तिः । कर्माकर्मेति ज्ञानं तु मिथ्या- ज्ञानमेव कर्मण्यकर्मेति ज्ञानस्य, अकर्मणि कर्मेति ज्ञानस्य वा अतस्मिंस्तद्बुद्धित्वेन मिथ्याज्ञानत्वात् । मिथ्याज्ञानादशुभमोक्षणादिकं तु विप्रतिषिद्धं - रज्जुसर्पज्ञानाद्भयकम्पाद्यशुभस्यैव प्राप्तेः । तस्मान्मिथ्या- ज्ञानादशुभमेव स्यान्न तु तन्मोक्षः । नाप्येवं मिथ्याज्ञानी बुद्धिमान्युक्तः कृत्स्नकर्मकृद्वा भवेत् । स्तुति- वेंति । नोपपद्यत इत्यन्वयः । ननु मिथ्याज्ञानादप्यशुभमोक्षः किं न स्यादन मिथ्याज्ञानमेवेति । अशुभस्य मिथ्याज्ञानस्य कथमशुभनिवर्तकत्वं, न कथमपीत्यर्थः । तत्र दृष्टान्तमाह — नहीति ।

अथ कर्माकर्मणोरितरेतरज्ञानस्य मिथ्यात्वमसहमानरशङ्कते पूर्ववादी नन्विति । गौणत्वे हेतुमाह — फलाभावभावनिमित्तमिति । कर्मण्यकर्मज्ञानं फलाभावनिमित्तमकर्मणि कर्मज्ञानं तु श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु नया कश्चिद्विशेष उपलभ्यते - स्वशब्देनापि शक्यं वक्तुं नित्यानां कर्मणां फलं नास्ति अकरणाच्च तेषां नरकपातः स्यादिति तत्र व्याजेन पव्यामोहरूपेण कर्मण्यकर्म यः पश्ये- दित्यादिना । किं तत्रैवं व्याचक्षाणेन भगवतो वाक्यं लोकव्यामोहार्थमिति व्यक्तं कल्पितं स्यात्, नचैतच्छद्मरूपेण वाक्येन रक्षणीयं वस्तु । नापि शब्दान्तरेण पुनःपुनरुच्यमानं सुबोध स्यादित्येवं वक्तुं युक्तं कर्मण्येवाधिकारस्त इत्यत्र स स्फुटतर उक्तोर्थः । न पुनर्वक्तव्यो भवति । सर्वत्र च प्रशस्तं बोद्धव्यं च कर्तव्यमेव । नच निष्प्रयोजनं बोद्धव्यमित्युच्यते । नच मिथ्याज्ञानं बोद्धव्यमिति तत्प्रत्युपस्थापितं वा वस्त्वाभासम् । नापि नित्यानामकरणा- दभावात्प्रत्यवाय भावोत्पत्तिर्नासतो विद्यते भाव इति वचनात् । कथमसतस्सज्यायेतेति च असतरसज्जन्मप्रतिषेधादसतः सदुत्पत्ति ब्रुवता असदेव सद्भवेत्, सच्चासद्भवेदित्युक्तं स्यात् । फलभावनिमित्तमिति विवेकः । यथा सिंहो माणवक इति ज्ञानं गौंणं क्रौर्यशौर्यादिनिमित्तं तद्वदिति भावः । गौणत्वमभ्युपेत्यैव परिहरति — नेति । मिथ्याज्ञानवद् गौणज्ञाने प्यशुभमोक्षणरूपफलाभावस्तुल्य एवेत्यर्थः । दोषान्तरमाह — नापीति । यथाश्रुतार्थं विहायाश्रुतार्थकल्पनमन्याय्यं निष्फलं चेति भावः । स्वशब्देनेति । वाचकशब्देनेत्यर्थः । नतु लाक्षणिकेनेति भावः । स्वशब्देन वादप्रकारमेव दर्श- यति - नित्यानामित्यादिना । न नित्यकर्मणोऽर्थोस्ति प्रत्यवायोऽविधानत इति श्लोकस्य सुकरत्वा - दिति भावः ।

ननु परकान्तासु रतोद्यतं धूर्त तत्कालागतपतिसकाशाद्रक्षयितुं यथा दूती वक्ति ‘वृषाऽपेहि पर- क्षेत्रा’ दिति गूढं वाक्यं तद्वदयं भगवान्गूढमाह- कर्मण्यकर्म यः पश्येदितीत्यत आह-नचेति । भगवान्हि गुह्यं वस्तु शिष्यायार्जुनाय प्रकटयितुमेव प्रवृत्तः, नतु गोप्यं कञ्चिदर्थं गोपयितुम् । तस्मा- दिह नास्ति भगवतो गोप्यार्थः, यगोपनाय च्छद्म वाक्यं प्रयुञ्जीत । ननु यथा आत्मतत्त्वं दुर्बोधत्वात्पुनः पुनश्शब्दान्तरेणोक्तं अव्यक्तोऽयमचिन्त्योयमित्यादिना । तद्वदिदमपीत्यत आह- नापीति । नहि नित्यकर्मादेः फलाभावादिज्ञानं दुर्बोध, येन सुबोधाय पुनः- पुनरुथ्येतेत्यर्थः । कथमेष सुबोधोऽत आह– कर्मण्येवेति । किं च निष्फलमिदं नित्यकर्म नैव बोद्धव्यमित्याह - सर्वत्रेति । यत्सफलं तदेव बोद्धव्यं, कर्तव्यं चेति सर्वत्रापि प्रशस्तम् । निष्प्रयोजनं तु नित्यकर्म नैव बोद्धव्यम् । नापि कर्तव्यमिति कृत्वा कथं तद्बोद्धव्यमित्युच्यते । ननु न वयं नित्यकर्म बोद्धव्यमिति ब्रूमः, किंतु नित्यकर्माकर्मेति बोद्धव्यमिति ब्रूम इत्यत आह-नचेति । कर्मण्यकर्मज्ञानं हि मिथ्याज्ञानं रज्जुसर्पज्ञानवदिति कथं तस्य बोद्धव्यत्वम् ? ननु मिथ्याज्ञानस्या- बोद्धव्यत्वेपि तद्विषयस्य वस्तुनो बोद्धव्यत्वमस्तीत्यत आह तदिति । मिथ्याज्ञानविषयो हि मिथ्या- वस्त्वेवेति कथं तस्य वस्त्वाभासस्य बोद्धव्यत्यम् । लोकेपि सत्यमेव वस्तु हि बोद्धव्यम् । एतावता ग्रन्थसन्दर्भेण नित्याकरणात्प्रत्यवायसत्त्वमभ्युपेत्य अकर्मणि च कर्म य इत्यस्य परोक्तार्थः प्रत्याख्यातः ।

arr नित्याकरणात्प्रत्यवायमेव प्रत्याख्याति — नपीत्यादिना । ननु असतस्सदुत्पद्यत इति चतुर्थोऽध्यायः । १७१ तच्चायुक्तं सर्वप्रमाणविरोधात् । नच निष्फलं विदध्यात् कर्म शास्त्रं दुःखरूपत्वात् । दुःखस् च बुद्धिपूर्वकतया कार्यत्वानुपपत्तेस्तदकरणे च नरकपाताभ्युपगमात् । अनर्थायैवोभयथापि करणे चाकरणेपि च शास्त्र निष्फलं कल्पितं स्यात् । स्वाभ्युपगमविरोधश्च नित्यं निष्फलं कर्मेत्यभ्युपगम्य मोक्षफलायेति ब्रुवतः । तस्माद्यथा श्रुतः एवार्थः कर्मण्यकर्म यः पश्येदि - त्यादेः । तथा च व्याख्यातोऽस्माभिः श्लोकः || १८ || ब्रुवता असदेव सद्भवेदित्युक्तं भवतुनाम कारणस्य कार्यात्मना परिणामात् । कथं पुनः सच्चासद्भवेदित्युक्तं भवेदितिचेत, उच्यते — कार्यस्य कारणात्मकत्वं दृष्टम् । घटस्य मृदात्मकत्वदर्शनात् । तथाच कार्यस्व सतः कारणभूतासदात्मकत्वं स्यादेवेति सच्चासद्भवेदित्युक्तं भवेदेव । भवतु को दोषस्तत्राह – तच्चा- युक्तमिति । तत्र हेतुमाह — सर्वेति । प्रत्यक्षादिसर्वप्रमाणविरोधात् न ह्यसतरशशशृङ्गादेरसत्त्व प्रत्यक्षादिप्रमाणानि सहेरन्निति भावः । ननु नित्यानामकरणे प्रत्यवायोऽस्तु वा मावा करणे तु नास्ति फलमत आह— — नचेति । शास्त्र निष्फलं कर्म न विदध्यात् । लोकानुग्रहाय प्रवृत्तत्वादिति भावः । कुतो न विदध्यादत आह– दुःखरूपत्वादिति । निष्फलस्य कर्मणो दुःखरूपत्वादित्यर्थः । ननु दुःखमपि कर्म कार्यमेव विहि- तत्वादत आह- दुःखस्येति । कोऽपि दुःखकरं कर्म बुद्धिपूर्वकतया न करोति- परस्त्रीसङ्गादिकमपि तात्कालिक सुखकरत्वादेव बुद्धिपूर्वकतथा करोति लोकः । तस्मान्नित्ये कर्मण्यपि दुःखरूपे न पुंसां बुद्धिपूर्वकतया प्रवृत्तिरस्ति । नच ततो निवर्ततामिति वाच्यं तदकरणे प्रत्यवायश्रवणात् । अतो. नित्यकर्मणां करणे वा अकरणे वा न कोपि बुद्धिपूर्वकं प्रवर्तेत, किंतु शास्त्रवलादेव । तच शास्त्र भगवता लोकस्यानर्थायैव कल्पितं नित्यकर्मणां करणस्य दुःखत्वादकरणस्य च दुःखत्वादित्थं लोकानर्थ- करं निष्फलं शास्त्र तु कथं वा प्रमाणं स्यान्न कथमपि । अहो तव पाण्डित्यम् ! येन वेदमूलं गीताशास्त्रं व्याख्यातुं प्रवृत्तस्सन् समूलं गीताशस्त्रमेवाप्रमाणं कृतवानिति । दोषान्तरमप्याह - स्वाभ्यु पगमविरोधश्चेति । नित्यकर्मणो निष्फलत्वं मोक्षफलत्वं चेत्युभयमव्याहतं कथमित्यर्थः । ‘कर्मणैव हि संसिद्धिमास्थिता जनकादय’ इत्यादौ नित्यकर्मणो मोक्ष इति तैर्व्याख्यातत्वात् । कर्मसमुचिता दज्ञानान्मोक्ष इति ग्रन्थारम्भे चोक्तत्वादिति भावः ।

उपसंहरति — तस्मादिति । परोक्तार्थस्याप्रमाणत्वादयुक्तत्वाच्चेत्यर्थः । यथाश्रुत इति । यस्माच्छब्दाद्योर्थः व्याकरणादिना शब्दशक्त्या सिध्यति तदविरुद्ध इत्यर्थः । कथं सः यथाश्रुतार्थोऽत आह - तथाच व्यख्यात इति । एतेन परोक्तार्थस्य अयथाश्रुतार्थत्वं सिद्धम् । तच्च दर्शितं प्रागेवः । गौणवृत्त्याश्रयणं यथाश्रुतार्थत्वे तस्य लिङ्ग - योर्थोऽभिदाशक्त्याऽऽयाति स यथाश्रुतः । अभिधेय इति यावत् । यस्तु लक्षणादिना स त्वयथाश्रुत इति विवेकः । यस्य शब्दस्य यथा योर्थः श्रुतः प्रसिद्धः तस्य स यथाश्रुतार्थ इति निष्कर्षः । कर्मशब्दस्य विहितप्रतिषिद्धो भयवा चित्वादत्र कर्मणस्वत्वकथनेन विकर्मणोपि तत्वमुक्तमिति वेद्यम् । १७२ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यत्तु रामानुजः - क्रियमाणमेव कर्मात्मयाथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत्तच्च ज्ञान कर्मण्यन्तर्गततया कर्माकारं यः पश्येत्स बुद्धिमत्वादिगुणयुक्त इति, तत्तुच्छम् — कर्मज्ञानयोः परस्परं भिन्नयोरितरत्रेतरा कारस्य दुर्दर्शत्वात् तादृशस्येतरत्रेतरा कारज्ञानस्य मिथ्याज्ञानत्वाच्च । नचात्मयाथात्म्यानु- सन्धानेन कर्मणो ज्ञानाकारताज्ञानस्य च कर्माकारतोपपद्यत इति वाच्यं, आत्मयाथात्म्यानुसन्धानेन वा अन्येन वा न ह्यन्यस्यान्याकारता कथमप्युपपद्यते, भ्रान्ति विना आत्मतत्त्वानुसन्धानेनाक्रियत्वमात्मनोऽ- स्तुनाम- कथं पुनर्देहाश्रयस्य कर्मण: ज्ञानाकारता? कथं वा अयं घट इत्यादिज्ञानस्य मानसस्य कर्मा- कारता ? किं वा ज्ञानशक्ति क्रियाशक्त्योर्बुद्धिप्राणनिष्ठयोः तदाश्रययोर्बुद्धिप्राणयोर्वाऽभेदो वक्तुं शक्यः केनचिद्विदुषाऽध्यासं विना ? नच फलाद्यनभिसन्धानात्कर्मणो भवति । ज्ञानाकारतेति वाच्यं, फला- भिसन्ध्यादौ सति बन्धकत्वं कर्मणस्तदभावेत्वबन्धकत्वमित्येव सिद्धान्तात् । नच बन्धकत्वाभावनिमित कर्मणो ज्ञानाकारज्ञान गौणमेव न मिथ्येति वाच्यं, अनेन गौणज्ञानेनापि भगवत्प्रतिज्ञाता शुभमोक्षण- रूपफलाभावात् । नहि फलाभिसन्ध्यादिरहितं कर्माबन्धकत्वाद्ज्ञानतुल्यमिति ज्ञानमात्रेण पुमानशुभा- न्मुच्येत - किंतु तादृशकर्मानुष्ठानादेव । अथ कर्मण्यन्तर्गततया ज्ञानस्य कर्माकारतेत्येतदतीव परिहासास्पदं विदुषां कथं किं देहाद्यन्त- तस्यात्मनो भवति देहाद्याकारता । यत्तु कर्मान्तर्गते ज्ञाने कर्माकारज्ञानं तद्धि मिथ्याज्ञान- देहा- धन्तर्गते आत्मनि देहाद्याकारज्ञानवत् । नापि कर्मणि ज्ञानस्यान्तर्गतिरस्ति कुण्डे बदराणामित्र- ज्ञानस्य मनोनिष्ठत्वात्कर्मणो देहाश्रयत्वाच्च । नापि ज्ञानयुक्तं कर्म कर्तव्यमिति वाच्यं कर्मज्ञानयो- योगस्यैवाभावात् न ह्ययं घट इति ज्ञानं गमनादिक्रियया युज्येत । नच कर्मज्ञाने युगपदेवानुष्ठेये इति वाच्यं, दुष्करत्यात् । ननु स्थितिगत्योरिव ज्ञानकर्मणोर्विरोधाभावात्कथं युगपदनुष्ठानासम्भव इति चेन्मैवम् – अहं कर्तेति ज्ञानस्य कर्मणश्च विरोधाभावेपि अहमक्रिय इति ज्ञानस्य कर्मणश्चास्ति विरोध इति य आत्मान- मकर्तारं मन्यते स कथं पुनरात्मानं कर्तारं विद्याद्येन तस्य कर्मानुष्ठानं स्यात् । एतेन ज्ञानिना कर्मा- नुष्ठेयमित्येतदपि प्रत्युक्तं, आत्मविदः कृतकृत्यत्ववचनेन कर्तव्याभावसिद्धेः । नच परोक्षज्ञानकर्मणो- रविरोध इति वाच्यं, आत्मनो नित्यापरोक्षत्वेन तद्विषयज्ञानस्य परोक्षत्वस्यैवासम्भवात् । यस्तु न ममात्मसाक्षात्कार इति मन्यते स नात्मविदेव- अनात्मविदस्तु कर्माण्यस्माभिरप्यभ्युपेतानि अर्थ धनात्मविदात्मानमकर्तारं न निश्चयेन प्रत्येति किंतु संशयेनैव आत्मसाक्षात्कारं विना तन्निश्चयानुदयात् । नचापातज्ञानविशिष्टं कर्म कर्तव्यमिति वाच्यं स्वया आत्मयाथात्म्यानुसन्धानपूर्वकं कर्म कर्तव्यमि - त्यसकृदुक्तत्वादात्मयाथात्म्यानुसन्धनस्य चापरोक्षज्ञानत्वात् । किं च एकाग्रचित्तसाध्यस्यात्मतत्त्वानु- संन्धानस्य कथं कर्मकरणव्वग्रचित्तसाध्यत्वं येनात्मतत्त्वानुसन्धानपूर्वकं कर्म कर्तव्यं स्यात् । नहि मन- स्वात्मनिष्ठेसति देहेन्द्रियाणि कर्मसु व्याप्रियेरन् । अन्यथा समाधौ वर्तमानस्यापि पुरुषस्य कर्मकरण- प्रसङ्गः मनोव्यापारपूर्वको हि देहेन्द्रिय व्यापारः मनस्यन्याक्रान्तेसति चक्षुरादीनां घटादिदर्शनाभावस्सर्व- चतुर्थोऽध्यायः । यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ||१९|| १७३ तदेतत्कर्मादावकर्मादिदर्शनं स्तूयते – यस्येति । यस्य यथोक्तदर्शिनस्सर्वे यावन्तः समारम्भाः सर्वाणि कर्माणि समारभ्यन्त इति समारम्भाः । कामसङ्कल्पवर्जिता:- कामैः तत्कारणैस्सङ्कल्पैश्च वर्जिताः सुधैव चेष्टामात्रा अनुष्ठीयन्ते । प्रवृत्तेन चेल्लोकसग्रहार्थ, निवृत्तेन वेज्जीवनमात्त्रार्थं तं ज्ञानाग्निदग्धकर्माणं कर्मादावकर्मादिदर्शनं ज्ञानं तदेवाग्निः तेन ज्ञाना- ग्निना दग्धानि शुभाशुभलक्षणानि कर्माणि यस्य तमाहुः परमार्थतः पण्डितं बुधाः ब्रह्मविदः ॥ विदितः । तस्माद्युगपदेकस्यैव मनसः आत्मयाथात्म्यानुसन्धानं देहादिसंयोगपूर्वक कर्मकरणं चानुपपन्नमेव । देहेन्द्रियादिव्यापारात्मकस्य कर्मणः सच्चिदानन्द आत्माहमित्याकारकज्ञानस्य च न परस्पराकारत्वं स्वप्नेपि सम्भावयितुं शक्यं - तस्मादवद्यं रामानुजभाष्यम् ॥१८॥

यस्येति । कामाः स्वर्गादितृष्णाः सङ्कल्पाः मम वर्गों भूयादित्यादयः सङ्कल्पप्रभवत्वात्काम- स्योक्तं — कत्कारणैरिति । मम खर्गे भूयादित्यादौ सङ्कल्प्य पश्चात्स्वर्गे सकामस्सज्जत इति सङ्कल्पप्रभवत्वं कामस्य बोध्यम् । मुधैव व्यर्थमेव नतु कुतो मुधानुष्ठानं कर्मणामत आह— प्रवृत्तेनेति । गृहस्थे - नेति यावत् । निवृत्तेनेति । सन्न्यासिनेति यावत् । प्रवृत्तिमार्गस्थो विद्वान् लोकसंग्रहार्थं निवृत्तिमार्गस्थम्तु जीवनार्थं व्यर्थमेव कर्माणि करोतीत्यर्थः । नच कथं निवृत्तस्य सर्वकर्मानुष्ठानमिति वाच्यं, यानि भिक्षा- टनादीनि निवृत्तेनानुष्ठीयन्ते तान्येव सर्वकर्माणीति विवक्षितत्वात् । प्रवृत्तस्तु यज्ञादि नित्यनैमित्तिक- सर्वकर्माणि करोत्येवेति बोध्यम् । आदिपदादकर्मणि कर्मदर्शनसंग्रहः । देहाद्याश्रयं कर्म आत्मा त्वकर्मै- वेत्याकारकं ज्ञानमित्यर्थः । दग्धानीति नाशितानीत्यर्थः । एतेन कर्मणां तूलत्वरूपणं व्यज्यते - कर्मा- णीति । सवितानीति भावः- प्रारब्धकर्मणो भोगेकावसानत्वात् ।
ननु भगवता अशुभान्मोक्ष्यत इत्येवोक्तं कथमंत्र शुभाशुभानीति चेन्नैष दोषः । तत्रा शुभपदेन संसारस्य विवक्षितत्वादत्रा शुभपदेन पापस्य शुभपदेन पुण्यस्य च विवक्षितत्वाच्छुभाशुभयोर्द्वयोरपि बन्ध- कत्वेन संसारत्वादिति । अत एव हि ‘तद्विद्वान् पुण्यपापे विधूये ‘ति श्रूयते । परमार्थत इति । व्यय- हारतः पाण्डित्यं तर्कादिशास्त्राध्येतृष्वप्यस्ति । वस्तुतस्तु न ते पण्डिता अनात्मज्ञत्वादिति भावः । बुधा इति । ननु तर्कादिशास्त्रज्ञास्तर्कादिशास्त्रज्ञ पण्डितं ब्रुवन्तीत्यत आह - ब्रह्मविद इति ।
यत्तु रामानुजः – कर्मणो ज्ञानाकारता कथमुपपद्यत इति शङ्कासमाधानपरोयं श्लोक इति, सकल्पः प्रकृत्या तद्गुणैश्वात्मानमेकीकृत्य व्यवहार इति, तत्तुच्छम् — अनेन श्लोकेन कर्मणो ज्ञाना- कारत्वस्याप्रतिपादितत्वात् । कामसङ्कल्पाभाववर्णनमात्रेण कर्मणो ज्ञानाकारालाभात्- ज्ञानाग्निदग्ध- कर्माणमिति ज्ञानकर्मणोर्विरोधस्यैव प्रतिपादितत्वात् । कर्मणः स्वदाहकज्ञानाकारस्य स्वप्नेपि सम्पाद रितुमशक्यत्वात् तुलस्याग्न्याकारवत् । कर्म दग्धं सद्ज्ञानाकारं प्रपद्यत इत्यप्ययुक्तं वाक्यं यद्विद्यमानमेव१७४
श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
यस्तु कर्मादाव कर्मादिदर्श सः अकर्मादिदर्शनादेव निष्कर्मा सन्न्यासी जीवनमात्राचेष्टः कर्मणि न प्रवर्तते । यद्यपि प्राग्विवेकतः प्रवृत्तः, यस्तु- प्रारब्धकर्मासन्नुत्तरकालं उत्पन्नात्म- सम्यग्दर्शनस्स्यात् स कर्मणि प्रयोजनमपश्यन् ससाधनं कर्म परित्यजत्येव, स कुतश्चि- निमित्तात कर्मपरित्यागासम्भवे सति कर्मणि तत्फले च सङ्गरहिततया स्वप्रयोजनाभावा- लोकसंग्रहार्थं पूर्ववत्कर्मण्यभिप्रवृत्तोपि नैव किञ्चित्करोति । ज्ञानाग्निदग्धकर्मत्वात्तदीय कर्मा मैव सम्पद्यत इत्येतमर्थं दर्शयिष्यन्नाह -
ज्ञानाकारं प्राप्तुं न क्षमते कथं पुनस्तन्नष्टं सत्प्राप्नुयात् । किंच नष्टं कर्मनाम कर्माभाव एव नंतु कर्म कर्माभावस्य ज्ञानाकारत्वमस्तु नाम न तावता कर्मणः तत्सिद्धिः ।
ननु नास्माभिः क्रियमाणमेव कर्म ज्ञानाग्निना दह्यत इत्युक्तम् । किंतु प्राचीनं पुण्यापुण्यलक्षण- मेवेति चेत्तर्हि कथं क्रियमाणस्य कर्मणो ज्ञानाकारतोता श्लोकेनानेन । ननु यः कामसङ्कल्पवर्जित- सर्वसमारम्भः स ज्ञानाग्निदग्धकर्मेति वचनात् कर्मणी ज्ञानाकारसिद्धिः कामसङ्कल्पवर्जित सर्वसमा- रम्भत्वस्यैव ज्ञानत्वादिति चेत्, मैवम् - कामसङ्करूपवर्जित सर्व समारम्भत्वं हि ज्ञानस्य लिङ्ग, नतु ज्ञानं– आत्मायाथात्म्यानुसन्धानस्यैवेह ज्ञानत्वेन तवापि सम्मतत्वात् । कर्मान्तर्ग वात्मयाथा- त्यानुसन्धानेन ज्ञानेनेति त्वयाप्युक्तत्वात् । तस्माद्य आत्मयाथात्म्यं वेद स कामसङ्कल्पर हि- तानि कर्माणि करोति, यस्तु न वेद स कामसङ्कल्पसहितानि करोति । एवं कर्म करणादपि ज्ञानिनो बन्धमा शङ्कयाह भगवान् — ज्ञानाग्निदग्धकर्माणमिति । आत्मज्ञानिनं कर्माणि न लिम्पन्ति - कर्मगत- लेपनसामर्थ्यस्य ज्ञानेन नाशितत्वात् । कर्मणां लेपनसामर्थ्यं हि कामसङ्कल्पप्रयुक्तं । यस्तु विद्वान् काम- सङ्कल्पावेव विससर्ज कथं तं कर्माणि लिम्पेयुः १ न कथमपि । ततश्च येषां कर्मणां ज्ञानवशान्निर्लेपकत्वं जातं तेषां कथं ज्ञानाकारत्वं स्यात् । नहि स्वगुणाधायकं वस्तु स्वमेव भवति । अथ सङ्करपशब्दस्य दर्शितोर्थस्तु अभिधानादिविरुद्ध इति सर्वविदितम् ।
1
॥१९॥
त्यक्त्वेति श्लोकमवतारयति - यस्त्विति । यः कर्मारम्भात्प्रागेवात्मानात्मविवेकतः सन्न्यासे प्रवृत्तः स आत्मवित्सन्न्यासी न पुनः कर्मणि प्रवर्तते निवृत्तिमार्गत्वात्सन्न्यासस्य । अथ यस्तु यज्ञादि- कर्म प्रारभ्य तस्मिन् कर्मण्यसमाप्ते एव प्रारम्भोत्तरकालमात्मज्ञानी भवेत्स पुमान् प्रारब्धमपि तत्कर्म ससाधनं परित्यज्य सन्न्यासी भवेदेव । न पुनः कर्मणि प्रवर्तते । अतो नेमौ द्व वुद्दिश्य त्यक्त्वेति श्लोकः प्रवृत्तः कर्मण्यभिप्रवृत्तोपीति कर्मण्यभिप्रवृत्तमुद्दिश्य श्लोकस्योक्तत्वात् । किंतु यः कर्मप्रारम्भानन्तर- मुत्पन्नात्मज्ञानोपि कुतश्चित्प्रतिबन्धान्निमित्तात्कर्म परित्यक्तुं न क्षमते तमसन्न्यासिनमात्मविदमारब्ध- कर्माणमुद्दिश्य श्लोकोऽयं प्रवृत्तः । अयं हि प्रारब्धे कर्मणि तत्फले च स्वप्रयोजनाभावान्निस्सङ्गोपि लोक- संग्रहार्थ ज्ञानात्प्रागिव कर्मणि प्रवर्तते, ज्ञानात्पश्चादपि एवं कर्मणि प्रवृत्तमात्नविदं तदारब्धं कर्म नैव लिम्पति, कुतः ज्ञानाग्निना कर्मगतबन्धकत्वांशस्य दग्धत्वात् । एवमबन्ध मेसदीय कर्म अकर्मैव कर्माभाव एव सम्पद्यते जायत इति ॥

चतुर्थोऽध्यायः । त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोपि नैव किञ्चित्करोति सः ॥२०॥ १७५ त्यक्त्वेति । त्यक्त्वा कर्मस्वभिमानं फलासङ्ग च यथोक्तेन नित्यतृप्तो निराकांक्षो विषयेष्वित्यर्थः । निराश्रयः आश्रयरहितः, आश्रयो नाम यदाश्रित्य पुरुषार्थ सिषाधयिषति, दृष्टादृष्टेष्टफलसाधनाश्रयरहित इत्यर्थः । तेनैवम्भूतेन प्रयोजनाभावात् ससाधनं कर्म त्यक्तव्य- मेवेति प्राप्ते ततो निर्गमनासम्भवात् लोकसंग्रहचिकीर्षया शिष्टविगर्हणपरिजिहीर्षया वा पूर्ववत् कर्मण्यभिप्रवृत्तोपि निष्क्रियात्मदर्शनसम्पन्नत्वात् नैव किञ्चित्करोति सः ॥२०॥ कर्मफलासङ्गं त्यक्त्वा नित्यतृप्तः निराश्रयश्च सन् सः कर्मण्यभिप्रवृत्तोपि किञ्चिन्नैव करोति अभिमानमहमस्य कर्ता ममेदं कर्मेति चेत्येवं रूपं यथोक्तेन कर्मण्यकर्म य इति श्लोकोक्तेन निष्क्रियात्म- स्वरूपदर्शनेनेत्यर्थः । विषयस्पृहाभावादेव तृप्तिरित्याह– निराकांक्ष इति, आश्रय इति । आश्रीयते पुरुषार्था येत्याश्रयः यज्ञादिः । यदिति । तदिति स इति वा शेषः । दृष्टानीष्टफलानि पशुपुत्रान्नादीनि अदृष्टानीष्टफलानि स्वर्गादीनि तेषां यत्साधनं कर्मादि तदेवाश्रयः तेन रहितः तथोक्तः साधनाश्रयण- रहित इति वा अनाश्रितफलसाधन इत्यर्थः । निर्व्यापार इति यावत् । ततः कर्मणस्सकाशात् निर्गमनं बहिर्गमन सन्न्यास इति यावत् तदपम्भवात्पुत्रादिप्रतिबन्धादिति भावः । हेत्वन्तरमाह – लोकेति । अन्य हेतुमाह - विगर्हणेति । विगर्हणं निन्दा- ‘अनारम्भो मनुष्याणां प्रथमं बुद्धिलक्षणम् । आर- ब्धस्य समाप्तिस्तु द्वितीयं बुद्धिलक्षण’ मिति स्थितेऽधिगमं विद्वांस यज्ञादिकर्म प्रारभ्याऽसमाप्यैव सन्न्य स्तवानित्येवंरूपा लौकिकाज्ञजनकृतेति भावः । परिहर्तुमिच्छा परिजिहीर्षा यद्यप्यात्मविदः स्तुति- निन्दे समे एव आत्मन उभयदूरत्वात्तथापि देववत्पूज्यत्वमेव विद्वद्भिस्सम्पाद्यं नतु विडुराहादिसाम्य- मित्यभिप्रेत्येदमुक्तम् । ननु कर्मणि प्रवृतोपि न करोतीत्युक्तिर्व्याहतेत्यत आह- निष्क्रियेति ! देहाद्याश्रयमेवेदं कर्म न त्वात्माश्रयमिति यः प्रत्येति स आत्मविदात्मानमकर्तारमेव मन्यत इति कृत्वा न करोती- त्युक्तमिति भावः । देहादिसङ्घाते अनात्मनि कर्मणि प्रवृत्तेपि निष्क्रिय आत्माऽप्रवृत्त एवेति नलि कापि व्याहतिरिति तत्त्वम् । तस्मादात्मविदा कृतं कर्म अकर्मैव सम्पद्यत इति । अत्र नैव किञ्चि- त्करोति कर्मापदेशेन ज्ञानाभ्यासमेव करोतीति रामानुजः, विपरीतविषयसश्चरणेन ज्ञानाभ्यास- विरोधिनामिन्द्रियाणामनुकूलविषय सञ्चरणमात्रं हि कर्मयोग इति भाव इति वेदान्तदेशिक वाहतुः, तत्तुच्छम् – सत्यां रामानुजोक्तार्थविवक्षायां व्यासेन ज्ञानमेव करोति स इत्येवोच्येत श्लोकः इन्द्रियव्यापारोपरमस्य ज्ञानाभ्यासस्य इन्द्रियाणां विपरीतविषयसञ्चरणमिवानुकूल विषय सञ्चरणमपि विरो- ध्येव- इन्द्रियाणां विषयप्रावण्यमात्रस्यैव इन्द्रियव्यापारोपरमप्रतिबन्धकत्वात् । अन्तर्मुखमनस्साध्यो हि ज्ञानाभ्यासः बहिर्मुखमनोवेद्यास्तु अनुकूलाः प्रतिकूलाश्च सर्वे विषयाः । अतः कथमनुकूलविषयाणां ज्ञाना- भ्यासाविरोधित्वम् । तस्माद्यो निस्सङ्ग कर्म करोति स कर्मयोगमेव करोति । नतु ज्ञानयोग- कर्म- योगसाध्ये ज्ञानयोगे कर्मयोगाकाराभावात् । . ॥२०॥ १७६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यः पुनः पूर्वोक्तविपरीतः प्रागेव कर्मारम्भात्- ब्रह्मणि सर्वान्तरे प्रत्यगात्मनि निष्क्रिये संजातात्मदर्शनस्स दृष्टादृष्टेष्टविषयविवर्जिततया दृष्टादृष्टार्थे कर्मणि प्रयोजनमपश्यन् ससाधनं कर्म सन्न्यस्य शरीरयात्रामात्रचेष्टो यतिर्ज्ञाननिष्ठो मुच्यत इत्येतमर्थं दर्शयितुमाह- निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥२१॥ निराशीरिति । निराशीः निर्गता आशिषो यस्मात् स निराशी :- यतचित्तात्मा चित्त- मन्तःकरण आत्मा बाह्यकार्य करणसङ्घातः तावुभावपि यतौ संयतौ येन स यतचित्तात्मा– त्यक्तसर्वपरिग्रहः त्यक्तः सर्वपरिग्रहो येन स त्यक्तसर्वप्ररिग्रहः, शारीरं शरीर स्थितिमात्रप्रयो जनं केरल तत्राप्यभिमानवर्जितं कर्म कुर्वन्नाप्नोति न प्राप्नोति । किल्विषं पापं अनिष्टरूपं धर्म च मुमुक्षोरनिष्टरूपत्वात् धर्मोपि किल्विषमेव । तस्मात्ताभ्यां मुक्तो भवति - संसारमुक्तो भवतीत्यथः ।

शारीरं कालं कर्मेत्यत्र किं शरीरनिवेत्य शारीरं कर्माभिप्रेतं ? आहोस्त्रित् शरीरमात्र- प्रयोजनं शारीरं कर्मेति १ किञ्चातः यदि शरीरनिवर्त्य शारीरं कर्म, यदि वा शरीरस्थिति- मात्रप्रयोजनं शारीरं कर्मेति, उच्यते - यदा शरीरनिर्वर्त्य शारीरं कर्माभिप्रेतं स्यात्, तदा निर. शीरिति श्लोकमवतारयति य इति । प्रागेव कर्मारम्भादिति गृहस्थाश्रम एव यज्ञादि - प्रारम्भाद्गृहस्थाश्रमस्वीकारात्प्रागेवेत्यर्थः । ब्रह्मचर्यादेवेति यावत्- ब्रह्मचर्यादेव प्रव्रजेदिति श्रुतेरिति भावः । यद्वा ब्रह्मचर्याश्रमस्वीकारात्प्रागेवेत्यर्थः । तत्रैव वेदाध्ययनादिकर्मप्रारम्भादिति भावः । ब्रमणि सञ्जातमात्मेति दर्शनं बुद्धिर्यस्य स अहं ब्रह्मास्मीतिज्ञानवानित्यर्थः । शुकसनकं वामदेवादिव- दिति भावः । कर्मणां आशिषः कामाः, बाह्य कार्य देहः, बाह्यानि करणानीन्द्रियाणि, बाह्यघटादि विषयग्रहण साधनत्वा- द्वाह्यकरणत्वामिन्द्रियाणां अन्तस्सुखादि विषयग्रहणसाधनत्वादन्तः करणत्वं मनस इति विवेकः । संयतौ नियमितौ । परिग्रह’ गृहादिः परिगृझतइति परिग्रहः । शरीरस्येदं शरीरं । फलितमाह- शरीरेति । शरीरक्षण- मात्रफलकं भिक्षाटनादिरूपमिति भावः । धर्मं पुण्यं । ननु पुण्यस्य कथं किल्बिषत्वमत आह-मुमुक्षो रनिष्टरूपत्वादिति । यदनिष्टं तत्किल्विषमिति सिद्धान्तात्पुण्यमपि मुमुक्षोरनिष्टमेवेति किल्विषमेव । मुमुक्षुर्नाम बन्धान्मोक्तुमिच्छुर्हि, बन्धश्च जन्मादिसंवाररूपः पुण्यात्पुण्यजन्म देवादिरूपं भवेदेवेति पुण्यस्य बन्धकत्वादनिष्टत्वभिति भावः । शारीरमित्यस्य शरीरस्थितिमात्रप्रयोजनमित्यर्थो भाष्याकारैवर्णितः । तत्र यदि यः कौपि शारीरमित्यस्य शरीर निर्वर्त्य कर्मेत्यर्थः । किं न स्यादिति पृच्छेत्तं प्रति किमुत्तरमिते शङ्कायां शरीर- निर्वर्त्यमित्यर्थस्यायुक्तत्वं प्रतिपादयितुं भूमिकामारचयति – शारीरं केवलं कर्मेत्यत्रेति । पक्षद्वयेपि किं दूषणमिति पृच्छति पूर्ववादी - किश्चात इति । प्रतिजानाति सिद्धान्ती - उच्यत इति । 1

२३ चतुर्थोऽध्यायः । १७७ दृष्टादृष्टप्रयोजनं कर्म प्रतिषिद्धमपि शरीरेण कुर्वन्नाप्नोति किल्बिषमिति ब्रुवतो विरुद्धाभि- धान प्रसज्येत। शास्त्रीयं च कर्म दृष्टादृष्टप्रयोजनं शरीरेण कुर्वन्नाप्नोति किल्विषमित्यपि ब्रुवतोऽप्राप्तप्रतिषेधप्रसङ्गः । शारीरं कर्म कुर्वन्निति विशेषणात् केवलशब्दप्रयोगाच्च वाङ्मनस निर्वर्त्य कर्म विधि- प्रतिषेधविषयं धर्माधर्मशब्दवाच्यं कुर्वन्नाप्नोति किल्बिषमित्युक्तं स्यात्तत्रापि वाङ्मनसाभ्यां विहितानुष्ठानपक्षे किल्विषप्राप्तिवचनं विरुद्धमापद्येत प्रतिषिद्धसेवापक्षेपि भृतार्थानुवादमात्र- मनर्थकं स्यात् । प्रथमपक्षे दोषमाह - यदेत्यादिना । यज्ञयागादिविहितकर्मवत्परदारगमनादिनिषिद्धकर्माण्यपि शरी- रेणैव निर्वर्त्यन्त इति कृत्वा निषिद्धानामपि शारीरत्वं दुर्वारं, ततश्च शारीरं कर्म कुर्वन्नित्यस्य विहितं प्रतिषिद्धं वा कर्म शरीरेण कुर्वन्नित्यर्थस्सिद्धः, शरीरनिर्वर्त्य कर्म कुर्वन्नित्यस्य शरीरेण कर्म कुर्व- न्नित्येव सिद्धत्वात् । तत्र च प्रथमे विकल्पे किं शरीरनिर्वर्त्य निषिद्धं कर्म कुर्वन् किल्विषं नाप्नोतीत्यभिप्रेतम् ? यद्वा शरीरनिर्वर्त्य विहितं कर्म कुर्वन् किल्विषं नाप्नोतीति विकल्प्य ? प्रथमपक्षे दोषमाह-प्रति- षिद्धमिति । प्रतिषिद्धकर्मणां न किल्बिषप्राप्तिरित्येतद्वचनं व्याहतं न परदारान् गच्छेदित्यादि- निषेधशास्त्रानर्थक्यप्रसङ्गात् । द्वितीयपक्षे दोषमाह - शास्त्रीयमिति । निषेधस्य प्रसक्तिपूर्वकत्वात् यदि शास्त्रविहित- कर्मानुष्ठानात्किल्बिषस्य प्रसक्तिः तदा तन्निषेधार्थं किल्बिषं न प्राप्नोतीति वक्तुं युक्तं, न त्वेतदस्ति– नहि विहितानुष्ठानात्किल्बिषं प्रसज्यते, अन्यथा विधिशास्त्र वैयर्थ्यप्रसङ्गात् । तस्मादप्राप्तस्य किल्विषस्य प्रतिषेधप्रसङ्गोऽयं दुष्ट इत्यर्थः । किंच कर्म कुर्वन्नित्यनुक्त्वा शारीरं कर्मेत्युक्तम्– अनेन च शारीरत्व विशेषणेन वाचिकस्य मानसिकस्य च कर्मणो व्यवच्छेदक स्सिध्यति । नच शारीरमुपलक्षणं वाचिकमानसिकयोरिति वाच्य- मित्याह – केवलशब्दप्रयोगादिति । शारीरं केवलं कर्म कुर्वन्नित्यनेन शरीरमात्र निर्वर्त्यमेव कर्म कुर्वन्नित्यर्थस्य जातत्वात्केवलपदेन वाचिकमानसिककर्मणोर्निवृत्तिरिति भावः । ननु भवतु को दोष- स्तत्राह – वागिति । शरीरमात्र निर्वर्त्य कर्म करणात्किल्विषं नेति वचनेन वाचा मनसा च निर्वत्र्त्यस्य कर्मणः करणात्किल्बिषं प्राप्यत एवेति सिद्धमित्यर्थः । कुर्वन्नाप्नोतीत्यस्य कुर्वन् आप्नोतीति छेदः । ङमो हस्वादिति ङमुडागमः । मूले तु कुर्वन् न आप्नोतीति छेद इति विवेकः । ननु वाचिकमानसिककर्म करणात्किल्बिषप्राप्तिरभिप्रेतैवेत्यत आह– तत्त्रापीति । किं वाचिकस्य मानसिकस्य वा विहितस्य कर्मणः करणं किल्बिषावहम् ? यद्वा निषिद्धस्य ? इति विकल्प्य आ दूषयति-विहितेति । द्वितीयं दूषयति- प्रतिषिद्धेति । प्रतिषिद्धाचरणेन किल्विषप्रास्सिद्धत्वा- स्पुनरिह वचनमनर्थक मिर्थः । भूतार्थः सिद्धार्थ:- अनुसृत्य वादो वचनमनुवादः । सिद्धस्य पुनः कथन- मिलर्थः । १७८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यदा तु शरीरस्थितिमात्रप्रयोजनं शारीरं कर्माभिप्रेतं भवेत्तदा दृष्टादृष्टप्रयोजनं कर्म विधिप्रतिषेधगम्य शरीरवाङ्मनस निर्वर्त्यमन्यदकुर्वस्तैरेव शरीरादिभिः शरीरस्थितिमात्रप्रयो- जन केवलशब्दप्रयोगादहं करोमीत्यभिमानवर्जितः शरीरादिचेष्टामात्रं लोकदृष्ट्या कुर्वन्नाप्नोति किल्विषमिति । एवम्भूतस्य पापशब्दवाच्य किल्विषप्राप्त्यसम्भवात् किल्विषं संसारं न प्राप्नोति, ज्ञानाग्निदग्धसर्वकर्मत्वात् अप्रतिबन्धेन मुच्यत एवेति पूर्वोक्तसम्यग्दर्शनफलानुवाद एवैषः । एवं शारीरं केवलं कर्मेत्यस्यार्थस्य परिग्रहे निरवद्यं भवति ॥ २१ ॥ त्यक्तसर्वपरिग्रहस्य यतेः अन्नादेश्शरीरस्थितिहेतोः परिग्रहस्याभावात् याचनादिना शरीरस्थितिकर्तव्यतायां प्राप्तायां - ‘अयाचितमसं कृतमुपपन्नं यदृच्छये ‘त्यादिना वचनेनानु- ज्ञातं यतेश्शरीरस्थितिहेतोरन्नादेः प्राप्तिद्वारमाविष्कुर्वन्नाह- एवं शरीर निर्वर्त्य शारीरं कर्माभिप्रेतं वेति प्रथमपक्षं दूषयित्वा द्वितीयं पक्ष सिद्धान्तयति- यदा त्विति । दृष्टान्यदृष्टानि च प्रयोजनानि यस्य तद्दृष्टादृष्टप्रयोजनं निषिद्धाचरणस्य दृष्टं प्रयोजनं रोगराजशिक्षादिः, अदृष्टं तु नरकम् । विहिताचरणस्य तु दृष्टं प्रयोजनं पशुपुत्रान्नादिः, अदृष्टं तु स्वर्गादिरिति विवेकः । विधिप्रतिषेधाभ्यां विधिनिषेधशास्त्राभ्यां गम्यम् । अन्यत् शरीरस्थितिमात्र- प्रयोजनात्कर्मणोऽन्यदित्यर्थः । कर्म यज्ञादि परदारगमनादि चाकुर्वन् । शरीरादिभिरित्यादिपदा- द्वाङ्मनसयोर्ग्रहणम् । लोकदृष्ट्येति । एतदपि कर्म विवेकदृष्ट्या स्वयं न करोति स्वस्याविक्रियात्मत्वा- त्किन्तु लोकदृष्ट्या कुर्वन्निव प्रतिभातीत्यर्थः । लोको हि देहादौ यतेर्भिक्षाटनादिकं कर्म कुर्वतिसति यतिः कर्म करोतीति मन्यते, विद्वांस्तु अविक्रिय आत्मा कर्म कथं कुर्यात्किन्तु देहादिसङ्घात एवेति जानातीति भावः । ननु शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिकं कर्म कुर्वन् किल्विषं नाप्नोतीत्येतदपि वचनमयुक्तमेव- एवंविधकर्म करणात्किल्बिषप्राप्त्यसम्भवात् अप्राप्तस्य च किल्बिषस्य निषेधायोगादित्यत आह- संसार- मिति । एवंविधकर्म करणादप्यस्य संसारस्य प्राप्तिरस्तीति मन्यमानमज्ञजनम्प्रति वदति भगवान्- संसारं न प्राप्नोतीति । अतः भ्रान्त्या प्राप्तस्य संसारस्य निषेधो युज्यत एवेति भावः । कुतोऽस्य संसाराभावोऽत आह— ज्ञानाग्नीति, अप्रतिबन्धेनेति । अस्य मुक्तौ न कोपि कर्मादिप्रति- बन्धोऽस्तीत्यर्थः । पूर्वोक्तस्य कर्मण्यकर्मेतिश्लोकोक्तस्य सम्यग्दर्शनस्य आत्मज्ञानस्य यत्फलमशुभान्मोक्षण तस्यैवानुवादोयं, न त्वपूर्ववचनमित्येवकारार्थः । निगमयति - एवमिति । एवं मदुक्तरीत्या शारीरं केवलं कर्मेत्यस्य शरीर स्थितिमात्र प्रयोजनमभिमानवर्जितं कर्मेत्यर्थस्य परिग्रहे निरवद्यं दोषाभावो भवति । एतेनान्यार्थस्य परिग्रहस्सावध इति सिद्धम् । 1 यत्तु रामानुजः - शारीरं केवलं कर्म कुर्वन् ज्ञाननिष्ठाव्यवधानरहितं कर्मयोगमनुतिष्ठन् किल्बिषं संसारं नाप्नोतीति, तत्तुच्छम् - वाचिकमानसिकजपध्यानादिकर्मानुष्ठानेन संसारप्राप्ति- प्रसङ्गात्, केवल पदस्याव्यवधानार्थाश्रयणस्याप्रमाणत्वाच्च ॥२१॥ चतुर्थोऽध्यायः । यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समसिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ २२ ॥ १७९ यदृच्छेति । यदृच्छालाभसन्तुष्टः अप्रार्थितोपनतो लाभो यदृच्छालाभः तेन सन्तुष्ट- संजातालम्प्रत्ययः द्वन्द्वातीतः द्वन्द्वैश्शीतोष्णादिभिरभिहन्यमानोप्य विषण्णचित्तः द्वन्द्वातीत उच्यते । विमत्सरः विगतमत्सरः निर्वैरबुद्धिः समस्तुल्यो यदृच्छालाभस्य सिद्धावसिद्धौ च य एवंभूतो यतिरन्नादेः शरीरस्थितिहेतोर्लाभालाभयोस्समः, हर्षविषादवर्जितः, कर्मादा- वकर्मादिदर्शी, यथाभूतात्मदर्शननिष्ठस्सन् शरीरस्थितिमात्रप्रयोजने भिक्षाटनादौ कर्मणि शरीरादिनिर्वत्यै नैव किञ्चित्करोम्यहं गुणागुणेषु वर्तन्त इत्येवं सदा परिसञ्चक्षाण आत्मनः कर्तृत्वाभावं पश्यन् नैव किञ्चिद्भिक्षाटनादिकं कर्म करोति, लोकव्यवहारसामान्यदर्शनेन तु लौकिकैरेव आरोपितकर्तृत्वात् भिक्षाटनादौ कर्मणि कर्ता भवति । स्वानुभवेन तु शास्त्र- प्रमाणजनितेनाकर्तेव । स एवं पराध्यारोपितकर्तृत्वं शरीरस्थितिमालप्रयोजन भिक्षाटनादिकं कर्म कृत्वापि न निवध्यते बन्धहेतोः कर्मणः सहेतुकस्य ज्ञानाग्निना दग्धत्वादित्युक्तानुवाद एवैषः ॥२२॥ त्यक्त्वा कर्मफलासङ्गमित्यनेन श्लोकेन यः प्रारब्धकर्मासन् यदा निष्क्रियब्रह्मात्म- दर्शनसम्पन्नस्स्यात्, तदा तस्यात्मनः कर्तृकर्मप्रयोजनाभावदर्शिन: कर्मपरित्यागे प्राप्ते कुतश्चि- निमित्तात्तदसम्भवे सति पूर्ववत् तस्मिन्कर्मणि अभिप्रवृत्तोपि नैव किञ्चित्करोति स इति कर्माभावः प्रदर्शितः, यस्यैवं कर्माभावो दर्शितस्तस्यैव- गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ २३ ॥ गतसङ्गस्येति । गतसङ्गस्य सर्वतो निवृत्तसङ्गस्य यतेर्मुक्तस्य निवृत्तधर्माधर्मादि- यदृच्छेति श्लोकमवतारयति - त्यक्तेति । अयाचितमिति भिक्षाटनार्थमुद्योगात्प्राक्काले केनापि योग्येन निवेदितं भैक्षमित्यर्थः । असं कुप्तमिति । अनिर्णीतं अभिशस्तं पतितं च वर्जयित्वा सङ्कल्प- मन्तरेण पञ्चभ्यस्सप्तभ्यो वा गृहेभ्यस्समानीतं भैक्षमित्यर्थः । यदृच्छयोपपन्नमिति सिद्धमन्नं भक्तजनै- स्स्वयमुपनीतमित्यर्थः ।

लभ्यत इति लाभः, लब्ध इत्यर्थः । यदृच्छया लाभो यदृच्छालाभः अप्रार्थनया प्राप्त इत्यर्थः । तेन अन्नादिना । हर्षेति । शरीरे आत्माभिमानाभावाच्छरीरधारकान्नादिलाभेन नास्य हर्षः, तदला मेन न विषाद इत्यर्थः । परिसञ्चक्षाणः परिपश्यन् सहेतुकस्य साज्ञानस्येत्यर्थः । सवासनस्येति वा ॥ २२ ॥ 1 गतेति । एवं श्लोकद्वयेन निवृत्तिमार्गरतस्य सन्न्यासिनः स्थिति प्रदर्श्याथ पुनः प्रवृत्तिमार्ग- स्थात्मविदः स्थितिं वक्तीत्याह – त्यक्त्वा कर्मेत्यादिनावतारिकाग्रन्थेन- यतेरिति । यतते मोक्षाय प्रयत्नं करोतीति यतिः तस्य यतमानस्येत्यर्थः । नतु सन्ध्यासिन 1 १८० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु बन्धनस्य ज्ञानावस्थितचेतसः ज्ञान एवात्रस्थित नेतो यस्य सोऽयं ज्ञानावस्थितचेताः तस्य यज्ञाय यज्ञनिर्वृत्त्यर्थमाचरतो निर्वर्तयतः कर्म समग्रं सहाग्रेण फलेन वर्तत इति - समग्रं कर्म ‘तत्समग्रं प्रविलीयते विनश्यतीत्यर्थः ॥ २३ ॥

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||२४|| कस्मात्पुनः कारणात् क्रियमाणं कर्म स्वकार्यारम्भमकुर्वत्समग्रं प्रविलीयत इति, उच्यते यतः — ब्रह्मार्पणमिति । ब्रह्मार्पणं येन करणेन ब्रह्मविद्धविरग्नावर्पयति तद्ब्रह्मैवेति पश्यति तस्यात्मव्यतिरेकेणाभावं पश्यति, यथा शुक्तिकायां रजताभावं पश्यति तथोच्यते ब्रह्मवा इति । ज्ञान एवात्मदर्शने एव यज्ञनिर्वृत्त्यर्थमिति प्रारब्धयज्ञसमाप्त्यर्थमाचरतः व्याप्रियमाणस्य यई निर्वर्तयत इत्यर्थः । नच यज्ञायेश्वरप्रीत्यर्थमिति वाच्यं, आत्मविदोस्य ईश्वरप्रीत्यर्थकसङ्कल्पासम्भवात्– अयं ह्यात्मानमेवेश्वरं जानाति ततश्चात्मप्रीत्यर्थमेवेत्युक्तं स्यात्तच्चानिष्टं– खप्रीतिरूपेपि फले सङ्गस्या- कर्तव्यत्वात् । नच यज्ञनिर्वृत्तिरप्यस्य व्यथैवेति वाच्यं, लोकसंग्रहार्थत्वात् । समग्रमित्यत्र समित्युप- सर्गस्य सहेत्यर्थः । अग्रेण फलेन सम् सह वर्तत इति समग्रम् । आत्मविदनुष्ठितं कर्म फलेनसह विनश्यतीत्यर्थः । आत्मविदा कृतो यज्ञः स्वर्गादिफलं न जनयतीति यावत् । फलाभिसन्ध्यहङ्कारा- द्यभावादिति भावः ॥२३॥ ब्रह्मार्पणमितीति । गन्तव्यं ब्रह्मैव इत्यन्वयः । " अर्पणं ब्रह्म हविर्ब्रह्म ब्रह्माग्नौ ब्रह्मणा हुतं ब्रह्म ब्रह्मकर्मसमाधिना तेन अर्पणं ब्रह्म हविर्ब्रह्म, अग्निर्ब्रह्म, कर्ता ब्रह्म, हुतं ब्रह्म, फलं ब्रह्म, ब्रह्म- कर्मसमाधेरेव भातीत्यर्थः । अयतेनेनेत्यर्पणं सृगादि अग्नौ हविःप्रक्षेपणसाधनम् । हविराज्यम् । कर्ता यजमानः अध्वर्युरिति वा । हुतमग्नौ हविः प्रक्षेपण क्रियाफलं स्वर्गादि इति । ननु अर्पणादीनां ज्ञेयानां कथं साक्षिब्रह्मरूपत्वमत आह— तस्येति । कारणव्यतिरेकेण कार्याभावस्य लोकसिद्धत्वात्- मृध्यतिरेकेण घटाभावदर्शनात्- ‘आत्मन आकाशस्सम्भूतः, यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुत्या आत्मनो जगत्कारणत्वावधारणादर्पणादीनां च जगदन्तः पातित्वात्कारण- भूतात्मव्यतिरेकेण नास्त्यर्पणादिरूपः कश्चित्पदार्थ इति भावः । तत्र दृष्टान्तमाह- शुक्तिकायामिति । शुक्तिकायां रजतमिवात्मनि जगत्कल्पितमिति सिद्धान्तः । तथा च शुक्तिकाव्यतिरेकेण यथा रजतं नास्ति, तथा आत्मव्यतिरेकेणार्पण नास्तीति । ननु चक्षुषा गृह्यमाणस्यार्पणस्य कथमभावो वक्तुं शक्यत इत्यत आह- शुक्तिकायामिति । शुक्ति- काय रजताभावं यथा शुक्तितत्त्ववित्पश्यति तद्वदात्मतत्त्वविदात्मनि अर्पणाभावं पश्यतीति । ननु आन्तरे आत्मनि अर्पणाभावोऽस्तु नाम, बहिः कथमर्पणाभाव इति चेन्मैवम् - आत्मनोन्तर्बहिश्व व्याप्य स्थितत्वात्- ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्स्थित’ इति हि श्रयते । तरमाच्छुक्तिकायां रजतमिव ब्रह्मणि जगदज्ञः पश्यति, प्राज्ञस्तु शुक्तिकायां रजताभावमिव ब्रह्मणि ‘चतुर्थोऽध्यायः । 7 ટર્ पैणमिति, यथा यद्रजतं तच्छुक्तिकैवेति । ब्रह्मार्पणमित्यसमस्ते पदे । यदर्पणबुद्धया गृह्यते लोके, तदस्य ब्रह्मविदो ब्रह्मैवेत्यर्थः । ब्रह्म हविः, तथा यद्धविर्बुद्ध्या गृह्यमाणं तद्ब्रह्मैवास्य । तथा ब्रह्माग्नाविति समस्तं पदम् । अग्निरपि ब्रह्मैव यत्र हूयते ब्रह्मणा कर्ता ब्रह्मैव कर्ते- त्यर्थः । यत्तन हुतं हवनक्रिया तद्ब्रह्मैव । यत्तेन गन्तव्यं फलं तदपि ब्रह्मैव । ब्रह्मकर्म- समाधिना ब्रह्मैव कर्म ब्रह्मकर्म ब्रह्मकर्मणि समाधिर्यस्य सः ब्रह्मकर्मसमाधिस्तेन ब्रह्मकर्म- समाधिना ब्रह्मैव गन्तव्यम् । एवं लोकसंग्रह चिकीर्षुणापि क्रियमाणं कर्म परमार्थतोऽकर्म ब्रह्मबुद्धयुपमृदितत्वा- जगदभावं पश्यतीति । यथा चक्षुर्दोषादिवशाच्छुक्तिकैव रजताकारेण प्रतिभाति, तद्वदविद्यावशा- दात्मैवार्पणादिजगदाकारेण प्रतिभात्यविदुषां विदुषां तु शुक्तिश्शुक्तिरिव ब्रह्म ब्रह्मैव प्रतिभातीति । नन्वेवं ब्रह्म ब्रह्मैव, न त्वर्पणमिति वक्तव्ये कथमुक्तमर्पणं ब्रह्मैवेति : अत आह— यथा यद्रजतमिति । यद्रजतं तच्छुक्तिकैवेति यथोच्यते तथा यदर्पणं तद्ब्रह्मैवेत्युच्यत इत्यन्वयः । कार्यस्य कारणाभिन्नत्वादिति भावः । यद्भ्रान्त्या रजताकारेण प्रतीतं तन्न रजतं, किंतु वस्तुतश्शुक्तिकैवेति यथा रजतभ्रमापगमानन्तरं पुरुषः प्रत्येति, तथा यन्त्या अर्पणरूपेण प्रतीतं तन्त्रार्पणं, किंतु वस्तुतो ब्रह्मैवेति अर्पण मापगमानन्तरं विद्वान् प्रत्येति - अविद्वांसस्तु शुक्तिकायामुद्भूतं रजतं रजतमिवात्म- न्युद्भूतमर्पणमर्पणमेव पश्यन्तीति । अनेन च शुक्तिरजतदृष्टान्तेन सच्चिदानन्दाद्ब्रह्मणः कथमनृतजडदु: खार्पणाद्याविर्भाव इति शङ्का प्रत्युक्ता - विवर्तवादाश्रयणात् । नहि मृदो घटात्मनेव ब्रह्मणो जगदात्मना परिणामं वयं ब्रूमः, किंतु शुक्तिकाया रजतात्मनेव ब्रह्मणो जगदात्मना विवर्ते ब्रूमः - उपादानसमसत्ताक कार्यापत्तिः परिणामः, तद्विषमसत्ता कार्यापत्तिर्विवर्त इति विवेक: । स्वस्वरूपापरित्यागपूर्वकासत्यरूपान्तरावभासो विवर्त इति वा । तस्माद्रजतस्य शुक्त्यात्मत्व मित्रार्पणस्य ब्रह्मात्मकत्वं युक्तम् । एवं हविरादिष्वपि बोध्यम् । ब्रह्मार्पणं यथातथेति क्रियाविशेषणत्व भ्रमव्युदासायाह - ब्रह्मार्पणमित्यसमस्ते पदे इति । अविदुषो लोकस्य यस्मिन् सृगादिद्रव्ये अर्पणबुद्धिः विदुषस्तस्मिन् ब्रह्मबुद्धिरित्यर्थः । ’ सर्वे खल्विदं ब्रह्मेति श्रुतेः, ‘वासुदेवस्सर्व ‘मिति स्मृतेश्चेति भावः । ब्रह्मैव कर्मेत्यवधारणान्नास्य विदुषः ब्रह्मातिरिक्तं कर्मास्तीति गम्यते । समाधिश्चित्तसमाधानम् । ब्रह्मैव गन्तव्यमिति न तु स्वर्गादितुच्छफलमित्ये- कारार्थः । ननु स्वर्गादिफलं ब्रह्मैवेत्युक्तमिदानीं ब्रह्मैव फलं गन्तव्यमित्युच्यते, कथमविरोध इति चेदुच्यते - यदविद्वद्भिः कर्मिभिर्यज्ञाद्यनुष्ठानात्प्राप्यते फलं स्वर्गादि तद्विद्वान् ब्रह्मेत्येव पश्यति, य एवमर्पणादिकं ब्रह्मेति पश्यति स तु ब्रह्मैव प्राप्नोतीति । कथं कर्मणः परमार्थतोऽकर्मत्वमत आह- ब्रह्मबुद्धीति । यद्भवनादिरूपं कर्म तद्ब्रह्मैवेति या विदुषः कर्मणि ब्रह्मबुद्धिः तथा कर्मण उपमृदितत्वाद्वा घितत्वात् । ब्रह्मज्ञानेन कर्मज्ञानस्य नाशि- तत्वाद्वहणि मायया प्रतीतं कर्म वस्तुतोऽकर्म । ब्रह्मैवेत्यर्थः । ૮૨ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु निवृत्तकर्मणोपि सर्वकर्मसन्न्यासिनस्यभ्यग्दर्शनस्तुत्यर्थं यज्ञत्वसम्पादनं ज्ञानस्य सुतरामुपपद्यते । यदर्पणादि अधियज्ञे प्रसिद्धं तदस्याध्यात्मं ब्रह्मैव परमार्थदर्शिन इति । अन्यथा सर्वस्य ब्रह्मत्वे सति अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानमनर्थकं स्यात् । तस्माद्रह्मैवेदं सर्वमिति जानतः कर्माभावः कारकबुद्ध्यभावश्च । नहि कारकबुद्धिरहितं यज्ञाख्यं कर्म दृष्टं सर्वमेवाग्निहोत्रादिकं कर्मशब्दसमर्पित- देवताविशेषसम्प्रदानादिकारकबुद्धिमत्कले भिमानफलाभिसन्धिमच्च दृष्टं नोपमृदितक्रियाकारक फलभेदबुद्धिकर्तृत्वाभिमानफलाभिसन्धिरहितं वा । इदं तु ब्रह्मबुद्ध्युपमृदितार्पणादिकारक- क्रियाफलभेदबुद्धिकर्म अतोऽकर्मैव । तथाच दर्शितम्- ‘कर्मण्यकर्म यः पश्येत् कर्मण्यभि प्रवृत्तोपि नैव किञ्चित्करोति सः, गुणागुणेषु वर्तन्ते, नैव किञ्चित्करोमीति युक्तो मन्येत तत्ववित्’ इत्यादिभिः । तथाच दर्शयंस्तत्रतत्र क्रियाकारक फलभेदबुद्ध्युपमर्दनं करोति ।. " ननु ब्रह्मैव कर्मेति ब्रह्मणि यज्ञत्वारोपो व्यर्थ अत आह- निवृत्तत्यादि । नात्र साक्षाद्रा- ण्येव कर्मत्वारोप :- असम्भवात्, किंतु ब्रह्मज्ञाने । तत्र च कर्मत्वारोपो युज्यते - कर्मवद्ब्रह्मज्ञानस्या- प्यभ्यसनीयत्वेन कर्तव्यत्वात् । अयं च ब्रह्मज्ञाने कर्मत्वारोप : ब्रह्मज्ञानस्तुत्यर्थ इति । तदेव दर्शयति-यदिति । यज्ञे अधियज्ञे अव्ययीभावः । सप्तम्या बहुलमम्भाव इति बहुल- ग्रहणादधियज्ञमित्यग्भावो नासीत् । आत्मनि अध्यात्मम् । अस्य परमार्थदर्शिन इत्यन्वयः । यथा यज्ञे प्रसिद्धानि प्रायणीयोदयनीयादीनि यज्ञवराहे दंष्ट्रादिरूपत्वेन कल्पितानि तद्वद्यज्ञे प्रसिद्धान्यर्पणा- दीनि आत्मनि ब्रह्मत्वेन कल्पितानीत्यर्थः । अध्यात्मं ब्रह्मैवार्पणादीत्येतदर्थं ब्रह्मार्पणमिति श्लोकः प्रवृत्त इत्येतस्यानभ्युपगमे दोषमाह – अन्यथेति । फलितमाह — तस्मादिति । अर्पणादेर्बह्मत्वादित्यर्थः । ब्रह्मैवेदं सर्वमिति यो जानाति तस्य कर्माभावः, अर्पणादिषु कारकबुद्ध्यभावश्च सर्वत्र ब्रह्मबुद्धिसत्त्वादिति भावः । शब्देति । शब्द इन्द्राय स्वाहेत्यादिः तेन समर्पितः प्रतिपादितः देवताविशेष इन्द्रादिः, स एव सम्प्रदानं सम्प्रदीयते अस्मा इति सम्प्रदान, कर्मणा यमभिप्रैति स सम्प्रदानमिति पाणिनिना सूत्रितम् । हविः कर्मणा इन्द्रस्याभिप्रेतत्वादिन्द्रस्सम्प्रदानमत एव सम्प्रदाने चतुर्थीति इन्द्रायेति चतुर्थी सम्प्रदानमादिर्येषान्तानि सम्प्रदानादीनि कारकाणि । कर्म, करणं, कर्ता, सम्प्रदानं, अपादानं, अधिकरणचेत्येतानि द्वितीया तृतीया चतुर्थीपञ्चमीसप्तमी विभक्त्यर्थाः । तेषां बुद्धयो यस्मिन् तत्तथोक्तम् । कर्मणो विशेषणमिदम् । उपमृदितक्रियाकार कफलभेदबुद्धीति कर्मविशेषणम् । उपमृदिता बाधिताः क्रियेति कारकमिति फलमिति च भेदबुद्धयो यस्मिन् तत् । न दृष्टमित्यन्वयः । 1 इदं ब्रह्मार्पणमितिश्लोकोक्तं कर्म तु ब्रह्मबुद्धया उपमृदिता अर्पणादिक्रिया कारकफलभेदबुद्धयो यस्मिन् तत्तथोक्तम् । अतः क्रियाकारक फलभेदबुद्ध्यभावादित्यर्थः । अकर्मैव कर्माभाव एव ब्रह्मैवेति यावत् । कथं कर्मणोऽकर्मत्वमित्यतः प्रमाणान्याह कर्मण्यकर्मेत्यादीनि । 4 चतुर्थोऽध्यायः । १८३ दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादिहानिः । तथा मतिपूर्वका- मतिपूर्वकादीनां कर्मणां कार्य विशेषस्यारम्भकत्वं दृष्टम् । तथेहापि ब्रह्मबुद्ध्युपमृदितार्पणादि- कारकक्रियाफलभेदबुद्धेर्बाह्यचेष्टामात्रेण कर्मापि विदुषोऽकर्म सम्पद्यते । अतः उक्तं- समग्र प्रविलीयत इति । अत्र केचिदाहुः - द्रह्म तदर्पणादि, ब्रह्मैव किल अर्पणादिना पञ्चविधेन कारकात्मना – वस्थितं सत् तदेव कर्म करोति तत्र नार्पणादिबुद्धिर्निवत्र्त्यते, किंत्वर्पणादिषु ब्रह्मबुद्धिराधी- यते, यथा प्रतिमादौ विष्वादिबुद्धिर्यथा वा नामादौ वृह्मबुद्धिरेवमिति । ·

ननु क्रियाकारक फलभेदबुद्धयुपमर्दनमात्रेण कथं कर्मणोऽकर्मत्वमित्यतो दृष्टान्तमाह दृष्टेति । - यथा काम्यस्याग्निहोत्रादिकर्मणः कामोपमर्दनेनाकाम्यत्वं तद्वदित्यर्थः । दृष्टान्तान्तरमाह - तथेति । मतिपूर्वकाणि कर्माणि यत्कार्यमारभन्ते ततो भिन्नं कार्यमेवामतिपूर्वकाणि कर्माण्यारभन्ते यथा बुद्धि- पूर्व कृता प्राणिहिंसा रौरवादिनरकरूपकार्यमारभते, तथा प्रमादात्कृता नैवारमेत, किंतु स्वल्पमेव रोगादिकं तद्वदिति भावः । दान्तिकमाह — तथेहापीति, बुद्धेरिति । बुद्धित्वादित्यर्थः । हेतुरयं कर्मणोऽकर्मत्वसम्पत्तौ । अत इति । ब्रह्मबुद्धया कर्मणोऽकर्मत्वसम्पत्तेरित्यर्थः । विद्वद्भिराचरितस्य भिक्षाटनादेर्बाह्यचेष्टामात्ररूपस्य कर्मणः यज्ञादिकर्मणो वा ब्रह्मबुद्धया क्रियाकारकादिभेदबुद्ध्युपमर्दने- नाकर्मत्वान्नास्ति कर्यारम्भकत्वमिति भावः ।

अथ पूर्वपक्षयति — केचिदिति । यदर्पणं तद्ब्रह्मेति नार्थः, किं तु यद्ब्रह्म तदर्पणम् । एवं यद्ब्रह्म तद्धविः, यद्ब्रह्म तदग्नि, यहा तत्कर्ता, यद्ब्रह्म तद्धुतं यद्ब्रह्म तत्फलमित्यर्थः । कोडव विशेषोऽत आह— ब्रह्मैवेति पञ्चविधेनेति । अर्पणं करणकारक, हविः कर्मकारकं, अग्निरधि– I करणकारक, यजमानः कर्तृकारकं, उद्देश्यदेवता सम्प्रदानकारकमिति पञ्चविधत्वम् । अपादान कारकस्य नात्रोपयोग इति पञ्चविधेनेत्युक्तम् । कारकात्मनावस्थितं कारकरूपेण परिणतं सदित्यर्थः । नन्वद्वैतिनापीदमेवोक्तमत आह— तत्रेति । तत्र एवंसतीत्यर्थः । अर्पणादिबुद्धिर्न निवर्त्यते ? अर्पणादिष्विति भावः । आधीयत इति । ‘अन्नं ब्रह्मेत्युपासीत मनो ब्रह्मेत्युपासीतेत्यादौ यथ अन्नादिषु ब्रह्मबुद्धिरुपासनार्थमाहिता तद्वदिति भावः । एतेन अद्वैतिमते अर्पणादिषु अर्पणादिबु दूध्युपमर्दनमस्ति, अत्र तु नेति विशेषसिद्धः । ननु प्रतिमादिषु प्रतिमादिबुद्धौ सत्यां कथं विष्ण्वादिबुद्धिर्भवेदिति चेदुच्यते – नेयं विष्ण्वादि– बुद्धिस्ताविकी, किंतु कल्पितैव ततश्च तात्त्विक्याः प्रतिमादिबुद्धयाः कल्पिताया विष्ण्वादि- बुद्ध्याश्च भवितुमर्हत्येकत्र समावेश :- विभिन्नविषयत्वेन बुद्धिद्वयस्य विरोधाभावात् । यदि बुद्धिद्रय- मपि तत्त्वविषयं मिथ्याविषयं वा स्यात्तर्हि भवत्येव विरोधः । ननु प्रतिमादिविषयक विष्ण्वादिबुद्धेः कल्पितत्वमस्तुनाम, अर्पणादिविषयकब्रह्मबुद्धेः कल्पितत्व नास्ति - ब्रह्मजन्यत्वेनार्पणादीनां ब्रह्ममयत्वात्तेषु ब्रह्मबुद्धेरकल्पितत्वात् । प्रतिमादयस्तु नः विष्ण्वादि-१८४ श्रीभगवद्गीतासु भाव्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपैतासु सत्यमेवमपि स्याद्यदि ज्ञानयज्ञस्तुत्यर्थं प्रकरणं न स्यादत्र तु सम्यग्दर्शनं ज्ञानयज्ञ- शब्दितमनेकान् यज्ञशब्दितान् क्रियाविशेषान् उपन्यस्य, ‘श्रेयान् द्रव्यमयाद्यशात् ज्ञानयज्ञ’ इति ज्ञानं स्तौति । अत्र व समर्थमिदं वचनं ब्रह्मार्पणमित्यादिज्ञानस्य यज्ञत्वसम्पादने । ये त्वर्पणादिषु प्रतिमायां विष्ण्वादिदृष्टिवब्रह्मदृष्टिः क्षिप्यते नामादिष्विव चेति ब्रुवते न तेषां ब्रह्मविद्योक्तेह विवक्षिता स्यात्, अर्पणादिविषयत्वात् ज्ञानस्य । नच दृष्टिसम्पादनज्ञानेन देवतामयाः तदजन्यत्वात्- नहि मृज्जन्ये घटे मृद्बुद्धेः कल्पितत्वमिति चेत्तर्हि मृज्जन्ये घटे मृद्बुद्धि- घटबुद्धिद्वयस्य निर्विरोधेन दर्शनाद्ब्रह्मजः येष्वर्पणादिष्वपि ब्रह्मबुद्धयर्पणादिबुद्धिद्वयमस्तु । नन्वेवमर्प - णादिषु बुद्धिद्वयसामानाधिकरण्याभ्युपगमे कथं ब्रह्मविदोपि अर्पणादिषु अर्पणादिबुद्ध्युपमर्दनमिति चेन्नैवम् — ब्रह्मविद्धि ब्रह्मव्यतिरेकेणार्पणाद्यभावं पश्यति, यथा घटतत्त्ववित् मृध्यतिरेकेण घटाभावम् । अतो न ब्रह्मविदृदृष्ट्या अर्पणादिषु बुद्धिद्वयसामानाधिकरण्यं किं त्वापातज्ञानिदृष्टयैवेति । अयं भावः – य आत्मसाक्षात्कारवान् तस्य सर्वमिदं ब्रह्मैव भाति । यस्त्वल्पज्ञः पारोक्ष्येण ब्रह्मवित् तस्य हि सर्व ब्रह्मैव न भाति, किंतु सर्वस्मिन् तेन ब्रह्मदृष्टिराधेया प्रतिमादौ विष्ण्वादि- बुद्धिवत् । तस्मादर्पणादेर्वस्तुतो ब्रह्मत्वेपि अल्पज्ञेन तत्राहितेयं ब्रह्मबुद्धिः कल्पितैव- आहितत्वात् । आहितत्वमारोपितत्वम् । आरोपितस्य कल्पितत्वं सर्वसम्मतम् । इति । 1 पूर्वपक्षमङ्गीकरोति - सत्यमिति । किमिदं ज्ञानयज्ञस्तुत्यर्थे प्रकरणं ? यद्वा अर्पणादि- कास्कविशिष्टयज्ञस्तुत्यर्थम् ? द्वितीये त्वदुक्तं सत्यमेव भवेत् नतु द्वितीयस्येह सङ्गतिः- ‘कर्मण्यकर्म यः पश्ये’ दित्यादिना सम्यग्दर्शनरूपज्ञानस्यैव स्तूयमानत्वात् । आधे तु न त्वदुक्तार्थस्सङ्गच्छते - प्रक- रणविरोधादित्याह – यदीदं ज्ञानयज्ञस्तुत्यर्थ प्रकरणं न स्यात्तर्हि एवं त्वदुक्तरीत्यापि स्यात् । इदं तु ज्ञानयज्ञस्तुत्यर्थ प्रकरणमित्याह — अत्र त्विति । अत्र तु प्रकरणे सम्यग्दर्शनं सम्यग्दृश्यते आत्मादि- पदार्थो येन तत्सम्यग्दर्शनमिति ज्ञानमित्यस्य विशेषणं । स्तौति भगवानिति शेषः । स्तुतिप्रकारं दर्शयति - श्रेयानिति । ननु कथं ज्ञानस्य यज्ञत्वेन स्तुतिसम्भवोऽत आह—अत्र चेति । ब्रह्मा- र्पणमिति श्लोकोक्तस्य ज्ञानस्य यज्ञत्वसम्पादने ‘ज्ञानयज्ञः परन्तपे ‘ति वचनं समर्थम् । ज्ञानयज्ञ इति भगवद्वचनाद्ज्ञानस्य यज्ञत्वसम्पत्तिरित्यर्थः । यद्वा इदं ब्रह्मार्पणमित्यादिवचनं ज्ञानस्य यज्ञत्वसम्पादने समर्थमित्यन्वयः । ननु भवत्विदं ज्ञानयज्ञस्तुत्यर्थे प्रकरणं, किं तत इत्यत आह-येत्विति । तेषां मतः इति शेषः । उक्ता पूर्वोक्ता ब्रह्मविद्या सम्यग्दर्शनं नेह विवक्षिता स्यात् यथोक्तेन वाक्येन विवक्षिता न स्यात्, तत्र हेतुमाह- अर्पणादीति । अर्पणादिषु ब्रह्मदृष्टिः कर्तव्येति अर्पणादिविषय ज्ञानमेवेह विवक्षितं भवेन्न तु ब्रह्मज्ञानमित्यर्थः । ननु भवत्विदमर्पणादिविषयं ज्ञानं, तथापि अर्पणादिषु ब्रह्मदृष्टयाधानेन स्यादेव मोक्षः, प्रतिमादिषु विष्ण्वाद्याधानवदित्यत आह-नचेति । अतस्मिंस्तद्बुद्धे- मिथ्याज्ञानत्वादर्पणादिषु ब्रह्मबुद्धधा, प्रतिमादिषु विष्ण्वादिबुद्धया वा न भवेन्मोक्ष इत्यर्थः । .. २४ चतुर्थोऽध्यायः । १८५ मोक्षफलं प्राप्यते, ब्रह्मैव तेन गन्तव्यमिति चोच्यते, विरुद्धं च सम्यग्दर्शनमन्तरेण मोक्षफलं प्राप्यत इति । प्रकृतविरोधश्च - सम्यग्दर्शनं च प्रकृतं कर्मण्यकर्म यः पश्येदित्यक्ष अन्ते च सभ्य- ग्दर्शनस्यैव उपसंहारा’च्छ्रेयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञ:’- ‘ज्ञानं लब्ध्वा परां शान्ति’ मित्या- दिना सम्यग्दर्शनस्तुतिमेव कुर्वन्नुपक्षीणोऽध्यायः । तत्र अकस्मादर्पणादौ ब्रह्मदृष्टिरत्र प्रकरणे प्रतिमायामिव विष्णुदृष्टिरुच्यत इत्यनुपपन्नम् । तस्माद्यथाव्याख्यातार्थ एवायं श्लोकः ॥ २४ ॥ मोक्षाभावे इष्टापत्तिं वारयति — ब्रह्मैवेति । ननु भगवद्वचनादस्मादेव मिथ्याज्ञान: गौणज्ञानाद्वा दर्शिता - द्भवेदेव मोक्ष इत्यत आह - विरुद्धं चेति । तमेवं विदित्वाऽतिमृत्युमेतीत्यादिशास्त्रविरोधादिति भावः । प्रकरण विरोधोपीत्याह - प्रकृतेति । सम्यग्दर्शनप्रकरणत्वादस्याध्यायस्येत्यर्थः । कथमिदै ज्ञायते, अत आह— कर्मणीति । ‘कर्मण्यकर्म य’ इति सम्यग्दर्शनं प्रक्रम्य ‘ज्ञानं लब्ध्वा चिरां शान्ति’- मित्युपसंहरति । मध्ये च ज्ञानमेव स्तूयते । अत उपक्रमाद्यैकरूप्यादिलिङ्गात्सम्यग्दर्शनप्रकरणमिद- मिति ज्ञायते । उपक्षीण उपसंहृतस्समाप्तो भवतीत्यर्थः । तत्र एवंसति अकस्माद्धेतुं विना अत्र प्रकरणे ज्ञानयज्ञप्रकरणे ‘प्रतिमायां विष्णुदृष्टिरिव अर्पणादिषु ब्रह्मदृष्टिरुच्यत’ इति परव्याख्यान- मनुपपन्नम् । उपसंहरति– तस्मादिति । परोक्तार्थस्यानुपपन्नत्वादित्यर्थः । यथाव्याख्यातार्थ : - यथे- त्यनुरूपार्थेऽव्ययं - व्याख्यातोऽर्थो यस्य स व्याख्यातार्थः- अनुरूपं श्लोकस्यार्थो मया व्याख्यात इत्यर्थः । व्याख्यानमनतिक्रम्य यथाव्याख्यातमर्थो यस्य स यथाव्याख्यातार्थ इति वा । यत्तु रामानुजः - ब्रह्मार्पणं ब्रह्म अर्पणं स्रुगादि यस्य तत् ब्रह्म, ब्रह्मभूतं हविः ब्रह्माग्नौ येन ब्रह्मणा कर्ता हुतं निक्षिप्तं सर्वं कर्म ब्रह्मात्मकतया ब्रह्ममयमिति यस्समाधत्ते स ब्रह्मकर्मसमाधिः तेन ब्रह्मैव गन्तव्यं ब्रह्मात्मकतया ब्रह्मभूतमात्मस्वरूपं गन्तव्यं, मुमुक्षुणा क्रियमाणं कर्म परब्रह्मात्मक- मेवेत्यनुसन्धानयुक्ततया ज्ञानाकारं साक्षादात्मावलोकनसाधनं, न ज्ञाननिष्ठाव्यवधानेनेत्यर्थ इति, यच्च वेदान्तदेशिकः – कर्मयोगसाक्षात्कार्यमात्मखरूपमत्र सुग्घविरग्न्यादिव ब्रह्मशब्देनोच्यत इत्याह- ब्रह्मात्मकतयेति, तत्सर्वं तुच्छात्तुच्छतरम् - तथाहि यस्सर्वे कर्म ब्रह्ममयं जानाति स आत्मानं साक्षात्कुरुत इति वचनमयुक्तम् - आत्मसाक्षात्कारस्य सर्वकर्मविषयक ब्रह्मज्ञानस्य च कार्यकारणभावा- भावात् सर्वं कर्म ब्रह्मात्मकमिति ज्ञानादस्तुनाम कथञ्चिद्रह्मसाक्षात्कारः, न पुनरात्मसाक्षात्कारो भवितुमर्हति – ब्रह्मभिन्नत्वादात्मनस्तव मते । किं च इन्द्रियव्यापारोपरमरूपज्ञाननिष्ठां विना कथ- मन्तस्स्थितात्मवस्तुसाक्षात्कारः ? आत्मन आन्तरस्य साक्षात्कारे मनएव हि करणं, तस्यान्तर्मुखत्वं हि ज्ञाननिष्ठा, यः कर्मी स बहिर्मुखमनाएव कारकादीनां बहिस्स्थत्वान्न त्वात्मा बाह्यः येन कर्मव्यग्रमनसा बहिर्मुखेनात्मसाक्षात्कारो भवेत् । नच कर्म ब्रह्मेतिज्ञानमात्मसाक्षात्कारहेतुरेवेति वाच्यं घटो ब्रझेति- ज्ञानादप्यात्मसाक्षात्कारापत्तेः । नचेष्ठ | पति :- तथानुभवाभावात् ।

१८६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माभावपरे यज्ञं यज्ञेनैवोपजुहति ॥२५॥ तत्राधुना सम्यग्दर्शनस्य यज्ञत्वं सम्पाद्य तत्स्तुत्यर्थं अन्येपि यज्ञा उपक्षिष्यन्ते– दैवमेवापर इत्यादिना – दैवमेवेति । दैवमेव देवा इज्यन्ते येन यज्ञेनासौ देवो यज्ञः, तमेव अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थः । ब्रह्माग्नौ ‘सत्यं ज्ञानमनन्तं ब्रह्म, विज्ञानमानन्दं ब्रह्म, यत्साक्षादपरोक्षाब्रह्म, य आत्मा सर्वान्तरः’ इत्यादिवचनोक्तमशनाया पिपासादिसर्वसंसारधर्मवर्जित, नेतिनेतीति निरस्ताशेषविशेष, ब्रह्म ब्रह्मशब्देनोच्यते । ब्रह्म च तदग्निश्च स होमाधिकरणत्वविवक्षया अपि च सर्वस्यापि ब्रह्मकार्यत्वेन ब्रह्मभूतत्वादर्पणादिकं ब्रह्मभूतमेवेति कृत्वा अर्पणादीनां ब्रह्मभूतत्वविशेषणमप्यनर्थकम् । न ह्यविद्वानपि अब्रह्मभूतमर्पणादिकं सम्पादयितुं शक्नोति, येना- ब्रह्माग्नावब्रह्मार्पणमब्रह्महविर्होतुं शक्येतेति तद्वारणाय ब्रह्मार्पणमित्याद्युच्येत । अथ यदुक्तं हविरादिवद्ब्रह्मात्मकत्वमात्मन इति वेदान्तदेशिकेन, तद्धि वेदान्तदेशिकपदं विरुद्धलक्षणयास्मिन् प्रवृत्तमिति स्पष्टं बोधयति । तथाहि - आत्मनो हविरग्न्यादिवद्ब्रह्मात्मकत्वं किं ब्रह्मकार्यत्वादुत ब्रह्मज्ञेयत्वात् नाद्य :- ‘अजो नित्यश्शाश्वत’ इत्यादिविरोधात् । प्रकृतिपुरुषकाला- दीनां त्वन्मतेप्यनादित्वात् नित्यत्वाच्च । न द्वितीयः- ब्रह्मण इवात्मनोपि द्रष्टृत्वेन ब्रह्मज्ञेयत्वा- भावात्- अन्यथा जडत्वापत्तेः, चेतनश्चेतनानामितिश्रुतौ जीवाश्चेतना इति त्वयाप्यभ्युपेतत्वात् । यद्यात्मनो ब्रह्मज्ञेयत्वाद्ब्रझात्मकत्वं स्यात्तर्हि ब्रह्मणोध्यात्मज्ञेयत्वादात्मात्मकत्वं स्यात्- दृश्यते त्वम्यया बुद्धयेत्यादिश्रुत्या प्रतिपाद्यते हि ब्रह्मणोप्यात्मज्ञेयत्वम् । नचेदं ज्ञेयत्वं ब्रह्मणस्सत्यमिति वाच्यं तथासति जडत्वपरिच्छिन्नत्वानित्यत्वादिप्राप्तेः, ‘नान्योऽतोस्ति द्रष्टे’ त्यादिश्रुतिविरोधाच्च, ‘साक्षी चेता’ इत्यादिश्रुतिविरोधाच्च । अतः कल्पितमेव । एवमात्मन्यपि ब्रह्मण एवात्मत्वात् । तस्मादात्मनि ब्रह्मात्मकत्वं ब्रह्माभिन्नत्वमेव न त्वन्यत् ॥ २४ ॥ दैवमिति । देवानामयं दैवः तस्येदमित्यण् । देवयजनसाधन इत्यर्थः । यज्ञोऽपूर्वः तत्साधकं कर्म वा यज्ञस्योपासनासम्भवादुपासनमिह करणमेवेत्याह- कुर्वन्तीति । कर्मयज्ञोऽयं सर्वत्र प्रसिद्ध एवेति भावः । साक्षादपरोक्षादिति श्रुतावपरोक्षादिति पञ्चमी प्रथमार्थे छान्दसी - अपरोक्षमित्यर्थः । साक्षा- त्करणव्यापारं विनैवेत्यर्थः । आत्मत्वादिति भावः । सर्वान्तरः सर्वेषामन्नमयाद्यानन्दमयान्तानां पञ्चानां कोशानामान्तरः अन्तः स्थितः जगदन्तस्स्थित इति वा । अशनाया क्षुत् । आदिपदा- त्सुखदुःखादिग्रहणम् । नेतिनेतीतिश्रुत्या निरस्ता अशेषा विशेषा भेदा यस्मिन् तत् अस्थूलमन- वहखमित्येवं स्थूलत्वाणुत्वहखत्वादयस्सर्वे विशेषा आत्मनि निराकृता इत्यर्थः । ब्रह्मणि अग्नि- स्वारोपणं किं विवक्षयेत्यत आह- होमाधिकरणविवक्षयेति । हविरादिहोमस्य अग्नेरधिकरणत्वा-: चतुर्थोऽध्यायः १८७ ब्रह्माग्निस्तस्मिन् ब्रह्माग्नौ अपरे अन्ये ब्रह्मविदो यज्ञं यज्ञशब्दवाच्य आत्मा - आत्मनामसु यज्ञशब्दस्य पाठात्तमात्मानं यज्ञं परमार्थतः परमेव ब्रह्म सन्तं बुद्ध्याद्युपाधिसंयुक्तमध्यस्त- सर्वोपाधिधर्मकमाहुतिरूपं यज्ञेनैवात्मनैवोक्तलक्षणेनोपजुहति प्रक्षिपन्ति सोपाधिकस्यात्मनो निरुपाधिकेन परब्रह्मस्वरूपेणैव यदर्शनं स तस्मिन् होमस्तं कुर्वन्ति । ब्रह्मात्मैकत्वदर्शननिष्ठा- स्सन्न्यासिन इत्यर्थः । सोयं सम्यग्दर्शनलक्षणो यज्ञो देवयज्ञादिषु यज्ञेषूपक्षिप्यते - ब्रह्मा- र्पणमित्यादिना प्रस्तुतः ‘श्रयान् द्रव्यमयाद्यज्ञात् ज्ञानयज्ञ’ इत्यादिना स्तुत्यर्थम् ||२५|| श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्ये इन्द्रियाग्निषु जुह्वति ॥ २६ ॥ श्रोत्रादीनीति । श्रोत्रादीनीन्द्रियाणि अन्ये योगिनः संयमाग्निषु प्रतीन्द्रिय संयमो भिद्यत इति बहुवचनम् - संयमा एवाग्नयः तेषु जुह्वति । इन्द्रियसंयममेव कुर्वन्तीत्यर्थः । दिति भावः । अत एवाग्मावित्यधिकरणे सप्तमी । कोसावात्मेत्यत आह- परमार्थात इत्यादि । यथा परमार्थतो महाकाश एव घटाद्युपाधिवशाद्धटाकाशादिभेदेन व्यवह्रियते, तथा परमार्थतो ब्रह्मैव बुद्धयाद्युपाधिवशादात्मेति व्यवह्रियते, अस्मिंश्च बुद्ध्याद्यवच्छिन्ने आत्मनि बुद्ध्याद्युपाधिधर्मा अज्ञाने- नाध्यस्ताः । अत एवाहं सुखी दुःखी काणो बधिरः स्थूलः कृश इत्यादिव्यवहारः । बुद्धयादीत्यादि- पदान्मनः प्राणेन्द्रिय देहग्रहणम् । नचासङ्गोधयं पुरुष इति श्रुत्युक्तस्याङ्गस्यात्मनः कथं बुद्ध्याद्युपाधिसम्बन्ध इति वाच्यं, मायया सर्वसम्भवात् उक्तं हि व्यासेन भागवते - ‘सेयं भगवतो माया यन्नयेन विरुद्धधत’ इति । यद्विचारेण विरुध्यते सैव मायेत्यर्थः । अविचारितरमणीयत्वान्मायाकार्यस्य नास्ति विचारक्षमत्वमिति भावः । बस्तुतो नास्त्युपाधिस आत्मनः, किंतु मायया शुक्तिकारजतादिवत्प्रतीयत इति तत्त्वम् । आहुतिर्हविः । उक्तलक्षणेनेति । बुद्ध्याद्युपाधिसंयुक्तत्वादिलक्षणशालिनेत्यर्थः । नन्वात्मन एव ब्रह्मत्वात्कथं स्वस्मिन् स्वस्य प्रक्षेपः, आधाराधेयभावस्य द्विनिष्ठत्वादत आह— सोपाधिकस्येति । सोपाधिके आत्मनि या निरुपाधिकब्रह्मबुद्धिः सैवात्मनो ब्रह्मणि प्रक्षेप इत्यर्थः । फलितमाह- ब्रह्मात्मेति । अहं ब्रह्मास्मीति ज्ञाननिष्ठेत्यर्थः । केऽमी अत आह— सन्न्यासिन इति । पूर्वा - र्थेन कर्मिणामुक्तत्वादिति भावः । ननु ब्रह्मार्पणमिति श्लोकोक्तस्य ज्ञानयज्ञस्य कस्मात्पुनरिह वचनमत आह - सोयमिति । ब्रह्मार्पणमितिश्लोकेन सम्यग्दर्शनं प्रस्तुतमिदानीं तु तस्य यज्ञत्वं स्फुटमुक्तमिति न पौनरुक्त्यमिति भावः । किमर्थोऽयं ज्ञानयज्ञ इहोपक्षिप्तोऽत आह– श्रेयानित्यादिना स्तुत्यर्थमिति । 1 यत्तु रामानुजः — दैवं देवतार्चनरूपं यज्ञमिति, यज्ञ हविः यज्ञेन स्रुगादिनेति च व्याचख्यौ, तत्तुच्छम् — अप्रसिद्धार्थकल्पनस्यान्याय्यत्वात्, ब्रह्मानावित्यग्नेर्ब्रह्मविशेषणस्य व्यर्थत्वाच्च ॥ २५॥ श्रोत्रादीनीति । संयमो नियमनम् । ननु संयमस्यैकत्वात्कुतस्संयमाग्निव्विति बहुत्वमत आह- प्रतीन्द्रियमिति । चक्षुस्संयमो वाक्संयमश्श्रोत्रसंयम इत्येवमिन्द्रियभेदात्संयमभेद इति “ટટ 1 श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु शब्दादीन् विषयानन्ये इन्द्रियाग्निषु इन्द्रियाण्येव अग्नयः तेष्विन्द्रियाग्निषु जुह्वति । श्रोत्रादिभिरविरुद्ध विषयग्रहण होमं मन्यन्ते ॥ २६ ॥ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ||२७| 1 किंच सर्वाणीति । सर्वाणीन्द्रियकर्माणि इन्द्रियाणां कर्माणि इन्द्रियकर्माणि तथा प्राणकर्माणि च प्राणो वायुराध्यात्मिकः तत्कर्माण्याकुञ्चनप्रसारणादीनि तानि च अपरे आत्मसंयमयोगाग्नौ आत्मनि संयम आत्मसंयमस्स एव योगोऽग्निश्च तस्मिन्नात्मसंयम- योगाग्नौ जुह्वति प्रक्षिपन्ति । ज्ञानदीपिते स्नेहेनेव प्रदीपे विवेकविज्ञानेनोज्ज्वलभाव- मापादिते जुहति प्रविलापयन्तीत्यर्थः ||२७|| द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथा परे । स्वाध्यायज्ञानयज्ञाश्च यतयस्संशितव्रताः ॥२८ किंच, द्रव्ययज्ञा इति । द्रव्ययज्ञा:- तीर्थेषु द्रव्यविनियोग यशबुद्ध्या कुर्वन्ति ये ते द्रव्ययज्ञाः, तपोयज्ञा:- ये तपस्विनः ते तपोयज्ञाः, योगयज्ञाः प्राणायामप्रत्याहारादि- लक्षणो योगो यज्ञो येषां ते योगयज्ञाः, तथा परे स्वाध्याययज्ञाश्च स्वाध्यायो यथाविधि भावः । शब्दादीनिति । ननु इन्द्रियसंयम रूपयज्ञेनैव शब्दादिविषयग्रहणरूपो यज्ञोप्युक्त एवेत्यत आह– श्रोत्रादिभिरिति । विरुद्धाविरुद्धसाधारण्येन सर्वविषयाग्रहणं पूर्वस्मिन्यज्ञे, इह तु विरुद्ध- विषयाग्रहणमेवेति भेद इत्यर्थः ||२६|| सर्वाणीति । अपरे सर्वाणि इन्द्रियकर्माणि प्राणकर्माणि च ज्ञानदीपिते आत्मसंयमयोगाग्नौ जुह्वति । इन्द्रियाणां कर्माणि व्यापाराः शब्दस्पर्शादिग्रहणानि, गमनभाषणादीनि च आत्मन्यध्यात्मं तत्र भव आध्यात्मिक:- आत्मनि संयमो नियमनं मनस इति भावः । आत्मसंयमः, स एव योग आत्मसंयमयोगः स एवाग्निरात्मसंयमयोगाग्निः तस्मिन् औपनिषदाभिमतनिर्बीजसमाधावित्यर्थः । वक्ष्यत्यमुं षष्ठाध्याये | ज्ञानेन विवेकविज्ञानेन दीपिते उज्ज्वलभावमापादिते इत्यन्वयः । तत्र दृष्टान्तमाह- स्नेहेनेव प्रदीपे इति । यथा प्रदीपस्तैलेन दीपितो भवति तद्वदित्यर्थः । जुह्वतीति हविः प्रक्षेप- वाचिनो धातोरिह कथं प्रयोगोपपत्तिरत आह— प्रविलापयन्तीति । लीनानि कुर्वन्तीत्यर्थः । अग्नौ हविषः प्रक्षेपणनाम हविर्विलापनमेव हीति भावः ॥२७॥ 1 द्रव्येति । द्रव्यं यज्ञो येषां ते द्रव्ययज्ञा:- साक्षाद्रव्यस्य यज्ञत्वरूपक्रियात्वाभावादाह- द्रव्यविनियोगमिति । अतीर्थे द्रव्यविनियोगस्य व्यर्थत्वेन यज्ञतुल्यत्वाभावादाह - तीर्थेष्विति । गङ्गादिपुण्यक्षेत्रेष्वित्यर्थः । पात्रेष्विति वा । तपः कृछ्रचान्द्रायणादिलक्षणं यज्ञो येषां ते तपोयज्ञाः । योगयज्ञा इति । योगः पातञ्जलाभिमत ईश्वरप्रणिधानात्मकः । आत्मदर्शन यज्ञव्यावृत्यर्थमाह चतुर्थोऽध्यायः । १८९ ऋगाद्यभ्यासो यज्ञो येषां ते स्वाध्याययज्ञाः, ज्ञानयज्ञा:- ज्ञानं शास्त्रार्थपरिज्ञानं यज्ञो येषां ते ज्ञानयज्ञाश्च । यतयो यतनशीलाः । संशितव्रताः सम्यक् शितानि तनूकृतानि तीक्ष्णीकृतानि व्रतानि येषां ते संशितव्रताः ॥ २८ ॥ अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे । प्राणापानगती रुध्वा प्राणायामपरायणाः ॥ २९॥ किंच, अपान इति । अपाने अपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्ति पूरकाख्यं – प्राणायामं कुर्वन्तीत्यर्थः । प्राणे अपानं तथा अपरे जुह्वति रेचकाख्यं प्राणायामं कुर्वन्ती- त्येतत् । प्राणापानगती रुध्वा मुखनासिकाभ्यां वायोर्निर्गमनं प्राणस्य गतिः तद्विपर्ययेणाधो- गमनं अपानस्य गतिः ते प्राणापानगती रुध्वा निरुध्य प्राणायामपरायणाः प्राणायामतत्पराः कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः ॥ २९ ॥ अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वे येते यज्ञविदो यज्ञक्षपितकल्मषाः ||३०| किंच, अपर इति । अपरे नियताहाराः नियतः परिमितः आहारो येषां ते नियता- हास्सिन्तः प्राणान् वायुभेदान् प्राणेष्वेव जुह्वति । यस्य यस्य वायोर्जयः क्रियते इतरान् वायुभेदान् तस्मिन् तस्मिन् जुह्वति, ते तत्र तत्र प्रविष्टा इव भवन्ति । सर्वेप्येते यज्ञविदो यज्ञक्षपितकल्मषाः यज्ञैर्यथोक्तः क्षपितः नाशितः कल्मषो येषां ते यज्ञक्षपितकल्मषाः ॥३०॥ शास्त्रार्थपरिज्ञानमिति । शास्त्रं वेदवेदाङ्गादिरूपम् । संशितव्रताः अपरे यतय:- द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्स्वाध्यायज्ञानयज्ञाश्च भवन्तीत्यन्वयः । नात्र द्रव्ययज्ञादीनामेकस्मिन् पुरुषे समुच्चयः, किंतु केचिद्रव्ययज्ञाः केचित्तपोयज्ञाः केचि - द्योगयज्ञाः, केचित्स्वाध्याययज्ञाः केचिद्ज्ञानयज्ञाश्च भवन्तीति अपरे इति पदस्य आवृत्त्या लभ्यते - यमर्थः ॥२८॥ अपान इति । केचिदपाने प्राणं जुह्वति, तथा अपरे प्राणे अपानं जुह्वति । अन्ये इति शेषः । प्राणापानगती रुध्वा प्राणायामपरायणा भवन्ति । नचास्य श्लोकस्य योगयज्ञेन गतार्थता शङ्कया- प्राणायामप्रत्याहाराद्यष्ट युक्तो योगस्तत्रोक्तः । अत्र तु पूरकस्य रेचकस्य कुम्भकस्य च प्रत्येकं यज्ञत्वमिति भेदात् ॥२९॥ अपरे इति । कथं प्राणानां प्राणेष्वेव होम इत्यत आह- यस्य यस्येति । पञ्चानां वायूनां मध्ये यो यो वायुर्जितः स्वाधीनो भवति, तस्मिंस्तस्मिन्नितरेषां वायूनां प्रवेशनमेव होम इत्युच्यत इत्यर्थः । एते दैवमेवेत्यारभ्योक्ता इत्यर्थः ॥ ३० ॥ १९० श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु भाय्यार्कप्रकाशविलसित यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ॥ ३१ ॥ एवं यथोक्तान् यज्ञान् निर्वर्त्य, यज्ञेति । यज्ञशिष्टामृतभुजो यज्ञानां शिष्टं यज्ञशिष्टं यज्ञशिष्टं च तदमृतं च यज्ञशिष्टामृतं तत् भुंजत इति यज्ञशिष्टामृतभुजः- यथोक्तान् यज्ञान् कृत्वा तच्छिष्टेन कालेन यथाविधिचोदितं अन्नममृताख्यं भुंजते ये ते यज्ञशिष्टामृतभुजः यान्ति गच्छन्ति, ब्रह्म सनातनं चिरन्तनं मुमुक्षवचेत् कालव्यतिक्रमापेक्षयेति सामर्थ्या- गम्यते । नायं लोकस्सर्वप्राणिसाधारणोप्यस्ति यथोक्तानां यज्ञानां एकोपि यज्ञो यस्य नास्ति स अयज्ञः तस्यायज्ञस्य कुतोन्यो विशिष्टसाधनसाध्यः । हेकुरुसत्तम ॥ ३१ ॥ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान् सर्वानेव ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥ एवमिति । एवं यथोक्ताः बहुविधा: बहुप्रकारा: यज्ञाः वितताः विस्तीर्णाः ब्रह्मणः वेदस्य मुखे द्वारे | वेदद्वारेणावगम्यमाना ब्रह्मणो मुखे वितता उच्यन्ते, तद्यथा ‘वाचि हि प्राणं जुहुम’ इत्यादयः । कर्मजान् कायिकवाचिकमानसकर्मोद्भवान् विद्धि- तान् सर्वान् अना- रमजान - निर्व्यापारो ह्यात्मा, अत एवं ज्ञात्वा विमोक्ष्यसेऽशुभात् न मयापारा एते निर्व्या- पारो समुदासीन इत्येवं ज्ञात्वा अस्मात्सम्यग्दर्शनात् विमोक्ष्यसेऽशुभात्संसारबन्धना- दित्यर्थः ॥ ३२ ॥ यज्ञेति । ननु देवयज्ञस्यान्नमयत्वादाज्यमयत्वान्मांसमयत्वाद्वा तत्र हुतावशिष्टममृतशब्दवाच्य- मन्नाज्यमांसान्यतमं लभ्यते भोक्तुं तत्कर्तुः कथं पुनर्योगयज्ञादिषु भोक्तव्यलाभ इत्यत आह- तच्छिष्टेन कालेनेति । यज्ञशिष्टममृतं भुञ्जत इत्येकार्थः । यज्ञशिष्टकालेन अमृतं भुञ्जत इत्यन्योर्थः । अतो नानुपपत्तिरित्यर्थः । यथोक्तयज्ञकारिणामपि सकामत्वे न ब्रह्मप्राप्तिरित्याह – मुमुक्षवचेदिति । ननु किं सहसा यान्ति, उत चिरकालेनेत्यत आह — कालेति । ज्ञानयज्ञनिष्ठानामचिरेणैव ब्रह्मप्राप्ति- रन्येषां तु चितशुद्धिज्ञानप्राप्तिद्वारा चिरकालादेवेति भावः ।

ननु कथमिदं ज्ञायतेऽत आह— सामर्थ्यादिति । ‘ब्रह्मविद्ब्रह्मैव भवति, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशके ‘नेति च श्रुतिसामर्थ्यादित्यर्थः । यद्वा ‘तेऽर्चिष- मभिसम्भवन्ती’ त्या दिगतिश्रुतिसामर्थ्यादित्यर्थः । अयं लोको मनुष्यलोको मनुष्यलोकाभावोनाम मनुष्य- लोकभोग्यपशु कलत्रान्नाद्यभाव:- अन्यः स्वर्गादि:- विशिष्टसाधनानि तत्तन्नियतयज्ञादिसाधनानि - कुरुश्रेष्ठ- स्यार्जुनस्य दर्शितयज्ञसम्पादनं सुलभमेवेति सूचयितुमाह- कुरुसत्तमेति ॥ ३१ ॥ एवमिति । वेदे क्वोक्ता इमे यज्ञा इत्यत आह- वाचि हि प्राणं जुहुम इत्यादय इति । आदिशब्देन ‘प्राणे वा वाचं यो ह्येव प्रभवः स एवाध्यय’ इति वाक्यस्य ग्रहणम् । ननु वेदोक्तानां यज्ञानां कर्मजत्वज्ञानात्कथं मोक्ष आत्मन इत्यत आह- अनात्मजानित्यादि । सर्वेषां यज्ञानां चतुर्थोऽध्यायः श्रेयान् द्रव्यमयाद्यज्ञाद्ज्ञानयज्ञः परन्तप ! सर्व कर्माखिलं पार्थ! ज्ञाने परिसमाप्यते ॥ ३३ ॥ १९४ ब्रह्मार्पणमित्यादिश्लोकेन सम्यग्दर्शनस्य यज्ञत्वं सम्पादितं यज्ञाश्चानेके उपदिष्टाः तैस्सिद्धपुरुषार्थप्रयोजनैः ज्ञानं स्तूयते, कथम् ? श्रेयानिति । श्रेयान् द्रव्यमयात् द्रव्य- साधनसाध्यात् यज्ञात् ज्ञानयज्ञः परन्तप । द्रव्यमयो हि यज्ञः फलस्यारम्भकः, ज्ञानयज्ञो नः फलस्यारम्भकः । अतः श्रेयान् प्रशस्यतरः । कथं ? यतस्सर्वं कर्म समस्तमखिलं पार्थ ज्ञाने परिसमाप्यते - मोक्षसाधने अन्तर्भवतीत्यर्थः । यथा- ‘कृताय विजितायाधरेऽयास्संयन्त्येव- वाङ्मनःकायसाध्यानामनात्मजत्वे ज्ञातेसति निर्व्यापारात्मतत्त्वाज्ञानं जायते, तस्माच्च तत्त्वज्ञानान्मुच्यत इति विमोक्ष्य इत्युक्ते कस्मादित्याकांक्षा जाता, तत्पूरणायाह - अशुभादिति ॥३२॥ श्रेयानिति । सिद्धा लोकतस्सिद्धाः पुरुषार्था धर्मार्थकामाः प्रयोजनानि येषां तैः यद्वा सिद्धा लोकशास्त्राभ्यां सिद्धाः पुरुषार्थाश्चत्वारः प्रयोजनानि येषां तैः, अथवा सिद्धः नतु साध्यः पुरुषार्थो मोक्षः प्रयोजनं येषां तैः । परम्परयेति भाव इति । यद्वा सिद्धं पुरुषार्थभूतं पुरुषापेक्षितलक्षणं प्रयोजन येषां तैस्तथोक्तैरिति । यज्ञास्साध्यपुरुषार्थप्रयोजनाः, अथवा परम्परया सिद्धपुरुषार्थ प्रयोजनाः । ज्ञानं तु साक्षात्सिद्धपुरुषार्थप्रयोजनं तस्माद्ज्ञानस्य स्तुतिरुच्यत इति भावः । यज्ञैर्ज्ञानस्य स्तुतिर्नाम अस्मदपे- क्षया ज्ञानमुत्कृष्टमिति यज्ञाः प्रतिपादयन्तीत्यर्थः । यज्ञविदो ज्ञानं सर्वयज्ञोत्कृष्टमिति वदन्तीति यावत् । अचेतनानां यज्ञानां स्तावकत्वासम्भवात् । द्रव्यमयादित्यत्र द्रव्यशब्दो यज्ञसाधनहविरादिद्रव्यपर इत्याह- द्रव्यसाधनसाध्यादिति । द्रव्यात्मक साधनसाध्या दित्यर्थः । कर्मयज्ञादिति यावत् । अनेन च प्राणायामादिसाधनसाध्यास्सर्वेपि- यज्ञास्संगृहीताः । वाचिकमानसिक कायिकान्यतम कर्ममयत्वात्तेषां तत्र दैवयज्ञद्रव्ययज्ञतपोयज्ञाः कायिक- कर्मयज्ञाः, स्वाध्याययज्ञो वाचिककर्मयज्ञः, आत्मसंयमयोगशास्त्रार्थज्ञानयज्ञा मानसिककर्मयज्ञाः, प्राणा- यामादयोऽपि कायिककर्मयज्ञा एवेति विवेकः । एभ्यस्सर्वेभ्योऽपि यज्ञेभ्यो ज्ञानयज्ञ उत्कृष्टः । यदि त्वेकवचननिर्देशा दूव्ययज्ञादित्यस्य दैव यज्ञादित्यर्थ उच्येत, तर्हि देवयज्ञादेव ज्ञानयज्ञ उत्कृष्टो, नतु तपोयज्ञादिभ्य इत्यापतेतचानिष्टं- ज्ञानस्य सर्वोत्कृष्टत्वात् । " • कुतः पुनरस्योत्कर्ष इत्यत आह- द्रव्यमयो हीति । फलस्य खर्गादिरूपस्य । नच ज्ञान- मणि मोक्षफलारम्भकमिति वाच्यं, मोक्षस्य नित्यसिद्धत्वेनानारभ्यमाणत्वात् ब्रह्मखरूपत्वेन नित्यास- स्वाच्च । तत्र फलत्वं तु कल्पितमेव । नच ज्ञानस्य वैयर्थ्य- अविद्याकृतो यो मया मोक्षो नावात इस्याकारको भ्रमः तन्निवृत्त्यर्थं ज्ञानस्यावश्यकत्वात् । सर्वस्य कर्मणो ज्ञाने परिसमाप्तिर्नाम : मोक्षसाधन- ज्ञाने कर्मान्तर्भाव इत्याह- अन्तर्भवतीत्यर्थ इति । ज्ञाने कथं कर्मणोऽन्तर्भाव इत्यत्र श्रुतिं प्रमाणयति यथेति । कृतायविजिताय अपरे या १९२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मेन सर्वे तदभिसमेति यत्किञ्च प्रजास्साम कुर्वन्ति यस्तद्वेद यत्स वेदे’ तिश्रुतेः ॥ ३३ ॥ तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः || ३४ ॥ तदेतद्विशिष्टं ज्ञानं तर्हि केन प्राप्यत इति, उच्यते– तदिति । तद्विद्धि विजानीहि, इति छेदः । अयो द्यूतम् । कृतसंज्ञोऽयः कृतायः स विजितो येन तस्मै कृतायविजिताय आहिता- ग्न्यादित्वात्परनिपातः । विजितकृतायायेत्यर्थः । अधरे अपकृष्टा अयाः व्यङ्कादयः संयन्ति उपनयन्ति तेन जिता भवन्तीत्यर्थः । कृतत्रेताद्वापरकलिसञ्ज्ञकानि चत्वारि द्यूतानि तत्र कृतं चतुरंकं त्रेता या द्वापरो यङ्कः कलिरेकाङ्कः कृतादियुगेषु धर्मवृषभस्य चतुष्पादत्वाद्यभिधानादियं कल्पना । तत्र चतुरंके कृताख्ये द्यूते त्र्यङ्कादित्रेतादिद्यूतानामन्तर्भावः । चतुर्षु त्र्यादिसत्त्वादिति । यथैवं तथा यत्किञ्च यत्किञ्चित्साम साधु कर्म प्रजाः कुर्वन्ति तत्सर्वमेनमभिसमेति प्रप्नोति- अनेन जितं भवतीत्यर्थः । क एष इत्यत आह- यस्तद्वेदेति । यः तद्वेद्यं वेद तमेनमभिसमेतीत्यर्थः । किं तदत आह- यत्सदेवेति । यत्स रैक्वो वेद तद्वेद्यं ब्रह्मेत्यर्थः । यथा कृतजयादितरद्यूतजयः एवं ज्ञानलाभात्सर्व- कर्मसिद्धिः । कृते त्रेतादीनामिव ज्ञाने कर्मणामन्तर्भावादिति श्रुत्यर्थ: । । ननु चतुर्षु त्र्यादीनां सत्त्वादन्तर्भाव उचितः कथं पुनर्ज्ञाने कर्मणां सत्त्वं येन तत्र तेषा - मन्तर्भाव उच्येतेतिचेदुच्यते — सर्वेषां कर्मणामात्मनि कल्पितत्वादात्मनि ज्ञातेसति सर्वाणि कर्माणि कृतप्रायायेत्रेत्यभिप्रायाद्ज्ञाने कर्मणामन्तर्भाव उक्तः । यद्वा एकस्यैवात्मनस्सर्वबुद्धिवृत्तिसाक्षित्वात् विज्ञानात्मबुद्धिशब्दवाच्यजीवसमूहकृतानि सर्वाणि कर्माणि आत्मसाक्षिकाण्येवेति कृत्वा आत्मज्ञानेन सर्वकर्माणि ज्ञातान्येवेत्यभिप्रायात् । अथ वा एकस्यैव ममात्मनः सन्निधानाद्वाम्मनः कायाः कर्म कुर्वन्तीति यो जानाति सहि सर्वेषां कर्मणामात्माधीनत्वं पश्यतीत्यभिप्रायात् इति । एतावता आत्मज्ञानमेव दुर्लभं कर्माणि तु सुलभान्येव- आत्मज्ञाने लब्धे तु सर्वाणि कर्माणि फलैस्सह लब्धान्येव- आत्मनोऽवाप्तसमस्त कामत्वादिति आत्मज्ञानस्य प्राशस्त्यं सिद्धम् । मूले सर्व - मखिलमिति पदद्वयस्य पौनरुक्त्यं न शक्यम्– प्रधानावान्तर सर्व भेदसंग्रहार्थं पदद्वयप्रयोगात् । अत्र रामानुजः – उभयाकारे कर्मणि कर्माशाद्ज्ञानांशश्श्रेयानिति व्याचख्यौ तदयुक्तम्- कर्मण उभयाकारत्वस्यैवासिद्धेः । कर्म सर्वथा कर्माकारमेव, ज्ञानं ज्ञानाकारमेव । नहि कर्मज्ञानयो- रितरेतराकारत्वं सम्पादयितुं शक्यते, किंच ज्ञानकर्मोभयांशयुक्तस्य कथं कर्मत्वमपि तु उभयत्वमेव स्यात् ॥३३॥ तदिति । विशिष्टमिति सर्वकर्म परिसमाप्तिस्थानत्वादिविशेषणयुक्तमित्यर्थः । प्रशस्ततम मिति वा । केनेति । केनोपायेनेत्यर्थः । प्रणिपातेन परिप्रश्नेन सेवया च आवर्जिता इति शेषः । तत्त्व- दर्शिनो ज्ञानिनः ते ज्ञानमुपदेक्ष्यन्तीति । तद्विद्धि तदित्यस्य ज्ञानप्राप्त्युपायमित्यर्थः । येन विधिना 1 २५ चतुर्थोऽध्यायः १९३ येन विधिना प्राप्यत इति । आचार्यानभिगम्य प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातः दीर्घनमस्कारः तेन ’ कथं बन्धः, कथं मोक्षः काऽविद्या, का विद्येति परिप्रश्नेन सेवया गुरुशुश्रूषया इत्येवमादिना प्रश्रयेणावर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्तविशेषणम् । ज्ञानिनो ज्ञानवन्तोऽपि केचिद्यथावत्तत्त्वदर्शिनः तच्चदर्शनशीला अपरे न भवन्त्यतो विशिनष्टि – तच्चदर्शिन इति । ये सम्यग्दर्शिनः तैरुपदिष्टं ज्ञानं कार्यक्षमं भवति नेतरदिति भगवतो मतम् ॥ ३४ ॥ प्राप्यते तद्विद्धीति भाष्यात् । तद्ज्ञानं प्रणिपातादिना विद्धीत्यन्वयस्त्वयुक्तः प्रणिपातादीनां ज्ञान- करणत्वाभावात् न हि प्रणिपातादिना ज्ञानं वेद्यते, किंतु मनसा । नापि प्रणिपातादिना ज्ञानं प्रति- पाद्यते, किंतु शास्त्रेण । तस्माद्रामानुजोक्तान्वयो दुष्टः । यद्यपि विद्धीत्यस्य लभस्वेत्यर्थाश्रयणे यम- प्यन्वयस्साधुस्तथाऽपि वेत्तेर्लाभार्थकथनमयुक्तमिति वेद्यम् | तदिति क्लीबत्वं तु ज्ञानप्राप्तिसाधनपरतयेति बोध्यम् । येन विधिना ज्ञानं प्राप्यते तत् ਰੰ विधिमित्यर्थः । वदतो मत्त इति शेषः । विद्धि । तमेव विधिं दर्शयति - प्रणिपातेनेत्याद्यवशिष्ट- श्लोकभागेन —— इति वाऽन्वयः । अथवा यदित्युत्तरश्लोकस्थयच्छब्दस्वारस्यात् तदिति पदमत्रत्यज्ञानविशेषणम् । प्रणिपातेन परिप्रश्नेन सेवया चावर्जितास्तत्त्वदर्शिनो ज्ञानिनस्ते तद्ज्ञानमुपदेक्ष्यन्तीति विद्धि । अनयाऽपि योजनया ज्ञानप्राप्त्युपाय एवानेन श्लोकेनोक्त इति न भाष्यविरोधः । ते तुभ्यमित्यर्थः ।

ननु भगवताऽर्जुनायोपदिष्टमेव ज्ञानमिति न ज्ञानप्राप्त्युपायजिज्ञासाऽर्जुनस्य स्यादितिचेन्मा भवत्वर्जुनस्य ज्ञानप्राप्त्याकांक्षा प्राप्तज्ञानत्वात् । तथाऽपि लोकानुग्रहाय ज्ञानप्राप्त्युपायं जिज्ञासुमर्जुन- मालक्ष्य भगवतोक्तमिदमिति । यद्वा त्वयोक्तमिदं ज्ञानं यदि मया केनापि हेतुना विस्मृतं भविष्यति, तदा कः पुनर्मम ज्ञानप्राप्त्युपाय इतीममर्जुनस्य प्रश्नमुत्प्रेक्ष्याह भगवान् तद्विद्धीति । ननु योऽर्थः स्वेनाज्ञातः तमर्थ जिज्ञासुः पुरुषः तद्ज्ञमन्यं प्रार्थयेतैवेति लोकतस्सिद्धत्वा व्यर्थ - मिदं वचनमत आह— ये इति, नेतरदिति । इतरदतत्त्वविदुपदिष्टं गुरूपदेश विना स्वेन शास्त्र- विचाराज्ञातं वा कार्यक्षमं न भवतीत्यर्थः । कार्य चाल अविद्यानिवृत्तिः तस्या एव मोक्षत्वात्, मोक्षस्य तत्पूर्वकत्वादिति वा । नच कार्य मोक्ष इति वाच्यं, मोक्षस्य सिद्धत्वेन साध्यत्व लक्षण- कार्यत्वाभावात् ।

कथं तत्त्वदर्शिनो निष्कामा उपदेक्ष्यन्तीत्यत आह भगवान् प्रणिपातेनेत्यादि । आव- र्जिताः खाधीनीकृताः- यथा भगवान् प्रणिपातादिलक्षणया भक्त्या भक्तपरवशो भवति तद्वद्विद्वांसोऽपीति भावः । अनेन च न धनादयस्तत्त्वविदावर्जने हेतवः, किंतु प्रणिपातादय एवेति । गुरोश्च न नैघूण्येन भवितव्यं, किंतु शिष्यवत्सलतयैवेति सूचितम् । ततश्च तत्त्वविदोऽपि शिष्यानुग्रहार्थे शास्त्रपाठभाष्य- रचनादिव्यवहारो न दोषाय, किंतु गुणायैवेति सिद्धम् । अन्यथा शास्त्रार्थसम्प्रदायस्यैव विच्छेद-१९४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ! येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ||३५|| तथाच सतीदमपि समर्थ वचनम् । यदिति । यज्ञात्वा यद्ज्ञानं तैरुपदिष्टमधिगम्य पुनर्भूयः मोहमेवं यथेदानीं मोहं गतोऽसि पुनरेवं न यास्यसि हेपाण्डव । किंच येन ज्ञानेन भूतान्यशेषेण ब्रह्मादीनि स्तम्बपर्यन्तानि द्रक्ष्यसि साक्षादात्मनि मत्स्थानि इमानीति प्रसङ्गात् । तत्त्वविदि भगवति कृष्णे तूष्णीं स्थितेसति गीताशास्त्रस्यैवाप्रवृत्तिप्रसङ्गात् । यथा गुरुः शिष्यवत्सलो भवेत्तथा शिष्येण यतितव्यं, न तूदासितव्यं, नापि कुपितव्यं, किंतु सविनयं तत्र वर्तितव्य- मित्याह - प्रश्रयेणावर्जिता इति ॥ ३४ ॥ ‘समर्थमिति । सार्थकमित्यर्थः । आत्मविदुपदिष्टं ज्ञानमेव कार्यक्षम नेतरदित्यभ्युपगते सति यद्ज्ञात्वेतीदं वचनमर्थवत्स्यादिति भावः । यदिति । हे पाण्डव ! यज्ञात्वा पुनरेवं मोहं न यास्यसि येनाशेषेण भूतानि आत्मनि मय्यथो द्रक्ष्यसि । इदानीमिति । मदुपदेशात्प्रागित्यर्थः । नतूपदेश - काले इति भ्रमियव्यं तदा मोहायोगात् नहि भगवानतत्त्ववित्, येन तदुपदिष्टं ज्ञानं मोहनिवर्तना- क्षमं स्यादिति शङ्कयेत । ननु व्यर्थमिदं वचनं येन वातांकुशादिभेषजेन यस्येदानीं वातादिरोगश्शान्तः स हि पुन- र्वातादिरोगप्राप्तौ वातांकुशादिभेषजमेवास्य निवर्तकमिति स्वयमेव जानीयादेव यथा तद्वदिदानीं यद्ज्ञानं मोहनिवर्तकं तादृशं ज्ञानं पुनरपि मोहेसति तन्निवर्तकं स्यादेवेति स्वत एव जानीयादर्जुन इतिचेत्, मैवम् - इदानीं महानुभावेन साक्षाद्भगवता कृष्णेनोपदिष्टत्वादस्य ज्ञानस्य मोहनिवर्तकत्वं युक्तम् । श्रीरामप्रयुक्तस्य तृणस्यापि काकासुरोद्वेजकत्ववत् । अस्मिन् ज्ञाने विस्मृतेसति पुनर्मोह- प्रसङ्गः तदपनयनाय यदर्वाक्तनैर्गुरुभिरुपदिश्यते ज्ञानं तस्य मोहनिवर्तकत्वमस्ति वा न वेति शङ्का जायेतैवार्जुनस्य, तदपगमेन सार्थकमिदं वचनम् । मयेव तत्त्वविद्भिरप्युपदिष्टं ज्ञानं मोहनिवर्तकमेव, नतु व्यर्थ - ममेव तेषामपि तत्त्ववित्त्वांशे भेदाभावादिति भगवता विवक्षितत्वात् । यद्वा, मया संग्रहेणोक्तं ते शनं अवकाशाभावात् - यदि विस्तरेण शुश्रूषा तर्हि तत्त्ववित्सकाश गत्वा तेभ्यो विस्तरेण श्रुणु । इदं तु मयोक्तं संक्षिप्तं ज्ञानं तात्कालिक मोहनिवर्तनक्षममपि न भविष्य- मोहनिवर्तनक्षम, तस्मात्त्वं युद्धानन्तरं तत्त्ववित्सकाशं गत्वा पुनर्विस्तरेण ज्ञानं लभस्व । सति विस्तृत - ज्ञाने न पुनमहोदयप्रसङ्ग इति । अथ वा भगवदुपदिष्टज्ञानान्मम नोहरशान्तः, तत्त्वविदुपदिष्टज्ञानाकि फलं भवेल्लोकस्येतीम- मर्जुनस्य प्रश्नमुत्प्रेक्ष्याह भगवान् – यज्ञात्वेति । अर्जुनस्तु लोकस्था नीयत येहोपनिबद्ध इति यास्यसी - त्युक्तम् । एवं ज्ञानस्य मोहनिवर्तकत्वमेकं फलमुक्तमथ फलान्तरमाह - येन भूतानीति । यद्वा ज्ञानान्मोहे निवृत्तेसति पश्चाकि स्यादत आह— येनेति । स्वप्नवदात्मन्येव सर्वप्रपञ्चस्य कल्पितत्वात्सर्वजगदधिष्ठाने मय्येव सर्वभूतानि वर्तन्त इति ज्ञास्यसि, तथा वासुदेवे परमेश्वरे चेमा नि अथो अपि मयि वासुदेवे द्रक्ष्यसीत्यर्थः ॥ ३५ ॥ - चतुर्थोऽध्यायः । १९५ परमेश्वरें चेमानीति क्षेत्रज्ञेश्वरैकत्वं सर्वोपनिषत्प्रसिद्धं अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्व ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ ३६ ॥ किंचैतस्य ज्ञानस्य माहात्म्यम् - अपीति । अपिचेदसि पापकृद्भयः सर्वेभ्योऽतिशयेन सर्वाणि भूतानि वर्तन्त इत्यपि ज्ञास्यसि । त्वयि मयि च द्रक्ष्यसि भूतानीत्यनेन किं लब्धपत आह क्षेत्रज्ञेति । क्षेत्र शरीरेन्द्रियप्राणबुद्ध्यादिकं जानातीति क्षेत्रज्ञ आत्मा अन्तःकरणोपहितचैतन्यं कूटस्थ: बुद्ध्या दिसाक्षी - ईश्वरः मायोपहितं चैतन्यं तयोरुभयोरेकत्वमभेदं द्रक्ष्यसि ज्ञास्यसि । उपाधिकृत एव भेदो न वात्त्विक:- उभयोरपि निर्धर्म कपरमानन्दबोधरूपत्वादेकस्यैव चैतन्यस्य मायोपहितत्वेनेश्वर इति अन्तःकरणोपहितत्वेनात्मेति च भेदव्यवहारस्य कल्पितत्वात् । ततश्च वस्तुत ईश्वर एवाहमिति ज्ञास्यतीत्यर्थः । अयं भावः — ’ यतो वा इमानि भूतानि जायन्त’ इत्यादिना सर्वजगदधिष्ठानं ब्रह्मेति निश्चि- नोति विद्वान् वेदान्तश्रवणवशात्, पश्चान्मननादिना तु स्वस्यैव सर्वजगदधिष्ठानत्वे ज्ञातेसति स्वस्मिन्नेव सर्व जगत्पश्यति, तथा सर्वजगदधिष्ठानत्वादात्मानमेव ब्रह्म पश्यतीति अयमेव ब्रह्मसाक्षात्कारो मुक्तिरिति नित्यमुक्तात्मसाक्षात्कारे सति बन्धभ्रमनिवृत्तेरिति । यत्तु रामानुजः - प्रकृतिविनिर्मुक्तं सर्वमात्मवस्तु परस्परं समं सर्वेश्वरेण च सममित्यस्य श्लोकस्य फलितार्थमाह, यच्च वेदान्तदेशिकः स्वात्मनि निदर्शनभूते स्थाली पुलाकादिन्यायेन सर्वाणि भूतानि द्रक्ष्यसीति, अथोमयीत्यस्य मन्निदर्शनेन स्वात्मानं परांश्च द्रक्ष्यसीत्यर्थ इति, तत्सर्वं तुच्छम्– आत्मनो निदर्शनत्वे आत्मानमिव सर्वाणि भूतानि द्रक्ष्यसीति वक्तव्यत्वात् । अधिकरणे सप्तम्या विहितत्वेन कर्मणि सप्तम्यां अयोगात् । नापि यस्य च भावेनेति भावलक्षणसप्तम्युचिता आत्मनि निदर्शनभूते सतीति- सर्वभूतदर्शनंप्रति आत्मनिदर्शनत्वस्य भावलक्षणत्वायोगात् । निदर्शनभूनपदस्य मूलाद्वहि: कल्पनस्याप्रमाणत्वात् । भवन्तीति भूतनीति भूतशब्दस्य देहेन्द्रियादिकार्यसङ्घातवाचिनः अजे नित्ये आत्मनि प्रयोगायोगात् । प्रकृतिविनिर्मुक्तत्वे सति आत्मनो मेदकाभावान्नैव । नेकात्मसिद्धिरिति सर्वमात्मव स्त्वित्यप्ययुक्तम्– आत्मनामीश्वरतौल्यं चायुक्तं - नियाम्यनियामकादिभेदसद्भावात् वस्तुतश्चैतन्यात्मना साम्यमितिचेत्, न तत्साम्य, किं त्वभेद एव चैतन्यस्यैकत्वादनेक चैतन्यकल्पनायोगात् । नच घटत्ववचैतन्यजात्य- देऽपि घटवचेतन व्यक्तिभेद इति वाच्यं व्यक्तिभेदप्रयोजका कारभेदस्य निराकारे अत्मन्यसम्भवा- द्धष्टवत् । न च घटाकाशानामिवोपाधितो भेद इति वाच्यं प्रकृति विनिर्मुक्तमात्मवस्त्विति त्वया निरुपाधिकस्यैवात्मनो गृहीतत्वात् ॥ ३५॥ अपीति । ‘शस्तं ’ चाथ त्रिषु द्रव्ये पापपुण्यसुखानि चे’ त्यमरादाह–पापेभ्यः पापकृद्भ्य इति । १९६

श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
पापकृत् पापकृत्तमः सर्व ज्ञानप्लवेनैव ज्ञानमेव एवं कृत्वा वृजिनं वृजिनार्णवं पापं सन्त- रियसि । धर्मोपी मुमुक्षोः पापमुच्यते ||३६||
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन !
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७॥
ज्ञानं कथं नाशयति पापमिति सदृष्टान्तमुच्यते — यथेति । यथा एधांसि काष्ठानि समिद्धस्सम्यगिद्धः दीप्तः अग्निः भस्मसात् भस्मीभावं कुरुते हेअर्जुन ! ज्ञानमेवाग्निर्ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते, तथा निर्बीजं करोतीत्यर्थः । नहि साक्षादेव ज्ञानाग्निः कर्मा- णीन्धनवत् भस्मीकर्तुं शक्नोति, तस्मात्सम्यग्दर्शनं सर्वकर्मणां निर्बीजत्वकारणमित्यभिप्रायः । सामर्थ्याद्येन कर्मणा शरीरमारब्धं तत्प्रवृत्तफलत्वादुपभोगेनैव क्षीयते । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य’ इति श्रुतेः । अतो यान्यप्रवृत्तफलानि ज्ञानोत्पत्तेः प्राक्कृतानि ज्ञानसहभावीनि चातीतानेकजन्मकृतानि च तान्येव सर्वाणि कर्माणि भस्मसात्कुरुते ||३७|| पापवद्भ्य इत्यर्थः । पापाद्गुणभूतात्पापकृतो द्रव्यस्यातिशयस्य वक्तुमशक्यत्वात्पापशब्दोऽत्र द्रव्यवाची गृहीतः । सर्वपापिष्ठपुरुषोत्तम इत्यर्थः । ज्ञाने प्लवत्वारोपादाह – वृजिनार्णवमिति । लवेनार्णवमिव ज्ञानेन वृजिनं सन्तरिष्यसीत्यर्थः ।
ननु ज्ञानेन पापस्य नाशे पुण्यमवशिष्यते, ततश्च देवादिजन्मरूपसंसार इत्यत आह- धर्मोऽपीति । वृजिनशब्देन पुण्यमप्युच्यते - कुतः मुमुक्षोः पुण्यस्यापि पापत्वादित्यर्थः । एतेन पाप- पुण्यात्मकं संसारसमुद्रं ज्ञानप्लवेनैव सन्तरिष्यसीत्युक्तं भवति ॥ ३६ ॥
यथेति । भस्मसाद्भस्मसाधीनम् । फलितमाह - भस्मीभूतमिति, निर्बीजमिति । बीजसत्त्वे पुनः कर्माकुरोदयादिति भावः । कर्मणां बीजं चाज्ञानमेव ।
ननु अग्निरिन्धनानीव ज्ञानाग्निः कर्माणि भस्मीकरोत्येवेति कृत्वा कथमुक्तं निर्बीजं करोती- त्यर्थ इति तत्राह–नहीति । कर्मणामिन्धनवद्भस्मीभवनार्हस्वरूपाभावादिति भावः ।
ननु सर्वाणि कर्माणीत्यनेन किं प्रारब्धानि विवक्षितानि ? यद्वा सञ्चितानि ? अथवोभयात्म- कानीत्यत आह- सामर्थ्यादिति । शास्त्रसामर्थ्यादित्यर्थः । तदिति । प्रारब्ध कर्मेत्यर्थः । प्रकर्षे - पारब्धं फलदानायेति प्रारब्धं- उपभोगेनैवेति ‘प्रारब्ध भोगतो नश्ये दिति स्मरणादिति भावः ।
तत्र श्रुतिं प्रमाणयति - तस्येति । तस्य कृतात्मसाक्षात्कारस्य तावदेव चिरं विलम्बः, यावन्न विमोक्ष्ये शरीरपातो न स्यात् । अथ शरीरपातानन्तरं सम्पत्स्ये ब्रह्म भवति । अतश्शरीरनाशादेव प्रारब्धकर्मनाशः, न त्वन्यथेति सिद्धम् । एवं शास्त्रसामर्थ्यात्प्रारब्धस्य ज्ञानाग्न्यदाह्यत्वे सिद्धे तद्दाद्यानि कर्माण्याह – अत इति । अतः प्रारब्धकर्मणां भोगं विना नाशायोगादित्यर्थः । अप्रवृत्तफलानि अप्रारब्धानीत्यर्थः । अतीतानेक जन्मक्कतानि इह जन्मनि च ज्ञानोत्पत्तेः प्राक्कृतानि ज्ञानेनसह भवतीति ज्ञानसहभावीनि ज्ञानाभ्यासकाले कृतानि गुरुसेवादिरूपाणि चेत्यर्थः । तान्येवेति । सञ्चितान्येवेत्यर्थः । आगामिनामप्यत्रैवान्तर्भावः । एवकारान्न तु प्रारब्धानीत्यर्थः ।
चतुर्थोऽध्यायः
न हि ज्ञानेन सदृश पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८ ॥
૨૨૭
यत एव मतः, नेति । नहि ज्ञानेन सदृशं तुल्यं पवित्रं पावनं शुद्धिकर मिह विद्यते तत् ज्ञानं स्वयमेव योगसंसिद्धो योगेन कर्मयोगेन समाधियोगेन च संसिद्धस्संस्कृतः योग्यतामापन्नस्सन् कालेन महता आत्मनि विन्दति लभत इत्यर्थः ||३८||
.
श्रद्धावान् लभते ज्ञानं तत्परस्संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ ३९ ॥
येनैकान्तेन ज्ञानप्राप्तिर्भवति स उपाय उपदिश्यते श्रद्धावानिति । श्रद्धावान् श्रद्धालुर्लभते ज्ञानम् । श्रद्धालुत्वेऽपि भवति कश्चिन्मन्दप्रस्थान अत आह— तत्परः गुरूपास- नादावभियुक्तो ज्ञानलब्ध्युपाये श्रद्धावान् तत्परोऽप्यजितेन्द्रियः स्यादित्यत आह-संयते- न्द्रियः संयतानि विषयेभ्यो निवर्तितानि यस्येन्द्रियाणि सः संयतेन्द्रियः य एवंभूतः श्रद्धावान् तत्परस्संयतेन्द्रियश्च सोऽवश्यं ज्ञानं लभते । प्रणिपातादिस्तु बाह्योऽनैकान्तिकोऽपि भवति, मायावित्वादिसम्भवान्न तु तच्छ्रद्धावत्वादावित्येकान्तो ज्ञानलब्ध्युपायः ।
यथा चापालक्ष्यं प्रति निर्गतश्शरः न मध्ये निवर्तते, किंतु लक्ष्य प्राप्यैव निर्व्यापारो भवति तद्वत्प्रारब्धं कर्म यावद्देहपातं न नश्यति । यथा च तूणस्थाश्शराः धनुषि संयोजिता वा अप्रयुक्ताः लक्ष्यप्राप्तिं विना निवारयितुं शक्यन्ते तद्वत्सञ्चितानि भोगप्रदानं विना ज्ञानेन नाश्यन्त इति बोध्यम् ॥
नहीति । नचेदं ज्ञानमकस्मात्सिध्यति, किंतु चित्तशुद्धिद्वारैव सा च चित्तशुद्धियोगद्वारैवे- स्याह - योगसंसिद्ध इति । योगः कर्मानुष्ठानलक्षणः समाधिलक्षणश्च । कर्मयोग इत्याह- कर्मयोगे- नेति । कर्मानुष्ठानेनेत्यर्थः । समाधियोगः ‘तानि सर्वाणि संयम्य युक्त आसीत मत्वर इत्यादिना प्रोक्तः इन्द्रियमनोजयात्मको योगः । संस्कृत इति । चित्तगतोऽयं संस्कारः पुरुषे आरोपितः यथा चित्त- गतस्संस्कारः ॥३८॥
1
श्रद्धावानिति । एकान्तेन नियमेनाव्यभिचारेणेत्यर्थः । मन्दप्रस्थानः मन्दप्रयाण गुर्वभि- गमने त्वरारहित इत्यर्थः । तत्परः तस्मिन्नासक्तः । आसक्तिसत्त्वे गुरुप्रति क्षिप्रं प्रयातीत्यभिप्रेत्याह- गुर्विति । अभियुक्त आसमन्तात्सक्तः ।
ननु पूर्व तद्विद्धीतिश्लोके प्रणिपातपरिप्रश्नसेवा ज्ञानलब्धावुपायत्वेनोक्ताः, इदानीं तु श्रद्धा- सक्तीन्द्रियजया उक्ता अतः कथं व्याघातपरिहार इत्यत आह- प्रणिपातादिस्त्विति । – आदि- शब्दात्परिप्रश्नसेवयोर्ग्रहणं । बहिर्भवो बाह्यः, श्रद्धादिस्त्वान्तर: । बाह्यादान्तरस्य बलीयस्त्वं प्रसिद्धमिति भावः । किंच अनैकान्तिकः व्यभिचारी । तत्र हेतुमाह-मायावित्वादीति ।
प्रणिपातादौ मायावित्वादेस्सम्भवोऽस्ति कश्चिन्मायावी कृत्रिम: कंपटेन कस्यचित्प्रणिपातादिकं कुर्यात्, तादृशो मायावी ज्ञानं नियमेन न लभते, अतः प्रणिपातादिहें तुर्व्य भिचार्येवेत्यर्थः । श्रद्धावत्त्वादौ
मारादित्वादिर्न सम्मपति अतः श्रद्धावत्त्वादिव्यभिचारी उपायः । अत एवावतारिका ग्रन्थे
१९८
श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
किंपुनः ज्ञानालाभात् स्यादिति, उच्यते- ज्ञानं लब्ध्वा परां मोक्षाख्यां शान्ति उपरति अचिरेण क्षिप्रमेव अधिगच्छति सम्यग्दर्शनात् क्षिप्रं मोक्षो भवतीति सर्वशास्त्र - न्यायप्रसिद्धः सुनिश्चितोऽर्थः । अत्र संशयो न कर्तव्यः ॥ ३९ ॥
अज्ञश्वाश्रद्धधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥४०॥
पापिष्ठो हि संशय:- कथमिति, उच्यते-अज्ञ इति । अशवानात्माच अश्रद्धधानश्च गुरुवाक्यशास्त्रषु अविश्वासवान् संशयात्मा संशय चित्तश्च विनश्यति । अज्ञाश्रद्धधानौ यद्यपि विनश्यतः, तथाऽपि न तथा यथा संशयात्मा । संशयात्मा तु पापिष्ठः सर्वेषाम् । कथं, नाय साधारणोऽपि लोकोऽस्ति, तथा न परः लोकोऽस्ति, न सुखं, तत्रापि संशयोत्पत्तेः । संश- यात्मनः संशयचित्तस्य । तस्मात्संशयो न कर्तव्यः ॥ ४० ॥

येनैकान्तेन ज्ञानप्राप्तिर्भवतीत्युक्तम् । एवं च तद्विद्धीतिश्लोकेन ज्ञानलब्धौ बाह्या अनैकान्तिका उपाया उक्ताः, अनेन तु अन्तरा एकान्ता उपाय इति न व्याघातः कश्चिदिति सिद्धम् । . किंच यत्र श्रद्धादिगुणत्रयमस्ति तत्र प्रणिपातादिगुणत्रयमपि भवत्येव, यत्र तु प्रणिपातादि- गुणत्रयं दृश्यते तत्र नियमेन श्रद्धादिगुणत्रयं न विद्यते- अश्रद्धालोरतत्परस्याजितेन्द्रियस्यापि मायाविनः प्रणिपातादिगुणत्रयसम्भवादिति कृत्वा न प्रणिपातादिदर्शनाद्गुरुः शिष्ये विश्वासं कुर्यात्, किंतु श्रद्धा- दिकं तस्मिन् परीक्ष्यैवेति गुरुशिक्षाऽनेनोपदिष्टा । क्षिप्रमिति । ‘तरति शोकमात्मवित्, ब्रह्मविद्ब्रह्मैव भवति, तमेवं विदित्वाऽतिमृत्युमेति’ इत्यादीनि शास्त्राणि रज्जुयाथात्म्यज्ञानात्सर्पभ्रमनिवृत्तिवदात्मयाथात्म्यज्ञानात्संसारिभ्रमनिवृत्तिरित्यादयों न्यायाः तत्प्रसिद्धो ज्ञानात् क्षिप्रं कैवल्यलाभः । एवकारान्न तु विलम्ब इत्यर्थः । ततश्च कर्मयोगा- दोनों चिरेण मोक्षप्रदाना व्यावृत्तिः, किंच क्षिप्रमन्यवधानेनेत्यर्थः । कर्मयोगादयस्तु ज्ञाननिष्ठाव्यवधानेन मोक्षं प्रयच्छन्ति, नतु साक्षादिति भावः ||३९|| अज्ञ इति । चकार दज्ञत्वादीनां त्रयाणां पृथक्पृथग्विनाशहेतुत्वं सिद्धम् । यः सुतरामात्मान न वेति सोऽज्ञः, यस्तु गुरुणा तत्त्वे उक्तेसत्यपि न तत्र विश्वासवान् सोऽश्रद्धधानः, सच्चिदानन्द आत्मेति गुरुणीच्यते- नैतद्युक्तं मम दुःखित्वादेरनुभवसिद्धत्वादिति मन्यतेऽयमश्रद्धधानः । एवं गुरु- वाक्यमिव शास्त्रमपि नायं विश्वसिति किं त्वंप्रमाणमेव मन्यते । अथ संशयात्मा तु किमात्मा गुरु वेदान्तोक्तविधया सच्चिदानन्दब्रह्माभिन्न: : किं वा तर्काद्युक्तरीत्या ईश्वराद्भिन्नः ? किंवा बौद्धा- बुक्तरीत्या देहादिरेवात्मेत्याद्याकारकसंशयवान् । अयं हि अज्ञाश्रद्धवानाभ्यामप्यतीव पापिष्ठ इत्याह- सर्वेषामिति । सर्वेषां मध्ये इत्यर्थः । 4 संशयात्मनः यथा आत्मनि संशयः तथा सर्वत्रापि संशय एव तस्य संशयैकस्वभावत्वात् । तथा च पुत्रेष्ट्यादिना पुत्रादयसिध्येयुर्वा न वा इति सन्दिहानः पुरुषः पुत्रेष्टयादिकं नैव करोतीति न तस्य मनुष्लोक फलसिद्धिः । एवं ज्योतिष्टोमेन स्वर्गो भवेद्वा न वेति सन्दिहानः ज्योतिष्टोमं नैव करोतीति न तस्य परलोक फलसिद्धिः । एवं सक्चन्दनादिधारणेन मम सुखं स्याद्वा न वेति सन्दिहान संचन्दनादिधारणं नैव करोतीति न तस्य सुखसिद्धिः । चतुर्थोऽध्यायः । योगसन्न्यस्तकर्माणं ज्ञानसं छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय ॥ ४१ ॥ कस्मात् यस्मात् योगेति । योगसन्न्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेनैन सन्न्यस्तानि त्यक्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं योगसन्न्यस्तकर्माणम् । कथं योगसन्न्यस्तकर्मेत्याह- ज्ञानसं छिन्नसंशयं ज्ञानेनात्मेश्वरैकत्वदर्शनलक्षणेन संछित्रः संशो यस्य स ज्ञानसं छिन्नसंशयः । य एवं योगसन्न्यस्तकर्मा तमात्मवन्तं अप्रमत्तं कर्माणि गुण- चेष्टरूपेण दृष्टानि कर्माणि न निबध्नन्ति अनिष्टादिरूपफलं नारभन्ते हेधनंजय ॥४१॥ तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्वेनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥ इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीक- ष्णार्जुनसंवादे ज्ञानयोगोनाम चतुर्थोऽध्यायः । यस्मात्कर्मयोगानुष्ठानादशुद्धिभयादिहेतुकज्ञानसं छिन्नसशयो न निवध्यते कर्मभिः यद्वा इहलोकोऽस्ति वा न वा ? परलोकोऽस्ति वा न वा ? सुखमस्ति वा न वेत्येवं सन्दिहा- नस्य नेहलोकादयः सिध्यन्ति निश्चयपूर्वकत्वात्सिद्धेः । नचेहलोकास्तित्वसंशयः कथमुदे तुमर्हतीति वाच्यं, शून्यवादिमते प्रपञ्चस्य स्वरूपापलापदर्शनात् - अन्यत्र तत्सत्यत्वदर्शनाच्च तत्रापि संशयोत्पत्ति- सम्भवात् ॥४०॥ योगेति । ज्ञानसञ्छिन्नसंशयमत एवं योगसन्न्यस्तकर्माणमात्मवन्तं हेधनञ्जय कर्माणि न निबध्नन्ति धर्माधर्माख्यानि कर्माणीत्यन्वयः । आत्मा मनः तद्वान् आत्मवान् तमात्मवन्तम् । ननु नहि कस्यापि मनोऽभावोऽस्ति, येनात्मवन्तमित्युच्येतेत्यत आह– अप्रमत्तमिति । प्रशंसायां मतुब्विधानात् आत्मवन्तं प्रशस्तमनसमित्यर्थः । मनसः प्राशस्त्यं च प्रमादाभावप्रयुक्तमेवेत्यमिने- त्याह– अप्रमत्तमिति । अवहितमनस्कमित्यर्थः । मनोधर्मस्य प्रमादाभावस्य पुरुष आरोपादुक्त- मप्रमत्तमिति । नहि वस्तुतः पुरुषस्य प्रमादादिधर्मवत्ता- निर्धर्मकात्मस्वरूपत्वात्पुरुषस्य । गुणवेष्टा- स्सत्त्वादिगुणकृतविग्रहादिवेष्टाः रजवः पशुमिव कर्माणि पुरुषं न निवन्नन्तीति वतुमयुक्तत्वादाह- अनिष्टादीति । अनिष्टादिरूपफलारम्भद्वारा पुरुष न निवन्नन्तीत्यर्थः । ननु आत्मवन्तमिति व्यर्थ, ज्ञानिनः प्रमादजननीयक्षत्यभावादिति चेन्मैवम् ज्ञानिनोऽपि सति प्रमादे इन्द्रियपारतन्त्र्यादियुक्त संसारप्रसङ्गात् । तस्माद्ज्ञानिनाऽपि जितेन्द्रियमनस्केन भाव्यमिति सूचनायाह - अप्रमत्तमिति । प्रपञ्चितचैतत्पूर्वस्मिन्नध्याये ‘ध्यायतो विषयान्पुंस’ इत्यादिना । प्रमुत- स्यानर्थजन्म ‘बलवानिन्द्रियग्रामो विद्वांसमपि कर्षतीति च स्मर्यते । तस्मान्मुमुक्षुर्विद्वान् जिते- न्द्रियस्सन्नन्तर्मुखेन मनसा आत्मस्वरूपं सदा साक्षात्कुर्वन् वर्तेत- ततो मुध्यत इत्यनेन श्लोकेनोप- दिष्टम् ॥४१॥ तस्मादिति । तस्माच्छन्दार्थमाह- यस्मादित्यादिना | हेतुरेव हेतुकः अशुद्धिभयादीनां २०० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु ज्ञानाग्निदग्धकर्मत्वादेव यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवान् विनश्यति तस्मादिति । तस्मात्पापिष्ठं अज्ञानसम्भूतमज्ञानादविवेकाज्जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोक- मोहादिदोषहरं सम्यग्दर्शनं ज्ञान तदेवासि: खङ्गः तेन ज्ञानासिना आत्मनः स्वस्यात्मविषय- स्वात् संशयस्य । नहि परस्य संशयः परेण छेत्तव्यतां प्राप्तः, येन स्वस्येति विशेष्यते । अत आत्मविषयोऽपि स्वस्यैव भवति । । छिन्चैनं संशयं स्वविनाशहेतुभूतं योगं सम्यग्दर्श- नोपाय कर्मानुष्ठानं आतिष्ठ कुर्वित्यर्थः । उत्तिष्ठ च युद्धायेदानीं भारतेति ॥ ४२ ॥ इति श्रीपरमहंस परिव्राजकाचार्यगोविन्दभगवत्पादपूज्य शिष्य- श्रीमच्छङ्करभगवत्पादकृतौ गीताभाष्ये चतुर्थोऽध्यायः । हेतुकः ज्ञानेन सञ्छिन्नश्च सशयो यस्य सः ज्ञानसञ्छिन्नाशुद्धिमयादिहेतुसंशय इत्यथः । तच ज्ञान कस्माज्जायत इत्यत आह — कर्मयोगानुष्ठानादिति । अशुद्धिक्षयहेतुकेति पाठे अशुद्धिक्षयो हेतुर्यस्य तत्तथोक्तमिति ज्ञानविशेषणम् । कुतः कर्मभिर्न निबध्यत इत्यत आह — ज्ञानाग्नीति । तस्मादि- त्यस्यार्थान्तरमाह– यस्माच्चेति । ज्ञानं च कर्म च ज्ञानकर्मणी प्रत्येकानुष्ठानविषये इत्यर्थः । तयोः युगपदनुष्ठानासम्भवस्य प्रागेवोक्तत्वात् । तयोरनुष्ठानविषये । तस्मादिति । कर्मज्ञानयोगानुष्ठानजन्य- ज्ञानाग्ने(सर्वकर्मदाहकत्वान्निस्संशयेन ज्ञानकर्मानुष्ठानस्य कर्तव्यत्वाच्चेत्यर्थः । हेभारत अज्ञानसम्भूतं हृत्स्थमेनमात्मनस्संशयं ज्ञानासिना छित्त्वा योगमातिष्ठ उत्तिष्ठ । अविवेकादात्मानात्मविवेकाभावात् । यद्वा यस्माद्विवेको न भवति तदविवेकं भावरूपं मायेति यावत् । आत्मन इति विषयविषयिभावरूपे सम्बन्धे शेषे षष्ठीत्याह - - आत्मविषयत्वादिति । आत्म- विषयमित्यर्थः । अन्यथा यथाश्रुतार्थे दोषमाह -नहीति । संशयं छित्त्वेत्यनेनैव स्वसंशयं छित्त्वे- त्यर्थलाभो भवति, परसंशयस्याच्छेत्तव्यत्वेनैव व्यावृत्तेः परसंशयं छित्त्वेत्यर्थाप्रसक्तेः । " नन्वयमात्मसंशयः कस्य भवतीत्यत आह-स्त्रस्यैवेति । किमहं नित्य आत्मा उतानित्य इत्यादिरूपस्य स्वस्मिन्नेव संशयस्य सर्वाविद्वदनुभवसिद्धत्वादिति भावः । एनमितिशब्दार्थमाह-स्वविनाश- हेतुभूतमिति । संशयात्मा विनश्यतीत्युक्तत्वादिति भावः । योगशब्दोऽत्रोपायपर इत्याह — सम्य- गिति । कर्मानुष्ठानं कुर्विति ज्ञाननिष्ठायां तदानधिकारादिति भावः । उत्तिष्ठ उदोऽनूर्ध्वकर्मणीति न तङ् । किमर्थमुत्थानमत आह— युद्धायेति । भारतेत्यनेन क्षत्रियस्य तव युद्धाख्यकर्मयोगएवाधिकार इति सूच्यते । सम्यग्दर्शिनोऽपि तव लोकसंग्रहार्थं कर्मैव कर्तुमुचितं जनकादिवदिति च प्रतीयते ॥ ४२ ॥ इति बेल्लं कोण्डोपनाम रामकविकृतौ श्रीभगवद्गीताभाष्यार्कप्रकाशे चतुर्थोऽध्यायः । २६