श्रीहयग्रीवाय नमः । भाष्यार्कप्रकाश विलसित श्रीशाङ्करभाष्योपेतासु- श्रीभगवद्गीतासु तृतीयाध्यायप्रारम्भः । शास्त्रस्य प्रवृत्तिनिवृत्तिविषयभूते द्वे बुद्धी भगवता निर्दिष्टे - साङ्ख्ये बुद्धियोंगे बुद्धि- रिति च । तत्र ‘प्रजहाति यदा कामा’ नित्यारभ्याऽऽध्यायपरिसमाप्तेस्साङ्ख्यबुद्ध्याश्रितानां सन्न्यासं कर्तव्यमुक्त्वा तन्निष्टतयैव च कृतार्थतोक्ता ‘एषा ब्राह्मी स्थिति’ रिति । अर्जुनाय च - कर्मण्येवाधिकारस्ते मा ते सङ्गोऽस्त्वकर्मणी’ ति कर्मैव कर्तव्यमुक्तवान् योगबुद्धिमाश्रित्य । न तत एव श्रेयःप्राप्तिमुक्तवान् । तदेतदालक्ष्य पर्याकुलीभूतबुद्धिरर्जुन उवाच - कथं भक्ताय श्रेयोर्थिने साक्षाच्छ्रेयस्साधनं साङ्ख्यबुद्धिनिष्ठां श्रावयित्वा मां कर्मणि दृष्टादृष्टाने कानर्थयुक्ते पारम्पर्येणाप्यनैकान्तिकश्रेयः प्राप्तिफले नियुंज्यादिति । युक्तः पर्याकुलभूतोभावोऽर्जुनस्य, तदनुरूपश्च प्रश्नो ज्यायसीचेदित्यादिः । प्रश्नोपकरणं च वाक्यं भागवतं युक्तं यथोक्त- विषयविभागे शास्त्रे । केचित्वर्जुनस्य प्रश्नार्थमन्यथा कल्पयित्वा तत्प्रतिकूलं भगवतः प्रति- वचनं वर्णयन्ति, यथा चात्मना सम्बन्धग्रन्थे गीतार्थो निरूपितः तत्प्रतिकूलं चेह पुनः प्रश्न- प्रतिवचनयोरर्थं निरूपयन्ति । कथं तत्र सम्बन्धग्रन्थे तावत् सर्वेषामाश्रमिणां ज्ञानकर्मणो- ’ ज्यायसी चेदिति श्लोकमवतारयति-— शास्त्रस्येत्यादिना । शास्त्रस्येति प्रतिपाद्यप्रतिपादकभाव- रूपे सम्बन्धे शेषे षष्ठी । शास्त्रप्रतिपाद्यप्रवृत्तिनिवृत्तिविषयभूते इत्यर्थः । I शास्त्रस्य प्रवृत्तौ निवृत्ताविति वार्थ: । प्रवृत्तिमार्गे शस्त्रापेक्षास्ति, नतु निवृत्तिमार्गे इति कृत्वा । ज्ञानयोगे शास्त्रमेव निवर्तत इत्यर्थः । साङ्ख्ये योगे इति च विषयसप्तम्यौ ! तन्निष्ठतया सन्न्यासनिष्ठतया ज्ञानयोगनिष्ठतयेति वा । ततः कर्म- ..योगाच्छ्रेयः प्राप्ति नैवोक्तवान् । भक्ताय श्रेयोर्थिन इति । श्रेयो मोक्षः तदर्थित्वं तत्कामित्वं तस्मिन् सत्य - ‘प्यभक्ताय नोपदिशेद्गुह्य’ मिति भक्तायेत्युक्तम् । भक्तत्वं पूज्येऽनुरागित्वम् । तस्मिन् सत्यपि कामकामाय नोपदिशेदित्येतदर्थं श्रेयोर्थिन इत्युक्तम् । अनैकान्तिकं व्यभिचारि श्रेयः प्राप्तिरूपं फलं यस्मिन् तस्मिन् तथोक्ते पर्याकुलभूतो व्याकुल:- भूतशब्दस्यात्र स्वरूपवा चित्वेनानतिरिक्तार्थत्वात् । भावोऽभिप्राय:- बुद्धिरिति यावत् । प्रश्नोपकरणं प्रश्नस्योत्तरं भागवतं कृष्णसम्बन्धि यथोक्तः विषयविभागो यस्मिन् तस्मिन् शास्त्रे - ‘लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मिति ज्ञानिकर्मिणोः साङ्ख्ययोगात्मको विषयविभागः । केचित्तु वृत्तिकारा इत्यर्थः । अन्य- थेति । यदि बुद्धिकर्मणोः समुच्चयान्मोक्ष इति तव मतं, तत्रापि कर्मापेक्षया बुद्धिरेव ज्यायसीति, तर्हि - हेकृष्ण किमिति मां कर्मण्येव केवले नियोजयसीत्यर्जुनस्य प्रश्नार्थ कल्पयित्वा तत्प्रश्नप्रतिकूलं भगवतः प्रतिवचनं वर्णयन्ति - ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनां च सिद्धिरिति । सम्बन्धग्रन्थोऽवतारिका- ग्रन्थः- उपोद्धात इति यावत् । आत्मना स्वेन वृत्तिकारैरित्यर्थः । तदेव विवरीतुमाकांक्षामाह -कथ- तृतीयोऽध्यायः । १०७ स्समुच्चयो गीताशास्त्रे निश्वितोर्थ इत्युक्तः, पुनर्विशेषितश्च यावज्जीवश्रुतिचोदितानि कर्माणि परित्यज्य केवलादेव ज्ञानान्मोक्षः प्राप्यत इत्येतदेकान्तेनैव प्रतिषिद्धमिति, इहत्वाश्रमविकल्पं दर्शयता यावज्जीवश्रुतिचोदितानामेव कर्मणां परित्याग उक्तः, तत्कथमीदृशं विरुद्धमर्थ - मर्जुनाय ब्रूयाद्भगवान् ? श्रोता वा विरुद्धमर्थं कथमवधारयेत् ? तत्रैतत्स्यात् – गृहस्थानामेव श्रौतस्मार्तकर्मपरित्यागेन केवलादेव ज्ञानान्मोक्षः प्रतिषिध्यते, न त्वाश्रमान्तराणामिति । एतदपि पूर्वोत्तरविरुद्धमेव- कथं, सर्वाश्रमाणां ज्ञानकर्मणोस्समुच्चयो गीताशास्त्रे निश्चितोर्थ इति प्रतिज्ञाय इह कथं तद्विरुद्धं केवलादेव ज्ञानान्मोक्षं ब्रूयात् आश्रमान्तराणाम् । अथ मतं श्रौतकर्मापेक्षया एतद्वचनं- केवलादेव ज्ञानाच्छ्रौतकर्मरहितात् गृहस्थानां मोक्षः प्रतिषिध्यत इति, तत्र गृहस्थानां विद्यमानमपि स्मार्त कर्माविद्यमानवदनपेक्ष्य ज्ञानादेव केवलादित्युच्यत इति एतदपि विरुद्धं कथं, गृहस्थस्यैव स्मार्तकर्मणा समुचितात् ज्ञानान्मोक्षः प्रतिषिध्यते न त्वाश्रमान्तराणामिति कथं विवेकिभिश्शक्यमवधारयितुम् । किंच यदि मोक्षसाधनत्वेन सार्तानि कर्माण्यूर्ध्वरेतसां समुच्चीयन्ते, तथा गृहस्थस्यापीष्यतां स्मार्तेरेव मिति । उत्तरयति - तत्त्रेति । विशेषितः विशेषेणोक्तः आश्रम विकल्पमिति गृहस्थसन्न्यासाश्रमद्वय- विकल्पम् । ’ यावज्जीवमग्निहोत्रं जुहुया’ दिति श्रुतिर्यावज्जीवश्रुतिः । उक्त इति सन्न्यासे इति भावः । गीताशास्त्र यावज्जीवश्रुति चोदितकर्मरहिताद्ज्ञानान्नास्त्येव मोक्ष इति पूर्व विशेषतः प्रतिपाद्य ज्ञानयोगेन साङ्ख्यानां श्रेयःप्राप्तिरिति सन्न्यासिनां कथं यावज्जीवश्रुतिचोदितकर्मरहिताद्ज्ञानान्मोक्ष इत्युच्येत ? न कथमपीत्यर्थः । शङ्कते - तत्त्रैतत्स्यादिति । तत्रैतदुत्तरं स्यादित्यर्थः । किं तदत आह— गृहस्था - नामिति । आश्रमान्तराणां सन्न्यासादीनाम् । ननु ज्ञानयोगेन साङ्ख्यानामिति सन्न्यासिनां केवलाद्ज्ञानान्मोक्षो, न त्वाश्रमान्तराणामित्यस्य सर्वाश्रमाणां ज्ञानकर्मसमुच्चय इति वचनव्याघातेन दुष्टत्वे तर्हि केवलादित्यस्य श्रौतकर्मरहितादित्यर्थो वाच्यः, तथाच श्रौतकर्मरहिताद्ज्ञानात्सन्न्यासिनां मुक्तिः, गृहस्थानां तु नेति वाच्यं, अस्मिन्मते च सर्वाश्रमाणां ज्ञानकर्मसमुच्चयादेव मुक्तिरिति वचनस्य न व्याघातः । स्मार्तसमुच्चिताद्ज्ञानात्सन्न्यासिनां, श्रौतस्मार्तोभयकर्मसमुच्चिताद्गृहस्थानां च मुक्तिरिति सिद्धत्वादिति शङ्कते - अथ मतमित्यादिना । परिहरति– एतदपीति । गृहस्थानामेवं सन्न्यासिनां तु नैवमिति विवेको दुर्लभ इत्यर्थः । दोषान्तर- माह - किंचेति । यदेव ज्ञानं स्मार्तकर्मसमुच्चितं सत्सन्न्यासिनां मुक्तिप्रदं तदेव तथाविधं गृहस्थाना- मपि मुक्तिप्रदं भवतु, किंपुनः श्रौतकर्मणामपि समुच्चयेनेत्यर्थः । ननुं सन्न्यासगृहस्थयोरयमेव भेद:- अग्निहोत्रादिश्रौतकर्म सन्न्यासस्यैव सन्न्यासलक्षणत्वात् । ततश्च सन्यासिनश्श्रौतकर्म सन्न्यासविधानात्स्मार्त कर्मसमुच्चिताद्ज्ञानादेव केवलान्मुक्तिः, गृहस्थस्य तूभयसमुचिताद्ज्ञानादिति शङ्कते – अथेति, आरोपितमिति । शास्त्रेण भगवतेति वा कर्तुश्शेषः । इतः प्राक्स्मार्तकर्मसमुच्चितात्केवलाद्ज्ञानात्सन्न्यासिनां मोक्ष इत्यभ्युपेत्य पूर्वपक्षैर्व्यवहृतं, अथ ते तदप्यन- १०८. श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु समुच्चयो न श्रौतैः । अथ श्रीतैः स्मार्तेच गृहस्थस्यैव समुच्चयो मोक्षाय, ऊर्ध्वरेतसां तु स्मर्तिकर्ममालसमुच्चितात् ज्ञानान्मोक्ष इति, तत्रैवं सति गृहस्थस्यैवायासबाहुल्यं श्रौतं स्मार्त च बहुदुःखरूपं कर्म शिरस्यारोपितं स्यात् । अथ गृहस्थस्यैवायासबाहुल्य करणान्मोक्षस्स्यान्नाश्रमान्तराणां श्रौतनित्यकर्म रहितत्वा- दिति, तदप्यसत्— सर्वोपनिषत्स्वितिहासपुराण योगशास्त्रेषु च ज्ञानाङ्गत्वेन मुमुक्षोस्सर्वकर्म- सन्यासविधानात्, आश्रमविकल्पसमुच्चयविधानाच्च श्रुतिस्मृत्योः । सिद्धस्तर्हि सर्वाश्रमाणां ज्ञानकर्मणोस्समुच्चयः, न मुमुक्षोस्सर्वकर्मसन्न्यासविधानात्- ‘व्युत्थायाथ भिक्षाचर्यं चरन्ति तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः न्यास एवात्यरेचय’ दिति, ‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशु’ रिति चाब्रह्मचर्यादेव प्रव्रजेदित्याद्याः । ’ त्यज धर्ममधर्म च उभे भ्युपेत्य खाभिमतं समुच्चयवादं स्थापयितुं केवलाद्ज्ञानात्सन्यासिनामपि न मुक्तिरित्याहुः – अथ गृहस्थ- स्यैवेति । तत्र हेतुमाह - श्रौतानि यानि नित्यकर्माण्यग्निहोत्रादीनि तद्रहितत्वादिति । यद्येवं सन्न्यासिनां न मुक्तिस्तर्हि सन्न्यासाश्रमविधानमेव व्यर्थमिति परिहरति — तदप्यस- दित्यादिना । ज्ञानस्य मोक्षसाधनत्वाभावे ज्ञानाङ्गत्वेन सन्न्यासविधानं व्यर्थ, मुमुक्षोर्हि सर्वकर्म- सन्न्यासो विहितश्शास्त्रेण तस्मात्सन्न्यासिनामेव ज्ञाननिष्ठायामधिकारः । ज्ञानादेव कैवल्यमत एव गृहस्थस्य : ज्ञानाधिकारार्थं सन्यासाश्रमविधानमित्याह — आश्रमविकल्पविधनाच्चेति । यदि प्रजाकामः स्त्रियमुद्वहेत्, यदि विरक्तस्तर्हि ब्रह्मचर्यादेव प्रव्रजेदित्यादिशास्त्रेण सकाम निष्कामाघिकारिभेदेन गृहस्थसन्न्यासाश्रमविकल्पस्य विधानादित्यर्थः । क विधानमत आह-श्रुतिस्मृत्योरिति । शङ्गते - तर्हि सर्वाश्रमाणां ज्ञानकर्मणोरसमुच्चय सिद्धइति । केवलाद्ज्ञानान्मोक्षाभावात्सन्न्यासस्यच विधिदर्शनादस्ति सन्न्यासिनोपि समुच्चयः श्रौतस्मार्त कर्मभिः ज्ञानस्य मुक्त्यर्थमिति पूर्वपक्षाशयः । परिहरति —–नेति । हेतुमाह - मुमुक्षोरिति, सर्वेति । श्रौतस्मार्तात्मक सर्व कर्म सन्न्यासस्य विधानात् । क विधानमित्यत - स्तावच्छुतिं प्रमाणयति — व्युत्थायेति । गृहस्थाश्रमाद्व्युत्थाय सर्वाणि कर्माणि त्यक्त्वेत्यर्थः । तदेव हि गृहस्थाश्रमादुत्थानं नाम- गृहस्थाश्रमस्य कर्ममयत्वात् । सन्न्यस्येति यावत् । एषां सर्वेषां सत्यादीनां तपसां मध्ये न्यासं सन्न्यासमेव । तिरिक्तमुत्कृष्टं तप आहुः- विद्वांस इति शेषः । अत्यरेचयत् अति- चक्राम - सर्वाधिकमभूदित्यर्थः । लोकाः कर्मणा अमृतत्वं मोक्षं नानशुर्नप्रापुः, प्रजया नानशुः, एके कुशलिनः त्यागेन सर्वकर्मपरित्यागेन अमृतत्वमानशुः । ब्रह्मचर्यादेव प्रव्रजेत् सन्न्यसेत् इत्याद्या इत्याद्य- शब्दा ‘दात्मानमेव लोकमिच्छन्तः प्रव्रजन्ती’ त्या दिग्रहणम् । स्मृतीश्च प्रमाणयति - त्यजेति । धर्म- मधर्म च त्यज यज्ञयागादिधर्म:, हिंसादिरधर्मः । धर्मं त्यजेत्युक्ताव धर्मप्रवृत्तिस्यादित्यत आह–अधर्म त्यजेति । उभे द्वे सत्यानृते त्यज । एवं सत्यानृते उभे त्यक्त्वा, येन मनसेदमुभयं त्यजसि तन्मनश्च त्यज- नाहं मनः न मदीयं मन इति मनस्यहन्ताममतयोस्त्याग एव मनस्त्यागः । धर्माधर्मत्यागश्च गृह- स्थस्य न सम्भवति तस्य धर्मेष्यधिकारात् नित्यकर्माकरणे प्रत्यवायाश्च । अतो धर्माधर्मत्यागस्सन्न्यासिन 1 तृतीयोऽध्यायः । १०९ सत्यानृते त्यज । उभे सत्यानृते त्यक्वा येन त्यजसि तत्यज ॥ संसारमेवं निस्सारं दृष्ट्रा सारदिदृक्षया । प्रव्रजन्त्यकृदोद्वाहा: परं वैराग्यमाश्रिताः ॥’ इति बृहस्पतिः । ‘कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥’ इति शुकानु- शासनम् । इहापि च ‘सर्वकर्माणि मनसा सन्न्यस्येत्यादि । मोक्षस्य च अकार्यत्वान्मुमुक्षोः कर्मानर्थक्यम् । नित्यानि प्रत्यवायपरिहारार्थानीति चेन्न, असन्न्यासविषयत्वात् प्रत्यवायप्राप्तेः नह्यग्निहोत्राद्यकरणात् सन्न्यासिनः प्रत्यवायः कल्पयितुं शक्य: - यथा ब्रह्मचारिणां असन्न्यासिनामपि । न तावन्नित्यानामकरणात् अभा- ‘एवेति सन्न्यसोऽनेन विहित इति भावः । संसारमिति । एवं संसारं निस्सारं दृष्ट्रा निश्चित्य अकृ- तोद्वाहा: अकृतदारपरिग्रहास्सन्तः परमुत्कृष्टं वैराग्यमाश्रिता - विवेकिन इति शेषः । सारस्य आत्मनो दिदृक्षया प्रत्रजन्ति सन्न्यस्यन्ति । बृहस्पतिरिति- आहेतिशेषः । शुकस्मृतिमाह — कर्मणेति । जन्तुः कर्मणा पुण्यपापादिलक्षणेन बध्यते - देवमनुष्य तिर्यगादिजन्मप्राप्तिरूपं संसारं प्राप्नोतीत्यर्थः । विद्यया ज्ञानेन विमुच्यते मुक्तो भवति यस्मादेवं तस्मात् पारदर्शिनः तत्त्वविदः यतयः कर्म न कुर्वन्ति । प्रकृत- गीताशास्त्रं चोक्तार्थे प्रमाणयति — इहापि चेति । ‘सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नव- द्वारे पुरे देहे नैव कुर्वन्न कारय ’ न्निति । मुमुक्षोः सर्वकर्मसन्न्यास एव विहित इत्यत्र हेत्वन्तरमाह - कर्मानर्थक्यमिति । ननु न कर्माण्यनर्थकानि, किंतु मोक्षार्थानीत्यत आह-मोक्षस्य चाकार्यत्वादिति । यत्कर्मजन्यं तत्कार्ये, यथा घटः । सहि दण्डचक्रभ्रमणादिजन्यः । एवं यज्ञादिकर्मजन्यत्वात्स्वर्गादिफलानि कार्याणीत्युच्यन्ते, मोक्षस्तु न कार्यमिति कथं कर्मजन्यत्वं तस्य । अकार्यत्वे च ’ नास्त्यकृतः कृतेनेति’ श्रुतिः प्रमाणम् । किंच यदि मोक्षः कार्यस्स्यात्तर्हि स्वर्गादिवद्धटादिवच्चानित्य एव स्यात् । नित्यो हि मोक्षस्सम्प्रतिपन्नः । तस्मात्कर्मफलेषु स्वर्गादिषु पापपरिहारादिषु वा मुमुक्षोः कामाभावान्मोक्षस्या कर्म- जन्यत्वाच न मुमुक्षोः कर्मभिः कोऽप्यर्थ इति युक्तमेव मुमुक्षोस्सर्वकर्मसन्न्यासविधानम् । 1 ननु मुमुक्षोरपि नित्यकर्माण्यावश्यकानि प्रत्यवायपरिहारार्थकत्वान्नित्यानां कर्मणामिदमेव हि तन्नित्यत्वं यदकरणे प्रत्यवाय इत्याक्षिपति - नित्यानीति, असन्न्यासविषयत्वादिति । यैस्सर्व- कर्मसन्न्यासो न कृतश्शास्त्रोक्तः तेषामेव नित्यानामकरणे प्रत्यवायश्शास्त्रोक्तः । विहितस्याकरणं निषि- द्धस्य करणं हि दोषहेतुः । कर्माणि तु विहितानि पुंसस्सन्न्यासात्प्राक्, पश्चात्तु सन्न्यासस्यैव विहि- तत्वात्कथं कर्मविधानम् । नह्येकस्मिन्पुरुषे एकदा सर्वकर्मसन्न्यासविधिं सर्वकर्मविधिं च ब्रूयाच्छास्त्र - मीश्वरो वा । एवं सर्वकर्मसन्यासिनां नित्यकर्मकरणमेव दोषहेतुरविहितत्वादिति भावः । कुतो न शक्य इत्यत्र दृष्टान्तमाह– यथेति । अग्निहोत्रस्य दारपरिग्रहसमकालप्राप्तत्वान्नास्ति असन्न्यासिनामपि ब्रह्मचारिणामग्निहोत्रविधिः । विध्यभावादेवाग्निहोत्राकरणान्नास्ति तेषां प्रत्यवायः । तद्वद्विध्यभावस्य तुल्यत्वात्र सन्न्यासिनां नित्याकरणात्प्रत्यवायः । यद्वा ब्रह्मचारिणामिति व्यतिरेकदृष्टान्तः यथा सन्ध्या- वन्दनादिनित्या करणाह्मचारिणां प्रत्यवायस्तथेति । नित्यानामकरणात्प्रत्यवायमभ्युपेत्य तस्यासन्न्यास- ११० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु वादेव भावरूपस्य प्रत्यवायस्योत्पत्तिः कल्पयितुं शक्या, युक्ता च ‘कथमसतः सज्जाये’ तेति असतरसज्जन्मासम्भवश्रुतेः । यदि विहितकरणादसम्भाव्यमपि प्रत्यवायं ब्रूयाद्वेदः, तदानर्थकरो वेदोऽप्रमाणमित्युक्तं स्यात्, विहितस्य करणाकरणयोर्दुःखमात्र फलत्वात् । तथा च कारकं शास्त्रं न ज्ञापकमिति अनुपपन्नार्थं कल्पितं स्यात् नचैतदिष्टम् । तस्मात्सन्न्यासिनां न कर्माणि । अतः ज्ञान- विषयत्वमुक्तमितः प्राक्, इदानीं तु नित्यानामकरणात्प्रत्यवाय एव भवितुं नार्हतीत्याह – न तावदित्या- दिना । अत्र हेतुमाह - अभावादेवेति । नित्यानामकरण नाम नित्यकर्मकरणाभावः नञोऽभावार्थ- कत्वात् । प्रत्यवायो दोष:- सहि भावरूपः । अभावाद्भावस्योत्पत्तिः कल्पयितुं न शक्या, नापि युक्ता । तत्र श्रुतिं प्रमाणयति - कथमिति । असतस्सकाशात्सत्कथं जायेत ? न कथमप्रीत्यर्थः । एतेन घट- प्रागभावाद्धटोत्पत्तिं ब्रुवाणास्तार्किकाः प्रत्युक्ताः – अभावस्याभावत्वादेव भावप्रति कारणत्वायोगात् – नह्यभावाच्छशशृङ्गाद्यत्किञ्चिद्वस्तुत्पद्यमानं दृष्टं श्रुतं वा । " ननु ‘असदेवेदमग्र आसीत्ततो वै सदजायते ‘ति श्रुतिसिद्धा भावस्याभावादुत्पत्तिरितिचेत्, मैवम् - ‘सदेवेदमग्र आसीत् यतो वा इमानि भूतानि जायन्ते, तद्ब्रह्म, आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते, सन्मूलास्सोम्येमाः’ इत्यादिश्रुतिशत संवादादिहाप्यसच्छब्देन ब्रह्मण एव ग्राह्यत्वात् । जन्माधीनसत्ताभावस्तु ब्रह्मण्यसच्छब्दप्रवृत्तिनिमित्तम् । यद्वा प्रमाणप्रमेयाद्यभावादसत्कल्पत्वात्सदपि ब्रह्मासदित्युच्यते– ‘मेनेऽसन्तमिवात्मानं सुप्तशक्तिरसुप्तह’ गिति भागवतात् । किंच ’ तदैक्षत बहुस्या’ - मिति सङ्कल्पश्रवणं च कथमुपपद्येताभावस्य जगत्कारणताश्रयणे । नाभावश्चेतन:- भावधर्मत्वाच्चैतन्यस्येति । ननु अभावाद्भाव स्योत्पत्तिरशक्या अयुक्ता वा भवतु, तथापि अतीन्द्रियार्थे वेदस्यैव प्रमाणत्वा- नित्याकरणे प्रत्यवायस्य वेदोक्तत्वादभ्युपेय एव प्रत्यवाय इत्यत आह– यदीत्यादि, अप्रमाणमिति । असम्भाव्यार्थवर्णनादनर्थहेतुत्वाच्चेति भावः । अर्थवत्त्वस्यैव प्रमाणत्वात्मकत्वादिति गूढाशयः । तदेव विवृणोति –विहितस्येति । क्रियाकारकाद्यनेकोपकरणोपसंहारपूर्वकत्वाद्विहित करणस्य श्रमहेतुत्वेन दुःखहेतुत्वं सर्वजनानुभव सिद्धम् । विहिताकरणस्य प्रत्यवाय हेतुत्वेन दुःखहेतुत्वं तु शास्त्रसिद्धम् । अत उभयथापि दुःखमेव फलमित्यर्थः । तथा चेति । नित्यकर्मणां दुःखमात्र फलकत्वादित्यर्थः । कारक तद्विधायकं प्रवर्तकमिति यावत् । शास्त्र न ज्ञापकं न प्रमाणं इति अनुपपन्नार्थमयुक्तार्थमसम्भावितार्थ वा शास्त्र कल्पितं भगवतेति शेषः स्यात् । भवतु किं तत आह- नचैतदिष्टमिति । शास्त्रस्य भगव- दाज्ञारूपस्य प्रवृत्त्यात्मकस्य वेदस्य असम्भावितार्थत्वप्रयुक्तं दुःखार्थत्वप्रयुक्तं चाप्रामाण्यमित्येतदनिष्टमेव-: स्वतः प्रमाणत्वाद्वैदस्य सर्वपुरुषार्थज्ञानस्य वेदाधीनत्वेन वेदस्याज्ञापकत्वासम्भवाच्च । अयमाशयः – नित्यकर्मणां न प्रत्यवायपरिहारार्थत्वं कल्पयितुं शक्यं - उपात्तदुरितक्षयप्राजापत्यलोकचित्तशुद्धयादि- महाफलवत्त्वात्तेषाम् । ‘सन्ध्या येन न विज्ञाता सन्ध्या येनानुपासिता । जीवमानो भवेच्छूद्रो मृत- श्वानोऽभिजायत’ इत्यादिप्रत्यवायश्रवणं तु नित्यकर्माचरणेन दुरितक्षयं विधाय चित्तशुद्धिं सम्पाद्य ज्ञान - तृतीयोऽध्यायः । १११ 1 1 द्वारा मुक्ति प्राप्तुमर्ह द्विजदेहमासाद्य यः पुमान् नित्यकर्माकरणेनात्मानं नाशयति स आत्मघाती अन्ध तमः प्रपद्यते - ‘अन्धं तमः प्रपद्यन्ते ये केचात्महनो जना’ इति श्रुतेः इत्यभिप्रायकृतम् । यद्वा यो नित्यकर्मभिर्दुरितक्षयं न करोति, पुण्यं च न सम्पादयति, स पुमानितोपि हीनतरं श्वादिजन्म प्राप्नोति, पुण्यपापोभयलब्धं मनुष्यजन्म- नित्यकर्मानाचरणे तु पुण्याभावात्पापानिवृत्तेश्च पापबलाच्छ्रादिजन्मप्राप्ति- रिति बोध्यम् । सर्वथापि नित्यकर्माकरणान्न प्रत्यवायोत्पत्तिः, किंतु नित्यकर्माकरणे दुरितक्षयाद्यभावः पुण्याभाव विशिष्टदुरितात्तु श्वादिजन्मरूपप्रत्यवायोत्पत्तिरिति सर्वमनवद्यम् । तथाचेति वाक्यमन्यथा व्याख्यातमानन्दगिरिणा । तथाहि - नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदस्सम्पादयिष्यति, तथाच विहिताकरणप्रत्यवायपरिहारो विहितकरणे फलिष्यतीति- नेत्याह – तथाचेति । लोकप्रसिद्धपदार्थ- शक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकारादपूर्वशक्त्याधानायोगाद्ज्ञापकमेव शास्त्रमित्यर्थः । कारकत्वे च तस्या- प्रामाण्यम प्रत्यूहं स्यादित्याह - कारकमिति । भवतु शास्त्रस्याप्रामाण्यमित्याशङ्कया पौरुषेयतयाऽशेष- दोषानागन्धितत्वान्मैवमित्याह — नचेति । अस्यायमर्थः यद्यभावस्यापि भावोत्पादनसामर्थ्य वेद- स्सम्पादयिष्यतीत्युच्यते, तर्हि वेद: कारक एव स्यान्न तु ज्ञापक:- अपूर्वशक्त्याधायकत्वं कारकत्वं, लोकप्रसिद्धपदार्थशक्त्याश्रयणेन प्रवर्तकत्वं ज्ञापकत्वमिति विवेकः । यस्य यस्याग्न्यादिपदार्थस्य लोके । या या दाहकत्वादिशक्तिरस्ति तामनुसृत्यैव शास्त्रं होमादिविधिं विधत्ते, नतु पदार्थेष्वपूर्वी शक्ति कल्पयितु- मीष्टे - प्रत्यक्षविरोधात् - मानान्तराबा घिततात्पर्यविषय संसर्गबोधकं हि वाक्यं प्रमाणम् । अतएव अग्निना सिञ्चति वाक्यस्याप्रामाण्यं प्रत्यक्षेण बाधितत्वादग्निकरणकसेचनस्य । ततश्च नित्याकरणात्प्रत्यवाय इति वाक्यस्य मानान्तरबाधितत्वादप्रामाण्यमेव । अभावाद्भावस्योत्पत्तिर्हि प्रत्यक्षादिप्रमाणविरुद्वा । नचैवं वाक्यतात्पर्यविषयसंसर्गस्य मानान्तरेणैव सिद्धत्वात्संसर्गबोधकं वाक्यं व्यर्थमिति वाच्यं वृद्धप्रयु- क्तस्य गामानयेतिवाक्यस्य बालस्य गवानयनकर्मणि प्रवृत्तिजनकत्वेनान्यर्थत्वात् । ज्योतिष्टोमेन यजे- तेत्यादिवेदवाक्यानि तु सुतरां मानान्तरा सिद्धसंसर्गबोधकान्येवेति न तेषु वैयर्थ्यशङ्काऽवकाशः । तस्मा- द्वाक्यतात्पर्यविषयसंसर्गः मानान्तरसिद्धो भवतु वा, मावा, मानान्तराबाधितस्तु भवितव्यो ऽवश्यमिति कृत्वा शास्त्रं ज्ञापकमेव, नतु कारकं - पदार्थेषु विद्यमानां । शक्तिमनुस्मृत्यैव अस्मिन्वहौ एतदिन्द्रमुद्दिश्य एत- दाज्यहविः प्रदानेन यजमानस्य स्वर्गे भविष्यतीत्यज्ञातार्थं ज्ञापयतीति ज्ञापकमेव मज्ञातार्थज्ञापकत्वादेव शास्त्रं प्रमाणं, यद्ययोग्यमर्थं विदध्यात्तर्हि कारकत्वाच्छास्त्रमप्रमाणमेव स्यादिति भावः । शास्त्रं कारकं भवतीति शेषः । नतु ज्ञापकं भवति इत्यनुपपन्नार्थमयुक्तार्थं वाक्यमिति शेषः । कल्पितं स्यान्नित्या - करणात्प्रत्यवायवादिनेति शेषः । अनुपपन्नो वाक्यार्थः कल्पितस्स्यादित्यर्थः । इति भाष्यान्वयः । अन्यत्तुल्यम् । पूर्वव्याख्यानेपि इत्यनुपपन्नार्थं कल्पितं स्यादित्यस्य समनन्तरोक्तार्थोप्युपपद्यते, परंतु कारकं शास्त्रं ज्ञापकं न भवतीति पूर्वोक्तान्वयः, शास्त्रं कारकं भवति नतु ज्ञापकमिति समनन्तरोक्ता- न्वय इति विशेषः । कारकज्ञापकपदार्थ भेदस्तु दर्शित एवेति संक्षेपः । तस्मादिति । नित्यकर्मा - करणजन्मप्रत्यवायाभावादित्यर्थः । अत इति । मुमुक्षोस्सन्न्यासविधानादित्यर्थः । प्रश्नानुपपत्तिमेव 1 ११२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कर्मणोरसमुच्चयानुपपत्ति:- ज्यायसीचेदित्यर्जुनस्य प्रश्नानुपपत्ते । यदि हि भगवता द्विती- याध्याये ज्ञानं कर्म च त्वयैवानुष्ठेयमित्युक्तं स्यात्, ततोर्जुनस्य प्रश्नोनुपपन्नः - ‘ज्यायसी- चेत्कर्मणस्ते मता बुद्धिरिति । अर्जुनायचेत् बुद्धिकर्मणी त्वया अनुष्ठेये इत्युक्ते या कर्मणो ज्यायसी बुद्धिस्साप्युक्तैवेति ‘तत्कि कर्मणि घोरे मां नियोजयसी’ति प्रश्नो न कथं च नोपपद्यते । न चार्जुनस्यैव ज्यायसी बुद्धिर्नानुष्ठेयेति भगवतोक्तं पूर्वमिति कल्पयितुं युक्तं, येन ज्यायसीचेदिति प्रश्नः स्यात् । यदि पुनरेकस्य पुरुषस्य ज्ञानकर्मणोर्विरोधादनुष्ठानं न सम्भवतीति भिन्नपुरुषानुष्ठे- यत्वं भगवता पूर्वमुक्तं स्यात्, ततो प्रश्न उपपन्नः ज्यायसीचेदित्यादिः । अविवेकतः प्रश्न- कल्पनायामपि भिन्नपुरुषानुष्ठेयत्वेन भगवतः प्रतिवचनं नोपपद्येत, न चाज्ञाननिमित्तं भगवतः प्रतिवचनं कल्प्यं स्यात्, तस्माच्च भिन्नपुरुषानुष्ठेयत्वेन ज्ञानकर्मनिष्ठयो भगवतः प्रतिवचन- दर्शनात् ज्ञानकर्मणोः समुच्चयानुपपत्तिः, केवलादेव ज्ञानान्मोक्ष इत्येषोर्थो निश्चितो गीतासु विवृणोति - यदिहीत्यादिना । यदि ज्ञानकर्मणोस्समुच्चय एव श्रेयःप्राप्तिहेतु:, नत्वन्यतरत् तर्हि श्रेयस्कामायार्जुनाय भगवान् समुच्चयं कुर्वित्युपदिशेत् नतु कर्मण्येवाधिकार इति । अर्जुनश्च यदि कर्मापेक्षया ज्ञानमेव ज्यायः तर्हि किमिति कर्मणि मां नियोजयसीति नैव पृच्छेत्- समुच्चयस्यैवोप- दिष्टत्वादित्यर्थः । ननु अन्येषां समुच्चय उपदिष्टः, अर्जुनस्य तु कर्मैवेति कृत्वा प्रश्न उपपद्यत इति शङ्कते – नचेति । नचैवं कल्पयितुं युक्तमर्जुनस्य भक्तत्वाच्छ्रेयोर्थित्वाच्च हिततमोपदेशार्ह त्वात्कर्ममात्रोपदेशानु- ष्ठानोपदेशस्य मोक्षहेतुत्वेनाहिततमत्वाच्चेति भावः । येनेति । अर्जुनस्य कर्ममात्रोपदेशेनेत्यर्थः । ज्ञानानुष्ठानानुपदेशेनेति वा, येन कल्पनेनेति वा । अस्मिन्पक्षे तथा कल्पयितुमिति तथाशब्दस्य शेषः । प्रश्नस्यानुपपत्तिमुक्त्वा उपपत्तिं दर्शयति-यदि पुनरिति, विरोधादिति । कर्ताहं भोक्ताहमित्यह- कारपूर्वकत्वात्कर्मणः नाहं कर्ता, नाहं भोक्तेति ज्ञानविरोधः । ननु भगवता समुच्चय एव द्वितीयाध्याये प्रोक्तः, अर्जुनस्तु तदर्थमज्ञात्वा ज्ञाने केषाञ्चिदधिकारः कर्मणि तु स्वस्याधिकारः प्रोक्तो भगवतेति मत्वा ज्यायसीचेदिति पप्रछेत्यत आह- अविवेकत इति, भिन्नपुरुषानुष्ठेयत्वेनेति । ‘लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मिति साङ्ख्ययोगिरूपपुरुषद्वयानुष्ठेयत्वेनेत्यर्थः । ननु भगवानप्यविवेकादेव तादृश- मुत्तरमवोचदित्यत आह–नचेति । भगवति सर्वज्ञे भ्रमप्रमादादिदोपगन्धरहिते अज्ञानायोगादिति भावः । तस्माच्चेति । तस्माच्छन्दार्थ स्वयमेव विवृणोति - भिन्नपुरुषेति । एकपुरुषानुष्ठेयत्वे सति ज्ञानकर्मणोस्समुच्चयस्यादिति भावः । किंच यदि समुच्चय एव भगवदभिमतः अर्जुनाय प्रोक्तश्च, तर्हि – ’ तदेकं वद निश्चित्य येन श्रेयोहमाप्नुया’ मिति कथमर्जुनः ज्ञानकर्मणोरन्यतरदेव श्रेयः प्रापकं पप्रच्छ १५ तृतीयोऽध्यायः । ११३ सर्वोपनिषत्सु च । ज्ञानकर्मणोरेकं वद निश्चित्येति चैकविषयैव प्रार्थनानुपपन्ना- उभयो- सम्भवे । कुरु कर्मैव तस्माच्चमिति च ज्ञाननिष्ठाऽसम्भवमर्जुनस्यावधारणेन दर्शयिष्यति । अर्जुन :- ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ! तत्कि कर्मणि घोरे मां नियोजयसि केशव ! ॥१॥ ज्यायसीति । ज्यायसी श्रेयसीचेत् यदि कर्मणस्सकाशात्ते तव मता अभिनेता बुद्धि- ज्ञानं हे जनार्दन ! यदि बुद्धिकर्मणीसमुचिते इष्टे तदेकं श्रेयस्साधनमिति कर्मणो ज्यायसी बुद्धि- रिति च कर्मणोतिरिक्तत्वकरणं बुद्धेरनुपपन्नमर्जुनेन कृतं स्यात् नहि तदेव तस्मात्फलतो ऽ- इत्याह– ज्ञानकर्मणोरिति । भगवांश्च ‘मया समुच्चय एवोक्तः, किमित्थं त्वं भ्रान्तोऽसि ? न ह्यन्य- तराच्छ्रेयः प्राप्तुं शक्यं, तस्मात्त्वमुभयं कुर्वि’ त्येवात्र चतुर्थाध्याये ब्रूयात् नतु कुरु कर्मैव तस्मात्त्वमिति ब्रूयादित्याह – उभयेोरित्यादिना । ज्ञाननिष्ठाया असम्भवमिति समासः । अवधारणेनेति । कर्मै- वेत्येवकारेणेत्यर्थः । एतेन आत्मयाथात्म्यदर्शनपूर्वकं कर्म कर्तव्यमिति रामानुजमतं च प्रत्युक्तम्– आत्मयाथात्म्यदर्शनस्य साङ्ख्यविषयत्वात्कर्मणश्च योगिविषयत्वादक भोक्त्रात्मदर्शनस्य कर्तृत्वाद्यभिमान - पूर्वककर्मविरोधित्वाच्चेति । , 1 जनार्दन ! यदि कर्मणो बुद्धिर्ज्यायसीति ते मता । तर्हि हेकेशव ! मां घोरे कर्मणि किमिति नियो- जयसीत्यन्वयः । श्रेयसी श्रेयस्करीत्यर्थः । हेजनार्दन ! जनमर्दति गच्छतीति जनार्दनः सर्वान्तर इत्यर्थः । गत्यर्थानां ज्ञानार्थत्वात्सर्वज्ञ इति वा । जनैरर्धते याच्यते इति वा जनार्दनः तत्तत्पुरुषार्थसिद्धये जना एनं याचन्त इत्यर्थः । तत्सम्बुद्धिः । एतेन सर्वज्ञस्य सर्वान्तरस्य च तव यन्मतं तदेव सर्वसम्मतमिति सर्वपुरुषार्थप्रदेन त्वया यच्चोद्यते तत्करणमेव फलदमिति च सूच्यते । यदीति । यदि बुद्धिकर्मणी समुचिते इष्टे, तर्हि अर्जुनेन कृतं बुद्धेः कर्मणोऽतिरिक्तत्वं पृथक्त्वमधिकत्वं वाऽनुपपन्नं स्यात्, कुत्र कृतमर्जु- नेनेत्यत आह- तदेकमिति । ‘तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुया’ मिति, ज्यायसीचेत्कर्मणस्ते मता बुद्धिर्जनार्दने’ ति चात्रैवोक्तमित्यर्थः । ननु समुच्चयेपि कर्मातिरिक्ता बुद्धिस्स्यात्को दोषस्तत्राह - नहीति । तदेव तस्मात्फलतोऽतिरिक्तं नहिं स्यादित्यन्वयः । समुच्चयस्य कर्मज्ञानोभयरूपत्वेन कर्म बुद्धिश्चेत्युभयमप्येकमेव । एकसमुच्चयात्मकत्वादिति कृत्वा कथमेकात्मकयोः कर्मबुद्धयोः पृथक्त्वमुत्कर्षाद- कर्णौ वा स्याताम् ? न कथमपीत्यर्थः । ननु शिरः पाण्याद्यवयवसमूहात्मकेपि गात्रे यथा पादादिभ्यः शिरः प्रधानमित्युच्यते, तद्वत्कर्म - द्धयुभयात्मकेपि समुच्चये कर्मणो बुद्धिश्श्रेयस्करीत्युच्यत इति चेत्, मैवम् — दृष्टान्तदाष्टन्तिकयो- रुभयोरपि अवयवातिरिक्तस्यावयविनोऽभावात् । नहि शिरः पाण्याद्यतिरिक्तं गात्रमिति कश्चिदवयव्यस्ति, येन तदवयवान्यतमयोश्शिरः पादयोरुत्कर्षापकर्षावुच्येयाताम् । तथा कर्मबुद्धयतिरिक्तस्समुच्चय इति कश्चिदवयवी नास्ति, येन समुदायावयवान्यतरयोः ज्ञानकर्मणोरुत्कर्षापकर्षावुच्येयाताम् । तस्माच्छिर आद्यवयवानामेव गात्रमिति कर्मबुद्धयोरेव समुच्चय इति च संज्ञा । तथाच यथा शिरो गात्रं तथा११४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तिरिक्तं स्यात् तथा च कर्मणः श्रेयस्करी भगवतोक्ता बुद्धिः अश्रेयस्करं च कर्म कुर्विति मां प्रतिपादयसि तत्किन्नु कारणमिति भगवत उपालम्भमिव कुर्वन् तत्कि कस्मात् कर्मणि घोरे करे हिंसालक्षणे मां नियोजयसि केशवेति च यदाह, तच्च नोपपद्येत । अथ स्मार्तेनैव कर्मणा समुच्चयस्सर्वेषां भगवतोक्तः अर्जुनेन चावधारितश्चेत् तत्किं कर्मणि घोरे मां नियोजयसीत्यादि कथं युक्तं स्याद्वचनम् ॥ १ ॥ पादोपि गालमेव यथा कर्म समुच्चयस्तथा बुद्धिरपि समुच्चय एवेति सिद्धम् । ततश्च कर्मणो बुद्धिश्श्रेय- सीत्युक्तौ समुच्चयात् समुच्चयश्श्रेयानित्यापतितम् । तच्चायुक्तं- नहि तदेव तस्मात्फलतोऽतिरिक्तं स्यादिति । ननु तथासति ‘सर्वस्य गात्रस्य शिरः प्रधानमित्युक्तिः कथमुपपद्येतेति चेदुच्यते - अविवेकादिति । न ह्यवयवातिरिक्तावयविकल्पने अविवेकं विना हेतुरस्ति । नच पदाच्छिर उत्कृष्टमित्यस्य कथमुपपत्तिरिति वाच्यं, अवयव्यनभ्युपगमे सिद्धान्ते अवयवानामेकात्मकत्वाभावाच्छिरः पादयोः पृथगवयवयोरुत्कर्षापकर्षो सुष्टुपपद्यते । अतः प्रकृते च समुच्चयानभ्युपगमे कर्मज्ञानयो: पृथग्भूतयोरुत्कर्षापकर्षौ स्यातामेवेति । एतेन कर्मज्ञानसमुच्चय इति कश्चन पदार्थो दुर्निरूप इति व्यक्तम् । तथाचेति । कर्मणो बुद्धेरति- रिक्तीकरणेन कर्मज्ञानयोस्समुच्चयस्यासिद्धत्वादित्यर्थः । हेकृष्ण भगवता त्वयोक्ता बुद्धिः कर्मणः श्रेय- स्करी मास्तु, अश्रेयस्करं कर्म कुर्विति प्रतिपादयसि तत्तत्र किन्नु किं वा कारणम् इति भगवत उपालम्भं कुर्वन्निव, अजुनो यदाह– तच्च नोपपद्यते इत्यन्वयः । किमाहेति शङ्कायां श्लोकस्योत्तरार्थं व्याचष्टे - तत्किमित्यादिना । तत्तर्हि हेकेशव ‘क इति ब्रह्मणो नाम ईशोहं सर्वदेहिनाम् । आवां तवाङ्गे सम्भूतौ तस्मात्केशवनाम ते’ इति स्मरणाद्ब्रह्मरुदकारणम् । एतेन सर्वजगत्कर्तस्सर्वाधिपस्य तव मम कर्मसु प्रेरणं नोचितमिति प्रतीयते । अथवा ब्रह्मरुद्राधिपस्त्वं येन केनापि हेतुना मां कर्मणि नियोजयसि, नतु वृधा नाप्यमर्षेण, किंतु स हेतुः मम दुरधिगमः, न केवलं मम, किंतु ब्रह्मरुद्रयोरपि । अतः पृच्छामि कस्तत्र हेतुरिति । इदमेव सूचयितुं श्री भाष्यकारैः प्रयुक्तमुपालम्भमिव कुर्वन्नितीव - पदम् । न तु वस्तुत उपालम्भं करोतीत्यर्थः । । ॐ एतावता ग्रन्थसन्दर्भेण गृहस्थस्य श्रौतस्मार्त कर्मसमुच्चितात् ज्ञानान्मुक्तिः, ऊर्ध्वरेतसां तु स्मार्त- कर्मसमुच्चिताद्ज्ञानान्मोक्ष इति च पूर्वपक्ष: । तत्प्रसङ्गागतमन्यच्च खण्डितम् । पुनः पूर्वपक्षयति स्मार्तकर्म - समुचितादेव सर्वाश्रमिणां मोक्षः, न केवलज्ञानादिति । अथेत्यादिना दूषयति - तत्किमित्या- दिना । घोरे कर्मणीत्यनेन युद्धकर्म सिद्धम् । तद्धि स्मार्तं स्मार्तकर्मसमुच्चितं ज्ञानं त्वयानुष्ठेयमिति भगवता प्रोक्तेसति, कथमर्जुन’ स्तत्कि कर्मणि घोरे मां नियोजयसि केश’ वेति भगवन्तं पृच्छेत् ? कथं वा ‘ज्यायसीचेत्कर्मणस्ते मता बुद्धिर्जनार्द’ नेति कर्मापेक्षया । ज्ञानस्य श्रेयस्त्वं वदेत् ? कथं वा ‘तदेकं बंद निश्चित्ययेन श्रोहमाप्नुया’ मिति पृच्छेत् ? अथ यदि भगवतोक्तोऽर्थोर्जुनेनानवधारित इत्युच्येत, तर्हि भगवानपि मया स्मार्त कर्मज्ञानसमुच्चय एवोक्तः, त्वया तु नाधिगतमिति किमिति नावोचत् ? लोकेस्मिन् द्विविधा निष्ठेति कर्मज्ञानयोर्मिन पुरुषानुष्ठेयत्वं किमिति ब्रूयात् ? तस्मात्केवलादेव ज्ञाना- मोक्ष इति गीतासूपनिषत्सु च निश्वितोर्थ इति पूर्वेण सम्बन्धः ॥१॥ L 3 ड • तृतीयोऽध्यायः । व्यामिश्रेणेव वाक्येन बुद्धि मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ||२|| 1 ११५ किंच व्यामिश्रेणेति । व्यामिश्रेणेव यद्यपि विविक्ताभिधायी भगवान् तथापि मम मन्दबुद्धेः व्यामिश्रमिव भगवद्वाक्यं प्रतिभाति, तेन मम बुद्धिं मोहयसीव मम बुद्धेः व्यामोहापनयाय हि प्रवृत्तस्त्वं तु कथं मोहयसि, अतो ब्रवीमि बुद्धिं मोहयसीव म इति । तत्र भिन्नकर्तृकयोः ज्ञानकर्मणोरेक पुरुषानुष्ठानासम्भवं यदि मन्यसे तत्रैवं सति तत्तयोरेकं बुद्धिं कर्म वा इदमेवार्जुनस्य योग्यं स्वबुद्धिशक्त्यवस्थानरूपमिति निश्रित्य वद- येन ज्ञानेन कर्मणा वान्यतरेण योहमाप्नुयाम् । यदीह कर्मनिष्ठायां गुणभूतमपि ज्ञानं भगवतोक्तं स्यात्, कथं तयोरेकं वदेत्येकविषयैव अर्जुनस्य शुश्रूषा स्यात् ? नहि भगवतोक्तं पूर्व- मन्यतरदेव ज्ञानकर्मणोर्वक्ष्यामि नैव द्वयमिति येनोभयप्राप्त्यसम्भवमात्मनो मन्वान एकमेव प्रार्थयेत् ||२|| व्यामिश्रेणेति । इवशब्दान्न वस्तुतो व्यामिश्रमिति प्रतीयत इत्यभिप्रेत्याह – यद्यपीत्यादि । विविक्तं विस्पष्टमभिधत्त इति विविक्ताभिधायी व्यामिश्रमविविक्तं- संकीर्णमितियावत् । कर्मज्ञानविषय- विवेकरहितमिति परमार्थः । मोहयसीवेत्यत्रापीवशब्दाद न वस्तुतो मोहयसीति प्रतीतमित्याह — ममेत्यादिना, तत्रेति । व्यवहारभूमावित्यर्थः । तत्रैवंसतीति भागवते मते एवंरीत्या निश्चिते सती- त्यर्थः । गुणः अप्रधानं - ‘गुणस्त्वावृत्तिशब्दा दिज्येन्द्रियामुख्यतन्तु’ ष्विति कोशः । गुणेन तुल्यं गुणभूतं नित्यसमासः । शुश्रूषा श्रोतुमिच्छा । / पुनरपि समुच्चयवादं निराकरोति - यदीहेति । ज्ञानयुक्तं कर्म त्वयानुष्ठेयमिति भगवतोत कथमर्जुनस्तयोरेकं मे ब्रूहीति प्रार्थयेत ? न कथमपीत्यर्थः । ननु समुच्चयएव भगवतो मतः, किं तु समुच्चयस्सविवेकवत्पुरुषधौरेयविषयः, तत्र नास्त्यर्जुनस्य प्रवेष्टुं शक्तिरित्यभिप्रेत्य भगवता अन्यतरदेव कर्तव्यत्वेनार्जुनायोपदिष्टमित्यत आह-नहीति । किंच ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना- मिति निष्ठाद्वयमेवोवाच भगवान्न तु विवेकवत्पुरुषधौरेयानुष्ठेयां समुच्चयात्मिकामन्यां निष्ठाम् । तस्मा- नास्ति समुच्चयोपपत्तिः । ननु कर्मण्येवाधिकारस्ते इति भगवता अर्जुनाय कर्मैव श्रेयस्करत्वेन निश्चित्योक्तमेवेति पुनः कथमर्जुनस्य प्रश्नावकाश इतिचेत्, सत्यम् - अतएव ‘तत्किं कर्मणि घोरे मां नियोजयसी’त्युपालब्ध- बान् पार्थः । परं तु भगवता द्वितीयाऽध्याये सामान्यतः कर्मयोगः विस्तरतो ज्ञानयोगश्च प्रतिपादितः । अर्जुनस्तु स्नेहकारुण्यादिभीतो युद्धकर्मणो निवृत्तः ज्ञानयोगमवलम्ब्य भिक्षाटनमेव मे श्रेय इति कृत- निश्चय इति ‘गुरू महत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्षमपीह लोके’ इति श्लोकेन सूच्यते । ततश्च सन्न्यासएव कृतप्रीतेः सन्न्यासएव साक्षान्निश्रेयस्साधनमिति भगवदुत्क्या निश्चितवतश्चार्जुनस्य कर्म- ण्येवाधिकारस्ते इत्येतावन्मात्रोपदेशेन न कर्मणि प्रवर्तितुमिच्छा जाता, नापि सन्न्यासान्निवर्तितुमतएव पृच्छति - तदेकं निश्चित्य वदेति । ११६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेत|सु श्रीभगवान् लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ !
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् || ३ || प्रश्नानुरूपमेव प्रतिवचनं श्रीभगवानुवाच — लोक इति । लोकेस्मिनशास्त्रार्थानुष्ठाने-
यद्यपि यथा पूर्वमेव कर्मैव तव श्रेय इति वक्ष्यति भगवानिति वेदैवार्जुन:, तथापि कस्माद्ज्ञान- योगेहं न नियोजितः कुतो वा कर्मयोगे नियोजितः, सति साक्षाच्छ्रेयः प्रदे ज्ञानयोगे किमिति कर्म- योगश्शास्त्रेणोच्यते- इत्यादिहेतूपशमपूर्वकं कर्मयोगस्य माहात्म्यं श्रोतुकामः पप्रच्छ तथार्जन इति । - अथवा कर्मण्येवाधिकारस्त इति कर्मोपदिष्टमर्जुनाय, बुद्धौ शरणमन्विच्छेति साङ्ख्यं चोपदिष्टं द्विती- याध्याये । अतः पृच्छत्यर्जुनस्तदेकं वद निश्चित्येति । वस्तुतस्तु न कृष्णेन तथा व्यामिश्रमभिहितं, किं तु विविक्तमेव । कथं तावत्कर्मयोगं कुरु पश्चाश्चित्तशुद्धौ परमार्थज्ञानशरणो भवेति ‘श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसीत्युक्तत्वात्- अर्जुनस्तु एतदविदित्वा तथा प्रपच्छेति बोध्यम् । यत्तु रामानुजः - आत्मावलोकन साधनभूतायास्सर्वेन्द्रियव्यापारोऽपरतिरूपाया ज्ञाननिष्ठाया- स्तद्विपर्ययं कर्म कुरु, तदेव साधनमिति वाक्यं व्यामिश्रं विरुद्धमेव । तस्मादेकममिश्ररूपं वाक्यं वद- येन वाक्येनाहमनुष्ठेयरूपं निश्चित्य श्रेयः प्राप्नुयामिति बभाषे तत्तुच्छम् — कर्मयोगनिष्पाद्यो ज्ञान- योग इत्युक्तस्य वाक्यस्य कथं विरुद्धत्वं यदि तु कर्मयोग एव ज्ञानयोग इत्युच्येत तर्हि भवतु विरोध:- इन्द्रिय व्यापारतदुपरमरूपत्वादुभयोः । नचेन्द्रियव्यापारसाध्यत्व मिन्द्रियव्यापारोपरमस्य विरुद्धमिति वाच्यं, ‘तदुदितस्स हि यो यदन- न्तर’ इति यदनन्तरन्यायेन इन्द्रियव्यापारानन्तरजन्याया निद्राया इन्द्रियव्यापारोपरतिरूपाया दर्शनात् । तथा व्यामिश्रं विरुद्धमेकमविरुद्ध- मनोव्यापारोपरमस्येन्द्रियनिग्रहादिरूपमनोव्यापारसाध्यत्वदर्शनाच्च मित्यर्थवर्णनमप्ययुक्तम्- ताभ्यां तादृशार्थालाभात् । तथा कर्मयोगनिष्पाद्या बुद्धिर्यदि ज्यायसीति ते मता, तर्हि किमिति मां कर्मणि नियोजयसी- स्युपालम्भोप्यनुपपन्नः कर्मणि नियुक्तेन कर्मयोगे साधिते सति तन्निष्पाद्यज्ञानयोगलाभात् । बुद्धि- कर्मणी प्रकृत्य एकं वदेत्यनेन तयोरेकमित्येवार्थस्य स्वरसतस्सिद्धत्वात् वदेत्यनेनैवेष्टसिद्धौ वाक्यं वदेति व्याख्यानस्य पौनरुक्त्यावहत्वाच्च । , निश्चित्येत्यस्योत्तरवाक्यान्वयोप्यसाधुः- भगवतोक्तेर्थे स्वनिश्चयस्यानपेक्षत्वात् । यद्यथा भगव- तोक्तं तत्तथैव कर्तव्यखलु । कः पुनरर्थस्तत्र पुरुषस्य निश्चयेन । नच निश्चित्य वदेत्यन्वये भगवत- स्सर्वज्ञत्वभङ्गप्रसङ्ग इति वाच्यं यथा मम वाक्यार्थो निर्णीतस्स्यात्तथा वदेति विवक्षितत्वेनादोषात् । येनेत्यस्य वाक्येनेत्यर्थोप्ययुक्तः श्रेयः प्राप्तौ यत्करणं तस्यैवेहाकांक्षितत्वात् - वाक्येन केवलेन श्रेयोऽलाभान्न तस्य करणत्वं, वाक्यस्यैव त्वं कर्मैव न कुर्विति निश्चयात्मकत्वेन वाक्येन निश्चित्येत्यप्ययुक्तं - इति ॥२॥ लोके इति, प्रश्नानुरूपमिति । नतु वृत्तिकारादिमतवत्प्रश्नाननुरूपमित्यर्थः । श्रीभगवान् तृतीयोऽध्यायः । ११७ धिकृतानां त्रैवर्णिकानां द्विविधा द्विप्रकारा निष्ठा स्थितिः अनुष्ठेयतात्पर्य पुरा पूर्व सर्गादौ प्रजाः सृष्ट्रा तासामभ्युदयनिश्रेयसप्राप्तिसाधनं वेदार्थसम्प्रदायं कुर्वता मया प्रोक्ता सर्वज्ञे- नेश्वरेण । अनघ अपाप । का सा द्विविधा निष्ठेत्यत्राह - तत्र ज्ञानयोगेन ज्ञानमेव योगः तेन साङ्ख्यानां आत्मानात्मविषय विवेकज्ञानवतां ब्रह्मचर्याश्रमादेव कृतसन्न्यासानां वेदान्त- विज्ञानसुनिश्चितार्थानां परमहंसपरिव्राजकानां ब्रह्मण्येवास्थितानां निष्ठा प्रोक्ता, कर्मयोगेन कर्मैव योगः कर्मयोगः तेन योगिनां कर्मिणां निष्ठा प्रोक्तेत्यर्थः । यदि चैकेन पुरुषेणैवैकस्मै पुरुषार्थाय ज्ञानं कर्म च समुच्चित्य अनुष्ठेयं भगवतेष्टमुक्तं वक्ष्यमाणं वा गीतासु वेदेषु चोक्तं कथमिहार्जुनायोपपन्नाय प्रियाय विशिष्टभिन्न पुरुषकर्तृ के एव ज्ञानकर्मनिष्ठे ब्रूयात्, यदिपुनरर्जुनः ज्ञानं कर्म च द्वयं श्रुत्वा स्वयमेवानुष्ठास्यति अन्येषां तु भिन्नपुरुषानुष्ठेयतां वक्ष्यामीति मतं भगवतः कल्प्येत, तदा रागद्वेषवानप्रमाणभूतो भगवान् कल्पितस्स्यात्तच्चायुक्तं तस्मान्न समुच्चयो ज्ञानकर्मणोः । यदर्जुनेनोक्तं कर्मणो ज्यायस्त्वं बुद्धेः तच्च स्थितमनिराकरणात् । तस्याश्च सन्न्यासिनैवानुष्ठेयत्वं भिन्नपुरुषानुष्ठेयत्ववचनात् भगवत एवमेव अनुमतमिति गम्यते ॥ ३ ॥
प्रश्नानुरूपमेव प्रतिवचनमुवाचेत्यन्वयः । त्रैवर्णिकाः ब्रह्मक्षत्रियवैश्याः । शूद्राणां तु नास्त्यधिकार इति भावः । युज्यत इति योगः । यद्वा युज्यतेनेनेति योग उपाय:- पुरुषार्थप्राप्तिसाधनत्वादिति भावः । आत्मानात्मविषयो विवेक: अयमात्मा इदमनात्मेति स एव ज्ञानं तद्येषामस्ति तेषां तथोक्तानाम् ! साङ्ख्यं ज्ञानं तदेषामस्तीति साङ्ख्या इति व्युत्पादित्वादिति भावः । के ते साङ्ख्या अत आह— ब्रह्मचर्या - दिति । ‘वेदान्तविज्ञानसुनिश्चितार्थास्सन्न्यासयोगाद्यतयश्शुद्धसत्त्वा’ इति श्रुतिमिहानुक्रामयति- वेदान्तेति । वेदान्तविज्ञानं वेदान्तशास्त्रश्रवणं तेन सुष्टु निश्चितः अर्थः परमार्थतत्त्वमात्मा यैस्ते वेदान्तविज्ञानसुनिश्चितार्थाः, यद्वा वेदान्तैर्जातं यद्विशिष्टं ज्ञानं ब्रह्माहमस्मीत्याकारकं तेन सुनिश्चितोऽर्थः परमपुरुषार्थो मोक्षः येषां ते तथोक्ताः । ब्रह्मण्येवेत्येवकारान्नाविद्याकृतकर्मव्यवहारे इत्यर्थः । हे अनघ अस्मिन् लोके पुरा मया साङ्ख्यानां ज्ञानयोगेन योगिनां कर्मयोगेन च द्विविधा निष्ठा प्रोक्तेत्यन्वयः । पुनस्समुच्चयवादं निराकरोति — यदिचेत्यादिना । उपपन्नः प्रपन्नः । विशिष्टेति । साङ्ख्य- त्वयोगित्वविशेषणविशिष्टेत्यर्थः । विशिष्टौ भिन्नौ पुरुषौ कर्तारौ ययोस्ते विशिष्टभिन्न पुरुषकर्तृके अनु- ष्ठास्यतीति द्वयमिति कर्म । रागद्वेषेति । यथा मत्प्रियशिष्योऽर्जुनः कर्मज्ञानसमुच्चयमनुष्ठाय मुच्येत, यथा चेतरे अन्यतरदनुष्ठाय न मुच्येरन्, तथा मया वक्तव्यमिति कपटबुद्धया यदि भगवान् प्रवर्तेत, तर्हि जीववत्सोपि रागद्वेषवत्त्वेनाग्राह्यवाक्य एव स्यात् । तच्चायुक्तमिति । अपहतपाप्मनि सर्वसमे सर्वसुहृदि भगवति रागद्वेषादिदोषाप्रसङ्गादिति भावः । स्थितमिति । सिद्धान्तितमित्यर्थः । तत्र हेतुमाह—अनिराकरणादिति । न कर्मणो बुद्धिर्ज्यायसीति भगवताऽनिराकृतत्वादर्जुनो कार्थस्येत्यर्थः । तस्याश्च बुद्धेरित्यर्थः । सन्न्यासिनैवेति । ज्ञानयोगेन साङ्ख्यानामित्युक्तत्वादिति भावः । सर्वकर्म - सन्न्यासरूपज्ञाननिष्ठायाः कर्मिगृहस्थाविषयत्वादिति तत्त्वम् । अनुमतमङ्गीकृतं सम्मतमिति यावत् ॥३॥
तृतीयोऽध्यायः । ११९ स्वेन- ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेने त्यादिना कर्मयोगस्य ज्ञानयोगो- पायत्वं प्रतिपादितम् । इहापि च– ’ सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् |’ इत्या- दीनि प्रतिपादयिष्यति । ननु च - ‘अभयं सर्वभूतेभ्यो दत्वा नैष्कर्म्यमाचरे’ दित्यादौ कर्तव्यकर्म सन्न्यासादपि नैष्कर्म्यप्राप्तिं दर्शयति, लोके च कर्मणामनारम्भान्नैष्कर्म्यमिति प्रसिद्धतरम् । अतश्च नैष्क- मर्नार्थिनः किं कर्मारम्भेणेति प्राप्तमत आह-नच सन्न्यसनादेवेति । नापि सन्न्यसनादेव केवलात्कर्मपरित्यागमात्रादेव ज्ञानरहितात्सिद्धिं नैष्कर्म्यलक्षणां ज्ञानयोगेन निष्ठां समधि- गच्छति न प्राप्नोति ॥४॥ न हि कचित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥५॥ 1 कस्मात्पुनः कारणात्कर्मसन्न्यासमात्रादेव ज्ञानरहितात्सिद्धिं नैष्कर्म्यलक्षणां पुरुषो नाधिगच्छतीति हेत्वाकांक्षायामाह — नेति । नहि यस्मात्क्षणमपि कालं जातु कदाचित् लोक आत्मलोकस्तस्य वेदनं ज्ञानं तदुपायत्वेन विविदिषन्ति वेत्तुमिच्छन्ति । आदिपदात् दानेन तपसाऽनाशकेनेति संग्रहः । तमेतमिति । वेदः ज्ञानयोगमुपेयम्प्रति कर्मयोग उपाय इत्युवाच वेद- व!दयज्ञदानतपोभिः कर्मभिर्विविदिषा जायत इत्युक्तत्वादिति भावः । सन्न्यासस्त्विति । हेमहाबाहो सन्न्यासस्तु अयोगतः कर्मयोगं विना आप्तुं दुःखमशक्य इत्यर्थः । 1 अभयमिति । ‘भूताभयप्रदानस्य कलां नार्हन्ति षोडशी’ मिति शास्त्रात्सर्वभूतेभ्यो ऽभयं दत्वे- युक्तम् । लोकेति । कर्म राहित्यस्य कर्मानाचरणप्रयुक्तत्वादिति भावः । अतश्चेति । कर्म राहि- त्यस्य कर्मसन्न्यासपूर्वकत्वादित्यर्थः । नैष्कर्म्यार्थिन इति । दारिद्र्यार्थिनः कृष्याद्यारम्भ इव नैष्क- र्यार्थिनः कर्मारम्भो उपहास्यास्पद इति भावः । प्राप्तमिति । पूर्वपक्ष: प्राप्त इत्यर्थः । अत आहेत्युत्तर - पक्षमिति शेषः । एवकारार्थमाह- केवलाद्ज्ञानरहितादिति । अयं भावः — ज्ञानसहितात्कर्मसन्न्यासान्नैष्कर्म्यं प्राप्यते पुंसा, तस्तु ज्ञानं सत्त्वशुद्धिद्वारा कर्मयोगसाध्यम् । तस्मात्कर्मणामारम्भादेव सत्त्वशुद्धिद्वारा ज्ञानसहितं कर्मसन्न्यासं कृतदतो नैष्कर्म्य - प्राप्तिरिति । यत्तु रामानुज:- अनारम्भादनुपक्रमात्, सन्न्यसनादारब्धस्य मध्ये त्यागादित्यभाषत, तत्तुच्छम् - यदा तु कर्मणामनारम्भान्न सिद्धिरित्युक्तं तदैव प्रारब्धकर्म सन्न्यासान्न सिद्धिरिति सिद्ध- मेवेति पुनस्तत्कथनस्य व्यर्थत्वात् । न ह्ययुमाप्तस्य कर्मणः फलहेतुत्वं कोपि शङ्कते - असमाप्तकृष्यादेः फलहेतुत्वादर्शनात् । किंच सन्न्यसनादेवेत्येवकारश्चास्मिन्मते व्यर्थः ॥ ४ ॥ नहीति । हि कश्चित् क्षणमपि जातु अकर्मकृत्सन् न तिष्ठतीत्यन्वयः । सर्व इत्यनेन ज्ञान्य- १२० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कश्चित्तिष्ठति अकर्मकृत्सन् कस्मात् कार्यते प्रवर्त्यते हि यस्मात् अवश एव कर्म सर्वः प्राणी प्रकृतिजैः प्रकृतितो जातैः सत्त्वरजस्तमो भिर्गुणैः। अझ इति वाक्यशेषः । यतो वक्ष्यति गुणैर्यो न विचाल्यत इति साङ्ख्यानां पृथकरणात् अज्ञानमेव हि कर्मयोगः न ज्ञानिनां, ज्ञानिनां तु गुणैरचाल्यमानानां स्वतश्चलनाभावात् कर्मयोगो नोपपद्यते, तथाच व्याख्यातं ‘वेदाविनाशिनं नित्य’ मित्यत्र || ५ || ज्ञानिरूपसकलजनग्रहणशङ्कायामाह – अज्ञ इति । एवं सर्वशब्दसंकोचे हेतुमाह-यत इति । नन्वेतेन नच सन्न्यसनादेव सिद्धिं समधिगच्छतीत्यत्र को हेतुरिति प्रश्नस्य किमुत्तरमायात- मितिचेदुच्यते-अज्ञस्य कर्मसन्न्यास एवासिद्धः । यतस्सत्त्वादिगुणचोदितस्सर्वोप्यज्ञजनस्तद्गुणानुरूपं शुभमशुभ मिश्र वा कर्म अवश एव करोति । क्षणकालमप्यकर्मन्न वर्तत इति । नन्वेवं यदि अज्ञस्य सन्न्यास एव न सिद्ध्यति, तर्हि ज्ञानरहितात्सन्यासात्सिद्धिर्नास्तीति कथ- मुक्तं ज्ञानरहितसन्न्यासस्यास्तित्वम् ? दृश्यन्ते च बहवस्सन्न्यासिनः परमज्ञा इदानीमपीति कथमज्ञस्य सन्न्यासाभावो वेतिचेत्, मैवम् — यतस्सशिखायज्ञोपवीतमग्निहोत्रादि कर्म त्यक्त्वा काषायाम्बरं धृत्वा अज्ञासन्न्यासिनो लोके चरन्तो दृश्यन्ते तत एवोक्तम् - नच सन्न्यसनादेवेति । य एवमज्ञ आत्मानं सन्न्यासिनं मन्यते नतु स वस्तुतस्सन्न्यासी, क्षणकालमपि तस्याकर्मकर्तृत्वेन स्थित्यभावात् अत उक्तमज्ञस्य नाम्ति सन्न्यास इति । शिखायज्ञोपवीतत्यागादिमात्रलक्षणात्सन्न्यासाल्लोकप्रसिद्धान्नास्ति सिद्धि: - यतस्तादृशसन्न्यासवा न्पुरुषो न शास्त्रसिद्धसन्न्यासवान् ज्ञानपूर्वक सन्न्यासस्यैव शास्त्रसिद्ध सन्न्यासत्वादिति पर्यवसन्नार्थः । ननु योऽज्ञस्सन्न्यासी सोपि नाग्निहोत्रादिकं कर्म करोति, यश्च ज्ञस्सन्न्यासी सोपि न तथा, यच्च ज्ञस्सन्न्यासी भिक्षाटनादिकं कर्म करोति तदेवाज्ञस्सन्न्यास्यपि करोति, एवं स्थिते अज्ञ एव क्षणम- प्यकर्मकृन्न वर्तत इति कुत उच्यते इतिचेत् । सत्यम् - - यदेव ज्योतिष्टोमादिकं कर्म सकामानां खर्गादिफलदं तदेव निष्कामानां स्वर्गादि- फलप्रदं यथा, तथा यदेव भिक्षाटनादिकर्म अज्ञसन्न्यासिनां कर्मायते, तदेव विदुषां न कर्मायते - कर्तृ- त्वाभिमानाद्यभावात् । नहि विद्वानात्मानमविक्रियं सच्चिदानन्दं ब्रह्म- भिक्षाटकं शाटीघरं कपालिनं मुण्डिनं वा मन्यते । अतो नास्ति नित्याविक्रियात्मदर्शिनः कर्मकर्तृत्वम् | अविद्वांस्तु आत्मानं भिक्षा- टकं शाटीधरं कपालिनं मुण्डिनं मन्यते तस्य देहात्मभ्रान्त्यनपगमात् । अतस्तस्यास्ति कर्मकर्तृत्वम् । तस्माद्युक्तमुक्तमज्ञ इति वाक्यशेष इति । उत्तरार्थेऽन्वयो बहुधा सम्भवति तथाहि - हि सर्वः अवशस्सन्नेव प्रकृतिजैर्गुणैः कर्म प्रति कार्यते प्रवर्त्यते - अवशः सर्व इति च । सर्वो गुणैः कर्म कार्यत इति द्विकर्मककर्मणि प्रयोग इति च ण्यन्ता- त्करोतेः कर्मणि तङ् । गुणास्सर्वं कर्म कारयन्तीत्यर्थः । कुर्वाणं प्रेरयति कारयतीति हेतुमणिच् । सर्वथापि प्रकृतिजैर्गुणैः प्रेरितत्सर्वोऽवशएव कर्म करोतीति फलितार्थः ||५|| १६ तृतीयोऽध्यायः । कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्त्रिमूढात्मा मिथ्याचारस्स उच्यते ॥ ६ ॥ 1 १२१ यस्त्वनात्मज्ञचोदितं कर्म नारभत इति तदसदित्याह — कर्मेन्द्रियाणीति । कर्मेन्द्रि- याणि हस्तादीनि संयम्य संहृत्य य आस्ते तिष्ठति, मनसा स्मरन् इन्द्रियर्थान् विमूढात्मा चिमूढान्तःकरण: मिथ्याचार : मृषाचारः हेयाचारस्स उच्यते ॥ ६ ॥ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ! कर्मेन्द्रियैः कर्मयोगमसक्तस्स विशिष्यते ||७|| य इति । यस्तु पुनः कर्मण्यधिकृतो ज्ञः बुद्धीन्द्रियाणि मनसा नियम्यारभतेऽर्जुन कर्मेन्द्रियाणीति । यो विमूढात्मा कर्मेन्द्रियाणि संयम्य इन्द्रियार्थान् मनसा स्मरन्नास्ते, स मिथ्या- चार इत्युच्यते । यस्त्विति तुशब्दादात्मज्ञस्य नास्ति कर्मचोदनेति वैलक्षण्यं द्योत्यते । कर्मेन्द्रियाणीति– भाषणग्रहणगमनविसर्जनमैथुनाख्यानि पञ्च कर्माणि तत्साधनानीन्द्रियाणि वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि । इन्द्रियार्थान् इन्द्रियविषयान् शब्दादीन् मनसा स्मरन्नित्यनेन चक्षुर्निमीलनं श्रोत्रपिधानं न्च कृतमिति व्यज्यते । अन्यथा चक्षुश्रोत्राभ्यां रूपशब्दविषयग्रहणे सति मनसा तत्स्मरणानुपपत्तेः । अनुभवजन्य संस्कारजन्या हि स्मृतिः । यद्वा कापि विजने स्थित्वा देवालयादौ पत्तनस्थितवेश्यारूपगाना- त्मकौ चक्षुश्रोत्राविषयौ विषयौ मनसा स्मरतीति न चक्षुश्श्रोत्रपिधानवसरः । विमूढात्मेति । अज्ञ इत्यर्थः । ननु यथा प्राज्ञः कर्मेन्द्रियाणि संयम्य विषयानस्मरन् वर्तते, तथा विषयान् स्मरन्नज्ञः कर्मेन्द्रियाणि संयम्य वर्तत इति प्राज्ञाचारवदज्ञाचारोपि यावद्व्यवहारं सत्य एवेति कथं मिथ्यात्वमज्ञव्यवहारस्येति शङ्कायामाह - हेयाचार इति । हेयस्त्याज्य आचारो यस्य स तथोकः । विदुषामाचारवन्नैषामविदुषामाचारो ग्राह्य इत्यर्थः । . यत्तु रामानुजः - अन्यथा सङ्कल्प्यान्यथाऽऽचरतीति मिथ्याचार इति, तत्तुच्छम् नाई कर्म कुर्व इति सङ्कल्प्य नैव कर्म कृतवानयमज्ञ इति कथमस्य तादृशमिथ्याचारत्व प्रसङ्गः । नहि मनसा विषयस्मरणं कर्म येनास्व सङ्कल्पविपरीतस्स्यादाचारः । नच ज्ञानयोगं कुर्व इति सङ्कल्प्य मनसा विषय - स्मरणादस्ति मिथ्याचारत्वमस्येति वाच्यं, अज्ञस्य ज्ञानयोगसङ्कल्पस्यैवासम्भवात् । ज्ञानपूर्वको हि ज्ञान- योगः । किञ्च नहि कश्चिदित्यारभ्य कर्मयोगस्यैव प्रकृतत्वेन ज्ञानयोगसङ्कल्पस्यात्रासङ्गतत्वात्, यस्त्वि- न्द्रियाणीति वक्ष्यमाणश्लोके कर्मयोगस्यैवेन्द्रिय नियमनपूर्वकं प्रपञ्चितत्वात् ॥६॥ यस्त्विति । हेअर्जुन यस्तु मनसा इन्द्रियाणि नियम्य असक्तस्सन् कर्मेन्द्रियैः कर्मयोगमारभते स विशिष्यते । तुशब्दार्थमाह - पुनरिति । यच्छन्दार्थमाह- कर्मण्यधिकृतो श इति । प्राज्ञस्य कर्माधिकाराभावादुक्तमज्ञ इति । शब्दस्पर्शादिविषयेभ्यस्सकाशान्निवर्तनीयानीन्द्रियाणि ज्ञानेन्द्रियाण्येवेत्यभिप्रेत्याह — बुद्धीन्द्रि- याणीति । त्वक्चक्षुश्श्रोत्रजिह्वाघाणाख्यानि पञ्च करपिधानादिना चक्षुरादिव्यापार निरोधः कर्तव्य १२२. श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कर्मेन्द्रियैः वाक्पाण्यादिभिः । किमारभत इत्याह- कर्मयोगमसक्तस्सन् अफलाकांक्षस्सन स विशिष्यते इतरस्मात् मिथ्याचारात् ॥७॥ नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्धयेदकर्मणः ||८|| यत एवमत: - नियतमिति । नियतं नित्यं यो यस्मिन् कर्मण्यधिकृतः फलाय इति शङ्कानिरासायाह — मनसा नियम्येति । मनसि निष्कामेसति ज्ञानेन्द्रियाणि स्वतएव विषयेभ्यो निवर्तन्त इति भावः । एतेनेन्द्रियजयस्य मनोजयपूर्वकत्ववचनेन मनोजयोऽवश्यं कर्तव्य इति सूचितम् – मनोजयरहितस्य तु मिथ्याचारखं पूर्वश्लोक एवोक्तम् । अयं तु ग्राह्याचार इत्याह- स विशिष्यत इति । ज्ञानयोगिनोपि कर्मयोगी उत्कृष्ट इति शङ्कां वारयितुमाह - मिथ्याचारादिति । पूर्वश्लो- कोक्तान्मिथ्याचारादयमुत्कृष्ट इत्यर्थः । एतेन ज्ञाननिष्ठ | द्विशिष्यत इति रामानुजोक्तं प्रत्युक्तम्- कर्मयोगसाध्यज्ञाननिष्ठात्कर्मयोगनिष्ठस्याल्पत्वस्य सर्वविदितत्वात् - यज्ञसाध्यखर्गफलभोक्तुः पुरुषात्कथं यज्ञद्विशिष्येत, कथं वा ज्ञानसाध्यमुक्तिशालिनः पुरुषाद्ज्ञाननिष्ठो विशिष्येत ।
यदप्यनेनोक्तमसम्भाव्यमानप्रमादत्वेनेति कारणं तदप्ययुक्तम् — यदि कर्मज्ञानयोगौ द्वावपि परस्परनैरपेक्ष्येण निश्रेयसकरौ तर्हि सम्भाव्यमानप्रमादाद्ज्ञानयोगादसम्भाव्यमानप्रमादः कर्मयोगो विशिष्येत, न त्वेतदस्ति - ज्ञानयोगस्य स्वोत्पत्तिंप्रति कर्मयोगसापेक्षत्वात्कर्मयोगस्य च ज्ञानयोगद्वारा निश्श्रेयसकरत्वाच्च । कर्मयोगनिष्पाद्यत्वं ज्ञानयोगस्य तवाप्यभिमतमात्मावलोकनसाधनत्वं च । नच कर्मयोगिनात्मावलोकनं चेत्सिसाधयिषितं तर्हि ज्ञानयोगे प्रवेष्टव्यं मुक्तिश्चेत्सि साधयिषित । तर्हि कर्ययोगएव यावज्जीवमवस्थातव्यं ततएव मुक्तिलाभादिति वाच्यं तथात्वे सप्रमाददुष्करनिरर्थक- ज्ञानयोग विधायकस्य शास्त्रस्य भगवतो वाऽप्रमाणत्वापत्तेः । आत्मावलोकन हि तव मते न पुरुषार्थ :- `स्वतस्सिद्धत्वादात्मनः । आत्मभिन्नपरमात्मावलोकनात्तत्सारूप्यादिप्राप्तिर्हि तव मते मुक्ति:- तस्माद्यर्थ- मेव ज्ञानयोगविधानम् । ननु न व्यर्थमात्मावलोकनरूपफलसत्त्वादिति चेन्मैवम् — खकुचमर्दनतुल्यत्वात्स्वावलोकनस्य । ज्ञानयोगं विनापि कर्मयोगिनो मुक्तिदशायामात्मावलोकनसम्भवाच्च । नच मुक्तौ नास्त्यात्मावलोकन मिति वाच्य, अपहतपाप्मत्वसर्वज्ञत्वादिगुणाविर्भावान्मुक्तौ जीवानां कथमनात्मज्ञत्वं- मुक्तोऽनात्मज्ञ इति हि विरुद्धम् । सिद्धान्ते तु आत्मावलोकनस्यैव मोक्षत्वान्मुमुक्षुणा कर्मयोगिना सम्पाद्य एवावश्यं ज्ञानयोग:- ज्ञानयोगनिष्पाद्यत्वादात्मावलोकनस्य । अतो न योगान्यतरस्य वैयर्थ्य, नापि योगयोस्समप्राधान्य, नापि ज्ञानयोगे प्रमादसम्भावना - कर्मयोगेनैव मन इन्द्रियजयलाभात् । तथाच मिथ्याचारादेव कर्मयोगी विशिष्यते, ज्ञाननिष्ठस्तु कर्मयोगिनो विशिष्यते यथा पश्चादेर्मनुष्यो मनुष्याद्देवः । इति ॥७॥ 10 नियतमिति । त्वं नियतं कर्म कुरु हि अकर्मणः कर्म ज्यायः । अकर्मणः ते शरीरयात्रापि तृतीयोऽध्यायः । १२३ चाक्षुतं तन्नियतं कर्म तत् कुरु त्वम् । यतः कर्म ज्यायः अधिकतरं फलतो हि यस्मादक- र्मण: अकरणात् अनारम्भात् । कथं, शरीरयात्रा शरीरस्थितिरपि च ते न प्रसिध्येत् प्रसिद्धिं न गच्छेत् अकर्मणः अकरणात् । अतो दृष्टः कर्माकर्मणोर्विशेषो लोके ॥८॥ न च प्रसिध्येत् । किं तन्नित्यमत आह— य इति । यो यस्मिन् कर्मण्यधिकृतस्तस्य तन्नित्यमि- त्यन्वयः । स्वर्गादिफले दर्शपूर्णमासादावधिकृतस्य तदपि नित्यं स्यादित्याशङ्गय विशिनष्टि – फलायेति । फलायाश्रुतं फलार्थमश्रुतं खर्गादिफलप्रदत्वेन यन्न श्रुतं तदित्यर्थः । काम्यकर्मभिन्नमिति यावत् । यद- करणे प्रत्यवायश्श्रूयते तत्कर्म नित्यमिति भावः । तत्कुरु त्वमिति । क्षत्रियस्त्वं तु युद्धे कर्मण्यधिकृतः – अतस्तव युद्धकर्म नियतं तदेव त्वं कुर्वित्यर्थः । ज्ञानादल्पमपि कर्म अकरणादधिकमेवेत्याह- कर्म ज्यायो ह्यकर्मण इति । हिः प्रसिद्धिमपि गमयति- लोकेखलु अकृतसन्ध्यात्कृतसन्ध्यः, अकृतवैश्वदेवात्कृतवैश्वदेवः, अकृतयज्ञात्कृतयज्ञश्चोत्कृष्ट इति प्रतीतिः । इदमेवाह — अतो दृष्टः कर्माकर्मणोर्विशेषो लोके इति । इदं चाज्ञविषयमेव- प्राज्ञस्य कर्मासम्भवात् । तथाच अकृतविहितकर्मणो जनादज्ञात्कृतविहितकर्मा भवत्यज्ञ उत्कृष्टः, ज्ञानी तु अज्ञा- कर्मिण उत्कृष्ट इति सिद्धम् । शरीरयात्रा शरीरस्थितिजीवनमित्यर्थः । प्राणधारणमिति यावत् । अन्न- मूलत्वाच्छरीरस्थितेरन्नस्य च कर्ममूलत्वादिति भावः । वक्ष्यत्येतमर्थ ’ मन्नाद्धन्ति भूता’ नीति श्लोकेन । यद्वा यथा लोके क्षुद्राणां पुरुषाणां पश्वादीनां च शरीरस्थितिर्न प्रसिद्धा, तथा तवापीत्यर्थः । यज्ञादेर्युद्धादेर्वा विहितस्योत्कृष्टतमस्य कर्मणः करणाद्धि लोके पुरुषस्य बहुला प्रतिष्ठा । यस्तु शिश्नो- दरपरायणः कर्म विहितं न कुरुते तस्य पश्वादिवन्न कापि प्रतिष्ठेति वृधैव तस्य जीवनमिति भावः । अर्जुन इति कश्चिदस्तीति लोके न कोपि प्रतीयादिति तत्त्वम् । यत्तु रामानुजः - अकर्मणो ज्ञानयोगात्कर्मैव ज्याय:- ज्ञाननिष्ठस्यापि कर्माकुर्वतो देहयात्रापि न सेत्स्यति - ज्ञाननिष्ठस्यापि यज्ञादिकर्म कर्तव्यं- कर्मयोगे प्यात्मयाथात्म्यानुसन्धानमन्तर्भूतमिति, तत्तुच्छम् — ‘स्थित्वास्यामन्तकालेपि ब्रह्मनिर्वाणमृच्छतीति साक्षान्मोक्षहेतुत्वं ज्ञाननिष्ठाया इहै- बोक्तम् । ‘नहि ज्ञानेन सदृश पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दतीति वक्ष्यति चतुर्घाध्याये । किमयं व्याहतार्थाभिधायी भगवानप्रमाणभूतः, येन ज्ञानात्कर्मोत्कृष्टमिति, ज्ञानेन सदृश किमपि नास्तीति च स्वत एवोक्तवान् ? अहो ! तब पाण्डित्यमहिमा, येन भगवन्तमेवाप्रमाणयसि तद्गी- तानामपव्याख्यनकरणं द्वारा । तथा ‘निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषमिति, ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुतेर्जुनेति, सर्व ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसीति च भगवता वक्ष्यते चतुर्थाध्याये । ततः कथमयज्ञशिष्टान्नाशनाद्यतेः किल्बिषप्राप्तिः, येन ज्ञाननिष्ठस्य यज्ञादिकर्म कर्तव्यं स्यात् ? सति भिक्षाटने कर्मणि कथं वा तस्य देहयात्राया असिद्धि: ? निवृत्तिलक्षणज्ञानयोगनिष्ठस्य कथं यज्ञादिषु प्रवृत्तिः ? नहि प्रवृत्तिनिवृत्त्योरैक्यं केनापि सम्पादयितुं शक्यम् ।१२४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थ कर्म कौन्तेय मुक्तसङ्गस्समाचर ॥९॥ यच्च मन्यसे चन्धार्थत्वात् कर्म न कर्तव्यमिति तदप्यसत् - कथम्, यज्ञार्थादिति । ‘यज्ञो वै विष्णुरिति श्रुतेः यज्ञ ईश्वरः तदर्थ यत्क्रियते तद्यज्ञार्थं कर्म तस्मात्कर्मणोन्यत्र अन्येन कर्मणा लोकोयमधिकृतः कर्मकृत् कर्मबन्धनः कर्मैव बन्धनं यस्य सोय कर्मबन्धनः लोकः, नतु यज्ञार्थात् । अतस्तदर्थ यज्ञार्थं कर्म कौन्तेय मुक्तसङ्गः कर्मफलसङ्गवर्जितस्सन् समावर निर्वर्तय ॥ ९ ॥ सह यज्ञाः प्रजास्सृट्ठा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥ इतश्चाधिकृतेन कर्तव्य कर्म – सहेति । सहयज्ञा: यज्ञसहिताः प्रजास्त्रयो वर्णाः ताः फलाभिसन्धिपरित्यागपूर्वक कर्माचरणात्मके कर्मयोगे कथमात्मयाथात्म्यानुसन्धानस्यान्तर्भावः ? आत्मयाथात्म्य हि सच्चिदानन्दत्वा विक्रियत्वा कर्तृत्वाभोक्तृत्वादिरूपम् । सति तदनुसन्धाने कथं कर्मसु प्रवर्तत पुरुषः ? कथं वा कर्तारमात्मानं मनुयात् ? अकर्त्रात्मज्ञानं हि कर्मभ्यः पुंसो निवर्तकम् । तस्मात्सूर्यस्य तमसीवात्मज्ञानस्य न कर्मण्यन्तर्भावः । किंच शास्त्राचार्योपदेशशमदमादिसंस्कृतान्तःकरणसाध्यस्यात्मयाथात्म्यानुसन्धानस्य कथं कर्म- विक्षिप्तचितसाध्यत्वम् ? ज्ञाननिष्ठोपि निर्व्यवहारसमय एव ह्यात्मयाथात्म्यानुसन्धानं कर्तुं क्षमते । तस्मातुच्छ रामानुजभाष्यम् ॥ ८॥ यज्ञेति । अयं लोकः यज्ञार्थात्कर्मणोऽन्यत्राधिकृतः कर्मकृदिति शब्दद्वयशेषः । कर्मबन्धो भवतीति शेषः । हेकौन्तेय त्वं मुक्तसङ्गस्सन् तदर्थं कर्म समाचर । स्वस्ववर्णाश्रमविहितकर्मानुष्ठानेनेश्व- राज्ञायाः परिपालनीयत्वादीश्वराज्ञापरिपालनार्थानि कर्माणि विहितानीश्वरार्थानीत्युच्यन्ते, नत्वेभ्यः कर्मभ्य ईश्वरस्य कोप्यर्थ:- तस्य परिपूर्णत्वेनावाप्तसमस्त कामत्वात् इत्यभिप्रेत्याह - तदर्थमिति, लेति । सकामे कर्मणीत्यर्थः । ईश्वरार्थे यज्ञादिकर्मणि क्रियमाणे स्वर्गादिफलाभावाद्देवादिजन्मरूपो चन्धो नास्ति पुरुषस्य अन्यत्र तु फलानुभवार्थ जन्म स्वीकर्तव्यमित्यस्ति बन्ध इति भावः । तदर्थ - मित्यत्र तच्छब्दः प्रकृतयज्ञपरामर्शीत्याह — यज्ञार्थमिति । तस्मा इदं तदर्थमिति नित्यसमासः । अन्य- यत्तु रामानुजः – यज्ञार्थाद्यज्ञादिशास्त्रीय कर्मशेषभूतद्रव्यार्जनादेः कर्मणोऽन्यत्रात्मीयप्रयोजन- शेषभूते कर्मणि क्रियमाण इति, तत्तुच्छम् — यज्ञाद्यर्थादित्यादिशब्दाभावाद्यज्ञशब्दस्योपलक्षणस्वा- भ्युपगमस्य चान्याय्यत्वात् । प्रधानकर्मणोऽबन्धकत्वेनैव तच्छेषकर्मणोऽबन्धकत्वस्य सिद्धौ तदर्थं पुन- वचनस्यायुक्तत्वात्, यज्ञार्थात्कर्मणोन्यत्कर्म यज्ञोपि भवत्येवेति यज्ञस्यापि बन्धकत्वापत्तेः । युद्धाय सन्नद्य ततो निवृत्तायार्जुनाय युद्धं कुर्वित्येवोपदेष्टुमुचितत्वेन युद्धार्थ द्रव्यार्जनं कर्म कुर्वित्युपदेशस्यानुचितत्वात्पिष्टपेषणं हि तत् । इतः प्रागेवानेन युद्धसम्भारसम्पदनस्य कृतत्वात् ॥९॥ सहेति । पुरा प्रजापतिः सह यज्ञाः प्रजाः सृष्ट्ा अनेन प्रसविष्यध्वम् । एष वः इष्टकामधु- तृतीयोऽध्यायः । १२५ सृट्टा उत्पाद्य पुरा सर्गाद उवाच उक्तवान् प्रजापतिः- प्रजानां स्रष्टा । अनेन यज्ञेन प्रसन विष्यध्वं प्रसवो वृद्धिरुत्पत्तिः तां कुरुध्वं- एष यज्ञः वः युष्माकं अस्तु भवतु इष्टकामधुक् इष्टानभिप्रेतान् कामान् फलविशेषान दोग्धीति इष्टकामधुक् ॥ १० ॥ देवान् भावयतानेन ते देवा भावयन्तुः वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥ कथं, देवानिति । देवान् इन्द्रादीन् भावयत वर्धयतानेन यज्ञेन ते देवाः वर्धिताः भावयन्तु वृष्ट्यादिना आप्याययन्तु वः युष्मान् । एवं परस्परं भावयन्तः परं विज्ञानप्राप्ति- क्रमेणावाप्स्यथ स्वर्ग वा परं श्रेयोवावाप्स्यथ ॥ १.१ ॥ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः तैर्दत्ता न प्रदायैभ्यो यो भुंक्ते स्तेन एव सः ॥ १२ ॥ किंच - इष्टानिति । इष्टान् अभिप्रेतान् भोगान् हि वो युष्मभ्यं देवाः दास्यन्ते वितरि- व्यन्ति स्त्रीपशुपुत्रादीन् । यज्ञभाविताः यज्ञैर्विवर्धिताः तोषिता इत्यर्थः । तैर्देवैर्दत्तान् भोगान् गस्तु इत्युवाच । इतश्चेति । यज्ञद्वारा देवमनुष्ययोरुप कार्योपकारकभावसत्त्वाददेवया जिनश्चोरत्वा- दयज्ञशिष्टान्नाशनस्य किल्बिषहेतुत्वाद्यज्ञशिष्टान्नाशनस्य किल्विषमोचकत्वाचेत्यर्थः । प्रजापतिर्ब्रह्मा । अनेन प्रसविष्यध्वमिति । अनेनेति करणे हेतौ वा तृतीया । सुकृतमिति शेषः । प्रसवशब्दार्थमाह- वृद्धिरिति । अन्यार्थमाह-उत्पत्तिरिति । सुकृतं वर्धयध्वमुत्पादयध्वमिति वाऽर्थः 1 यत्तु रामानुजः - आत्मनो वृद्धिं कुरुध्वमिति, तदसत् — आत्मनः वृद्धिक्षयादिविक्रिया- रहितत्वात् ॥१०॥ देवानिति, कथमिति । यज्ञस्य कथमिष्टकामधुक्त्वमित्यत आहेत्यर्थः । नच देवानां कथं यज्ञेन वृद्धिरिति वाच्यं देवानाममृताशित्वादमृतं वै घृतमिति घृतस्यामृतत्वाद्यज्ञे च देवेभ्योऽग्नौ घृतस्य दीयमानत्वाच्चति । वृष्ट्यादीत्यादिपदात्पशुपुत्रादिग्रहणम् । आप्याययन्तु वर्धयन्तु आनन्दयन्त्विति वा । परं श्रेयो मोक्षम् । ननु कथं कर्मणा मोक्षोऽत आह— विज्ञानप्राप्तिक्रमेणेति चित्तशुद्धिद्वारेति भावः । यज्ञादिकर्मणां देवभावनमवान्तरफलं, प्रधानफलं तु चित्तशुद्धिज्ञानप्राप्तिद्वारा निश्श्रेयसमिति तत्त्वम् । एवं निष्कामानां गर्ति प्रदश्य सकामानां गतिं प्रदर्शयति – स्वर्ग वेति । परं श्रेय इत्यस्य स्वर्गमिति वाऽर्थ इत्यर्थः । अवाप्स्यथ प्राप्स्यथ ॥ ११॥ ’ इष्टानिति । देवाः यज्ञभावितास्सन्तः वः इष्टान्भोगान् दास्यन्ति । यः तैर्दत्तान् भोगानेभ्यः अप्रदाय भुक्ते सः स्तेनएवं ! मनुं देवदत्तभोगान् स्त्रीपशुपुत्रादीन् कथं देवेभ्यो दातुं शक्यमत आह—- आनृण्यमकृत्वेति । स्त्रीयासहाग्नौ घृताहुतिप्रक्षेपणेन स्वस्याशक्तौ पुत्रेण तत्प्रक्षेपणेन च स्त्री पुत्र-: भोगप्रत्यर्पणरूपमा नृण्यं जायते पुंसः । पुरोडाशप्रदानेन च त्रीहिभोगप्रत्यर्पणरूपमित्येवं ज्ञेयम् । . अस्त्रीकस्यापुत्रस्य च यज्ञेऽधिकाराभावादुक्तम् - स्त्रीपुत्रेति । क्षीराज्याभाचे होमाचसम्भवा- दाह - पश्विति । पशुश्चात्र गौरेव न महिष्यादिः, अपवित्रत्वादिति बोध्यम् । १२६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अप्रदाय अदत्वा आनृण्यमकृत्वैवेत्यर्थः । एभ्यो देवेभ्यः यो भुंक्ते स्वदेहेन्द्रियाण्येव यस्तर्प- यति स्तेन एव तस्कर एव सः देवादिस्वापहारी ॥ १२ ॥ यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुंजते ते त्वधं पापा ये पचन्त्यात्मकारणात् ॥१३॥ ये पुनः यज्ञशिष्टाशिन इति देवयज्ञादीनि निर्वत्य तच्छिष्टमशनममृताख्यमशितुं शीलं येषां ते यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्बिषैः सर्वैः पापैः चुल्यादिपञ्चसूनाख्यैः प्रमादकृतहिंसादिजनितैश्च । तद्यथा- कुट्टनी पेषणी चुल्ली उदकुम्भी च मार्जनी । पञ्चसूना इमां स्त्रियमिमं पुत्रमिमां गामिदं व्रीह्यादिकं च गृहीत्वा भोद्विजाः देवानस्मान्यज्ञादिभिर्भाव- यतेति देवा द्विजेभ्यः स्त्रीपशुपुत्रधान्यादिकान् भोगान्ददुः, यस्तु तथा देवांस्तैस्तर्पयति स यथोक्तकारी बुद्धिमानेव- यस्तु तान् स्वयं केवलं भक्ते सः स्तेन एव । ननु कथं स्त्रीपश्वादीनां भोजनं घटेतेत्यत आह - स्वदेहेन्द्रियाण्येव तर्पयतीति । मैथुनक्षीराज्यपानादिभिरिति भावः । कथमस्य स्तेनत्वमत आह— देवादिस्त्रापहारीति । देवादिधनापहारित्वाद्युक्तमस्य चोरत्वमित्यर्थः । देवैः ख्यादीनां स्वयज्ञार्थ दत्तत्वेन द्विजसम्बन्धितया प्रतीयमानाः स्यादयो भोगाः देवसम्बन्धिन एवेति कृत्वा देवसम्बन्धि- भोगानां स्वसम्बन्धीकरणाद्विजस्य चोरत्वम् । यथा देवदत्तसम्बन्धिवस्त्रस्य स्वसम्बन्धी करणाद्यज्ञदत्तस्य चोरत्वं तद्वदिति भावः । ननु यदा देवैर्भोगा दत्तास्तदैव देवानां तेषु भोगेषु स्वामित्वं नष्टं, स्वत्व- निवृत्तिपूर्वक परकीयत्वानुकूलव्यापारो हि दानम् । तस्मात्कथं स्यादीनां देवसम्बन्धित्वमितिचेत्, मैत्रम् — यथा अपुत्रः कन्यादानसमये अस्यां यो जायते पुत्रस्स मे पुत्रो भविष्यतीति सङ्कल्पपूर्वकं कन्यां कस्मैचिद्दत्वापि तत्पुत्रे स्वाम्यं प्रतिपद्यते तद्वद्देवा अपि यज्ञार्थ स्त्र्यादीन् तुभ्यं ददाम इति सङ्कल्पपूर्वकं द्विजाय स्त्र्यादीन्दत्तवन्तः कथन्तत्र स्वाम्यं न प्राप्नुयुः- अपितु प्राप्नुयुरेव सङ्कल्यानधीन- त्वाद्दानवैचित्र्यस्येति ॥१२॥ . यज्ञेति । यज्ञशब्दोत्र ब्रह्मयज्ञदेवयज्ञपितृयज्ञमनुष्ययज्ञभूतयज्ञाख्यपञ्चयज्ञपरः । सर्वशब्दखारस्या- दाह - प्रमादेति, कुट्टनीति । गृहस्थस्य कुट्टन्यादयः पञ्चसूनाः पञ्च हिंसास्सन्ति, ताभिर्हेतुभिः गृहस्थस्स्वर्ग न गच्छति । कुट्टनी - उलूखले धान्यं निक्षिप्य मुसलेनावहननसमये कीटादिनाशसम्भवा- तज्जन्या सूना कुट्टनीत्युच्यते, घरट्टोपलाभ्यां धान्यस्य पेषणसमये जाता सूना पेषणीत्युच्यते, चुल्ली- चुल्ल्यां काष्ठानि निक्षिप्य तत्राग्नि संयोज्य ओदनादिपचनसमये कीटादिनाशजन्या सूना चुल्ली, उद- कुम्भी कुम्भेन जलाहरणसमये जाता सूना जले पादप्रवेशादिना कुम्भनिक्षेपेण च क्षुद्रजन्तुनाशसम्भवात्, मार्जनी - मार्जन्याः गृहभूमेर्मार्जनसमये जाता कीटादिनाशात्सूना मार्जनीत्युच्यते । यद्यप्येतास्सूना न गृहस्थेन क्रियन्ते, किंतु तत्पत्न्यैव, तथापि पत्नीकृतपाकसंक्रान्तास्ताः तदन्न- भोजनाद्गृहस्थेपि संक्रामन्ति । यद्वा भर्त्रा चोदितैव भार्या ताः करोतीति भर्तारं प्रेरकं संक्रामन्ति । अथवा भर्तृभार्ययोरेकात्मकत्वात् । वस्तुतस्तु भर्त्रर्थमेव भार्या पार्क करोतीति सूना भर्तुरेव । भार्यायास्तु तृतीयोऽध्यायः । १२७ 1 गृहस्थस्य ताभिस्स्वर्ग न गच्छति ॥’ अन्येत्वात्मम्भरा ये भुजते ते त्वयं पापं स्वयमपि पापा ये पचन्ति पार्क निर्वर्तयन्ति आत्मकारणात् आत्महेतोः ॥ १३ ॥ अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः || १४ || 1 इतश्चाधिकृतेन कर्म कर्तव्यं जगच्चक्रप्रवृत्तिहेतुर्हि कर्म । कथमित्युच्यते–अन्नादिति । अन्नात् भुक्ताल्लोहितरेतःपरिणतात् प्रत्यक्ष भवन्ति जायन्ते भूतानि, पर्जन्यात् वृष्टेरन्नस्य भर्तृभुक्तावशिष्टपाकाशनान्न दोष इति । एतास्तु पञ्चसूना वैश्वदेवाख्यान्नित्यकर्माणो निवर्तन्त इति धर्मशास्त्रम् । ननु कथं पञ्चसून निवर्त्यपक्वान्नस्य यज्ञशेषीकरणमात्रेण किल्विषनाशकत्वमिति चेदुच्यते- प्रत्यहं देवार्थमेव पाकः कार्यः, नतु खार्थमिति विधौ स्थिते देवार्थं पाकाकरणस्य दुष्टत्वाद्धिसाप्रायोपि पाको देवार्थी कर्तव्य एव, यथा हिंसात्मकोऽप्यग्निष्टोमः विहितत्वात्कर्तव्यः । स्वार्थ पाकस्तु स्वार्थ पशु- विशसनव दुष्ट एव । पञ्चसूनानिवर्त्यमपि देवार्थे पकान्न पुण्यमेव विहितत्वाद्धिसानिर्वत्ययज्ञपशु- मांसवदिति सिद्धम् । एवंसति देवयज्ञावशिष्टस्यान्नस्य शास्त्रादायातं पुण्यत्वं लोकतश्च देवार्थे कृतत्वा- स्पाकस्य तत्सम्बन्धिदोषाणां न यजमानगामित्वमिति सिद्धम् । ये तु देवार्थ न पचन्ति, किंतु स्वार्थमेव ते पापिन एवेत्याह- अन्येत्विति । अन्ये तु अयज्ञशिष्टाशिनस्त्वित्यर्थः । अस्यैव फलितमाह — आत्मम्भरा इति । स्वकुक्षिम्भरा इत्यर्थः । स्वय- : मपीति स्वत एवेत्यर्थः । अन्नभोजनात्प्रागपीति यावत्- पापवशादेवैतेषां यज्ञाकरणे बुद्धयुदयादिति - भावः । आत्महेतोः स्वकुक्षिपूरणार्थमित्यर्थः 1 कुक्षिपूरण येन केनाप्यन्नेन जायत एव यज्ञशिष्टान्नेन तु पापनिवृत्तिः अयज्ञशिष्टेन स्वार्थ पक्वे- नान्नेन तु पापसञ्चयनमित्येतावानेव भेदः, ततश्चैहिकं कुक्षिपूरणं आमुष्मिकं पुण्यं च यस्माद्भवति तदेव यज्ञशिष्टानं द्विजैः पापभीरुभिर्भोक्तव्यमित्यवश्यं कर्तव्यं यज्ञाख्यं कर्म ॥१३॥ अन्नादिति, इतश्चेति । जगच प्रवृत्तिहेतुत्वात्कर्मण इत्यर्थः । अन्नाद्भूतानि जायन्त इति श्रुतेराह - भगवान् — अन्नाद्भवन्ति भूतानीति । ननु पात्रादिस्थादन्नाद्भूतान्युत्पद्यमानानि न दृश्यन्ते, नापि श्रूयन्त इति मूलकर्तुः प्रसक्तमाक्षेपं वारयति भाष्यकर्ता —— भुक्तादिति । ननु भुक्तादप्यन्नात्पुरी- षादिरूपान्न भूतोदय इति शङ्कायामाह - लोहितरेतः परिणतादिति । स्त्रीभिर्भुक्तं सल्लोहितरूपेण पुम्भिर्भुक्तं सद्रेतोरूपेण च यत्परिणतमन्नं तस्मादन्नादित्यर्थः । प्रत्यक्षमिति । स्त्रीपुरुषसंयोगाज्जरा - युजाण्डजात्मकभूतोत्पत्तेः प्रत्यक्षत्वादित्यर्थः । प्रत्यक्ष यथा तथेति क्रियाविशेषणम् । भवन्तीति प्रत्यक्ष- मिति वा अन्वयः । मनुष्येषु पश्वादिषु चेति भावः । भूतानि प्राणिनः न त्वात्मा तस्याजत्वात्- देहा इति यावत् । + पर्जन्यशब्दो मेघवाची तत्कार्यं वर्ष लक्षयति वृष्टेरन्नमिति स्मृत्यनुसारादित्याह — वृष्टेरिति । श्रीह्मादिमयस्यान्नस्य वृष्टिं विनाऽनुत्पत्तेरिति भावः । नच नदीजलादन्नसम्भव इति वाच्यं तस्यापि वर्षा - १२८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सम्भवः अन्नसम्भवः, यज्ञाद्भवति पर्जन्य: । ‘अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा’ इति स्मृतेः । यज्ञोऽपूर्व स च यज्ञः कर्मसमुद्भवः ऋत्विग्यजमानयोश्च व्यापारः कर्म तस्मात्समुद्भवो यस्य यज्ञस्य अपूर्वस्य स यशः कर्म- समुद्भवः ॥ १४ ॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥ कर्मेति । कर्म ब्रह्मोद्भवं ब्रह्म वेदः स उद्भवः प्रकाशको यस्य तत्कर्म ब्रह्मोद्भवं विद्धि जानीहि । ब्रह्म पुनर्वेदाख्यं अक्षरसमुद्भवं अक्षरः परमात्मा समुद्भवो यस्य तदक्षरसमुद्भव ब्रह्म वेद इत्यर्थः । यस्मात्साक्षात् परमात्माख्यादक्षरात् पुरुषात् श्वासवत् समुद्भूतं ब्रह्म तस्मात्सर्वार्थप्रकाशकत्वात् सर्वगतमपि सन्नित्यं सदा यज्ञविधिप्रधानत्वात् यज्ञे प्रतिष्ठितम् ॥ धीनत्वात् नहि ग्रीष्मे नद्यां जलं विद्यते, विद्यमानमप्यल्पमेव हि । प्रास्तेति । निक्षिप्तेत्यर्थः । पूर्व काद सुगति क्षेपणयोरिति धातोः कर्मणि क्तः । प्रकर्षेणास्ता प्रास्ता । अपूर्वमिति । कर्तृनिष्ठो धर्मस्सुकृतपर्यायः, येनैव स्वर्गादिफलप्राप्तिर्यजमानस्य । कथमन्यथा इहैव समाप्तिसमकालएव नष्टस्यः कर्मणो यज्ञस्य जन्मान्तरीयस्वर्गादिफलजनकत्वं स्यात् । व्यापार इति । होमादिरूपः लौकिकैः कैश्विद्वैदिकैश्व यज्ञत्वेन व्यवह्रियमाण इति भावः ॥ १४ ॥ कर्मेति । ब्रह्म वेदस्तपस्तत्त्व ’ मिति कोशादाह – ब्रह्म वेद इति । मृद्धटयोरिव ब्रह्मजगतोरिव वा वेदकर्मणोः कार्यकारणभावाभावादाह - प्रकाशक इति । प्रतिपादक इत्यर्थः । इदमित्थं कर्तव्य - मिति बोधयतीत्यर्थः । समुद्भव इति सम्यगुद्भवत्यस्मादिति समुद्भवः । प्रकृतिरुपादानमिति यावत् । दिति । तस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेद’ इति श्रुतेः ब्रह्मणस्सकाशाद्वेदा: अप्रयत्नेन जाता इत्यर्थः । श्वासवेदयोरप्रयत्नजन्यत्वरूपं साधर्म्यमस्तीति भावः । तस्माच्छब्दार्थमाह - सर्वार्थ- “प्रकाशकत्वादिति । सर्वार्थप्रकाशकत्वं च वेदस्य सर्वावभासकचैतन्यजन्यत्वप्रयुक्तमिति बोध्यम् । यद्वा “तस्मादित्यस्य परमात्मनस्समुद्भूतत्वादित्येवार्थः । कथं वेदस्य सर्वगतत्वमित्यत आह- सर्वार्थप्रकाश- कत्वादिति । सर्वार्थप्रकाशकत्वरूपं सर्वगतत्वं वेदस्यास्तीत्यर्थः । ननु ब्रह्मान्यस्य सर्वस्यानित्वात्कथं “नित्यत्वं वेदस्येत्यत आह —— नित्यं संदेति । यावद्यवहारमित्यर्थः । यज्ञे कथं वेदस्य प्रतिष्ठितत्त्वमत आह-यज्ञविधिप्रधानत्वादिति । यज्ञविधिरेव प्रधानं प्रतिपाद्यं यस्य स यज्ञविधिप्रधानः तत्त्वात् इति । यत्तु रामानुजः - यज्ञः कर्मसमुद्भवः द्रव्यार्जनादिक्रियासाध्यः, कर्म ब्रह्मोद्भवं शरीरजात, ब्रझ अक्षरसमुद्भवं जीवजातमन्नपानादिना तृप्ताक्षराधिष्ठितं शरीरं कर्मणे प्रभवतीति- सर्वगतं सर्वाधिकारिगतं शरीरं ब्रह्म नित्यं यज्ञे प्रतिष्ठितं यज्ञमूलमित्यर्थः । इति, तन्मन्दम् - यज्ञस्यैव क्रियारूपत्वेन क्रिया- साध्यत्वायोगात् । नहि क्रियया क्रिया साध्यते, किंतु फलादिकमेव । यद्यपूर्वात्मको यज्ञ इह विवक्षितः तर्हि सन द्रव्यार्जनादिक्रियासाध्यः, किंतु ऋत्विग्यजमानव्यापाररूपक्रियासाध्य एव । ब्रह्मशब्दस्य च -~ t !
१७ तृतीयोऽध्यायः । एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥ १२९ एवमिति । एवमीश्वरेण वेदयज्ञपूर्वकं जगच्चक्रं प्रवर्तितं नानुवर्तयति इह लोके यः कर्मण्यधिकृत सन् अघायुः अधे पापं यस्यायुर्जीवनं सोऽघायुः पापजीवन इति यावत् । इन्द्रियारामः इन्द्रियैराश्मण आक्रीडा विषयेषु यस्य स इन्द्रियारामः मोघं वृधा हेपार्थ ! स जीवति । तस्मात् अधिकृतेन अज्ञेन कर्तव्यमेव कर्मेति प्रकरणार्थः । शरीरे प्रयोगोऽप्रसिद्धः- मम योनिर्महद्ब्रह्मेति प्रकृतौ प्रयोगसत्त्वेपि न शरीरप्रयोग सिद्धिः । प्रकृतेर्बह्म- त्वात्त कार्यमपि ब्रह्मैवोपचारादिति वचनं तु लक्षणामूलत्वादुपेक्ष्य - प्रकृतेर्बह्मशब्दवाच्यत्वमेव तावलक्षणया निर्वा, किं पुनर्वक्तव्यं शरीरस्य ब्रह्मशब्दवाच्यत्वम् । शरीरवामनोभिर्यत्कर्म प्रारभते नर इति वक्ष्य- माणत्वात्कथं शरीरमालप्रभवत्वं कर्मणः । अन्नपानादिना तृप्तजीवेत्युक्तिरयुक्ता- जीवस्याभोक्तुरन्नादिना तृप्त्ययोगात् । प्राणादीनामेव हि तृप्तिः । यदि जीवस्यान्नादिना तृप्तिस्तर्हि तदभावेन शोकादिरपि स्यात्, नचैतद्युक्तमविक्रिये सच्चिदानन्दमये जीवे । यद्ययं जीवः कर्ता भोक्ता विज्ञानात्मा नतु सच्चिदानन्दरूप इत्युच्येत, तर्हि नासावक्षरः, किंतु क्षरएव - कर्तृत्वादिविकारवतोऽनित्यत्वात् । नहि लोके विक्रियमाणं वस्तु नित्यं दृष्टम् – घटादिरूपेण विक्रियमाणस्य मृदादिद्रव्यस्यापि प्रलये नः शदर्शनात् । सर्वगतमित्यस्य सर्वाधिकारिगतमित्यर्थोप्ययुक्तः- अधिकारिविषयसंकोच(सहत्वात्सर्वशब्दस्य अनधिकारिपश्वा दिशूद्रादिशरीरस्यापि यज्ञमूलत्वेन तस्य तदसिद्धेश्च । यद्येतद्दोषपरिहाराय सर्वजीवगतमित्युच्येत, तदप्ययुक्तं मत्स्यादिशरीराणामयज्ञमूलत्वात् नहि समुद्रगतमत्स्यादयो वर्षफलितव्रीह्यादिना जीवन्ति इति ॥ १५॥ एवमिति । इह एवमीश्वरेणेति शेषः । प्रवर्तितं चक्रं यः नानुवर्तयति हेपार्थ अघायुरिन्द्रि- यारामस्स मोघं जीवति । एवंशब्दार्थमाह – वेदयज्ञपूर्वकमिति । वेदयज्ञौ पूर्वी यस्मिन् तद्वेदयज्ञपूर्व यथातथा वेदयज्ञाभ्यां सहेत्यर्थः । प्रवर्तितं सृष्टमिति यावत् । किं तच्चक्रमत आह— जगच्चक्रमिति । चक्रकद्रमणशालित्वाज्जगतश्चक्रत्वव्यपदेशः । नानुवर्तयतीति जगच्चक्रस्यानुवर्तनंनाम वेदाध्ययनपूर्वकं तदर्थानुष्ठानद्वारा जगति यथा कर्मिणो वर्तन्ते तथा वर्तनमित्यर्थः । यच्छब्देन सन्न्या सिग्रहणं माभू– दित्याह - कर्मण्यधिकृत इति । आयुरिति । शरीरे प्राणवायुसञ्चार आयुः यस्य शरीरे प्राणवायुसञ्चारः पापायैव भवति, स उच्यतेऽघायुरिति । इदमेवाह - पापजीवन इति । पापसञ्चयन जीवित इत्यर्थः । आराम इति ! आङ्पूर्वकाद्रमतेर्भावे घञ् इत्यभिप्रेत्याह - आक्रीडेति । अश्वेनोद्यान इव इन्द्रियैर्विषयेषु यः क्रीड इन्द्रियाराम इत्यर्थः । १३० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु प्रागात्मज्ञाननिष्ठा योग्यताप्राप्तेस्तादर्थ्येन कर्मयोगानुष्ठानमधिकृतेन अनात्मज्ञेन कर्तव्य- मित्येतत्, ‘न कर्मणामनारम्भा’ दित्येतदारभ्य ‘शरीरयात्रापि च ते न प्रसिद्धयेदकर्मण’- इत्येतदन्तेन प्रतिपाद्य ‘यज्ञार्थात्कर्मणोन्यले ‘त्यादिना ‘मोघं पार्थ स जीवती’ त्येतदन्तेन ग्रन्थेन प्रासङ्गिकमधिकृतस्यानात्मविदः कर्मानुष्ठाने बहु कारणमुक्तं, तदकरणे च दोषसङ्कीर्तनं कृतम् ॥१६॥ यदि कर्म कर्तव्यं तर्ह्यज्ञेनेति किं विशेष्यते, ज्ञानिनापि कर्तव्यमेवेत्यत्रोक्तमनुवदति – प्रागिति, तादनेति । तदर्थमेव तादार्थ्यं तेन ज्ञाननिष्ठ योग्यताप्राप्त्यर्थमित्यर्थः । अनात्मज्ञेन कर्मयोगानुष्ठानं कर्तव्यमित्येतत्प्रतिपाद्येत्यन्वयः । अत्राह रामानुजः - अन्नाद्भूतशब्दनिर्दिष्टानि सजीवानि शरीराणि, पर्जन्यादन्न, यज्ञा- स्पर्जन्यः, यज्ञश्च कर्तृव्यापाररूपात्कर्मणः, कर्म च सजीवाच्छरीरात्सजीवं शरीरं पुनरन्नादित्यन्योन्य- कार्यकारणभावेन चक्रवत्परिवर्तमानमिति । इन्द्रियाराम :- इन्द्रियाण्येवास्योद्यानानि भवन्तीति ज्ञान- योगादौ यतमानोपि निष्फलप्रयत्नतया मोघं पार्थ स जीवतीति च । तदेतत्सर्वमविचारितरमणीयं- तथाहि - कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवमित्यत्र शरीरात्कर्म शरीरं जीवाच्चोद्भूतमित्युक्तं प्रागनेनैव । इदानीं तु कर्म सजीवाच्छरीरात्सजीवं शरीरं पुनरन्नादित्युच्यते । कथमिदं न व्याहतम् ? कथं वा त्वन्मतरीत्यापि मूलादिदमर्थलाभः । अन्नाद्भवन्ति भूतानीत्यत्र यथा भूतशब्दस्सजीवशरीरवाची, तथा कर्म ब्रह्मोद्भवमित्यत्र किं ब्रह्म- शब्दः सजीवशरीरखाची ? उताजीवशरीरखाची ? नाद्यः - ब्रह्माक्षरसमुद्भव मित्यक्षरशब्दवाच्य सजीव- शरीरात्सजीवशरीरस्योत्पत्तिरिति व्याघातात् । नह्येकमेव कार्य कारणं च भवितुमर्हति । नचाक्षरशब्दः केवलजीववाचीति वाच्यं, केवलजीवात्सजीवशरीरसमुद्भव इत्यपि व्याघातात् । कारणजीवात्कार्यजीवस्य भेदाभावात् । न द्वितीयः अजीवशरीरात्कर्मोदयासम्भवात् । सजीवं हि शरीरं कर्मणि प्रभवत इति सम्प्रतिपन्नम् । किंच सजीवशरीरो जात इत्यनेन जीवस्यापि जन्म सिद्धम् । तच्चायुक्तं- अजो नित्य इत्यादिविरोधात् । अत एवेह न चक्रत्वमप्युपपद्यते अक्षरस्य जीवस्य देहकारणस्य कुतश्चिदुत्पत्त्यश्रवणादुत्पत्त्य- सम्भवाच - उत्पत्तौ सत्यां नाशसम्भवेनाक्षरत्वायोगाच्च अक्षरत्वं यविनाशित्वं- ‘जातस्य हि ध्रुवो मृत्यु रिति जातस्य मृत्युव्यभिचाराभावाच्च । ब्रह्माक्षरसमुद्भवमित्येतस्याभावे तु चत्रत्वमुपपद्येत, भूतत्रह्मशब्दयो- रेकार्थवाचित्वादन्नादुद्भूतानि भवन्ति दद्ब्रह्म पुनरन्नाद्भवतीति । नच तथैवास्त्विति वाच्यं, मूलच्छेद- पाण्डित्यप्रकर्षापतेस्तव । ननु भूत ब्रह्माक्षरशब्दास्त्रयोपि सजीवशरीरखाचिन एव तत्र ब्रह्मवाच्यस्य सजीवशरीरस्य पुत्रस्य अक्षरशब्दवाच्यात्सजीवशरीरात्पितुस्समुद्भव इत्यदोष इतिचेत्, नैतदपि युक्तम् - यथा पितृदेहात्पुत्र- देहस्समुद्भवति तथा पितृदेहोपि पितामहदेहात्समुद्भवतीति कृत्वा अक्षरशब्दवाच्यस्य पितृदेहस्य पुन- तृतीयोऽध्यायः । 4262 १३१ एवंस्थिते किमेवं प्रवर्तितं चक्रं सर्वेणानुवर्तनीयम् ? आहोस्वित्पूर्वोक्तकर्मयोगानु- ष्ठानोपायप्राप्यामात्मविदो ज्ञानयोगेनैव निष्ठामात्मविद्भिः साङ्ख्यैरनुष्ठेयां प्राप्तैरेवेत्ये रमर्थ मर्जुनस्य प्रश्नमाशङ्कय स्वयमेव शास्त्रार्थस्य विवेकप्रतिपत्त्यर्थ एवं चैतमात्मानं विदित्वा निवृत्तमिथ्याज्ञानास्सन्तो ब्राह्मणा मिथ्याज्ञानवद्भिरवश्यकर्तव्येभ्यः पुत्रैषणादिभ्यो व्युत्थायाथ भिक्षाचर्यं शरीरस्थितिमात्रप्रयुक्तं चरन्ति न तेषामात्मज्ञाननिष्ठाव्यतिरेकेणान्यत्कार्य मस्तीत्येवं श्रुत्यर्थमिह गीताशास्त्रे प्रतिपिपादयिषितमाविष्कुर्वन्नाह- भगवान् । यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्य न विद्यते ॥ १७॥ रन्नात्समुद्भवाभावात् । नचान्नाद्भवन्ति भूतानीत्यत्रापि अन्नादन्नमयात्पितृदेहाद्भूतानि पुत्रदेहास्सम्भ- वन्तीत्यर्थ इति वाच्यं, ब्रह्माक्षरसमुद्भवमित्यनेन पौनरुक्त्यात् 1 नच ब्रह्माक्षरसमुद्भवमित्येतत्पुनरुक्तमपि चक्रत्वोपपादकमित्यदोष इति वाच्यं, चक्रत्वोपपादाय कर्म भूतोद्भवं विद्धि भूतमन्त्रसमुद्भवमिति खपदे- नैव वक्तव्यत्वात् - स्वपदेन पर्यायपदेन वा वचनं विनापि अन्नाद्भूतानि भवन्ति, कर्म भूतोद्भवमित्ये- तावन्मात्रेणैव चक्रत्वस्य स्फुटं प्रतीयमानत्वाच्च तस्माद्भूतब्रह्माक्षरशब्दानां नैकार्थत्वमुचितं- भिन्नार्थत्वे तु न त्वदभीष्टचक्रत्वसिद्धिः । तथा इन्द्रियाराम इत्यत्र इन्द्रियाणां करणानामारामत्वरूपणं च विरुद्वम् - विहारस्थानं ह्यारामः न तु विहारकरणं प्रकृते विहारस्थानं विहारविषया शब्दादय एव । तस्माच्छब्दादिष्वेवारः- मत्वरूपणमुचितम् । नच विषयभोगेकरतिर्भवतीति फलितार्थ उक्तोऽस्माभिरिति वाच्यं, ऋजुमार्ग विहाय वक्रपथाश्रयणस्यान्याय्यत्वात् । तथा ज्ञानयोगादौ यतमानोऽपि निष्फलप्रयत्ततया मोघं जीवतीत्यप्ययुक्तम् - ज्ञानयोगे यत - मानस्य सन्न्यासिनः यज्ञानुष्ठानाधिकाराभावात् । यद्यस्य विहितं स हि तदनुष्ठानेन व्यर्थजीवनः ज्ञान- योगिनस्तु ज्ञानमेव विहितं न तु कर्मेति कथं तस्य कर्मानाचरणाद्यर्थजीवनत्वप्रसङ्गः । नचेन्द्रियारामत्वं सन्न्यासिनो व्यर्थजीवनत्वापादकमिति वाच्यं, असन्न्यास्यज्ञविषयत्वादेतत्प्रकरणस्य, यस्त्वित्यादिश्लोक- द्वयेन सन्न्यासिप्राज्ञस्य कर्माभावस्य वक्ष्यमाणत्वाच्च ॥१६॥ एवमिति । यद्यपि कर्मिण उद्दिश्यैवोक्तमेवं प्रवर्तितं चक्र’ मिति प्रकरणादिना सुज्ञेयं, तथापि मन्दमतीनां नायं विवेकस्सुलभ इत्यभिप्रेत्य भगवान् स्वयमेव तद्विभागं दर्शयतीत्याह - किमित्यादिना । एवमीश्वरेण प्रवर्तितं जगच्चक्रं किं सर्वेणानुवर्तनीयम् ? यद्वा पूर्वोक्तकर्मयोगानुष्ठानोपायत्राप्यामात्म- विद्भिस्साङ्ख्यैरनुष्ठेयां ज्ञानयोगेनात्मविदो निष्ठामप्राप्तैरनात्मविद्भिरेवानुवर्तनीयमिति विकल्पः । श्रुत्य- थमिति । ’ एवं वैतमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ती’ ति श्रुतिः पुत्रैषणादिभ्यो व्युत्थायेति पुत्रैषणादिकं त्यक्त्वेत्यर्थः । प्रतिपिपादयिषित- मिति श्रुत्यर्थविशेषणं, प्रतिपिपादयितुमिष्टं प्रतिपादयिषितम् । १३२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशङ्करभाष्योपेतासु य इति । यस्तु साङ्ख्यः आत्मज्ञाननिष्ठः आत्मरतिः आत्मनि रतिर्न विषयेषु यस्य स आत्मरतिरेव स्यात् भवेत्, आत्मतृप्तश्च आत्मनैव तृप्तो नान्नरसादिना स मानवो मनुष्यः सन्न्यासी आत्मन्येव च सन्तुष्टः । सन्तोषो हि बाह्यार्थलाभे सर्वस्य भवति, तमनपेक्ष्यैत्र आत्मन्येव च सन्तुष्टः सर्वतो बीततृष्ण इत्येतत् । य ईदृश आत्मवित् तस्य कार्य करणीयं न विद्यते नास्तीत्यर्थः ॥ १७॥ यस्त्विति । यो मानवस्तु आत्मरतिरात्मतृप्त आत्मन्येव सन्तुष्टश्च स्यात्तत्य कार्यं नैव विद्यते । साङ्ख्य इति । तुशब्दस्य पूर्वोक्तवैलक्षण्यद्योतकत्वात्पूर्वं कर्मिण उक्तत्वादिह साङ्ख्यलाभ इति भावः । साङ्ख्यशब्दार्थमाह– आत्मज्ञाननिष्ठ इति । आत्मरतिरेवेत्येवकारादाह – विषयेष्विति । आत्म- न्येवास्य रतिरित्यर्थः । आत्मतृप्तश्चत्यत्र चकार एवार्थक इत्याह– आत्मनैव तृप्त इति । एवका- रार्थमाह – नान्नरसादिनेति । मनःप्राणादितादात्म्याध्यासाभावादिति भावः । मानव इति । मनु- ष्याणामेवात्राधिकारादिति भावः । यद्यपि ‘तदुपर्यपि बादरायणस्सम्भवादिति ज्ञानमार्गे देवानाम- प्यधिकारस्तथापि न सन्न्यासे इति बोध्यम् । सर्वत इति सर्वेषु विषयेष्वित्यर्थः । क एवंविधोऽत आह– आत्मविदिति । सच्चिदानन्दब्रह्मात्मज्ञानशून्यस्य कथमात्मरत्यादयः स्युरिति भावः । यत्तु मुक्त परोयं श्लोको वक्ष्यमाणश्चेति रामानुजः, न सन्न्यासाश्रमिपरः तस्यापि स्वाश्रमधर्म- निवृत्त्यभावात् । वर्णाश्रमविशिष्टस्यैव हि वर्णाश्रमधर्मारम्भः न पुनर्वर्णाश्रमाधीननामरूपविनिर्मुक्तस्येति मुक्तशब्दस्य भाव इति वेदान्तदेशिकच । तदुभयं मन्दम् - मुक्तस्येह प्रसक्त्यभावात् मुमुक्षु प्रत्येव गीताशास्त्रस्य प्रवृत्तत्वात् वेदान्तशास्त्रे मुमुक्षोरेका धिकारित्वात् ‘आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदो- च्यत’ इत्यात्मतुष्टेः स्थितप्रज्ञलक्षणत्वात् स्थितप्रज्ञो ज्ञानयोग्येव न मुक्त इति सम्प्रतिपन्नत्वात्- ‘दुःखे- ष्वनुद्विग्नमना’ इत्यादिश्लोकोक्तधर्माणां मुक्त प्रसक्त्यभावात् नहि मुक्तौ दुःखानि सन्ति, येन तत्रानु- द्वेग उपदिश्येत मुक्तस्य । किंच मानव इति पदमपि अस्य श्लोकस्य साधकपरत्वे लिङ्ग - सिद्धस्य हि न मानवत्वादिकमस्ति मानवत्वादेर्देहधर्मत्वान्मुक्तस्यात्मत्वाच्च न हि मुक्तेषु मानवासुरदैवतादि- विभागोऽस्ति । अपिचात्मरतिरेवेत्येवकारोपि व्यर्थस्त्वन्मते - नहि मुक्तौ विषयास्यस्ति, येन विषय- रतिव्युदासाय प्रयुज्येतैवकारः । अथ यदि मुक्तिर्विष्णुपदं वैकुण्ठलोकस्तत्र अप्राकृता विषयास्सन्ती - त्युच्येत, तर्हि मुक्तस्य विषयरतिरेव स्यान्नत्वात्मरतिः- अप्राकृतविषयैस्तैरिन्द्रियाणामाकृष्टत्वान्मुक्तस्य । असति तु मुक्तानां विषयभोगे अभोग्यानामप्राकृतानां तद्विषयाणां सृष्टिः पारमेश्वरी व्यर्थैव स्यात् । एवं निरर्थविषयस्रष्टा विष्णुरप्रमाण एव स्यात् निरर्थप्रलापोन्मत्तवत् । अपि च नैवेति वक्ष्यमाणश्लोके – इहेति पदमस्ति तद्धि एतल्लोकवाची । कथं मुक्तस्येह लोकसम्बन्धित्वं, न कथमपि । तस्मान्नमौ श्लोकौ मुक्तपरौ किंतु साङ्ख्यपरावेव । यदुक्तं सन्न्यासिनोप्यस्ति वर्णाश्रमधर्म इति, तदयुक्तम् — कुटीचकादीनां दण्डतर्पणादिधर्म- सत्त्वेपि परमहंसस्य नास्ति यः कोप्यरूपोपि धर्म :- ‘ये ब्राह्मणा गामवधूतलिङ्गाश्चरन्ति तेभ्यश्शिवमस्तु तृतीयोऽध्यायः । नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः || १८ || , १३३ किंच- नेति । नैव तस्य एवमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनमस्ति तर्हि तस्य अकृतेन प्रत्यवायारूयोऽनर्थः नाकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवायप्रप्तिरूप आत्महानि- लक्षणोवास्ति । न चास्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चिदर्थव्यपाश्रयः प्रयो- जननिमित्तः क्रियासाध्यो व्यपाश्रयः व्यपाश्रयणं कञ्चिद्भुतविशेषमाश्रित्य न साध्यः कश्चिदर्थोस्ति येन तदर्था क्रियाऽनुष्ठेया स्यात्, न त्वमेवं तस्मिन् सर्वतः सम्प्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे ॥ १८ ॥ तस्मादसक्तस्सततं कार्यं कर्म समाचर । असतो ह्याचरन्कर्म परमाप्नोति पूरुषः ||१९|| यत एवं, तस्मादिति । तस्मादसक्तः सङ्गवर्जितः सततं सर्वदा कार्य कर्तव्यं नित्यं राज्ञा’ मिति भागवतात् । दिगम्बरा निर्दण्डकपालाः करतलभिक्षस्तरुतलवास इत्यादिवचनोक्तकरतलभिक्षादि- शालिनो हि ते । उक्त हि - ‘निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेध’ इति । नचास्ति तेषा - मपि निवृत्तिधर्म इति वाच्यं, आत्मरत्यादीनामेव निवृत्तिधर्मत्वात्त्वदुक्तरीत्या मुक्तेष्वपि तत्सम्भवाच्च ॥ १७॥ 1 नैवेति । तस्य इह कृतेन कश्चनार्थो नैव, अकृतेन कश्चनार्थो नैव । अस्य सर्वभूतेषु अर्थ - व्यपाश्रयः कश्चिन्न च । ननु कर्मणा साङ्ख्यस्य मास्तु प्रयोजनं कर्माकरणेन तु प्रत्यवायरूपोऽनर्थस्स्या- दित्यत आह— तर्हीति, अर्थव्यपाश्रय इति । अर्थाय व्यपाश्रयोऽर्थव्यपाश्रय इति चतुर्थीति योग- विभागात्समासः । अर्थशब्दार्थमाह — प्रयोजनेति । चतुर्थ्यर्थमाह-निमित्त इति । व्यपाश्रय- शब्दार्थमाह — व्यपाश्रयणमिति । स कीदृशोत आह— क्रियासाध्य इति । कीर्तन वन्दनादि - क्रियानिर्वत्य इत्यर्थः । क्रियापूर्वक इति यावत् । सर्वभूतविषयकं प्रयोजननिमित्तं क्रियासाध्यमाश्रयण किञ्चिदप्यस्य नास्तीत्यर्थः । इदमेव विशदयति - कञ्चिदिति । कञ्चिद्भूतविशेषं ब्रह्मरुद्रादिरूपं राजधनिकादिरूपं वा सागराश्वत्थादिरूपं वा आश्रित्य कीर्तनवन्दनादिना संश्रित्य साध्यः । तस्माल्लभ्यः कश्चिदर्थः सत्यलोक कैलासादिरूपः भूमिधनादिरूपो वा पुण्यपुत्रादिरूपो वा अर्थः फलमिति यावत् । नास्यास्ति । येनेति । अर्थसत्त्वेनेत्यर्थः । तदर्थेति । ब्रह्मलोकादिफलार्थेत्यर्थः । क्रियेति । सगुण- ब्रह्मोपासनयज्ञानुष्ठानादिरूपेत्यर्थः ॥ १८ ॥ 1 यत एवं तस्मादिति । यस्मात्त्वमेवं सर्वतस्स लुतोदकस्थानीये सम्यग्दर्शने न वर्तसे, तस्मा- दित्यर्थः । ज्ञानयोगाधिकाराभावादिति यावत् । न हि त्वमात्मरतिरात्मतृप्त आत्मतुष्टश्च भवसि येन तब कार्याभावस्यादिति भावः । कार्यशब्दखारस्यादाह - नित्यमिति । एतेन कर्मिणापि काम्यादि- कर्माणि त्याज्यान्येवेति सूचितम् । नहि तानि कर्तुं योग्यानि बन्धकरत्वात् । नित्यानि तु चित्तशुद्धि-१३४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कर्म समाचर । असक्तोहि यस्मात् समाचरन्नीश्वरार्थं कर्म कुर्वन् परमाप्नोति पूरुषः । परं मोक्षमाप्नोति पूरुषस्सत्त्वशुद्धिद्वारेणेत्यर्थः ॥ १९ ॥ कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसि ॥ २० ॥ यस्माच्च, कर्मणेति । कर्मणैव हि पूर्वे च क्षत्रियाः विद्वांसः संसिद्धिं मोक्ष गन्तु- मास्थिताः प्रवृत्ताः । के, जनकादयः जनकाश्वपतिप्रभृतयः । यदि ते प्राप्तसम्यग्दर्शनाः ततो हेतुत्वात्कर्तुं योग्यानि । परं मोक्षमिति मोक्षस्यैव सर्वोत्कृष्टब्रह्मरूपत्वादिति भावः । ननु ज्ञानादेव मोक्षस्य सिद्धान्तितत्वेन कथं कर्मणा मोक्षप्राप्तिरत आह—- सच्चशुद्धिद्वारेणेति । यत्तु रामानुजः परं जीवमाप्नोतीति, तदसत् - तन्मते जीवस्याब्रह्मत्वाज्जीवस्य जीवप्राप्ते - रफलत्वाच्च ॥१९॥ कर्मणेति । ’ असतो ह्याचरन् कर्म परमाप्नोति पूरुष’ इत्युक्तं तत्र किं प्रमाणमिति शङ्कायां जनकादयएवेह प्रमाणमित्याह भगवान् - कर्मणैवेति । जनकादयः कर्मणैव संसिद्धिमास्थिता हि । कर्मणैव. जनकादयो मोक्ष प्राप्ता इत्यर्थः । सत्त्वशुद्धिद्वारेणेति भावः । एवकारान्न त्वकरणेनेत्यर्थः । इत्येकार्थः । जनकादयः कर्मणा सहैव संसिद्धिं गन्तुमास्थिता हि- कर्मणा सहैवेत्यस्यार्थमाह—असन्यस्यै- वेति । ननु कर्मयोगाद्ज्ञानयोगस्ततो मुक्तिरिति क्रमे सति कथं कर्मणासहैव जनकादीनां मुक्तिप्राप्ति- प्रवृत्तिरित्यत आह- प्राप्तसम्यग्दर्शना इति । जन्मान्तरानुष्ठितज्ञानयोगमाहात्म्येनेति भावः । अत्रेदं तत्त्वम् – वेदान्तश्रवणादिना पारोक्ष्येण ब्रह्मात्मानं विदित्वा विद्वांसो ज्ञानयोगे प्रवर्तन्ते, सिद्धे तु तस्मिन्नपरोक्षीकृत ब्रह्मात्मानो मुच्यन्ते, अकालमरणादिना ज्ञानासिद्धौ तु अपक्कज्ञानयोगास्ते न मुच्यन्ते, किंतु जन्मान्तरं प्रतिपद्यन्ते । तत्र तु विनैव ज्ञानयोग केचिद्विनैव कर्मयोगं च वेदान्त- श्रवणमात्रेणैव ब्रह्मात्मानं साक्षात्कुर्वन्ति । तस्मादेतेषां कर्मसन्न्यासं विनैव मुक्तिरिति । नन्वेवं ज्ञानिनां कुतः कर्मणि प्रवृत्तिरत आह- लोकसंग्रहार्थमिति । लोकेन खाचारं संग्राहयितुमित्यर्थः । ननु किमिति शुकादयो लोकसंग्रहार्थं कर्म नाकुर्वन्नत आह— प्रारब्धकर्मबला- दिति । ज्ञानिभिरपि यावत्प्रारब्धावसानं तदनुवर्तनस्यावर्जनीयत्वादिति भावः । एतेन ज्ञानिषु केषाञ्चित्कर्मयोगे केषाञ्चित्तपोयोगे केषाञ्चिद्ग्रन्थकरणे केषाञ्चिद्व्यवहारे केषाञ्चिद्वाणिज्यादौ च प्रारब्ध- वंशात्प्रवृत्तेर्दर्शनेपि न कोपि बन्ध इति सूचितम् । कर्मणा सहैव मुक्तिं गता इत्युक्तौ कर्मणोपि मुक्तिप्रवेशस्स्यात्तच्चानिष्टं, निष्क्रियब्रह्मरूपत्वान्मुक्ते - रित्यभिप्रेत्याह– गन्तुं प्रवृत्ता इति । इति द्वितीयोर्थः । कर्मणा सहैवेत्यस्यासन्न्यस्यैवेत्यर्थात् जनकादयोऽसन्न्यस्यैव मुक्ति गताः सन्न्यासं विना कर्मयोगे स्थित्वैव ते जन्मान्तरप्रारब्धसुकृतवशादपरोक्षीकृतब्रह्मात्मानो मुक्तिं गता इति तृतीयोर्थः । संसिद्धिमास्थिताश्चित्तशुद्धिं प्राप्ता इति चतुर्थोर्थः । दर्शितश्यायं ग्रन्थारम्भे भाष्यकृद्भिरेव इति । तृतीयोऽध्यायः । १३५ लोकसंग्रहार्थं प्रारब्धकर्मबलात् कर्मणासहैवासन्यस्यैव तु संसिद्धिमास्थिता इत्यर्थः । अथ अप्राप्तसम्यग्दर्शना जनकादयः तदा कर्मणा सच्वशुद्धिसाधनभूतेन क्रमेण संसिद्धिं आस्थिता इति व्याख्येयः श्लोकः । अथ मन्यसे पूर्वैरप्यजानद्भिरेव कर्तव्य कृतं नावश्यमन्येन कर्तव्यं सम्यग्दर्शनवता कृतार्थेनेति, तथापि प्रारब्धकर्मायत्तः त्वं लोकसंग्रहमेवापि लोकस्य उन्मार्गप्रवृत्ति निवारण लोकसंग्रहः तमेवापि प्रयोजनं सम्पश्यन् कर्तुमर्हसि ॥२०॥ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥२१॥ लोकसंग्रहः किमर्थं कर्तव्य इति उच्यते - यद्यदिति । यद्यत्कर्माचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्माचरति इतरोऽन्यो जनः तदनुगतः । किंच स श्रेष्ठो यत्प्रमाणं लौकिकं वैदिकं वा कुरुते लोकस्तदनुवर्तते तदेव प्रमाणीकरोतीत्यर्थः ॥ २१ ॥ न मे पार्थास्ति कर्तव्य त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥ यद्यप्यत्र लोकसंग्रहकर्तव्यतायां ते विप्रतिपत्तिः, मां किन्नपश्यसि - नेति । न मे परहृदयस्याप्रत्यक्षत्वाज्जनकादयः प्राप्तसम्यग्दर्शना एवेति निश्चतुमशक्यत्वात्पक्षान्तरमाह - अथेत्यादिना । जनकादयः कर्मणैव क्रमेण संसिद्धिमास्थिता इति श्लोको व्याख्येय इत्यन्वयः । अयमेवार्थ आदौ मया लिखितः । ननु जनकादयः प्राप्तसम्यग्दर्शना इत्यत्र नास्ति बलवत्प्रमाणं जनकयाज्ञवल्क्ययोरुक्तिप्रत्युक्त्या - दिकं तु परोक्षज्ञानसाधनतयोपक्षीणं- अप्राप्तसम्यग्ज्ञाना इत्यत्र तु बलवल्लिङ्गमस्ति कर्मानुष्ठानरूपम विद्व- द्विषयत्वात्कर्मानुष्ठानस्य- अहं तु इतः प्रागप्राप्तज्ञानोपीदानीं त्वदुपदेशमाहात्म्यात्प्राप्तसम्यग्दर्शन एव भवामि ततो नाहं युद्धाख्यमन्यद्वा कर्म कुर्यामिति मतमर्जुनस्याशङ्कयाऽऽह भगवान्- लोकसंग्रहमि - त्युत्तरार्थमित्याह भाष्यकारः - अथ मनन्यस इति । पूर्वैरप्यजानद्भिरप्राप्तसम्यग्दर्शनैरेव जनकादिभिः कर्तव्यं कर्म कृतं सम्यग्दर्शनवता । अत एव कृतार्थेनान्येन मादृशेन तु तदवश्यं न कर्तव्यमित्यथ मन्यसे मन्यसे यदीत्यर्थः । पूर्वैरपीत्यपिशब्दस्तु पूर्वेषां ज्ञानादिसामग्र्यतिशयं द्योतयति । कृतार्थपदं तु कृतकृत्यत्वबोधकम् । तच्च- अकृतकृत्यः कृत्यं करोतु नाम कृतकृत्यः कथं कृत्यं कुर्यातदानीमेव कृत- भोजनो भोजनमिवेति सूचयति - प्रारब्धेति । प्रारब्धकर्मणोऽनतिक्रमणीयत्वादिति भावः । एतेन तवास्ति युद्धहेतुप्रारब्धकर्मेति भगवता सूचितमर्जुनाय सर्वज्ञेन उन्मार्गः अधर्ममार्गः सम्पश्यन्सम्यग्ज्ञानन् । 1 यद्यदिति । श्रेष्ठो यद्यदाचरति इतरो जनस्तत्तदेवाचरति, प्रधान इति विद्यादिभि- रुत्कृष्टः । यत्प्रमाणमिति व्यस्ते पदे यत् शास्त्रादिकं स श्रेष्ठः प्रमाणं कुरुते प्रमाणत्वेन स्वीकरोति, इतरो लोकः तदेव शास्त्रादिकं प्रमाणमनुवर्तते अनुसृत्य प्रवर्तते । फलितार्थमाह - तदेव प्रमाणी- करोतीति ॥२१॥ नेति । हेपार्थ मे त्रिषु लोकेषु किञ्चन कर्तव्यं नास्ति - अनवाप्तमवाप्तव्यं च किञ्चन मे 1 १३६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मम पार्थास्ति न विद्यते कर्तव्य त्रिष्वपि लोकेषु किञ्चन किञ्चिदपि । कस्मात् नानवासं अप्राप्त अवाप्तव्यं प्रापणीयं तथापि वर्त एव च कर्मणि अहम् ||२२|| यदि ह्यहं न वर्तेय जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तते मनुष्याः पार्थ ! सर्वशः ||२३|| यदीति । यदि हि पुनरहं न वर्तेय जातु कदाचित् कर्मण्यतन्द्रितः अनलसस्सन् मम श्रेष्ठस्य सतः वर्त्म मार्ग अनुवर्तन्ते मनुष्याः हेपार्थ ! सर्वशः सर्वप्रकारैः ||२३| उत्सीदेयुरिमे लोका न कुर्यां कर्मचेदम् । सङ्करस्य व कर्ता स्यामुपहन्यामिमाः प्रजाः ||२४|| तथा को दोष इत्यवाह - उत्सीदेयुरिति । उत्सीदेयुर्विनश्येयुः, इमे सर्वे लोकाः लोकस्थितिनिमित्तस्य कर्मणोऽभावात् न कुर्यां कर्म चेदहम् । किंच सङ्करस्य च कर्ता स्याम् । तेन कारणेनोपहन्यामिमाः प्रजाः प्रजानामनुग्रहाय प्रवृत्तोहमुपहतिं कुर्यामिति महेश्वरस्याननु- रूपमापद्येत ॥२४॥ सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ! कुर्याद्विद्वांस्तथाऽऽसक्तचिकीर्षुर्लोकसंग्रहम् ||२५|| नास्ति, कर्मण्येव वर्ते च । मां किमिति । मद्दृष्टान्तेन लोकसंग्रहकर्तव्यतायां विषये तव वर्तमाना विप्रतिपत्तिः स्वयमेव निराकरणीयेत्यर्थः । अप्राप्तस्य प्राप्त्यर्थं लोकाः कर्म कुर्वन्तीति प्रसिद्धम् – स्वर्गाद्यर्थं ज्योतिष्टोमादौ लोकानां प्रवृत्तिदर्शनात् । अवाप्तसमस्तकामः परिपूर्णो भगवान्वासुदेवस्तु कमर्थमुद्दिश्य कर्मणि प्रवर्तेत - न कमपि, तथापि कर्मणि वर्ततएव वासुदेवो लोकसंग्रहार्थमित्यर्थः ॥२२॥ यदीति । ननु तव किं लोकसंग्रहेण फलमतो माकुरुष्व त्वमपि कर्मेत्यत आह- भगवान् - यदीति । यदि ह्यहमतन्द्रितस्सन् जातु कर्मणि न वर्तेय इत्यन्वयः । अतन्द्रित इत्यनेन कर्मत्यागे हेतुरलसत्वं सूचितम् । यद्यप्यात्मनिष्ठः पुरुष आत्मानन्दानुभव पारवश्यादेव कर्म जहाति, न त्वालस्या- तथापि आलस्यप्रयुक्तः कर्मत्यागोऽनुचित इति बोघनायातन्द्रित इत्युक्तम् । ममेति । ज्ञानबलादिभि- रुत्कृष्टस्येत्यर्थः ॥२३॥ उत्सीदेयुरिति । अहं कर्म न कुर्यांचेदिमे लोका उत्सीदेयुः विनश्येयुरिति नरकप्राप्त्यादि- लक्षणं नाश प्राप्नुयुरित्यर्थः । सङ्करस्येति । याजनयुद्ध गोरक्षण सेवा दिवर्णधर्माः, गुरुकुलवा सवैश्वदेव- वनवासभिक्षाटनाद्याश्रमधर्माश्च पृथगसंकीर्णा वर्णाश्रमविभागबोधकाः यदि लुप्येरन्, तर्हि वर्णाश्रम- सङ्करस्स्यादित्यर्थः । तेनेति । साङ्गर्यकरणेनेत्यर्थः । उपहन्यां नाशयेयं - नरकदुःखप्राप्यादिनाशं जन- येयमित्यर्थः । सङ्करो नरकायैवेत्यर्जुनेनैवोक्तत्वादिति भावः । तस्माद्यथाहं परमात्मा सर्वज्ञ आत्मवि- दपि क्षत्रियजातिगृहस्थाश्रमोचितानि कर्माणि लोकसंग्रहार्थं करोमि तद्वत्त्वमपि कुर्ववश्यमित्यर्थः ॥२४॥ १८ तृतीयोऽध्यायः । १३७ यदि पुनरहमिव त्वमपि कृतार्थबुद्धि: आत्मविदन्यो वा तस्याप्यात्मनः कर्तव्याभावेपि इतरानुग्रह एव कर्तव्य इत्याह-सक्ता इति । सक्ताः कर्मणि अस्य कर्मणः फलं मम भविष्यतीति, के अविद्वांसः यथा कुर्वन्ति भारत कुर्याद्विद्वानात्मवित्तथा असक्तस्सन् । तत्किमर्थं करोतीति तच्छृणु चिकीर्षुः कर्तुमिच्छुः लोकसंग्रहम् ॥२५॥ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान् युक्तस्समाचरन् ॥२६॥ एवं लोकसंग्रहचिकीर्षोने ममात्मविदः कर्तव्यमस्ति अन्यस्य वा लोकसंग्रह मुक्त्वा । तस्मात्त इदमुपदिश्यते - नेति । बुद्धेर्भेदो बुद्धिभेदः कर्तव्यं मया कर्म भोक्तव्यं चास्य कर्मणः फलमिति निश्चितरूपाया बुद्धेर्भेदनं चालनं बुद्धिभेदः तं न जनयेत् नोत्पादयेत् । अज्ञानामविवेकिनां कर्मसङ्गिनां कर्मण्यासङ्गवतां किंच कुर्यात् जोषयेत् कारयेत् सर्वकर्माणि विद्वान् स्वयं तदेवाविदुषां कर्मयुक्तोऽभियुक्तस्समाचरन् ॥ २६ ॥ प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ||२७|| सक्ता इति । कृतार्थबुद्धिः कृतार्थोहमिति बुद्धिशाली कृतस्साक्षात्कृतोर्थः परमार्थ आत्मा यया सा कृतार्था बुद्धिर्यस्य स कृतार्थबुद्धिरिति वा । कृतार्था कृतकृत्या बुद्धिर्यस्येति वा ! आत्मनि कृत- कृत्य त्वाकृतकृत्यत्वादिविशेषासम्भवाद्बुद्धिरेव सच्चिदानन्दात्मतादात्म्यमापद्य कृतकृत्यतामात्मनि सम्भाव- यतीत्यर्थः । अन्योवेति । त्वत्त इतरो वा अहमिव कृतार्थबुद्धिरात्मविदित्यर्थः । तस्यान्यस्य आत्मन- स्तवापि कर्तव्याभावेपीतरानुग्रहः कर्तव्य एव । यथा मया इतरानुग्रहः क्रियते तथा मादृशेन त्वया - न्येन वाऽऽत्मविदा कर्तव्य एवेतरानुग्रहः । कर्मकरणद्वारेत्यर्थः । तस्यापि तादृशस्यापि आत्मनस्स्वस्य कर्तव्याभावेपीत्यन्वयः । तस्यापीत्यतः प्राक्तति पूरणीयम् । हेभारत अविद्वांसः कर्मणि सत्तास्सन्तः यथा कर्म कुर्वन्ति तथा विद्वानसक्तस्सन् लोकसंग्रह चिकीर्षुः कर्म कुर्यात् । कथं कर्मणि सङ्गोऽत आह— अस्येति । फलद्वारा कर्मसङ्ग इत्यर्थः ॥ २५ ॥ नेति । विद्वान् कर्मसङ्गिनामज्ञानां बुद्धिभेदं न जनयेत्, विद्वान् युक्तस्समाचरन् सन् सर्व- कर्माणि जोषयेत् । एवमिति । एवं लोकसंग्रहचिकीर्षोर्मम आत्मविदोऽन्यस्य वा लोकसंग्रह मुक्त्वा कर्तव्यं नास्ति । तस्माल्लोकसंग्रहेतरप्रयोजनाभावात् ते तुभ्यमिदमुपदिश्यते मयेति शेषः । अज्ञस्य बुद्धिं दर्शयति — कर्तव्यमित्यादिना, जोषयेदिति । जुषीप्रीति सेबनयोरिति धातोः सेवनार्थका- ज्जुषतेः हेतुमति णिच । युक्तः चित्तसमाधानरूपयोगशाली । आदावेव पुंसां ज्ञानयोगेऽधिकारा- भावात्कर्मसु प्रवृत्तिरुपपद्यते - विदुषा कर्मसु निन्दितेषु तु अज्ञाः कर्मभ्यो निवर्तन्ते स्वयम् । न तु ज्ञानयोगे प्रवर्तितुं क्षमन्ते । अत उभयभ्रष्टा भवन्ति । तस्मात्कर्मनिन्दादिना नाज्ञानां बुद्धि भ्रंशये- द्विद्वानित्यर्थः ॥२६॥ । १३८ श्रीभगवद्गीता - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
अविद्वान्कथं कर्मसु सज्जत इत्याह — प्रकृतेरिति । प्रकृतेः प्रकृतिः प्रधानं सचरज- स्तमसां गुणानां साम्यावस्था तस्याः प्रकृतेः प्रकृतितो जाताः सच्चरजस्तमांसि कार्यकरणा- कारपरिणतास्तैर्गुणैर्विकारैः कार्यकरणरूपैः क्रियमाणानि कर्माणि लौकिकानि शास्त्रीयाणि च सर्वशः सर्वप्रकारैः अहङ्कारविमूढात्मा कार्यकरणसङ्घाते आत्मप्रत्ययोऽहङ्कारस्तेन विविधं नानाविधं मूढः आत्मा अन्तःकरणं यस्य सोयं कार्य करणधर्मा कार्य करणाभिमानी अविद्यया कर्माण्यात्मनि मन्यमानः तत्कर्मणामहं कर्तेति मन्यते ||२७|| तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणागुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥ यः पुनर्विद्वान् – तत्त्वविदिति । तत्त्ववित्तु महाबाहो कस्य तत्त्ववित् गुणकर्म - विभागयो:- गुणविभागस्य कर्मविभागस्य तत्त्वविदित्यर्थः । गुणा: करणात्मकाः गुणेषु प्रकृतेरिति । सर्वशः प्रकृतेर्गुणैः क्रियमाणानि कर्माणि अहङ्कारविमूढात्मा अहं कर्तेति मन्यते । साक्षात्सत्त्वादिगुणानां कर्तृत्वाभावादाह - कार्यकरणाकारपरिणता इति । कार्य देहः करणानि समनस्कानीन्द्रियाणि । विकारैरिति । कार्यैरित्यर्थः । गुणसाम्यावस्था रूपप्रकृतिजन्यत्वा- त्प्रकृतिविकारत्वं गुणानामित्यर्थः ।
1 ननु ईक्षतेर्नाशब्दमिति प्रधानाख्यस्य साङ्ख्यपरिकल्पितस्य तत्त्वस्याशब्दत्वं व्यासेनैव सिद्धा- न्तितमिति कथमिह तद्ग्रहणमिति चेदुच्यते – नेयं प्रकृतिस्तत्त्वान्तरं, किंतु मायैव- इयं हि सत्त्वा - दिगुणत्रयवती - प्रलये गुणास्ते त्रयोऽस्यां निलीय साम्येन वर्तन्ते इति तदाऽस्याः प्रकृतिरिति नाम- सृष्टचुपक्रमे त्वस्याः गुणाः क्षुभ्यन्ते स एव गुणक्षोभस्सत्त्वादिगुणोत्पत्तिरित्युच्यते - इति । अहङ्कारेति । कार्यकरणसङ्घाते आनात्मनि अहमिति यः प्रत्ययस्सोहङ्कार इत्युच्यते । एतेन ब्रह्मण्यात्मबुद्धिर्नाहङ्कार इति सूचितं- तस्यात्मत्वात् । नानाविधमिति । स्थूलोहं काणोहं रुग्णोहं खिन्नोहमित्यादि बहुप्रकारं मूढः मोहं प्राप्तः कोऽयमत आह— कार्यकरणधर्मेति । कार्यकरणगतधर्मानात्मन्यभ्यस्तवानित्यर्थः । अतएव कार्यकरणाभिमानी कार्यकरणेषु ममेति अहमिति चाभिमानवान् अतएव अविद्यया भ्रान्त्या आत्मनि स्वस्मिन् कर्माणि सन्तीति मन्यमानः- कार्यकरणगतकर्माण्यात्मगतानि मन्वान इत्यर्थः । तत्कर्मणां कार्यकरणकर्मणां कर्ता अहमिति मन्यते । कार्यकरणाकारपरिणतसत्त्वादिप्रकृतिगुणत्रयक्रिय- माणकर्माणि मूढोहमेव करोमीति मन्यत इति समुदायार्थः । देहे गच्छत्यहं गच्छामीति चक्षुषि पश्यत्यहं पश्यामीति, मनसि शोचत्यहं शोचामीति च देहादितादात्म्याभ्यासाद्भ्रान्त्या पुरुषो मन्यत इति यावत् ॥२७॥ तत्वविदिति । तुशब्दस्य पूर्वोक्तवैलक्षण्यद्योतकत्वादाह - यः पुनर्विद्वानिति । हेमहाबाहो गुणकर्मविभागयोस्तत्त्ववित्तु गुणागुणेषु वर्तन्त इति मत्वा न सज्जते - तत्त्वं याथार्थ्य वेत्ति जानातीति तत्त्ववित् । द्वन्द्वान्ते श्रूयमाणं प्रत्येकं सम्बध्यत इति न्यायादाह – गुणविभागस्य कर्मविभागस्य
4 तृतीयोऽध्यायः । विषयात्मकेषु वर्तन्ते नात्मेति मत्वा न सज्जते सक्ति न करोति ॥ २८ ॥ प्रकृतेर्गुणसम्मूढास्सज्जन्ते गुणकर्मसु । तान कृत्स्त्रविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥२९॥ १३९ ये पुनः — प्रकृतेरिति । प्रकृतेर्गुणैस्सम्मूढास्सम्यङ्मूढास्सन्तरसज्जन्ते गुणानां कर्मसु गुणकर्मसु वयं कुर्मः फलायेति तान्कर्मसङ्गिनः अकृत्स्त्रविदः कर्मफलमालदर्शिनः मन्दान्मन्द- प्रज्ञान् कृत्स्त्रवित् आत्मवित् स्वयं न विचालयेत् - बुद्धिभेदकरणमेव चालनं तन्न कुर्या - दित्यर्थः ॥२९॥ मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ||३०|| 1 कथं पुनः कर्मण्यधिकृतेनाज्ञेन मुमुक्षुणा कर्म कर्तव्यमिति, उच्यते - मयीति । मयि चेति । गुणकर्मणोर्विभागौ गुणकर्मविभागौ तयोरिति समासः । वक्ष्यति भगवांश्चतुर्थाध्याये स्वयमेव गुणकर्मविभागद्वयम् — ‘सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञान- मेव’चेत्यादि । सति तु गुणकर्मविभागज्ञाने- ‘नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छती ‘ति तत्रैव वक्ष्यमाणरीत्या गुणा एव कर्मकर्तारो नाहमिति मन्यते, ततश्च मुक्तो भवति इदमेवात्राप्युच्यते- ‘गुणागुणेषु वर्तन्त इति मत्वा न सज्जत’ इति । करणात्मका इति । इन्द्रियरूपेण परिणता स्स्सत्त्व | दिगुणा इत्यर्थः । विषयात्मकेषु शब्दादिविषयरूपेण परिणतेषु सत्त्वादिगुणेष्वित्यर्थः । सर्वस्यापि जगतसत्त्वादिगुणकार्यत्वादिति भावः । गुणानां गुणेषु वृत्त्युक्त्य फलितमाह —नात्मेति । आत्मा न गुणेषु वर्तत इत्यर्थः । न सज्जत इति । गुणकर्म स्विति भावः यद्वा ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तु’ ष्विति कोशाद्गुणा इन्द्रियाणि कर्माणि तद्व्यापारा: तद्विभागवित् अस्येन्द्रियस्येदं कर्मेति वेत्तेत्यर्थः । अन्यत्तुल्यम् । गुणेभ्यस्सकाशाच्चात्मनो विभागौ गुणकर्मविभागाविति श्रीधरः ॥ २८ ॥ प्रकृतेरिति । गुणैस्सत्त्वादिभि:- ‘तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बन्नाति ज्ञानसङ्गेन चानघ ॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ तमस्त्वज्ञानज विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भार’ - तेति वक्ष्यमाणविधया गुणानां मोहकत्वं बोध्यम् । गुणानां सत्त्वादीनां कर्मसु यज्ञादिषु सज्जन्ते । सङ्गप्रकारं दर्शयति- वयमिति । फलार्थ वयं कर्माणि कुर्म इति सज्जन्त इत्यर्थः । फलाभिसन्धिपूर्वक कर्तृत्वाभिमान एव सङ्ग इति भावः । कृत्स्नं सर्वं ब्रह्मेति यावत्- ‘सर्वं खल्विदं ब्रह्मे ‘ति श्रुतेः । यद्वा कृत्स्नमशेषं ब्रह्मेति यावत्– ‘निषेधशेषो जयतादशेष’ इति भागवतात् । तदभिन्नत्वादात्मन आह— आत्मविदिति ॥ २९ ॥ मयीति | अध्यात्मचेतसा मयि सर्वाणि कर्माणि सन्न्यस्य, निराशीर्निर्ममध्ध भूत्वा विगत- । १४.० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशङ्करभाष्योपेतासु देवे परमेश्वरे सर्वज्ञे सर्वात्मनि वासुदेवे सर्वाणि कर्माणि सन्न्यस्य निक्षिप्य अध्यात्मवेतसा विवेकबुद्धया अहं सर्वेश्वराय भृत्यवत् करोमीत्यनया बुद्ध्या । किंच निराशीः त्यक्ताशीः निर्ममः ममभावश्च निर्गतो यस्य तव सः त्वं निर्ममो भूत्वा युध्यस्व विगतज्वरः चीत- सन्तापः विगतशोकस्सन्नित्यर्थः ॥ ३० ॥ ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेपि कर्मभिः || ३१ ॥ यदेव मम मतं कर्तव्यमिति सप्रमाणमुक्तं तत्तथा । य इति । येमे मदीयमिदं मत नित्यमनुतिष्ठन्ति अनुवर्तन्ते मानवा: मनुष्याः श्रद्धावन्त: श्रद्धधानाः अनसूयन्त:- असूयां च मयि परमगुरौ अकुर्वन्तः मुच्यन्ते तेपि एवंभूताः कर्मभिः धर्माधर्माख्यैः ||३१|| ज्वरस्सन् युध्यस्व । मयीति । कस्त्वमत आह- देवे इति । दीव्यति भूतपालनादिना क्रीडतीति खय- म्प्रकाशत इति वा देवः तस्मिन् नन्वीदृश ईश्वर एवेत्यत आह- परमेश्वर इति । अहमेवेश्वरो न मत्तोऽन्यस्तीत्यर्थः । ननु स सर्वज्ञस्सर्वविदितीश्वरस्सर्वज्ञो न त्वमत आह– सर्वज्ञ इति । ननु प्रत्यक्षे कर्मसन्न्यासः कर्तुं शक्यः ईश्वरस्तु परोक्षः कथं तस्मिन् स कर्तव्य इत्यत आह- सर्वात्मनीति । सर्वेषामात्मनि प्रत्यग्रूपे - न हि खात्मा स्वस्य परोक्ष इति भावः । अत एव मम वासुदेवाभिधा, न तु वसुदेवपुत्रत्वप्रयुक्तेत्याह – वासुदेवे इति । वसन्ति जगन्त्यस्मिन्निति, वसति जगत्ययमिति वा वासु:– दीव्यतीति देव :- वासुश्चासौ देवो वासुदेव इति निरुक्तेरिति भावः । ईश्वरे कर्म निक्षेपोनाम ईश्वरार्थ कर्मकरणमेवेत्याह— अहं सर्वेश्वरायेति । भृत्यवदिति दृष्टान्तः । यथा भृत्यो राजार्थं युद्धादिकर्म करोति तद्वदिति । नन्वीश्वरार्थं कर्म करोमीति बुद्धिः कथं विवेकबुद्धिर्भवितुमर्हति, न कथमपि किं त्वविवेक- बुद्धिरेव - निष्कलनिष्क्रियशान्तपरिपूर्णानन्दरूपत्वादीश्वरस्य इति चेत्, मैवम् - अज्ञपरो ह्ययं श्लोक:– कर्मप्रतिपादकत्वादज्ञस्य च सच्चिदानन्दरूप ईश्वर इति न ज्ञानमस्ति किं तु परोक्षस्सर्वजगन्नियामकः प्रभुतुल्य ईश्वरः कश्चित्काप्यस्तीति । वेदरूपया तदाज्ञया मयावश्यं कर्म कर्तव्यं नतु फलमभिसन्धेय- मन्यथा मां पातयेदीश्वर इति ज्ञानमस्ति । यः पुनः खर्गाद्यर्थं कर्म करोमीति मन्यते तद्दृष्ट्या विवे- क्येवायमज्ञोपीति कृत्वा एतदज्ञबुद्धेर्विवेकबुद्धित्वमुक्तमिति । | ननु अध्यात्मचेतसेत्यस्य विवेकबुद्धयेत्यर्थलाभः कथमिति चेदुच्यते - आत्मा परमात्मा तस्मिन्नध्यात्ममात्मविषयमित्यर्थः । चेतो ज्ञानमध्यात्मचेतः- परमात्मविषयबुद्धिः परमात्मार्थमहं कर्म करो- मीत्याकारिका बुद्धिरित्यर्थः । अस्या बुद्धेः विवेकबुद्धित्वं सिद्धमेव- ‘यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धन’ इतीश्वरार्थ कर्मणोऽबन्धकत्ववचनात् ॥ ३० ॥ य इति । ये मानवाः श्रद्धावन्तोऽनसूयन्तश्च सन्तः मे इदं मतं नित्यमनुतिष्ठन्ति तेपि कर्मभिर्मुच्यन्ते । परमगुराविति । सर्वकारणत्वाद्गुरूणामपि गुरावित्यर्थः । तेपीत्यपिना ज्ञानयोगिनां मुक्तिरविवादेति सूच्यते ॥३१॥ तृतीयोऽध्यायः । ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥ ३२ ॥ १४१ येत्विति । येतु तद्विपरीताः एतन्मे मम मतं अभ्यसूयन्तः नानुतिष्ठन्ति नानुवर्तन्ते सर्वेषु ज्ञानेषु विविधं मूढाः ते सर्वज्ञानविमूढाः तान् विद्धि विजानीहि नष्टान् नाशं गतान् अचेतसः अविवेकिनः ||३२|| सदृश चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||३३|| कस्मात् पुनः कारणात् त्वदीय मतं नानुतिष्ठन्तः परमतमनुतिष्ठन्ति, स्वधर्म च नानु- वर्तन्ते त्वत्प्रतिकूलाः कथं न भिभ्यति त्वच्छासनातिक्रमदोषात् ? सदृशमिति । सदृशमनु- रूपं चेष्टते कस्याः स्वस्याः स्वकीयायाः प्रकृतेः प्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारो वर्तमान- जन्मादावभिव्यक्तः सा प्रकृतिः तस्यास्सदृशमेव सर्वो जन्तुः ज्ञानवानपि - किमुत मूर्खः । तस्मात्प्रकृतिं यान्ति भूतानि । निग्रहः किं करिष्यति - मम वान्यस्य वा दुर्निग्रहा प्रकृतिरिति वाक्यशेषः ॥ ३३ ॥ इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ स्य परिपन्थिनौ ||३४| यदि सर्वे आत्मनः प्रकृतेस्सदृशमेव चेष्टन्ते, नच प्रकृतिशून्यः कश्चिदस्ति ततः पुरुष- कारस्य विषयानुपपत्तेः शास्त्रानर्थक्यप्राप्तौ इदमुच्यते - इन्द्रियस्येति । इन्द्रियस्येन्द्रियस्य येत्विति । तद्विपरीताः पूर्वोक्तकर्मयोगिविपरीता :- नतु ज्ञानयोगिन इति भ्रमितव्यं व्याघातात् । किंतु ज्ञानयोगिभ्यः कर्मयोगियोपि भिन्ना इति बोध्यम् । सर्वज्ञानविमूढान् तानचेतसो नष्टान्विद्धी- त्यन्वयः । सर्वज्ञानेषु विमूढाः सर्वज्ञानविषयकमोहाक्रान्ताः सर्वविधज्ञानशून्या इत्यर्थः । नाश नरक- प्राप्तिस्थावरादिजन्मप्राप्तिरूपमिति भावः ॥ ३२॥
सदृशमिति, परमतमिति । नास्तिकादिमतं शैवादिमतं वेत्यर्थः । ज्ञानवानपि स्वस्याः प्रकृते- स्सदृशं चेष्टते- सदृशमनुरूपं कर्म चेष्टते करोति सदृशं यथातथा चेष्टते व्याप्रियते इति वा । भूतानि प्रकृतिं यान्ति प्रकृतिपरतन्त्राणीत्यर्थः । ननु धीरो निगृह्णीयात्प्रकृतिमत आह— निग्रहः किं करि- ष्यतीति । प्रकृतिविषयो निग्रहो व्यर्थ इत्यर्थः । मम वेतीश्वरस्यापीत्यर्थः । अयमाशय: - प्राग्जन्मनि येन पुरुषेण यो धर्मोऽधर्मो वा सम्पादितः, स हि संस्काररूपेण तदात्मनि वर्तते - जन्मान्तरपरिग्रहे तु स उद्बुद्धस्सन् तं पुरुषं स्वानुगुणं सत्कर्मणि दुष्कर्मणि वा प्रवर्तयति - नतु तन्निरोधे सामर्थ्य मस्तीश्वरस्य जीवस्य वा ईश्वरेणैव तस्य तादृशसामर्थ्यस्य दत्तत्वात्, जीवस्य च स्वतएवाशक्तत्वादिति ॥ ३३ ॥ इन्द्रियस्येति, प्रकृतिशून्य इति । मुक्तावेव धर्माधर्मसंस्कारस्य यमूलोच्छेदो नतु व्यवहारे १४२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासुं वीप्सायां द्विरुक्तिः । सर्वेन्द्रियाणामर्थे शब्दादिविषये इष्टे रागः अनिष्टे, द्वेष इत्येवं प्रतीन्द्रि- यार्थ रागद्वेषाववश्यं भाविनौ । तत्रायं पुरुषकारस्य शास्त्रार्थस्य विषय उच्यते - शास्त्रार्थे प्रवृत्तः पूर्वमिव रागद्वेषयोवंश नागच्छेत्, या हि पुरुषस्य प्रकृतिस्सा रागद्वेषपुरस्सरैव स्वकार्ये प्रवर्तयति यदा तदा स्वधर्मपरित्यागः परधर्मानुष्ठानं च भवति, यदा पुनः रागद्वेषौ तत्प्रति- पक्षेण नियमयति तदा शास्त्रदृष्टिरेव पुरुषो भवति न प्रकृतिवशः । तस्मात्तयो रागद्वेषयोर्वशं नागच्छेत् । यतस्तौ यस्य पुरुषस्य परिपन्थिनौ श्रयोमार्गस्य विघ्नकर्तारौ तस्कराविव पथः ॥ इति भावः । पुरुषकारस्य पुरुषप्रयत्नस्य प्रकृतेर्दुर्निग्रहत्वात्पुरुषस्य तत्परतन्त्रत्वात्स्वप्रकृत्यनुसारेण स्वयं पुरुषश्चष्टते, नतु शास्त्रमधीत्य तत्प्रतिपादितविधया चेष्टितुं शक्नोतीति कृत्वा शास्त्रं व्यर्थमित्यर्थः । पुरुषकारस्य विषयं प्रतिपादयति — इन्द्रियस्येति ।
अयमर्थः – पुरुषः स्वधर्माधर्मसंस्कारानुगुणं सत्कर्मणि दुष्कर्मणि वा प्रवर्तते सा च प्रवृत्ति- विषयगतरागद्वेषपूर्विकैव तस्य नहि रागविना कश्चिदधर्म संस्कारमात्रेण परस्त्रीगमने प्रवर्तते, नापि द्वेषं- विना स्वस्त्रीगमनं जहाति, तथा न रागविना कश्चिद्धर्मसंस्कारमात्रेण स्वस्त्रीगमने प्रवर्तते, नापि द्वेषं विना परस्त्रीगमनं जहाति तयोश्च रागद्वेषयोर्वशीकरण पुरुषकारस्य विषयोऽस्तीति न शास्त्रवैयर्थ्यम् । ननु प्रकृतिपरतन्त्रस्य रागद्वेषनियमनं नोपपद्यते - पुरुषस्य हि धर्माधर्मसंस्कारवशादेव सद्विषये रागः, असद्विषये द्वेषश्च भवति - रागद्वेषभावानन्तरमेव स तत्रतत्र प्रवर्तते, सति च रागद्वेषोत्पत्ति कारणे धर्माधर्मसंस्कारे रागद्वेषयोरनुत्पत्तिः पुरुषकारमात्रेणेति साहसमेतत् इतिचेत्, मैवम् न वयं रागद्वेषयो- रुत्पत्तिं निवारयामः, किंतु उत्पन्नयोरेव रागद्वेषयोः पुरुषकारेण प्रतिबन्धं ब्रूमः- यथा काष्ठादुत्पन्नस्यै- वाग्नेर्मणिमन्त्रादिना दाहकत्वप्रतिबन्धः तद्वदुत्पन्नयोरेव रागद्वेषयोः कार्यप्रवर्तकत्वप्रतिबन्ध इति । ननु य एव संस्कारो रागद्वेषौ जनयति स एव तत्तत्कार्यमपि जनयति उक्तं हि त्वयैव राग- द्वेषपुरस्सरैव प्रकृतिः पुरुषं कार्ये प्रवर्तयतीति । साहि प्रकृतिर्दुर्निग्रहा । ततो नास्ति पुरुषकारस्य विषय इति चेत्, मैवमपि धर्माधर्म संस्काररूपप्रकृतेः विषयेषु रागद्वेषजननमात्रएव सामर्थ्य, कार्ये प्रवर्तकत्वं तु रागद्वेषयोरेव । एतदभिप्रायेणैव रागद्वेषपुरस्सरैवेत्युक्तं भाष्यकारैः । यदि तु प्रकृतेरेव रागद्वेषजनकत्वं कार्यप्रवर्तकत्वं च तर्हि क्षुद्रस्यापि राजकन्यायां रागसत्त्वेन तत्कार्ये प्रवृत्तिस्स्यात्, न त्वेतदस्ति - क्षुद्रो हि राजकन्यां दृष्ट्रा एषा मम स्यादिति तत्र रागं प्रपद्यापि क्व राजकन्या व चाहं क्षुद्र इति विमृश्य तद्रागमेव जहाति न तु तत्प्राप्त्यर्थं यतते । ततश्च प्रकृतिसम्भवस्यापि रागस्य पुरुष- कारेण विमर्शरूपेण निवृत्तिर्दृश्यते, विमर्शहीनस्तु तत्र यतते ताड्यते च भटैः । रागस्योत्पत्तिम्प्रति तु न पुरुषकारस्य प्रतिबन्धः स्वाभाविकत्वात्तस्य । तस्माद्धर्माधर्मसंस्कारवशात्पुरुषस्येन्द्रियार्थेषु रागद्वेषोदयः, अप्रतिबन्धाभ्यां रागद्वेषाभ्यां तु कार्याकार्यप्रवृत्तिरिति कृत्वा पुरुषकारस्यास्ति विषयो रागद्वेषवशीकरणं- पुरुषकारस्यैव तत्प्रतिबन्धकत्वात् इति । तदा स्वधर्मेति । अधर्म संस्कारवशात्पुरुषस्य परधर्मे रागः, स्वधर्मे द्वेषश्च यदा जायते तदा स्वधर्मत्यागः परधर्माननुष्ठानं च भवति, यदा तु धर्मसंस्कारवशात्स्वधर्मे रागः परधर्मे द्वेषश्च जायते तदा स्वधर्मानुष्ठानं परधर्मानुष्ठानं च भवतीति बोध्यम् । तृतीयोऽध्यायः । श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ||३५|| १४३ तत्र रागद्वेषप्रयुक्तः मन्यते शास्त्रार्थमप्यन्यथा - परधर्मोपि धर्मत्वादनुष्ठेय एवेति तदसत् श्रेयानिति । श्रेयान् प्रशस्यतरः स्वो धर्मः स्वधर्मः विगुणोपि विगतगुणोपि अनुष्ठीयमानः परधर्मात्स्वनुष्ठितात् साद्गुण्येन सम्पादितादपि स्वधर्मे स्थितस्य निधनं मरणमपि श्रेयः परधर्मे स्थितस्य जीवितात् । कस्मात्, परधर्मो भयावहः- नरकादिलक्षणं भयमावहतीति ॥ ३५ ॥ अथ केन प्रयुक्तोय पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः || ३६॥ नन्वेवं धर्मसंस्कारजन्यरागद्वेषयोरपि नियमने स्वधर्मप्रवृत्तिः परधर्मनिवृत्तिश्च न स्यादिति चेत्, मैवम् — धर्मसंस्कारवशात्स्वधर्मे रागे परधर्मे द्वेषे च जाते सति विद्वान्पुरुषः पुरुषकारेण रागद्वेषौ नियम्यैव तत्र प्रवर्तेत, रागद्वेषपुरस्सरं प्रवृत्तेन तु पुंसा तत्कर्मफलमवश्यं भोक्तव्यं स्यात् - तत्रापि तस्य रागसत्त्वादिति । यद्वा इष्टविषय रागेणानिष्टविषयद्वेषेण च धर्माधर्मसंस्कारजन्येन पुरुषस्य स्वधर्मपरित्यागः पर- धर्धानुष्ठानं च भवति तद्यथा ब्राह्मणस्य यजनयाजनादिः स्वधर्मः राज्यं त्विष्टो विषयः तद्रागेण च स परस्य क्षत्रियस्य धर्मे युद्धे प्रवर्तते, उपवासादयस्त्वनिष्टा विषयास्तद्वेषेण स्वधर्मं जहाति, क्षत्रियस्य युद्धं स्वधर्मः, भिक्षान्नभोजनादिकमिष्टो विषयः प्राचीनाधर्मसंस्कारबलात्- तद्रागेण च स परस्य ब्राह्म- णस्य धर्मे भिक्षाटने प्रवर्तते राज्यभोगस्त्वनिष्टो विषयः तद्वेषेण स्वधर्मं जहाति इत्येवमूह्यमिति । तत्प्रतिपक्षेणेति । रागद्वेषयोः प्रतिपक्षेणेत्यर्थः । वैराग्येण शान्त्येति च भावः ॥ ३४ ॥ श्रेयानिति । प्रशस्यस्य श्रइति श्रादेश ईयसुनिप्रत्यये इत्यभिप्रायादाह - प्रशस्यतर इति । स्वः स्वीयः स्ववर्णाश्रमविहित इत्यर्थः । न साक्षात्स्वधर्मस्य परधर्माच्छ्रेयस्त्वं वक्तुं शक्यं - ब्राह्मणधर्मस्य सन्न्यासस्य शूद्रधर्मात्सेवा दिरूपाद श्रेयस्करत्वसिद्धेः । किं त्वनुष्ठानद्वारैवेत्यभिप्रायादाह – अनुष्ठीय मान इति । अनुष्ठीयमानः स्वधर्मः स्वनुष्ठितात्परधर्माच्छ्रेयानित्यर्थः । सद्गुणस्यापि परधर्मस्यानुष्ठाना- द्विगुणस्यापि स्वधर्मस्यानुष्ठानं श्रेय इति परमार्थः । सुष्ठु अनुष्ठितः स्वनुष्ठितः सुशब्दार्थमेवाह- साद्गुण्येनेति । सद्गुणत्वात्परधर्मरसुष्टु स्वेन सम्पादित इत्यर्थः । स्वधर्मस्य निधनाधिकरणत्वाभावा- दाह — स्थितस्येति । किमपेक्षयास्य श्रेयस्त्वमत आह— परधर्मे स्थितस्य जीवितादिति । यः पर- धर्ममवलम्ब्य जीवति तस्मात्स्वधर्माचरणेन मृत एव गरीयानित्यर्थः । तत्र हेतु स्वयमेवाक्षिपति- कस्मादिति । एतेन क्षत्रियस्य तव सगुणस्यापि परधर्मस्य भिक्षान्न भोजनस्य स्वीकारेण जीवनादपि स्वधर्मे युद्धे प्रवृत्त्या पाक्षिकं मरणमपि श्रेयएव । किं पुनर्विजय इत्यर्जुनं प्रति कृष्णोपदेशः सूचितः ॥ -१४४ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेता सु यद्यप्यनर्थमूलं ध्यायतो विषयान् रागद्वेषौ ह्यस्य परिपन्थिनाविति चोक्तं विक्षिप्त- मनवधारितं च यदुक्तं तत्संक्षिप्तं निश्चितं चेदमेवेति ज्ञातुमिच्छन् अर्जुन उवाच -ज्ञाते हि तस्मित् तदुच्छेदाय यत्नं कुर्यामिति —– अथेति । अथ केन हेतुभूतेन प्रयुक्तस्सन् राज्ञेव भृत्यः अयं पापं कर्म चरति आचरति पूरुषः पुरुषः स्वयमनिच्छन्नपि हेवाष्र्णेय बलादिव नियोजितः राज्ञेवेत्युक्तो दृष्टान्तः ॥ ३६ ॥
श्रीभगवानुवाच - काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्धयेनमिह वैरिणम् ||३७|| शृणु तं वैरिणं सर्वानर्थकर ये त्वं पृच्छसीति - श्रीभगवानुवाच । ‘ऐश्वर्यस्य सम- ग्रस्य वीर्यस्य यशसरिश्रयः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥’ इति ऐश्वर्यादि- षट्कं यस्मिन्वासुदेवे नित्यमप्रतिबन्धेन सामस्त्येन च वर्तते । ‘उत्पत्ति प्रलयं चैव भूताना- मागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति । उत्पत्यादिविषय विज्ञानं च यस्य स वासुदेवो वाच्यो भगवानिति । काम इति । काम एष एव सर्वलोकशत्रुः- यन्नि- मित्ता सर्वानर्थप्राप्तिः प्राणिनां स एष कामः प्रतिहतः केनचित् क्रोधत्वेनैव परिणमते । अतः क्रोधोप्येष एव रजोगुणसमुद्भवः रजश्च तद्गुणश्च रजोगुणः स समुद्भवो यस्य स कामो रजोगुणसमुद्भवः रजोगुणस्य वा समुद्भवो रजोगुणसमुद्भवः कामो युद्भूतो रजः प्रतिपुरुष अथेति । ननु अर्जुनः अथ केन प्रयुक्त इत्यनर्थस्य मूलं पृच्छति । नेदं प्रष्टुमुचितं प्रागेव ‘ध्यायतो विषयान्पुंसस्सङ्गस्तेषूपजायत’ इति विषयध्यानं सर्वानर्थमूलमित्युक्तत्वात् । इहापि तौ ह्यस्य परिपन्थिनाविति विषयध्यानकृतसङ्गजन्यकामक्रोधयोरनर्थमूलत्वमभिहितमित्याक्षिपति - यद्यपीत्यादिना उक्तमित्यन्तेन । तथापीति शेषः । विक्षिप्तं विस्तृतमनवधारितमनिश्चितं च यदुक्तं कृष्णेनानर्थमूलं तदिदमेव संक्षिप्तं निश्चितं चेति ज्ञातुमिच्छन्नर्जुन उवाच । किं तज्जिज्ञासया फलमत आह-ज्ञाते- हीति । तस्मिन् सर्वानर्थमूले वस्तुनि ज्ञातेसति । अथेति प्रश्नार्थे । हेवार्ष्णेय अनिच्छन्नप्ययं पूरुषः केन प्रयुक्तस्सन् राज्ञा बलान्नियोजितो भृत्यइव पापं चरति पूरुष इति । पूश्शरीरं पुरि शेत इति पुरि शयः सएव पुरुषः पूरुषश्च पृषोदरादित्वादित्यभिप्रेत्याह – पुरुष इति ॥ ३६ ॥ ‘भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायिने । संसर्गेस्ति विवक्षायां भवन्ति मतुबादय’ इति वचना- दाह - नित्यमिति, काम इति । रजोगुणसमुद्भव एष काम एष क्रोधश्च महाशनो महपाप्मा भवति । एनमिह वैरिणं विद्धि । ननु कामक्रोधयोर्द्वयोर्भिन्नत्वात्कथं काम एष क्रोध एष इत्यभेदनिर्देशोऽत आह— कामः प्रतिहत इति । केनचिद्धेतुना कामपरिणामत्वात्क्रोधस्य कामत्वेन व्यपदेश इति भावः । क्रोधात्मना स्वस्वरूपेण च कामएव सर्वलोक शत्रुस्सर्वानर्थकरत्वादित्यर्थः । रज इति गुणो रजोगुणः चूतवृक्षवत्समासः । व्याकरणशास्त्र अवधारणपूर्वपदकर्मधारयसमास इति कश्चन नास्ति, किंतु विशेषण- समास एवेत्यभिप्रेत्याह - रजश्च तद्गुणश्चेति । समुद्भवत्यस्मादिति समुद्भव उपादानं रजोगुणजन्योऽयं काम इत्यर्थः । कामादेव रजोगुणो जात इति पक्षान्तरमाह– रजोगुणस्य वेति । तत्र हेतुमाह– १९ तृतीयोऽध्यायः । १४५ प्रवर्तयति तृष्णया ह्यहङ्कारित इति दुःखिनां रजः कार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयते, महाशनः महदशनं यस्येति महाशन:- अत एव महापाप्मा कामेन हि प्रेरितः पापं करोति अतो विद्वनं कामं इह संसारे वैरिणम् ||३७|| धूमेनायते वह्निर्यथाऽऽदर्शो मलेन च । यथोवेनावृतो गर्भस्तथा तेनेदमावृतम् ||३८||
कथं, वैरीति दृष्टान्तैः प्रत्याययति — धूमेनेति । धूमेन सहजेनात्रियते वह्निः प्रकाशा- त्मकः अप्रकाशात्मकेन यथा चादर्शो मलेन यथोल्बेन च जरायुणा गर्भवेष्टनेन आवृतः आच्छादिनो गर्भस्तथा तेनेदमावृतम् ||३८|| आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेत दुष्पूरेणानलेन च ॥ ३९ ॥ किंपुनस्तदिदंशब्दवाच्यं यत्कामेनावृतमिति, उच्यते - आवृतमिति । आवृत ज्ञान- कामो हीति । उद्भूतः कामो रजः प्रतिपुरुषं प्रवर्तयति हि । कामादेव पुरुषो रजः कार्ये प्रवर्तत इति हेतोः कामस्य रजोगुणम्प्रति हेतुत्वमिति भावः । हिशब्दो लोकप्रसिद्धिं द्योतयति, तामेव दर्शयति - तृष्णयेति । रजः कार्ये राजसेवा दौ प्रवृ- तानां दुःखिनां सम्बन्धी तृष्णयाद्यहमेवंकारिति इत्याकारकः प्रलापः श्रयतेऽस्माभिरिति शेषः । तृष्णा आशा काम इत्यनर्थान्तरम् । महाशन इति कामस्याशनमाहारो विषयभोग:- अनन्तान्विषयान्भुञ्जा- नोपि कामः न विषयभोगेऽलम्बुद्धिं भजते, किंतु भूयोपि बहून्विषयान्भोक्तुमेव यतते, यत एवं ततोऽयं महाशन इत्युच्यते । ‘न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धत’ इति स्मरणात्- ‘निस्स्वोकशतं शती दशशतं लक्ष सहस्राधिपो लक्षेशः क्षितिपालतां क्षितिपतिश्चक्रेशवत्सम्पदम् । चक्रेशः पुनरिन्द्रतां सुरपतिर्ब्रह्मास्पदं वाञ्छति ब्रह्मा विष्णुपदं हरिहरपद तृष्णावधि को गत’ इति च वचनात् । केचित्तु नायँ कामविकारः, किं तु लोभविकारएव ‘कामस्यान्तं तु क्षुत्तृभ्यां को वस्य फलोदयात् । नरो याति न लोभस्य जित्वा भुक्त्वा दिशो भुव’ इति भागवतादित्याहुः । तन्मते तु कामस्य क्रोध लोभोपि विकार एवेति कृत्वा लोभद्वारा महाशनः काम इति बोध्यम् । वस्तुतस्तु लोभोनाम प्राप्तस्यापरित्यागः- अदातरि लुब्धशब्दप्रयोगदर्शनात् । तृष्णा तु काम एवेति महाशनस्वं कामस्य स्वाभाविकमेवेति ज्ञेयम् । महापाप्महेतुत्वात्कामस्य महापाप्मेति व्यपदेश इत्याह- कामेनेति । महापाप्मेति बहुव्रीहिः । महान् पाप्मा पापं यस्मात्स इति ॥ ३७॥ 1 धूमेनेति । प्रत्याययति प्रत्ययं विश्वासं जनयति निश्चाययतीत्यर्थः । अप्रकाशात्मकेन सहजेन धूमेन यथा प्रकाशात्मको वह्निरात्रियते इत्यन्वयः ॥ ३८ ॥ आवृतमिति । हेकौन्तेय ज्ञानिनो नित्यवैरिणा दुष्पूरेणानलेन कामरूपेणैतेन ज्ञानमावृतम् । १४६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मेतेन आवृतमेतेन ज्ञान ज्ञानिनो नित्यवैरिणा ज्ञानी हि पूर्वमेव जानाति अनेनाहमनर्थ- प्रयुक्त इति । अतो दुःखी च भवति नित्यमेव तेनासौं ज्ञानिनो नित्यवैरी नतु मूर्खस्य । सहि कामं तृष्णाकाले मित्रमित्र पश्यन् तत्कार्ये दुःखे प्राप्ते जानाति तृष्णया ह्यहं दुःखित्व- मापादित इति । न पूर्वमेव अतो ज्ञानिन एव नित्यवैरी । किंरूपेण कामरूपेण काम इच्छेव रूपमस्येति कामरूप:, तेन दुष्पूरेण दुःखेन पूरणमस्येति दुष्पूर: तेनानलेन नास्याल पर्याप्ति- विद्यत इत्यनलः तेन च ॥ ३९ ॥ इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ||४०|| किमधिष्ठाय च पुनः कामो ज्ञानस्यावरणत्वेन वैरी सर्वस्य लोकस्येत्यपेक्षायामाह ज्ञाते हि शलोरधिष्ठाने सुखेन शत्रुनिबर्हणं कर्तुं शक्यत इति – इन्द्रियाणीति । इन्द्रियाणि मनो- बुद्धिश्च अस्य कामस्याधिष्ठानं आश्रय उच्यते । एतैरिन्द्रियादिभिराश्रयैर्विमोहयति विविधं मोहयति एष कामः ज्ञानमावृत्य आच्छाद्य देहिनं शरीरिणम् ॥४०॥ तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ! पाप्मानं प्रजहि ह्येनं ज्ञान विज्ञाननाशनम् ॥४१॥ यत एवं तस्मादिति । तस्मात्त्वमिन्द्रियाण्यादौ पूर्वमेव नियम्य भरतर्षभ पाप्मानं कामं प्रजहिहि परित्यज । एनं प्रकृतं वैरिणं ज्ञानविज्ञाननाशनं ज्ञानं शास्त्रतः आचार्यतच आत्मादीनामवबोधः विज्ञानं विशेषतस्तदर्थानुभवः तयोर्ज्ञान विज्ञनयोः श्रेयः प्राप्तिहेत्वो नशनः नाशकरस्तं नाशनं आत्मनः परित्यजेत्यर्थः ॥ ४१ ॥ नित्यं सदापि वैरी नित्यवैरी पूर्वमेवेति दुःखात्पूर्वमेवेत्यर्थः । तृष्णाकाल एवेति यावत् । यथा अजीर्णरोगी कदलीफलं भोक्तुकामः कामकालेपि भवेदनेन ममानर्थ इति जानाति तद्वदिति भावः । न च जानतः कुतस्तत्र प्रवृत्तिरिति वाच्यं, कामस्य सत्त्वात् ॥ ३९ ॥ इन्द्रियाणीति । एष एतैर्ज्ञानमावृत्य देहिनं विमोहयति । इन्द्रियमनोबुद्धीराश्रित्य वर्तमानः कामः पुरुषस्यात्मानात्मकृत्याकृत्यादिज्ञानमाच्छाद्य तं पुरुषं शब्दादिषु सुखादिषु च प्रवत्य तेषु बहुल मोहं जनयति तस्येत्यर्थः ॥ ४० ॥ तस्मादिति, यत एवमिति । यस्मादेवमिन्द्रियादीनधिष्ठाय कामः पुरुषस्य ज्ञानमाच्छाद- यदि स्माच्छब्दार्थः । हेभरतर्षभ त्वमादौ इन्द्रियाणि नियम्य ज्ञानविज्ञाननाशनं पाम्मान- मेनं प्रजहिहि । इन्द्रियाणीति । समनस्कानीत्यर्थः । अन्यथा मनसोऽनिग्रहे मिथ्याचार प्राप्तिस्यदिति भावः । आत्मनस्स्वस्य ज्ञानविज्ञानयोर्नाशनमित्यन्वयः ॥ ४१ ॥ तृतीयोऽध्यायः । इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धियों बुद्धेः परतस्तु सः ॥ ४२ ॥ १४७ इन्द्रियाण्यादौ नियम्य कामं शत्रु जहिहीत्युक्तम् । तत्र किमाश्रयः कामं जह्यादिति, उच्यते– इन्द्रियाणीति । इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं चापेक्ष्य सौक्ष्म्यान्तस्थत्वव्यापित्वाद्यपेक्षया पराणि प्रकृष्टान्याहुः पण्डिताः । तथेन्द्रियेभ्यः परं मनः सङ्कल्पात्मकं, तथा मनसस्तु परा बुद्धिर्निश्चयात्मिका, तथा यस्सर्वदृश्येभ्यो बुद्धयन्तेभ्यो ऽ- भ्यन्तरो देहिनं इन्द्रियादिभिराश्रयैर्युक्तः कामो ज्ञानावरणद्वारेण मोहयतीत्युक्तम् । सं बुद्धेद्रष्टा परः आत्मा ||४२॥
- इन्द्रियाणीति । साश्रयश्शत्रुः साश्रयेणैव जिगीषुणा जय्य इत्यभिप्रायादाह – किमाश्रय इति । कः आश्रयो यस्य स किमाश्रय:- इन्द्रियाणि परण्याहुः किमपेक्षया के आहुरित्याकांक्षां पूरय- नाह - देहमिति, पण्डिता इति च पण्डिताः स्थूलदेहादिन्द्रियाणि पराण्याहुः । कोऽसौ स्थूल देहोऽत आह— बाह्यमिति । बहिर्भवं बाह्य करचरणादिमत्त्वेन बहिरुपलभ्यमानमित्यर्थः । घटादिव - देकदेशस्थत्वादाह - परिच्छिन्नमिति । कथमिन्द्रियाणां परत्वं देहादस्मादत आह – सौक्ष्म्येत्यादि । सौक्ष्म्यमन्तरस्थत्त्वं व्यापित्वं चेति हेतुलयं क्रमेण स्थूलबाह्यपरिच्छिन्नत्वप्रातिभट्यायोपात्तं स्थूलाद्वाह्या- त्परिच्छिन्नाच्च देहात्सूक्ष्माणि अन्तर्भवानि व्यापकानि चेन्द्रियाणि पराणीत्यर्थः । इन्द्रियाणां देहापेक्षया व्यापकत्वं चानेकशरीराव स्थितत्वरूपं अनेक कालावस्थितत्वरूपं वा । चक्षुश्श्रोत्रयोस्तु गत्वा ग्राहकत्वेन सूर्यमण्डल भेरी देशा दिगमनोपयोगित्वरूपं च व्यापकत्वं बोध्यम् । आदिपदात् ज्ञानविषयाद्देहाद्ज्ञान- करणानीन्द्रियाणि पराणीत्याम् । तथा पण्डिता मन इन्द्रियेभ्यः परमाहुः, इन्द्रियाणां मनोवश्यत्वा- ज्जाग्रत्कालमात्रव्यापृतत्वात्क्षणादेव देशान्तर लोकान्तरगमनाशक्तत्वान्मनोपेक्षयाऽपकृष्टत्वमिति बोध्यम् । मनसस्तु बुद्धिः परा मनसर सङ्कल्पविकल्पात्मकत्वाद्बुद्धेर्निश्चयात्मकत्वाच्च मनसो बुद्धिवश्यत्वाच्च मनो- पेक्षया बुद्धेरुत्कर्ष:– यो बुद्धेरिति । यः सर्वान्तर इति शेषः । सतु बुद्धेः परत इत्यन्वयः । सर्वान्त- रत्वमेवाह - सर्वदृश्येभ्य इति । देहादिभ्यो बुद्ध्यन्तेभ्यस्सर्वेभ्यः दृश्येभ्यः अभ्यन्तरो मध्ये वर्तते इति नासावपूर्वोऽप्रकृतश्चेत्याह — यमिति । ‘एतैर्विमोहयत्येष ज्ञानमावृत्य देहिन’ मिति श्लोकोक्तो देह्येवाय मित्यर्थः । स आत्मा बुद्धेः परतः प्रथमार्थे तसिः | पर इत्यर्थः । परत्वे हेत्वन्तरमाह - द्रष्टेति । द्रष्टा हि दृश्यादधिक:- घटादिभ्यो देवदत्त इव । बुद्धिस्तु दृश्या अतस्तस्या अधिक आत्मेति एतेन इलोकेनात्मनः सर्वान्तरत्वं सर्वद्रष्टृत्वं सर्वाधिकत्वं सर्वव्यापकत्वं सर्वसूक्ष्मत्वं चोक्तं भवति ।
-
यत्तु रामानुजः - बुद्धेः परः काम इति, तत्तुच्छम् — ‘इन्द्रियेभ्यः परार्था अर्थेभ्यश्च परं मनः । मनसा परा बुद्धिर्बुद्धेरात्मा महात्परः || महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिरिति कटवल्ल्यर्थस्येह विवक्षितत्वात् । नचार्थमहदव्यक्तानां किमित्यग्रहणमिति वाच्यं उपलक्षणतया तद्ग्रहणसम्भवात् । वस्तुतस्तु १४८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु एवं बुद्धेः परं बुध्वा संस्तभ्यात्मानमात्मनि । जहि शत्रु महाबाहो कामरूपं दुरासदम् ||४३|| इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्र श्रीकृष्णार्जुन- संवादे कर्मयोगोनाम तृतीयोऽध्यायः । एवमिति । एवं बुद्धेः परं आत्मानं बुध्वा ज्ञात्वा संस्तभ्य सम्यक् स्तम्भनं कृत्वा ग्राह्येभ्योऽर्थेभ्यो ग्राहकाणीन्द्रियाण्येव पराणि - महत्तत्त्वं तु सूत्रभाष्ये प्रत्याख्यातम् । बुद्धेरेव महत्तत्त्व- वाच्यत्वं चोक्तम् । अव्यक्तमज्ञानं माया तद्बुद्धिरेव सर्दबुद्धिसमष्टेरेव मायात्वादित्यभिप्रेत्य नेहार्थादि- ग्रहणं कृतम् । किंच कामसङ्कल्पादीनां मनोधर्मत्वं कामस्सङ्कल्पो विचिकित्सेत्यादिश्रुतिसिद्धं सम्प्रति- पन्नं च कथं तस्य मनोधर्मस्य कामस्य मन परबुद्धिपरत्वम् ? धर्मिणोद्यत्र पूर्वपूर्वापेक्षया उत्तरोत्तरस्यो - *.र्षोऽभिहितः - स हयुत्कर्षो धर्मपूर्वक :- सूक्ष्मत्वव्यापित्वादिधर्मैर्हि देहादिन्द्रियाणामुत्कर्षउक्तः- एवं यदि कामस्सर्वोत्कृष्टस्तर्हि बुद्धेरपि मन एवोत्कृष्टं सकामत्वादित्युच्येत, तथा नैवोक्तम् ! किंच धर्म्यधीनस्य कामरूपस्य धर्मस्य स्वतन्त्रपदार्थत्वाभावात्कथमस्मिन्धर्मिपदार्थतारतम्यविवेचनप्रकरणे तस्योपन्यासो युज्येत । यच्चानेोक्तम् - कामस्य बुद्धिपरत्वे कारण- सर्वेषु बुद्धिपर्यन्तेषूपरतेष्वपीच्छापर्यायकामो वर्तते चेत्स एवैतानीन्द्रियादीन्यपि स्वविषये वर्तयित्वा आत्मज्ञानं निरुणद्धीति, तदतीव हासास्पदम्- बुद्धेरप्युपरमे व कामस्याविर्भावः ? यदि तदानीमपि कामसत्त्वं तर्हि निर्विकल्पसमाधिर्भज्येत ‘यदो- परानो मनसो नामरूपरूपस्य दृष्टस्मृतसम्प्रमोषात् ! य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचि- षद्मने नम’ इति भागवते मन उपरमे हंसस्फूर्तिद्दर्शिता व्यासेन । तच्च नोपपद्येत कामस्यैवाविर्भात् । किंच धर्मिणो मनस एवोपर मे कथं धर्मस्य स्थितिः, किमग्नौ शान्ते दाहस्तिष्ठेत् किं वा तव मनो- बुद्धयुपरमावस्थारूपायां सुषुप्तौ कामोस्ति, येनैवं ब्रूषे ? " यच्च वेदान्तदेशिकः - इन्द्रियाणीति श्लोके आत्मनश्चतुर्भिर्मोहनीयत्वस्योक्तत्वादिहापि तेषां चतुर्णामेव ग्रहणमुचितमिति, तदप्यसत्-तत्र कामेनैकेनैव देहिनो मोहस्य प्रतिपादितत्वात् इन्द्रिया- दीनि तु कामस्याधिष्ठानानीति हि तत्रोक्तं, कथं वा कामस्येन्द्रियाद्यनाश्रयेण स्वयमेव देहिनो मोहकत्वं, कथं वा इन्द्रियादीनां कामानाश्रितानां देहिमोहकत्वं येन चत्वारोऽपीन्द्रियमनोबुद्धिकामा देहिनां मोहका इत्युच्येत । तस्मादिन्द्रियाद्याश्रयः कामएव देहिमोहकः, तथैव मूले दर्शनात् । एतैर्विमोहय- त्येष इति इन्द्रियादीनि तु तत्र करणानीति विवेकः । नच कथं मनोधर्मस्य कामस्य मनः करणकत्वमिति वाच्य, धर्मेपि कामे कर्तृत्वस्यारोपादिति । वस्तुतस्तु इन्द्रियादीनि कामस्य न करणानि, किं त्वाश्रया एव तथैव भाषितत्वादाचार्यैः इन्द्रियादिभिराश्रयैरिति । धर्मस्य हि धर्मी भवत्याश्रयः । नच मनोधर्मस्य कामस्य कथमिन्द्रियाश्रयत्वमिति वाच्यं मनसीन्द्रियप्रवणेसति तद्द्वारा कामस्यापीन्द्रियाश्रयत्वलाभात् । मनोबुद्धयोरेकान्तःकरणात्मकत्वात्कामस्य बुद्धधाश्रयत्वमुचितमेव ॥ ४२ ॥ एवमिति । एवं पूर्वोक्तविधया बुद्धेः परमात्मानं बुध्वा अनेन किमाश्रय इति प्रश्नस्योत्तर- तृतीयोऽध्यायः । १४९ आत्मानं स्वेनैवात्मना सम्यक् समाधायेत्यर्थः । जह्येनं शत्रु हेमहाबाहो कामरूपं दुरासदं दुःखेनासदः आसदनं प्राप्तिर्यस्य तं दुरासदं दुर्विज्ञेयानेकविशेषमिति ||४३|| इति श्रीपरमहंसपरिव्राजकाचार्यवर्य गोविन्दभगवत्पादपूज्य शिष्य श्रीमच्छङ्करभगवत्पादकृतौ श्रीभगवद्गीताभाष्ये तृतीयोऽध्यायः । मायातमात्मज्ञानाश्रय इति । आत्माश्रय इति वा । आत्मानं मनः नतु सच्चिदानन्दं तस्याचलत्वेन स्तम्भनानवकाशात्सतिहि चलने स्तम्भनमवकाशं लभते । मनस्तु चञ्चलत्वादपेक्षते स्तम्भनम् । आत्म- नेत्यस्यार्थमाह —— स्वेनैवेति । स्वयमेवेति यावत् । स्वबुद्धयैवेति फलितार्थः । समाधायेति । समा- हितं कृत्वा निश्चलमनास्सन्नित्यर्थः । दुरासदमिति । सीदतेर्विशरणगत्यवसादनार्थकत्वाद्गत्यर्थानां ज्ञानार्थत्वाद्दुरासदं दुष्प्रापं दुर्ज्ञेयमिति यावत् । दुःखेनासतुं शक्यो दुरासद इति समासः । दुखेनासदो यस्येति तु फलितार्थकथनम् । ईष- दुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खलिति खल् । नच दुष्प्रजा इत्यादिवद्बहुव्रीहिरेवेति वाच्यं प्रादिभ्यो धातुजस्य वाच्यो वाचोत्तरपदलोप इति वार्तिकादत्र धातुजाभावात् । दुष्प्रजा इत्यत्र तु दुष्टा प्रजा यस्येति धातुजस्स्था- शब्दोस्ति ष्ठागतिनिवृत्ताविति धातुजातो हि स शब्दः । अत्र तु दुःखेनेत्युक्तत्वा दुरित्युपसर्गात्परस्य खशब्दस्य धातुजस्वाभावात् । यदि तु बहुव्रीहिसमास एव वक्तव्य इत्याग्रहः, तर्हि दुस्थः दुष्कर इति वा आसदो यस्य तमिति विग्रहो वाच्यः । कथं कामस्य दुर्ज्ञेयत्वमत आह- दुर्विज्ञेयानेकविशेषमिति । दुर्विज्ञेया अनेके विशेषाः प्रकारा भेदा इति यावत् । यस्य तं कामो हि बहुविध विषयाणामानन्त्यात् । नच प्राप्तिरिति भाष्यपदस्य लाभ इत्यर्थ इति भ्रमितव्यं, कामस्य सर्वसुलभस्य दुर्लभत्वायोगात् । किंतु ज्ञानमित्येवार्थः । सीदतेरवसादनार्थत्वाद्दुरासदं नाशयितुमशक्यमित्यप्यर्थस्सूच्यते । कामो हि दुर्जयः । अत्र बुद्धेः परं काममिति रामानुजव्याख्या तु पूर्वश्लोक एव निराकृता । नहि कामजयं प्रति कामस्य बुद्धेः परत्वज्ञानमावश्यकमतस्तदुपदेशोऽपि व्यर्थ एवेत्यापतति भगवत्यप्रमाणार्थोपदेष्टृत्वमस्य मते । इति श्रीशाङ्करभगवद्गीताभाष्यतृतीयाध्यायव्याख्याभूते भाष्यार्कप्रकाशे . बेल्लं कोण्डोपनाम करामकविकृते तृतीयोऽध्यायः । श्रीहयग्रीवार्पणमस्तु । कीलकसंवत्सर कार्तिक बहुल चतुर्दश्यामस्य समाप्तिः "