श्रीहयग्रीवाय नमः | भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु- श्रीभगवद्गीतासु द्वितीयाध्यायप्रारम्भः । तं तथा कृपयाऽऽविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥ तथा पूर्वोक्तरीत्या कृपया आविष्ट व्याप्तमश्रुपूर्णाकुलेक्षणमश्रुभिः पूर्णे आकुले च ईक्षणे यस्य तं विषीदन्तं विषादं प्राप्नुवन्तं तमर्जुनंप्रति मधुसूदन इदं वक्ष्यमाणं वचनमुवाच ॥१॥ श्रीभगवानुवाच - कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥२॥ कुत इति । हेअर्जुन विषमे अयोग्यसमये अनार्यजुष्टमार्यैरसेवितमस्वर्ग्यं स्वर्गप्राप्तिविरोधि अकीर्तिकरमिदं कश्मलं व्याकुलत्वं कुतः कस्माद्धेतोस्त्वा त्वां समुपस्थितं प्राप्तम् ॥२॥ क्लैब्यं मा स्म गमः पार्थ ! नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥३॥ क्लैब्यमिति । हेपार्थ तत्तादृग्वीरमातृत्वेन प्रसिद्धायाः पृथायाः पुत्र ! क्लैब्यं पौरुषरराहित्य मागमः स्म मागच्छ । माङ्योगाल्लुङि अ डागमप्रतिषेधः । त्वयि खाण्डवदहनादिना प्रख्यात पौरुषे त्वयि एतत्वलैब्यं नैवोपपद्यते न युज्यत एव । हे परन्तप शत्रुसन्तापक क्षुद्रं नीचं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ युद्धाय सन्नद्धो भवेत्यर्थः ॥३॥ अर्जुन उवाच – कथं भीष्ममहं सङ्घये द्रोणं च मधुसूदन ! इषुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन || ४ || कथमिति । हेमधुसूदन मधुनामकरा असहन्तः ! नतु देववत्पूज्याचार्यादिहन्ता त्वमपीति सूच- यितुमिदं सम्बोधनम् । हे अरिसूदन शत्रुमारक! नतु स्वजनमारक इति भावः । अहं पूजा भीष्मं द्रोणं चेति द्वादिति शेषः । सङ्ख्ये युद्धे इषुभिर्बाणैः कथं प्रतियोत्स्यामि केन वा प्रकारेण प्रहरिष्यामि || ४ || गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्षमपीह लोके । हत्वा मांस्तु गुरुनिहैव भुजीय भोगान् रुधिरप्रधिग्धान् ||५|| गुरूनिति । महानुभावान् गुरूनहत्वा इह लोके भैक्षं भिक्षाणां समूहो भैक्षम्– ‘भिक्षा- दिभ्योऽण् ’ - इत्यण्- भिक्षान्नमपि भोक्तं श्रेयः युक्तम् । हिः प्रश्नार्थेऽव्ययं अव्ययानामनेकार्थत्वात् । श्रेयः किमित्यर्थः । तु शब्दः पक्षान्तरद्योतनाय यद्वेत्यर्थः । अर्थकामान् धनाभिलाषिणः विषयाभि- लाषिणइति वा । गुरून् हत्वा इह लोके रुधिरप्रदिग्धान् शोणितव्याप्तान्भोगान् भुञ्जीयानुभवेयं किमिति शेषः । मम गुर्वहननाद्भिक्षाटनं युक्तं वा गुरुहननात् रुधिरसंपृक्तान्नं युक्तं वेत्यर्थः ॥५॥ नचैतद्विद्मः कतरनो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्रः ॥ ६ ॥१४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु नचेति । नः अस्माकं कतरदुक्तमतद्वये किं वा मतं गरीयः श्रेष्ठतरमेतद्वयं नैव विद्मः जानीमः । जयोऽप्यस्माकं न नियत इत्याह- यद्वेति । यद्वा पक्षे जयेम वयं शतृनिति शेषः । यदि वा यद्वा पक्षान्तरे नः अस्मान् शत्रवो जयेयुः । जयो भवतु वा मा वा युद्धमेव तावदुष्करमि- त्याह–यानिति । वयं यान्हत्वा न जिजीविषामः जीवितुं नेच्छामः त एव धार्तराष्ट्राः प्रमुखे अग्रे अवस्थिताः ||६|| कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः । यच्छ्रेयस्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेहं शाधि मां त्वां प्रपन्नम् ||७|| कार्पण्येति । अहं कार्पण्यदोषोपहतस्वभावः कार्पण्यं कृपणत्वं दैन्यमिति यावत्- तदेव दोषः तेनोपहतः स्वभावः यस्य स तथोक्तः । अत एव धर्मसम्मूढचेताः धर्माधर्मनिर्णयासमर्थः सन् त्वां पृच्छामि । किं पृच्छसीत्यत आह-यदिति । मे यत् श्रेयस्स्याच्छ्रेयस्करं स्याद्युक्तं स्यादिति वा निश्चितं तन्मे ब्रूहि । गुरूनहत्वेति श्लोकोक्त पक्षद्वये यः पक्षोऽस्माकं युक्तश्श्रेयस्करश्च ते निश्चित्य वदेत्ययः । नहि मम त्वत्तोऽन्यः कोऽपि धर्मनिर्णायकोस्तीति भावः । अहं ते शिष्यः, त्वां प्रपन्नं शरणं गतं मां शाधि शिक्षय, अनेन गुरूपसत्तिप्रकार शिक्षितः ॥७॥ नहि प्रपश्यामि ममापनुद्याद्यच्छोक मुच्छोपण मिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८॥ यदि तव युद्धकरणमेव श्रेय इति मतं, तर्हि शोकसंविग्नमानसस्य मम युद्धकरणं न सम्भवति तस्मात्तावत्त्वं मम शोकनाशोपायं ब्रूहीति प्रार्थयते-नहीति । ममेन्द्रियाणामुच्छोषण शोकं यदपनुद्यात्तन्नैव प्रपश्यामि । ननु जये लब्धे सति राज्येन शोकं नश्येदित्यत आह– भूमाविति । भूमावसपत्नं निष्कण्टकमृद्धं समृद्धिमद्राज्यमवाप्य सुराणामाधिपत्यं देवेन्द्रपदमप्यवाप्य नाहमिमं शोकं तरेयमिति वाक्यशेषः । तस्मान्न राज्यप्राप्त्याशा मम शोकनाशकारिणी भवेदेवेति भावः ॥ ८ ॥ सञ्जय उवाच – एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥९॥ एवमिति । परन्तपो गुडाकेशः एवं हृषीकेशं प्रत्युक्त्वा तत अहं न योत्स्ये युद्धं नैव करिष्ये इति च गोविन्दम्प्रत्युक्त्वा तूष्णीं बभूव जोषमाप । हेति विस्मये । एतेन - ‘अहिंसा परमो धर्म’ इति शास्त्रादाचार्यादिद्विजोत्तममारणस्य ब्रह्महत्याहेतुत्वाच्च क्षणिकराज्यसुखापेक्षया युद्धकरणं मम सुतरामधर्म एवेति परिव्राजक ब्राह्मणवदिक्षाटनमेव धर्म इति च पार्थस्याशयः स्फुटं गम्यते ॥ ९ ॥ तमुवाच हृषीकेशः प्रहसन्निव भारत ! सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥ तमिति । हेभारत ! धृतराष्ट्र उभयोस्सेनयोर्मध्ये विषीदन्तं तमर्जुनंप्रति हृषीकेशः प्रहसन्निवा- र्जुनस्योन्मादमला पतुल्यवचनश्रवणात्कृष्णस्य हास इति भावः । इद ‘मशोच्या ’ नित्यारभ्य ‘माशुच’ इत्यन्तं गीताशास्त्ररूपं वच उवाच ॥१०॥ इत्युपोद्घातः ।
श्रीहयग्रीवाय नमः । श्रीभगवद्गीता । अथ श्रीशङ्करभगवत्पूज्यपादविरचितं भाष्यं प्रारभ्यते । द्वितीयोऽध्यायः । भाष्यम् । श्लो || नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम् । अण्डस्यान्तस्त्विमे लोकास्सप्तद्वीपा च मेदिनी ॥ भाष्यार्कप्रकाशाख्यव्याख्या । नत्वा लक्ष्मीहयग्रीवौ वासुदेव पृथासुतौ । व्यासार्यशङ्कराचार्यौ भाष्यार्थं विवृणोम्यहम् ॥ अशोच्यानिति प्रथमो गीताशास्त्रश्लोकः । मङ्गलश्लोक:- • श्रीशङ्करभाष्यावतारिकाग्रन्थारम्भगतश्चाय अस्यायमर्थ:- अस्मिन्वेदान्तशास्त्रे दृग्दृश्यमिति द्वावेव पदार्थो - तौ चाचार्यैरेव प्रतिपादितौ– ‘दृग्ब्रह्म दृश्यं माये’ति दृग्दृश्यविवेके । इमौ च परस्परविलक्षणौ– लोकेऽपि घटतद्दृशोर्भेददर्शनात् । इदमेवाse - नारायणः परोऽव्यक्तादिति । अव्याकृत- प्रकृति शक्ति- मायादिनामकेश्वरोपाधि- व्यक्तपदार्थः । तस्मात्परो विलक्षणः नारायण:- न रीयते न क्षीयत इति नरः परमात्मा तस्येदं नारं जगत्तदेति जानातीति नारायण: हग्रूपः प्रत्यगभिन्नः परमात्मा । प्रतीचस्साक्षित्वस्य द्वैतिभिरप्यभ्युप- गतत्वा’न्नान्योऽतोस्ति द्रष्टेति द्रष्टृन्तरस्य श्रुत्यैव निषिद्धत्वाच्च न प्रत्यक्परयोर्भेदः । ननु यदि दृग्दृश्ये द्वावेव पदार्थो दृश्य चाव्यक्तं तर्हि व्यक्तस्यास्य जगतः कुलान्तर्भावोऽत आह - अण्डमव्यक्तसम्भवमिति । अव्यक्तात्सम्भवो यस्य तदव्यक्तसम्भवं ब्रह्माण्डस्याव्यक्तसम्भवत्वा- मृत्सम्भवस्य घटस्य मृदात्मत्वमिवाव्यक्तात्मत्वमेवेत्यव्यक्ते एव ब्रह्माण्डस्यान्तर्भावः ।
नन्वेवं साङ्ख्यवत्तवाप्यचेतनकारणवादः प्राप्त इति चेन्मैवम् — ईश्वरादृष्टादिसहकृताव्यक्तस्य अव्यक्तावच्छिन्नस्येश्वरस्य वा जगत्कारणत्ववादात् । अत्रेदं बोध्यम् - दृश्यमिदमव्यक्तं नः दृग्वत्स्वतन्त्र किंतु दृश्यध्यस्तमेव- अनध्यस्तत्वे तु दृश्यस्यास्य नित्यत्वप्रसङ्गात् तस्मिंश्च दृश्ये दृशोऽप्यस्त्यध्यासः कोऽप्यनिर्वचनीयः । एवं दृग्दृश्ययोरितरेतराध्यासवशाद्दृश्यस्य चेतनत्वं, दृशः प्रपञ्चकारणत्वं च प्राप्तम् । यथा लोकेऽपि जीवयोस्तादात्म्याभ्यासाद्देहस्य चेतनत्वं जीवस्य मनुष्यत्वादिकं च प्राप्तं तद्वत् । अत एव ‘यतो वा इमानि भूतानि जायन्त’ इत्यादिश्रुतिर्ब्रह्मणो जगद्धेतुत्वमवदत् - मायावच्छिन्नस्य ब्रह्मणो जगद्धेतुत्वात् । एवमपि न ब्रह्मणो जगत्प्रकृतित्वं तस्य निर्विशेषचिन्मात्रस्योपादानत्वाभावात्किन्तु तदुर्मायाया एव- मायामयत्वादनृतजडदुः खात्मकस्य जगतः । अत एव केचिज्जगदा कारपरिणतमाया - धिष्ठानत्वा जगत्कारणमित्याहुः । तस्मादीश्वरकारणपक्षे ब्रह्मकारणपक्षे वा मायांशस्यैव जगत्प्रकृ- तित्वमिति युक्तमुक्तमण्डमव्यक्तसम्भवमिति । एतेना लाव्यक्तशब्दस्येश्वराधिष्ठिता प्रकृतिरर्थ इति . सिद्धमित्यनवद्यम् । ● १६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु भाष्यम् ॥ सच भगवान् वासुदेवस्सृष्टृदं जगत्तस्य च स्थिति चिकीर्षुः मरीच्यादीनग्रे सृष्ट्वा प्रजापतीन् प्रवृत्तिलक्षणं धर्म ग्राहयामास वेदोक्तं, ततोऽन्यांश्च सनकसनन्दनादीनुत्पाद्य निवृत्तिलक्षणं धर्म ज्ञानवैराग्यस्वरूपं ग्राहयामास । स द्विविधो हि वेदोक्तो धर्मः प्रवृत्ति- लक्षणो निवृत्तिलक्षणश्च । जगतः स्थितिकारणं प्राणिनामभ्युदय निश्श्रेयसहेतुर्यस्स धर्मों नन्वस्तु ब्रह्माण्डस्याव्यक्तसम्भवादव्यक्तात्मत्वं कथं पुनर्लोकानामत आह- अण्डस्यान्तरिति । इमे लोका सप्तद्वीपा मेदिनी चाण्डस्यान्तर्वसन्तीति शेषः । अण्डान्तः पातित्वाल्लोकानां भुवश्चाण्डात्मत्व" मेवेति कृत्वा अण्डवदेषामपि सिद्धमव्यक्तात्मत्वमिति भावः । एतेनाकाशादिकममूर्तं पृथिव्यादि मूर्त तत्कारणमव्यक्तं चेति त्रिविधं दृश्यमिति सिद्धम् । 1 6 अत्रेदं बोध्यम् - एकएव नारायणः परमात्मा सच्चिदानन्दरूपस्सर्वदृश्य विलक्षणश्शुद्धोऽद्वितीयश्च । स चान्योपहित ईश्वर इत्युच्यते । ब्रह्म, डोपाधिकस्तु हिरण्यगर्भ इति : लोकोपाधिकस्तु विराडिति । तत्र अव्यक्तस्यानादित्वादीश्वरस्य नास्त्यौपाधिकमपि जन्मेत्यज एवेश्वरः । [ इतरयोरुपाध्यधीनजन्मवत्त्वा- न्नाजत्वं, नापीश्वरत्वं, किंतु जातौ जीवावेव तौ । तयोश्च हिरण्यगर्भः प्रथमजः विराट्पुरुषस्तु अनन्तरज इति विवेक: । अयमेव जीवेश्वरविभागश्रुत्याऽप्युक्तः - ‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वर’ इति । कार्यकारणभूतजीवेश्वरोपाधिद्वयविनिर्मुक्तं चिद्रूपं ब्रह्मति श्लोकस्य | परमार्थः । एतेन ब्रह्मातिरिक्तं सर्व- मपि मायामयत्वान्मृषैव- मायायास्सदसदनिर्वाच्यत्वेन प्रबोधबाध्यत्वेन च मृषात्वादेकमेवाद्वितीयं ब्रह्मा- मायामयत्वात्सत्यमित्यद्वैतं सिद्धम् । एतदेव हि गीताशास्त्रे प्रधानप्रतिपाद्यम् ।
एवं तत्त्वं प्रतिपाद्य प्रकृतं वक्तुं तस्यैव ! मायावैभवमाह — स चेति भगवानिति । ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां वर्गो भगो मत’ इति, ‘उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवा’ निति वोक्तलक्षण:- भगोऽस्या- स्तीति भगवान् तदस्यातीति मतुप् वासुदेवः वसन्ति जगन्त्यस्मिन्निति, वसति जगतीति वा वासु:– दीव्यति भूतपालनादिना क्रीडति स्वयम्भासत इति । वा देवः - वासुश्चासौ देवो : वासुदेवः । नारायणस्यापि स्वोपाधिभूतमायया भगवत्त्वं वासुदेवत्वं चेति भावः । ’ सृष्टेति सङ्कल्पेनेति शेषः । अनेन प्रधान- परमाण्वादिजगत्कारणवादा निरस्ता :- प्रधानादीनामचेतनत्वेन सङ्कल्पासम्भवात्- ‘तदैक्षते ‘ति श्रुतौ सृष्टेः सङ्कल्पपूर्वकत्वश्रवणात्कुलालस्यापि सङ्कल्पपूर्वकं घटादिनिर्माणमिति दर्शनाच्च 19 स्थितिं रक्षां मरीच्यादीन् प्रजापतीनग्रे प्रथमं सृष्टृति- हिरण्यगर्भद्वारेति भावः । वेदोक्तमिति धर्मविशेषणम् । ननु जगत्स्थिति - चिकीर्षोरीश्वरस्य किमिति प्रवृत्तिनिवृत्तिधर्मग्राहणं मरीच्यादिभिस्सनकादिभिश्चत्यत आह- स इति । हि यस्मात् प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च स द्विविधो वेदोक्तो धर्मः जगतः स्थितिकारणमित्यन्वयः । धर्मस्य लक्षणमाह- प्राणिनामिति । अभ्युदयनिश्श्रेयसहेतुः ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्चानुष्ठीयमानो यस्स धर्म :- आद्यशब्दात् क्षत्रियवैश्यशूद्रग्रहणं वर्ण एषामस्तीति । वर्णिन:- आश्रमः एषामस्तीत्याश्र - मिणः ब्रह्मचारिगृहस्थवानप्रस्थसन्न्यासिनः । ब्रह्मचार्याद्यनुष्ठीयमानत्वे सति अभ्युदयनिश्श्रेयसान्यतर- M.
द्वितीयोऽध्यायः । १७ ब्राह्मणाऽधैर्वर्णिभिराश्रमिभिरनुष्ठीयमानः । दीर्घेण कालेनानुष्ठातृणां कामोद्भवाद्धीयमान- विज्ञानहेतुकेन अधर्मेण अभिभूयमाने धर्मे प्रवर्धमाने चाधमें जगतः स्थिति परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णुर्भीमस्य ब्रह्मणो ब्राह्मणत्वस्य चाभिरक्षणार्थं देवक्यां वसुदेवादंशेन किल सम्बभूव । ब्राह्मणत्वस्य हि रक्षणे रक्षितस्स्याद्वैदिको धर्मः तदधीनत्वा- वर्णाश्रमधर्मभेदानाम् । सच भगवान् ज्ञानैश्वर्यशक्तिबलवीर्य तेजोभिस्सदा सम्पन्नस्त्रिगुणात्मिकां हेतुत्वं धर्मस्य लक्षणम् । एकस्य धर्मस्योभयहेतुत्वाभावादन्यतरेति । ईश्वरेऽतिव्याप्तिवारणाय सत्यन्तम् । अधर्मेऽतिव्याप्तिवारणाय विशेष्यदलम् । प्रवृत्तिलक्षणो धर्मः कर्मनिष्ठाशब्देन वक्ष्यमाणः अभ्युदयस्य स्वार्गादिरूपस्य चित्तशुद्धिरूपस्य वा हेतु :- निवृत्तिलक्षणो धर्मः ज्ञाननिष्ठाशब्देन वक्ष्यमाणः निश्श्रेयसस्य मोक्षस्य हेतुरिति बोध्यम् । हीयमानेति । हीयमानं क्षीयमाणं विज्ञानमेव हेतुर्यस्य तेन हीयमान- विज्ञानहेतुकेन - शेषाद्विभाषेति कः । अधर्मस्य विज्ञानक्षय एव हेतुरित्यर्थः । यद्वा हेतुरेव हेतुक इति स्वार्थे कः । हीयमानेन विज्ञानेन हेतुना विज्ञानक्षयाद्धेतोरित्यर्थः । परिपिपालयिषुः परिपालयितुमिच्छुः । आदिकर्तेति । जगत उपादानं निमित्तं चेत्यर्थः । यद्वा प्रधानकर्ता - हिरण्यगर्भस्याप्रधान कर्तुरन्यस्य सत्त्वादियमुक्ति:- अनेन चाभिन्ननिमित्तोपादानकारणवादेन प्रधानकारणवादिनस्साङ्ख्या:, ईश्वरनिमित्त- कारणवादिनस्तार्किकादयश्च पराकृताः । नच कथमेकस्यैव कारणवस्तुनः निमित्तत्त्वमुपादानत्वं चेत्युभय- मिति वाच्यं, मायया तत्सम्भवात् यतोवेति, तत्सृष्टुवेति च श्रुतेः - श्रौतस्यार्थस्य प्रबलस्य दुर्बलयु- क्त्यवष्टम्भेन प्रतारणायोगाच्च, ऊर्णनाभस्तन्तुसन्ततिम्प्रत्यभिन्ननिमित्तोपादानत्वदर्शनाच्च । विष्णुर्व्यापकः परमात्मा सत्त्वगुणप्रधानमायावच्छिन्न चैतन्यलक्षणः । भौमस्येति । भूलोकस्थस्य ब्रह्मणो वेदस्य । अशेनेति । माययेत्यर्थः- कथमन्यथा निरंशस्य परमात्मनस्स्यादेशः । किलेत्यलीके वातयां वा उभ- यथाऽपि मृषैवायं कृष्णावतार इति फलितम् । अत्र ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्यु- त्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यह ‘मिति गीतावचनमनुसन्धेयम् । 4 ननु नष्ट एव धर्मो रक्षणीयः- तथा च धर्मस्य रक्षणार्थमित्येव वक्तव्यं किमिति ब्राह्मणत्वस्ये- त्युक्तमत आह—— ब्राह्मणत्वस्येति । याजनाध्यापनादिरूपब्राह्मणधर्मस्य रक्षणं ब्राह्मणत्यागब्राह्मणेतर - स्वीकारादिरूपविप्लवात्त्राणम् । तत्र हेतुमाह - तदधीनत्वादिति । ब्राह्मणाधीनत्वात् - येन येन वर्णिना येन येनाश्रमिणा यद्यत्कर्म यथा यथाऽनुष्ठेयं तेन तेन तत्तत्तथा तथा विद्वान् ब्राह्मणोऽनुष्टाप- यतीत्यर्थः । नन्वजस्य नारायणस्य धर्मसंस्थापन रूप लोकानुग्रहार्थमपि कथं जन्मादिसम्भवोऽत आह- सं चेति । भगवानित्यस्यार्थे स्वयमेवाऽऽह – ज्ञानेति । वसिष्टादयो जीवाश्च केचिज्ज्ञानादिमन्तो दृश्यन्त इत्यत आह — स चेति । जीवानां ज्ञानादिकमीश्वरप्रसादादिलभ्यमीश्वरस्य तु स्वतस्सिद्धं – “परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया’ चेति श्रुतेरिति भावः । कुत ईश्वरस्य भग- स्वाभाविकोऽत आह- प्रकृतिं वशीकृत्येति । जीवास्तु प्रकृतिपरतन्त्राः अत एवेश्वरस्य मायित्वं ब्रूते श्रुति:- ‘मायिनं तु महेश्वर’ मिति । कस्येयं प्रकृतिरत आह— वैष्णवीं स्वामिति ।
स्वस्य १८ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
वैष्णवीं स्वां मायां प्रकृतिं वशीकृत्य अजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभा- वोsपि सन् स्वमायया देहवानिव जात इव च लोकानुग्रहं कुर्वन् लक्ष्यते– स्वप्रयोजना- भावेपि भूतानुजिघृक्षया वैदिकं धर्मद्वयमर्जुनाय शोकमोहमहोदधौ निमग्नायोपदिदेश- गुणा- धिकैर्गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति । तद्धर्मद्वयं भगवता यथोपदिष्टं भगवान् वेदव्यासस्सर्वज्ञो गीताख्यैः सप्तभिः श्लोकशतैरुप निबबन्ध । तदिदं गीताशास्त्रं समस्तवेदार्थ -1 विष्णोस्सम्बन्धिनीं; स्वोपाधिभूतामित्यर्थः । तस्यास्स्वरूपमाह - त्रिगुणेति । सत्त्वरजस्तमोगुणात्मिका– सत्त्वादिगुणाश्रयातिरिक्तप्रकृतिपदार्थाभावादिति भावः । एतेन सत्त्वरजस्तमोगुणोपहितानां विष्णुब्रह्मरुद्राणां भेदः परास्त : - मायोपाधिकत्वेन त्रयाणामेकत्वात् । एवं प्रकृतिवशत्वादेव नेश्वरस्य कर्माधीनजन्म- सद्भाव इत्याह-अज इति । जन्माभावादेव न लय इत्याह- अव्यय इति । ‘जायते मरणायैव म्रियते जन्मने पुनरिति, ‘जातस्य हि ध्रुवो मृत्यु धुवं जन्म मृतस्य’ चेति स्मरणाज्जन्ममरणयोस्सामानाधिकरण्य- मिति भावः । ईश्वर ईशनलील: । एवं मायिकं रूपमुक्त्वा तात्त्विकमाह — नित्येति । नित्यस्सत्यः नित्योऽनित्याना’ मिति श्रुतेः, ‘तत्सत्यं स आत्मे ‘ति श्रुतेश्च । कुतो नित्यत्वमत आह— शुद्ध इति । उपाधिसंसृष्टस्य मलिनस्य जीवस्य हि उपाधिवशाद्भवत्यनित्यत्वं । तस्य निष्कृष्टं स्वरूपमाह — बुद्ध इति । ज्ञानस्वरूप इत्यर्थ: - ‘सच्चिदानन्दं ब्रह्म’ ति श्रुतेः । ज्ञातुर्हि ज्ञानं स्वरूपं – ज्ञातृत्वं चास्य ‘स सर्वज्ञ - स्सर्वविदिति श्रुतम् । सर्वज्ञत्वं सर्वावभासकत्वं नेदं मायाधर्म :- मायाया जडत्वेनेश्वरभास्यत्वात् । अत एवायं मुक्तः, नतु जीववत्कदाऽपि बद्ध:- अज्ञानानभिभूतत्वादिति भावः । इवेति । नतु वस्तुत इत्यर्थः । इवशब्दः कुर्वन्नित्यत्रापि सम्बध्यते । नहि वस्तुतः परमात्मनः लोकानुजिवृक्षाऽपि सम्भवति– निष्कामत्वादीश्वरस्य । यद्वा- परमार्थतः । परमात्मन: कामासम्भवेऽपि व्यवहारत ईश्वरस्य लोकानुग्रह- स्सम्भवत्येव । जन्मदेहौ तु व्यवहारतोऽपि न सम्भवत इत्यभिप्रेत्य कुर्वन्निवेति नोक्तमाचार्यैः । व्यव- हारदशायामपि कारणोपाधिर्हीश्वरः । लक्ष्यत इति । अज्ञैरिति शेषः । नहि प्राज्ञा ईश्वरं जातं पश्यन्ति । स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया भगवानर्जुनाय धर्मद्वयमुपदिदेशेति सम्बन्धः । पूर्णकामस्य कुत- रिशष्योपदेशे प्रवृत्तिरत आह— भूतेति । भूताः प्राणिनः तेषामनुग्रहीतुमिच्छा भूतानुजिघृक्षा- तया - शोकमोहावेव महोदधिश्शोकयुक्तो मोहश्शोकमोहस्स एव महोदधिरिति वा शोकमोहमहोदधिस्तस्मि- न्निति । एतेनोपदेशस्य शोकमोहनिरासः फलमिति व्यज्यते । किमित्यर्जुनायोपदेशोऽत आह— गुणा- धिकैरिति । गृहीतो ज्ञातः- प्रचयमभिवृद्धि - गुणाधिकत्वादर्जुनस्य- यद्ययं मत्तस्सकाशाद्धर्मं गृही- त्वाऽनुतिष्ठेत्तर्हि ’ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जन’ इति न्यायादितरजनोऽप्यनुतिष्ठेत्तं च दृष्ट्वा तदितरजन इत्येवमभिवृद्धिमीयान्मदुक्तः पन्था धर्मस्येति मत्वा भगवानर्जुनाय धर्ममुपदिदेशेति भावः । अनेन च विद्वानाचार्यः सच्छिष्यायैव धर्मं बोधयेदिति सूच्यते । आचार्यस्य स्वयंकृतार्थत्वेन लोकानु- ग्रहप्रयोजनवैमुख्येसति सम्प्रदायोच्छेदप्रसङ्गात् । यथोपदिष्टमिति । उपदिष्टमुपदेशः- भावेक्तः । तदनतिक्रम्य यथोपदिष्टम् । यद्वा तथेति यथा भगवतोपदिष्टं तथेत्यन्वयः । उपनिबबन्ध ग्रथितवान् । 1 । द्वितीयोऽध्यायः । १९ सारसंग्रहभृतं दुर्विज्ञेयार्थं तदर्थाविष्करणायाने कैर्विवृतपदपदार्थवाक्य वाक्यार्थन्यायमध्यत्यन्त- विरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्याहं विवेकतोऽर्थनिर्धारणार्थं संक्षेपतो विवरणं करिष्यामि । तस्यास्य शास्त्रस्य संक्षेपतः प्रयोजनं परं निश्श्रेयसं सहेतुकस्य संसारस्यात्यन्तोप- रमलक्षणम् । तच्च सर्वकर्मसन्न्यासपूर्वकादात्मज्ञाननिष्ठारूपाद्धर्माद्भवति । तथेममेव गीतार्थ धर्ममुद्दिश्य भगवतैवोक्तम् — लो || स हि धर्मस्सुपर्याप्तो ब्रह्मणः पदवेदने’ इत्यनुगीतासु । तत्रैव चोक्तम् – ’ नैव धर्मी न चाधर्मी नचैव हि शुभाशुभी । यस्स्यादेकासने लीनस्तूष्णीं किंचिदचिन्तयन’, ‘ज्ञानं सन्न्यासलक्षण’ मिति च । इहापि चान्ते उक्तमर्जुनाय - ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ इति । अभ्युदयार्थोऽपि प्रवृत्तिलक्षणो धर्मो वर्णानाश्रमां- श्रोद्दिश्य विहितः स देवादिस्थानप्राप्तिहेतुरपि सन्नीश्वरार्पण बुद्ध्यानुष्ठीयमानस्सच्चशुद्धये भवति फलाभिसन्धिवर्जितः शुद्धसत्त्वस्य च ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहेतुत्वमपि प्रतिपद्यते । तथा च वक्ष्यति – ‘ब्रह्मण्याधाय कर्माणि योगिनः कर्म अनेकैर्वृत्तिकारादिभिर्विद्वद्भिः । उपलभ्य दृष्ट्रा । संक्षेपत इति । ग्रन्थविस्तरभयादितिभावः । लोका- नुग्रहार्थमेवाचार्यस्य प्रवृत्तत्त्वात्तत्क्रियाफलस्य सुकृतादेरात्मगामित्वं माऽस्त्वित्यभिप्रेत्याह — करिष्या - मीति । यदि करिष्य इत्युच्येत तर्हि तज्जन्यसुकृतादिना बन्धस्स्यात्क वेरिति बोध्यम् ।
"
संक्षेपत इति । प्राधान्येनेत्यर्थ:- कर्मज्ञानादीनि त्ववान्तरफलानीति भावः । स हीति । स आत्मज्ञाननिष्ठारूपो निवृत्तिलक्षणो धर्मो ब्रह्मणः परमात्मनः पदवेदने स्वरूपसाक्षात्कारे सुपर्याप्तस्सुष्टु समर्थः । हिशब्दः सर्वशास्त्रविद्वत्प्रसिद्धिं द्योतयति । ननु ‘चोदनालक्षणोऽर्थो धर्म’ इति जैमिनि- सूत्रात्प्रवृत्तेरस्तु धर्मत्वं कथं पुनर्निवृत्तेरिति शङ्कायामौपचारिकमेव निवृत्तेर्धर्मत्वमिति हृदि कृत्वा तत्र प्रमाणमाह - नैवेति । यः किञ्चिदप्यचिन्तयन् तूष्णीमेकासने एकस्मिन्सर्वाधारे प्रत्यगभिन्ने ब्रह्मणि लीनस्स्यात् सः धर्मी नैव, अधर्मी च नैव, शुभी नैव, भशुभी नैव च हि : प्रसिद्धौ । ननु निवृत्ते - मस्तु धर्मत्वं कथं पुनर्ज्ञानत्वमत आह— ज्ञानमिति । सन्न्यासः सर्वकर्मसन्न्यासः लक्षणं स्वरूपं यस्य तत्सन्न्यासलक्षणं - सर्वकर्मसन्न्यासरूपा निवृत्तिरेवात्मज्ञाननिष्ठा न त्वन्यदित्यर्थः । किं ग्रन्थान्तर- प्रमाणोऽदाहरणेनेत्याह– इहापीति, सर्वेति । प्रवृत्तिलक्षणसर्वधर्मान्विहायेत्यर्थः - निवृत्तिधर्मस्य त्यागा- योगात् । मामेकं प्रत्यगभिन्नं ब्रह्म शरणं व्रजेति निवृत्तिधर्मस्यैव कर्तव्यत्वेनोपदेशाच्च । आत्मज्ञान- निष्ठैव खलु निवृत्तिधर्मः। एवं निश्श्रेयसार्थं निवृत्तिधर्ममुपवर्ण्य अथ प्रवृत्तिधर्ममाह – अभ्युदयार्थ इति । अभ्युदयः अर्थः प्रयोजनं यस्य सः प्रवृत्तिलक्षणश्चोदनालक्षणः ज्योतिष्टोमादि:- नित्यनैमित्तिककाम्य- प्रायश्चित्तभेदेन चतुर्विधोऽयं धर्मः सत्त्वशुद्धिश्चित्तशुद्धिः फलाभिसन्धिर्धर्मफलेषु स्पृहा । शुद्धसत्त्व- स्येति । शुद्धचित्तस्य पुरुषस्य प्रतिपद्यते प्राप्नोति धर्म इत्येव कर्तृपदं- आत्मशुद्धये सत्त्वशुद्धये विषयसम्बन्धाधिकारिप्रयोजनाख्यमनुबन्धचतुष्टयं तावच्छास्त्रस्यावश्यकं - तत्र अधिकारिणां मुमुक्षूणामत्र I ३० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये’ इति । इह द्विप्रकारं धर्म निश्श्रेयसप्रयोजनं परमार्थतत्तं च वासुदेवाख्यं परब्रह्माभिधेयभूतं विशेषतोऽभिव्यंजयद्विशिष्टप्रयोजनसम्बन्धाभिधेयवद्गीताशास्त्रं यतस्तदर्थे विज्ञाते समस्तपुरुषार्थसिद्धिरित्यतस्तद्विवरणे यत्नः क्रियते मया । अत्र च ‘दृष्ट्वा तु पाण्डवानीक’ मित्यारभ्य ’ यावन्न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव हे’ त्येतदन्तः प्राणिनां शोकमोहादिसंसारबीजदोषोद्भवकारण प्रदर्शनार्थत्वेन व्याख्येयो ग्रन्थः तथाहि– अर्जुनेन राज्यगुरुपुत्रमित्रसुहृत्स्वजनसम्बन्धिबान्धवेषु अहमेतेषां ममैते इत्येवं प्रत्यय निमित्त स्नेह विच्छेदादिनिमित्तावात्मनश्शोकमोहौ दर्शितौ- ‘कथं भीष्ममहं सङ्ख्ये ’ इत्यादिना । शोकमोहाभ्यां ह्यभिभूतविवेकज्ञानः स्वत एव क्षत्रधर्मे युद्धे प्रवृत्तोऽपि तस्माद्युद्धादुपरराम- परधर्म च भिक्षाजीवनादिकं कर्तुं प्रववृते । तथा च सर्वप्राणिनां शोकमोहादिदोषाविष्टचेतसां स्वभावत एव स्वसर्वधर्मपरित्यागः, प्रतिषिद्धसेवा च स्यात् । स्वधर्मे प्रवृत्तानामपि तेषां वाङ्मनः कायादीनां प्रवृत्तिः फलाभिसन्धिपूर्विकैव साहङ्कारा च महति । तत्रैवंसति धर्माधर्मो- पचयादिष्टानिष्टजन्मसुखदु:खसम्प्राप्तिलक्षणस्संसारोऽनुपरतो भवतीत्यतस्संसारबीजभूतौ शोक- मोहौ तयोश्च सर्वकर्मसन्न्यासपूर्वकादात्मज्ञानान्नान्यतो निवृत्तिरिति तदुपदिदिक्षुस्सर्वलोकानु- ग्रहार्थमर्जुनं निमित्तीकृत्याह भगवान् वासुदेवः – अशोच्यानन्वशोचस्त्वमित्यादि । सुज्ञेयत्वादन्यत्त्रयमाह — इहेत्यादिना । अभिधेयभूतं विषयभूतं निश्श्रेयसप्रयोजनं साक्षात्क्रमेण च मोक्षफलकं द्विप्रकारं द्विविधं धर्मे निवृत्तिधर्मं प्रवृत्तिधर्मं च परमार्थतत्त्वं परमार्थतस्सत्यं वासुदेवाख्यं परं ब्रह्म च विशेषतोऽभिव्यञ्जयत्प्रकटयत्सद्गीताशास्त्रं विशिष्टप्रयोजनसम्बन्धाभिधेयवत् - विशिष्टानि विलक्षणानि उत्कृष्टानि वा प्रयोजनसम्बन्धाभिधेयानि अस्य सन्तीति (अस्मिन्सन्तीति वा) तथोक्तं भवति । निश्श्रेयस प्रयोजनं द्विविधो धर्मः वासुदेवश्चेत्येतत्त्रयमभिधेयम् । व्यङ्गन्यव्यञ्जकभाव सम्बन्ध इति विवेकः । तदर्थे गीताशास्त्रार्थे धर्मद्वये वासुदेवे चेत्यर्थः । अतः तत इत्यर्थः । अत्र च गीतास्वित्यर्थः । एतदन्तो ग्रन्थो व्याख्येय इत्यन्वयः । शोकमोहादयो ये संसार - बीजभूता दोषाः तेषामुद्भवस्य यत्कारणं तस्य प्रदर्शनमेवार्थो यस्य तत्त्वेन - प्राणिनां संसारबीजभूत- शोकमोह। दिदोषोऽद्भवं प्रतीदं कारणमिति दर्शयति- दृष्ट्टेत्यादिः, तूष्णीं बभूवेत्येतदन्तो ग्रन्थ इत्यर्थः । तथाहीति । तत्प्रदर्शनप्रकारमेव दर्शयामीति प्रतिज्ञायामव्ययमिदम् । अर्जुनेनात्मनश्शोकमोहौ ‘कथं भीष्ममहं सङ्ख्य’ इत्यादिना दर्शितावित्यत्वयः । अहमेतेषां ममैते इति - अहमेतदीयः एते मदीया इति प्रत्ययौ ज्ञाने निमित्ते हेतू यस्य तस्य स्नेहस्य विच्छेदः नाशः आदिर्येषां तानि स्नेहविच्छेदादीनि निमित्तानि ययोस्तौ तथोक्तौ - अनात्मीयेष्वात्मीयत्वभ्रमः, अनन्यदीये आत्मनि अन्यदीयत्वभ्रमश्च आत्मनः अनात्मीयेषु पुत्रादिषु स्नेहं जनयित्वा तद्विच्छेदादिना शोकमोहौ जनयतीति तावेव भ्रमौ शोकमोहयोः कारणभूतावित्यर्थः । द्वितीयोऽध्यायः । २१ अल केचिदाहुः - सर्वकर्मसन्न्यास पूर्व कादात्मज्ञाननिष्ठामात्रादेव केवलात् कैवल्यं न प्राप्यत एव किं तर्ह्यग्निहोत्रादिश्रौतस्मार्तकर्मसहितात् ज्ञानात् कैवल्यप्राप्तिरिति सर्वासु गीतासु निश्चितोऽर्थ इति ज्ञापकं चाहुरस्यार्थस्य - ‘अथ चेत्वमिमं धर्म्यं संग्रामं न करिष्यसि । ततस्स्वधर्म कीर्तिं च हित्वा पापमवाप्स्यसि ॥ कर्मण्येवाधिकारस्ते, कुरु कर्मैव तस्मात्त्र’- मित्यादिहिंसादियुक्तत्वाद्वैदिकं कर्माऽधर्मायेतीयमाशङ्का न कार्या- कथं, क्षात्रं कर्म युद्धलक्षणं गुरुभ्रातृपुत्रादिहिंसा दिलक्षणमत्यन्तकरमपि स्वधर्म इति कृत्वा नाधर्माय । तदकरणे च- ‘ततस्स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्य’ सीति ब्रुवता यावज्जीवादिश्रुतिचोदितानां पश्वादि- हिंसादिलक्षणानां च कर्मणां प्रागेव नाधर्मत्वमिति सुनिश्चितमुक्तं भवतीति । तदसत् — ज्ञानकर्मनिष्ठयोः विभागवचनात् बुद्धिद्वयाश्रययोरशोच्या नित्यादिना ग्रन्थेन भगवता यावत्स्वधर्ममपि चावेक्ष्येत्येतदन्तेन ग्रन्थेन यत्परमार्थाऽऽत्मतत्त्वनिरूपणं कृतं तत्साङ्खयं तद्विषया बुद्धिरात्मनो जन्मादिविक्रियाभावादकर्ताऽऽत्मेति प्रकरणार्थनिरूपणाद्या जायते सा साङ्ख्या बुद्धिस्सा येषां ज्ञानिनामुपचिता भवति ते साङ्ख्यास्स्युः । एतस्या बुद्धे- जन्मनः प्रागात्मनो देहादिव्यतिरिक्तस्य कर्तृत्वभोक्तृत्वापेक्षो धर्माधर्मविवेकपूर्वको मोक्षसाध- अत्र केचिदिति । कर्मज्ञानसमुच्चयवादिन इत्यर्थः । यथानं मधुसंयुक्तं मधु चान्नेन संयुतम् । एवं तपश्च विद्या च संयुक्त भेषजं मह’ दिति हारीतस्मृत्याद्यनुसारिण इति भावः । कैवल्यं मोक्षः । कथमति कुतो न कार्येति प्रश्नः । तत्रोत्तरमाह - क्षात्रमित्यादिना ब्रुवता श्रीकृष्णेनेति शेषः । 1 1 समुच्चयवादं खण्डयति–तदसदित्यादिना । तत् कर्मसहिताद्ज्ञानान्मुक्तिरिति मतमसदुष्टम् । तत्र हेतुमाह - ज्ञानेति । बुद्धिद्वयाश्रययोर्ज्ञानकर्मनिष्ठयोर्विभागवचनादिति । तदेव विवृणोति - अशोच्या नित्यादिना । अशोच्यानिति श्लोक आदिर्यस्य तेन स्वधर्ममपि चावेक्ष्येति श्लोकोन्तो यस्य तेन । स्वधर्ममिति श्लोकस्य नात्रान्तर्भावः, किंतु देही नित्यमितिश्लोकस्यैव । स्वधर्ममिति श्लोकस्तु ग्रन्थस्यास्यावधिरिति बोध्यम् । अशोच्यानित्यादिना न त्वं शोचितुमर्हसीत्येतदन्तेन ग्रन्थेनेति परमार्थः । भगवता यत्परमार्थतत्त्वनिरूपणं कृतं तत्साङ्ख्यमित्यन्वयः । सम्यक् ख्यायते प्रकाश्यते तत्त्व- मनयेति सङ्ख्या वैदिकी सम्यम्बुद्धिः तया सङ्ख्यया प्रकाश्यमात्मतत्त्वं साङ्ख्यमिति व्युत्पत्तेरिति भावः । यावदिति साकल्येऽवधारणे वाऽव्ययं । प्रकरणार्थनिरूपणादात्मनो जन्मादिविक्रियाभावादात्मा अकर्तेति या तद्विषया साङ्ख्यविषया बुद्धिर्जायते सा बुद्धिस्सायेत्युच्यते - उपचारादिति भावः । नच सङ्ख्याया एव बुद्धित्वात्कथं साङ्ख्याया अपि बुद्धित्वमिति वाच्यं, सङ्ख्या बुद्धिरन्तःकरणं, साङ्ख्या बुद्धिस्तु तद्वृत्ति- रिति भेदात् । नच कुत एतद्भेदावगम इति वाच्यं, या जायते इति भाष्यात् । बुद्धिवृत्तिर्हि प्रकर- णार्थनिरूपणाज्जायते बुद्धिस्तु पञ्चभूतसत्त्वांशसमष्ट्या प्रागेव जातेति नाधुना जायते इति । सा साङ्ख्या- बुद्धिर्वेषामुपचिता प्रवृद्धा दृढेति यावत् । भवति ते ज्ञानिनस्साङ्ख्यास्त्युः साङ्ख्या एषामस्तीति साङ्ख्या इत्यर्श आद्यजन्तोऽयं शब्द इति भावः । एतस्या इति साङ्ख्याया इत्यर्थः, देहादिव्यतिरिक्तस्येति । २२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु
नानुष्ठानलक्षणो योगस्तद्विषया बुद्धियोंगबुद्धिस्सा येषां कर्मिणामुपचिता भवति ते योगिनः । तथा च भगवता विभक्ते बुद्धी द्वे निर्दिष्टे - ‘एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगेत्विमां शृण्वि’ ति । तयोश्च साङ्ख्यबुद्ध्याश्रयां ज्ञानयोगेन निष्ठां साङ्ख्यानां विभक्तां वक्ष्यति ‘पुरा वेदात्मना मया प्रोक्तेति । तथा च योगबुद्धयाश्रयां कर्मयोगेन निष्ठां योगिनां विभक्तां वक्ष्यति - ‘कर्मयोगेन योगिना’ मिति । एवं साङ्ख्यबुद्धिं योगबुद्धिं चाश्रित्य द्वे निष्ठे विभक्ते भगवतोते ज्ञानकर्मणोः कर्तृत्वाकर्तृत्वानेकत्वैकत्वबुद्धयाश्चययोर्युगपदेकपुरुषाश्रयत्वासम्भवं पश्यता । यथै- तद्विभागवचनं तथैव दर्शितं ब्राह्मणे - ‘एतमेव लोकमिच्छन्तः प्रवाजिनः प्रव्रजन्ती ‘ति । सर्वकर्मसन्न्यासं विधाय तच्छेषेण ‘किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक’ इति । तत्र च प्राग्दारपरिग्रहात्पुरुषस्य आत्मा प्राकृतो धर्मजिज्ञासोत्तरकालं लोकत्रयसाधनं पुत्रं मनुष्यलोकप्राप्तिसाधनं द्विप्रकारं च वित्तं मानुषं देवं च कर्मानुरूपं पितृलोकप्राप्तिसाधनं विद्यां च दैवं वित्तं देवलोक प्राप्तिसाधनं सोऽकामयतेत्यविद्याकामवत एव कर्माणि श्रौतानि नास्तिकानां देहादिव्यतिरिक्तात्माभावेऽप्यास्तिकानां देहादिव्यतिरिक्तात्माऽस्त्यैव - देहपातानन्तरं स्वर्गादि- फलसिद्ध्यर्थमास्तिकैर्यज्ञादिकर्मणां क्रियमाणत्वादिति भावः । मोक्षसाधनानुष्ठानलक्षण इति । मोक्षशब्दोऽत्र मोक्षहेतुज्ञानपरः उपचारात् । तत्साधनानि तु फलाभिसन्धिरहितानि कर्माणि तदनुष्ठान- मेव लक्षणं स्वरूपं यस्य स तथोक्तो योगः । मोक्षस्य परम्परया साधनानि मोक्षसाधनानि कर्माणीति वा । कर्तृत्वानेकत्वबुद्धयाश्रयस्य कर्मणः एकत्वा कर्तृत्वबुद्धयाश्रयस्य ज्ञानस्य च युगपदेकपुरुषाश्रयत्वासम्भवं पश्यता भगवता कृष्णेन एवं साधबुद्धि योगबुद्धि चाश्रित्य विभक्ते द्वे निष्ठे उक्ते इत्यन्वयः । तच्छेषेण यथैतद्विभागवचनं तथैव दर्शितं ब्राह्मणे इत्यन्वयः । एतमेव लोकमात्मलोकं प्रत्राजिनस्सन्न्यासिनः प्रव्रजन्ति सन्न्यसन्ति येषामस्माकमात्मैव लोकः नत्वात्मनोऽन्यः कश्चिल्लोकोऽस्ति ते वयं प्रजया सन्तानेन किं करिष्यामः ? न किमपि । अतः प्रजार्थं गृहस्थाश्रम स्वीकारोऽस्माकमनुचित इति भावः । आत्मकामानां सन्यासः, प्रजाकामानां तु गृहस्थाश्रमस्वीकारद्वारा कर्माणि चेति सुविभक्तमिति तात्पर्यम् । श्रुत्यर्थमेव विवृणोति — तत्र चेति । श्रुतावित्यर्थः । दारपरिग्रहात्प्राक्पुरुषस्य कार्यकरण- सङ्घातलक्षणस्य आत्मा स्वरूपभूतः । आत्मनैव सङ्घातस्य कल्पितत्वात्कल्पितस्य चाधिष्ठानात्मकत्वादिति भावः । पुरुष आत्मेति पाठे पुरि शरीरे शेत इति पुरुषः शारीर आत्मा प्राकृतः अज्ञः । धर्मजिज्ञासेति । अधीत्य वेदवेदाङ्गानि ‘अथातो धर्मजिज्ञा’ सेति धर्मविचारं कृत्वेत्यर्थः । सोऽकामयत प्राकृत आत्मा तच्छब्दार्थः । किमकामयतेत्यत आह- पुत्रं वित्तं चेति । कीदृशं तदत आह— लोकत्रयसाधन- मिति । यद्वा किमर्थमत आह— लोकत्रयसाधनमिति । लोकलयसिद्धयर्थं लोकत्रयसाधनं पुत्रं वित्त चाकामयतेत्यर्थः । तत्र किं लोकसाधनः पुत्रोऽत आह— मनुष्येति । वित्तं कतिविधमत आह- द्विप्रकारमिति । तावेव प्रकारौ दर्शयति — मानुषं दैवं चेति । किं तन्मानुषं वित्तमत आह— कर्मेति । किं तत्कर्मेत्यत आह — अनुरूपमिति । विहितमित्यर्थः । किं लोकसाधनमिदमत आह— पितृ-
I द्वितीयोऽध्यायः । २३ दर्शितानि तेभ्यो व्युत्थानमात्मानमेव लोकमिच्छतोऽकामस्याभिहितम् । तदेतद्विभागवचन- मनुपपन्नं स्याद्यदि श्रौतकर्मज्ञानयोस्समुच्चयोऽभिप्रेतः । नचार्जुनस्य प्रश्न उपपन्नः ज्यायसीचेत्कर्मणस्त इत्यादि:- एकपुरुषानुष्ठेयत्वासम्भवं बुद्धिकर्मणोर्भगवता पूर्वमनुक्तं कथमर्जुनेनाश्रितं बुद्धेव कर्मणो ज्यायस्त्वं भगवत्यध्यारोपये- न्मृषैव ज्यायसीचेत्कर्मणस्ते मता बुद्धिरिति । किंच यदि बुद्धिकर्मणोः सर्वेषां समुच्चय उक्त- स्स्यादर्जुनस्यापि स उक्त एवेति- ‘यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चित ‘मिति कथमन्य- तर विषय एव प्रश्नस्स्यात् नहि पित्तशमनार्थिनो वैद्येन मधुरं शीतं च भोक्तव्यमित्युपदिष्टे एतयोरन्यतरत्पित्तप्रशमनकारणं ब्रूहीति प्रश्नो भवति । अथाप्यर्जुनस्य भगवदुक्तार्थ - विवेकानवधारणनिमित्तः प्रश्नः कल्प्येत, तथाऽपि भगवता प्रश्नानुरूपं प्रतिवचनं देयं ‘मया बुद्धिकर्मणोस्समुच्चय उक्तः किमर्थमित्थं त्वं भ्रान्तोऽसीति नतु पुनः प्रतिवचनमनुरूपं पृष्टा- दन्यदेव द्वे निष्ठे मया पुरा प्रोक्ते’ इति वक्तुं युक्तं- नापि स्मार्तेनैव कर्मणा बुद्धिसमुच्चयेऽभिप्रेते विभागवचनादिसर्वमुपपन्नं स्यात् । किंच क्षत्रियस्य युद्धं स्मार्तं स्वधर्म इति जानत:- ‘तत्कि कर्मणि घोरे मां नियोजयसी’ त्युपालम्भोऽनुपपन्नः । तस्माद्गीताशास्त्रे ईषणमात्रेणापि श्रौतेन स्मार्तेन वा कर्मणा आत्मज्ञानस्य समुच्चयो न केनचिद्दर्शयितुं शक्यः । लोकेति । किं पुनर्देवं वित्तमत आह— विद्यामिति । किं लोकसाधनमिदमत आह— देवलोकेति । अत्र ‘सोऽकामयत, जाया मे स्यादित्यादि, अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक ’ इत्यादि च बृहदारण्यकमनुसन्धेयम् । व्युत्थानं व्युत्थितिः; कर्मसन्न्यास इत्यार्थः । श्रौतकर्मणो ज्ञानस्य च समुच्चयोऽभिप्रेतस्स्याद्यदि तदेतद्विभागवचनमनुपपन्नं स्यादित्यन्वयः । नचेति । यदि कर्मज्ञानयोस्समुच्चयोऽभिप्रेतस्तर्हि कर्मापेक्षया ज्ञानस्य ज्यायस्त्ववचनमयुक्तं - समु- चितयोरेव द्वयोर्मोक्षहेतुत्वात् । तेच समुचिते कर्मज्ञाने एकपुरुषेण युगपदनुष्ठेये च भवत एवेति कथं कृष्णोऽर्जुनं कर्मण्येव केवले चोदयामास निष्फले- नहि केवलाद्ज्ञानादिव केवलात्कर्मणोऽपि स्यान्मोक्ष- स्तव मते । अथ यदि कृष्णोर्जुनं समुच्चय एव प्रेरितवानित्युच्यते, तर्हि ‘तत्किं कर्मणि घोरे मां नियो- जयसि केशवे ‘त्यर्जुनोपालम्भः कथमुपपद्येत । भगवता पूर्वमनुक्तं बुद्धिकर्मणोरेकपुरुषानुष्ठेयत्वासम्भवं, बुद्धेः कर्मणो ज्यायस्त्वं च कथमर्जुनो भगवति मृषैवाध्यारोपयेदित्यन्वयः । ननु श्रौतेन कर्मणा ज्ञानस्य समुच्चयो माsस्तुनाम स्मार्तेन तु स्यात् । ’ तथा तपश्च विद्या च संयुक्तं भेषजं मह’ दिति स्मृते- रत आह— नापीति । स्मार्तेन कर्मणाऽपि बुद्धिसमुच्चयो नाभिप्रेतः, अभिप्रेतेऽपि तस्मिन् सर्वमपि विभाग- वचनाद्युपपन्नं नैव स्यात्- ‘एषा तेऽभिहिता साङ्ख्ये बुद्धियोंगे त्विमां श्रु’ ण्वित्यादिविभागवचनम् । आदिशब्दाद्बुद्धेर्ज्यायस्त्ववचनादिग्रहणम् । ननु यदि कर्मज्ञानयोरेक पुरुषानुष्ठेयत्वासम्भवात्समुच्चयो नास्ति, तर्हि आत्मा कर्ता भोक्ता चेति विपरीतज्ञानवत एव कर्मसु प्रवृत्तिस्स्यात्, आत्माऽकर्ताऽभोक्ता चेति सम्यग्ज्ञानवतस्तु न स्यात्, न२४ श्रीभगवद्गीता - भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यस्य त्वज्ञानाद्रागादिदोषतो वा कर्मणि प्रवृत्तस्य यज्ञेन दानेन तपसा वापि शुद्ध- सत्त्वस्य ज्ञानमुत्पन्नं परमार्थतत्त्वविषयमेकमिदं सर्वं ब्रह्माकर्तृ चेति तस्य कर्मणि कर्मप्रयोजने च निवृत्तेऽपि लोकसंग्रहार्थं तत्र पूर्वं यथा प्रवृत्तः तथैव प्रवृत्तस्य यत्प्रवृत्तिरूपं दृश्यते न तत्कर्म येन बुद्धेस्समुच्चयस्स्यात् - यथा भगवतो वासुदेवस्य क्षत्रधर्मचेष्टितं न ज्ञानेन समुच्ची यते पुरुषार्थसिद्धये - तद्वत्फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वात् । तत्त्वविद्धि नाहं करोमीति मन्यते नच फलमभिसन्धत्ते । यथा च स्वर्गादिकामार्थिनोऽग्निहोत्रादिकाम्यसाधनानुष्ठाना- याहिताग्नेः काम्य एवाग्निहोत्रादौ प्रवृत्तस्य सामिकृते विनष्टेऽपि कामे तदेवाग्निहोत्रा- धनुतिष्ठतो न तत्काम्यमग्निहोत्रादि भवति, तथा दर्शयति च भगवान् - ‘कुर्वन्नपि न लिप्यते, कुर्वन्नपि न करोति न लिप्यत’ इति तत्र तत्र । यच्च- ‘पूर्वैः पूर्वतरं कृतम्’, ‘कर्म- णैव हि संसिद्धिमास्थिता जनकादय’ इति । तत्र तत्र प्रविभज्य विज्ञेयं । तत्कथं- यदि तावत्पूर्वे जनकादयस्तत्त्वविदोऽपि प्रवृत्तकर्माणस्स्युः ते लोकसंग्रहार्थं गुणागुणेषु वर्तन्त इति, ज्ञानेन संसिद्धिमास्थिताः । कर्मसन्न्यासे प्राप्तेऽपि कर्मणा सहैव संसिद्धिमास्थिताः न कर्मसन्न्यासं त्वयं नियमो दृस्यते श्रूयते वा जनकादीनां ज्ञानिनामपि कर्मसु प्रवृत्तिदर्शनात् । तस्मादेकस्मिन्नेव पुरुष जनकादौ कर्मज्ञानसमुच्चयदर्शनात्कर्मज्ञानयो रेकपुरुषानुष्ठेयत्वं सम्भवत्येवेति समुच्चयादेव मोक्ष इति शङ्कायामाह — यस्य त्विति । आदावज्ञत्वात्कामाद्यभिभूतत्वाच्च पुरुषः कर्मसु प्रवर्तते, ततः फलाभि- सन्धिरहितयज्ञादिकर्मकरणद्वारा चित्तशुद्धिस्तस्य भवति, चित्ते शुद्धेसति ज्ञानमुत्पद्यते एकमिदं ब्रह्मा- कर्तृ चेति । सच ज्ञानोत्पत्त्यनन्तरमपि प्रारब्धवशाद्यथापूर्वं यज्ञादिषु प्रवर्तते यथा जनकादिः तस्य सा प्रवृत्तिर्न कर्मेत्यर्थः । तत्र दृष्टान्तमाह-यथा भगवत इति । भगवान् कृष्णः ज्ञानी भवन् केवलाद्ज्ञानात्पुरुषार्थसिद्ध्यभावं पश्यन् तत्सिद्धये न क्षत्रधर्मचेष्टितं करोति, किंतु लोकानुग्रहार्थमेव तद्वज्जनकादयोऽपीत्यर्थः । तत्र हेतुमाह — फलेति । फलाभिसन्ध्यहङ्काराभावस्य तुल्यत्वात् फलाभिस- मध्यहङ्कारपूर्वक कर्मैव कर्म न त्वन्यदित्यर्थः । ननु फलाभिसन्ध्यहङ्काराभावमात्रेण कर्मणः कर्मत्वं कथ व्यपैतीत्यत्राह - यथा चेति । स्वर्गादिकामेन काम्याग्निहोत्राद्यनुष्ठायी पुरुषः मध्ये अकस्माद्ज्ञान- कामेन खर्गादिकामं त्यक्त्वा तदेव कर्म समापयति- तत्र च यावत्पर्यन्तं खर्गादिकामः तावदेव तत्कर्मणः काम्यत्वं न तूर्ध्वमिति कृत्वा अनुष्ठीयमानस्यापि काम्यकर्मणः कामनाशाद्यथा काम्यत्वनाशः तथा ज्ञानिना क्रियमाणस्यापि कर्मणः फलाभिसन्ध्यहङ्कारभावात्कर्मत्वनाश इति भावः । कुर्वन्नपि न करोतीति कथं कुर्वतः पुरुषस्याकर्तृत्वं स्यात् - विरुद्धं हीदं द्वयमतः अहङ्कारपूर्वकत्वात्कर्तृत्वस्य तद्रहितः पुरुषः कुर्वन्न- प्यकर्तेव । ते इति । ते जनकादयः लोकसंग्रहार्थं गुणागुणेषु वर्तन्त इति ज्ञानेन कर्मसु प्रवृत्ता इति शेषः । कर्मणैव हीति श्लोकगतस्य संसिद्धिमास्थिता इति वाक्यस्यार्थमाह- कर्मेति । अभोक्त्रा- त्मज्ञानात्कर्मसन्न्यासे प्राप्तेऽपीत्यर्थः । अवेदं बोध्यम् - प्रवृत्तिमार्गे वर्तमाना अपि जनकादयः वेदान्त- श्रवणादिना परमार्थात्मतत्त्वज्ञानं सम्पाद्य निवृत्तिमार्गभूतसन्न्यासाश्रमस्वीकारं विनैव निरहङ्कारं कर्म
४ द्वितीयोऽध्यायः । २५ कृतवन्त इत्यर्थः । अथ न ते तत्त्वविदः । ईश्वरे समर्पितेन कर्मणा साधनभूतेन संसिद्धिं सच्चशुद्धिं ज्ञानोत्पत्तिलक्षणां वा संसिद्धिमास्थिता जनकादय इति व्याख्येयम् । एतमेवार्थ वक्ष्यति भगवान् सत्त्वशुद्धये कर्म कुर्वन्तीति- ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ इत्युक्त्वा, सिद्धिं प्राप्तस्य पुनर्ज्ञाननिष्ठां वक्ष्यति ‘सिद्धिं प्राप्तो यथा ब्रह्मे’ त्यादिना । तस्मा- गीताशास्त्रे केवलादेव तत्त्वज्ञानात् मोक्षप्राप्तिर्न कर्मसमुच्चितादिति निश्चितोऽर्थः । यथा चाय- मर्थस्तथा प्रकरणशो विभज्य तत्र तत्र प्रदर्शयिष्यामः । तत्रैवं धर्मसम्मूढचेतसो महति शोकसागरे निमग्नस्यार्जुनस्यात्मज्ञानादन्यत्रोद्धरणमपश्यन् भगवान् वासुदेवस्ततोऽर्जुन मुद्धिधारयिषुरात्मज्ञानायावतारायन्नाह – अशोच्यानित्यादिना ॥ श्रीभगवान् – अशोच्यानन्वशोचस्त्वं प्रज्ञावादांच भाषसे । गतासूनगतासुंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥ न शोच्या अशोच्याः भीष्मद्रोणादयः सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात्ता- कुर्वन्त एव ज्ञानान्मुक्ति भेजिरे । निवृत्तिमार्गे वर्तमानास्तु सनकादयः सन्न्यासाश्रमस्वीकाराद्वेदान्त- श्रवणादिना आत्मतत्त्वज्ञानं सम्पाद्य कर्माण्यकुर्वन्त एव ज्ञानान्मुक्ति भेजिरे इति । तत इति शोकसागरादित्यर्थः । अशोच्य नित्यादिनेति । अत्र रामानुज:- नत्वेवाहमित्यादिने- त्युक्त्वा अशोच्यानिति श्लोकं गीताशास्त्रात्पृथक्चकार, तन्मन्दम् — न ते भीष्मयश्शोच्या :- परमार्थ- स्वरूपेण तेषां नित्यत्वात् । नहि पण्डिता मृतान् जीवतश्च प्रति शोचन्ति - त्वं च पण्डितोऽसि अतो माशुच इति हितशासनपरस्यास्य श्लोकस्य शास्त्रान्तः पातित्वौचित्यात् । यच्च वेदान्तदेशिकेनोक्तमशोच्यानिति श्लोकस्योपदेशार्थावधानापादनार्थपरिहासभावतया शास्त्रा- यतरेणमात्रत्वेन साक्षाच्छास्त्रत्वाभाव इति, तत्तुच्छम् — महति शोकसागरे निमग्ने खचरणं शरणं प्रपन्ने पार्थे भगवतः कृष्णस्य परिहासभावोदयाऽसाङ्गत्यात् ।
यदप्युक्तमनेन — यद्वाऽत्राशोच्यानिति श्लोकः प्रहसन्निवेत्यस्य विषयः, नत्वेवाहमित्यादिकं तु इर्दशब्दार्थं इति तदपि तुच्छम् — इदशब्दस्यात्रानुपदवक्ष्यमाणे शक्ततया तदनुपदोक्तस्याशोच्यानिति श्लोकस्येदं पदार्थत्वाभावकल्पनाया अप्रमाणत्वात्, अशोच्या नितिश्लोकस्य प्रहसन्नित्यनेनान्वया- सम्भवात् इतिशब्दमध्याहृत्य ‘अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषस’ इति प्रहसन्निवेत्यन्वये समाप्तपुनरादानदोषात् इतिशब्दाध्याहारगौरवाच्च, गतासूनित पदार्थस्य परिहासवाक्यत्वासम्भवेन शास्त्रप्रवेशासम्भवेन च व्यर्थत्वप्रसङ्गात् परिहासवाक्यं वदन्निवेतीवशब्देन नतु वस्तुतः परिहासवाक्यं जगादेति सिद्धत्वेन अशोच्यानिति श्लोकस्य भगवदुक्तत्वासम्भवाच्च । तस्माद्गीताशास्त्रस्याशोच्या नितिं श्लोक एवादिः । अशोच्यत्वे हेतुद्वयमाह – सद्वृत्तत्वात्परमार्थस्वरूपेण च नित्यत्वादिति । असंचरिता - न्पुत्रादीनुद्दिश्य पित्रादयश्शोचन्ति भ्रष्टा एत इति, भीष्मद्रोणादयस्तु सद्वृत्तत्त्वान्न तें शोच्या:- अनि- २६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु नशोच्यानन्वशोचः अनुशोचितवानसि - एते म्रियन्ते मन्निमित्तमहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिनेति । त्वं प्रज्ञावादांश्च प्रज्ञावतां बुद्धिमतां वादांच वचनानि च भाषसे । तदेत- न्मौढ्यं पाण्डित्यं च विरुद्धमात्मनि दर्शयस्युन्मत्त इवेत्यभिप्रायः । यस्माद्गतासून् गतप्राणा न्मृतान् अगतासूनगतप्राणान् जीवतश्च नानुशोचन्ति पण्डिता आत्मज्ञा:- पण्डा अत्मबुद्धिर्येषां ते हि पण्डिताः- ‘पाण्डित्यं निर्विद्ये ‘ति श्रुतेः । परमार्थतस्तु तान्नित्यानशोच्या ननुशोचस्यतो मूढोऽसीत्येतत् ॥ ११ ॥ त्यास्तु गृहसम्पदादयश्शोच्या नतु नित्या आत्मानो भीष्मादय इत्यर्थः । शोकप्रकारमाह- मन्निमित्त- मित्यादिना । मन्निमित्तं मदर्थं प्रज्ञावादानित्यत्र प्रज्ञाशब्दो लक्षणया प्रज्ञावतः प्राज्ञानभिधत्त इत्याह- प्रज्ञावतामिति । श्रेयो भोक्तुं भैक्षमपीह लोके इत्यादीनि वचनानीत्यर्थः । येषां देहत- दिन्द्रियादिसङ्घाताभिमानिनां देवदत्तादीनां प्राणाः देहादुत्कान्तास्ते गतासव इत्युच्यन्ते । फलितार्थ -
- मृतानिति । गतासवो न भवन्तीत्यगतासवः – नन्तत्पुरुषः । गतासुभिन्ना इत्यर्थः । तान्- फलितमाह – जीवत इति । न च मृतानां शोच्यत्वमस्तु नाम कथं जीवतामिति वाच्यं, जीवन्तोऽपि पुत्रादयः दुर्वृत्तास्सामयाश्च शोच्या एवेति । ननु पण्डिता अपि तार्किकादयः शोचन्त्येव मृतं स्वजनं प्रतीत्यत आह– पण्डा आत्मज्ञान- मिति | आत्मज्ञानिन एव पण्डिता न तु तार्किकादय इत्यर्थः । तत्र श्रुतिं प्रमाणयति - ‘पाण्डित्यं निर्विद्येति’ । आत्मज्ञानं सम्पाद्येत्यर्थः । त्वन्त्वपण्डितः एव शो कित्वादित्याह – परमार्थतस्त्विति । परमार्थत आत्मस्वरूपेणेत्यर्थः । इत्येतदिति । । इति यावदित्यर्थः । इत्यभिप्राय इति पाठान्तरम् । अत्र गतासून् देहानगतासूनात्मनश्चति रामानुज आह, तत्तुच्छम् — मृतदेहानां गतासुत्वे- प्यमृतदेहानामगतासुत्वेन अगतासु शब्दाज्जीवदेहार्थालाभात् । गतास्वगतासुशब्दयौर्लोके मृतजीवतोरेव शक्तिग्रहदर्शनात् - भो सखे त्वद्ग्रामे अस्मत्सम्बन्धिनौ देवदत्तयज्ञदत्तौ किं सुखमासाते ? इति विष्णु- मित्रेण पृष्टः कृष्णशर्माः तम्प्रति देवदत्तो गतासुर्यज्ञदत्तस्त्वगतासुरिति प्रत्युवाच किं तत्र देवदत्तो देहो गतासुः यज्ञदत्तो जीवस्त्वगतासुरिति स श्रोता प्रत्येतिस्म- अपितु देवदत्तो जीवति । यज्ञदत्तो मृत इति जानाति स्म - अपि च देहवदसवोऽपि कोशत्वेनात्मन उपाधिभूता एवेति कृत्वा परमार्थत आत्मानो निष्कोशत्वेन गतासव एवेति । कथमात्मनामगतासुत्वम् 6 किंच सच्चिदानन्दरूपमप्यात्मानं ये अन्नमय- कोशावच्छिन्नत्वेन मनुष्यं वृद्धं जीर्णे शं, प्राणमय कोशावच्छिन्नत्वेन क्षुधितं पितासितं च मन्वते ते अज्ञा अतीव शोच्या एवेति कृत्वा ः कथमगता सूनामात्मनामशोच्यत्वम् अपिच पण्डिता गतासून् देहा- न्प्रति न शोचन्तीत्युक्ते अपण्डितानां । तान्प्रति शोको भवतीतिः सिद्धं नतु तद्दृश्यते । न पण्डिता अपि गतासुदेहान्प्रति शोचन्ति देहो दग्धो देहश्वभिर्भक्षित इति नहि कोऽपि शोचति । किंतु देही पुत्रो मृत इत्येव शोचति सर्वोपि । तस्मादुष्टो रामानुजोक्तार्थः ॥ ११ ॥ द्वितीयोऽध्यायः । न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामस्सर्वे वयमतः परम् ॥ १२ ॥ २७ कुतस्ते अशोच्याः यतस्ते नित्या:- कथं- नेति । नत्वेव जातु कदाचित् अहं नासं किं त्वासमेव अतीतेषु देहोत्पत्तिविनाशेषु नित्य एवाहमास मित्यभिप्रायः । तथा न त्वं नासी: किं त्वासीरेव तथा नेमे जनाधिपा नासन् किं त्वासन्नेव - तथा न न भविष्यामः, किंतु भविष्याम एव । एवं च सर्वे वयमतोऽस्माद्देहविनाशात्परं उत्तरकालेऽपि त्रिष्वपि कालेषु नित्या आत्मस्वरूपेणेत्यर्थः । देहभेदानुवृच्या बहुवचनं नात्मभेदाभिप्रायेण ॥ १२ ॥ नत्वेवाहमिति श्लोकमवतारयति – कुत इति । कुतस्ते अशोच्या इति प्रश्नः । यतस्ते नित्या - स्ततस्ते अशोच्या इत्युत्तरम् । कथं ते नित्या इति पुनः प्रश्नः- तत्रोत्तरमाह — नेतिश्लोकेन । यदि भीष्मादयः नित्यास्तर्हि अशोच्या एव नतु नित्याः म्रियमाणत्वात्ततश्चानित्यान् तान् प्रत्यहं शोचामी - त्याशङ्कायामाह भगवान् नत्वेवाहमिति श्लोकमित्यवतारिकाया आशयः । अहं जातु तु कदाचिदपि नैव नासमित्यन्वयः । सम्भाव्यनिषेधनिवर्तनार्थौ द्वौ नञौ । अहमिदानीमेव वर्ते प्राक्तु कदाचिदपि नासमिति सम्भाव्यस्य निषेधस्य हि निवृत्तिरत्र कृता नैव नासमिति । अस्यार्थमाह- किं त्वासमेवेति । देहानामुत्पत्तयो विनाशाश्च देहोत्पत्तिविनाशाः तेषु अतीतकाले अनन्तेषु देहेषु जातेषु नष्ठेषु च नात्मा जातो नष्टः किंतु नित्य एवेत्यर्थः । नन्वात्मन एकत्वाद्वयमित्युक्तिर्न सङ्गच्छत इत्यत्राह - देहभेदेति । उपाधीनां देहानां बहुत्वाद्वयमिति बहुवचननिर्देश:- न त्वात्मबहुत्वादित्यर्थः ।
युक्तं चेदम् — वासुदेवत्वार्जुनत्व जनाधिपत्त्वानां देहधर्मत्वेनाधर्मत्वभावात् । अवच्छेदकानां घट- मठकरकादीनां भेदेन घटाकाशो मठाकाशः करकाकाश इत्यादिभेदव्यवहारे सत्यपि यद्वदाकाशस्यैकत्वं तद्वदवच्छेदकानां देहाद्युपाधीनां भेदेन वासुदेवोऽर्जुनो नराधिपाश्चेति भेदव्यवहारे सत्यप्यात्मन एकत्व - मेवेति भावः । अत्राह रामानुजः - अहं सर्वेश्वरस्तावन्नित्य इति सिद्धमिति, तत्तुच्छम् — न ह्यर्जुनः कृष्णं सर्वेश्वरं नित्यमात्मानं मन्यते । ‘अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति वक्ष्यति ह्यर्जुनः । किंच यथा कुन्त्या जाते आत्मन्यर्जुनस्यानित्यत्वबुद्धिस्तथ देवक्या जातेऽपि कृष्णे अनित्यत्वबुद्धिरेव भवति - स्वस्मिन्निव कृष्णेऽपि जन्मबाल्यकौमारादिधर्मदर्श- नात् । नापि कृष्णस्यास्मिन् श्लोके आत्मानं सर्वेश्वरं प्रथयितुमस्ति तात्पर्य - प्रकृतासाङ्गत्यात् । परं तु आत्मानं नित्यं प्रथयितुमेव नित्यत्वप्रथनाय च नेश्वरत्वमावश्यकं भवन्मते प्रकृतिपुरुषेश्वराणां त्रयाणां नित्यत्वेन नित्यत्वेश्वरत्वयोरसमनियतत्वात् । किंच अहंशब्दस्य वक्तरि केवले शक्तिर्न त्वीश्वरत्वादि- विशेषणविशिष्टे इति सर्वेश्वरत्ववचनमत्रासङ्गतं कवितात्पर्याविषयं च । तथा यथाहं सर्वेश्वरः परमात्मा नित्य इति नात्र संशयः तथा भवन्तः क्षेत्रज्ञा आत्मानोऽपि नित्या एवेति मन्तव्या इत्यप्युक्तं रामानु- ज़ेन, तश्वासत् — श्लोके न त्वेवाहं जातु नासमित्ययमशो दृष्टान्तः- अतिरिक्तस्तु दाष्टन्तिक इति २८ श्रीभगवद्गीतासु- भाप्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु विभागकल्पनस्याप्रमाणत्वात्, दृष्टान्तवा चियथाशब्दाभावात्, अर्जुनस्य कृष्णे नित्यत्वनिश्चयाभावेन ‘न त्वेवाहं जातु नास’ मित्यस्य दृष्टान्तत्वासम्भवाच्च । किं चाऽऽस्तिकोऽयमर्जुन ईश्वरः कश्चन नित्योऽस्तीति मन्यतांनाम कृष्णं त्वीश्वरं नित्यं नैव मन्यते । अन्यथा सारथ्यादिषु कृष्णनियमनासम्भवात् । अपिच यदि रामानुजोक्तार्थे कृष्णस्य तात्पर्य स्यात्तर्हि - ईश्वरोऽहं यथा नित्यो जीवा यूयं तथैव हीत्येव ब्रूयात् । नतु नत्वेवाहमित्यादि । किंच ईश्वरः परमात्मा जीवास्त्वात्मान इत्यपि वक्तुं न शक्यते- ‘य आत्माऽपहतपाप्मा सर्वव्यापी सर्वभूतान्तरात्मा, ऐतदात्म्यमिदं सर्व, स आत्मा, तत्त्वमसि, अयमात्मा ब्रह्मेत्यादिषु श्रुतिषु आत्मशब्देनैवेश्वरग्रहणात् । जीवेश्वरयोरभेदोपदेशाच्च । अथ यच्चात्र रामानुजेनोक्तम् — एवं भगवतस्सर्वेश्वरादात्मनां च परस्परं भेदः पारमार्थिक इति भगवतैवोक्तमिति प्रतीयते - अज्ञानमोहितं प्रति तन्निवृत्तये पारमार्थिकनित्यत्वोपदेशसमये अहं त्वमिमे सर्वे वयमिति व्यपदेशात् । औपाधिकभेदवादे ह्यात्मभेदस्यातात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न सङ्गच्चत इति, तच्चासत् - भीष्मादीननित्यत्वेन शोच्यान्मन्यमानायार्जुनाय तावन्न भीष्मादयश्शोच्या नित्यत्वादित्येतावदेव तावदुपदेष्टुमुचितं कृष्णस्य, न त्वात्मैकत्वम् ! तद्धि कृष्ण- स्स्वयं पश्चादुपदेक्ष्यति - ‘अविनाशि तु तद्विद्धि येन सर्वमिदं तत’ मित्यादिना । वक्ष्यति च तत्र रामानुजो गत्यभावाज्जात्येकत्वमपि । यदि कृष्णस्यात्मभेद एव वास्तव इत्यभिप्रायस्तर्हि - ‘अनाशिनस्तु ‘तान्विद्धि सर्वमिदमावृत’ मित्येवावक्ष्यत् । किं चात्मनामनेकत्वे तत्तद्देहावच्छिन्नत्वेन सर्वव्यापकत्वमेव माभूत् नहि चैत्रेणात्मना मैत्रदेहो व्याप्तो दृश्यते - चैत्रात्मनो मैत्रदेहसुखदुःखाद्यनुभवाभावात् । तत्तद्देहाद्यनवच्छिन्नस्त्वात्मा सर्वव्यापक एक एव तद्भेदकाभावात् । यदि त्वादिनाशीति श्लोकः परमात्मानं ब्रूत इत्युच्येत, तर्हि सर्वव्यापकः परमात्मैवाविनाशी न त्वात्मान:- ते हि परिच्छिन्नत्वाद्धादिवदनित्या एवेति महदिदमनिष्टमापतितम् । तस्मान्न त्वेनाहमितिश्लोके आत्मभेद, अविनाशीतिश्लोके आत्माभेदं च प्रतिपादयतः कृष्णस्याशयः आत्मन औपाधिक एव भेदः, नतु तात्त्विक इत्येवंरूप एवेति सुखेन निश्चीयते विद्वद्भिः । तत्त्वोपदेशसमयेऽप्यौपाधिकं भेदमनूद्यैव पारमार्थिकाऽभेदो बोधनीय इति नानुवादमात्रेण भेदस्य पारमार्थिकत्वम् । कृष्ण इत्यर्जुन इति नराधिपा इति च व्यवह्रियमाणाः सर्वे वयं अविनाशि तद्ब्रह्मैव - ‘येन सर्वमिदं ततमिति हि श्लोकद्वयस्यैकवाक्यार्थः । तस्मात्सर्वव्यापकस्य नित्यस्यात्मनो भेदकाभावान्नास्ति पारमार्थिक आत्मभेद:- भेदकानां सर्वेषामप्यात्मनैव व्याप्तत्वात् । व्यवहारतस्तु कल्पितोऽस्त्यात्मभेद आकाशभेदवदिति । अथ यदप्युक्तं रामानुजेन - शङ्करमते ग्रन्थारम्भ एव न सम्भवति परमपुरुषस्य परमार्थदृष्टे- निर्विशेषकूटस्थ नित्य चैतन्यात्मयाथात्म्यसाक्षात्कारान्निवृत्ता ज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोप- देशादिव्यवहाराश्च न सङ्गच्छन्त इति, तदपि मन्दम् — तव मतेऽप्यवाप्तसमस्त कामस्य परिपूर्ण- द्वितीयोऽध्यायः । २९ स्यात्मारामस्यानन्दमयस्य परमपुरुषस्य कथमर्जुनदुःखनिरीक्षणतदुपदेशादिव्यवहारास्सङ्गच्छेरन् ? लीलयेति चेत्तर्हि माययेति विद्धि - यथा मायावशादजोऽव्ययो भूतानामीश्वरो भगवान्जात इव व्ययित इवोग्रसेनस्य पाल्य इव प्रतीयते, तथा पार्थाय किमप्युपदिशन्निव न प्रतीयतां किम् ? परमार्थतस्तु न कृष्णो न पार्थः नाप्युपदेश:- एकमेवाद्वितीयं ब्रह्मास्ति, व्यवहारतस्तु सर्वमपि द्वैतमिति न काचिदस्माकं क्षतिः । अथ ब्रूहि त्वं परिपूर्णे निष्कामे हरौ कथं लीलोदय इत्यत्रोत्तरं नच बालवदिति वाच्यं, बाल- स्याज्ञत्वात्सकामत्वाच्च दृष्टान्तत्वाभावात् । नच राज्ञः कन्दुकविहारवदिति वाच्यं तस्य तत्र सुखकाम- प्रवृत्तिदर्शनात् । नच लोकानुग्रहार्थमिति वाच्यं, लोकानुग्रहरूपे प्रयोजने अवशिष्टे सति भगवतः पूर्ण- कामत्वव्याघातात् । तस्मात्तवापि मायैवात्र शरणम् । नच माययापि कथमसङ्गतार्थसिद्धिरिति वाच्यं, मायायां सर्वसम्भवादिति न्यायात् । ननु परमपुरुषस्यार्जुनं प्रत्युपदेशो मायया भवतु नाम- इदानीन्तनाचार्य परम्परायाशिष्यपरम्परां प्रत्युपदेशः कथम् ? द्वैतदर्शने विद्वत्ताऽभावाद्वैतादर्शने वाग्व्यवहाराभावाच्चेति चेत्, मैवम् - अप- सेक्षीकृतात्मतत्त्वस्यापि गुरोर्यावद्देहपातं बाधिताध्यासानुवृत्त्या व्यवहारलोपाभावात् । देहातिरिक्तमात्मानं विदन्नपि त्वं यथा मनुष्योऽहं वैष्णवोऽहं रामानुजोऽहमिति ब्रवीषि तद्वदस्माकं किं न स्यात् ? नच बाधितानुवृत्तस्य भेदज्ञानस्य उपदेशादिप्रवृत्तिहेतुत्वं नेति वाच्यं, आत्मज्ञानेन बाधितस्य अनुवर्तमानस्य देहात्मभ्रमस्य भोजनादिप्रवृत्तिहेतुत्वदर्शनात् । नहि देहातिरिक्तात्मज्ञानी त्वं निर्भोजनादिव्यापारो वर्तसे– भोजनादिव्यपारो हि देहात्मभ्रममूलकः । नाहं देह इति मन्वानो नहि मुखेन भुंक्ते भोक्तुमिच्छति वा । यदप्युक्तं रामानुजेन – बिम्बभूत ईश्वरस्स्वप्रतिबिम्बभूतायार्जुनाय तत्त्वं कथमुपदिशेत् नहि कोऽप्यनुन्मत्तः पुरुषः खदर्पणप्रतिबिम्बाय किमप्युपदिशेदिति, तदपि तुच्छम् — कोऽपि पुरुषः प्रति- बिम्बाय किमपि न वक्तीत्यत्र किं बिम्बप्रतिबिम्बयोरत्यन्ताभेदः कारणम् ? किं वा प्रतिबिम्बमिथ्यात्वं ? यद्वा प्रतिबिम्बचैतन्याभावः ? नाद्यः- अत्यन्ताभेदे बिम्बप्रतिबिम्बव्यवहारस्यैव लोपप्रसङ्गात् - अयं बिम्बोयं प्रतिबिम्ब इति व्यवहारो हि बिम्बप्रतिबिम्बभेदमूलक:- अयं घटोऽयं पट इति व्यवहार इव घटपट- भेदमूलकः । किंच दर्पणगतपर प्रतिबिम्बाय सुतरां भिन्नाय किमिति नोपदिशेत्पुरुषः । नापि द्वितीयः – रज्जुसर्पस्य रज्जुज्ञानेनेव प्रतिबिम्बस्य केनापि ज्ञानेन बाधादर्शनात्- अबाधितस्य चामिथ्यात्वात् - न हि कोऽपि दर्पणगतं स्वप्रतिबिम्बं स्वयं मिथ्या मन्यते । अतः परिशिष्टस्तृतीयः- अविद्या चित्प्रतिबिम्बास्तु चैतन्यवन्त एवेति न दर्पणप्रतिबिम्बतुल्या इति सङ्गच्छत एव स्वप्रतिबिम्बानां स्वभिन्नत्वेन स्वस्योपदेशः कृष्णस्येति । नचैवं बिम्बप्रतिबिम्बयोजवेश्वरयोर्भेदे कथमद्वैत सिद्धिरिति वाच्यं यावदविधं बिम्ब- प्रतिबिम्बादिभेदसद्भावेऽपि परमार्थदशायामविद्याया एवाभावेन बिम्बप्रतिबिम्बभेदाभावान्नाद्वैतहानिरिति । एतेन ‘नित्यो नित्यानां चेतनश्चेतनाना’ मिति मन्त्राज्जीवेश्वरद्वैत सिद्धिरिति रामानुजवचनं दत्तोत्तरम् - ‘एको बहूनां यो विदधाति कामा’ निति तन्मन्त्रस्य व्यावहारिक जीवेश्वरभेदरक्ष्यरक्षकभावाद्यनुग्राहकत्वात् । किंच नात्र चिन्मात्रस्योपदेष्टत्वादिकं तस्य निर्धर्मकत्वात् किं तर्हि कृष्ण देहेन्द्रियाद्याकार- परिणतमायावच्छिन्नचितेरेव- साहि अर्जुनदेहेन्द्रियाद्याकारपरिणता विद्यावच्छ्न्निचितेर्भिन्नैव । अत एव खलु ३० श्रीभगवद्गीतासु - भाप्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तत्त्वमसीत्यत्र विशेषणांरंशं विहाय विशेष्यांशे लक्षणा स्वीकृता- तस्माद्विशिष्टयोः कृष्णार्जुनयोर्भेदादस्त्युप- देशोपपत्ति: - इति । यच्च रामानुजेनोक्तम्- गुरोरद्वितीयात्मविज्ञानादेव ब्रह्माज्ञानस्य सकार्यस्य नष्टत्वाच्छिष्यं प्रत्युपदेशो निष्प्रयोजन इति, तदपि तुच्छम् — यावद्देहपातमात्मज्ञस्यापि गुरोर्देहेन्द्रियादिप्रपञ्चप्रतीति- सद्भावः प्रागेव प्रत्यपादि - ऐन्द्रजालिकेन गगने गन्धर्वनगरं निर्मितं नेदं गन्धर्वनगरं किंतु गगनमेवेति जानतामपि यावदिन्द्रजालं प्रतिभात्येव । अयं च प्रपञ्चः यस्याद्वितीयात्मज्ञानेन बाधितस्तस्यैव दग्ध- पटवदबन्धकः न त्वन्यस्येति कृत्वा न गुरुज्ञानेन शिष्याज्ञाननिवृत्ति :- प्रतिपुरुषमविद्या भेदात्प्रपश्चभेदाच्च । यथा नयनसन्निहितहस्ता बहवः पुरुषा एकमेव सूर्य न पश्यन्ति - नयनासन्निहितहस्तस्तु विदग्धस्तं पश्यति - नैतद्विदग्धकर्तृकाद्वितीयसूर्यावलोकनमविदग्धपुरुषाश्रयसूर्याज्ञाननिवर्तकं तद्वत्प्रकृतेपीति । विप- रीतं चेदं यदेकस्य ज्ञानादन्यस्य भ्रमनिवृत्तिरिति - न हि एकस्य रज्जुयाथात्म्यज्ञानादन्यस्य रज्जुसर्पभ्रनो निवर्तमानो दृष्टः श्रुतो वा । वस्तुतस्तु रामानुजमत एव सुतरामुपदेशा नुपपत्तिरुपदेशानर्थक्यं च तथाहि - चिदचिच्छरीरकत्वेन चिदचिदन्तस्स्थः परमात्मा कृष्णः चितोऽर्जुनस्य बहिराभिमुख्येन गुरुस्सन् कथं वर्तेत - नान्तरं वस्तु बहिस्स्यात् । यदि चिदचितोर्बहिरपि कृष्णस्यात्तर्हि कृष्ण एव चिदचितोश्शरीरं स्यात् चिदचिद्याप्तश्च स्यात् । व्यापकेन शस्त्रादिना व्याप्यस्य देहस्येव चिदचिन्यां कृष्णस्य नाशोऽपि स्यात् । चिदचितो- रीश्वरापृथक्सिद्धविशेषणत्वेन स्व पृथक्सिद्धविशेषणाद्गन्धात्स्वयं पृथिव्या इव चिदचिन्यां पृथगीश्वरस्याव- स्थानमपि न सम्भवतीति कृत्वा पृथगवस्थित वस्तुद्वयधर्मस्य गुरुशिष्यभावस्योपपत्तिः कथं कृष्णार्जुनयो- रपृथगवस्थितयोः चिदीश्वरयोः ? अपृथक्सिद्धविशेषणवा चिशब्दानां विशेष्यपर्यन्तत्वनियमात् अर्जुन- पदार्थोऽपि चिदचिद्विशिष्ट ईश्वर एवेति कृत्वा कृष्णोऽर्जुनायोपदिदेशेत्येतद्वाक्यमपि न युज्यते । सर्व- व्यापिनस्सर्वशरीरस्य सर्वान्तरस्येश्वरस्य कृष्ण देहेन्द्रियादिष्वि वा जुन दे हे न्द्रियादिष्वप्यहं मम ग्रहस्यैवौचित्येन कृष्णोऽहमर्जुनस्त्वं नराधिपा इमे इति त्वमिदंग्रहनिर्देशः कथमुपपद्यताम् ? कृष्णोऽहमर्जुनोऽहं नराधिपा अहमिति हि वक्तव्यम् । यद्वा कृष्णो मे अर्जुनो मे नराधिपा मे इति वक्तव्यम् । 1 किंच चेतनाचेतनात्मकनिखिलजगत्परमकारणभूत ईश्वरः कृष्णः खजातत्वेन स्वाभिन्नेष्वर्जुनादिषु कथं भेदबुद्धिमीयात् नहि मृदो भिद्यते घटः । कथं वा स्वाभिन्नायार्जुनाय स्वयमुपदिशेत्किमपि ? उपदेशो हि भेदमूलकः । एवमर्वाचीनाचार्यपरम्परापि स्खमिवान्यानपि चेतनान्परम कारणेश्वराभिन्ना- न्विदुषीसती परमकारणेश्वराभिन्न स्वाभिन्न चेतनेभ्यश्शिष्येभ्यः कथमुपदिशेत्किमपि ? ननु परमेश्व राज्जीवा जायन्त इत्यत्र जीवानामौपाधिकमेव जन्मास्माभिरिष्यते नतु स्वरूपतः - जीवानां ज्ञानैकाकारत्वेन नित्यत्वादिति चेत्तर्हि ज्ञानैकाकारे आत्मनि भेदकाभावात्सिद्धमद्वैतमिति स्वमतप्रच्युतिः, परमत प्रवेशश्चेत्यपि दोषद्वयं प्रसक्तं तव । नच स्वरूपतो भेदाभावेपि धर्मतोऽस्ति भेद इति वाच्यं तस्य धर्मस्याप्यौपाधिकत्वेन स्वरूपगतत्वाभावात् । द्वितीयोऽध्यायः । देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥ ३१ तत्र कथमिव नित्य आत्मेति दृष्टान्तमाह – देहिन इति । देहिनो देहोऽस्यास्तीति देही तस्य देहिनो देहवत आत्मनः अस्मिन् वर्तमाने देहे यथा येन प्रकारेण कौमारं कुमार- भावो बाल्यावस्था, यौवनं यूनो भावो मध्यमावस्था, जरा वयोहानिर्जीर्णावस्था इत्येतास्तिस्रोऽ- वस्था अन्योन्यविलक्षणाः तासां च प्रथमावस्थानाशे आत्मनो न नाशः द्वितीयावस्थापजनने नोपजननमात्मन:- किं तर्ह्यकस्याविक्रियस्यैव द्वितीयतृतीयावस्थाप्राप्तिरात्मनो दृष्टा यथा तथा तद्वदेव देहादन्यो देहो देहान्तरं तस्य प्राप्तिर्देहान्तरप्राप्तिरविक्रियस्यैवात्मन इत्यर्थः । धीरो धीमान् तत्र एवं सति न मुह्यति न मोहमापद्यते ॥ १३ ॥ एवं ज्ञानैकाकारे आत्मनि उपदेशसम्पाद्यगुणाभावादुपदेश निवार्यदोषाभावाच्चोपदेशोऽप्यपार्थः । नच निकृष्टोपाधित्याग उत्कृष्टोपाधिस्वीकारश्च फलमुपदेशस्येति वाच्यं, मार्तिकघटोपाधिपरित्यागा- त्सौवर्णघटोपाधिस्वीकाराच्च गगस्येवाविक्रियस्यात्मनोपि मनुष्योपाधित्यागादेवोपाधिस्वीकाराच्च न कोऽपि लाभ: । सति हि देहात्मम्र मे देवोऽहं यक्षोऽहमिति सन्तुष्येत्पुरुषः प्रकृते तूपदेशेन देहात्मभ्रमनाशा- देहातिरिक्तात्मज्ञानस्य जातत्वाच्च किं । देवदेहेन । नच देवदेहे आत्मीयत्वज्ञानात्सन्तुष्यति पुरुष इति वाच्यं, ‘असङ्गो ह्ययं पुरुष’ इति श्रुत्या आत्मानमसङ्ग विद्वान् पुरुषः कथं देवदेहमात्मीयं मनुयात् ? ननु असङ्ग इति श्रुतिरर्थान्तरपरा - पुरुषस्तु सदापि सूक्ष्मदेह विशिष्टत्वात्ससङ्ग एव- ज्ञानैकाका- रोऽपि पुरुषसूक्ष्मदेहोपाधिबहुत्वाद्बहुविध एव; असावुपाधिः प्रलये मुक्तौ च न नश्यति - अतो जीवाः परस्परं भिन्ना एव सर्वदा; उपदेशादीश्वरोपासनाच्चामीषामीश्वरव द्ज्ञानैश्वर्यादिसिद्धिरप्राकृतदिव्यमङ्गल- विग्रहसिद्धिश्चेति चेत्, नैतदप्युपपद्यते – सदापि लिङ्गदेहविशिष्टस्य पुरुषस्य लिङ्गाकारवत्त्वेन ज्ञानै- काकारवत्त्वाभावात्, अपञ्चीकृतपञ्चभूतकार्यस्य लिङ्गस्य सदाप्यनादिपुरुषोपाधित्वासम्भवात् प्रकृतिपुरु- षेश्वराणां तव मते अनादित्वात्, लिङ्गस्य प्रकृतिकार्यत्वेन सादित्वात्, मुक्तौ मनस्सत्त्वे तदनुभूत- संसारस्मरणप्रसङ्गेन मनाग्दुःखसम्भवालिङ्गभङ्गस्यैव मोक्षत्वाच्च, उपासनयैव सगुणमुक्तिक्षेत्रलाभे तत्त्व - ज्ञानोपदेशस्य वैयर्थ्याच्च । उपासनां विना तदुपदेशमात्रेण तन्मुक्त्यलाभाच्च व्यर्थस्तव मते तत्त्वोपदेशः । किंच सर्वेऽप्यास्तिका लौकिकास्तार्किकाश्च वेदानुमानादिना स्वभिन्नमीश्वरं प्रतिपद्यमानाः तस्माद्भिभ्यन्त्येव - ‘भीषास्माद्वातः पवत’ इति श्रुतेर्वायुसूर्यादयोपीश्वराद्भिभ्यन्त्येव । एवं स्थिते अभयार्थ - मात्मानं शरणं गताय शिष्याय यदि गुरुस्तमेव जीवेश्वरभेदं भयजनकमुपदिशेत्तर्हि तेन शिष्यः किं फलं प्राप्नुयात् न किमपि प्रत्युत भयाधिक्यमेव ‘य उदरमन्तरं कुरुते अथ तस्य भयं भवतीति हि श्रूयते । तस्माद्यर्थमेव भेदवादिगुरूपसदनं शिष्यस्य ॥ १२ ॥ 1
देहिन इति । किं तहीति । एकस्याविक्रियस्यैवात्मन: द्वितीयतृतीयावस्थाप्राप्तिर्यथा दृष्टे- स्यन्वयः । तत्र शब्दार्थमाह - एवंसतीति । एवं देहा देहान्तरप्राप्तौ सत्यामित्यर्थः । कौमाराद्यौव- नावस्थाप्राप्तिरिवेत्येवंशब्दार्थः ॥ १३ ॥ ३२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥१४॥ यद्यप्यात्मविनाशनिमित्तः मोहो न सम्भवति नित्य आत्मेति जानतस्तथापि शीतोष्ण- सुखदुःखप्राप्तिनिमित्तो मोहो लौकिको दृश्यते सुखवियोगनिमित्तो दुःखसंयोगनिमित्तश्च शोक इत्येतदर्जुनस्य वचनमाशङ्कय भगवानाह — मात्रा इति । मात्रा आभिर्मीयन्ते शब्दादय इति श्रोत्रादीनीन्द्रियाणि मात्रा:- मात्राणां स्पर्शा मात्रास्पर्शाश्शब्दादिभिस्संयोगास्ते शीतोष्णसुख- दुःखदाः शीतमुष्णं सुखं दुःखं च प्रयच्छन्तीति । अथवा स्पृश्यन्त इति स्पर्शाः शब्दादयो विषया:- मालाच स्पर्शाच मात्रास्पर्शाः शीतोष्णसुखदुःखदाः शीतं च कदाचित्सुखदं भवति कदाचिदुःखदं च तथोष्णमप्यनियतरूपं सुखदुःखे पुनर्नियतरूपतां न व्यभिचरतः । अत- स्ताभ्यां पृथक् शीतोष्णयोर्ग्रहणम् । येद्येते सुखदुःखदाः तर्हि एषामनपायादनुपरत एव संसार- स्स्यादिति चेन्मैवम् – यस्मात्ते मात्रास्पर्शादयः आगमापायिन आगमापायशीलास्तस्मादनित्या अतस्तान् शीतोष्णादीं स्तितिक्षस्व प्रसहस्व । तेषु हर्ष विषादं च माकार्षीरित्यर्थः ॥ १४ ॥ मात्रेति । मीयन्त इति । गृह्यन्त इत्यर्थः । हुयामाश्रुभसेभ्यस्त्रन्निति माङस्त्रन् औणाधिक अदन्तात्स्त्रियां टापू । मात्राः श्रोत्रत्वगक्षिरसनप्राणाख्येन्द्रियपञ्चकविषयाश्शब्दस्पर्श रूपरसगन्धा इष्टानिष्ट- भेदेन द्विविधाः प्रत्येकं भवन्ति । तत्र आत्मनस्सुखदा इष्टा दुःखदास्त्वनिष्टाः । यथा - ग्रीष्मकाले शीतस्पर्श इष्टसुखद:- शिशिरकाले स एवानिष्टो दुःखद :- शिशिरकाले उष्णस्पर्श इष्टसुखद:- ग्रीष्मकाले स एवानिष्टो दुःखदः । एवं सुरभिगन्धस्संयोगकाले इष्टसुखद:– स एव विरहदशायामनिष्टो दुःखदः । मधुररसश्च ज्वरितस्यानिष्टो दुःखदः स एव स्वस्थस्येष्टसुखदः । एवं श्राव्यशब्दादयोऽपीष्टा - सुखदा अनिष्टा दुःखदा इति विवेकः । एवंस्थिते मात्रास्पर्शास्सुखदु:खदा भवन्तीत्येतावानेवेह विवक्षितांशः । शीतोष्णग्रहणं तु दृष्टान्तार्थं यथा शीतोष्णभेदभिन्नस्त्वक्स्पर्शसुखदुःखदो भवति तद्व- दिति, अन्यथा तु शीतोष्णप्रदत्वं श्रोत्रशब्दादीनामपि सम्बद्धयेत, तद्धयनिष्टं- तेषां तथात्वाभावात् । शीतोष्णे इव सुखदुःखदाइशीतोष्णसुखदुःखदा इति समासः । यद्वा मात्रास्पर्शास्सुखदुःखदा भवन्ति । स्पर्शवद्रव्यसम्बद्धं त्वगिन्द्रिर्थं तु शीतोष्णस्पर्शप्रदं च भवतीत्यर्थो बोध्यः । मात्रास्पर्शा इत्यस्य इन्द्रियसंयोग इति व्याख्याने शब्दादिभिरिति पदानयनक्लेश इत्यरुच्या पक्षान्तरमाह - अथ वेति । ननु शीतोष्णयोरेव सुखदुःखत्वात्पृथक् शीतोष्णग्रहणं व्यर्थमत आह—- शीतं चेति । विषये- न्द्रियसंयोगजन्यं शीतोष्णरूपद्वन्द्वं सुखदुःखरूपद्वन्द्वं चावर्जनीयत्वादागमापायित्वादनित्यत्वाच सोढव्यमिति श्लोकस्य फलितार्थः । अनेन तितिक्षुत्वरूपाधिकारिधर्म श्शिक्षितः । अत्राह रामानुजः - शब्दस्पर्शादयस्साश्रयास्तन्मात्रा कार्यत्वान्मात्रा इत्युच्यन्त इति, तत्तुच्छम्– शब्दादीनामेव तन्मात्रात्वात् । नच सूक्ष्मभूतानि तन्मात्रा इति वाच्यं तथापि साश्रयशब्दादीनामेव सूक्ष्मभूतानां तन्मात्रात्वात् । नच शब्दादयस्साश्रया नाम मृदङ्गकुसुमादय इति वाच्यं तेषां महाभूत- 1 द्वितीयोऽध्यायः । यं हि न व्यधयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||१५|| ३३ शीतोष्णादीन् प्रसहतस्तव किं स्यादिति शृणु-यमिति । यं पुरुषं समदुःखसुखं समे दुःखसुखे यस्य तं समदुःखसुखं सुखदुःखप्राप्तौ हर्षविषादरहितं धीरं धीमन्तं न व्यधयन्ति न चालयन्ति नित्यात्मदर्शनादेते यथोक्ताश्शीतोष्णादयः स नित्यात्मस्वरूपदर्शननिष्ठो द्वन्द्व- सहिष्णुस्मृतत्वायामृतभावाय - मोक्षायेत्यर्थः । कल्पते समर्थो भवति ॥ १५ ॥ नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः || १६ || इतश्च शोकमोहावकृत्वा शीतोष्णादिसहनं युक्तं कर्तु यस्मात् — नेति । असतः कार्यत्वेन तन्मात्राकार्यत्वात् । नच महाभूतान्येव शब्दादयस्साश्रया इति वाच्यं महाभूतानीत्येव वक्तव्यत्वेन शब्दादयरसाश्रया इति वक्रोक्तेर्व्यर्थत्वाद्दुष्टत्वाच्च । इन्द्रियाणामपि तन्मात्राकार्यत्वेन भूताना- मेव ग्रहणमित्यत्र नियामकाभावाच्च । अथ यदि शब्दादीनामाश्रयास्तद्माहकाणीन्द्रियाणीति यद्युच्यते तर्हि मीयन्त इति मात्रा इत्येव वक्तव्यमभिधया नतु लक्षणया लक्षणाश्रयणस्यागतिकस्थलविषयत्वादिति । तथा शीतोष्णसुखदुःखदा इत्यत्र शीतोष्णरूप सुखदु:खदा इत्याह- तच्चासत्— शीतोष्णकार्ययोस्सुख- दुःखयोः कथं शीतोष्णरूपत्वम् । यथासङ्ख्यं शीतोष्णयोस्सुखदुःखहेतुत्वं च नैव सम्भवति - शीतस्यापि हेमन्तकाले दुःखहेतुत्वादुष्णस्यापि सुखहेतुत्वात् ॥१४॥ यमिति । न व्यधयन्तीति व्यधभयचलन योरिति धातुः । चलनस्यापादानमाह - नित्यात्म- दर्शनादिति । एतेन शीतोष्णादिद्वन्द्वसहन मात्रान्नामृतत्वं, किंतु नित्यात्मदर्शन श्रशाभावादेव - अन्यथा शीतोष्णादिसहनशालिनो मूर्खाश्शूद्रादयोऽपि प्राप्नुयुरमृतत्वमिति सिद्धम् । स्थिरधीरेव नित्यात्म- दर्शननिष्ठो भवति । द्वन्द्वासहनेन तु सुखदुःखाभ्यां बुद्धौ चरितायां सत्यामात्मदर्शननिष्ठा दुर्लभा पुरुषस्येति भवति । हेपुरुषर्षभेति सम्बोधनेन च पुरुषश्रेष्ठस्य तव पुरुषाधमस्येव नित्यात्मदर्शननिष्ठातो भ्रंशः, द्वन्द्वसहनाभावश्वानुचित इति द्योत्यते ।
अत्राह रामानुजः — धैर्ययुक्तमवर्जनीयदुःखं सुखवन्मन्यमानं स्ववर्णोचितं युद्धादिकर्माफलाभि- सन्धि कुर्वाणं यं पुरुषं तदन्तर्गत शस्त्रपातादिस्पर्शाः परितापेन न चालयन्ति स एवामृतत्वं साधयति न त्वादृशो दुःखासहिष्णुरिति, तत्तुच्छम् — तादृशो हि पुरुषः युद्धे मृतश्वद्वीरस्वर्गं साधयति, जयी - परराज्यमथ वा चित्तशुद्धिमेव न त्वमृतत्वं- मोक्षस्य ज्ञानैकसाध्यत्वात् । साङ्ख्यप्रकरणे चात्र कर्म- कीर्तनमनुचितं पुरुषर्षभशब्दे काववाश्रयणं चायुक्तं भगवतः परमार्थोपदेष्टुरत्र काकुसम्बोधनप्रयोगा- नौचित्यात्, अर्जुनस्य परमार्थतः पुरुषाधमत्वे तं प्रति शास्त्रोपदेशस्यैवायुक्तत्वादिति ॥ १५॥ नासत इति । असभुवि भूसत्तायामित्येकार्थकं धातुद्वयं तत्र अस्तेरशतरि सन्निति, भवतेर्वत्रि भाव इति च रूपद्वयम् । सन्न भवतीत्यसन्- क्लीबत्वे तु असत् । सतो भावस्तत्ता- न भावः अभावः -३४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अविद्यमानस्य शीतोष्णादेस्सकारणस्य न विद्यते नास्ति भावो भवनमस्तिता - नहि शीतो- ष्णादिसकारणं प्रमाणैर्निरूप्यमाणं वस्तु सम्भवति विकारो हि सः विकारथ व्यभिचरति । यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेणानुपलब्धेरसत्तथा सर्वो विकार: तथा च भावस्सत्ता, अभावस्त्वसत्तेति विवेकः । एवंसति सति सत्ता वर्तते तद्भावस्य तन्निष्ठत्वात् सत्तावत एव सत्त्वाच्च । असति तु सत्ता न वर्तते, किंतु असत्तैव वर्तते सत्तारहितस्यैवासत्त्वात् इति सर्वस्यापि सुग्रहमेव । ततश्च- असतो नास्ति सत्तेति, सतो नास्त्यसतेति च व्यर्थोऽय कृष्णस्योपदेशः । नहि कोऽपि सतः पदार्थस्यासत्ताशालित्व मसतस्सत्ताशालित्वं च मनुते येनायमुपदेशस्सफलस्स्यात् । नहि कश्चिदप्यसन्तं शशशृङ्गं सन्तं मन्यते - सन्तं वा गोशृङ्गमसन्तमिति प्राप्ते आह भगवान्भाष्यकार :- असत: अविद्यमानस्य शीतोष्णादेरित्यादि । यस्य काललयेप्यभावो नास्ति तदेव सत् - यस्य तु प्रतीतिसमय एव भावः, नतु कालत्रये तदसत् सति वस्तुनि कदाचिदप्यसत्तायाः स्थित्यनौचित्यात् । अन्यथा प्रतीतिसमयवर्ती रज्जुसर्पोऽपि सन् स्यादेव | लोकस्तु नैवं जानाति, किंतु प्रतीतं वस्तु सत्त्वेन अप्रतीतं वस्त्वसत्त्वेन च जानाति अतोऽयमुपदेशः सफल एवेति भावः । भाष्यार्थ ब्रूमः - असतः अविद्यमानस्य शीतोष्णादेस्सकारणस्य भावो भवनमस्तिता न विद्यते नास्तीत्यन्वयः । ननु कारणस्य सत्त्वे कथं कार्यस्य शीतोष्णादेरसत्त्वमत आह—सकारणस्येति । सकारणस्य जलाग्न्यादिकारणसहितस्य साज्ञानस्येति वा अज्ञानत्रभवत्वाच्छीतोष्णादिसर्वप्रपञ्चस्य । आदिशब्दात्सुख- दुःखादिग्रहणम् । ननु यदि शीतोष्णादिकमविद्यमानं स्यात्तर्हि तस्य भावो न स्यादेव - प्रत्युन शीतो- ष्णादिकं विद्यत एव प्रतीयमानत्वात् न ह्यविद्यमानं शशशृङ्गादिकं प्रतीयेत- अत आह—-नहीति । सकारण शीतोष्णादि जगत् प्रमाणैर्निरूप्यमाणं वस्तु सत्यं न सम्भवति हीत्यन्वयः । श्रुतिभिस्तदनु- गृहीततश्च विचार्यमाणेसति शीतोष्णा देवस्तुत्वं न सिध्यतीत्यर्थः । 3 " या प्रमाणैस्त्वगादीन्द्रियैर्निरूप्यमाणं गृह्यमाणं सकारण शीतोष्णादि वस्तु न सम्भवति ही- त्यन्वयः । तत्र हेतुमाह — विकारो हि स इति सः शीतोष्णादिपदार्थः विक्रियत इति विकार:- भवति हि : प्रसिद्धौ । भवतु विकारः किं तेनेत्यत आह— विकारश्चेति । विकारः कार्यं व्यभि- चरति च - हार्थोल चः । । व्यभिचारो नाम कार्यस्य कारणव्यतिरेकेणासत्त्वम् । तदेवोपपादयति — यथेत्यादिना । घटादिसंस्थानं घटाद्याकारसन्निवेशः । यद्वा व्यभिचारो नाम कार्यस्य कालत्रयेप्यसत्त्वम् । ननुः कार्यस्य स्वोत्पत्तेः प्राक् स्वध्वंसात्पश्चाच्च भवत्यसत्त्वमिति कृत्वा कालद्वये कार्यमसद्भवतु नाम वर्तमानकाले कार्यस्य सत्त्वात्कथं कालत्रयेऽपि कार्यस्यासत्वमत आह— यथेत्यादि । कारणव्यतिरेकेण कार्यस्यानुपलभ्यमानत्वाद्वर्तमानकालेऽपि न कार्यस्य सत्त्व- मिति कृत्वा कालत्रयेऽपि कार्यमसदेवेति युक्तं विकारस्य व्यभिचारित्वमित्यर्थः । जन्मप्रध्वंसाभ्यां प्रागू च कार्यस्यानुपलब्धेश्वासत्त्वमित्यन्वयः । द्वितीयोऽध्यायः । र ३५ कारणव्यतिरेकेणानुपलब्धेरसन्- जन्मप्रध्वंसाभ्यां प्रागूर्ध्वं चानुपलब्धेः । कार्यस्य मृदादि- कारणस्य च तत्कारणव्यतिरेकेणानुपलब्धेरसत्त्वम् । तदसच्चे सर्वाभावप्रसङ्ग इति चेन्न - सर्वत्र बुद्धियोपलब्धेः सद्बुद्धिरसबुद्धिश्चेति । यद्विषया बुद्धिर्न व्यभिचरति तत्सत्, यद्विषया व्यभिचरति तदसदिति सदसद्विभागे बुद्धितन्त्रे स्थिते सर्वत्र द्वे बुद्धी सर्वैरुपलभ्येते- सामानाधिकरण्येन नीलोत्पलवत् सन् घटः सन् पटः सन् हस्तीत्येवं सर्वत्र - तयोर्बुद्धयोर्घटादिबुद्धिर्व्यभिदरति । तथाच दर्शितं नतु सद्बुद्धिस्तस्मात् ननु घटादिकार्यस्यासत्त्वमस्तुनाम- नतु तत्कारणस्य मृदादेरिति शङ्कायामाह – मृदादीति । घटादिकारण मृदादिकमपि स्वकारणभूतजलादिव्यतिरेकेण वर्तमानकाले नास्ति जन्मनः प्राक्प्रध्वंसा- पचाच्च सुतरां नास्तीत्यसदेव तत् इति । नन्वेवं पृथिव्याद्याकाशान्तानां भूतानामपि जन्यत्वेन व्यभिचारित्वे सति सद्रूपवस्त्वन्तरस्यै- वाभावाच्छून्यवादप्रसङ्ग इत्याक्षिपति स्वयमेव— तदसत्त्व इति । सकार्यस्य मृदादिकारणस्यासत्त्वे इत्यर्थः । परिहरति—नेति । सर्वत्र सद्बुद्धिरसदबुद्धिश्चेति बुद्धिद्वयोपलब्धेर्न सर्वाभावप्रसङ्ग इत्यन्वयः । सर्वत्रेति घटपटादिसर्वव्यवहारेष्वित्यर्थः । सद्विषया बुद्धिस्सद्बुद्धिरसद्विषया बुद्धिरसद्बुद्धिः - बुद्धिर्वृत्ति- ज्ञानं - विषयस्याभावे विषयिण एवाभावात् विषयिभूतया सर्वत्र प्रसिद्धया सबुद्धया विषयस्य सतः पदार्थस्यानुमीयमानत्वात्सद्वस्तुला मेन न शून्यवादप्रसङ्ग इत्यर्थः । ननु किं तत्सत् यद्विषया बुद्धिस्सद्बुद्धिः किं वा तदसत् यद्विषया बुद्धिरसद्बुद्धिरित्यत आह—- यद्विषयेति । न व्यभिचरति न नश्यतीत्यर्थः । विपर्यय न प्राप्नोतीति यावत् । यथा घटबुद्धिर्घटे भिन्नेसति कपालंबुद्धिर्भवति तद्वदित्यर्थः । बुद्धितन्त्रे बुद्ध्यधीने- बुद्धेरव्यभिचारत्वसव्यभिचारत्वाभ्यां सदसद्विभागस्य जातत्वादिति भावः । स्थिते इत्यनन्तरं सतीति पूरणीयम् । नीलोत्पलवत्सामानाधिकरण्येन सन् घटस्सन्पटरसन्हतीत्येवं सर्वत्र द्वे बुद्धी सर्वैरुप- लभ्येते इत्यन्वयः । सामानाधिकरण्येन समानाश्रयवृत्तित्वेन - अभेदसम्बन्धेनेति यावत् । यथा नीलत्वो- स्वत्वयोः सामानाधिकरण्यान्नीला भिन्नमुत्पलमिति शाब्दबोधः, एवं सन् घट इत्यादौ सत्त्वघटत्वयोः सामानाधिकरण्यत्सदभिन्नो घट इति बोधः । एवं नीलोत्पलयोरिव सद्धटयोस्सामानाधिकरण्ये सति तबुद्धयोरपि सामानाधिकरण्यं सम्भवति - एकस्मिन्नेव नीलोत्पलपदार्थे नीलबुद्धेरुत्पलबुद्धेश्च जातत्वात् । एकस्मिन्नेव विद्यमानघटे सद्बुद्धेर्घबुद्धेश्च जातत्वात् । ननु भवतु बुद्धिद्वयं किं तेनेत्यत आह- तयोरिति । सद्बुद्धिघबुद्धघोरित्यर्थः । घटादीति आदिपदात्पटहस्तिग्रहणम् । सद्बुद्धिघटबुद्धयोर्घट्बुद्धिर्व्यभिचरति सद्बुद्धिपटबुद्धयोः पटबुद्धिर्व्यभिचरति सद्बुद्धिहस्तिबुद्धयोस्तु हस्तिबुद्धिर्व्यभिचरतीत्यर्थः । कथं व्यभिचरतीत्याह– तथा च दर्शितमिति । यथा -व्यभिचरति तथा दर्शितमेवेत्यर्थः । घटादिविकारजातस्य व्यभिचारप्रदर्शनद्वारेति भावः । स्वविषये घटादि- विकारे व्यभिचरतिसति स्वयं बुद्धिरपि व्यभिचरतीति तत्त्वम् । घटस्य कालत्रये सत्त्वे तद्विषयबुद्धेरपि काल- श्रयेप्यसत्त्वादस्ति व्यभिचार इत्याशयः । यद्वा घटः स्वोत्पत्तेः प्राक् मृदूपत्वान्मृबुद्धिविषयः, ध्वंसानन्तरं 2 ३६ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु घटादिबुद्धिविषयोऽसत् - व्यभिचारात् नतु सद्बुद्धिविषयः असत् अव्यभिचारात् । ननु घटे नष्टे घटबुद्धौ व्यभिचरन्त्यां सद्बुद्धिरपि व्यभिचरतीति चेन्न – पटादावपि सद्बुद्धिदर्शनात्- विशेषण विषयैव सा सद्बुद्धिः, सद्बुद्धिवत् घटबुद्धिरपि घटान्तरे दृश्यत चूर्णबुद्धिविषयः स्वकाले घटयद्धिविषयः अतः कालत्रयेऽप्यनियतरूपत्वेन अनियतबुद्धिविषयत्यायमिचा- रित्वं घटस्य - तद्बुद्धश्वानियतविषयत्वेना नियतरूपत्वाद्व्यभिचारित्वमिति । यत्सदाऽप्येकरूपं तदव्यभिचारि, यत्त्वनियतरूपं तद्व्यभिचारीति सिद्धान्तात् । नत्विति । सद्बुद्धिस्तु न व्यभिचरतीत्यर्थः । फलितमाह- तस्मादिति । सद्बुद्धे व्यभिचारित्वाद्धादिबुद्धेश्च व्यभिचारित्वादित्यर्थः । घटादिबुद्धिविषय इति । घटादिवस्त्वित्यर्थः । असत् भवतीति शेषः । हेतुमाह — व्यभिचारादिति । व्यभिचारश्च दर्शितः विकारश्च व्यभिचरतीत्यादिनेति बोद्धयम् । नत्विति । सद्बुद्धेर्विषयः गोचरः वस्तु तु नासत् - अव्यभिचारात्कालत्रयेप्येकरूपेण वर्तमानत्वादित्यर्थः । किंतु सदेवेत्यर्थः । एतेन - असद्बुद्धिविषयस्य घटादिकार्यजातस्य मृदादिकारणजातस्य चासत्त्वेपि सद्बुद्धिविषयस्य परमकारणस्य ब्रह्मणस्सत्त्वान्न शून्य- वादप्रसङ्ग इति सिद्धम् । अवेदमवधेयम् — कारणधर्मः कार्येन्वेति यथा मृद्धर्मः काठिन्यनैल्यादिकं घटे - एवमात्मन आकाशस्सम्भूत इति सर्वजगत्कारणस्यात्मनस्सच्चिदानन्दरूपस्य धर्मास्सत्ताचैतन्यानन्दाः कार्ये जगत्यनुगताः । अत एव - घटोऽस्ति घटो भाति घटः प्रिय इत्यादिर्व्यवहारः । एतद्व्यवहारबला - टादिकार्यजाते श्रयमाणास्सताभानानन्दाः खल्वात्मधर्माः कार्यत्वादात्माभिन्ने कार्यजाते वर्तमाना इव प्रतिभान्ति । नतु वस्तुतस्तत्र सन्ति मृद्धर्माः काठिन्यादयोऽपि हि घटाकारपरिणतमृद्येव वर्तन्ते नतु कम्बुग्रीवत्वाद्याकारे- तद्वद्धटादौ प्रतीयमानास्तता चैतन्यानन्दाः घटाद्यवच्छिन्न चैतन्यात्मनिष्ठा एव । ततश्च घटस्सन्निति घटे श्रूयमाणा सत्ता आत्मसत्तैव नतु घटसत्ता । तस्याश्च सत्ताया घटस्य पृथक्करणे असन्नव घटोsवशिष्यते । एवं सर्वमपि जगत्कारण चैतन्यसत्तयैव सदित्युच्यते - अन्यथा तु जगदसदेवेति । किंच मृद्घट इतिवत्सन् घट इत्यपि प्रयोगः कार्यकारणाभेदनिबन्धन एवेति कुत्वा तत्र सच्छब्दः घट- भिन्नमात्मानमेव बोधयति - यथा मृद्घट इत्यत्र मृच्छब्दो घटभिन्नां मृदम् । अतत्त्वदर्शिनस्त्वत्र भ्रान्ता घटमेव सन्तं मन्यन्त इति ।
अथ असद्बुद्धेरिव सद्बुद्धेरपि व्यभिचारमाशङ्कते - नन्वित्यादिना । घटे विद्यमाने सन् घट इति बुद्धिद्वयमासीत् - घटे नष्टे तु घटबुद्धिरिव सद्बुद्धिरपि नष्टैव । नहि घटनाशानन्तरं सन्निति बुद्धिर्भवेदित्यर्थः । परिहरति–नेति । पटादावपि सद्बुद्धिदर्शनान्न सद्बुद्धिर्व्यभिचरतीत्यन्वयः । यदि घटनाशादेव घटबुद्धिनाशव तत्समानाधिकरणसद् बुद्धिनाशस्स्यात्तर्हि पटस्सन्निति पटबुद्धिसामानाधि- करण्येन सद्बुद्धिर्न स्यादिति भावः । पटादावित्यस्य पटादिबुद्धिसामानाधिकरण्येनेत्यर्थो वाच्यः । यथाश्रुतार्थे तु सद्बुद्धिविषयत्वं पटादेरापतति तद्ध्यनिष्टम् । सद्बुद्धेर्घटनाशादनाशे हेत्वन्तरमाह - विशेषणविषयैव सा सद्बुद्धिरिति । विशेषणं विषयो यस्यास्सा विशेषणविषया सन् घट इत्यादौ हि सन्निति विशेषणं - घटादयस्तु विशेष्याणीति कृत्वा सद्बुद्धेर्विशेषणविषयत्वं- नीलोत्पलं नीलाम्बरं द्वितीयस्सर्गः । ३७ इति, चेन्न, पटादावदर्शनात् । ननु सद्बुद्धिरपि नष्टे घटे न दृश्यत इति, चेन्न- विशेष्या- भावे विशेषणानुपपत्तौ किं विषया स्यात् नतु पुनस्सबुद्धेर्विषयाभावात् एकाधिकरणत्वं घटादिविशेष्याभावे न युक्तमिति, चेन्न- इदमुदकमिति मरीच्यादौ अन्यतराभावेऽपि सामा- नीलाग इत्यादौ विशेष्यभूतोत्पलादिबुद्धेर्व्यभिचारेऽपि यथा विशेषणभूतनीलबुद्धे व्यभिचारस्तद्वदिति भावः । ननु सन् घट इति सद्बुद्धिर्घटनाशानन्तरं सन्पट इत्यत्र यथा दृश्यते, तथा घटबुद्धिरपि घटान्तरे दृश्यत इति कथं घटबुद्धेर्व्यभिचार इति शङ्कते - सद्बुद्धिवदिति । परिहरति — नेति । पटादौ घट- बुद्धेरदर्शनान्न घटबुद्धेरव्यभिचार इत्यर्थः । पटादिबुद्धिसामानाधिकरण्येन घटबुद्धिर्न दृश्यते सद्बुद्धिस्तु दृश्यत इति न सद्बुद्धिसाम्यं घटबुद्धेरिति भावः । ननु सन्नष्टघट इति सद्बुद्धि नष्टघटबुद्धिसामानाधिकरण्याभावान्नष्टघटादिसमानाधिकरणसबु- द्धयभावेन सद्बुद्धेरपि व्यभिचार इति शङ्कते - नन्विति । परिहरति-नेति । हेतुमाह - विशेष्येति । विशेष्यस्याभावे विशेषणस्यानुपपत्तौ सत्यां सद्बुद्धिः किं विषया स्यात्- विशेष्यस्य घटस्याभावात् – नाशात्- विशेषणस्य सतः अनुपपत्तौ नष्टघटे सत्त्वस्यासम्भवादित्यर्थः । विशेषणविषयायास्सबुद्धे- विशेषणानुपपत्तौ सत्यां निर्विषयत्वं जातमिति यावत् । सद्बुद्धेर्विशेषणमात्रविषयत्वाद्विशेषणानुपपत्त्या निर्विषयत्वमिति फलितार्थः । सतो नष्टघटविशेषणत्वानुपपत्त्यैव नष्टघटबुद्धिसमानाधिकरणसद्बुद्ध्यभाव इति निष्कर्ष: । एवकारार्थमाह–नत्विति । सद्बुद्धेर्विषयस्तु सद्वस्तु ब्रह्मैव । कथं तस्याभाव- इशक्यते कल्पयितुं- न कथमपीत्यर्थः । नच सद्वस्तुनः स्वतन्त्रस्य कथं घटादिविशेषणत्वमिति वाच्यं, अज्ञानकृताल्लोकव्यवहारादेव, नतु वस्तुत इति । ननु नासतो विद्यते भाव इत्यसतो घटादेर्भावाभावादसता घटादिना सतो ब्रह्मणस्सामानाधि - करण्यं नोपपद्यते - सन्घटस्सन् पट इत्यादी त्या क्षिपति – एकाधिकरणत्वमिति । घटादेर्विशेष्यस्याभावे विशेषणविशेष्ययोस्सद्धटयोस्सामानाधिकरण्यं न युक्तमित्यर्थः । मरीच्यादावित्यादिपदाच्छुक्तिरज्ज्वादि- ग्रहणम् । अन्यतराभावेऽपीति । अन्यतरस्योदकरजतसर्पादेरभावेऽपीत्यर्थः । मरीच्यादावन्यतरा - भावेऽपीदमुदकमिति सामानाधिकरण्यदर्शनादित्यन्वयः । अयमाशयः - मरीचिकोदकं शुक्ती रजत रज्जुसर्प इत्येवं प्रतीतिः क्वापि नास्ति - अधिष्ठानविशेषज्ञानेनारोप्यविशेषज्ञानस्य बाधात् । किंतु इदमुदकमिदं रजतमयं सर्प इति प्रतीतिरस्ति - अधिष्ठानसामान्यज्ञानस्यारोप्यविशेषज्ञानबाधकत्वाभावात् । तत्र च यदधिष्ठानमिदमंशस्तदेवास्ति, यत्त्वारोप्यमुदकादि तन्नास्त्येव । सर्पादिप्रतीतेः प्राक् - सर्पादि- बाधानन्तरं च रज्ज्वादेरेव सत्त्वात् - सर्पादिप्रतीतिकालेपि वस्तुतो रज्ज्वादेरेव सत्त्वात्कालत्रयेऽपि सर्पादे - रसत्त्वाद्व्यभिचार:- रज्ज्वादेः सत्त्वादव्यभिचारः एवं व्यभिचारिणापि सर्पादिना अव्यभिचारिण इदमंश- स्याधिष्ठानसामान्यस्य सामानाधिकरण्यमस्त्येवायं सर्प इत्यादिप्रतीतेः । तद्वत् ब्रह्म घटः ब्रह्म पटः ब्रह्म हस्तीत्येवं कापि प्रतीतिर्नास्ति, किंतु सन् घटस्सन्पटस्सन्हस्तीत्येवमेव प्रतीतिस्सर्वत्र । तत्र यद्विशेषणं सदशगत देवास्ति यत्तु विशेष्यं घटाद्यैशस्तन्नास्त्येव । विशेषणभूते सत्यधिष्ठाने विशेष्यस्य घटादेः ३८ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेता सु नाधिकरण्यदर्शनात् । तस्मादेहादेर्द्वन्द्वस्य च सकारणस्यासतो न विद्यते भाव इति । तथा सत आत्मनः अभावः अविद्यमानता न विद्यते सर्वत्राव्यभिचारादित्यवोचाम । एवमात्मानात्मानो स्सदसतोरुभयोरपि दृष्ट उपलब्धोऽन्तो निर्णय:- सत् सदेव, असदसदेवेति तु अनयोर्यथोक्तयोस्तत्त्वदर्शिभिः तदिति सर्वनाम सर्वे च ब्रह्म तस्य नाम तदिति तङ्गात्र- स्वयं ब्रह्मणो याथात्म्यं द्रष्टुं शीलं येषां ते तच्चदर्शिनस्तैस्तत्त्वदर्शिभिः त्वमपि तवदर्शिनां कल्पितत्वादयं च सद्रूपो विशेषणांशो न घटादिविशेष्यांशबाधक इत्यस्त्युभयोस्सामानाधिकरणमिति । लोकस्य प्रथमपादार्थमुपसंहरति- तस्मादिति । शीतोष्णादेः सकारणस्य विकारस्य असद्बुद्धिविष- यत्वेन व्यभिचारादित्यर्थः । असतस्सकारणस्य देहादेर्द्वन्द्रस्य च भावो न विद्यत इत्यन्वयः । देहादे- रित्यत्र । दिपदादिन्द्रियमन आदिग्रहणम् । द्वन्द्वस्य शीतोष्णसुखदुःखादिरूपस्येत्यर्थः । यथा घटादि- रुत्पत्तेः प्राग्ध्वंसात्पश्चाच्चासन् मध्येपि कारणभूतमृदा दिव्यतिरेकेणासन्, तथा देहादिरपि जन्मनः प्राङ्मरणादूर्ध्वं चासन्- मध्येऽपि कारणभूतपृथिव्यादिभूतव्यतिरेकेणासन्निति देहादेर्व्यभिचारो बोध्यः । श्लोकस्य द्वितीयपादस्यार्थमाह — तथेत्यादिना । तथाशब्दः पूर्ववाक्यार्थसमाप्तिद्योतकः । यथा असतो भावो नास्ति तथेति दृष्टान्तार्थो वा । सत्पदार्थमाह– आत्मन इति । सच्चिदानन्दरूपत्वादात्मन इति भावः । सर्वत्राव्यभिचारादिति । सर्वेषु कालेषु सर्वेषु देशेषु सर्वेषु वस्तुषु च सत्त्वादित्यर्थः । ‘अवोचामेति । पूर्वमेवोक्तमस्माभिरित्यर्थः । यद्विषया बुद्धिर्न व्यभिचरति तत्सदिति वाक्येनेति भावः । 1 श्लोकस्य तृतीयचतुर्थपादयोरर्थमाह - एकमित्यादिना । एवमनयोरुभयोरसद सतोरात्मा- नात्मनोरप्यन्तो निर्णयः तत्त्वदर्शिभिर्दृष्ट उपलब्धः ज्ञात इति यावत् - इत्यन्वयः । निर्णयस्याकारमाह– सत्सदेव असदसदेवेति - सदसतोस् सामानाधिकरण्यमज्ञानविलसितमिति भावः । अनयोरशब्दार्थ- माह-यथोक्तयोरिति । अभावराहित्येन भावराहित्येन च श्लोकद्वितीयप्रथमपादाभ्यां प्रतिपादितयो- रित्यर्थः । तत्त्वदर्शिशब्दार्थमाह - तदित्यादिना । तच्छब्देन परामर्शयोग्यस्य प्रकृतस्य कस्यचित्प्रति- नियतस्य वस्तुनोऽभावात्तदिति सर्वनामेत्युक्तम् । सर्वनामशब्दार्थमाह — सर्व चेत्यादिना । सर्वस्य नाम सर्वनामेति षष्ठीसमासः । ’ सर्व खल्विदं ब्रह्मेति श्रुतेः । सर्वस्य ब्रह्मकार्यत्वेन कारणभूतब्रह्मा- भिन्नत्वात्सर्वं ब्रह्मैव । यद्वा सर्वस्य ब्रह्मणि कल्पितत्वेन कल्पितस्याधिष्ठानानतिरिक्तत्वात्सर्वं ब्रह्मैव ! ननु यदि तच्छब्दस्य सर्वनामत्वेन ब्रह्मनामत्वं स्यात्तर्हि उभ उभय- कतर- कतमादीनामपि सर्वनामत्वेन ब्रह्मनामत्वं स्यात् न चेष्टापत्तिः- उभादीनां कापि ब्रह्मणि प्रयोगाभावात् इति चेत्, उच्यते शृणु — सर्वादीनि सर्वनामानीति व्याकरणपरिभाषितसर्वनामत्वेन तच्छब्दस्य ब्रह्मवाचित्वमिह नोच्यते, किं त्वविशेषेण सर्ववस्त्वभिधायित्वप्रयुक्त सर्वनामत्वेनेति । ननु ब्रह्मणो निर्धर्मकत्वात्तद्वाचिनस्तच्छब्दात्कथं भावप्रत्ययोपपत्तिरत आह— याथात्म्यमिति । ‘ब्रह्मणो याथात्म्यमिह भावार्थकत्व प्रत्ययेनाभिधीयते नतु ब्रह्मातिरिक्तो धर्म इत्यर्थः । याथात्म्यं च याथार्थ्य - तच ब्रह्मणस्सच्चिदानन्दरूपत्वम् । नच निधर्म के ब्रह्मणि सच्चिदानन्दरूपत्वरूपधमः कथं वर्ते- द्वितीयोऽध्यायः । दृष्टिमाश्रित्य शोकं मोहं च त्यक्त्वा शीतोष्णादींस्तितिक्षस्वेत्यभिप्राय: ॥ १६ ॥ ३९. तेति वाच्यं, आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति तद्धर्मा:- अपृथक्त्वेपि चैतन्यात्पृथगिवावभासन्त इतिवचनात्सत्ता चित्तिरानन्दश्चेति धर्मत्रयं ब्रह्मणो पृथग्भूतमेव पृथगिवावभासते माययेति कृत्वा न दोष इति । ननु सच्चिदानन्दरूपं ब्रह्म- तत्र सत्ता चित्यानन्दा ब्रह्मणो पृथग्भूता भवन्तु नाम- सच्चिदानन्दरूपे सच्चिदानन्दरूपत्वस्य सत्त्वात्कथं निर्धर्मकत्वमिति मया पृछ्यत इतिचेत्, मैत्रम् - यथा सत्तादयोऽ- पृथग्भूतास्तथा सच्चिदानन्दरूपत्वमप्यपृथग्भूतमेव ब्रह्मण:- सत्ताचित्त्यानन्देभ्यो न हि भिन्नं यत्किमपि सच्चिदानन्दरूपत्वं - इति । अस्मिंश्च श्लोके ब्रह्मणस्सद्रूपत्वमेव प्रपञ्चितं नतु चिद्रूपत्वं नाप्यानन्दरूपत्वं तद्द्वयमुत्तरत्र प्रपञ्चयिष्यत इति बोद्धयम् । दृष्टिमिति - मतमित्यर्थः । ज्ञानमिति यावत् । ब्रह्मातिरिक्तं सर्व जगदसत् प्रत्यगभिन्नं ब्रह्मैकमेव सदित्येवं रूपां दृष्टिमिति भावः । अत्र श्रीशाङ्करभाष्ये सासानाधिकरण्येनेति स्थले समानाधिकरणे नेतिपाठमाश्रित्य - सन्घटस्सन्पट- स्स हस्तीत्येवं सर्वत्र समानाधिकरणे द्वे बुद्धी सर्वैरुपलभ्येते न नीलोत्पलवदित्यन्वयं प्रकल्प्य पदयो- स्सामानाधिकरण्यं बुद्धयोरुपचर्यते सोऽयमिति सामानाधिकरण्यवत् । घटस्सन्नित्यादिसामानाधिकरण्य- मेकवस्तुनिष्ठम् । वस्तुभेदे घटपटयोरिव तदयोगादित्यर्थः । नीलमुत्पलमितिवद्धर्मधर्मिभावस्य सुवचत्वान्न वस्त्वैक्यविषयत्वमिति चेन्नेत्याह-न नीलोत्पलवदिति । नहि सामान्यविशेषयोर्भेदेऽभेदे च तद्भावो भेदाभेदौ च विरुद्धावतो जातिव्यक्त्योस्सामानाधिकरण्यं नीलोत्पल इव न गौणं, किंतु- व्यावृत्तमनुवृत्ते कल्पितमित्येकनिष्ठमित्यर्थः । सामान्यविशेषयोरुक्तन्यायं गुणगुण्यादावतिदिशति - एवमिति । इति व्याख्यातमानन्दगिरिणा । अत्र विचार्यते - समानमधिकरणं ययोस्तयोर्भावस्सामानाधिकरण्यमिति वस्तु- द्वयनिष्ठमेव सर्वत्रापि सामानाधिकरण्यम् । तद्धि पदद्वयस्य विशेषणविशेष्यभावेनाभेदान्वये प्रयोजक– यथा - नीलमुत्पलमित्यत्र नीला भिन्नमुत्पलमिति शाब्दबोधान्नीलत्वोत्पलत्वयोरेकाधिकरणवृत्तित्वेन तत्सामा- नाधिकरण्यस्य नीलोत्पलपदार्थद्वयनिष्ठत्वम् । पदयोस्सामानाधिकरण्यं च पदार्थयोस्सामानाधिकरण्याधीनं, तच्च पदार्थयोरसुतरां भेदे अभेदे वा न सम्भवति । अत एव घटः पट इति घटो घट इति च प्रयोगा भावः । नचैवं गुणगुणिनोनीलोत्पलयोस्सुतरां भेदात्कथं नीलोत्पलप्रयोग इति वाच्यं तत्र नीलपदस्य नीलगुणवद्द्रव्ये शक्तत्वात् । ‘अथ त्रिषु द्रव्ये’ इत्यमरशासनात्, लक्षणाया वा तद्बोधात् । ततश्व नीलगुणवद्रव्याभिन्नमुत्पलमिति शाब्दबोधसिद्धिः । एवंसति पदार्थयोस्सामानाधिकरण्यं सर्वत्रापि सामान्यविशेष्यभावाधीनमेव । तथाहि - नीलमुत्पलमित्यत्र नीलपदं नीलगुणवद्रव्यसामान्यवाचि - उत्पल- पदं तु द्रव्यविशेषवाचीत्युभयोस्सामानाधिकरण्यम् । गौर्मुण्ड इत्यत्र गोपदं गोत्वसामान्यवयक्तिमात्रवाचि - मुण्डपदं व्यक्तिविशेषवाचि - मृद्घट इत्यत्र मृत्पदं मृत्सामान्यवाचि घटपदं कम्बुग्रीवाद्याकारवन्मृद्विशेष- वाचि - अयं सर्प इत्यत्र इदंशब्दः पुरस्थितवस्तुसामान्यवाची - सर्पशब्दस्तद्विशेषवाची - सन्घट इत्यत्र सच्छब्दस्सत्तावेद्वस्तुमात्रवाची - घटशब्दस्तद्विशेषवाची । यद्वा, मृद्घट इत्यादिषु कार्यकारणभावाधीनं
४० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु सामानाधिकरण्यमन्यत्र तु सामान्यविशेषभावाधीनमित्यस्तु- धर्मधर्मिभावगुणगुणिभावाद्यधीनं तु नास्ति सामानाधिकरण्यं धर्मधर्मिणोर्गुणगुणिनोश्च सुतरां भेदात् । नचैवं कार्यकारणयोस्सामान्यविशेषयोर्वा सुतरां भेद एवेति वाच्यं, मृदादेस्सकाशाद्धटादीनां सुतरां भेदादर्शनात् । नापि सुतरामभेद:- कार्य कारणमित्यादिभेदव्यवहारलोपप्रसङ्गात् । तस्माद्भेदेनाभेदेन वा दुर्निरूपयोरेव पदार्थयोरसामानाधि- करण्यम् । इदं च सन्घट इत्यत्रेव नीलमुत्पलमित्यत्रापि तुल्यमेवेति कथमुच्यते न नीनोत्पलवदिति । नच सोऽयमिति सामानाधिकरण्यवत्सन्घट इति सामानाधिकरण्यं सामान्यविशेषभावाद्यनाक्रान्तमेवेति वाच्यं, सोयमित्यत्र तदिदमर्थयोस्सामानाधिकरण्यासम्भवेनैव भागत्यागलक्षणा स्वीकारात् । नहि सोऽयं देवतत्त इत्यत्र तदभिन्नोऽयं देवदत्त इति वाक्यार्थः, किंतु देवदत्त इत्येव । सन्घट इत्यत्र नैवं सम्मान - मित्यर्थः, किंतु सदभिन्नो घट इत्येव सत्त्वघटत्वयोस्तदिदमर्थयोरिवाविरोधात् । विरोधे सति हि लक्ष- णाश्रयण - ब्रह्म घट इत्युक्तौ हि विरोधस्फूर्तिः । तस्मान्नीलमुत्पलमितिवत्सन्घट इत्यत्रापि सामानाधि- करण्यं, नतु सोऽयमितिवत् - सोऽयमित्यत्र सामानाधिकरण्यस्यैव बाधितत्वात् । ’ ननु सति अनुवृत्ते घटस्य व्यावृत्तस्य कल्पितत्वेन सन्घट इत्यत्र अनुवृत्तव्यावृत्तभावाश्रयं सामा- नाधिकरण्यं, नीलोत्पलमित्यत्र तु नैवमिति चेत्, मैवम् – नहि कोऽपि सति घटस्य कल्पितत्वमभिप्रेत्य सन्घट इति प्रयुक्ते- तथात्वे चिद्धट इत्यपि प्रयुजेत । तात्पर्याधीना हि शब्दप्रवृत्तिः । परं तु विद्यमान- तया घटस्य घटस्सन्निति सर्वोऽपि प्रत्येति । तच्च विद्यमानत्वं पटादिष्वप्यस्तीत्यनुगतमेव । तथा नीलत्व- मपि रत्नादिष्वस्तीत्यनुगतमेव । एवमनुवृत्तव्यावृत्तभावो नीलोत्पलस्थलेऽप्यस्त्येवेति कथमुच्यते न नीलोत्पलवदिति । नच गौर्मुण्डस्सन्घटो मृद्घट इत्यादिषु गोसन्मृदादिरूपमेकमेव वस्त्वस्तीति तत्र सामा- नाधिकरण्यमेकनिष्ठं- नैवं नीलोत्पलस्थले इति वाच्यं, नीलोत्पलस्थलेऽपि एकमेव नीलगुणवद्रव्यं वर्तत इति सिद्धान्तात् । नापि सन्घट इत्यत्र सत्य मिथ्यारूपवस्तुद्वयनिष्ठं सामानाधिकरण्यं नीलोत्पलमित्यत्र तु मिथ्याभूतवस्तुद्वयनिष्ठमेवेति वाच्यं ब्रह्म घट इत्यत्र तथात्वेऽपि सन्घट इत्यत्रातथात्वात् । किंच यदि सन्घट इत्यत्र सच्छब्दस्सत्यं ब्रह्म वक्ति घटशब्दस्तु मिथ्याघटमिति वेत्ति पुरुषस्तर्हि सत्यमिथ्यावस्तुनो- स्सामानाधिकरण्यायोगात्सन्घट इति नैव प्रयुक्ते । नच नीलं नभ इतिवत्सन्घट इति प्रयोगोपपत्तिरिति वाच्यं, तस्य भ्रमत्वात् । सन्घट इत्यस्य यावद्व्यवहारं प्रमात्वाच्च । नहि सर्पे सर्पबुद्धिः रज्जौ सर्पबुद्धिश्व तुल्येति वक्तुं शक्यते । तस्मात्मानाधिकरण्येनेति पाठ एवं समीचीनः अन्वयक्लेशरहितश्च । 1 अवाह रामानुजः - असतो देहस्य सद्भावो न विद्यते सतश्वात्मनो नासद्भाव:- उभयोर्देहा- त्मनोरुपलभ्यमानयोर्यथोपलब्धि तत्त्वदर्शिभिरन्तो दृष्टः- निर्णयान्तत्वान्निरूपणस्य । निर्णय इहान्तशब्दे - नोच्यते । देहस्याचिद्वस्तुनोऽसत्त्वमेव स्वरूपमात्मनश्चेतनस्य सत्त्वमेव स्वरूपमिति निर्णयो दृष्ट इत्यर्थः । विनाशस्वभावो ह्यसत्त्वमविनाशस्वभावश्च सत्त्वमिति । अत्र विचार्यते - सत ईश्वरादुत्पन्नमिदं कार्यं जगत्सदेवेति सत्कार्यवादिनस्स्वस्य असतो देह- स्येत्यर्थवर्णनं स्वमतप्रच्युतिरूपदोषावह, परमतप्रवेशरूपदोषावहं च । असतो देहस्येति देहमात्रग्रहणं 1 we द्वितीयोऽध्यायः । अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७॥ ४१ किं पुनस्तत्सत् - यत्सर्वदैव सदित्युच्यते - अविनाशीति । अविनाशि न विनष्टुं शीलमस्येति । तु शब्दो सतो विशेषणार्थः । तद्विद्धि विजानीहि । येन विष्ण्वाख्येन ब्रह्मणा सर्वमिदं जगत्ततं व्याप्तं साकाशं आकाशेनेव घटादयां विनाशमदर्शनमभाव:- अव्ययस्यास्य नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति निरवयवत्वाद्देहादिवत्, नाप्यात्मीयत्वेनात्मीयाभावा- चायुक्तं- शीतोष्णादेरपि तादृशस्य सत्त्वात् । मूले भाव इति श्रूयमाणस्य पदस्य सद्भाव इत्यर्थवर्णनं चायुक्तम् । तथा अभाव इत्यस्यासद्भाव इति च । योग्यत्वमयोग्यत्वमिति चार्थान्तरप्रतीतेः । सद्भाव- सत्ता असद्भावोऽसतेत्यर्थग्रहणस्य क्लिष्टत्वात् । सत आत्मन इत्यप्ययुक्तं स्वमते प्रकृतिपुरुषेश्वराणां त्रयाणां सत्यत्वात् नित्यत्वाश्च । आत्मनां च बहुत्वादेकत्ववचनं चायुक्तम् । देहात्मनोरुपलभ्यमान- त्वोक्तिश्चायुक्ता- देहस्योपलभ्यमानत्वेऽप्यात्मनः प्रमातुरुपलब्धृत्वेनोपलभ्यमानत्वाभावात् - अन्यथा उपलभ्यमानत्वे देहादिवदात्मनोऽपि जडत्वं स्यादेव । तत्त्वदर्शिभिरित्यस्य यथोपलब्धीति शेषपूरणं चायुक्तं - शेषपूरणं विनैवार्थलाभात् । शेषपूरणस्य मूलकारासम्मतत्वात् । देहस्याचिद्वस्तुनः असत्त्वमेव स्वरूपमित्यप्ययुक्तं- असत्त्वस्य गुणत्वेन स्वरूपत्वाभावात् । असत्त्वमेवेत्येवकारेण खरूपान्तरनिषेधश्च सम्भवति तच्चानिष्टमचिद्वस्तूनामचित्स्वरूपत्वात् । तथा आत्मनस्तत्त्वमेव स्वरूपमित्यप्ययुक्तं- ‘ज्ञानै- काकारत्वादात्मनः । विनाशस्वभावो ह्यसत्त्वमित्यप्ययुक्तं स्वमते सत्यत्वनित्यत्वयोर्भेदात्- जगदिदं सत्य- मनित्यमिति खसिद्धान्तात् । अत एवाविनाशस्वभावश्च सत्त्वमित्यप्ययुक्तम् ॥ १६॥ अविनाशीति श्लोकमवतारयति - किं पुनरिति । सर्वदैवेति । यद्विषया बुद्धिर्न व्यभिचरति तत्सदित्यनेनेति भावः । शीलमिति तच्छीलिको णिनिरिति भावः । विशेषणार्थ इति भेदार्थ इत्यर्थः । असतो घटादेर्भिन्नः खल्वयं सत्पदार्थ:- तत्तु अविनाशीति विद्धीत्यन्वयः । असतो व्यावृत्तं तद्वस्त्ववि - नाशीत्यर्थः । विष्ण्वाख्येनेति । विश्वं वेवेष्टि व्याप्नोतीति विष्णुशब्दनिर्वचनादिति भावः । साकाश- मिति जगतो विशेषणम् । ब्रह्मणो जगद्व्याप्तौ दृष्टान्तमाह-आकाशेनेव घटादय इति । ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित’ इति श्रुतेस्सर्वव्यापकं नारायणमात्मानं विष्णुं ब्रह्म अविनाशित्वात्सत्पदार्थ विद्धीति फलितार्थः । यद्वा अविनाशीति सतः पर्यायः । तथाच सर्वव्यापकत्वाद्ब्रह्म अविनाशि सदिति विद्धीति । अथवा नात्र हेतुर्निर्दिष्टः, किंतु यत्सर्वव्यापकं तद्ब्रह्म त्वमविनाशीति विद्धि । 1 कुतोस्याविनाशित्वमत आह— विनाशमिति । तदर्थमाह- अदर्शनमभावमिति । यावदिति शेषः । विनाशशब्दस्य निश्चयार्थी भाव इत्यर्थः । अव्ययस्यास्येति शब्दद्वयार्थमाह —— नैतदित्यादिना । न व्यतीत्यव्ययमित्यव्ययशब्दनिरुक्तिः प्रसिद्धा- ‘सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्यय’ मिति वचनात् । व्येति विकारं प्राप्नोतीत्यर्थः । एतत्सदाख्यं सच्छन्द- वाच्यं ब्रह्म स्वेन रूपेण न व्येति न विक्रियते कुतः निरवयवत्वात् । व्यतिरेकदृष्टान्तमाह–देहादि- ४२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु द्यथा देवदत्तो धनहान्या न त्वेवं परब्रह्म व्येत्यतोऽव्ययस्यास्य ब्रह्मणो विनाशं न कश्चित्कर्तु- मर्हति न हि कचिदात्मानं विनाशयितुं शक्नोति । ईश्वरोप - आत्मा हि ब्रह्म स्वात्मनि च क्रियाविरोधात् । यथा चक्षुर्गत रेखादींश्चक्षुर्न पश्यति ॥ १७ ॥
वदिति । यथा देहादिः स्वावयवोपचयापचयाभ्यां स्वरूपविकारं भजते तथा ब्रह्म न भजते- निरव- यवत्वेन स्वरूपविकारांपादकसामग्र्यभावात् । स्वरूपविकारोनाम रूपभेद: यथा देहस्य स्थौल्य कार्यादिः - नाप्यात्मीयत्वेन ब्रह्म व्येति कुतः - आत्मीयाभावात् । असङ्गम्यात्मनः कथमन्येन सम्बन्धः ? येनान्य- दात्मीयं स्यादात्मनः । व्यतिरेकदृष्टान्तमाह — याथा देवदत्तो धनहान्येति । देवदत्तस्य धने ममता- सत्त्वात् तद्धनं देवदत्तस्यात्मीयं एवमात्मीयस्य धनस्य दैवान्नाशे सति स धनस्वामी देवदत्तः दुःखरूपं विकारमापद्यत इत्यर्थः । दान्तिकं पुनरप्याह दायय - न त्वेवं ब्रह्म व्येतीति । ब्रह्मापेक्षया पृथ- ग्वस्तुन एवाभावात् सत्यपि मायामये वस्तुनि निष्कामस्य ब्रह्मणस्तत्र ममताऽभावाच्च । न ब्रह्मण- स्स्वीयं वस्तु किञ्चिदस्ति- यन्नाशेन ब्रह्मणो विकारस्स्यात् । अतो निर्विकारं ब्रह्मत्यर्थः । अव्यय- स्येति । निर्विकारस्येत्यर्थः, तदेवं ब्रह्मणः अविनाशित्वे निर्विकारत्वं हेतुरित्युक्तं भवति । हेत्वन्तर- माह - नः कश्चिदिति । ब्रह्मणो विनाशकस्यान्यस्याभावाच्चाविनाशित्वं ब्रह्मण इत्यर्थ: । ननु ब्रह्मणोऽन्यदचेतनं ब्रह्म नाशयितुं नार्हतु नाम - चेतनस्त्वात्मा शक्नोत्येवेत्यत आह- नहीति । आत्मन एव ब्रह्मत्वात्कथं स्वनाश स्वयं कर्तुं शक्नुयादात्मेत्यर्थः । ननु अग्निजलपतनादिना आत्मनाशोऽपि सुकर एवेति चेन्मैवं संस्था :- अग्निजलपतनादिना ह्यात्मा देहमेव नाशयति न त्वात्मान- मिति नास्ति नाश्यनाशकभावयोस्सामानाधिकरण्यमिति । ननु आत्मा ब्रह्म नाशयितुं न शक्नुयान्नाम - ईश्वरः पुनश्शक्नुयात्तस्य सर्वेश्वरत्वादिति शङ्काया- माह - ईश्वरोपीति । तत्र हेतुमाह — अत्मेति । हि यस्माद्ब्रह्म ईश्वरस्येति शेषः । आत्मा भवति । यद्वा ईश्वरोप्यात्मैव । हि यस्मादीश्वरो ब्रह्म भवतीत्यन्वयः । तदेवमीश्वर आत्माऽभिन्नं ब्रह्मैव- आत्मा चेश्वराभिन्नं ब्रह्मैव - ब्रह्म चेश्वराभिन्न आत्मैवेति कृत्वा ईश्वरब्रह्मात्मनां त्रयाणां शब्दानामेव भेद:- अर्थस्तु चैतन्यमेकमेवेति नास्ति ब्रह्मनाशकं वस्त्वन्तरमिति भावः । यद्वा- असमर्थो ब्रह्म नाशयितुं न शक्नोतु नाम- समर्थस्तु शक्नुयादेवेत्यत्राह -नहीति । ईश्वरस्समर्थोपि कश्चिन्न शक्नोतीत्यन्वयः । तत्र हेतु- माह - आत्माहीति । हि यस्मादात्मा स्वयमेव ब्रह्म भवतीति शेषः । स्वस्यैव ब्रह्मत्वादित्यर्थः । + ननु स्वं स्वयमेव हन्यात्को दोषस्तत्राह – स्वात्मनीति । स्वात्मनि स्वस्वरूपे क्रिया स्वव्यापारो नास्ति - कुतः विरोधात् । यद्वा स्वात्मनि क्रियाया विरोधादसम्भवादित्यर्थः । तत्र दृष्टान्तमाह- यथेति । चक्षुष ईक्षणरूपक्रिया चक्षुर्भिने घटादावेव नतु चक्षुषि - न हि स्वगतनीलारुणश्वेतरेखादींश्चक्षुः - पश्यति । ननु स्वात्मनि क्रियाविरोधे- ‘आत्मावारे द्रष्टव्य’ इति श्रुत्या कथमात्मनि दर्शनं विधीयत - इति चेन्नैष दोष:- दर्शनस्य ज्ञानत्वेनाक्रियात्वात् क्रियात्वेपि मानसिक क्रियात्वेन स्वात्मक्रियात्वाभावात् । - ननु मनः स्वगतान् कामादीन् विकारान्पश्यत्येवेतिचेत्, मैत्रम् - विज्ञानात्मन एवं तद्द्रष्टृत्वात् ।
द्वितीयोऽध्यायः । ४३ निर्विकारत्वान्नाशकान्तराभावाच्च सर्वव्यापकं ब्रह्म चैतन्यमेकमेवाविनाशि सत्पदवाच्यं वस्त्विति विद्धीति श्लोकस्य निष्कृष्टार्थः । · अत्राह रामानुजः - तदात्मतत्त्वमविनाशीति विद्धि, येनात्मतत्त्वेन चेतनेन तद्व्यतिरिक्तमिदम- चेतनतत्त्वं सर्वं ततं व्याप्तं व्यापकत्वेन निरतिशयसूक्ष्मत्वादात्मनो विकारानर्हस्य तद्व्यतिरिक्तो न कश्चि- त्पदार्थो विनाशं कर्तुमर्हति । तद्व्याप्यतया तस्मात् स्थूलत्वादत आत्मतत्त्वमविनाशीति । आत्मनोऽपि सूक्ष्मतरस्य तन्नाशकस्यान्यस्यादर्शनादीश्वरस्यापि तन्नाशसङ्कल्पाभावादिति भाव इति वेदान्तदेशिका | तदिह विचार्यते - तदिति मूले दृश्यमानस्य वलीबस्य सद्ब्रह्मरूपेऽर्थे स्फुटमवगम्यमाने सति तं विहाय आत्मतत्त्वरूपार्थकल्पनस्याप्रमाणत्वात्, आत्मानमित्यनेनैवाभीष्टे सिद्धे तत्त्वपदवैयर्थ्याच्च । इदमचेतनतत्त्वं सर्वमित्यस्य- जीवेश्वरव्यतिरिक्तं सर्वमिति हि तवाभिमतोऽर्थः । कथं तद्व्यापकत्वं सूक्ष्मत्वेन परिच्छिन्नस्य ? जीवस्य । नहि क्वापि परिच्छिन्नस्य व्याप्तिर्दृष्टा - नहि परिच्छिन्नो घटो व्यापकस्सन् दृश्यते - सर्वव्याप्तिर्नाम सर्वत्र सत्त्वं खलु कथं परिच्छिन्नो जीवस्सर्वत्र स्यात् । दृश्यते किं जीवो दारुपाषाणमृदादिष्वचेतनेषु ? यदि दृश्यते तर्हि दार्वादीन्यपि सचेतनान्येव स्युः, न त्वचेतनानि - बुद्धिपरिच्छिन्नस्य मनोमयकोशा- दान्तरस्य विज्ञानमयस्यात्मना जीवस्य सूक्ष्मतरस्य मनोमयकोशव्याप्तिरस्तु नाम कथंनाम स्वसर्वदेहव्याप्तिः । यस्स्वमेव देहं सर्व व्याप्तुं नेष्टे कथमन्यदेहान्व्याप्नुयात् । सर्वदेहव्यापकत्वे चैकजीववादप्रसङ्गः । आत्मानेकत्वे तु आत्मनस्सर्वव्यापकत्व भङ्गप्रसङ्गः । अथ यद्येतद्दोषपरिहारायात्मनां जात्येकत्वमङ्गीकृत्य येनात्मसमुदायेन इदं सर्वमचेतनजातं ततमित्युच्यते, तर्हि सर्वपदविरोधः- नहि सर्वोऽप्ययमात्मसमुदायः पाषाणादिकमचेतनं व्याप्तुमीष्टे । यदि सर्वपदस्यापि मनुष्यादिदेहजाते संकोचस्तर्हि मूलकाराशयविरोधः स्फुट एव । जात्येकत्वादेकैक आत्मा एकैकं देहं व्याप्य वर्तत इति व्यापकत्वमात्मनो यद्युच्येत तर्हि तच्च न सम्भवति - एकैकदेहान्तर्वर्तिन आत्मनः पेटिकान्तरस्य वस्त्रस्येव व्यापकत्वायोगात् । यदन्तर्बहि- वर्तते तद्धि व्यापकं यथा आकाशः, धूमाभाववत्ययोगोलके व हिरस्तीति हि वह्नेर्धूमव्यापकत्वमुक्तं- तथा देहाभाववति गगनादौ चेतनस्याभावात्कथं देहव्यापकत्वं चैतन्यस्य । प्रत्युत देह एव जीवव्यापक:– जीवाभाववति शय्यादौ देहस्य सत्त्वात् । नच यदान्तरं तद्व्यापकमिति वक्तुं शक्य- गृहान्तरस्य घटस्यापि व्यापकत्व प्रसङ्गात् । नचाणोरपि जीवस्य धर्मभूतज्ञानेन व्यापकत्वमिति वाच्यं धर्मभूतज्ञानस्याप्यचेतने वृत्त्ययोगात्। सिद्धान्ते तु ज्ञानस्वरूपे जीवे धर्मभूतं ज्ञानं नास्त्येव - ज्ञाने ज्ञानायोगात् । धर्मभूतज्ञानवत्त्वेन जीवस्य ज्ञानित्वमेव स्यान्न तु ज्ञानस्वरूपत्वम् । न्यायमते जीवस्य द्रव्यत्वाद्द्रव्यस्य गुणवत्त्वाद्धर्मभूतज्ञानवत्त्वं जीवस्योपपद्यते तव मते तु ज्ञानैकाकारस्य जीवस्य कथं धर्मभूतज्ञानवत्त्वम् ? न ह्येकमेव ज्ञानमेकस्मि- नाश्रये स्वरूपभूतं धर्मभूतं च भवितुमर्हति । यदि तु धर्मभूतज्ञानं वृत्तिज्ञानमित्यभ्युपगम्येत तर्हि तद्वृत्ति- ज्ञानमन्त करणस्यैव धर्मभूतो नात्मन इति विद्धि । तस्मान्न व्यापकत्वं सूक्ष्मस्यात्मन इति कृत्वा आत्मतत्त्वेन सर्वमचेतनतत्त्वं ततमित्ययुक्तम् । किंच आत्मव्यतिरिक्तत्वमप्यचेतनस्य दुर्वच- आत्मन आकाशस्सम्भूत इत्यात्मकार्यस्याचेतन:-४४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु स्यात्माऽव्यतिरिक्तत्वात् । आत्मनो निरतिशयसूक्ष्मत्वं चायुक्तं निरतिशये सूक्ष्मत्वे व्यापकत्वायोगात् । शरीरान्तरपि सर्वव्याप्त्वभावे कृत्स्रदेहव्यापिशैत्यादिप्रयुक्तसुखाद्युपलब्ध्ययोगात् । त्वगादीन्द्रियैस्तदुप - लब्धिरित्यपि न शक्यम् - सूक्ष्मतमस्य तस्य त्वगादिसम्बन्धासम्भवात् । ‘अणोरणीयान्महतो महीयानात्मा- गुहायां निहितोऽस्य जन्तोरिति श्रुत्या आत्मनो महतो महीयस्त्वस्य प्रतिपादित्वात् । अणोरणीयानि- त्यस्य तु सूक्ष्मात्सूक्ष्मतरो दुर्विज्ञेय इत्यर्थात् । तथा अत्मव्याप्यतया आत्मनः स्थूलाः पदार्था आत्मानं न नाशयन्तीत्यप्ययुक्तं - आणोरात्मनः व्यापकत्वे सिद्धे तद्व्याप्यत्वमचेतनस्य सिध्येत् - तदेव न सिद्धम् । तथाच दर्शितं प्राक् । तुष्यतु दुर्जन इति न्यायेन व्यापकत्वमान्तरत्वमित्यभ्युपगम्य आत्मनो व्यापकत्वे देहस्य व्याप्यत्वे चाभ्युपगतेपि स्थूलं व्याप्यं वस्तु सूक्ष्मस्यान्तरस्य नाशं कर्तुं नेष्टे इतीष्टं नैव सिध्यति – स्थूलादजगरात्सूक्ष्मस्य छागस्य नाशदर्शनात्, स्थूलदृढमुष्टेस्तदन्तर्गतसूक्ष्म कीटनाशदर्शनात्, स्थूला- द्दह्यमानाद्गृह। तदन्तर्गतजन्तुनाशदर्शनात्, तथा सूक्ष्मान्मत्कुणात्स्थूलस्य मनुष्यस्य नाशादर्शनात्, सूक्ष्मा- दुदकात्स्थूलस्याग्नेर्नाशादर्शनाच्च । अथ ईश्वर आत्मनोऽपि सूक्ष्मतर इत्युक्तिरयुक्ता - आत्मनोऽपि सूक्ष्मतरत्वे एकस्मिन्नात्मनि स्थितस्येश्वरस्य नान्यस्मिन्नात्मनि स्थितिस्सम्भवेत् - इष्यते तु त्वया ईश्वरस्य सर्वभूतान्तर्यामित्वं सर्वान्त- र्यामित्वरूपं- यावतो देहास्तावन्त आत्मान इतिवद्यावन्त आत्मानस्तावन्त ईश्वरा इति वक्तुं न शक्यते - त्वयाऽपीश्वरैकत्वस्याभ्युपगतत्वात् । तस्माच्चेतनाचेतनसर्वजगदन्तर्बहिर्व्यापके ईश्वरे सूक्ष्मतमत्वं स्वप्नेऽपि सम्भावयितुं न शक्यं - ‘महान्तं विभुमात्मानं मत्वा धीरो न शोच’ तीत्यादिश्रुतिशतात् । दुर्विज्ञेयत्व- लक्षणं सूक्ष्मतमत्वं तु तत्र तत्रोच्यत इति प्रागेवोक्तम् । यदीश्वराज्जीवो भिन्नस्स्यात् तर्हीवराज्जीवस्य सृष्टिस्थितिलयास्स्युरेव - ‘यतो वा इमानि भूतानि जायन्त’ इत्यादिश्रुतेः । अभिन्नत्वे तु कथं ? न कथ- मपि । एवमीश्वराभिन्नत्वादेव जीवस्य जन्मनाशाभावः - न त्वीश्वरस्य सङ्कल्पाभावात् । जीवस्येश्वरभिन्नत्वे तु ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयं ब्रह्मेत्यद्वितीयं ब्रह्म प्रक्रम्य- ‘तदैक्षत बहुस्यां प्रजायेये’ ति तस्य बहुभव नसङ्कल्पमुक्त्वा ‘तत्सृष्ट्वा तदेवानुप्राविश’ दिति, ‘तदनुप्रविश्य सच्च त्यच्चाभव’ दिति जग- त्सृष्टिं तदनुप्रवेशं च ब्रूते खलु श्रुतिः- तत्र किमीश्वरसङ्कल्पाज्जीवो जातो नवा ? आधे- ‘जातस्य हि ध्रुवो मृत्यु’ रिति गीतावचनादेव तस्य नाशस्सिद्धः । द्वितीये - कथं जीवस्येश्वराद्भिन्नस्य सिद्धि: ? नहि सृष्टेः प्राक् जीवोऽस्ति - ‘एकमेवाद्वितीयं ब्रह्मेति श्रुतेः । तस्मादीश्वरादभिन्न एव जीव इति कथं स्वनाशे ईश्वरस्य सङ्कल्पस्स्यान्न कथमपीति बोध्यम् । ननु सृष्टेः प्रागपि चिदचिद्विशिष्टं ब्रह्मैवास्ति, नतु शुद्धमितिचेतर्हि - ईश्वरवच्चिदपि खत एव नित्य इति कृत्वा किमितीश्वरसङ्कल्पाभावाज्जीवस्य नित्यत्वमित्युक्तं त्वया । वस्तुतस्तु ब्रह्मणश्चिदचिद्वैशिष्ट्ये सति सविकारत्वमेव स्यात्- विशेषणभूतचिदचिद्गतस्थूल- सूक्ष्मादिविकाराणां विशिष्टे समन्वयात् । अपृथक्सिद्धविशेषणे खलु ब्रह्मणश्चिदचितौ - एवं सविकारत्वे च ब्रह्मैवानित्यं स्यादिति महदनिष्टम् ॥१७॥ द्वितीयोऽध्यायः । अन्तवन्त इमे देहा नित्यस्यो क्ताश्शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत || १८ || ४५ किं पुनस्तदसत् ? यत्स्वात्मसत्तां व्यभिचरतीत्युच्यते - अन्तवन्त इति । अन्तवन्तः अन्तो नाशो येषां तेऽन्तवन्तः- यथा मृगतृष्णिकादौ सद्बुद्धिरनुवृत्ता प्रमाणनिरूपणान्ते विच्छिद्यते स तस्यान्तः- तथेमे देहास्स्वप्ने मायादेहादिवच्चान्तवन्त:- नित्यस्य शरीरिणः शरीरवतोऽनाशिनोऽप्रमेयस्यात्मन:- अन्तवन्त इत्युक्ता विवेकिभिरित्यर्थः । नित्यस्यानाशिन इति न पौनरुक्त्यं नित्यत्वस्य द्विविधत्वाल्लोके नाशस्य च । यथा
अन्तवन्त इति श्लोकमवतारयति - किं पुनरिति । यत्स्वात्मसत्तां व्यभिचरति तदसद्वस्तु पुनः किमिति शङ्का । उच्यत इति प्रतिज्ञा- स्वात्मसत्ताव्यभिचारः स्वसत्तानाश इत्यर्थः । यस्य सर्वदा नास्ति सत्ता किंतु प्रतीतिकाले एव तद्धयसद्वस्तु । प्रतीतिकालेऽपि कारणव्यतिरेकेणासत्त्वात्सत्ता- व्यभिचारोस्त्येवेति प्रागेव प्रतिपादितम् । अनाशिनो नित्यस्याप्रमेयस्य शरीरिणस्सम्बन्धिन इमे देहा अन्तवन्त इति विवेकिभिरुक्ता इत्यन्वयः । असङ्गस्याप्यात्मनश्शरीरेणसह सम्बन्ध आधाराधेयभावादि- रूपः कल्पितोऽस्तीति शेषषष्ठयुपपत्तिः । देहानां नाशो नाम तदनुवृत्तसद्बुद्धि विच्छेदः । सच प्रमाण- निरूपणाज्जायते इत्याह- यथेति । एतेन देहानां प्राणापायप्रयुक्तं नश्वरत्वं सर्वजन विदितमेवेति कृत्वा किमिति भगवता अन्तवन्त इमे देहा इत्युपदिष्टं व्यर्थत्वादिति प्रश्नो दत्तोत्तरः । नन्वीशो नाशः क दृष्ट इत्यत्राह — मृगतृष्णिकायामिति । मृगतृष्णिका मरीच्युदकम् । इदमुदकमस्तीति मरीच्युदकसमानाधिकरणा या सद्बुद्धिर्मरीच्युदके अनुवर्तते साहि नेदमुदकं, किंतु मरीचिरेवेति प्रमाणनिरूपणान्ते व्यावर्तते । सः सद्बुद्धिविच्छेदः तस्य मृगतृष्णिकादेरन्त इत्यक्षरार्थः । तथा इमे दृश्यमाना देहा अन्तवन्तः - देहास्सन्तीति देहेष्वनुवर्तमानायास्सबुद्धेः । नेमे देहाः किंतु पृथि - व्यादिभूतान्येव भूतव्यतिरिक्तांशस्यात्रानुपलम्भादिति (नेमे देहा किंतु ब्रह्मैवेति वा ) प्रमाणनिरूपणान्ते विच्छेदात् । ननु जलपानाद्यर्थक्रियाशून्यस्य मरीचिकोदकस्य भवत्वसत्त्वं कथं पुनर्देहानां गमना- द्यर्थक्रियाशालिनामसत्त्वमित्यत्राह - स्वप्नमायादेहादिवच्चेति । स्वप्ने यथा निद्राख्यमायया कल्पितां देहरथादयः पदार्था अर्थक्रियाशा लिनोऽप्यसन्त इति सर्वैरभ्युपगम्यते तद्वदित्यर्थः । नच स्वप्नदेहा- दीनामर्थक्रियाकारित्वे विवदितव्यं - स्वमरथारोहणदेशान्तरगमनसम्भाषणाद्यर्थक्रियादर्शनात् । देहात्मनोः कस्सम्बन्ध इति शङ्कायां धार्यधारकभावरूप इति दर्शयितुमाह - शरीरिण इति । शरीरिणः शरीर- मस्यास्तीति शरीरी मत्वर्थे अत इनिठनावितीनिः । तस्य शरीरिणः । मतुप्प्रत्यये कृते शरीरवान् तस्य शरीरवतः । अन्तः प्रविश्य शरीरं धरत इत्यर्थः । नित्यत्वस्येति । लोके नित्यत्वस्य नाशस्य च द्विविधत्वादित्यन्वयः । नाशस्य द्विविधत्वा- तदभावरूपं नित्यत्वमपि द्विविधमित्यर्थः । नाशस्य द्वैविध्यमेव दर्शयति - यथेत्यादिना । भस्मीभूतः अदर्शनं गतो देहो नष्ट इत्युच्यते - णश अदर्शन इति धातुस्मरणात् । विद्यमानोऽपि वयसा परिणतः ४६ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेता सु देहो भस्मीभूतोऽदर्शनं गतो नष्टः इत्युच्यते- विद्यमानोऽपि वयसाः परिणतो व्याध्यादियुक्तो जातो नष्ट इत्युच्यते– तत्त्रानाशिन्दो नित्यस्येति द्विविधेनापि विनाशेनासम्बन्धस्येत्यर्थः । अन्यथा पृथिव्यादिवदपि नित्यत्वं स्यादात्मनस्तन्माभूदिति नित्यस्यानाशिन इत्याह- न प्रमेयस्य अप्रमेयस्य प्रत्यक्षादिप्रमाणैरपरिच्छेद्यस्येत्यर्थः । नन्वागमेनात्मा परिच्छिद्यते प्रत्यक्षादिना चन, पूर्व स्वतस्सिद्धत्वात् । सिद्धे ह्यात्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति । नहि प्रमातुमिच्छन् पूर्वमित्थं नित्य: अविक्रियश्च आत्मा अहमित्यात्मानं प्रमाय पश्चात्प्रमेयपरिच्छेदायः प्रवर्तते न ह्यात्मा नाम कस्यचिदप्रसिद्धो भवति । शास्त्रं परिणानं गतः व्याध्यादियुक्तश्च देहः नष्टो जातः नष्ट आसीदित्युच्यते । रक्तक्षयादिकृतं कार्यमंत्र नाशशब्दार्थ इति भावः । तवेति । एवंस्थिते इत्यर्थः । द्विविधेनापीति । अदर्शनरूपेण कार्य- रूपेण चेत्यर्थः । अन्यथेति । अथ वेत्यर्थः । नित्यस्येत्युक्ते किं पृथिव्यादिवदात्मा यावत्प्रलयं नित्य इति शङ्का स्यात्तद्वारणायानाशिन इत्युक्तमित्यर्थः । घटादिवदनित्यत्ववारणायानाशिन इति चोक्तमिति यावत् । आहेति । भगवानिति शेषः । : अप्रमेयस्येति नञतत्पुरुषो नतु बहुव्रीहिरित्याह–न प्रमेयस्येति । प्रमातुं शक्यं योग्यं वा प्रसेयं तद्भिन्नोऽप्रमेयः तस्य अपरिच्छेद्यस्य परिच्छेत्तुमिदन्तेदृक्तेयत्तादिना परिमातुमशक्यस्येत्यर्थः । ननु ‘शास्त्रयोनित्वा’ दिति सूत्रेण, ‘सर्वे वेदा यत्पदमामनन्ती ‘ति श्रुत्या ‘वेदैश्च सर्वैरहमेव वेद्य’ इति गीतया च शास्त्रवेद्यत्वमात्मन उच्यत इति कथमागमापरिच्छेद्यत्वम्? तथा सुखादिवदात्मा मनोवेद्य एव– ‘मनसैवानुद्रष्टव्य’ इति श्रुतेर्मानसिक प्रत्यक्षविषयत्वमात्मनोऽस्तीति कथं प्रत्यक्षापरिच्छेद्यत्वम् ? तथा जग- ज्जन्मादिलिङ्गकानुमानेन आत्मनस्तुग्रहत्वात्कथमनुमानापरिच्छेद्यत्वमित्याक्षिपति - नन्वित्यादिना । परिहरति नेति । प्रत्यक्षागमादिप्रमाणव्यवहारात्पूर्वमेवात्मनः स्वतस्सिद्धत्वान्न प्रत्यक्षादिपरिच्छेद्यत्व- मिति । घटादयो हि पदार्थाश्चक्षुरादिप्रमाणव्यापारानन्तरं सिध्यन्ति घटोऽस्ति पटोऽस्तीति । प्रमाता तु आगमादिप्रमाणव्यापारात्पूर्वमेव सिध्यति प्रमात्रधीनत्वात्प्रमाणव्यापारस्य । कर्ता हि प्रमाता करणानि तु प्रमाणानि यथा वाश्यादिकरणव्यापारश्छेदना दिस्तक्षादिकर्त्रधीनः तद्वत् । आत्मा हि प्रमाता- अतो न प्रमातर्यात्स नि: प्रमाणपरिच्छेद्यत्वमिति भावः । संग्रहवाक्यं विवृणोति - सिद्धे हीत्यादिना । प्रमात- र्यात्मनि सिद्धे सत्येव प्रमित्योः प्रमाणान्वेषणा भवतीत्यन्वयः । प्रमातुमिच्छुः प्रमित्सुः । तस्य प्रमातु- रित्यर्थः । प्रमाता हि प्रमित्सति प्रमेयम् । प्रमाणानां चक्षुरादीनां करणानामन्वेषणा । गवेषणा । रूपं प्रमित्सुः प्रमाता चक्षुरन्विष्यति चक्षुषैव रूपस्य प्रमेयत्वात् । शब्दं प्रमित्सुः श्रोत्रमन्विष्यतीत्येवम् । ननु प्रमित्सुः पूर्व प्रमातारमात्मानं प्रमाय पश्चाद्रूपादिकं प्रमातीतिः कृत्वा सिध्यति प्रमातुरपि प्रमे- यस्त्वमित्यत आह नहीति । घटादिकं प्रमेयं प्रमातुमिच्छन् पुरुषः पूर्वमादौ तियोऽविक्रिय आत्माऽह- मित्येवमात्मानं प्रमा पश्चात्प्रमेयस्य घटादेः परिच्छेदाय नहि प्रर्तयते । हिशब्दः सर्वानुभवप्रसिद्धिं द्योतयति । तत्र हेतुमाह-नहीति । आत्मनस्स्वत्वात्स्वस्य स्वयं कथमप्रसिद्धस्स्यात् ? असिद्धार्थः 2 7
द्वितीयोऽध्यायः । ४७ त्वत्यन्तं प्रमाणमतद्धर्माध्यारोपणमात्रनिवर्तत्कवेन प्रमाणत्वमात्मनः प्रतिपद्यते, न त्वज्ञातार्थ- ज्ञापकत्वेन । तथा च श्रुतिः- ‘यत्साक्षादपरोक्षाद्ब्रह्म- य आत्मा सर्वान्तर’ इति । यस्मादेवं नित्योऽविक्रियश्वात्मा तस्माद्युध्यस्व युद्धादुपरमं माकार्षीरित्यर्थः । न ह्यत्र युद्धं कर्तव्यतया विधीयते युद्धे प्रवृत्त एव सौ शोकमोहप्रतिबद्धस्तूष्णीमास्ते तस्य प्रतिबन्धापनयन मात्रं भगवता क्रियते । तस्माद्युध्यस्वेत्यनुवादमात्रं न विधिः शोकमोहादिसंसारकारण निवृत्त्यर्थ गीताशास्त्रं, न प्रवर्तकमित्यर्थः ॥१८॥ परिच्छेदाय हि प्रमात्रा प्रमाणव्यापार आकांक्षितः । चक्षुर्व्यापारात्प्रागेव यदि प्रमाता गृहे घंटं जानीया- तर्हि किमिति घटोऽत्रास्ति वा नवेति संशयीत ? किमिति तत्संशयापनोदार्थ चक्षुषा घटदर्शने व्याप्रि- येत ? आत्मनि तु न कोऽप्यहमस्मि वा नवेति सन्देग्धि- येन तत्सन्देहापनोदनायात्मानं प्रमातुमिच्छे- दिति भावः । 1 नन्वेवं वेदान्तशास्त्रमप्रमाणमनर्थत्वात्- आत्मज्ञानं हि वेदान्तशास्त्रस्य फलं तत्तु पूर्वमेव सिद्ध- मात्मनः स्वतस्सिद्धत्वादिति शङ्कायामाह - शास्त्रन्त्विति । शास्त्रमत्यन्तं प्रमाणमेव । तत्र हेतुमाह- अतदित्ति आत्मनि यदनात्मतद्धर्माध्यारोपणमविद्यः कृतमस्ति मनुष्योऽहं स्थूलोऽहं काणोहमिति प्रतीत्याश्रयं तम्मा- त्रस्य निवर्तकत्वेन हेतुना शास्त्रं प्रमाणत्वं प्रतिपद्यते । अविद्याकृतात्माश्रयानात्मधर्माध्यारोपण निवर्तकत्व- रूपफलस्य सत्त्वाच्छास्त्रं प्रमाणमेवेत्यर्थः । फलान्तरं निषेधति - नत्विति । अज्ञातार्थज्ञापक स्वरूप पाल नास्ति शास्त्रस्यास्येत्यर्थः । आत्मनः स्वत्वेन ज्ञातार्थत्वादिति भावः । उक्तार्थे श्रुतिं प्रमाणयति- तथा च श्रुतिरिति । अपरोक्षादिति पञ्चमी प्रथमार्थे छान्दसी । अपरोक्षमित्यर्थः । यस्सर्वान्तर आत्मा यच्च साक्षादपरोक्षं तद्ब्रह्मेति श्रुत्यर्थ: । आत्मा स्वयमवापरोक्षं ब्रह्मेति यावत् । अनया श्रुत्या प्रत्यगभिन्नस्य ब्रह्मणः प्रमाणव्यापारं विनैव प्रत्यक्षत्वमुक्तं साक्षादित्युक्तत्वात् । ततश्व आत्मा ज्ञातार्थः स्वतस्सिद्ध एवेति भावः ।
· मूलस्थतस्माच्छब्दार्थमाह — यस्मादिति । अनाशिनो नित्यस्येति शब्दद्वयार्थमाह नित्य इति । अप्रमेयशब्दार्थमाह– अविक्रिय इति । प्रमेयस्य घटादेस्तविक्रियत्वादप्रमेय आत्मा अविक्रिय इत्यर्थः । युध्यस्वेति लोटा युद्धं कुर्विति विधिरभिधीयत इत्याशङ्कयाह – युद्धादुपरमं माकार्षीरित्यर्थ इति, अनुवादमात्रमिति । चिकीर्षितयुद्धानुवादमात्रमेवेत्यर्थः । मात्रपदार्थमाह-न विधिरिति । तत्र हेतुमाह शोकमोहादीति । शोकमोहादीनां संसारकारणानां निवृत्तिरेवार्थः फलं यस्य तत्त- थोक्तम् । तन्निवृत्तये इदं निवृत्त्यर्थमिति वा समासः । उभयधाप्येक एवार्थः । नतु कस्मिंश्चित्कर्मणि प्रवर्तकमित्याह - न प्रवर्तकमिति । इति हेतोर्युध्यस्वेति न विधिरित्यन्वयः ।
अत्राह रामानुजः — दिह उपचय इत्युपचयरूपा इमे देहा अन्तवन्तः विनाशस्वभावाः- उपच- यात्मका हि घटादयोऽन्तवन्तो दृष्टाः । नित्यस्य शरीणः कर्मफलभोगार्थतया भूतसङ्घातरूपा देहाः पुण्यः पुण्येनेत्यादिशास्त्रैरुक्ताः कर्मावसानंविनाशिन इति, तत्तुच्छम् —— दिह उपचय इत्युपचयरूपत्वं ४८ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥ " एतस्यार्थस्य साक्षिभूते ऋचावानिनाय भगवान् | यत्तु मन्यसे युद्धे भीष्मादयो मया हन्यन्ते, अहमेतेषां हन्तेत्येषा बुद्धिर्मृषैव ते । कथम् ? य इति । एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारं यश्चैनमन्यो मन्यते हतं हननक्रियायाः कर्मभूतं तावुभावपि न विजानीत:- अविवेकेनात्मानं हन्ताऽहं हतोऽहमिति देहहनने आत्मानमहम्प्रत्ययविषयं यौ जानीतः तावात्मस्वरूपानभिज्ञावित्यर्थः । यस्मान्नायमात्मा हन्ति न हननक्रियायाः कर्ता, न च हन्यते । न च कर्म भवतीत्यर्थः- अविक्रियात्वात् ॥ १९ ॥ देहानां वृद्धिहेतुरेव न क्षयहेतुः - अपचयो हि वृद्धिः । नच घटादीनामुपचयात्मकत्वं दृश्यते - कुलालेन यावत्परिणामो घटः कृतस्तावत्परिमाणान्न हि घटोऽस्मद्गृहेषु वर्धते 1 नचैतद्दोषपरिहारायैव वेदान्तदेशिकेन उपचयरूपा इत्यस्य सावयवा इत्यर्थः वर्णित इति वाच्यं, देहशब्दात्तादृशार्थालाभात् । नचं सावयवस्यैवोपचयो, नतु निरवयवस्येति सिद्धान्तात्तादृशार्थलाभ:- निरवयवत्वे देहस्योपचयासम्भवादिति वाच्यं, सावयवस्यापि घटस्योपचयादर्शनेन सावयवत्वोपचयो - स्समनियतत्वाभावान्न तादृशार्थलाभ इति । किंच तव मते निरवयवस्यापि मठाकाशस्य मठवैपुल्येनोप- चयदर्शनान्निरवयवस्य नोपचय इत्यपि न नियन्तुं शक्यते । अथ दहस्योपचयोऽपि दुर्निरूपः- यावद्भिरवयवैर्देह आरब्धो घटवत्तावद्भ्योऽवयवेभ्योऽन्याव- यवानां कथं देहे लाभः, येनोपचयस्स्यात् । नच देहस्य बाल्यावस्थातस्तारुण्ये वृद्धिदर्शनात्तद्बलेनाव- यवान्तरसंक्रमण कल्प्यत इति वाच्यं, अप्रमाणत्वात्तत्कल्पनायाः । अतो मायामय्येव सा वृद्धिः । यथा घटादयो अन्तवन्तो दृष्टास्तथा देहा अप्यन्तवन्तो दृष्टा एवेति किमिति देहेषु सिद्धस्यान्तवत्त्वस्य सावयवत्वादिभिर्हेतुभिर्भगवता साधनं क्रियते सिद्धसाधनं पार्थत्वाद्दोषः । शरीरिण: कर्मफलभोगार्थ - तया देहारशास्त्रैरुक्ता इत्यर्थवर्णनमप्ययुक्त:- मूलाद्बहिः कल्पितत्वात्कर्मफलभोगार्थतयेति पदस्य । सर्व- प्रमाणेषु प्रत्यक्षस्य बलवत्त्वाद्देहानां तद्गतविनाशस्वभावस्य च प्रत्यक्षसिद्धत्वेन शास्त्रैरुक्ता इत्यप्ययुक्तं- व्यर्थत्वात् ॥ १८ ॥ य एनमितिश्लोकमवतारयति - एतस्येति । एतस्योक्तस्य नित्य आत्मा अविक्रिय इत्यस्यार्थस्य साक्षिभूते प्रमाणभूते ‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतं न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चिदिति ऋचौ मन्त्रौ भगवानानिनाय इहोपनिबबन्धेत्यर्थः । तत्र प्रथममन्त्रस्य सङ्गतिमाह– यत्विति । य एनं हन्तारं वेति यश्चैनं हतं मन्यते तावुभौ न विजानीत:- अयं न हन्ति न हन्यते इति श्लोकस्यान्वयः । यौ देहहनने इदम्प्रत्ययविषयस्य देहस्य हननेसति अविवेकेन देहात्मनोर विवेकेन हेतुना अहम्प्रत्यय विषयमात्मानं हन्ताऽहमिति हतोऽहमिति जानीतः तावुभौ न विजानीत इत्यस्यार्थमाह– आत्मस्वरूपानभिज्ञाविति । तत्र हेतुभूतं श्लोकस्य चरमपादं व्याचष्टे - यस्मादिति । कुत आत्मा द्वितीयोऽध्यायः । ४९ हननक्रियायाः कर्ता कर्म च न भवतीत्यत आह- अविक्रियत्वादिति । हन्तृत्व हत्वादयो विकारा आत्मनि निर्विकारे कथं स्युरित्यर्थः । शस्त्रपाणिः प्रबलो देह एव दुर्बलमन्यं देहं हन्ति स दुर्बलदेह एव प्रबलेनान्येन देहेन हन्यत इति देहधर्मावेव हन्तृत्वहतत्वे । अविवेकिभिस्तु ते आत्मन्यारोप्येते- यथा देहधर्मः कार्यमात्मन्यारोप्यते व्याधिग्रस्तेन मूढेन पुंसा तद्वदिति भावः । अत्राह रामानुज : - एनमुक्तस्वभावमात्मानं प्रति हन्तारं हननहेतुं कमपि यो मन्यते - यश्चनं केनापि हेतुना हतं मन्यत इति, तत्तुच्छम् - प्रति कमपीति पदत्रयाध्याहारदोषात्, खरसतः प्रतीय- मानसामानाधिकरण्यभङ्गदोषाच्च हन्तारमिति हन्तेः कर्तरि विहितेन तृप्रत्ययेन हेत्वर्थस्यानभिधीयमान- स्वात् हननहेतुमित्यस्य हननकर्तारमित्यर्थवर्णनस्य वक्रत्वात् । तथा केनापि हेतुना हतमित्यप्यस- ङ्गतं - हतमिति कर्मणि क्तप्रत्ययेन तावत्कर्तुरेवाकांक्षाया उत्पद्यमानत्वात्तत्परिपूर्तये केनापि कर्त्रत्येव वक्तव्यत्वात्, कारणफलरूपार्थद्वयवाचिनो हेतुशब्दस्य कर्त्रर्थाश्रयणस्याप्रमाणत्वाच्च । तथा अयमात्मा हननहेतुर्न भवतीत्यप्युक्तमनेन तदप्यसत्-हन्तीति हननकर्तारमभिधत्ते तिबन्तो धातुः- नतु हननहेतुम् । हननकर्ता हि हननाश्रयः- आख्यातस्य चाश्रयत्वमर्थ इति सिद्धान्तः । रामो रावणं जघान बाणेन भार्यापहारित्वादिति वाक्ये हननं क्रिया, तत्र कर्ता रामः, करण बाणः, हेतुस्तु भार्यापहरणं, कर्म रावण इति कर्तृहेत्वोर्भेदात् । ततश्च नायं हन्तीति वाक्येनात्मनो हनन- कर्तृत्वमेव निषिध्यते नतु हननहेतुत्वं कर्तरि तिब्विधानादिति कृत्वा कथं रामानुजेनाऽऽत्मनो हनन- हेतुत्वं निषिद्धं नायं हन्तीति वाक्येन । T यदप्युक्तमत्र प्रत्ययस्य हेतुमात्रविवक्षेति वेदान्तदेशिकेन, तदप्ययुक्तम् — व्यासस्य तादृश- विवक्षाऽस्तीति कल्पने प्रमाणाभावात्, प्रसिद्ध कर्त्रर्थपरित्यागे कारणाभावाच्च । नहि यः कोऽपि मूढ आत्मानं हननहेतुं मन्यते । किंतु हननकर्तारमेव - रिपुं हतवानहमिति । तत्र हेतुं तु धनराज्यादिकमेव मन्यते । ततश्च नात्मा हननहेतुरित्युपदेशोऽपि व्यर्थः । नचात्मार्थं रिपून् हन्तीति प्रयोगादात्मनोऽस्ति हेतुत्वमिति वाच्यं, तत्र आत्मार्थमित्यस्यात्मसुखादिलाभार्थमित्यर्थात् । अन्यथा हन्तीति हनन क्रियाश्रये आत्मनि हननहेतुत्वस्यासम्भवात् । आत्मार्थे पृथिवीं त्यजेदित्यादौ यथा- कथंचित्फलत्वरूपहेतुत्वमात्मनो भवतु नाम कारणत्वरूप हेतुत्वं तु कापि न सम्भवेत् । त्वया तु हननहेतुर्नेति हननकारणत्वमेव प्रति- षिध्यते । सचायुक्त:- निषेधस्य प्रसक्तिपूर्वकत्वादात्मनि च कर्तरि हेतुत्वाप्रसक्तेः । नचात्माना पुत्र- मुत्पादयतीत्यस्ति हेतुत्वमात्मन इति वाच्यं तत्रात्मशब्दस्य देहार्थकत्वात् । तृतीयायाश्च करणे विहितत्वात् । किंच ‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हत’ मिति कठवल्लीवाक्यमिहान्वितमिति त्वयाप्युक्तं– तत्र हन्ता चेदित्यस्य किं हननकर्ता चेदित्यर्थ: : उत हननहेतुश्चेदिति ? न द्वितीयः- हननहेतोर्हनना- कर्तृत्वेन हनन बुद्धयुदयप्रसङ्गासम्भवात् । हन्तुं मन्यत इति हनन बुद्धिरुच्यते हि सा च हननबुद्धि- ईननकर्तुरेवोचिता हन्यामहमिममिति । अतः प्रथमः परिशिष्यते योऽर्थो मूलभूतश्रुतिगतहन्तृशब्दस्य ५० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यश्शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२०॥ कथमिवाविक्रिय आत्मेति द्वितीयो मन्त्रः – नेति । न जायते नोत्पद्यते - जनिलक्षणा वस्तुविक्रिया नात्मनो विद्यत इत्यर्थः । तथा अयमात्मा न म्रियते वा वाशब्दश्चार्थे । न म्रियते चेत्यन्न्यविनाशलक्षणा विक्रिया प्रतिषिध्यते । कदाचिच्छन्दस्सर्वविक्रियाप्रतिषेधैस्सम्ब- ध्यते न कदाचिज्जायते, न कदाचिन्त्रियते इत्येवम् । यस्मादयमात्मा भूत्वा भवन क्रियामनुभूय पश्चादभविता अभावं गन्ता न भूयः पुनः तस्मान्न म्रियते यो हि भूत्वा न भवति स म्रियत स एव गीता श्लोकगतहन्तृशब्दस्यापि वक्तव्यः न त्वन्यः तस्येवेहोपनिबद्धत्वात् । तस्माद्धन्तेत्यस्य हननहेतुरित्यर्थः श्रुतिविरुद्धश्च । ‘लः कर्मणि च भावे चाकर्मकेभ्य’ इति पाणिन्यनुशासनविरुद्धश्च - लादेशानां तिबादीनां कर्तरि कर्मणि भावे च शक्तिरिति तदर्थात् हेत्वर्थे तिबविधानात् कर्तरि तृन्तृचोर्विहितत्वेन हेतौ तदविधानाच्च । आख्यातस्याश्रयत्वमर्थ इति व्युत्पत्तिवादविरुद्धश्च । नहि हेतुत्वमाख्यातस्यार्थ इति तत्रोक्तम् । उप- देशवैयर्थ्यादिना दुष्टश्चेति तुच्छं रामानुजभाष्यं तदनुसारिवेदान्तदेशिकतात्पर्यचन्द्रिको च ॥१९॥ कथमित्र कथं वा केन प्रकारेणेत्यर्थः । आत्मा अविक्रिय इति शङ्कायां न जायत इति द्वितीयमन्त्र उपन्यस्तो भगवता - अयमात्मा कदाचिदपि न जायते, कदाचिदपि न म्रियते, कदाचिदपि भूत्वा भूयो नाभविता, कदाचिदपि न भूत्वा भविता च न, शरीरे हन्यमानेपि कदाचिदपि न हन्यते । तस्मादयमजो नित्यश्शाश्वतः पुराणश्च भवतीत्यन्वयः । भूत्वा अभविता भूत्वा भवितेति च द्वेधा पद- विभागः। जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यतीति च षड्भावविकाराः यथा देहो जायते, जन्मानन्तरं देहोस्तीति सत्तां प्रतिपद्यते, ततः प्रवृद्धो भवति, ततो विपरिणामं वलितपलितत्वादिकं भजते, ततोऽपक्षीयते कार्यं प्रपद्यते, ततो नश्यत्यदर्शनं प्रपद्यते । इतीमे विकारा आत्मनि न सन्ती- त्यविक्रिय आत्मेति फलितार्थः ।
तत्र न जायत इत्यनेन जन्मलक्षणः प्रथमो विकार आत्मनि निषिध्यत इत्याह-न जायत इति । न म्रियते न नश्यतीति हृदि कृत्वाह– अन्त्येति । विनाशोह्यन्त्यष्षष्ठो विकारः । नतु कस्मादात्मा न म्रियते अत आह— यस्मादिति । यस्मादयमात्मा भूत्वा भवनक्रियामनुभूय पश्चाद्भूयः पुनः अभविता अभाव गन्ता न तस्मान्न म्रियत इत्यन्वयः । भवनक्रियामनुभूय जनिक्रियाश्रयत्वं प्रपद्ये- त्यर्थः । जातरसन्निति यावत् । अभावं नाशं न गन्ता न प्राप्स्यति । उक्तमर्थं व्यतिरेकमुखेन द्रढयति– यो हि यो देहादिः पदार्थः भूत्वा न भवति नाशं प्रपद्यते स म्रियत इत्युच्यते लोके । जनैरिति शेषः । शशशृङ्गादिवारणार्थं भूत्वेति । शशशृङ्गगगनकुसुमादीन्यभूत्वैवादर्शनं प्रपद्यन्त इति न तेषां मृतत्वव्यव- हार इति भावः । ननु न जायते म्रियते वा कदाचिदिति प्रथमपादे श्रूयमाणस्यैकस्यैव नञः जायते म्रियते इति द्वितीयोऽध्यायः । इत्युच्यते लोके । वाशब्दान्नशब्दाच अयमात्मा अभूत्वा भविता च न देहवत् भूयः पुनः तस्मान्न जायते यो ह्यभूत्वा भविता स जायत इत्युच्यते नैवमात्मा - अतो न जायते यस्मा- देवं तस्मादजः यस्मान्न म्रियते तस्मान्नित्यश्च । यद्यप्याद्यन्तयोर्विक्रिययोः प्रतिषेधेन सर्वा विक्रियाः प्रतिषिद्धा भवन्ति तथापि मध्यभाविनीनां विक्रियाणां शब्दैरेव प्रतिषेधो वक्तव्य इत्यनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यादित्याह - शाश्वत इति । शाश्वत इत्यपक्षयलक्षणा विक्रिया प्रतिषिध्यते- शश्वद्भवश्शाश्वतः नापक्षीयते - स्वरूपेण निरवयवत्वात् । निर्गुणत्वाच्च नापि गुणक्षयेण । अपक्षयविपरीता वृद्धिलक्षणा विक्रिया प्रतिषिध्यते— पुराण इति । यो ह्यवयवागमेनोपचीयते स वर्धते, अभिनव इति चोच्यते, क्रियाद्वयेऽन्वयात् नायं भूत्वा भविता भूय इत्यनेन द्वितीयपादस्य विवक्षितार्थसिद्धेश्व द्वितीयपादगतौ वा न भूय इत्यत्र वानशब्दौ व्यर्थाविति शङ्कायामाह - वा शब्दान्न शब्दाच्चेति । अयमात्मा अभूत्वा भूयः पुनर्भविता च नेत्यन्वयः । तत्र व्यतिरेकदृष्टान्तमाह - देहवदिति । यथा देहः उत्पत्तेः प्रागभूत्वा अविद्यमानस्सन्नित्यर्थः । पश्चाद्भविता भावं सत्तां प्रपत्स्यते तद्वदित्यर्थः । फलितमाह - तस्मादिति । यस्मादभूत्वा न भविता तस्मादित्यर्थः । प्रागभावाभावादिति यावत् । उक्तमर्थ व्यतिरेकेण द्रढयति- यो हीति । यो घटादिः पदार्थः अभूत्वा प्रागभावं प्रपद्य भविता उत्पत्स्यते स जायते इत्युच्यते । लोकैरिति शेषः । प्रकृतमाह नैवमिति । एवं घटादिवदात्मा प्रागभावं प्रपद्य न भविता अत आत्मा न जायते, ततः किमत आह- यस्मादिति । यस्मादेवं न जायते तस्मादज आत्मा न जायत इत्यज इति व्युत्पत्तेरिति भावः । एवं मूलस्थमजपदं व्याख्याय नित्यपदं व्याचष्टे – यस्मादिति । लोके मृतिशालिन एव वस्तुनः अनित्यत्वव्यवहारादिति भावः । यद्यपीति । विचार्यमाणे सतीत्यर्थः । आद्यन्तयोरिति । जन्मनाशयोरित्यर्थः । सर्व इति । सर्व सामस्तित्वादिविक्रियाणां जनिपूर्वकत्वान्नाशफलकत्वाच्चेति भावः । शब्दैरेवेति नतु व्यधमर्यादयेत्येव- कारार्थः । आर्थिकादपि निषेधा न्निषेधसिद्धेः शाब्दो निषेधो व्यर्थ इत्या शक्यार्थांतरमाह– अनुक्तानामपीति । ननु मध्यमा विविक्रियामध्ये का विक्रिया शाश्वतपदेन प्रतिषिध्यत इत्यत्राह - अपक्षय लक्षणेति । कथमित्यतस्तं शब्दं निर्वक्ति - शश्वद्भव इति । शश्वत्सर्वदैकरूपेण भवति विद्यत इति शाश्वत इति फलितार्थमाह- नापक्षीयत इति । लोके द्विविधोऽपक्षयः खरूपकृतो गुणकृतश्च यथा देहस्य वार्धक्ये स्वरूपकृतः, यथा चित्रपटस्य नीलपीतादिगुणक्षयकृतः । स द्विविधोऽप्यात्मनि नास्तीति सहेतुकमाह- स्वरूपेणेति । निरवयवत्वात्स्वरूपेण नापक्षीयते । निर्गुणत्वाच्च गुणक्षयेण नाप्यपक्षीयते । आत्मेति कर्तश्शेषः, अर्थमिति वा पुराणपदमवतारयति - अपक्षयेति । अपक्षयविपरीता वृद्धिलक्षणा विक्रिया पुराण इति पदेन प्रतिषिध्यत इत्यन्वयः । कथं तलाह-यो हीति । अवयवागमेन विद्यमानेभ्यो ऽव- यवेभ्योऽन्येषामवयवानां मायिकानामागमेन हेतुना य उपचीयते स वर्धते अभिनव इति चोच्यते लोकैरिति शेषः । नच वर्धत इत्येवोच्यते न त्वभिनव इति वाच्यं, देवदत्तः बाल्ये दृष्टं यज्ञदत्तं ५३ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशङ्करभाष्योपेतासु अयं त्वात्मा निरवयवत्वात् पुरापि नव एवेति पुराण:- न वर्धत इत्यर्थः । तथा न हन्यते न विपरिणम्यते हन्यमाने विपरिणम्यमाने शरीरे । हन्तिरत्र विपरि णामार्थे द्रष्टव्योऽपुनरुक्ततायै । न विपरिणमत इत्यर्थः । अस्मिन् मन्त्रे षड्भाव- विकारा वस्तुविक्रिया लौकिका आत्मनि प्रतिषिध्यन्ते सर्वप्रकारविक्रियारहित आत्मेति वाक्यार्थः । यस्मादेवं तस्मादुभौ तौ न विजानीत इति पूर्वेण मन्त्रेणास्य सम्बन्धः ||२०|| वेदाऽविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ ! कं घातयति हन्ति कम् ॥ २१ ॥ य एनं वेत्ति हन्तारमित्यनेन मन्त्रेण हननक्रियायाः कर्ता कर्म च न भवतीति प्रतिज्ञाय, न जायत इत्यनेन अविक्रियत्वे हेतुमुक्त्वा, प्रतिज्ञातार्थमुपसंहरति — वेदेति । वेद विजानाति अविनाशिनमन्त्यभावविकाररहितं नित्यं विपरिणामरहितं यो वेदेति सम्बन्धः । तारुण्ये दृष्ट्ा कोऽयमभिनव इव भातीति प्रत्येतीति लोकप्रसिद्धेः । पुराणपदं व्याचष्टे - पुरापि नव एवेति । यथेदानीं तथा पूर्वमप्यभिनव एवात्मा ततश्च पूर्वापेक्षयेदानीं नवत्वाभावान्नास्य वृद्धिरिति भावः । तत्र हेतुमाह — निरवयवत्वादिति । निरवयवस्यात्मनः अवयवान्तरागमनप्रयुक्तवृद्धिर्न कथ- मपि स्यादिति भावः । एवं श्लोकस्य पादत्रयं व्याख्याय तुरीयं पादं व्याचष्टे - न हन्यत इति । हन्यत इत्यस्य म्रियत इत्यर्थवचनेन म्रियत इत्यनेन पुनरुक्तिस्स्यादिति तद्दोषवारणार्थमाह-न हन्यते न विपरि णभ्यत इति । धातूनामनेकार्थत्वादिति भावः । हन्तिरिति इक् तिपौ धातुनिर्देशाविति कात्यायन - स्मरणात् तिपा निर्देशः । हन्तिरि ति हन धातुरित्यर्थः । अपुनरुक्ततायै - पुनरुक्तिदोषाभावायेत्यर्थः । नात्र यकः कर्मविवक्षा- फलाभावात्प्रकृतासाङ्गत्याच्चेत्याह – विपरिणमत इत्यर्थ इति । कर्तर्येवार्यं यगार्षत्वादिति भावः । सर्वे सङ्कलय्याह – अस्मिन्मन्त्र इति । ननु न जायते न म्रियते शाश्वतः पुराण: न हन्यत इति जन्मनाशापक्षयवृद्धिविपरिणामाः पञ्चैव विकाराः प्रतिषिद्धाः, न त्वस्तित्वमिति कथं षड्भाव विकारप्रतिषेध इतिचेत्, मैवम् - अयं भूत्वा नाभवितेत्यनेन तस्य प्रतिषिद्धत्वात् । भूत्वेत्यस्य भवनेनात्मनस्सत्तां सम्पाद्येत्यर्थात् । अथवा अभूत्वा न भवितेत्यनेन तत्प्रतिषेधः पूर्वमभूत्वा पश्चाद्भवनेनात्मनस्तत्तां न गन्तेत्यर्थात् । षड्भावविकारा वस्तुविक्रिया इत्यस्य षड्भावविकारा इति लोके प्रसिद्धा वस्तुविक्रिया इत्यर्थः । यस्मादेवमिति । यस्मादेवमविक्रिय आत्मेत्यर्थः ॥ २० ॥
य एनमित्यादिना वेदाविनाशिनमिति श्लोकमवतारयति - न भवतीत्यस्य आत्मेति कर्तुश्शेषः । यः एनमजमव्ययमविनाशिनं नित्यं वेद हेपार्थ स पुरुषः कथं कं घातयति, के हन्तीत्यन्वयः । अवि- नाशिनित्यपदयोः पौनरुक्त्यं वारयति - अन्त्यभावविकारेति । अन्त्यो यो भावविकारः वस्तुविक्रिया नाश इत्यर्थः । तेन रहितं नाशविपरिणामरूपविकारद्वयवारणार्थं पदद्वयमित्यर्थः । उपजनो जन्म | अत्राविनाशिनित्याजाव्ययशब्दैर्नाशविपरिणाम जन्मापक्षयरूपाश्चत्वारो विकाराः प्रतिषिद्धाः । द्योतयन्ति P · द्वितीयोऽध्यायः । ५३ एनं पूर्वेण मन्त्रेणोक्तलक्षण मजमव्ययमुपजनापक्षयरहितं कथं केन प्रकारेण स विद्वान् पुरुषोऽधिकृतः कं हन्ति हननक्रियां करोति- कं वा कथं घातयति हन्तारं प्रयोजयति न कश्चिद्धन्ति, न कञ्चिद्धातयतीत्युभयत्राक्षेपार्थ एव किंशब्दः । प्रश्नासम्भवाद्धेत्वर्थस्य च तुल्यत्वाद्विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थोऽभिप्रेतो भगवता हन्तेस्त्वाक्षेप उदाहरणार्थत्वेन कथितः । विदुषः सर्वकर्मासम्भवे - कं हेतुविशेषं पश्यन् कर्माण्याक्षिपति श्रीभगवान् – कथं स पुरुष इति । ननूक्तमात्मनोऽविक्रियत्वं कर्मासम्भवकारणविशेषः सत्यमुक्तं नतु सकारण विशेषोऽ- न्यत्वाद्विदुषोऽविक्रियादात्मन इति - न ह्याविक्रियं स्थाणुं विदितवतः कर्म न सम्भवतीतिचेन्न, विदुष आत्मत्वान्न देहादिसन्घातस्य विद्वत्ता, अतः पारिशेष्यादसंहत आत्मा विद्वानविक्रिय चामी अस्तित्ववृद्धिविकारद्वयप्रतिषेधमपि जन्मपूर्वकत्वादस्तित्वस्य क्षयफलकत्वादवृद्धेर्वृद्धिं विना क्षया- योगात् । अधिकृत इति । ज्ञाने इति शेषः । हन्तीत्यत्र प्रकृतिप्रत्ययार्थवाह - हननेति । हनधातो- र्हननक्रियार्थः । तदुत्तरवर्तितिष्प्रत्ययस्य कर्तृत्वमर्थः । कं हन्तीत्यस्य किं कर्म कहननक्रियाश्रय इत्यर्थः । घातयतीति हन्तेर्हेतुमति णिच । नन्तं प्रेरयति घातयति इदमेवाह– हन्तारं प्रयोजयतीति । कं घातयति हन्ति कमित्यस्य फलितार्थमाह-न कश्चिदिति । कथमेतदर्थलाभ इत्यलाह – उभयत्रा- पीति । ननु किंशब्दस्य प्रश्नार्थत्वं हेत्वर्थत्वं वा अस्तु, किमित्याक्षेपार्थत्वमत आह— प्रश्नेति । आत्मविदः यत्किञ्चित्प्राणिकर्मकहननाश्रयत्वाभावात्प्रश्नासम्भवः । हेत्वर्थस्य प्रश्नार्थेन तुल्यत्वादसम्भवः । केन हेतुना हन्तीत्यस्य हेतुविषयक प्रश्नवाचित्वाद्वाक्यस्येति भावः । नन्वात्मविदो हननक्रियाश्रयत्वं मास्तुनाम, तदतिरिक्तस्तुतिनिन्दादिक्रियाश्रयत्वमस्ति किमित्यत आह - विदुषस्सर्वकर्मप्रतिषेध इति । لف विदुषस्सर्वकर्मासम्भवे को हेतुर्भगवताऽभिप्रेत इति पृच्छति – विदुष इति । पश्यन् जान- न्नित्यर्थः । उत्तरयति - ननूक्तमिति । आत्मनः कर्मासम्भवकारणविशेषः अविक्रियत्वमुक्तम् । ननूक्त खलु- य एनमिति श्लोकेनेति भावः । तत्र शङ्कते - सत्यमित्यादिना । सत्यमविक्रियत्वमुक्तं, तु किं तु सः विधेयप्राधन्यात्पुंस्त्वम् - अविक्रियत्वरूपः कारणविशेषः न विदुषो नास्ति । तत्र हेतुमाह- अन्यत्वादिति । अविक्रियादात्मन इति निर्धारणे पञ्चमी । विदुषः अन्यत्वाद्भिन्नत्वात् अविक्रियत्व- मात्मन उक्तं नतु विदुषः- विद्वांस्तु भिन्न एवात्मन इति कृत्वा कथं विदुषस्सर्वकर्मासम्भवे आत्मगत- मंविक्रियत्वं हेतुरस्यान्न कथमपीत्यर्थः । तदेव प्रपञ्चयति — नहीति । अविक्रियात्मतत्त्वविदः पुरुषस्य यदि कर्मासम्भवस्तर्हि अविक्रियस्थाणुविदोऽपि कर्मासम्भव एवेत्यर्थः । परिहरति — नेति । हेतुमाह- विदुष आत्मत्वादिति । य आत्मानं वेति स विद्वानात्मैव यः स्थाणुं वेत्ति न स स्थाणुः अतो न दृष्टान्त दाष्टन्तिकयोरसाम्यमिति भावः । ननु देहादिसङ्घातस्यास्तु विद्वत्तेत्यत आह-नेति । देहादि- समूहस्य जडत्वान्न विद्वतेति भावः । फलितमाह —- अत इति । देहादिसङ्घातस्य विद्वत्ताऽसम्भवा- दित्यर्थः । पारिशेष्यादिति । उक्तातिरिक्तश्शेषः । स एव परिशेषः तस्य भावः पारिशेष्यं तस्मात् आत्मानात्मानौ द्वावेव लोके पदार्थों । तत्रानात्मनोऽविद्वत्तायां सिद्धायामात्मैव परिशिष्ट इति पारिशेष्या- 1 1 I५४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु इति । तस्य विदुषः कर्मासम्भवादाक्षेपो युक्तः कथं स पुरुष इति । यथा बुद्ध्याद्याहृतस्य शब्दाद्यर्थस्य अविक्रिय एव सन्बुद्धिवृत्य विवेकविज्ञानेनाविद्ययोपलब्धाऽऽत्मा कल्प्यते– एवमेवात्मानात्मविवेक विज्ञानेन बुद्धिवृत्या विद्यया असत्यरूपयैव परमार्थतोऽविक्रिय एवात्मा विद्वानुच्यते । विदुषः कर्मासम्भववचनात् यानि कर्माणि शास्त्रेण विधीयन्ते- तान्य- विदुषो विहितानीति भगवतो निश्चयोऽवगम्यते । ननु विद्याप्यविदुष एव विधीयते विदित- विद्यस्य पिष्टपेषणवत् विद्याविधानानर्थक्यात्तत्राविदुषः कर्माणि यानि शास्त्रेण विधीयन्ते दात्मैव विद्वानित्यर्थः । असंहत इति एकत्वादसङ्गत्वा चान्यैरमिलित इत्यर्थः । तस्य दिदुष इति आत्मनो विदुष इत्यर्थः । आक्षेपखरूपमाह - कथं स पुरुष इति । कथं स पुरुषः पार्थ के घातयति हन्ति कमितीत्यर्थः । ननु अविक्रिये आत्मनि विद्वत्तारूपस्य विकारस्य कथं सङ्गतिरत आह- यथेति । शब्दा- द्यर्थस्य शब्दस्पर्शरूपरसगन्धात्मक विषयपञ्चकस्य तदाश्रयघटादिद्रव्यस्य च बुद्ध्याद्याहृतस्य इन्द्रियसह- कृतान्तःकरणेन गृहीतस्य सतः चक्षुरादीन्द्रियद्वारा निर्गतान्तःकरणवृत्तौ घटादिविषयाकारेण परिणम्य घटोऽयमित्यादिविषयज्ञानं जनयन्त्यां सत्यामित्यर्थः । अविक्रिय एव सन्नात्मा बुद्धिवृत्त्यविवेकविज्ञानेन बुद्धिवृत्तेरात्मनश्च तादात्म्याध्यासप्रयुक्तेन विवेकज्ञानाभावेन हेतुना अविद्यया उपलब्धा प्रमाता कल्प्यते, अविद्यया यद्बुद्धिवृत्त्यविवेकविज्ञानं तेनेति वाऽन्वयः । अस्मिन्मते कल्प्यत इत्यस्य लोकैरिति कर्त- श्शेषः । काका क्षिन्यायेनाविद्यया कल्प्यत इत्येव वा । अविक्रियस्याप्यात्मनः अविद्याकृताद्विषया- कारपरिणतबुद्धिवृत्तितादात्म्याभ्यासाद्यथा प्रमातृत्वव्यवहारः कल्पित इति पर्यवसन्नार्थः । एवमेव असत्य - रूपया अविद्यामयत्वादिति भावः । आत्मानात्मविवेकविज्ञानेन अहं ब्रह्मास्मीत्यादिरूपेणेत्यर्थः । बुद्धि- वृत्त्या विद्यया तत्तादात्म्याध्यासादित्यर्थः । परमार्थतोऽविक्रिय एवात्मा विद्वानित्युच्यते । महावाक्यार्थ- जन्या है ब्रह्मास्मीत्याद्याकारक बुद्धिवृत्तितादात्म्याध्यासादविक्रियस्याप्यात्मनस्तथा विद्वत्त्वव्यवहारः कल्पित इति परमार्थ: । अहं ब्रह्मेत्याद्याकारक बुद्धिवृत्तेर्विद्यारूपत्वात्तत्तादात्म्याघ्यासेनात्मनः प्राप्तं विद्वत्त्वं याथा.. विषयग्राहिबुद्धिवृत्तितादात्म्याध्यासाद्विषयग्राहित्वलक्षण प्रमातृत्वं तद्वत् । अनेन चाध्यासिकेन बुद्धिवृत्ति- सम्बन्धेन न कोप्यात्मनोऽस्ति विकार इति भावः । ननु विदुषस्सर्वकर्मासम्भवे ज्योतिष्टोमेन यजेतेत्यादिविधीनां का गतिरित्यत आह - विदुष इत्यादि । ननु कर्माण्येवाविदुषो विहितानीति कोऽयं नियम:- आत्माडवारे द्रष्टव्य इत्यादिना विद्या- प्यविदुष एव विधीयत इति पृच्छति कश्चित् - नन्वित्यादिना - तत्वेति । एवं सतीत्यर्थः । यानि कर्माणि शास्त्रेण विधीयन्ते तान्यविदुष एव नतु विदुष इति विशेषो नियमो नोपपद्यते इत्यन्वयः । या तु विद्या शास्त्रेण विहिता सां विदुष एवेति नियमासिद्धेरिति भावः । यदि विद्या विदुष एव विहितेति नियमस्सिंध्येत्तर्हि कर्माण्यविदुष एवेति नियमस्सिध्यतु, नतु तदस्तीति तत्त्वम् । नच विद्या- कर्मद्वयमप्यविदुष एव विहितं नतु विदुषः कोपि विधिरिति वाच्यं, ज्ञानयोगेन साङ्ख्यानामिति विदुषो द्वितीयोऽध्यायः । न विदुष इति विशेषो नोपपद्यते- नानुष्ठेयस्य भावाभावविशेषोपपत्तेः । ५५ अग्निहोत्रादिविध्यर्थविज्ञानोत्तरकालमग्निहोत्रादिकर्मानेकसाधनोपसंहार पूर्वकमनुष्ठेयं– कर्ताहं मम कर्तव्यमित्येवंप्रकार विज्ञानवतोऽविदुषो यथाऽनुष्ठेयं भवति नतु तथा न जायत इत्याद्यात्मस्वरूपविध्यर्थज्ञानोत्तरकालभावि किञ्चिदनुष्टयं भवति - नाहं कर्ता नाहं भोक्तेत्यादि- नात्मैकत्याकर्तृत्वज्ञानाश्नान्यदुत्पद्यत इत्येष विशेष उपपद्यते । यः पुनः कर्ताहमिति वेच्यात्मानं तस्य ममेदं कर्तव्यमित्यवश्यम्भाविन्यनुष्ठेयबुद्धि- विद्याविधेर्वक्ष्यमाणत्वात् । परिहरति-नेति । अनुष्ठेयस्य भावाभावाभ्यामविदुषः कर्माणि नतु विदुष इति विशेषस्योपपत्तेरित्यर्थः । 1 तदेव प्रपञ्चयति - अग्निहोत्रेति । अग्निहोत्रादिविधिवाक्यार्थज्ञानानन्तरमनेकसाधनोपसंहार- पूर्वकमग्निहोत्रादि कर्मानुष्ठेयं - साधनान्युपकरणानि । उपसंहारः सम्पादनम् । कस्यानुष्ठेयमत आह- कर्तेति । अहं कर्ता ममेदं कर्तव्यमित्येवंप्रकारकं विज्ञानं यस्यास्ति तस्याविदुषः- यथा अविदुषः कर्मानुष्ठेयं भवति तथा विदुष इति शेषः । न जायत इत्याद्यात्मस्वरूपविध्यर्थज्ञानोत्तरकालभाव किञ्चि- दनुष्ठेयं कर्म न भवतीत्यन्वयः । आत्मस्वरूप प्रतिपादकवाक्यार्थ इहात्मस्वरूपविध्यर्थ इत्युक्तः । नह्यात्म- स्वरूपे कश्चिद्विविरस्ति । यद्वा आत्मा वाडरे द्रष्टव्यश्श्रोतव्य इत्यादय आत्मस्वरूपविधयः । न जायत इत्यादिनोक्तं यदात्मस्वरूपं तस्य विधयः श्रोतव्य इत्यादयः । तदर्थज्ञानोत्तरकालभावीत्यर्थः । नाहं कर्ता नाहं भोक्तेत्यादिना शास्त्रेण आत्मैकत्वा कर्तृत्वज्ञानादन्यन्नोत्पद्यते । नाहं कर्ता नाहं भोक्तेत्यादिशास्त्र- मात्मन एकत्वमकर्तृत्वं च बोधयति न त्वन्यदित्यर्थः । एष विशेष इति । कर्ताहं ममेदं कर्तव्यमिति विज्ञानवतो विदुषश्शास्त्रेण ‘वसन्ते वसन्ते ज्योतिषा यजे ‘तेत्यादिना कर्माणि वहितानि विदुषस्तु कामः कर्ता नाहं कर्तेत्यादिना शास्त्रेण आत्मैकत्वाकर्तृत्वज्ञानमात्रमुत्पन्नमित्ययं विशेष उपपद्यत इत्यर्थः । एतेन विदितविद्यस्य पिष्टपेषणवद्विद्या विधानानर्थक्यमिति प्रश्नो दत्तोत्तर:- विद्याविधानाभावात् । ननु विदुषः नार्हं कर्तेत्यादिना आत्मैकत्वाकर्तृत्व ज्ञानमात्रमुत्पन्नमितीदमयुक्तं तद्ज्ञानोत्पत्तेः प्राक्तस्य विद्व- ताया एवाभावादिति चेत्सत्यम् - अत एवात्मा कर्तृत्वज्ञानान्नान्यदुत्पद्यत इत्युक्तं तद्ज्ञानं तु प्रागेव सिद्धमिति । नच तर्हि विद्या व्यर्थेति वाच्यं, आत्मविदः कर्मसु नाधिकारः- किंतु स्वस्वरूपदर्शन एवे- त्येतदर्थं विद्याया आवश्यकत्वात् । वस्तुतस्तु विद्यानामात्मानात्मविवेकज्ञानं ‘अहमात्मा देहादिरय- मनात्मा’ इत्येवं प्रकारकं विवेकविज्ञानमेव विद्या- अस्यां हि कर्ताहमित्यविद्वान्नाधिक्रियते विरोधात् । किंतु- न जायत इत्याद्यात्मस्वरूपं विद्वानेवाधिक्रियते- आत्मानात्मस्वरूपज्ञ / नपूर्वकत्वादात्मानात्मविवेक- विज्ञानस्य । तस्मादात्मानात्मस्वरूपज्ञानिन एवं विदुषः आत्मानात्मविवेकविज्ञानरूपविद्यायामधिकार इति न पिष्टपेषणात्मकदोष इति । अविदुष एव कर्मस्वधिकार इतीममंशं प्रपञ्चयति यः पुनरिति । यः पुनः यस्तु आत्मानं कर्ताहमिति वेत्ति जानाति अवश्यम्भवतीत्यवश्यम्भावि तस्मिन् यज्ञादिकर्मणीत्यर्थः । अनुष्ठेयमिति ५६ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु स्स्यात् - तदपेक्षया सोऽधिकृत इति तं प्रति कर्माणि स चाविद्वान् उभौ तौ न विजानीत इति वचनात् विशेषितस्यच विदुषः कर्माक्षेपवचनाच्च कथं स पुरुष इति तस्माद्विदुषो मुमुक्षश्च सर्वकर्मसन्न्यास एवाधिकारः । अत एव भगवान्नारायणस्साङ्ख्यान् विदुषः अविदुषश्च कर्मिणः प्रविभज्य द्वे निष्ठे ग्राहयति — ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मिति । तथा च पुत्रायाह भगवान् व्यासः - ’ द्वाविमावथ पन्थाना वित्यादि । तथाच क्रियापथश्चैव पुरस्तात् पश्चात्सन्न्यासश्चेति । एतमेव विभागं पुनः प्रदर्शयिष्यति भगवान् – अतत्त्ववित्- अहङ्कारविमूढात्मा कर्ताहमिति मन्यते, तत्त्ववित्तु नाहं करोमीति । तथा च सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखमित्यादि । तत्र केचित् पण्डितम्मन्या वदन्ति — जन्मादिभावविकाररहितः अविक्रियोऽकतैको हमात्मेति न कस्यचिद्विज्ञानमुत्पद्यते यस्मिन्सति सर्वकर्मसन्न्यास उपपद्यत इति । बुद्धिरनुष्ठेयबुद्धि: - तदपेक्षया तबुद्धयपेक्षया अधिकृत इति । कर्मस्थिति शेषः । कर्माणीति । विहितानीति शेषः । विशेषितस्येति । अविक्रियात्मज्ञानवत इत्यर्थः । वेदाविनाशिनं नित्यमिति विविच्य दर्शितस्येति यावत् । कथं स पुरुष इति कर्माक्षेपवचनाश्चित्यन्वयः । उपसंहरति—तस्मादिति । अविक्रियात्मस्वरूपं विदुषस्सर्व कर्मासम्भवादित्यर्थः । विदुषोपि प्रारब्धवशाल्लोकानुग्रहार्थे वा कर्मस प्रवृत्तिस्स्याज्जनकवद्वासुदेव वच्चेत्याशङ्कयाह – मुमुक्षोश्चेति । मुक्तत्वाज्जनकादीनां न कुत्राप्यधिकार इति भावः । अथवा अविदुषोपि मुमुक्षोस्सन्न्यास एवाधिकार :- विद्यासन्न्यसो विविदिषासन्न्यासश्चेति सन्यासद्वयदर्शनात् । गृहस्थस्य कर्मसु प्रवृत्तस्य दारापत्यादिकुटुम्ब पोषणालसस्य वेदान्तश्रवणमनना- द्यसम्भवात् तं विना आत्मज्ञानालाभाच्चात्मानं जिज्ञासुः पुरुषः संसाराद्भीतः तीत्रमुमुक्षुः सद्य एव प्रव्रजेत्- ‘यदहरेव विरजेत्तदहरेव प्रव्रजेदिति श्रुतेः इतीममर्थ दर्शयितुं मुमुक्षोश्चेत्युक्तम् । एतेनाविदुषो- प्यमुमुक्षोरेव कर्मधिकार इति सिद्धम् । स्वोक्तार्थे भगवन्तं वासुदेवमेव प्रमाणयति – अत एव भगवानिति । अत एव - विदुषां ज्ञाने अविदुषां कर्मणि चाधिकारसत्त्वादेवेत्यर्थः । विदुषः कर्मण्यधि- काराभावादेवेति वा । प्रदर्शयिष्यतीति । तृतीयाध्याये - ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमितिमन्यते ॥ तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणागुणेषु वर्तन्त इति मत्वा न सज्जते ॥’ इति श्लोकद्वयेनेति भावः । तत्र हि तत्त्ववित्त्विति तुशब्दात्प्रकृतेरिति श्लोकोऽ- तत्त्व विद्विषय:- अहङ्कारविमूढात्मा कर्ताहमिति मन्यत इत्यनेन तत्त्वविन्नाहङ्करोमीति मन्यत इति सिद्धम् । तदेतदाह - अतच्च विदित्यादिना । तथा पञ्चमाध्याये - ‘सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देहे नैव कुर्बन कारयन्निति वक्ष्यतीत्याह – तथाचेति । 1 तत्रेति । विदुषो नास्ति कर्माधिकार इत्यत्रेत्यर्थः । पण्डितमात्मानं मन्यन्ते पण्डितम्मन्याः लोका एतान् पण्डितान्न मन्यन्ते किंतु स्वयमेव स्वानित्यर्थः । अपण्डिता इति यावत् । द्वितीयोऽध्यायः । ५७ तन्न, न जायत इत्यादिशास्त्रोपदेशानर्थक्यात् । यथा च शास्त्रोपदेशसामर्थ्याद्धर्मा- धर्मास्तित्वविज्ञानं कर्तुश्च देहान्तरसम्बन्धविज्ञानमुत्पद्यते - तथा शास्त्रात्तस्यैवात्मनः अविक्रि- यत्वाकर्तत्वैकत्वादिविज्ञानं कस्मान्नोत्पद्यत इति प्रष्टव्यास्ते । करणागोचरत्वादिति चेत् न, न जायत इति । यदि न जायत इत्यादिना शास्त्रेण अविक्रिय अलैक इति ज्ञानं श्रोतु- र्नोत्पद्यते तर्हि किमर्थं तच्छास्त्रम् । ननु सन्न्यासात्प्राग्वेदान्तशास्त्रश्रवणे नास्त्यधिकारः - ‘शान्तो दान्त उपरत’ इति श्रुतिगतोपरतशब्दस्य सन्न्यासार्थवचनात् । गीताशास्त्रं च वेदान्तशास्त्रमेव भगवद्गीतासूपनिष- स्वित्युक्तत्वात् न जायत इत्यादिना विदितात्मतत्त्वस्यैव सर्वकर्म सन्न्यासाधिकारं ब्रूते भगवान् - अतः परस्पराश्रयदोषः सन्न्यासे सति न जायत इति शास्त्रोपदेश :- न जायत इति शास्त्रोपदेशेसति सन्न्यास इतिचेत्, मैवम् – गृहस्थानामपि जनकादीनां वेदान्तश्रवणदर्शनात् । श्रुतिस्तु वेदान्तश्रवणे सन्न्या- सिनां मुख्याधिकारं ब्रूते । तेनाश्रमान्तराणामस्ति गौणोऽधिकारः । यद्वा सन्न्यासिनां वेदान्तश्रवणा- दिष्वेवाधिकारो न त्वन्यत्रेति नियमार्थमुपस्तपदम् । अथवा उपरतिर्न सन्न्यास:- किंतु चित्तविक्षेपाभावः सहि गृहस्थस्याप्युपपद्यते जनकवत् । वस्तुतस्तु अधीतसाङ्गस्वाध्यायस्य शमदमादिसंस्कृतस्य वेदान्त- शास्त्रेऽधिकार इति, अथातो ब्रह्मजिज्ञासेति सूत्रेण प्रतिपादितम् । खाध्यायो वेद:- तस्मिन्नेव सन्त्युप- निषद इति कृत्वा ब्रह्मचर्याश्रमे एव वेदान्तश्रवणं सम्पद्यते द्विजस्य । व्याकरणादिना च वेदान्ताना- मर्थमापाततो जानाति । ततश्चाविक्रिय आत्मेति विज्ञानं तस्योपपद्यते तदेवापातब्रह्मात्मज्ञानं द्रढयितुं यावद्ब्रह्मात्मसाक्षात्कारं वेदान्तश्रवणमननादिकस्य कर्तव्यत्वादाश्रमान्तरेषु कर्मबाहुल्येन तदसम्भवान्मुमुक्षु- रयं विद्वान् सन्न्यस्य ब्रह्मनिष्ठगुरूपसतिं कृत्वा वेदान्तश्रवणमननादिकं करोतीत्येष घण्टापथः । अतो न सन्न्यासवेदान्तश्रवणयोरन्योन्याश्रयदोषः- आपाततो वेदान्तश्रवणानन्तरं प्राधान्येन वेदान्तश्रवण- मित्युक्तत्वात् । अत एव वेदान्तश्रवणे गृहस्थानामप्यधिकार इति, सन्न्यासिनामेवाधिकार इति च पक्षद्वयं प्रवृत्तम् । वेदान्तश्रवणस्यापातत्वप्राधान्याभ्यां ये तु महानुभावाः प्रारब्धसुकृतातिशयवशात्सकृ- द्वेदान्तश्रवणादेव ब्रह्मात्मापरोक्ष्यं लभन्ते शुकजनकवामदेवादिवत् तेषां तु न क्वाप्यधिकारः - आत्म-: न्यधिकारासम्भवादिति बोध्यम् । ननु शास्त्रादपि कथमप्रसिद्धर्थाभ्युपगमोडत आह-यथाचेति । धर्माधर्मौ तत्प्रयुक्तदेवनारक- शरीरविशेषपरिग्रहौ च प्रत्यक्षादिप्रमाणाविषयत्वेनाप्रसिद्धावपि यथा आगमप्रामाण्यादास्तिकैरभ्युपगम्येते तद्वदात्माविक्रियत्वादिकमपीत्यर्थः । ननु धर्माधर्म स्वर्ग नरकादिनां प्रत्यक्षाविषयत्वेपि मनोवाग्विषयत्वमस्ति - मनसा इदमीदृशमिति सङ्कल्पयितुं वाचा वक्तुं च सुशकत्वात् । अतः तत्र शास्त्रं प्रमाणं भवतुनाम ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे’ति श्रुत्या वाङ्मनसागोचरे ब्रह्मणि कथं शास्त्रस्य प्रामाण्यमिति पृच्छति — करणा- गोचरत्वादिति । करणानां विषयग्रहणसाधनानां मन आदीनांमगोचरत्वाद्धेतोश्शास्त्रोपदेशादात्मा- ५८ श्रीभगवद्गीतासु भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु मनसैवानुद्रष्टव्यमिति श्रुतेः । शास्त्राचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करणम् । तथा च तदधिगमायानुमाने आगमे च सति ज्ञानं नोत्पद्यत इति साहसमेतत् । ज्ञानं चोत्पद्यमानं तद्विपरीतमज्ञानमवश्यं बाधत इत्यभ्युपगन्तव्यम् । तच्चाज्ञानं दर्शितं हन्ताह हतोस्मीत्युभौ तौ न विजानीत इति । अत्र चात्मनो हननक्रियायाः कर्तृत्वं चाज्ञानकृतं दर्शितं तच्च सर्वक्रियास्वपि समानं कर्तृत्वादेरविद्याकृतत्वमविक्रियत्वादात्मनः । विक्रियावान् हि कर्ताऽऽत्मनः कर्मभृतमन्यं प्रयोजयति — कुर्विति । तदेतदविशेषेण विदुषस्सर्वक्रियासु कर्तृत्वं हेतुकर्तृत्वं च प्रतिषेधति भगवान् वासुदेवः- विदुषः कर्माधिकाराभावप्रदर्शनार्थं वेदा- विनाशिनं कथं स पुरुष इत्यादिना । क्व पुनर्विदुषोऽधिकार इति । एतदुक्तं पूर्वमेव- ज्ञान- योगेन साङ्ख्यानामिति । तथा च सर्वकर्मसन्न्यासं वक्ष्यति - सर्वकर्माणि मनसेत्यादिना ।
ननु मनसेति वचनान्न वाचिकानां कायिकानां च सन्न्यास इति न, सर्वकर्माणीति विशेषितत्वात् - मानसानामेव सर्वकर्मणां प्रतिषेध इतिचेन्न मनोव्यापारपूर्वकत्वात् वाक्काय- कर्तृत्वादिविज्ञानं नोत्पद्यत इति पूर्वपक्षार्थः । परिहरति सिद्धान्ती - नेति । हेतुमाह — मनसैवेति । अप्राप्य मनसा सहेति श्रुतिविरोधं परिहरति - शास्त्रेति । असंस्कृतेन मनसा सहेति तच्छ्रुत्यर्थान्न दोष इति भावः । नन्वात्मनः संस्कृतमनोवेद्यत्वाभ्युपगमें स्वतस्सिद्धत्वं नित्यापरोक्षत्वं च हीयेतेति चेत्, मैवम् - नित्यापरोक्षः स्वतस्सिद्धोप्यात्मा अविद्यया परोक्ष इव साध्य इव च प्रतिभाति तदवि- द्यानिरसने तु संस्कृतं मनः करणं तादृश मनोवृत्त्या अहं ब्रह्मेत्याकारिकया विद्यया नष्टायामविद्याया - मविक्रिय आत्मा स्वयं प्रमः स्वयं स्फुरतीति । ननु आत्मनः अकर्तृत्वान्मनसः करणत्वेन कर्तृत्वाभावाच कथमत्र मनोव्यापारसिद्धि: ? कर्त्रघीनो हि करणव्यापार इति चेत्, उच्यते - अस्ति बुद्धयवच्छिन्न- ‘चैतन्यलक्षणः अविद्या कल्पितः प्रमाताल कर्ता - स चात्मानं मनसा वेत्ति - नाहमवच्छिन्नः किंतु परिपूर्णोऽ- विक्रिय आत्मैव - ज्ञानघनेऽसङ्गे मय्यात्मनि कालत्रयेप्यविद्यायास्तत्कार्यबुद्ध्यादीनां वा वृत्त्ययोगादिति । तदधिगमायेति । आत्मनोऽविक्रियत्वैकत्वादिज्ञानाय - अनुमाने- आत्मा अविक्रिय:- निरवयवत्वा- यतिरेकेण घटादिवदित्याद्यनुमाने सति - आगमे न जायत इत्यादिशास्त्रे च सति ज्ञानं नोत्पद्यते इत्येत- त्साहसमेव । सति कारणे कुतः कार्यानुदय इति भावः । ज्ञानं चेति । अविक्रिय एकोऽकर्तात्मेत्येवं रूप- अज्ञानं कर्तार्ह भिन्नोऽहं भोक्ताहमित्येव 1 रूपम् । सर्वक्रियासु - गमनादिसमस्त क्रियासु सर्वक्रियास्वपि आत्मनः कर्तृत्वादेरविद्याकृतत्वरूपं तत्पूर्वोकं समानमित्यन्वयः । यद्वा तदात्मनः कर्तृत्वादेरविद्याकृतत्वं च सर्वक्रियास्वपि समानमित्यन्वयः । तत्र हेतुमाह - अविक्रियत्वादात्मन इति । अविक्रियत्वादात्मनः सर्वक्रिया निरूपितकर्तृत्वादिविकारो नोप- पद्यत इत्यर्थः । अविशेषेणेति । हननादिविशेषाभावेनेत्यर्थः । विशेषितत्वादिति । कर्मणां सर्वविशेषणस्य दत्तत्वादित्यर्थः । सर्वेति । मनोव्यापाराभावे सर्व- द्वितीयोऽध्यायः । ५९ व्यापाराणां सर्वव्यापाराणां तत्पूर्वकत्वात् मनोव्यापाराभावे भावानुपपत्तेः । शास्त्रीयाणां वाक्काय कर्मणां कारणानि मानसानि कर्माणि वर्जयित्वाऽन्यानि सर्वकर्माणि मनसा सन्न्यस्यास्त इतिचेन्न, नैव कुर्वन्नकारयन्निति विशेषणात् । सर्वकर्मसन्न्यासोऽयं भगवतोक्तः मरिष्यतो न जीवत इतिचेन्न, नवद्वारे पुरे देह आस्त इति विशेषणानुपपत्तेः । नहि सर्वकर्मसन्न्यासेन मृतस्य देहे आसनं सम्भवति - अकुर्वतो कास्यतश्च देहे सन्न्यस्येति सम्बन्धो न देह आस्त इतिचेन्न, सर्वत्रात्मनः अविक्रियत्वावधारणात् - आसनक्रियायाश्चाधिकरणापेक्षत्वात्तदनपेक्षत्वाच्च व्यापाराणां भावानुपपत्तेरित्यन्वयः । तत्र हेतुमाह - तत्पूर्वकत्वादिति । मानसिककर्माणि नाम सङ्कल्प- रूपमनोव्यापारा एव गच्छेयं वदेयं हन्यामित्येवमादौ मनसा सङ्कल्प्यैव सर्वोपि गमनभाषणहननादि- क्रियाः वाचिकीः कायिकीश्च करोति, न त्वसङ्कल्प्येत्यर्थः । तदैक्षतेतीश्वरजगत्सृष्ट्यादिव्यापारस्यापि सङ्कल्पपूर्वकत्वश्रवणादिति भावः । पुनरशङ्कते पूर्ववादी - शास्त्रीयाणामिति । वेदपाठज्योतिष्टोमादीना - मित्यर्थः । नैवेति । अशास्त्रीयाणि सर्वाणि कर्माणि मनसा सन्न्यस्येत्युक्तौ नैव कुर्वन्नित्यादि व्यर्थ – मनसा सन्न्यस्येत्यनेनैव वाचा कायेन चाकरणस्य सिद्धत्वात् इत्यर्थः । सिद्धान्ते तु मनसा विवेक- बुद्धया कर्मादावकर्मदर्शनेन सन्त्यज्येत्यर्थ इति । आत्मसमवायिकर्तृत्व कारयितृत्वयोर्वारणार्थं नैव कुर्वन्न कारयन्निति च वक्ष्यति - मरिष्यत इत्यासन्नमरणस्येत्यर्थः । गमनभोजनादिसर्वकर्मो परमस्तस्यैव सञ्जा- घटीतीति भावः । न जीवत इति । जीवतस्तु भोजनादिकर्माण्यवर्जनीयानीति भावः । आस्त इति । आस उपवेशन इति धातोर्वर्तमानेलड्विधानात् । जीवत एव सिद्धिरिति भावः ।
तदेव प्रपञ्चयति-नहीति । मृतः कथं सर्वाणि कर्माणि सन्न्यस्य देहे तिष्ठेदित्यर्थः । ननु सर्वकर्माणि मनासा नवद्वारपुरे देहे सन्न्यस्य निक्षिप्य नैव कुर्वन्न कारयन्वशी आस्ते इति श्लोक- स्यान्वयमाशङ्कते - अकुर्वत इति । अकुर्वतोऽकारयतश्च आत्मनस्सर्वकर्माणि मनसा देहे सन्न्यस्य वशी सुखमास्त इति सम्बन्धः । नतु देह आस्त इतीत्यन्वयः । सन्न्यासक्रियाधिकरणत्वमेव देहस्य नतूपवेशक्रियाधिकरणत्वमिति परमार्थः । देहेन कर्माणि क्रियन्ते कार्यन्ते च, नतु मयेत्यनुसन्धानपूर्वकं सर्वकर्माणि कर्तव्यानि विदुषोपीति पूर्वपक्ष्याशयः । परिहरति — नेति । हेतुमाह - सर्वत्रेति । अवि- क्रिये आत्मनि देहाधिकरणककर्म सन्न्यासक्रियाकर्तृत्वमपि नोपपद्यत इत्यर्थः । नच सर्वकर्मत्यागकर्तृत्व- मपि कथमिति वाच्यं, सर्वकर्मत्यागस्य निवृत्तिरूपस्याक्रियात्वात् । निक्षेपस्य च क्रियात्वादिति । किंच देहे आस्ते इति पदयोरसाकांक्षत्वमस्ति नतु देहे सन्न्यस्येति पदयोरित्याह – आसनेति । आधेय- निष्ठा ह्यासन किया खाधिकरणमाघारमाकांक्षते आस्ते इत्युक्तौ वास्ते इत्याकांक्षाया उत्थितत्वादित्यर्थः । नच घटं भुंवि निक्षिप्येति निक्षेप क्रियाया अप्यधिकरणापेक्षत्वमस्तीति वाच्यं, सरूपस्य घटादेर्निक्षेप- स्याधिकरणापेक्षत्वेपि नीरूपकर्मनिक्षेपो नाधिकरणापेक्ष:- नहि गमनं निक्षिप्येत्युक्तौ कुत्र निक्षिप्ये- त्याकांक्षा जायते । ६० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाप्योपेतासु सन्न्यासस्य । सम्पूर्वस्तु न्यासशब्दस्त्यागार्थो न निक्षेपार्थः । तस्माद्गीताशास्त्रे आत्मज्ञानवतः सन्न्यास एवाधिकारो न कर्मणीति तत्त्रतत्रोपरिष्टादात्मज्ञानप्रकरणे प्रदर्शयिष्याम:- प्रकृतं तु वक्ष्यामः ॥२१॥ दोषान्तरमाह – सम्पूर्व इति । न्यासशब्दस्य निक्षेपार्थकत्वेपि सन्न्यासशब्दो न निक्षेपार्थ:– उपसर्गवशादर्थान्तरप्रतीतेः । अतस्सन्न्यस्य सर्वाणि कर्माण्यात्मावबोधत इत्यादिप्रयोगादिति भावः । उपसंहरति — तस्मादिति । सर्वकर्माणि मनसेत्यादिना विदुषां सर्वकर्मसन्न्यास एवाधिकार इति भगवता वक्ष्यमाणत्वादित्यर्थः । न कर्मणीति । ननु विदुषो जीवतस्सर्वकर्मसन्न्यासो दुर्लभ :- भोज- नादिकर्मणामवर्जनीयत्वादिति, चेन्मैवम् — यानि शास्त्रेण विहितानि यानि च निषिद्धानि तेषु अविद्वा- नेवाधिकारी नतु विद्वानित्येतावत एवेह विवक्षितत्वात् । भोजनादीनि तु अविहितत्वादनिषिद्धत्वाच्च न कर्माणीति । यद्यविद्वान् भोजनादावधिक्रियते शास्त्रात्तर्हि तत्र विदुषोऽधिकारो न भवेदेव । नतु तथास्ति । तस्मान्न भोजनादेः कर्मत्वं नापि तत्र प्रवर्तमानस्याधिकृतत्वमिति संक्षेपः ।
अत्राह रामानुजः – स पुरुषो देवमनुष्यतिर्यवस्थावरवरशरीरेष्ववस्थितेष्वात्मसु कमप्यात्मानं कथं घातयति कं वा कथं हन्तीति, तदयुक्तम् – ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्, य एनं वेत्ति हन्तारं, अजो नित्यः शाश्वतोयं पुराणः, वेदाविनाशिनं नित्यं य एनमजमव्ययम्, अन्तवन्त इमे देहा नित्यस्योक्ता शरीरिणः, नवानि देही, नैनं छिन्दन्ति शस्त्राणि, अच्छेद्योयं, अव्यक्तोयं, आश्चर्यव- त्पश्यति कश्चिदेन’ मित्यादिषु सर्वत्राप्यात्मन एकत्वेनैव निर्देशात् - अनेकत्वे परिच्छिन्नत्वेनानित्यत्व- प्रसङ्गात् । निरवयवत्वात्परमाणुपुञ्जवदात्मसमूहस्य नानित्यत्वमिति न वाच्यं निरवयवपरमाणुपुञ्जस्यै- वानभ्युपगमात् नहि निरवयवानां परमाणूनां पुञ्जत्वं स्यात् - सावयववस्तुसंयोगात्खलु पुत्रलाभ:- सावय- वस्य वस्तुन उपचयो, नतु निरवयवस्येति त्वयाप्युक्तं प्राक् । नच पुञ्जो मास्तुनाम निरवयवाः परमाणव- स्सन्ति नित्या- यथा तथा आत्मान इति वाच्यं निरवयवपरमाणूनामेवाप्रमाणत्वात् - मार्तिकाद्यणुपुञ्ज- स्यैव घटादिकार्योपादानत्वात् - परमाणुकारणवादस्य च शारीरक मीमांसायां प्रत्याख्यातत्वात् । निरवयव- परमाणुतुल्यस्यात्मनस्सर्ववस्तुसं योगाभावेन सर्वावभासकत्वासम्भवात् । ’ तस्य भासा सर्वमिदं विभा’ तीति श्रुत्या आत्मनस्सर्वावभासकत्वस्योक्तत्वात् तत्रात्मानामेश्वर इत्यभ्युपगमेपीश्वरस्यापि जीवादपि सूक्ष्मत्वेन सुतरां सर्वावभासकत्वासम्भवाच्च । तथा देवमनुष्यतिर्यवस्थावरशरीरावस्थितात्मस्थिति मूलाद्बहिः पदपरम्परा कल्पनमप्यप्रमाणं- य आत्मानं नित्यं वेद स कथमात्मानं हन्तीत्युक्तौ यस्त्वनित्यं वेद स हन्त्येवात्मानमित्यापतति, तच्चानिष्टं विदितस्याविदितस्य वा आत्मनः नित्यत्वात् नहि ज्ञानमात्रेणात्मनस्स्यान्नित्यत्वं ज्ञानात्पूर्वमविद्यमानम् । तस्माद्यो बेद स इत्यपार्थम् । यदि मूलकर्तरियं विवक्षा स्यात्तर्हि कः कथं नित्यमात्मानं हन्ति कं घातयत्यपीत्येव ब्रूयात् । . किंच कमित्यपि व्यर्थमेव सर्वत्र ज्ञानैकाकारत्वादिभिरात्मन एकरूपत्वस्य त्वयापीष्यमाणत्वात् । द्वितीयोऽध्यायः । वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २२ ॥ ६१ तत्रात्मन:- अनाशित्वं प्रतिज्ञातं तत्किमिवेत्युच्यते - वासांसीति । वासांसि वस्त्राणि जीर्णानि दुर्बलतां गतानि यथा लोके विहाय परित्यज्य नव्यान्यभिनवानि गृह्णाति उपा- दत्ते - नरः पुरुषः- अपराण्यन्यानि तथा तद्वदेव शरीराणि विहाय जीर्णान्यन्यानि संयाति सङ्गच्छति नवानि देह्यात्मा पुरुषवद विक्रिय एवेत्यर्थः ॥ २२ ॥ नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । नचैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥ कस्मादविक्रिय इत्यत आह-नेति । नैनं प्रकृतं देहिनं छिन्दन्ति निरवयवत्वान्नावयव- विभागं कुर्वन्ति - शस्त्राण्यस्यादीनि । तथा नैनं दहति पावकोऽग्निरपि न भस्मीकरोति । तथा नचैनं क्लेदयन्त्यापः- अपां हि सावयवस्य वस्तुन आर्द्राभावकरणेनावयव विश्लेषापादने यत्सामर्थ्य तन्निरवयव आत्मनि न सम्भवति तथा स्नेहवद्रव्यं स्नेहशोषणेन शोषयति वायुरेनं त्वात्मानं न शोषयति मारुतोपि ॥ २३ ॥ कः कथं नित्यमात्मानं हन्ति वा घातयत्यपीत्येव ब्रूयात् । अपि च- नित्यात्मविदः नित्यात्महननाक्षेपेण अनित्यानात्महननं निराक्षेपं प्राप्तम् । नित्यात्मकर्मकहननेतरक्रियाश्रयत्वं च प्राप्तं, उभयमपीदम निष्टं– ’ मा हिंस्यात्सर्वभूतानी’ति विद्वदविद्वत्साधारण्येन निषिद्धाया हिंसाया आत्मज्ञे विदुषि प्रसक्तत्वात् – पश्वादिप्राणिहिंसायामपि नात्मनो हिंसा किं त्वनात्मनो देहस्यैव हिंसेत्यनात्महननस्य विदुषो निराक्षेप- त्वात् । तथा नित्यात्मानं विद्वान्न हन्ति न घातयति, किंतु स्तौति निन्दति तिरस्करोतीत्येवं विदुष आत्मदूषणादिकं हि नरकावहम् । तस्मादात्मविदस्सर्वकर्माधिकारासम्भव एवानेन श्लोकेनोच्यत इत्यनवद्यम् ॥२१॥ वासांसीति श्लोकमवतारयति — तत्रेत्यादिना - तत्र न जायत इति श्लोके इत्यर्थः । अवि- नाशि तु तद्विद्धीति श्लोके इति वा । तदविनाशित्वं किमिवेति शङ्कायामुच्यते - वासांसीति । यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि वासांसि गृह्णाति तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि शरीराणि संयातीत्यन्वयः । श्लोकस्थक्रमेण पदानामर्थमाह- वासांसि वस्त्राणीत्या- दिना । पुरुषः मनुष्य इत्यर्थः । यथा जीर्णवस्त्रत्यागान्नूतनवस्त्रधारणाच देहस्य न कापि वृद्धिक्षयादि - लक्षणा जन्मनाशलक्षा च विक्रिया तद्वज्जीर्णदेहत्यागान्नूतनदेहस्वीकाराच्च न कापि विक्रिया देहिन इत्यर्थः ॥२२॥ नैनमिति । एनं शस्त्राणि न छिन्दन्ति एनं पावको न दहति एनमापो नच क्लेदयन्ति - एनं मारुतो न शोषयतीत्यन्वयः । विश्लेषो वियोगः ॥२३॥ ६२ श्रीभगवद्गीतासु- भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अच्छेद्योयमदाह्यो यमक्लेद्योऽशोष्य एव च । नित्यस्सर्वगतः स्थाणुरचलोयं सनातनः ||२४|| यत एवं तस्मात् — अच्छेद्य इति । यस्मादन्योन्यनाशहेतुभूतान्यात्मानं नाशयितुं नोत्सहन्ते अस्यग्न्यादीनि तस्मान्नित्यः, नित्यत्वात्सर्वगतः सर्वगतत्वात् स्थाणु:- स्थाणुरिव स्थिर इत्येतत् । स्थिरत्वादचलोऽयमात्मा अतस्सनातनः चिरन्तनः न कारणात् कुतश्चित् निष्पन्नोऽभिनव इत्यर्थः । नैतेषां श्लोकानां पौनरुक्त्यं चोदनीयं यत एकेनैव श्लोकेनात्मनो नित्यत्वमविक्रियत्वं चोक्तं न जायते म्रियते वेत्यादिना - तत्र यदेवात्मविषयं किंचिदुच्यते तदेतस्माच्छ्रोकार्थान्नातिरिच्यते किञ्चिच्छन्दतः पुनरुक्तं किञ्चिदर्थत इति दुर्बोधत्वादात्म- वस्तुनः पुनः प्रसङ्गमापाद्य शब्दान्तरेण तदेव वस्तु निरूपयति भगवान् वासुदेव:- कथन्नु नाम संसारिणां बुद्धिगोचरतामापन्नंसत् संसारनिवृत्तये स्यादिति ॥ २४ ॥ अव्यक्तोयमचिन्त्योयमविकार्योयमुच्यते । तस्मादेवं विदित्वनैं नानुशोचितुमर्हसि ॥ २५ ॥ किंच — अव्यक्त इति । सर्वकरणाविषयत्वान्न व्यज्यत इत्यव्यक्तोयमात्मा- अत एवा- I अच्छेद्य इति । अयमच्छेद्यः- अयमदाद्य :- अयमक्लेद्यः- अयमशोष्य एव च । अयं नित्यः सर्वगतः स्थाणुः अचलः सनातनश्च भवतीति शेषः । नित्यत्वादिति । अनित्यस्य घटादेस्सर्वगत- त्वादर्शनादिति भावः । सर्वदेशसर्वकालसर्ववस्तुगतत्वं हि सर्वगतत्वं तत्कथं परिच्छिन्नस्यानित्यस्य स्यादिति बोध्यम् । इत्येतत् इतियावदित्यर्थः । अचलश्चलन रहितः । परिपूर्ण इति यावत् । सनेति सदार्थेऽव्ययम् । चिरार्थे इति केचित् । सायञ्चिरमिति सूत्रे ऽव्ययग्रहणात्सनाशब्दाद्भवार्थेष्टट्युष्ट्युलो- रन्यतरप्रत्ययः तुडागमश्च । निष्पन्नस्सिद्धः जात इति यावत् । अभिनव इति । सदापि नव इत्यर्थः । अनादिरिति यावत् । पौनरुक्त्यमेव प्रपञ्चयति-यत इत्यादिना । शब्दत इति । नित्यो नित्य इति । अर्थत इति । सनातनः पुराणः इति पौनरुक्त्यस्याचोदनीयत्वे हेतुमाह - दुर्बोधत्वादित्यादिना । बोद्धुमशक्यं दुर्बोधं आपन्नमित्यस्यात्मवस्त्विति कर्तृ स्यादिति अभिप्रायेणेति शेषः ॥ २४ ॥ अव्यक्त इति । अव्यक्त: अयमचिन्त्यः अयमविकार्यः इत्युच्यते । शास्त्रेणेति शेषः । तस्मा देनमेवं विदित्वा त्वमनुशोचितुं नार्हसीत्यन्वयः । न व्यज्यते न प्रतीयत इत्यव्यक्तः । ननु सर्व करणा- विषयत्वमसिद्धम्-‘मनसैवानुद्रष्टव्यमिति श्रुतेः, शास्त्रोपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करण - मिति स्वेनैव पूर्वमुक्तत्वाचेति चेत्सत्यं, संस्कृतमनोव्यतिरिक्तसर्वकरणाविषयत्वस्येह विवक्षितत्वात् । नच सर्वपदसंकोच :- मन आदिसर्वकरणां विषयत्वस्य सत्त्वात् । यद्वा स्वयंप्रभत्वादयमात्मा न करणविषय:– ‘यन्मनसा न मनुते येनाहुर्मनो मत’ मिति श्रुत्या मनस एवात्मवेद्यत्ववचनात् । ‘साक्षी येता निर्गुण’ इति श्रुत्या सर्वसाक्षित्वमात्मनश्चोक्तं- साक्षित्वं हि साक्षाद्द्रष्टृत्वं- करणनैरपेक्ष्येण स्वत एव सर्वद्रष्टृत्व- मित्यर्थः । अत एवापाणिपादो जवनो ग्रहीतेति श्रुतिस्सङ्गच्छते । इदमेव ह्यात्मनः खयंप्रभत्वं नाम द्वितीयोऽध्यायः । ६३ चिन्त्योयं यद्धीन्द्रियगोचरं तच्चिन्ताविषयतामापद्यते, अयं त्वात्मा निरिन्द्रियगोचरत्वा- दचिन्त्यः- अत एव अविकार्योयं यथा क्षीरं दध्यात्मत्वेन विकार्यं भवति, न तथाऽयं निर- वयवत्वाच्चाविक्रियः- नहि निरवयवं किञ्चिद्विक्रियात्मकं दृष्टमविक्रियत्वाद विकार्योयमात्मे- त्युच्यते । तस्मादेवं यथोक्तप्रकारेणैनमात्मानं विदित्वा त्वं नानुशोचितुमर्हसि हन्ताहमेतेषां मयेमे हन्यन्त इति ॥ २५॥ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥ आत्मनोऽनित्यत्वमभ्युपगम्येदमुच्यते— अथेति । अथ चेत्यभ्युपगमार्थः । एनं प्रकृतमात्मानं नित्यजातं लोकप्रसिद्धया क्रुद्धो जातः तृप्तो जातो हृष्टो जात इत्यन्तःकरण- विक्रियाभेदमनुविक्रियत इति मन्यसे, तथा तत्प्रत्यय विनाशमनुविनश्यतीति लोकप्रसिद्धया प्रत्यनेकशरीरोत्पत्ति जातो जात इति मन्यसे, तथा नित्यं वा मन्यसे मृतं मृतो मृत इति, तथापि तथा भावेपि- आत्मनि त्वं महाबाहो नैवं शोचितुमर्हसि - यस्मात् जन्मवतो नाशश्च नाशवतो जन्मेत्यवश्यंभाविनाविति ॥ २६ ॥ यत्स्वयमेवात्मानं सर्वांश्चायं प्रभासयतीति । संस्कृतमनसः करणत्वं तु आत्मस्वरूपावरका विद्यानिरसन एवेति बोध्यम् । नच कथं सूर्य । तम इवात्मानमविद्याऽऽवृणुयादिति वाच्यं, तेजस्तिमिरयोरिवात्मावि- द्ययोर्नास्ति बाध्यबाधकभावः । प्रत्युतात्मैवाविद्यां भासयति- अविद्या हि जडा न खतो भातुं क्षमते– अविद्याविरोधि तु अहं ब्रह्मेत्याकारकं । संस्कृतमनोवृत्तिरूपं ज्ञानमेवेति युक्तमात्मनः सर्वकरणाविषयत्वम् । चिन्ता । अयमीदृश इति विचारः । अविकार्य इति । विकर्तु योग्यः विकार्य:- विकारं प्राप्तुमर्ह इत्यर्थः । न विकार्य : अविकार्य :-1 विकारो नाम परिणामः । अविकारित्वे हेतुं वदन् शब्दस्य फलितार्थमाह– निरवयवत्वाच्चाविक्रिय इति । विक्रिया आत्मनि यस्य तद्विक्रियात्मकं विकारवदित्यर्थः । अथवा विक्रिया विकारः कार्यमित्यर्थः । तदात्मकं तद्रूपमित्यर्थः । सावयवस्यैव कार्यत्वं कार्यस्यैव विकार - वत्त्वं चेति भावः । शोकाकारं दर्शयति- हन्ताहमिति । आत्मनि हनन क्रिया कर्तृत्व कर्मत्वादि- विकारायोगादिति भावः ||२५|| अथ वेति । अथ च एनं नित्यजातं नित्यं मृतं वा मन्यसे हेमहाबाहो ! तथापि त्वमेवं शोचितुं नार्हसीत्यन्वयः । अव्ययानामनेकार्थत्वादाह - अथ चेत्यभ्युपगमार्थ इति । अथ च आत्मनः अनित्यत्वेऽभ्युपगतेऽपीत्यर्थः । यथा लोकप्रसिद्धया आत्मानं क्रुद्धो जातः तृप्तो जातः, हृष्टो जात इत्यन्तःकरणविक्रिया भेदमनुविक्रियते आत्मेति मन्यसे इत्यन्वयः । यद्वा क्रुद्धो जातस्तृप्तो जातो हृष्टो जात इति लोकप्रसिद्धया इत्यन्वयः । अन्यत्तुल्यम् । यथा च तत्प्रत्ययविनाशमनुविनश्यत्यात्मेति लोक- प्रसिद्धया मन्यसे, तथा प्रत्यनेकशरीरोत्पत्तिं जातो जात आत्मेति मन्यसे तथा नित्यं वा सदापि प्रत्य- नेकशरीरमृतिं मृतो मृत आत्मेति मन्यसे इत्यन्वयः । नित्यमपि जायत इति नित्यजातः, नित्यमपि ६४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु जातस्य हिध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येथे न त्वं शोचितुमर्हसि ॥ २७ ॥ तथा च सति – जातस्येति । जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी मृत्यु- मरणं- ध्रुवं जन्म मृतस्य च - अपरिहार्योऽयं जन्ममरणलक्षणोऽर्थ :- यस्मात्तस्मादपरिहार्येथे न म्रियत इति नित्यं वा मृत इति चार्थः । अयमाशयः - क्रोधतृप्तिहर्षा अन्तःकरणधर्मत्वादन्तःकरण- विक्रियाः । लोकस्तु आत्मान्तः करणयोस्तादात्म्याभ्यासेन अन्तःकरणे क्रुद्धेसति आत्मा कृद्धो जात इति, तस्मिन् तृप्ते आत्मा तृप्त आसीदिति, तस्मिन् हृष्टे आत्मा हृष्ट इति चात्मानमेव विक्रियमाणं मन्यते । क्रोधादिप्रत्ययनाशे तु कृद्धात्मा नष्टो हृष्टात्मा नष्टस्तृप्त आत्मा नष्ट इत्यात्मानमेव नष्टं मन्यते । एते- नान्तःकरणविकाराणां क्रोधतृप्तिहर्षाणामुदयनाशाभ्यामात्मन उदयनाशौ लौकिकैरभ्युपगम्येते इति सिद्धम् । तद्वच्छरीरधर्मो जन्मनाशौ लौकिकैरात्मन्यध्यस्तौ दृश्येते - शरीरेषु जातेष्वात्मा जात इति, तेषु मृतेष्वात्मा मृत इति च लोकप्रसिद्धेरिति । ननु अन्तःकरणधर्मक्रोधाद्युदयनाशाभ्यामन्तःकरणस्यैव नास्त्युदयनाशव्यवहारः- न ह्यन्तःकरणे कृद्धेसति कोप्यन्तःकरणं जातमिति तस्मिन् शान्तेसति अन्तःकरणं नष्टमिति च प्रत्येति - किंपुनरात्मन- स्तव्यवहारः । तस्मान्न दृष्टान्तोपपत्तिरिति चेत्, उच्यते - उपरतक्रोधो देवदत्तः सखे इतः प्राक् क्रुद्ध इदानीं क्वेति यज्ञदत्तेन पृष्टस्तम्प्रति वदति - क्रुद्धो नष्टशान्तो जात इति, तथा यतिश्च वदति गृही नष्टो यतिर्जात इति, ततश्च धर्मनाशोदयाभ्यां धर्मिनाशोदयोपचार इति ततो न लोकप्रसिद्ध्यनुपपत्तिः । वस्तुतस्तु भाष्यकारैः प्रौढ्या प्रोक्तोऽयमर्थः- न त्वत्राभिनिवेशस्तेषाम् । किं तर्हि अन्तःकरणधर्माणां कोधादीनामिव देहधर्मयोर्जन्मनाशयोरात्मन्यध्यासाल्लोके आत्मा क्रुद्धो हृष्ट इत्यादिवदात्मा जातो मृत -इति व्यवहारः, तद्बलाच अर्जुनस्यापि नित्यजातो नित्यमृत आत्मेति मतिरित्येतावत्येवार्थे भाष्यकारणा- मभिनिवेश इति । आत्मनीति विषयसप्तमी । महाबाहो इति सम्बुद्धिधीरत्वद्योतनार्था । ततश्च नाय शोको धीरस्य तवोचित इति भावः ।
अत्राह रामानुजः — अथ नित्यजातं नित्यमृतं देहमेवैनमात्मानं मनुषे इति, तदसत् — मूले देहपदाभावात्- आस्तिकस्यार्जुनस्य नास्तिक बौद्धादिवदेहे आत्मबुद्धयभावाद । किंतु देहातिरिक्त आत्म अस्त्येव - सतु न जन्मादिविकारहीनः देहोदयमनुत्पन्नत्वाद्देहनाशमनुविनष्टत्वादित्येवार्जुनस्य मतिः- पुत्रो जातः पुत्रो नष्ट इति लोकव्यवहारात् मृते पुत्रदेहे दृश्यमानेपि पुत्रो नष्ट इति शोचति हि पित्रादिलोकः । तस्मादर्जुनोपि न देहमात्मानं मन्यते, किंतु देहवदात्मानं जन्मनाशयुक्तं मन्यत इति रामानुजभाष्यमसत् ॥ जातस्येति, लब्धजन्मन इति । जनि क्रियाश्रयस्येत्यर्थः । जन्मना लब्धसत्ताकस्येति यावत् । अव्यभिचारीति । यो यो जातस्स स मृत इति व्याप्तेः कापि नास्ति व्यभिचार इत्यर्थः । नच विभी- षणहनूमन्मार्कण्येयादिषु व्यभिचार इति वाच्यं प्रलये तेषामपि नाशश्रवणात् । स्वाभाविकः स्वभाव- सिद्धो धर्मः यथा अग्नेरौष्ण्यं जलस्य शैत्यं च तद्वदिति भावः । द्वितीयोऽध्यायः ।
६५ MISSING??
६६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिवेदना ॥ २८ ॥ अव्यक्तादीनि अव्यक्तमदर्शनं अनुपलब्धिरादिर्येषां पुत्रमित्रादिकार्य करणसङ्घातात्म- कानां तान्यव्यक्तादीनि भूतानि प्रागुत्पत्तेः- उत्पन्नानि व प्राङ्मरणाद्व्यक्तमध्यानि- अव्यक्त- निधनान्येव पुनरप्यव्यक्तमदर्शनं निधनं मरणं येषां तान्यव्यक्तनिधनानि मरणादूर्ध्वमव्यक्त- तामेव प्रतिपद्यन्त इत्यर्थः । तथाचोक्तं- ‘अदर्शनादापतिताः पुनश्चादर्शनं गताः’ इति तत्र का परिवेदना को वा प्रलाप:- अदृष्टदृष्टनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः ||२८||
तस्मान्न सत्कार्यवादो नाप्यसत्कार्यवादः, किंतु मिथ्याकार्यवाद एवानवद्यः सतं उत्पत्यादि - विकारायोगांद असतश्च शशशृङ्गवदुपलब्ध्ययोगात् । उपलभ्यमानं विक्रियमाणं वेद कार्यमात्र मिथ्यैव- शुक्तिकायामुपलभ्यमानं नाशरूपं विकारं भजमानं च रजतमिवेति ॥२॥ अव्यक्तादीनीति श्लोकमवतारयति — कार्य करणेति । कार्य देहः करणानि मन आदीन्द्रि- याणि तेषां सङ्घातः कार्यकरणसङ्घातः से आत्मा स्वरूपं येषां तानि कार्यकरणसङ्घातात्मकानि – आत्मातिरिक्तचतुर्विंशतितत्त्वात्मकानीत्यर्थः । भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनान्येव भवन्तीति शेषः । हेभारत तत्र का परिवेदना । अव्यक्तशब्दार्थमाह- अदर्शनमिति । अभाव इति यावत् । पुत्रमित्रादीनि भूतानि उत्पत्तेः प्रागनुपलभ्यमानत्वादव्यक्तादीनि । इदमेवाव्यक्तं नैया- विकाः प्रागभावं वदन्ति । व्यक्तमुपलब्धिर्मध्ये येषां तानि व्यक्तमध्यानि - जन्मनाशयोर्मध्ये प्रतीयमाना- नीत्यर्थः । अव्यक्तनिधनानीति । निधनमन्त इति यावत् । इदमेवाव्यक्तं नैयायिकाः प्रध्वंसाभाव- माहुः । अव्यक्तमरणयोरेकार्थतामाशङ्कयाह - मरणादूर्ध्वमिति । प्राणत्यागादनन्तरमित्यर्थः । ननु सर्वकरणागोचरत्वरूपाव्यक्तत्वस्य आत्मधर्मत्वादव्यक्तोऽयमचिन्त्योयमितीहाप्युक्तत्वात् यो यस्माज्जातरस तस्यादिरिति सिद्धान्तात् ‘यतो वा इमानि भूतानि जायन्त’ - इति श्रुत्या ब्रह्मण- सर्वभूत कारणत्वावगमाच्चाव्यक्त आत्मा आदिर्येषां तान्यव्यक्तादीनि । तथा कार्यस्य कारणें लयदर्शना- चत्प्रयन्त्यभिसंविशन्तीति ब्रह्मणि भूतानां कयश्रवणाच अव्यक्तं ब्रह्मनिधनं येषां तान्यव्यक्तनिधनानी- त्यर्थो वाच्यः । यद्वा मायाकार्यत्वात्प्रपञ्चस्य मायादीनि मायान्तानि चेत्यर्थो वाच्यः । तथैव व्याख्यात च यादवप्रकाशादिभिरिति चेत्, सत्यम् - यद्यत्रादिशब्दस्य कारणमित्यर्थः निधनशब्दस्य च नाशा- चिरिति तदा अव्यक्तशब्दस्य ब्रह्मैवार्थस्स्यात् परं तु आदिशब्दस्य जन्मेत्यर्थः । निधनस्य च मरण- मिति - नहि भूतानां ब्रह्म जन्म मरणं वा भवितुमर्हति माया च । नचादर्शनार्थेपि समानोऽयं दोषः – न दर्शनं जन्म भवतीति वाच्यं, जन्मनः प्राक् मरणादूर्ध्वं च मूतानामदृश्यमानत्वाददर्शनस्यादित्व- मन्तत्वं चोक्तमिति । नन्वेव ’ मदर्शनादापतिताः पुनश्चादर्शनं गता’ इति श्लोकानुगुण्यादादिनिधनशब्दयोरल कारण माशाव विरूपावर्थावेव । पतितौ- जन्मनः प्राकू मरणात्पश्चाश्चादर्शनमस्तीत्यनेनापि तदेव सिद्धं ततश्चा- द्वितीयोऽध्यायः । … आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यशृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२९॥
६७ दुर्विज्ञेयोऽयं पुरुषः प्रकृत आत्मा किं त्वामेवैकमुपालमे साधारणे भ्रान्तिनिमित्ते । कथं दुर्विज्ञेय आत्मेत्याह– आश्चर्यवदिति । आश्चर्यवत् आश्चर्यमदृष्टमद्भुतमकस्माद्दश्य- सत्कार्यवादप्रसङ्गः प्रपञ्चनाशानन्तरं शून्यवादप्रसङ्गश्चेति चेत्, मैवम् भूतानि स्वोत्पत्तेः प्राग्भूत- स्वरूपेण न दृश्यन्ते, स्वनाशात्पश्धाचेति कृत्वा भूतानामव्यक्तादित्वमव्यक्तनिधनत्वं चोक्तं लोकदृष्टि- मभिप्रेत्य । शास्त्रदृष्टया तु भूतानि स्वोत्पत्तेः प्राक्स्वकाले खनाशानन्तरं च ब्रह्मरूपेणैव दृश्यन्त इति ब्रह्मादित्वं ब्रह्मनिधनत्वं च युक्तं भूतानामिति । नन्वस्मिन् गीताशास्त्र शास्त्रदृष्टेरेवाश्रयणीयत्वात् किं लोकदृष्ट्या अव्यक्तशब्दस्यादर्शनार्थ- वर्णनमिति चेत्, उच्यते– व्यक्तमध्यानीति लिङ्गात् न शास्त्रदृष्टिरिह परिग्राह्येति नहि शास्त्रदृष्ट्या भूतानां मध्यकालेपि अब्रह्मात्मकत्वमस्ति, येन व्यक्तमध्यत्वं स्यात्- अव्यक्तं हि ब्रह्म - व्यक्तं त्विन्द्रिय- विषयमन्यदेव - घटतत्त्ववेत्ता हि पुरुषः घटप्रतीतिकालेपि घटं मृदूपमेव जानाति । एतेन अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानीति पदानां भूतानि जन्मनः प्राकू नोपलभ्यन्ते, मध्ये उपलभ्यन्ते, मरणादनन्तरं च नोपलभ्यन्ते इत्यर्थसिद्धः । नैतावता असत्कार्यवादशून्यवादयोः प्रसङ्ग :- भूतान्यभावा- दुत्पद्यन्ते अभाव प्रत्यस्तैयन्तीत्यनुक्तत्वात् । ननु ‘अदर्शनादापतिताः पुनश्चादर्शनं गता’ इति प्रमाणश्लोके तथैवोक्तमिति कथं तद्वादयो- रप्रसङ्ग इतिचेत्, उच्यते— भूतानामुत्पत्तेः प्रागदृश्यमानत्वाददर्शनादापतिता इत्युक्तं, न त्वदर्शन- प्रभूतत्वादिति । एवं मरणानन्तरमदृश्यमानत्वाददर्शनं गता इत्युक्तं, न त्वदर्शनं प्रत्यस्तङ्गतत्वादिति । अदर्शनादित्यवधित्वरूपापादाने पञ्चमी ग्रामादायातीति वत् नतु जनिरुक्त: प्रकृतित्व रूपापादाने पञ्च- मीति बोध्यम् । अदृष्टेति । अदृष्टानि दृष्टानि नष्टानि चेत्येवंरूपश्रान्तिरूपेष्वित्यर्थः । अत्राह रामानुज :- मनुष्यादिभूतानि सन्त्येव द्रव्याण्यनुपलब्धपूर्वावस्थान्युपलब्धमनुष्यत्वादि- मध्यमावस्थान्यनुपलब्धोत्तरावस्थानीति, तत्तुच्छम् — जन्मनाशादिविक्रियावतां मनुष्यादिभूतानां संवा- सम्भवान् । अविक्रियं वस्तु हि सत् - तच ब्रह्मैवेति दर्शितमेवाविनाशीति श्लोकेन । अनुपलब्धपूर्वा- “स्थानीत्यप्ययुक्तं वीर्य रक्तान्नादिपूर्वावस्थोपलम्भात् । अनुपलब्धोत्तरावस्थानीत्यप्ययुक्तं- भस्ममृत्तिका - द्युत्तरावस्थोपलम्भात् ॥ २८॥ आश्चर्यवदिति श्लोकमवतारयति - दुर्विज्ञेय इति । साधारणे सर्वलोकसाधारणे भ्रान्ति- निमिषे त्वामेकमेवोपालभे किम् ? भूतेष्वदृष्टदृष्टनष्टभ्रान्तिम्प्रति यन्निमित्तमज्ञानं तत्सर्वसाधारणमेव तद्वैभवाच्चायं पुरुष आत्मा सर्वस्यापि दुर्विज्ञेय इत्यत्र न त्वमेक एवोपालभ्यः, किं तर्हि सर्वेपि जनाः । अहो ! अमीषामात्मज्ञानं नासीदिति सर्वेपि शोच्या एवेत्यर्थः । आश्चर्येण तुल्यमाश्चर्यवदिति तेन तुख क्रियाचेद्वतिरिति वतिः । कश्चिदनेकजन्मस्वनुष्ठितनिष्काम कर्मतपआदिना शुद्धचित्तः कोपि धन्यः
६८ ???? त्वं शोचितुमर्हसि जन्मवतो नाशः, नाशवंतो जन्मेति च स्वाभाविकश्चेदपरिहार्यार्थः । तस्मिन्नपरिहार्येऽर्थे न त्वं शोचितुमर्हसि । कार्यकरणसङ्घातात्मकान्यपि भूतान्युद्दिश्य शोको न युक्तः कर्तुं यतः ॥ २७॥
ननु जन्मवतो नाशस्सर्वजनप्रत्यक्ष:- जन्मवतां पितृपुत्रादीनां नाशदर्शनात् । नाशवत: पुन- जन्म त्वप्रत्यक्षं कथमभ्युपगन्तुं शक्यमितिचेत्, मैवम् — बीजस्य भुवि निक्षेपान्नष्टस्य अंकुरात्मना जन्म- दर्शनात् नहि बीजखरूपनाशं विनांकुरोदय:- शास्त्रप्रामाण्याच. पुनर्जन्माभ्युपगमः । ,
अत्र कथमिदमुपपद्यते विनष्टस्योत्पत्तिरित्याक्षिप्य सत्कार्यवादमवतारयामास रामानुजः – तत्र विचार्यते — मृद्द्रव्यं सत् घटाद्यात्मना विक्रियत इति सतो मृद्रव्यस्यैवावस्थाविशेषा घटाद्युत्पत्ति- विनाशादय इत्यमीषां प्रघोषः अविचारितरमणीयः । तथा हि-यद्विक्रियते तत्र सत् यथा घटादयः । यदविक्रियं तत्सत्- व्यतिरेकेण घटादिवदिति कथं विक्रियमाणस्य मृद्द्द्रव्यस्य सत्त्वम् ? ‘नासतो विद्यते ‘भावो नाभावो विद्यते सत’ इति कालत्रयेप्यभाववत्त्वस्यासलक्षणत्वात् । मृद्रव्यस्य च भूतोत्पत्तेः प्राक् भूतप्रलयानन्तरं चाभाववत्त्वेनासत्त्वात् । मृत्तिकेत्येव सत्यमिति तु श्रुत्या यावत्प्रपञ्चं सत्यत्वस्य विवक्षि तत्वात् । नचानित्यमपि मृद्द्द्रव्यं रज्जुसर्पादिवन्नासत्- किंतु सदेवेति वाच्यं, विनाशस्वभावो ह्यसत्त्व - मविनाशस्वभावश्च सत्त्वमिति त्वयैव सत्त्वस्य नित्यत्वेनोपवर्णितत्वात् । नित्ये वस्तुन्यसत्त्वस्य, असति वस्तुनि नित्यत्वस्य च क्वाप्यदर्शनात् । अविनाशि तु तद्विद्धीति तुशब्देनात्मान्यस्य सर्वस्यापि विना- शित्वप्रतिपादनात् मृदादीनामप्यविनाशित्वे तद्वैलक्षण्यप्रतिपादकतुशब्दप्रयोगानुपपत्तेः, ‘आत्मन आकाशस्सम्भूत’ इति श्रुत्या आत्मनस्सकाशादाकाशादीनां जन्मश्रवणात्पृथिव्यप्सु प्रविलीयत इत्यादिना तेषां लयश्रवणाच्च कथं पृथिव्यादिभूतानां सद्रव्यत्वं ? येन तद्विकाराणां घटादीनां सत्कार्यत्वं स्यात् । नच. प्रकृतिस्सती पृथिव्यादयस्तु तद्विकारत्वात्सत्कार्याण्येव पृथिव्यादिविकारत्वाच्च घटादीनां परम्परया सत्कार्यत्वमिति वाच्यं प्रकृतेरीश्वरात्पृथगसिद्धत्वेन स्वतन्त्रसत्ताऽभावान्न सत्त्वं नाप्यसत्त्वमिति सिद्धा- न्तात् । प्रकृतिर्न साङ्ख्याभिमतं प्रधानं तस्याशब्दत्वात् । किंतु मायैव- मायानामेश्वरशक्ति:- सा ह्यग्निशक्तिवदग्नेः पृथगीश्वरात्पृथगसिद्धा - इयं च कार्यगम्यैव कार्ये चास्याः प्रपञ्चः स च प्रलये नश्य- तीति कथं महाभूतप्रलये प्रकृत्यास्तत्त्वमनुमेयं लिङ्गाभावात् । ’ पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवी’ति मुक्तप्राप्ये ब्रह्मणि मायातत्कार्याभावश्रवणान्नास्ति मुक्तौ प्रकृतिः । तस्मान्न प्रकृतिरपि सद्द्रव्यम् । एतेन जीव ईश्वरस्यापृथक्सिद्धविशेषणमिति वादोपि प्रत्युक्तः- तथात्वे जीवस्यापीश्वर- सत्ताधीनसत्ता कतया स्वतन्त्र सत्ताऽभावादसत्त्वमेव स्यात् तश्चानिष्टं त्वयापि जीवसत्यत्वस्याभ्युपगतत्वात् । तस्मादात्मान्यस्यासत्त्वात्सत आत्मनश्चाविक्रियत्वान्न सत्कार्यवादसिद्धिः । किंच सतो द्रव्यस्यावस्थान्तर- प्राप्तिरुत्पत्तिरित्यभ्युपगमेपि अवस्थान्तरस्य पूर्वमसत एवोत्पत्तिर्न तु सतः- सत उत्पत्त्ययोगादिति कृत्वा असत्कार्यवाद एव सिद्धस्तवापि मृदि पूर्वमसत एव घटाद्याकारस्य कारकव्यापारेण जातत्वात् । अत एव कारकव्यापार नैरपेक्ष्यरूपदोषासम्भवश्च - कारकव्यापारात्प्राग्घटाद्याकाराभावात् ।
૬૮ श्रीभगवद्गीतासु- भाप्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेतासु , मानं तेन तुल्यमाश्चर्यवत् । आश्चर्यमिवैनमात्मानं पश्यति कश्चित् आश्चर्यवदेव वदति तथैव चान्यः, आश्चर्यवच्चैनमन्यशृणोति श्रुत्वाप्येनं वेद नचैव कश्चित् । अथवा य आत्मानं पश्यति स आश्चर्यतुल्यो यो वा वदति यश्च शृणोति स अनेकसहस्रेषु कश्विदेव भवति– अतो दुर्बोध आत्मेत्यभिप्रायः ||२९|| देही नित्यमवध्योयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||३०|| अथेदानीं प्रकरणार्थ उपसंहियते - देहीति । सर्वस्य प्राणिजातस्य देहे वध्यमानेपि अयं देही न वध्यो यस्मात्तस्माद्भीष्मादीनि सर्वाणि भूतान्युद्दिश्य न त्वं शोचितुमर्हसि ॥ स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोन्यत् क्षत्रियस्य न विद्यते ॥ ३१ ॥ इह परमार्थतत्त्वापेक्षायां शोको मोहो वा न सम्भवतीत्युक्तं, न केवलं परमार्थतत्त्वा- पेक्षायामेव स्वधर्ममिति । स्वधर्ममपि स्वो धर्मः स्वधर्मः क्षत्रियस्य युद्धं तमप्यवेक्ष्य त्वं न विकम्पितुं न प्रचलितुं अर्हसि स्वधर्मत्वादित्यभिप्रायः । तच्च युद्धं पृथिवीजयद्वारेण पुरुषः पश्यति जानाति साक्षात्कुरुतं इति यावत् । आत्मनि चक्षुर्व्यापारासम्भवान्न निरीक्षणार्थस्येहोप - योगः दृशो नालोचन इति लिङ्गाच्च पश्यतेर्ज्ञानार्थकत्वम् । वदतीति । न जायत इत्याद्यात्मस्वरूपं वक्तीत्यर्थः । एनं श्रुत्वापि कश्चिश्च नैव वेदेत्यन्वयः । अथ वेति व्याख्यान्तरे - आश्चर्यतुल्यः कश्चिदेनं पश्यति, तथैवाश्चर्यतुल्यः कश्चिदेनं वदति, आश्चर्य तुल्योऽन्यः कश्चिदेनं शृणोतीत्यन्वयः । कश्चिच्छन्दार्थमाह- अनेकसहस्रेष्विति । ‘मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत’ इति स्मरणादिति भावः । अत इति आत्मद्रष्टृवक्तृश्रोतॄणां दुर्लभत्वादित्यर्थः । अत्र ‘श्रवणाया अपि बहुभियों न लभ्यः शृण्वन्तोपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्ट’ इति मन्त्रो | अनुसन्धेयः ॥२९॥ -देहीति । नित्यं ध्रुवं देहिन्यवध्यत्वं न व्यभिचरतीत्यर्थः । यस्मात्कार्यकरणसङ्घातस्यानित्य- त्वेपि सदन्तर्गत आत्मा नित्यस्तस्मात्त्वं सर्वाणि भूतान्युद्दिश्य न शोचितुमर्हसि । भीष्मादिसङ्घातगता- नित्यत्वस्यावर्जनीयत्वाद्भीष्माद्यात्मगतनित्यत्वस्य शोकविरोधित्वाच्चेति भावः ॥३०॥ "” सिधममिति । हि क्षत्रियस्य धर्म्याद्युद्धादन्यच्छ्रेयो न विद्यते तस्मादिति शेषः । स्वधर्ममवे- स्यापि त्वमिति शेषः । विकम्पितं न चार्हसि धर्मपथ्यर्थन्यायादनपेत इति यत धर्म्यं श्रेय इति यो हतावौपचारिकः प्रयोगः श्रेयस्करमित्यर्थः । स्वः स्वीयः क्षत्रियजातेर्विहित इत्यथः । इदमेवाह- क्षत्रियस्य युद्धमिति । युद्धदर्शनादपि तव कम्पो नोचित इति श्लोक पूर्वार्धस्यार्थः । तत्र हतु- माह- स्वधमत्वादिति । क्षत्रियस्य तव युद्धस्य स्वधर्मत्वादित्य क्षेत्रियस्य विजितव्यमिति शास्त्रादिति भावः क की नी उ क
६८ سورج श्रीभगवद्गीतासु भाय्यार्क प्रकाशविलसित श्रीशङ्करभाष्योपेतासु 9 मानं तेन तुल्यमाश्चर्यवत् । आश्चर्यमिवैनमात्मानं पश्यति कश्चित् आश्चर्यवदेव वदति तथैव चान्यः, आश्चर्यवचैनमन्यशृणोति श्रुत्वाप्येनं वेद नचैव कश्चित् । अथवा य आत्मानं पश्यति स आश्चर्यतुल्यो यो वा वदति यश्च शृणोति स अनेकसहस्रेषु कश्चिदेव भवति – अतो दुर्बोध आत्मेत्यभिप्रायः ||२९|| देही नित्यमवध्योयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||३०|| अथेदानीं प्रकरणार्थ उपसंह्रियते — देहीति । सर्वस्य प्राणिजातस्य देहे वध्यमानेपि अयं देही न वध्यो यस्मात्तस्माद्भीष्मादीनि सर्वाणि भूतान्युद्दिश्य न त्वं शोचितुमर्हसि || स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोन्यत् क्षत्रियस्य न विद्यते ॥ ३१ ॥ इह परमार्थतत्वापेक्षायां शोको मोहो वा न सम्भवतीत्युक्तं, न केवलं परमार्थतत्त्वा- पेक्षायामेव स्वधर्ममिति । स्वधर्ममपि स्वो धर्मः स्वधर्मः क्षत्रियस्य युद्धं तमप्यवेक्ष्य त्वं न विकम्पितुं न प्रचलितुं अर्हसि स्वधर्मत्वादित्यभिप्रायः । तच्च युद्धं पृथिवीजयद्वारेण पुरुष: पश्यति जानाति साक्षात्कुरुत इति यावत् । आत्मनि चक्षुर्व्यापारासम्भवान्न निरीक्षणार्थस्येहोप- योग: दृशो नालोचन इति लिङ्गाच्च पश्यतेर्ज्ञानार्थकत्वम् । वदतीति न जायत इत्याद्यात्मस्वरूपं बक्तीत्यर्थः । एनं श्रुत्वापि कश्चिच्च नैव वेदेत्यन्वयः । 1 अथ वेति व्याख्यान्तरे- आश्चर्यतुल्यः कश्चिदेनं पश्यति, तथैवाश्चर्यतुल्यः कश्चिदेनं वदति, आश्चर्य तुल्योऽन्यः कश्चिदेनं शृणोतीत्यन्वयः । कश्चिच्छब्दार्थमाह — अनेकसहस्रेष्विति । ‘मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वत’ इति स्मरणादिति भावः । अत इति आत्मद्रष्टृवक्तृश्रोतॄणां दुर्लभत्वादित्यर्थः । अत्र ‘श्रवणाया अपि बहुभिर्यो न लभ्यः शृण्वन्तोपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्ट’ इति मन्त्रो अनुसन्धेयः ॥ २९॥ ।
देहीति । नित्यं ध्रुवं देहिन्यवध्यत्वं न व्यभिचरतीत्यर्थः । यस्मात्कार्यकरणसङ्घातस्यानित्य- त्वेपि तदन्तर्गत आत्मा नित्ययस्तस्मात्त्वं सर्वाणि भूतान्युद्दिश्य न शोचितुमर्हसि । भीष्मादिसङ्घातगता - नित्यत्वस्यावर्जनीयत्वाद्भीष्माद्यात्मगतनित्यत्वस्य शोकविरोधित्वाच्चेति भावः ॥ ३० ॥ स्वधर्ममिति । हि क्षत्रियस्य धर्म्याद्युद्धादन्यच्छ्रेयो न विद्यते तस्मादिति शेषः । स्वधर्ममवे- क्ष्यापि त्वमिति शेषः । विकम्पितं न चार्हसि धर्मपथ्यर्थन्यायादनपेत इति यत् धर्म्यं श्रेय इति श्रेयो हेतावौपचारिकः प्रयोगः श्रेयस्करमित्यर्थः । स्वः स्वीयः क्षत्रियजातेर्विहित इत्यर्थः । इदमेवाह — क्षत्रियस्य युद्धमिति । युद्धदर्शनादपि तब कम्पो नोचित इति श्लोक पूर्वार्धस्यार्थः । तत्र हेतु - माह - स्वधर्मत्वादिति । क्षत्रियस्य तव युद्धस्य स्वधर्मत्वादित्यर्थः । क्षत्रियस्य विजितव्यमिति शास्त्रादिति भावः । द्वितीयोऽध्यायः ।
द्वितीयोऽध्यायः । ६९ धर्मार्थ प्रजासंरक्षणार्थं चेति परमं धर्म्य धर्मादनपेतं धर्म्यं तस्माद्धर्म्याद्युद्धाच्छ्रेयोन्यत् क्षत्रियस्य न विद्यते हि यस्मात् ॥ ३१ ॥ यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||३२|| कुतश्च तद्युद्धं कर्तव्यमिति, उच्यते यदृच्छयेति । यदृच्छया चोपपन्नमप्रार्थितमागतं स्वर्गद्वारमपावृतं उद्घाटितकवाटयुद्धं एतदीदृशं ये लभन्ते क्षत्रिया:- हेपार्थ किन्न सुखिनस्ते ? अथ चेवं धर्म्यमिमं संग्रामं न करिष्यसि । ततस्स्वधर्म कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३३ ॥ एवं कर्तव्यतया प्राप्तमपि - अथेति । अथ चेत्वमिमं धर्म्यं धर्मादनपेतं संग्रामं युद्धं न करिष्यसि चेत् ततस्तदकरणात्स्वधर्म कीर्तिं च महादेवादिसमागमनिमित्तां हित्वा त्यक्त्वा केवलं पापमवाप्स्यसि ॥ ३३ ॥ अकीर्तिं चापि भृतानि कथयिष्यन्ति तेऽव्ययाम् । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥ न केवलं स्वधर्मकीर्तिपरित्यागः - अकीर्तिमिति । अकीर्तिं चापि ते तव भूतानि अव्ययां दीर्घकालां कथयिष्यन्ति - धर्मात्मा शूर इत्येवमादिभिर्गुणैः सम्भावितस्य चाकीर्तेः मरणं वरमित्यर्थः || ३४ ॥ भयाद्रणादुपरतं मन्यन्ते त्वां महारथाः । येषां च त्व बहुमतो भूत्वा यास्यसि लाघवम् ||३५|| किश्च भयादिति । भयात्कर्णादिभ्यः रणायुद्धादुपरतं निवृत्तं मन्यन्ते चिन्तयिष्यन्ति अत्र रामानुजः - इदं युद्धमिति मूलाद्बहिः प्रकल्प्य इदं युद्धं स्वधर्ममवेक्ष्येति व्याचख्यौ – तन्मन्दम् — मूलाद्बहिः कल्पनस्याप्रमाणत्वात् ॥ ३१ ॥
यदृच्छयेति । हेपार्थ सुखिनः क्षत्रियाः यदृच्छया चोपपन्नमपावृतं खर्गद्वारमीदृशं युद्धं लभन्ते इत्यन्वयः । ये लभन्ते ते सुखिनो न किमिति भाष्यं त्वर्थात्सिद्धार्थकथनम् ॥३२॥ अथेति । महादेव श्शिवः । आदिशब्देनेन्द्रादिग्रहणम् । तत्समागमजन्यामित्यर्थः । वन्यवराह- वधखाण्डवदहनादिष्विति भावः ॥ ३३ ॥ अकीर्तिमिति । अकीर्तिमपकीर्तिमर्जुनो युद्धाद्धीत इत्याकारिकां भूतानि प्राणिनः जना इति यावत्- कथयन्तुनाम । किं तेन मे इत्यत आह- सम्भावितस्येति । धर्मात्मत्वशौर्यधैर्यादिगुणैरुत्कृष्ट- स्येत्यर्थः ॥ ३४ ॥ ननु स्वजने स्नेहकारुम्यादिना युद्धान्निवृत्तस्य मम कथमपकीर्तिरत आह— भयादिति ।
७० A श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु न कृपयेति त्वां महारथाः कर्णदुर्योधनप्रभृतयः येषां च त्वं दुर्योधनादीनां बहुमतः बहुभि- गुणैर्युक्त इत्येवं मतो बहुमतो भूत्वा पुनर्यास्यसि लाघवं लघुभावम् ॥ ३५ ॥ अवाच्यवादांव बहुन्वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरन्नु किम् ||३६|| किश्च अवाच्येति । अवाच्यवादान् अवक्तव्यान् वादांश्च बहूननेकप्रकारान् वदिष्यन्ति तब अहिता शत्रवः- निन्दन्तः कुत्सयन्तः तव त्वदीयं सामर्थ्य ततस्तस्मा निन्दाप्राप्तिदुःखा- दुःखतरं नु किम् ? ततो दुःखतरं कष्टतरं नास्तीत्यर्थः ॥ ३६ ॥ हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥ हत इति । युद्धे पुनः क्रियमाणे कर्णादिभिः हतो वा प्राप्स्यसे स्वर्गं जित्वा वा कर्णादीन् भोक्ष्यसे महीं उभयथापि ते लाभ एवेत्यभिप्रायः । यत एवं तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः- ज्येष्यामि शत्रून् मरिष्यामि वेति निश्चयं कृत्वेत्यर्थः ॥ ३७ ॥ सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ||३८|| तत्र स्वधर्म इत्येवं युध्यमानस्य उपदेशमिमं श्रुणु - सुखदुःखे इति । सुखदुःखे समे तुल्ये कृत्वा रागद्वेषावकृत्वेत्यर्थः । तथा लाभालाभौ जयाजयौ च समौ कृत्वा ततो युद्धाय युज्यख घटस्व- नैवं युद्धं कुर्वन् पापमवाप्स्यसि ||३८|| एषा तेऽभिहिता साङ्ख्ये बुद्धियोंगे त्विमां शृणु । बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥ एष उपदेशः प्रासङ्गिकः । शोकमोहापनये लौकिको न्यायः स्वधर्ममपि चावेक्ष्ये- भयहेतुत्वाकांक्षां पूरयति — कर्णादिभ्य इति । काकोलूकयोरिव कर्णार्जुनयोर्निसर्गवैरित्वात्कर्णशब्द- श्रवणेनार्जुनस्य कोपोद्दीपनं स्यादिति कर्णग्रहणम् । महारथास्ते कर्णादिभ्यो भयाद्धेतोस्त्वां रणादुपरतं मन्यन्ते इत्यन्वयः || ३५॥ अवाच्येति । वक्तुमयोग्या अवाच्याः ||३६|| हत इति । हत इति हन्तेः कर्मणि क्तः । कर्त्राकांक्षा पूरयति — कर्णादिभिरिति । भोक्ष्यसे अनुभविष्यसि । उत्तिष्ठेति । उदोनूर्ध्वकर्मणीति नतङ् । यस्माद्धतो वा खर्गे प्राप्स्यसे जित्वा वा भोक्ष्यसे तस्माद्धकौन्तेय युद्धाय कृतनिश्चयस्सन्नुत्तिष्ठेत्यन्वयः ॥ ३७ ॥ सुखेति । सुखदुःखसमीकरण फलितार्थमाह — रागद्वेषावकृत्वेति । सुखे रागमकृत्वा दुःखे द्वेषमकृत्वा चेत्यर्थः । एवं लाभजययोर लाभाजययोश्श्रोह्यम् । एवं युद्धं कुर्वन् त्वं पापं नावाप्स्यसीत्यन्वयः ।। एषेति । धर्ममपि चावेक्ष्येत्येवमादिभिः श्लोकैरुक्तः शोकमोहापनये लौकिको न्याय एष १० द्वितीयोऽध्यायः । व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन बहुशाखाद्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥४१॥
७१ त्येवमादिभिः श्लोकैरुक्त:- नतु तात्पर्येण । परमार्थदर्शनं त्विह प्रकृतं तचोक्तमुपसंहरति- ‘एषा तेभिहिता साङ्ख्य’ इति शास्त्र विषय विभागप्रदर्शनार्थम् । इह हि प्रदर्शिते पुनश्शास्त्र- विषय विभागे उपरिष्टात्- ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’ मिति निष्ठाद्वय विषयं शास्त्रं सुखं प्रवर्तिष्यते श्रोतारश्च विषयविषयिविभागेन सुखं ग्रहीष्यन्तीत्यत आह एषेति । एषा ते तुभ्यमभिहिता उक्ता साङ्ख्ये परमार्थवस्तुविवेकविषये बुद्धिर्ज्ञानं साक्षाच्छोकमोहादि- संसारहेतुदोषनिवृत्तिकारणं, योगे तु तत्प्राप्त्युपाये निस्सङ्गतया द्वन्द्वप्रहाणपूर्वकमीश्वराराधनार्थे कर्मयोगे कर्मानुष्ठाने समाधियोगे च । इमामनन्तरमेवोच्यमानां बुद्धिं शृणु । तां बुद्धिं स्तौति प्ररोचनार्थम् — बुद्धया यया योगविषयया युक्तः । हेपार्थ! कर्मबन्धं कर्मैव धर्माधर्माख्यं बन्धः तं प्रहास्यसि ईश्वरप्रसादादिनिमित्तज्ञानप्राप्त्यैवेत्यर्थः ॥ ३९ ॥ उपदेशः प्रासङ्गिकः प्रसङ्गादागतः प्रसङ्गादुक्त इति यावत् । नत्वस्मिन्नुपदेशे वक्तुस्तात्पर्यमस्ती- त्याह - नतु तात्पर्येणेति । तत्र हेतुमाह - परमार्थेति । इह परमार्थदर्शनमेव प्रकृतं नतु लौकि- कदर्शनमिति तुशब्दार्थः । तच्चोक्तमिति । अशोच्यानित्यारभ्य न त्वं शोचितुमईसीत्येतदन्तेन ग्रन्थे नेति भावः । तेऽभिहिता एषा बुद्धिः साङ्ख्ये साङ्ख्यविषयेत्यर्थः । एषा साङ्ख्ये बुद्धिस्तेभिहितेति वाऽन्वयः । एतावता ग्रन्थसन्दर्भेण ते साङ्ख्य बुद्धिरुपदिष्टेति परमार्थः । साङ्ख्यशब्दार्थमाह - परमार्थवस्तुविवेक इति । सप्तम्यर्थमाह – विषय इति । बुद्धिं विशिनष्टि - साक्षादिति । शोकमोहादिरूपो यस्सं- सारहेतुभूतो दोषः तस्य साक्षान्निवृत्तिकारणमित्यर्थः । ज्ञानेनाज्ञाननाशे सति तत्कार्यशोकमोहादिनाश इति भावः । योगशब्दार्थमाह — तत्प्राप्तीत्यादिना । तस्य साङ्ख्यस्य प्राप्तावुपायसाधनं तस्मिन् निस्सङ्गतया फलाभिसन्धिराहित्येन द्वन्द्वप्रहाणं शीतोष्णादिद्वन्द्वसहनं ईश्वरस्याराधनमेवार्थो यस्मिन् तस्मिन्परमेश्वप्रीत्यर्थमिति सङ्कल्पपूर्वकमनुष्ठिते इत्यर्थः । कोसौ योगोऽत आह— कर्मयोग इति । तत्स्वरूपमाह — कर्मानुष्ठान इति । समाधिरपि कर्मयोग एवेत्याह- समाधियोग इति । यमनियमा- द्यष्टाङ्गयोग इत्यर्थः । एतावता योगे इत्यस्य कर्मानुष्ठानयोग / नुष्ठानात्मककर्म योग विषयामित्यर्थस्सिद्धः । तत्प्राप्त्युपायेत्यनेन च साङ्ख्ययोगादुत्तमाधिकारिविषयात्कर्मयोगस्यापकर्षस्सूचितः नहि संसारकारणा- ज्ञाननिवृत्तौ साझात्साधनेन साङ्ख्ययोगेन परम्परासाधनं कर्मयोगस्तुल्यस्स्यात् । नच वैयर्थ्य शङ्कयं, योगस्य साङ्ख्योपजीव्यत्वात् । प्ररोचनार्थं रुच्युत्पादनार्थ यवागूं पिब शिखा ते वर्धिष्यत इति वाक्यव- दिति भावः । ज्ञानप्राप्त्यैवेति । नतु साक्षादित्येवकारार्थः । कर्मयोगादीश्वरप्रसादः आदिपदाच्चित- शुद्धि: तेन निमित्तेन ज्ञानप्राप्तिरिति परम्परया योगात्कर्मबन्धप्रहाणमिति भावः । अल्लाह रामानुजः — सङ्ख्या बुद्धि:, बुद्धया निर्धारणीयमात्मतत्त्वं साङ्ख्यं ज्ञातव्ये आत्मतत्त्वे तद्ज्ञानाय या बुद्धिरभिधेया ‘नत्वेवाह’ मित्यारभ्य ‘तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसी’ त्यन्तेन सैषा तेऽमिहिता - आत्मज्ञानपूर्वक मोक्षसाधन कर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः स इह योगशब्देनोच्यते-
७२
श्रीभगवद्गीतासु भाष्यार्कप्रकाश विलसित श्रीशाङ्करभाष्योपेतासु नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥ किश्चान्यत् — नेति । नेह मोक्षमार्गे कर्मयोगे अभिक्रमनाशोस्ति अभिक्रमणमभि- क्रमः प्रारम्भस्तस्य नाशो नास्ति यथा कृष्यादेर्योगविषये प्रारम्भस्य नानैकान्तिकं फल- मित्यर्थः । किञ्च नापि चिकित्सावत् प्रत्यवायो विद्यते किंतु, स्वल्पमप्यस्य धर्मस्य योग- स्यानुष्ठितं त्रायते रक्षति महतो भयात् संसारभयाज्जन्ममरणादिलक्षणात् ॥४०॥ इति, तदसत् - याऽभिधेया सेतिपदत्रयस्य मूलाद्बहिः प्रकल्पनस्याप्रमाणत्वात् । मूल कर्तुरेतद्विवक्षा- सत्त्वे सैषा ते भिहितेत्येव वक्तव्यत्वात् । तद्ज्ञानाय या बुद्धिरित्यसङ्गतार्थकं वाक्यं ज्ञानस्यैव बुद्धित्वेन बुद्धेर्ज्ञानार्थकत्वस्यासम्भवात् नहि स्वयमेव स्वार्थं भवति यत्किमपि ।
तथा कर्मणां मोक्षसाधनत्वं श्रुतिविरुद्धम् – ’ नास्त्यकृतः कृतेन नान्यः पन्था विद्यतेऽयनाय’ इत्यादिश्रुतेः । आत्मज्ञानस्यैव मोक्षसाधनत्वं च श्रुतिसिद्धम् – ‘तरति शोकमात्मवित्, ब्रह्मविद्रसैव भवतीत्यादि श्रुतेः । आत्मज्ञस्य कर्मसु प्रवृत्तिरेव न सम्भवति ‘निष्कलं निष्क्रियं शान्तं, साक्षी चेता केवलो निर्गुण’श्चेत्यादिना अकर्त्रभोक्तविक्रियसाक्षिचैतन्यात्मकमात्मानं विदुषः कथं कर्मसु प्रवृति: कर्माणि हि कर्त्रादिकारकव्यापारसाध्यानि । तथा कर्मानुष्ठाने या बुद्धिर्वक्तव्या तामिमां शृण्वित्यनेनैव विवक्षितार्थसिद्धेः कर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः तत्र या बुद्धिर्वतव्या तामिमां शृण्विति कोऽयं वक्रः पन्थाः कर्मानुष्ठानविषयबुद्धेः कर्मानुष्ठानविषयबुद्धियोगविषयबुद्धेर्वैलक्षण्यस्य दुर्वचत्वात् ॥ ३९ ॥ नेहेति । इहाभिक्रमनाशो नास्ति, प्रत्यवायो न विद्यते, अस्य धर्मस्य स्वल्पं लेशोपि महतो भयात्त्रायते, अनुष्ठातारमिति शेषः । मोक्षमार्ग इति । परम्परया कर्मयोगस्यापि मोक्षहेतुत्वादिति भावः । कृप्यादेरिति । कृप्यादेः प्रारम्भस्य यथा नाशोस्ति तद्वदित्यर्थः । ननु प्रारम्भस्य कथं नाशः ? प्रारब्धस्य तु भवेन्नाश इत्यत आह- नानैकान्तिकमिति । प्रारम्भस्य फलव्यभिचारित्वमेव नाश इत्यर्थः । कृप्यादिप्रारम्भस्य तु न नियतं फलं वर्षाभावतदा धिक्यादिना निष्फलत्वसम्भवात् । योग- विषयप्रारम्भस्य तु नियतं फलमित्यर्थः । ननु प्रारब्धे योगे अपरिसमाप्ते सति कथं योगप्रारम्भस्यानै- कान्तिकं फलं नेत्यत आह- स्वल्पमपीति । योगस्यारम्भमात्रादपि संसारभयनिवृत्तिर्भवेत्किं पुनर्योगस्य परिसमाप्तेरिति द्योतयितुं स्वल्पमपीत्यपिपदम् । ननु रोगनिवृत्त्यर्थं क्रियमाणे चिकित्सात्मके योगे असमाप्तेसति प्रत्यवायोस्ति- पूर्वापेक्षया समधिकतरव्याधिविजृम्भदर्शनात् । तथा संसारनिवृत्त्यर्थं क्रिय- माणे कर्मयोगे असमाप्तेसति संसारविजृम्भरूपप्रत्यवायस्स्यादित्यत आह- प्रत्यवायो न विद्यत इति । कर्मयोगस्थासमाप्तौ दोषो न विद्यते परं तु संसारो यथापूर्व वर्तते इत्यर्थः । यद्वा चिकित्साय अकरणे रोगस्य वृद्धिरूपः प्रत्यवायो विद्यते यथा तद्वत्कर्मयोगस्याकरणे दोषोस्ति किमित्यत आह- प्रत्यवाय इति । अकरणे दोषः प्रत्यवाय इति शास्त्रवित्समय:- सन्ध्यावन्दनादिवत्कर्म योगस्या करणे द्वितीयोऽध्यायः ।
७३ येयं साङ्ख्ये बुद्धिरुक्ता योगे च वक्ष्यमाणलक्षणा सा — व्यवसायात्मिकेति । व्यव- नास्ति प्रत्यवाय इत्यर्थः । नच सन्ध्यावन्दनादिनित्यकर्म विधानमेव कर्मयोग इति कृत्वा कथमुध्यते सन्ध्यावन्दनादिवदिति वाच्यं, ईश्वराराधनबुद्ध्या कर्मानुष्ठानस्यैव कर्मयोगत्वात् नित्यकर्म विधानस्य फलाभिसन्धिपूर्वकत्वाच्च । नित्यकर्मानुष्ठानमेव फलाभिसन्ध्या चिरहितं सत्कर्मयोग इत्युच्यत इति भावः । अथवा रोगनिवृत्त्यर्थं चिकित्सायां क्रियमाणायां यथा रसौषध्यादिमारणरूपजीव हिंसावत्त्वेन नरकपात- लक्षण: प्रत्यवायोस्ति कर्तुस्तथा कर्मयोगानुष्ठातुर्नास्ति प्रत्यवाय:- कर्मयोगे हिंसाऽभावात् । नचात्रापि पशुहिंसादिकमस्तीति वाच्यं, ‘अग्नीषोमीयं पशुमाल मे ‘तेत्यादिशास्त्राद्विहितस्य पश्चालम्भनादेरहिंसा- त्वात् । नच माहिंस्यात्सर्वभूतानीति निषिद्धैव हिंसेति वाच्यं, सामान्यविधित्वात्तस्य- विशेषविधिना हि सामान्यविधिर्बाध्यते । नच पश्वालम्भनस्य पशुदुःखहेतुत्वात्कुतो न हिंसात्वमिति वाच्यं, यज्ञादा- वालम्भितस्य पशोस्स्वर्गलाभात् । यद्वा चिकित्सायां क्रियमाणायां व्याधिनिवृत्तिरवश्यम्भवतीति वक्तुं न शक्यते - प्राणिकर्म विपाकस्य विचित्रत्वात् प्रत्युत व्याध्यतिशयो मरणं वा भविष्यतीत्यस्ति दोष- चिकित्साकरणे । एवं कर्मयोगस्य करणे नास्ति यः कश्चिद्दोष:- नियतफलत्वात्कर्मयोगस्य । यद्यपि चिकित्साया अकरणेपि तदुभयं भविष्यति, तथापि तत्करणेपि तदुभयसत्त्वात्तत्करणस्य दुष्टत्वमिति बोध्यम् । वस्तुतस्तु रोगिणश्चिकित्साकरणात्प्रत्यवायो भिषज एव स्वकृतचिकित्सया यदि रोगिणो रोग- वृद्धिस्स्यात्, यदि वा मरणं स्यादुभयथापि भिषजो नरकपातलक्षणः प्रत्यवाय एव । एवं प्रत्यवायित्वा- देव चिकित्सकानामपांक्तेयत्वं स्मर्यते । नच रोगनिवारणात्सुकृतमपि भवेद्भिषज इति वाच्यं सुकृतप्राप्तेः पाक्षिकत्वात् । किंच पाक्षिक्यपि सुकृतप्राप्तिर्नैव धनाशया चिकित्सायाः कृतत्वाद्भिषजा, भेषजासिद्धयर्थ रसौषधीनां भिषजा मारितत्वाच्च नरकपातः । नचैवं भिषजामेवाभावे चिकित्साया अप्यभावात्कथं रोगिणां रोगनिवृत्तिरिति वाच्यं, प्रारब्धपापफलस्य व्याधेः प्रारब्धावसानेऽवश्यं नाशसम्भवात् । अपि च भेषजेन यदि व्याधिप्रतिबन्धस्स्यात्तर्हि जन्मान्तरे तद्याधिं पुनरनुभवेदेव- अनुभवं विना कृतस्य क्षयाभावात् । एवं च चिकित्साया अन्वयव्यतिरेकाभ्यां रोगनिवृत्त्यहेतुत्वात्प्रत्युत प्रतिकूल चिकित्साया रोग- वृद्धि मरण हेतुत्वाद्रसौषधीमा रणरूपहिंसा गर्भत्वाच्च भिषजः प्रत्यवायजनकस्य मिति सिद्धम् । नैवं चिकित्सा- कर्तुरिव कर्मयोगकर्तः कोपि प्रत्यवायो विद्यते हिंसाद्यभावात्कर्मयोगे इति भावः । चिकित्सावदिति तत्र तस्येवेति वतिः । चिकित्सायामिवेत्यर्थः । यथा चिकित्सायां प्रत्यवायो विद्यते तथा कर्मयोगे प्रत्यवायो न विद्यत इति व्यतिरेकदृष्टान्तः ॥ ४० ॥ व्यवसायेति । हेकुरुनन्दन इह व्यवसायात्मिका एकैव बुद्धिरस्ति । अव्यवसायिनां बुद्धयः बहुशाखा अनन्ताश्च भवन्ति हि । का सा व्यवसायात्मिका बुद्धिरत आह— येयमिति । साङ्ख्य-
७४ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेता सु सायात्मिका निश्चयस्वभावैकैन बुद्धि:- इतरविपरीतबुद्धिशाखाभेदस्य बाधिकेयं सम्यक्प्रमाण- जनितत्वादिह श्रेयोमार्गे हेकुरुनन्दन - याः पुनरितरा: विपरीतबुद्धयः यासां शाखा भेद- प्रचारवशादनन्तोऽपारः अनुपरतस्संसारो नित्यं प्रततो भवति । प्रमाणजनितविवेकबुद्धिनिमि- ‘तवशाच्चो पर तास्वनन्तभेद बुद्धिषु संसारोप्युपरमते । ताः बुद्धयो बहुशाखाः बह्वयशाखा यासां ता बहुशाखा :- बहुभेदा इत्येतत् । प्रतिशाखाभेदेन ह्यनन्ताश्च बुद्धयः । तेषां अव्यवसायिनां प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थः । येषां व्यवसायात्मिका बुद्धिर्नास्ति ते ॥ ४१ ॥ यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरता: पार्थ नान्यदस्तीति वादिनः || ४२ || कामात्मानस्स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ ४३ ॥ यामिति । यामिमां वक्ष्यमाणां पुष्पितां पुष्पितवृक्षत्रच्छोभनां श्रूयमाणरमणीयां विषया योगविषया चेत्यर्थः । ननु साङ्ख्यबुद्धेर्योगबुद्धेश्च परस्परं भिन्नत्वात्कथमेकत्वमिति चेदुच्यते- नात्र बुद्धिद्वयस्यैकत्वमुक्तं, किंतु साङ्ख्ये न बढ्यो बुद्धयस्सन्ति, तथा योगे च न बयो बुद्धयस्सन्ति– परं तु एकैव व्यवसायात्मिका बुद्धिस्साङ्ख्ये, तथा योगे च व्यवसायात्मिका बुद्धिरेकैवेति साङ्ख्ययोगयोः प्रत्येकमेकबुद्धिमत्त्वमुक्तमिति । तदेवाह — इतरेति । इतरा विपरीताश्च या बुद्धिशाखास्तासां भेदस्य । अनेकशाखा भिन्नेतरविपरीतबुद्धिनामित्यर्थः । कुतोस्या इतरबुद्धिभेदबाधकत्वमत आह—सम्यगिति । निर्दष्टशास्त्रप्रमाणजनितत्वादित्यर्थः । इहेत्यस्य साङ्ख्ययोग कर्मयोगसाधारण्या याह—–श्रेयोमार्गे इति । अविक्रियः सर्वगतः नित्य एकः स्वयम्प्रभोऽप्रमेय आत्मेत्येवंरूपनिश्चयस्वभावा साङ्ख्यबुद्धि: - फलसङ्ग त्यक्त्वा ईश्वराराधनार्थतया सिद्धयसिद्धयोस्समस्सन् शास्त्रविहितानि कर्माणि कुर्यादित्येवंनिश्चयस्वभावा योगबुद्धि:- विपरीतबुद्धयस्तु आत्मा कर्ता भोक्ताच धर्मादिपुरुषार्थास्तेन सम्पादितव्याः – ‘ज्योतिष्टोमेन स्वर्गकामो यजेत, पशुकामः कायैष्टये’ त्येवमादयः इति विवेकः । " अत्र यदाह रामानुजः - आत्मयाथात्म्यनिश्चयपूर्विका व्यवसायात्मिका बुद्धिरेकफलसाधन- विषयतयैका - एकस्मै मोक्षाख्यफलाय हि कर्माणि विधीयन्त इति, तत्तुच्छम् — नित्यत्वस्वयंप्रकाश- त्वानन्दत्वापहतपाप्मत्वादिरूपमाला पक्षद्वयसम्मतम् । यस्यास्त्येतन्निश्चयः तस्य कथं कर्मसु प्रवृत्तिस्स्याद- न कथमपि कर्मसम्म त्कर्षाभावात् कर्म निवार्यापकर्षाभावाच्च, अनेक कारकोपसंहार- पूर्वककर्मानुष्ठानदुःखस्यानन्दे आत्म योगाच्च, मोक्षस्य कर्मसाध्यत्वे घटादिवदनित्यत्वाच्च, सकामानां स्वर्गाद्यर्थं निष्कामानां चित्तशुद्धयर्थं च कर्मणां विहितत्वेन मोक्षविहितत्वासम्भवाच्च । ‘ज्योतिष्टोमेन स्वर्गकामो यजेत, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाश के’ नेत्यादिश्रुतेः मोक्षकाम इदं कुर्यादिति श्रत्यभावाच्च नित्ये आत्मनि क्रियावत्त्वादिरूपविकारायोगच्च । किंच व्यवसा- यात्मिके तिपदान्निश्चयपूर्विकेत्यर्थोपि दुर्लभः - आत्मशब्दस्य पूर्वार्थाभावात् ॥ ४१ ॥ यामिति । कामात्मान इति च श्लोकद्वयस्यैकान्वयः । हेपार्थ वेदवादरताः अन्यन्नास्तीति द्वितीयोऽध्यायः ।
७५ वाचं वाक्यलक्षणां प्रवदन्ति- अविपश्चितः अमेधसः अविवेकिन इत्यर्थः । वेदवादरताः बह्वर्थवाद फलसाधनप्रकाशकेषु वेदवाक्येषु रताः । हेपार्थ नान्यत्स्वर्ग पशुपुत्त्रादिफलसाधनेभ्यः कर्मभ्यः अस्तीत्येवंवादिनः वदनशीलाः || ४२ ॥ ते च के– कामात्मान इति । कामात्मानः कामस्वभावाः कामपरा इत्यर्थः । स्वर्गपरा: स्वर्गः परः पुरुषार्थो येषां ते स्वर्गपरा:- स्वर्ग प्रधानाः जन्मकर्मफलप्रदां कर्मणः फलं जन्मैव कर्मफलं तत्प्रददातीति जन्मकर्मफलप्रदां तां वाचं प्रवदन्तीत्यनुषज्जते । क्रियाविशेषबहुलां क्रियाणां विशेषाः ते बहुलाः यस्यां तां स्वर्गपशुपुत्राद्यर्थाः यया वाचा बाहुल्येन प्रकाश्यन्ते भोगैश्वर्यगतिं प्रति भोगश्च ऐश्वर्यं च भोगैश्वर्यं तयोः प्राप्तिः भोगैश्वर्यगतिः तां प्रति साधन- भूतास्ते क्रियाविशेषास्तद्वहुलां वाचं प्रवदन्तो मूढाः संसारेषु परिवर्तन्त इत्यभिप्राय: ॥ ४३ ॥ भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम् । व्यवसायात्मिका बुद्धिस्समाधौ न विधीयते ॥ ४४ ॥ तेषां च भोगैश्वर्यप्रसक्तानां भोगः ऐश्वर्य चेति भोगैश्वर्ये तयोरेव प्रणयवतां तदा- त्मभूतानां तया क्रियाविशेषबहुलया वाचा अपहृतचेतसां आच्छादितविवेकप्रज्ञानां - व्यवसा- वादिनः कामात्मानः स्वर्गपराः अविपश्चितः- भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलां जन्मकर्मफलप्रदां पुष्पितां यामिमां वाच प्रवदन्तीति यच्छब्दस्य तु तयेति तृतीयश्लोकस्थतच्छब्देनान्वयः ।
पुष्पाण्यस्यास्सञ्जातानि पुष्पिता तदस्य सञ्जातमिति तारकादित्वादितच् । कथं वृक्षधर्मस्य पुष्पवत्त्वस्य वाचो लाभ इत्यत आह- पुष्पितवृक्षवदिति । औपचारिक प्रयोग इति भावः । फलि - तार्थमाह - श्रूयमाणेति । यथा पुष्पितवृक्षो दृश्यमानरमणीयस्तद्वदियं वाक् श्रूयमाणरमणीया श्रूयमाणं रमणीयं यस्यास्सा श्रूयमाणरमणीया - श्रवणमात्रमनोहरेत्यर्थः । संसाररूपदुःखावसानत्वादिति भावः । वाक्यं लक्षणं यस्यास्सा वाक्यकक्षणा वाक्यरूपेत्यर्थः । वाक्यमिति यावत् । आकांक्षादिमत्पदकदम्बकं वाक्यमिति बोध्यम् । विशेषेण पश्यन्ति जानन्तीति विपश्चितः पृषोदरादित्वात्साधुः । न विपश्चितोऽ- विपश्चितः । जन्मनैव कर्मफलमिति । यज्ञादिविहितकर्मणः फलं स्वर्गानुभवः सच देवत्वेन जाते- नानुभाव्य:- हिंसादिनिषिद्धकर्मणः फलं नरकं तद्धि नारकत्वेन जातेनानुभाव्यं मिश्रकर्मणः फलं मनुष्यलोकः स हि मनुष्यत्वेन जातेनानुभाव्य इत्येवं कर्मफलानुभवस्य देवादिजन्मपरिग्रहपूर्वकत्वा- त्कर्मणः फलं जन्मैवेत्युक्तम् । परिवर्तन्ते भ्रमन्ति- जन्मनो मरणं मरणाज्जन्म चेत्यविच्छेदेन संस- रन्तीत्यर्थः ॥ ४२ ॥ ४३ ॥ भोगेति । तयाऽपहृतचेतसां भोगैश्वर्यप्रसक्तानां समाधौ व्यवसायात्मिका बुद्धिर्न विधीयते । तदात्मभूतानामिति । भोगैश्वर्याभिनिविष्टान्तःकरणतादात्म्याध्यासवतां - बहिर्मुखानामित्यर्थः । समा- धीयते निक्षिप्यते ईश्वरेणेति शेषः । पुरुषस्य नास्ति स्वतो भोगः अभोक्तृत्वात्किन्तु अन्तःकरणस्य विज्ञान- बुद्धयपरपर्यायस्य भोक्तुस्तादात्म्याध्यासेनैव यथाह माघः - ‘समीक्ष्योक्ते बुद्धेर्भोग इवात्म’ नीति । साङ्ख्यो के 1
७६ श्रीभगवद्गीतासु- भाप्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यात्मिक साङ्ख्ये योगे वा बुद्धिः समाधौ समाधीयतेऽस्मिन् पुरुषोपभोगाय सर्वमिति समाधि- रन्तःकरणं बुद्धिस्तस्मिन् समाधौ न विधीयते न भवतीत्यर्थः ||१४||
त्रैगुण्यविषया वेदा निस्वैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसस्वस्थो निर्योगक्षेम आत्मवान् ||१५||
य एवं विवेकबुद्धिरहितास्तेषां कामात्मनाम् — वैगुण्येति । वैगुण्यं संसारो विषयः प्रकाशयितव्यः येषां वेदानां ते वेदा: त्रैगुण्यविषयाः- त्वं तु निस्त्रैगुण्यो भवार्जुन- निष्कामो भवेत्यर्थः निर्द्वन्द्वः सुखदुःखहेतुभृतौ सप्रतिपक्षौ पदार्थों द्वन्द्वशब्दवाच्यौ ततो निर्गतः निर्द्वन्द्वी भव । किंच नित्यसत्त्वस्थो भव, सदा सत्रगुणाश्रयो भव, तथा निर्योगक्षेमो भव । अनुपात्तस्योपादानं योगः, उपात्तस्य रक्षणं क्षेमः, योगक्षेमप्रधानस्य श्रेयसि प्रवृत्तिर्दुष्करे- त्यर्थः । अतो निर्योगक्षेमो भव, आत्मवान् अप्रमत्तश्च भवेति एष तवोपदेश: स्वधर्ममनुतिष्ठतः ।। यावानर्थ उदपाने सर्वतस्सम्प्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६॥ सर्वेषु वेदोक्तेषु कर्मसु यान्यनन्तानि फलानि तानि नापेक्ष्यन्तेचेत् किमर्थं तानीश्वराये आत्मनि बुद्धेर्भोग इवेत्यर्थः । तस्मात्पुरुषोपभोगाय कामादिकं सर्वमन्तःकरणे सृष्टमी धरेणेति कृत्वा समाधिरन्तः करणं भवति । नच बुद्धेर्बुद्धौ कथं विधानमिति वाच्यं, ज्ञानस्यान्तःकरणे विधानमित्यदोषात् । न विधीयत इति कर्मकर्तरि लकार इत्याह-न भवतीति । न जायत इति यावत् । वस्तुतस्तु न विधीयते ईश्वरेणात्मनेति शेषः । तस्यैव सर्वबुद्धिप्रेरकत्वात् मत्तः स्मृतिर्ज्ञानमपोहनं चेति वक्ष्यमाणत्वात् इति ॥ ४४ ॥ । त्रैगुण्येति । त्रैगुण्यविषयास्संसारप्रकाशकाः सत्त्वादित्रिगुणजन्यत्वात्सुखदुःखादिलक्षणसं सारस्य त्रैगुण्यव्यपदेशः । केषामित्यत आह- कामात्मनामिति । निर्गतं त्रैगुण्यं यस्मात्स निस्त्रैगुण्यः निस्संसार इत्यर्थः । कामस्यैव संसारहेतुत्वात् फलितमाह — निष्काम इति । सप्रतिपक्षौ परस्परं प्रति- पक्षा वित्यर्थः । पदार्थो शीतोष्णादिरूपौ ततो निर्गत इति निरादयः क्रान्ताद्यर्थे पञ्चम्येति समासः । निर्द्वन्द्व इति द्वन्द्वसह इत्यर्थः । दुष्करेति । अनुपात्तस्य धनधान्यादेरुपादाने, उपात्तस्य च तस्य रक्षणे व्यग्रस्य संसारिणः कथं मोक्षम प्रवृत्तिर्न कथमपीत्यर्थः । आत्मवानित्यत्र आतशब्दस्य देहमनोबुद्धिपुरुषादिरूपस्य यस्य कस्याप्यर्थस्य बोधकत्वं न सम्भवति आत्मराहित्ये प्रसक्ते सति हि आत्मवत्त्वं विधेयम् तदेव न सम्भवति देहादिरूपाणामात्मनां विधानात्प्रागेव सत्त्वादित्यभिप्रेत्य अप्रमत्त इत्युक्तम् । मनोवाचिनो बुद्धिवाचिनो वा आत्मशब्दस्य तद्धर्मे अवधाने लक्षणेति भावः । एष इति । निस्त्रैगुण्य इत्यादिना प्रोक्त इत्यर्थः । स्वधर्ममनुतिष्ठत- स्तवेत्यन्वयः ||४५ || यावानिति श्लोकमवतारयति — सर्वेष्विति । फलाभावाद्योगमार्गो व्यर्थ इति प्रष्टुराशयः । -द्वितीयोऽध्यायः ।
७७ त्यनुष्ठीयन्त इति उच्यते तच्छृणु - यावानिति । यथा लोके कूपतटाकादावनेकस्मिन्नुदपाने परिच्छिन्नोदके यावान्यावत्परिमाणः स्नानपानादिरर्थः फलं प्रयोजनं स सर्वोर्थः सर्वतस्सम्प्लु- तोदके- योर्थस्तावानेव सम्पद्यते तत्रान्तर्भवतीत्यर्थः । एवं तावान् तावत्परिमाण एव सम्पद्यते । सर्वेषु वेदेषु वेदोक्तेषु कर्मस्वर्थो यो यत्परिमाणं कर्मफलं सोऽर्थो ब्राह्मणस्य सन्न्यासिनः आक्षेपसमाधानं प्रतिजानीते - उच्यते तदिति । तच्छन्दस्य योगानुष्ठानस्य फलमित्यर्थः । किमिध- मिति फलस्यैव। क्षिप्तत्वादिति भावः । श्रोतुम्सावधानत्वापादनायाह — शृण्विति वाक्यार्थः कर्म । यावानिति । यावत्तावदर्थशब्दानामावृत्तिः । उदपाने यावानर्थ: सर्वसम्प्लुतोदके तावानर्थः सर्वेषु वेदेषु यावानर्थ: विजानतो ब्राह्मणस्य तवानर्थ इत्यन्वयः । पूर्वार्थस्य दृष्टान्तत्वादाह — यथेति । दृष्टान्तार्थस्य लोक सिद्धत्वादाह - लोके इति । उदकं पीयतेस्मिन्निति उदकस्य पानं यस्मिंस्तदिति वा व्युत्पत्त्या उदकस्योदरसज्ञायामित्युदादेशे सिध्यत्युद- पानमिति रूपं किं दुदपानमत आह— कूपेति । आदिपदाद्वाप्यादिग्रहणम् । उदपानानां नानात्वा- दाह - अनेकस्मिन्निति । कस्मादनेकत्वमत आह— परिच्छिन्नेति । परिच्छिन्नत्वस्य नानात्व- प्रयोजकत्वादिति भावः ।
यावानिति । यच्छब्दात्परिमाणे डवतुब्विहित इत्यभिप्रायादाह — यावत्परिमाण इति । अर्थविशेषं दर्शयति — स्नानेति । अर्थशब्दार्थमाह — फलमिति । फल्गुत्वेन लीयत इति फलम् । यावदर्थमाह — प्रयोजनमिति । स इति । एतदानुगुण्येन खानपानादिरर्थ इत्यत्र खानपानादियर्थ इति यच्छब्दाध्याहारो बोध्यः । नतु यः कश्चनार्थ इस्याह - सर्व इति । सर्वतस्सम्प्लुतं व्याप्तमुदकं यस्य तस्मिन् सर्वतस्सम्प्लुतोदके अपरिच्छिन्नोदके समुद्रे इत्यर्थः । मूले क्रियापदाभावात्तदध्याहृत्याह- सम्पद्यत इति । जायत इत्यर्थः । ननु परीच्छिन्नोदके यावानर्थोऽपरिच्छिन्नोदकेपि तावानर्थ इति कथमुच्यतेऽत आह-तत्रान्तर्भवतीति । परिच्छिन्नोदकानां कूपादीनामपरिच्छिन्नोदकसमुद्रांशत्वाद्धटा- काशानां महाकाशांशत्ववदिति भावः । नच कथं कूपादीनां समुद्रांशत्वं समुद्रव्यवहितत्वादिति वाच्यं, समुद्रमध्ये भुव ईश्वरेण स्थापितत्वात्समुद्रजलस्यैव भूगतवापीकूपेष्वनुगतत्वान्नदीतटाकादिषु च मेघदृष्टिद्वारा तज्जलस्यैव वर्तमानत्वाच्च । तस्माल्लोके येऽस्माभिः कूपे तटाकादौ वा स्नातं जलं पीतमिति मन्यन्ते तैस्सर्वे समुद्र एव स्नातं समुद्रजलमेव पीतं भवति वस्तुत इति भावः । उत्तरार्थस्य दान्तिकत्वादाह - एवमिति । तावच्छब्दस्य पूर्वमनुक्तार्थत्वादाह - तावत्परि- माण इति । वेदेषु फलाभावादाह - वेदोक्तेषु कर्मस्विति । यज्ञादिष्वित्यर्थः । यावानित्यस्यात्रा- प्यन्वय इत्यभिप्रेत्याह — यत्परिमाणमिति । कर्मफलं स्वर्गादिकम् । योर्थ इति । यच्छब्दस्योक्तत्वा- दाह - सोर्थ इति । इदं च यत्तच्छब्दद्वयमन्वयसौष्ठवाय भाष्यकारैरध्याहृतम् । नायं जातिमात्रवाची ब्राह्मणशब्दोऽमुख्यः, किंतु मुख्य एवेत्याह-सन्न्यासिन इति । ‘जन्मना जायते शूद्रः कर्मणा जायते द्विजः । वेदपाठेन विप्रस्स्याद्वयज्ञानेन ब्राह्मण’ इति वच-
७८ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु परमार्थतत्त्वं विजानतः योऽर्थो विज्ञानफलं यत् सर्वतस्सम्प्लुतोदकस्थानीयं तस्मिन् तावानेव नात् ब्रह्मज्ञानस्य च वेदान्तश्रवणाय धीनत्वातत्र च शान्तो दान्त उपरन इति सम्न्यासिन एवाधिकारा- ब्राह्मणो निर्वेदमायादिति ब्राह्मणजातीयस्यैव सन्न्यासेऽधिकाराच्च ब्रह्मज्ञानि ब्राह्मणसम्न्यासिपरएव मुख्यो ब्राह्मणशब्द इति भावः । ब्रह्मणोयं ब्राह्मणः । वेद्यवेदितृभावरूपसम्बन्धे शेषे तस्येदमित्यण् । ब्रह्मवि- दित्यर्थः । नच ब्राह्मो जाताविति पाणिनिसूत्रादजातौ ब्राह्म इति स्यादिति वाच्यं तत्र ब्रह्मशब्दस्य पुंलिङ्गस्य हिरण्यगर्भार्थकस्य ग्रहणात् । अत्र ब्रह्मशब्दस्य परब्रदायाचित्वाच । अतएवाजातौ किं ब्राह्मो नारद इति प्रत्युदाहृतम् — उत्सङ्गान्नारदो जज्ञे इति हिरण्यगर्भाङ्गभवत्वान्नारदस्य । किंच ‘ब्राह्मणोस्य मुखमासी’ दिति श्रुतिश्च ब्राह्मणादिजात्युत्पत्तिहेतुं साकारमेव पुरुषं निर्दिशति न तु निराकारं ब्रह्म– तस्य मुखाद्यवयवाभावात् । नच ब्राह्मणशब्दो ब्रशज्ञानिनमेव वक्ति नतु सन्न्या सिनमिति वाच्यं, असन्न्यासिनो ब्रह्मज्ञानित्वाभावात् । नच गृहस्थो जनकादिर्वाज्ञान्येवेति वाच्यं, जनकादेर्यदि ब्रह्म- वित्त्वेन ब्राह्मणत्वं स्यात्तर्हि कर्मगतफलाभिसन्धिकर्तृत्व परित्यागेन सन्न्यासित्वमपि स्यात् - जनकादेः कर्माकर्मवेत्युक्तत्वात् । ‘कर्मण्यभिप्रवृत्तोपि नैव किञ्चित्करोति स ’ इति मूल एव नक्ष्यमाणत्वाच्च । कर्मणामकर्तृत्वं हि सन्न्यासः तस्माद्राह्मणस्सन्न्यास्येव ।
अस्तु वा सूत्रगतब्रह्मशब्दस्य परब्रह्मव । चित्वं तथापि न काचिदत्रानुपपत्ति: ब्राह्मणजातीयस्यैव सन्स्यास इत्युक्तत्वात् । नचैवं ब्राह्मणस्येत्यस्य ब्राह्मणजातीयो गृहस्थादिरप्यर्थस्स्यादिति वाच्यं विजानत इति विशेषणात् विजानत्त्वं हि ब्रह्मवित्त्वं तचासन्न्यासिनो न भवत्येवेति । एतेन ब्राह्मणस्य वैदिक- स्येति रामानुजोक्तार्थः परास्त: — तस्य तत्त्वविज्ञानाभावेन विजानत इति विशेषणा साङ्गत्यप्रसङ्गात् । नच वेदविदो वैदिका एव ब्रह्मविद इति वाच्यं, ‘बेदवादरताः पार्थ नान्यदस्तीति वादिनः । त्रैगुण्य- विषया वेदा’ इति वेदविदामब्रह्मवित्त्वस्य वेदानां त्रैगुण्यपरत्वस्य च भगवतैवोक्तत्वात् । यत्त्वत्र वेदान्तदेशिकः — ब्रह्मानितीति निरुक्त्या ब्राह्मणः शकन्ध्वादिषु पररूपं वक्तव्यमिति पररूपे कृंते प्रज्ञादित्वादण्प्रत्यये च ब्राह्मण इति रूपं भवति ब्रह्म चात्र वेद इति, तत्तुच्छम् - प्रज्ञा- दिषु ब्रह्मणशब्दाभावात् ब्रह्मण इति कापि प्रथमान्तपदप्रयोगाभावेन प्रज्ञादिषु शकन्ध्यादिषु वा आकृति- गणत्वेन तद्ग्रहणायोगात् - प्रसिद्धपदप्रयोगनिर्वहणाय हि स्वीकृत आकृतिगणः । किंच ब्रह्मानितीति व्युत्पत्तौ कर्मण्यण् स्यात् ततश्च वृद्धो ब्रह्माण इत्येव स्यादिति । किं विजानतोऽत आह— परमार्थ- सत्वमिति । ब्रह्मेत्यर्थः । विज्ञानदर्थस्य न ज्ञानफलत्वादाह - विज्ञानफलमिति । पूर्वोक्तदृष्टान्त- वाक्यस्थेन केन पदार्थेन सहास्य विम्बप्रतिविम्बभावोत आह— यत्सर्वत इति । सर्वतस्सम्प्लुतोदक- फलस्थानीयमित्यर्थः । विज्ञानस्यैव सर्वतस्सम्प्लुतोदकस्थानीयत्वादिति भावः । स्थानीयं तुल्यमित्यर्थः । तस्मिन्निति विज्ञानफले अपरिच्छिन्ने ब्रह्मानन्दे इत्यर्थः । ब्रह्मानन्दलक्षणमोक्षस्यैव विज्ञानफलत्वादिति भावः । तावानेव सम्पद्यत इति तत्रैवान्तर्भवति- ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तीति श्रुतेः । अपरिच्छिन्नब्रह्मानन्दांशत्वात्परिच्छिन्न स्वर्गादिविषयानुभव जन्यानन्दानामिति भावः । ११
७९ सम्पद्यते । ‘सर्व तदभिसमेति यत्किंच प्रजास्साधु कुर्वन्ति यस्तद्वेद यत्सवेदे ‘ति श्रुतेः । सर्व कर्माखिलमिति च वक्ष्यति तस्मात् प्राक् ज्ञाननिष्ठाधिकारप्राप्तेः कर्मण्यधिकृतेन कूपतटाका स्थानीयमपि कर्म कर्तव्यम् ॥ ४६ ॥ 24 ननु कर्मफलं ज्ञानफलेऽन्तर्भवतीत्यत्र किं प्रमाणमत आह सर्वमिति । प्रजा यत्किञ्च साधु सत्कर्म कुर्वन्ति तत्सर्व स इति शेषः । अघिसमेति प्राप्नोति कस्स इत्यत आह- यस्तद्वेदेति । किं तरित्यत आह- यत्सवेदेति । स रैक्वो यद्वेद तद्ब्रह्म यो वेद स तत्त्ववित्प्रजाकर्तृक सर्व साधु कर्मफलं प्राप्नोति तत्त्ववित्प्रासब्रह्मानन्दांशत्यात्प्रजा साधुकर्मफलभूतानन्दस्येति भावः । स्मृतिमपि प्रमाणयति सर्वमिति । ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यत’ इति गीता श्लोकः । ज्ञानफले कर्मफलस्यान्ज- र्भावादज्ञाने कर्मणः परिसमाप्तिरित्यर्थः ।
अयमत्र भाष्यपदान्वयः —— यथा उदपाने यावान्योर्थः स सर्वोर्थः सर्वतस्सम्प्रतोद के योर्थस्तावा- नेव सम्पद्यते एवं सर्वेषु वेदेषु यावान्योर्थः सोर्थः विजानतो ब्राह्मणस्य योर्थः तावानेव सम्पद्यते इति । श्लोकव्याख्यामुपसंहरन् फलितमाह तस्मादिति । समुद्रफले कूपफलस्येव विज्ञानफले कर्मफलस्यान्त- र्भावादित्यर्थः । अधिकृतेन कर्म कर्तव्यमित्यन्वयः । काधिकृतेनेत्यत आह- कर्मणीति । कियत्पर्यन्त- मत आह— प्रागिति । ज्ञाननिष्ठायां यावता कालेनास्याधिकारो भवति तावत्पर्यन्तमित्यर्थः । ज्ञान- निष्ठाधिकारप्राप्त्यनन्तरं तु कर्म नैव कर्तव्यमिति भावः । कीदृशं कर्मेत्यत आह — क्रूपेति । अर्थ- शब्दोत्र वस्तुवाच्येव नतु फलवाची । कूपतटाकादिस्थानीयमित्यर्थः । अपिशब्दाद्विज्ञानादल्पत्वेन कर्तु- मयुक्तमपीति गम्यते । विज्ञानेऽधिकाराभावादिति भावः । ननु किमर्थं कर्मयोगानुष्ठानमिति यदादावाक्षिप्तं तस्य किं समाधानमायातमिति चेदुच्यते- मोक्षपदायां ज्ञाननिष्ठायामधिकाराभावात्तदधिकारसिद्धधर्ये कर्मयोगानुष्ठानमिति । नच नाये समाधा- नार्थो मूलप्रदायातीति वाच्यं, अर्थादेतत्सिद्धेः । तथाहि – विज्ञानमेव सर्वैस्सम्पाद्यं समुद्रफले कूपफलस्येव विज्ञानफले ब्रह्मानन्दे एव सर्वकर्मफलविषयानन्दानामन्तर्भावात् । तच विज्ञानं कर्मयोगानुष्ठानं विना दुस्सम्पादमिति कृत्वा मुमुक्षुणा विज्ञानसिद्ध्यर्थं कर्मयोगोऽनुष्ठेय इति । एवं ज्ञानप्राप्तिद्वारा अपरि- च्छिन्नब्रझानन्दमा सिहेतुत्वातचक्षुद्रफलान्यनभिसन्धाय विहितानि कर्माण्यधिकृतेन कर्तव्यानीति परमार्थः । अत्र भाष्ये कर्मफलमित्यस्य अनभिसंहितकर्मफलं चितशुद्धिरूपार्थ इत्यर्थः । कूपतटाकाद्यर्थ- स्थानीयमित्यस्य कूपतटाकादौ योऽर्थः खानपानादिक्रिया तत्तुल्यमित्यर्थः । ततश्च समुद्रे सिष्णासुः पुरुषः यथा समुद्रखानाधिकारसिद्धधर्थं समुद्रस्नानात्पावकूपताकादौ खानाचमनादिकियां करोति तथा मुमुक्षुः पुरुषः मोक्षसाधनज्ञाननिष्ठाधिकार सिद्ध्यर्थं ततः प्रागफलाभिसन्धि विहितं कर्म कुर्यात् । स यथा कूपादि स्वानानन्तरं समुदे स्वाति देहस्य शुद्धत्वात् तथाऽयं कर्मयोगानुष्ठानानन्तरं ज्ञाननिष्ठां प्राप्नुयास्थितस्य शुद्धत्वात् । यथा तस्य कूपादिस्नानजं फलं समुद्रस्नानफले एवान्तर्भवति, समुद्रखानातिरिक्त कूपादि- स्वानजन्य फल्यभावात् तथाऽस्यापि कर्मफलं विज्ञानफले एवान्तर्भवति । एवं च कूपज्ञानसमुद्रस्नानयोरिव
८० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाप्योपेतासु कर्मज्ञानयोगयोरस्त्युपजीव्योपजीवकभावः- कूपस्नानसाध्यत्वात्समुद्रस्नानस्य, कर्मयोगसाध्यत्वाच्च ज्ञानयोगस्य उभयोः फलविषये तु हस्तिमशकान्तरमस्त्येव - कूपस्नानस्य देहमलापाकरणमात्र फलकत्वात्समुद्रस्नानस्य च सर्वनदीस्नानजन्यमहाफलकत्वात् । तथा कर्मयोगस्य चित्तशुद्धिमानफलकत्वाद्विज्ञानस्य च निरति- शयानन्दमोक्षरूपपरमपुरुषार्थ फलकत्वादिति केचिद्वर्णयन्ति । अस्मिन्पक्षे- किमर्थं कर्मयोगानुष्ठानमि- त्याक्षेपस्य समुद्रस्नाधिकार सिद्धार्थं कृपादिस्नानमिव ज्ञाननिष्ठाधिकारसिद्धयर्थं कर्मयोगानुष्ठानमिति कण्ठोत्तमेवोत्तरं सिद्धयति । ननु ‘कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जल’ मिति न्यायेन पिपासुरुदकपाने यावत्परि- माणं जलं पिबति सर्वतस्सम्प्लुतोदकेपि तावत्परिमाणमेव जलं पिबति । नच समुद्रजलमपेयमिति वाच्यं वाप्पभूतस्य समुद्रजलस्य पेयत्वात् इत्यनेनोच्यत इतिचेत्, मैवम्-दान्तिकाननुरोधा- स्कृतस्यार्थस्य । नच दार्शन्तिकेपि सर्वेषु वेदोक्तेषु कर्मसु यावत्फलं लभते कमीं तावदेव सन्न्यासी विज्ञाने फलं लभत इत्यथों वाच्य इति वाच्यं कर्मफलेभ्यस्स्वर्गादिभ्योऽनित्येभ्यः विज्ञानफलस्य मोक्षस्य नित्यस्य परमोत्कृष्टत्वात् । अत एव हि ‘यदहरेव विरजेत्तदहरेव प्रत्रजेदिति श्रुत्या कर्मफलेषु स्वर्गपशुपुत्रादिषु क्षयिष्णुत्व- सातिशयत्वादिदोषदर्शनेन यस्य पुरुषस्य यस्मिन्नहनि विरागो जायते स तस्मिन्नेवाहनि सन्न्यासं स्वीकुर्यादित्युक्तम् । अन्यथा विज्ञानफलस्यापि कर्मफलतुल्यत्वे अथातो ब्रह्मजिज्ञासेत्यारब्धं वेदान्तशास्त्रं व्यर्थमेव स्यात्, अथातो धर्मजिज्ञासेति पूर्वमीमांसाशास्त्रेणैव स्वर्गादित्यभात् । नच व्यर्थ भवतु को दोष इति वाच्यं, ‘तरति शोकमात्मवित् त्रह्मविद्रमैव भवति, आत्माबारे द्रष्टव्य’ इत्यादिज्ञानतत्फल- विधायकश्रुतिशतविरोधात् तस्याप्यङ्गीकारेनुभवविरोधो बलवान् जागर्ति कर्मिणां दुःखात्मकसंसार- स्यानुपरमदर्शनात्, सन्न्यासिनां तदुपरमेण निरतिशयात्मानन्दानुभवदर्शनाच्च । तस्माद्विज्ञानफल कर्म फलयो- हस्तिमशक्योरिव महदन्तरम् । नचानभिसंहितफलानां कर्मणां मोक्षः फलमिति वाच्यं, चितशुद्धेरेव फलावादिति । अत्र यथा गङ्गायमुनादितत्तन्नदीस्नानादिजन्यानि तानि तानि फलानि समुद्रस्नाना- देकस्मादेव पुरुषस्य भवन्ति तथा तत्तत्कर्मजन्या हैरण्यगर्भाद्यानन्दा एकस्मादेव ब्रह्मज्ञानाद्विदुषो भव - न्तीति कतिचिद्वर्णयन्ति । यवाह रामानुजः - नच वेदोदितं सर्वे सर्वस्योपादेयं यथा सर्वार्थपरिकल्पिते सर्वतसम्प्लु- सोदके उदपाने पिपासोर्याबानर्थ: यावदेव प्रयोजनं पानीयं तावदेव तेनोपादीयते न सर्वमेव सर्वेषु च वेदेषु ब्राह्मणस्य विजानतो वैदिकस्य मुमुक्षोर्यदेव मोक्षसाधनं तदेवोपादेयं नान्यदिति । तन्मन्दम् — सर्वतस्स म्प्लुतोदकः शब्दात्सर्वार्थिपरिकल्पितत्व रूपार्थलाभात्- कूपादेस्नानादियत्किञ्चिदर्थपरिकरि तत्वेन सर्वतस्सम्प्लुतोदकशब्दात्सर्वार्थिपरिकल्पितत्वरूपार्थलाभात्- सर्वार्थपरिकल्पितत्वाभावाच्च नहि स्त्रीपश्वादिकामस्य कृपादिना यः कचिदर्थः । सर्वशब्दस्य संकोचश्च न न्याय्यः । तथा यावत्प्रयोजनं तावतेनोपादीयत इत्यप्ययुक्तम् — जलस्यैवोपादेयत्वेन प्रयोजनस्यानुपा- देयत्वात् । प्रयोजनव । चिनोरर्यशब्दस्य जलबाचित्वाभावात् । यावतार्थेन जलेन प्रयोजनं तावदेव जल
द्वितीयोऽध्यायः । कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि ॥४७॥ I ८१ तव च कर्मणीति । कर्मण्येवाधिकारः न ज्ञाननिष्ठायां ते तव तत्र च कर्म कुर्वतः मा फलेष्वधिकारोस्तु कर्मफलतृष्णा माभृत् | कदाचन कस्यचिदप्यवस्थायामित्यर्थः । यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेहेतुः स्याः, एवं मा कर्मफलहेतुर्भूः यदा हि कर्म- तेनोपादीयत इति वक्तव्यत्वाद। नच तथैव वदामीति वाच्यं यावानिति प्रथमान्तपदसस्यात् । तेनेति उपादीयत इति च कर्मक्रिययोर्द्वयोर्मूलाद्बहिः कल्पितत्वात् । पिपासोरिति च नियन्तुमशक्यम् — सिष्णा- स्वादिसत्वात् । यदि पिपासोरित्युदाहरणार्थं तर्हि आराम से चने च्छोरपि ग्रहणं स्यात् । नचेष्टापत्ति :– तस्य सर्वेणापि कूपजलेन प्रयोजनसत्त्वात् । तावदेव तेनोपादीयते न सर्वमिति वक्तुमशक्यत्वात् । तथा ब्राह्मणशब्दाद्वैदिकार्थलाभः प्रागेव प्रत्युक्तः । विजानत इति शब्दाच्च न मुमुक्षुलाभ:- वेद- बादरतानां वैदिकानां बहूनां कामात्मनामेव दर्शनात् वैदिकस्याथातो धर्मजिज्ञासेति कर्मस्येव प्रवृत्तत्त्वेन मुमुक्षुत्वासम्भवात्- ‘त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्ज’ नेति भगवतैव वैदिकत्वस्य कामहेतुत्वे भवार्जु’नेति दूषितत्वात् निष्कामस्यैव मुमुक्षुत्वाच्च निष्कामस्तु न वैदिकः, किंतु वेदान्त्येवेति सिद्धान्तात् । यो विशेषेणात्मतत्त्वं विजानाति स हि विजानन्नित्युच्यते, सच मुक्त एवेति किमिति मुमुक्षुस्ख तस्य । स्वयापि नित्यमुक्तानामनन्तगरुडादीनामीश्वरस्य च विजानत्त्वमभ्युपगतम् । किं च मुमुक्षोरेव ज्ञानेऽधिकार :- मुमुक्षुर्हि वेदान्तश्रवणादिकं कृत्वा तमात्मानं विशेषेण जानातीति कथं विजानत्वस्यैव मुमुक्षुत्वं ! मुमुक्षुत्वानन्तरभाव्यत्वाद्विज्ञानस्य । यदेव मोक्षसाधनं तदेयोपादेयमिति सर्वमपि वाक्यं मूलाद्वहिः कल्पितत्वानुतरामप्रमाणम् । वेदान्तेष्वेव मोक्षसाघनज्ञानश्रवणाद्वेदेषु मोक्षसाधनमित्यप्ययुक्तम् – वेदेष्वेव मोक्षसाधनस्यापि धर्मादिसाधनयज्ञादेरिव श्रवणेसति वेदान्तश्रवणाद्यानर्थषयात्- पूर्वोत्तरमीमांसाभेदेन शास्त्र भेदकल्पनस्या- प्ययुक्तत्वापतेः । नच सर्वशब्दस्वारस्यादुपनिषदोपि वेदा एवेति वाच्यं, त्रैगुण्यविषया वेदा इति भगव- तैवत्वादुपनिषदाच्च सत्त्वादिगुणातीत ब्रह्मात्मतत्व प्रतिपादकत्वात् ॥ ४६ ॥ कर्मणीति । एवकारार्थमाह-न ज्ञाननिष्ठायामिति । ते तवेति क्षत्रियस्येत्यर्थ:- ब्रह्मण- स्यैव सन्न्यासाधिकारात् ‘ब्राह्मणो निर्वेदमायाद्वाह्मणः प्रव्रजेदित्यादिश्रुतिभ्यः । यद्वा वियेकवैराग्यादि- रहितस्येत्यर्थः । विवेकादिशालिन एव सन्न्यासेऽधिकारात् । ज्ञाननिष्ठा हि सर्वकर्मसन्न्यासः तत्पूर्वि - केति वा । तृष्णा स्पृहा कस्यां चिदपीति स्वप्नाद्यवस्थास्वपीत्यर्थः । I नच माफलेषु कदाचनेत्यनेन फलहेतुर्माभूरित्यस्य पौनरुक्त्यमिति वाच्यं फलेषु स्वर्गादिष्विति, कर्मफलस्य जन्मन इति च व्याख्यातत्वात् । यदि तव स्वर्गादिषु तृष्णा स्यात्तर्हि तदनुभवाय तत्र जन्मापि स्यात्तस्मात् फलहेतुर्जन्म हेतुश्च मा भूस्खमिति वक्तुं वाक्यद्वयस्यावश्यकस्यात् । कर्मफलहेतुत्वं नाम कर्म- फलरूपजन्मानुभवितृत्वम् फलेष्वधिकारो नाम फलविषयस्पृहेति विवेकः । यदि कर्मफलं नेप्यते
८२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु फल तृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जस्मनो हेतुर्भवेत् यदि कर्मफलं नेष्यते किं कर्मणा दुःखरूपेणेति मा ते तव सङ्गोस्त्वकर्मणि अकरणे प्रीतिर्माभूत् ॥४७॥ योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ! सिद्धयसिद्धयोस्समो भृत्वा समत्वं योग उच्यते ॥ ४८ ॥ यदि फलप्रयुक्तेन न कर्तव्यं कर्म कथं तर्हि कर्तव्यमित्युच्यते - योगस्थ इति । योगस्थस्सन कुरु कर्माणि केवलमीश्वराराधनार्थम् । तत्रापीश्वरो मे तुष्यत्विति सङ्गं त्यक्त्वा धनंजय ! फलतृष्णाशुन्येन क्रियमाणे कर्मणि सच्चशुद्धिद्वारा ज्ञानप्राप्तिलक्षणासिद्धिस्तद्विपर्ययजा तर्हि दुःखरूपेण कर्मणा किमिति शङ्कायामादमा ते सङ्गोस्त्वकर्मणीति । कर्मशब्दस्य क्रियायां यज्ञादिकर्मणि च प्रसिद्धत्वादाह – अकर्मणि अकरणे इति कर्मणामकरणे इत्यर्थः । फलमनभिसन्धाय क्या कर्माण्येव कर्तव्यानि, नतु सन्न्यासस्तत्र तवानधिकारादिति श्लोकस्य फलितार्थः । यत्तु रमानुजः — फलस्य च क्षुनिवृत्त्यादेर्न त्वं हेतुरित्यनुसन्धेयमिति, तत्तुच्छम् - भोज- नादिकर्मणामकर्मत्वात् क्षुन्निवृत्त्यादेचा फलत्वात् न हि केन चिच्छाखेण कश्चिद्भोजनादिकर्मण्यधि- क्रियते येन भोजनादिकर्मण्येव तवाधिकार इत्युच्येत । नक्तमोनोपवासपारणादिकं तु नित्यनैमित्ति- कादिकर्माङ्गमेवेति न तत्र पृथग्विधिः । किं च यदि क्षुन्निवृत्त्यादिः फलं स्यात्कथं तत्सङ्गो भोक्तुर्न भवेत् यज्ञादिकर्मण स्वर्गादिफलं तु कालान्तरभावीति तत्सङ्गरस्य ते शक्यः पुंसा । अपि च फलमनभि- सन्धाय यज्ञादीनि क्रियन्तांनाम, क्षुनिवृत्तिमनभिसन्धाय कथं क्षुषितो भोजने प्रवर्तेत । अन्यथा अक्षु- चितस्यापि भोजने प्रवृत्तिस्स्यात् । यत्तु क्षुत्पिपासादेः प्राणधर्मस्यानुसन्धानं भोजनादेश्व शरीरधर्मत्वानु- सन्धान सा ज्ञाननिष्ठैव- अविक्रियात्मदर्शन हेतुत्वात् । तथा कर्मफलयोर्हेतुर्माभूरिति च रामानुजोक- मसत्- कर्मण्येवाधिकार इति कर्महेतुत्वस्योक्तत्वात् ।
यञ्चोक्तम् – वेदान्तदेशिकेन कर्तृत्वानभिसन्धानमेव कर्माहेतुत्वमिति, तच्चायुक्तम् – कर्तृत्वा- नभिसन्धानस्य फलाहेतुत्वात् यः कर्ताहमिति मन्यते स एव हि फलमभिसन्धते कर्माहेतुत्वे तु कर्मैव न स्यात् - यथा फलाहेतुत्वे फलस्य स्वरूपानिष्पतिः, तथा कर्माहेतुत्वे किमिति कर्मणः स्वरूपा निष्पत्तिर्न भवेत् ॥४७॥ 1 योगस्थ इति । हे धनञ्जय सङ्गं त्यक्त्वा सिद्ध्यसिद्धयोस्समो भूत्वा योगस्थस्सन् कर्माणि कुरु इत्यन्वयः । फलप्रयुक्तेनेति । फलाभिसन्धिमतेत्यर्थः । अथवा प्रयुक्तं प्रयोग इति भावे कः- प्रसङ्ग इति यावत् । पुंसेति शेषः । फलप्रसङ्गेन कर्म न कर्तव्यं फलमभिसन्धाय कर्म न कुर्याद्विवेकीत्यर्थः इति शङ्कायामिति शेषः । उच्यते भगवतेति शेषः । कर्माणि कुर्वित्यत्र किमर्थमित्याशङ्कां पूरयति- केवलमीश्वराराधनार्थमिति । तत्रापीश्वराराधनत्वेपीत्यर्थः । ईश्वरप्रीतावपि स्पृहा न कार्येत्यर्यः । ईश्वरमीत्याशाया अपि सिद्धयसिद्धिशङ्कादिना चितचाश्चरयहेतुत्वादिति भावः । तद्विपर्ययजेति । तच्छब्देन चितशुद्धिः परामृश्यते । चित्तशुद्धेर्विपर्ययश्ध चित्ताशुद्धिः तस्माज्जायत इति तज्जाज्ञान
द्वितीयोऽध्यायः । ८३ असिद्धिः तयोस्सिद्ध्यसिद्धयोरपि समस्तुल्यो भूत्वा कुरु कर्माणि कोऽसौ योगः– यत्र स्थित्वा कर्म कुर्वित्युक्तं इदमेव तत्सिद्ध्यसिद्धयोस्समत्वं योग उच्यते ॥ ४८ ॥ दूरेण ह्यवरं कर्म बुद्धियोगाद्धनंजय ! बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः || ४९|| यत्पुनस्समत्वबुद्धियुक्तमीश्वराराधनार्थं कर्म एतस्मात्कर्मणः- दुरेणेति । दुरेणाति- विप्रकर्षेण हि अवरं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात् समत्वबुद्धियुक्तात् कर्मणः जन्ममरणादिहेतुत्वादित्यर्थः । धनंजय ! यत एवमतो योगविषयायां बुद्धौ तत्परिपाक- जायां वा साङ्ख्ये बुद्धौ शरणमाश्रयमभयप्राप्तिकारणमन्विच्छ प्रार्थयस्व । परमार्थज्ञानशरणो भवेत्यर्थः । यतः अवरं कर्म कुर्वाणाः कृपणा: दीना:- फलहेतवः फलतृष्णाप्रयुक्तास्सन्तः । ‘यो वा एतदक्षरं गार्ग्यविदित्यास्माल्लोकात् प्रैति स कृपण’ इति श्रुतेः ॥ ४९ ॥ प्राप्तौ रागः तदप्राप्तौ द्वेषश्च न कर्तव्य इति भावः । योगस्थशब्दगतयोगशब्दार्थं भगवानेव तुरीयपादेन वक्तीत्याह - कोसी योग इत्यादि । उच्यत इति शास्त्रशैरिति शेषः । यत्तु रामानुजः – राज्यबन्धुप्रभृतिषु सङ्ग त्यक्त्वा तदन्तर्भूतविजयादिसिद्ध्यसिद्ध्यो (समो भूत्वेति, तस्तुच्छम् — मा फलेषु कदाचनेत्यनेनैव राज्यादिफलसङ्गस्या कर्तव्यत्वस्योक्तत्वात् । बन्धु- प्रभृतिषु सना कर्तव्यत्वस्य अशोच्या नित्यारभ्य न त्वं शोचितुमईसीत्येतदन्तेन ग्रन्थेन प्रतिपादितत्वात् । प्रधानफलसिद्ध्यसिद्धयोस्समत्वमुपेक्ष्य तदन्तर्भूतविजयादिसिद्ध्यसिद्धिसमत्व वचनस्यायुक्तत्वात् । प्रधान- फलसिद्ध्यसिद्धिसमत्वस्येतः प्रागनुक्तत्वाच्च । सुखदुःखे समे कृत्वेति श्लोके जयापजय समत्वस्यो- कत्वाच्च ॥४८॥ दूरेणेति । हे धनञ्जय ! बुद्धियोगात्कर्म दूरेणावरं हि- बुद्धौ शरणमन्विच्छ । फलहेतवः कृपणा भवन्तीति शेषः । बुद्धिना व्यवसायात्मकबुद्धिना योगो यस्य तद्बुद्धियोगं तस्माद्बुद्धियोगात् । फलितमाह - समत्वबुद्धियुक्तात्कर्मण इति, जन्ममरणादिहेतुत्वादिति । फलार्थिनां क्रियमाणस्य कर्मण इति भावः । स्वर्गादिफलानुभवार्थे जन्म, तस्सुकृतक्षयानन्तरं मरणं चेति बोध्यम् । आदिशब्दा- सुखदुःखादिग्रहणम् । परिपाकजा परिणामजाता- फलभूतेति यावत् । साङ्ख्ये बुद्धौ साङ्ख्यविषयायां बुद्धावित्यर्थः । परमार्थज्ञानमेव शरणमभयप्राप्तिकारण यस्य स परमार्थज्ञानशरणः । फलहेतव स्सन्तः मवरं कर्म कुर्वाणाः कृपणा इत्यन्वयः । फलहेतव इत्यनेनार्थसिद्धस्यैव वचनमवरं कर्म कुर्वाणा इति कर्मफलतृष्णाशालित्वरूपफलहेतुस्यवन्तो वरं कर्म कुर्वन्ति । कर्मण एकस्यैवोत्कर्षापकर्षो तत्कर्तृबुद्धि- गतफलासङ्गतरसङ्गप्रयुक्तावेव न तु स्वाभाविकाविति बोध्यम् । एतेनाविवेकिकामिजनसमाश्रयत्कर्मणा- मेवापकर्षो जात इति तन्निन्दा सूच्यते । फलहेतूनां कृपणत्वे श्रुतिं प्रमाणयति – यो वेति । गार्गि यो वा पुरुषः एतदक्षरमविनाशि- ब्रझेति यावत् । अविदित्वा अस्माल्लोकान्मनुष्यलोकानैति मनुष्य- लोकं विहाय स्वर्गादिलोकं प्राप्नोति स्वकृतफलसनपूर्वक कर्मफलानुभवार्थे भूरादिलोकान् प्राप्नोतीत्यर्थः ।
८४ श्रीभगवद्गीतासु भाय्यार्कप्रकाशविलसित श्रीशङ्करभाष्योपेतासु बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यख योगः कर्मसु कौशलम् ॥५०॥ समत्वबुद्धियुक्तस्सन् स्वधर्ममनुतिष्ठन् यत्फलं प्राप्नोति तच्छृणु-बुद्धियुक्तः कर्मणि समत्वविषया बुद्धया युक्तो बुद्धियुक्त:- जहाति परित्यजति - इहास्मिन् लोके- उभे सुकृत- दुष्करे पुण्यपापे - सच्चशुद्धिज्ञानप्राप्तिद्वारेण तस्मात्समत्वबुद्धियोगाय युज्यस्त्र घटस्व- योगो हि कर्मसु कौशलं स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्धयोस्समत्वबुद्धि:- ईश्वरार्पित- चेतस्तथा तरकौशलं कुशलभावः तद्धि कौशलं यत् बन्धस्वभावान्यपि कर्माणि समत्वबुद्धया स्वभावान्निवर्त्यन्ते तस्मात्समत्वबुद्धियुक्तो भव त्वम् ॥५०॥ कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥५१॥ I यस्मात् कर्मजमिति । कर्मजं फलं त्यक्त्वेति व्यवहितेन सम्बन्धः । इष्टानिष्टदेह- प्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धियुक्ताः समत्वबुद्धियुक्ताः हि यस्मात् फलं त्यत्क्वा सोऽपि विद्वान् पुरुषः कृपणदशोच्यः । अस्माल्लोकादिति स्यलोपे पञ्चमी । यद्वा अस्माल्लोका देहा- स्मैस्युत्क्रामति- म्रियत इति यावत् । तत्त्वविद उत्क्रान्त्यभावादिति भावः । यत्तु रामानुजः - बुद्धियोगादित्यस्य बुद्धियोगयुक्तात्कर्मण इत्यर्थमाह- अत्रोपपत्तिमाह जह- लक्षणयेति वेदान्तदेशिकश्च यत्, अदुभयं तुच्छम् – लक्षणाश्रयणस्य दुष्टत्वात् बुद्धियुक्तादित्यनेनै- वेष्टसिद्धौ बुद्धियोगयुक्तादित्यस्यानर्थक्याच । बुद्धीति । बुद्धियुक्तः पुरुष इह उभे सुकृतदुष्कृते जहातीत्यन्वयः । कर्मणि समत्वं नाम कर्मजन्यसिद्ध्यसिद्धयोस्समत्वं तस्यैव प्रकृतत्वात् । अथवा फल्परित्यागान्नित्येषु नैमित्तिकेषु काम्येषु च कर्मसु समश्वबुद्धि:- सर्वेषामपि सत्त्वशुद्धिरूपै कफलकत्वेन समत्वात् । ननु तद्विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपै ‘तीति श्रुत्या आत्मविद एक पुण्यपाप- परित्यागश्रवणात्कथं कर्मयोगिनः पुण्यपापविधूननमत आह— सच्वशुद्धिज्ञानप्राप्तिद्वारेणेति । सत्त्व- शुद्धया यज्ञानं तत्प्राप्तिद्वारेण सत्त्वशुद्धिपूर्वकज्ञानप्राप्तिद्वारेणेत्यर्थः । कर्मयोगात्सत्त्व शुद्धिस्ततो ज्ञान- प्राप्तिस्तया सुकृतदुष्कृतपरित्याग इति भावः । स्वभावादिति बन्धकत्वरूपात्स्वभावादित्यर्थः । यत्तु रामानुजः बुद्धियोगयुक्त इति । योगो बुद्धियोगः कौशलमतिसामर्थ्यमतिसामर्थ्यसाध्य इत्यर्य इति, तत्तुच्छम् – बुद्धिशब्दाद्बुद्धियोगरूपार्थालाभात् प्रकृतयोगस्य कर्मयोगत्वेन बुद्धियोग- शब्दवाच्यत्वाभावात् बुद्धियोगो हि ज्ञानयोगः बुद्धेर्ज्ञानपर्यायस्वात् । नव बुद्धियोगादिति पूर्व- श्लोकादत्र बुद्धेर्बुद्धियोगार्थबोधकत्वमिति वाच्यं तत्रापि बुद्धियुक्तादित्येवार्थस्य सिद्धान्तत्वात् । योगः कौशलमिति पदद्वयस्य स्वारसिकं सामानाधिकरण्यं भञ्जयित्वा कौशलसाध्य इति लाक्षणिकार्थस्वीकार- स्याप्रमाणत्वाच्च ॥५०॥
1 द्वितीयोऽध्यायः । ८५ परित्यज्य मनीषिणः ज्ञानिनो भूत्वा जन्मबन्धविनिर्मुक्ता: जन्मैव बन्धो जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धविनिर्मुक्तास्सन्तः पदं परमं विष्णोर्मोक्षाख्यं गच्छन्ति । अनामयं सर्वोपद्रवरहितमित्यर्थः । अथवा बुद्धियोगाद्धनंजयेत्यारभ्य परमार्थदर्शनलक्षणैव सर्वतसम्प्लुतोदकस्थानीया कर्मयोगजसच्चशुद्धिजा बुद्धि: दर्शिता साक्षात्सुकृतदुष्कृतग्रहा - णादिहेतुत्वश्रवणात् ॥ ५१ ॥ यदा ते मोहकलिलं बुद्धिर्व्य तितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥ 1 बुद्धियुक्ताः पुरुषाः कर्मजं फलं त्यक्त्वा मनीषिणस्सन्तः जन्मबन्धविनिर्मला अनामयं पदं गच्छन्तीत्यन्वयः । ज्ञानिनो भूत्वेति चित्तशुद्धिद्वारा आत्मज्ञाननिष्ठां प्रपद्येत्यर्थः । गच्छन्तीति वर्त माननिर्देशादाह - जीवन्त एवेति । अन्यथा हि गमिष्यन्तीति वक्तव्यं स्यात् । ‘तद्विष्णोः परमं पद’- मिति श्रुतेराह - विष्णोरिति । किं तत्पद्मत आह— मोक्षाख्यमिति । सच्चिदानन्दलक्षणं स्वरूप- मित्यर्थः । आत्मन्यनात्माध्यास हेतोरविद्याया अहं ब्रह्मेति विद्यया तेजसा तिमिरस्येव नाशे सति सचिदानन्दब्रह्मात्मसाक्षात्कारो जायते स एव मोक्ष इत्युच्यते । सच जीवद्दशायामेव सुलभ :- शम- दमादिसंस्कृतमनस्साध्यत्वाद्विद्यायाः, ब्रह्मविद्वह्मैव भवतीति विद्याया अव्यवहितफलत्वाच्च मोक्षस्य । नच विदेहकैवल्यस्य मोक्षस्य कथं जीवद्दशायां लाभ इति वाच्यं आत्मनस्सर्वदापि विदेहत्या’ निष्कलं निष्क्रियं शान्तमशब्दम स्पर्शमरूपमन्ययमित्यादिश्रुतेः सदेहस्वस्य चाविद्या सिद्धत्वात् । विद्यया आत्मनि सदेहत्वभ्रान्तिमात्रस्यैव निवर्त्यत्वात् । रज्जुसर्पभ्रान्तेराप्तोपदेशनिवर्त्यत्ववत् । तस्मादविक्रिये आत्मनि स्वयम्प्रमे काललयेपि बन्धतद्धेतुसङ्गाभावात्सिद्धा जीवन्मुक्तिरात्मज्ञस्य । ननु सुकृतदुष्कृते जहाति अनामयं पदं गच्छन्तीति साक्षाद्ज्ञानफलस्य सुकृतदुष्कृतप्राणस्य परमपदप्राप्तेश्च प्रोक्तत्वान्नात्र कर्मयोगप्रसञ्जनमती बोचितमित्यत आह-अथ वेति । अयं च श्लोकाना- मर्थः । धनञ्जय बुद्धियोगाद्ज्ञानयोगात्साङ्ख्ययोगादित्यर्थः । कर्म कर्मयोगः दूरेणावरं हि । तस्माद्बुद्धौ साङ्ख्ये शरणमन्विच्छ कर्मफलहेतवस्तीव कृपणाः कर्मयोगनिष्ठास्तु नातीव कृपणा:- अफलहेतुत्वा- दित्यर्थः । बुद्धियुक्तः साङ्ख्यबुद्धियुक्त छह उभे सुकृतदुष्कृते जहाति - ‘तद्विद्वान् पुण्यपापे विधूये ति श्रुतेः । तस्मात्त्वं योगाय साधबुद्धिजन ककर्मयोगाय तावद्युज्यस्व, योगः कर्मसु कौशलमित्यनति- रिक्कार्थम् | बुद्धियुक्तास्सा यज्ञानयुक्ता मनीषिणो विद्वांसः कर्मजं फलं त्यक्त्वा कर्मस्यागद्वारा तत्फल- त्यागं कृत्वेत्यर्थः । जन्मबन्धविनिर्मुक्तास्सन्तः अनामयं पदं गच्छन्तीत्यनतिरिक्तार्थम् । परमार्थदर्शनं परतत्त्वज्ञानं रक्षण स्वरूपं यस्यास्सा मरमार्थदर्शनलक्षणा कर्मयोगजा सत्वशुद्धिः तज्जा कर्मयोगजसत्त्व- शुद्धिना बुद्धि:- साधबुद्धिरित्यर्थः । दर्शिता भगवतेति शेषः । तत्र हेतुमाह - साक्षादितेि ! कर्म- योगस्य परम्परया सुकृतदुष्कृतप्रहाणादिहेतुत्वमस्ति नतु साक्षात् ज्ञानयोगस्य तु साक्षातदस्तीति कृत्वा प्रकृत श्लोकेषु साक्षाद्धेतुत्वश्रवणात्साक्षाद्धेतुत्ववान् साङ्ख्ययोग एवेहाप्युक्त इति ज्ञेयमिति भावः॥५१॥ । 1
८६ श्रीभगवद्गीतासु भाय्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु योगानुष्ठानजनितसम्वशुद्धिजा बुद्धिः कदा प्राप्यत इत्युच्यते – यदेति । यदा यस्मिन्काले ते तव मोहकलिलं मोहात्मकमविवेकरूपं कालुष्यं येनात्मानात्मविवेकवोध कलुषीकृत्य विषयं प्रत्यन्तःकरणं प्रवत्र्त्यते तत्तव बुद्धिव्यतितरिष्यति व्यतिक्रमिष्यति - शुद्धभावमापत्स्यत इत्यर्थः । तदा तस्मिन्काले गन्तासि प्राप्तासि निर्वेदं वैराग्यं श्रोतव्यस्थ श्रुतस्य च तदा श्रोतव्यं श्रुतं च निष्फलं प्रतिभातीत्यभिप्रायः || ५२ || श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥ मोहक लिलात्ययद्वारेण लब्धात्मविवेकप्रज्ञः कदा कर्मयोगजं फलं परमार्थयोग प्राप्स्य- सीति तच्छृणु श्रुतीति । श्रुतिविप्रतिपन्ना अनेकसाध्यसाधनसम्बन्धप्रकाशन श्रुतिभिः श्रवणैः प्रवृत्तिनिवृत्तिलक्षणः विप्रतिपन्ना नानाप्रतिपन्ना श्रुतिविप्रतिपन्नासती ते तव बुद्धि- र्यदा यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति, निश्चला विक्षेपरूपचलनवर्जितासती
यदेति । यदा ते बुद्धिः मोहकलिलं व्यतितरिष्यति तदा श्रोतव्यस्य श्रुतस्य च निर्वेदं गन्तासि । कालुष्यमेव कार्यद्वारा दर्शयति येनेति । आत्मानात्मविवेकरूपो बोधो ज्ञानं तं कलुषीकृत्य अपहृत्य विषय शब्दादिकं प्रति अन्तःकरणं येन प्रवर्त्यते तत्कालुष्यमित्यन्वयः । विवेकजल कलुषीकरणादविवे- कस्य रजस इव कलिलशब्दव्यवहार इति भावः । श्रुतेन किं श्रोतव्येन किमिति श्रुतश्रोतव्यविषयं निर्वेदं प्राप्यसीत्यर्थः । श्रुतं श्रोतव्यञ्च स्थास्म - नोन्यत्सर्वं धर्मशास्त्रादिकमित्यर्थः । आत्मनस्तु यावत्साक्षात्कारं सर्वदापि श्रोतव्यत्वान्न तत्र निवेंद्र उचितः - ‘आत्मा वारे द्रष्टव्यः श्रोतव्य’ इति श्रुतेः, ‘आसुरामृतेः कालं नयेद्वेदान्तचिन्तये’ ति स्मृतेश्व ॥५२॥ श्रुतीति श्लोकमवतारयति - मोहेति । आत्मानात्मविवेकाच्छादकस्य मोहकलिलस्यात्यये नाशेसति आत्मानात्मविवेकरूपा प्रज्ञा लभ्यते पुंसा । तादृशश्च पुरुषः कर्मयोगजं परमार्थयोगं साङ्खययोग- रूपं फलं कदा प्राप्स्यसीत्येतदहं वच्मि तत्त्वं श्रुणु श्रुतिविप्रतिपन्ना ते बुद्धिः यदा निश्वलासती समाधाव चलासती स्थास्यति तदा योगमवाप्स्यसीत्यन्वयः । अनेकेषां साध्यानां साधनानां सम्बन्धानां च प्रकाशनं याभिस्ताभिः श्रुतिभिः प्रवृत्तिनिवृत्तिलक्षणैश्श्रवणैः प्रवृत्तिनिवृत्ती लक्षण स्वरूपं येषान्तैः तथो कैद : हेतुभिः विप्रतिपन्ना विप्रतिपत्ति प्राप्ता नानाप्रतिपन्ना बहुभेदं प्राप्तेत्यर्थः । प्रवृत्तिनिवृति- धर्मप्रतिपादकवेदश्रवणात् किं कर्म कुर्या किंवा प्रव्रजेयम् ? किंवा वनं विशेयम् ? कर्मस्वपि कि काम्यानि कुर्यामथवा नित्यानीत्येयं बहुविधविकल्पान् प्राप्तेति भावः । निश्चलाचलपदयोः पौनरुक्त्यै बारयति - विक्षेपेति । विक्षेपो बुद्धेरात्मस्वरूपात्यच्युतिः- विषयचिन्तेति यावत् । तत्रापीत्यात्मन्यपीत्यर्थः । विकल्पो बुद्धिवृत्तिः विवेकप्रज्ञां अयमात्मा इद-१२
क द्वितीयोऽध्यायः । ८७ समाधौ समाधीयतेस्मिन्निति समाधिरात्मा तस्मिन्नात्मनीत्येतत् । साप्यचला तत्रापि विकल्प- वर्जितेत्येतत् । बुद्धिरन्तःकरणं तदा तस्मिन् काले योगमवाप्स्यसि विवेकप्रज्ञां समाधिं प्राप्स्यसि ॥५३॥ मनात्मेति विवेकरूपं ज्ञानम् । यावदर्थमाह-समाधिमिति । चित्तसमाधानमित्यर्थः । निर्विकल्प- समाधिमिति यावत् । सुषुप्ताविव लयरहितं जाग्रत्स्वप्रयोरिव विक्षेपरहितमहं ब्रह्मेत्याकारक वृत्तिशून्यं च सदन्तःकरणं यत्केवलमात्मस्वरूपानुसन्धानपरं वर्तते तदेव निर्विकल्पसमाधिरिति फलितार्थः । यदा स्वस्यान्तःकरण निर्विकल्पं निर्विक्षेपं च सदात्मनि स्थिरं वर्तते तदा निर्विकल्पसमाधिशाल्यहमिति ज्ञातव्यं त्वयेति श्लोकनिष्कृष्टार्थः । निर्विकल्पसमाधावात्मखरूपसाक्षात्कारेसति अयमात्मा इदमनात्मेति विवेकस्सुखेन भवति पुंस इति भावः । एतेन ज्ञानयोगस्य समाधिरेव पराकाष्ठेति सूचितम् । नच यमनियमाद्यष्टाङ्गलक्षणयोगस्यैव समाधिः परा काष्ठेति वाच्यं मनस्संयम साध्यस्य समाधेः साङ्ख्ययोगयो - रुभयोरपि परमावधित्वात् । मनस्संयमस्तु केषाञ्चित्प्राणायामादियोगसाध्यः केषाञ्चिदात्मानात्मविवेचन- रूपसाङ्ख्यसाध्य इति विवेकः । अत ‘एवैकं साङ्ख्यं च योगं च यः पश्यति स पश्यतीति वक्ष्यति भगवान् । ननु समाधावचला बुद्धिः स्थास्यतीत्यनेनैव निर्विकल्पसमाधिरुक्तः पुनः समाधिं प्राप्स्यसीति वचनं त्वयुक्तं - समाधिमतस्समाधिप्राप्तिरिति पौनरुक्त्यादिदोषादिति चेदत एव श्लोक निष्कृष्टार्थस्तथोक्तो मया । यद्वा- कर्मयोगजा सत्त्वशुद्धिः, सत्त्वशुद्धौ निर्विकल्पसमाधिलाभः, ततश्चात्मानात्मविवेकलक्षण- ज्ञानयोगात्मक समाधिलाभ इति विवेकः । सत्त्वशुद्धिप्रति कर्मानुष्ठानवद्यमनियमादयोपि हेतव एवेति कृत्वा निर्विकल्पसमाधेर्योगपरमावधित्वञ्चोच्यत इति बोध्यम् । एतेन सर्वेपि योगा ज्ञानयोगसाधका एव, नतु तत्साध्यः कश्चन योगोस्तीति ज्ञानयोगस्य सर्वयोगाधिकत्वं सूचितम् । . यद्यपि ज्ञानयोगस्य पराकाष्ठा ब्रह्मात्मसाक्षात्कारः निर्विकल्पसमाधिश्च स एवेति नोभयोर्भेदः, तथापि निर्विकल्पसमाधावात्मानुभवं कुर्वन्तोपि योगिनः न तमात्मानं ब्रह्माभिन्नं विदुरिति हेतोर्निर्वि- कल्पसमाधेर्योगसाध्यात् ज्ञानयोगस्योत्कर्ष उक्तः । येन केनापि योगाद्युपायेन यदा तवान्तःकरणस्य निर्वि कल्पसमाधिलाभः, तदैव तव अयमात्मा इदमनात्मेति विवेको जायते - निर्विकल्पसमाधावात्मस्वरूप- साक्षात्कारस्य जातत्वादिति श्लोकस्य तात्पर्यम् । नचैवं निर्विकल्पसमाधिनैवाल- तत एवात्मस्वरूप- साक्षात्कारलाभात् - सच समाधिः प्राणायामादिसाद्धय इति कोर्थो ज्ञानयोगेनेति वाच्यं सच्चिदानन्द- लक्षणस्सर्वान्तरस्स्वयम्प्रभ आत्मेति ज्ञाने सत्येव निर्विल्ल्पसमाध्यनुभूतवस्तुनि ब्रह्मात्मज्ञानं स्यात्पुंसः न स्वन्यथेति ज्ञानयोगस्यावश्यकत्वात् । नहि सौषुप्तिक आत्मानन्दानुभवो मोक्षाय भवति पुंसां - अयमात्मेति ज्ञानाभावस्य तुल्यत्वात् इति । अथवा विक्षेपो विपर्ययः विकल्पस्संशय इत्यर्थान्नात्र श्लोके पूर्ववाक्येन निर्विकल्पसमाधिरभिधीयत इति न कोपि दोष इति बोध्यम् । नायमात्मेति अयमात्मा, वा नवेति च विक्षेपविकल्परहिता सती यदा ते बुद्धिरात्मनि स्थिरा स्थास्यत्ययमेवात्मेति तदा त्वं योगमवाप्स्यसीति ८८ 4 श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अर्जुन :- स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ! स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥ प्रश्नबीजं प्रतिलभ्यार्जुन उवाच लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सया - स्थितप्रज्ञ - स्येति । स्थिता प्रतिष्ठिता अहमस्मि परब्रह्मेति प्रज्ञा यस्य स स्थितप्रज्ञः तस्य का भाषा किं भाषणं वचनं कथमसौ परैर्भाव्यते- समाधिस्थस्य समाधौ स्थितस्य । हेकेशव स्थितधीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेत किमासीत व्रजेत किम् ? आसनं व्रजनं वा तस्य कथ- मित्यर्थः । स्थितप्रज्ञस्य लक्षणमनेन श्लोकेन पृच्छयते - योह्यादित एव सन्न्यस्य कर्माणि ज्ञानयोगेन निष्ठायां प्रवृत्तः, यश्च कर्मयोगेन तयोः ॥५४॥ भावः । योगमात्मसाक्षात्कारमिति मधुसूदनः । यत्तु समाधौ मनसि बुद्धिः स्थास्यतीति रामानुजः, तदसत् — मनोबुद्धयोरुभयोरेकतत्त्व त्वेनाधाराधेयभावायोगात् - एकमेव ह्यन्तः करणं सङ्कल्पविकल्परूपं मन इति निश्चयरूपं बुद्धिरिति चोच्यते । विप्रतिपन्नेत्यस्य विशेषतः प्रतिपन्नेत्यर्थोपि तदुक्तोऽयुक्त:- विप्रतिपत्तिशब्दस्य विरुद्धप्रतिपत्त्यर्थकत्वेन विप्रतिपन्न शब्दस्यापि तादृशार्थबोधस्यैवौचित्यात्, अप्र- सिद्धार्थकल्पनस्यान्याय्यत्वात् ॥५३॥ 1 स्थितप्रज्ञस्येति श्लोकमवतारयति — प्रश्नबीजमिति । समाधौ बुद्धिरचला स्थास्यति योगमवा- प्स्यसीति वाक्यश्रवणात्प्रष्टुमवकाशो जात इत्यर्थः । तदेवाह - लब्धसमाधिप्रज्ञस्येति । लब्धे समाधिप्रज्ञे निर्विकल्पसमाधिविवेकौ येन तस्य बोद्धुं ज्ञातुमिच्छा बुभुत्सा - प्रतिष्ठितेति हटेत्यर्थः f प्रज्ञीया आकारमाह- अहमिति । अहं परब्रह्मास्मीत्यन्वयः । प्रज्ञा बुद्धिवृत्तिरूपं ज्ञानम् । समाधौ आत्मनि निर्विकल्पसमाधाविति वा । किं प्रभाषेतेत्यनेन पौनरुक्त्यादाह – परैर्भाष्यत इति । स्थित- प्रज्ञोयमित्यन्यैः कथमुच्यत इत्यर्थः । किं प्रभाषेतेत्यादौ किंशब्दानां कथमित्यर्थो ज्ञेयः कथं प्रभाषेत, कथमासीत, कथं व्रजेतेति ।
ननु स्थितप्रज्ञस्य भाषणादिकमसम्भवि - ब्रह्मात्मनिष्ठत्वादिति किमर्जुनप्रश्नाशय इत्यत आह—- स्थितप्रज्ञस्येति । भाषणादिकं किंरूपमिति तल्लक्षणं पृच्छ्यत इत्यर्थः । अर्जुनेनेति शेषः । कोसौ स्थितप्रज्ञोऽत आह-योहीति । हिः प्रसिद्धौ त्वर्थेव ! | आदितो ब्रह्मचर्यादेव कर्माणि सन्न्यस्य निष्ठायामात्मदर्शननिष्ठायां यश्च कर्मयोगेन क्रमाद्ज्ञाननिष्ठायां प्रवृत्त इत्यन्वयः । तयोः स्थितप्रज्ञशब्द- वाच्ययोर्द्वयोरपि लक्षणः पृच्छ्यत इत्यर्थः । स्थितप्रज्ञस्येत्येकवचननिर्देशेन ज्ञाननिष्ठाप्राप्त्यनन्तरमुभयो- भेदाभावः सूचितः । सन्न्यासद्वारा कर्मयोगद्वारा वा निर्विकल्पकसमाधिं लब्ध्वा योहं ब्रह्मास्मीति दृढां प्रज्ञां प्राप स स्थितप्रज्ञ इति परमार्थः । कीदृशं पुरुषं लोकाः । स्थितप्रज्ञ मन्यन्ते, कीदृशश्च स्वयं स्थित- प्रज्ञमात्मानं मन्यते स्थितप्रज्ञस्य मनोव्यापारः कीदृशः, कायव्यापारश्च कीदृशः, वाख्यापारश्च कीदृशः इति स्थितप्रज्ञलक्षण पप्रच्छार्जुन इति पर्यवसन्नार्थः । अत्र स्थितप्रज्ञस्य को वाचक शब्द इति का भाषेत्यस्यार्थमाह- रामानुजः, तन्मन्दम् — स्थितप्रज्ञशब्दस्यैव तद्वाचकत्वेन वाचकान्तरप्रश्नानर्थक्यात् ॥ १२ द्वितीयोऽध्यायः ८९ प्रजहातीत्यारभ्याऽऽध्यायपरिसमाप्तेः स्थितप्रज्ञस्य लक्षणं साधनं चोपदिश्यते, सर्वत्रैव ह्यध्यात्मशास्त्रे कृतार्थ लक्षणानि यानि तान्येव साधनान्युपदिश्यन्ते यत्नसाध्यत्वात् । यानि यत्नसाध्यानि साधनानि लक्षणानि च भवन्ति तानि । श्रीभगवानुवाच — प्रजहाति यदा कामान् सर्वान् पार्थ! मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥ प्रजहातीति । प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन्काले- कामान् इच्छाविशेषान् सर्वान् समस्तान्- हेपार्थ! मनोगतान् मनसि प्रविष्टान् सर्वकामपरित्यागे तुष्टिकारणाभावात् शरीरधारण निमित्तविशेषे च सति उन्मत्तप्रमत्तस्येव प्रवृत्तिः प्राप्येतेत्यत
प्रजहातीति श्लोकमवतारयति — प्रजहातीति । आ अध्यायपरिसमाप्तेरिति छेदः । समासे स्वाध्यायपरिसमाप्तीति स्यात्- यावदध्यायपरिसमाप्तीत्यर्थः । साधनं चेति । ननु लक्षणस्यैव पृष्टत्वा- त्किमिति साधनोपदेश इत्यत आह- सर्वत्रेति । अध्यात्मशास्त्रे वेदान्तशास्त्रे कृतार्थः स्थितप्रज्ञः – तस्यैव कृतकृत्यत्वात् । कृतकृत्यस्य यानि लक्षणानि तान्येव कृतकृत्यत्वस्य साधनानीत्युपदिश्यन्ते उच्यन्ते । तत्र हेतुमाह — यत्नसाध्यत्वादिति । कृतार्थे पुरुषे वर्तमानानि यानि कृतार्थत्वसूचकानि चिह्नानि कामपरित्यागात्मतुष्टिसुखखभावादीनि तान्येव कृतार्थत्वसाधकानि । मनस्संयमरूपयत्नसाध्यत्वा- तेषामित्यर्थः । ननु साधनलक्षणयोरेकत्वमयुक्तम् – साधनसाध्यत्वा लक्षणानामिति चेत्सत्यमन्यत्र तथैव । इह तु साधनलक्षणयोरैक्यमेव- कामप्रहाणादिभिस्साधनैः कृतार्थत्वसिद्धेः, कृतार्थे पुंसि कामप्रहाणादीनां लक्ष- णत्वाच्च । लक्षयन्तीति लक्षणानि, साधयन्तीति साधनांनीति निरुक्तेः यान्येव कृतार्थत्वं लक्षयन्ति तान्येव तत्साधयन्ति । कथमन्यथा कृतार्थत्वासाधकानां कृतार्थत्व लक्षकत्वं स्यात्, साधनेन हि साध्यं लक्ष्यते धूमेन वह्निवत् साध्यं चात्र कृतार्थत्वं तल्लक्षकत्वं चास्ति तत्साधनस्य । तस्मात्साधनत्वलक्ष कल्वयोरैक्या- त्साधनलक्षणयोरैक्यमिति भावः । यानि लक्षणानि तानि साधनानीत्येतदेव द्रढयितुमाह-यनि साधनानि तान्येव लक्षणानीति ॥ हेपार्थ यदा पुरुष इति शेषः । मनोगतान् सर्वान् कामान् प्रजहाति आत्मन्येवात्मना तुष्टश्व भवति, तदा स्थितप्रज्ञ इत्युच्यते । सर्वकामेति । सति पुत्रादिविषयकामे तत्सिद्धया पुंसस्तुष्टिरस्या- त्सुतरां कामाभावेतु तुष्टिरेव न स्यात् - तुष्टिकारणस्य कामितार्थलाभरूपस्याभावादित्यर्थः । किंच सर्व- कामपरित्यागाद्भोजनकामस्यापि परित्यागः प्राप्तः, सति च तस्मिन् भोजनकामत्यागे भोजनाभावाद्विदुष आकस्मिकं बलात्कारमरणं स्यात्तच्चायुक्तं- दोषावहत्वात् । अथैतद्भयाच्छरीरधारण निमित्त भोजनादि- कामविशेषोऽस्त्वित्यत आह — शरीरेति । उन्मादं प्राप्त उन्मत्तः मदिरापानादिना मत्तः प्रमत्तः- उन्म- त्तवत्प्रमत्तवच्चेत्यर्थः । प्रवृत्तिरिति भोजनादिमात्रे इति भावः । यथा उन्मत्तः कमपि पुरुषार्थ न वाञ्छति न तस्मै यत्ते परन्तु - क्षुत्तृड्भ्यामर्दितस्तदपनोदाय यत्किमपि निन्दितमन्न जलं च भुंक्ते तद्व- 1 ९० श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु उच्यते– आत्मन्येव प्रत्यगात्मस्वरूप एव आत्मना स्वेनैव बाह्यलाभनिरपेक्ष:- तुष्टः परमार्थ- दर्शनामृतरसलाभेनान्यस्मादलं प्रत्ययवान् स्थितप्रज्ञः स्थिता प्रतिष्ठिता आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञः विद्वांस्तदोच्यते। त्यक्तपुत्रवित्तलोकैषणस्सन्न्यासी आत्माराम आत्म- रतिः स्थितप्रज्ञ इत्यर्थः ॥ ५५ ॥ दुःखेष्वनुद्विग्नमनास्सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥ नापि द्विद्वानपि प्रवर्तेतेति भावः । इति शङ्कायामाह — आत्मन्येवेति । स्वेनैवेत्यस्यार्थमाह — अन्यलाभनिर- पेक्ष इति । आत्मन्येवात्मना तुष्ट इत्यस्य फलितार्थमाह — परमार्थेति । यथा लब्धामृतस्यान्नादावलंबुद्धिः तद्वदात्मस्वरूपानन्दानुभवशालिनस्तदितरत्र सर्वत्राप्यलंबुद्धिरेवेत्यर्थः । एतेन नामुष्य विदुषश्शरीरधारण- स्पृहा यदर्थमुन्मत्तवद्भोजनादिकर्मणि प्रवर्तेत । नापि क्षुत्तृड्बाधा- आत्मानन्दानुभवव्यग्रत्वात्, शरीरपातः- यावत्प्रारब्धं तस्यापातात् इति सिद्धम् । श्लोकस्य निष्कृष्टार्थमाह – त्यक्तेति । एषणा अभिलाषः- त्यक्ताः पुत्रे वित्ते लोकेषु स्वर्गादिषु च एषणा येन सः त्यक्तपुत्रवित्तलोकैषणः । पुत्रशब्दः दारपश्वाद्युपलक्षणः । सन्न्यासी कृतसर्वकर्मसन्न्यासः आत्मारामः आत्मैवारामो विहारस्थानं यस्य सः । आत्मन्येव रतिः प्रीतिर्यस्य स आत्मरतिः । एवंविधः पुरुषः स्थितप्रज्ञ इत्युच्यते । ननु प्रजहाति यदा कामानित्यादिना त्यक्तपुत्रवित्तलोकैषण इति, आत्मन्येवात्मना तुष्ट इत्यने- नात्माराम आत्मरतिरिति च सिध्यति - सन्यासीति तु न कुतोपीति कथं निर्मूलस्य तस्य वचनं भाष्ये इतिचेन्मैवम् – सर्वकर्मसन्न्यासपूर्वकत्वादात्मनिष्ठायाः । नहि कर्मसु व्ययस्यात्मरतिस्स्यात् । तस्मा- दर्थसिद्धार्थकथनं सन्न्यासिन इति न निर्मूलत्वं तस्य । नच वासुदेव जनकवसिष्ठादीनामसन्न्यासिना- मेतावन्मात्रेणास्थितप्रज्ञत्वं चोदनीयं- लोकातिगत्वात्तच्चरितस्य- नहि वासुदेवादिभिरनुष्ठितानि कर्माणि कर्माणि, येन तत्सन्न्यासस्सन्न्यासस्स्यात् । उक्त हीदं शङ्कराचार्यैरेव ग्रन्थारम्भे । यद्यधुनातना अपि वासुदे- वादिदृष्टान्तेन सन्न्यासं न स्वीकुर्युः, तर्हि किमिति ते शङ्कराचार्यादिदृष्टान्तेन गृहस्थाश्रमं न परित्यजेयुः । नच कोऽयं तव सन्न्यासे पक्षपात इति वाच्यं, कोऽयं तव सन्न्यासे प्रद्वेषहेतुः गृहस्थाश्रमविषयक- रागाहते । सति चास्मिन् रागे तव नात्मरतिस्स्यात् । अतस्तद्रागभ्रंशनाय सन्न्यासस्स्वीकार्यो गृहस्था- श्रमस्थैर्मुमुक्षुभिस्स्थितप्रज्ञत्वलाभार्थम् । नच सन्न्यासोपि भिक्षावन्दनादिरागपूर्वक एवेति वाच्यं, ‘यदहरेव विरजेत्तदहरेव प्रत्रजे’ दिति श्रुत्यैव सन्न्यासस्य वैराग्यपूर्वकत्वस्योक्तत्वात् । यदि मोक्षकामस्सकाम- स्स्यात्तर्हि सन्न्यासरागी रागी स्यात् । ननु जन्मान्तरानुष्ठितसन्न्यासादिसुकृतवशाद्यः कश्चिद्ब्रह्मचर्यात्प्राग्ब्रह्मचर्ये वा गार्हस्थ्ये वा स्थित- प्रज्ञो भवति जडभरतादिवत्तत्र सन्न्यासस्य व्यभिचार इति चेन्मैवम् तस्य जनकादिवल्लोकातिगचरिते- ष्वेव गणनीयत्वात् । अथवा इह जन्मनि सन्न्यासव ज्जन्मान्तरीयसन्न्यासस्यापि स्थितप्रज्ञत्वहेतुत्वा- ज्जनकभरतादीनां जन्मान्तरीयसन्न्यासित्वात् स्थितप्रज्ञत्वमिति बोध्यम् ॥ ५५ ॥ द्वितीयोऽध्यायः । ९१ किंच– दुःखेष्विति दुःखेष्वाध्यात्मिकादिषु अनुद्विग्नं न प्रक्षुभितं मनो यस्य स दुःखेष्वनुद्विग्नमनाः । तथा सुखेषु प्राप्तेषु विगता स्पृहा तृष्णा यस्य नाग्निरिवेन्धनाद्याधाने सुखान्यनु विवर्धन्ते स विगतस्पृहः । वीतरागभयक्रोधः रागश्च भयं च क्रोधश्च वीताः विगताः यस्मादेष वीतरागभयक्रोधः स्थितधीः स्थितप्रज्ञः मुनिस्सन्न्यासी तदोच्यते ॥५६॥ यस्सर्वत्रानभिज्ञेयः तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७॥ चि– य इति । यो मुनिः सर्वत्र देहजीवितादिष्वपि अनभिस्नेहः अभिस्नेहवर्जितः तत्तत्प्राप्य शुभाशुभं तत्तच्छुभमशुभ वा लब्ध्वा नाभिनन्दति न द्वेष्टि शुभं प्राप्य न तुष्यति न हृष्यति अशुभं च प्राप्य न द्वेष्टीत्यर्थः । तस्यैवं हर्षविषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता ।। I दु:र खेष्विति । एवंविधो मुनिस्स्थितधीरित्युच्यत इत्यन्वयः । आध्यात्मिकादिष्वित्यादिपदा- दाधिदैविकाधिभौतिकयोर्ग्रहणम् । तापानां दुःखहेतुत्वाद्दुः खेष्वित्यौपचारिकः प्रयोगः । तत्राध्यात्मिका ज्वरादिजन्याः, आधिभौतिका व्याघ्रसर्पादिजन्याः, आधिदैविकाश्शीतवातातपादिजन्यास्तापा इति विवेकः । दुःखप्राप्ताविति आध्यात्मिकादितापप्रयुक्तदुःखप्राप्तावित्यर्थः । नच दुःखेष्वित्यस्य तापार्थमुक्त्वा दुःख- प्राप्ताविति पुनः पदान्तरकल्पना दुष्टेति वाच्यं दुःखेष्विति बहुवचनान्न तस्य साक्षादुःखार्थवचनं युक्तम् । अतो दुःखहेतुषु तापेष्वित्युक्तिर्युक्तेति । प्राप्तेष्विति । ननु प्राप्येषु सुखेषु भवतीच्छा पुंसः, नतु प्राप्तेषु इच्छायाः फलावसानत्वा- दित्यत आह–नाग्निरिवेति । इन्धनाद्याधाने काष्ठाज्यादिनिधाने यथाग्निर्वर्धते तथा सुखप्राप्तौ यस्य सुखानि नानुविवर्धन्ते स सुखेषु विगतस्पृहः । अयमाशयः - अन्नप्राप्तौ यथा अन्नेच्छा निवर्तते पुंसस्तथा धनप्राप्तौ धनेच्छा निवर्तमाना न दृष्टा, एवं सुखप्राप्तावपि सुखेच्छा न निवर्तते - पुनरपी- तोधिकं मे सुखं स्यादिति सुखेच्छा वर्धत एव । यथा काष्ठाज्यादिप्राप्तावपि नाग्नेः काष्ठाद्याशा निव- र्तते ‘नाग्निस्तृप्यति काष्ठाना’ मिति न्यायात्किन्तु सा वर्धतएव । यदग्नेः काष्ठादिभ्यस्तृप्तिस्तर्हि तत्र निक्षिप्तं काष्ठादिकं सोग्निः पुनर्न दहेदेव, नैवं लोके दृश्यते, परं त्वतीव प्रवृद्धजिह्वत्सन् काष्ठादिकं प्रार्थयत्येव । तस्मान्न सुखप्राप्त्या सुखेच्छाया निवृत्तिरिति युक्तमुक्तं सुखेषु प्राप्तेष्विति । तदेति पूर्व- श्लोकाद्यदातदाशब्दयोरिहानुवृत्तिः । यदा मुनिरेवंविधो भवति तदा स्थितप्रज्ञ इत्युच्यत इत्यन्वयः । या पुरुष इति शेषः । यदा पुरुष एवंविधो मुनिर्भवति तदा स्थितप्रज्ञ इत्युच्यत इति । नचात्र मुनिशब्दस्य सन्न्यासस्यार्थबोधकत्वे विवदितव्यं मुनिर्मननशीलः । सर्वकर्मसन्न्यासिनम्तु इतरव्यापारा- भावादात्ममननशीलतोपपद्यते न गृहिण इति । नच कथमसन्न्यासिनां वसिष्ठादीनां मुनित्वमिति बाच्य, गृहिणोपि ते त्यक्तसर्वकर्माणो वनमाश्रित्य निरन्तरमात्ममननं कुर्वन्त्येवेति मुनयस्ते सन्न्यासिन एवेति ॥५६॥ य इति । यः सर्वत्रानभिस्नेहस्सन् तत्तच्छुभाशुभं प्राप्य नाभिनन्दति, नद्वेष्टि, तस्य प्रज्ञाप्रति - ष्ठितेत्यन्वयः । तस्य प्रज्ञा प्रतिष्ठितेत्यस्य स स्थितप्रज्ञ इत्यर्थः ॥५७॥ ९२ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥ किंच - यदेति । यदा संहरते संयच्छति सम्यगुपसंहरते चायं ज्ञाननिष्ठायां प्रवृत्तो यतिः कूर्मोऽङ्गानीव- यथा कूर्मो भयात्स्वान्यङ्गानि उपसंहरते सर्वशः सर्वतः, एवं ज्ञाननिष्ठः इंद्रियाणीद्रियार्थेभ्यस्सर्वविषयेभ्यः उपसंहरते, तस्य प्रज्ञा प्रतिष्ठितेत्युक्तार्थ वाक्यम् ॥५८॥ विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्ज रसोप्यस्य परं दृष्ट्रा निवर्तते ॥५९॥ तत्र विषयाननाहरतः आतुरस्यापीन्द्रियाणि संहियन्ते, नतु तद्विषयो राग :- स कथं संहियत इत्युच्यते– विषया इति । यद्यपि विषया विषयोपलक्षितानि विषयशब्दवाच्यानीन्द्रि- याणि निराहारस्यानाहियमाणविषयस्य काष्ठतपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते, देहिनो यदेति । यदाऽयं कूर्मोङ्गानीव सर्वश इन्द्रियार्थेभ्य इन्द्रियाणि संहरते च तदा तस्य प्रज्ञा प्रतिष्ठितेत्यन्वयः । इन्द्रियार्थेभ्य इति पञ्चमी । उपसंहरते प्रतिनिवर्तयति- इन्द्रियाणां विषयप्रावीण्यं वारयतीत्यर्थः ॥ ५८ ॥ विषया इति । अनाहरतः अगृह्णतः इन्द्रियव्यापाराभावादिति भावः । आतुरस्तपसा पीडित:- सहियन्ते उपसंहृतानि भवन्ति - निर्व्यापाराणि भवन्तीत्यर्थः । इत्युच्यते इति शङ्कायामुच्यत इत्यर्थः । निराहारस्य देहिनो विषया रसवर्जं विनिवर्तन्ते । विषयेभ्य इति शेषः । ननु इन्द्रियाणां विषयेभ्यो विनिवृत्तिर्भवतुनाम, कथं पुनर्विषयाणामत आह - विषयोपलक्षितानीति । ग्राह्यग्राहक भावरूपसम्ब न्धेन हेतुना विषयशब्दो लक्षणया विषयग्राहकानीन्द्रियाणि प्रतिपादयतीत्यर्थः । अर्थानुपपत्तेर्लक्षणाबीजस्य सत्त्वात् । निराहारस्येति । आहरणमाहारः तच्चाहरणं प्रकरणाद्विषयाणामेव निर्गत आहारो विषया- हरण यस्मात्स निराहारः तस्य - शब्दस्पर्शादीन्विषया न गृह्णत इत्यर्थः । कथं तदग्रहणमत आह— काष्ठतपसि स्थितस्येति । यस्मिन् तपसि पुरुषः काष्ठवद्वर्तते तत्तपः काष्ठतपः, तस्मिन् स्थितस्य नेत्र- श्रोत्रादिनिमीलन विधानादिपूर्वकं काष्ठवन्निश्चलाङ्गस्य कथं विषयग्रहणसम्भव इति भावः । नचात्र निरा- हारस्य त्यक्तभोजनस्य कृतलङ्घनस्येति यावत् - इत्यर्थ इति शङ्कय, आहाराभावेपि चक्षुस्त्वगादिभीरूप- स्पर्शादिविषयग्रहणसम्भवात्- न सर्वेन्द्रियप्रतिनिवृत्तिरिति । मूर्खस्येति । ज्ञानहीनस्य देहिन इति देहादिसङ्घाते अहमभिमानिनः न त्वात्मनः तस्य सर्वज्ञस्य मूर्खत्वासम्भवात् । विषयेष्विति विषयसप्तमी । विषया शब्दादयः तेषु तद्विषय इत्यर्थः । ननु रसशब्दस्य कट्टादिरसेषु शृङ्गारादिरसेषु वा प्रसिद्धप्रयोगस्य कथमत्र रागवाचित्वमत आह- स्वरसेनेत्यादि । स्वरसेनास्वेच्छया अनुभवरसिको विजानातीत्यादौ रसिकशब्दश्च रागवति प्रसिद्धः, रसज्ञशब्दश्च रक्ते प्रसिद्धः ‘शृङ्गारमुख्यमधुरा दिसुवर्णरेतो निर्यासरागगरलद्रवपारदेषु । आस्वादनध्वनि- सुधाम्बुरसाख्यधातुष्विष्टो रसोऽथ धरणी रसना रसा स्यादित्यभिधानं चास्ति । अस्य यतेः रसोपि पर द्वितीयोऽध्यायः । ९.३ देहवतः रसवर्ज रसो रागः विषयेषु यस्तं वर्जयित्वा - रसशब्दः रागे प्रसिद्ध:- स्वरसेन प्रवृत्तो रसिको रसज्ञ इत्यादिदर्शनात् । सोपि रसः रंजनारूपः सूक्ष्मः अस्य यतेः परं परमार्थतत्त्वं ब्रह्म दृष्टृोपलभ्याहमेव तदिति निवर्तते - निर्बीजं विषयविज्ञानं सम्पद्यत इत्यर्थः । नासति सम्यग्दर्शने रसस्योच्छेदः । तस्मात्सम्यग्दर्शनात्मिकायाः प्रज्ञायाः स्थैर्ये कर्तव्यमित्यभिप्रायः ॥ यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥ सम्यग्दर्शनलक्षणप्रज्ञास्थैर्यं चिकीर्षताऽऽदाविन्द्रियाणि स्ववशे स्थापयितव्यानि यस्मा - तदनवस्थापने दोषमाह — यतत इति । यततः प्रयत्नं कुर्वतः हि यस्मात् हेकौन्तेय पुरुषस्य विपश्चितो मेधाविनो मनोपीति व्यवहितेन सम्बन्धः । इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति, आकुलीकृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशमेव पश्यतो विवेक विज्ञानयुक्तं मनः ॥ ६०॥ दृट्टा निवर्तते इति वाक्यं व्याख्यातुमारभते — सोपीति । रञ्जना रूपो रागात्मकः दृष्टेत्यस्यार्थ- माह - उपलभ्येति । ज्ञात्वेत्यर्थः । साक्षात्कृत्येति यावत् । ज्ञानस्याकारमाह– अहमेव तदिति । अह- मेव ब्रह्मेत्यात्मानं साक्षात्कृत्वेत्येर्थः । फलितमाह — निर्बीजमिति । विषयविज्ञानस्य राग एवं बीजं - नीरागस्य विषयप्रवृत्त्यदर्शनत् । रागस्यापि निवृत्तत्वाद्विषयज्ञानं निर्बीजं जायत इत्यर्थः । मूर्खस्य तु न रसनिवृत्तिरात्मदर्शनाभावादिति कृत्वा न तस्य विषयज्ञान बीजध्वंस इति तपोनिवृत्त्यनन्तरं पुनरपि विषयविज्ञानप्रसङ्गः । बीजसत्त्वादतो न काष्ठतपसा स्थितप्रज्ञत्वलाभ इति भावः । इदमेवाह - नेति । सम्यग्दर्शने परमार्थतत्त्वज्ञाने असति रसस्योच्छेदो नाशो नच भवति । तस्मात्तपसा रसोच्छेदाभावा- त्सम्यग्दर्शनमेवात्मा स्वरूपं यस्यास्तस्यास्सम्यग्दर्शनात्मिकायाः प्रज्ञायाः ज्ञानस्य स्थैर्य प्रतिष्ठा कर्तव्यं यति नेति शेषः ॥५९॥ यतत इति । हेकौन्तेय हि यततो विपश्चितः पुरुषस्य मनोपि प्रमाथीनीन्द्रियाणि प्रसर्भ हरन्ति प्रयत्नमिति प्रज्ञास्थैर्यलाभार्थमिति भावः । मेधाविनो बुद्धिमतः मनोपीति किं पुनर्मूर्खस्य मन इत्यपे- रर्थः । मनःपुरुषयोस्तादात्म्याध्यासादाह – विषयाभिमुखं पुरुषमिति । विषयाभिमुखमनस्कं पुरुष- मित्यर्थः । विषयाभिमुखं पुरुषाध्यस्तमन इति वार्थः । विषयाभिमुखं पुरुषं हि यस्मादिन्द्रियाणि प्रम- अन्ति, तत इन्द्रियाणि प्रमाथीनीत्युच्यन्त इति भावः । प्रमनन्तीत्यस्यार्थमाह - विक्षोभयन्तीति । तस्याप्यर्थमाह-आकुलीकुर्वन्तीति । एवं प्रमथनशीलत्वादिन्द्रियाणि तावदाकुलीकृत्य मनो हरन्ती - त्याह — आकुलीकृत्येति । प्रसभमित्यस्य यावदर्थमाह - प्रकाशमेवेति, पश्यत इति । पुरुषस्येति शेषः । कीदृशं मनो हरन्तीत्यत आह - विवेकविज्ञानयुक्तं मन इति । विपश्चितो मन इत्यस्यार्थत: स्सिद्धं विवेकविज्ञानयुक्तमिति आत्मैक एवानवद्यः, विषयास्तु दुष्टा एवेति जानतएव पुरुषस्य मनः- प्रकाशमेवेन्द्रियाणि विषयाभिमुखं कृत्वा व्याकुलीकृत्य निष्प्रज्ञं कुर्वन्तीत्यर्थः ॥ ६० ॥श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥ यतस्तस्मात् - तानीति । तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्त आसीत युक्तस्समाहित सन्नासीत, मत्परः अहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य सः मत्परः नान्योहं तस्मादित्यासीतेत्यर्थः । एवमासीनस्य यतेस्तो वंशे हि यस्येन्द्रियाणि वर्तन्ते अभ्यासबलात् तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥ ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामः कामात् क्रोधोऽभिजायते ॥ ६२॥ अथेदानीं पराभविष्यतस्सर्वानर्थस्य मूलमिदमुच्यते—ध्यायत इति । ध्यायतः चिन्तयतः विषयान् शब्दादीन विषय विशेषानालोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु विषयेषूपजायते, सङ्गात्प्रीतेस्संजायते समुत्पद्यते कामः तृष्णा, कामात् कुतश्चित्प्रतिहतात् क्रोधोऽभिजायते ॥ ६२ ॥ तर्हि किं कर्तव्यमत आह— तानीति, यतस्तस्मादिति । यस्मादेवमिन्द्रियाणि विपश्चितोपि मनः प्रक्षोभ्य प्रसभं हरन्ति तस्मादित्यर्थः । सर्वाणीन्द्रियाणीति शेषः । समाहित इति । चित्तसमा- धानशालीत्यर्थः । अहंशब्दार्थमाह - वासुदेव इति । किमयं वसुदेवपुत्रो नेत्याह — सर्वप्रत्यगात्मेति । सर्वेषां भूतानां हृदि प्रत्यग्रूपेण स्थित आत्मा वासुदेव इत्यर्थः । परः प्राप्य इत्यर्थः । प्रत्यगभिन्न- ब्रह्मात्मानुसन्धानपर इति यावत् । तदेवाह – नान्योहं तस्मादिति । अहं वासुदेवाद्भिन्नो न, किंतु वासुदेव एवाहमिति ज्ञानवानिति शेषः । आसीत वर्तेत - किञ्चिदप्यकुर्वन् तूष्णीं वर्तेतेत्यर्थः । एव- मासीनस्य सतो यस्य यतेर्वशे इन्द्रियाणि वर्तन्ते तस्य प्रज्ञा प्रतिष्ठिता । कुतो वर्तन्ते वशे इन्द्रियाणीत्यत आह- अभ्यासबलादिति । इन्द्रियाणां विषयप्रावण्यं वारयित्वा मन आत्मनि समाधाय ब्रह्माह- मस्मीति यो नित्यमनुसन्धत्ते तस्य क्रमेण भवतीन्द्रियजयस्तथा सतीन्द्रियजये स स्थितप्रज्ञ इत्युच्यत इत्यर्थः । अत्राधिकारिविशेषणानि शमदमो परतिसमाधानान्युक्तानीति बोध्यम् । यत्तु मत्परः चेतस- शुभाश्रयभूते मयि मनोऽवस्थाप्येति रामानुजः, तन्मन्दम् — स्थितप्रज्ञस्य साङ्ख्यस्य योगिवद्ध्यान- धारणासम्भवात् नहि सच्चिदानन्दब्रह्मात्मतत्त्ववित्स्थितप्रज्ञः कञ्चिदाकारमात्मनि प्रकल्प्य ध्यायति- कल्पि- सस्य मिथ्यात्वात्, कल्पनस्य क्लेशावहत्वात्, चिरकालावस्थानाभावेन कल्पितस्य क्षणिकत्वात्ततो दुःखहेतुत्वाच । नाप्यात्मनोन्यं परमात्मानं मनुते तन्मननस्य भयहेतुत्वात् । ‘द्वितीयाद्वै भयं भवतीति श्रुतेः, तत्त्वमस्यादिश्रुतिभिर्ब्रह्मात्मैक्यप्रतिपादनात् समाहिते मनसि सचिदानन्दलक्षणात्मस्वरूपाद्भिन्नस्य परमात्मस्वरूपस्य स्फुरणाभावाच्च, परमात्मनोपि सच्चिदानन्दरूपत्वेन आत्मस्वरूपात्पृथक्त्वायोगाचं ॥ ६१ ॥ • ध्यायत इति, पराभविष्यत इति । तिरस्करिष्यत इत्यर्थः । यतमानस्य विपश्चितः पराभव जनयिष्यत इति यावत् । पुरेति पाठस्तु सुगम :- तावदित्यर्थः । भविष्यत उत्पत्स्यमानस्य सर्वविधस्या- द्वितीयोऽध्यायः । क्रोधाद्भवति सम्मोहस्सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशादबुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥ ९५. क्रोधादिति । क्रोधाद्भवति सम्मोहः अविवेकः कार्याकार्यविषय:- क्रुद्धो हि सम्मूढ- स्सन् ‘गुरुमप्याक्रोशति, सम्मोहात् स्मृतिविभ्रमः शास्त्राचार्योपदेशा हितसंस्कारजनितायाः स्मृतेः स्याद्विभ्रमः भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तावनुत्पत्तिः । ततः स्मृतिभ्रंशाद्बुद्धिनाशः बुद्धेर्नाशः कार्याकार्यविषय विवेकायोग्यतान्तःकरणस्य बुद्धेर्नाश इत्युच्यते । बुद्धिनाशात्प्रण- श्यति तावदेव हि पुरुषः यावदन्तःकरणं कार्याकार्य विषय विवेकयोग्यं तदयोग्यत्वे नष्ट एव पुरुषो भवति । अतस्तस्यान्तःकरणस्य बुद्धेर्नाशात्प्रणश्यति । पुरुषार्थायोग्यो भवतीत्यर्थः ॥ रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसाद मधिगच्छति ॥ ६४५ सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम् । अथेदानीं मोक्षकारणमिदमुच्यते— रागेति । प्यनर्थस्य मूलं कारणमिदं विषयध्यानरूपमुच्यते । सर्वानर्थमूलमितिपाठे पराभविष्यतः पराभवं गमिष्यतो विवेकविज्ञानहीनस्य पुरुषस्येत्यर्थः । कुतश्चिद्धेतोः कामे प्रतिहतेसति क्रोधो जायत इत्यर्थः । यथा स्त्रीकामस्य स्त्रियामपहृतायामपहर्तरि क्रोधः ; विषयान् ध्यायतः पुंसस्तेषु सङ्ग उपजायते, सङ्गात्कामस्सञ्जा- यते, कामात्क्रोथोऽभिजायते, इत्यन्वयः ॥ ६२ ॥ क्रोधादिति, अविवेक इति । नायमात्मानात्मविषय इत्याह- कार्येति । इदं कर्म कार्य- मिर्दं कर्माकार्यमिति विवेको न भवति क्रुद्धस्य पुंस इत्यर्थः । तदेव निदर्शयति– क्रुद्धो हीति । हिः प्रसिद्धौ । क्रोशति उपालभते निन्दतीति यावत् । स्मृतीति । अनुभवजन्यस्संस्कारः, संस्कारजन्या तु स्मृतिः, शास्त्रं श्रुतिस्मृत्यादिकमाचार्योपदेशः गुरूपदेशः ताभ्यामाहितस्संपादितो यः संस्कारः आत्म- ज्ञानवासना तस्माज्जनितायाः स्मृतेः सच्चिदानन्द आत्मेत्य | कारकस्मरणस्य । भ्रंशशब्दार्थमाह–स्मृतीति । स्मृत्युत्पत्तौ यन्निमित्तं सदृशवस्तुदर्शनादिकं तस्य प्राप्तावपि स्मृतेरनुत्पत्तिभ्रंश इत्युच्यत इत्यर्थः । बुद्धिनाशः बुद्धेरन्तःकरणस्य नाशः कार्याकार्यविषयविवेकाभावः बुद्धिनाशः न हि यावन्मुक्ति- दशमन्तःकरणस्य स्वरूपनाशः अन्तःकरणस्य कर्याकार्यविषयविवेकायोग्यता बुद्धेर्नाश इत्युच्यत इत्यन्वयः । प्रणश्यतीत्यस्यार्थमाह - तावदित्यादिना । यावदन्तः करणं यस्य कार्याकार्यविषयविवेकयोग्यं तावदेव स पुरुष इत्युच्यते । तद्योग्यत्वे नष्टे स पुरुषो नैव भवति किन्तून्मत्तः स्थाणुः पशुर्वा भवति, अयमेव हि पुरुषस्य प्रणाशः यदन्तःकरणस्य कार्याकार्यविययविवेकाभावः । अतस्तादृशविवेकशून्यान्तःकरणः पुरुष: प्रणष्ट इव भवति पुरुषा तस्मात्पुरुषत्व स्यैवापगतत्वादिति कृत्वा प्रणश्यतीत्युक्तम् । पुरुषनिष्ठं पुरुषत्वं पौरुषं च पुरुषार्थयोग्यत्वमेवेत्यभिप्रेत्याह – पुरुषार्थायोग्य इति । न ह्यपुरुषाः पश्वादयः किमपि पुरुषार्थ साधयेयुरिति भावः ॥ ६३ ॥
रागेति । रागद्वेषवियुक्तैरिन्द्रियैर्विषयांश्चरन् विधेयात्मा तु प्रसादमधिगच्छति । तत्पुरस्सरेति ९६ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु रागद्वेषवियुक्तैः रागश्च द्वेषश्च रागद्वेषौ तत्पुरस्सराहीन्द्रियाणां प्रवृत्तिः स्वाभाविकी, तत्र यो मुमुक्षुर्भवति स ताभ्यां वियुक्तैः श्रोत्रादिभिरिन्द्रियैः विषयानवर्जनीयान् अशनपानादीन् - देहस्थितिहेतूनिति यावत् । चरन्नुपलभमानः आत्मवश्यैः आत्मनः वश्यानि वशीकृतानि इन्द्रियाणि तैरात्मवश्यैः विधेयात्मा इच्छातो विधेय आत्मा अन्तःकरणं यस्य सोयं प्रसाद- मधिगच्छति । प्रसादं प्रसन्नतां स्वास्थ्यं ॥ ६४ ॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्यासु बुद्धिः पर्यवतिष्ठति ॥ ६५ ॥ प्रसादे सति किं स्यादित्युच्यते - प्रसाद इति । प्रसादे सर्वदुःखानां आध्यात्मिकादी हानिः विनाशः अस्य यतेः उपजायते । किंच - प्रसन्नचेतसः शुद्धान्तःकरणस्य हि यस्मा दाशु शीघ्रं बुद्धिः पर्यवतिष्ठति आकाशमिव परिसमन्तादवतिष्ठति - आत्मस्वरूपेणैव निश्चला भवतीत्यर्थः । येषु प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता यतस्तस्मात् रागद्वेषवियुक्तै- रिन्द्रियैः शास्त्राविरुद्धेषु अवर्जनीयेषु युक्तः समाचरेदिति वाक्यार्थः ॥ ६५ ॥
तौ रागद्वेषौ पुरस्सरौ यस्यास्सा तत्पुरस्सरा रागद्वेषप्रयुक्तेत्यर्थः । प्रवृत्तिरिति विषयेष्विति शेषः । स्वाभाविकी खभावादागता स्वभावसिद्धेति यावत् । चरन्निति चरगतिभक्षणयोरिति धातुः । तत्र ये गत्यर्थास्ते ज्ञानार्था इति न्यायाच्चरतेर्ज्ञानार्थत्वमित्यभिप्रेत्याह - उपलभमान इति । अनुभवन्नित्यर्थः । इच्छातो विधेय इति स्वेच्छाधीन इत्यर्थः । स्वाधीन इति यावत् । स्वास्थ्यमिति मनः क्षोभाभाव- मित्यर्थः । अत्र चरन्नित्यस्य तिरस्कृत्य वर्तमान इति रामानुजेनोक्तं, तत्तुच्छम् — चरतेस्तादृशार्था- लाभात् । चरतिरत्र आक्रमणरूपगतिपरः भक्षणार्थ संहारपरो वा तेन तिरस्कारार्थलाभ इति वेदान्त- देशिकः, तत्तुच्छम् — गमनाक्रमणयोर्भेदात् प्राप्त्याक्रमणयोस्तु भवति कथञ्चिदभेदः, तथापि नाक्रम- णा तिरस्कारलाभः । तथा भक्षणसंहारयोरपि भेद एव- भक्षणस्याहिंसात्मकत्वात्संहारस्य च हिंसात्म- कत्वात् । व्याघ्रः पुरुषं भक्षयतीत्यादौ कथञ्चिद्भक्षणस्य हिंसात्मकत्वेपि न तिरस्काररूपत्वं भक्षणस्य, भक्षण ह्यनुभवः- तिरस्कारस्तु तत्रानादरः स ननुभवे पर्यवस्यति - अन्नं तिरस्कृत्य भक्ष्यान् भक्षयेती- स्यादिप्रसिद्धेः । तस्माच्चरतेस्तिरस्कारार्थकत्वमप्रमाणम् ॥ ६४ ॥ प्रसाद इति । बुद्धिरन्त:करण निश्चयात्मक, चेतस्तु संशयात्मकमिति विवेकः । समाचरेत् आसीत वर्तेतेति यावत् । ज्ञाननिष्ठामभ्यसेदिति वा । बुद्धिः पर्यवतिष्ठतीत्यत्र बुद्धिशब्दस्य ज्ञाना- र्थाश्रयणे तस्य प्रज्ञा प्रतिष्ठितेत्यनेनैकार्थश्च प्रतिभाति । ननु आत्मस्वरूपेणैव निश्चला भवतीत्यस्य अर्थानुपपत्ति:- अन्तःकरणात्मिकाया बुद्धेः अहं ब्रह्मेति बुद्धिर्वा सच्चिदानन्दलक्षणात्मखरूपायोगादिति चेत्, उच्यते - सच्चिदानन्दलक्षणात्मतादात्म्याभ्यासा- दन्तःकरणस्यात्मस्वरूपलाभ इति । यथा निरन्तरविष्णुमूर्तिध्यानवशान्मनसस्तद्रूपत्व लाभ:, बुद्धि तेस्तु आत्मस्वरूपविषयत्वेन नैश्चल्यं विवक्षितमित्यदोषः ॥ ६५॥ १३ द्वितीयोऽध्यायः । नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतरशान्तिरशान्तस्य कुतस्सुखम् ॥६६॥ ९७ सेयं प्रसन्नता स्तूयते - नास्तीति । नास्ति न विद्यते न भवतीत्यर्थः । बुद्धिरात्म- स्वरूपविषया अयुक्तस्यासमाहितस्य । न चायुक्तस्य भावना आत्मज्ञानाभिनिवेश:, तथा न चास्त्यभावयतः आत्मज्ञानाभिनिवेशमकुर्वतः । शान्तिरुपशमः, अशान्तस्य कुतस्सुखम् । इन्द्रियाणां हि विषय सेवातृष्णातः निवृत्तिस्सुखं, न विषयविषया तृष्णा सुखम् । दुःखमेव हि सा । न तृष्णायां सत्यां सुखस्य गन्धमात्रमप्युपपद्यत इत्यर्थः ॥ ६६ ॥ इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञा वायुर्नावमिवाम्भसि ॥६७॥ असमाहितस्य कस्माद्बुद्धिर्नास्तीति, उच्यते - इन्द्रियाणामिति । इन्द्रियाणां हि यस्माच्चरतां स्वविषयेषु प्रवर्तमानानां यन्मनोऽनुविधीयते अनुप्रवर्तते तदिन्द्रियविषयकल्पनेन प्रवृत्तं मनः अस्य यतेः हरति प्रज्ञां आत्मानात्मविवेकजां, वायुर्नावमिवाम्भसि । उदके जिगमिषतां सांयात्रिकाणां मार्गादुद्धृत्य उन्मार्गे नावं यथा वायुः प्रवर्तयति एवमात्मविषयां प्रज्ञां हृत्वा मनः विषयविषयां करोति ॥६७॥ तस्माद्यस्य महाबाहो ! निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥ यततोह्यपीत्युपन्यस्तस्यार्थस्यानेकदोषोपपत्तिमुक्त्वा तं चार्थमुपपाद्योपसंहरति- तस्मादिति । इन्द्रियाणां प्रवृत्तौ दोष उपपादितो यस्मात् तस्माद्यस्य यते: हे महाबाहो निगृ- हीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥ नास्तीति । बुद्धिर्ज्ञानं । सुखस्य स्वरूपमाह - इन्द्रियाणामिति । इन्द्रियाणां विषयसेवायां या तृष्णा स्पृहा तस्या इति पञ्चम्यास्तसिः । विषयविषया शब्दादिविषया तृष्णा तु न सुखम् । सा विषयतृष्णा गन्धमात्रं लेशमात्रमपि नोपपद्यते न जायते । ननु विषयसिद्धौ विषयतृष्णा तस्सुखमेवेति चेत्, मैवम् – यदि विषयसिद्धिमात्रेण विषयतृष्णा निवर्तेत तर्हि सुखमेव नतु निवर्तते, प्रत्युत वर्धते । नहि लब्धधनस्य धनतृष्णा निवर्तमाना दृष्टा, श्रुता वा । नापि स्त्रियासह मिथुनीभूय वर्तमानस्य स्त्रीतृष्णा निवर्तमाना दृष्टा, श्रुता वा । तृष्णायां निवृत्तायामेव मनस्यन्तुर्मुखे सति तत्रात्मसुखप्रतिबिम्ब:- त्सुखलाभः, ततश्च सुखविरोधिनी तृष्णा दुःखहेतुत्वाद्दुःखमेवेति ॥ ६६ ॥
इन्द्रियाणामिति । इन्द्रियाणां खविषयेषु चरतां सतां यद्वा चरतामिन्द्रियाणामिति कर्मणि षष्ठी । चरन्ति इन्द्रियाणीत्यर्थः । यदिति मनसो विशेषणम् । सांयात्रिकाः पोतवणिजः । विषयविषयां शब्दादिविषयां प्रज्ञाम् ॥६७॥ तस्मादिति । तस्मात् इन्द्रियाणां विषयेषु प्रवृत्तेर्बहुदोषवत्त्वादित्यर्थः । हेमहाबाहो यस्य इन्द्रि - ९८ श्रीभगवद्गीतासु - भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु या निशा सर्वभूतानां तस्यां । जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥ atri लौकिक वैदिको व्यवहारस्स उत्पन्नविवेकज्ञानस्य स्थितप्रज्ञस्याविद्याकार्यत्वात् अविद्यानिवृत्त्या निवर्तते, अविद्यायाश्च विद्याविरोधात् निवृत्तिरित्येतदर्थं स्फुटीकुर्वन्नाह- येति । या निशा रात्रिः सर्वपदार्थानामविवेककरी तमस्स्वभावत्वात् सर्वभूतानां सर्वेषां भूतानां किंतत् परमार्थतत्वं स्थितप्रज्ञस्य विषयः । यथा नक्तञ्चराणां अहरेव सदन्येषां निशा भवति, तद्वन्नक्तञ्चरस्थानीयानामज्ञानिनां सर्वभूतानां निशेव निशा परमार्थतत्त्वं अगोचरत्वादत- याणि सर्वशस्सर्वेभ्य इन्द्रियार्थेभ्यो निगृहीतानि, तस्य प्रज्ञा प्रतिष्ठितेत्यन्वयः । अगृहीतविषयेन्द्रियो जितेन्द्रियः स्थितप्रज्ञ इत्युच्यत इत्यर्थः ॥ ६८ ॥ येति । सर्वभूतानां या निशा तस्यां संयमी जागर्ति, यस्यां भूतानि जाग्रति पश्यतो मुनेस्सा निशा, लौकिक इति भोजनादिः, वैदिकः यज्ञादिः, व्यवहारः कर्म मनोवाक्कायनिष्पाद्यः, अविद्या अहमज्ञ इत्यनुभवसिद्धा अनादिभावत्वे सति ज्ञाननिवर्त्यत्वलक्षणलक्षिता अज्ञानशक्त्यादिपर्यांया माया । विद्या अहँब्रह्मेति ज्ञानम् । स्थितप्रज्ञस्य ज्ञानेनाज्ञाननिवृत्तौ तत्कार्यव्यवहारनिवृत्तिरित्यर्थः । सर्वपदार्थानां घटा- दीनामविवेककरी विवेकाभावकारिणी । नहि निशायां दीपादिज्योतिरभावे घटोऽयं पटोऽयमिति विवेकः कस्यापि सम्भवति । तत्र हेतुमाह — तमस्स्वभावत्वादिति । अन्धकारमयत्वादित्यर्थः । अत्र निशावर्णनस्याप्रकृतत्वात्पृच्छति - किं तदिति । का सा निशेत्यर्थः । निशापदाभिधेयं तद्वस्तु किमित्यक्षरार्थः । उत्तरयति - परमार्थतत्त्वमिति । आत्मेति यावत् । तस्यैव परमार्थसत्यत्वात् । प्रपञ्चो हि व्यवहारसत्यः । कस्तद्वेदेत्यत आह — स्थितप्रज्ञस्य विषय इति । गोचर इत्यर्थः । तबुद्धिविषय इति यावत् । ननु या सर्वभूतानामविवेककरी निशा सा स्थितप्रज्ञस्याविवेककरी निशैव भवितुमर्हतीति कथं तस्यास्स्थितप्रज्ञविषयत्वमत आह-यथेत्यादि । अन्येषामस्मदादीनामहरेव स- नक्तञ्चराणां निशा भवति - अहनि नक्तञ्चराणामप्रवृत्तेश्चेति भावः । नक्तं निशायां चरन्तीति नक्तं चराः भूतपिशाचोलूकादयः । तद्वदज्ञानिनां सर्वभूतानां निशा सत्यपि स्थितप्रज्ञस्य विषयएव परमार्थतत्वमिति । ननु परमार्थतत्त्वस्य कथं निशात्वमत आह- निशेव निशेति । औपचारिकः प्रयोग इति भावः । ननु गौणप्रयोगेपि साम्यं वक्तव्यमत आह— अगोचरत्वादिति । अतबुद्धय आत्मज्ञान- शून्याः तेषामगोचरत्वादविषयत्वात् । यथा निशां अस्मदादिचक्षुर्वृत्त्यविषयः, तथा आत्मतत्त्वमप्यविदुषां बुद्धिवृत्त्यविषय इत्यर्थः । नच निशायाः कथं चक्षुर्वृत्त्यविषयत्वं तत्तमसः चक्षुषैव गृह्यमाणत्वादिति वाच्यं, चक्षुर्वृत्तिनिरोधकत्वस्यैव तमसो लक्षणत्वात्, नेत्रगोलकसम्बद्धे तमसि चक्षुर्वृत्त्यनपेक्षणात्, चक्षुर्वृत्तेर्बहिर्निर्गमनायोगाच्च, नेत्रे निमीलिते प्यान्तरतमो ग्रहणसम्भवाच्च, तस्माच्चक्षुर्वृत्तिनिरोधक तमो मन- सैव वेद्यत इति बोध्यम् । परमार्थतत्त्वमेव लक्षणं यस्यास्तस्यां तस्यां निशायां नास्या निशाया जाय- 1 द्वितीयोऽध्यायः । ९९ बुद्धीनां तस्यां परमार्थतत्त्वलक्षणायां अज्ञाननिद्रायां प्रबुद्धः जागर्ति संयमी संयमवान् जितेन्द्रियो योगीत्यर्थः । यस्यां ग्राह्यग्राहकभेदलक्षणायाम विद्यानिद्रायां प्रसुप्तान्येव भूतानि जाग्रतीत्युच्यन्ते प्रसुप्ता इव स्वमदृशः सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो मुने दाद्यवस्थास्वन्तर्भाव इत्याह- अज्ञाननिद्रायामिति । जाग्रत्स्वप्नयोरिव न ज्ञानानि सुषुप्ताविव न निद्राख्यं तमः न विद्येते ज्ञाननिद्रे यस्यां तस्यामिति बहुव्रीहिः । अज्ञानानिद्रायामितिपाठे बहुव्रीहि- द्वयस्य कर्मधारयः । सच्चिदानन्दरूपे आत्मनि अज्ञानाभावान्न निद्रा - बुद्ध्यभावान्न तद्वृत्तिज्ञानानि सन्तीत्यर्थः । नचाज्ञानोपाधिके आत्मनि कथमज्ञानाभाव इति वाच्यं, निरुपाधिके आत्मनि अज्ञानो - पाधिकल्पनस्यातात्त्विकत्वात् परमार्थदशायामात्मन्यविद्याऽभावाच्च यावद्व्यवहारं हि व्यवहारान्यथानुप- पत्त्या आत्मन्यज्ञानं कल्पितम् । किंच नाहं घटं जानामीति यावद्धटाज्ञानानुभवस्तावद्धटाज्ञानमस्ति– चक्षुर्वृत्त्या घटाज्ञाने नाशिते तु घटप्रत्यक्षं भवति सति च घटप्रत्यक्षे कथं पुनर्घटाज्ञानसद्भाव:- एवं नाहं ब्रह्म जानामीति यावदात्माऽज्ञानानुभवः तावदात्माऽज्ञानमस्ति - अहं ब्रह्मेति धीवृत्त्या आत्माऽज्ञाने नाशिते तु आत्मसाक्षात्कारो जायते । सति चात्मसाक्षात्कारे कथं पुनरात्माज्ञानानुभवः, यद्बलेनात्म- न्यज्ञानं कल्प्येत । नच कार्यलिङ्गकानुमानेन कल्प्यतामिति वाच्यं, परमार्थतः प्रपञ्चाभावात् । तस्मा- न्नास्ति परमार्थतत्त्वे ज्ञानाज्ञानद्वन्द्वमित्यनवद्यम् । प्रबुद्धः विद्वान् स्थितप्रज्ञ इति यावत् । कोसौ प्रबुद्ध अत आह—संयमीति । संयम इन्द्रियजयः । एतेन सर्वभूतानामविषयमात्मतत्त्व स्थितप्रज्ञ एक एव नित्यमनुसन्दधानो वर्तत इति सिद्धम् । इदमेव हि विदुष आत्मनि जागरणं नाम यदात्मस्वरूपानुभवः । इदमेव विदुषामात्मनि स्वापोनाम यदात्मस्वरूपाज्ञानम् । 1 अथ श्लोकस्योत्तरार्थं व्याचष्टे – यस्यामिति । ग्राह्याणि विषयाः, ग्राहकाणि समनस्कानीन्द्रि- याणि, तद्भेद एव लक्षणं स्वरूपं यस्यास्तस्यां निशायाम विद्यानिद्रायामज्ञानात्मकनिद्रायां- निशाकार्ये निद्रायां निशात्वोपचार इति भावः । प्रसुप्तान्येवेति । अज्ञाननिद्राभिभूतत्वादिति भावः । उच्यत इति । अविवेकिभिरिति शेषः । तत्र दृष्टान्तमाह — प्रसुप्ता इव स्वमदृश इति । यथा निद्रायां प्रसुप्ता- स्स्वप्रद्रष्टृत्वाज्जाग्रतीत्युच्यन्ते तद्वदिति । यद्वा व्यतिरेकदृष्टान्तोऽयं यथा स्स्वमदृशः पुरुषाः निद्रायां प्रबुद्धा अपि प्रसुप्ता इत्युच्यन्ते तद्वदिति । यत्राविदुषां सर्वेषां भूतानां लौकिके च वैदिके च सर्वस्मि- नविद्याकार्ये व्यवहारे प्रवृत्तिर्न स स्थितप्रज्ञस्य विषयः, तस्यात्मानुभवव्यग्रत्वात् तद्विद्यया अविद्याया - “स्सकार्याया नष्टत्वाचेत्यभिप्रायः ।
1 अत्रायं निष्कर्ष : यो भूतानामविषयत्वान्निशारूप आत्मा स स्थितप्रज्ञस्य गोचरत्वादहो - रूपः । यस्तु भूतानां विषयत्वादहोरूप आविद्यको व्यवहारः, स स्थितप्रज्ञस्याविषयत्वान्निशारूप इति । यथा नक्तश्चराणां निशा अस्मदादीनामहः, अस्मदादीनां निशा नक्तञ्चराणामहः तद्वदिति । यद्वा यस्मिन् ब्रह्मणि भूतानि निलीयन्ते सुषुप्तौ निशायां तद्ब्रह्मभूतानां निशेत्युच्यते । तत्र च स्थितप्रज्ञो जागर्ति - तदनुभवितृत्वात्तस्य । यस्यामविद्या निशायां भूतान्यहनि व्यवहरन्ति सा अविद्या निशा भूतानामहरित्यु- श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु रिति । अतः अविद्यावस्थायामेव कर्माणि चोद्यन्ते, न विद्यावस्थायाम् । विद्यायां हि सत्या- मुदिते सवितरि शार्वरमित्र तमः प्रणाशमुपगच्छत्याविद्या । प्राग्विद्योत्पत्तेरविद्या प्रमाणबुद्धया गृह्यमाणा क्रियाकारक फलभेदरूपा च सती कर्महेतुत्वं प्रतिपद्यते, नाप्रमाणबुद्धया गृह्यमा- गायाः कर्महेतुत्वोपपत्ति: प्रमाणभूतेन वेदेन मम चोदितं कर्म कर्तव्यमिति हि कर्मणि कर्ता प्रवर्तते, नाविद्यामात्रमिदं सर्वं निशेवेति जानन् यस्य पुनर्निशेवाविद्यामात्रमिदं सर्व भेदजात- मिति बुद्धि:, तस्यात्मज्ञस्य सर्वकर्मसन्न्यास एवाधिकारः न प्रवृत्तौ । तथा च दर्शयिष्यति - ‘तबुद्धयस्तदात्मान’ इत्यादिना ज्ञाननिष्ठायामेवाधिकारम् | 14 तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिरिति चेन्न स्वात्मविषयत्वादात्मज्ञानस्य च्यते । तत्र च न स्थितप्रज्ञो जागर्ति स्थितप्रज्ञाविषयत्वाद्व्यवहारस्य । यथा अस्मदहोरूपायां निशायां नक्तञ्चरा न जाग्रति, वयन्तु जागृम:, अस्मन्निशारूपे अहनि तु नक्तञ्चरा जाग्रति, वयन्तु न जागृमः तद्वदिति । भूतानां ब्रह्मैव निशा अविद्यैवाहः, स्थितप्रज्ञस्य तु ब्रह्मैवाहः, अविधैव निशेति संक्षिप्तोऽर्थः । निर्व्यवहार आत्मानुभवपरः स्थितप्रज्ञः, व्यवहारिण आत्मज्ञानहीनास्तु सर्वे प्राणिन इति भावार्थ: । एवं श्लोकं व्याख्याय फलितमाह - अत इत्यादिना । अतः अविदुषां ब्रह्मज्ञानाभावाद्विदुषश्च व्यव- हाराभावादित्यर्थः । चोद्यन्ते विधीयन्ते शास्त्रेणेति शेषः । शर्वर्या इदं शार्वरं तस्येदमित्यण । सवित - युदिते शार्वरं तम इव विद्यायां सत्यामविद्या प्रणाशमुपगच्छतीत्यन्वयः । विद्या- ‘अहं ब्रह्मास्मि’, ‘तत्सत्यम्’, ‘स आत्मा’, ‘तत्त्वमसि’, ‘स भूमा ‘, ’ अतोऽन्यदार्त’ मित्यादिज्ञानम् ! अहमज्ञः, कर्ता, भोक्ता, ब्राह्मणो, यष्टव्यं मम, दातव्यमित्याद्यज्ञानमविद्या अविद्यापरिणामरूपत्वात्सर्वोपि प्रपञ्चोऽविद्ये- त्युच्यते । इयं ह्यविद्या दर्शितविद्योत्पत्तेः प्राक्प्रमाणमिव प्रतिभाति । सर्वे ह्यास्तिका अतत्त्वविदः पुरुषाः वेदशास्त्रादीनि यज्ञयागादिक्रियाः तत्तदुपकरणानि स्वर्गादिफलानि च ब्राह्मणादिवर्णान्ब्रह्मचर्याद्याश्रमा- निन्द्रादिदेवता :- किं बहुना सर्वमपि जगत्सत्यमेव मन्वते, ब्रह्म सत्यं जगन्मिथ्येति विद्योत्पत्स्यनन्तरं तु सर्वमप्यसत्यत्वादप्रमाणमित्येव मन्यते इत्याह– प्राग्विद्येत्यादिना । विद्योत्पत्तेः प्राक् क्रियाकारक- फलभेदरूपा अविद्या प्रमाणबुद्ध्या गृह्यमाणा सती कर्महेतुत्वं प्रतिपद्यते हि । अप्रमाणबुद्धया गृह्य- माणाया अविद्यायाः कर्महेतुत्वोपपत्तिर्न हि यतः कर्ता पुरुषः प्रमाणभूतेन वेदेन चोदितं कर्म मम कर्तव्यमिति मत्वा कर्मणि प्रवर्तते, इदं सर्वं निशेवाविद्यामात्रमिति जानंस्तु नैव प्रवर्तते इति भाष्य- वाक्यान्वयः । विद्यादशायां तु वेदस्यैवाप्रमाणत्वात्कथं तच्चोदितकर्मणः प्रामाण्यमिति भाव: । निशेवेत्यस्य निद्रेवेत्यर्थः । निद्राया अविद्यामात्रत्वात् । दर्शयिष्यतीति । भगवानिति शेषः । पञ्चमाध्याये इति भावः । ‘तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः’ इति ज्ञान- निष्ठायामेव विदुषोऽधिकारं दर्शयिष्यतीत्यन्वयः । । ननु विद्यावस्थायां वेदस्यैवाप्रमाणत्वेन तच्चोदितः प्रवृत्तिधर्म इव निवृत्तिधर्मोऽप्यप्रमाणमेवेति कथं विदुषो निवृत्तिधर्मे ज्ञाननिष्ठायां सन्न्यासेऽधिकार इति वक्तुं शक्यमिति शङ्कते – तत्रापीति । द्वितीयोऽध्यायः । १०१
न ह्यात्मनः स्वात्मनि प्रवर्तकप्रमाणापेक्षा- ‘आत्मत्वादेव । तदन्तत्वाच्च सर्वप्रमाणानां प्रमाणत्वस्य- न ह्मात्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारस्सम्भवति, प्रमातृत्वं ह्यात्मनो निवर्त - यति अन्त्यं प्रमाणं निवर्तयदेव चाप्रमाणं भवति, स्वमकालप्रमाणमिव प्रबोधे । लोके च ज्ञाननिष्ठायामपीत्यर्थः । परिहरति-नेति । आत्मज्ञानस्य ज्ञाननिष्ठाया इत्यर्थः । विवृणोति - नहीति । आत्मनस्स्वस्य खात्मनि प्रवर्तकप्रमाणापेक्षा नहि । तत्र हेतुमाह - - आत्मत्वादेवेति । यथा देहात्माभिमानिनः पुरुषस्य स्वदेहदर्शने प्रवर्तकं किञ्चित्प्रमाणं नास्ति, तदभावेपि स तत्र प्रवर्तत एव तद्वदिति भावः । तदन्तत्वादिति । आत्माव सानत्वादित्यर्थः । तदन्तत्वमेव विवृणोति- नहीति । यावदात्मसाक्षात्कारं सर्वाणि शास्त्रादीनि प्रमाणानि भवन्ति, सति चात्मसाक्षात्कारे निष्प्र- पञ्च स्वयंप्रभे आत्मन्यविक्रियेऽद्वितीये सच्चिदानन्दे ब्रह्मणि परमार्थतत्त्वे द्वैतादर्शनात् आविद्यकं प्रती- तिमात्रसत्ताकमिदं द्वैतं मिथ्यात्वादप्रमाणमेवेति विदुषो निश्चयो जायते । एवं निश्वयशालिनो विदुषः कथं प्रमाणप्रमेयादिव्यवहारसम्भवः, न कथमपीत्यर्थः । ननु प्रमातर्यात्मनि सति कथं प्रमाणाद्यसम्भवत आह- प्रमातृत्वमपीति । अन्त्यं शास्त्ररूपं प्रमाणमात्मनः प्रमातृत्वं निवर्तयति । हि- अहं ब्रह्मेत्याकार कवृत्तिजननद्वारेत्यर्थः । आत्मस्वरूप - साक्षात्कारजननद्वारेति वा । प्रमातृत्वस्य प्रमेयाधीनत्वादप्रमेये आत्मनि प्रमेयस्य द्वैतस्यासम्भवाच्च नात्मनः प्रमातृत्वं पारमार्थिकमिति भावः । एकमेवाद्वितीयं ब्रह्मेत्यादिशास्त्रं विद्वदनुभवश्चात्र प्रमाण- मिति बोध्यम् । नन्वाविद्यकत्वेनाप्रमाणस्य शास्त्रस्य कथं प्रामाण्यमत्रेत्यत आह- निवर्तयदेवेति । यावदात्मनः प्रमातृत्वं तावच्छास्त्रस्य प्रामाण्यं, यदा तु शास्त्रमात्मनः प्रमातृत्वं निवर्तयति तदैव शास्त्रमप्रमाणं भवति । यथा कतकरजः अम्भसि क्षिप्तं सत्तद्द्भुतमालिन्यं हरदेव स्वयमपि नश्यति तद्वदिति भावः । तस्मादात्मनः प्रमातृत्वं निवर्तयत्सदेव शास्त्रमप्रमाणं भवतीत्यनवद्यम् । उक्तार्थे दृष्टान्तमाह – स्वप्नेति । यथा स्वमकालप्रमाणं खमदशायामनुभवसिद्धं चक्षुरादिप्रमाणं प्रबोधे जाग्रत्यप्रमाणं भवति तद्वदिति । खप्ने काशीनगरं दृष्टवान्पुरुषः तदा स्वस्य काशीनगरदर्शनकरणं निद्रया कल्पितं मृषाभूतमेव चक्षुः प्रमाणं मन्यते । प्रबोधे तु मृषैव मया खप्ने काशी दृष्टेति तादात्विकं चक्षुरप्रमाणमेव निश्चिनोति । एवमविद्यावस्थायां प्रमाणभूतं शास्त्रादिकं विद्यावस्थायाम प्रमाणमेव भवति । एतावता तत्रापीति प्रश्नस्य किमुत्तरमायातमिति चेदिदमायातम् – यावदात्मसाक्षात्कारं शास्त्रस्य प्रमाणत्वात्पारोक्ष्येणात्मतत्त्वविदं विद्वांसं ज्ञाननिष्ठायां प्रवर्तयत्येव शास्त्रमिति प्रवर्तकाभावेपि खात्मनि स्वतएव प्रवृत्तिरिति तु प्रौढ्योक्त- मुत्तरम् । इति । न केवलमात्मन्येव प्रवर्तकाभावेपि प्रवृत्त्युपपत्तिः, किंतु लोकेपीत्याह – लोके चेति । घटादिवस्त्वनुभवे विषये पुरुषं न प्रवर्तयति चक्षुरादिप्रमाणं, किंतु तत्तद्वस्तुविषयेच्छेव । इच्छया घटा- धधिगमे प्रवृत्तस्तु पुरुषः तत्करणं चक्षुरादिप्रमाणमपेक्षते, तस्मात्प्रमाणं प्रमातुः प्रमेयाधिगमे साधनमेव, न प्रवर्तकमित्यर्थः । एतेनात्म जिज्ञासुः पुरुषः तज्जिज्ञासया आत्मज्ञाने प्रमाणं वेदान्तशास्त्रमपेक्षते १०२ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु वस्त्वधिगमे प्रवृत्तिहेतुत्वादर्शनात् प्रमाणस्य । तस्मान्नात्मविदः कर्मण्यधिकार इति सिद्धम् ॥ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥ विदुषस्त्यक्तेषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः, न त्वसन्न्यासिनः कामकामिन इत्येतमर्थ दृष्टान्तेनोपपादयिष्यन्नाह – अपूर्यमाणमिति । आपूर्यमाणमद्भिः अचलप्रतिष्ठ- मचलतया प्रतिष्ठा यस्य त मचलप्रतिष्ठं समुद्रमापस्सर्वतो गताः प्रविशन्ति, स्वात्मस्थमवि - क्रियमेव सन्तं यद्वत्, तद्वत्कामा विषयसन्निधावपि सर्व इच्छाविशेषाः यं यतिं समुद्रमिवापः यावदात्मसाक्षात्कारं - यथा घटं दिदृक्षुः पुरुषः तद्दिदृक्षया घटदर्शने प्रमाणं चक्षुरपेक्षते यावद्धटसाक्षा- त्कारम् । साक्षात्कारानन्तरं तु किं तस्य प्रमाणेन न किञ्चिदपीत्यप्रमाणमेव प्रमाणं व्यर्थत्वादिति सिद्धम् । यथा कूपखानकः पुरुषस्तोयप्राप्त्यनन्तरं खनित्रादिकं खननसाधनं परित्यजति, तथा मुमुक्षु- रात्मसाक्षात्कारानन्तरं वेदान्तशास्त्रं परित्यजेदेवेति नात्मस्वरूपा घिगमनानन्तरं प्रमाणव्यवहारः पण्डितस्य, नापि प्रामाण्यं शास्त्रस्य इति बोध्यम् । उपसंहरति — तस्मादिति । अविद्यावस्थायामेव कर्माणि चोद्यन्ते न विद्यावस्थायामिति हेतोरित्यर्थः । आत्मविदः कर्मण्यधिकारो न, किंतु ज्ञाननिष्ठायामेव । अयं च ज्ञाननिष्ठाधिकारोपि यावदात्मसाक्षात्कारमेव, पश्चात्तु अधिकार्याधिकारकयोरेवाभावादधिकार- स्यैवाभाव:- न ह्यात्मा केनचित्कुत्रचिदधिक्रियते - सर्वशेषित्वादात्मनोऽविक्रियत्वाच्च । अधिकारक शास्त्र तु अद्वितीये आत्मनि नास्त्येव । अतः कथमधिकारसिद्धिः । न कथमपीति बोध्यम् ॥ ६९ ॥ आपूर्यमाणमिति । यद्वत् आपः आपूर्यमाणमचलप्रतिष्ठं समुद्रं प्रविशन्ति, तद्वत् सर्वे कामा यं प्रविशन्ति सः शान्तिमाप्नोति, कामकामी शान्ति नाप्नोति, आ समन्तात्पूर्यमाणमापूर्यमाणम् । कर्त्राकांक्षां वारयति – अद्भिरिति । यद्वा भगवतेति कर्तुश्शेषः, आपस्तु करणम् । अचलप्रतिष्ठ न चलतीत्यचल: पाराभावाच्चलनरहितः । प्रतिष्ठा शाश्वती स्थितिः अस्यास्तीति प्रतिष्ठः अशआद्यजन्तः प्रतिष्ठति प्रकर्षेण शाश्वतं तिष्ठतीति प्रतिष्ठ इति पचाद्यजन्तो वा । अचलश्चासौ प्रतिष्ठश्चाचलप्रतिष्ठः । अचल इति हेतुगर्भ विशेषणम् – यस्मादचलस्तस्मात्प्रतिष्ठ इति । इदं सर्वमभिप्रेत्याह - अचलतया प्रतिष्ठा यस्य तमिति । अचला प्रतिष्ठा यस्य तमिति व्याख्याने तु मूलाद्बहिरेवापारत्वादिति हेतु: कल्पनीयः स्यात् । इदानीं तु अचलशब्दादर्थतस्सिद्धं तदपारत्वमिति बोध्यम् । सर्वतो गतास्सर्वतः प्राप्ताः आपः गङ्गादिनदीजलानि स्वात्मस्थं स्वरूपस्थं तदेव विवृणोति - अविक्रियमेव सन्तमिति । समुद्रमित्यस्य विशेषणमिदम् । नदीजलप्रवेश प्रवेशाभ्यां समुद्रस्य वृद्धिह्रासरूपो न कोपि स्वरूपगतो विकार इत्यर्थः । विषयसन्निधावपीति । अपिना विषयाणामसन्निधौ सुतरामेवास्य नास्ति को पि कामकृतो विकार इति सूच्यते । केचिद्धीराः स्त्र्याद्यसन्निधौ निष्कामविकारा वर्तन्ते । तत्सन्निधौ तु कामविकारं भजन्ते इति दर्शनादाह– विषयसन्निधावपीति । अधिकुर्वन्तः कमपि विकारमजनयन्तः द्वितीयोऽध्यायः । १०३ अविकुर्वन्तः प्रविशन्ति - सर्वे आत्मन्येव प्रलीयन्त इत्यर्थः । न स्वात्मवशं कुर्वन्ति, स शान्ति मोक्षमाप्नोति । नेतरः कामकामी काम्यन्त इति कामाः विषयास्तान्कामयितुं शीलं यस्य स कामकामी स न प्राप्नोतीत्यर्थः ॥ ७० ॥ विहाय कामान् यस्सर्वान् पुमांश्चरति निस्पृहः । निर्ममो निरहङ्कारस्स शन्तिमधिगच्छति ॥ ७१ ॥ यस्मादेवं तस्मात् — विहायेति । विहाय परित्यज्य कामान् यस्सन्न्यासी पुमान् सर्वानशेषतः चरति जीवनमात्रचेष्टाशेषः पर्यटतीत्यर्थः । निस्पृहः- शरीरजीवनमात्रेपि निर्गता स्पृहा यस्य से निस्पृहः, निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेपि ममेदमित्यभिनिवेश- वर्जित इत्येतत् । स एवम्भूतः स्थितप्रज्ञो ब्रह्मविच्छान्ति सर्वसंसारदुःखोपरमलक्षणां निर्वा- णाख्यां अधिगच्छति प्राप्नोति ब्रह्मभूतो भवतीत्यर्थः ॥ ७१ ॥
यतिं कामाः प्रविशन्तीत्यस्यार्थमाह - सर्व इति । आत्मनि मनसि कूटस्थे वा । फलितमाह – नेति । कामा यतिं स्वात्मवश कामपरतन्त्रं न कुर्वन्ति । शान्ति मोक्षं ब्रह्मेति यावत् । सर्वप्रपञ्चोपशमसम्भवा- ब्रह्मणश्शान्तिपदाभिधेयत्वम् । यद्वा शान्ति सकार्यस्याज्ञानस्य निवृत्तिमित्यर्थः । सर्वदुःखनिवृत्तेर्मोक्षत्वा- दाह - मोक्षमिति ॥७०॥ विहायेति श्लोकमवतारयति – यस्मादेवं तस्मादिति । यस्मादेवं निष्काम एव शान्ति- माप्नोति, न कामकामी तस्मात् - कामकामिनो मोक्षाभावादित्यर्थः । यः पुमान् सर्वान् कामान्विहाय निस्पृहो निर्ममो निरहङ्कारश्च सन् चरति, स शान्तिमधिगच्छति । यस्सन्न्यासीति । तस्यैव प्रकृ- तत्वादिति भावः । जीवनमात्रचेष्टाशेषः जीवनमेव जीवनमात्र तत्सम्बन्धिनी चेष्टा शरीरचेष्टा जीवन- मात्रचेष्टा सैव शेषो यस्य स तथोक्तः । प्राणधारणमात्रफलक भिक्षाटनव्यापारमात्रवानित्यर्थः । चरते- गत्यर्थत्वादाह – पर्यटतीति । परितस्सर्वेषु ग्रामादिषु अटति सञ्चरति - ग्रामैकरात्र वासित्वात्सन्यासिन इत्यर्थः । ननु सर्वान् कामान् परित्यजेत्यनेनैव निस्पृहत्वं सिद्धमिति निस्पृह इति पुनरुक्तमित्याह– शरीरेति । येन केनाप्युपायेन शरीरजीवनमवश्यं कर्तव्यमिति नास्ति यतेः कामः । तथासति कृष्यादिस्तेयादिप्रसङ्गात् । किंतु माधुकरान्नेन सरिदम्बुपानेन च क्षुत्तृडपनयनमात्रं कर्तव्यमित्येव यति- मन्येत । एतेन न यतेर्मरणभीतिः कार्येत्युपदिष्टम् । निर्ममः ममतारहितः । ननु सन्यस्तसर्वस्य क ममता स्वीयस्यैवाभावादत आह— शरीरेति । शरीरजीवनमात्रार्थमाक्षेपतः प्राप्ते भिक्षाकपालशाय्यादि- रूपेपि परिग्रहे परिगृह्यत इति परिग्रहः तस्मिन्नभिनिवेशोऽभिमानः, आत्मसम्भावना, स्वश्लाघा निर्माणं मोक्षः, ब्रह्मभूतो भवति ‘ब्रह्मविद्ब्रह्मैव भव तीतिश्रुतेर्वृह्मभावं प्राप्नोति । ननु श्लो || ‘स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ! स्थितधीः किं प्रभाषेत किमासीत व्रजेत कि’ मित्यर्जुनप्रश्नस्यैतावता किमुत्तरमायातमितिचेत्, उच्यते - सर्वकामपरित्यागः, आत्मरतिः,१०४ श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु एषा ब्राह्मी स्थितिः पार्थ ! नैनां प्राप्य विमुह्यति । स्थित्वाऽस्यामन्तकालेपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥ सैपा ज्ञाननिष्ठा स्तूयते - एषेति । एषा यथोक्ता ब्राह्मी ब्रह्मणि भवेयं स्थितिः सर्व सन्न्यस्य ब्रह्मस्वरूपेणैवावस्थानमित्येतत् । नैनां स्थिति प्राप्य लब्ध्वा विमुह्यति न मोहं प्राप्नोति, स्थित्वास्यां स्थितौ ब्राह्म्यां यथोक्तायां अन्तकालेपि अन्त्येपि वयसि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षं ऋच्छति गच्छति । किमु वक्तव्यं ब्रह्मचर्यादेव सन्न्यस्य यावज्जीवं यो ब्रह्मण्येवावतिष्ठते स ब्रह्मनिर्वाणमृच्छतीति ॥ ७२ ॥ दुःखेष्वनुद्वेगः, सुखेषु स्पृहाभावः, रागभयक्रोधाभावः, सर्वत्र स्नेहाभावः, शुभप्राप्तावानन्दाभावः, अशुभप्राप्तौ द्वेषाभाव:, इन्द्रियजयः, प्रत्यब्रह्मपरता, समाहितचित्तत्वं, व्यवहारराहित्यं, निस्पृहत्वं, निर्ममत्वं, निरह - कारत्वमित्येते पञ्चदश स्थितप्रज्ञस्य लक्षणानि स्थितप्रज्ञत्वस्य साधनानि चेमानि यस्मिन्नेतानि दृश्यन्ते स स्थितप्रज्ञ इति परैरुच्यते । स्वयं चात्मानं स्थितप्रज्ञं स विद्यात् । भिक्षा यान्नामृते नास्य कोपि वाञ्यापारः । सति तु सौम्ये शिष्ये तस्मै तत्त्वमुपदिश्यादिति त्वत्रानुक्तमपि ग्राह्यमन्यतरशास्त्रात् । अन्यथा सम्प्र- दायविच्छेदप्रसङ्गात् । मानसिकव्यापारस्तु इन्द्रियाणां विषयेभ्यः प्रत्यावर्त्य ववशे स्थापनम् । आत्म- स्वरूपानुसन्धानंच स्वस्वरूपेणावस्थानं, कायव्यापारस्तु भिक्षार्थी पर्यटनमेव । तच्च चरतीत्यनेन प्रतिपादितमिति । किंच प्रश्नश्लोके व्रजेत किमित्यस्य किं प्राप्नुयादित्यप्यर्थ आयाति, तस्य च समाधानमुक्तं स शान्तिमधि- गच्छतीति । एतेन स्थितप्रज्ञस्य मोक्ष एव फलमिति सिद्धम् । युक्तञ्चेदं विद्ययैवाविद्याया नाशा- दाविद्यक सर्व संसारो परमात्मको मोक्षः स्थितप्रज्ञस्येति । ततश्च न कर्मिणां मोक्ष इति फलितम् । अत एव - ’ नास्त्यकृतः कृते’ नेतिश्रुतिरुपपद्यते । ‘तमेवं विदित्वाऽतिमृत्युमेति, नान्यः पन्था विद्यतेऽयनाये ‘ति च । कामत्यागेन्द्रियजयनिव्र्व्यवहारत्वादीनां गृहस्थेऽसम्भवात् तादृशसन्न्यास्येव स्थितप्रज्ञ इति संक्षेपः ॥ ७१ ॥ एषेति, ब्राह्मीति । तत्र भव इति भवार्थेऽणित्याह— ब्रह्मणि भवेति । टिलोप आर्षः । नच ब्राह्म इति निपातनात्सिद्ध्यतीति वाच्यं तत्र चतुर्मुखवा चित्रह्मशब्दग्रहणात् । नच तत्त्वविध्यो- रुभयोर्ग्रहणमिति वाच्यं, अनेकार्थत्वस्यान्याय्यत्वात् । नच तत्त्वस्यैव ग्रहणमिति वाच्यं ब्राह्म हविरि- त्यसिद्धेः ब्रह्मदेवताकं हि ब्राह्ममित्युच्यते । ब्राह्मं हि हविस्स्वयम्भुवमुद्दिश्याग्नौ निक्षिप्यते । यद्वा चतु- मुखवाच्येवात्रापि ब्रह्मशब्दः, लक्षणया तु शुद्धब्रह्माभिधीयत इति ब्राह्मइति निपातनाट्टिलोपः । ब्रह्म- स्वरूपेणावस्थानंनाम ब्रह्माहमिति निश्वयेनावस्थानमित्यर्थः । ब्रह्मनिर्वृतिं ब्रह्मानन्दमित्यर्थः । अन्तक/ले- पीत्यपिशब्दसूचितमर्थमाह—किमुवक्तव्यमित्यादिना, ब्रह्मण्येवेति । ज्ञाननिष्ठायामित्यर्थः । ब्रह्म- व्यवस्थानं ब्रह्मात्मस्वरूपानुसन्धानमिति वा । एतेन ब्रह्मचर्यादारभ्य देहपातादर्वाग्यदाकदा वा ब्राह्मणेन सन्न्यसितव्यं, सन्न्यस्य च सर्वकामप्रहाणादिपूर्वकं स्थितप्रज्ञा सम्पादनीयेति हितोपदेशस्मूचितः । नचानधिकारिणोऽर्जुनस्य कुतस्सन्न्याशोपदेश इति वाच्यं तेन स्थितप्रज्ञलक्षणस्य पृष्टांत, अर्जुनेन स्वस्य ज्ञाननिष्ठायामधिकाराभावस्याविदितत्वाच्च प्रश्नस्योपपत्तिः । नच ‘कर्मण्येवाधिकारस्थ’ इति भगव- • १४ द्वितीयोऽध्यायः । इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगोनाम द्वितीयोऽध्यायः । इति श्रीमत्परमहंसपरिव्राजकाचार्य गोविन्दभगवत्पूज्य- पादशिष्य श्रीमच्छङ्करभभवत्पादकृतौ श्रीभगवद्गीताभाष्ये द्वितीयोऽध्यायः । १०५ तोक्तं खल्विति वाच्यं उक्तत्वेपि आपातत एव स्वस्य कर्माधिकारं जानाति, नतु सहेतुकं, निस्संशयं – कथमन्यथा ज्यायसीचेत्कर्मण इत्यनुपदमर्जुनः प्रष्टा इति ॥७२॥ साङ्ख्ययोगः साङ्ख्येन योगस्सम्बन्धो यस्य स साङ्ख्ययोगः साङ्ख्ययोगो ज्ञानयोगस्सोऽस्मि - नस्तीत्यरी आद्यजन्तो वा । प्रतिपाद्यप्रतिपादकयोरभेदसम्बन्धेन साङ्ख्ययोगप्रतिपादकस्याध्यायस्य साङ्ख्ययोगशब्दवाच्यत्वमुपाचारादिति वा । यद्यप्यत्र कर्मयोगोपि क्वचित्प्रतिपादितस्तथापि प्रायश- स्साङ्ख्यस्य प्रतिपादनात्तद्यपदेशः । परमहंस परिव्राजकेति । कुटीचक, बहूदक, हंस, परमहंसात्मकाश्चत्वारो यतिनः । तल पूर्व- पूर्वापेक्षया उत्तरोत्तर उत्कृष्टः ज्ञानवैराग्यादिगुणैः । परित्यज्य व्रजतीति परिव्राजकस्सन्न्यासी, परमहंस- श्वासौ परिव्राजकश्च परमहंस परिव्राजक:- आचारमाचारयतीत्याचार्यः शास्त्रोक्तं निवृत्तिधर्म स्वयमाचर- न्नन्येभ्यः पद्मपादादिभ्यश्शिष्येभ्य उपदिशतीत्याचार्य:- पूज्यौ पादौ यस्य स पूज्जपादो गुरुः भगवान् षड्गुणैश्वर्यसम्पन्नश्चासौ पूज्यपादश्च भगवत्पूज्यपादः - गोविन्द इति भगवत्पूज्यपादः गोविन्दभगवत्पूज्य- पादः, तस्य शिष्य :- श्रीमान् ज्ञानवैराग्यादिसम्पच्छाली, भगवन्तौ पादौ यस्य स भगवत्पादः - आत्मगुणस्य भगस्य पादे आरोपः । पद्यते गम्यते सेव्यत इति पादः भगवतामपि पद्मपादादीनां पादः भगवत्पाद इति वा, भगवतश्शङ्करस्य पादश: भगवत्पाद इति वा, शिवावतारत्वादस्य भगवन्तं परमात्मानं पद्यते जानाति पादयति बोधयतीति वा भगवत्पादः, शङ्कर इति भगवत्पादश्शङ्करभगवत्पादः । विशेष्यमिदं प्राचीनानि तु विशेषणानि प्रथमान्तानि अनेन साकं तेषामभेदेन सम्बन्धः विशेष- णानामपि परस्परम भेदसम्बन्धात्समासः । विशेषणं विशेष्येणेतिसूत्रे बहुलग्रहणात्सिध्यति केषुचिद्विशेष- णेषु विशेष्यत्वारोपादिति वा । क्रियत इति कृति :- भगवत्पादस्य कृतिः भगवत्पादकृतिः- तस्यां तेन कृते इत्यर्थः । श्रीयुक्तो भगवान् श्रीभगवान् भगान्तःपातिन्या अपि श्रियः पृथग्ग्रहणं प्राशस्त्यार्थी, प्राधा- न्यार्थ वा, इन्दिरावानिति वा, तस्य गीताश्रीभगवद्गीता: कर्तरि षष्ठीसमासः । तत्कर्तृकगीता इत्यर्थः । गीयन्त इति गीता : श्लोका:- तासां भाष्ये ग्रन्थे द्वितीयोऽध्यायः इति समाप्तः । 1 इति बेल कोण्डोपनाम रामकविकृतौ श्रीभगवद्गीताभाष्यार्कप्रकाशे द्वितीयोऽध्यायः । कीलकसंवत्सर कार्तिक बहुल सप्तम्यामस्य समाप्तिः ।