श्रीरामकविताग्रन्थमाला- वेदान्तमञ्जरी २ कुसुमम् । श्रीहयग्रीवाय नमः | श्रीभगवद्गीता । प्रथमाध्यायः । धृतराष्ट्र उवाच - गी ॥ धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १॥ व्या ॥ अन्धो धृतराष्ट्रः स्वस्य स्वभारत युद्धवृत्तान्तकथनार्थं व्यासेन नियुक्तेन तद्दत्तशक्तिना च सञ्जयेनसाकं प्रश्नोत्तरिकया व्यवहृतवानिति कृत्वा आह भगवान्व्यासः - धृतराष्ट्र उवाचेति । धृतं राष्ट्रं जगद्रूपं येन स धृतराष्ट्र ईश्वर इति भगवत्स्मरणात्मकमङ्गलं व्यञ्जनावृत्त्या भगवता बादरायणेन ग्रन्थादौ प्रथितम् । यद्वा भारतग्रन्थान्तर्गतत्वात्तदादौ यन्मङ्गलं कृतं तदेव गीताशास्त्रस्यापि निर्विघ्नपरि- समाप्तयेऽलमिति न पृथङ्मङ्गलं कृतम् । वस्तुतस्तु गीताशास्त्रस्याशोच्यानित्यादित्वात्तदादौ भगवानुवा- चेति मङ्गलं ग्रथितमेवेति बोध्यम् । उवाचेति — पप्रच्छेत्यर्थः; सञ्जयमिति शेषः । तदेवाह — धर्मक्षेत्र इति । हेसञ्जय धर्मक्षेत्रे कुरुक्षेत्रे युयुत्सवस्समवेता मामकाः पाण्डवाश्चैव किमकुर्वतेत्यन्वयः । धर्मो यज्ञयुद्धादिश्रुत्यादि विहितस्स्वर्गादिहेतुस्तस्य क्षेत्रं विहितस्थलं धर्मक्षेत्रं, पुण्य- भूमित्वादत्र कृतस्स्वल्पोऽपि धर्मो बहुफलदो भवतीति द्योतनार्थमिदं विशेषणम् । कुरुक्षेत्रे कुरुराज- पाल्यभूमौ योद्धुमिच्छवो युयुत्सव:- युध्यतेस्सन्नन्तादुः- सन्त इति शेषः । समवेतास्सङ्गता ममेमे मामकाः, ‘तवकममकावेकवचने’ इति ममकादेशः । मत्पुत्राः दुर्योधनादयः पाण्डोरपत्यानि पाण्डवाः ‘तस्यापत्य’ मित्यण्- धर्मराजादयः चकारादन्ये सहाया राजानः- एवकाराच्चतुरङ्गसैन्यानि कि - मकुर्वत किमनुष्ठितवन्तः । किं युद्धं चक्रुः ? यद्वा सन्धिमिति प्रश्नार्थः । कर्मफलस्य विजयादिरूप - स्यात्मगामित्वादात्मनेपदनिर्देशः ॥१॥ सञ्जय उवाच- दृष्ट्ा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥२॥ सञ्जय उवाच - धृतराष्ट्रं प्रतीति शेषः । तदेवाह दृष्टुत्यादिना — दृष्ट्वेति । राजा दुर्यो- धनस्तु तदा व्यूढं व्यूहाकारेण स्थितं पाण्डवानीकं पाण्डवसेनां दृष्ट्रा आचार्य द्रोणमुपसङ्गम्य उपसृत्य w श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु वचनं वक्ष्यमाणप्रकारं वाक्यं जात्येकवचनं वचनानीत्यर्थः । अब्रवीदुवाच । पाकं पचतीतिवन्निर्देशः सर्वकविसम्मतत्वान्न पुनरुक्तिदोषावहः ||२|| पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥ पश्येति । हे आचार्य ! धीमता बुद्धिशालिना तव शिष्येण द्रुपदपुत्रेण धृष्टद्युम्नेन सेना- पतिना व्यूढां व्यूहाकारेण स्थापितां महतीमधिकां प्रबलां वा पाण्डुपुत्राणां सम्बन्धिनीमेतां पुरोवर्तिनीं चमूं सेनां पश्य ॥३॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः || ४ || अत्रेति । - अत्र पाण्डवसेनायां युधि युद्धे विषये भीमार्जुनसमाः महेष्वासा महाशरासनाः शूरास्सन्तीति शेषः । तेषां नामान्याह – युयुधान इत्यादिना । युयुधानस्सात्यकिः महारथ इति ‘आत्मानं सारथिं चाश्वान् रक्षन् युध्येत यो नरः । स महारथसंज्ञस्या ‘दित्युक्तलक्षणः ॥ ४ ॥ धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ||५|| धृष्टकेतुरिति । अत्र वीर्यवानिति नरपुङ्गव इति च विशेषणे, अवशिष्टानि विशेष्या- णीति विवेकः ॥५॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥ युधामन्युरिति । युधामन्युरुत्तमौजाश्चेति विशेष्ये । तद्विशेषणे विक्रान्तो वीर्यवानिति । सौभद्रोऽभिमन्युः तस्येदमित्यण- द्रौपद्या अपत्यानि द्रौपदेयाः स्त्रीभ्यो ढगिति ढक् - एते सर्वे महारथा एव ॥ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ! नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥ ७ ॥ अस्माकमिति । सेनायामिति शेषः । ये विशिष्टा उत्कृष्टा महारथत्वेन गणनीया इत्यर्थः । मम सैन्यस्य नायकाः तान् संज्ञार्थं ते तुभ्यं ब्रवीमि द्विजोत्तम तान् निबोध जानीहि ॥ ७॥ भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः । अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ||८|| भवानिति । द्रोणाचार्य इत्यर्थः । समिति संग्रामं जयतीति समितिञ्जय इति कृपविशेषणम् । सौमदत्तिर्भूरिश्रवाः ॥ ८ ॥ प्रथमाध्यायः । अन्ये च बहवशूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणास्सर्वे युद्धविशारदाः ||९|| ७ अन्य इति । मदर्थे मत्कृते त्यक्तजीविता विसृष्टप्राणाः प्राणानपि त्यक्तुं व्यवसितवन्तः प्राणैरप्यस्मदुपकारकरणे बद्धबुद्धय इत्यर्थः । नतु मरणकातरा इति भावः । अनेन च दैवादपजयो अन्येऽपि शूरा बहव - दुर्योधनस्य सूचितः । नतु तत्र दुर्योधनस्य तात्पर्यमस्तीति कल्पयितुं शक्यम् । स्सन्ति सर्वेपि नानाशस्त्रप्रहरणा नानाविधशस्त्रादिसाधनवन्तः युद्धविशारदाश्च भवन्तीति शेषः ॥ ९ ॥ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥ अपर्याप्तमिति । तत्तस्मात्पूर्वोक्तविधत्वादित्यर्थः । भीष्माभिरक्षितमस्माकं बलमपर्याप्त- मसमग्र परबलविजयाक्षममित्यर्थः । भीष्मस्य वृद्धत्वादिति भावः । इदं च भीष्मसामर्थ्यापरिज्ञानमूलकं वाक्यम् । भीष्मस्य धर्मिष्ठत्वेन पाण्डव पक्षपातित्वादिति वा भावः । इदं दृश्यमानं भीमाभिरक्षितमेतेषां पाण्डवानां बलं तु पर्याप्तं भीमस्य तरुणत्वात्सर्वधार्तराष्ट्रवधदीक्षितत्वादाबाल्यात्ससोदरस्य दुर्योधनस्य भीमेन बहुशो निर्जितत्वाच्च भयहेतुर्भीमो दुर्योधनस्येति भावः ॥ १० ॥ अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तस्सर्व एव हि ॥ ११ ॥ अयनेष्विति । हि तस्मात्सर्व एव सर्वे च भवन्तः सर्वेषु अयनेषु स्थानेषु यथाभागमवस्थिता - स्सन्तः भीष्ममेवाभिरक्षन्तु भीष्मस्य सेनापतित्वात्तस्मिन् रक्षिते सर्वसेना रक्षिता स्यादिति भावः ॥ ११॥ तस्य संजनयन् हर्षे कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैरशङ्खं दध्मौ प्रतापवान् ॥ १२ ॥ तस्येति । प्रतापवान् कुरुवृद्धः कुरुषु वृद्धः पितामहो भीष्मः तस्य दुर्योधनस्य हर्ष सञ्जनयन् सम्यगुत्पादयन् सन् उच्चैस्सिंहनादं विनद्य कृत्वेत्यर्थः । शङ्खं दध्मौ पूरयामास । सर्वोत्कृष्टतमस्वसामर्थ्य- प्रदर्शनार्थमिति भावः ॥१२॥ ततश्शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥ तत इति । शङ्खादयो वाद्यविशेषास्सहसैवाभ्यहन्यन्त वादिताः सेनाचारिपुरुषैरिति भावः । स शब्दः ध्वनिः तुमुलः संकुलः अभवत् ॥ १३ ॥ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधव: पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः || १४ || श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु तत इति । श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ माधवः कृष्णः पाण्डवोऽर्जुनश्च दिव्यौ शङ्खौ प्रदध्मतुरेव ॥१४॥ पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥ पाञ्चजन्यमिति । हृषीकेशः कृष्णः पाञ्चजन्यं शङ्खं दध्मौ, धनञ्जयो देवदत्तं दध्मौ, भीमकर्मा- शत्रुभयङ्करव्यापारो वृकस्योदरमिवोदरं यस्य स वृकोदरो भीमः पौण्ड्रं तन्नामकं महाशङ्खं दध्मौ ॥ १५॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुल सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥ अनन्तेति । राजा जनरञ्जकः कुन्तीपुत्रश्लाध्यमातृवंशो युधिष्ठिरः अनन्तविजयं दध्मौ । नकुलस्सहदेवश्च द्वौ क्रमेण सुघोषं मणिपुष्पकं च दध्मतुः ॥१६॥ काश्यश्च परमेष्वासशिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१७|| काश्य इति । परमेष्वासः महाशरासनः ॥ १७॥ द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुश्शङ्खान् दध्मुः पृथक्पृथक् ॥ १८॥ द्रुपद इति । पृथिवीपते काश्यादयः सर्वशः पृथक्पृथक् शङ्खान् दध्मुः ॥१८॥ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥१९॥ स इति । तुमुलस्स घोषो नभश्च पृथिवीं चानुनादयन् प्रतिध्वनयन् सन् धार्तराष्ट्राणां हृदयानि व्यदारयत् बिभेदैव ॥ १९ ॥ अथ व्यवस्थितान् दृष्ट्ा धार्तराष्ट्रान् कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥२०॥ अथेति । अथ कपिध्वमः हनुमत्केतुः पाण्डवः अर्जुनः व्यवस्थितान् युद्धाय समव- स्थितान् धार्तराष्ट्रान् दृट्टा शस्त्रसम्पाते शस्त्रप्रयोगे प्रवृत्तेसति धनुर्गाण्डीवमुद्यम्य उद्धृत्य ॥२०॥ हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच- सेनयोरुभयोर्मध्ये रथं स्थापय । मेऽच्युत ! ॥ २१ ॥ हृषीकेशमिति । हेमहीपते धृतराष्ट्र ! हृषीकेशम्प्रति तदा इदं वक्ष्यमाणं वाक्यं वचन - माह — हे अच्युत ! मे रथमुभयोस्सेनयोर्मध्ये स्थापय ॥ २१ ॥ २ प्रथमोऽध्यायः । यावदेतानिरीक्षेऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ २२ ॥ यावदिति । यावदहं योद्धुकामान् योद्धुं कामो येषां तान् ‘तुं काममनसोरपी’ति मकार- लोपः- अवस्थितानेतान्निरीक्षे तावत् स्थापयेत्यर्थः । अस्मिन् रणसमुद्यमे युद्धव्यापारे कैरसह मया योद्धव्यम् ॥२२॥ योत्स्यमानानवेक्षेऽहं य एतेन समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥ यस्यमानानिति । युद्धे दुर्बुद्धेः धार्तराष्ट्रस्य दुर्योधनस्य प्रियचिकीर्षवः प्रियं कर्तुमिच्छा- स्सन्तः ये एते अत्र समागताः योत्स्यमानान् युद्धं करिष्यतस्तानहमवेक्षे पश्यामि ॥२३॥ सञ्जय उवाच- एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥ भीष्मद्रोणप्रमुखतस्सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ||२५|| एवमिति, भीष्मेति च । एवं गुडाकेशेनार्जुनेनोक्तो हृषीकेशः हेभारत धृतराष्ट्र! उभयोस्सेनयो- मध्ये भीष्मद्रोणप्रमुखतः भीष्मद्रोणयोरग्रे- ‘असर्वविभक्तिकस्तसिः’ सर्वेषां महीक्षितां राज्ञां च प्रमुखतः रथोत्तमं स्थापयित्वा हेपार्थ एतान् समवेतान् कुरून् कुरुवंशजान् दुर्योधनादीन् पश्येत्युवाच ।। २४-२५॥ तत्रापश्यत् स्थितान् पार्थः पितृनथ पितामहान् । तत्रेति । आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखींस्तथा ॥ २६ ॥ श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि । अथ पार्थः तत्र युद्धभुवि उपयोः सेनयोरपि स्थितान् पितृन् पितामहानाचार्या - न्मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखीन् तथा तद्वत् श्वशुरान् सुहृदश्चापि अपश्यत् ॥ २६ ॥ तान् समीक्ष्य स कौन्तेयस्सर्वान् बन्धूनवस्थितान् ॥२७॥ कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् । तानिति । स कौन्तेयः कुन्तीपुत्रः अवस्थितान् तान्सर्वान्बन्धून् समीक्ष्य दृष्ट्रा परया अधि- कया कृपया आविष्टः विषीदन् विषादं गच्छन्निदं वक्ष्यमाणं वचनमब्रवीत् ॥२७॥ अर्जुन उवाच- दृष्टुमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥२८॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥ दृष्टृति, सीदन्तीति च । हेकृष्ण युयुत्सुं योद्धुमिच्छु समुपस्थितं युयुत्सया समागतमित्यर्थः । इमं स्वजनं दृष्ट्रा मम गात्राणि सीदन्ति अवसादं प्राप्नुवन्ति । मुखं च परिशुष्यति मे शरीरे वेपथुः कम्पः रोमहर्षो रोमाञ्चश्च जायते ॥ २९ ॥ १० श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥ गाण्डीवमिति । मे हस्ताद्गाण्डीवं स्रंसते भ्रश्यति मे त्वक्च परिदह्यत एव, अहमवस्थातुं न शक्नोमि मे मनः भ्रमतीव ॥ ३० ॥ निमित्तानि च पश्यामि विपरीतानि केशव । नच श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||३१|| निमित्तानीति । हेकेशव विपरीतानि निमित्तानि च पश्यामि । आहवे युद्धे स्वजनं हत्वा श्रेयो नैवानुपश्यामि ॥३१॥ न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२॥ नेति । हेकृष्ण विजयं न कांक्षे नेच्छामि, राज्यं च न कांक्षे, सुखानि च न कांक्षे, हेगोविन्द ! नः राज्येन किं, भोगैः किं जीवितेनापि किम् ॥ ३२॥ येषामर्थे कांक्षितं नो राज्यं भोगास्सुखानि च । तमेवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥ येषामिति । नः अस्माभिः येषामर्थे राज्यं कांक्षितं भोगाः कांक्षितास्सुखानि च कांक्षितानि ते इमे प्राणान् धनानि च त्यक्त्वा युद्धेऽवस्थिताः ॥ ३३॥ आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पुत्राश्श्यालास्सम्बन्धिनस्तथा ॥ ३४ ॥ आचार्या इति । आचार्यादिशब्दानां ते इति पूर्वश्लोकस्थतच्छब्देनान्वयः ||३४|| एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन ! अपि त्रैलोक्यराज्यस्य हेतोः किंनु महीकृते ॥ ३५॥ एतानिति । हेमधुसूदन नतोऽपि मां मारयतोऽपि एतानाचार्यादीन् त्रैलोक्यराज्यस्य हेतोरपि हन्तुं नेच्छामि किं पुनर्महीकृते भूम्यर्थम् ॥३५॥ 1 निहत्य धार्तराष्ट्रान्नः का प्रीतिस्स्याञ्जनार्दन ! पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः || ३६ || निहत्येति । हेजनार्दन धार्तराष्ट्रान्निहत्य तद्धननादित्यर्थः । नः का प्रीतिरस्यान्न कापीत्यर्थः । मधुसूदन जनार्दनेति सम्बुद्धिद्वयेन दुष्ट राक्षसजनहननमेव तवापि सम्मतं नत्वाचार्यादिखजनहननमिति सूच्यते । एतानाततायिन:- ‘अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरौ चैव षडेते आततायिन’ इत्युक्तलक्षणान् हत्वा एतद्धननादित्यर्थः । अस्मान् पापमेवाश्रयेत् भजेत् । यद्य’ प्याततायिनमायान्तं हन्या- देवाविचारय’न्निति शास्त्रादाततायिहननं धर्मएव तथापि धर्मेऽप्यधर्मश्रमा देवमुक्तमर्जुनेनेति बोध्यम् ॥ ३.६ ॥ प्रथमोऽध्यायः । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् । स्वजनं हि कथं हत्वा सुखिनस्स्याम माधव ॥ ३७॥ १.१ तस्मादिति । तस्मात्सबान्धवान् धार्तराष्ट्रान् हन्तुं वयं नार्हाः हेमाधव स्वजनं हत्वा कथं वा सुखिनस्याम भवेम ॥ ३७॥ यद्यपीति । न पश्यन्ति ॥ ३८ ॥ यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥ यद्यपि विचार्यमाणे लोभोपहतचेतस एते कुलक्षयकृतं दोष, मित्रद्रोहे पातकं च कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||३९|| कथमिति । तथापीति शेषः । हेजनार्दन कुलक्षयकृतं दोषं प्रपश्यद्भिः अस्माभिरस्मात्पापा- निवर्तितुं कथं न ज्ञेयम् ॥३९॥ कुलक्षये प्रणश्यन्ति कुलधर्मास्सनातनाः । धर्मे नष्टे कुलं कृत्स्त्रमधर्मोऽभिभवत्युत ॥४०॥ कुलक्षय इति । कुलक्षये सति सनातनाः कुलधर्माः प्रणश्यन्ति धर्मे नष्टेसति कृत्स्नं कुल- मधर्मोऽभिभवत्युत तिरस्करोत्येव ॥४०॥ अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥ अधर्मेति । हेकृष्ण अधर्माभिभवाद्धेतोः कुलस्त्रियः प्रदुष्यन्ति प्रकर्षेण दुष्टा भवन्ति । हेवार्ष्णेय पृष्णिवंशप्रसूतस्त्रीषु दुष्टासु सतीषु वर्णसङ्करो जायते ॥४१॥ सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥४२॥ सङ्कर इति । सङ्करः कुलघ्नानां वंशनाशकानां कुलस्य च नरकायैव भवति । हि यतः एषां पितरः लुप्तपिण्डोदकक्रियास्सन्तः पतन्ति ॥ ४२ ॥ दोषैरेतैः कुलमानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥ दोषैरिति । कुलघ्नानां वर्णसङ्करकार कैरेतैर्दोषैः शाश्वता जातिधर्माः कुलधर्माश्च उत्साद्यन्ते नाश्यन्ते ||४३|| उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ! नरके नियतं वासो भवतीत्यनुशुश्रुम ॥४४॥ उत्सन्नेति । हेजनार्दन उत्सन्नकुलधर्माणां मनुष्याणां नरके वासो नियत निश्चयेन भवती- त्यनुशुश्रुम वृद्धेभ्यश्रुतवन्तः ॥ ४४ ॥ १३ श्रीभगवद्गीतासु भाष्यार्कप्रकाशविलसित श्रीशाङ्करभाष्योपेतासु अहो बत ! महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं खजनमुद्यताः ॥ ४५ ॥ अहो इति । अहो बतेति खेदातिशये । वयं महत्पापं कर्तुं व्यवसिता निश्चितवन्तः यद्यस्मा- द्वाज्यसुखलोभेन स्वजनं हन्तुमुद्यता उद्युक्ताः || ४५॥ यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥ यदीति । अशस्त्रमप्रतीकारं प्रतिक्रियाशून्यं मां शस्त्रपाणयो धार्तराष्ट्राः रणे हन्युर्यदि तद्धननं मे क्षेमतरं भवेत् ॥ ४६॥ सञ्जय उवाच-
एवमुक्त्वार्जुनस्सङ्ख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥ एवमिति । अर्जुनस्सङ्ख्ये युद्धे एवमुक्त्वा सशरं चापं विसृज्य शोकसंविग्नमानसश्शोकव्याकुल- चित्तस्सन् रथोपस्थे रथमध्ये उपाविशत् तस्थौ ॥ ४७ ॥ इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगोनाम प्रथमोऽध्यायः । इतिशब्द समाप्तौ । श्रीयुक्तो भगवान् श्रीभगवान् यद्यपि भगान्तःपातिनी श्रीस्तथापि तस्याः पुनरुक्तिरिश्रयः प्राधान्य द्योतनाय । श्रीभगवता गीता उक्ताश्श्रीभगवद्गीता:- श्रीयुक्ता भगवद्गीता इति वा- तासूपनिषत्स्विति सिंहो माणवक इतिवगौणप्रयोग । संसारशिधिलीकरणादिगुणसादृश्याद्गीतानामुप- निषत्त्वमौपचारिकम् । यद्वा- उपनिषच्छन्दो ब्रह्मात्मैक्यविद्यापरः । तद्योगाद्यथोपनिषदामुपनिषत्त्व- व्यवहार एवं गीतानामपीति । अत्र च पक्षे उपनिषच्छब्दो योगरूढ्या वेदान्तपरः, योगेन तु गीतापर इति बोध्यम् । एतावता अत्रोपनिषत्स्वित्यस्य उपनिषद्विद्याप्रतिपादिकास्थिति निष्कृष्टार्थस्सिद्धः । अथवा उपनिषत्स्वित्यस्य लक्षणया उपनिषदपरपर्यायवेदान्तार्थप्रतिपादिका स्वित्यर्थो वाच्यः । उपनिषत्त्व- मेव स्फुटयितुमाह- ब्रह्मविद्यायामिति - ब्रह्मज्ञानप्रदास्वित्यर्थः । योगशास्त्र इति कर्मज्ञानयोगद्वयं यस्मा- दिदं शास्ति तस्मादुच्यते योगशास्त्रमिति । श्रीकृष्णार्जुनयोरसंवाद उक्तिप्रत्युक्तिरूपो यस्मिन् तस्मिन् षष्ठीतत्पुरुषो वा । अर्जुनविषादयोगः अर्जुनविषादसङ्गतिः ‘योगस्सन्नहनोपायध्यानसङ्गतियुक्ति’ ष्विति- कोशात् । अस्मिन्नध्यायेऽर्जुनविषादस्य सङ्गतत्वादस्येदं नाम । यद्यप्यशोच्या नित्यारब्धस्यैव ग्रन्थस्य योगशास्त्रमिति व्यवहारस्तथापि योगशास्त्रोपोद्धातत्वादस्याध्यायस्य योगशास्त्रान्तः पातित्वमिति बोध्यम् । अनेन च विषादयोगाध्यायेन संसारे दृष्टदोषस्य जातविषादस्य योगशास्त्रे प्रवृत्तिस्स्यादिति विषयेषु दोषदृष्टिस्तावत्कार्या मुमुक्षुणेति शास्यते । अतएवास्याप्यध्यायस्य योगशास्त्रत्वम् । इति श्रीबेल्लंकोण्डोपनामकरामकविकृते श्रीभगवद्गीताभाष्यार्क- प्रकाशे प्रथमोऽध्यायः । सञ्जय उवाच - तमिति ।