००

श्री श्री श्री ११०८ श्री जगद्गुरु श्रीशङ्करभगवत्पादाचार्याः । श्रीहयग्रीवाय नमः । श्रीभगवद्गीता । भाष्यार्क प्रकाशविलसित श्रीशाङ्करभाष्योपेता । भाष्यार्क प्रकाशप्रारम्भः । श्लो || श्रीमद्धयग्रीवपदारविन्दमारन्दसानन्दमनो मिलिन्दः । रामः कविर्व्याप्रियते यथार्थ गीतार्थ भाष्यार्थ विमर्शनार्थे

अस्ति खलु भुवि समस्तास्तिक जनैर पौरुषेयतया स्वतः प्रमाणतया चाभ्युपगतः परमेश्वराज्ञारूपः स्मृत्यादिमूलप्रमाणं वेद इति महच्छास्त्रम् । अनेन हि शास्यते- ‘अहरहरसन्ध्यामुपासीत, यावज्जीव- मग्निहोत्रं जुहुयात्, न परदारान् गच्छेत्, न सुरां पिबे’ दित्यादिविधिनिषेधसन्ततिः । अयं च पूर्वोत्तरभागद्वयात्मकः- तत्र कर्मकाण्डप्रतिपादकः पूर्वो भाग:- यस्यैव मीमांसा जैमिनिना कृता ‘अथातो धर्मजिज्ञासे’ त्यादिना पूर्वमीमांसाशास्त्रमिति व्यवह्नियते । साध्यधर्मप्रतिपादकश्चायमभ्यु- दयहेतुश्चित्तशुद्धिजनकतया ज्ञानोत्पत्तिहेतुश्च । एतदुक्तकर्ममार्ग एव ‘कर्मयोगेन योगिना’ मिति गीताशास्त्रे कर्मयोग इति प्रतिपादितः । अथ ज्ञानकाण्डप्रतिपादक उत्तरो भाग:- यस्यैव मीमांसा व्यासेन कृता. ‘अथातो ब्रह्मजिज्ञासेत्या- दिना - उत्तरमीमांसाशास्त्रमिति व्यवह्रियते । सिद्धब्रह्मप्रतिपादकश्चार्यं मोक्षहेतुस्साक्षादिति । एतदुक्तज्ञान- मार्ग एव ‘ज्ञानयोगेन साङ्ख्याना ‘मिति गीताशस्त्रे ज्ञानयोग इति प्रतिपादितः । अस्यैवोत्तरभागस्योपनिषद इति जन्मजरामरणादिदुः खनिशातनामप्रापकत्वाच्च व्यवहारः, तस- द्वेदशाखान्तत्वाच वेदान्ता इति व्यवहारः । आसां चोपनिषदां प्रधानतात्पर्यं ब्रह्मात्मैक्यप्रतिपादन एवेति कृत्वा अद्वितीयं ब्रह्मैवासां विषयः । स च मुखत एवाभिहित:- ‘एकमेवाद्वितीयं ब्रह्मे ‘ति । लक्षणया च प्रत्यपादि- ‘तत्त्वमसि, अयमात्मा ब्रह्म, अहं ब्रह्मास्मि, प्रज्ञानं ब्रह्मे ‘ति । भागत्यागलक्षणया हि महावाक्यानामेतेषामखण्डं ब्रह्मैवार्थः । एतदुपनिषदर्थप्रतिपादनपरत्वादेव भगवद्गीतानामुपनिषत्त्वव्यवहार ;- ‘भगवद्गीतासूपनिष’ त्स्विति । २ श्री भगवद्गीतासु भाष्यार्क प्रकाशविलसित श्री शाङ्करभाष्योपेतासु ( उपोद्घातः ) तत्र प्रथमषट्के ‘न जायते म्रियते वे ‘त्यादिभिस्त्वंपदार्थजीवखरूपं शोधितम् । मध्यमषट्के ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथे ‘त्यादिभिस्तत्पदार्थेश्वरस्वरूपं शोधितम् । चरमषट्के तु ‘क्षेत्रज्ञ चापि मां विद्धि सर्वक्षेत्रेषु भार’ तेत्यादिभिरसिपदार्थो विवृतः । फलं च ‘ब्रह्मविद्ब्रह्मैव भव’तीति ब्रह्मसायुज्यलक्षणं वेदान्तैर्मुखत एवाभिहितम् । गीताभिश्व – ‘मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते । मामेवैष्यसीत्यादिना । ‘शान्तो दान्त उपरतस्तितिक्षुस्समाहित श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्ये’ दिति श्रुत्या शमादि- सम्पन्नोऽधिकारी दर्शितः । गीतास्वपि - ‘तानि सर्वाणि संयम्य तांस्तितिक्षस्व भारते’ त्यादिना । किंच- अत्राधिकारिणा इहामुत्रफलभोगविरागिणा भवितव्यमित्येतदुपद्धातग्रन्थसन्दर्भेण दर्शितं ‘न कांक्षे विजय कृष्ण ! नच राज्यं सुखानि चेत्यादिना । एवमधिकारिणा ’ तद्विज्ञानाय स गुरुमेवाभिगच्छेत्समित्पाणि- श्श्रोत्रियं ब्रह्मनिष्ठ’ मिति श्रुत्या गुरूपसत्तिः कार्येति बोधितम् । अत्रापि उपोद्घातग्रन्थे ’ शिष्यस्तेऽहं शाधि मां त्वां प्रपन्न’ मिति । एवं शास्त्रस्य विषयप्रयोजनाधिकारिणो निरूपिताः । सम्बन्धस्तु विषयग्रन्थयोः प्रतिपाद्यप्रति - पादकभावरूपः । फलाधिकारिणोः प्राप्यप्राप्तृभावरूपः । फलग्रन्थयोः प्राप्यप्रापकभावरूप:- उपेयो- पायभावरूप इत्यर्थः । विषयाधिकारिणोर्ज्ञेयज्ञातृभावरूपः, ग्रन्थाधिकारिणोरध्येयाध्येतृभावरूपः, विषय- प्रयोजनयोजन्यजनकभावरूप :- इति । 1 एवमुपनिषद्भिस्सह गीतानां समानविषयादिमत्त्वादुपनिषदां भाष्यं रचितवता श्रीशङ्करावतारेण श्रीशङ्कराचार्येण गीतानामपि भाष्यं विरचितम् । नच व्यर्थमिदमिति मन्तव्यं, उपनिषदां गम्भीर हृदय - त्वेन दुर्बोधत्वात्तदर्थं निश्चित्य संक्षिप्य भगवता बादरायणेन विष्ण्ववता रेण गीतानामुक्तत्वात्तथैव तद्भाष्यं रचनीयमेवेति । ‘शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिव:’ इति, ‘शङ्करश्शङ्करस्साक्षाद्यासो नारायणो हरि ‘रिति च वचनाद्विष्ण्ववतारव्यासहृदयपरिज्ञानं शिवावतारशङ्करै कविषयमेवेति कृत्वा गीताभिप्राय- रेशङ्करभाष्यादेव ज्ञेयः, नतु रामानुजभाष्यादिभि:- तेषां श्री शङ्करभाष्यनिन्दैकप्रधानोद्देशत्वात् — मूला- ननुगतार्थत्वाद्वेदान्तविरुद्धत्वेनाप्रमाणत्वाच्च तद्भाष्याणाम् । तत्र च शङ्करभाष्यप्रतिपक्षभूतभाष्यमध्ये रामानुजभाष्यमेव प्रधानमिति प्रधानमल्लनिबर्हणन्यायेन रामानुजभाष्ये वेदान्तदेशिककृततात्पर्य चन्द्रिकासहिते श्रुतियुक्त्यादिभिर्विमृष्टे सति शङ्करभाष्यं निखद्य- मप्रतिभटं स्थितं स्यादित्येतदर्थमहमथुना मन्दमतिरपि श्रीहयग्रीवदेवकृपया श्रीशाङ्करभगवद्गीताभाष्य- व्याख्याने प्रयुक्तः । किन्नाम दुष्करमचिन्त्यविचित्रशक्तेर्भगवतः कृपायाः- तृणमपि श्रीरामेण निहित- शक्तिकं ब्रह्मास्त्रमभवत्किल काकासुरे । ‘पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षण’ मिति पञ्चलक्षणं व्याख्यानम् । इदं च मया मूलग्रन्थस्यापि श्रीशङ्कराचार्यैरकृतव्याख्यानस्य क्रियते । तैर्व्या- ख्यातश्लोकानां च पदान्वयः प्रदर्श्यते । 1 श्रीभगवद्गीतासु- भाष्यार्कप्रकाशविलसित श्री शाङ्करभाष्योपेतासु ( उपोद्घातः) अत्र च ‘अशोच्या ‘नित्यारभ्य किञ्चिदून सप्तदशाध्यायात्मकं ‘सर्वधर्मा’ नित्यन्तमेव गीताशास्त्रम् । तदेव व्याकृतमाचार्यैः । अवशिष्टं तूपोद्धातरूपकथामात्रं स्पष्टार्थं चेति न व्याकृतम् ।

રૂ ननु शङ्करमते ग्रन्थारम्भ एवं नोपपद्यते - गुरुशिष्यादिद्वैताभावादित्याह वेदान्तदेशिकस्तत्र कोप- पत्तिरिति चेदुच्यते — परमार्थदशायां द्वैताभावेऽपि व्यवहारदशायां तत्सत्त्वान्न ग्रन्थारम्भानुपपत्तिरिति । अस्ति हि द्वैतिनामपि समाध्यादौ द्वैताभावः, अन्यत्र द्वैतसत्त्वम् । किं बहुना - सर्वेषामपि प्राणिनां सुषुप्तौ द्वैताभावस्स्वनजागरयोस्तु द्वैतसत्त्वं चेति सर्वजनविदितमेव - ‘यत्र सर्वमात्मैवाभूत्तत्र केन किं पश्ये ‘दिति श्रुतेः । सुषुप्तिमुक्तिविषयत्वं ‘स्वाप्ययसम्पत्त्यो’ रिति सूत्रेण व्यासेनैव स्थापितम् । नच द्वैतसत्त्वे व्यव - हारः, व्यवहारसत्त्वे द्वैतमित्यन्योऽन्याश्रय इति वाच्यं, अनादित्वादुभयोर्बीजांकुरवत् । नाप्यज्ञजनाश्रयो व्यवहार इति वाच्यं, लीलया जगज्जन्मादिषु व्यवहरत ईश्वरस्याप्यज्ञत्वापत्तेः । तस्माद्वैताश्रय एव व्यवहारः, व्यवहाराश्रयमेव द्वैतं यथा शब्दाश्रयोऽर्थः अर्थाश्रयश्शब्दश्च । उभयमपीदमद्वैते ब्रह्मणि मायया कल्पितमिति न ब्रह्मणो द्वैतप्रसङ्गः । वस्तुतस्तु प्रतिपक्षशिरस्येवायं दोषो वज्रप्रहारः प्रपतति - तथाहि ईश्वरः प्रलयदशायां सूक्ष्म- चिदचिद्विशिष्टः, प्रपञ्चदशायां तु स्थूलचिदचिद्विशिष्ट इति विशिष्टाद्वैतिनो वदन्ति । ततश्च सर्वदापि चिदचिद्विशिष्ट एवेश्वर इति चिदचितोरीश्वरसायुज्यस्य नित्यसिद्धत्वान्निष्फलत्वेन तावदनारम्भणीयं विशिष्टाद्वैतमते वेदान्तशास्त्रम् | चितो जीवस्याचिद्विशिष्टश्वरसायुज्यं चार्धांशेन स्थावरत्वं जनयतीति पुनरनर्थप्रदञ्च । ईश्वरस्य चिदचितोरपृथक्सिद्धविशेषणत्वेन स्वापृथक्सिद्धान् स्वानन्यांश्चेतनानुद्दिश्येश्वर- स्योपदेशोऽपि न घटत इति कृष्णस्यार्जुनं प्रत्युपदेशानुपपत्तिश्च । अर्जुनश्चित् - शास्त्रमचित् - विशिष्ट स्त्वीश्वर इति स्थिते अर्जुनशास्त्रविशिष्ट ईश्वरोऽर्जुनायोपदिशति शास्त्रमिति प्राप्तमिदमपार्थ खलु वाक्य- मर्जुनादिभिन्नस्यैव तदुपदेश क्रियान्वयौचित्यात् । नच लक्षणया विशेषणांशत्यागः, अपृथक्सिद्धयोर्विशे- षणयोस्त्यागायोगात्- त्यागेसति विशेषणखरूपासिद्धेः । अर्जुन देहरूपाचिद्विशिष्टस्य कृष्णदेहरूपा- चिद्विशिष्टस्य चेश्वरस्यैकत्वेन गुरुशिष्य भेदायोगाश्च कृष्णदेह इवार्जुनदेहेऽपीश्वरसत्त्वानङ्गीकारे ईश्वरस्य सर्वव्याप्तिभङ्गप्रसङ्गात् । नचार्जुनदेहविशिष्टचिते कृष्णदेह विशिष्ट ईश्वर उपदिशतीति वाच्यं, अर्जुनदेह व कृष्णदेहेऽपि चितस्तत्त्वादन्यथा तद्देहावच्छिन्नेश्वरस्य चिद्वैशिष्ट्याभावेन चिदचिद्विशिष्टेश्वरत्वाभावा- दर्जुनदेहत चिद्विशिष्टस्य कृष्णदेहतचिद्विशिष्टस्य चैकत्वात् । स्फुटीभविष्यत्ययमंश उत्तरत्रेतीहोपरम्यते ॥सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ! यावदेतानिरीक्षेऽहं योद्धुकामानवस्थितान् ॥ अग्रे कृत्वा कमपि चरणं जानुनैकेन तिष्ठन् पश्चार्धेन प्रणयरसजुषा चक्षुषाऽवेक्षमाणः । सव्ये तोलं करसरसिजे दक्षिणे ज्ञानमुद्रामाभिभ्राणो रथमधिवसन्पातु नः सूतवेषः ॥ कीलकसंवत्सर आश्वयुजशुद्ध- पञ्चभ्यामस्य प्रारम्भः ।