प्रपन्नपारिजाताय तोत्त्रवेत्रैकपाणये । ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥
अभिवन्द्य गुरूनादौ शिष्यधीपद्मिनीरवीन्। तत्प्रसादात् करिष्येऽहं गीताशास्त्रार्थचन्तनम्॥
वेदान्तदर्शनस्य प्रस्थानत्रयमभियुक्ताः वर्णयन्ति— श्रुतिप्रस्थानम् , स्मृतिप्रस्थानम् , सूत्रप्रस्थानमिति। श्रुतिप्रस्थानं नाम
उपनिषदः। स्मृतिप्रस्थानं च श्रीमद्भगवद्गीता। सूत्रप्रस्थानं तु ब्रह्मसूत्राणि। त्रयाणामप्येतेषां प्रस्थानानां प्रमेयं प्रयोजनं चाभिन्नम्। तेषां
यथावत् तात्पर्यस्फोरणाय श्रीमच्छङ्करभगवत्पादाचार्यैः भाष्याणि विरचितानि विराजन्ते।
तत्र श्रीमद्भगवद्गीता अर्जुनं निमित्तीकृत्य सर्वजनसमुद्धरणाय भगवतोपदिष्टा समस्तवेदार्थसारसंग्रहभूताऽपि विशिष्य
वेदान्तार्थप्रतिपादनप्रधाना इति “सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥” इति
वचनात् , “तदिदं गीताशास्त्रं समस्तवेदार्थसारसंग्रहभूतं दुर्विज्ञेयार्थं तदर्थाविष्करणायानेकैर्विवृतपदपदार्थवाक्यार्थन्यायमपि
अत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्याहं विवेकतोऽर्थनिर्धारणार्थं संक्षेपतो विवरणं करिष्यामि।” (पृ.११) इति
भाष्यकारोक्तेश्चावगम्यते। अत एव वेदमूलकत्वेन प्रामाण्यात् अस्याः स्मृतिप्रस्थानत्वम्।
गीताशास्त्रस्य प्रतिपाद्यो विषयः— प्रत्यगभिन्नं ब्रह्म, तत्प्रतिपत्त्युपायतया प्रवृत्तिनिवृत्तिधर्मौ, प्रयोजनं चात्मतत्त्वज्ञानस्य
निःश्रेयसं संसारबीजभूताविद्यानिवृत्तिलक्षणं सकलवेदान्तप्रसिद्धम्। तदुक्तं भाष्ये— “इमं द्विप्रकारं धर्मं निःश्रेयसप्रयोजनम् ,
परमार्थतत्त्वं च वासुदेवाख्यं परं ब्रह्म अभिधेयभूतं विशेषतोऽभिव्यञ्जयद् विशिष्टप्रयोजनसम्बन्धाभिधेयवद् गीताशास्त्रम्। यतः
तदर्थविज्ञानेन समस्तपुरुषार्थसिद्धिः, अतः तद्विवरणे यत्नः क्रियते मया॥” (पृ. १४) इति।
गीताशास्त्रस्य च भाष्यादतिरिक्तानि औपनिषदाद्वैतसिद्धान्तानुसारीणि बहूनि व्याख्यानानि नाना विद्वद्भिः प्रणीतानि
विलसन्ति— श्रीमधुसूदनसरस्वतीस्वामिविरचिता गूढार्थदीपिका, श्रीधरस्वामिविरचिता सुबोधिनी, नीलकण्ठविरचितो भावदीपः,
शंकरानन्दविरचिता तात्पर्यबोधिनी, वेङ्कटनाथविरचितं ब्रह्मानन्दगिर्याख्यं व्याख्यानम् , धनपतिसूरिविरचिता भाष्योत्कर्षदीपिका
इत्यादीनि ।
गीताशाङ्करभाष्यमपि अनेकैः व्याख्यानैः अलंकृतं विराजते। प्रस्तुतसंस्करणे अनुभूतिस्वरूपाचार्यविरचितं गीताभाष्यस्य
टिप्पणम् , आनन्दगिर्याचार्यकृता भाष्यव्याख्या, श्रीबेल्लंकोण्डरामरायकविविरचितो भाष्यार्कप्रकाशः इत्येताभिः व्याख्याभिः सह
श्रीमद्भगवद्गीताशाङ्करभाष्यं विलसति।
श्रीमच्छङ्करभगवत्पादाचार्येभ्यः प्राक्तनैरपि अनेकैः गीता व्याख्यातेति— ‘अत्र केचिदाहुः’ ‘अन्ये तु वर्णयन्ति’ ‘अयं
श्लोकोऽन्यथा व्याख्यातः कैश्चित्’ इत्यादिभाष्यगततदुल्लेखादवगम्यते। भगवदाशयानुसरणाभिधानं भास्करकृतं भाष्यमपि
शाङ्करभाष्यात् प्रचीनमिति केचिन्मन्वते। तत्तु भास्करेण कृतस्य शाङ्करभाष्यदूषणस्य भामत्यादावनूद्य खण्ड्यमानत्वात् , भास्करः
ख भूमिका
शाङ्करव्याख्याचोरः इति नरेन्द्रपुरीयटिप्पण्यादावुपलम्भाच्चायुक्तम्। श्रीमद्भगवद्गीतायाः यथावत्तात्पर्यस्फोरणं शाङ्करभाष्येणैव
भवतीत्यत्र तु न संशीतिलेशोऽपि। श्रीमच्छङ्करभगवत्पादाचार्यैः - ज्ञानकर्मसमुच्चयान्मोक्ष इति वादः न भगवतः संमतः, किन्तु
सर्वकर्मसंन्यासपूर्वकात्मज्ञानादेव मोक्ष इत्येव गीतातात्पर्यविषयः, औपनिषदाद्वैतसिद्धान्त एव च गीताशास्त्रस्य सिद्धान्त इति न्यायैः
गीतातात्पर्यविचारमुखेन सम्यक् प्रतिष्ठापितम्। न केवलं गीतायाः, अपि तु श्रुतिस्मृतिपुराणेतिहासानामपि अयमेव तात्पर्यविषयः।
भाष्यकारैः आदौ “नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम्। अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी॥” इति
पौराणिकः श्लोकः पठितः पुराणानां सर्वेषां गीताशास्त्रेण समानार्थकत्वप्रकटनाय। तदुक्तमनुभूतिस्वरूपाचार्यैः— “गीताशास्त्रं
व्याचिख्यासुर्भगवान् भाष्यकारः विघ्नोपशमनादिप्रयोजनसिद्ध्यर्थं ‘स्मृते सकलकल्याणभाजनं यत्र जायते’ इत्यादिस्मृतिविहित-
नारायणानुस्मरणं मङ्गलं चिकीर्षुः पुराणान्तर्गतमेव श्लोकं पठति स्म, पुराणानामपि गीतार्थपरत्वप्रकटनाय, पुराणव्याख्यातृ-
सम्प्रदायप्रकटनाय च— नारायणः परोऽव्यक्ता[द्] इत्यादि” इति। श्लोकोऽयं व्यासवचनत्वेन बृहदारण्यकभाष्यवार्तिके सुरेश्वराचार्यैः
उद्धृतः— “कृष्णद्वैपायनो व्यासो वेदात्मा ध्वान्तहानिकृत्। प्राहेममेव बहुशः प्राणिनां हितकाम्यया॥ नारायणः परो
ऽव्यक्तादण्डमव्यक्तसम्भवम्। अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी॥ तस्मै नमोऽस्तु देवाय निर्गुणाय गुणात्मने।
नारायणाय विश्वाय देवानां परमात्मने॥ एतमेव समुद्दिश्य मन्त्रो नारायणस्तथा। वेदविद्भिर्महाप्राज्ञैः पुरुषैर्विनियुज्यते॥”(बृ.वा. ३-७-
३९,४०,४१,४२) इति। तेन व्यासप्रणीतस्य महाभारतस्य पुराणानां चास्मिन्नर्थे गतिसामान्यं सूचितम्।
गीताशास्त्रस्य प्रतिपाद्यं प्रवृत्तिधर्मं निवृत्तिधर्मं चाधिकृत्य किञ्चिद् निरूपयामः। प्रवृत्तिधर्मः ‘चोदनालक्षणोऽर्थो धर्मः’ इति
जैमिनिना सूत्रेण लक्षितो वेदविहितं कर्म। तच्च काम्यं नित्यं नैमित्तिकं च प्रवृत्तिधर्म एव। तच्च कर्तव्यतया यद्यपि सामान्यतो निर्दिष्टं
गीताशास्त्रे, तथापि तत्स्वरूपं तु तत्र न विहितम् , किन्तु कर्मशास्त्रादेवावगन्तव्यम् । यथा ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
यज्ञेन दानेन तपसा’ इत्यत्र शास्त्रान्तरविहितमेव यज्ञादि फलान्तरे विनियुज्यते, न तु नूतनं यज्ञादि उत्पाद्यते, तथा
शास्त्रान्तरविहितमेव कर्म, उपासनं वा गीताशास्त्रेऽपि परामृश्यते। परन्तु तस्यैव कर्मणः सङ्गं फलाभिसन्धिं च विनाऽनुष्ठानं
कर्मयोगापरनामधेयं गीताशास्त्रे विधेयं चित्तशुद्धि-ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुभूतं परम्परया निःश्रेयसहेतुः
प्रवृत्तिधर्मपदेन विवक्ष्यते। अत एव भाष्यम्— ‘अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णान् आश्रमांश्चोद्दिश्य विहितः, स च
देवादिस्थानप्राप्तिहेतुरपि सन् ईश्वरार्पणबुद्ध्याऽनुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः। शुद्धसत्त्वस्य च
ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहेतुत्वमपि प्रतिपद्यते।’(पृ.१३) इति। अत एव ‘तस्माद् युध्यस्व भारत’
इत्यादौ युद्धस्य क्षत्रियं प्रति स्मृत्या विहितत्वात् गीताशास्त्रेणाविधेयत्वात् यथाश्रुतमर्थं विहाय युद्धादुपरमे कारणं नास्तीत्येवं व्याख्यातं
भाष्यकारैः। तथोपासनमपि उपनिषद्विहितमेव गीताशास्त्रे परामृश्यते। यथा अष्टमाध्याये प्रश्नोपनिषद्विहितमोङ्कारोपासनमेव
परामृष्टम्। विभूति-विश्वरूपाद्यध्यायोक्तं तूपासनमिहैव विहितमित्यपि वक्तुं शक्यम्। परन्तु तदपि चित्तशुद्धि-चित्तैकाग्र्यद्वारा
तत्त्वप्रतिपत्तिहेतुरिति तदुपायत्वेनैवात्र संगृह्यते।
भूमिका ग
एवं निवृत्तिधर्मः संन्यासोऽपि उपनिषद्विहित एव गीताशास्त्रे परामृश्यते। तत्रापि केवलः संन्यासो, ज्ञानसहितश्चेति
द्वैविध्यम्। ज्ञानसहितः संन्यासः सांख्ययोगशब्दितो ज्ञाननिष्ठोपयोगीति तत्त्वप्रतिपत्तिहेतुत्वेनैवात्र संगृह्यते। इत्थं च प्रवृत्तिनिवृत्ति-
धर्मौ तत्त्वप्रतिपत्त्युपायतयाऽवान्तरतात्पर्यविषयौ, औपनिषदात्मतत्त्वज्ञानमेकमेव गीताशास्त्रस्य प्रधानप्रतिपाद्यमिति भाष्यकाराणा-
माशयः। अत एव भाष्यम्— ‘शोकमोहादिसंसारकारणनिवृत्त्यर्थं गीताशास्त्रं न प्रवर्तकमित्येतस्यार्थस्य साक्षिभूते ऋचावानिनाय
भगवान्’ ( पृ.७१) इति।
भक्तियोगोऽपि तत्त्वप्रतिपत्त्युपायतया संगृहीतः। स च— ‘मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान्
समतीत्यैतान् ब्रह्मभूयाय कल्पते॥’ (१४.२६) इत्युच्यमानो भगवति निष्कामभक्तिकरणमेव। इयमेव च ईश्वरशरणागतिः
कर्मयोगनिष्ठायाः परमरहस्यमित्युक्तं भाष्यकारैः। अष्टादशाध्यायेऽपि सर्वशास्त्रार्थोपसंहाररूपे—“स्वकर्मणा भगवतोऽभ्यर्चनभक्ति-
योगस्य सिद्धिप्राप्तिः फलं ज्ञाननिष्ठायोग्यता, यन्निमित्ता ज्ञाननिष्ठा मोक्षफलावसाना, स भगवद्भक्तियोगोऽधुना स्तूयते
शास्त्रार्थोपसंहारप्रकरणे शास्त्रार्थनिश्चयदार्ड्याय” इत्यवतार्य, ‘सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः। मत्प्रसादादवाप्नोति शाश्वतं
पदमव्ययम्॥५६॥ इत्यारभ्य, ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥६१॥ तमेव शरणं
गच्छ सर्वभावेन भारत! । तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥६२॥’ इति पर्यन्तं भक्तियोगप्रपञ्चनोत्तरम् ,
भाष्यकाराः— “भूयोऽपि मयोच्यमानं सर्वगुह्यतमं अत्यन्तरहस्यम् मे परमं प्रकृष्टं वचो वाक्यं शृणु। न भयात् , नाप्यर्थकारणाद्
वक्ष्यामि। किं तर्हि? इष्टः प्रियोऽसि मे इति कृत्वा तव हितं परमं ज्ञानप्राप्तिसाधनं वक्ष्यामि। तद्धि सर्वहितानां हिततमम्। किं
तदित्याह—मन्मना इति। मन्मना भव, मच्चित्तो भव, मद्भक्तो भव, मद्याजी मद्यजनशीलो भव, मां नमस्कुरु नमस्कारमपि ममैव
कुरु। तत्रैवं वर्तमानो वासुदेवे एव समर्पितसाध्यसाधनप्रयोजनो मामेव एष्यसि। सत्यं ते प्रतिजाने, सत्यां प्रतिज्ञां करोम्येतस्मिन्
वस्तुनीत्यर्थः। यतः प्रियोऽसि मे। एवं भगवतः सत्यप्रतिज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यम्भावि मोक्षफलमवधार्य भगवच्छरणैक-
परायणो भवेदिति वाक् यार्थः॥” इति ‘मन्मनाः’ इति श्लोकं व्याचक्षाणाः भक्तियोगस्यापेक्षां स्फुटयांबभूवुः। ‘भक्तेः पुनर्ग्रहणाद्
भक्तिमात्रेण केवलेन शास्त्रसम्प्रदाने पात्रं भवतीति गम्यते।’ इति च वदन्तः भक्तियोगे स्वीयं समादरं प्रकटीचक्रुः। एतेन भक्तिरुपेक्षिता
भगवत्पादैरिति केषांचिदाक्षेपो निरवकाशः।
एवं चाष्टादशाध्याये— ‘स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥४५॥ यतः
प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’॥४६॥ इत्यत्र कर्मनिष्ठायाः, ‘सर्वकर्माण्यपि सदा
कुर्वाणो मद्व्यपाश्रयः’इत्यत्र भक्तिनिष्ठायाश्च उपायभूतायाः उपसंहृतत्वात् ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ इत्यत्र उपेयत्वेन
प्रधानभूता सर्वकर्मसंन्यासपूर्वकात्मज्ञाननिष्ठोपसंहृतेति भाष्यकाराणामाशयः। वृत्तिकाराणां ज्ञानकर्मसमुच्चयवादः, औपनिषद-
सिद्धान्तविरोधित्वादेव अभागवत इति भाष्यकारैः खण्डितः। एवं काणादादिमतान्यपि । एवं च यद्यपि प्राचीनं वृत्तिकारव्याख्यानं
तथापि न्यायविरोधात् तत्र तत्र परिष्कारमपेक्षते स्म। स एव च भाष्यकारैः संप्रदायानुसारेण न्यायपुरस्सरं व्याचक्षाणैः कृत इति।
घ भूमिका
सर्वथा औपनिषदसिद्धान्तानुसारि श्रीमच्छङ्करभगवत्पादाचार्याणां भाष्यम्। औपनिषदसिद्धान्त एव च भगवतोऽभिमत इत्यविप्रतिपन्नं
सर्वेषां विदुषाम्। अतः स एव विद्वद्भिराद्रियते।
माध्वकृतदूषणपरीक्षणम्
द्वैत-विशिष्टाद्वैतादिवादिनस्तु पूर्वोक्तश्रुत्यनुसारिव्याख्याने द्वेषवशादेव दोषाभासानुद्भावयन्तो हठादेव कोशव्याकरणादिक-
माश्रित्य तत्तपदानामन्यार्थं कल्पयन्तो दृश्यादृश्यपुराणवचनानि च स्वोक्तार्थे प्रमाणयन्तः स्वाभिप्रेतेऽर्थे गीतां योजयन्ति। तत्र
विशिष्टाद्वैतिकृतव्याख्यानं भाष्यार्कप्रकाशेन पराकृतमेव। द्वैतिव्याख्यानं स्थालीपुलाकन्यायेन विमृशामः।
(२-११)श्लोके आचार्याणां भाष्यमित्थं दूषयन्ति माध्वाः। प्रज्ञावादान् इत्यस्य ‘प्रज्ञावतां बुद्धिमतां वादान् वचनानि’ इति
व्याख्यानमसत्। न हि अर्जुनवाक्येषु कश्चिद् बुद्धिमद्वादो विद्यते। न हि बुद्धिमन्तो नारायणद्विट् तदनुबन्धिनिग्रहम् अधर्मं वदन्ति। न च
धर्माधर्मविषयत्वमात्रेण बुद्धिमद्वादो भवति, बौद्धोपदेशादेरपि बुद्धिमद्वादत्वप्रसङ्गात्। स्वपक्षे तु—प्रज्ञायाः वादाः इति षष्ठीसमासः।
सर्वस्यापि वादस्य प्रज्ञापूर्वकत्वात् अव्यावर्तकत्वापत्त्या स्वेति, अवधारणं च विवक्ष्यते। स्वमनीषामात्रोत्थवचनानीत्यर्थः। तानि त्वं
भाषसे, तानि न भाषणीयानि इति माध्वाः।
तत्रेदमालोचनीयम्— अस्य विशेषणस्य व्यावर्त्यं शास्त्राचार्योपदेशप्राप्तं वचनम्। तथा च तद्भिन्नं वचनं न भाषणीयमिति
तेषां व्याख्यानम्। एवं च सति लोके व्यवहारोऽस्तमियात्। शास्त्रे च पूर्वपक्षोपस्थापनमेव न स्यात्। शोकाकुलतया
किङ्कर्तव्यविमूढेनार्जुनेन शास्त्रीयमेव वचनं वक्तव्यमिति तस्यां दशायां कथं भगवता नियन्तुं शक्यम् ? किञ्च अर्जुनवचनं प्रज्ञामात्रवादो
न भवत्येव। न हि अर्जुनेनोपन्यस्तः कुलक्षयकृतो दोषः शास्त्रमनाश्रित्य ज्ञातुं शक्यः। परन्तु शास्त्रतात्पर्यभ्रमजन्यत्वात् आभासत्वं
वाच्यम्। अत एव सिद्धान्तिना भगवता निरसनीयम्। तच्च स्वमनीषामात्रोत्थवचनं नेति स्पष्टम्। वस्तुतस्तु भाष्यकारैः बुद्धिमद्वादान्
भाषसे इति नार्जुनवचनप्रशंसाभिप्रायेणोक्तम् , येन खण्डनीयम्। अशोच्यान् अनुशोचितवानसि, प्रज्ञावतां वादांश्च भाषसे। तदेतद्
मौड्यं पाण्डित्यं च विरुद्धमात्मनि दर्शयसि उन्मत्त इवेत्यभिप्रायः इति भाष्यात्। अतो विरोधस्फोरणार्थं भाष्यकारोक्त एवार्थो ग्रहीतुं
युक्तः।
(२-१२, १३) श्लोकयोः माध्वानामिदं व्याख्यानम्— भीष्मादयः कुतोऽशोच्याः? यतो नित्याः। कथं नित्यत्वम्? अनुमानेन।
तत्र ईश्वरनित्यत्वं दृष्टान्ततयोक्तं जीवनित्यत्वसाधनार्थम्। ‘न त्वेवाहं जातु नासम्’ इत्यादिः अनादित्वं हेतुं समर्पयति। ‘न चैव न
भविष्यामः’ इति अविनाशित्वरूपं साध्यं समर्पयति। भीष्मादयः नित्याः, अनादित्वात् , ईश्वरवत्। अस्मिंश्चानुमाने देहातिरिक्तात्मनः
पक्षत्वसिद्धये उत्तरश्लोकेन स साध्यते। कौमारादिशरीरभेदेऽपि तदीक्षिता एकः प्रत्यभिज्ञायते इति देहातिरिक्तात्मनः सिद्धिः।
प्रकारान्तरेण श्लोकद्वयव्याख्यानम्—जीवनाशात् शोकः, देहनाशाद् वा? नाद्यः, तस्य नाशाभावात् इत्याह—न त्वेवेति
श्लोकः। न द्वितीयः, देहनाशेऽपि देहान्तरप्राप्तेः इत्याह—देहिन इति श्लोकः।
भूमिका ङ
एवं च— भीष्मादीनुद्दिश्य शोकः कुतः? किं जीवनाशात् शोकः? देहनाशाद् वा? तद्दर्शनादिनिमित्तसुखवियोगाद्वा? नाद्यः,
तस्य नाशाभावात् । न द्वितीयः, देहनाशेऽपि देहान्तरप्राप्तेः हानिप्रतिविधानात्। न तृतीयः, अभिमानसहितस्यैव विषयसंबन्धस्य
सुखदुःखहेतुत्वात् अभिमानाभावे सामग्र्यभावेन तदसंभवात् इति माध्वव्याख्यानसारः।
तत्रेदमालोचनीयम्— ‘न त्वेवाहं जातु नासम्’ ‘न चैव न भविष्यामः’ इत्यनयोः निर्देशयोः न कमपि विशेषमुपलभामहे येन
पूर्वं हेतुसमर्पकम् , उत्तरं तु साध्यसमर्पकं निश्चीयेत। यथैव शब्दप्रमाणविधया भवन्मते हेतुः सिध्यति, तथैव साध्यमपि सिध्यत्येवेति
अनुमानोपन्यासस्यानवसरः। अतोऽस्मद्भाष्यानुसारेण शब्दप्रमाणविधयैव प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वरूपनित्यत्व-
बोधनं युक्तम् ।
(२-१३) श्लोके देहातिरिक्तात्मनः साधनमपि अस्वरसम्। कौमारादिपदैः तज्ज्ञानलक्षणात् , अन्यथा तदीक्षितृत्वालाभात्। न
च तदीक्षितृत्वमात्रेण देहव्यतिरेकसिद्धिरात्मनः, लोकायतमतेऽपि तद्भावात्। अतः प्रत्यभिज्ञानपर्यन्तं लम्भनीयम्। न च श्लोकस्थपदैः
स्वरसतः तल्लभ्यम्।
प्रकारान्तरेण श्लोकद्वयव्याख्याने— देहान्तरप्राप्तिः भवतु भीष्मादीनाम् , तथापि अर्जुनस्य शोकः कथं परिहृतो भवति? न हि
जन्मान्तरं प्राप्य भीष्मादयः अर्जुनस्य पितामहादिरूपाः भवेयुः। भीष्मादिषु ‘ममैते पितामहादयः’ इति अभिमानेन हि अर्जुनस्य
शोकः। किञ्च - कुमारादिदेहहानिनिमित्तः शोकः जीर्णादिदेहप्राप्त्या निवर्तते यथा- इति तेषां व्याख्यानं बालानामपि हास्यास्पदम्।
अभिमानसहितस्यैव विषयसंबन्धस्य सुखदुःखहेतुत्वात् अभिमानाभावे सामग्र्यभावेन तदसंभवात् इति तु अस्मन्मते
ऽप्यविरुद्धम्। अभिमानस्याध्यासरूपत्वात्।
मध्वाचार्यैः कृतं शब्दपीडनम्
इदानीं मध्वाचार्यकृतस्य शब्दपीडनस्य कानिचिदुदाहरणानि पश्यामः।
१. ‘यो मामजमनादिं च’ (१०-३) इति श्लोके— अनश्चासौ आदिश्चेति अनादिः, अनस्यादिः अनादिः इति वा व्याख्यातम्।
‘अन’ इत्यस्य चेष्टयिता इत्यर्थः आर्थिकपुनरुक्तिपरिहाराय स्वीकृतः। परन्तु आदिशब्दः एवमपि पुनरुक्त एव।
२. तथा (१०-१८) इति श्लोके— न जायते इति जनः, संसारमर्दयतीति अर्दनः, जनश्चासौ अर्दनश्च जनार्दनः इति
व्याख्यानमप्येवमेवाप्रामाणिकम् ।
३. (२-२४ ) इति श्लोके— सनातन इत्यत्र नादेन शब्देन सह वर्तत इति सनादः, दशब्दस्य तनादेशः इत्यर्थकरणम्।
४. नान्यं गुणेभ्यः कर्तारम्(१४-१९) इति श्लोके गुणेभ्योऽन्यस्य कर्तृत्वाभावे ‘कर्तारमीशम्’ इति श्रुतिविरोधात् कर्तृपदं
परिणामिकर्तृपरतया, ‘नान्यम्’ इत्यत्र ना (=पुरुषः) अन्यम् इति पदं छित्त्वा - यदा गुणेभ्योऽन्यं कर्तारं पश्यति, तदा द्रष्टा पुरुषः,
अन्यथा पशुः- इति च व्याख्यातं माध्वैः। तदयुक्तम्। सोपाधिकत्वनिरुपाधिकत्वाभ्यां कर्तृत्वाकर्तृत्वयोरविरोधात् कर्तृपदार्थसंकोचे
कारणाभावात्।
च भूमिका
क्वचिच्च परोक्तमित्येव खण्डनीयमित्याग्रहमात्रेण प्रवृत्तिरेषां दृश्यते। यथा—(१०-४) इत्यत्र ‘अन्तःकरणस्योपशमः’ इति
भाष्योक्तार्थे ‘शमो मन्निष्ठता बुद्धेः दम इन्द्रियसंयमः’(११-१९-३६) इति भागवतविरोधोद्भावनम्।
एतच्च मया तत्र तत्र टिप्पण्यां संक्षेपतो दर्शितमिति उपरम्यते विस्तरात्।
अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम्
अत्र संगृहीतेषु भाष्यव्याख्यानेषु प्राचीनम् अनुभूतिस्वरूपाचार्यविरचितं गीताभाष्यटिप्पणम्। इदं चाप्रकाशितपूर्वमिदानीमेव
प्रकाशपथमारोहति। इदमत्यन्तसंक्षिप्तमपि भाष्यस्य स्फुटतरार्थावबोधे महदुपकरोति। अधीतभाष्याणां भाष्यव्याख्यानाक्षमाणा-
मेतद्ग्रन्थालोचनेन व्याख्यानक्षमतासंपादनं एतट्टिप्पणकाराणां लक्ष्यम्। एतच्च ग्रन्थकृता स्वयमेवाविष्कृतम्—
“अनुभूतिस्वरूपाख्यो यतिश्चकार टिप्पणम्। व्याख्याऽसामर्थ्यसन्तापिपुंसां चित्तानुरञ्जनम्॥”( पृ.१०००) इति।
प्रकटार्थविवरणेऽपि एतैरित्थमेवोक्तम्—
“ज्ञात्वाऽपि यस्य बहुकालमचिन्तनेन व्याख्यातुमक्षमतया परितापि चेतः।
तस्योपतापहरणाय मयेह भाष्ये प्रारभ्यते विवरणं प्रकटार्थमेतत्॥” इति।
इष्टसिद्धिविवरणे, माण्डूक्यभाष्यटिप्पणादौ चैतेषामेतदभिप्रायकः श्लोको दृश्यते। अनुभूतिस्वरूपाचार्याः मायाऽविद्यादिविषये
ऽसाधारणप्रक्रियानिरूपकाः स्वीयग्रन्थान्तरेषु परमतनिराकरणेऽपि - विशिष्य भास्करोक्तदूषणनिराकरणे - पराक्रमन्ते। विस्तरेण
निरूपितमिदमस्माभिः शारीरकमीमांसाभाष्यभूमिकायाम्। गीताभाष्यटिप्पणे तु संग्रहं रोचयमानास्ते परमतनिराकरणं प्रयत्नेन
वर्जयन्ति। तथा चोक्तं तैरेव— “अत एव भास्कररोदनम् — ‘यत्तु निवृत्तस्य निवृत्त्युपदेशकं शास्त्रम्’ इत्यादि, तद्
उक्ताभिप्रायापरिज्ञानप्रसूतमिति उपेक्ष्यते। यच्च [यश्च] तस्य समुच्चयाभिप्रायः, सोऽनन्तरमेव निरूप्यमाणन्यायबलादेवाप्तो[दपास्तो]
भविष्यति। पराचक्रमिरे प्रत्येकं तदीयग्रन्थानुभाषणदूषणयोः गयाबलाभार्या[?] इत्युपरम्यतेऽस्माभिः मन्दमतिव्युत्पादनाय
ग्रन्थमात्रविवेचनपरैः।”(पृ. ३३) इति।
एते पूर्वपक्षसिद्धान्तपक्षयोः अनुमानप्रयोगेण आशयनिरूपणं तत्र तत्र कुर्वन्ति, तच्च आनन्दगिर्याचार्याः तथैवानुसरन्ति।
यथा वृत्तिकारमतविवरणे— “ब्रह्मज्ञानं सेतिकर्तव्यमेव स्वफलसाधकम् , करणत्वाद् , दर्शादिवदित्यनुमानात् श्रौतस्मार्तकर्मोपकृतमेव
ब्रह्मज्ञानं कैवल्यसाधकम्”(पृ.३३)इति, सिद्धान्त्याशयविवरणे च— “शुद्धब्रह्मज्ञानं स्वफलसिद्धौ न सेति[इति]कर्तव्यतापेक्षम् ,
अबोधनिवृत्तिफलत्वात् , शुक्तिज्ञानवत्। बन्धो वा केवलज्ञानहेयः, अज्ञानात्मकत्वात् , शुक्तिरूप्यवदिति”(पृ.४०) इति
अनुभूतिस्वरूपाचार्याः निरूपयन्ति। आनन्दगिर्याचार्याः अपि तत्र— “विमतं सेतिकर्तव्यताकमेव स्वफलसाधकं, करणत्वाद्, दर्शपौ-
[पू ]र्णमासादिवत्”(पृ.३४) इति, “विशुद्धब्रह्मात्मज्ञानं स्वफलसिद्धौ न सहकारिसापेक्षम् , अज्ञाननिवृत्तिफलत्वाद् , रज्ज्वादितत्त्व-
ज्ञानवत्। अथवा बन्धः सहायानपेक्षेण ज्ञानेन निवर्त्यते , अज्ञानात्मकत्वाद् , रज्जुसर्पादिवदिति भावः”(पृ.३९) इत्येव निरूपयन्ति।
भूमिका छ
तथा “न त्वेवाहं जातु नास”मिति श्लोकार्थविवरणे— “आत्मा न जायते, प्रागभावशून्यत्वात् , नरविषाणवदिति
पूर्वार्धस्यार्थः। आत्मा नित्यः, अजभावत्वात् , यो नित्यो न भवति नासावजभावः, यथा घट इत्युत्तरार्धस्यार्थः”(४५पृ.) इति
अनुभूतिस्वरूपाचार्याः निरूपयन्ति। तत्र— “आत्मा न जायते, प्रागभावशून्यत्वात् , नरविषाणवदिति परिहरति— न त्वेवेति।
किञ्चात्मा नित्यः, भावत्वे सत्यजातत्वात् , व्यतिरेके घटवदित्यनुमानान्तरमाह— न चैवेति।”(४५पृ.) इति आनन्दगिर्याचार्याः।
अत्रानन्दगिर्याचार्यैः द्वितीयानुमाने ‘अजभावत्वात्’ इति पदं ‘भावत्वे सत्यजातत्वात्’ इति विवृतमिति स्पष्टं प्रतीयते।
‘देहभेदानुवृत्त्या बहुवचनम्’ इति भाष्यं व्याचक्षाणाः एते मायाप्रदेशरूपाविद्यायाः जीवोपाधित्वात् तद्भेद एव जीवभेदे
प्रयोजको वक्तव्य इति स्वप्रक्रियामनुसृत्य तत्परतयैव व्याचख्युः— ‘रूपं रूपं प्रतिरूपो बभूव’ इति च श्रुतेः देहोपादानाविद्याभेदे
प्रतिबिम्बिततया तद्भेदानुवर्तनाद् बहुवचनमित्यर्थः॥’ इति । आनन्दगिर्याचार्यास्तु यथाश्रुतं भाष्यं योजयन्ति।
भाष्यकाराः यत्र कमपि विचारमवतारयन्ति, तत्रावश्यमेतेषां व्याख्यानं भवति। यत्र तु न तथा, न तत्र एतेषां व्याख्यानं
भवति। अत एव चतुर्दशाद्यध्यायत्रये एतेषां व्याख्यानं नास्ति।
आनन्दगिरिकृतव्याख्या
आनन्दगिर्याचार्यास्तु भाष्य-वार्तिकादिग्रन्थव्याख्यानप्रणयनेन सुप्रसिद्धाः। एतैः कृतं व्याख्यानं पूर्वमपि बहुशो मुद्रितम्।
भाष्यस्य प्रतिपङ्क्ति तात्पर्यज्ञानार्थमिदमेव व्याख्यानमाद्रियते शिष्टैः। प्राचीनव्याख्यानमनुसृत्यैव एतैरिदं व्याख्यानं प्रणीतमिति
तद्वाक्यादेवावगम्यते—प्राचामाचार्यपादानां पदवीमनुगच्छता। गीताभाष्ये कृता टीका टीकतां पुरुषोत्तमम्॥(पृ.१०१८) इति। अत्र
प्राचीनाचार्यटीकासु अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणमपि अन्यतममिति तद्दर्शनेनैव स्फुटम्। अवतारिकायामेव
भाष्यभावस्फुटीकरणमस्य व्याख्यानस्य वैशिष्ट्यम्। पदानां शास्त्रमर्यादयाऽर्थविवरणं बहुत्र एतैः कृतं बहूपयुज्यते। एतैः गीताशास्त्रस्य
काण्डत्रयरूपेण विभज्य तात्पर्यमित्थं कथितम्—अत्र हि शास्त्रे त्रीणि काण्डानि, अष्टादशसंख्याकानामध्यायानां षट्कत्रितयमुपादाय
त्रैविध्यात्। तत्र पूर्वषट्कात्मकं पूर्वकाण्डं त्वम्पदार्थं विषयीकरोति, मध्यमषट्करूपं मध्यमकाण्डं तत्पदार्थं गोचरयति,
अन्तिमषट्कलक्षणमन्तिमं काण्डं पदार्थयोरैक् यं वाक् यार्थमधिकरोति। तज्ज्ञानसाधनानि च तत्र तत्र प्रसङ्गादुपन्यस्यन्ते, तज्ज्ञानस्य
तदधीनत्वात्। तत्त्वज्ञानमेव केवलं कैवल्यसाधनमिति च सर्वत्राविगीतम्।(पृ.४३) इति। प्रत्यध्यायमन्ते अध्यायतात्पर्यवर्णनमपि
सुन्दरं विदुषां मनो रञ्जयति।
अत्र च भाष्यव्याख्याने क्वचित् व्याख्यान्तरविमर्शः कृत उपलभ्यते। यथा— “यत्तु कैश्चित् ‘आत्मा वा अरे द्रष्टव्यः’
इत्याद्यात्मयाथात्म्यदर्शनविधिवाक् यार्थमनेन श्लोकेन व्याचष्टे स्वयं हरिरित्युक्तम्, तदयुक्तम् , कृतियोग्यतैकार्थसमवेतश्रेयःसाधनताया
वा पराभिमतनियोगस्य वा विध्यर्थस्यात्राप्रतीयमानस्य कल्पनाहेत्वभावात्। न च दर्शने पुरुषतन्त्रत्वरहिते विधेययागादिविलक्षणे
विधिरुपपद्यते। कृत्यान्तर्भूतश्चार्हार्थत्वात् तव्यो न विधिमधिकरोतीत्यभिप्रेत्य व्याचष्टे−” (पृ.४३) इति।
ज भूमिका
“यत्तु कैश्चिदात्मयाथात्म्यं जिज्ञासितं भगवानुपदिशति− न त्वित्यादिना श्लोकचतुष्टयेनेत्यादिष्टम् ; तदसत् , विशेषवचने
हेत्वभावात् , सर्वत्रैवात्मयाथात्म्यप्रतिपादनाविशेषादिति” (४५) इति।
“ननु नेदं व्याख्यानं भाष्यकाराभिप्रेतम् , सर्वद्वैतशून्यत्वविवक्षायां शास्त्रतद्भाष्यविरोधात्। केनापि पुनर्दुर्विदग्धेन
स्वमनीषिकया उत्प्रेक्षितमेतदिति चेत्? मैवम् ; किमिदं द्वैतप्रपञ्चस्य शून्यत्वम्? किं तुच्छत्वं, किं वा सद्विलक्षणत्वम्? नाद्यः,
अनभ्युपगमात्। द्वितीयानभ्युपगमे तु तवैव शास्त्रविरोधो, भाष्यविरोधश्च। सर्वं हि शास्त्रं तद्भाष्यं च द्वैतस्य सत्यत्वानधिकरणत्व-
साधनेन अद्वैतसत्यत्वे पर्यवसितमिति त्रैविद्यवृद्धैस्तत्र तत्र प्रतिष्ठापितम्। तथा च प्रक्षेपाशङ्का सम्प्रदायपरिचयाभावादिति
द्रष्टव्यम्।” (पृ.५९) इति।
“एतेन भूरादिलोकचतुष्टयं प्रविष्टानां पुनरावृत्तावपि जनआदिलोकत्रयं प्राप्तानामपुनरावृत्तिरिति विभागोक्तिरप्रामाणिकत्वा-
दवहेयेत्यवधेयम्।” (पृ.४३३) इति।
क्वचित् तद्व्याख्यानमनुज्ञायते च। यथा—‘अविनाशि तु तद्विद्धि’ इत्यत्र पूर्वार्धेन तत्पदार्थसमर्थनम् , उत्तरार्धेन
निरीश्वरवादस्य परिणामवादस्य वा निराकरणम् , आत्मनि जन्मादिप्रतिभानस्यौपचारिकत्वप्रदर्शनार्थम् ‘अन्तवन्तः’ इत्यादि
वचनमिति केचित्। अस्तु नामायमपि पन्थाः। ( पृ. ७१) इति।
एतच्च निराक्रियमाणं व्याख्यानं कस्येति अन्वेषणीयम्।
बेल्लङ्कोण्डरामरायकविः
बेल्लङ्कोण्डोपाह्वः रामरायकविः आन्ध्रप्रदेशान्तर्गत-गुण्टूरुमण्डले नरसरावुपेटशाखामण्डले पमिडिपाडुनामकाग्रहारे १७९७
शालिवाहनाब्दे युवनामसंवत्सरे मार्गशीर्षकृष्णपक्षामावास्यायां सोमवासरे(27-12-1875) हनुमाम्बिका-मोहनराययोः दम्पत्योः
पुत्ररूपेणाजनिष्ट। स च ऋक्छाखाध्यायी भारद्वाजसगोत्रः आश्वलायनसूत्रः। काव्य-व्याकरण-तर्कशास्त्रादिकमनेन श्रीरामशास्त्रि-
प्रमुखेभ्यो विद्वत्तल्लजेभ्यः अधीतम्। कुलपरम्परया विशिष्टाद्वैतानुयायी वैष्णवोऽपि सः अद्वैतमेव श्रुतिसंमतं ज्ञात्वा बह्वमन्यत।
अद्वैतवेदान्तशास्त्रं तु कस्य गुरोः सकाशादधीतमिति नोल्लिखितम्। श्रीहयग्रीवदेवोपासनया तस्य मेधाशक्तिः अतिशयिताऽऽसीत्।
सिद्धान्तकौमुदीव्याख्या शरद्रात्रिः, श्रीकृष्णलीलातरङ्गिणी, वेदान्तसंग्रहः, सिद्धान्तबिन्दुव्याख्या सिद्धान्तसिन्धुः, शंकराशंकर-
भाष्यविमर्शः, भाष्यार्कप्रकाशः , हयवदनशतकम् इत्यादयः परश्शतं ग्रन्थाः एतद्विरचिता विराजन्ते। स्वीयाध्यापनचातुर्या बहून्
लब्धप्रतिष्ठान् पण्डितान् , कवीश्वरांश्च निर्माय स्वीयेऽष्टात्रिंशे वयसि भूतलं विहाय दिवं जगाम। एतदीयवंशपरम्परायामेतत्पौत्रः
अधीतवेदः आहिताग्निः वाजपेयान्तक्रत्वनुष्ठाता इदानीं वसति।
भगवद्गीतायाः रामानुजभाष्ये वेदान्तदेशिककृततात्पर्यचन्द्रिकासहिते स्थितं शाङ्करभाष्यदूषणमसहमानः रामरायकविः
तदुद्धारपूर्वकं रामानुजभाष्यखण्डनार्थं भगवद्गीताशाङ्करभाष्यस्य भाष्यार्कप्रकाशाख्यं व्याख्यानं विरचितवान्। तदुक्तं तेनैव—
भूमिका झ
“विष्ण्ववतारव्यासहृदयपरिज्ञानं शिवावतारशङ्करैकविषयमेवेति कृत्वा गीताभिप्रायः शाङ्करभाष्यादेव ज्ञेयः; न तु रामानुजभाष्यादिभिः;
तेषां श्रीशङ्करभाष्यनिन्दैकप्रधानोद्देशत्वात्। मूलाननुगतार्थत्वाद् वेदान्तविरुद्धत्वेनाप्रमाणत्वाच्च तद्भाष्याणाम्। तत्र च शङ्करभाष्य-
प्रतिपक्षभूतभाष्यमध्ये रामानुजभाष्यमेव प्रधानमिति प्रधानमल्लनिबर्हणन्यायेन रामानुजभाष्ये वेदान्तदेशिककृततात्पर्यचन्द्रिकासहिते
श्रुतियुक्त्यादिभिर्विमृष्टे सति शङ्करभाष्यं निरवद्यमप्रतिभटं स्थितं स्यादित्येतदर्थमहमधुना मन्दमतिरपि श्रीहयग्रीवदेवकृपया
श्रीशाङ्करभगवद्गीताभाष्यव्याख्याने प्रयुक्तः। किं नाम दुष्करमचिन्त्यविचित्रशक्तेर्भगवतः कृपायाः? तृणमपि श्रीरामेण निहितशक्तिकं
ब्रह्मास्त्रमभवत् किल काकासुरे”। (पृ.२)इति।
रामरायकविकृतं रामानुजभाष्यदूषणमसहमानाः विशिष्टाद्वैतसिद्धान्तबद्धदीक्षाः अभिनवदेशिकाः उत्तमूर् वीरराघवाचार्याः
स्वकीयरसास्वादाख्यटिप्पणसहिततात्पर्यचन्द्रिकोपेतगीताभाष्यभूमिकायां ‘दूषकोक्तिपरीक्षणम्’ इति शीर्षकाङ्कितेऽवान्तरविभागे—
‘रामकविः विशिष्टाद्वैतसिद्धान्तमजानन् परोक्तमित्येव खण्डनीयमित्याग्रहमात्रेण प्रवृत्तः यत्किंचिदाह, स्थालीपुलाकन्यायेन कानिचित्
स्थलान्युदाहृत्य तत्र दोषः प्रदर्श्यते’—इति प्रतिज्ञाय रामकविकृतदूषणानि कानिचित् परिजह्रुः।
अथ तेषां दूषणपरिहाररीतिं किंचिदिव विमृशामः।
‘यावानर्थ उदपाने सर्वतः सम्प्लुतोदके। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः’ ॥२.४६॥ इति श्लोके शांकरभाष्यम्—
‘ब्राह्मणस्य संन्यासिनः परमार्थतत्त्वं विजानतः’ इति। अत्र ‘संन्यासिनः’ इति ब्राह्मणस्येति पदस्य विवरणम् , ‘परमार्थतत्त्वं
विजानतः’ इति ‘विजानतः’ इति पदस्येति स्पष्टम्। श्लोकस्थब्राह्मणपदस्य संन्यासिनः इति कथमर्थलाभः? इत्याकाङ्क्षायामाह
रामकविः— ‘नायं जातिमात्रवाची ब्राह्मणशब्दोऽमुख्यः, किन्तु मुख्य एवेत्याह— संन्यासिन इति। ‘जन्मना जायते शूद्रः कर्मणा
जायते द्विजः। वेदपाठेन विप्रः स्याद् ब्रह्मज्ञानेन ब्राह्मणः॥’ इति वचनात् , ब्रह्मज्ञानस्य च वेदान्तश्रवणाद्यधीनत्वात् , तत्र च ‘शान्तो
दान्त उपरतः’ इति संन्यासिन एवाधिकाराद्, ‘ब्राह्मणो निर्वेदमाया’दिति ब्राह्मणजातीयस्यैव संन्यासेऽधिकाराच्च ब्रह्मज्ञानिब्राह्मण-
संन्यासिपर एव मुख्यो ब्राह्मणशब्द इति भावः। ब्रह्मणोऽयं ब्राह्मणः। वेद्यवेदितृभावरूपसम्बन्धे शेषे ‘तस्येदम्’ इत्यण्।
ब्रह्मविदित्यर्थः।’ इति। अत्र च ब्राह्मणपदस्य ब्रह्मज्ञानिपरत्वेन यौगिकत्वेऽपि ‘विजानतः’ इति विशेषणात् संन्यासिनः इति
विवरणम् , ‘ब्राह्मणो निर्वेदमाया’दिति ब्राह्मणजातीयस्यैव संन्यासेऽधिकाराच्चेत्यनेन ब्राह्मणजातिरूढत्वेऽपि वा संन्यासिनः इति
विवरणं ‘विजानतः’ इति विशेषणात् ब्राह्मणपदस्य सामान्यार्थकस्य संन्यासिरूपार्थविशेषे पर्यवसानमभिप्रेत्येति व्याख्यातं भवति।
अत्र रामानुजभाष्ये— ‘ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोः’ इति व्याख्यातम्। तत्त्वज्ञानफले सर्वं कर्मफलमन्तर्भूतमिति
श्लोकतात्पर्यमद्वैतमते। रामानुजमते तु ‘मुमुक्षुणा वेदोदितं सर्वं नोपादेयम् , किन्तु यद् मोक्षसाधनं तदेवोपादेय’मिति श्लोकतात्पर्यमिति
विवेकः। वेदान्तदेशिकाः— ब्राह्मणजातिरूपरूड्यर्थग्रहणे क्षत्रियायार्जुनायोपदेशानुपपत्तेः, ब्रह्म वेदः, ब्रह्म अणतीति निरुक्त्या
ब्राह्मणपदं वैदिकमात्रपरम् , ‘विजानतः’ इति च हेयोपादेयविवेकविज्ञानवत्त्वात् मुमुक्षुपरमित्यभिप्रेत्य रामानुजभाष्यं प्रवृत्तमिति,
ब्राह्मणशब्दस्यात्र संन्यासिपरत्वेन शंकरव्याख्या तु अतिमन्दा इति चाहुः।
ञ भूमिका
रामकविस्तु पूर्वोक्तरीत्या ब्राह्मणपदस्य संन्यासिपरत्वमुपपाद्य रामानुजव्याख्यां दूषयामास— ‘एतेन ब्राह्मणस्य वैदिकस्येति
रामानुजोक्तार्थः परास्तः; तस्य तत्त्वविज्ञानाभावेन ‘विजानतः’ इति विशेषणासाङ्गत्यप्रसङ्गात्’ इति। तथा वेदान्तदेशिककृतां
ब्राह्मणपदव्युत्पत्तिं ब्राह्मण इति रूपासिद्ध्या खण्डयामास— यत्त्वत्र वेदान्तदेशिकः - ब्रह्मानितीति निरुक्त्या ब्रह्मणः, ‘शकन्ध्वादिषु
पररूपं वक्तव्यम्’ इति पररूपे कृते प्रज्ञादित्वाद् अण्प्रत्यये च ब्राह्मण इति रूपं भवति। ब्रह्म चात्र वेदः इति; तत्तुच्छम् ; प्रज्ञादिषु
ब्रह्मणशब्दाभावात् ; ब्रह्मण इति क्वापि प्रथमान्तपदप्रयोगाभावेन प्रज्ञादिषु शकन्ध्वादिषु वा आकृतिगणत्वेन तद्ग्रहणायोगात्।
प्रसिद्धपदप्रयोगनिर्वहणाय हि स्वीकृत आकृतिगणः। किञ्च ब्रह्मानितीति व्युत्पत्तौ ‘कर्मण्यण्’ स्यात्। ततश्च वृद्धौ ब्रह्माण इत्येव
स्यादिति (पृ.११०)।
उत्तमूर् वीरराघवाचार्यास्तु रामकव्युक्तवाक्यार्थे दोषमप्रदर्श्य, ब्रह्म अणतीति निरुक्त्या ब्राह्मणशब्दस्य प्रत्ययान्तरकरणेन
निष्पत्तिं च विस्तरेण प्रदर्श्य एतन्मतं खण्डितममन्यन्त। अस्मिंश्च श्लोके अर्जुने ब्राह्मणपदप्रयोगं समर्थयितुं प्रायतन्त। परन्तु
रामकविरीत्या अस्मिन् श्लोके अर्जुने ब्राह्मणपदप्रयोगः न समर्थनीयः। तथा सति अर्जुनं प्रति किमर्थमुपदेशः इति प्रश्ने
तादृशज्ञानसंपादने प्रवर्तयितुमित्येवोत्तरम्। अतश्च रामकविकृतदूषणोद्धारप्रयत्नो विफलः।
रामकवेः भाष्यकारेषु भक्तिः
रामकवेः भाष्यकारेषु भक्तिरनितरसाधारणी। पञ्चदशाध्यायान्ते भाष्यव्याख्यानकरणेनात्मनो धन्यतां प्रकटयति— “अयं
चाध्यायः सर्वगीतार्थवेदार्थपरिसमाप्तिमत्त्वेनोत्कृष्ट इति कृत्वा सर्वगीताशास्त्रपारायणासमर्थाः शिष्टाः इममध्यायमन्वहं पठन्ति।
एतत्पाठवशाच्च सर्वपापविनिर्मुक्ताः इह जन्मनि, जन्मान्तरे वा शमदमादिपूर्वकं संन्यासमुपलभ्य, वेदान्तश्रवणादिना तत्त्वं ज्ञात्वा मुक्तिं
यास्यन्तीति कृत्वा एतत्पाठोऽपि क्रमेण कृतकृत्यताहेतुरेव। तस्मात् सर्वैरपि मुमुक्षुभिः पठनीयोऽयमध्यायः सर्वथा श्रोतव्यश्चास्यार्थ-
श्चिन्तनीयश्च। धन्योऽस्म्यहं यदेतदध्यायभाष्यार्थविवरणं लब्धं मम। ये चैतत् पश्यन्ति, वदन्ति, शृण्वन्ति ते च धन्या एव। ‘एतद् बुद् ध्वा
बुद्धिमान् स्यात् कृतकृत्यश्चे’त्युक्तत्वेन ज्ञानमात्रमेव कृतकृत्यत्वकारणम् , न तु कर्मज्ञानसमुच्चय इति सूचितम्। ततश्च – ‘तरति
शोकमात्मवि’दिति श्रुत्यनुसारो गीतायाः सिध्यति। अत एवोपनिषत्तौल्यं गीताया उपनिषदभेदश्च, उपनिषदर्थप्रतिपादकत्वाद् गीताया
इति” इति।
सम्प्रदायवित् इति पदस्य एतस्य व्याख्यानं रमणीयम्। यथा— व्यासशुकादिगुरुशिष्यपरम्परा सम्प्रदाय इत्युच्यते। तं
विन्दति भजत इति सम्प्रदायवित्। तत्परम्पराप्रविष्ट इति यावत्। स चासौ गुरुर्गोविन्दयोगीन्द्रः, तदुपदेशः शङ्कराचार्यस्यास्तीति
शङ्करोक्त एवार्थो ग्राह्यः। (पृ.६२१)
गीताशास्त्रान्तेऽनेन संगृहीतः शास्त्रार्थसारः अत्यन्तं समीचीनः अवश्यं द्रष्टव्यः। (पृ.१००७)
यद्यपि रामकवेः अद्वैतशास्त्रीयप्रक्रियाऽन्यैवेति भाति। अव्यक्तमज्ञानं
माया, तद् बुद्धिरेव, सर्वबुद्धिसमष्टेरेव मायात्वादित्यादि
वदतो मायाऽविद्यादिस्वरूपविषयेऽस्य प्रक्रिया न तथा स्पष्टा। अयं नीरूपत्वात् मायायां चैतन्यस्य प्रतिबिम्बं निराकरोति। क्वचित्
भूमिका ट
आनन्दगिर्यादिव्याख्यानं खण्डयति। तादृशस्थलेऽस्माभिः टिप्पण्यां खण्डनस्य चिन्त्यत्वं निरूपितम्। श्रीमदचलमतगुरु-
शिवरामदीक्षित इति, आधुनिकाचलमतरीत्येति (पृ.७२६) च कस्यचिन्मतमनेनोपन्यस्तम्। कोऽसौ पण्डित इति न ज्ञायते। किं
बहुना? एतद्व्याख्यातगीताभाष्यपाठोऽपि प्रसिद्धपाठादत्यन्तविलक्षणः। तथापि विशिष्टाद्वैतवादिभिरुद्भावितदोषनिराकरणेनैव तदीय-
व्याख्यायाः साफल्यं सर्वैः स्वीकार्यमेव।
प्रस्तुतसंस्करणस्य वैशिष्ट्यम्
प्रस्तुतसंस्करणे अनुभूतिस्वरूपाचार्यविरचितं गीताभाष्यस्य टिप्पणम् , आनन्दगिर्याचार्यकृता भाष्यव्याख्या, श्रीबेल्लंकोण्ड-
रामरायकविविरचितो भाष्यार्कप्रकाशः इत्येताभिः व्याख्याभिः सह श्रीमद्भगवद्गीताशाङ्करभाष्यं विलसति। एतेषु ग्रन्थेषु यत्रापेक्षा
तत्राध्येतॄणां सौकर्याय काचित् टिप्पणी समायोजिता। व्याख्यान्तरेषु दृष्टा विशेषा अपि क्वचित् संगृहीताः। माध्वकृतानि च
शाङ्करभाष्यदूषणानि टिप्पण्यां संक्षेपतो विमृष्टानि। उचितानि पाठान्तराणि च निर्दिष्टानि। बहुषु स्थलेषु शुद्धपाठाः संसूचिताः।
भाष्येऽपि शुद्धपाठसंरक्षणार्थं यथाशक्ति प्रयत्नः कृतः। व्याख्याभेदेन भाष्ये पाठभेदप्राप्तौ आनन्दगिर्यादृतः पाठो मूले निवेशितः,
इतरश्च पादटिप्पण्याम् ।
आनन्दाश्रममुद्रणालयमुद्रिते पादटिप्पण्यां निवेशितानि पाठान्तराणि बहुषु स्थलेषु औचित्यं पुरस्कृत्य मूलपाठे
निवेशितानि। मुद्रितग्रन्थेषु स्थिताः अधिकाः अनपेक्षिताश्च वर्णाः ( ) वर्तुलकोष्ठकेषु निवेशताः। अपेक्षिताः वर्णाः [ ] चतुरस्रकोष्ठकेषु
निवेशताः। क्व परिवर्तनीयो वर्णः, क्व वा संयोजनीय इति पाठकैः स्वकीयव्युत्पत्तिबलात् निर्णेयम्।
प्रस्तुतसंस्करणे शोधनार्थमुपयुक्तानि पुस्तकानि
संस्करणेऽस्मिन् शोधनार्थमुपयुक्तानि पुस्तकानि—
गीताभाष्यस्य— (१) निर्णयसागरमुद्रणालयमुद्रितम् अष्टव्याख्योपेतं भगवद्गीतापुस्तकम्
(२) आनन्दाश्रममुद्रणालयमुद्रितमानन्दगिरिव्याख्योपेतं भाष्यम्
(३) गुजरातीमुद्रणालयमुद्रितम् एकादशव्याख्योपेतं भगवद्गीतापुस्तकम्
(४) वाणीविलासमुद्रणालयमुद्रितं भाष्यम्
(५) रामकविव्याख्यानसहितं भाष्यम्
(७) कैलासाश्रमसंस्करणम् सटिप्पणव्याख्योपेतं भगवद्गीताभाष्यपुस्तकम्
(८) कलिकातामुद्रितमानन्दगिरिव्याख्योपेतं भाष्यम्
श्रीधरीयसुबोधिनीयुतम्
(९) मद्रपुरीस्थ- संस्कृत एजुकेशन् सोसाइटि द्वारा प्रकाशितम्
ठ भूमिका
अनुभूतिस्वरूपाचार्यकृतगीताभाष्यटिप्पणस्य— (१)अडयार् हस्तलिखितग्रन्थकोशालयात् प्राप्तं देवनागर्यां लिप्यन्तरीकृतम्
(२) तन्मूलभूतं तालपत्रेषु ग्रन्थलिपिलिखितम्
(३)तिरुवनन्तपुरीयहस्तलिखितग्रन्थकोशालयात् प्राप्तं देवनागर्यां
लिप्यन्तरीकृतम्।
आनन्दगिरिव्याख्यायाः — पूर्वोक्तानि व्याख्यासहितभाष्यपुस्तकानि।
भाष्यार्कप्रकाशस्य — कविता वेङ्कटसुब्रह्मण्यशास्त्रिभिः देवनागरीलिप्या मुद्रितमेकं पुस्तकम्।
काशीस्थ-श्रीदक्षिणामूर्ति-निरञ्जनपीठाधीश्वराणां महामण्डलेश्वराणां ब्रह्मलीनानां श्रीमन्महेशानन्दगिरिस्वामिमहाराजानाम्
आज्ञया व्याख्यात्रयोपेतं भगवद्गीताशाङ्करभाष्यमिदं मया संशोधयितुमारब्धम्। दैवदुर्विपाकात् विघ्नैः प्रतिहतमपि अस्य संपादनकार्यं
यदद्य पूर्णं तत्र श्रीमहाराजानां शुभाशिष एव परमं निदानम्। तन्निमित्तं श्रीमहाराजानां चरणकमलयोः स्मरन् प्रणामाञ्जलिं समर्पये।
महता परिश्रमेण शोधने कृतेऽपि मद्दृष्टिपथादपेताः अशुद्धयोऽत्र भवेयुरेव। विद्वांसः कृपया स्वयमेव ताः संशोधयन्त्विति
सविनयमभ्यर्थये।
श्रद्धया समीचीनरीत्या उट्टङ्कनकार्यं संपादितवतः श्री P.N. सुन्दरेशन् महोदयस्य साधुवादैरभिनन्दनं विदधामि।
विदुषां वशंवदः
मणिद्राविडः