१८

॥अथ अष्टादशोऽध्यायः॥

अर्जुन उवाच— संन्यासस्य महाबाहो ! तत्त्वमिच्छामि वेदितुम्। त्यागस्य च हृषीकेश ! पृथक् केशिनिषूदन !॥१॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

‘प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्’, ‘मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा’, ‘त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः’, ‘निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः’, ‘योगसंन्यस्तकर्माणम्’, ‘ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति’, ‘संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः’, ‘ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः’, ‘युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम्’, ‘सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी’, ‘अनाश्रितः कर्मफलं कार्यं कर्म करोति यः। स संन्यासी च योगी च न निरग्निर्न चाक्रियः॥’, ‘यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव। न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन॥’, ‘सर्वसङ्कल्प- संन्यासी योगारूढस्तदोच्यते’, ‘सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः’, ‘संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि’, ‘ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः’, ‘सर्वकर्मफलत्यागं ततः कुरु यतात्मवान्’, ‘सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः’, ‘शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः’, ‘सर्वारम्भपरित्यागी गुणातीतः स उच्यते’ इति पूर्वाध्यायेषु तत्रतत्र संन्यासस्त्यागश्च निर्दिष्टः। तत्र संन्यासत्यागयोरेकात्मत्वमेवावगम्यते। सम्पूर्वस्तु न्यासशब्दस्त्यागार्थो, न निक्षेपार्थः इति संन्यस्येत्यस्य परित्यज्य इत्यर्थाच्च। पारिव्राज्यस्य परित्यागस्य संन्यासत्वाच्च, परित्यज्य सर्वं व्रजतीति परिव्राडिति व्युत्पत्तेः। एवं संन्यासत्यागयोरेकात्मत्वे सिद्धे सति त्यागसंन्यासयोर्मोक्षं प्रति मार्गद्वयत्वं शिष्टैरुच्यमानम् , ‘न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः’, ‘वेदान्त- विज्ञानसुनिश्चितार्थाः संन्यासयोगाद् यतयः शुद्धसत्त्वाः’ इत्यादिशास्त्रप्रमाणकं च, ‘जनकादयः त्यागान्मुक्तिं गताः; याज्ञवल्क् यादयस्तु संन्यासाद्’ इति व्यवहारसिद्धं च कथं सङ्गच्छते? ‘कुरु कर्मैव तस्मात्त्वं सङ्गं त्यक्त्वा धनञ्जय’ इति च कथं भगवान् मह्यं युगपदेव कर्मानुष्ठानं त्यागं चोपदिष्टवान्? कर्मानुष्ठानकर्मसंन्यासौ हि विरुद्धौ। संन्यास एव हि त्यागः। अथ यदि संन्यासत्यागौ भिन्नाविति वेद्मि, तर्हि तद्भेदो नैवावगम्यते, अर्थभेदाभावात्। न हि शब्दभेदमात्रं प्रयोजकम् , तथा सति पटवस्त्रयोरपि भेदप्रसङ्गात्। तस्मादर्थ- भेदाभावात् कथं त्यागसंन्यासयोर्मार्गद्वयत्वम्? मम वा कथं कर्मत्यागयोरेवाधिकारो, न तु संन्यासे? इत्याशङ्क्य संन्यास- आनन्दगिरिकृतव्याख्या पूर्वैरध्यायैर्विस्तरेण यतस्ततो विक्षिप्ततयोक्तमर्थं सुखप्रतिपत्त्यर्थं संक्षेपेणोपसंहृत्याभिधातुमध्यायान्तरमवतारयति—सर्वस्यै- वेति। उपसंहृत्य वक्तव्यः इति सम्बन्धः। किंच उपनिषत्सु २यतस्ततो विस्तृतस्यार्थस्य बुद्धिसौकर्यार्थम् अस्मिन्नध्याये संक्षिप्ताभिधानं कर्तव्यम् , उपनिषदां गीतानां चैकार्थत्वादित्याह—सर्वश्चेति। कथं सर्वोऽपि शास्त्रार्थोऽस्मिन्नध्याये संक्षिप्योपसंह्रियते? तत्राह—सर्वेषु हीति। ननु वेदार्थश्चेद् अशेषतोऽत्र उपसंजिहीर्षितः, तर्हि किमिति ‘त्यागेनैके’ ‘संन्यासयोगाद्’ इति च वेदार्थैकदेशविषयं प्रश्नप्रतिवच- नम्? तत्राह— अर्जुनस्त्विति। पृथगनयोस्तत्त्वं वेदितुमिच्छामीति विशेषणाद् अपृथगर्थस्तयोरस्तीति गम्यते। बुभुत्सितस्य प्रष्टव्यत्वाद् एकदेशे ३तद्भावाद् उक्तप्रश्नोपपत्तिरिति भावः॥१॥

सर्वस्यैव गीताशास्त्रस्यार्थोऽस्मिन्नध्याये उपसंहृत्य सर्वश्च वेदार्थो वक्तव्य इत्येवमर्थोऽयमध्यायः आरभ्यते। १सर्वेषु ह्यतीतेष्वध्यायेषु उक्तोऽर्थः अस्मिन्नध्यायेऽवगम्यते। अर्जुनस्तु संन्यासत्यागशब्दार्थयोरेव विशेषं बुभुत्सुः १. ‘सर्वो हि’ इति पा.। २. ‘इतस्ततः’ इति पा.। ३. तद्भावात् = बुभुत्सायाः भावात्।

[[८४२]]

उवाच—संन्यासस्येति। संन्यासस्य संन्यासशब्दार्थस्येत्येतत्। हे महाबाहो ! तत्त्वं तस्य भावः तत्त्वम् , याथात्म्य- मित्येतत्। इच्छामि वेदितुं ज्ञातुम् ; त्यागस्य च, त्यागशब्दार्थस्येत्येतत्। हृषीकेश ! पृथग् इतरेतरविभागतः। केशिनिषूदन ! केशिनामा हयच्छद्मा कश्चिदसुरः। तं निषूदितवान् भगवान् वासुदेवः। तेन तन्नाम्ना संबोध्यतेऽर्जुनेन ॥१॥

त्यागयोर्याथार्थ्यबुभुत्सया पृच्छत्यर्जुनः— संन्यासस्येति। परिज्ञाते तु त्यागसंन्यासमार्गद्वयभेदयाथार्थ्ये यथास्वाधिकारमन्यतरमार्गे प्रवृत्तःसन् संसाराद् अहं मोक्ष्ये इत्यर्जुनस्य हृदयम्। यद्यपि ‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन’ इति त्यागमार्ग एवोपदिष्टोऽर्जुनाय भगवता, तथापि तदुपदिष्टं तं मार्गं त्याग- मार्ग इति विशिष्य न जानात्यर्जुनः, विशिष्यानुक्तत्वाद् भगवता पूर्वम्। न हि फलमनभिसन्धाय कर्मकरणं त्यागः, कर्मणां सर्वात्मना परित्यागः संन्यासः इति च पूर्वाध्यायेषु क्वाप्युक्तम्। किन्तु फलमनभिसन्धाय कर्मकरणं योग इत्युक्तम्। तं तु योगमनुष्ठानात्मकं त्यागत्वेन कथं प्रतीयादुपदेशं विनाऽर्जुनोऽन्यो वा? त्यागो हि परिवर्जनात्मकः। युज्यते क्रियत इति योगः कर्मानुष्ठानम् , त्यजते [त्यज्यते] इति तु त्यागः कर्मपरित्यागः। ततः कथं योगत्यागयोरेकात्मत्वप्रतिपत्तिः स्यात्? न हि - फलत्याग एव त्यागः, न तु कर्मत्यागः - इति गुरूपदेशं विना कोऽपि स्वबुद्ध्या निश्चिनुयात्। तस्माद् यः पूर्वमुक्तः सांख्यमार्गो योगमार्गश्च तत्र योगमार्ग एव त्यागमार्गः, सांख्यमार्ग एव संन्यासमार्गः, न तु त्यागसंन्यासयोः परस्परविरुद्धयोरेकत्वम्। कर्मानुष्ठानकर्मसंन्यासयोर्हि विरोधः स्फुटः। कर्मानुष्ठानफलत्यागयोस्तु न विरोधः। फलत्यागपूर्वकं कर्मणोऽनुष्ठातुं शक् यत्वात्। न तु कर्मत्यागपूर्वकं कर्मानुष्ठातुं शक् यते, येन योगसंन्यासयोरविरोधः स्यात्। तस्मात् सांख्ययोगावेव संन्यासत्यागौ इत्यविदित्वा संन्यासत्यागयोरेकार्थकत्वेनाविशेषं मत्वा तद्विशेषबुभुत्सया पृच्छत्यर्जुनः ‘संन्यासस्य’ इत्युपपन्नतरम्। अत एव ‘अतीताध्यायोक्त एवार्थोऽस्मिन्नध्यायेऽवगम्यते’ इत्याचार्यै- रुक्तम् , पूर्वाध्यायेषूक्तयोरेव सांख्ययोगयोरिह संन्यासत्यागरूपत्वेन वक्ष्यमाणत्वात्। ‘अर्जुनस्तु’ इति तुशब्दाच्छ्रीकृष्णोऽर्जुनेनापृष्टा- नप्यंशान् इह वक्ष्यतीति ज्ञायते। न हि त्यागसंन्यासविशेष एवेह प्रतिपाद्यते, किन्तु ब्राह्मणादिवर्णधर्मादिकमन्यदपि। न च – वर्णधर्माः पूर्वमनुक्ता[पूर्वमुक्ता] इति – वाच्यम् ; शमदमादयो धर्माः पूर्वमुक्ता एव। किन्त्विमे ब्राह्मणधर्माः, इमे क्षत्रियधर्माः इत्येवं विशिष्य नोक्ताः। तदिह विशिष्योच्यन्त इति। अन्यथा ह्युक्तस्य तथैव पुनः कथने पुनरुक्तिः स्यात्। संन्यासेति। संन्यासशब्दार्थस्य त्यागशब्दार्थस्य च यो विशेषो वैलक्षण्यम् , भेद इति यावत्। तस्य बोद्धुं ज्ञातुमिच्छुर्बुभुत्सुः सन्नर्जुन उवाचेति सम्बन्धः। हे महाबाहो ! हे हृषीकेश ! हे केशिनिषूदन ! संन्यासस्य त्यागस्य च तत्त्वं पृथग् वेदितुमिच्छामि। त्वं साक्षाद्भगवानेव, भगवतो महापुरुषस्य यच्चिह्नं महाबाहुत्वं, यो धर्मो दानवान्तकत्वं, तदुभयस्य त्वयि दर्शनादिति सम्बुद्धिद्वयाभिप्रायः। त्वं साक्षादन्तर्यामी प्रत्यगभिन्नः परमात्मैवेति हृषीकेशसम्बुद्ध्यभिप्रायः। हृषीकाणामिन्द्रियाणामीशः प्रेरको हृषीकेशः सर्वभूतेश्वर इति व्युत्पत्तेः। ततश्च सर्वं तत्त्वं यथावत् स्वयं वेत्तुमन्यस्मै बोधयितुमन्येन ग्राहयितुं च त्वमेव क्षमसे, अतस्त्वामेव पृच्छामीत्यर्जुनाशयः। वेदितुमिच्छामीत्येवोक्तम् , न तु कथयेति। ततश्च सर्वेश्वरं भगवन्तं त्वां कथयेति नियन्तुं कोऽहम्? परन्तु ममेच्छा वर्तत एवमितीच्छामात्रं प्रदर्शयति। सा चेच्छा सुहृदा त्वया परमकारुणिकेनावश्यं पूरयितव्यैवेत्यर्जुनाशयोऽवगम्यते। तस्येति। १प्रकृतस्य संन्यासस्य त्यागस्य च भावो याथार्थ्यं तत्त्वम्। फलितार्थमाह—याथात्म्यमिति। इतरेतरविभागत इति। इतरस्येतरस्माद् विभागतो विवेकतः, विविक्तं यथा तथेत्यर्थः। हयच्छद्मा अश्वमिषः, अश्वरूपीत्यर्थः। निषूदितवान् नाशितवान्। तन्नाम्ना केशिनिषूदनाभिधानेन ॥१॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

श्रीभगवानुवाच— १. तच्छब्दः प्रकृतस्य संन्यासस्य त्यागस्य च परामर्शक इति भावः। वस्तुतस्तु संन्यासस्य त्यागस्य च तत्त्वमिच्छामीत्युक्तत्वात् संन्यासत्यागपदार्थयोरन्वयार्थं तत्त्वमित्यखण्डस्यैव याथात्म्यमिति अर्थो युक्तः। ‘तत्त्वं तस्य भावः तत्त्वम्’ इति भाष्यं तु पदान्वाख्यानमात्रपरमिति परे।

[[८४३]]

तत्र तत्र निर्दिष्टौ संन्यासत्यागशब्दौ न १निर्लुण्ठितार्थौ पूर्वेष्वध्यायेषु। अतोऽर्जुनाय पृष्टवते तन्निर्णयाय भगवानुवाच— काम्यानामिति। काम्यानाम् अश्वमेधादीनां कर्मणां न्यासं परित्यागं संन्यासं संन्यासशब्दार्थम् अनुष्ठेयत्वेन प्राप्तस्याननुष्ठानं कवयः पण्डिताः केचिद् विदुः विजानन्ति। नित्यनैमित्तिकानामनुष्ठीयमानानां सर्व- कर्मणाम् आत्मसम्बन्धितया प्राप्तस्य फलस्य परित्यागः सर्वकर्मफलत्यागः, तं प्राहुः कथयन्ति त्यागं त्यागशब्दार्थं विचक्षणाः पण्डिताः। यदि काम्यकर्मपरित्यागः, फलपरित्यागो वाऽर्थो वक्तव्यः, २सर्वथा परित्यागमात्रं संन्यास- त्यागशब्दयोः एकोऽर्थः स्यात् , न घटपटशब्दाविव जात्यन्तरभूतार्थौ३। काम्यानामिति। कवयः काम्यानां कर्मणां न्यासं संन्यासं विदुः। विचक्षणाः सर्वकर्मफलत्यागं त्यागं प्राहुः। काम्यानां स्वर्गा- दिकामहेतूनाम्। काम्यन्त इति कामाः स्वर्गादिफलानि, तत्र साधूनि काम्यानि, नित्यनैमित्तिकान्यपि काम्यान्येव, तेषामपि फलवत्त्वात्। परन्तु येषामकरणे प्रत्यवायस्तानि नित्यानि नैमित्तिकानि च, येषामकरणे प्रत्यवायो नास्ति तानि काम्यानीति व्यवहारकृतो विवेकः। तत्र यानि अहरहः क्रियन्ते तानि नित्यानि, यानि निमित्ते सति कदाचित् क्रियन्ते तानि नैमित्तिकानि४। यथा सन्ध्यावन्दनदेवर्षिपितृतर्पणादीनि नित्यानि, पित्राब्दिकादीनि नैमित्तिकानीति विवेकः। एतेषां नित्यनैमित्तिककाम्यभेदभिन्नानां त्रिविधानामपि कर्मणां फलवत्त्वेन हेतुना काम्यानां परित्यागः संन्यासशब्दार्थः। फलितमाह—अनुष्ठेयत्वेन प्राप्तस्याननुष्ठानमिति। संन्यास इति शेषः। न ह्यनुष्ठेयत्वेन काम्यकर्मैव प्राप्तं कर्मिणः, किन्तु नित्यं नैमित्तिकमपि च। तस्मादनुष्ठेयत्वेन प्राप्तस्य त्रिविधस्यापि कर्मणोऽननुष्ठानं संन्यास इत्युच्यते। अननुष्ठानमेव हि कर्मणः परित्यागः, न तु धनादेरिव कर्मणः स्वरूपतः परित्यागः कर्तुं शक् यते। नित्यनैमित्तिकानामिति। उपलक्षणमिदं काम्यानामपि। काम्यान्यपि ह्यश्वमेधादीनि कर्माणि चित्तशुद्ध्याद्यर्थं फलमनभिसन्धाय क्रियन्ते जनकादिभिः। यद्वा फलत्यागिनां काम्यकर्मकरणप्रसक्त्यभावात् तैः क्रियमाणानां कर्मणां च फलाभिसन्ध्यभावेनाकाम्यत्वादुक्तम्— नित्यनैमित्तिकानामिति। संन्यासिभिः सर्वमपि कर्म परित्याज्यमेव। त्यागिभिस्तु काम्यकर्माण्येव स्वरूपतः परित्याज्यानि ५(अननुष्ठे- यानीत्यर्थः।) नित्यनैमित्तिकानि तु कर्तव्यान्येव, तदकरणे प्रत्यवायात्। परन्तु नित्यनैमित्तिकानां फलपरित्याग एव कर्तव्य इति भावः। यदीति। यस्मादित्यर्थः। संन्यासत्यागशब्दयोः काम्यकर्मपरित्यागः सर्वकर्मफलत्यागो वाऽर्थो वक्तव्यस्तस्मादिति शेषः। परित्यागमात्रं तद्रूप इत्यर्थः। एकोऽर्थः स्यात् घटपटशब्दाविव जात्यन्तरभूतार्थौ (न) संन्यासत्यागशब्दौ न भवतः इत्यर्थः। यथा घटपटशब्दौ भिन्नजातिपदार्थाभिधायिनौ, तथा संन्यासत्यागशब्दौ न भवतः, परित्यागमात्रवाचित्वादुभयोरपि। तस्मादेकार्थवाचिनो- रपि संन्यासत्यागशब्दयोः कर्मतत्फलविषयत्वेन भेद इति भावः। अनुष्ठेयत्वेन प्राप्तस्य सर्वस्य कर्मणोऽननुष्ठानं संन्यासः, अनुष्ठीय- ननु पूर्वेष्वध्यायेषु तत्र तत्र संन्यासत्यागयोरुक्तत्वात् किमिति पुनस्तौ पृच्छ्येते, ज्ञाते तदयोगात्? तत्राह— तत्र तत्रेति। न निर्लुण्ठितार्थौ न निष्कृष्टार्थौ, न विविक्तार्थावित्यर्थः। बुभुत्सया प्रश्नस्य प्रवृत्तत्वात् प्रष्टुरभिप्रायं प्रश्नेन प्रतिपद्य भगवानुत्तरमुक्तवानित्याह — अत इति। पक्षद्वयोपन्यासेन संन्यासत्यागशब्दयोरर्थभेदं कथयति—काम्यानामिति। तत् किमिदानीं संन्यासत्यागशब्दयोरात्यन्तिकं भिन्नार्थत्वम्? तथा च प्रसिद्धिविरोधः स्यादित्याशङ्क्य , अवान्तरभेदेऽपि नात्यन्तिकभेदोऽस्तीत्याह— यदीति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः॥२॥

१. ‘निर्लुठितार्थौ’ इति पा.। २. ‘सर्वथाऽपि (परि)त्यागमात्रम्’ इति पा.। ३. भिन्नार्थौ इत्यर्थः। ४. नियतनिमित्तकानि कर्माणि नित्यानि, अनियतनिमित्तकानि कर्माणि नैमित्तिकानि इति प्रसिद्धिः। ५. कुण्डलितं टिप्पणं स्यादित्यूह्यते। अ. १८. श्लो. १ - २]

[[८४४]]

मानस्य कर्मणः फलाननुसन्धानं त्याग इति निष्कर्षः। फलवत्त्वस्येति। दुरितक्षयादिरूपफलयुक्तत्वस्येत्यर्थः। ‘अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्॥’ इति वक्ष्यति। कर्मणस्त्रिविधस्येत्यर्थः। अत्यागिनां नित्यनैमित्तिकादिकर्मफलप्रतिपादनेन नित्यनैमित्तिकानां फलमस्तीति गम्यत इति भावः। अत्यागिनाम् इत्यस्यासंन्यासिनामित्यर्थः, न तु संन्यासिनामित्युत्तरवाक् यानुसारात्। ततश्च संन्यासिनामेव केवलं कर्मफलासम्बन्धः, असंन्यासिनां तु कर्मानुष्ठानसत्त्वेन तत्फलसंबन्धोऽस्त्येव। अत एवासंन्यासिभिः तत्फलपरित्यागः कर्तव्यः, संन्यासिनां तु कर्मानुष्ठानाभावान्न फलपरित्यागावकाश इति बोध्यम्। अत एव ‘संन्यासिनामेव केवल’मित्युक्तम्। यत्तु रामानुजः—संन्यासत्यागौ पर्यायशब्दावेव, न तु तयोरर्थतोऽस्ति भेदः। परन्तु केचित् कवयः काम्यमेव कर्माननुष्ठेयम् , फलद्वारा मुमुक्षोर्बन्धकत्वात् ; नित्यनैमित्तिके त्वनुष्ठेये एव, फलाभावात् तयोस्तदकरणे प्रत्यवायाच्चेत्याहुः। अन्ये विचक्षणास्तु काम्य- मपि कर्म न परित्याज्यं, किन्तु नित्यनैमित्तिकवत् कर्तव्यमेव; न च बन्धप्रसङ्गः, फलपरित्यागादिति कृत्वा त्रिविधमपि कर्तव्यं कर्म; तत्फलं तु परित्यक्तव्यमिति प्राहुः। न च नित्यनैमित्तिकयोः फलाभावश्चोदनीयः, ‘प्राजापत्यं गृहस्थाना’मित्यादिना तयोरपि फला- वगमादिति व्याचख्यौ। तदसत् ; अर्जुनप्रश्नकृष्णप्रतिवचनयोरननुरूपत्वात्। संन्यासत्यागयोस्तत्त्वं पृथग्वेदितुमिच्छामीति ह्यर्जुनेन पृष्टम् , न तु त्यागस्य विकल्पानहं वेदितुमिच्छामीति। प्रकृतश्लोकश्च कर्मन्यासं संन्यासं विदुरिति, कर्मफलत्यागं त्यागं विदुरिति च वक्ति। न तु कर्मसंन्यासं केचिद् युक्तमिति विदुः, कर्मफलत्यागं तु केचिद् युक्तमिति विदुरिति वक्ति। तस्मात् कृष्णार्जुनप्रश्नप्रतिवचनश्लोकयोरनयोर्यथाश्रुतमर्थं विहायापार्थकल्पनमप्रमाणमेव। न ह्यत्र ‘केचिद् विदु’रिति, ‘अन्ये प्राहु’रिति च विकल्पबोधकं पदद्वयमप्यस्ति। न च ‘त्याज्यं दोषवदित्येके’ इत्युत्तरश्लोकानुसारादिहापि तत्पदद्वयमध्याह्रियत इति वाच्यम् ; तत्र कर्म त्याज्यमिति, न त्याज्यमिति च विकल्पार्थ एव वर्णितः इति तदनुसारायोगादस्य। न ह्यत्र काम्यं कर्म त्याज्यमिति, न त्याज्यमिति विकल्पार्थो वर्णितः, येनोत्तरश्लोकानुसारः स्यादस्य। किञ्च संन्यासत्यागावेकार्थाविति किमर्जुनो वेद, उत न वेद? आद्ये, संन्यासस्य त्यागस्य च पृथक् तत्त्वं वेदितुमिच्छामीति प्रश्नो न युज्यते। द्वितीये, कृष्णस्येदं प्रतिवचनं न युज्यते। त्वं हि संन्यासत्यागौ पृथगर्थाविति भ्राम्यसि, न तु तथा पृथगर्थौ। किन्त्वपृथगर्थावेवेति वक्तव्यत्वात् कृष्णेनोत्तरस्य। न च ‘निश्चयं शृणु मे तत्र त्यागे भरतसत्तम’ इति त्यागशब्देनैव निर्णयवचनादयमर्थोऽवगम्यत इति वाच्यम् ; साक्षात्कण्ठोक्तमर्थं विहायानुमानिकार्थकल्पनस्या- युक्तत्वात्। त्याज्यं दोषवदिति वक्ष्यमाणश्लोकोक्तविकल्पविषये त्यागे मम निश्चयं शृण्विति तदर्थाच्च। तस्मात् श्रीशङ्कराचार्योक्त एव पुत्राभावाद् वन्ध्यायास्तत्त्यागायोगवद् नित्यनैमित्तिककर्मणामफलानां फलत्यागानुपपत्तेरुक्तस्त्यागशब्दार्थो न सिध्यतीति शङ्कते— नन्विति। नित्यनैमित्तिककर्मफलस्य वन्ध्यापुत्रसादृश्याभावात् तत्त्यागसम्भवादुक्तस्त्यागशब्दार्थः सम्भवतीति समाधत्ते— नैष दोष इति। भगवता तेषां फलवत्त्वमिष्टमित्यत्र वाक्यशेषमनुकूलयति— वक्ष्यतीति। तर्हि संन्यासिनामसंन्यासिनां च नित्याद्यनुष्ठा- यिनामविशेषेण तत्फलं स्यादिति चेत् , नैवेत्याह— न त्विति। वक्ष्यतीत्यनुकर्षणं चकारार्थः। प्रसक्तस्य वचसोऽर्थं प्रकृतोपयोगित्वेन संगृह्य स्मारयति— संन्यासिनामिति॥२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ननु नित्यनैमित्तिकानां कर्मणां फलमेव नास्तीत्याहुः; कथमुच्यते तेषां फलत्याग इति, यथा वन्ध्यायाः पुत्रत्यागः?। नैष दोषः; नित्यानामपि कर्मणां भगवता फलवत्त्वस्येष्टत्वात्। वक्ष्यति हि भगवान्—‘अनिष्टमिष्टं मिश्रं च’ (भ.गी.१८.१२) इति, ‘न तु संन्यासिनाम्’(भ.गी.१८.१२) इति च। संन्यासिनामेव हि केवलं कर्मफलासम्बन्धं दर्शयन् असंन्यासिनां नित्यकर्मफलप्राप्तिं १‘भवत्यत्यागिनां प्रेत्य’ (भ.गी.१८.१२) इति दर्शयति॥२॥ १. अत्यागिशब्देन असंन्यासिवाचिना नित्याद्यनुष्ठाननिष्ठा अपि कर्मिणः सामान्येन गृहीताः इति भावः।

[[८४५]]

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः। यज्ञदानतपःकर्म न त्याज्यमिति चापरे॥३॥

त्याज्यमिति। त्याज्यं त्यक्तव्यं दोषवद् दोषोऽस्यास्तीति दोषवत्। किं तत्? कर्म, बन्धहेतुत्वात् सर्वमेव। अथवा दोषो यथा १रागादिः त्यज्यते, तथा त्याज्यमिति एके कर्म प्राहुः मनीषिणः पण्डिताः २सांख्यादिदृष्टिमाश्रिताः अधिकृतानां कर्मिणामपीति। श्लोकस्य यथाश्रुतार्थः, अर्जुनप्रश्नानुरूपश्च। तत्प्रश्नमनुसृत्यैव संन्यासत्यागयोरिह तत्त्वस्य पृथङ्निर्दिष्टत्वात्। सर्वकर्मपरित्यागः संन्यासः, सर्वफलत्यागस्तु त्याग इति पृथगुभयोस्तत्त्वस्य निर्दिष्टत्वात्। न च काम्यानामित्येवोक्तम् , न तु सर्वेषामिति वाच्यम् ; कामे साधूनि काम्यानीति व्युत्पत्त्या नित्यनैमित्तिककाम्यात्मकत्रिविधकर्मपरत्वात् काम्यशब्दस्य। तच्चोक्तं प्रागेव। न चैवं बादरायणेन ‘सर्वेषां कर्मणां न्यासम्’ इति कुतो नोक्तमिति वाच्यम् ; सर्वाण्यपि कर्माणि काम्यत्वेन परित्याज्यान्येवेति सूचयितुं काम्याना- मित्युक्तत्वात्। अन्यथा ‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’ इत्यादिश्रुतिसिद्धस्य सर्वकर्मपरित्यागरूपस्य संन्यासस्य कुतो नेह प्रति- पादनं स्यादिति बोध्यम्॥२॥

त्याज्यमिति। यदर्जुनेन पृष्टं तत् प्रत्युक्तं पूर्वश्लोकेन। अथ प्रसङ्गात् किमविदुषां संन्यासः श्रेयस्करः, उत त्यागः? इति शङ्कायां तावद् विकल्पं दर्शयति—त्याज्यमिति। न च – अविदुषामपि कोऽयं नियमः? विदुषामपि किं संन्यासः श्रेयस्करः, उत त्यागः? इति शङ्का भवत्येवेति – वाच्यम् ; विदुषां कर्माधिकाराभावस्य पूर्वमेव बहुशः प्रतिपादितत्वात्। यद्यपि ‘तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते’ इति पूर्वमेवायमर्थ उक्तः, तथापि तस्यैवेह पुनर्विमर्शनं क्रियते स्पष्टावगमार्थमिति बोध्यम्। उक्तं हि भाष्यकृद्भिः— ‘सर्वो ह्यतीतेषु अध्यायेषूक्तोऽर्थोऽस्मिन्नवगम्यते’ इति। यद्वा ये संन्यासाश्रमं स्वीकृतवन्तः तैः सर्वकर्मणां परित्यक्तत्वान्न तेषां पुनः कर्माधिकारः। अतो न तद्विषयः कर्मविकल्प इह प्रकृतः, किन्तु ये असंन्यस्यापि यज्ञादिषु न प्रवर्तन्ते, तद्विषयः कर्मविकल्प इह प्रकृत इति बोध्यम्। एके मनीषिणो दोषवत् कर्म त्याज्यमिति प्राहुः। अपरे मनीषिणो यज्ञदानतपःकर्म न त्याज्यमिति प्राहुः। कर्मणि दोषं दर्शयति—बन्धहेतुत्वादिति। सर्वमेवेति। नित्यं नैमित्तिकं काम्यं चेति त्रिविधमपि कर्मेत्यर्थः। कर्म त्याज्यं दोषवत्त्वात् , यद् दोषवत् तत् त्यज्यते, यथा कीटादिदुष्टं फलादि। ‘तदस्यास्त्यस्मिन्’ इति मतुपि दोषवच्छब्दार्थं दर्शयित्वा, ‘तेन तुल्यं क्रिया चेद् वति’रिति वतौ तं दर्शयति—अथवेति। धनरागः। आदिपदात् क्रोधादिग्रहणम्। यद्वा स्त्रीरागादिग्रहणम्। अथवा धनं रागश्चेति दोषद्वयम्। धनं ह्यार्जनादिक्लेशहेतुत्वाद् दुष्टम्। रागः स्त्र्यादिविषयः कामः, तस्य संसारानर्थहेतुत्वाद् दोषवत्त्वं स्फुटमेव। त्यज्यत इति। विदुषेति शेषः। त्याज्यमिति। मुमुक्षुभिरिति शेषः। क एवं वदन्तीत्यत आह—साङ्ख्या इति। कुतो वदन्तीत्यत आह—आत्मदृष्टिमाश्रिता इति। आत्म- ज्ञत्वादित्यर्थः। अकर्तारमभोक्तारमविक्रियमात्मानं विदन्तो हि ते साङ्ख्याः आत्मनि क्रियाकारकफलाभावदर्शनान्नैव कार्यं कर्मेति ब्रुवन्तीत्यर्थः। केषां त्याज्यम्? अत आह—अधिकृतानां कर्मिणामपीति। अज्ञा हि कर्मण्यधिकृताः, तैरपि कर्म न कर्तव्यम् , बन्धकत्वात् कर्मणः। किन्तु तूष्णीं स्थातव्यम् , कर्माकरणस्य बन्धाहेतुत्वादिति भावः। काम्यानि वर्जयित्वा नित्यनैमित्तिकानि फलाभिलाषादृते कर्तव्यानीत्युक्तं पक्षं प्रतिपक्षनिरासेन द्रढयितुं विप्रतिपत्तिमाह— त्याज्यमिति। कर्मणः सर्वस्य दोषवत्त्वे हेतुमाह— बन्धेति। दोषवदित्येतद् दृष्टान्तत्वेन व्याचष्टे—अथवेति। कर्मण्यनधिकृतानामकर्मि- णामेव कर्म त्याज्यम् , कर्मिणां तत्त्यागे प्रत्यवायादित्याशङ्क्याह—अधिकृतानामिति। न हि तेषामपि कर्म त्यजतां प्रत्यवायः, हिंसादि-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘धनरागादिः’ इति रा.पा.भाति। २. ‘सांख्या आत्मदृष्टिमाश्रिताः’ इति रा.पा.। अ. १८. श्लो. २ - ३ ]

[[८४६]]

युक्तस्य कर्मणोऽनुष्ठाने परं प्रत्यवायादिति भावः। सांख्यादिपक्षसमाप्तौ इतिशब्दः। मीमांसकपक्षमाह— तत्रैवेति। कर्माधिकृतेष्वेवेति यावत्। कर्म नित्यं नैमित्तिकं च। ‘काम्यानां कर्मणा’मित्यारभ्य श्लोकाभ्यां कर्मिणोऽकर्मिणोऽधिकृताननधिकृतांश्चापेक्ष्य दर्शितविकल्पानां प्रवृत्तिरित्याशङ्क्याह— कर्मिण इति। एवकारव्यवच्छेद्यमाह— न त्विति। तदेव स्फुटयति— ज्ञानेति। कर्माधिकृतानां ज्ञाननिष्ठातो विभक्तनिष्ठावत्त्वेन पूर्वोक्ता- नामपि शास्त्रार्थोपसंहारे पुनर्विचार्यत्ववज्ज्ञाननिष्ठानामपि विचार्यत्वमत्राविरुद्धमिति शङ्कते—नन्विति। सांख्यानां परमार्थज्ञाननिष्ठानां नात्र विचार्यतेत्युत्तरमाह— न, तेषामिति। ननु तेषामपि स्वात्मनि क्लेशदुःखादि पश्यतां तदनुरोधेन राजसकर्मत्यागसिद्धेः विचार्यत्वम् , आनन्दगिरिकृतव्याख्या तत्रैव यज्ञदानतपःकर्म न त्याज्यमिति चापरे। १कर्मिण एवाधिकृतानपेक्ष्यैते विकल्पाः, न तु ज्ञाननिष्ठान् व्युत्थायिनः संन्यासिनोऽपेक्ष्य। ‘ज्ञानयोगेन सांख्यानां निष्ठा मया पुरा प्रोक्ता’(द्र.भ.गी.३.३) इति २कर्माधिकारादपोद्धृताः ये, न तान् प्रति चिन्ता। ननु ‘कर्मयोगेन योगिनाम्’ इत्यधिकृताः पूर्वं विभक्तनिष्ठाः अपीह ३सर्वशास्त्रार्थोपसंहारप्रकरणे यथा विचार्यन्ते, तथा सांख्या अपि ज्ञाननिष्ठाः विचार्यन्तामिति। न; तेषां मोहदुःखनिमित्तत्यागानुपपत्तेः। न ४कायक्लेशनिमित्तं दुःखं सांख्याः आत्मनि अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् अष्टादशे ५किञ्चिन्निरूप्यते।….कर्मफलत्यागात्म[क] इत्येकः पक्षः। नित्यानामपि त्याग इत्यपरः पक्षः। काम्या- दीनां यज्ञानामपि न त्याग इत्यन्यः। एते पक्षाः कीदृशानधिकारिण उद्दिश्येत्याशङ्क्याह—कर्मिण एवाधिकृतानपेक्ष्यैते विकल्पा इति। कर्माधिकाराद् ये अपोद्धृताः बहिष्कृताः तान् प्रति इयं चिन्ता न भवति, निर्णीतत्वादित्युक्तम्। तत्र प्रतिबन्धि- न्यायेन शङ्कते—ननु कर्मयोगेनेति। येषां मोहदुःखनिमित्तस्त्यागः सम्भवति, तेऽत्र विचार्यन्ते। न तथा साङ्ख्याः। ततस्ते न भाष्यार्कप्रकाशः तत्रैवेति। अधिकृतकर्मिविषय एवेत्यर्थः। यज्ञदानतपोरूपं कर्म यज्ञदानतपःकर्म। यज्ञो दानं तपश्चेत्येतत् त्रयमित्यर्थः। न त्याज्यं त्यक्तुं योग्यं न भवति। सकामानां बन्धहेतुत्वेऽपि, निष्कामानां चित्तशुद्ध्यादिद्वारा मोक्षहेतुत्वादिति भावः। एते विकल्पा इति। एतौ विकल्पावित्यर्थः। एवमादयो विकल्पाः इति वा। कर्मिण एवेत्येवकारार्थमाह—न तु ज्ञाननिष्ठानिति। व्युत्थायिनः सर्वं परित्यज्य प्रयातानित्यर्थः। ‘व्युत्थायाथ भिक्षाचर्यं चरन्ती’ति श्रुतेः। संसारिणो हि गृहिणः संसारकूपे मग्नाः। एते तु संसारकूपादुद्गताः इति व्युत्थायिनः इत्युक्तम्। व्युथातुं शीलं येषां ते व्युत्थायिनः। के ते? अत आह—संन्यासिन इति। संन्यासिनां विदुषां ज्ञाननिष्ठा क्वोक्तेत्यत आह—ज्ञानयोगेनेति। तस्माद् ये कर्माधिकाररूपादातपादुद्धृतास्तान् प्रति – किं कर्म कार्यमुत त्याज्यम्? – इति चिन्ता न भवति। आतपवत् तापहेतुत्वात् कर्माधिकारे आतपत्वरूपणम्। तत उद्धृताश्च विद्वांसः संन्यासिन एव। अज्ञानाम् असंन्यासिनां कर्मण्येवाधिकारादिति। ननु कर्मिणः प्रत्यपीयं चिन्ताऽनुचितैव। पूर्वमेव ‘कर्मयोगेन योगिना’मिति कर्मयोगस्य कर्मिविषयस्य विचारितत्वादिति चेत् , सत्यम् ; तथापि सर्वशास्त्रार्थोपसंहारप्रकरणत्वादस्याध्यायस्य पूर्वोक्त एवार्थः इहापि स्पष्टीक्रियत इति। नन्वेवं ज्ञानिनः प्रत्यपि चिन्तोचितैवेति शङ्कते—नन्विति। यदि ज्ञानिनः प्रत्यपि चिन्तोचिता स्यादिह तर्हि यज्ञदानतपःकर्म साङ्ख्यानामपि कार्यमेव भवेदिति संन्यासस्य समूलोच्छेदः पूर्वपक्ष्यभिमतः सिध्येदिति बोध्यम्। परिहरति—नेति। हेतुमाह—तेषामिति। ज्ञाननिष्ठानां संन्यासिनां सांख्यानां तेषां मोहदुःखनिमित्तकर्मत्यागस्यानुपपत्तेः। १. ‘कर्मिण एवाधिकृतास्तानपेक्ष्यैते’ इति पा.। २. ‘कर्माधिकारातपोद्धृताः’ इति रा.पा.भाति। ३. ‘सर्वशास्त्रोपसंहारप्रकरणे’ इति पा.। ४. ‘कायक्लेशनिमित्तानि दुःखानि’ इति पा.। ५. ‘किञ्चिदुच्यते’ इति पा.।

[[८४७]]

अनुपपत्तिमेव विवृणोति—न कायेति। साङ्ख्याः कायक्लेशनिमित्तं दुःखमात्मनि न पश्यन्ति। अतो दुःखनिमित्तत्यागो नोपपद्यते तेषाम्। कुतो न पश्यन्तीत्यत आह—इच्छादीनामिति। आदिपदात् सुखदुःखादिग्रहणम्। येनेति। कर्मणामात्मनि दर्शनेनेत्यर्थः। नियतमिति। नित्यमित्यर्थः। मोहाद् अज्ञानात्। ननु यदि साङ्ख्यानां मोहदुःखनिमित्तो न कर्मत्यागः, तर्हि किन्निमित्तः? अत आह— गुणानामिति। देहेन्द्रियाद्याकारपरिणतसत्त्वादिगुणानामेव कर्म, अहं तु किञ्चिदपि नैव करोमीति हि ते साङ्ख्याः संन्यस्यन्ति कर्माणि। ‘नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्वविद्’ इत्युक्तत्वादिति भावः। तस्मादिति। साङ्ख्यानां संन्यासिनां कर्माधिकाराभावादित्यर्थः। अन्ये साङ्ख्येभ्य इतरे। के ते? अत आह—अधिकृताः कर्मणीति। के ते अधिकृताः? अत आह—अनात्मविद इति। कायक्लेशभयाच्च त्यागः सम्भवतीत्यन्वयः। त एवेति। कर्मण्यधिकृता अज्ञा एवेत्यर्थः। त्यागिन इति। कर्म त्यक्तवन्त इत्यर्थात्। तामसा राजसाश्चेति तमोरजःप्रायस्वभावाः, न तु सात्त्विकाः। ते हि मोहाद् दुःखभयाद्वा कर्म न परित्यजन्ति, किन्तु कर्म कृत्वा तत्फलमेव परित्यजन्ति। वक्ष्यते चायमर्थ उत्तरत्र। निन्द्यन्त इति। कुतो निन्दनम्? अत आह—कर्मिणामिति। अनात्मज्ञानां कर्मिणां कर्मत्यागात् फलत्याग एवोचित इति फलत्यागस्तुत्यर्थं कर्मत्यागो निन्द्यत इत्यर्थः। नन्वात्मज्ञानां साङ्ख्यानां कर्मत्यागादनात्मज्ञानां कर्मिणां फलत्याग उत्कृष्ट इति कुतो नोच्यते? अत आह—सर्वारम्भेति। गुणातीतस्य सर्वोत्कृष्टत्वं सर्वसम्मतम्। गुणातीतश्च परमार्थसंन्यासी विद्वान् साङ्ख्यः। सर्वारम्भपरित्यागो हि सर्वकर्मसंन्यासो गुणाती- तस्य प्रधानं लक्षणम्। एवं सति आत्मज्ञसाङ्ख्य[कर्तृकसर्व]कर्मसंन्यासापेक्षया कथं फलत्यागस्योत्कृष्टत्वसिद्धिः? न कथमपीत्यर्थः। प्रत्युतात्मज्ञसाङ्ख्यकर्तृकसर्वकर्मसंन्यास एव सर्वोत्कृष्ट इति भावः। भाष्यार्कप्रकाशः पश्यन्ति, इच्छादीनां क्षेत्रधर्मत्वेनैव दर्शितत्वात्। अतस्ते न कायक्लेशदुःखभयात् कर्म परित्यजन्ति। नापि ते कर्माण्यात्मनि पश्यन्ति, येन नियतं कर्म मोहात् परित्यजेयुः। ‘गुणानां कर्म, नैव किञ्चित् करोमि’ इति हि ते संन्यस्यन्ति। ‘सर्वकर्माणि मनसा संन्यस्य’(भ.गी.५.१३) इत्यादिभिर्हि तत्त्वविदः संन्यासप्रकारः उक्तः। तस्माद् येऽन्ये अधिकृताः कर्मणि अनात्मविदः, येषां च १मोहात् त्यागः सम्भवति कायक्लेशभयाच्च, त एव तामसास्त्यागिनो राजसाश्चेति निन्द्यन्ते कर्मिणामनात्मज्ञानां कर्मफलत्यागस्तुत्यर्थम्। ‘सर्वारम्भपरित्यागी’(भ.गी.१२.१६) ‘मौनी विचार्यन्त इत्याह— न, तेषामिति। वस्तुसंग्रहवाक् यं विवृणोति— न कायक्लेशनिमित्तदुःखमित्यादिना। यदि दुःखभयाद् मोहाद्वा न सम्यग्दर्शिनां कर्मत्यागः, कथं तर्हि ते कर्माणि संन्यस्यन्नि[न्ती]त्याशङ्क्याह— गुणानां कर्मेति। इतश्च सम्यग्ज्ञा- निनां मुख्यसंन्यासिनां नेयं चिन्तेत्याह—सर्वारम्भपरित्यागीत्यादिना।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

नेत्याह— न कायेति। तत्र क्षेत्राध्यायोक्तं हेतूकरोति— इच्छादीनामिति। स्वात्मनि सांख्यादीनां क्लेशाद्यप्रतीतौ फलितमाह—अत इति। ननु तेषां क्लेशाद्यदर्शनेऽपि स्वात्मनि कर्माणि पश्यतां तत्त्यागो युक्तस्तेषां कायक्लेशादिकरत्वात् , नेत्याह—नापीति। अज्ञानां मोहमाहात्म्यान्नियतमपि कर्म त्यक्तुं शक् यं, न तत्त्वविदाम् , स्वात्मनि कर्मादर्शनेन तत्त्यागे हेत्वभावादिति मत्वाऽऽह— मोहादिति। कथं तर्हि तेषामात्मनि कर्माण्यपश्यतां प्राप्त्यभावे तत्त्यागः संन्यासः? तत्राह—गुणानामिति। अविवेकप्राप्तानां कर्मणां त्यागस्तत्त्वविदा- मित्युक्तं स्मारयन् अप्राप्तप्रतिषेधं प्रत्यादिशति—सर्वेति। तत्त्वविदामत्राविचार्यत्वे फलितमाह—तस्मादिति। येऽनात्मविदः त एवेत्युत्तरत्र सम्बन्धः। कर्मण्यधिकृतानामनात्मविदां कर्मत्यागसम्भावनां दर्शयति—येषां चेति। तन्निन्दा कुत्रोपयुक्तेत्याशङ्क्याह— कर्मिणामिति। किञ्च परमार्थसंन्यासिनां प्रशस्यत्वोपलम्भान्न निन्दाविषयत्वमित्याह—सर्वेति। किञ्चात्रापि ‘सिद्धिं प्राप्तो यथा’ इत्यादिना आनन्दगिरिकृतव्याख्या १. ‘मोहनिमित्तः’ इति पा.।

[[अ. १८. श्लो. ३]] [[८४८]]

सन्तुष्टो येन केनचित्। अनिकेतः स्थिरमतिः’ (भ.गी.१२.१९) इति गुणातीतलक्षणे च परमार्थसंन्यासिनो विशेषितत्वात्। वक्ष्यति च— १‘निष्ठा ज्ञानस्य या परा’ (भ.गी.१८.५०) इति। तस्माज्ज्ञाननिष्ठाः संन्यासिनो नेह विवक्षिताः। कर्मफलत्याग एव सात्त्विकत्वेन गुणेन तामसत्वाद्यपेक्षया संन्यासः उच्यते, न मुख्यः सर्वकर्मसंन्यासः। सर्वकर्मसंन्यासासम्भवे च ‘न हि देहभृता’ (भ.गी.१८.११) इति हेतुवचनान्मुख्य एवेति चेत्? न; हेतुवचनस्य स्तुत्यर्थत्वात्। यथा ‘त्यागाच्छान्तिरनन्तरम्’(भ.गी.१२.१२) इति कर्मफलत्यागस्तुतिरेव, यथोक्तानेकपक्षानुष्ठाना- संन्यास उच्यत इति। संन्यास इति स्तूयत इत्यर्थः। ‘यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते’ इति वाक् येनेति भावः। ननु कर्मफलत्याग एव मुख्यः संन्यासः, कर्मत्यागरूपसंन्यासस्तु अमुख्य एवेत्यत आह—नेति। सर्वकर्मफलत्यागो मुख्यः सर्वकर्म- संन्यासो न भवति। सर्वकर्मसंन्यास एव मुख्यः, फलत्यागस्त्वमुख्य एव, फलत्यागस्य संन्यासत्वं स्तुतिरेवेत्यर्थः। ननु ‘न हि देहभृता शक् यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते॥’ इति श्लोके यस्माद् देहधारिणा सर्वाणि कर्माणि त्यक्तुं न शक् यते, तस्मात् फलत्याग्येव संन्यासीत्युक्तत्वात् , मुख्यसंन्यासत्वेन त्वदभिमतस्य सर्वकर्मसंन्यासस्य [अ] सम्भवात् फलत्याग एव मुख्यः संन्यास इत्याक्षिपति— सर्वेति। परिहरति— नेति। हेतुमाह— हेत्विति। यो हि देहात्माभिमानी अज्ञः ‘कर्ताऽह’मिति निश्चितप्रत्ययस्तस्यैव सर्वकर्मसंन्यासासम्भवः, देहभृतेत्युक्तत्वात्। तस्य च फलत्याग एव संन्यास इति स्तूयते। यदि पुनरात्मविदोऽपि सर्वकर्मसंन्यासासम्भवस्तर्हि ‘सर्वारम्भपरित्यागी’त्यादिना पूर्वमुक्तः सर्वकर्मसंन्यासो निरालम्बनः स्यात्। तस्मा- दनात्मज्ञस्य फलत्याग एवोचित इति स्तुत्यर्थमेव ‘न हि देहभृते’ति हेतूपन्यासः, न त्वात्मज्ञस्य कर्मसंन्यासात् फलत्याग उचित इति कथनार्थः। अकर्तर्यविक्रिये आत्मनि विदुषां कर्मादर्शनात् कथमात्मज्ञस्य कर्माधिकारः, येन विहितं कर्म कृत्वा फलं परित्यजे- दात्मज्ञः। ‘न हि देहभृते’त्यस्य स्तुत्यर्थत्वे दृष्टान्तमाह—यथेति। न हि कर्मफलत्यागादनन्तरमेव शान्तिः संसारोपरमः स्यात् , ज्ञान- पूर्वकत्वाच्छान्तेः। ज्ञानादेव हि संसारनिवृत्तिः। तस्मात् ‘त्यागाच्छान्तिरनन्तर’मिति वचनं स्तुतिवचनमेवेति तद्भाष्य एव स्फुटम्। ननु स्तुत्यर्थं कुतः फलत्यागस्य वचनम्? अत आह—यथोक्तेति। असमर्थमज्ञमर्जुनमुद्दिश्य ‘अथैतदप्यशक्तोऽसी’ति ‘सर्वकर्म- ज्ञाननिष्ठाया वक्ष्यमाणत्वात् तद्वतां नेह विचार्यतेत्याह—वक्ष्यतीति। कर्माधिकृतानामेवात्र विवक्षितत्वं, न ज्ञाननिष्ठानामित्युपसंहरति— तस्मादिति। ननु संन्यासशब्देन सर्वकर्मसंन्यासस्य ग्राह्यत्वात् , तथाविधसंन्यासिनामिह विवक्षितत्वं प्रतिभाति, तत्राह—कर्मेति। संन्यास- शब्देन मुख्यस्यैव संन्यासस्य ग्रहणम् , गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययाद् , अन्यथा तदसम्भवे हेतूक्तिवैयर्थ्यादप्राप्तप्रतिषेधादिति शङ्कते— सर्वेति। नेदं हेतुवचनं सर्वकर्मसंन्यासासम्भवसाधकं, कर्मफलत्यागस्तुतिपरत्वादिति परिहरति—नेत्यादिना। एतदेव दृष्टान्तेन स्पष्टयति—यथेति। दृष्टान्तेऽपि यथाश्रुतार्थत्वं किं न स्यादित्याशङ्क्याह—यथोक्तेति। न हि फलत्यागादेव ज्ञानं विना मुक्तिर्युक्ता, मुक्ते- र्ज्ञानैकाधीनत्वसाधकश्रुतिस्मृतिविरोधाद् , ‘अद्वेष्टे’त्यादिना चानन्तरमेव ज्ञानसाधनविधानानर्थक् यात्। अतस्त्यागस्तुतिरेवात्र ग्राह्या

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

गार्हस्र्ह्ये सन्त्येव[सत्येव] यः संन्यासः स एवात्रोच्यते, न मुख्य इत्युक्तम्। तत्र मुख्यः संन्यास एव नास्तीत्या- शङ्कते— सर्वकर्मसंन्यासासम्भव इति। हेतुवचनस्य सर्वकर्मसंन्यासनिषेधे न तात्पर्यमित्याह— न, हेतुवचनस्येति। स्तुति- मात्रत्वं कस्मादित्याशङ्क्याह— यथोक्तेति। अनेके पक्षा ज्ञानध्यानादयः। तेषामनुष्ठाने शक्तिहीनं प्रति विधानादित्यर्थः॥३॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘ज्ञानस्य या परा निष्ठा ’ इति पा.।

[[८४९]]

शक्तिमन्तम् अर्जुनम् अज्ञं प्रति विधानात् ; तथेदमपि ‘न हि देहभृता शक् यम्’ (भ.गी.१८.११) इति कर्मफल- त्यागस्तुत्यर्थं वचनम्। न ‘सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन् न कारयन् आस्ते’(द्र.भ.गी.५.१२) इत्यस्य पक्षस्यापवादः केनचिद् दर्शयितुं शक् यः। तस्मात् कर्मण्यधिकृतान् प्रत्येवैष संन्यासत्यागविकल्पः। ये तु परमार्थ- दर्शिनः सांख्याः तेषां ज्ञाननिष्ठायामेव सर्वकर्मसंन्यासलक्षणायामधिकारः, नान्यत्रेति न ते विकल्पार्हाः। १तथोपपा- दितमस्माभिः—‘वेदाविनाशिनम्’ (भ.गी.२.२१) इत्यस्मिन् प्रदेशे, तृतीयादौ च॥३॥

तत्रैतेषु विकल्पभेदेषु निश्चयमिति। निश्चयं शृणु अवधारय मे मम वचनात् तत्र त्यागे त्यागसंन्यास- फलत्यागं कुरु’ इति विधानम् , तथा विदधतस्तव त्यागादनन्तरमेव शान्तिर्भवतीति प्रतिपादनं स्तुत्यर्थमेव, न तु तत्त्वार्थमिति भावः। ननु ‘त्यागाच्छान्तिरनन्तर’मिति वचनमपि न स्तुत्यर्थं, भगवतोक्तत्वात् , ततश्च कर्मफलत्याग एव सर्वाधिक इति शङ्कायामाह— नेति। अस्य पक्षस्यापवादः केनचिदपि दर्शयितुं न शक् य इत्यन्वयः। अस्य पक्षस्येति। सर्वकर्मसंन्यासस्येत्यर्थः। अपवादो बाधः। भगवतैव सर्वकर्मसंन्यासस्य मुख्यस्य प्रतिपादितत्वात् कथं तेनैव फलत्यागरूपसंन्यास एव मुख्य इति पुनः प्रतिपाद्येत? एवं व्याहतवादिनो भगवतो वाक् यं किं वा कथं वा प्रमाणं स्यात्? न चैवं सर्वकर्मसंन्यास एव तत्र तत्र स्तुत इत्युच्यतामिति वाच्यम् ; आत्मनि कर्माद्यभावेनात्मविदामकर्त्रात्मदर्शिनां कर्माधिकारस्य दुःसम्पादत्वादात्मज्ञानादपि फलत्याग एवोचित इति प्राप्तत्वाच्च। तस्मादिति। विदुषां सर्वकर्मसंन्यासस्य मुख्यत्वादित्यर्थः। अविदुषां फलत्यागस्य स्तुत्यर्थं संन्यासत्वेनोक्तत्वादिति वा। विदुषां मुख्यस्य सर्वकर्मसंन्यासस्य केनचिदपि प्रत्याख्यातुमशक् यत्वादिति वा। संन्यासत्यागविकल्प इति। ‘त्याज्यं दोषव’दिति पूर्वार्धोक्तः संन्यासः, ‘यज्ञदाने’त्युत्तरार्धोक्तस्तु त्याग इति विवेकः। तयोर्विकल्पः एके इति, अपरे इति च शब्दाभ्यां दर्शित इति बोध्यम्। किमनात्मज्ञैः कर्मण्यधिकृतैः कर्मसंन्यासः कार्यः, उत फलत्याग इति विकल्प इति यावत्। न ते साङ्ख्या विकल्पार्हाः, किमात्मज्ञैः साङ्ख्यैः कर्मसंन्यासः कार्य उत फलत्याग इति विकल्पो न सम्भवतीत्यर्थः। तेषां कर्माधिकाराभावादिति भावः। तच्चेति। साङ्ख्यानां कर्माधिकारराहित्यमित्यर्थः। तृतीयादाविति। ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते॥’, ‘सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन् न कारयन्॥’, ‘सर्वारम्भपरित्यागी गुणातीतः स उच्यते’ इत्यादिस्थलेष्वित्यर्थः॥३॥

निश्चयमिति। यदि केचिदज्ञानां कर्मत्याग उचित इति ब्रुवन्ति, परे फलत्याग उचित इति, तर्हि तत्र कः पक्षस्तवेश्वरस्याभि- मत इत्यत आह—निश्चयमिति। एतेष्विति। उक्तानुक्तसर्वविकल्पापेक्षया बहुत्वम्। किमज्ञानां नित्यकर्मत्यागः श्रेयान्? उत नैमित्तिक- त्यागः? यद्वा काम्यत्यागः? आहोस्वित् सर्वकर्मत्यागः? यद्वा सर्वकर्मफलत्यागः? इत्यादयो विकल्पा ऊह्याः। सर्वेऽप्यमी विकल्पा इत्यर्थः। दृष्टान्तगतमर्थं दार्ष्टान्तिके योजयति—तथेति। प्रागुक्तपक्षापवादविवक्षया हेतूक्तेर्मुख्यार्थत्वमेव किं न स्यादित्याशङ्क्य तदपवादे हेत्वभावान्मैवमित्याह—न, सर्वेति। न चेयमेव हेतूक्तिस्तदपवादिका, अन्यथासिद्धेरुक्तत्वादिति भावः। मुख्यसंन्यासापवादासम्भवे संन्यासत्यागविकल्पस्य कथं सावकाशतेत्याशङ्क्याह—तस्मादिति। ज्ञाननिष्ठान् प्रत्युक्तविकल्पानुपपत्तौ कुत्र तेषामधिकारः? तत्राह— ये त्विति।संन्यासिनां विकल्पानर्हत्वेन ज्ञाननिष्ठायामेवाधिकारस्य भूयस्सु प्रदेशेषु साधितत्वान्न साधनीयत्वापेक्षेत्याह—तथेति॥३॥

कर्माधिकृतान् प्रत्येवोक्तविकल्पप्रवृत्तावपि कुतो निर्धारणसिद्धिः? तत्राह—तत्रेति। तमेव निश्चयं दर्शयितुमादौ त्यागगतमवा- न्तरविभागमाह—त्यागो हीति। ननु त्यागसंन्यासयोरुभयोरपि प्रकृतत्वाविशेषे त्यागस्यैवावान्तरविभागाभिधाने संन्यासस्योपेक्षितत्वम्

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘तच्चोपपादितम्’ इति पा.। निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ! । अ. १८. श्लो. ३ - ४ ]

[[८५०]]

विकल्पे यथादर्शिते, भरतसत्तम! भरतानां साधुतम ! । त्यागो हि । त्यागसंन्यासशब्दवाच्यो हि योऽर्थः स एक एवेत्यभिप्रेत्याह— त्यागो हीति। पुरुषव्याघ्र ! त्रिविधः त्रिप्रकारस्तामसादिप्रकारैः, सम्प्रकीर्तितः शास्त्रेषु सम्यक् कथितः। यस्मात् तामसादिभेदेन त्यागसंन्यासशब्दवाच्योऽर्थः अधिकृतस्य कर्मिणोऽनात्मज्ञस्य त्रिविधः सम्भवति, न परमार्थदर्शिनः इत्ययमर्थो दुर्ज्ञानः, तस्मादत्र तत्त्वं नान्यो वक्तुं समर्थः। तस्माद् निश्चयं परमार्थशास्त्रार्थविषय- मध्यवसायम् ऐश्वरं मे मत्तः शृणु१॥४॥

दर्शितकर्मत्यागफलत्यागरूपविकल्पद्वय एवान्तर्भवन्तीति बोध्यम्। यद्वा तत्रेति त्यागविशेषणम्तस्मिन् त्याग इति। त्यागशब्दस्य च त्यागसंन्यासविकल्पोऽर्थः, तस्यैव प्रकृतत्वात्। परित्यागमात्रांशसाम्यादुभयोरपि त्यागशब्देन निर्देशः। तत्रशब्दार्थमाह—यथा- दर्शित इति। पूर्वश्लोकेनोक्त इत्यर्थः। विकल्पेन कर्मविषयः फलविषयश्च यस्त्यागः पूर्वश्लोकेन दर्शितस्तस्मिंस्त्यागे विषय इति यावत्। हि यस्मात् त्यागस्त्रिविधः सम्प्रकीर्तितः, तस्मात् तत्र त्यागे निश्चयं मे मम वाक् याच्छृणु जानीहि। तामसादिप्रकारैरिति। वक्ष्यमाण- तामसराजससात्त्विकप्रकारैरित्यर्थः। परित्यागमात्रार्थकस्त्यागस्त्रिविधः तामसो राजसः सात्त्विकश्चेत्यर्थः। तिस्रो विधाः प्रकारा यस्य स त्रिविधः। क्व प्रकीर्तितः? अत आह—शास्त्रेष्विति। यस्मादयमर्थो दुर्विज्ञानस्तस्मादत्र तत्त्वं नान्यो मत्तो वक्तुं समर्थ इत्यन्वयः। त्यागसंन्यासशब्दवाच्योऽर्थ इति। परित्यागरूप इत्यर्थः। नेति। परमार्थदर्शिनः कर्मसंन्यास एव मुख्येऽधिकारान्न तस्य तामसादिभेदभिन्नत्रिविधत्यागविषयत्वमिति भावः। अत्रेति। अज्ञकर्मिविषयत्याग इत्यर्थः। तत्त्वं याथार्थ्यम्। अन्य इति। मत्तः सर्वेश्वरादपर इत्यर्थः। न समर्थ इति। असर्वज्ञत्वादिति भावः। तस्मादिति। ममैव त्यागतत्त्वकथनसमर्थत्वादित्यर्थः। परमार्थशास्त्रं मोक्षशास्त्रं, तदर्थस्त्यागसंन्यासादिः, तद्विषयं तद्गोचरम् , ऐश्वरमीश्वरस्य ममेदमैश्वरं मदीयं निश्चयं मत्त एव सकाशाच्छृणु। निश्चय- शब्दार्थमाह—अध्यवसायमिति। अयं भावः—केचित् कर्मत्यागं श्रेयांसमज्ञस्य वदन्ति, केचित् फलत्यागमिति, तदुभयं श्रुत्वा मुमुक्षोरज्ञस्य शङ्का जायते— किमत्र प्रमाणमिति। न च शास्त्रात् तन्निर्णेतुं स शक्नोति, द्विविधशास्त्रदर्शनात् , तदुभयबलाबलनिर्णयाय तस्याशक् यत्वात्[शक्तत्वात्]। ततश्च स मन्यते शास्त्रकर्तुरीश्वरस्य यः पक्षोऽभिप्रेतः स समीचीन इति। तं चेश्वराभिमतं पक्षं वेत्तुं न कश्चिच्छक्नोति, परहृदयस्या- प्रत्यक्षत्वात्। एवं सति – इदमीश्वराभिमतं मतम् इतीश्वर एव साक्षाद् ब्रूयान्न कोऽपि ततोऽन्यः – इति स निश्चिनोति। स चाज्ञो मन्द- भाग्यत्वात्[भाग्य इति] तस्य नेश्वरप्रत्यक्षं सम्भवति। ततः स पक्षद्वये कः श्रेयानित्यधुनाऽपि सन्देग्ध्येव। त्वं तु महाभाग्य इति तवाह- मीश्वरः प्रत्यक्षतयाऽवस्थितः सन् ब्रवीमि— ममायं निश्चितः पक्ष इति। ततस्त्वं मत्त इमं निश्चयं श्रुत्वा, अज्ञस्य कर्मत्यागफल- त्यागयोः श्रेयांसमन्यतरं पक्षं निश्चयेन जानीहीति। यत्तु रामानुजः—त्यागस्त्रिविधः कर्मविषयः, फलविषयः, कर्तृत्वविषयश्चेति। ममेदं कर्मेति कर्मणि ममतायास्त्यागः कर्म- त्यागः; मम फलं न स्यादिति फलत्यागः; ईश्वर एव कर्ता, न त्वहमिति कर्तृत्वत्यागः। स च पूर्वमेवोक्तः ‘मयि सर्वाणि कर्माणि आपद्येत, नेत्याह—त्यागेति। सात्त्विको राजसस्तामसश्चेति उक्तेऽर्थे त्रैविध्येऽपि स्वयमेव निश्चयसम्भवात् किमत्र भागवतेन निश्चयेने- त्याशङ्क्याह—यस्मादिति। भगवतो२ऽन्यस्योक्तविभागे तत्त्वानिश्चयाद् भागवतनिश्चयस्य श्रोतव्यतेति निगमयति—तस्मादिति॥४॥

१. ‘कर्म त्याज्यमित्येके, न त्याज्यमित्यपरे’ इति विप्रतिपत्तिमुपन्यस्य ‘निश्चयं शृणु’ इति निर्णयोऽत्र भगवता प्रदर्श्यत इति स्पष्टं प्रतीयते। विप्रतिपत्तिश्च विषयै- क्यमपेक्षत इति कर्माधिकृतविषयकत्वं तस्याः भाष्यकारैरुक्तम्। अन्यथा कर्मतत्त्यागयोरधिकारिभेदस्य शास्त्रसिद्धत्वात् विप्रतिपत्त्यनुपपत्तेः। एवं च प्रकरणस्य अस्य सर्वविषयकत्वं, पूर्वोत्तरार्धोक्तपक्षयोरविरोधः, तदर्थं संन्यासिनामपि कथंचिद्यज्ञादिसत्तासंपादनमित्यादि माध्वोक्तमनादरणीयम्। २. ‘अन्येन’ इति पा.।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

त्यागो हि पुरुषव्याघ्र ! त्रिविधः संप्रकीर्तितः॥४॥

[[८५१]]

संन्यस्याध्यात्मचेतसा। निराशीर्निममो भूत्वा युध्यस्व विगतज्वरः॥’ इति। तन्मन्दम् ; उदाहृतश्लोके त्यागस्त्रिविध इत्यर्थस्यानुक्त- त्वात्। न च कण्ठोक्तत्वाभावेऽप्यर्थात् तत्सिद्धिरिति वाच्यम् ; ‘यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः। समः सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते॥’ इति श्लोकेन असन्तोषत्यागद्वन्द्वत्यागमात्सर्यत्यागसिद्ध्यसिद्धिप्रयुक्तहर्षविषादत्यागानामप्यर्थादुक्तत्वेन त्रिविधस्त्यागः सम्प्रकीर्तित इति नियन्तुमशक् यत्वात्। एवं ‘यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः’ ‘नित्यतृप्तो निराश्रयः’ इत्यनेन च कामत्यागसङ्कल्पत्यागाश्रयत्यागानामप्यर्थसिद्धत्वात्। तथा ‘छित्त्वैनं संशयं योगमातिष्ठे’त्यनेन संशयत्यागस्याप्यर्थतः सिद्धत्वात्। तदेवं बहूनां त्यागानां पूर्वं सम्प्रकीर्तितत्वात् कुतस्त्यागस्त्रिविधः सम्प्रकीर्तित इत्युच्यते? तस्माद् ‘मयि संन्यस्ये’त्यादयः श्लोकाः कर्मयोगमेव तैस्तैर्विशिंषन्ति विशेषणैः, न तु त्यागभेदान् प्रदर्शयन्ति। मयि कर्माणि संन्यस्य निराशीर्निर्ममश्च भूत्वा युध्यस्वेति कर्म- योगधर्मसमुच्चयदर्शनात्। किञ्च त्यागस्य कामसङ्कल्पममत्वादिविषयभेदाद् बहुविधत्वं पूर्वमुक्तमित्यवगम्यते, न तु स्वरूपतो भेदः। तथा सत्येकेन त्यागभेदेन युक्ते कर्मणि द्वितीयस्य त्यागभेदस्यानवकाशप्रसङ्गात्। रूपं द्विविधम्—उद्भूतरूपमनुद्भूतरूपं चेत्युक्ते, न हि उद्भूतरूपवति वस्तुन्यनुद्भूतरूपप्रसङ्गः। स्पर्शो द्विविधः—शीतोष्णभेदादित्युक्ते, नापि शीतस्पर्शवति वस्तुन्युष्णस्पर्शप्रसङ्गः। अत्र तु त्यागस्त्रिविध इति स्वरूपतो भेद इव [एव] कण्ठोक्तः, रूपं द्विविधमित्यादिवत्। ते च भेदा वक्ष्यन्ते— तामसो राजसः सात्त्विकश्चेति। न हि तामस- त्यागवति पुरुषे राजससात्त्विकत्यागयोः प्रसङ्गः। एवं राजसत्यागवति तामससात्त्विकत्यागयोर्नैव प्रसङ्गः। तथा सात्त्विकत्यागवति न राजसतामसयोः प्रसङ्गः। अत एव त्यागस्य त्रैविध्यकथनम्। यदि त्वेकस्मिन्नेव पुरुषे युगपदेव त्यागत्रयं स्यात् तर्हि त्याग एकविध एव स्याद् , भेदप्रमाणानुपपत्तेः। त्यागभेदानां परस्परसामानाधिकरण्याभावो हि त्यागभेदे प्रमाणम् (प्रयोजकम्)। आशीस्त्यागममता- त्यागादीनां तु सामानाधिकरण्यमस्ति। अतो विषयभेदाद् भिन्न इव प्रतीयमानोऽपि स त्याग एकविध एव। अत्रोक्त एव त्यागस्त्रिविधः, स्वरूपभेदसद्भावात्। न हि सात्त्विकादित्यागभेदानां परस्परसाङ्कर्यं परस्परसामानाधिकरण्यं वा विद्यते। कण्ठोक्तश्चायमेवेति तुच्छमेव रामानुजव्याख्यानम्। किञ्च ईश्वर एव कर्ता, नाहं कर्तेत्यनुसन्धानं चायुक्तम् , ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥’ इति गुणेष्वेव कर्तृत्वारोपो न त्वीश्वरे, नाप्यात्मनि, अविक्रियत्वादीश्वरस्यात्माभिन्नत्वाच्चेति। यदीश्वरे कर्तृत्वम् आरोपितं स्यात् , तदात्मन्येव फलति१, बिम्बे मुखे आरोपितस्तिलकः २प्रतिबिम्बमुखवत्। तस्मान्नैवेश्वरे कर्तृत्वमारोपितव्यम्३, किन्तु गुणेष्वेव। न च ‘मयि सर्वाणि कर्माणि संन्यस्ये’ति वचनस्य का गतिरिति वाच्यम् ; ‘ईश्वरार्थमहं कर्म करोमि, स्वाम्यर्थं भृत्य इवे’त्यनुसन्धानस्यैवेश्वरे कर्मसमर्पणरूपत्वादिति। न च गुणेष्वेव कर्तृत्वमारोपितव्यमिति स्थिते कथम् ‘अहं करोमी’त्यनुसन्धानमिति वाच्यम् ; कर्माधिकृतानात्मविद्विषयत्वादेतद्वचनस्य। तत्त्वविद्धि गुणा एव कर्तारः, न त्वहमिति मन्यते। तस्माद् ‘ईश्वर एव कर्ता’ इत्यनुसन्धानमतिमूढविषयमेवेति सङ्क्षेपः॥४॥

यज्ञेति। मनीषिणां यज्ञदानतपःकर्म न त्याज्यम् , प्रत्युत तत् कार्यमेव। मनीषिणां यज्ञो दानं तपश्चेत्येतानि पावनान्येव। ननु अज्ञविषयमिदं प्रकरणमिति प्रागुक्तं कथं सङ्गच्छेत, मनीषिणामिति पदस्य सत्त्वात् , मनीषिणो हि विद्वांसः? अत आह—फलानभि- १. जीवस्य ईश्वरप्रतिबिम्बरूपत्वादिति भावः। २. प्रतिबिम्बमुखे इवेति सप्तम्यन्ताद् वतिः। ३. ‘आरोपयितव्यम्’ इति पठितुं युक्तम्। भाष्यार्कप्रकाशः तमेव भगवतो निश्चयं विशेषतो निर्धारयितुं प्रश्नपूर्वकमनन्तरश्लोकप्रवृत्तिं दर्शयति—कः पुनरिति। यज्ञादीनां कर्तव्यत्वे कः पुनरसौ निश्चयः इत्याह— यज्ञेति। यज्ञो दानं तप इत्येतत् त्रिविधं कर्म न त्याज्यं न त्यक्तव्यम् , कार्यं यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्। आनन्दगिरिकृतव्याख्या अ. १८. श्लो. ४ - ५ ]

[[८५२]]

करणीयमेव तत्। कस्मात्? यज्ञो दानं तपश्चैव पावनानि १विशुद्धिकराणि मनीषिणां फलानभिसन्धीनाम् इत्येतत्॥५॥

एतान्यपीति। एतान्यपि तु कर्माणि यज्ञदानतपांसि पावनान्युक्तानि सङ्गम् आसक्तिं तेषु त्यक्त्वा, फलानि च तेषां त्यक्त्वा परित्यज्य कर्तव्यानि अनुष्ठेयानीति मे मम निश्चितं मतमुत्तमम्। ‘निश्चयं शृणु मे तत्र’ इति प्रतिज्ञाय, पावनत्वं च २हेतुमुक्त्वा, ‘एतान्यपि कर्माणि कर्तव्यानीत्येतन्निश्चितं मत- मुत्तम’मिति प्रतिज्ञातार्थोपसंहार एव, ३नापूर्वार्थं वचनम् , एतान्यपीति प्रकृतसंनिकृष्टार्थत्वोपपत्तेः। ४सासङ्गस्य सन्धीनामिति। कर्मण्यधिकृतेष्वज्ञेषु मध्ये फलानभिसन्धयो विद्वांसः, फलाभिसन्धयस्तु तदपेक्षया मूढाः। यथा वैदिकेषु वेदार्थविदः प्राज्ञाः, केवलवेदपाठरता मूढाः। यथा वा द्विजेषु वेदपाठरताः प्राज्ञाः, सन्ध्यावन्दनमात्रविदो मूढाः। यथा वा विद्यार्थिषु शास्त्राध्या- यिनः प्राज्ञाः, काव्याध्यायिनो मूढाः। यथा वा बालेषु पदवाक् यपाठकाः प्राज्ञाः, अकाराद्यक्षराभ्यासिनो मूढाः, तद्वदिति भावः। तस्मा- दनात्मविदः कर्मण्यधिकृतास्तत्फलाभिसन्धिराहित्येन मनीषिणः इतीहोच्यन्ते स्तुत्यर्थमिति बोध्यम्। विशुद्धिः चित्तशुद्धिः। अनेन च पावनानीति वचनेन चित्तशुद्धिपर्यन्तमेव कर्मण्यधिकृतैरपि कर्म कार्यम् , पश्चात्तु संन्यासः स्वीकर्तव्य एवाश्रमविशेषः तत्त्वज्ञानार्थक- श्रवणाद्यर्थः ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रात्। न हि ज्ञानं विना मुक्तिः। कर्माणि चित्तशुद्धिफलकान्येव ह्यनभिसंहितफलानि। कर्मभिश्चित्ते शुद्धे सति विविदिषा जायते। ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने’ति श्रुतेः। जातायां च विविदिषायां तद्वेदनार्थं गृहादिकं परित्यज्य तत्त्ववित्सकाशं यात्येवेति सिद्धः संन्यासो मुमुक्षोः। विविदिषाजनकानां तु कर्मणां विविदिषाजननान्तरं नोपयोगः, जलदर्शनानन्तरं खनित्रस्येव। एवं सति – आ प्रायणादहरहः कर्म कार्यं मुमुक्षुभिरिति वर्णयतो रामानुजस्याहो पाण्डित्यम् ! आ प्रायणादिति मूलाद् बहिः पदकल्पनात्। ‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’ ‘व्युत्थायाथ भिक्षाचर्यं चरन्ति’ ‘ब्राह्मणो निर्वेदमायात्’ ‘शान्तो दान्त उपरतः’ इत्यादिश्रुतिसिद्धस्य, ‘सर्वारम्भपरित्यागी’त्यादिप्रकृतगीतासिद्धस्य च सर्वकर्मसंन्यासस्य विद्वद्विषयस्य प्रत्याख्यानाच्च॥५॥

एतानीति। हे पार्थ ! एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च त्यक्त्वा कर्तव्यानीति मे निश्चितमुत्तमं मतम्। क्व सङ्गम्? अत आह—तेष्विति। यज्ञादिष्वित्यर्थः। हेतुमिति। यज्ञादीनां कर्तव्यत्वे हेतुमित्यर्थः। अपूर्वार्थवचनमिति। यज्ञादिभ्योऽन्यान्यपि कर्माणि कर्तव्यानीत्येवंरूपापूर्वार्थ- वचनं न भवतीत्यर्थः। कुतो नापूर्वार्थवचनम्? अत आह—एतान्यपीति। एतच्छब्दो हि प्रकृतसंनिहितार्थवाची। ननु एतान्यपीत्यपि- शब्दात् पूर्वोक्तकर्मभ्योऽन्यान्यप्येतानि कर्तव्यानीत्येवार्थः, अत आह—ससङ्गस्येति। ससङ्गस्य फलार्थिनो बन्धहेतून्यप्येतानि पूर्वोक्त- हेतुमाह—यज्ञ इति। न केवलमत्याज्यम् , किन्तु कर्तव्यमेवेत्याह—कार्यमिति। ५प्रतिज्ञातमेवं विभज्य हेतुं विभजते—कस्मादिति॥५॥

प्रतिज्ञातमर्थमुपसंहरति—एतान्यपीति। उपसंहारश्लोकाक्षराणि व्याकरोति—एतानीत्यादिना। अक्षरार्थमुक्त्वा ६तात्पर्यार्थमाह— निश्चयमिति। प्रकृतार्थोपसंहारे गमकमाह—एतान्यपीति। अपिशब्दस्य विवक्षितमर्थं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम्॥५॥

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ ! निश्चितं मतमुत्तमम्॥६॥

१.‘विशुद्धिकारणानि’ इति पा.। २.‘सहेतुकमुक्त्वा’ इति पा.। ३.‘नापूर्वार्थवचनम्’ रा.पा.। ४.‘ससङ्गस्य’रा.पा.। ५.‘प्रतिज्ञामेवं’ इति पा.। ६.‘तात्पर्यमाह’ इति।

[[८५३]]

कर्माणि मुमुक्षोरज्ञस्य कर्मण्यधिकृतस्य कर्तव्यानीत्यपिशब्दार्थः, न तु समुच्चयार्थोऽपिशब्दोऽत्रेत्याह—न त्विति। एतानि पूर्वोक्त- कर्माणि कर्तव्यानि, अपिशब्दादन्यान्यपि कर्तव्यानीति नार्थ इति भावः। एतेन सङ्गं त्यक्त्वा फलं त्यक्त्वा च कृतान्येव यज्ञदानतपांसि पावनानि, न तु सकामानीति सिद्धम्। अत एव ‘मनीषिणां फला- नभिसन्धीना’मिति भाष्यकारैरुक्तम्। यदुक्तं ‘नापूर्वार्थवचन’मिति, तत्र कैः कथमिहापूर्वार्थो वर्णित इति शङ्कायां तन्मतमुपन्यस्य दूषयति—अन्ये त्विति। अत इति। नित्यकर्मणां यज्ञादीनां फलत्यागकथनस्यायुक्तत्वादित्यर्थः। एतान्यपीति। तान्येतान्यपीत्यर्थः। काम्यान्यपि कर्माणि फलं त्यक्त्वा कर्तव्यानीति ‘एतानि कर्माणि कर्तव्यानी’त्यस्यार्थः। अपिशब्दार्थमाह—किमुतेति। यज्ञदानतपांसि कर्तव्यानीति किं पुनर्वक्तव्यमित्यर्थः। उपपादितत्वादिति। केन वचनेनेत्यत आह—यज्ञ इति। पावनत्वफलस्योक्तत्वादिति भावः। ‘अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फल’मित्यनेन वक्ष्यते चेति बोध्यम्। जिहासोः हातुं त्यक्तुमिच्छोर्जिहासोः। कुतो न प्रसङ्गः? अत आह—दूरेणेति। ‘दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जये’ति श्लोकेनेति भावः। ननु नित्यकर्मस्वेवास्य बन्धहेतुत्वशङ्का, न तु काम्यकर्मसु इत्यत आह—यज्ञार्थादिति। ‘यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः’ इति श्लोक ईश्वरार्थं कर्मैवाबन्धकम् , काम्यं कर्म तु बन्धकमेवेति निश्चयेनोक्तत्वादिति भावः। एवं काम्यकर्मणां बन्धकत्वादेव ‘त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुने’त्युक्तमित्याह— त्रैगुण्येति। काम्यकर्मणां यज्ञादीनां स्वर्गादिफलप्रदानद्वारा जन्ममरणादिसंसारहेतुत्वं च स्फुटमुक्तमित्याह—त्रैविद्या इति। ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते’ ‘ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ती’ति। ननु काम्यानां कर्मणामिति प्रकृतत्वात् तत्परामर्श एतच्छब्दस्योचित इत्यत आह— दूरेति। अत्यन्तं व्यवहितत्वादित्यर्थः। अव्यवहितयज्ञादित्यागे दर्शयति— सासङ्गस्येति। व्यावर्त्यं कीर्तयति— न त्विति। एतान्यपीत्यादिवाक् यं न नित्यकर्मविषयमिति मतमुपन्यस्यति—अन्य इति। न चेदिदं नित्यकर्मविषयम् , किंविषयं तर्हि? इत्याशङ्क्य वाक्यमवतार्य व्याकरोति—एतानीत्यादिना। नित्यानामफलत्वमुपेत्य यच्चोद्यम् , तदयुक्तमिति दूषयति— तदसदिति। यत्तु काम्यान्यपि कर्तव्यानीति, तन्निरस्यति—नित्यान्यपीति। किञ्च काम्यानां भगवता निन्दितत्वान्न तेषु मुमुक्षोरनुष्ठानमित्याह—दूरेणेति। किञ्च मुमुक्षोरपेक्षितमोक्षापेक्षया विरुद्धफलत्वात् काम्यकर्मणां, न तेषु तस्यानुष्ठानमित्याह—यज्ञार्थादिति। काम्यानां बन्धहेतुत्वं निश्चित- मित्यत्रैव पूर्वोत्तरवाक् यानुकूल्यं दर्शयति—त्रैगुण्येति। किञ्च पूर्वश्लोके यज्ञादिनित्यकर्मणां प्रकृतत्वाद् , एतच्छब्देन सन्निहितवाचिना परामर्शात् , काम्यकर्मणां च ‘काम्यानां कर्मणाम्’ इति व्यवहितानां सन्निहितपरामर्शकैतच्छब्दाविषयत्वान्न काम्यकर्माणि एतान्यपीति व्यपदेशमर्हन्तीत्याह—दूरेति॥६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

फलार्थिनो बन्धहेतवः एतान्यपि कर्माणि मुमुक्षोः कर्तव्यानीत्यपिशब्दस्यार्थः, न त्वन्यानि कर्माण्यपेक्ष्य ‘एतान्यपि’ इत्युच्यते। अन्ये तु वर्णयन्ति— नित्यानां कर्मणां फलाभावात् ‘सङ्गं त्यक्त्वा फलानि चे’ति नोपपद्यते। अतः ‘एतान्यपि’ इति यानि काम्यानि कर्माणि नित्येभ्योऽन्यानि एतान्यपि कर्तव्यानि, किमुत यज्ञदानतपांसि नित्यानीति। तदसत् ; नित्यानामपि कर्मणाम् इह फलवत्त्वस्योपपादितत्वाद् ‘यज्ञो दानं तपश्चैव पावनानि’ इत्यादिना वचनेन। नित्यान्यपि कर्माणि बन्धहेतुत्वाशङ्कया जिहासोर्मुमुक्षोः कुतः काम्येषु प्रसङ्गः? ‘दूरेण ह्यवरं कर्म’ (भ.गी.२.४९) इति च निन्दि- तत्वात् , ‘यज्ञार्थात् कर्मणोऽन्यत्र’ (भ.गी.३.९) इति च काम्यकर्मणां बन्धहेतुत्वस्य निश्चितत्वात्। ‘त्रैगुण्यविषया वेदाः’(भ.गी.२.४५) ‘त्रैविद्या मां सोमपाः’(भ.गी.९.२०), ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’(भ.गी. ९.२१) इति च। दूरव्यवहितत्वाच्च न काम्येषु ‘एतान्यपी’ति व्यपदेशः॥६॥

अ. १८. श्लो. ५ - ६ ]

[[८५४]]

तस्मादज्ञस्याधिकृतस्य मुमुक्षोः— नियतस्येति। नियतस्य तु नित्यस्य संन्यासः परित्यागः कर्मणो नोप- पद्यते, अज्ञस्य पावनत्वस्येष्टत्वात्। मोहाद् अज्ञानात् तस्य नियतस्य परित्यागः – नियतं चावश्यं कर्तव्यम् , त्यज्यते कारणाभावाद् , दूरव्यवहितकाम्यपरामर्शे प्रमाणाभावाच्चेति भावः। तस्मात् काम्येषु एतान्यपीति न व्यपदेशः। एतान्यपीत्यनेन काम्यानि नोच्यन्त इत्यर्थः। तस्माद् एतान्यपि यज्ञादिकर्माणि कर्तव्यानीत्येवार्थः। तुशब्दस्तु विशेषार्थः। फलाभिसन्धिरहितान्येव यज्ञादीनि कर्तव्यानि, न तु तत्सहितानीत्ययं विशेषः तुशब्देनोच्यते। बन्धकान्यपि कर्तव्यान्येवेति अपिशब्दार्थ इत्याचार्यैरेव दर्शितम्। एतेन ‘यज्ञदानतपःकर्म न त्याज्यमिति चापरे’ इत्युक्तकर्मफलत्यागपक्ष एव श्रीकृष्णाभिमत इति सिद्धम्॥६॥

नियतस्येति। अथ ‘त्रिविधः सम्प्रकीर्तितः’ इत्युक्तत्यागत्रैविध्यं दर्शयन् ‘त्याज्यं दोषवदि’ति कर्मसंन्यासपक्षं दूषयति— नियतस्येति। नियतस्य कर्मणः संन्यासस्तु नोपपद्यते। कस्य नियतं कर्मेत्यत आह—अज्ञस्येति। अज्ञोऽपि यः कर्मण्यनधिकृतः शूद्रादिः, यश्च द्विजोऽपि यमाद्यर्थं संन्यस्तवान् न तस्य नियतमित्याह— अधिकृतस्येति। कथमधिकृतोऽज्ञः कर्म नियतं त्यक्तु- मिच्छतीत्याह— मुमुक्षोरिति। कर्मणो बन्धकत्वधिया बन्धान्मुमुक्षुः नियतं कर्म परित्यजेदज्ञानादिति भावः। यस्मात् फलाभिसन्धि- रहितं यज्ञादिकर्म पावनत्वात् कार्यमज्ञस्य तस्मादिति तस्माच्छब्दार्थः। नित्यस्येति नैमित्तिकस्याप्युपलक्षणम्। यज्ञादीनि नित्यकर्माणि ब्राह्मणस्य देवयज्ञपितृयज्ञभूतयज्ञमनुष्ययज्ञब्रह्मयज्ञाख्यपञ्चयज्ञानाम् अहरहः कर्तव्यत्वात्। ‘वसन्ते वसन्ते ज्योतिषा यजेते’ति ज्योतिष्टोमस्तु नैमित्तिकः। इज्याध्ययनदानानि त्रीणि ब्राह्मणस्य स्वधर्मतया विहितानीति दानं च नित्यकर्मैव। अध्ययनं ब्रह्मयज्ञो यज्ञेष्वन्तर्भूतम्। इज्या देवपूजा वैश्वदेवादिर्यज्ञत्वेन प्रसिद्धैव। तपः एकादश्युपवासादिः। तच्च नियतमेव, तदकरणे प्रत्यवायदर्शनात्। ‘एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि’ इत्यादिधर्मशास्त्रात्। एवं नित्यस्य यज्ञादिरूपस्य कर्मणः परित्यागो मुमुक्षोर्नोपपद्यते, परित्यागे प्रत्यवायसम्भवात् , करणे च पावनत्वरूपफल- सम्भवात्। ननु फलानभिसन्धीनां किं पावनत्वफलेनेत्यत आह— तस्येति। मुमुक्षोर्हि मोक्षफले तावदिच्छाऽस्तीति मोक्षफलमिष्टम्। तदर्थं ज्ञानं चेष्टम् , ज्ञानं विना मोक्षासम्भवात्। ज्ञानार्थं च चित्तशुद्धिलक्षणं पावनत्वमिष्टम्। पावनत्वार्थं च पावनं नित्यकर्मेष्टमिति पावनस्य नित्यकर्मणो मुमुक्षोरिष्टत्वादित्यर्थः। न चैवं कथं फलाभिसन्धिराहित्यमिति वाच्यम् ; स्वर्गादितत्तन्नियतफलाभिसन्धि- राहित्यस्यैव विवक्षितत्वात्। स्वर्गादिफलं हि बन्धकत्वादनपेक्षितव्यम्। पावनत्वादिकं तु मोचकत्वादपेक्ष्यमेव। न हि फलस्य फलत्वेन रूपेण दोषवत्त्वम् , किन्तु बन्धकत्वेन रूपेणैव। अन्यथा मोक्षोऽपि फलत्वाद् दोष एव स्यात्। अज्ञानादिति। नित्यं कर्म फलाभिसन्धिरहितं चेन्न बन्धकम् , त्यक्तं चेन्नरकावहमित्येवंरूपविवेकाभावादित्यर्थः। एतेन आत्मविदामात्मज्ञानान्नियतकर्मत्याग उचित एवेति ज्ञायते। विप्रतिषिद्धं विरुद्धम् , कर्तव्यत्वत्याज्यत्वयोः सामानाधिकरण्यासम्भवात् नित्यकर्मणामवश्यकर्तव्यत्वमुक्तमुपजीव्यापेक्षितं १पूरयन्ननन्तरश्लोकमवतारयति—तस्मादिति। ननु कश्चिन्नियतमपि कर्म त्यजन् उपलभ्यते, तत्राह—मोहादिति। अज्ञानं पावनत्वापरिज्ञानम्। अज्ञस्य नित्यकर्मत्यागो मोहादित्येतदुपपादयति—नियतं चेति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात् तस्य परित्यागस्तामसः परिकीर्तितः॥७॥

१. कर्मिण एवाधिकृतानपेक्ष्यैते विकल्पाः, मोहात् कर्मपरित्यागप्रसक्तेस्तेष्वेव संभवात् , न तु ज्ञाननिष्ठान् संन्यासिनोऽपेक्ष्य इति सयुक्तिकं पूर्वमुक्तत्वात् तत्त्व- वित्साधारण्यमस्य मा भूदिति इदमपेक्षितपूरणम्। माध्वास्तु ज्ञाननिष्ठस्य संन्यासिनोऽपि ज्ञानयज्ञविद्यादानब्रह्मचर्यादितपस्संभवात् तस्यापि यथासंभवयज्ञादि- कर्तव्यतापरतया इदं वाक्यं योजयन्ति। तन्मते ‘यस्त्वात्मरतिरेव स्यात्….तस्य कार्यं न विद्यते’ इति चासंप्रज्ञातसमाधिस्थस्य कार्याभावोक्तिः। तत्तु ज्ञानादीनां यज्ञत्वोक्तेः स्तुत्यर्थत्वात् , अत्र च मुख्ययज्ञग्रहणौचित्यात् , ‘तस्य कार्यं न विद्यते’ इत्यस्यासंप्रज्ञातसमाधिस्थपरत्वेन संकोचे कारणाभावाच्चायुक्तम्।

[[८५५]]

दुःखमित्येव यत् कर्म कायक्लेशभयात् त्यजेत्। स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥ ८॥

कार्यमित्येव यत् कर्म नियतं क्रियतेऽर्जुन !। सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥९॥

चेति विप्रतिषिद्धम् ; अतो मोहनिमित्तः परित्यागः तामसः परिकीर्तितः। मोहश्च तम इति॥७॥

किञ्च दुःखमिति। दुःखमित्येव यत् कर्म कायक्लेशभयात् शरीरदुःखभयात् त्यजेत् परित्यजेत् , स कृत्वा राजसं रजोनिर्वृत्तं त्यागं नैव त्यागफलं ज्ञानपूर्वकस्य सर्वकर्मत्यागस्य फलं मोक्षाख्यं न लभेत् नैव लभेत॥८॥

कः पुनः सात्त्विकस्त्यागः इत्याह—कार्यमिति। कार्यं कर्तव्यमित्येव यत् कर्म नियतं नित्यं क्रियते निर्वर्त्यते, हे अर्जुन !सङ्गं त्यक्त्वा फलं चैव। १नित्यानां कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणमवोचाम। अथवा यद्यपि फलं न श्रूयते नित्यस्य कर्मणः, तथापि नित्यं कर्म कृतम् आत्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोत्यात्मन इति नित्यकर्मत्यागस्य मोहकृतत्वे कुतस्तामसत्वमित्याशङ्क्याह—मोहश्चेति॥७॥

इतश्च नित्यकर्मत्यागो नाज्ञस्य सम्भवतीत्याह—किञ्चेति। ननु मोहं विनैव दुःखात्मकं कर्म कायक्लेशभयात् त्यजति। करणानि हि कार्यं जनयन्ति श्राम्यन्ति च। तथा च न तत्त्यागस्तामसो युक्तः? तत्राह—दुःखमित्येवेति। यत् कर्म दुःखात्मकमशक्यसाध्यमित्ये- वालोच्य ततो निवर्तते, देहस्येन्द्रियाणां च क्लेशात्मनो भयात् त्यजति, स तत् त्यक्त्वा रजोनिमित्तं त्यागं कृत्वाऽपि न तत्फलं मोक्षं लभते, किन्तु कृतेनैव राजसेन त्यागेन तदनुरूपं नरकं प्रतिपद्यत इत्याह—दुःखमित्येवेत्यादिना॥८॥

कर्मत्यागस्तामसो राजसश्चेति द्विविधो दर्शितः, सम्प्रति सात्त्विकं त्यागं प्रश्नपूर्वकं वर्णयति—कः पुनरिति। कर्तव्यमित्येवेति एवकारेण नित्यस्य २भाव्यान्तरं निषिध्यते। नित्यानां विध्युद्देशे फलाश्रवणात् तेषां फलं त्यक्त्वेत्ययुक्तमित्याशङ्क्याह—नित्यानामिति। फलं त्यक्त्वेत्यस्य विधान्तरेण तात्पर्यमाह—अथवेति। न हि विधिना कृतं कर्मानर्थकम् , विध्यानर्थक् यात्। तेन श्रौतफलाभावेऽपि नित्यं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इति भावः। अत इति। कर्तव्यकर्मत्यागस्य विरुद्धत्वादित्यर्थः। विदुषां संन्यासिनां तु नैव कर्तव्यं कर्मेति तत्त्यागो न विरुद्धः, प्रत्युत तत्करणमेव विरुद्धमिति भावः। मोहनिमित्त इति। मोहो निमित्तं कारणं यस्य स तथोक्तः। न तु विदुषां संन्यासिनामिवात्मज्ञान- निमित्तः इति भावः। तामस इति। तमोगुणप्रवृत्तः। तमःकार्यत्वान्मोहस्येति भावः॥७॥

दुःखमिति। यः कर्म दुःखमिति मत्वैव कायक्लेशभयात् त्यजेत् , स राजसं त्यागं कृत्वा त्यागफलं नैव लभेत्। अज्ञानपूर्वकः कर्मत्यागः तामसत्यागः। कायक्लेशभयदुःखपूर्वकः कर्मत्यागस्तु राजसत्यागः। अस्मिन्नेव त्यागद्वये ‘त्याज्यं दोषवद्’ इति पक्षोऽन्त- र्भूतः। अतः स पक्षो दुष्ट एव। अज्ञस्य कर्मण्यधिकृतस्य नियतकर्मपरित्यागेन प्रत्यवायसम्भवान्मोक्षासम्भवाच्च। तस्मादज्ञः कर्मण्य- धिकृतो नियतं कर्मावश्यं कुर्यात्। अज्ञस्यापि संन्यस्तस्य न कर्माधिकारः, अधिकृतस्येति विशेषणात्। अतोऽज्ञस्य संन्यासिनोऽपि नियतकर्मत्यागो न प्रत्यवायावहः। परन्तु अज्ञस्य तस्य संन्यासापेक्षया कर्मयोग एव समीचीनः, पावनत्वात् कर्मयोगस्य, ‘कर्मयोगो विशिष्यते’ इत्युक्तत्वाच्च। तस्मादयुक्त एवाज्ञस्य मोहात् कायक्लेशभयाच्च कर्मत्यागः। सर्वकर्मत्यागस्येति। परमार्थसंन्यासस्येत्यर्थः। विद्वत्संन्यासस्येति यावत्॥ ८॥

कार्यमिति। हे अर्जुन ! नियतं यत् कर्म सङ्गं त्यक्त्वा फलं च त्यक्त्वा कार्यमित्येव क्रियते, स त्यागः सात्त्विको मतः। आत्म- १. ‘एतद् नित्यानां’ इति पा.। २. भाव्यान्तरं साध्यान्तरम् , फलमिति यावत्। अ. १८. श्लो. ७ - ९ ]

[[८५६]]

संस्कारं चित्तशुद्धिम्। प्रत्यवायो नरकादिः। आत्मनः स्वस्य। अज्ञ इति। आत्मतत्त्वानभिज्ञ इत्यर्थः। आत्मविद् हि स्वस्य चित्तस्य चासम्बन्धं पश्यन् कथं चित्तशुद्धिं कामयेत? कथं वा अपहतपाप्मन्यात्मनि प्रत्यवायपरिहारं कामयेत? नित्यकर्मस्विति। यत् कर्म क्रियत इति प्रागुक्तम् , तेष्वित्यर्थः। एवं च सः इत्यस्य तन्नित्यकर्मविषय इत्यर्थ इति सिद्धम्। तन्नित्यकर्मगतसङ्गफलविषय इति वा। एतेन सर्वकर्मफलत्यागरूपो यः सात्त्विकत्यागः स एव ‘यज्ञदानतपःकर्म न त्याज्यमिति चापरे’ इति श्लोकपरार्धोक्तः पक्षः, स एव च भगवदभिमत इति सिद्धम्। ततश्च कर्मण्यधिकृतः सर्वोऽप्यज्ञो नित्यं कर्म कृत्वा फलमेव परित्यजेत् , न तु कर्म संन्यसेदिति फलितम्। ननु त्यागस्त्रिविधः सम्प्रकीर्तित इति त्यागशब्देन संन्यास एव ग्रहीतव्यः, ‘नियतस्य तु संन्यासः’ इत्युत्तरानुरोधात् , संन्या- सस्य प्रकृतत्वाच्च। तथा सति संन्यासः कर्मत्यागरूप एवेति कृत्वा कर्मत्यागविषया एव त्रयः प्रकारा दर्शनीयाः, न तु कर्मत्यागविषयौ द्वौ, फलत्यागविषय एकश्चेति; फलत्यागस्यासंन्यासत्वात्। प्रकृते तु राजसतामसत्यागौ कर्मत्यागावेव दर्शितौ; सात्त्विकत्यागस्तु फलत्यागो दर्शित इति कथं संन्यासस्य कर्मत्यागरूपस्य त्रैविध्यमिति चोदयति—नन्विति। परिहरति— नैष दोष इति। हेतुमाह— त्यागेति। त्यागसामान्येनेति। परित्यागांशमात्रसादृश्येनेत्यर्थः। संन्यासत्यागयोरिति भावः। तदेव सामान्यं दर्शयति—अस्ति हीति। स्तुतिं दर्शयति—तत्रेति। संन्यासत्यागयोर्मध्य इत्यर्थः। राजसात् तामसाच्च कर्मत्यागात् सात्त्विकः फलत्याग उत्कृष्ट इति स्तुत्यर्थं फलत्यागस्यापि संन्यासभेदान्तःप्रवेशनमिति भावः॥९॥

कर्म विधितोऽनुतिष्ठन्नात्मानमजानन् अनुपहतमनस्त्वोक्त्या१ तस्मिन् कर्मण्यात्मसंस्कारं फलं कल्पयति, तदकरणे प्रत्यवायस्मृत्या तत्करणं कर्तुरात्मनः तन्निवृत्तिं करोतीति वा। नित्ये कर्मण्युक्तां कल्पनामनु२निष्पादिफलकल्पनां च ‘फलं त्यक्त्वे’त्यनेन भगवान् निवार- यतीत्यर्थः। नित्यकर्मसु फलत्यागोक्तेः सम्भवे फलितमाह—अत इति। कर्मतत्फलत्यागस्य त्यागसंन्यासशब्दाभ्यां प्रकृतस्य ‘त्यागो ही’ति त्रैविध्यं प्रतिज्ञाय, प्रतिज्ञानुरोधेन द्वे विधे व्युत्पाद्य, तृतीयां विधां तद्विरोधेन व्युत्पादयतो भगवतोऽकौशलमापतितमिति शङ्कते— नन्विति। प्रक्रमप्रतिकूलमुपसंहारवचनमनुचितमित्यत्र दृष्टान्त- माह— यथेति। पूर्वोत्तरविरोधेन प्राप्तमकौशलं प्रत्यादिशति— नैष दोष इति। कर्मत्यागफलत्यागयोस्त्यागत्वेन सादृश्यात् कर्मत्याग- निन्दया तत्फलत्यागस्तुत्यर्थमिदं वचनमित्युपगमान्न विरोधोऽस्तीत्युक्तमेव व्यक्तीकुर्वन्नादौ त्यागसामान्यं विशदयति— अस्तीति। सति सामान्ये निर्देशस्य स्तुत्यर्थत्वं समर्थयते— तत्रेति॥९॥

एवं पूर्वापरविरोधं पराकृत्यानन्तरश्लोकतात्पर्यमाह—यस्त्विति। फलरागादिनेत्यादिशब्देन कर्मस्वरूपासङ्गो गृह्यते।अन्तःकर- णम् अकलुषीक्रियमाणमिति च्छेदः। विशुद्धेऽन्तःकरणे किं स्यादित्याशङ्क्याह— विशुद्धमिति। मलविकलत्वं विशुद्धत्वम् , ३संस्कारवत्त्वं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कल्पयत्येवाज्ञः। तत्र तामपि कल्पनां निवारयति ‘फलं त्यक्त्वा’ इत्यनेन। अतः साधूक्तम्— सङ्गं त्यक्त्वा फलं चेति। स त्यागो नित्यकर्मसु सङ्गफलपरित्यागः सात्त्विकः सत्त्वनिर्वृत्तो मतः अभिमतः। ननु कर्मपरित्यागस्त्रिविधः संन्यास इति च प्रकृतः। तत्र तामसो राजसश्चोक्तस्त्यागः। कथमिह सङ्गफल- त्यागस्तृतीयत्वेनोच्यते? यथा – त्रयो ब्राह्मणा आगताः; तत्र षडङ्गविदौ द्वौ; क्षत्रियस्तृतीयः इति, तद्वत्। नैष दोषः; त्यागसामान्येन स्तुत्यर्थत्वात्। अस्ति हि कर्मसंन्यासस्य फलाभिसन्धित्यागस्य च त्यागत्वसामान्यम्। तत्र राजस- तामसत्वेन कर्मत्यागनिन्दया कर्मफलाभिसन्धित्यागः सात्त्विकत्वेन स्तूयते—‘स त्यागः सात्त्विको मतः’इति॥९॥

यस्त्वधिकृतः सङ्गं त्यक्त्वा फलाभिसन्धिं च नित्यं कर्म करोति, तस्य फलरागादिना अकलुषीक्रियमाण- मन्तःकरणं नित्यैश्च कर्मभिः संस्क्रियमाणं विशुध्यति। तद् विशुद्धं प्रसन्नम् आत्मालोचनक्षमं भवति। तस्यैव नित्य- १. ‘अपि वा दर्विहोमेनानुपहतमना एव भवति’ इति श्रुतौ अनुपहतमनस्त्वं नित्यकर्मणः फलमुक्तम्। तच्च पापेनोपहत्यभावः। सोऽयं दोषापनयनलक्षणः संस्कारः। २. ‘निष्पादित’ इति पा.। ३. ‘संस्क्रियमाणत्वं’ इति पा.।

[[८५७]]

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः॥१०॥

नेति। राजसतामसत्यागिनौ निन्दितौ। यस्तु सात्त्विकत्यागी तस्य परमार्थसंन्यासज्ञाननिष्ठाप्राप्तिरनेन श्लोकेनोच्यत इत्याह —तस्येति। तन्निष्ठा आत्मज्ञाननिष्ठा। त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयश्च सन्नकुशलं कर्म न द्वेष्टि, कुशले कर्मणि नानुषज्जते। किं तदकुशलं कर्मेत्यत आह—काम्यमिति। कुतस्तस्याशोभनत्वम्? अत आह—शरीरेति। शरीरारम्भकत्वात् संसारकारणमित्यर्थः। कथं द्वेष्टीत्यत आह—किमनेनेत्येवमिति। अनुषङ्गं न करोतीति। अनुषङ्गप्रकारं दर्शयति—सत्त्वशुद्धीति। संसारकारणमिदमिति काम्ये न द्वेषः, मोक्षकारणमिदमिति नित्ये नापि प्रीतिस्त्यागिन इत्यर्थः। द्विष अप्रीताविति धातोः द्वेषोऽप्रीतिः। कर्तुस्त्यागिन आकाङ्क्षा- माह—कः पुनरसाविति। त्यागेनेति। उपलक्षित इति शेषः। तद्वानिति। त्यागवानित्यर्थः। कोऽसौ त्यागी? अत आह—य इति। नित्यकर्मानुष्ठायीति। नित्यकर्मानुष्ठानशील इत्यर्थः। सत्त्वेन गुणविशेषेण। कीदृशेनेत्यत आह—आत्मेति। आत्मानात्मविवेक- ज्ञानस्य हेतुना कारणभूतेन। ‘सत्त्वात् सञ्जायते ज्ञान’मित्युक्तत्वादिति भावः। नित्यकर्मानुष्ठानेन चित्ते परिशुद्धे सति सत्त्वगुणोद्रेको भवतीत्यर्थः। यद्वा चित्तशुद्धिरेव सत्त्वोत्कर्षः। अत एवेति। सत्त्वनिष्ठत्वादित्यर्थः। मेधा अस्यास्तीति मेधावी, ‘अस्मायामेधा’ इति विनिः। मेधायाः स्वरूपमाह—आत्मज्ञानेति। आत्मज्ञानमिह मेधाशब्दार्थः। छिन्नः संशयो यस्य स छिन्नसंशयः नित्यकर्म बन्धकं वा, न वेत्येवमादिरूपः संशयः। यद्वा आत्मा कर्ता वा उताकर्तेत्येवमादिरूपः। केन कृतोऽयम्? अत आह—अविद्याकृत इति। अज्ञान- जन्य इत्यर्थः। केन छिन्नः? अत आह—निश्चयेनेति। निश्चयज्ञानेनेत्यर्थः। निश्चयस्याकारमाह—आत्मेति। आत्मस्वरूपेणावस्थानम् प्रसन्नत्वमिति भेदः। क्रमेण श्रवणाद्यावृत्तिद्वारेणेत्यर्थः। तन्निष्ठेत्यात्मज्ञाननिष्ठोक्ता। काम्यकर्मणि त्याज्यत्वेन द्वेषमभिनयति—किमिति। उभयत्र द्वेषं प्रीतिं च न करोतीति सामान्येनोक्तं कर्तारं प्रश्नपूर्वकं विशेषतो निर्दिशति— कः पुनरिति। त्यागीत्युक्तं त्यागिनमभि- व्यनक्ति—पूर्वोक्तेनेति। कर्मणि सङ्गस्य तत्फलस्य च त्यागेनेति यावत्। उक्तमेव त्यागिनं विवृणोति—यः कर्मणीति। तत्फलं त्यक्त्वेति सम्बन्धः। काम्ये निषिद्धे च कर्मणि बन्धहेतुरिति न द्वेष्टि , नित्ये नैमित्तिके च मोक्षहेतुरिति न प्रीयते। तत्र कालविशेषं पृच्छति—कदेति। नित्यादिकर्मणा फलाभिसन्धिवर्जितेन क्षपितकल्मषस्य सत्त्वं यथार्थग्रहण१सामर्थ्यमुद्बुध्यते। २तेन समावेशदशायामुक्तप्रीतिद्वेषयोरभावो भवतीत्याह—उच्यत इति। अत एवेति। समुद्बुद्धयथार्थग्रहण३सामर्थ्यसमाविष्टत्वादित्यर्थः। छिन्नसंशयत्वमेव विशदयति—आत्मेति। ४परं निःश्रेयसम् , तस्य च साधनं सम्यग्ज्ञानमेवेति योजना।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कर्मानुष्ठानेन विशुद्धान्तःकरणस्यात्मज्ञानाभिमुखस्य क्रमेण यथा तन्निष्ठा स्यात् तद् वक्तव्यमित्याह— नेति। न द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म शरीरारम्भद्वारेण संसारकारणम् , ‘किमनेन?’ इत्येवम्। कुशले शोभने नित्ये कर्मणि – ‘सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन मोक्षकारणमिदम्’ इत्येवं नानुषज्जते। तत्रापि प्रयोजनमपश्यन् अनुषङ्गं प्रीतिं न करोतीत्येतत्। कः पुनरसौ? त्यागी। पूर्वोक्तेन सङ्गफलपरित्यागेन तद्वान् त्यागी। यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्यकर्मानुष्ठायी स त्यागी। कदा पुनरसावकुशलं कर्म न द्वेष्टि, कुशले च नानुषज्जत इति? उच्यते— सत्त्वसमाविष्टः यदा सत्त्वेनात्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः, संयुक्त इत्येतत्। अत एव च मेधावी मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी। मेधावित्वादेव छिन्नसंशयः छिन्नोऽविद्याकृतः संशयो यस्य ‘आत्मस्वरूपावस्थानमेव परं निःश्रेयससाधनम् , नान्यत् किञ्चिद्’ इत्येवं निश्चयेन छिन्नसंशयः। अ. १८. श्लो. ९ - १० ] १.‘समर्थम्’ इति पा.। २. उक्तसत्त्वेनेत्यर्थः। ३. ‘समर्थ’ इति. पा। ४. आत्मस्वरूपावस्थानस्यैव मोक्षत्वात् भाष्ये साधनपदासंगतिमाशङ्क्य योजयति—परमिति।

[[८५८]]

न हि देहभृता शक् यं त्यक्तुं कर्माण्यशेषतः। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते॥११॥

आत्मज्ञाननिष्ठेति यावत्। एवकारार्थमाह— नान्यत्किञ्चिदिति। अन्यन्नित्यकर्मानुष्ठानादिकमित्यर्थः। फलितार्थमाह— य इति। यः कर्मण्यधिकृतोऽज्ञः पुरुषः स पूर्वोक्तप्रकारेण कर्मयोगमनुष्ठाय, तेन क्रमात् संस्कृतात्मा शुद्ध- चित्तःसन् जन्मजरामरणादिविक्रियारहितत्वेन हेतुना निष्क्रियमात्मानं प्रत्यञ्चमेवात्मत्वेन संबुद्धो जानन् सन् सर्वकर्माणि मनसा संन्यस्य, किञ्चिदपि कर्म स्वयं नैव कुर्वन्नन्यैरपि न कारयन् तूष्णीमासीनःसन् , नैष्कर्म्यलक्षणां परमार्थसंन्यासस्वरूपां ज्ञाननिष्ठाम् अश्नुते प्राप्नोति इत्येतत् पूर्वश्लोकोक्तकर्मयोगस्य प्रयोजनम् अनेन श्लोकेनोक्तम्। पूर्वश्लोकोक्तो यः सात्त्विकत्यागः स एव कर्मयोगः। यः पूर्वं ‘संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ’ इत्यादिनोक्तः, तस्य च कर्मयोगस्य चित्तशुद्धिज्ञानप्राप्तिद्वारा मोक्षः फलमिति तत्रै- वोक्तम्। तदेव फलमिह साक्षादनेन श्लोकेनोक्तम्। किमिति? त्यागात् सत्त्वसमावेशः, सत्त्वसमावेशादात्मज्ञानम् , तस्माच्च संशय- निरासः, ततो नित्यकाम्यकर्मप्रीतिद्वेषाभावपूर्वकात्मज्ञाननिष्ठेति। एवं कर्मयोगिनः क्रमेण ज्ञाननिष्ठाप्राप्तौ सत्यां ज्ञाननिष्ठस्य यत् फलं पूर्वमुक्तम्— गुणातीतत्वं विदेहकैवल्यं च, तदुभयमस्य भवतीति। कर्मयोगिनः फलं ज्ञाननिष्ठाप्राप्तिद्वारा मोक्ष एवेति कृत्वा ज्ञाननिष्ठैव कर्मयोगस्य फलम्। तच्चेह प्रतिपादितमिति भावः॥१०॥

न हीति। हि देहभृता अशेषतः कर्माणि त्यक्तुं न शक् यम्। यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते शिष्टैः। अबाधितमात्म- कर्तृत्वविज्ञानम् ‘अहं कर्ते’त्येवंरूपं ज्ञानं यस्य तत्तया हेतुना। तस्येति। कर्मण्यधिकृतस्य कर्त्रात्मदर्शिनोऽज्ञस्येत्यर्थः। कर्मफल- त्यागेनेति। कर्मफलत्यागपूर्वकमित्यर्थः। चोदितकर्मानुष्ठान एवेति। विहितकर्मानुष्ठान इत्यर्थः। तत्त्याग इति। कर्मत्याग इत्यर्थः। देहभृदिति। न हि दण्डमिवात्मा देहं बिभर्ति येन देहभृदित्युच्येत। नापि पय इव घट आत्मा देहं बिभर्ति। किन्तु ‘ममायं देहः’ इति, ‘मनुष्योऽह’मिति चाहंममाभिमानपूर्वकं देहं बिभर्त्यात्मा। यदा पुनरात्मनः शरीरेऽहंममाभिमानाभावः, तदा सुषुप्तौ शरीरं हि निश्चेष्ट- तया वर्तते। अत आह—देहात्माभिमानवान् देहभृदित्युच्यत इति। कः पुनर्नोच्यते देहभृदिति? अत आह—न विवेकीति। नन्विह ‘न द्वेष्टी’त्यादिना श्लोकेनोक्तमर्थं संक्षिप्यानुवदति—योऽधिकृत इति। पूर्वोक्तप्रकारेणेति। कर्मणि तत्फले च सङ्गत्यागेनेत्यर्थः। कर्मात्मनो योगस्यानुष्ठानेन संस्कृतात्मा सन् क्रमेण श्रवणाद्यनुष्ठानद्वारेण कूटस्थं ब्रह्म प्रत्यक्त्वेन सम्बुद्धः इति सम्बन्धः। परस्य निष्क्रि- यत्वे हेतुमाह—जन्मादीति। उक्तज्ञानवतः सर्वकर्मत्यागद्वारा मुक्तिभाक्त्वं दर्शयति—स सर्वेति॥१०॥

आत्मज्ञानवतः सर्वकर्मत्यागसम्भावनामुक्त्वा तद्धीनस्य तदसम्भवे हेतुवचनत्वेनानन्तरश्लोकमवतारयति—यः पुनरिति। न बाधितमात्मनि कर्तृत्वविज्ञानमस्येत्यज्ञस्तथा, तस्य भावस्तत्ता तयेति यावत्। एतमर्थं दर्शयितुमज्ञस्य सर्वकर्मसंन्यासासम्भवे हेतुमाहेति योजना। यस्मादित्यस्य तस्मादित्युत्तरेण सम्बन्धः। विवेकिनोऽपि देहधारितया देहभृत्त्वाविशेषे कर्माधिकारः स्यादित्याशङ्क्याह— न

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

योऽधिकृतः पुरुषः १पूर्वोक्तेन प्रकारेण कर्मयोगानुष्ठानेन क्रमेण संस्कृतात्मा सन् जन्मादिविक्रियारहितत्वेन निष्क्रियमात्मानमात्मत्वेन सम्बुद्धः, स सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन् न कारयन् आसीनो नैष्कर्म्यलक्षणां ज्ञाननिष्ठामश्नुत इत्येतत् पूर्वोक्तस्य कर्मयोगस्य प्रयोजनमनेन श्लोकेनोक्तम्॥१०॥

यः पुनरधिकृतः सन् देहात्माभिमानित्वेन देहभृद् अज्ञः अबाधितात्मकर्तृत्वविज्ञानतया ‘अहं कर्ता’ इति निश्चितबुद्धिः तस्याशेषकर्मपरित्यागस्याशक् यत्वात् , कर्मफलत्यागेन चोदितकर्मानुष्ठान एवाधिकारः, न तत्त्यागे इत्येतमर्थं दर्शयितुमाह— न हीति। न हि यस्माद् देहभृता, देहं बिभर्तीति देहभृद् , देहात्माभिमानवान् देहभृद् १. ‘पूर्वोक्तप्रकारेण’ इति पाठः व्याख्यानाभिमतो भाति।

[[८५९]]

देहभृच्छब्देन विवेक् यप्युच्यताम्? अत आह—स हीति। अत इति। विवेकिनः कर्माधिकाराभावादित्यर्थः। तेनेति। अविवेकिनेत्यर्थः। शक् यमिति। ३नेत्यस्यात्रान्वयान्न शक् यमित्यर्थः। विवेकिना तु त्यक्तुं शक् यमेव। देहयात्रामात्रफलकभिक्षाटनादिकर्मणामपि गुणकृतत्वानुसन्धानेन त्यागोपपत्तेः। न ह्यज्ञ इव प्राज्ञोऽपि ‘अहं करोमी’ति मन्यते। अकर्त्रभोक्त्रविक्रियब्रह्माभिन्नात्मदर्शित्वं हि प्राज्ञत्वम्। कथम् अकर्तारमात्मानं पश्यन् विद्वान् कर्ता- ऽहमिति मन्येत? यस्तु तथा मन्यते, स नैव तत्त्ववित्। किन्तु भ्रान्त एव रज्जुसर्प[दर्शि]वत्। तस्माद् विवेकिना कर्म कर्तुमेव न शक् यते, न तु त्यक्तुम्। कर्मकरणस्य देहादिष्वनात्मस्वात्माध्यास एव हि हेतुः। सुषुप्तावध्यासाभावेन कर्माभावदर्शनात्। स चाध्यासो विवेकिनः कथं जीवनादिप्रवृत्ति[हेतु]रिति शङ्कायामुक्तं व्यासेनैव भागवते‘देहोऽपि दैववशगः खलु कर्म यावत्स्वारम्भकं प्रतिसमीक्षित एव सासुः’ इति। इहाप्युक्तम् ‘स्वभावस्तु प्रवर्तते’ इति। तस्माद् देहाद्याकारपरिणतगुणा एव कर्मसु प्रवर्तन्ते तत्तादात्म्याध्यासेन चाविवेकिनः, न तु विवेकिनः। तस्यात्मत्वादात्मनश्चाकर्तृत्वादिति विवेकिनः कर्मकरणमेवासम्भवि, न तु निःशेषतः कर्मत्यागः। ‘देहादिभ्यो विलक्षणश्चिन्मात्रोऽहं सदाशिवः’ इति ज्ञानेन सर्वकर्मत्यागस्य सुकरत्वाद् देहादिगतकर्मणा सम्बन्धाभावा-च्चात्मनः, मेघगतजलेनेव गगनस्य। अतः सर्वं कर्म समूलं त्यक्तुं शक् यमेव विवेकिन इत्यविवेक् येवात्र देहभृच्छब्देन ग्राह्यः, तस्यैव देहादितादात्म्याध्यासवतः कर्मत्यागासम्भवात्। न हि पक्ष्मादिषून्मेषनिमेषादिक्रियासु प्रवृत्तेषु सत्सु तत्तादात्म्याध्यासवान् अज्ञः कर्मत्यागं कर्तुं क्षमते। किन्तु अहमेवोन्मिषामि निमिषामि चेति कर्मैव कुर्वन्निव वर्तते। उक्तं हि पञ्चमाध्याये— ‘नैव किञ्चित् करोमीति युक्तो मन्येत तत्ववित् । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन् श्वसन्॥ प्रलपन् विसृजन् गृह्णन्नुन्मिषन् निमिषन्नपि। इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्॥’ इति। तथा ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥’ इति च। तस्माद् अविवेकिन एव कर्मत्यागासम्भवः, न तु विवेकिनः इति स्थितम्। कर्मफलाभिसन्धिमात्रसंन्यासीति। कर्मफलाभिसन्धिमात्रमेव संन्यसितुं त्यक्तुं शीलमस्यास्तीति तथोक्तः। न तु कर्म- संन्यासीति मात्रपदार्थः। ननु यः कर्म न त्यक्तवान् , फलमेव त्यक्तवान् कथं स त्यागीत्युच्यते? अत आह—स्तुत्यभिप्रायेणेति। फला- भिसन्धिमात्रत्यागिनः संन्यासित्वं स्तुतिसिद्धम्। ज्ञानपूर्वकसर्वकर्मसंन्यासिनः संन्यासित्वं तु पारमार्थिकम् (मुख्यम्)। मोहपूर्वककर्म- संन्यासिनो दुःखादिपूर्वककर्मसंन्यासिनश्च संन्यासित्वं निन्द्यमिति भावः। कर्म्यपीत्यपिशब्दात् कर्मापरित्यागरूपसंन्यासविरुद्धांश- सत्त्वेऽपीति गम्यते। अत एव तस्य संन्यासित्वममुख्यम्। तस्मादिति। अविवेकिना देहभृता सर्वकर्मत्यागस्य कर्तुमशक् यत्वादित्यर्थः। अदेहभृतैव कर्मसंन्यासः कर्तुं शक् यते। तत्र हेतुमाह—परमार्थदर्शित्वेनेति। अकर्त्रात्मज्ञानेनेत्यर्थः। अदेहभृतेति पदं स्वयमेव व्याख्याति—देहात्मभावरहितेनेति। देहात्माभिमानवान् हि देहभृदित्युच्यते॥११॥

हीति। कर्तृत्वाधिकारः तत्पूर्वकं कर्मानुष्ठानं, तस्मादिति यावत्। ज्ञानवतो देहधारणेऽपि तदभिमानित्वाभावः अतःशब्दार्थः। अज्ञस्य सर्वकर्मत्यागायोगमुक्तं हेतूकृत्य फलितमाह— तस्मादिति। कर्मानुष्ठायिनस्त्यागित्वोक्तिरयुक्तेत्याशङ्क्याह— कर्म्यपीति। कर्मिणोऽपि फलत्यागेन त्यागित्ववचनं फलत्यागस्तुत्यर्थमित्यर्थः। कस्य तर्हि सर्वकर्मत्यागः सम्भवतीत्याशङ्क्य विवेकवैराग्यादिमतो देहाभिमान- १. ‘न विवेकी’ इति पा.। २. ‘परमार्थदर्शित्वेनैव’ इति पा.। ३. भाष्ये प्रथमश्रुतस्येति शेषः। ‘अज्ञेन शक्यम्’ इति रा.पा. भाति। यथास्थिते तु पुनर्नकारोऽन्व- यार्थः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

उच्यते, १न हि विवेकी। स हि ‘वेदाविनाशिनम्’ (भ.गी.२.२१)इत्यादिना कर्तृत्वाधिकारान्निवर्तितः। अतस्तेन देहभृता अज्ञेन न शक् यं त्यक्तुं संन्यसितुं कर्माणि अशेषतो निःशेषेण। तस्माद् यस्तु अज्ञोऽधिकृतो नित्यानि कर्माणि कुर्वन् कर्मफलत्यागी कर्मफलाभिसन्धिमात्रसंन्यासी स त्यागीत्यभिधीयते कर्म्यपि सन् इति स्तुत्यभिप्रायेण। तस्मात् २परमार्थदर्शिनैव अदेहभृता देहात्मभावरहितेनाशेषकर्मसंन्यासः शक् यते कर्तुम्॥११॥

अ. १८. श्लो. १० - ११ ]

[[८६०]]

किं पुनस्तत् प्रयोजनम् , १यत् सर्वकर्मपरित्यागात् स्यादिति? उच्यते—अनिष्टमिति। अनिष्टं नरकतिर्यगादि- लक्षणम् , इष्टं देवादिलक्षणम् , मिश्रम् इष्टानिष्टसंयुक्तं मनुष्यलक्षणं च; २एवं त्रिविधं त्रिप्रकारं कर्मणो धर्माधर्मलक्ष- णस्य फलं बाह्यानेककारकव्यापारनिष्पन्नं सद् अविद्याकृतमिन्द्रजालमायोपमं महामोहकरं प्रत्यगात्मोपसर्पीव। फल्गुतया लयमदर्शनं गच्छतीति फलमिति फलनिर्वचनम्। तदेतदेवंलक्षणं फलं भवति अत्यागिनाम् अज्ञानां अनिष्टमिति। अत्यागिनां प्रेत्य अनिष्टमिष्टं मिश्रं चेति त्रिविधं कर्मणः फलं भवति। संन्यासिनां तु क्वचिदपि तन्न भवति। यज्ञादिलक्षणं नित्यनैमित्तिककाम्यभेदभिन्नं धर्माख्यं कर्म यच्छास्त्रेण विहितं तस्य फलमिष्टम् , यत्पुनर्हिंसादिलक्षणं शास्त्रेण प्रतिषिद्धं कर्माधर्माख्यं तस्य फलमनिष्टम् , यत्कर्म धर्माधर्मोभयात्मकं तस्य फलं मिश्रम्। क्रियत इति कर्म। फलशब्दव्युत्पत्तिं दर्शयति— फलमित्यादिना। फल्गुतया लीयत इति फलम्। पृषोदरादित्वात् साधुः। फल्गुता तुच्छत्वम् , मिथ्यात्वमिति यावत्। कुतः फल्गुत्वम्? अत आह—अविद्याकृतमिति। अविद्या हि मिथ्याभूतमज्ञानम् , तत्कार्यत्वात् फलमपि मिथ्याभूतमेवेत्यर्थः। किमिव तुच्छम्? अत आह—इन्द्रजालमायोपममिति। इन्द्रजालाख्यमायाकृतगन्धर्वनगरादितुल्यमित्यर्थः। कुतोऽस्मिन् तुच्छे फले विदुषामप्यासक्तिः? अत आह—महामोहकरमिति। नन्वसङ्गस्यात्मनः फलेन सह सङ्गाभावात् कथमस्मिन् मोहः? अत आह—प्रत्यगात्मोपसर्पीवेति। प्रत्यगात्मानमुपसर्पति सम्बध्नातीति प्रत्यगात्मोपसर्पि। तदिव भासमानमिति शेषः। आत्मसङ्गीव भातीत्यर्थः। कथमस्य फलस्य निष्पत्तिः? अत आह—बाह्येति। बाह्यानामनेकानां कारकाणां व्यापारैः क्रियाभिर्निष्पन्नं निर्वृत्तम्। अत एव नेदं प्रत्यगात्मोपसर्पि वस्तुत इति भावः। एवं तुच्छत्वादेवास्य लयः, सर्पाभासादिवदित्याह—फल्गुतयेति। हेतौ तृतीया। लयशब्दार्थमाह—अदर्शनमिति। नाशमिति यावत्। गच्छति प्राप्नोति। लीयत इत्यस्यार्थकथनमिदं ‘लयं गच्छती’ति। फलनिर्वचनं फलशब्दनिरुक्तिः। न चैवं मोक्षः फलं नैव भवतीति वाच्यम् ; इष्टत्वात्। न हि वयं मोक्षं ब्रह्मभावलक्षणं फलं ब्रूमः, किन्तु नित्यसिद्ध एव स इति ब्रूमः। फलवत् प्राप्त इव भातीति फलत्वं मोक्षस्य, न तु वस्तुतः फलत्वम्। अत एव मोक्षस्य नित्यत्वव्यवहारः सङ्गच्छते। न चैवं सगुणमुक्तिक्षेत्रस्य हिरण्यगर्भलोकस्य कथं फलत्वमिति वाच्यम् ; तस्यापि मायामयत्वेन तुच्छत्वात् फलत्वमिति। तद्धि नित्यकर्मणः फलम् , ‘प्राजापत्यं गृहस्थाना’मिति शास्त्रात्। यद्वा सगुणोपासनस्य फलम्। उपासनं हि क्रियेति कर्मणः फलमिष्टमेव सगुणमुक्तिक्षेत्रम्। अत्यागिनामिति। कर्मफलत्यागिनामिति भ्रमव्युदासायाह—अपरमार्थसंन्यासिनामिति। स्वर्गादिलक्षणकर्मफलमात्रत्यागिनाम् इह जन्मनि ज्ञाननिष्ठायाः अप्राप्तौ जन्मान्तरस्यावश्यम्भावितया स्यादेवेष्टं मिश्रं वा कर्मफलमिति भावः। न हि फलत्यागमात्रान्मुक्तिः। न हीनस्येत्युक्तं निगमयति—तस्मादिति॥११॥

उक्ताधिकारिणः ३सर्वकर्मसंन्याससम्भवेऽपि फलाभावे कुतस्तस्य कर्तव्यतेति शङ्कते—किं पुनरिति। गौणस्य मुख्यस्य वा संन्यासस्य फलं पिपृच्छिषितमिति विकल्पयति—उच्यत इति। सर्वकर्मत्यागो नाम तदनुष्ठानेऽपि तत्फलाभिसन्धित्यागः। स चामुख्य- संन्यासः। तस्य फलमाह—अनिष्टमिति। मुख्ये तु संन्यासे सर्वकर्मत्यागे सम्यग्धीद्वारा सर्वसंसारोच्छित्तिरेव फलमित्याह—न त्विति। पादत्रयं व्याकरोति—अनिष्टमित्यादिना। तिर्यगादीत्यादिपदमवशिष्टनिकृष्टयोनिसंग्रहार्थम् , देवादीत्यादिपदमवशिष्टोत्कृष्टयोनिग्रहणायेति विभागः। फलशब्दं व्युत्पादयति—बाह्येति। करणद्वारकमनेकविधत्वमुक्त्वा मिथ्यात्वमाह—अविद्येति। तत्कृतत्वेन ४दृष्टिमात्रदेहत्वे

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्॥१२॥

१. ‘यत् सर्वकर्मसंन्यासात्’ इति पा.। २. ‘तत् त्रिविधं’ इति पा.। ३. ‘सर्वकर्मसंन्यासासम्भवेऽपि’ इति पा.। ४. दृष्टिमात्रदेहत्वं प्रतिभासमात्रशरीरत्वम् , प्राति- भासिकत्वमिति यावत्।

[[८६१]]

च ‘त्यागाच्छान्तिरनन्तर’मित्युक्तमिति वाच्यम् ; स्तुतिपरत्वात् तस्य। कदा भवति कर्मिणां कर्मफलम्? अत आह—प्रेत्येति। शरीरं विहायेत्यर्थः। फलितमाह—शरीरपातादूर्ध्वमिति। प्रकृतदेहत्यागानन्तरमित्यर्थः। कुतो न संन्यासिनां कर्मफलमित्यत आह—न हीति। आदिपदाद् रागादिग्रहणम्। कदाचिदपि न नोन्मूलयन्ति हि, किन्तु सर्वदाऽप्यवश्यमुन्मूलयन्त्येवेत्यर्थः। सम्भाव्यनिषेधनिवर्तने द्वौ नञौ। हिः प्रसिद्धौ। हि यस्मान्न नोन्मूलयन्ति तस्मान्न कर्मफलमिति वा। उन्मूलयन्ति समूलं नाशयन्ति। अत एवेति। विद्यया साङ्ख्यैरविद्यादिसंसारबीजस्योन्मूलितत्वादेवेत्यर्थः। परमार्थदर्शिन एवेत्येवकारार्थमाह—न त्वज्ञस्येति। कस्मादज्ञस्य कर्मसंन्यासो न सम्भवतीत्यत आह— अधिष्ठानादीति। अधिष्ठानमादिर्येषां तान्यधिष्ठानादीनि, तानि च तानि क्रियाकर्तृ- कारकाणि च अधिष्ठानादिक्रियाकर्तृकारकाणि, ‘अधिष्ठानं तथा कर्ता’ इति श्लोकोक्तानि क्रियाकर्तृकारकाणीत्यर्थः। यद्यपि कर्तृकारका- णाम् अहङ्कारमनइन्द्रियशरीराणाम् आत्मत्वेन दर्शनं सम्भवति, ‘अहं करोमि, स्पृशामि, जिघ्रामि, गच्छामि, स्थूलोऽहं, कृशोऽहम्’ इत्यादिव्यवहारात्। क्रियाया आत्मत्वेन दर्शनं तु न सम्भवति४, ‘अहं गमन’मित्यादिव्यवहाराभावात् ; तथाप्यात्मीयत्वेन क्रियाया दर्शनसम्भवादुक्तम्—क्रियाकर्तृकारकाणीति। क्रियामात्मीयत्वेन कर्तृकारकाण्यात्मत्वेन च पश्यतः इत्यर्थः। अशेषकर्मसंन्यासो न सम्भवतीत्यन्वयः। तदेतदिति। अज्ञस्य कर्मसंन्यासासम्भवं, प्राज्ञस्य तत्सम्भवं चेत्यर्थः॥१२॥

पञ्चेति। हे महाबाहो ! सर्वकर्मणां सिद्धये कारणानि कृतान्ते साङ्ख्ये प्रोक्तान्येतानि पञ्च कारणानि मे वाक् यान्निबोध। साङ्ख्य- शब्दार्थमाह—ज्ञातव्या इति। ज्ञातव्याः पदार्थाः प्रकृतिमहदहङ्कारादयो यस्मिन् सङ्ख्यायन्ते गण्यन्ते तच्छास्त्रं साङ्ख्यमित्युच्यते। कापि- दृष्टान्तमाह—इन्द्रेति। प्रतीतितो रमणीयत्वं सूचयति—महामोहेति। अविद्योत्थस्याविद्याश्रितत्वादात्माश्रितत्वं वस्तुतो नास्तीत्याह— प्रत्यगिति। उक्तं फलं कर्मिणामिष्यते चेदमुख्यसंन्यासफलोक्तिपरत्वं पादत्रयस्य कथमिष्टमित्याशङ्क्याह—अपरमार्थेति। फलाभिसन्धि- विकलानां कर्मिणां देहपातादूर्ध्वं कर्मानुरोधिफलमावश्यकमित्यर्थः। कर्मिणामेव सतामफलाभिसन्धीनाममुख्यसंन्यासित्वात् तदीया- मुख्यसंन्यासस्य फलमुक्त्वा चतुर्थपादं व्याचष्टे—न त्विति। अमुख्यसंन्यासमनन्तरप्रकृतं व्यवच्छिनत्ति—परमार्थेति। तेषां प्रधानं धर्म- मुपदिशति—केवलेति। क्वचिद् देशे काले वा नास्ति यथोक्तं फलं तेषामिति सम्बन्धः। तर्हि परमार्थसंन्यासोऽफलत्वान्नानुष्ठीयेतेत्या- शङ्क्य तस्य मोक्षावसायित्वान्मैवमित्याह—न हीति॥१२॥

नन्वपरमार्थसंन्यासवदविशेषादज्ञानां परमार्थसंन्यासोऽपि किं न स्यात् , त्यागस्य सुकरत्वात् , तत्राह—अतः परमार्थेति। तस्य सम्यग्दर्शनादविद्यानिवृत्तौ तदारोपितक्रियाकारकादिनिवृत्तेरिति हेत्वर्थः। विद्यावतः सर्वकर्मसंन्यासित्वसम्भावनामुक्त्वा एवकार- व्यावर्त्यं दर्शयति—न त्विति। अविदुषोऽशेषकर्मणां तद्धेतूनां च रागादीनां त्यागायोगे कारकेष्वधिष्ठानादिष्वात्मत्वदर्शनं हेतुमाह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कर्मिणाम् अपरमार्थसंन्यासिनां प्रेत्य शरीरपातादूर्ध्वम्। न तु संन्यासिनां परमार्थसंन्यासिनां परमहंसपरिव्राजकानां केवलज्ञाननिष्ठानां क्वचित्। न हि केवलसम्यग्दर्शननिष्ठाऽविद्यादिसंसारबीजं नोन्मूलयति कदाचिदित्यर्थः॥१२॥

१अतः परमार्थदर्शिन एवाशेषकर्मसंन्यासित्वं सम्भवति, अविद्याध्यारोपितत्वादात्मनि क्रियाकारकफलानाम् , न त्वज्ञस्य अधिष्ठानादीनि २क्रियाकर्तृकारकाणि ३आत्मत्वेन पश्यतोऽशेषकर्मसंन्यासः सम्भवति। तदेतद् उत्तरैः श्लोकैः दर्शयति—पञ्चेति। पञ्च एतानि वक्ष्यमाणानि, हे महाबाहो !कारणानि निर्वर्तकानि। निबोध मे मम इति १. ‘अत एव’ इति रा.पा.। २. ‘क्रियाकर्तॄणि कारकाणि’ इति पा. ‘अधिष्ठानादिक्रियाकर्तृकारकाणि’ इति रा.पा.भाति। ३. ‘आत्मत्वेनैव’ इति पा.। ४. आत्मत्वेन दर्शनं तादात्म्यदर्शनम् इति स्वीकारे क्रियायामपि तत् संभवतीति बोध्यम्। पञ्चैतानि महाबाहो ! कारणानि निबोध मे। अ. १८. श्लो. १२ - १३ ]

[[८६२]]

उत्तरत्र चेतःसमाधानार्थम् , वस्तुवैषम्यप्रदर्शनार्थं च। तानि च कारणानि ज्ञातव्यतया स्तौति— सांख्ये, ज्ञातव्याः पदार्थाः संख्यायन्ते यस्मिन् शास्त्रे तत् सांख्यं वेदान्तः। कृतान्ते इति तस्यैव विशेषणम्। कृतमिति कर्मोच्यते। १तस्य अन्तः परिसमाप्तिर्यत्र स कृतान्तः। कर्मान्त इत्येतत्। ‘यावानर्थ उदपाने’ (भ.गी.२.४६), ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (भ.गी.४.३३) इत्यात्मज्ञाने सञ्जाते सर्वकर्मणां निवृत्तिं दर्शयति। अतः तस्मिन् आत्मज्ञानार्थे सांख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्पत्त्यर्थं सर्वकर्मणाम्॥१३॥

लसाङ्ख्यनिरासायाह—वेदान्त इति। वेदान्तशास्त्रमित्यर्थः। उत्तरमीमांसेति यावत्। कथं कृतस्य साङ्ख्ये परिसमाप्तिः? अत आह— यावानिति। साङ्ख्यशास्त्रोक्तात्मज्ञाने सर्वकर्मसमाप्तिसद्भावाच्छास्त्रमपि कृतान्तमित्युच्यत इत्यर्थः। कर्मसमाप्तिमज्ज्ञानप्रतिपादकत्वात् साङ्ख्यशास्त्रस्य कृतान्तत्वमौपचारिकमिति भावः। [यद्वा] कृतस्यान्तः समाप्तिर्ज्ञाने भवतीत्ययमर्थो यत्र प्रतिपाद्यते तत् कृतान्तमित्यु- च्यते। ज्ञाने कर्मणः परिसमाप्तिं प्रतिपादयतीति साङ्ख्यशास्त्रं कृतान्तमित्युच्यत इति भावः। अत इति। ज्ञाने कर्मसमाप्तिप्रतिपादकत्वा- दित्यर्थः। तस्मिन् कृतान्ते साङ्ख्ये वेदान्ते। साङ्ख्यस्य फलितार्थमाह—आत्मज्ञानार्थ इति। साङ्ख्यमात्मज्ञानम् , तत्प्रतिपादकत्वाच्छास्त्र- मपि साङ्ख्यमित्युच्यत इत्यर्थः। आत्मज्ञानमेव अर्थः फलमभिधेयो वा यस्य तदात्मज्ञानार्थम् , तस्मिन्। सिद्धये इति तादर्थ्ये चतुर्थी- त्याह—निष्पत्त्यर्थमिति। सर्वकर्मणां निष्पत्तौ हेतुभूतानि साङ्ख्यशास्त्रप्रसिद्धानि पञ्च कारणानि सन्ति; तान्यहं वक्ष्यामि त्वं सावधानो भवेत्यर्थः। यत्तु रामानुजः—सङ्ख्या बुद्धिः, तयाऽनुसंहितः साङ्ख्यः, कृतान्तो निर्णयः इति, तदसत् ; साङ्ख्यशब्देनैव वैदिकबुद्ध्यनुसंहित- वेदान्तशास्त्रसिद्धान्तरूपार्थस्य सिद्धत्वेन कृतान्तशब्दवैयर्थ्यप्रसङ्गात्। ‘ज्ञानयोगेन साङ्ख्याना’मिति वेदान्तशास्त्रस्य साङ्ख्यत्वप्रसिद्धेश्च। सेश्वरसाङ्ख्यं हि वेदान्तशास्त्रम्। तन्निष्ठत्वाच्च ज्ञानिनः साङ्ख्याः इत्युच्यन्ते। न च वेदान्तेष्वपि कर्मान्वयस्य स्थापितत्वान्नास्ति कृतान्तत्वं वेदान्तशास्त्रस्येति वाच्यम् ; वेदान्तेषु कर्मान्वयस्याज्ञपरत्वेनैव स्थापितत्वात्। न हि परमार्थसंन्यासिनां सांख्यानां कोऽपि कर्मान्वयः। ‘सर्वारम्भपरित्यागी’त्यादेरुक्तत्वादिहैव। ‘तत्र केन कं पश्येदि’त्यादिश्रुतेश्च। न चान्तशब्दस्य निर्णये रूढिरिति वाच्यम् ; ‘मृताववसिते रम्ये समाप्तावन्त इष्यते’ इति समाप्तावप्यन्तशब्दस्य रूढत्वात्। तस्मान्नात्र कृतान्तशब्दस्य निर्णयार्थवर्णनद्वारा वैयर्थ्यापादनं न्याय्यम्॥१३॥

क्रियेति। कथमधिष्ठानादीनां क्रियाकर्तृत्वम्? कथं वाऽविदुषस्तेष्वात्मत्वधीः? इत्याशङ्क्यानन्तरश्लोकचतुष्टयस्य तात्पर्यमाह—तदेतदिति। कर्मार्थानामधिष्ठानादीनामप्रामाणिकत्वाशङ्कामादावुद्धरति—पञ्चेति। उत्तरत्रेति अधिष्ठानादिषु वक्ष्यमाणेष्वित्यर्थः। वस्तूनां तेषामेव वैषम्यं दिदर्शयिषितं न हि चेतःसमाधानादृते ज्ञातुं शक्यते। सांख्यशब्दं व्युत्पादयति—ज्ञातव्या इति। आत्मा त्वम्पदार्थः, तत्पदार्थो ब्रह्म, तयोरैक्यधीः, तदुपयोगिनश्च श्रवणादयः पदार्थास्ते संख्यायन्ते व्युत्पाद्यन्ते। कृतान्तशब्दस्य वेदान्तविषयत्वं विभजते— कृत- मित्यादिना। वेदान्तस्य तत्त्वधीद्वारा कर्मावसानभूमित्वे वाक् योपक्रमानुकूल्यं दर्शयति—यावानिति। उदपाने कूपादौ यावानर्थः स्नानादि- स्तावानर्थः समुद्रे सम्पद्यते। अतो यथा कूपादिकृतं कार्यं सर्वं समुद्रेऽन्तर्भवति, तथा सर्वेषु वेदेषु कर्मार्थेषु यावत्फलं तावज्ज्ञानवतो ब्राह्मणस्य ज्ञानेऽन्तर्भवति, ज्ञानं प्राप्तस्य कर्तव्यानवशेषादित्यर्थः। तत्रैव वाक् यान्तरमनुक्रामति—सर्वमिति। उदाहृतवाक्ययोः तात्पर्यमाह—आत्मेति। आत्मज्ञाने सति सर्वकर्मनिवृत्तावपि कथं वेदान्तस्य कृतान्तत्वमित्याशङ्क्याह—अत इति। तानि मद्वचनतो निबोधेति पूर्वेण सम्बन्धः॥१३॥

१. ‘तस्यान्तः कृतस्य परिसमाप्तिर्यत्र’ इति पा.।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥१३॥

[[८६३]]

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। १विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम्॥१४॥

अधिष्ठानमिति। अधिष्ठानमाश्रयः। कस्याश्रयः? अत आह— इच्छेति। प्राणिनामिच्छादयो हि शरीरेऽभिव्यज्यन्ते, भोगा- यतनत्वाच्छरीरस्य। सुषुप्तिमृतिमूर्छासु शरीररहितस्य जीवस्य सुखदुःखादिसम्भोगादर्शनात्। तस्मादिच्छाद्यभिव्यक्तिरूपसंसाराश्रय- त्वादधिष्ठानं शरीरम्। उपाधिलक्षण इति। अन्तःकरणस्वरूपः। अहंवृत्तिः इदंवृत्तिरित्यन्तःकरणं द्विधा। तत्र– अहंवृत्तिर्विज्ञानमयो भोक्ता, इदंवृत्तिस्तु मनः करणमिति विवेकः। तस्मादहङ्कारः कर्ता। तेन हि चिदाभाससंयुक्तेन देहादितादात्म्याध्यासात् कर्माणि क्रियन्ते, तत्फलानि भुज्यन्ते चेति कर्ता भोक्ता च सः। तत्तादात्म्याध्यासात्तु प्रत्यगात्मनः कर्तृत्वभोक्तृत्वापत्तिः। शब्दाद्युपलब्धिः शब्दस्पर्शरूपाद्यनुभवः। द्वादशसङ्ख्यमिति। दशेन्द्रियाणि मनो बुद्धिश्चेति। विविधा बहुविधा, पृथग् असङ्कीर्णा, चेष्टा व्यापारः। कस्य चेष्टेत्यत आह—वायवीयेति। वायोः प्राणवायोरियं वायवीया। का सा चेष्टेत्यत आह— प्राणापानाद्येति। प्राणः प्राणनम् , अपानो विसर्जनम् , आदिपदादुदानादिवायुचेष्टा गिलनादयो ग्राह्याः। अनेन च चेष्टापदेन तदाश्रयः प्राणवायुर्ग्राह्यः। यद्वा चेष्ट्यतेऽनयेति चेष्टा, वायोर्भूतस्येमाः वायवीयाः वायुविकाराः प्राणापानाद्याः प्राणापानादिवायवो ‘विविधा च पृथक् चेष्टा’ इत्यनेनोच्यन्त इत्यर्थः। अन्नमयोऽधिष्ठानम् , प्राणमयश्चेष्टा, मनोमयः करणं, विज्ञानमयः कर्तेति बोध्यम्। दैवम् आदित्यादि। आदिपदाद् दिग्वातप्रचेतोऽश्वि- वह्नीन्द्रोपेन्द्रमित्रादिग्रहणम्। चक्षुरादीत्यादिपदाच्च श्रोत्रादिग्रहणम्। आदित्यादिदेवतानुग्रहादेव चक्षुरादयः स्वस्वकार्यं निर्वर्तयन्ती- त्यनुग्राहकत्वं चक्षुरादीनां दैवस्य। ‘दैवमन्तर्यामीश्वरः’ इति रामानुजः, तदसत् , अविक्रियप्रत्यगात्मस्वरूपत्वादन्तर्यामिणः। ‘निष्कलं निष्क्रियं शान्त’मिति हि श्रूयते। न च प्रेरणरूपा क्रियाऽस्तीश्वरस्येति वाच्यम् ; ‘त्वमिदं कुरु’ इतीश्वरेणान्तरेण प्रेर्यमाणस्य यस्य कस्याप्यदर्शनात्। अयस्कान्तलोहदृष्टान्तेनाविक्रियादेवेश्वरान्मनआदिप्रेरणसम्भवात्। ५अविक्रियस्यैव निधेः पुरुषप्रेरणसम्भवाच्च। न हि निधिः पुरुषं ‘त्वं मदर्थं भूखननादिकं कुरु’ इति प्रेरयन् दृष्टः। तथापि निधिप्रेरित एव भूखननादौ प्रवर्तते पुरुषः। निध्यर्थं तस्य तत्र प्रवृत्तत्वात्। तस्माद- विक्रियस्येश्वरस्य नात्र कर्महेतुत्वेन ग्रहणमुचितम्॥१४॥

कर्मार्थान्यधिष्ठानादीनि मानमूलत्वाज्ज्ञेयानीत्युक्तम्। इदानीं प्रश्नपूर्वकं विशेषतस्तानि निर्दिशति—कानीत्यादिना। प्रतीकमा- दाय व्याकरोति—अधिष्ठानमिति। उपाधिलक्षणो बुद्ध्यादिरुपाधिः, तल्लक्षणः तत्स्वभावः, बुद्ध्याद्यनुविधायी तद्धर्मानात्मनि पश्यन्नुप- हितः, तत्प्रधान इत्यर्थः। २तत्र कार्यलिङ्गकमनुमानं सूचयति—शब्दादीति। ज्ञानेन्द्रियाणि पञ्च, पञ्च कर्मेन्द्रियाणि, मनो बुद्धिश्चेति द्वादशसंख्यत्वम्। चेष्टाया ३विविधत्वं नानाप्रकारत्वम्। तदेव स्पष्टयति— वायवीया इति। पृथक्त्वम् असङ्कीर्णत्वम्। न हि प्राणापानादि- चेष्टानां मिथः सङ्करोऽस्ति। ४दैवमेवेति विशदयति—आदित्यादीति॥१४॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कानि तानीति? उच्यते— अधिष्ठानमिति। अधिष्ठानम् इच्छाद्वेषसुखदुःखज्ञानादीनामभिव्यक्तेराश्रयः अधिष्ठानं शरीरम् , तथा कर्ता उपाधिलक्षणो भोक्ता, करणं च श्रोत्रादिकं शब्दाद्युपलब्धये पृथग्विधं नानाप्रकारं द्वादशसंख्यं, विविधाश्च पृथक् चेष्टाः वायवीयाः प्राणापानाद्याः, दैवं चैव दैवमेव च अत्र एतेषु चतुर्षु पञ्चमं पञ्चानां पूरणम् आदित्यादि चक्षुराद्यनुग्राहकम् ॥१४॥

१. ‘विविधा च पृथक् चेष्टा’ इति रा.पा.। तदनुसारेण भाष्येऽपि एकवचनान्ततया पाठः। २. तत्र श्रोत्रादिके करणे। इन्द्रियाणामप्रत्यक्षत्वात् , शब्दाद्युपलब्ध्या तत्करणत्वेन श्रोत्रादीन्द्रियमनुमीयत इति भावः। ३. विविधत्वान्नानाप्रकारत्वम् इति पा.। ४. ‘दैवमेव विशदयति’ ‘दैवं विशदयति’ इति पा.। ५. अविक्रियस्य प्रेरकत्वे दृष्टान्तान्तरमिदम्। शब्दादिविषयाणां तत्तदिन्द्रियप्रेरकत्वमपीदृशमेवेति बोध्यम्। अ. १८. श्लो. १३ - १४ ]

[[८६४]]

शरीरेति। शरीरवाङ्मनोभिः यत् कर्म त्रिभिरेतैः प्रारभते निर्वर्तयति नरो न्याय्यं वा धर्म्यं शास्त्रीयं, विपरीतं वा अशास्त्रीयमधर्म्यम्। यच्चापि १निमिषितचेष्टादि जीवनहेतुः तदपि पूर्वकृतधर्माधर्मयोरेव कार्यमिति न्याय्यविपरीत- योरेव ग्रहणेन गृहीतम्। पञ्चैते यथोक्ताः तस्य सर्वस्यैव कर्मणो हेतवः कारणानि। नन्वेतानि अधिष्ठानादीनि सर्वकर्मणां २कारणानि ; कथमुच्यते ‘शरीरवाङ्मनोभिः यत् कर्म प्रारभते’ इति? नैष दोषः; विधिप्रतिषेधलक्षणं सर्वं कर्म शरीरादित्रयप्रधानम् , तदङ्गतया दर्शनश्रवणादि च जीवनलक्षणं त्रिधैव राशी- शरीरेति। नरः शरीरवाङ्मनोभिर्न्याय्यं वा विपरीतं वा यत् कर्म प्रारभते, तस्यैते पञ्च हेतवो भवन्ति। यत्कर्मेति। शारीरं वाचिकं मानसिकं वेत्यर्थः। ननु न्याय्यविपरीताभ्यां धर्माधर्माभ्यामन्यस्य निमेषादिकर्मणः का गतिः? अत आह—यच्चापीति। यच्च निमेषादिकम् , यच्च जीवनहेतुश्चेष्टितादिकं कृष्यादिव्यापारात्मकम् , तदपि न्याय्यविपरीतशब्दाभ्यामेव गृह्यते। धर्माधर्मकार्यत्वात् तस्य इत्यर्थः। जन्मान्तरकृतपापवशेन निमेषादिचेष्टाप्रतिबन्धसम्भवादन्धादीनां, तच्चेष्टा जन्मान्तरकृतधर्मकार्यभूता एवेति निश्चेतुं शक् यते। तथा पापवशात् कष्टजीवित्वस्य, पुण्यवशात् सुखजीवित्वस्य च कृषीवलादिषु , राजादिषु च दर्शनाज्जीवनहेतुकर्मविशेषोऽपि पुण्यपाप- प्रयुक्त एवेति भावः। ननु शरीरवाङ्मनोभिर्यत् कर्म क्रियते शारीरं वाचिकं मानसिकं वा तस्य कर्मणः शरीरवाङ्मनांसि त्रीण्येव हेतवः, न तु पञ्चाधिष्ठानादीनि पूर्वोक्तानि हेतव इति कृत्वा कथमुक्तं ‘पञ्चैते तस्य हेतवः’ इति चेत् , मैवम् ; नरस्य कर्तुश्चतुर्थस्योक्तत्वाद् दैवस्य पञ्चमस्य गम्यमानत्वाच्चेति। नन्विति। ‘एतान्यधिष्ठानादीनि सर्वकर्मणां निर्वर्तकानी’ति पूर्वमुक्त्वा कथमिह ‘शरीरवाङ्मनोभिर्यत्कर्म प्रारभते’ इत्युच्यत इति पूर्वपक्षः। परिहरति—नैष दोष इति। अधिष्ठानादिपञ्चकहेतुकमपि विधिप्रतिषेधलक्षणं तदङ्गभूतदर्शनश्रवणादिरूपं जीवनलक्षणं च सर्वमपि कर्म शरीरादित्रयप्रधानम्। ततश्च त्रिधैव राशीकृतं सत् शरीरादिभिरारभ्यत इत्युच्यते। यच्छारीरं कर्म गमनादिकं तदधिष्ठा- नादिपञ्चकनिर्वर्त्यमपि शरीरप्रधानतया शरीरेणारभ्यत इत्युच्यते। तथा वाचिकं भाषणादिकं यत् तदपि अधिष्ठानादि-पञ्चकनिर्वर्त्यमेव। तथापि वाक्प्रधानतया वाचाऽऽरभ्यत इत्युच्यते। तथा मानसिकं मननादिकर्म यत् तदधिष्ठानादिपञ्चकनिर्वर्त्यमपि मनःप्रधानतया मनसाऽऽरभ्यत इत्युच्यते। एवं शारीरवाचिकमानसिकभेदात् त्रिविधमपि कर्माधिष्ठानादिपञ्चकनिर्वृत्तं भवतीति न कोऽपि दोष इत्यर्थः। न केवलं त्रिविधस्य कर्मणः करणकाल एव शरीरादित्रिकप्राधान्यम् , किन्तु फलकालेऽपीत्याह— फलकाले ऽपीति। तत्प्रधानैरिति। प्रधानैस्तैस्त्रिभिरित्यर्थः। वागुपलक्षितैरिन्द्रियैः शरीरेण मनसा च शब्दादिसुखादिविषयानुभवादिति भावः। तस्माच्छरीरादित्रय- निर्वर्त्यस्यापि कर्मणः पञ्चापि पूर्वोक्ता हेतवो भवन्त्येवेत्याह—पञ्चानामिति। न विरुध्यते विरुद्धं न भवति। अधिष्ठानादिपञ्चकहेतुकमपि पञ्चानामधिष्ठानादीनामुक्तानां सर्वकर्मसिद्ध्यर्थत्वं स्फुटयति—शरीरेति। ननु जीवनकृतं निमेषोन्मेषादिकर्मान्तरं साधारणमस्ति। तत् कथं राशिद्वयकरणमिति? तत्राह—यच्चेति। अधिष्ठानादीनां कर्ममात्रहेतुत्वं प्रतिज्ञाय, शारीरादित्रिविधकर्महेतुत्वोक्तिरयुक्तेति शङ्कते—नन्विति। पूर्वापरविरोधं परिहरति— नैष दोष इति। ननु जीवनकृतानि स्वाभाविकानि कर्माणि दर्शनादीनि विधिनिषेधबाह्यत्वान्न देहादिनिर्वर्त्यानीत्याशङ्क्याह—तदङ्गतयेति। तस्य देहादित्रयस्य प्रधानस्याङ्गं चक्षुरादि, तन्निष्पाद्यत्वेन जीवनकृतं दर्शनादि प्रधानकर्मण्यन्तर्भूतमिति त्रैविध्यमविरुद्धमित्यर्थः। देहाद्यारभ्ये त्रिविधे कर्मणि सर्वकर्मान्तर्भावेऽपि, कथं पञ्चानामेवाधिष्ठानादीनां तत्र हेतुत्वम् , फलोपभोगकाले कारणान्तरापेक्षासम्भवा-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः। न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः॥१५॥

१. ‘निमिषितचेष्टितादि’ ‘निमेषादिकं चेष्टितादि’ इति पा.। २. ‘निर्वर्तकानि’ इति पा.।

[[८६५]]

कर्म शरीरादिप्रधानतया शारीरादिभेदेन त्रिविधं भवतीति न कोऽपि विरोध इति भावः॥१५॥

तत्रेति। एवं सति तत्र केवलमात्मानम् अकृतबुद्धित्वाद् यः कर्तारं पश्यति, दुर्मतिः स न पश्यति। कर्मणि निर्वर्त्ये सती- त्यन्वयः। दुर्मतित्वस्य हेतुत्वेनेति। आत्मनि कर्तृत्वदर्शनं दुर्मतित्वम्। दुष्टबुद्धिर्हि अकर्तर्यात्मनि कर्तृत्वदर्शनम्। एवंविधदर्शनस्य दुष्टत्वं प्रति हेतुस्तु अधिष्ठानादिपञ्चकस्य कर्तृत्वमेव। ‘अधिष्ठानादिपञ्चकं कर्तृ’ इत्यविद्वान् हि ‘कर्ताऽहम्’ इति पश्यति। तस्मादधिष्ठानादि- पञ्चके कर्तरि सति तत् तथा अगृहीत्वा य आत्मानं कर्तारं पश्यति, स दुर्मतिरेवेति दुर्मतित्वस्य हेतुभूतम् ‘एवं सती’ति वाक् यम्। तत्रेति प्रकृतेन सम्बध्यत इत्युक्तम् , तदेवाह—तेष्विति। प्रकृतेष्वधिष्ठानादिष्वित्यर्थः। ‘आत्मनोऽनन्यतमत्वेन’ इति पदद्वय- मध्याहर्तव्यं मूले इत्यभिप्रेत्य तथैवाध्याहृत्याह— आत्मन इति। कथमात्मानं कर्तारं पश्यतीत्यत आह— अहमेव कर्तेति। कस्य कर्तेत्यत आह— कर्मण इति। कीदृशस्य कर्मणः? अत आह— अविद्यया आत्मत्वेन परिकल्पितैः तैरधिष्ठानादिभिः पञ्चभिः क्रियमा- णस्येति। शुद्धम् अविक्रियमित्यर्थः। ततश्च कर्तृत्वविकारस्तत्प्रयुक्तभोक्तृत्वविकारश्च नात्मनः सम्भवतीति भावः। कस्माद् अयमज्ञः केवलात्मानं कर्तारं पश्यतीति पृच्छति—कस्मादिति। उत्तरयति—अकृतबुद्धित्वादिति। अकृता असंस्कृता बुद्धिर्यस्य तत्त्वात्। कैरसंस्कृतेत्यत आह—वेदान्तेति। वेदान्तशास्त्रमाचार्योपदेशो न्यायश्चेत्येतैस्त्रिभिः, न तु तर्कव्याकरणादिभिरिति भावः। ननु ये देहाद्यात्मवादिनो बौद्धादयस्ते आत्मानं कर्तारं पश्यन्तु नाम, कथं पुनरास्तिका वैदिकादयः? अत आह—योऽपीति। देहादिव्यतिरिक्तात्मवादी योऽप्यास्तिको वैदिकादिः सोऽपि केवलमात्मानं कर्तारं पश्यत्येव। तस्माद् असावपि ‘देहादिव्यतिरिक्तः कर्ताऽह’मिति ज्ञानवानपीत्यर्थः। अकृतबुद्धिरेवेति। देहादिविलक्षणाकर्त्रभोक्त्रात्मज्ञानाभावादिति भावः। किं न पश्यतीत्यत आह— दित्याशङ्क्य जन्मकालभाविनो भोगकालभाविनश्च सर्वस्य कारणस्य तेष्वेवान्तर्भावान्मैवमित्याह— फलेति ॥१५॥

क्रियाकर्तृत्वमधिष्ठानादीनामापाद्याविदुषस्तेष्वात्मत्वदृष्टिमनुवदति—तत्रेति। तत्पदपरामर्शयोग्यं प्रकृतं सर्वं कर्म। प्रतीकमादाय पूर्वेण सहाक्षरार्थं कथयति—एवमिति। अधिष्ठानादीनामुक्तरीत्या कर्तृत्वे सति अन्यगतं कर्तृत्वमात्मनो यतोऽध्यारोप्य पश्यति, अतो दुर्मतिः (इति) आत्मनि कर्तृत्वं पश्यन्नित्याह— तत्रैवमिति। कर्तारमित्यादि व्याचष्टे—तत्रेत्यादिना। तेषु अधिष्ठानादिषु। तैः अधिष्ठाना- दिभिरारोपितात्मभावैरित्यर्थः। अकर्तारमात्मानं कर्तारं पश्यतीत्यत्र प्रश्नद्वारा हेतुमाह—कस्मादिति। ननु शास्त्रसंस्कृतबुद्धिरेव अतिरि- क्तात्मवादी कर्तृत्वं तस्यानुमन्यते, नासौ कर्तृत्वमात्मनि पश्यन्नपि भवत्यकृतबुद्धिः, तत्राह—योऽपीति। तस्यापि शास्त्रपूर्वकमाचार्योप- देशेन, तदनुसारिन्यायैश्चानाहितबुद्धित्वाद् अकृतबुद्धित्वं सिद्धमित्यर्थः। कौटस्र्ह्यम् आत्मनः तत्त्वं याथात्म्यम्। कर्मणोऽपि तत्त्वम्

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कृतमुच्यते १शरीरादिभिरारभते इति। फलकालेऽपि तत्प्रधानैः २साधनैः भुज्यत इति पञ्चानामेव हेतुत्वं न विरुध्यते॥१५॥

तत्रेति। तत्रेति प्रकृतेन सम्बध्यते। एवं सति एवं यथोक्तैः पञ्चभिर्हेतुभिर्निर्वर्त्ये सति कर्मणि। तत्रैवं सतीति दुर्मतित्वस्य हेतुत्वेन सम्बध्यते। तत्र ३तेषु आत्मानमनन्यत्वेनाविद्यया परिकल्प्य, तैः क्रियमाणस्य कर्मणः ‘अहमेव कर्ता’ इति कर्तारमात्मानं केवलं शुद्धं तु यः पश्यति अविद्वान् ; कस्माद्? वेदान्ताचार्योपदेशन्यायैः अकृतबुद्धित्वाद् असंस्कृतबुद्धित्वात्। योऽपि देहादिव्यतिरिक्तात्मवादी ४आत्मानमेव केवलं कर्तारं पश्यति असावपि अकृतबुद्धिरेव। १. ‘शरीरादिभिरधिष्ठानादिभिरारभ्यते’ इति पा.। २. ‘साधनैः’ इति क्वचिन्न। ३. ‘एतेष्वात्मानमन्यतमत्वेन’ इति पा.। ‘तेष्वात्मनः अनन्यतमत्वेनाविद्यया परिकल्पितैः’ इति रा.पा.। ४. ‘अन्यमात्मानमेव’ इति पा.। तत्रैवं सति कर्तारमात्मानं केवलं तु यः। पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः॥१६॥

अ. १८. श्लो. १५ - १६ ]

[[८६६]]

अतोऽकृतबुद्धित्वान्न स पश्यति आत्मनस्तत्त्वम् , कर्मणो वा इत्यर्थः। अतो दुर्मतिः कुत्सिता विपरीता दुष्टाऽजस्रं जननमरणप्रतिपत्तिहेतुभूता मतिरस्येति दुर्मतिः। स पश्यन्नपि न पश्यति, यथा तैमिरिकोऽनेकं चन्द्रम् , यथा वाऽभ्रेषु धावत्सु चन्द्रं धावन्तम् , यथा वा वाहन उपविष्टोऽन्येषु धावत्सु आत्मानं धावन्तम्॥१६॥

आत्मनस्तत्त्वमिति। अर्थान्तरमाह—कर्मणो वेति। कर्मणस्तत्त्वं वेत्यर्थः। यद्वा वाशब्दः समुच्चयार्थः। आत्मनः कर्मणश्च तत्त्वं न वेत्तीत्यर्थः। आत्मनस्तत्त्वमविक्रियत्वम् , कर्मणस्तत्त्वं त्वधिष्ठानादिपञ्चकनिर्वर्त्यत्वमिति विवेकः। अत इति। अतत्त्ववित्त्वादित्यर्थः। दुष्टा मतिर्यस्य स दुर्मतिः। दुष्टशब्दार्थमाह—कुत्सितेति। फलितमाह—विपरीतेति। कुतोऽस्या मतेः ‘अहं कर्ते’त्येवंरूपाया दुष्टत्वम्? अत आह—अजस्रमिति। जननमरणप्रतिपत्तिः संसारः। ननु ‘पश्यन्नपि न पश्यती’ति कथं विरुद्धमुच्यते? अत आह—यथेति। तैमिरिकः तिमिरदोषदूषितनेत्र एकमेव चन्द्रमनेकचन्द्रत्वेन यथा पश्यन्नपि न पश्यतीत्युच्यते, तद्वत्। यद्वा अकर्तारमात्मानं कुतः कर्तारं पश्यतीत्यत आह—तैमिरिक इति। अविद्याहतबुद्धिरयमकर्तारमप्यात्मानं कर्तारं पश्यति, यथा तैमिरिक एकमपि चन्द्रमनेकं पश्यति, तद्वदित्यर्थः। ननु एकस्यैवात्मन अनेकत्वेन ग्रहणे भवतु स दृष्टान्तः; न त्विहेति चेत् , मैवम् ; यथावस्थितार्थस्यान्यथा ग्रहणांशे दृष्टान्तत्वात् तस्य। योग्यमेव दृष्टान्तान्तरमाह—यथा वेति। अभ्रेषु धावत्सु सत्स्वधावन्तमपि चन्द्रं धावन्तं यथा पश्यति, तथाऽधिष्ठानादिषु कर्माणि कुर्वत्सु सत्स्वकुर्वाणमप्यात्मानं कर्तारं पश्यतीति। ननु नायमपि दृष्टान्तः समीचीनः, परस्मिन् परकार्यदर्शनं दृष्टान्तार्थः, आत्मन्येव परकार्यदर्शनं दार्ष्टान्तिकार्थ इति भेदादिति चैत् , मैवम् , अक्रिये सक्रियत्वदर्शनस्यैवेह साम्यत्वेन विवक्षितत्वात्। योग्यमेव दृष्टान्तान्तरमाह—यथेति। वाहने शिबिकादावुपविष्टः पुरुषोऽन्येषु शिबिकावाहिषु धावत्सु सत्सु आत्मानमेव धावन्तं पश्यति। एवमन्येषु कुर्वत्सु सत्सु आत्मानमकर्तारमपि कर्तारं पश्यति। य एवं पश्यति स विपरीतबुद्धिरेव। यथावस्थितार्थादर्शनाद् मिथ्यार्थदर्शनाच्चेति। नास्य दुर्मतेः सर्वकर्मत्यागः सम्भवति। ननु तत्रेति निर्धारणे सप्तमी। ततश्च तत्र तेषां मध्ये आत्मानं केवलम् आत्मानमेव यः कर्तारं पश्यति स दुर्मतिः। अधिष्ठा- नादिपञ्चकस्य कर्मनिर्वर्तकत्वेनात्मन एकस्यैव कर्तृत्वानुपपत्तेः। न चाधिष्ठानादिष्वात्माऽनुक्त इति वाच्यम् ; ‘कर्ता’ इत्यनेनोक्तत्वात्। ‘कर्ता शास्त्रार्थवत्त्वाद्’ इति ह्यात्मनः कर्तृत्वं स्थापितं सूत्रकारैरिति द्वैतिनः पूर्वपक्षयन्ति। अत्रोच्यते—यदि ‘कर्ता’ इत्यनेन जीवात्मोच्यते, तर्हि जीवात्मानं कर्तारं यः पश्यति स सुमतिरेवेति कथं दुर्मतित्वं तस्य? न चात्मानमेकमेव यः कर्तारं पश्यति स दुर्मतिः; अधिष्ठानादिपञ्चकस्यापि कर्तृत्वेन दर्शनीयत्वादिति वाच्यम् , पूर्वं जीवस्यैव कर्तृत्वमुक्तं, न त्वधिष्ठानादेरिति। यद्यधिष्ठानादयः पञ्चापि कर्तारः स्युस्तर्हि ‘अधिष्ठानं तथा कर्ता करणं चे’ति कर्तृशब्देन कथं जीवस्यैव ग्रहणं स्यात्? कथं वा सर्वसामान्येन कर्तृत्वेन तस्य निर्देशः स्यात्? ‘अधिष्ठानं तथा जीवः करणं चे’ति हि नोक्तं व्यासेन। अधिष्ठानादयो हि कर्तुर्जीवस्य साहाय्यकारिण एव। यथा वास्यादयः तक्षकस्य। तस्माद् ‘आत्मैक एव कर्ते’ति ‘कर्ताऽह’मिति यः पश्यति, स सुमतिरेव१। अविद्याकृताधिष्ठानादिकृतत्वेनात्मास्पर्शित्वम्। आत्मकर्मणोस्तत्त्वदर्शनाभावः अतःशब्दार्थः। दुष्टत्वं स्पष्टीकर्तुं दुर्मतित्वं विवृणोति— जननेति। ‘अहं कर्ते’त्यात्मदर्शनवतोऽपि नाविदुषस्तद्दर्शनमस्तीत्यत्र दृष्टान्तमाह—यथेति। तिमिरोपहतचक्षुरनेकं चन्द्रं पश्यन्नपि तत्त्वतो न तं पश्यति, एवम् अविद्वानात्मानं कर्तारं पश्यन्नपि तत्त्वतो न तं पश्यतीत्यर्थः। अधिष्ठानादिष्वविद्यया सम्बद्धात्मनः स्वात्मनि तद्गतक्रियारोपे दृष्टान्तमाह—यथा वेति। अन्येषु वाहकेषु पुरुषेषु धावनकर्तृषु वाहने स्थितः स्वात्मानं प्रधावनकर्तारमविवेकादभि- मन्यते। तथाऽधिष्ठानादिषु क्रियाकर्तृषु तद्गतं स्वात्मानं कर्तारं मन्यमानो दुर्मतिरित्यर्थः॥१६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. त्वन्मते इति शेषः। तथा च तस्य दुर्मतित्वोक्त्यसंगतिस्त्वन्मते इति भावः।

[[८६७]]

न चाधिष्ठानादिसहित एवात्मा कर्ता, न तु केवल इति कृत्वा केवलमात्मानं कर्तारं यः पश्यति, स दुर्मतिरेवेति वाच्यम् ; तथा सत्यकर्तृत्वस्यैव प्राप्तत्वादात्मनः। न च शरीराधिष्ठातृत्वरूपं कर्तृत्वं स्वतोऽप्यस्तीति नाकर्ताऽऽत्मेति वाच्यम् ; तथा सति केवलम् आत्मानं यः कर्तारं पश्यति स सुमतिरेव। अधिष्ठानादिसाहाय्यकं विनाऽपि कर्तृत्वस्य सत्त्वादात्मनः। न च – शरीराधिष्ठानकर्तृत्वादात्मा कर्तेति निर्दिष्टः। गमनादिकं कर्म तु नात्मा केवलो निर्वर्तयितुमीष्टे। अत उक्तं शारीरादि- कर्मत्रये यः केवलमात्मानं कर्तारं पश्यति स दुर्मतिरिति – वाच्यम्। किमयं दुर्मतिः क्रियमाणं कर्म शारीरं वाचिकं मानसिकं वेति वेद, उत न? आद्ये, शारीरमिदं कर्म शरीरप्रधानमिति जानन् कथमात्मानं शरीरसहायरहितं केवलं कर्तारं पश्येत्? एवं वाचिकं मानसिकं चेन्द्रियप्रधानं मनःप्रधानमिति जानन् कथमात्मानमिन्द्रियमनःसहायरहितं कर्तारं पश्येत्? न कथमपि। द्वितीये, शरीरवाङ्मनांस्येवा- त्मत्वेन स वेदेति कथं शरीरादिविलक्षणे आत्मनि कर्तृत्वानुसन्धानं तस्य? तस्मादहं कर्तेति यः प्रत्येति स यदि बौद्धादिर्नास्तिकः, तर्हि देहादिसंघातात्माभिमानित्वेन संघातमेव कर्तारं पश्यति, न केवलमात्मानम्। स यद्यास्तिकस्तर्हि देहादिविलक्षणमात्मानं कर्तारं जानन्नपि न केवलमात्मानं कर्तारं जानाति, किन्तु मनइन्द्रियादिसहितमेव। स ह्यहं कर्ता, मनइन्द्रियादीनि करणानि, शरीरेण मनसा वाचा चेदं करोमीति मन्यते। तस्मान्न सिध्येदेव तव मते दुर्मतिः। य आत्मानं केवलं कर्तारं पश्यति। अतो व्यर्थ एव स्यात् सर्वोऽप्ययं श्लोकस्तव मते इत्यहो ! मूलच्छेदी तव पाण्डित्यप्रकर्षः! यत्तु रामानुजः—एवं वस्तुतः परमात्मानुमतिपूर्वके जीवात्मनः कर्तृत्वे सति तत्र तत्र कर्मणि केवलमात्मानमेव यः कर्तारं पश्यति स दुर्मतिरिति, तत्तुच्छम् , पूर्वोक्तार्थपरामर्शिना एवंशब्देन वस्तुत इत्याद्यर्थप्रतिपादनासम्भवात्। न हि सोऽर्थः पूर्वमुक्तः। न च ‘दैवं चैवात्र पञ्चम’मित्यनेनोक्त इति वाच्यम्। ‘पञ्चैते तस्य हेतवः’ इत्युक्तत्वाद् दैवस्येश्वरस्य कर्तुर्जीवस्य च पञ्चकान्तःपातित्वेन कर्म- हेतुत्वांशेऽविशेषात्। परमात्मानुमत्याऽपि जीवात्मन एकस्यैव कर्तृत्वेन तज्ज्ञानस्यादुष्टत्वाच्च। कथमन्यथा ‘अधिष्ठानं तथा कर्ते’ति कर्तृशब्देन जीवग्रहणं स्यात्? न च – केवलमात्मानं कर्तारं पश्यतीत्यस्य परमात्मानुमतिं विनापि जीवं कर्तारं पश्यतीत्यर्थ इति – वाच्यम् ; केवलशब्दादेतादृशार्थालाभात्। न च केवलं प्रेरकेश्वररहितम् अर्थादीश्वरप्रेरणरहितमिति वाच्यम् ; ईश्वरप्रेरितोऽहमिदं करोमीति जानन्नपि तत्फलमवश्यमनुभवेदेवेति किं फलं तज्ज्ञानस्य, येन तज्ज्ञानरहितो दुर्मतिः स्यात्? ईश्वरमभ्युपगच्छन्तः सर्वेऽप्यास्तिकाः स्वस्येश्वरप्रेरणं जानीयुरेवेति किं फलं तत्प्रतिपादनस्येह वेदान्तशास्त्रे? मोक्षाय हि वेदान्तशास्त्रं प्रवर्तितमिदमीश्वरेण। न हि स्वस्येश्वरप्रेरणज्ञानात् कस्यापि मोक्षः, नापि वैदिकैरविदितोऽयमर्थः। येनाज्ञातार्थज्ञापनं फलं स्यात्। न च नास्तिकस्य दुर्मतित्वमिहोच्यत इति वाच्यम् ; नास्तिको हि देहाद्यतिरिक्तं कर्तारमात्मानं न वेत्ति। येनेह स निन्द्येत। किञ्च यः परमात्मानुमत्या कर्म करोतीत्युच्यते, स जीवः किं वस्तुतः कर्ता, उतोदासीनोऽकर्ता? आद्ये, किं परानुमत्या तस्य? द्वितीये, कथमकर्तुर्वस्तुतः कर्तृत्वम्? न ह्यचलः आकाश ईश्वरानुमत्याऽपि चलति। न च – वस्तुतः कर्ता सन्नपि जीवस्तत्तत्कर्मविशेषे ईश्वर- प्रेरितः सन्नेव प्रवर्तते, राजचोदितभृत्यवदिति – वाच्यम् ; तथा सति परमात्मानुमतिपूर्वकं जीवात्मनः कर्तृत्वमिति वचनस्या- युक्तत्वात्। स्वाभाविकमेव हि जीवात्मनः तत्तत्कर्मकर्तृत्वमिति तद्वचनस्यार्थ इति वाच्यम् , धर्माधर्मसंस्कारप्रयुक्तत्वात् तत्तत्कर्म- कर्तृत्वस्य जीवात्मनः। न हि साक्षिभूतस्येश्वरस्यानुमतिरननुमतिर्वा कल्पयितुं शक् या। तथा सति विकारित्वापत्तेः। साक्षित्वस्य निर्विकारत्वरूपत्वात्१। हिंसादिकर्मसु प्रवर्तनोन्मुखस्य जीवस्यानुमतिप्रदानेनेश्वरस्य नैर्घृण्यादिदोषप्रसङ्गाच्च। न च – प्राचीनेषु कर्मसु जीवं तत्र तत्र प्रेरयत्सु सत्सु ईश्वरोऽनुमन्यत इतीश्वरानुमत्यैव कर्मणां प्रेरकत्वमिति – वाच्यम् ; ईश्वरानुमत्यभावे कर्मणामप्रेरकत्व- प्रसङ्गेन (तत्तद्दुष्टकर्मप्रेरकत्वप्रसङ्गेन) तत्तद्दुष्टकर्मप्रेरकत्वरूपर्नैर्घृण्यस्य पुनरपीश्वरे प्रसङ्गात्। न च जडानां कर्मणां प्रेरकत्वासम्भवात् तत्तत्कर्मानुगुण्येनेश्वर एव प्रेरयतीति वाच्यम् ; जडाया अप्ययस्कान्तशिलाया लोहप्रेरणदर्शनात्। ईश्वरस्यापि करणरहितस्य राजभृत्यादिवत् प्रेरणासम्भवाच्च। तस्मादीश्वरे साक्षिभूते सति तत्तत्कर्माण्येव तं तं तत्र तत्र प्रेरयन्ति। तच्च प्रेरणं साक्षिण्यारोपितमज्ञानात्। तदेवारोपणम् भाष्यार्कप्रकाशः अ. १८. श्लो. १६ ] १. उदासीनत्वे सति बोद्धृत्वं हि साक्षित्वम्। औदासीन्यं च निर्विकारत्वमिति भावः।

[[८६८]]

कः पुनः सुमतिः यः सम्यक् पश्यतीति? उच्यते— यस्येति। यस्य शास्त्राचार्योपदेशन्यायसंस्कृतात्मनो न भवति अहङ्कृतः ‘अहं कर्ता’ इत्येवंलक्षणो भावो भावना प्रत्ययः। ‘एत एव पञ्चाधिष्ठानादयोऽविद्यया आत्मनि कल्पिताः सर्वकर्मणां कर्तारः, नाहम् , अहं तु तद्व्यापाराणां साक्षिभूतः, ‘अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः’ (मु.उ.२.१.२) केवलोऽविक्रियः’– इत्येवं पश्यतीत्येतत्। बुद्धिः अन्तःकरणं यस्यात्मनः उपाधिभूता न लिप्यते विपरीतदृष्टेर्दुर्मतित्वं शिष्ट्वा, सम्यग्दृष्टेः सुमतित्वं प्रश्नपूर्वकमाह—कः पुनरित्यादिना। ‘अहं कर्ते’त्यात्मनि कर्तृत्वप्रत्ययाभावे कुत्र कर्तृत्वधीरित्याशङ्क्याह—एत इति। कथं तर्हि १अकर्तृत्वधीरात्मनीत्याशङ्क्याधिष्ठानादीनां तद्व्यापाराणां च साक्षित्वादित्याह—अहं त्विति। आत्मनो न स्वतोऽस्ति क्रियाशक्तिमत्त्वमित्यत्र प्रमाणमाह—अप्राणो हीति। नापि तस्य स्वतो ज्ञानशक्तिमत्त्वमित्याह—अमना इति। उपाधिद्वयासम्बन्धे शुद्धत्वं फलितमाह—शुभ्र इति। कारणसम्बन्धादशुद्धिमाशङ्क्योक्तम्—अक्षरादिति। कार्यकारणयोरात्मास्पर्शि- त्वेन पार्थक् ये सद्वितीयत्वमाशङ्क्य , तयोरवस्तुत्वान्मैवमित्याह—केवल इति। जन्मादिसर्वविक्रियारहितत्वेन कौटस्र्ह्यमाह—अविक्रिय यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वाऽपि स इमान् लोकान् न हन्ति न निबध्यते॥१७॥

अन्तर्यामिब्राह्मणेनाप्यनुवदितम्। कथमन्यथा निर्विकारस्येश्वरस्य साक्षिणः प्रेरकत्वरूपो विकारः स्यात्? एवं सति यः अहं कर्तेति मन्यते, स दुर्मतिः। यः पुनरीश्वरप्रेरितोऽहं कर्तेति मन्यते सोऽतीव दुर्मतिरिति सिद्धम्। ईश्वरेऽपि प्रेरकत्वविकारस्यानेनारोपितत्वात्। अतः कथमुच्यते— य ईश्वरानुमत्याऽऽत्मानं कर्तारं पश्यति, स पश्यतीति?। तस्माच्छङ्करभगवत्पादोक्तार्थ एवानवद्यः। ननु आत्मनोऽनन्यतमत्वेनेति मूलाद् बहिःपदकल्पनं तन्मतेऽप्ययुक्तमेवेति वाच्यम् ; शास्त्राद्यविरोधेन तत्कल्पनस्य युक्त- त्वात्। यद्वा तत्रैवं सतीति मूलान्वयः। तत्र प्रकृते अधिष्ठानादिपञ्चके एवं सति पूर्वोक्तविधया सर्वकर्मकारणे सतीति। अथवा तत्र प्रकृते शारीरादिभेदभिन्ने सर्वस्मिन् कर्मणि, एवं सति यथोक्तैः पञ्चभिर्हेतुभिर्निर्वर्त्ये सतीत्यर्थः। आत्मकर्तृत्वदर्शनस्य दुष्टत्वे हेतुकथनम्— तेष्वात्मनोऽनन्यतमत्वेनेति। यद्यधिष्ठानादिष्वन्यतमः स्यादात्मा तर्हि तस्य कर्तृत्वदर्शनं युक्तमेव स्यात् , न तु तथाऽस्ति। अधिष्ठाना- दिष्वन्यतमत्वेनात्मा हि न निर्दिष्टः। अत एवात्मा केवलः शुद्धः। न च ‘कर्ते’त्यनेनात्मा तेषु निर्दिष्ट इति वाच्यम् ; विज्ञानमय- कोशस्योपाधिलक्षणस्य तत्र कर्तृत्वेन निर्देशात्। न च ‘कर्ता शास्त्रार्थवत्त्वा’दित्यधिकरणविरोधः। अहङ्कारतादात्म्याध्यासेन कर्तेति निर्दिष्टत्वात् तत्र। कथमन्यथा ‘साक्षी चेता केवलो निर्गुणश्च’, ‘निष्कलं निष्क्रियं शान्तम्’, ‘अविकार्योऽयमुच्यते’ इत्यादिश्रुतिस्मृति- विरुद्धमुच्येतात्मनः कर्तृत्वं परानुमतिपूर्वकं कर्मचोदनपूर्वकं वेति सङ्क्षेपः॥१६॥

यस्येति। यस्याहङ्कृतो भावो नास्ति, यस्य बुद्धिर्न लिप्यते, स इमान् [लोकान् ] हत्वाऽपि न हन्ति न निबध्यते। अहङ्कृतभावा- भावे हेतुप्रदर्शनाय यस्येत्येतद् विशिनष्टि—शास्त्रेति। अकृतबुद्धिर्दुर्मतिरिति पूर्वमुक्तत्वात् कृतबुद्धिः सुमतिर्यच्छब्दार्थ इति भावः। प्रत्ययो ज्ञानम् , न भवति ‘अहं कर्ते’ति यो न प्रत्येतीत्यर्थः। तर्हि कः प्रत्ययस्तस्य भवतीत्यत आह—एत एवेति। यद्वा ‘अहं कर्ते’ति प्रत्ययः कुतोऽस्य न भवतीत्यत आह—एत एवेति। अथवा ‘अहं कर्ते’ति प्रत्ययाभावमेवोपपादयति—एत एवेति। अविद्ययाऽऽत्मनि कल्पिता एते पूर्वोक्ता अधिष्ठानादयः पञ्चैव सर्वकर्मणां कर्तारो भवन्ति। हेतुत्वादिति भावः। अहं कर्ता न भवामि, यस्मादहं तद्व्यापारा- णाम् अधिष्ठानादिकर्मणां साक्षिभूतः। न हि कर्तृव्यापारः साक्षिणः सम्भवतीति भावः। उपाध्यभावाच्च नाहं कर्तेत्याह—अप्राण इति। प्राणरहितो मनःशून्यश्च, उपलक्षणमिदमिन्द्रियादिराहित्यस्य। अत एव शुभ्रः। परतः कारणभूताद् अक्षरात् प्रकृतेः परो विलक्षणः। अत एव केवलः। अत एवाविक्रियश्च भवामीत्येवं पश्यतीत्येतत् जानातीति यावत्। ‘यस्य बुद्धि’रित्यात्मबुद्ध्योः कः सम्बन्धः? अत भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या १. अधिष्ठानादिषु कर्तृष्वात्मनोऽप्यन्तर्भावादिति शङ्कितुराशयः। विशिष्टस्य तत्त्वेऽपि साक्षिणो न तदन्तर्भाव इति समाधातुराशयः। ‘कर्तृत्वधीरात्मनि’ इति पा.।

[[८६९]]

आह—उपाधिभूतेति। नानुशयिनी भवति, न तप्यत इत्यर्थः। तापप्रकारमेव दर्शयति—इदमिति। बुद्धिर्देहादिव्यतिरिक्तात्मदर्शित्वा- न्नैवं तप्यत इत्यर्थः। नन्वनात्मनो माऽस्तु लेपः, कथं बुद्धेरपि लेपाभावः सम्भवति? कर्तृत्वाद् भोक्तृत्वाच्च बुद्धेरिति चेत् , मैवम् ; संस्कृता हि बुद्धि- रात्मानमविक्रियं पश्यन्ती स्वयमपि तत्तादात्म्याध्यासेनाविक्रियैव वर्तते, न तु देहादितादात्म्याध्यासेन ‘अहं करोमि, भुञ्जामी’ति [‘भुञ्जे’ इति] मन्यमाना सती विक्रियते। तस्माद् युक्त एव बुद्धेर्लेपाभावः। यः ‘अहं करोमी’ति मन्यते तस्यैव बुद्धेर्लेपः। यो नाहं करोमीति मन्यते, तस्य बुद्धिर्निर्लेपा स्वच्छैव, परिशुद्धत्वादिति बोध्यम्। वस्तुतस्तु – यो नाहं करोमीति मन्यते, स एव ‘नाहं साध्वकरवम् , असाध्वेवाहमकरवम् , ततो नरकं गमिष्यामी’त्येवं न मन्यते। स चैवं मन्यमानः पदार्थो नात्मा, तस्य वृत्तिज्ञानायोगात्। किन्तु बुद्धिरेव। इयं च बुद्धिः कदाचिदात्मतादात्म्याध्यासाद् निर्लेपोऽहमिति मन्यते। कदाचित्पुनः मम बुद्धिर्निर्लेपेति मन्यते। उक्तं हि ‘अहंवृत्तिरिदंवृत्तिरित्यन्तःकरणं द्विधा’ इति। तस्मात् कर्तृभावापन्नस्य विज्ञानमयशब्दवाच्यस्यान्तःकरणस्य बुद्धिपर्यायस्य शास्त्रादिवशाद् नाहं करोमीति प्रत्ययोत्पत्तिः। तस्यैव करण- भावापन्नस्य मनोमयशब्दवाच्यस्यान्तःकरणस्य तापाभावश्चेत्युपपन्नम्। ततश्च अहं नरकं गमिष्यामीति तापाभावो बुद्धेरिति वचनात् स तापोऽपि बुद्धेरेव, न त्वात्मन इति सूचितम्। तेन चाविक्रियत्वमात्मनः फलितम्। निरहङ्कारबुद्धितादात्म्याध्यासाद् यस्य नाहङ्कृतो भाव इत्युक्तम्। बुद्धावात्मीयत्वाध्यासात्तु यस्य बुद्धिर्न लिप्यत इत्युक्तमिति विवेकः। स इति। यस्यान्तःकरणं निरहङ्कारं निर्लेपं च स इत्यर्थः। नाहं करोमीति, नाहं लिप्त इति च मन्यमानेनान्तःकरणेन तादात्म्याध्यासं प्रपन्नो यः स विद्वानिति यावत्। परिशुद्धान्तः- करणतादात्म्याध्यासं प्रपद्य नाहं कर्तेति, मम बुद्धिर्न लिप्तेति च यः प्रत्येति स विद्वानिति भावः। यद्वा यस्योपाधिभूता बुद्धिरहं करोमीति, अहं नरकं गमिष्यामीति च न मन्यते न तप्यते च स आत्मेत्यर्थः। अथवा यस्या- न्तःकरणावच्छिन्नस्य प्रमातुरहं कर्तेति न प्रत्ययः, नाप्यन्तःकरणस्यानुशयः स प्रमातेत्यर्थः। न स पश्यति दुर्मतिरिति पूर्वमुक्तत्वा- दाह—स सुमतिः, स पश्यति चेति। स एव सम्यग्दर्शीत्यर्थः। लोक् यन्ते दृश्यन्त इति लोकाः प्राणिनः। तत्कार्येण प्राणिहननकार्येणा- धर्मफलेन नरकदुःखेन न सम्बध्यते सम्बद्धो युक्तो न भवति। नास्य हननक्रियासम्बन्धः, नापि तत्फलसम्बन्ध इत्यर्थः। ‘एतान् न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन !’ ‘पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः’ ‘स्वजनं हि कथं हत्वा सुखिनः स्याम माधव !’ इत्यर्जुनेन प्रथममुक्तत्वात् तत्प्रतिक्षेपायोक्तं भगवता ‘हत्वाऽपि स इमान् लोकान् न हन्ति न निबध्यते’ इति। ननु ‘हत्वाऽपि न हन्ती’त्येतत् स्तुतिवचनमपि विरुद्धमेवेत्याक्षिपति—नन्विति। परिहरति—नेति। एषः हन्तुरपि हननाभाव- प्रतिपादनं न दोषः। कुतः? लौकिकी च पारमार्थिकी च लौकिकपारमार्थिक् यौ,२ते च ते दृष्टी दर्शने, तयोर्लौकिकपारमार्थिकदृष्ट्योरपेक्षया १नानुशायिनी भवति, ‘इदमहमकार्षम् , तेनाहं नरकं गमिष्यामि’ इत्येवं यस्य बुद्धिर्न लिप्यते, स सुमतिः, स पश्यति। हत्वाऽपि स इमान् लोकान् सर्वानिमान् प्राणिनः इत्यर्थः। न हन्ति हननक्रियां न करोति। न निबध्यते नापि तत्कार्येणाधर्मफलेन सम्बध्यते। ननु ‘हत्वाऽपि न हन्ति’ इति विप्रतिषिद्धमुच्यते, यद्यपि स्तुतिः। नैष दोषः; लौकिकपारमार्थिकदृष्ट्यपेक्षया इति। ‘बुद्धिर्यस्ये’त्यादि व्याचष्टे—बुद्धिरिति। नानुशायिनी नानुशयवती। न क्लेशशालिनीत्यर्थः। द्वितीयपादस्याक्षरार्थमुक्त्वा वाक् यार्थ- माह—इदमिति। पापं कर्म इदमा परामृश्यते। लोकानां प्राणसम्बन्धाभावे कुतो हिंसेत्याशङ्क्याह—प्राणिन इति। विरुद्धार्थोक्त्या स्तुतिरपि न युक्तेति शङ्कते—नन्विति। विरोधं परिहरति—नैष दोष इति। लौकिकदृष्टिमवष्टभ्य ‘हत्वाऽपी’ति

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘नानुशयिनी’ इति पा.। २. सामान्ये नपुंसकमिति आश्रित्य लौकिकशब्देन नपुंसकलिङ्गेन विग्रहो युक्तः इति भाति। अन्यथा द्वन्द्वे पूर्वपदस्य पुंवद्भावाभावेन उक्तरूपानुपपत्तेः। लौकिकशब्देन लक्षणया लौकिकदृष्टिविवक्षणात् पारमार्थिकदृष्टिशब्देन द्वन्द्वो वा।

[[अ. १८. श्लो. १७]] [[८७०]]

तदुपपत्तेः। देहाद्यात्मबुद्ध्या ‘हन्ताऽहम्’ इति लौकिकीं दृष्टिमाश्रित्य ‘हत्वाऽपि’ इत्याह। यथादर्शितां पारमार्थिकीं दृष्टिमाश्रित्य ‘न हन्ति न निबध्यते’ इति। १तदुभयमुपपद्यत एव। तदुपपत्तेः ‘हत्वाऽपि न हन्ती’ति वचनस्योपपन्नत्वात्। तदेव विवृणोति—देहादीति। देहाद्यात्मबुद्धिप्रयुक्तां ‘हन्ताऽह’मित्याकारिकां लौकिकदृष्टिम् , व्यवहारमिति यावत् , आश्रित्य ‘हत्वाऽपी’त्याह भगवानिति शेषः। यथादर्शितां पूर्वं प्रपञ्चितां पारमार्थिकदृष्टिं सम्यग्दर्शनमाश्रित्य ‘न हन्ति न निबध्यते’ इत्याह। तस्मादेतदुभयमप्युपपद्यत एव। देहेन्द्रियादिषु शत्रुहननक्रियां निर्वर्तयत्सु सत्सु ‘गुणा एव हननक्रियाकर्तारो, न त्वह’मित्यनुसन्धानाद् विदुषो हननक्रिया- तत्फलाभ्यां न कोऽपि सम्बन्धगन्धः। परन्तु प्राकृतजनाः शत्रून् घ्नन्तं देहेन्द्रियादिसंघातं विदुषो दृष्ट्वा ‘विद्वानयं शत्रून् हन्ती’ति मन्यन्तेऽविवेकात्। तेषां दृष्टिमाश्रित्य ‘हत्वाऽपि स इमान् लोकानि’त्युक्तम्। विदुषो दृष्टिं पारमार्थिकीमाश्रित्य तु ‘न हन्ति न निबध्यते’ इत्युक्तं श्रीकृष्णेनेति भावः। ‘हत्वाऽपी’त्यनेनापिशब्देन किम्पुनर्भुक्त्वा गत्वा यष्ट्वा[इष्ट्वा] दृष्ट्वा वा न भुङ्क्ते न गच्छति न यजते न पश्यती- त्यादिकं वक्तव्यमिति सूच्यते। ततश्च विदुषः सर्वकर्मसंन्यासस्तत्फलासम्बन्धश्च सिद्धः। अत एव ‘न हि देहभृता शक् यं त्यक्तुं कर्माण्य- शेषतः’ इत्यत्र ‘देहभृताऽज्ञेने’ति व्याख्यातमाचार्यैः, प्रकृतश्लोकेन विदुषः सर्वकर्मसंन्याससम्भवो वक्ष्यत इत्यभिप्रायेण। ननु विदुषः कर्माधिकार एव नास्तीति पूर्वं प्रतिपादितं तत्र तत्र। कथमिदानीं ‘हत्वाऽपि स इमान् लोका’नित्युच्यत इति चेत्? नैष दोषः, विदुषः कर्मसंन्यास एवाधिकारो, न तु कर्मणीति यदुक्तं तत् सत्यमेव। परन्तु ‘लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसी’ति पूर्वोक्तविधया क्षत्रियस्यार्जुनस्य विदुषोऽपि जनकादेरिव लोकसंग्रहार्थं कर्मणि प्रवृत्तेरुचितत्वेन हत्वाऽपीत्यादिकमुक्तम्। अयं भावः− यो देहादिविलक्षणब्रह्मात्मदर्शी विद्वान् स यदि ब्राह्मणस्तर्हि सर्वकर्मसंन्यास एवाधिकारस्तस्य। ‘ब्राह्मणो निर्वेदमायादि’त्यादिश्रुतेः। लोकसंग्रहार्थमपि तेन कर्मसंन्यासस्यैव कर्तव्यत्वात्। स यदि क्षत्रियादिस्तर्हि लोकसंग्रहार्थं स्वधर्मयुद्धाद्य- नुष्ठान एव तस्याधिकारः। अर्जुनस्य तु क्षत्रियत्वेन विदुषोऽपि युद्ध एवाधिकारः, न तु संन्यास इत्यभिप्रेत्य तमुद्दिश्योक्तम्— हत्वा- ऽपीति। त्वं देहेन्द्रियादिषु कर्तृत्वमारोप्य नाहं कर्तेति मन्यमानःसन् ‘नरकमहं गमिष्यामी’ति खेदं, ‘स्वर्गमहं गमिष्यामी’ति मोदं च चित्तेऽकुर्वाणः सन् स्वधर्मत्वेन प्राप्तमिमं सर्वशत्रुसंहारं कुरु । नानेन तव कोऽपि बन्धः स्याद्, ईश्वरेण मयोक्तश्चायमर्थो नान्यथा भवितुमर्हतीत्यर्जुनं प्रत्युपदेष्टुः कृष्णस्याशयः। इमान् सर्वान् लोकानित्यस्य च धार्तराष्ट्राद्यान् इमान् दृश्यमानान् सर्वान् शत्रूनित्यर्थः। अत्र च सर्वानित्यनेन न केवलं शत्रु- हननादेव विदुषस्तव बन्धाभावः। किन्तु मित्रादिसर्वप्राणिहननादपि बन्धाभाव एव, ‘अहं कर्ते’ति प्रत्ययाभावात्। ‘अहं करोमी’ति प्रत्ययो हि बन्धहेतुः। अन्यथा वासुदेवस्य जनार्दनस्य भूभारापहरणार्थमवतीर्णस्य मम च सर्वजगत्संहारात् सर्वशत्रुसंहारात् पुत्र- मित्रादिस्वजनसंहाराच्च करिष्यमाणात् स्याद्धि महाननर्थः। तस्माद् ‘नाहं कर्ता, गुणा एव कर्तारः’ इतीमं विवेकमाश्रित्य यथाऽहं प्रलयादौ सर्वजगत्संहारादिकं कुर्वन्नपि न तत्फलेन सम्बध्ये, तथा त्वमपीमान् सर्वान् शत्रून् संहर दर्शितविवेकशाली सन्। ततो न त्वं तत्फलेन सम्बध्यसे। यो हि ‘कर्ताऽह’मिति मन्यते, स बध्यते तत्फलेन। यो हि ‘नाहं कर्ते’ति, ‘गुणा एव कर्तारः’ इति च मन्यते, स न लिप्यते। ‘कुर्वन्नपि न लिप्यते’ इति हि पूर्वमेवोक्तम्। तस्माद् विदुषोऽपि तव वासुदेववज्जनकादिवच्च नेदं हननादिकं बन्धकम् , नापि हननाद्यभावो मोचकः। हननादिवत् तदभावोऽपि देहाद्याश्रयः कर्मैवेति ‘कर्मण्यकर्मे’ति श्लोके स्थापितत्वात्। निर्देशं विशदयति—देहादीति। तात्त्विकीं दृष्टिमास्थाय ‘न हन्ती’त्यादिनिर्देशमुपपादयति—यथेति। ‘नाहं कर्ता, किन्तु कर्तृतद्व्यापारयोः साक्षी क्रियाज्ञानशक्तिमदुपाधिद्वयविनिर्मुक्तः शुद्धः सन् कार्यकारणासम्बन्धोऽद्वितीयोऽविक्रियः’ इत्येवं पारमार्थिकदृष्टेर्यथादर्शितत्वं द्रष्टव्यम्। ‘हत्वाऽपी’त्येतद् ,‘न हन्ती’त्यादि चोभयं दृष्टिद्वयावष्टम्भादुपपन्नमित्युपसंहरति—तदुभयमिति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘एतदुभयम्’ इति पा.।

[[८७१]]

नन्वधिष्ठानादिभिः सम्भूय करोत्येवात्मा, ‘कर्तारमात्मानं केवलं तु’ इति केवलशब्दप्रयोगात्। नैष दोषः; आत्मनोऽविक्रियस्वभावत्वेऽधिष्ठानादिभिः संहतत्वानुपपत्तेः। विक्रियावतो ह्यन्यैः संहननं सम्भवति, संहत्य वा कर्मणो बन्धकत्वं हि तवाभिमतम्। तस्मान्न त्वं तूष्णीम्भावेन कर्मणा मुक्तिं यास्यसि ‘नास्त्यकृतः कृतेने’ति श्रुतेः, ‘न कर्मणा न प्रजये’ति श्रुतेश्च। किं तर्हि? ‘त्यागेनैकेऽमृतत्वमानशु’रिति श्रुतेस्त्यागेनैव तव मोक्षलाभः, पूर्वेषां जनकादीनां त्वदीयानां त्यागेनैव मुक्तत्वात्। स च त्यागो ‘नाहं कर्ते’त्यात्मकर्तृत्वपरित्यागरूपः, ‘गुणा एव कर्तारः’ इति गुणेषु कर्तृत्वारोपरूपश्च। अयमेव त्यागः संन्यासिनाऽपि क्रियते। मोक्षहेतुश्च साक्षादयमेव, परमार्थसंन्यासश्चायमेव। कर्मफलत्यागस्तु परम्परया मोक्षसाधनः, तच्च दर्शितं ‘न द्वेष्टी’ति श्लोकेन। यश्च मुण्डः काषायाम्बरभाग् दण्डी च, स न परमार्थसंन्यासी, ‘संन्यास्यहं भिक्षामटामी’त्यहङ्कारसत्त्वादस्य। यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते, स सुमतिर्हि परमार्थसंन्यासी। न च परमहंसपरिव्राजका एव परमार्थसंन्यासिन इति वाच्यम् ; लक्ष्मीशगौरीशवागीशादीनामपरमार्थसंन्यासित्वापत्तेः। तेषामपि परमार्थसंन्यासस्य स्वीकर्तव्यस्यावशेषत्वेनाकृतकृत्यत्वापत्तेश्च। तस्माद् ये परमहंसपरिव्राजका निवृत्तिमार्गस्थाः, कर्मण्यनधिकृताः सनकादयस्ते, ये च सृष्ट्यादिकर्मस्वधिकृता यज्ञादिकर्मसु च ब्रह्मादयो जनकादयस्ते च विद्वांसः परमार्थसंन्यासिन एव, अहङ्काराभावस्य परमार्थसंन्यासलक्षणत्वात्। यज्ञादिकर्मपरित्यागस्तु बाह्यसंन्यासलक्षणम्। न च सर्वारम्भपरित्यागित्वं गुणातीतलक्षणमिति पूर्वमुक्तमिति वाच्यम् ; सर्वारम्भेषु देहाद्याश्रयेषु स्वस्य कर्तृत्वाननुसन्धानस्यापि सर्वारम्भपरित्यागरूपत्वात्। कथमन्यथा निमेषोन्मेषाद्यारम्भपरित्यागित्वं स्यात् परमहंसपरिव्राजकस्यापि? तस्माद् विदुषो ज्ञाननिष्ठस्य परमहंसपरिव्राजकस्य परमार्थसंन्यासिनो न कर्माधिकारः। विदुषो ज्ञाननिष्ठस्य गृहस्थस्यापि परमार्थसंन्यासिनः कर्तृत्वाभिमानपूर्वको न कर्माधिकारः। अत एव हि जनकादिभिः कृतं कर्म न कर्म, वासुदेवकृतसृष्ट्यादिकर्मवदिति पूर्वमुक्तम्। तस्मात् परमार्थसंन्यास्यपि विद्वान् भवान् यतो न परमहंसपरिव्राजकस्तस्मात् हत्वाऽपीमान् लोकान् न हन्ति, न निबध्यते। भोः पार्थ ! तस्मात् त्वं निरहङ्कारो निस्तापश्च सन् युध्यस्व। उक्तं हीदं प्रागेव ‘युध्यस्व विगतज्वरः’ इति। एतेन – विदुषः कर्माधिकारो नास्तीति कृत्वा कथमुच्यते हत्वाऽपीतीयमाशङ्का – समाधापिता। कथम्? विदुषः परमार्थ- संन्यासिनोऽप्यपरमहंसपरिव्राजकस्य स्वकर्माधिकारोऽस्तीति। विदुषः कर्तृत्वाभिमानपूर्वक एव कर्माधिकारो नास्ति, निरहङ्कार- पूर्वकस्तु कर्माधिकारोऽस्तीति च विदुषा क्रियमाणं कर्माकर्मैवेति, न तस्य कर्माधिकार इति च प्रोक्तत्वादिति सङ्क्षेपः। ननु ‘कर्तारमात्मानं केवलं तु यः’ इत्यस्य केवलम् अधिष्ठानादिभिरसंहतमात्मानं यः कर्तारं पश्यतीत्यर्थः। तथा च केवला- त्मनोऽकर्तृत्वेऽपि अधिष्ठानादिसंहतात्मनः कर्तृत्वमस्त्येव। ततश्च संहतोऽयमात्मा हन्त्येवेति कथमुक्तम्— ‘न हन्ती’ति भगवानि- [भगवते]त्याक्षिपति— नन्विति। परिहरति—नेति। एष संहतस्यात्मनः कर्तुर्हननक्रियाकर्तृत्वाभावप्रतिपादनरूपो दोषो नास्ति। कुतः? आत्मन इति। आत्मनोऽधिष्ठानादिभिः सह संहतत्वानुपपत्तेः मिलितत्वायोगात्। तत्र हेतुमाह— अविक्रियस्वभावत्वेनेति। निर्विकार- त्वेनेत्यर्थः। हेतुमेव व्यतिरेकमुखेनोपपादयति—विक्रियेति। हि यस्मादित्यर्थः। प्रसिद्धौ वा हिशब्दः। विक्रियावतः सविकारस्य वस्तुनः अन्यैः सह संहननं सम्भवति। संहत्य वा कर्तृत्वं सम्भवति विक्रियावत इत्येव। सावयवस्य सविक्रियत्वं, सविक्रियस्य संहतत्वं, संहतस्य च कर्तृत्वं प्रसिद्धं सम्भवि च। बहूनां संहतानां देहानां स्थूलोपलोत्क्षेपणादिकार्यकर्तृत्वस्य, बहूनां संहतानां सूक्ष्ममृद- वयवानां घटीभूतानामुदकाहरणकर्तृत्वस्य च दर्शनात्। बहूनां तन्तूनां पटात्मना संहतानां देहावरणशीतवारणादिकार्य-कर्तृत्व- दर्शनाच्च। तेषां च देहानां रेणूनां तन्तूनां च सविक्रियत्वं सावयवत्वं च प्रसिद्धमिति भावः। तर्हि संहननादिकम[मात्मनः]सम्भवीत्यत केवलमेवात्मानं कर्तारं पश्यन् दुर्मतिरित्यत्रात्मविशेषणसमर्पककेवलशब्दसामर्थ्यादात्मनो विशिष्टस्य कर्तृत्वमिति शङ्कते— नन्विति। आत्मनो वैशिष्ट्यायोगान्न विशिष्टस्यापि कर्तृत्वमिति दूषयति—नैष दोष इति। अविक्रियस्वाभाव्येऽपि कथमात्मनोऽसंहतत्वमि- त्याशङ्क्याह—विक्रियेति। अधिष्ठानादिभिरात्मनः संहननेऽपि न कर्तृत्वम् , अविक्रियस्य क्रियान्वयव्याघातादित्याह—संहत्येति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १८. श्लो. १७]] [[८७२]]

कर्तृत्वं स्यात्। न त्वविक्रियस्यात्मनः केनचित् संहननमस्तीति न सम्भूय कर्तृत्वमुपपद्यते। अतः केवलत्वमात्मनः स्वाभाविकमिति केवलशब्दोऽनुवादमात्रम्। अविक्रियत्वं चात्मनः श्रुतिस्मृतिन्यायप्रसिद्धम्। ‘अविकार्योऽयमुच्यते (भ.गी.२.१५) ‘गुणैरेव कर्माणि क्रियन्ते’(द्र.भ.गी.३.२७), ‘शरीरस्थोऽपि…न करोति’(भ.गी.१३.३१) इत्याद्यसकृदुप- पादितं गीतास्वेव तावत्। श्रुतिषु च ‘ध्यायतीव लेलायतीव’ (बृ.उ.४.३.७) इत्येवमाद्यासु१। न्यायतश्च— निरवयवम् अपरतन्त्रम् अविक्रियम् आत्मतत्त्वमिति राजमार्गः। विक्रियावत्त्वाभ्युपगमेऽप्यात्मनः स्वकीयैव विक्रिया स्वस्य भवितुमर्हति। नाधिष्ठानादीनां कर्माणि आत्मकर्तृकाणि स्युः। न हि परस्य कर्म परेणाकृतमागन्तुमर्हति। यत्त्वविद्यया संहतत्वानुपपत्तिं व्यक्तीकरोति—न त्विति। असंहतत्वे फलितमाह—इति नेति। कथं तर्हि केवलत्वमात्मनि केवलशब्दादुक्तम्? तदाह— अत इति। २कर्तृत्वमात्मनोऽभ्युपपन्नं नास्याविक्रियत्वमुपैतीत्याशङ्क्याह—अविक्रियत्वं चेति। तत्र स्मृतिवाक् यान्युदाहरति—अविकार्यो- ऽयमिति। ‘नायं हन्ति न हन्यते’ इत्यादिवाक् यमादिशब्दार्थः। उक्तवाक् यानामात्माविक्रियत्वे तात्पर्यं सूचयति—असकृदिति। ‘निष्कलं निष्क्रियं शान्त’मित्यादि वाक् यं श्रुतावादिशब्दार्थः३। यानि वाक् यानि तैरात्मनोऽविक्रियत्वं दर्शितमिति योजना। न्यायतश्च तद् दर्शित- मिति पूर्वेण सम्बन्धः। न्यायमेव दर्शयति—निरवयवमिति। न तावदात्मा स्वतो विक्रियते, निरवयवत्वाद् , आकाशवत् ; नापि परतः, असङ्गस्याकार्यस्य पराधीनत्वायोगादित्यर्थः। किञ्चात्मनः स्वनिष्ठा वा विक्रिया, अधिष्ठानादिनिष्ठा वा? नाद्यः, स्वनिष्ठविक्रियानुपपत्ते- रात्मनो दर्शितत्वादित्याशयेनाह—विक्रियावत्त्वेति। सा चायुक्तेत्युक्तमिति शेषः। द्वितीयं दूषयति—नेत्यादिना। अधिष्ठानादिकृतमपि कर्म तद्योगादात्मन्यागच्छतीत्याशङ्क्य , तदागमनं वास्तवमाविद्यं वेति विकल्प्याऽऽद्यं दूषयति—न हीति। द्वितीयं निरस्यति— आह— न त्वात्मन इति। तत्र हेतुमाह— अविक्रियस्येति। संहननं हि विक्रिया, कथमविक्रियात्मनि तत्सम्भवः? न कथमपीति भावः। तन्तवो हि संहताः सन्तः पटात्मना विक्रियमाणा दृष्टाः। यद्येवमात्माऽपि संहतः स्यात् तर्हि तस्यापि केनचिद् रूपेण परिणामः स्यादिति भावः। इति हेतोः संहननासम्भवादित्यर्थः। सम्भूय संहत्य। अत इति। सम्भूय कर्तृत्वानुपपत्तेरित्यर्थः। केवलत्वं शुद्धत्वं स्वाभाविकमेवेति, न त्वागन्तुकमित्यर्थः। अधिष्ठानादिभिः सह सम्भूत्यभावप्रयुक्तं नेति भावः। यद्यधिष्ठानादिभिः सहात्मनः सम्भूय कर्तृत्वं स्यात् तर्हि तन्निरासाय केवलमिति प्रयुज्येत, न तु तदस्तीत्यभिसन्धिः। नन्वेवं केवलशब्दो व्यर्थः? अत आह—अनुवादमात्रमिति। स्वतःसिद्धस्वरूपानुवादपर इत्यर्थः।‘केवलो निर्गुणश्चे’तिवदिति भावः। नन्वविक्रियत्वमात्मनोऽप्रमाणं येनात्मनः सम्भूयापि कर्तृत्वं न स्याद् , अत आह—अविक्रियत्वं चेति। स्मृतिप्रसिद्धिं दर्शयति —अविकार्य इति। श्रुतिप्रसिद्धिं दर्शयति—ध्यायतीवेति। इवशब्दाद् ध्यानचलनादिविकारा नात्मनः सन्तीति सूच्यते। न्यायप्रसिद्धिं दर्शयति— निरवयवमिति। आत्मतत्त्वम् आत्मस्वरूपं चैतन्यमात्मेति यावत्। राजमार्गो घण्टापथः। तद्वन्निरवद्यो महाजनैः क्षुण्ण- श्चायमर्थ इत्यर्थः। आत्मतत्त्वमविक्रियं निरवयवत्वात् , यत् सावयवं तत् सविक्रियम् , यथा घटः; आत्मतत्त्वमपरतन्त्रम् अविक्रि- यत्वाद् , यत् सविक्रियं तत् परतन्त्रं यथा घटः; आत्मतत्त्वमपरतन्त्रं निरवयवत्वाद् , यत् सावयवं तत् परतन्त्रं यथा घट इति च प्रयोगा ऊह्याः। तुष्यतु दुर्जन इति न्यायेनाह—विक्रियेति। आत्मनो विक्रियावत्त्वं यद्यभ्युपगम्यते, तर्हि तस्य तत् किमात्मनिष्ठैः कर्मभिर्भवति, उताधिष्ठानादिनिष्ठैः? नाद्यः, आत्मनि कर्माभावात्। अधिष्ठानादिपञ्चकं हि कर्मकारणमित्युक्तम् , ‘तत्रैवं सती’त्यनेनाकर्तृत्वं ह्यात्मनः प्रतिपादितम्। तस्मादकर्तर्यात्मनि न कर्मसम्भवः। द्वितीयं दूषयति— स्वकीयैवेति। कर्मभिरिति शेषः। न त्वधिष्ठानादिकर्मभि- रित्याह— नाधिष्ठानादीनामिति। यद्यधिष्ठानादिकर्माण्यात्मकर्माणि स्युस्तर्ह्यधिष्ठानादिकर्मभिरात्मा विक्रियावान् कर्ता स्यात् , न तु तथा भवतीत्यर्थः। ननु परकर्म परस्य भवतु, को दोषः? तत्राह— न हीति। परेण कृतं कर्म परस्यागन्तुं नार्हति हि, अन्यथा चैत्रेण १. इतः परं ‘यानि वाक्यानि दर्शितम्’ इति पाठः क्वचिदुपलभ्यते। स एवानन्दगिरिदृष्टः पाठः स्यादिति भाति। २. ‘अकर्तृत्वम्’ इति पा.। ३. भाष्ये ‘इत्येवमा- द्यासु’ इत्यत्राद्यशब्दार्थविवरणमिदम्। श्रुतावित्यस्य च भाष्ये श्रुत्युपन्यासे इत्यर्थः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[८७३]]

कृतस्य कर्मणः फलस्य मैत्रेणानुभवितव्यत्वप्रसङ्गात्। तस्मात् परकीयं धनं यथा चौर्यादिना परं प्रत्यागच्छति, तथा न परकीयं कर्मा- गच्छति। ‘सुकृतं दुष्कृतं चैव गच्छन्तमनुगच्छती’ति वचनात्। तत्त्वविदः कर्म तु परं प्रत्यागच्छत्येव, ‘सुहृदः साधुकृत्यां द्विषन्तः पापकृत्या’३मिति श्रुतेः। न तदिहोदाहरणमर्हति। ‘तद्विद्वान् पुण्यपापे विधूय’ इति श्रुत्या विदुषा विधूतस्यैव कर्मणः परं प्रत्यागन्तु- कत्वम् , न तु परेण कृतस्येति। विद्वदविधूतस्यैव परेण कृतस्य कर्मणः परं प्रत्यनागन्तुकत्वमिति विवक्षितत्वात्। ननु परकृतमपि कर्म परस्य भवत्येवाज्ञानात्। अज्ञो हि देहादिकर्तृके कर्मणि स्वस्य कर्तृत्वं पश्यति ‘गन्ताऽहं श्रोताऽह’मिति। अत आह— यत्त्विति। अविद्यया गमितं प्रापितं तु यत् कर्म परकीयं, तत् तस्य स्वकीयं न भवति। अविद्यया आत्मन्यारोपितं देहाद्याश्रयं कर्म नात्माश्रयं भवितुमर्हतीत्यर्थः। तत्र दृष्टान्तमाह—यथेति। शुक्तिकायामविद्ययाऽध्यस्तं रजतत्वं यथा न शुक्तिकाया धर्मो भवति, तथा आत्मन्य- विद्ययाऽध्यस्तं कर्तृत्वं नात्मन इत्यर्थः। ननु सरूपत्वाच्छुक्तिकायां रजतत्वाध्यासोऽस्तु नाम, कथं नीरूपे आत्मनीत्यत आह—यथा वेति। बालैरविद्यया गमितं तलमलिनत्वं यथा नाकाशस्य भवति, तद्वदिति। दार्ष्टान्तिकमाह—तथेति। अधिष्ठानादिगता विक्रिया अधिष्ठानादीनामेव धर्मः, न त्वात्मधर्म इत्यर्थः। तस्मादिति। स्वगतविकाराभावात् , परगतविकारैः स्वस्य विक्रियावत्त्वा- भावाच्चेत्यर्थः। अहङ्कृतत्वम् अहङ्कर्तेत्यहङ्कारो, बुद्धिलेपश्च। तयोरभावे सति विद्वानविक्रियात्मदर्शी न हन्ति, न निबध्यत इति युक्त- मुक्तम्। आत्मनि कर्तृत्वादिविक्रियाऽयोगादिति भावः। पिण्डीकरणं क्रोडीकारः। ‘नायं हन्ति न हन्यते’ इति यदादौ प्रतिज्ञातं तदिहो- पसंहृतम् – ‘न हन्ति न निबध्यते’ इति। उपक्रमोपसंहारयोरैकरूप्यस्यावश्यकत्वादिति भावः। ‘य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥’ इत्यत्र ‘अय’मित्यनेनात्मन उक्तत्वाद् , इह ‘सः’ इत्यनेन विदुष उक्तत्वाच्च विद्वान् प्रमातैव, वस्तुतः प्रत्यगात्मेति सिद्धम्। ततश्च विदुषोऽविक्रियस्यात्मनः कर्माधिकाराभावश्च सिद्धः। एवं च सतीति। विदुषोऽविक्रियात्मत्वेन कर्माधिकाराभावे सतीत्यर्थः। संन्यासिनां ज्ञाननिष्ठानां विदुषां देहभृत्त्वाभिमानानुपपत्तौ सत्याम् अविद्याकृता- नामशेषकर्मणां संन्यासस्योपपत्तेस्तेषां त्रिविधं कर्मफलं न भवतीत्युपपन्नम्। अत एव ‘अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। यत्त्विति। आत्मन्यविद्याप्रापितं कर्म, नात्मीयमित्येतद् दृष्टान्ताभ्यामुपपादयति—यथेत्यादिना। आत्मनोऽविक्रियत्वेन कर्तृत्वाभावे फलितमाह— तस्मादिति। ननु प्रागेवात्मनोऽविक्रियत्वं प्रतिपादितम् , तदिह कस्मादुच्यते? तत्राह—नायमिति। शास्त्रादौ प्रतिज्ञातं हेतुपूर्वकं संक्षिप्योक्त्वा, मध्ये तत्र तत्र प्रसङ्गं कृत्वा प्रसारितां कर्माधिकारनिवृत्तिम् इहोपसंहरतीति सम्बन्धः। प्रतिज्ञातस्य हेतुनोप- पादितस्यान्ते निगमनं किमर्थमित्याशङ्क्याह—शास्त्रार्थेति। कर्माधिकारो विदुषो नेति स्थिते, तस्य देहाभिमानाभावे सत्यविद्योत्थ- सर्वकर्मत्यागसिद्धेः ‘अनिष्टमिष्टं मिश्रं चेति त्रिविधं कर्मफलं संन्यासिनां न’ इति प्रागुक्तं युक्तमेवेति परमप्रकृतमुपसंहरति— एवं चेति। ये

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

गमितं, न तत् तस्य। यथा रजतत्वं न शुक्तिकायाः, यथा वा १तलमलवत्त्वं बालैर्गमितमविद्यया नाकाशस्य। तथा अधिष्ठानादिविक्रियाऽपि तेषामेव, नात्मनः। तस्माद् युक्तमुक्तम्— अहङ्कृतत्वबुद्धिलेपाभावाद् विद्वान् न हन्ति, न निबध्यत इति। ‘नायं हन्ति न हन्यते’(भ.गी.२.१९) इति प्रतिज्ञाय, ‘न जायते’ इत्यादिहेतुवचनेन अविक्रियत्वमात्मनः उक्त्वा, ‘वेदाविनाशिनम्’(भ.गी.२.२१) इति विदुषः कर्माधिकारनिवृत्तिं शास्त्रादौ संक्षेपत उक्त्वा, मध्ये प्रसारितां च तत्र तत्र प्रसङ्गं कृत्वोपसंहरति शास्त्रार्थपिण्डीकरणाय – ‘विद्वान् न हन्ति न निबध्यते’(भ.गी.१८.१७) इति। एवं च सति देहभृत्त्वाभिमानानुपपत्तौ अविद्याकृताशेषकर्मसंन्यासोपपत्तेः संन्यासिनाम् अनिष्टादि त्रिविधं कर्मणः फलं न १. ‘तलमलिनत्वम्’ इति पा.। २. ‘परेण कृतम्’ इति रा.पा. भाति। ३. ‘तस्य पुत्रा दायमुपयन्ति’ इति पूर्वश्रुतस्य क्रियापदस्यात्रानुषङ्गः। सुहृद्द्विषद्भ्यां विद्वत्सम्बन्धिसुकृतदुष्कृतयोः आदानवचनं ज्ञानस्तुत्यर्थम् , न मुख्यम्। (द्र.ब्र.सू. ३-३-२६)

[[अ. १८. श्लो. १७]] [[८७४]]

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना। करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः॥१८॥

भवतीत्युपपन्नम्। तद्विपर्ययाच्च इतरेषां भवतीत्येतच्चापरिहार्यमित्येष गीताशास्त्रस्यार्थः उपसंहृतः। स एष सर्ववेदार्थ- सारो निपुणमतिभिः पण्डितैः विचार्य प्रतिपत्तव्यः इति तत्र तत्र प्रकरणविभागेन दर्शितोऽस्माभिः शास्त्रन्यायानुसारेण ॥१७॥

अथेदानीं कर्मणां प्रवर्तकमुच्यते— ज्ञानमिति। ज्ञानं ज्ञायतेऽनेनेति सर्वविषयम् अविशेषेणोच्यते। तथा ज्ञेयं ज्ञातव्यम् , तदपि सामान्येनैव सर्वमुच्यते। तथा परिज्ञाता उपाधिलक्षणोऽविद्याकल्पितो भोक्ता – इत्येतत् त्रयम् भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित्॥’ इत्युक्तमिति भावः। इतरेषाम् अविदुषां तद्विपर्ययः कर्मसंन्यासाभावः कर्मफल- भोगश्चेत्यर्थः। भवतीत्येतदिति। उक्तं मतमित्यर्थः। उक्तार्थ इति यावत्। अपरिहार्यं न केनापि परिहर्तुं शक् यम्। स एष इति। विदुषः सर्वकर्मसंन्यासोऽविदुषस्तदसम्भवश्चेत्यर्थः। प्रतिपत्तव्यो ज्ञातव्यः। इतिशब्दः समाप्तौ। ननु न वयं विचारणे क्षमाः, त्वमेव ब्रूहीत्यत आह— तत्रतत्रेति। ‘वेदाविनाशिनम्’ इत्यादिस्थलेष्वित्यर्थः। विभागेनेति। अज्ञप्राज्ञविभागपूर्वकमित्यर्थः। न स्वबुद्ध्य-नुसारेण दर्शित इत्याह—शास्त्रेति। ‘ईश्वर एव करोति, नाहं करोमी’ति यो मन्यते स सुमतिरिति रामानुजः, तदयुक्तम् ; ‘निष्कलं निष्क्रियं शान्त’मिति श्रुत्युक्ते निर्विकारे ब्रह्मणि कर्तृत्वदर्शनस्य रज्जौ सर्पत्वदर्शनस्येव मिथ्याज्ञानत्वात् , तस्य च संसारानिवर्तकत्वात् , तत्त्वज्ञानादेव मोक्षसम्भ- वात् , अविक्रियब्रह्मात्मदर्शनस्यैव तत्त्वज्ञानत्वाच्चेति॥१७॥ ज्ञानमिति। कर्मचोदना ज्ञानं ज्ञेयं परिज्ञातेति त्रिविधा भवति। कर्मसंग्रहः करणं कर्म कर्तेति त्रिविधो भवति। ज्ञानमिह न चिन्मात्रमित्याह—सर्वविषयमिति। वृत्तिज्ञानमित्यर्थः। तत्तद्विषयाकारपरिणतबुद्धिवृत्त्या हि ते ते विषया घटादयः सर्वेऽवभास्यन्ते। अविशेषेणेति। न तु पुनः अमानित्वमदम्भित्वमित्यादिवद् विशेषेणेत्यर्थः। सामान्येनेति। अविशेषेणेत्यर्थः। सर्वमिति। सर्वविषयजात- मित्यर्थः। उपाधिलक्षणोऽन्तःकरणविशिष्टः, अविद्याकल्पितश्चिदाभासः। चोद्यतेऽनयेति चोदना, कर्मणां चोदना कर्मचोदना, कर्म- प्रवर्तिका। ज्ञानादित्रयं कर्मणां प्रवर्तकमित्यर्थः। कथं त्रयस्य प्रवर्तकत्वम्? अत आह—ज्ञानादीनामिति। सन्निपातः सम्बन्धः, मेलन- मिति यावत्। हानं त्यागः, उपादानं स्वीकारः, उपेक्षा तदुभयाभावेन तूष्णीम्भावः। दुष्कृतादिहानार्थं सुकृताद्युपादानार्थमीश्वरार्पणबुद्ध्या पुनरविद्वांसो देहाभिमानिनस्तेषां त्रिविधं कर्मफलं १भवत्येवेति हेतुवचनसिद्धमर्थं निगमयति—तद्विपर्ययाच्चेति। अधिष्ठानादिकृतं कर्म नात्मकृतम् , अविदुषामेव कर्माधिकारो देहाभिमानित्वेन तत्त्यागायोगात् , देहाभिमानाभावात्तु विदुषां कर्माधिकारनिवृत्तिरित्युपसंहृतमर्थं संक्षिप्याह—इत्येष इति। उक्तश्च गीतार्थो वेदार्थत्वादुपादेय इत्याह—स एष इति। कथमयमर्थो वेदार्थोऽपि प्रतिपत्तुं शक्यते? तत्राह— निपुणेति। भाष्यकृता मानयुक्तिभ्यां विभज्यानुक्तत्वाद् नास्यार्थस्योपादेयत्वमित्याशङ्क्याह—तत्रेति॥१७॥

शास्त्रार्थोपसंहारानन्तर्यम् अथेत्युक्तम्। इदानीमिति प्रवर्तकोपदेशापेक्षावस्थोक्ता। कर्मणां येषु विदुषां नाधिकारोऽविदुषां चाधिकारस्तेषामित्यर्थः। ज्ञानशब्दस्य करणव्युत्पत्त्या ज्ञानमात्रार्थत्वमाह—ज्ञानमिति। ज्ञेयशब्दस्यापि तद्वदेव ज्ञातव्यमात्रार्थत्वमाह— तथेति। उपाधिलक्षणत्वं तत्प्रधानत्वमुपहितत्वम्। तस्यावस्तुत्वार्थम् अविद्याकल्पितविशेषणम्। एतदेव त्रयं सर्वकर्मप्रवर्तकमित्याह— इत्येतदिति। सर्वकर्मणां प्रवर्तकमित्यध्याहर्तव्यम्२। ‘चोदनेति क्रियायाः प्रवर्तकं वचनम्’ इति ३भाष्यानुसारेण चोदनाशब्दार्थमाह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘संभवत्येव’ इति पा.। २. एतदिति नपुंसकलिङ्गानुरोधेनाध्याहारकथनम्। ३. द्र. शाबरभाष्यम् १.१.२।

[[८७५]]

१एषामविशेषेण सर्वकर्मणां प्रवर्तिका त्रिविधा त्रिप्रकारा कर्मचोदना। ज्ञानादीनां हि त्रयाणां सन्निपाते २हानोपादानादि- प्रयोजनः सर्वकर्मारम्भः स्यात्। ततः पञ्चभिरधिष्ठानादिभिरारब्धं वाङ्मनःकायाश्रयभेदेन त्रिधा राशीभूतं त्रिषु करणा- दिषु सङ्गृह्यते इत्येतदुच्यते— करणं क्रियतेऽनेनेति बाह्यं श्रोत्रादि , अन्तःस्थं बुद्ध्यादि ; कर्म ईप्सिततमं कर्तुः क्रियया ३व्याप्यमानं, कर्ता करणानां ४व्यापारयितोपाधिलक्षण इति त्रिविधस्त्रिप्रकारः कर्मसंग्रहः संगृह्यतेऽस्मिन्निति संग्रहः। कर्मणः संग्रहः कर्मसंग्रहः। कर्म एषु हि त्रिषु समवैति। तेनायं त्रिविधः कर्मसंग्रहः॥१८॥

च केवलं त्रेधा कर्मारभ्यते पुरुषैरिति कर्मारम्भस्य हानादित्रयं प्रयोजनम्। यद्वा प्रवृत्तिवन्निवृत्तिरपि कर्मैवेति प्रवृत्तेर्हानोपादाने प्रयोजने, निवृत्तेस्तूपेक्षेति। अयं च कर्मारम्भकः पुरुषो जीवः ज्ञेयं यज्ञादिस्वर्गादिकं शास्त्रादिजन्यज्ञानेन ज्ञात्वा कर्मारभत इति ज्ञानादि- त्रयसन्निपातः कर्मारम्भहेतुरित्यर्थः। तत इति। तथेत्यर्थः। राशीभूतमिति। कर्मेति शेषः। करणादिषु करणकर्मकर्तृषु। उच्यत इति। श्लोकस्योत्तरार्धेनेति शेषः। बाह्यं बहिर्विषयग्रहणसमर्थमित्यर्थः। कर्णशष्कुलीरसनात्वगादिबहिःप्रदेशस्थितमिति वा। अन्तःस्थं हृत्पुण्डरीकस्थितं सुखाद्यन्तर्विषयग्रहणसमर्थत्वादिति भावः। बुद्ध्यादीत्यादिपदान्मनसो ग्रहणम्। ‘कर्तुरीप्सिततमं कर्मे’ति पाणिनिना सूत्रितं कर्मेह कर्मशब्देन ग्राह्यमित्याह—कर्मेति। ईप्सिततमशब्दार्थमाह—क्रियया प्राप्यमाणमिति। स्वर्गादिरूपं फलमिति भावः। तद्धि द्वितीयान्तपदवाच्यम् ; ज्योतिष्टोमेन स्वर्गं गच्छतीति प्रसिद्धेः। कर्ता भोक्ता जीवः। व्यापाराश्रयत्वं कर्तृत्वम् , तच्चात्मनि निर- वयवे निष्क्रिये न सम्भवतीत्यत आह— करणानां व्यापारयुत इति। करणानां चक्षुरादीनां ये व्यापाराः क्रियाः दर्शनादयस्तैर्युतः। जीवस्य स्वतो निर्व्यापारत्वेऽपि स्वाध्यस्तकरणव्यापारैः सव्यापारत्वमिति भावः। एतेनाविद्यालक्षणमेव कर्तृत्वं जीवस्य, न तु स्वाभा- विकमिति स्थितम्। इदमेव स्फुटयितुमाह—उपाधिलक्षण इति। उपाधिनाऽन्तःकरणेनाविद्यया वा लक्ष्यते युज्यत इत्युपाधिलक्षणः। उपाधि- तादात्म्याध्यासमापन्न इत्यर्थः। कथं करणादिषु कर्मणः संग्रहः? अत आह—कर्मेति। समवैति सङ्गच्छते। कर्ता हि किञ्चित् फलमुद्दिश्य करणैः कर्मणि प्रवर्तत इति कर्तृकरणप्राप्यत्रयाधीनसत्ताकं यज्ञादिकर्मेति भावः। तेनेति। कर्मणस्त्रिषु समवायेनेत्यर्थः। अत्र ज्ञानं शास्त्रमिति शङ्कराचार्यैरुक्तमिति वेदान्तदेशिको बभ्राम। न ह्याचार्यैर्ज्ञानं शास्त्रमित्युक्तम्। अविवेकिनां ज्ञानमीदृशं दृश्यत इति वक्ष्यमाणानुरोधाद् बुद्धिवृत्तिरेव ज्ञानम्। शास्त्रमपि बुद्धिवृत्तिविषयीकृतमेव सत् करणं भवति, न तु केवलम् , अन्यथा अविद्वानपि पुस्तकेन ज्ञेयं जानीयात्। एवं चक्षुरादयोऽपि स्वद्वारा निर्गतबुद्धिवृत्त्यैव घटादिकमवभासयन्ति, न तु स्वत इति चक्षुरादेरपि केवलस्य न करणत्वम्। तस्माद् ज्ञायतेऽनेनेति व्युत्पत्त्या ज्ञानशब्दो बुद्धिवृत्तिमेवाभिधत्ते स्वरसत इति बोध्यम्। न च शास्त्रेण कर्मणश्चोदितत्वात् ‘चोदनालक्षणोऽर्थो धर्मः’ इति सूत्रात् कर्मचोदनारूपं शास्त्रमेवेह ज्ञानशब्देन ग्राह्यमिति वाच्यम् ; शास्त्रविषय- बुद्धिवृत्त्यैव कर्म चोद्यते, न तु केवलशास्त्रेण, ज्ञायमानशास्त्रस्यैव चोदकत्वाभ्युपगमात्। अन्यथा पेटिकास्थमपि शास्त्रं पुरुषं चोदयेत्। नन्वेवमिह ज्ञानशब्देन ज्ञायमानशास्त्रमेव गृह्यताम्। तद्धि निषिद्धकर्मणां हाने, विहितानामुपादाने, निवृत्तौ च पुरुषस्यो- प्रवर्तिकेति। सर्वकर्मणामिति पूर्वेण सम्बन्धः। त्रैविध्यं ज्ञानादिना प्रागुक्तम्। कर्मणां चोदनेति विग्रहः। तेषां सर्वकर्मप्रवर्तकत्वमनुभवेन साधयति—ज्ञानादीनामिति। हानोपादानादीत्यादिपदेनोपेक्षा विवक्षिता। ‘करण’मित्यादेस्तात्पर्यमाह—तत इति। ज्ञानादीनां प्रवर्तक- त्वादित्यर्थः। उक्तेऽर्थे श्लोकभागमवतारयति— इत्येतदिति। बाह्यमन्तःस्थं च द्विविधं करणं करणव्युत्पत्त्या कथयति— करणमिति। उक्तलक्षणं कर्मैव स्फुटयति—कर्तुरिति। स्वतन्त्रो हि कर्ता। ५स्वातन्त्यं च कारकाप्रयोज्यस्य तत्प्रयोक्तृत्वमित्याह—कर्तेति। कथमुक्ते त्रिविधे कर्म संगृह्यते? तत्राह—कर्मेति। कर्मणो हि प्रसिद्धं कारकाश्रयत्वमिति भावः॥१८॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘एषाम्’ इति क्वचिन्नास्ति। २. ‘हानोपादानोपेक्षाप्रयोजनः’ इति रा.पा.। ३. ‘प्राप्यमाणम्’ इति रा.पा.। ४. ‘व्यापारयुत उपाधिलक्षणः’ इति रा.पा.। ५. करणानां व्यापारयिता’ इत्यनेनेदं स्वातन्त्यं विवक्षितमिति भावः। कारकेति। कर्तृभिन्नकारकेत्यर्थः। तेन कर्त्रन्तरप्रयुक्तस्यापि स्वातन्त्योपपत्तिः।

[[अ. १८. श्लो. १८]] [[८७६]]

पकारकं भवति। शास्त्रेण हि विद्वान् वेद्यं विदित्वा विहितं करोति, निषिद्धं त्यजति, तूष्णीमास्ते च। तत्र विधिनिषेधबोधकं प्रवृत्तिलक्षणं शास्त्रम् , उपेक्षाबोधकं तु निवृत्तिलक्षणं शास्त्रम्। प्रवृत्तिवन्निवृत्तिरपि कर्मैवेत्युक्तत्वादिह ‘हानोपादानोपेक्षाप्रयोजनः कर्मारम्भः’ इत्युक्तं च भाष्यकृता। हानोपादानप्रयोजनः प्रवृत्तिकर्मारम्भः, उपेक्षाप्रयोजनो निवृत्तिकर्मारम्भ इति विवेकः। तथा च धर्माधर्मौ ब्रह्म च शास्त्रेण ज्ञायत इति प्रवृत्तिलक्षणं निवृत्तिलक्षणं च शास्त्रं पूर्वोत्तरमीमांसारूपेण द्विविधमिह ज्ञानशब्देनोच्यत इति चेत् , मैवम् ; शास्त्रीयकर्मारम्भे भवतु शास्त्रस्य करणत्वम् , कथं पुनर्लौकिककर्मारम्भे? न हि प्रकृतकर्मारम्भस्य१ शास्त्रीयकर्मारम्भपरत्वेन सङ्कोचनं न्याय्यम् , ‘सर्वविषयं ज्ञान’मिति भाष्यगतसर्वशब्दस्वारस्यभङ्गापत्तेः, तामसादिज्ञानस्याशास्त्रीयत्वाच्च। तस्मादिह ज्ञानशब्देन शास्त्रीयकर्मारम्भहेतुभूतं शास्त्रं न ग्राह्यम् , किन्तु सर्वकर्मारम्भहेतुभूता बुद्धिवृत्तिरेव ग्राह्या। ननु ज्ञानं बुद्धिवृत्तिरेवेति कोऽयं नियमः? करणमात्रं ज्ञानशब्देन गृह्यताम्। तथा चान्तःकरणमेकम् , बहिःकरणानि पञ्च च श्रोत्रादीनि सुखादिशब्दादिविषयग्रहणसाधनत्वाज्ज्ञानशब्दवाच्यान्येव। एतदभिप्रायेणैव ‘सर्वविषयं ज्ञान’मित्युक्तमाचार्यैरिति चेत् , मैवम् ; सर्वत्रापि विषयग्रहणे बुद्धिवृत्तेरेव करणत्वम् , श्रोत्रादीनां तु द्वारत्वमेवेति पूर्वमेवोक्तत्वात्। बुद्धिर्हि चक्षुर्द्वारा निर्गत्य घटादि- विषयदेशं गत्वा घटाद्याकारेण परिणमते। स एष परिणामो वृत्तिरित्युच्यते। तया च वृत्त्या घटाद्यावरकमज्ञानं नाश्यते, ततः प्रत्यक्षं जायत इति सिद्धान्तात्। तस्मात् सुखाद्याकारेण शब्दाद्याकारेण वा परिणता बुद्धिवृत्तिरेव करणमिति गृह्यतां लाघवाज्ज्ञानशब्देनेहेति बोध्यम्। अत एव ‘सर्वविषयं ज्ञान’मित्युक्तम् , न तु ‘सर्वविधं ज्ञान’मित्याचार्यैः। न ह्येकस्य चक्षुरादिकरणान्यतमस्य ज्ञानस्य सर्व- विषयत्वं सम्भवति, चक्षुषा शब्दादेरग्रहणात्। बुद्धिवृत्त्या तु सर्वं ग्रहीतुं शक् यमिति सर्वविषयं ज्ञानं बुद्धिवृत्तिरेवेत्याचार्याभिमतमिति स्थितम्। न च ‘करणं कर्म कर्ते’ति वचनाज्ज्ञानं करणमेवेति वाच्यम् ; तथा सति श्लोकस्य पूर्वार्धेनोक्तस्यार्थस्यैवोत्तरार्धेन पुनर्वचने पुनरुक्तिदोषप्रसङ्गात्। न च – ज्ञेयकर्मणोः, परिज्ञातृकर्त्रोश्चैकत्वाद् ज्ञानकरणयोरप्येकत्वेन भाव्यमिति – वाच्यम् ; ज्ञेयकर्मणोरप्येक- त्वाभावात्। धर्मब्रह्माद्यात्मकं ज्ञातव्यं सर्वं हि ज्ञेयशब्दार्थः। तच्चोक्तमाचार्यैः— ‘तदपि सामान्येन सर्वमुच्यते’ इति। कर्म तु क्रियया प्राप्यमाणं फलमेव, न तु क्रियामात्रमिति। ज्ञातृकर्त्रोरेकत्वेऽपि भोक्तृत्वकर्तृत्वांशाभ्यां भेद इह विवक्षित इति न परिज्ञातृकर्त्रोरपि पुन- रुक्तिः। भोक्ता हि जीवः स्वभोगार्थं कर्म चोदयति, न तु कर्तेति जीवगतं भोक्तृत्वमेव कर्मचोदकम् , न तु कर्तृत्वम्। अत एवोक्तम् आचार्यैः— ‘परिज्ञाता भोक्ते’ति। रामानुजस्तु— ज्ञेयं कर्मेति, कर्म यागादिकम् इति चोक्तवान् । तन्मते ज्ञेयकर्मणोः पुनरुक्तिर्दुर्वारैव। वक्तव्यस्य फलस्या- वचनमपि दोष एव। ननु ज्ञानमिहावगतिरेव, भावप्रत्ययान्तत्वेनैव ज्ञानशब्दस्य प्रसिद्धप्रयोगत्वाल्लोके घटज्ञानं पटज्ञानमिति, न तु ज्ञानकरणम् , लाक्षणिकत्वापातादिति चेत् , मैवम् ; असङ्गचिदात्मरूपाया अवगतेर्ज्ञात्रादिसन्निपातायोगात् , निर्धर्मकत्वेन कर्मचोदनाऽयोगाच्च। घटज्ञानपटज्ञानादयस्तु सविशेषा ज्ञानाभासा एव। घटाद्याकारबुद्धिवृत्तिजन्यानि हि तानि घटज्ञानादीनि। अत एव तेषां वृत्तिज्ञानत्वेन व्यवहारः। न चेदमेव वृत्तिजन्यं ज्ञानमिह गृह्यतां, किमिति वृत्तिरिति वाच्यम् ; ‘येनैकं भावमव्ययमीक्षते’ इति तृतीयान्तयच्छब्देन ज्ञानस्य २परामर्शिष्यमाणत्वात् , ‘ईक्षते’ इति अवगतेः पृथग् वक्ष्यमाणत्वाच्च। न चानुभवैकवेद्यमितिवदनुभवस्याप्यवगतिं प्रति करणत्वमस्तीति वाच्यम् , एकस्यैवानुभवस्य वेदनत्ववेदनकरणत्वयोरयोगात् , अनुभवानेकत्वे मानाभावात्। घटानुभवः पटानुभव इति प्रतीयमानानुभवभेदस्य घटादिविषयगतत्वेनानुभवगतत्वाभावात् , अनुभवैकवेद्यमित्यस्य च शास्त्रादिभिरवेद्यमित्यर्थे तात्पर्यात्। ननु साक्षिभास्यत्वं सर्वस्य श्रुत्यादिसिद्धम्। साक्षिणश्च ज्ञानस्वरूपत्वं ३तथैव। तथा च साक्षिणा सर्वं भास्यत इत्यस्य ज्ञानेन सर्वं ज्ञायत इत्येवार्थ इति काऽनुपपत्तिर्ज्ञानस्य तृतीयान्तयच्छब्देन परामर्शने इति चेद् , उच्यते—साक्षिणा भास्यत इत्यत्र कर्तरि भाष्यार्कप्रकाशः १. कर्मारम्भपदस्येत्यर्थः। २. ‘पराम्रक्ष्यमाणत्वात्’ इति पाठो युक्तः। वृत्त्यभिव्यक्तचैतन्यं ज्ञानम् , विषयाभिव्यक्तं चैतन्यमवगतिः फलमिति चोच्यत इति विवेकः। ३. तथैव श्रुत्यादिसिद्धमेव।

[[८७७]]

तृतीया। येनेक्षते इति प्रकृते तु करणे तृतीया१। स्वप्रकाशस्यान्यावभासकस्य चानुभवस्य भानकर्तृत्वं स्यादेव, न तु भानकरणत्वम् , अपरतन्त्रत्वादनुभवस्य। करणं हि कर्तृपरतन्त्रम्। न च भानस्वरूपस्य साक्षिणः कथं भानकर्तृत्वमिति वाच्यम् ; वृत्तिज्ञानात्मकजन्य- ज्ञान(ज्ञानाभास)कर्तृत्वस्य साक्षिण्युपपत्तेः। साक्षी हि नित्यज्ञानरूपः। न चैवं जन्यज्ञानस्यापि कर्तृत्वं स्यादिति वाच्यम् ; तस्य जड- त्वात्। न च जन्यज्ञानस्य करणत्वे का विप्रतिपत्तिरिति वाच्यम् ; घटज्ञानस्य पटज्ञानं प्रति करणत्वादर्शनात्। न च ‘सोऽयं देवदत्तः’ इति प्रत्यभिज्ञारूपं ज्ञानं देवदत्तानुभवकरणकमिति वाच्यम् ; प्रत्यभिज्ञाया ज्ञानत्वाभावात्२। सत्यपि तस्मिन्३ देवदत्तानुभवकरणकत्वं नास्ति, किन्त्वनुभवहेतुकत्वमेव। चक्षुरेव तत्रापि करणम्। न हि पूर्वानुभूतं देवदत्तं चक्षुषाऽनिरीक्ष्य ‘सोऽयं देवदत्तः’ इति प्रत्यभि- जानीयात् कोऽपि। तस्माद् नात्र ज्ञानशब्देन जन्यज्ञानं ग्रहीतुमुचितम्। यत्तु रामानुजः—कर्तव्यकर्मविषयं ज्ञानं ज्ञानमिति, तत्तुच्छम् ; इह ज्ञानशब्देन कर्तव्यकर्मविषयज्ञानस्यैव ग्रहणे ‘येनैकं भाव- मीक्षते’ इत्यत्राप्यस्यैव ग्राह्यत्वेनात्मविषयज्ञानस्य वक्ष्यमाणस्य कथं ज्ञानत्रैविध्यान्तःप्रवेशः स्यात्? न हि ‘येनैक’मिति श्लोके कर्म- विषयज्ञानमुच्यते, किन्त्वात्मविषयमेव। तस्मात् सर्वविषयं ज्ञानमेवेह ज्ञानशब्देन ग्राह्यम्। तच्च ज्ञानं बुद्धिवृत्तिरूपमेव, न तु नित्य- ज्ञानरूपम् , नापि ४जन्यज्ञानरूपमिति सङ्क्षेपः॥१८॥

ज्ञानमिति। गुणसङ्ख्याने ज्ञानं कर्म च कर्ता च त्रिधैव भवतीति प्रोच्यते। तान्यपि त्वं यथावच्छृणु। अथेति। कर्मचोदनाकर्म- संग्रहयोस्त्रैविध्यप्रदर्शनान्तरमित्यर्थः। क्रिया कर्म, कारकं ज्ञानं, फलं तद्भोक्ता कर्ता, तेषां क्रियाकारकफलानाम्। यद्वा फलशब्देन सुखग्रहणम् , सर्वेषामित्यनेन तु कर्तृबुद्धिधृतीनां ग्रहणम्। ज्ञानमिति। ‘ज्ञानं ज्ञेय’मिति श्लोकोक्तं बुद्धिवृत्तिरूपं कारकं ज्ञानकरणमिह ज्ञानशब्देनोच्यते। ‘करणं कर्मे’त्यत्रोक्तं कर्म नेह कर्मशब्देन ग्राह्यम् , किन्तु ‘कर्मसंग्रहः’ इति समागतकर्मैवेत्याह—कर्म क्रियेति। कारकमिति। द्वितीयाकारकमित्यर्थः। पारिभाषिकमिति। ‘कर्तुरीप्सिततमं कर्मे’ति व्याकरणपरिभाषासिद्धमित्यर्थः। यश्चोपाधिलक्षणो भोक्ता कर्ता च ‘परिज्ञाता’ इति ‘कर्ता’ इति च निर्दिष्टः, तस्यैव चिदाभासस्येह कर्तृशब्देन ग्रहणमित्याह—कर्ता च निर्वर्तक इति। कारकव्यापारो हि कर्तृपरतन्त्रः। जीवश्च चक्षुरादिभिर्दर्शनादिक्रिया निर्वर्तयतीति निर्वर्तकः क्रियाणाम्। त्रिधैवेति। सात्त्विकत्वराजसत्व- तामसत्वरूपेणेत्यर्थः। गुणव्यतिरिक्तेति। सात्त्विकत्वादिव्यतिरिक्तेत्यर्थः। गुणानां सङ्ख्यानं यत्र तद् गुणसङ्ख्यानम्। ननु कापिलशास्त्रस्य भाष्यार्कप्रकाशः ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः। प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि॥१९॥

[आनन्दगिरिकृतव्याख्या]

अथेदानीं क्रियाकारकफलानां सर्वेषां गुणात्मकत्वात् सत्त्वरजस्तमोगुणभेदतस्त्रिविधो भेदो वक्तव्यः इत्यारभ्यते— ज्ञानमिति। ज्ञानम् , कर्म च— कर्म क्रिया, न कारकं पारिभाषिकमीप्सिततमं कर्म, कर्ता च निर्वर्तकः क्रियाणां त्रिधैव। अवधारणं गुणव्यतिरिक्तजात्यन्तराभावप्रदर्शनार्थम्। गुणभेदतः सत्त्वादिभेदेनेत्यर्थः। प्रोच्यते अनन्तरश्लोकदशकतात्पर्यमाह—अथेति। ज्ञानादिप्रस्तावानन्तर्यम् अथशब्दार्थः। इदानीं प्रस्तुतज्ञानाद्यवान्तरभेदापेक्षायामि- त्यर्थः। तेषां गुणभेदात् त्रैविध्ये हेतुमाह—गुणात्मकत्वादिति। वक्तव्यो वक्ष्यमाणश्लोकनवकेनेति शेषः। एवं स्थिते प्रथममवान्तरभेद- प्रतिज्ञा क्रियत इत्याह—इत्यारभ्यत इति। ‘कर्तुरीप्सिततमं कर्म’ इति यत् परिभाष्यते, तद् नात्र कर्मशब्दवाच्यमित्याह—नेति। गुणातिरेकेण विधान्तरं ज्ञानादिषु नेति निर्धारयितुमवधारणमित्याह—गुणेति। ज्ञानादीनां प्रत्येकं गुणभेदप्रयुक्ते त्रैविध्ये प्रमाणमाह— अ. १८. श्लो. १८ - १९ ] १. अन्यथा ईक्षते इति कर्तरि लकारेण कर्तुरभिहितत्वात् प्रथमाया एव प्राप्तेरिति भावः। २. प्रत्यभिज्ञाया ज्ञानत्वाभावत्वोक्तिः चिन्त्या। वस्तुतस्तु अनुमित्यादौ ज्ञानकरणकत्वस्य प्रसिद्धत्वात् ज्ञानस्यापि करणत्वं स्वीकार्यमेव। ३. तस्मिन् ज्ञानत्वे। ४. तार्किकाद्यभिमतं समवायेनात्मनि जायमानज्ञानरूपमित्यर्थः। तदनङ्गीकारादिति भावः।

[[८७८]]

कथं प्रमाणत्वम्? अत आह—तदपीति। एकदेशे विरुद्धमप्यन्यदेशेऽविरुद्धमेव कापिलमपि शास्त्रं तर्कादिशास्त्रवत्। ततश्चाविरुद्धांशो ग्राह्य एवेति भावः। कापिलोत्तरमीमांसयोर्गुणभोक्तृविषयेऽविरोधः। सत्त्वादिगुणविशिष्टबुद्धिभोगस्य आत्मन्यारोपादात्मनो भोक्तृत्वम् इति सम्प्रतिपन्नत्वात्। क्व पुनर्विरोधः? अत आह—परमार्थेति। कापिलैर्ब्रह्मणोऽनभ्युपगतत्वान्न ब्रह्मात्मैकत्वदर्शनं तत्रास्तीति भावः। गुणभोक्तृविषय इत्यत्र गुणविषये भोक्तृजीवविषये चेति वाऽर्थः। ननु कुतः कापिलस्येहोपादानम्? अत आह—ते हीति। अभियुक्ताः विद्वांसः, कुशला इति यावत्। गुणानां गौणानां गुणमयबुद्ध्यादीनां च व्यापाराणां निरूपणं प्रतिपादनं तस्मिन् विषये। स्तुत्यर्थमिति। तन्त्रान्तरेऽपि प्रसिद्धमिदम् , न केवलमस्मिन्नेव तन्त्रे इति स्तुतिः। ज्ञानादीनीत्यादिपदात् कर्मादिग्रहणम्। भेदजातानि भेदसमूहान्। ननु स्वोक्तं सर्वं शृण्वन्तमर्जुनं प्रति पुनः शृण्विति वचनं व्यर्थम् , अत आह—वक्ष्यमाण इति। चित्तसमाधानार्थमिति शृण्वित्युक्तम् इत्यर्थः। ननु ज्ञानज्ञेयज्ञातृकरणकर्मकर्तॄणां षण्णां पूर्वमुक्तत्वेन तेषां सर्वेषामपि त्रैविध्यकथनं किमितीह न प्रतिज्ञातमिति चेत् , उच्यते—ज्ञेयकरणयोर्धर्माधर्मब्रह्मादिरूपत्वेन श्रोत्रादिरूपत्वेन च बहुविधयोर्गुणतस्त्रैविध्यस्य नियन्तुमशक् यत्वान्न तद्ग्रहणमिह कृतम्। ज्ञातृकर्तारौ त्वेक एव। कारकं कर्म तु सुखत्रैविध्ये कथ्यते३। यद्वा स्वर्गादिरूपम् , तच्च फलं बहुविधमेवेति नेह त्रिविधत्वेन नियन्तुं शक् यते। तस्माज्ज्ञानकर्मकर्तॄणां त्रयाणामेवेह कथनं प्रतिज्ञातम्। रामानुजस्तु ज्ञेयमेव कर्मशब्देन परामृश्यत इत्याह। तत्तुच्छम् ; कर्मैव ज्ञेयमिति नियन्तुमशक् यत्वेन ज्ञेयं कर्मेति व्याख्या- नस्यायुक्तत्वात् , कर्म कर्मचोदनेत्येकस्यैव कर्मणश्चोद्यत्वचोदनात्वयोरयोगाच्च। यदप्यनेनोक्तम् – कर्मैव संग्रहः कर्मसंग्रहः, करणं द्रव्यादिकं, कर्म यागादिकं, कर्ता अनुष्ठातेति त्रिविधं बोद्धव्यरूपं कर्म सङ्गृह्यत इति, तच्चायुक्तम् ; क्रियाया एव कर्मत्वेन कर्तृकरणयोः कर्मभेदायोगात्। करणनिर्वर्त्यं कर्त्राश्रयं हि कर्म।[किं] छेदनं छेत्तृलवित्रच्छेदनात्मना त्रिविधमिति वक्तुं शक् यते केनाप्यनुन्मत्तेन? न च करणं कर्म कर्ता चेत्येतत् त्रयमिह ज्ञेयमिति वाच्यम् ; तादृशार्थालाभात्। ज्ञेयं कर्मेति त्वयैव पूर्वमुक्तत्वात्। न च करणकर्तृसहितं कर्म ज्ञेयमिति वाच्यम् ; परिज्ञातेत्यनेन कर्तुरुक्तत्वात्। न च करणसहितं कर्म ज्ञेयमिति वाच्यम् ; द्रव्यादिकरणस्येहाप्रतिपाद्यमानत्वेन करणसाहित्यप्रतिपादनं कर्मणो व्यर्थमेवेति। तथा गुणसङ्ख्यानशब्दस्य गुणकार्यगणनमर्थः इत्युक्तमनेन, तच्चायुक्तम् , गुणशब्दस्य गुणकार्यपरत्वे लाक्षणिकत्वापत्तेः। त्रिधैव प्रोच्यत इत्यनेनैवेष्टसिद्धौ गुणकार्यगणने प्रोच्यत इत्यस्यानर्थकत्वाच्च। कापिलशास्त्रग्रहणे तूक्तार्थस्य प्रामाण्यसिद्धिः, प्रसिद्धिश्च फलमिति बोध्यम्॥१९॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

१. ‘परमार्थब्रह्मात्मैकत्वविषये’ इति पा.। २. ‘तथापि ते हि’ इति पा.। ३. ‘ज्ञातृकर्तारौ त्वेकमेव कारकम् । कर्म तु सुखत्रैविध्ये कथ्यते।’ इति पाठः स्यात्। कथ्यते गुणसंख्याने कापिले शास्त्रे। तदपि गुणसंख्यानशास्त्रं गुणभोक्तृविषये प्रमाणमेव, १परमार्थब्रह्मैकत्वविषये यद्यपि विरुध्यते। २ते हि कापिलाः गुणगौणव्यापारनिरूपणेऽभियुक्ताः इति तच्छास्त्रमपि वक्ष्यमाणार्थस्तुत्यर्थत्वेनो- पादीयत इति न विरोधः। यथावद् यथान्यायं यथाशास्त्रं शृणु तान्यपि ज्ञानादीनि तद्भेदजातानि गुणभेदकृतानि शृणु। वक्ष्यमाणेऽर्थे मनःसमाधिं कुर्वित्यर्थः॥१९॥

[आनन्दगिरिकृतव्याख्या]

प्रोच्यत इति। ननु कापिलं पातञ्जलमित्यादि शास्त्रं विरुद्धार्थत्वादप्रमाणं कथमिह प्रमाणीक्रियते? तत्राह—तदपीति। विषयविशेषे विरोधेऽपि प्रकृतेऽर्थे प्रामाण्यमविरुद्धमित्यर्थः। यद्यपि कापिलादयो गुणवृत्तिविचारे , गौणव्यापारस्य भोगादेर्निरूपणे च निपुणास्तथापि कथं तदीयं शास्त्रमत्र प्रमाणीकृतमित्याशङ्क्याह—ते हीति। ज्ञानादिषु प्रत्येकमवान्तरभेदो वक्ष्यमाणोऽर्थः, तस्य तन्त्रान्तरेऽपि प्रसिद्धि- कथनं स्तुतिः, तादर्थ्येन कापिलादिमतोपादानमिहोपयोगीत्यर्थः। तृतीयपादस्याविरुद्धार्थत्वं निगमयति—नेति। ‘यथावदि’त्यादि व्याचष्टे — यथान्यायमिति॥१९॥

[[८७९]]

सर्वभूतेषु येनैकं भावमव्ययमीक्षते। अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्॥२०॥

सर्वेति। विभक्तेषु सर्वभूतेष्वविभक्तमव्ययमेकं भावं येनेक्षते, विद्वानिति शेषः, तद् ज्ञानं सात्त्विकं विद्धि। अव्यक्तादीति। अव्यक्तमत्र हिरण्यगर्भशरीरम् , न तु माया, तस्या एकत्वेन विभक्तत्वासम्भवात्। ब्रह्मादिस्तम्बपर्यन्तेष्विति सर्वशब्दार्थः। भूतशब्दार्थ- माह—देहभेदेष्विति। देहेष्वित्यर्थः। विभक्तत्वविशेषणार्थमपि सङ्गृह्योक्तम्—देहभेदेष्विति। कथं विभक्तेषु? अत आह—प्रतिदेहमिति। परस्परं विलक्षणेष्वित्यर्थः। देहानां परस्परवैलक्षण्यस्य सर्वानुभवसिद्धत्वादिति भावः। तदेवं गुणतः कार्यतः आकारतः कालतो देश- तश्च परस्परं भिन्नेषु ब्रह्मादिस्तम्बपर्यन्तेषु चराचरात्मकेषु देहेष्विति ‘विभक्तेषु सर्वभूतेषु’ इत्यस्यार्थः सिद्धः। अत्राव्यक्तशब्दस्य माया- परत्वाग्रहे तु अव्यक्तमादिः कारणं येषां तेषु अव्यक्तादिषु मायाकार्येष्वित्यर्थः। ब्रह्मादिष्विति तु शेषः। यद्वा अव्यक्तमादिर्येषामित्य- तद्गुणसंविज्ञानबहुव्रीहिः। ततश्च नाव्यक्तस्य भूतानुप्रवेशः। किन्तु तज्जन्यानां ब्रह्मादिदेहानामेवेति। ननु ‘ब्रह्मादिस्थावरान्तेषु’ इति ऋजु वक्तव्ये कथम् ‘अव्यक्तादिस्थावरान्तेषु’ इति वक्रमुक्तमाचार्यैरिति चेत्? नैष दोषः; भूतानां मायामयत्वस्फोरणायैवमुक्तत्वात्। भवन्तीति भूतानीति व्युत्पत्त्या भूतशब्दः कार्यपरः। भवति अस्ति सर्वत्र देशेषु कालेषु वस्तुषु चेति भावः सन् परमात्मेत्यर्थः। वस्तु सत्यमित्यर्थः। ब्रह्मेति यावत्। यद्वा भावो वस्तु , पदार्थ इति यावत्। एकत्वादिविशेषण- वशात्तु अस्य पदार्थस्य, आत्मलाभ इति बोध्यम्। इदमेवाह—आत्मवस्त्वित्यर्थ इति। आत्मेति पदार्थ इति भावः। व्येति विकारं प्राप्नोति। विकारो द्विविधः—स्वरूपगतः स्वभाव[स्वधर्म]गतश्चेति। तदुभयमात्मनो नास्तीत्याह—स्वात्मना स्वधर्मेण वा न व्येतीति। कूटस्थमिति। अविक्रियमित्यर्थः। सदैकरूपमिति यावत्। ज्ञानेन भावं पश्यतीत्युक्तं चोदयति—४कथमिति। कथम्भूतं भावं पश्यती- त्यर्थः। प्रत्याह—अविभक्तमिति। तदर्थमाह—निरन्तरमिति। निर्भेदमित्यर्थः। दृष्टान्तमाह—व्योमवदिति। अविभक्तं यथा तथाऽव- स्थितमिति क्रियाविशेषणत्वेनापि व्याख्यातुं शक् यमिदं पदम्। परन्तु अवस्थितशब्दाध्याहारो गौरवावहः। तज्ज्ञानमित्यस्यार्थमाह— साक्षात् सम्यग्दर्शनमिति। सम्यग् दृश्यते येन तत् सम्यग्दर्शनम् , बुद्धिवृत्तिरिति यावत्। सर्वभूतेष्वित्यादिना लब्धमर्थं क्रोडीकृत्य, किंविषयं ज्ञानमिति शङ्कां निराकुर्वन्नाह—अद्वैतात्मविषयमिति। ‘सर्वभूतात्मभूतमेकमेवाद्वितीयं ब्रह्माह’मित्याकारकं ज्ञानं सात्त्विक- ज्ञानमिति परमार्थः। ननु कुतोऽस्य ज्ञानस्य सम्यग्ज्ञानत्वम्? अत आह—यानीति। साक्षात् संसारोच्छित्तिहेतुत्वाद् इदमद्वैतज्ञानं सम्यग्ज्ञानम्। अन्यानि तु द्वैतज्ञानानि वक्ष्यमाणानि न साक्षात्संसारोच्छित्तिहेतूनीति न सम्यग्ज्ञानानीत्यर्थः। साक्षादित्यनेन च ज्ञानादीनां प्रत्येकं त्रैविध्यं ज्ञातव्यं प्रतिज्ञाय ज्ञानत्रैविध्यार्थं श्लोकत्रयमवतारयति— ज्ञानस्येति। तत्र सात्त्विकं ज्ञानमुपन्य- स्यति— सर्वेति। भूतानि कार्यकारणात्मकान्युपाधिजातानि। अद्वितीयमखण्डैकरसं प्रत्यगात्मभूतमबाधितं तत्त्वं ज्ञेयत्वेन विवक्षित- मित्याह—एकमिति। विवक्षितम् अव्ययत्वं संक्षिपति—कूटस्थेति। प्रतिदेहमविभक्तमित्युक्तं व्यनक्ति— विभक्तेष्विति। ‘तज्ज्ञान’मि- त्यादि व्याकरोति— अद्वैतेति। द्वैतदर्शनान्यपि कानिचिद् भवन्ति सत्त्वनिर्वृत्तानि सम्यञ्चीत्याशङ्क्याह— यानीति। तेषामसम्यक्त्वे

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ज्ञानस्य तु तावत् त्रिविधत्वमुच्यते— सर्वभूतेष्विति। सर्वभूतेषु अव्यक्तादिस्थावरान्तेषु भूतेषु येन ज्ञानेन एकं भावं वस्तु , भावशब्दो वस्तुवाची। एकमात्मवस्त्वित्यर्थः। अव्ययं न व्येति स्वात्मना १धर्मैर्वा, कूटस्थनित्यमि- त्यर्थः। ईक्षते येन ज्ञानेन पश्यति, तं च भावम् अविभक्तं प्रतिदेहं विभक्तेषु देहभेदेषु न विभक्तम् , तदात्मवस्तु व्योम- वन्निरन्तरमित्यर्थः। २तज्ज्ञानम् अद्वैतात्मदर्शनं सात्त्विकं सम्यग्दर्शनं विद्धीति। ३यानि द्वैतदर्शनानि तानि १. ‘स्वधर्मेण’ इति पा.। २. ‘तज्ज्ञानं साक्षात् सम्यग्दर्शनम् अद्वैतात्मविषयं सात्त्विकं विद्धीति’ इति पा.। ३. एतद्वाक्यं क्वचिद् उत्तरश्लोकादौ दृश्यते। ४. ‘येन ज्ञानेन पश्यति, कथम् ? अविभक्तं’ इति रा.पा. स्यादिति भाति। अ. १८. श्लो. १९ - २० ]

[[८८०]]

असम्यग्भूतानि राजसानि तामसानि चेति न साक्षात् संसारोच्छित्तये भवन्ति॥२०॥

पृथक्त्वेनेति। पृथक्त्वेन तु भेदेन, प्रतिशरीरमन्यत्वेन यज्ज्ञानं नानाभावान् भिन्नान् आत्मनः पृथग्विधान् केषाञ्चिद् राजसज्ञानानां परम्परया मोक्षहेतुत्वमस्तीति गम्यते, भिन्नेश्वरभजनस्य चित्तशुद्ध्यादिहेतुत्वात् कर्मयोगवदिति भावः। तानि साक्षात् संसारोच्छित्तये न भवन्तीत्यन्वयः। न भवन्ति न शक्नुवन्तीत्यर्थः। यत्तु रामानुजः—ब्राह्मणक्षत्रियगृहस्थब्रह्मचार्यादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेनैकमात्माख्यं भावं तत्राप्यविभक्तं ब्राह्मणत्वाद्यनेकाकारेष्वपि भूतेषु सितदीर्घादिविभागवत्सु ज्ञानाकार आत्मनि विभागरहितमव्ययं ब्राह्मणादिशरीरेषु व्ययस्वभावेष्वप्यविकृतं फलादिसङ्गानर्हं च कर्माधिकारवेलायामीक्षते, तज्ज्ञानं सात्त्विकं विद्धीति, तत्तुच्छम् ; सर्वशब्दस्य कर्माधि- कारिपरतया सङ्कोचस्यान्याय्यत्वात् ; सर्वविधविभागराहित्यप्रतिपादकाविभक्तशब्दस्य सितदीर्घादिविभागराहित्यपरतया सङ्कोचनस्या- प्ययुक्तत्वात्। न ह्यविभक्तस्य विभक्तत्वमुचितम्। अद्वितीयत्वप्रतिपादकस्यैकशब्दस्य च ज्ञानैकाकारमित्यर्थवर्णनमयुक्तम् , लाक्षणिक- त्वादिदोषात्। न च जात्येकत्वमुक्तमिति वाच्यम् ; आत्मनि जात्यभावात्। कर्माधिकारवेलायामिति मूलाद्बहिःकल्पनं चाप्रमाणम्। असङ्गतं च। न हि ब्राह्मणत्वादिजात्यभिमानाद् यज्ञादिकर्मणि प्रसक्तः पुरुष एकं भावमीक्षितुं क्षमते, विरोधात्। नापि ज्ञानैकाकारा- व्ययासङ्गात्मदर्शी ‘ब्राह्मणोऽहं कर्ते’ति कर्मणि प्रवर्तते। तस्माद् ‘विभक्तेषु भूतेषु’ इति बहुवचनप्रयोगाद् , ‘अविभक्तम् एकम्’ इति एकवचनप्रयोगाच्च देहभेद एव नात्मभेद इति स्थितम्। अयमेवार्थः ‘न त्वेवाहं जातु नासम्’ इति श्लोकेनाप्यभिप्रेतो भगवतेति तद्भाष्ये भाषितमाचार्यैः—‘देहभेदानुवृत्त्या बहुवचनम् , नात्मभेदाभिप्रायेण’ इति। यदि भगवतस्तत्र सोऽभिप्रायो न स्यात् , तर्हीहाप्यात्म- भेदमेव ब्रूयात्। मध्ये च तत्र तत्रात्माभेद एवोक्त इत्युपक्रमोपसंहारैक् याभ्यासादिभिः ‘एक एवात्मा’ इति गीताशास्त्रस्य निश्चितोऽर्थ इति स्थितम्॥२०॥

पृथक्त्वेनेति। यज्ज्ञानं सर्वेषु भूतेषु पृथक्त्वेन पृथग्विधान् नानाभावान् वेत्ति, तज्ज्ञानं राजसं विद्धि। प्रतिशरीरं भिन्ना आत्मानो भिन्नलक्षणा इति यद् द्वैतज्ञानं तद् राजसमित्यर्थः। नन्वौपाधिको भेदस्तवाप्यद्वैतिन इष्ट इत्यत आह—प्रतिशरीरमिति। शरीरे शरीरे प्रतिशरीरम्। ततश्चैकैकस्मिन् शरीरे एकैको जीवः परस्परं भिन्नो वर्तत इत्यर्थः। अद्वैतिनस्तु प्रतिशरीरमेक एव जीवो वर्तत इति वदन्तीति भावः। तच्चोक्तं पूर्वश्लोकेन। एतेनाद्वैतिन एव सात्त्विकज्ञानवन्त इति सम्यग्दर्शित्वमद्वैतिनां सिद्धम्। भावशब्दस्यात्मपरतया पूर्वं व्याख्यातत्वादाह—भिन्नानात्मन इति। भिन्नं लक्षणं सुखदुःखादिकं येषां ते भिन्नलक्षणाः, तान्। यदि सर्वशरीरेष्वेक एव जीवः स्यात् तर्हि सर्वेषामेकदैव सुखं वा दुःखं वा स्यात् , चैत्रानुभूतार्थस्य मैत्रेण स्मरणं स्यात् , जीवे उत्क्रान्ते सति सर्वशरीराणामचेतनता स्यात् , देवदत्तः स्वचक्षुषेव मैत्रचक्षुषाऽपि घटं पश्येदित्यादीन् दोषांस्तार्किकादयो मन्यन्त इति भावः। एकात्मवादी अद्वैती तु सुखदुःखादीनामनात्मधर्मत्वान्न कोऽपि दोष इति वेत्ति। तथाहि— सुखं दुःखं च मनोधर्मः, ‘कामः सङ्कल्पः’ इत्यादिश्रुतेः। स्मरणं चित्तधर्मः। उत्क्रान्तिर्बुद्धिधर्मः, यद्वा प्राणधर्मः। दर्शनस्पर्शनादिकमिन्द्रियधर्मः। इमानि च मनआदीनि प्रति- शरीरं भिन्नान्येवेति नानुभवसाङ्कर्यप्रसङ्गः। न चानुभवितुरेकत्वे कथमनुभवासाङ्कर्यमिति वाच्यम् ; अनुभवितुरपि प्रमातुरन्तःकरणा- वच्छिन्नस्य नानात्वात्। औपाधिकं हि प्रमातृत्वं चैतन्यस्य। वयं हि निरुपाधिकमेव चैतन्यमेकं ब्रूमः, न तु सोपाधिकम्। यद्वा हेतुमाह—राजसानीति ॥२०॥

प्रतिदेहमन्यत्वेन भिन्ना[न् आ]त्मनो येन ज्ञानेन जानाति तज्ज्ञानं राजसमिति व्याचष्टे—भेदेनेति। पृथक्त्वं पृथग्विधत्वं च

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान्। वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम्॥२१॥

[[८८१]]

पृथक्प्रकारान् , भिन्नलक्षणानित्यर्थः; वेत्ति विजानाति यज्ज्ञानं सर्वेषु भूतेषु ; २ज्ञानस्य कर्तृत्वासम्भवाद् येन ज्ञानेन वेत्तीत्यर्थः; तज्ज्ञानं विद्धि राजसं रजोगुणनिर्वृत्तम्॥२१॥

यत्त्विति। यत्तु ज्ञानं कृत्स्नवत् समस्तवत् सर्वविषयमिव एकस्मिन् कार्ये देहे बहिर्वा प्रतिमादौ सक्तम् ‘एतावानेवात्मा, ईश्वरो वा, नातः परमस्ति’ इति, यथा नग्नक्षपणकादीनां ३शरीरानुवर्ती देहपरिमाणो जीवः, ईश्वरो वा विशेष्यचैतन्यमेवैकं ब्रूमः, न तु विशिष्टचैतन्यम्। चैतन्यमेव हि प्रमातुरात्मा। तस्मात् प्रमातृभेदेऽपि नात्मभेदः, प्रमात्रन्तःकरण- भेदेऽपि प्रमातृचैतन्याभेदात्। तस्मादेक एवात्मा चैतन्यरूपः। ननु ‘येन ज्ञानेनेक्षते’ इति पूर्वश्लोकवद् इहापि ‘येन वेत्ती’त्येव वक्तव्ये कथमुक्तम् ‘यद्वेत्ती’ति? तत्राह—ज्ञानस्येति। वृत्तिज्ञानस्येत्यर्थः। निर्वृत्तं सिद्धम्। यत्तु रामानुजः—सितदीर्घादिपृथक्त्वेनात्मनो वेत्तीति, तत्तुच्छम् ; न हि कोऽप्यास्तिकः कर्मठो देहभिन्नकर्तृभोक्त्रात्मवादी सन् आत्मानं सितं दीर्घं कृष्णं ह्रस्वं वा मन्यते। यस्तु देहात्मवादी बौद्धः स भोक्त्रभावात् कर्म नैव करोति, मन्यते चात्मानं सितं दीर्घं कृष्णं ह्रस्वं स्थूलं कृशं चेत्येवम्। तस्माद् भिन्नात्मज्ञानमेव राजसम्। तच्च निन्द्यं त्याज्यं चेति स्थितम्॥२१॥

यत्त्विति। एकस्मिन् कार्ये सक्तमहैतुकमतत्त्वार्थवदल्पं च कृत्स्नवद् यत् तु ज्ञानं, तत् तामसमुदाहृतं शिष्टैरिति शेषः। देहा- त्मज्ञानम् , अर्चेश्वरज्ञानं च तामसमिति फलितार्थः। कृत्स्नमस्यास्ति, अस्मिन्नस्तीति वा कृत्स्नवत्। विषयिणि ज्ञाने विषयत्वेन सर्व- मस्तीत्यर्थः। इदमेवाह—सर्वविषयमिति। भूतभौतिकादिसर्वजगद्विषयमित्यर्थः। न त्वेकात्मविषयमिति भावः। यथाऽद्वैतिन ‘एकमेवा- द्वितीयं ब्रह्मे’ति मन्यन्ते, तथेमे ‘दृश्यं सर्वं जगत् सत्यमेवे’ति मन्यन्त इति परमार्थः। तथा एकस्मिन् कार्ये सक्तमिति। एककार्य- विषयमित्यर्थः। किं तत् कार्यम्? अत आह—देह इति। पक्षान्तरमाह—प्रतिमादाविति। एकशब्दश्च केवलवाचीत्याह—एतावानेवेति। ‘देह एवात्मा’ इति, ‘प्रतिमैवेश्वरः’ इत्येतद् एककार्यविषयं ज्ञानमित्यर्थः। एवकारार्थमाह— नातः परमस्तीति। अतोऽस्माद् देहात् प्रतिमादेर्वा परम् आत्माख्यमीश्वराख्यं वा वस्तु नास्तीत्यर्थः। के पुनरेवं मन्यन्ते? अत आह—यथेति। नग्नकाः दिगम्बराः, श्र[क्ष] पणकाः कापालिकाः, बौद्धविशेषा एते। देहपरिमाण इति। यावत्परिमाणो देहस्तावत्परिमाण इत्यर्थः। अत एव शरीरानुवर्ती हस्ति- मशकादिशरीरानुसारी। एतेन सावयवत्वमात्मनः सिद्धम्। जीवस्य केषांचिदवयवानां नाशाद् मशकादिदेहपरिमाणत्वम् , केषांचिल्ला- भाद् मनुष्यादिदेहपरिमाणत्वं चेति। यद्यपीमे न देहात्मवादिनः, तथापि सावयवात्मवादित्वाद् देहात्मवादितुल्या एवेति निदर्शनतये- होपात्ता इति बोध्यम्। अनेन च ‘देहपरिमाणो जीवः’ इति ज्ञानस्यैव तामसत्वे, किं पुनः ‘देह एव जीवः’ इति ज्ञानस्येत्यर्थापत्तिः सिध्यति। यद्वा एतावानेवेत्यस्य देहमात्रपरिमाण एवेति, प्रतिमादिमात्र एवेति चार्थः। तथा च देहातिरिक्तात्मवादिनोऽप्येते देह- परिमाणात्मवादित्वात् तामसज्ञानवन्त इति निन्द्यन्ते। ‘देहपरिमाणो जीवः’ इति ज्ञानं, ‘प्रतिमादिरूप ईश्वरः’ इति ज्ञानं च तामसमिति पुनरुक्तमित्याशङ्क्य हेतुहेतुमत्त्वेन४ विभागं विवक्षित्वाऽऽह—भिन्नेति। ज्ञानस्य ज्ञानकर्तृत्वमयुक्तमित्याशङ्क्याह—येनेति॥२१॥

सक्तत्वमेव व्यनक्ति—एतावानिति। एकस्मिन् कार्ये ज्ञानस्य सक्तत्वमेव दृष्टान्तेन साधयति—यथेत्यादिना। यन्निर्युक्तिकत्वं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम्१। अतत्त्वार्थवदल्पं च तत् तामसमुदाहृतम्॥२२॥

१. ‘अहेतुकम्’ इति मूले भाष्ये टीकायां च पा.। २. ‘ज्ञानं वेत्ति’ इति तु ‘एधांसि पचन्ती’तिवत् करणे कर्तृत्वोपचारात् प्रयोगः। ३. ‘शरीरान्तर्वर्ती’ इति पा.। ४. पृथक्त्वेनेति हेतौ तृतीया। पृथक्त्वम् आत्मनः प्रतिशरीरं भेदः। अत एव हेतोः पृथग्विधान् भिन्नलक्षणानिति योजनेति भावः। अ. १८. श्लो. २१ - २२ ]

[[८८२]]

पाषाणदार्वादिमात्रम् इत्येवम् एकस्मिन् कार्ये सक्तम् , १अहैतुकं हेतुवर्जितं निर्युक्तिकम् , अतत्त्वार्थवद् २यथाभूतोऽर्थः तत्त्वार्थः, सोऽस्य ज्ञेयभूतोऽस्तीति तत्त्वार्थवत् , न तत्त्वार्थवद् अतत्त्वार्थवद् , अहैतुकत्वादेव, अल्पं च अल्पविष- यत्वाद् अल्पफलत्वाद्वा, तत् तामसमुदाहृतम्। तामसानां हि प्राणिनामविवेकिनामीदृशं ज्ञानं दृश्यते॥२२॥

श्लोकसारार्थः। ननु सर्वात्मकस्येश्वरस्य कुतः प्रतिमादिरूपत्वाभावः? अत आह—पाषाणदार्वादिमात्र इति। ‘ये श्रीरङ्गजगन्नाथादिक्षेत्रेषु कल्पिताः पाषाणदार्वादिमया अर्चाविग्रहाः त एवेश्वरः, न तु घटपटादयः, नापि चैतन्यम्’ इति मन्यन्त एत इति भावः। ननु यथोक्तं ज्ञानं सहेतुकत्वान्न त्याज्यम् , अत आह—अहैतुकमिति। नापि यथार्थमित्याह—अतत्त्वार्थवदिति। अतत्त्वार्थविषयमित्यर्थः। कुत इदं ज्ञानं तामसम्? अत आह—तामसानामिति। ईदृशमिति। ‘सर्वं जगत्सत्यम्’ ‘देह एव जीवः’ ‘देहपरिमाणो जीवः’ इति वा, ‘पाषाण- दार्वादिमात्र ईश्वरः’ इत्येवंरूपमित्यर्थः। ननु ‘ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना’ इति कर्मचोदनत्वं ज्ञानस्य पूर्वमुक्तम् , कथमिह ततोऽन्यदेव ज्ञानमुक्तमिति चेत् , नैष दोषः; प्रवृत्तिलक्षणं निवृत्तिलक्षणं चेति द्विविधं हि कर्म। तत्रोपेक्षाप्रयोजकं निवृत्तिलक्षणं कर्म चोदयति सात्त्विकं ज्ञानम् , ब्रह्मात्मविदां सनकादीनां निवृत्तिमार्गनिष्ठत्वात् , साङ्ख्यानां कर्मयोगेऽनधिकाराच्च। राजसतामसज्ञाने तु प्रवृत्तिलक्षणं कर्म चोदयत एव। भिन्नात्मदर्शिनां राजसानां कर्तृभोक्त्रात्मदर्शित्वात् कर्मणि प्रवृत्तिः। तामसानां च देहात्मवादिनामर्चेश्वरवादिनां कर्मणि प्रवृत्तिरुप- पन्नैवेति। तस्मादुक्तं त्रिविधं ज्ञानं कर्मचोदनमेव। न च निवृत्तिर्न कर्मेति वाच्यम् ; प्रवृत्तिवन्निवृत्तिरपि कर्मैवेत्युक्तत्वात्। यद्वा ज्ञानं कर्मचोदनेति सामान्यत उक्तम्। तत्र राजसतामसज्ञानयोरेव कर्मचोदनत्वं, न तु सात्त्विकज्ञानस्येति बोध्यम्। वस्तुतस्तु ‘ज्ञानं कर्म[ज्ञेयम्]’ इति श्लोकोक्तं कर्मचोदनं ज्ञानमन्यत् – यत् क्रियाकारकफलादिसर्वद्वैतविषयम्। ‘ज्ञानं कर्म च कर्ता चे’ति श्लोकोक्तं ज्ञानं तु ततोऽन्यत् – यज्जीवेश्वरविषयम्। अत एव ‘ज्ञानं कर्म चे’ति श्लोकावतारभाष्यादौ, ‘अथेदानीम्’ इत्यथशब्दः प्रयुक्तः वक्ष्यमाणग्रन्थस्य प्रकरणान्तरत्वद्योतनायेति। एतेन ‘ज्ञानं ज्ञेयं परिज्ञाते’त्युक्ता एव पदार्था ‘ज्ञानं कर्म च कर्ता चे’त्यनेनानूद्यन्त इति वेदान्तदेशिकोक्तिः परास्ता। जीवेश्वर- विषयज्ञानस्यैवेहोक्तत्वेनाकर्मविषयत्वादस्य। न च कर्मार्थमपि जीवेश्वरज्ञानमावश्यकमिति जीवेश्वरविषयं ज्ञानमपि कर्मचोदनमिति वाच्यम् ; उपमृदितक्रियाकारकफलादिसर्वद्वैतत्वाद् अद्वितीयजीवेश्वरज्ञानस्य। न च प्रतीयमाने सर्वद्वैते कथमद्वैतसिद्धिरिति वाच्यम् ; प्रतीयमानेऽपि नैल्ये गगनस्य नीरूपत्वसिद्धेरिष्टत्वात्। तस्मादविद्यादशायामेव सर्वद्वैतोपलम्भः, न तु विद्यादशायाम्। न च विद्या- विद्यादशाद्वयसत्त्वे प्रमाणाभाव इति वाच्यम् ; ‘दूरमेते विपरीते विषूची अविद्या या च विद्ये’ति श्रुतेरेव प्रमाणत्वात्। न च विद्यादशायां द्वैताभावोऽप्रमाण इति वाच्यम् ; ‘यत्र सर्वमात्मैवाभूत्तत्र केन कं पश्ये’दिति श्रुतेः, सुषुप्तिमृतिमूर्छासमाध्यनुभवस्य च प्रमाणत्वादिति स्थितमद्वैतम्। एवं ज्ञानत्रैविध्यप्रदर्शनं तु सात्त्विकज्ञानस्य सम्पादनार्थम् , इतरयोः परिवर्जनार्थं च। एवं कर्मादित्रैविध्यप्रदर्शनमपीति बोध्यम्। तस्मान्मुमुक्षुणा यथोक्तं सात्त्विकमद्वैतज्ञानमेव सम्पाद्यमिति सङ्क्षेपः। प्रेतभूताद्याराधनविषयं ज्ञानं तामसमिति रामानुजः, प्रकृतश्लोकादेतादृशार्थालाभाद् , आत्मविषयज्ञानगतसात्त्विकत्वादिभेद- कथनप्रसङ्गे एतदर्थस्याकथनीयत्वाच्चोपेक्ष्यं रामानुजव्याख्यानम्॥२२॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

तदेव ज्ञानस्याभासत्वे कारणमित्याह—अहैतुकत्वादिति। स्वरूपतो विषयतश्चाभासत्वम् , फलतो वेत्याह—अल्पेति। तामसं ज्ञानमुक्त- लक्षणमित्यत्रानुभवं प्रमाणयति—तामसानां हीति॥२२॥

[आनन्दगिरिकृतव्याख्या]

१. हेतुरेव हैतुकः, विनयादित्वकल्पनया स्वार्थे ठक्। अविद्यमानो हैतुको यस्मिन्निति विग्रहः। २. ‘अयथाभूतार्थवद् यथाभूतोऽर्थः’ इति पा.।

[[८८३]]

नियतमिति। अथेति। ज्ञानप्रकरणं समाप्तमिति सूचयितुम् अथशब्दः। अफलप्रेप्सुना अरागद्वेषतःकृतं नियतं सङ्गरहितं यत् कर्म, तत् सात्त्विकमुच्यते। नित्यमिति। ‘अहरहः सन्ध्यामुपासीते’त्यादिश्रुतिसिद्धसन्ध्यावन्दनाग्निहोत्रादिकम् , यस्य चाकरणे प्रत्य- वायः। नैमित्तिकस्याप्यत्रैवान्तर्भावः। अकरणे प्रत्यवायजनकत्वस्य नैमित्तिकेष्वपि श्राद्धादिषु सत्त्वात्। आसक्तिः प्रीतिविशेषः। रागः प्रीतिसामान्यम्। द्वेषोऽप्रीतिः। रागाद् द्वेषतो वा हेतोः कृतं रागद्वेषतःकृतम्। पञ्चम्या अलुगार्षः३। रागद्वेषकृतमित्यर्थः। तन्न भवतीत्यरागद्वेषतःकृतम्। यद्वा रागद्वेषयोरभावोऽरागद्वेषः, तस्मादरागद्वेषतः इति पृथक् पदम् । रागद्वेषाभावाद्धेतोरित्यर्थः। अथवा न विद्यते रागद्वेषौ यस्य सोऽयमरागद्वेषः, तेनारागद्वेषतः इति सार्वविभक्तिकस्तसिः तृतीयायाम्। विशेषणमिदम् अफलप्रेप्सुनेत्यस्य। रागप्रयुक्तेनेत्यादिभाष्यं तु फलितार्थकथनपरम्॥२३॥

यदिति। कामेप्सुना साहङ्कारेण वा पुनर्बहुलायासं यत्तु कर्म क्रियते तद् राजसमुदाहृतम्। कामेप्सुना कृतं साहङ्कारेण कृतं च पुनर्बहुलायासं कर्म राजसमित्युच्यत इत्यर्थः। ननु ‘अहं करोमी’ति कर्तृत्वाभिमानपुरःसरं कर्मिणा कर्मणः क्रियमाणत्वात् कथं निरहङ्कारत्वं कर्मिणः स्याद् येनोच्येत – ‘साहङ्कारेण यत् क्रियते’ इति। अत आह—नेति। तत्त्वज्ञानापेक्षया ‘साहङ्कारेण वे’ति नोक्तम् , निरहङ्कारतत्त्वविदपेक्षया साहङ्कारेणेति नोक्तमित्यर्थः। ‘अहं करोमी’त्याकारकोऽहङ्कारो नेह ग्राह्यः, किन्तु ‘वैश्वदेव्यहम् सोमयाज्यहम् आड्योऽहम् अभिजनवानहम्’ इत्यादिरात्मोत्कर्षप्रधानोऽहङ्कारो ग्राह्यः इति भावः। लौकिकोऽतत्त्ववित् , श्रोत्रिय- श्छान्दसः, निरहङ्कारः अहमेवोत्कृष्ट इत्यहङ्काररहितः इत्यर्थः। तदपेक्षयाऽयं कर्मी साहङ्कारः, यः आत्मानं कर्मिषूत्कृष्टं मन्यते। ननु साहङ्कारप्रतियोगितया निरहङ्कारश्रोत्रियग्रहणमिति किम्? निरहङ्कारस्तत्त्वविदेव गृह्यताम् , अत आह—यो हीति। परमार्थनिरहङ्कार इति। अनात्मस्वात्माभिमानरूपवास्तवाहङ्कारशून्य इत्यर्थः। कामेप्सुत्वबहुलायासकर्तृत्वयोः प्राप्तिस्तस्य नास्ति। ततश्चाप्राप्तस्य १. ‘कर्मफलप्रेप्सुना’ इति पा.। २. ‘साहङ्कारेण वा’ इतीदम् अग्रे ‘क्रियते’ इत्यनेनान्वितम्। ३. वस्तुतस्तु तसिलः सुप्त्वाभावात् समासे लुक् न प्राप्नोतीति ध्येयम्। आनन्दगिरिकृतव्याख्या नियतं सङ्गरहितमरागद्वेषतःकृतम्। अफलप्रेप्सुना कर्म यत् तत् सात्त्विकमुच्यते॥२३॥

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः। अथेदानीं कर्मणस्त्रैविध्यमुच्यते—नियतमिति। नियतं नित्यं सङ्गरहितम् आसक्तिवर्जितम् अरागद्वेषतःकृतम् रागप्रयुक्तेन द्वेषप्रयुक्तेन च कृतं रागद्वेषतःकृतम् , तद्विपरीतम् अरागद्वेषतःकृतम् , अफलप्रेप्सुना फलं प्रेप्सतीति फलप्रेप्सुः फलतृष्णः, तद्विपरीतेनाफलप्रेप्सुना कर्त्रा कृतं कर्म यत् तत् सात्त्विकमुच्यते॥२३॥

यत्त्विति। यत्तु कामेप्सुना १फलप्रेप्सुनेत्यर्थः; कर्म। साहङ्कारेण वा२। साहङ्कारेणेति न तत्त्वज्ञानापेक्षया, किं तर्हि? लौकिकश्रोत्रियनिरहङ्कारापेक्षया। यो हि परमार्थनिरहङ्कारः आत्मविद् न तस्य कामेप्सुत्वबहुलायासकर्तृत्व- भाष्यार्कप्रकाशः त्रिविधं कर्म वक्तुमनन्तरश्लोकत्रयमित्याह—अथेति। तत्र सात्त्विकं कर्म निरूपयति—नियतमिति॥२३॥

राजसं कर्म निर्दिशति—यत्त्विति। फलप्रेप्सुना कर्त्रा यत् कर्म क्रियते, तद् राजसमित्युत्तरत्र सम्बन्धः। तत्त्वज्ञानवता निरहङ्का- रेण, साहङ्कारेण त्वज्ञेन क्रियते कर्मेति विवक्षां वारयति—साहङ्कारेणेति। ‘तत्त्वज्ञानवता निरहङ्कारेण कृतं कर्मापेक्ष्य साहङ्कारेणाज्ञेन कृतमेतत् कर्मे’ति न विवक्ष्यते चेत् , तर्हि किमत्र विवक्षितमिति पृच्छति—किं तर्हीति। यो हि दुरितरहितः श्रोत्रियो लोकादनपेतस्तस्य यदहङ्कारवर्जितं कर्म, तदपेक्षयेदं साहङ्कारेण कृतं कर्मेत्युक्तमित्याह—लौकिकेति। ननु तत्त्वज्ञानवतो निरहङ्कारस्य कर्मकर्तृत्वमपेक्ष्य साहङ्कारेणेत्यादि किं नेष्यते? तत्राह—यो हीति। विशेषणान्तरवशादेव तत्त्वविदो निवारितत्वान्न तदपेक्षमिदं विशेषणमित्यर्थः। अ. १८. श्लो. २२ - २३ ]

[[८८४]]

प्राप्तिरस्ति। सात्त्विकस्यापि कर्मणोऽनात्मवित् साहङ्कारः कर्ता, किमुत राजसतामसयोः। लोकेऽनात्मविदपि श्रोत्रियो निरहङ्कार उच्यते— ‘निरहङ्कारोऽयं ब्राह्मणः’ इति। तस्मात् तदपेक्षयैव ‘साहङ्कारेण वा’ इत्युक्तम्। पुनःशब्दः पाद- पूरणार्थः। क्रियते बहुलायासं कर्त्रा महताऽऽयासेन निर्वर्त्यते, तत् कर्म राजसमुदाहृतम्॥२४॥

अनुबन्धमिति। अनुबन्धं पश्चाद्भावि यद् वस्तु सोऽनुबन्धः उच्यते। तं चानुबन्धं, क्षयं यस्मिन् कर्मणि क्रिय- माणे शक्तिक्षयोऽर्थक्षयो वा स्यात् तं क्षयं, हिंसां १प्राणिपीडाम् २अनपेक्ष्य च पौरुषं पुरुषकारं ‘शक्नोमीदं कर्म समाप- यितु’मित्येवमात्मसामर्थ्यम् इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि, मोहाद् अविवेकत आरभ्यते कर्म यत् , तत् तामसं तमोनिर्वृत्तमुच्यते॥२५॥

निषेधायोगाद् नेह निरहङ्कारस्तत्त्वविद् ग्राह्य इत्यर्थः। अयमाशयः—कामेप्सुना साहङ्कारेण वा कृतं बहुलायासं कर्म राजसमित्युक्तौ, अकामेप्सुना निरहङ्कारेण वा कृतमबहुलायासं कर्म न राजसमित्यापतितम्। ततश्च निरहङ्कारशब्देन तत्त्वविद्ग्रहणे तत्त्वविदः कामेप्सुत्वं बहुलायासकर्मकर्तृत्वं च न युक्तमिति सिध्यति, तच्चायुक्तम् ; तत्त्वविदः कामेप्सुत्वबहुलायासकर्मकर्तृत्वयोः प्राप्त्यसम्भवेन निषेधायोगादिति। ननु कुतस्तत्त्वविदस्तत्प्राप्तिर्नास्तीत्यत आह—सात्त्विकस्यापीति। अनात्मविदिति छेदः। न तु निरहङ्कार आत्मवित् कर्तेत्यर्थः। नन्वेवं कर्ममात्रकर्तृत्वस्याहङ्कारपूर्वकत्वे कर्तुरनात्मविदश्च साहङ्कारत्वे कथं लौकिकश्रोत्रियनिरहङ्कारपुरुषसिद्धिः? यदपेक्ष- येह साहङ्कारेण वेत्युक्तम्? अत आह—लौकिकैरिति। निरहङ्कार इति। गर्वशून्य इति भावः। ननु वा इत्यनेनैव पुनःशब्दार्थलाभे कुतः पुनःशब्दप्रयोगः? अत आह—पुनरिति। कामेप्सुकर्तृकं साहङ्कारकर्तृकं च बहुलायासं कर्म राजसमिति निष्कर्षः। कर्मणो राजसत्वे कामेप्सुकर्तृकत्वं साहङ्कारकर्तृत्वं बहुलायासत्वं चेति हेतुत्रयम्। तत्र कामेप्सु- कर्तृकत्वबहुलायासत्वयोः साहङ्कारकर्तृकत्वबहुलायासत्वयोर्वा समुच्चयः। वाशब्दस्य चार्थाभ्युपगमे तु त्रयाणामपि समुच्चयः। पुनः- शब्दस्यापि विकल्पार्थाभ्युपगमे त्रयाणामपि प्रत्येकं हेतुत्वमिति बोध्यम्। एवं कर्मणः सात्त्विकत्वे चाकामप्रेप्सुकर्तृकत्वं रागद्वेषा-(दि) प्रयुक्तत्वं सङ्गरहितत्वं नित्यत्वं चेति हेतुचतुष्टयं समुच्चित्य वा, प्रत्येकं वेति बोध्यम्॥२४॥

अनुबन्धमिति। अनुबन्धं क्षयं हिंसा पौरुषं चानवेक्ष्य कर्त्रा यत् कर्म मोहादारभ्यते तत् तामसमुच्यते। यद् वस्तु दुःखमित्यर्थः। दुःखहेतुरनर्थ इति वा। अनवेक्ष्य निरवेक्ष्य, अनालोच्येत्यर्थः। कर्मणस्तामसत्वेऽनुबन्धानवेक्षिकर्तृकत्वं क्षयानवेक्षि- कर्तृकत्वं हिंसानवेक्षिकर्तृकत्वं पौरुषानवेक्षिकर्तृकत्वं मोहप्रयुक्तत्वं चेति हेतुपञ्चकं समुच्चित्य वा प्रत्येकं वेति बोध्यम्। अनुबन्धादि- चतुष्टयानवेक्षित्वम् इत्येको हेतुरिति वा। ततश्च हेतुद्वयं समुच्चित्य प्रत्येकं वा भवतीति। साहङ्कारस्यैव राजसे कर्मणि कर्तृत्वमित्येतत् कैमुतिकन्यायेन साधयति—सात्त्विकस्येति। नन्वात्मविदोऽन्यस्य निरहङ्कारत्वायोगात् कथं तदपेक्षया साहङ्कारेणेत्युक्तम्? तत्राह—लोक इति॥२४॥

सम्प्रति तामसं कर्मोदाहरति—अनुबन्धमित्यादिना॥२५॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

क्रियते बहुलायासं तद् राजसमुदाहृतम्॥२४॥

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम्। मोहादारभ्यते कर्म यत् तत् तामसमुच्यते॥२५॥

१. ‘प्राणिबाधां’ इति पा.। २. ‘अनवेक्ष्य’ इति गीतायां, भाष्ये च पा.।

[[८८५]]

१मुक्तेति। मुक्तसङ्गो मुक्तः परित्यक्तः सङ्गो येन स मुक्तसङ्गः, अनहंवादी नाहंवदनशीलो धृत्युत्साह- समन्वितः, धृतिः धारणम् , उत्साहः उद्यमः ताभ्यां समन्वितः संयुक्तो धृत्युत्साहसमन्वितः, सिद्ध्यसिद्ध्योः क्रिय- माणस्य कर्मणः फलसिद्धावसिद्धौ च सिद्ध्यसिद्ध्योः निर्विकारः केवलं शास्त्रप्रमाणेन प्रयुक्तः, २न फलरागादिना ३युक्तो यः, स निर्विकारः उच्यते। एवम्भूतः कर्ता यः स सात्त्विक उच्यते॥२६॥ ननु समुच्चयासमुच्चयपक्षद्वयमविशेषेण दर्शितम् , तत्र कतरः पुनः पक्ष आश्रयणीय इति चेत् , उच्यते—पक्षद्वयमप्याश्रयणी- यमेवेति। कथम्? नियतं कर्म सात्त्विकमित्युक्तौ सङ्गिना कृतस्यापि नियतकर्मणः सात्त्विकत्वं स्यात्। तद्वारणाय नियतं सङ्गरहितं कर्म सात्त्विकमित्युक्तौ असङ्गेनापि रागद्वेषवता कृतं नियतकर्म सात्त्विकं स्यात्। तद्वारणाय नियतं सङ्गरहितमरागद्वेषतः कृतं कर्म सात्त्विकं स्यादित्युक्तौ रागद्वेषसङ्गशून्येन फलकामिना कृतं नियतकर्म सात्त्विकं स्यात्। तद्वारणाय नियतं सङ्गरहितमरागद्वेषतः फलकामरहितेन कृतं कर्म सात्त्विकमिति वक्तव्यम्। तथा कामेप्सुना साहङ्कारेण च कृतं बहुलायासं कर्म राजसमित्युक्तौ कामेप्सुना निरहङ्कारेण कृतं बहुलायासं कर्म राजसं न स्यात्। कामेप्सुना साहङ्कारेण च कृतमबहुलायासं कर्म राजसं न स्याच्च। तथाऽनुबन्धादिचतुष्टयानवेक्षं मोहादारब्धं च कर्म तामसमित्युक्तौ अनुबन्धादिद्वयावेक्षं तत् त्रयावेक्षं तदेकावेक्षं वा मोहादारब्धं कर्म तामसं न स्यात्। तच्चतुष्टयावेक्षमपि मोहादनारब्धं कर्म तामसं न स्यात्। अतः पक्षद्वयाश्रयणमिति। न चैवं सात्त्विककर्मलक्षणे समुच्चयः, अन्यत्रासमुच्चयश्चाश्रयणीय इति वाच्यम् ; कामेप्सुना कृते बहुलायासे कर्मणि राजसत्वप्रयोजकस्यैकस्य हेतोर्निश्चित्य वक्तुमशक् यत्वेन समुच्चयस्य वक्तव्यत्वात्। एवमनुबन्धादिचतुष्टयावेक्षे मोहादारब्धे कर्मणि तामसत्वप्रयोजकस्यैकस्य हेतोर्निश्चित्य वक्तुमशक् यत्वेन समुच्चयस्य वक्तव्यत्वाच्च। ननु तर्हि राजसलक्षणे तामसकर्मलक्षणे च पक्षद्वयमाश्रयणीयम् , कुतः पुनःसात्त्विके कर्मणीति चेद् , उच्यते—नियतत्वा- दिकं प्रत्येकमपि कर्मणः सात्त्विकत्वे प्रयोजकमेवेति। न च नियतं कर्म सात्त्विकमित्युक्तौ कामेप्सुना कृतं नियतकर्म सात्त्विकं स्यादिति वाच्यम् ; कर्मणः कामेप्सुकृतत्वस्य राजसत्वसम्पादकत्वात् , राजसत्वस्य सात्त्विकत्वदूषकत्वादिति। वस्तुतस्तु नियतमिति श्लोके समुच्चयपक्षः, अन्यत्र पक्षद्वयं चेत्येतदेव साधीयः। अयं श्लोकत्रयनिष्कर्षः—मुमुक्षुः पुरुषः कर्माधिकारी रागद्वेषौ सङ्गं फलकामनां चाकृत्वा निरहङ्कारःसन् निरायासं स्वशक्त्यनु- गुणम् अदुःखोदर्कम् अहिंसात्मकमनाशकं नित्यं कर्म निर्मोहःसन् कुर्यात्। एतद्विपरीतं तु परित्यजेदिति॥२५॥

मुक्तेति। अनहंवदनशीलः ‘अहमाड्यः, उत्कृष्टमिदं कर्माहं करोमी’त्येवमहङ्कारगर्भवाक् यप्रयोगस्वभावरहित इत्यर्थः। धारणं शरीरेन्द्रियाद्यनवसादनम्। उद्यमो व्यापारः। निर्विकारो हर्षखेदरूपविकाररहितः। कथं निर्विकारत्वसिद्धिः? अत आह—केवलमिति। यो हि फलरागादिना कर्मणि प्रवर्तते, तस्य कर्मफलसिद्धौ हर्षः, तदसिद्धौ खेदश्च भवति। यः पुनःशास्त्रप्रमाणेन कर्तव्यमित्येव कर्मणि प्रवर्तते, न तु फलमभिसन्धत्ते कथं तस्य फलसिद्ध्यसिद्धिप्रयुक्तहर्षखेदप्राप्तिः? न कथमपीति भावः॥२६॥

इदानीं कर्तृत्रैविध्यं ब्रुवन्नादौ सात्त्विकं कर्तारं दर्शयति—मुक्तेति। सङ्गो नाम फलाभिसन्धिर्वा, कर्तृत्वाभिमानो वा। नाहंवदन- शीलः कर्ताऽहमिति वदनशीलो न भवतीत्यर्थः। धारणं धैर्यम्। क्रियमाणस्य कर्मणो यदि फलानभिसन्धिस्तर्हि नानुष्ठानविश्रम्भः सम्भ- वेदित्याशङ्क्याह— केवलमिति। फलरागादिनेत्यादिशब्देन कर्मरागो गृह्यते। अयुक्त इति च्छेदः॥२६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते॥२६॥

१. अत्र ‘इदानीं कर्तृभेदःउच्यते मुक्तसङ्ग इति।’ इति अधिकः पाठः। २. ‘शास्त्रप्रमाणप्रयुक्तः, फलरागादिनाऽयुक्तो यः’ इति आनन्दगिरीयानुसारी पाठः। ३. ‘युक्तः’ इति क्वचिन्न। अ. १८. श्लो. २४ - २६ ]

[[८८६]]

रागीति। रागी रागोऽस्यास्तीति रागी, कर्मफलप्रेप्सुः कर्मफलार्थी, लुब्धः परद्रव्येषु सञ्जाततृष्णः, २तीर्थादौ स्वद्रव्यापरित्यागी वा, हिंसात्मकः परपीडाकरस्वभावः अशुचिः ३बाह्याभ्यन्तरशौचवर्जितः हर्षशोकान्वितः इष्टप्राप्तौ हर्षः, अनिष्टप्राप्ताविष्टवियोगे च शोकः, ताभ्यां हर्षशोकाभ्याम् अन्वितः संयुक्तः। ४तस्यैव च कर्मणः ५सम्पत्ति- विपत्त्योः हर्षशोकौ स्याताम् । ताभ्यां संयुक्तो यः कर्ता स राजसः परिकीर्तितः॥२७॥

अयुक्त इति। ६अयुक्तो न युक्तोऽसमाहितः। प्राकृतोऽत्यन्तासंस्कृतबुद्धिर्बालसमः, स्तब्धो दण्डवन्न नमति कस्मैचित् , शठो मायावी शक्तिगूहनकारी, नैकृतिकः ७परवृत्तिच्छेदनपरः, अलसोऽप्रवृत्तिशीलः कर्तव्येष्वपि, विषादी विषादवान् सर्वदाऽवसन्नस्वभावः, दीर्घसूत्री च कर्तव्यानां दीर्घप्रसारणः, सर्वदा मन्दस्वभावः, यदद्य श्वो वा कर्तव्यं तन्मासेनापि न करोति, यश्चैवम्भूतः कर्ता स तामस उच्यते॥२८॥

रागीति। हिंसात्मक इति। शाकपार्थिवादित्वादुत्तरपदलोपी समास इत्याह—परपीडाकरस्वभाव इति। हिंसाकरः आत्मा यस्य स इति समासः। हिंसा पीडनमेवात्मा स्वभावो यस्य स हिंसात्मक इत्यपि वक्तुं शक् यम्। तथा हिंसायामात्मा मनो यस्य स हिंसात्मक इत्यपि वक्तुं शक् यते। ननु हर्षशोकयोर्वस्त्वन्तरविषयत्ववर्णनं नातीव युक्तम् , अत आह—तस्यैव वेति। तस्यैव आरब्धस्य कर्मणः सम्पत्तिविपत्त्योः सिद्ध्यसिद्ध्योः॥२७॥

अयुक्त इति। बालसम इति। विद्याविहीन इत्यर्थः। स्तब्धः स्तम्ब[म्भ]वत्स्थितः। यथा दण्डोऽनम्रः सन्नेवावतिष्ठते तद्वदयमपीत्यर्थः। कस्मैचिदिति। पूज्यायेत्यर्थः। ११माया वञ्चना तस्यां शक्तिः सामर्थ्यम्। तस्या गूहनकारी प्रच्छादकः। स्वयं मायावी सन्नपि अमायावीव नटितुं शीलवानित्यर्थः। ‘गूढविप्रियकृच्छठः’ इति शास्त्रान्तरादिति भावः। विभेदनं मर्मोद्घाटनं हिंसनमेव वा। निकृतिर्निकारोऽपकारस्तया दीव्यतीति नैकृतिकः। विषादोऽस्यास्तीति विषादी। अत इनिः। अवसन्नः खिन्नः। दीर्घप्रसारणो दीर्घा- लोचन इत्येतत्। तदेव विवृणोति—सर्वदेति। मन्दो निरुद्यमः स्वभावो यस्य स मन्दस्वभावः। अत एवाद्य वा श्वो वा कर्तव्यं यत् कर्म तद् मासेनापि न करोति। एतेन ‘सहसा विदधीत न क्रियामविवेकः परमापदां पद’मिति भारविवचनादनालोच्य कर्मकरणमयुक्तमिति कृत्वा कथं दीर्घसूत्रिणमिह तामसत्वेन कथितमिति[कथयतीति] शङ्का परास्ता। आलोच्यैव सम्यग् यदा कर्तव्यं तत् तदैव कुर्यात् , न तु दीर्घमालोचयन् कर्तव्यकर्मकालमतिपातयेदिति सिद्धत्वात्॥२८॥

राजसं कर्तारं कथयति—रागीति। कर्मविषयो रागः८, कर्मफलप्रेप्सुरिति फलरागस्य पृथक्कथनात्॥२७॥

९स्वाभिप्रायाप्रकटीकरणपूर्वकं परपीडनं १०परवृत्तिविच्छेदनम्। तेन स्वार्थपर इत्यर्थः। दीर्घं सूत्रयितुं शीलमस्येति व्युत्पत्तिं गृहीत्वा विवक्षितमर्थमाह—कर्तव्यानामिति। ‘एवं क्रियमाणे सत्यनिष्टमिदं कथञ्चिदापद्येत, यदा पुनरेवं क्रियते, तदा त्वनिष्टमेव सम्भाव- नोपनीत’मिति चिन्तापरम्परया मन्थरप्रवृत्तिरित्यर्थः। तदेव स्पष्टयति—यदद्येति॥२८॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः। हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥२७॥

अयुक्तः प्राकृतः स्तब्धः शठो १नैकृतिकोऽलसः। विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥२८॥

१. ‘नैष्कृतिकः’ इति मूले भाष्ये च पा.। २. ‘तीर्थादौ च स्वद्रव्या’ इति पा.। ३. ‘बाह्यान्तःशौच’ इति पा.। ४. ‘तस्यैव वा’ इति रा.पा.। ५. ‘सम्पत्तिविपत्तिभ्याम्’ इति पा.। ६. ‘अयुक्तोऽसमाहितः’ इति पा.। ७. ‘परविभेदनपरः’ इति पा.। ८. ग्राह्यः इति शेषः। ९. ‘स्वाभिप्राया….स्वार्थपर इत्यर्थः’ इत्ययं ग्रन्थः नैकृतिकपदार्थविवरणपरभाष्यविवरणपरः सर्वत्र पूर्वश्लोकान्ते मुद्रितो दृश्यते। १०. ‘परविच्छेदनम्’ इति पा.। ११. ‘मायाशक्तिगूहनकारी’ इति रा.पा. भाति।

[[८८७]]

बुद्धेर्भेदमिति। बुद्धेर्भेदं धृतेश्चैव भेदं गुणतः सत्त्वादिगुणतस्त्रिविधं शृण्विति सूत्रोपन्यासः। प्रोच्यमानं कथ्य- मानम् अशेषेण निरवशेषतो यथावत् पृथक्त्वेन विवेकतः, धनञ्जय!। दिग्विजये मानुषं दैवं च प्रभूतं धनमजयत् , तेनासौ धनञ्जयोऽर्जुनः॥२९॥

प्रवृत्तिं चेति। प्रवृत्तिं च – प्रवृत्तिः प्रवर्तनं बन्धहेतुः कर्ममार्गः शास्त्रविहितविषयः। निवृत्तिं च – निवृत्तिः मोक्षहेतुः संन्यासमार्गः। बन्धमोक्षसमानवाक् यत्वात् प्रवृत्तिनिवृत्ती कर्मसंन्यासमार्गौ इत्यवगम्यते। कार्याकार्ये विहि- तप्रतिषिद्धे १कर्तव्याकर्तव्ये ; करणाकरणे इत्येतत् ; कस्य? देशकालाद्यपेक्षया दृष्टादृष्टार्थानां कर्मणाम् ; भयाभये बिभेत्यस्मादिति भयं २चोरव्याघ्रादि , ३तद्विपरीतमभयम् , भयं चाभयं च भयाभये, दृष्टादृष्टविषययोर्भयाभययोः कारणे बुद्धेरिति। हे धनञ्जय ! अशेषेण पृथक्त्वेन प्रोच्यमानं बुद्धेर्धृतेश्चैव गुणतस्त्रिविधं भेदं शृणु। सूत्रोपन्यास इति। बुद्धिर्धृतिश्च गुणतस्त्रिविधेतीदं सूत्रभूतं वाक् यमित्यर्थः। प्रवृत्तिं च निवृत्तिं चेत्यादिवक्ष्यमाणग्रन्थस्तु तद्वृत्तिस्थानीय इति भावः। धनञ्जयेति सम्बुद्धिः यथा बाह्यान् शत्रून् जित्वा त्वया धनं सम्पादितम् , तथा कामादीनन्तःशत्रूनपि जित्वा मोक्षः सम्पादनीय इत्यभिप्रायगर्भा॥२९॥

प्रवृत्तिमिति। हे पार्थ ! या बुद्धिः प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च वेत्ति सा सात्त्विकी भवति। बन्धहेतु- रिति। देवत्वादिजन्मादिहेतुत्वादिति भावः। ननु प्रवृत्तिः प्रवर्तनं, निवृत्तिर्निवर्तनमिति कुतो न व्याख्यायते? अत आह—बन्धेति। ‘बन्धं मोक्षं च या वेत्ती’ति वाक् येन समानवाक् यत्वात् ‘प्रवृत्तिं च निवृत्तिं च वेत्ती’ति वाक् यस्य बन्धमोक्षहेतुकर्मसंन्यासमार्गपरत्वमिति भावः। करणं क्रिया। अकरणं तूष्णीम्भावः। कस्येमे करणाकरणे इति पृच्छति—कस्येति। समाधत्ते—कर्मणामिति। यस्मिन् देशे यस्मिन् काले येषां कर्मणां शास्त्रतः करणमकरणं च युक्तं तत् सर्वं यथावद् वेत्तीत्यर्थः। भयाभयशब्दावत्र न धर्मपरौ, किन्तु तद्धेतुपरा- वित्याह—बिभेत्यस्मादिति भयमिति। यस्माद् बिभेति तद्भयम् , यस्मान्न बिभेति तदभयम्। किं तद् भयम्? अत आह—चोरेति। आदिपदान्नरकादिग्रहणम्। अभयं पत्नीपुत्रसुकृतादि। दृष्टादृष्टयोरेवेति। दृष्टयोरदृष्टयोश्चेत्यर्थः। चोरव्याघ्रादिजन्यं भयं दृष्टम् , नरकादि- जन्यं त्वदृष्टम् , तथा पत्न्यादिजन्यमभयं (भयराहित्यं) दृष्टम् , सुकृतादिजन्यं त्वभयमदृष्टमिति विवेकः। तयोः कारणे। ते अपि कारणे दृष्टादृष्टे एव। दृष्टभयहेतोश्चोरव्याघ्रादेर्दृष्टकारणत्वाद् अदृष्टभयहेतोर्नरकादेरदृष्टभयकारणत्वाच्च। एवं दृष्टाभयहेतोः पुत्रमित्रादेर्दृष्ट- कारणत्वाद् अदृष्टाभयहेतोः सुकृतादेरदृष्टाभयकारणत्वाच्च। तदेवं भयाभये या वेत्तीत्यस्य दृष्टादृष्टभयाभयकारणे या वेत्तीत्यर्थः फलितः। यथाश्रुतार्थे तु इदं भयम् , इदमभयमिति भयाभयरूपधर्मज्ञानस्य सर्वसाधारणत्वेन न तस्य सात्त्विकबुद्धिधर्मत्वं स्यादिति बोध्यम्। ज्ञानादीनां प्रत्येकं त्रैविध्यमुक्त्वा वृत्तिमत्या बुद्धेः, तद्वृत्तेश्च धृत्याख्यायास्त्रैविध्यं सूचयति—बुद्धेरिति। सूत्रविवरणं प्रतिजानीते —प्रोच्यमानमिति। अर्जुनस्य धनञ्जयत्वं व्युत्पादयति—दिगिति॥२९॥

तत्रादौ सात्त्विकीं बुद्धिं निर्दिशति—प्रवृत्तिं चेति। प्रवृत्तिराचरणमात्रम् , अनाचरणमात्रं च निवृत्तिरिति किं नेष्यते? तत्राह— बन्धेति। यस्मिन् वाक् ये बन्धमोक्षावुच्येते तस्मिन्नेव प्रवृत्तिनिवृत्त्योरुक्तत्वात् , कर्ममार्गस्य बन्धहेतुत्वाद् , मोक्षहेतुत्वाच्च संन्यासमार्गस्य तावेवात्र ग्राह्यावित्यर्थः। करणाकरणयोर्निर्विषयत्वायोगाद् विषयापेक्षामवतार्य योग्यं विषयं निर्दिशति—कस्येति। अनिष्टसाधनं भयम् ,

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु। प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय !॥२९॥

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये। १. ‘प्रतिषिद्धे लौकिके वैदिके वा शास्त्रबुद्धेः कर्तव्याकर्तव्ये’ इति पा.। २. ‘चोरव्याघ्रादि’ इति क्वचिन्न। ३. ‘न भयमभयम्’ इति पा.। अ. १८. श्लो. २७ - २९ ]

[[८८८]]

इत्यर्थः। बन्धं सहेतुकं , मोक्षं च सहेतुकं या वेत्ति विजानाति बुद्धिः, सा पार्थ ! सात्त्विकी। तत्र ज्ञानं बुद्धेर्वृत्तिः, बुद्धिस्तु वृत्तिमती। धृतिरपि वृत्तिविशेष एव बुद्धेः॥३०॥

ययेति। यया धर्मं शास्त्रचोदितम् , अधर्मं च तत्प्रतिषिद्धम् , कार्यं चाकार्यमेव च पूर्वोक्ते एव कार्याकार्ये ननु चोरव्याघ्रादीन् भयहेतवः इति, पुत्रमित्रादीन् अभयहेतवः इति च सर्वे विदन्त्येवेति चेत् , मैवम् ; सत्यपि सर्वेषां दृष्ट- भयाभयहेतुवेदनेऽदृष्टभयाभयहेतुवेदनाभावादिति। ननु संसारो बन्धस्तदभावो मोक्षः इति सर्वसामान्यमेव ज्ञानम् , अत आह— सहेतुकमिति। अविद्यारागादयो बन्धहेतवः, भक्तिज्ञानादयो मोक्षहेतव इति विवेकः। बन्धहेतुर्भयहेतुश्च करणात्मकः प्रवृत्तिमार्गः। मोक्षहेतुरभयहेतुश्चाकरणात्मको निवृत्तिमार्ग इति या वेत्ति सा बुद्धिः सात्त्विकीति परमार्थः। यद्वा अयं प्रवृत्तिमार्गः, अयं पुनर्निवृत्ति- मार्गः, अस्मिन् देशे कालेऽस्य कर्मणः करणं श्रेयः, अस्याकरणं श्रेयः, इदं भयकारणम् , इदमभयकारणम् , अयं बन्धहेतुरयं मोक्ष- हेतुः, अयं बन्धोऽयमेव मोक्ष इति प्रवृत्त्यादीन् यथावद् वेत्ति, सा बुद्धिः सात्त्विकीति। ननु बुद्धिर्वेत्तीत्यस्य बुद्धिर्ज्ञानाश्रय इति ह्यर्थः। कर्तुः क्रियाश्रयत्वाद् वेदनकर्तृत्वाच्च बुद्धेः। कथं ज्ञानात्मिकायाः बुद्धेर्ज्ञाना- श्रयत्वम्? अत आह—तत्रेति। बुद्धिज्ञानयोर्मध्य इत्यर्थः। वेत्तीति धात्वर्थभूतं यज्ज्ञानं सा बुद्धेर्वृत्तिः। बुद्धिर्हि वेद्यात्मना परिणमते, स च परिणामो वृत्तिरित्युच्यते। सा च वृत्तिः क्रियैवेति विदिधात्वर्थज्ञानत्वं बुद्धिवृत्तेरेव, क्रियावाचित्वाद् धातूनाम्। ननु यदि बुद्धिवृत्तिरेव ज्ञानं, न तु बुद्धिस्तर्हि बुद्धिः केत्यत आह—बुद्धिस्त्विति। वृत्तिमती बुद्धिः, न तु वृत्तिः। तथा च बुद्धेर्वृत्तिमत्या वृत्त्याश्रयत्वस्योचित- त्वाद् बुद्धेर्ज्ञानाश्रयत्वं युक्तमेवेति बुद्धिर्वेत्तीति सम्यगुक्तमिति भावः। प्रवृत्त्यादिविषयाकारपरिणामवती बुद्धिः सात्त्विकीति परमार्थः श्लोकस्य। न च बुद्धेरन्तःकरणस्य कर्तृत्वमयुक्तमिति वाच्यम् ; परिणामक्रियां प्रति कर्तृत्वस्य युक्तत्वात्। करणमपि चक्षुः परिणाम- क्रियायां भवति हि कर्तृ। २चक्षुर्घटरूपेण परिणमत इति प्रयोगात्। एतेन बुद्धेः क्षेत्रस्य वेत्तृत्वं कथं, तस्य क्षेत्रज्ञधर्मत्वादिति शङ्का प्रत्युक्ता। विषयाकारपरिणाममात्रमेव वेत्तृत्वं बुद्धेरिहोक्तम् , न तु ज्ञातृत्वमिति। यथा चक्षुर्घटाकारपरिणतमपि घटं न वेद, तथा बुद्धिः प्रवृत्त्यादिविषयाकारपरिणताऽपि प्रवृत्त्यादीन् न वेदैव, किन्त्वात्मैव परिणतां तां वेद, परिणतं चक्षुरिवेत्यात्मैव प्रवृत्त्यादीन् वेत्ति। बुद्धिस्तु करणमेव। बुद्धिवृत्त्यैवात्मना प्रवृत्त्यादीनां विदितत्वात्। न च बुद्धिवृत्तेरेव करणत्वं न बुद्धेरिति वाच्यम् ; वृत्तिवृत्तिमतोरैक् यात्। न हि शस्त्रधारया भिनत्तीत्युक्तौ शस्त्रधाराया एव करणत्वं, न तु शस्त्रस्येति वक्तुं शक् यते। तस्माद् यया प्रवृत्त्यादीन् यथावद् वेत्ति पुरुषः सा बुद्धिः सात्त्विकीति श्लोकसारार्थः। या वेत्तीति बुद्धेर्वेत्तृत्वकथनं त्वौपचारिकम् , करणे कर्तृत्वस्योपचरितत्वात्। ननु भगवता यया वेत्तीति साक्षादेव कुतो नोक्तमिति चेद् , उच्यते—बुद्ध्युपाधिकृतमेव वेत्तृत्वधर्म आत्मनि निर्धर्मके इति ज्ञापनार्थमिति। ननु ज्ञानं बुद्धिवृत्तिरस्तु, धृतिः पुनः केत्यत आह—धृतिरपीति॥३०॥

इष्टसाधनमभयमिति विभजते—भयेति। बन्धादिमात्रज्ञानस्य बुद्ध्यन्तरेऽपि सम्भवाद् विशेषणम्१। ननु बुद्धिशब्दितस्य ज्ञानस्य प्रागेव त्रैविध्यप्रतिपादनात् किमिति बुद्धेरिदानीं त्रैविध्यं प्रतिज्ञाय व्युत्पाद्यते? तत्राह—ज्ञानमिति। तर्हि ज्ञानेन गतत्वान्न पुनर्धृतिः व्युत्पादनीये- त्याशङ्क्याह—धृतिरपीति। विशेषशब्देन ज्ञानाद् व्यावृत्तिरिष्टा॥३०॥

कार्याकार्ययोर्धर्माधर्माभ्यां पौनरुक्त्यं परिहरति—पूर्वोक्ते इति। पूर्वश्लोके कार्याकार्यशब्दाभ्यां दृष्टादृष्टार्थानां कर्मणां करणाकरणे

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ !सात्त्विकी॥३०॥

यया धर्ममधर्मं च कार्यं चाकार्यमेव च। १. सहेतुकमिति विशेषणम्। २. चक्षुषः विषयाकारपरिणामः अन्वेषणीयः। चक्षुः विषयपर्यन्तं दीर्घप्रभाकारेण परिणमते इति प्रयोगो वा बोध्यः।

[[८८९]]

अयथावत् न यथावत् , सर्वतो निर्णयेन न प्रजानाति, १या बुद्धिः सा पार्थ ! राजसी॥३१॥

अधर्ममिति। अधर्मं प्रतिषिद्धं धर्मं विहितमिति या मन्यते जानाति तमसावृता सती सर्वार्थान् सर्वानेव ज्ञेयपदार्थान् विपरीतांश्च विपरीतानेव विजानाति, बुद्धिः सा पार्थ ! तामसी॥३२॥

धृत्येति। धृत्या यया अव्यभिचारिण्येति व्यवहितेन सम्बन्धः, धारयते, किम्? मनःप्राणेन्द्रियक्रियाः, मनश्च प्राणश्चेन्द्रियाणि च मनःप्राणेन्द्रियाणि, तेषां क्रियाः चेष्टाः, ताः उच्छास्त्रमार्गप्रवृत्तेः धारयते धारयति। धृत्या हि धार्यमाणाः उच्छास्त्रमार्गविषया न भवन्ति। योगेन समाधिना, अव्यभिचारिण्या नित्यसमाध्यनुगतयेत्यर्थः। एतदुक्तं ययेति। प्रजानातीति, पुरुष इति कर्तुः शेषः। अत्र बुद्धेर्वेदनक्रियायां करणत्वमेवोक्तम्—ययेति। धर्माधर्मादिनिर्णयरहिता बुद्धी राजसीत्यर्थः॥३१॥

अधर्ममिति। या तमसा आवृता, अत एवाधर्मं धर्ममिति मन्यते, सर्वार्थान् विपरीतांश्च मन्यते, हे पार्थ ! सा बुद्धिस्तामसी। विपरीतबुद्धिस्तामसीत्यर्थः॥३२॥

धृत्येति। पुरुष इति शेषः। योगेनाऽव्यभिचारिण्या यया धृत्या मनःप्राणेन्द्रियक्रियाः धारयते, हे पार्थ ! सा सात्त्विकी भवति। धारयति नियमयतीत्यर्थः। कुत इत्यत आह—उच्छास्त्रमार्गप्रवृत्तेरिति। उत्सृष्टं शास्त्रं येन स उच्छास्त्रः, स चासौ मार्ग उच्छास्त्रमार्गः, शास्त्रविरोधिमार्ग इत्यर्थः। तत्र प्रवृत्तेः सकाशात्। अव्यभिचारिण्या व्यभिचारशून्यया। केनास्या आशङ्कितो व्यभिचारः? अत आह— योगेनेति। योगव्यभिचारशून्ययेत्यर्थः। फलितमाह—नित्येति। सदाऽपि समाधानवत्येत्यर्थः। अव्यभिचारिण्या ध्रुवया, तत्र हेतुस्तु योगेनेति व्याख्यानान्तरम्। योगेन हेतुना अव्यभिचारिण्येत्यर्थः। अस्मिन्नेव व्याख्यानान्तरेऽभिप्रायमाह—एतदुक्तमित्यादिना। अव्य- भिचारिण्या धृत्या मनःप्राणेन्द्रियक्रिया यथा धार्यमाणा भवेयुस्तथा योगेन धारयतीत्यन्वयः॥३३॥

निर्दिष्टे। तयोरेवात्रापि ग्रहान्न धर्माधर्माभ्याम् २अपूर्वपर्यायाभ्यां गतार्थतेत्यर्थः। ३या बुद्धिः यया बुद्ध्या बोद्धा निर्णयेन न जानातीत्यर्थः ॥३१॥

धर्मशब्दो नपुंसकलिङ्गोऽपीत्यभिप्रेत्य ४धर्ममित्युक्तम्। तमसावृता अविवेकेन वेष्टितेत्यर्थः। कार्याकार्यादीन् उक्ताननुक्तांश्च संग्रहीतुं सर्वार्थानित्युक्तम् , तद् व्याचष्टे—सर्वानेवेति। विपरीतांश्चेति चकारमवधारणे गृहीत्वा विपरीतानेवेत्युक्तम्॥३२॥

इदानीं धृतित्रैविध्यं व्युत्पिपादयिषुरादौ सात्त्विकीं धृतिं व्युत्पादयति—धृत्येति। निर्दिष्टानां चेष्टानां कथं धृत्या धारणम्? तत्राह—ता इति। तदेवानुभवेन साधयति—धृत्या हीति। ध्रियतेऽनयेति धृतिर्यत्नविशेषः। तया धृत्या धार्यमाणा यथोपदिष्टाश्चेष्टाः शास्त्र- मतिक्रम्य नार्थान्तरावगाहिन्यो भवन्तीत्यर्थः। धृतिमेव समाध्यविनाभूतत्वेन विशिनष्टि—योगेनेति। ननु धृतेर्नियमेन समाध्यनुगतत्वं कथमुक्तक्रियाधारणोपयोगीत्याशङ्क्याह—एतदिति। उक्तक्रिया धारयमाणो योगेन ब्रह्मणि समाधानेनैकाग्र्येण, अव्यभिचारिण्या १. ‘या’ इति क्वचिन्न ।२. ‘पूर्वपर्यायाभ्यां’ इति पा.। ३. ‘या सा बुद्धिर्यया’ इति पा.। ४. इतिशब्देन निपातेनाभिहितत्वात् कर्मणः धर्ममिति प्रथमा। पुंलिङ्गत्वे हि ‘अधर्मं धर्म इति या मन्यते’ इति पठनीयं स्यादिति भावः। ‘स्याद् धर्ममस्त्रियाम्’ इति अमरकोशोऽप्यत्रानुसंधेयः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अयथावत् प्रजानाति बुद्धिः सा पार्थ !राजसी॥३१॥

अधर्मं धर्ममिति या मन्यते तमसावृता। सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ !तामसी॥३२॥

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः। अ. १८. श्लो. ३० - ३२ ]

[[८९०]]

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

ययेति। हे अर्जुन ! पुरुषो यया धृत्या तु धर्मकामार्थान् धारयते, प्रसङ्गेन फलाकाङ्क्षी च भवति, हे पार्थ ! सा धृतिः राजसी भवति। अर्थो धनम्। प्रसङ्गेन धर्मादिधारणप्रसङ्गेनेत्यर्थः। फलाकाङ्क्षी सन् धर्मकामार्थसिद्ध्यर्थं मनःप्राणेन्द्रियक्रिया यया धारयति पुरुषः सा धृती राजसीत्यर्थः। न च धर्मकामार्थान् मनसि कर्तव्यरूपानवधारयतीत्येवाचार्यैर्भाषितमिति वाच्यम् ; मनस्यवधारणस्यैव मानसिकचेष्टाधारणत्वात् , तत्पूर्वकत्वाच्च प्राणेन्द्रियचेष्टाधारणस्य, तस्माद् भाष्यार्थसिद्ध एव मदुक्तार्थः॥३४॥

ययेति। दुर्मेधाः यया स्वप्नं भयं शोकं विषादं मदमेव च न विमुञ्चति, हे पार्थ ! सा धृतिस्तामसी भवति। विषयेति। आत्मनो विषयसेवामेव बहु मन्यमानःसन् येन मत्त इव भवति, स मद इत्यर्थः। स्वप्नभयादय एव मया नित्यं कर्तव्या इति मनस्यनुसन्धाय तदर्थं मनःप्राणेन्द्रियक्रिया यया धारयति पुरुषः, सा धृतिस्तामसीत्यर्थः। एवंविधाया धृतेर्बुद्धिवृत्तेर्दुष्टत्वाद् दुर्बुद्धेः पुरुषस्यैवेदृशी धृतिरित्याह —दुर्मेधा इति। दुष्टा मेधा बुद्धिर्यस्य स दुर्मेधाः। ‘नित्यमसिच् प्रजामेधयो’रित्यसिच्। फलमनभिसन्धाय, स्वप्नभयादिकं विहाय, मोक्षार्थं मनआदिक्रियाः पुरुषेण धृत्या धारयितव्या मुमुक्षुणेति श्लोकत्रयार्थः॥३५॥

योगेनाव्यभिचारिण्या धृतिः सा पार्थ !सात्त्विकी॥३३॥

यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन !। प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ !राजसी॥३४॥

यया स्वप्नं भयं शोकं विषादं मदमेव च। न विमुञ्चति दुर्मेधा धृतिः १सा पार्थ !तामसी॥३५॥

भवति— अव्यभिचारिण्या धृत्या मनःप्राणेन्द्रियक्रियाः २धारयमाणो योगेन धारयतीति। या एवंलक्षणा धृतिः सा, पार्थ ! सात्त्विकी ॥३३॥

ययेति। यया तु धर्मकामार्थान् धर्मश्च कामश्चार्थश्च धर्मकामार्थाः, तान् धर्मकामार्थान् धृत्या यया धारयते मनसि नित्यकर्तव्यरूपान् अवधारयते, हे अर्जुन !प्रसङ्गेन यस्य यस्य धर्मादेर्धारणप्रसङ्गस्तेन तेन प्रसङ्गेन फलाकाङ्क्षी च भवति, यः पुरुषः तस्य धृतिर्या, सा पार्थ ! राजसी॥३४॥

ययेति। यया स्वप्नं निद्रां, भयं त्रासं, शोकं, विषादम् अवसादं विषण्णतां, मदं विषयसेवामात्मनो बहु मन्य- मानो मत्त इव मदमेव च मनसि नित्यमेव कर्तव्यरूपतया कुर्वन् न विमुञ्चति धारयत्येव दुर्मेधाः कुत्सितमेधाः पुरुषो यः, तस्य धृतिर्या, सा तामसी मता॥३५॥

१. ‘धृतिः सा तामसी मता’ इति पा.। २. ‘धार्यमाणाः’ ‘धारयमाणाः’ इति पा.। आनन्दगिरिकृतव्याख्या ऽविनाभूतया धृत्या धारयति, अन्यथा तदविनाभावाभावे नियमेन तद्धारणासिद्धेरित्यर्थः॥३३॥

राजसीं धृतिं दर्शयति—यया त्विति। तेषां धारणप्रकारमभिनयति—मनसीति। फलाकाङ्क्षीति कस्य विशेषणम्? तत्राह—यः पुरुष इति॥३४॥

तामसीं धृतिं व्याचष्टे—ययेति। शोकं प्रियवियोगनिमित्तं सन्तापम्। विषण्णताम् इन्द्रियाणां ग्लानिम्। विषयसेवा कुमार्ग- प्रवृत्तेरुपलक्षणम्। उक्तं स्वप्नादिमदान्तं सर्वमेव कर्तव्यतयाऽऽत्मनो बहु मन्यमानो मनसि नित्यमेव कुर्वन् दुर्मेधाः न विमुञ्चति, किन्तु धारयत्येवेति योजना॥३५॥

[[८९१]]

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ !। अभ्यासाद् रमते यत्र दुःखान्तं च निगच्छति॥३६॥

यत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत् सुखं सात्त्विकं प्रोक्तम् आत्मबुद्धिप्रसादजम्॥३७॥

सुखमिति। सुखस्य च फलस्येति। फलभूतस्य सुखस्येत्यर्थः। हे भरतर्षभ ! इदानीं त्रिविधं सुखं मे वाक् यादिति शेषः। शृणु अवधारय। ननु शृण्वित्युक्तिर्व्यर्थेत्यत आह—समाधानं कुर्विति। चित्तसमाधानार्थं वक्ष्यमाणार्थे शृणुशब्दप्रयोग इति भावः। तत्र सात्त्विकं सुखं लक्षयति सार्धश्लोकेन—अभ्यासादिति। पुरुष इति, चित्तमिति वा शेषः। यत्राभ्यासाद् रमते, दुःखान्तं च निगच्छति, तत् , यच्चाग्रे विषमिव भाति परिणामेऽमृतोपमं भवति, तच्चात्मबुद्धिप्रसादजं सुखं सात्त्विकं प्रोक्तम्। आवृत्तेरिति। पुनःपुनरित्यर्थः। एतेन सुखस्यास्याक्षणिकत्वं गम्यते। न हि विषयसुखे क्षणिके असकृद् रतिरुपपद्यते। तस्माच्चिरकालावस्थायी स्वात्मसुखानुभव एवेह विवक्षित इति ज्ञेयम्। तत एव दुःखान्तप्राप्तिसम्भवात्। विषयसुखमनुभवन् हि पुरुषः दुःखाद् दुःखमेव गच्छति, न तु दुःखान्तम्। प्रारब्धविषयसुखनाशात् सुखान्तरालाभाच्च दुःखमेव हि स प्रपद्यते॥३६॥

यदिति। यत्तदित्यत्र तच्छब्दः प्रसिद्धार्थकः। अग्र इति। उत्पत्तेः प्रागित्यर्थः। तदेवाह—ज्ञानेति। ज्ञानं श्रवणादिकम् , वैराग्यं विषयासक्त्यभावः, ध्यानमुपासनं, समाधिश्चित्तैकाग्र्यम्। तेषामारम्भदशायाम्। दुःखात्मकं दुःखस्वभावं दुःखस्वरूपं वा, कष्ट- साध्यत्वादिति भावः। इदमेवाह—अत्यन्तेति। परिणामः फलदशा। तदैव सुखस्य जातत्वादाह—ज्ञानवैराग्यादिपरिपाकजमिति। कस्मादिदं जायते? अत आह—आत्मबुद्धीति। ज्ञानादिभिरात्मोपाधिभूतबुद्धेः प्रसादे जाते सति तत इदं जायत इत्यर्थः। वृत्तमनूद्यानन्तरश्लोकतात्पर्यमाह—गुणेत्यादिना। क्रियाकारकाणां गुणतस्त्रैविध्योक्त्यनन्तरं फलस्य सुखस्य त्रैविध्योक्त्यवसरे सतीत्याह—इदानीमिति। हेयोपादेयभेदार्थं त्रैविध्यम्। समाधानम् ऐकाग्र्यम्। मम वचनादिति शेषः। ४यत्रेत्युभयत्र सम्बध्यते। तत् त्रिविधं सुखमिति पूर्वेण सम्बन्धः॥३६॥

तत्र सात्त्विकं सुखमादेयत्वेन दर्शयति—यत्तदिति। प्रथमसन्निपातं विभजते—ज्ञानेति। कुतस्तस्य दुःखात्मकत्वम्? तत्राह— अत्यन्तेति। दुःखात्मकत्वे दृष्टान्तमाह—विषमिवेति। ज्ञानादिपरिपाकावस्था परिणामः। तस्मिन् सति ततो जातमिति योजना। तत्रैव हेत्वन्तरमाह—आत्मन इति। आत्मबुद्धिशब्दस्यार्थान्तरमाह—आत्मविषयेति। अन्तःकरणनैर्मल्याद्वा सम्यग्ज्ञानप्रकर्षाद्वा जातत्वा- १.‘फलस्य च सुखस्य’, ‘सुखस्य च फलस्य’ इति पा.। २. ‘सलिलस्येव’ इति पा.। ३. ज्ञानस्य प्रसादः प्रकर्षः, विपरीतवासनाप्रतिबन्धक्षमत्वम्। तस्मादित्यर्थः। ‘तत्प्रसादात् प्रकर्षाद्’ इति पाठः संभाव्यते। ४. ‘यत्र यस्मिन् सुखानुभवे रमते, यत्र यस्मिन् सुखानुभवे दुःखान्तं च निगच्छति ’ इत्येवम् उभयत्र संबन्धः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

गुणभेदेन क्रियाणां कारकाणां च त्रिधा भेदः उक्तः। अथेदानीं १फलस्य सुखस्य त्रिधा भेदः उच्यते— सुखमिति। सुखं त्विदानीं त्रिविधं शृणु , समाधानं कुर्वित्येतत्। मे मम, भरतर्षभ !। अभ्यासात् परिचयादावृत्तेः रमते रतिं प्रतिपद्यते यत्र यस्मिन् सुखानुभवे, दुःखान्तं च दुःखावसानं दुःखोपशमं च निगच्छति निश्चयेन प्राप्नोति॥३६॥

यदिति। यत्तत् सुखम् अग्रे पूर्वं प्रथमसन्निपाते ज्ञानवैराग्यध्यानसमाध्यारम्भे अत्यन्तायासपूर्वकत्वाद् विष- मिव दुःखात्मकं भवति, परिणामे ज्ञानवैराग्यादिपरिपाकजं सुखम् अमृतोपमं, तत् सुखं सात्त्विकं प्रोक्तं विद्वद्भिः, आत्मनो बुद्धिरात्मबुद्धिः, आत्मबुद्धेः प्रसादो नैर्मल्यं २सलिलवत् स्वच्छता, ततो जातम् आत्मबुद्धिप्रसादजम् , आत्मविषया वा आत्मावलम्बना वा बुद्धिरात्मबुद्धिः, ३तत्प्रसादप्रकर्षाद् वा जातमित्येतत्। तस्मात् सात्त्विकं तत् अ. १८. श्लो. ३३ - ३७ ]

[[८९२]]

॥३७॥

विषयेति। विषयेन्द्रियसंयोगाद् यत्तत् सुखं जायते अग्रे प्रथमक्षणे अमृतोपमम् अमृतसमं परिणामे विषमिव बलवीर्यरूपप्रज्ञामेधाधनोत्साहहानिहेतुत्वाद् , अधर्मतज्जनितनरकादिहेतुत्वाच्च परिणामे तदुपभोग१विपरिणामान्ते विषमिव, तत् सुखं राजसं स्मृतम्॥३८॥

आत्मबुद्धेरित्यस्यार्थान्तरमाह—आत्मेति। २आत्मैव विषयो गोचर आत्मविषयः, तदाकारा अखण्डज्ञानाकारेत्यर्थः। अर्थान्तरमाह —आत्मविषयालम्बनेति। आत्मैव विषय आत्मविषयः, स आलम्बनं यस्याः सा तथोक्ता। आत्मनिष्ठेत्यर्थः। आत्मोपाधिभूता, आत्माकारा, आत्मालम्बना वा बुद्धिरात्मबुद्धिरित्यर्थत्रयं फलितम्। तस्मादिति। आत्मबुद्धिप्रसादजातत्वादित्यर्थः। बुद्धिप्रसादस्य सत्त्वगुणमयत्वादिति भावः। एतेन ज्ञानादिसाधननिर्मलीकृतात्मबुद्धिगोचरात्मसुखं सात्त्विकमिति सिद्धम्॥३७॥

विषयेति। यद् विषयेन्द्रियसंयोगाज्जायत इति शेषः, तत् सुखमग्रेऽमृतोपमं परिणामे विषमिव भवति, तत् सुखं राजसं स्मृतम्। अग्रेऽमृतोपमं परिणामे विषायितं च विषयेन्द्रियसंयोगजं सुखं राजसमित्यर्थः। विषयानुभवसुखं राजसमिति यावत्। विषया- णामिन्द्रियैः सह संयोगः, विषयैः सहेन्द्रियाणां संयोगः, विषयाणामिन्द्रियाणां च परस्परं संयोग इति वा विषयेन्द्रियसंयोगः। श्रोत्रा- दिभिरिन्द्रियैः शब्दादिषु विषयेष्विष्टेषु गृह्यमाणेषु सत्सु यत् सुखं बुद्धौ जायते तदित्यर्थः। प्रथमक्षण इति। उत्पत्तिक्षण इत्यर्थः। अमृतोपमम् अमृततुल्यम्। बलेति। विषयसुखविशेषस्य स्त्रीसम्भोगजसुखस्य बलादिनाशहेतुत्वं प्रसिद्धमेवेति भावः। बलं देहशक्तिः, वीर्यमिन्द्रियशक्तिः, रूपं सौन्दर्यं, प्रज्ञा सदसद्विवेचनचातुर्यं ग्रहणशक्तिर्वा, मेधा धारणशक्तिः, धनं प्रसिद्धम् , उत्साह उद्यमः, एतेषां हानिं प्रति हेतुत्वात्। दृश्यन्ते हि स्त्रीलम्पटा बलवीर्यादिरहिताः। एवं बलवीर्यादिनाशकत्वेन विषतौल्यमुक्त्वा प्रकारान्तरेण विषतौल्य- माह— अधर्मेति। दुःखहेतुत्वरूपमपि विषतौल्यमस्तीत्यर्थः। परस्त्रीसम्भोगादिजन्यसुखस्य, दिवाग्रहणामावास्यादिसामयिकस्वस्त्री- सम्भोगजन्यसुखस्य चाधर्मत्वेन नरकादिहेतुत्वमस्तीति भावः। नरकं यमलोकयातना। आदिपदात् स्थावरादिजन्मप्राप्तिः। तदुप- भोगेति। विषयोपभोगेत्यर्थः। परिणामः परिपाकः, तद्रूपोऽन्तो नाशः, तस्मिन् परिणामान्ते। न च— एवं स्त्रीसुखमेव राजसम् , न तु विषयसुखसामान्यमिति— वाच्यम् ; सर्वस्मिन्नपि विषयसुखे अग्रेऽमृतोपमत्वस्य परिणामे विषोपमत्वस्य विषयेन्द्रियसंयोगजन्यत्वस्य च सत्त्वात्। कथमिति चेद्? उच्यते—चक्षुषा रम्यं वस्तु पश्यन् पुरुष आदौ सुखमनुभवन् क्षणान्तर एव तद्वस्त्वलाभात् तद्वस्तु- पारोक्ष्याच्च खिद्यते। एवं श्रोत्रेण गानं शृण्वन्नपि, तथा जिह्वया चूतफलादिरसमनुभवन् पुरुषोऽनुभवकाले सुखमनुभवन्नपि पश्चात् प्रकृतरसनाशाद् रसान्तरालाभाल्लाभे वा तदुपभोगशक्त्यभावात् , बलादत्यशनेऽजीर्णादिरोगसम्भवाच्च खिद्यते। एवं स्पर्शादिष्वप्यूह्यम्। तस्मात् सर्वमपि वैषयिकं सुखं राजसम्॥३८॥

दिति तच्छब्दार्थः॥३७॥

राजसं सुखं हेयत्वाय कथयति—विषयेति। बलं संघातसामर्थ्यम् , वीर्यं पराक्रमकृतं यशः, रूपं शरीरसौन्दर्यम् , प्रज्ञा श्रुतार्थग्रहणसामर्थ्यम् , मेधा गृहीतार्थस्याविस्मरणेन धारणाशक्तिः, धनं गोहिरण्यादि , उत्साहस्तु कार्यं प्रत्युपक्रमादिः, एतेषां नाश- कत्वाद् वैषयिकं सुखं विषसममित्यर्थः। तत्रैव हेत्वन्तरमाह—अधर्मेति॥३८॥

१. ‘परिणामान्ते’ इति पा.। २. ‘आत्मविषयाकारा वा आत्मविषयालम्बना वा’ इति रा.पा. भाति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

विषयेन्द्रियसंयोगाद् यत्तदग्रेऽमृतोपमम्। परिणामे विषमिव तत् सुखं राजसं स्मृतम्॥३८॥

[[८९३]]

यदग्रे चेति। यदग्रे च अनुबन्धे चावसानोत्तरकाले च सुखं मोहनं मोहकरमात्मनो निद्रालस्यप्रमादोत्थं निद्रा चालस्यं च प्रमादश्चेत्येतेभ्यः समुत्तिष्ठतीति निद्रालस्यप्रमादोत्थं, तत् तामसमुदाहृतम्॥३९॥

अथेदानीं प्रकरणोपसंहारार्थः श्लोक आरभ्यते नेति। न तदस्ति तन्नास्ति पृथिव्यां वा मनुष्यादिषु सत्त्वं प्राणिजातम् , अन्यद्वा अप्राणिजातम्१, दिवि देवेषु वा पुनः सत्त्वं प्रकृतिजैः प्रकृतितो जातैः एभिस्त्रिभिर्गुणैः सत्त्वा- दिभिः मुक्तं परित्यक्तं यत् स्याद् भवेत् , न तदस्तीति पूर्वेण सम्बन्धः॥४०॥

यदिति। निद्रालस्यप्रमादोत्थं यत् सुखमग्रे चानुबन्धे चात्मनो मोहनं तत् सुखं तामसमुदाहृतं शिष्टैरिति शेषः। मोहो वैचित्त्यम्। यत् सुखमनुभवन्नपि पुरुषोऽहमिदं सुखमनुभवामीति न प्रत्येति, पश्चाच्च नानुसन्धत्ते, तत् सुखं तामसम्। तच्च निद्रादिभि- र्भवत्यात्मनः प्रमातुः, न तु चिन्मात्रस्य, तस्य मोहासम्भवात्। प्रमाता हि निद्रादिजं सुखमनुभवन्नचेतन इव भवति। न च निद्रासुखं ब्रह्मानन्द एवेति कथं तस्य तामसत्वमिति वाच्यम् ; अज्ञानावृतत्वात् तस्य। न हि समाधाविव निद्रायामनुभूयमानस्या-प्यात्मानन्दस्य प्रकाशोऽस्ति। तस्मात् समाधौ प्रकाशमान आत्मानन्दः सात्त्विकं सुखम् , निद्रादावप्रकाशमान आनन्दस्तामसं सुखमिति बोध्यम्। आलस्यं मान्द्यम् , तूष्णीम्भाव इति यावत्। तूष्णीम्भावसमये ह्यन्तर्मुखमनोवृत्तावात्मानन्दः प्रतिफलति। तमानन्दमनुभवन्नपि सोऽलसोऽज्ञानादहमानन्दमनुभवामीति न प्रत्येति, किन्तु मूढ इव वर्तते। प्रमादोऽनवधानता। चित्तेऽनवहिते सति कदाचिदात्मानन्दः प्रतिफलन्नपि न प्रकाशते। न च— अनुभवदशायां निद्रादिजन्यसुखस्य मोहनत्वमस्तु नाम, कथं पुनः परिपाकदशायामिति— वाच्यम् ; निद्रोत्थितस्य पुरुषस्यापि किञ्चित्कालं मोहस्य दर्शनात्॥३९॥

नेति। पृथिव्यां वा दिवि देवेषु वा पुनर्यत् सत्त्वं प्रकृतिजैरेभिस्त्रिभिर्गुणैर्मुक्तं स्यात् तन्नास्ति। यत् सत्त्वं प्रकृतिजैः एभि- स्त्रिभिर्गुणैर्मुक्तं स्यात् तत् पृथिव्यां वा दिवि देवेषु वा पुनर्नास्तीति वा। पृथिव्यां वर्तमानेषु मनुष्यादिषु प्राणिषु , दिवि वर्तमानेषु देवेषु च सत्त्वादिगुणत्रयमुक्तः कोऽपि प्राणी नास्तीत्यर्थः। चराचरात्मकं देवमनुष्यपश्वाद्यात्मकं तृणवीरुद्गुल्माद्यात्मकं च सर्वमपि प्राणिजातं ब्रह्मादिस्तम्बपर्यन्तं सत्त्वादिगुणत्रययुक्तमेवेति भावः। वापुनःशब्दार्थमाह—अन्यद्वाऽप्राणिजातमिति। अचेतनेष्वपि मणिलोहपाषाणा- दिषु सात्त्विकत्वादिभेददर्शनादिति भावः। प्रकृतिर्मूलकारणं माया त्रिगुणात्मिका वैष्णवी शक्तिः॥४०॥

तामसं सुखं त्यागार्थमेवोदाहरति—यदग्रे चेति। अनुबन्धशब्दार्थमाह—अवसानेति। २मोहनं मोहकरम्। तदुत्पत्तिहेतुमाह— निद्रेति॥३९॥

क्रियाकारकफलात्मनः संसारस्य प्रत्येकं सात्त्विकादिभेदेन त्रैविध्यमुक्त्वा, संसारान्तर्भूतमेव किञ्चिद् गुणत्रयास्पृष्टमपि क्वचिद् भविष्यतीत्याशङ्क्याह—अथेति। संसारस्य सर्वस्यैव गुणत्रयसंस्पृष्टत्वं प्रकरणम्। अन्यद्वा अप्राणीत्यत्राप्राणिशब्देन ३प्रसिद्ध्या स्थावरादि गृह्यते॥४०॥

१. ‘जात’मिति क्वचिन्न। २. अनेन भाष्ये ‘मोहकरम्’ इति विवरणम् एतत्पाठे नास्तीति ऊह्यते। ३. यद्यपि स्थावरस्यापि भग्नक्षतसंरोहणादिना प्राणवत्त्वमिष्यते, तथापि लोके प्राणिपदप्रयोगस्य तत्रानुपलम्भात् लोकप्रसिद्धिमनुसृत्य अप्राणिपदेन तदभिहितमिति भावः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादोत्थं तत् तामसमुदाहृतम्॥३९॥

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः। सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः॥४०॥

अ. १८. श्लो. ३८ - ४०]

[[८९४]]

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप !। कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः॥४१॥

ब्राह्मणेति। अनर्थः सर्वः संसार उक्तः। वृक्षरूपकल्पनया च ‘ऊर्ध्वमूल’मित्यादिना संसार उक्तः। पञ्चदशाध्याय इति शेषः। तत्र चेति। एवं सतीत्यर्थः। सर्वस्येति। सर्वस्य जगतस्त्रिगुणात्मकत्वात् संसारस्यापि त्रिगुणात्मकत्वात् संसारकारणस्य गुणत्रयस्य तदात्मकाज्ञानस्य वा निवृत्तिः कथं स्यात्? न कथमपीत्यर्थः। न च ज्ञानादिना स्यादिति वाच्यम् ; तस्यापि त्रिगुणात्मकत्वात्। न हि त्रिगुणात्मकं ज्ञानादिकं त्रिगुणात्मकं संसारं निवर्तयेदिति भावः। तन्निवृत्तिः तदनुपपत्तिनिवृत्तिः। तद्वक्तव्यं तथा वक्तव्यमित्यर्थः। यथा येन कारणेन तन्निवृत्तिः संसारनिवृत्तिः स्यात् तत्कारणं वक्तव्यमिति वा। तद्वक्तव्यमित्येवमर्थम् , सर्वश्च गीताशास्त्रार्थ उपसंहर्तव्य इत्येवमर्थम् , पुरुषार्थमिच्छद्भिरनुष्ठेय एतावानेव सर्ववेदस्मृत्यर्थ इत्येवमर्थं च ‘ब्राह्मणक्षत्रियविशा’मित्यादिर्ग्रन्थ आरभ्यते भगवतेति शेषः। हे परन्तप ! ब्राह्मणक्षत्रियविशां शूद्राणां च कर्माणि स्वभावप्रभवैर्गुणैः प्रविभक्तानि। विशो वैश्याः। ननु ब्राह्मणक्षत्रिय- विट् छूद्राणामिति समासः कुतो न कृतः, चत्वारो हि मनुष्यजातीयाः? अत आह—शूद्राणामिति। ब्राह्मणक्षत्रियविशो हि द्विजत्वाद् वेदाधिकारिणः, शूद्रास्तु न तथेत्यतः शूद्राणां समासात् पृथक्करणमित्यर्थः। एकजातित्वे सतीति वेदाधिकाराभावे हेतुः। ‘जन्मना जायते शूद्रः कर्मणा जायते द्विजः’ इति स्मरणाच्छूद्रस्यैकजातित्वम्। एकं जन्मैव जातिर्येषां त एकजातयः। द्वे जन्मकर्मणी जाती येषां ते द्विजातयः। तथा चैकजातेः शूद्रस्योपनयनादिसंस्कारकृतकर्मरूपजन्माभावान्न वेदाधिकारः। उपनयनादिना संस्कृतो हि प्रकरणार्थमुपसंहृतमनुवदति—सर्व इति। तस्यानेकात्मकत्वेन हेयत्वं सूचयति—क्रियेति। निर्गुणादात्मनो वैलक्षण्याच्च तस्य हेयतेत्याह—सत्त्वेति। अनर्थत्वाच्च तस्य त्याज्यत्वम् , अनर्थत्वं चाविद्याकल्पितत्वेनावस्तुनो वस्तुवद् भानादित्याह—अविद्येति। न केवलमष्टादशे संसारो दर्शितः, किन्तु पञ्चदशेऽपीत्याह—वृक्षेति। चकारादुक्तः संसार इत्यनुकृष्यते। संसारध्वस्तिसाधनं सम्यग्ज्ञानं च तत्रैवोक्तमित्याह—असङ्गेति। वृत्तमनूद्यानन्तरसन्दर्भतात्पर्यमाह—तत्र चेति। उक्तो निविवर्तयिषितः संसारः सतिसप्तम्या परामृश्यते। सर्वो हि संसारो गुणत्रयात्मकः। न च गुणानां प्रकृत्यात्मकानां संसारकारणीभूतानां निवृत्तिर्युक्ता, प्रकृतेर्नित्यत्वादित्याशङ्कायां स्वधर्मानुष्ठानात् तत्त्वज्ञानोत्पत्त्या गुणानामज्ञानात्मकानां निवृत्तिर्यथा भवति तथा स्वधर्मजातं वक्तव्यमित्युत्तरग्रन्थप्रवृत्तिरित्यर्थः। तत्तद्वर्णप्रयुक्तधर्मजातानुपदेशे चोपसंहारप्रकरणप्रकोपः स्यादित्याह—सर्वश्चेति। उपसंहृते गीताशास्त्रार्थे यद्यपि सर्वो वेदार्थः, स्मृत्यर्थश्च सर्वः उपसंहृतः, तथापि मुमुक्षुभिरनुष्ठेयमस्ति वक्तव्यमवशिष्टमित्याशङ्क्याह—एतावानिति। अनुष्ठेयपरिमाणनिर्धारणवदुक्तशङ्कानिवर्तनं शास्त्रार्थोपसंहारश्चेत्येतदुभयं चकारार्थः। सम्प्रति वर्णचतुष्टयस्यानुष्ठेयं धर्मजातमसङ्कीर्णमिति सूत्रमुपन्यस्यति—ब्राह्मणेति। उपनयन- संस्कारवत्त्वे सति वेदाधिकारित्वं समानमिति त्रयाणां समासकरणम्। इतरेषामसमासे हेतुमाह—शूद्राणामिति। १एकजातित्वम् १. जातिः जन्म। उपनयनं पूर्वेषां त्रयाणां द्वितीयजन्म। तदस्य न विहितमिति एकैव जातिर्यस्य स एकजातिः। तद्भाव एकजातित्वम्। फलितमाह— उपनयन- वर्जितत्वमिति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सर्वः संसारः क्रियाकारकफललक्षणः सत्त्वरजस्तमोगुणात्मकोऽविद्यापरिकल्पितः समूलोऽनर्थ उक्तः, वृक्ष- रूप[क]कल्पनया च ‘ऊर्ध्वमूलम्’ (भ.गी.१५.१) इत्यादिना। तं च असङ्गशस्त्रेण दृढेण छित्त्वा, ततः पदं तत् परिमार्गितव्यम् (भ.गी.१५.३,४) इति चोक्तम्। तत्र च सर्वस्य त्रिगुणात्मकत्वात् संसारकारणनिवृत्त्यनुपपत्तौ प्राप्तायाम् , यथा तन्निवृत्तिः स्यात् तथा वक्तव्यम् , सर्वश्च गीताशास्त्रार्थ उपसंहर्तव्यः, एतावानेव च सर्ववेदस्मृत्यर्थः पुरुषार्थमिच्छद्भिरनुष्ठेयः इत्येवमर्थं च ‘ब्राह्मणक्षत्रियविशा’मित्यादिरारभ्यते— ब्राह्मणेति। ब्राह्मणाश्च क्षत्रियाश्च विशश्च ब्राह्मणक्षत्रियविशः, तेषां ब्राह्मणक्षत्रियविशां शूद्राणां च। शूद्राणामसमासकरणम् एकजातित्वे सति

[[८९५]]

वेदेऽधिकरोति। अत एव स्त्रीणामपि न वेदाधिकारः, उपनयनादिसंस्काराभावात्। अत एव स्मर्यते ‘स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा’ इति। द्विजबन्धवः तन्तुमात्रधरा रथकारादयः। इतरेतरविभागेनेति। परस्परासाङ्कर्येणेत्यर्थः। शमादीनीत्यादिपदाच्छौर्य- कृषिसेवाग्रहणम्। यद्वा ‘शमो दमः’ इत्यादिश्लोकत्रयोक्तानां दमादीनां ग्रहणम्। ‘ब्राह्मणादीना’मित्यादिपदात् क्षत्रियविट् छूद्रग्रहणम्। सत्त्वादिगुणवशाद् ब्राह्मणादीनां शमादिकर्माणि पृथगवस्थितानीत्यर्थः। ननु गुणानां प्रकृतिप्रभवत्वकथनं व्यर्थं, प्रसिद्धत्वाद्, अत आह—अथवेति। स्वभावानां प्रभवाः कारणानि स्वभावप्रभवाः। ब्राह्मणादीनां चतुर्णां ये परस्परविलक्षणाश्चत्वारः स्वभावाः। तद्धेतु- भूता इत्यर्थः। ननु त्रयाणां गुणानां कथं स्वभावचतुष्टयहेतुत्वम्? अत आह—ब्राह्मणेत्यादि। सत्त्वगुणाद् ब्राह्मणस्वभावो जायते, सत्त्वोपसर्जनाद् रजोगुणात् क्षत्रियस्वभावः, तमोगुणोपसर्जनाद् रजोगुणाद् वैश्यस्वभावः, रजोगुणोपसर्जनात् तमोगुणाच्छूद्रस्वभाव इत्यर्थः। सत्त्वमुपसर्जनमप्रधानं यस्य तत् सत्त्वोपसर्जनम्। स्वो भावः स्वभावः। स्वासाधारणो धर्मः। स्वभावानेव दर्शयति— प्रशान्तीति। प्रशान्तिस्वभावो ब्राह्मणस्य। ऐश्वर्यस्वभावः क्षत्रियस्य। ईहास्वभावो वैश्यस्य। मूढस्वभावः शूद्रस्य इति विवेकः। ईहा धनार्जनप्रवृत्तिः। ननु ब्राह्मणादीनां गुणैः कर्माणि व्यवस्थापितानीत्यनेनैव तत्तत्स्वभावहेतुत्वस्य गुणानां सिद्धत्वाद् व्यर्थमेव स्वभाव- प्रभवत्वविशेषणमित्यतः पक्षान्तरमाह—अथवेति। प्रारब्धं कर्मेह स्वभावशब्दार्थः। ब्राह्मणादीनां स्वस्वप्रारब्धकर्मवशात् सत्त्वादयो गुणाः प्रादुर्भवन्ति, तैश्च गुणैस्तत्तच्छमादिकर्माणि प्रविभक्तानीत्यर्थः। प्राणिनां जन्मान्तरकृतसंस्कारो वर्तमानजन्मनि स्वकार्याभि- मुखत्वेनाभिव्यक्तःसन् स्वभाव इत्युच्यते। सञ्चितकर्मव्यावृत्त्यर्थं सन्नन्तम्। क्रियमाणस्य कर्मणः समाप्त्यनन्तरमेव नाशात् संस्कार इत्युक्तम्। जन्मान्तरीययज्ञादिकर्मजन्यधर्मादिसंस्कार इत्यर्थः। ननु गुणानां स्वभावप्रभवत्वं कुतो ज्ञायते? अत आह—गुणेति। प्रादुर्भाव उत्पत्तिः। न हि कारणं विना गुणप्रादुर्भावो भवतीत्यर्थः। ब्राह्मणानां सत्त्वगुणप्रादुर्भावे, क्षत्रियादीनां रजआदिप्रादुर्भावे च नियामकः स्वभावविशेष एव। कथमन्यथा शूद्राणामपि सत्त्वगुणो नोदीयादिति भावः। ननु गुणैः कर्माणि प्रविभक्तानीत्येवालम् , किमिति स्वभावप्रभवत्वनिर्देशेनेत्यत आह—स्वभावः कारणमिति। ब्राह्मणादीनां गुणैः शमादिकर्मप्रविभागे को हेतुरिति कारण- शङ्कायाः समाधानार्थं स्वभावप्रभवैरित्युक्तमिति भावः। यद्वा तादृशा गुणाः कुतः प्रादुर्भूता इत्यत उक्तम्—स्वभावप्रभवैरिति। भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या उपनयनवर्जितत्वम्। कर्मणामसङ्कीर्णत्वेन व्यवस्थापकं प्रश्नपूर्वकं प्रकटयति—केनेत्यादिना। स्वभावप्रभवैर्गुणैरित्यस्यार्थान्तरमाह— अथवेति। उक्तव्यवस्थायां कार्यदर्शनं प्रमाणयति—प्रशान्तीति। स्वभावशब्दस्यार्थान्तरमाह—अथवेति। किमिति गुणाभिव्यक्तेरुक्त- वासनाधीनत्वम्? तत्राह—गुणेति। ननु नास्ति गुणप्रादुर्भावस्य निष्कारणत्वम् , प्रकृतिजैर्गुणैरिति प्रकृतेर्गुणकारणत्वाभिधानाद् , अत आह—स्वभाव इति। वासना कारणमिति गुणव्यक्तेर्निमित्तकारणत्वं विवक्षितम् , प्रकृतिस्तूपादानमिति भावः। उक्तमुपसंहरति— एवमिति। १वेदानधिकारात्। हे परन्तप !कर्माणि प्रविभक्तानि इतरेतरविभागेन व्यवस्थापितानि। केन? स्वभावप्रभवैर्गुणैः। स्वभावः ईश्वरस्य प्रकृतिस्त्रिगुणात्मिका माया, सा प्रभवो येषां गुणानां ते स्वभावप्रभवाः, तैः शमादीनि कर्माणि प्रविभक्तानि ब्राह्मणादीनाम्। अथवा ब्राह्मणस्वभावस्य सत्त्वगुणः प्रभवः कारणम् , तथा क्षत्रियस्वभावस्य सत्त्वोपसर्जनं रजः प्रभवः, वैश्यस्वभावस्य तमउपसर्जनं रजः प्रभवः, शूद्रस्वभावस्य रजउपसर्जनं तमः प्रभवः, प्रशान्त्यैश्वर्येहामूढतास्वभावदर्शनाच्चतुर्णाम्। अथवा जन्मान्तरकृतसंस्कारः प्राणिनां वर्तमानजन्मनि स्वकार्याभि- मुखत्वेनाभिव्यक्तः स्वभावः। स प्रभवो येषां गुणानां ते स्वभावप्रभवा गुणाः। गुणप्रादुर्भावस्य निष्कारणत्वानुपपत्तेः स्वभावः कारणमिति कारणविशेषोपादानम्। एवं स्वभावप्रभवैः प्रकृतिप्रभवैः सत्त्वरजस्तमोभिर्गुणैः स्वकार्यानुरूपेण अ. १८. श्लो. ४१ ] १. ‘वेदेऽनधिकारात्’ इति पा.।

[[८९६]]

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम्॥४२॥

स्वकारणानुरूप्येणेति। स्वकारणभूतस्वव्यापारानुसारेणेत्यर्थः। ननु ब्राह्मणानां शमादीनि कर्माणीत्येवं शास्त्रमेव तत्तद्वर्णानां तानि तानि कर्माणि व्यवस्थापयतीति कृत्वा शास्त्रेणैव प्रविभक्तानीति वक्तव्ये कथमुक्तं गुणैः प्रविभक्तानीति पृच्छति—नन्विति। परिहरति—नेति। सत्त्वादिगुणप्रविभक्तान्येव कर्माणि शास्त्रं व्यवस्थापयतीति न दोष इत्यर्थः। सत्त्वगुणवशाद् ब्राह्मणस्य शमादीनि कर्माणि भवन्तीत्येवं शास्त्रं बोधयति सत्त्वादिगुणानपेक्ष्यैव, न तु ताननपेक्ष्येति भावः। गुणैः सह कर्माणि शास्त्रैः प्रविभक्तानीति रामानुजः, तन्मन्दम् ; शास्त्रैरिति मूलाद्बहिः कल्पनस्यायुक्तत्वात्। कर्म- प्रविभाजकमुख्यकर्तृभूतगुणानाम्६ अप्रधाने तृतीयाकल्पनस्य चायुक्तत्वात्॥४१॥

शम इति। शम इत्यादिकमास्तिक् यान्तं ब्राह्मं स्वभावजं कर्म भवति। ब्राह्मणस्य शमादीनि स्वाभाविकानि कर्माणीत्यर्थः। सत्त्वगुणप्रयुक्तत्वाच्छमादीनामिति भावः। शमोऽन्तरिन्द्रियनिग्रहः, दमो बहिरिन्द्रियनिग्रहः, तपः ब्रह्मचर्यस्वाध्यायाभ्यसनमनः- प्रसादादिकम् , शौचं मृज्जलाभ्यां प्रक्षालनं बाह्यशौचम् , रागादिदोषापनयनमान्तरशौचम् , ज्ञानमात्मादिपदार्थज्ञानम् , विज्ञानं तस्यानुभवापादनम्। अस्ति दिष्टमिति मतिर्यस्य स आस्तिकः, तस्य भाव आस्तिक् यम्। श्रद्दधानता श्रद्धालुता। आगमार्थे शास्त्रोक्तार्थे, शास्त्रं हि प्रमाणमास्तिकानाम्। ‘ब्रह्मा विप्रः प्रजापति’रिति कोशाद् ब्रह्मा ब्राह्मणः तस्येदं ब्राह्मम्॥४२॥

स्वभावप्रभवैः सत्त्वादिगुणैर्ब्राह्मणादीनां कर्माणि प्रविभक्तानीत्युक्तमाक्षिपति—नन्विति। शास्त्रस्य धर्मविभागहेतोः सत्त्वादि- विशेषापेक्षयैव विभागज्ञापकत्वादुभयत्र विभागहेतुत्वोक्तिरविरुद्धेति परिहरति—नैष दोष इति॥४१॥

प्रविभक्तानि कर्माण्येव प्रश्नद्वारा विविच्य दर्शयति—कानीत्यादिना। अन्तःकरणोपशमः[रमः] शमः, दमो बाह्यकरणोपरति- रित्युक्तं३ स्मारयति—यथेति। त्रिविधं तपः सप्तदशे दर्शितमित्याह—तप इति। शौचमपि बाह्यान्तरभेदेन ४प्रागेवोक्तमित्याह— शौच- मिति। क्षमा नामाक्रुष्टस्य ताडितस्य वा मनसि विकारराहित्यम् , ज्ञानं शास्त्रीयपदार्थज्ञानम् , विज्ञानं शास्त्रार्थस्य ५स्वानुभवायत्तत्वा- पादनम्। त्रिधा व्याख्यातं स्वभावशब्दार्थमुपेत्याह—यदुक्तमिति॥४२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

शमादीनि कर्माणि प्रविभक्तानि। ननु शास्त्रप्रविभक्तानि शास्त्रेण विहितानि ब्राह्मणादीनां शमादीनि कर्माणि। कथमुच्यते सत्त्वादिगुण- प्रविभक्तानीति? नैष दोषः; शास्त्रेणापि ब्राह्मणादीनां सत्त्वादिगुणविशेषापेक्षयैव शमादीनि कर्माणि प्रविभक्तानि, न गुणानपेक्षयैवेति शास्त्रप्रविभक्तान्यपि कर्माणि गुणप्रविभक्तानीत्युच्यते१॥४१॥

कानि पुनस्तानि कर्माणीत्युच्यते१ शम इति। शमो दमश्च यथाव्याख्यातार्थौ। तपो यथोक्तं शारीरादि। शौचं व्याख्यातम्। क्षान्तिः क्षमा, आर्जवम् ऋजुता एव च, ज्ञानं, विज्ञानम् , आस्तिक् यम् आस्तिकभावः, श्रद्दधानता आगमार्थेषु , २ब्रह्मकर्म ब्राह्मणजातेः कर्म स्वभावजम्। यदुक्तम् – स्वभावप्रभवैर्गुणैः प्रविभक्तानि (भ.गी.१८.४१) इति, तदेवोक्तं स्वभावजमिति॥४२॥

१. ‘इत्युच्यन्ते’ इति पा.। २. ‘ब्राह्मं कर्म’ इति पा.। ३. (द्र.भ.गी.१०.४)। ४. (द्र.भ.गी.१६.३)। ५. ‘स्वानुभवपर्यन्तत्वापादनम्’ इति पा.। ६. गुणैः कर्माणि प्रविभक्तानि इत्यत्र गुणैरिति कर्तरि तृतीया। गुणैः सह शास्त्रैः इत्यर्थवर्णने तु ‘सहयुक्तेऽप्रधाने’ इति सहयोगे तृतीयेति भावः।

[[८९७]]

शौर्यमिति। शौर्यं पराभिभवनसामर्थ्यम् , तेजः परैरप्रधर्ष्यत्वम्। का सा धृतिः? अत आह—सर्वेति। उत्तम्भितस्य उच्चैः स्तम्भितस्य। अपराङ्मुखीभावः पृष्ठाप्रदर्शनमित्यर्थः। दानं द्रव्यत्यागः। प्रभुशक्तिर्नियमनशक्तिः। नन्वीश्वरधर्मोऽयम् , न जीवधर्मः, अत आह—ईशितव्यान् प्रतीति। स्वपरिपाल्यप्रजाः प्रतीत्यर्थः। यद्वा स्वपूज्ये देवब्राह्मण ईशनं कथं क्षत्रियस्येत्यत आह—ईशित- व्यान् प्रतीति॥४३॥

कृषीति। कृषिगौरक्ष्यवाणिज्यमिति समाहारद्वन्द्वः। विलेखनं हलादिना भेदनम्। परिचर्येति। पूर्वोक्तब्राह्मणादिवर्णत्रयशुश्रूषैव शूद्रस्य स्वाभाविकं कर्म॥४४॥

स्वे स्व इति। उक्तवक्ष्यमाणयोः सङ्गतिप्रदर्शनायाह—एतेषामिति। अनुष्ठातुः कर्तुः पुरुषस्य। वर्णा ब्राह्मणादयः, आश्रमा ब्रह्मचर्यादयः। प्रेत्य प्रकृतशरीरं विहाय। कर्मफलं स्वर्गम्। शेषेण सुकृतशेषेण। विशिष्टा उत्कृष्टाः, देशः काश्यादिः, जातिर्ब्राह्मणादिः, वित्तं धनं, मेधा बुद्धिः, विशिष्टा देशादयो यस्य। तस्माद् विशिष्टदेशजातिकुलधर्मायुःश्रुतवृत्तवित्तसुखमेधसः पुरुषात् सकाशाद् जन्म शौर्यमिति। शौर्यं शूरस्य भावः, तेजः प्रागल्भ्यम् , धृतिः धारणम् , सर्वावस्थास्वनवसादो भवति यया धृत्या उत्तम्भितस्य। दाक्ष्यं दक्षस्य भावः, सहसा प्रत्युत्पन्नेषु कार्येष्वव्यामोहेन प्रवृत्तिः। युद्धे चापि अपलायनम् अप- राङ्मुखीभावः शत्रुभ्यः। दानं देयद्रव्येषु मुक्तहस्तता। ईश्वरभावश्च ईश्वरस्य भावः प्रभुशक्तिप्रकटीकरणम् ईशितव्यान् प्रति, क्षात्रं कर्म क्षत्रियजातेर्विहितं कर्म १क्षत्रकर्म स्वभावजम्॥४३॥

कृषीति। कृषिगौरक्ष्यवाणिज्यं कृषिश्च गौरक्ष्यं च वाणिज्यं च कृषिगौरक्ष्यवाणिज्यम्। कृषिः भूमेर्विलेखनम्। गौरक्ष्यं गाः रक्षतीति गोरक्षः, तद्भावो गौरक्ष्यं, पाशुपाल्यम् इत्यर्थः। वाणिज्यं वणिक्कर्म क्रयविक्रयादिलक्षणम्। वैश्यकर्म वैश्यजातेः कर्म वैश्यकर्म स्वभावजम्। परिचर्यात्मकं शुश्रूषास्वभावं कर्म शूद्रस्यापि स्वभावजम्॥४४॥

एतेषां जातिविहितानां कर्मणां सम्यगनुष्ठितानां स्वर्गप्राप्तिः फलं स्वभावतः, ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलधर्मायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते’ (गौ.ध.सू. शूरस्य भावो विक्रमो बलवत्तरानपि प्रहर्तुं प्रवृत्तिः। प्रागल्भ्यं परैरधर्षणीयत्वम्। महत्यामपि विपदि देहेन्द्रियोत्तम्भनी चित्त- वृत्तिर्धृतिरिति व्याचष्टे—सर्वावस्थास्विति। दक्षस्य भावमेव विभजते—सहसेति। स्वभावस्तु पूर्ववत्॥४३॥

२(वैश्यशूद्रयोः कर्मविवक्षयाऽनुवदति—कृषीति। स्पष्टार्थः)॥४४॥

शमादिपरिचर्यान्तकर्मणाम् विभज्योक्तानामभ्युदयं फलमादावुपन्यस्यति—एतेषामिति। स्वभावतो विहितत्वादेव मोक्षापेक्षा- मन्तरेणानुष्ठानादित्यर्थः। तत्र प्रमाणमाह—वर्णा इति। शेषशब्देन भुक्तकर्मणोऽतिरिक्तं ३कर्मानुशयशब्दितमुच्यते। प्रत्येकं देशादिभि- र्विशिष्टशब्दः सम्बध्यते। आदिशब्देन ‘तद्यथाऽऽम्रे फलार्थे निमिते छायागन्धाद्यनूत्पद्यते एवं धर्मं चर्यमाणमर्था अनूत्पद्यन्ते न धर्महानि-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम्। दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥४३॥

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम्। परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥४४॥

१. ‘क्षात्रं कर्म’ इति पा.। २. अयं पाठः क्वचिन्न। ३. द्र.ब्र.सू.३.१.८। अ. १८. श्लो. ४२ - ४४ ]

[[८९८]]

१. ‘किं स्वकर्मानुष्ठानादेव साक्षात् संसिद्धिम्?’ इति पा.। अयमेव पाठो भाष्यार्कप्रकाशे आदृतो भाति। भाष्यं चेदमुत्तरश्लोकावतारणे योजितम्। ११.२९) इत्यादिस्मृतिभ्यः, पुराणे च वर्णिनामाश्रमिणां च लोकफलभेदविशेषस्मरणात्। कारणान्तरात्तु इदं वक्ष्यमाणं फलम्— स्वे स्व इति। स्वे स्वे यथोक्तलक्षणभेदे कर्मणि अभिरतः तत्परः संसिद्धिं स्वकर्मानुष्ठानादशुद्धिक्षये सति कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां संसिद्धिं लभते प्राप्नोति नरः अधिकृतः पुरुषः। १किं स्वकर्मानुष्ठानत एव साक्षात् संसिद्धिः? न ; कथं तर्हि? स्वकर्मनिरतः सिद्धिं यथा येन प्रकारेण विन्दति, तच्छृणु॥४५॥

यत इति। यतो यस्मात् प्रवृत्तिः उत्पत्तिः चेष्टा वा यस्मादन्तर्यामिण ईश्वराद् भूतानां प्राणिनां स्याद्, येन प्रतिपद्यन्ते जायन्ते। लोकफलभेदविशेषस्मरणात् लोकभेदः स्वर्गादिः, फलभेदो देवत्वादिः, तद्विशेषाणां स्मरणात्। एवं यथोक्त- कर्मानुष्ठानात् स्वाभाविकं फलमनुष्ठातुः प्रदर्श्य प्रकृतमाह—कारणान्तरात्त्विति। तेषामेव कर्मणामीश्वराराधनबुद्ध्या करणं कारणान्तर- मिति बोध्यम्। संसिद्धिशब्दो न मोक्षपरः। ‘नास्त्यकृतः कृतेन’ इत्यादिश्रुतिभिः कर्मणः साक्षान्मोक्षहेतुत्वस्य दूषितत्वात्। अतोऽर्थान्तरमाह—ज्ञाननिष्ठायोग्यतालक्षणामिति। ज्ञाननिष्ठायोग्यत्वमेव संसिद्धिरित्यर्थः। ननु किं सर्वोऽपि पुरुषः शमाद्यनुष्ठानात् संसिद्धिं लभते? नेत्याह—अधिकृतपुरुष इति। यो यो यत्र यत्राधिकृतः स स तत्कर्म कृत्वा संसिद्धिं लभत इत्यर्थः। यद्वा किं संन्यासि- नामपि कर्मानुष्ठानात् संसिद्धिः? नेत्याह—अधिकृतपुरुष इति। संन्यासिनां हि ज्ञाननिष्ठायामेवाधिकारान्न तेषां कर्मप्रसङ्ग इति भावः॥४५॥

यत इति। श्लोकमवतारयति। किमिति। ननु ज्ञाननिष्ठायोग्यत्वलक्षणसंसिद्धिरपि स्वकर्मानुष्ठानमात्रादेव भवति किमिति पृच्छति— किं स्वकर्मेति। लभत इति, पुरुष इति च शेषः। परिहरति—नेति। न लभत इत्यर्थः। तर्हि कथं लभत इति पृच्छति—कथं तर्हीति। स्वस्वविहितकर्मानुष्ठानमात्रादेव न संसिद्धिलाभः पुरुषस्य, किन्त्वीश्वराराधनबुद्ध्या स्वस्वविहितकर्मानुष्ठानात् संसिद्धिलाभ र्भवति’ इति स्मृतिर्गृह्यते। इतश्चोक्तानां कर्मणां स्वर्गफलत्वं युक्तमित्याह—पुराणे चेति। उक्तं हि ‘यस्तु सम्यक् करोत्येवं गृहस्थः परमं विधिम्। तद्वर्णबन्धमुक्तोऽसौ लोकानाप्नोत्यनुत्तमान्’ इति, ‘यस्त्वेतां नियतश्चर्यां वानप्रस्थश्चरेन्मुनिः। स दहत्यग्निवद् दोषाञ्जयेल्लोकांश्च शाश्वतान्’ इति, ‘मोक्षाश्रमो यश्चरते यथोक्तं शुचिः सुसङ्कल्पितबुद्धियुक्तः। अनिन्धनज्योतिरिव प्रशान्तं स ब्रह्मलोकं श्रयते द्विजातिः’ इति च। ‘सर्व एते पुण्यलोका भवन्ति’ इति श्रुतिश्चकारार्थः। यदि पुनर्मोक्षापेक्षयोक्तानि कर्माण्यनुष्ठीयेरन् , तदा मोक्षफलत्वं तेषां सेत्स्य- तीत्याह—कारणान्तरादिति। तदेव कारणान्तरं यन्मोक्षापेक्षया तेषामनुष्ठानम्। मोक्षोपायेषु शमादिषु सात्त्विकेषु ब्राह्मणधर्मेषु क्षत्रियादी- नामनधिकाराद् ब्राह्मणानामेव मोक्षः, न क्षत्रियादीनामित्याशङ्क्याह—स्वे स्व इति। यथास्वे कर्मण्यभिरतस्य बुद्धिशुद्धिद्वारा ज्ञाननिष्ठा- योग्यतया प्राप्तज्ञानस्य मोक्षोपपत्तेर्ब्राह्मणातिरिक्तस्यापि ज्ञानवतो मुक्तिरिति मत्वा पूर्वार्धं व्याचष्टे—स्वे स्व इत्यादिना। संसिद्धिशब्दस्य मोक्षार्थत्वं गृहीत्वा स्वधर्मनिष्ठत्वमात्रेण तल्लाभे तादर्थ्येन संन्यासादिविधानानर्थक्यमिति मन्वानः शङ्कते—किमिति। न तावन्मात्रेण साक्षान्मोक्षो ज्ञाननिष्ठायोग्यता वेति परिहरति—नेति। तर्हि कथं स्वधर्मनिष्ठस्य संसिद्धिः? इति पृच्छति—कथं तर्हीति। उत्तरार्धेनोत्तर- माह—स्वकर्मेति। तच्छृणु तं प्रकारमेकाग्रचेताः भूत्वा श्रुत्वाऽवधारयेत्यर्थः॥४५॥

तमेव प्रकारं स्फुटयति—यत इति। यतःशब्दार्थं यस्मादित्युक्तं व्यक्तीकरोति—यस्मादिति। प्राणिनामुत्पत्तिर्यस्मादीश्वरात् ,

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु॥४५॥

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।

[[८९९]]

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥४६॥

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्। स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषम्॥४७॥

इत्याह—यत इति। ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुत्याऽऽह—प्रवृत्तिरुत्पत्तिरिति। भवन्तीति भूतानि कार्याणि पृथिव्यादीनि, भौतिकानि च चेतनाचेतनानि सर्वाण्यपीत्यर्थः। प्रवृत्तिशब्दस्योत्पत्त्यर्थवर्णनं नातीव युक्तमित्यर्थान्तरमाह—चेष्टेति। अस्मिन् पक्षे भूतशब्दो ब्रह्मादिस्तम्बपर्यन्तप्राणिपरः इत्याह—प्राणिनामिति। अन्तः भूतानां हृदि स्थित्वा प्रत्यग्रूपेण यमयतीत्यन्तर्यामी। ‘सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च’ इत्युक्तत्वात्। ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रा- रूढानि मायया॥’ इति वक्ष्यमाणत्वाच्च। ‘यो विज्ञाने तिष्ठन्नि’त्याद्यन्तर्यामिब्राह्मणाच्च। ईश्वरप्रेरणवशादेव भूतानि तथा तथा प्रवर्तन्त इत्यर्थः। व्याप्तमिति। अन्तः पुरुषरूपेण बहिः परमात्मरूपेण चेश्वरेण व्याप्तं समस्तं जगदित्यर्थः। ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतेः। यद्वा चैतन्यरूपेण येन व्याप्तमित्यर्थः। सर्वव्यापित्वाच्चैतन्यस्य सद्रूपस्य। एतद् व्याप्तिशब्दादेव हि सर्वस्य अस्तिभातिव्यवहारः। प्रतिवर्णं वर्णो वर्णः ब्राह्मणादिचातुर्वर्ण्यमित्यर्थः। यद्वा वर्णेवर्णे प्रतिवर्णमिति पूर्वोक्तेनेत्यनेन सम्बन्धोऽस्य। प्रतिवर्णं विहितेनेत्यर्थः। शमदमादिलक्षणेन स्वस्ववर्णविहितकर्मणेति यावत्। ईश्वरमभ्यर्च्येति। ईश्वराज्ञां ब्राह्मणादिभिरिमानीमानि कर्माणि कर्तव्यानीत्येवंरूपां श्रुतिस्मृत्यात्मिकामनतिक्रम्य तदुक्तविधया फलाभिसन्धिं विहाय कर्तव्यानीत्येवं केवलं मत्वा स्वस्व- कर्मानुष्ठानमेवेश्वरार्चनमिति बोध्यम्। लोकेऽपि राजाज्ञापरिपालनमेव राजार्चनमिति दृष्टत्वात्। अथवा स्वानुष्ठितकर्मफलस्य— ॐ तत्सद्ब्रह्मार्पणमस्तु – इति परमेश्वराय समर्पणमेव स्वकर्मणा परमेश्वराराधनमिति बोध्यम्। मानवो मनुष्यः कर्माधिकारित्वात् तस्येति भावः॥४६॥

श्रेयानिति। विगुणोऽपि स्वधर्मः स्वनुष्ठितात् परधर्माच्छ्रेयान्। स्वभावनियतं कर्म कुर्वन् पुरुषः किल्बिषं नाप्नोति। सगुणस्यापि परधर्मस्यानुष्ठानापेक्षया विगुणस्यापि स्वधर्मस्यानुष्ठानं श्रेयः। यतः स्वधर्मानुष्ठानात् पुरुषस्य न किल्बिषप्राप्तिः, तेषां चेष्टा च यस्मादन्तर्यामिणः, येन च सर्वं व्याप्तं मृदेव घटादि, कार्यस्य कारणातिरिक्तस्वरूपाभावात् , तं स्वकर्मणाऽभ्यर्च्य मानवः संसिद्धिं विन्दतीति सम्बन्धः। न हि ब्राह्मणादीनां यथोक्तधर्मनिष्ठया साक्षान्मोक्षो लभ्यते, तस्य ज्ञानैकलभ्यत्वात् , किन्तु तन्निष्ठानां शुद्ध- बुद्धीनां कर्मसु फलमपश्यतामीश्वरप्रसादासादितविवेकवैराग्यवतां संन्यासिनां ज्ञाननिष्ठायोग्यतावतां ज्ञानप्राप्त्या मुक्तिरित्यभिप्रेत्याह— केवलमिति ॥४६॥

स्वधर्मानुष्ठानस्य बुद्धिशुद्ध्यादिद्वारा मोक्षावसायित्वात् तदनुष्ठानमावश्यकमित्याह—यत इति। ननु युद्धादिलक्षणं स्वधर्मं कुर्वन्नपि हिंसाधीनं पापं प्राप्नोति, तत् कथं स्वधर्मः श्रेयानिति? तत्राह—स्वभावेति। स्वकीयं वर्णाश्रमं निमित्तीकृत्य विहितं स्वभावज- मित्यधस्तादुक्तमित्याह—यदुक्तमिति। १विग्रहात्मकमपि विहितं कर्म कुर्वन् पापं नाप्नोतीत्यत्र दृष्टान्तमाह—यथेति॥४७॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ईश्वरेण सर्वमिदं जगत् ततं व्याप्तम् , स्वकर्मणा पूर्वोक्तेन प्रतिवर्णं तम् ईश्वरम् अभ्यर्च्य पूजयित्वा, आराध्य केवलं ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं विन्दति मानवो मनुष्यः॥४६॥

यत एवम् , अतः— श्रेयानिति। श्रेयान् प्रशस्यतरः स्वो धर्मो स्वधर्मो विगुणोऽपीति अपिशब्दो द्रष्टव्यः। परधर्मात् स्वनुष्ठितात्। स्वभावनियतं स्वभावेन नियतम्। यदुक्तं स्वभावजमिति, तदेवोक्तं स्वभावनियतमिति। यथा १. युद्धात्मकमित्यर्थः। अ. १८. श्लो. ४५ - ४७ ]

[[९००]]

सहजं कर्म कौन्तेय !सदोषमपि न त्यजेत्। सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥४८॥

परधर्मानुष्ठानात्तु किल्बिषप्राप्तिर्भवतीत्यर्थः। न च – परधर्मानुष्ठानात् किल्बिषप्राप्तिरित्यर्थः कथं सिध्यतीति – वाच्यम् ; स्वभावनियतं कर्म कुर्वन् किल्बिषं नाप्नोतीत्यनेन तत्सिद्धेः। ‘परधर्मो भयावहः’ इति पूर्वमुक्तत्वाच्च। नियतं व्यवस्थापितम्। ननु स्वभावजस्यापि कर्मणः कथं किल्बिषाहेतुत्वं दुष्टस्येत्यत आह—यथेति। विषजातस्य विषादुद्भूतस्य। दोषो मृतिमूर्छातापादिः। यथा मनुष्यादेर्विषं दोष- करम् , तथा विषजातक्रिमेर्न दोषकरमित्यर्थः। अनेन श्लोकेन ‘न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे’ ‘पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः’ इति प्राणिहिंसालक्षणे स्वधर्मेऽपि युद्धे या आसीदर्जुनस्य पापमिति, अश्रेयः इति च बुद्धिः, ‘श्रेयो भोक्तुं भैक्ष्यमपीह लोके’ इति ब्राह्मणधर्मे भिक्षाटने याऽप्या- सीच्छ्रेयः इति बुद्धिः, तदुभयं निवारितम्। हिंसात्मकमपि क्षत्रियस्य तव स्वभावनियतं युद्धाख्यं कर्म न किल्बिषावहम् , प्रत्युत श्रेयस्करमेव। यथा विषमपि विषजातक्रिमेर्न दोषावहम् , प्रत्युतान्नत्वाच्छरीरादिवृद्धिकरम् , तद्वत्। अहिंसात्मकमपि ब्राह्मणस्वभाव- नियतं भिक्षाटनादिकं कर्म तव परधर्मत्वात् किल्बिषावहमश्रेयस्करं च; यथा अमृतमपि विषक्रिमेर्दोषकरम् , तद्वदिति भावः॥४७॥

सहजमिति। ननु दुष्टः स्वधर्मो दुष्टत्वादेव न कार्यः, शिष्टोऽपि परधर्मः परधर्मत्वादेव न कार्यः, तस्मादननुष्ठानमेव वरमित्यत आह—सहजमिति। दुष्टस्यापि स्वधर्मस्य किल्बिषानावहत्वात् , परधर्मस्य च भयावहत्वाद्, अनात्मज्ञस्य चाननुष्ठानासम्भवात् स्वधर्मः कार्य एवाज्ञेनाधिकृतेनेति वक्ति भगवानित्याह—स्वभावेति। अनात्मज्ञश्चेति। ‘न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृद्’ इति श्लोकव्याख्यानसमये प्रतिपादितमिदं विस्तरेण मयेति५ भावः। अत इति। स्वधर्मानुष्ठानस्यादुष्टत्वात् , परधर्मानुष्ठानस्य दुष्टत्वादज्ञस्य कर्माकरणायोगाच्चेत्यर्थः। हे कौन्तेय ! सदोषमपि सहजं कर्म पुरुषो न त्यजेत् , हि सर्वारम्भाः दोषेण, अग्निर्धूमेनेव, आवृताः। सह जायत इति सहजम्। किं तत् सहजमिति पृच्छति—किमिति। उत्तरयति—कर्मेति। कथं सदोषत्वं कर्मणः? अत आह—त्रिगुणात्म- कत्वादिति। गुणत्रयस्य संसारहेतुत्वेन सदोषत्वाद् गुणत्रयात्मकं कर्मापि सदोषमेवेत्यर्थः। को न त्यजेत्? अत आह—कुर्वन्निति। इतश्च विहितं कर्म दोषवदपि कर्तव्यं, प्रकारान्तरासम्भवादित्युक्तानुवादपूर्वकं कथयति—स्वभावेत्यादिना। न हि कृमिर्विषजो विषनिमित्तं मरणं प्रतिपद्यते। तथा अयमधिकृतः पुरुषो दोषवदपि विहितं कर्म कुर्वन् पापं नाप्नोतीत्युक्तमित्यर्थः। तर्हि दोषरहितमेव भिक्षाटनादि सर्वैरनुष्ठीयताम् , अतो न पापप्राप्त्याशङ्केत्याशङ्क्याह—परेति। उक्तमित्यनुवर्तते। तर्हि पापप्राप्तिशङ्कां परिहर्तुमकर्मनिष्ठत्वमेव सर्वेषां स्यादित्याशङ्क्य , ज्ञानाभावान्नैवमित्याह—अनात्मज्ञ इति। ३पूर्ववदत्रापि सम्बन्धः। प्रकारान्तरासम्भवकृतं फलमाह—अत इति। सह जायत इति सहजम् , स्वभावनियतं नित्यं कर्म। तद् विहितत्वान्निर्दोषमपि हिंसात्मकतया सदोषमित्यत्र हेतुमाह—त्रिगुणेति। सत्त्वादिगुणत्रयारब्धतया४ हिंसादिदोषवदपि कर्म विहितमत्याज्यमित्यर्थः। कर्मणां दोषवत्त्वं प्रपञ्चयति—सर्वेति। आरम्भशब्दस्य

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

विषजातस्य कृमेः विषं न दोषकरम् , तथा स्वभावनियतं कर्म कुर्वन् नाप्नोति किल्बिषं पापम्॥४७॥

स्वभावनियतं कर्म कुर्वाणो विषज इव कृमिः किल्बिषं नाप्नोतीत्युक्तम् ; परधर्मश्च भयावह इति; अनात्मज्ञश्च न हि कश्चित् क्षणमप्यकर्मकृत् तिष्ठतीति; अतः— सहजमिति। सहजं सह जन्मनैवोत्पन्नं सहजम्। किं तत्? कर्म, कौन्तेय ! सदोषमपि १त्रिगुणात्मकत्वात् , २न त्यजेत्। सर्वारम्भाः आरभ्यन्त इत्यारम्भाः, सर्वकर्माणीत्येतत् , १. ‘त्रिगुणत्वान्न’ इति पा.। २. ‘कुर्वन् न त्यजेत्’ इति रा.पा. भाति। ३. उक्तमित्यस्यात्रापि संबन्ध इत्यर्थः। ४. सत्त्वादिगुणारब्धतया दोषोऽवश्यंभावी। स च दोषः श्रौते कर्मणि हिंसादिः इति योज्यम्। ५. (द्र.३-५) विस्तरस्य स्वकृतत्वादाह— मयेति।

[[९०१]]

१. तथा च प्रत्यवायाभावः शास्त्रबलात् सिद्धः इति द्वितीयपक्षानुत्थितेस्तदुपेक्षेति भावः। प्रकरणात्। ये केचिदारम्भाः स्वधर्माः परधर्माश्च, ते सर्वे हि यस्मात्— त्रिगुणात्मकत्वमत्र हेतुः— त्रिगुणात्मकत्वाद् दोषेण धूमेन सहजेनाग्निरिवावृताः। सहजस्य कर्मणः स्वधर्माख्यस्य परित्यागेन परधर्मानुष्ठानेऽपि दोषान्नैव मुच्यते; भयावहश्च परधर्मः; न च शक् यतेऽशेषतः त्यक्तुमज्ञेन कर्म यतः, तस्मान्न त्यजेदित्यर्थः। [कर्मणोऽत्यागवचनस्य तात्पर्यविचारः] किमशेषतः त्यक्तुमशक् यं कर्मेति न त्यजेत् ? किं वा सहजस्य कर्मणस्त्यागे दोषो भवतीति?। किञ्चातः? यदि तावदशेषतः त्यक्तुमशक् यमिति न त्याज्यं सहजं कर्म, एवं तर्हि अशेषतस्त्यागे गुण एव स्यादिति सिद्धं भवति। कर्मण्यधिकृतोऽज्ञ इत्यर्थः। आरम्भशब्दस्योपक्रमार्थत्वात् कथं कर्मार्थत्वम्? अत आह—प्रकरणादिति। अत्रेति। दोषावृतत्व इत्यर्थः। दोषेणेति। बन्धकत्वरूपेणेत्यर्थः। सदोषत्वात् स्वधर्मं परित्यज्य निर्दोषः परधर्मः कार्य इति यदि त्वं मन्यसे, तदपि न सिध्यति, स्वधर्मवत् परधर्मस्यापि सदोषत्वात्। यस्माद् धर्ममात्रं त्रिगुणात्मकं तस्मात् सदोषमेव। एवं च सति सदोषबुद्ध्या स्वकर्म त्यक्तवतः पुरुषस्य परधर्मे प्रवृत्तस्य पुनस्तदेव सदोषकर्मानुष्ठानं प्राप्तम् , न तु निर्दोषकर्मानुष्ठानम् , निर्दोषस्य कर्मण एवाभावात्। तस्मात् सदोष- परधर्मानुष्ठानापेक्षया सदोषस्वधर्मानुष्ठानमेव श्रेयः। यथा कुरूपपरदारसङ्गापेक्षया कुरूपस्वदारसङ्ग एव श्रेयान् वंशानुच्छित्तिहेतुत्वात् , तद्वदिति। सदोषादपि स्वधर्मानुष्ठानाद् भवति हि स्वर्गफलम् , न तु सदोषात् परधर्मानुष्ठानात् , प्रत्युत नरकपातोऽपि। यथा परदारसङ्गाद् वंशप्रतिष्ठाऽलाभः, प्रत्युत ताडनाकीर्तिनरकाद्यनर्थप्राप्तिः, तद्वत्। तस्मात् सदोषमपि सहजं कर्म न परित्यजे- दित्यभिप्रयन्नाह—सहजस्येति। नन्वेवं स्वधर्मः परधर्मश्चेत्युभयं न कार्यम् , अत आह—न [च] शक् यत इति। अज्ञेनाशेषतः कर्म त्यक्तुं न शक् यत इत्यन्वयः। तस्मादिति। परधर्मस्यापि सदोषत्वात् कर्मत्यागस्य च दुष्करत्वादित्यर्थः। न त्यजेदिति। सहजं कर्मेति शेषः। सहजं कर्म न त्यजेदित्युक्तम् , तत्र हेतुं पृच्छति—किमिति। ‘न हि देहभृता शक् यं त्यक्तुं कर्माण्यशेषतः’ इति हेतोः सहजं कर्म न त्यजेदित्युक्तं किम्? यद्वा ‘नियतस्य तु संन्यासः कर्मणो नोपपद्यते’ इति हेतोरित्यर्थः। सन्दिग्धस्य [स]प्रयोजनस्य विचार्यत्वाद् उक्ते सन्देहे प्रयोजनं पृच्छति—किञ्चात इति। तत्राद्यपक्षमनूद्य फलं दर्शयति—यदीति। अशक् यकरणस्य गुणत्वात् कर्मव्युत्पत्त्या स्वपरसर्वकर्मार्थत्वे कर्मणां प्रकृतत्वं हेतुमाह—प्रकरणादिति। दोषेणेत्यादि व्याचष्टे—ये केचिदिति। ते सर्वे दोषेणावृताः इति सम्बन्धः। सर्वकर्मणां दोषावृतत्वे हिशब्दोपात्तं यस्मादित्युक्तं हेतुमेवाभिनयति—त्रिगुणात्मकत्वमिति। स्वभावनियतस्य कर्मणो दोषवत्त्वात् तत्त्यागद्वारा परधर्ममातिष्ठमानस्यापि नैव दोषाद् विमोकः सम्भवति। न च परधर्मोऽनुष्ठातुं शक्यते, भयावहत्वात्। न च तर्हि कर्मणोऽशेषतोऽननुष्ठानमेव, अज्ञस्याशेषकर्मत्यागायोगात्। अतः सहजं कर्म सदोषमपि न त्याज्यमिति वाक् यार्थमाह—सहजस्येति। सहजं कर्म सदोषमपि न त्यजेदित्यत्र विचारमवतारयति—किमिति। ‘न हि कश्चिदि’ति न्यायादिति शेषः। दोषो विहितनित्य- त्यागे प्रत्यवायः। सन्दिग्धस्य सप्रयोजनस्य विचार्यत्वादुक्ते सन्देहे प्रयोजनं पृच्छति—किञ्चात इति। तत्राद्यमनूद्य फलं दर्शयति— यदीति। अशक् यार्थानुष्ठानस्य गुणत्वेन प्रसिद्धत्वात्। प्रसिद्धं हि महोदधिमगस्त्यस्य चुलुकीकृत्य पिबतो गुणवत्त्वम्। तदाह—एवं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

अशेषतः कर्मत्यागासम्भववचनस्याज्ञविषयत्वं स्पष्टीकर्तुं विचारमारभते—किमशेषतस्त्यक्तुमित्यादिना। तस्मिन् पक्षे को लाभः, को वा दोषः इत्याह पूर्ववादी— किञ्चात इति। ‘ब्रह्मचर्यादेव प्रव्रजेदि’त्यादिविधिश्रुतेः कर्मत्यागे न दोषो भवतीत्युक्तमुपेक्ष्य१, आद्यपक्षे लाभमाह—यदि तावदित्यादिना। अशक्यकरणस्य त्यागस्य करणे गुण एव स्यादित्येतत्

[[अ. १८. श्लो. ४८]] [[९०२]]

सत्यमेवम् ; अशेषतस्त्याग एव नोपपद्यत इति चेत्? किं नित्यप्रचलितात्मकः पुरुषः, यथा सांख्यानां गुणाः? किंवा क्रियैव कारकम् , यथा बौद्धानां पञ्च स्कन्धाः क्षणप्रध्वंसिनः? उभयथाऽपि कर्मणोऽशेषतस्त्यागो न सम्भवति। समुद्रचुलुकीकरणकालकूटभक्षणगोवर्धनोद्धारणादिवदिति भावः। भवत्वशेषकर्मत्यागस्य गुणत्वमित्यत आह—सत्यमिति। यद्यशेष- तस्त्याग उपपद्यते, तर्हि स गुणः स्यात् , स एव नोपपद्यते। तस्मात् सहजस्य कर्मणः परित्यागे दोषो भवतीति हेतोरेव सहजं कर्म न त्यजेदित्युक्तम् , न तु कर्माशेषतस्त्यक्तुमशक् यमिति हेतोः, अशेषकर्मत्यागस्यैवासम्भवात्। यस्मादेवं तस्मात् सहजकर्मपरित्यागः परमहंसपरिव्राजकस्य नरकहेतुरेवेति पूर्वपक्षिहृदयम्। अशेषकर्मत्यागः सम्भवत्येव, अज्ञस्य तु परं स कर्तुमशक् यः इत्यभिप्रयन् पूर्वपक्षं निराकरोति—किमित्यादिना। अशेषतः कर्मणस्त्याग एव नोपपद्यत इत्युक्तं यत् त्वया, तत्र को हेतुरिति पृच्छति—किमिति। पुरुषस्य नित्यप्रचलितात्मकत्वादशेषतः कर्म- त्यागो न सम्भवतीत्येतदुक्तं किं त्वया? क्रियाया एव कारकत्वादिति वा? इत्यर्थः। पुरुषो जीवो नित्यप्रचलितात्मकः किम्? नित्य- चलनस्वभावः किम्? तत्र दृष्टान्तमाह—यथेति। साङ्ख्यानां मते गुणाः यथा नित्यप्रचलितात्मकाः, तद्वदित्यर्थः। प्रकाशात्मकस्य सवितुर्यथा प्रकाशत्यागानुपपत्तिस्तथा नित्यप्रचलितात्मकस्य पुरुषस्य कर्मत्यागानुपपत्तिः, चलनस्यैव कर्मत्वादिति भावः। क्रियैव कारकं किं वेति। कारकं कर्तृ , आत्मवस्त्वित्यर्थः। क्रियास्वरूप एव कर्ता आत्मा किमित्यर्थः। तत्र दृष्टान्तमाह—यथेति। बौद्धानां मते क्रियाकारकभेदाभावात् कारका एव क्षणप्रध्वंसिनः स्कन्धाः यथा क्रियास्वरूपाः, तद्वदित्यर्थः। रूपवेदनाविज्ञानसंज्ञासंस्काराः पञ्च स्कन्धाः। तत्र विषयप्रपञ्चो रूपस्कन्धः, तज्ज्ञानप्रपञ्चो वेदनास्कन्धः, आलयविज्ञानसन्तानो विज्ञानस्कन्धः, नामप्रपञ्चः संज्ञास्कन्धः, वासनाप्रपञ्चः संस्कारस्कन्धः। एवं पञ्चधा परिवर्तमानो विज्ञानसन्तान एवात्मेति बौद्धदर्शनम्। विज्ञानानां च क्षणिकत्वात् स्कन्धानां क्षणप्रध्वंसित्वम् , विज्ञानसन्तानात्मकत्वात् स्कन्धानाम्। इमानि च विज्ञानानि बुद्धिवृत्तिरूपाण्येवेति क्रिया एवेति स्कन्धाः क्षण- प्रध्वंसिनः, क्रियास्वरूपाश्चेति भावः।उभयथाऽपीति। पक्षद्वयेऽपीत्यर्थः। भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या तर्हीति। अशेषकर्मत्यागस्य गुणवत्त्वेऽपि प्रागुक्तन्यायेन तदयोगात् तस्याशक् यानुष्ठानतेति शङ्कते—सत्यमिति। चोद्यमेव विवृण्वन्नाद्यं विभजते—किमिति। सत्त्वादिगुणवदात्मनो नित्यप्रचलितत्वेनाशेषतस्तेन न कर्म त्यक्तुं शक् यम्। नापि रूपविज्ञानवेदनासंज्ञासंस्कार- संज्ञानां क्षणध्वंसिनां स्कन्धानामिव क्रियाकारकभेदाभावात् कारकस्यैवात्मनः क्रियात्वमित्युक्ते कर्माशेषतस्त्यक्तुं शक्यम् , उभयत्रापि स्वभावभङ्गादित्याह— उभयथेति। सत्यम्। किन्त्वसौ त्याग एव न घटत इत्याह पूर्ववादी— सत्यमेवेति। सिद्धान्ती पृच्छति—किं नित्यप्रचलितात्मक इति। ‘चलद् गुणवृत्तम्’ इति सांख्यवचनाद् यथा सत्त्वादयो गुणा नित्यप्रचलितरूपाः, तथा किमात्मा सदा प्रचलितरूपः एव, किं वा(ऽनु) १‘भूतिर्येषां क्रिया सैव कारकं सैव चोद्यते’ इति बौद्धवचनात् क्रियैव कारकम्? तत्रोदाहरणमाह—यथेति। स्कन्धा इति रूपविज्ञानवेदनासंज्ञासंस्काराख्याः पञ्च। तत्र रूपस्कन्धो नाम पृथिव्यादिपरमाणवः, विज्ञानस्कन्धो नाम त्वमहम् इत्यालयविज्ञानसन्ततिः, वेदनास्कन्धो नाम सुखदुःखादि, घटोऽयं पटोऽयमित्यादिविकल्पप्रत्ययः संज्ञास्कन्ध इत्यर्थः। येनाशेषकर्मत्यागो न सम्भवतीत्युच्यते, तेनानयोः पक्षयोरन्यतरः स्वीकरणीयः, यतः उभयथाऽपि कर्मणोऽशेष- तस्त्यागो न सम्भवति, प्रथमपक्षे सदाप्रचलितस्वभावात् , द्वितीये क्रियात्यागे आत्मत्यागप्रसङ्गात् । अतोऽन्यतरः पक्षः स्वीकरणीयः। स चाशक्यः। कूटस्थत्वश्रुतिविरोधात् , प्रत्यभिज्ञाविरोधाच्चेति भावः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. येषां क्षणिकभावानां या भूतिः उत्पत्तिः सैव क्रिया, कारकं चेत्यर्थः। क्षणिकभावानामुत्पत्त्यतिरिक्तव्यापारासंभवात्।

[[९०३]]

ननु दर्शितं पक्षद्वयमप्यस्माकमभिमतमेवेति शङ्कायां तन्निरासार्थं तृतीयः पक्षोऽस्तीत्याह—अथेति। तृतीयोऽपि पक्षः, अस्तीति शेषः। तमेव दर्शयति—यदेति। सक्रियं निष्क्रियं चात्मवस्तु कालभेदादिति तृतीयः पक्षः। तत्रेत्यस्यार्थमाह—एवं सतीति। तृतीयपक्ष इत्यर्थः। अशेषतः कर्म त्यक्तुं शक् यमेव। तृतीयं पक्षमुपपादयितुं भूमिकामारचयति—अयं त्विति। आत्मादि वस्तु न नित्य- प्रचलितम् , नापि क्रियास्वरूपम् , सर्वदाऽपि क्रियाऽदर्शनात् ; क्रियाश्रयस्य कर्तुः क्रियारूपत्वायोगाच्च। तस्मादशेषतः कर्मत्यागा- सम्भववाद्यभिमतं पक्षद्वयं दुष्टमेव। व्यवस्थिते द्रव्ये आत्मादिवस्तुनीत्यर्थः। उत्पन्ना च सा क्रिया न चिरं तिष्ठतीत्याह—विद्यमाना चेति। उत्पन्ना चेत्यर्थः। अत एव सक्रियत्वं निष्क्रियत्वं चात्मन इति भावः। ननु क्रियाया आगमापायित्वे क्रियावतो द्रव्यस्य कथं स्थायितेत्याशङ्क्याह—शुद्धमिति। ननु द्रव्यस्य क्रियाशक्तिमत्त्वेऽपि क्रियावत्त्वाभावे कथं कारकत्वम्? क्रियावद्धि कारकम् , अत आह—तदेवेति। क्रियाशक्तिमदेव कारकम् , न तु क्रियाश्रयभूतम् , अन्योन्याश्रयादित्यर्थः। अशेषतः कर्मणस्त्याग एव नोपपद्यत इति यदुक्तं पूर्वपक्षिणा, तत् परिहृतमेतावता काणादेन। कथम्? उच्यते— यद्यात्मा नित्यप्रचलितात्मकः स्याद् , यदि वा क्रिया- स्वरूपः स्यात् , तर्हि कर्मणामशेषतस्त्यागो नोपपद्यताम् , न तु तथाविधः आत्मा। किन्तु सक्रियो निष्क्रियश्च कर्तैवात्मा। अतः कर्तु- रप्यात्मनो निष्क्रियत्वेनावस्थानं सम्भवत्येव। यथा तक्षकस्य तक्षणक्रियां परित्यज्य तूष्णीमासनं सम्भवति, तद्वत्। तस्मादशेषतः कर्म- त्याग उपपद्यत एवेति। नन्वेवं समीचीनमेवेदं काणाददर्शनमिति मत्वा कश्चित् पृच्छति—अस्मिन् पक्षे को दोष इति। उत्तरयति—अयमेवेति। अभागवतत्वमेव दोष इत्यर्थः। अभागवतं भगवतोऽनभिमतमित्यर्थः। ननु काणाददर्शनमिदं भगवतोऽनभिमतमिति कथं ज्ञायते त्वयेति पृच्छति कश्चित्—कथमिति। उत्तरयति—यत इति। ‘असतो भावो न विद्यते, सतश्चाभावो न विद्यते’ इति भगवतोक्तम्। पक्षद्वयानुरोधेनाशेषकर्मत्यागायोगे वैशेषिकश्चोदयति—अथेति। कदाचिदात्मा सक्रियः, निष्क्रियश्च कदाचिदिति स्थिते फलित- माह—तत्रेति। उक्तमेव पक्षं पूर्वोक्तपक्षद्वयाद् विशेषदर्शनेन विशदयति—अयं त्विति। आगमापायित्वे क्रियायास्तद्वतो द्रव्यस्य कथं स्थायितेत्याशङ्क्याह—शुद्धमिति। क्रियाशक्तिमत्त्वेऽपि क्रियावत्त्वाभावे कथं कारकत्वम्? क्रियां कुर्वत् कारणं कारकमित्यभ्युपगमा- दित्याशङ्क्याह—तदेवेति। क्रियाशक्तिमदेव कारकम् , न क्रियाधिकरणम् , १परस्पराश्रयादित्यर्थः। वैशेषिकपक्षे दोषाभावादस्ति सर्वैः स्वीकार्यतेत्युपसंहरति—इत्यस्मिन्निति। भगवन्मतानुसारित्वाभावादस्य पक्षस्य त्याज्यतेति दूषयति—अयमेवेति। भगवन्मताननुसा-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अथ तृतीयोऽपि पक्षः— यदा करोति, तदा सक्रियं वस्तु ; यदा न करोति, तदा निष्क्रियं वस्तु तदेव। तत्रैवं सति शक् यं कर्माशेषतस्त्यक्तुम्। अयं त्वस्मिंस्तृतीये पक्षे विशेषः—न नित्यप्रचलितं वस्तु , नापि क्रियैव कारकम् ; किं तर्हि? व्यवस्थिते द्रव्येऽविद्यमाना क्रियोत्पद्यते, विद्यमाना च विनश्यति। शुद्धं तद् द्रव्यं शक्तिमदवतिष्ठत इत्येव- माहुः काणादाः; तदेव च कारकमिति अस्मिन् पक्षे को दोष इति? अयमेव तु दोषः – यतस्त्वभागवतं मतमिदम्। कथं

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

पक्षान्तरमाशङ्कते—अथ तृतीयोऽपीति। कदाचिन्निष्क्रियवस्त्वभ्युपगमे सिद्धोऽशेषतस्त्याग इत्याह—तत्रैवं सती- ति। ननु त्वदभिप्रेतस्याशेषकर्मत्यागस्यास्मिन् पक्षे सिद्धिश्चेत् तर्हि तत्पक्षादस्य पक्षस्य को भेद इत्याशङ्क्याह—अस्मिन् पक्ष इति। क्रियाशब्देन प्रधान उच्यते(?)। शक्तिशब्देन प्रतिबन्धरहितस्वभावविशेष उच्यते। न मीमांसकपक्षवत् स्वभावातिरे- किणी शक्तिरस्ति। यदेव क्रियानाशे शुद्धम् , तदेव क्रियोपरक्तं कारकमित्यर्थः। अस्त्वयं विशेषः, तथापि दोषाभावादयं पक्षो न त्याज्य इत्याह—अस्मिन् पक्षे को दोष इति। त्यागकारणं दोषं स्फुटयति—अयमेव त्वित्यादिना। भागवतं मतं मा भूत् , अ. १८. श्लो. ४८ ] १. क्रियासिद्धौ क्रियावतः कारकत्वसिद्धिः, तत्सिद्धौ क्रियासिद्धिरिति।

[[९०४]]

ज्ञायते? यत आह भगवान्—‘नासतो विद्यते भावः’ (भ.गी.२.१६) इत्यादि। काणादानां ह्यसतो भावः, सतश्चाभाव इतीदं मतम् अभागवतम्। १अभागवतत्वेऽपि न्यायवच्चेत् को दोष इति चेत्? उच्यते दोषवत्तु इदम् , सर्व- प्रमाणविरोधात्। कथम्? यदि तावद् द्व्यणुकादि द्रव्यं प्रागुत्पत्तेरत्यन्तमेवासत् , उत्पन्नं च स्थितं कञ्चित् कालम् , पुनरत्यन्तमेवासत्त्वमापद्यते, तथा च सति असदेव सज्जायते, सदेवासत्त्वमापद्यते, अभावो भावो भवति, भावश्चाभाव इति। तत्राभावो जायमानः प्रागुत्पत्तेः शशविषाणकल्पः समवाय्यसमवायिनिमित्ताख्यं कारणमपेक्ष्य जायत इति। न काणादैः एतद्विपरीतमुक्तम्— ‘असतो भावो विद्यते, सतश्चाभावो विद्यते’ इति। तस्मादिदं काणादमतमभागवतम्। काणादानां ह्यसतो भावः, सतश्चाभावः इति मतमिति शेषः। निश्चय इति वा। न च – असत्कार्यवादः काणादोक्तो भवतु नाम दुष्टः, सक्रियं निष्क्रियं चात्मवस्तु कारकमिति प्रकृतकाणादमतैकदेशस्य कथं दुष्टत्वमिति – वाच्यम् ; शुद्धेऽप्यात्मवस्तुनि अविद्यमाना क्रियोत्पद्यत इति असत्कार्यवादस्य प्रकृतेऽपि प्रसारितत्वात्। शुद्धं निष्क्रियं ह्यात्मवस्त्वविद्यमानक्रियोत्पत्त्या सक्रियं भवतीत्यमीभिरुच्यते। तस्माद् असत्कार्यवादसत्त्वात् ‘सक्रियं निष्क्रियं चात्मवस्तु’ इत्येतत् काणादमतमभागवतत्वाद् दुष्टमेव। ननु न्याय्यस्य काणाददर्शनस्य भगवदनभिमतत्वमात्रेण कथं दुष्टत्वं शक् यते वक्तुमिति पृच्छति—अभागवतत्वेऽपीति। इदमिति। असतो भावः, सतश्चाभाव इत्येतत् काणादमतमित्यर्थः। दोषवदिति। दुष्टमेवेत्यर्थः। तत्र हेतुमाह—सर्वेति। कथं सर्वप्रमाण- विरोध इति पृच्छति—कथमिति। विरोधमेव दर्शयति—यदीत्यादिना। काणादाः प्रागभावं प्रध्वंसाभावं चाहुः कार्यस्य। घटस्योदयात् प्रागसत्त्वात् प्रागभावः, नाशादनन्तरमसत्त्वात् प्रध्वंसाभावः, मध्यकाले च सत्त्वाद् घटस्य सत्त्वं चाहुः। एवं सति प्रागसतो घटस्य भावः, मध्ये सतो घटस्य पश्चादभावश्चेत्यसतो भावः, सतश्चाभाव इत्युक्तं भवति। तत्र दोषान् दर्शयति—यदीत्यादिना। परमाणुद्रव्यस्य नित्यत्वादाह—द्व्यणुकादीति। कार्यमुत्पत्तेः प्रागनभिव्यक्तं सत् सूक्ष्मरूपेण कारणे वर्तमानं च सद् असदित्युच्यत इति मतव्यावृत्तये आह—अत्यन्तमेवासदिति। उत्पन्नं च द्रव्यं कञ्चित् कालं स्थितं सदित्यन्वयः। आपद्यते यदीत्यन्वयः। तथा च सतीति। कार्यस्यो- त्पत्तेः प्रागत्यन्तासत्त्वे नाशानन्तरं चात्यन्तासत्त्वे सतीत्यर्थः। असदेवेति। कार्यकारणयोर्मृद्घटयोः, तन्तुपटयोश्चानन्यत्वदर्शनात् कारणमेव कार्यं भवतीति कृत्वा असदेव सज्जायते। तथा घटस्य नाशानन्तरं मृद्रूपत्वदर्शनात् कार्यं कारणमेव भवतीति कृत्वा सच्चा- सज्जायते। असत् कारणं सत् कार्यमिति ह्येषामभ्युपगमः। असदेवेति वाक् यद्वयस्य स्वयमेवार्थमाह—अभाव इति। द्व्यणुकादि- रित्वमस्याप्रामाणिकमिति शङ्कते—कथमिति। भगवद्वचनमुदाहरन् परपक्षस्य तदनुगुणत्वाभावमाह—यत इति। परेषामपि मतमेतदनु- गुणमेव किं न स्यादित्याशङ्क्याह—काणादानां हीति। भगवन्मतानुगुणत्वाभावेऽपि न्यायानुगुणत्वेन दोषरहितं काणादानां मतम् उपादेयमेव, २तर्हि काणादमतविरोधादुपेक्ष्यते भगवन्मतमिति शङ्कते—अभागवतत्वेऽपीति। न्यायवत्त्वमसिद्धमिति दूषयति—उच्यत इति। सर्वप्रमाणानुसारिणो मतस्य न तद्विरोधितेत्याक्षिपति—कथमिति। वैशेषिकमतस्य सर्वप्रमाणविरोधं प्रकटयन्नादौ तन्मतमनु- वदति—यदीति। असतो जन्म, सतश्च नाश इति स्थिते फलितमाह—तथा चेति। उक्तमेव वाक् यं व्याकरोति—अभाव इति। सदेवा- सत्त्वमापद्यत इत्युक्तं व्याचष्टे—भावश्चेति। इति मतमिति शेषः। तत्रैवाभ्युपगमान्तरमाह—तत्रेति। प्रकृतं मतं सप्तम्यर्थः। इति

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

तथापि तर्कोपबृंहितत्वात् स्वीकरणीयमित्याह—अभागवतत्वेऽपीति। तर्कोपबृंहितत्वमपि अस्य नास्तीत्याह—उच्यत इत्यादिना। सर्वप्रमाणविरोधं दर्शयितुं दूष्यपरमतमनुवदति—यदि तावदिति। अनूदितस्य फलमाह—तथा च सतीति। असज्जन्मनि कर[कारण]त्रयं च तदभिप्रेतमनुवदति—तत्राभाव इति। यत्समवेतं कार्यं तत् समवायि, तत्प्रत्यासन्नम-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘अभागवतमपि’ इति पा.। २. ‘न हि काणादमतं विरोधादुपेक्षणीयमिति शङ्कते’ इति पा.।

[[९०५]]

चैवमभाव उत्पद्यते, कारणं वाऽपेक्षत इति शक् यं वक्तुम् , असतां शशविषाणादीनामदर्शनात्। भावात्मकाश्चेद् घटादयः उत्पद्यमानाः, किञ्चिद् अभिव्यक्तिमात्रकारणमपेक्ष्य उत्पद्यन्त इति शक् यं प्रतिपत्तुम्। किञ्च, असतश्च सद्भावे सतश्चासद्भावे न क्वचित् १प्रमाणप्रमेयव्यवहारे विश्वासः कस्यचित् स्यात् , ‘सत् सदेव, असदसदेव’ इति प्रागभावो द्व्यणुकादिरूपो भावो भवति, द्व्यणुकादिरूपो भावश्च द्व्यणुकादिप्रध्वंसाभावरूपाभावो भवतीत्यर्थः। द्व्यणुकादिप्रागभावाद् द्व्यणु- कादिभाव उत्पद्यते। द्व्यणुकादिभावश्च प्रध्वंसाभावं प्रपद्यत इत्यमीभिरुच्यमानत्वादिति भावः। तत्रेति। अभावो भावो भवतीत्यस्मिन्नंश इत्यर्थः। समवायिकारणं पटं प्रति तन्तुः, असमवायिकारणं तन्तु[संयोग]रूपं, निमित्तकारणं तुरीवेमादि। तदेतत् त्रिविधं कारणम- पेक्ष्याभावो भावो भवतीति चैतैरुच्यते। नन्वभावो भावो भवतु, जायमानश्चाभावः समवाय्यादिकारणत्रयमपेक्ष्य जायताम् , को दोषस्तत्राह—न चेति। अभाव उत्पद्यते भावरूपेण जायत इति, अभावः स्वोदयं प्रति कारणमपेक्षत इति च वक्तुं न शक् यमित्यर्थः। कुतो न शक् यम्? अत आह—असतामिति। अदर्शनादिति। उत्पत्तिकारणापेक्षत्वयोरदर्शनादित्यर्थः। उत्पत्तेः प्रागसतो घटस्य शश- विषाणादितुल्यत्वादिति भावः। ननूत्पत्तेः प्राग् घटस्य सत्त्वेऽपि कारणापेक्षानुपपत्तिस्तदवस्थैव, व्यर्थत्वादित्यत आह—भावात्मकाश्चेदिति। उत्पत्तेः प्रागन- भिव्यक्ततया स्थितत्वेन कार्यस्याभिव्यक्तिं प्रति कारणापेक्षा युक्तैवेत्यर्थः। तस्माद् भावात्मका एव घटादयः, कारणमपेक्ष्योत्पद्य- मानत्वात्। भावस्य ह्युत्पद्यमानत्वं कारणापेक्षत्वं चेत्युभयं सङ्गच्छत इति भावः। तस्मात् कार्यस्याभावात्मकत्वमयुक्तम् , कार्यस्य कारणात्मकत्वादभावस्य च कारणत्वायोगात्। न हि शशविषाणादिकं कस्यचित् कारणं दृष्टम्। नन्वेवमभावो भावो मा भून्नाम, भावः पुनरभावो भवत्येव, घटस्य नाशानन्तरं प्रध्वंसाभावदर्शनादिति चेत् , मैवमपि; नष्टस्यापि घटस्य कपालत्वचूर्णत्वादिलक्षणभावत्वमेव नाभावत्वमिति, उत्पत्तेः प्रागिव नाशादनन्तरमपि सूक्ष्मरूपेण स्वकारणमृद्येव घटस्य सत्त्वाभ्युपगमात्। तस्माद् भावात्मकस्य घटस्य नाभावात्मत्वप्राप्तिर्विरोधादिति भावश्चाभावो नैव भवति। दोषान्तरमाह—किं चेति। विश्वासो न स्यादित्यन्वयः। विश्वासाभावे हेतुमाह—सत्सदेवेति। यदि सदसत् स्याद् , असच्च सत् स्यात् , तर्हि सत् सदेव असदसदेवेति निश्चयासम्भव एव। ततश्च सर्वोऽपि वैदिको लौकिकश्च प्रमाणप्रमेयव्यवहारोऽविश्वसनीय एव स्यात्। यन्मानेन सद् असद्वा निर्णीतं तत् तथेति विश्वासाभावान्मानवैफल्यमित्यर्थः। अभ्युपगम्यत इति शेषः। परकीयमभ्युपगमं दूषयति—न चेति। एवमिति। परपरिभाषानुसारेणेत्यर्थः। अदर्शनाद् उत्पत्तेरपेक्षायाश्चेति शेषः। कथं तर्हि त्वन्मतेऽपि घटादीनां कारणापेक्षाणामुत्पत्तिः, न हि भावानां कारणापेक्षोत्पत्तिर्वा युक्तेति, तत्राह— भावेति। घटादीनाम् अस्मत्पक्षे प्रागपि कारणात्मना सतामेवाव्यक्तनामरूपाणाम् अभिव्यक्तिसामग्रीमपेक्ष्य पृथगभिव्यक्तिसम्भवान्न किञ्चिदवद्यमित्यर्थः। असत्कार्यवादे दोषान्तरमाह—किञ्चेति। परमते मानमेयव्यवहारे क्वचिदपि विश्वासो न कस्यचिदित्यत्र हेतुमाह—सत्सदेवेति। न हि सत् तथैवेति निश्चितम् , तस्यैव पुनरसत्त्वप्राप्तेरिष्टत्वात्। न चासत् तथैवेति निश्चयः, तस्यैव सत्त्वप्राप्तेरुपगमात्। अतो यन्मानेन सद् असद्वा निर्णीतं, तत् तथेति विश्वासाभावान्मानवैफल्यमित्यर्थः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

समवायि, ताभ्यामन्यत् कार्योपयोगि निमित्तम् - एतत् कारणत्रयमपेक्ष्यासत् कार्यं जायत इत्यर्थः। एवं परमतमनूद्य दोषमाह— न चैवमभाव इत्यादिना। विमतं न जन्मार्हकारणापेक्षम् , असत्त्वान्नरविषाणवदित्यर्थः। नन्वसतो जन्म न सम्भवतीति वदता सतो जन्माभ्युपगन्तव्यम्। तदपि न सम्भवतीत्याशङ्क्याह—भावात्मकाश्चेदिति। सज्जन्मपक्षे दोषान्तरमाह—किञ्चेत्यादिना। सतोऽपि चेन्नाशः आत्मनोऽपि स्यात्। असतश्चेज्जन्म, वन्ध्यापुत्रस्यापि स्यादिति १. ‘प्रमाणप्रमेयव्यवहारेषु’ इति पा.।

[[अ. १८. श्लो. ४८]] [[९०६]]

निश्चयानुपपत्तेः। किञ्च, ‘उत्पद्यते’ इति द्व्यणुकादेर्द्रव्यस्य स्वकारणसत्तासम्बन्धमाहुः। प्रागुत्पत्तेश्च असत् पश्चात् स्वकारण- व्यापारमपेक्ष्य स्वकारणैः परमाणुभिः, सत्तया च समवायलक्षणेन सम्बन्धेन सम्बध्यते। सम्बद्धं सत् कारणसमवेतं सद् भवति। तत्र वक्तव्यम् – कथमसतः १सत् कारणं भवेत् , सम्बन्धो वा केनचित् स्यात्? न हि वन्ध्यापुत्रस्य २सता सम्बन्धो वा कारणं वा केनचित् प्रमाणतः कल्पयितुं ३शक् यते। ननु नैवं वैशेषिकैरभावस्य सम्बन्धः कल्प्यते। द्व्यणुकादीनां हि द्रव्याणां स्वकारणेन समवायलक्षणः सम्बन्धः सतामेवोच्यत इति? न ; सम्बन्धात्प्राक् सत्त्वानभ्युपगमात्। न हि वैशेषिकैः कुलालदण्डचक्रादिव्यापारात्प्राग् दोषान्तरं दर्शयितुं तन्मतमनुवदति—किं चेति। उत्पद्यत इति। द्व्यणुकादिद्रव्यं कर्तृ। संग्रहवाक् यमेव विवृणोति—प्रागिति। उत्पत्तेः प्रागसद् द्व्यणुकादिरूपं द्रव्यं परमाणुभिः सत्तया च समवायसम्बन्धेन सम्बध्यत इत्यन्वयः। तत्र हेतुमाह—कारकव्यापारम् अपेक्ष्येति। स्वकारकव्यापारवशादित्यर्थः। एवं सम्बद्धं सत् तद् द्व्यणुकादिद्रव्यं सम्भवती[सद् भवती]त्याह—सम्बद्धमिति। कारण- सम्बन्धे सति कार्यस्य सत्तासम्बन्धो भवतीत्यर्थः। तदेव स्फुटयति—कारणेति। द्व्यणुकादिद्रव्यमित्येव कर्तृ, कारणसमवेतम् , अत एव सद् भवतीत्यन्वयः। उत्पत्तेः प्रागत्यन्तमसतोऽपि द्व्यणुकादिद्रव्यस्य परमाणुभिः सह समवायाद् द्रव्यलाभः, परमाणुनिष्ठसत्तया सह समवायात् सत्त्वलाभश्च भवतीति भावः। एवं तन्मतमनूद्य निराकरोति—तत्र चेत्यादिना। वक्तव्यं प्रष्टव्यमित्यर्थः। स्वमिति। स्वस्वप्रतिनियतं मृदादिकमित्यर्थः। उत्पत्तेः प्रागसतो घटस्य मृदादिकं कथं कारणं स्यात्? कथं वा तस्य केनचित् सम्बन्धः स्यादित्यर्थः। कुतो न स्याद्? अत आह—न हीति। स्वमिति। पित्रादिरूपमित्यर्थः। ननु सतोरेव कार्यकारणयोः पटतन्त्वोर्घटमृत्तिकयोश्च समवायं ब्रूमो वयम् , न त्वभावभावयोरिति शङ्कते— नन्विति। सतां इतश्चासत्कार्यवादो न युक्तिमानित्याह—किञ्चेति। तदेव हेत्वन्तरं स्फोरयितुं परमतमनुवदति—उत्पद्यत इतीति। परकीयं वचनमेव व्याचष्टे—प्रागिति। सम्बद्धं सदित्यनेन कारणसम्बन्धे सति कार्यस्य सत्तासम्बन्धो भवतीत्युक्तम् , तदेव स्फुटयति—कारणेति। परमतमेवमनुभाष्य दूषयति—तत्रेति। कार्यस्यासतोऽपि कारणं सम्भवति, तस्य च कार्येण सम्बन्धः सिध्यतीत्याशङ्क्याह—न हीति। असत्त्वादेवासतः सम्बन्धाभावे कारणस्य सतोऽपि न तेन सम्बन्धोऽनुमातुं शक्यते, सदसतोः सम्बन्धासम्भवादित्यर्थः। कार्यस्यात्यन्तासत्त्वानभ्युपगमात् कारणसम्बन्धः स्यादिति शङ्कते—नन्विति। सतामेव द्व्यणुकादीनां कारणसम्बन्धं शङ्कितं दूषयति— न, सम्बन्धादिति। अनभ्युपगममेव विशदयति—न हीति। सदेव कारणं कार्याकारमापद्य कार्यव्यवहारं निर्वहतीत्यभ्युपगमाद्

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘स्वं’ इति पा.। २. ‘स्वं कारणं सम्बन्धो वा’ इति पा.। ३. ‘शक् यम्’ इति पा.। अनाश्वासप्रसङ्ग इत्यर्थः। किंच प्रागसतः सत्तासम्बन्धः, कारणसम्बन्धो वा जन्मेति जन्मलक्षणम्। तत्पर्यालोचनयाऽप्यसज्जन्म न सम्भव- तीत्याह—किञ्चोत्पद्यत इति। सम्बन्धस्य सम्बन्धिद्वयपरतन्त्रत्वात् सम्बन्ध्यभावे न संभव इत्यर्थः। सम्बन्ध्यभावात् सम्बन्धो न सम्भवतीत्युक्तम्। तदेवाक्षेपसमाधानाभ्यां स्पष्टयति—ननु नैवमित्यादिना।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[९०७]]

घटादीनामस्तित्वमिष्यते। न च मृद एव घटाद्याकारप्राप्तिमिच्छन्ति। ततश्चासत एव सम्बन्धः पारिशेष्यादिष्टो भवति। नन्वसतोऽपि समवायलक्षणः सम्बन्धो न विरुद्धः। न ; १वन्ध्यापुत्रादीनामदर्शनात्। घटादेरेव प्रागभावस्य स्वकारण- सम्बन्धो भवति, न वन्ध्यापुत्रादेः, अभावस्य तुल्यत्वेऽपीति विशेषोऽभावस्य वक्तव्यः। एकस्याभावो द्वयोरभावः सर्वस्याभावः प्रागभावः प्रध्वंसाभाव इतरेतराभावोऽत्यन्ताभाव इति लक्षणतो न केनचिद् विशेषो दर्शयितुं शक्यः। द्रव्याणामिति सम्बन्धः। परिहरति—नेति। हेतुमाह—सम्बन्धादिति। परमाणुसत्तासम्बन्धात्प्राग् द्व्यणुकादिद्रव्यस्य सत्तानभ्युपगमा- दित्यर्थः। तदेव स्फुटयति—न हीति। उत्पत्तेः प्राग् घटादिकार्यस्यासत्त्ववादिनो हि वैशेषिकाः कुलालादिव्यापारात्प्राग् घटादिकार्यम् असदित्यभ्युपगच्छन्ति। कुलालादिकारकव्यापारमपेक्ष्य हि परमाणुसत्तासम्बन्धो घटस्य। तस्माद् द्व्यणुकादीनाम् सतामेव स्वकारणेन समवायसम्बन्ध इति वक्तुं न शक् यते। अयं भावः—किमुत्पन्नस्य सत एव द्रव्यस्य स्वकारणेन सत्तया च सह समवायसम्बन्ध इति ब्रूषे, उतानुपन्नस्यासतः? नाद्यः; कारणसत्तासमवेतं सदेव कार्यं जायत इति कार्यजन्मानन्तरं कार्यकारणसमवायकल्पनस्यायुक्तत्वात्। यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणमिति हि त्वया लक्षितम्। न हि मृदसमवेतः सन्नुत्पद्यमानो घटो दृष्टः, येनोत्पत्त्यनन्तरं घटस्य मृत्समवायः स्यात्। द्वितीये त्वभावस्य केनचित् सम्बन्धः कल्पित एवेति। ननूत्पत्तेः प्राग् घटो मृद्रूपेण वर्तत एवेति सत एव घटस्य मृदा सह समवायसम्बन्ध इत्यत आह—न चेति। वैशेषिका इति शेषः। नेच्छन्तीत्यन्वयः। तथाऽभ्युपगमे असत्कार्यवादभङ्गप्रसङ्गादिति भावः। सत्कार्यवादो हि सः। ततश्चेति। सम्बन्धात्प्राक् कार्यस्य सत्ताया अनभ्युपगमादित्यर्थः। पारिशेष्यादिति। पर्यवसानादित्यर्थः। सत्कार्यवादानभ्युपगमादिति वा। ननूत्पत्तेः प्रागसतोऽपि घटस्य स्वकारणेन सह समवायसम्बन्धो न विरुध्यत इत्याक्षिपति—नन्विति। परिहरति—नेति। हेतुमाह—वन्ध्येति। आदिपदाच्छशविषाणादिग्रहणम्। नन्वभावस्य तुल्यत्वेऽपि घटादिप्रागभावलक्षणाभावस्यैव परमाण्वादिकारण- सम्बन्धः, न तु वन्ध्यापुत्रशशविषाणादिलक्षणाभावस्येत्याह वैशेषिकः—घटादेरेवेति। तत्र विशेषहेतुं पृच्छत्यद्वैती—विशेष इति। तर्ह्यभावस्य विशेषो वक्तव्यः। ननु घटादिप्रागभावस्य सप्रतियोगिकत्वम् , वन्ध्यापुत्रादेर्नैवमित्यस्ति विशेष इत्याशङ्क्य दूषयति— एकस्येति। एकद्विसर्वादिप्रतियोगिवशादेवाभावस्य भेदः, न तु स्वरूपत इति कृत्वा वन्ध्यापुत्राद्यभावोऽपि सप्रतियोगिक एवेति न विशेष नास्ति सम्बन्धानुपपत्तिरित्याशङ्क्य , अपराद्धान्तान्मैवमित्याह—न चेति। कार्यस्य कारणसम्बन्धात्पूर्वं सत्त्वाभावे परिशेषसिद्धमर्थं दर्शयति—ततश्चेति। तत्र चानुपपत्तिरुक्तेति शेषः। सम्बन्धिनोः ३सदसतोः असंयोगेऽपि, समवायः सदसतोः सम्भवेदिति तस्य नित्यत्वाद् अन्यतरसम्बन्धा[न्ध्य]भावेऽपि स्थितेरावश्यकत्वादिति शङ्कते—नन्विति। सदसतोर्मिथः सम्बन्धस्यादृष्टत्वान्नेति निराचष्टे— न, वन्ध्येति। घटादिप्रागभावस्यात्यन्ताभावत्वाभावाद् वन्ध्यापुत्रादिविलक्षणतया स्वकारणसम्बन्धः सिध्यतीत्याशङ्क्याह—घटादेरिति। उभयत्राभावस्वभावाविशेषेऽपि कस्यचित् कारणसम्बन्धो, नेतरस्येति विशेषे हेत्वभावान्न प्रागभावस्य कारणसम्बन्धः सम्भवतीत्यर्थः। घटादिप्रागभावस्य सप्रतियोगिकत्वम् , वन्ध्यापुत्रादेर्नैवमिति विशेषमाशङ्क्य दूषयति—एकस्येति। प्रागभावस्येव प्रध्वंसाभावादेरपि

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

ननु वन्ध्यापुत्रात् सकाशात् [अ]सतः कार्यस्य वैलक्षण्याद् घटते समवाय इत्याशङ्क्याह—घटादेरेव प्रागभावस्येति। प्रतियोगिभेदमन्तरेण सत्त्वमात्रे न कोऽपि भेद उपलभ्यते। २प्राक्त्वादि विशेषणं च परस्पराश्रयग्रस्तम्— असतो जन्मसिद्धौ तदवच्छिन्नप्राक्त्वादिविशेषणसिद्धिः। तत्सिद्धौ च वन्ध्यापुत्रवैलक्षण्येन तज्जन्मसिद्धिरिति भावः। किञ्च प्रागुत्पत्तेः घटासत्त्वं १. वन्ध्यापुत्रादीनामसतां केनचित् संबन्धादर्शनादित्यर्थः। २. कार्यस्य उत्पत्तेः प्राक् यः अभावः स हि तत्प्रागभावः। उत्पत्तिसिद्धौ च तद्विशेषितप्रागभाव- सिद्धिः। तत्प्रागभावसिद्धौ चासद्वैलक्षण्याद् उत्पत्तिसिद्धिः इति परस्पराश्रयम्। ३. ‘सदसतोरेवासंयोगेऽपि’ इति पा.।

[[अ. १८. श्लो. ४८]] [[९०८]]

असति च विशेषे घटस्य प्रागभाव एव कुलालादिभिः घटभावमापद्यते, सम्बध्यते च भावेन कपालाख्येन स्वकारणेन, १सर्वव्यवहारयोग्यश्च भवति, न तु घटस्यैव प्रध्वंसाभावः अभावत्वे सत्यपीति; प्रध्वंसाद्यभावानां न क्वचिद् व्यवहार- योग्यत्वम् , प्रागभावस्यैव द्व्यणुकादिद्रव्याख्यस्य उत्पत्त्यादिव्यवहारार्हत्वम् इत्येतदसमञ्जसम् अभावत्वाविशेषाद् अत्यन्तप्रध्वंसाभावयोरिव। ननु नैवास्माभिः प्रागभावस्य भावापत्तिरुच्यते। भावस्यैव (हि) तर्हि भावापत्तिः, यथा घटस्य घटापत्तिः, पटस्य वा पटापत्तिः। एतदप्यभावस्य भावापत्तिवदेव प्रमाणविरुद्धम्। इति भावः। ननु माभूल्लक्षणतो भेदः, किं ततः? अत आह—असति चेति। घटस्य प्रागभाव एव कुलालादिभिर्घटभावमापद्यते, भावेन कपालाख्येन स्वकारणेन सम्बध्यते, तेन सम्बद्धश्च सर्वव्यवहारयोग्यो भवति। एवकारार्थमाह—३नन्विति[न त्विति]। घटस्यैव प्रध्वंसा- भावः कुलालादिभिर्घटभावं नापद्यते, भावेन न सम्बध्यते, व्यवहारयोग्यश्च न भवति। अभावत्वे सत्यपीति। प्रध्वंसाभावस्य उत्पत्त्या- दिव्यवहारानर्हत्वम् , प्रागभावस्यैव तदर्हत्वम् इत्येतद् वचनम् असमञ्जसम् अयुक्तम्। कस्मादसमञ्जसम्? अत आह—अभावत्वा- विशेषादिति। दृष्टान्तमाह—अत्यन्तेति। अत्यन्ताभावप्रध्वंसाभावयोः अभावत्वाविशेषाद् यथा न क्वचिद् व्यवहारयोग्यत्वम् , तथा प्रागभावस्यापीति। तस्माद् अत्यन्ताभावप्रध्वंसाभाववत् प्रागभावस्यापि परमाण्वादिकारणसम्बन्धकल्पनम् उत्पत्त्यादिव्यवहारार्हत्व- कल्पनं चायुक्तमेव। प्रागभावो नोत्पत्त्यादिव्यवहारार्हः, अभावत्वात् , प्रध्वंसाभाववदत्यन्ताभाववच्चेति प्रयोगादिति भावः। तस्माच्छुद्धे शक्तिमति द्रव्ये आत्मन्यविद्यमाना क्रियोत्पद्यत इति, यदा करोति, [तदा सक्रियं वस्तु ; यदा न करोति,] तदा निष्क्रियं च वस्त्विति तृतीयः पक्षोऽपि काणादाभिमतो दुष्ट एव। एवमसत्कार्यवादे दूषिते सति लब्धावकाशःसन् सत्कार्यवादी प्रत्यागत्य, भवतु वैशेषिकैस्तैरभिमतोऽसत्कार्यवादो दुष्टः, अस्माभिस्तु सत्कार्यवादोऽभ्युपगतः, स च नैव दुष्ट इति चोदयति—नन्विति। अस्माभिः सत्कार्यवादिभिः प्रागभावस्य भावापत्ति- र्नैवोच्यते, किं तर्हि भावस्यैव भावापत्तिरुच्यते। तत्रोदाहरणमाह—यथा घटस्येति। स्वकारणे मृदि वर्तमानस्य घटस्यैव घटभावापत्ति- रित्यर्थः। कार्यमुत्पत्तेः प्रागप्यस्तीति हि सत्कार्यवाद इति भावः। दूषयति—एतदपीति। भावस्य भावापत्तिरिति मतमपीत्यर्थः। प्रमाणविरुद्धमिति। यदि घट उत्पत्तेः प्रागप्यस्ति, तर्हि कुलालादिकारकव्यापारवैयर्थ्यम् , पिण्डावस्थायामपि घटदर्शनप्रसङ्गः। किञ्च सप्रतियोगिकत्वाविशेषे स्वकारणेन सम्बन्धाविशेषः स्यादित्यर्थः। प्रागभावप्रध्वंसाभावयोर्विशेषाभावे फलितमाह—असति चेति। कपालशब्दो घटकारणीभूतमृदवयवविषयः। सर्वो व्यवहारो घटाश्रितो जन्मनाशादिव्यवहारः। प्रध्वंसाभावस्तु घटस्यैवाभावत्वे सत्यपि न घटत्वमापद्यते, नापि कारणेन सम्बध्यते, न चोत्पत्त्यादिव्यवहारयोग्यो भवतीत्येतदयुक्तम् , प्रागभावेनास्य विशेषाभावादित्याह—न त्विति। असमञ्जसमित्यनेन इतिशब्दः सम्बध्यते। असमञ्जसान्तरमाह—प्रध्वंसादीति। अन्योन्याभावात्यन्ताभावावादिपदार्थौ। क्वचि- दिति देशकालयोर्ग्रहणम्। व्यवहारो जन्मादिरेव। प्रागभावो नोत्पत्त्यादिव्यवहारयोग्यः, अभावत्वात् , प्रध्वंसादिवदित्यर्थः। प्राग- भावस्य घटभावानभ्युपगमादनुमानं सिद्धसाधनमिति शङ्कते—नन्विति। अभावस्य भावापत्त्यनभ्युपगमे भावस्यैव भावापत्तिरित्यनिष्टं स्यादिति दूषयति—भावस्यैवेति। तस्य तदापत्तेरयोग्यत्वे दृष्टान्तमाह—यथेति। २भावस्य भावापत्तिरनिष्टेति दार्ष्टान्तिकं स्पष्टयति— एतदपीति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

न सत्त्वापत्त्यादिव्यवहारार्हं , घटासत्त्वाद् , विनष्टघटासत्त्ववदित्याह—असति च विशेष इत्यादिना। सिद्धसाधनत्वमाशङ्क्य परिहरति— ननु नैवमस्माभिरित्यादिना।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘संबद्धश्च सर्वव्यवहार’ इति पा.। २. ‘अभावस्य भावापत्तिः’ इति पा.। ३. अत्र मुद्रिते रा.पुस्तके भाष्येऽपि ‘ननु घटस्यैव’ इत्यादिः पाठो दृश्यते। स प्रामादिको वा स्यात् , न नु इति पृथक्कृत्य योजनीयो वा स्यात्। अस्माभिस्तु व्याख्याने लेखकप्रमादं संभाव्य कोष्ठके स्पष्टतायै ‘न त्विति’ इति पाठः स्थापितः।

[[९०९]]

सांख्यस्यापि यः परिणामपक्षः, सोऽपि अपूर्वधर्मोत्पत्तिविनाशाङ्गीकरणाद् वैशेषिकपक्षाद् न विशिष्यते। अभिव्यक्तितिरोभावाङ्गीकरणेऽप्यभिव्यक्तितिरोभावयोः विद्यमानत्वाविद्यमानत्वनिरूपणे पूर्ववदेव प्रमाणविरोधः। घटभावापत्तेः प्रागेव घटस्य सतो द्रव्यस्य पुनर्घटभावापत्तिरित्ययुक्तम्। घटभावापत्तेः प्रागपि घटो वर्तत इति चायुक्तम् , घटभावा- पत्तेः प्राग् द्रव्यस्य घटस्यैवाभावादिति। न च – घट उत्पत्तेः प्राक् मृद्रूपेण वर्तत इति सत्कार्यवादसिद्धिरिति – वाच्यम् ; उत्पत्तेः प्राग् घटस्यैवानिष्पत्त्या कुतः पुनस्तस्य मृद्रूपेणावस्थानम्? यं मृद्रूपेण वर्तत इति त्वं ब्रूषे, न हि स घट उत्पत्तेः प्राक् सिद्धः। तस्माद् घटोत्पत्तेः प्राक् मृदेवास्ति, न तु मृद्रूपेण घटः इति प्रमाणविरुद्ध एव सत्कार्यवादः। नन्वेवं सत्कार्यवाददूषणात् किं ते फलमिति चेद्? उच्यते— उत्पत्तेः प्रागप्यात्मवस्तुनि क्रियाऽस्तीति सत्क्रियस्यात्मनः कर्मणामशेषतस्त्यागासम्भव इत्येवंरूपसत्कार्यवादिहृदयस्य निर्भेदनमेव फलम्। एवं सत्कार्यवादे आरम्भवादं दूषयित्वा परिणामवादं दूषयति—साङ्ख्यस्येति। मृदेव कारकव्यापारवशाद् घटात्मना परिणमत इति साङ्ख्याः। नास्मिन् मते आरम्भवादवत् कारकव्यापारनैरर्थक् यम् , नाप्यसत्कार्यवादवदसतः सद्भावापत्तिरूपो विरोध इति भावः। दूषयति—सोऽपीति। परिणामपक्षोऽपि वैशेषिकपक्षान्न विशिष्यते। कुतः? अपूर्वधर्मोत्पत्तितन्नाशाङ्गीकरणात्। अपूर्वधर्मो मृदो घटाद्या- कारेण परिणामः पूर्वमविद्यमानः। तस्योदयनाशयोरङ्गीकाराद् असतः सत्ता सतश्चासत्तेति दोषद्वयं प्राप्तमिति भावः। ननु कार्यं कारणात्मना प्रागपि सदेवाव्यक्तं कारकव्यापारेणाभिव्यज्यत इत्यत्राह—अभिव्यक्तीति। अयं भावः—उत्पत्तेः प्रागपि घटः सूक्ष्मरूपेणानभिव्यक्तनामरूपतया मृद्यस्त्येव। अनभिव्यक्तत्वादेव तदा तस्यादर्शनम्। तदभिव्यक्त्यर्थं च कारकव्यापारः इति यदि ब्रूषे, तर्हि कारकव्यापारवशात् सूक्ष्मेऽनभिव्यक्ते घटे जायमानोऽभिव्यक्तिरूपः स धर्मः किमुत्पत्तेः प्रागस्ति, उत नास्ति? आद्ये, उत्पत्तेः प्रागेव सतः पुनरुत्पत्त्ययोगः। द्वितीये तु , असत्कार्यवादप्रसङ्गः। न च सोऽप्यभि- व्यक्तिरूपधर्म उत्पत्तेः प्राक् सूक्ष्मरूपेणानभिव्यक्तःसन्नस्तीति वाच्यम् ; अनवस्थादिदोषप्रसङ्गात्। एवं तिरोभावेऽप्यूह्यमिति। ननु वैशेषिकपक्षादेव न विशिष्यत इति कुत उक्तम् , सत्कार्यवादपक्षादपि न विशिष्यत इति वक्तव्यत्वादिति चेत् , मैवम् , सत्कार्यवादस्यापि वैशेषिकैकदेश्यभिमतत्वात्। अत एवोक्तम्— ननु नैवास्माभिरिति। ननु न वयमपूर्वाभिव्यक्तिधर्मोत्पत्तिं ब्रूमः येनोक्तदोषः स्यात्। किं तर्ह्यनभिव्यक्तितिरोभावं ब्रूम इति चेत् , मैवम् , अभिव्यक्ते घटे जायमानः सोऽप्यनभिव्यक्तितिरोभावः किमुत्पत्तेः प्रागस्ति, उत नास्ति? आद्ये, उत्पत्तिवैयर्थ्यम्। द्वितीये तु , असत्कार्यवादप्रसङ्गः। न च – अनभिव्यक्तितिरोभावस्योत्पत्तेः प्रागसत्त्वेऽपि नासतः सद्भावापत्तिरूपदोषप्रसङ्गः, कार्यकारणावस्थाद्वयेऽप्यसत्त्वादिति – वाच्यम् ; अवस्थाद्वयेऽप्यसतोऽनभिव्यक्ति- आरम्भवादोक्तं दोषं परिणामवादेऽपि सञ्चारयति—सांख्यस्येति। धर्मः परिणामः। असतोऽपूर्वपरिणामस्योत्पत्तेः, सतश्च पूर्व- परिणामस्य नाशाद् ‘असदसदेव सच्च सदेव’ इति व्यवस्थाऽत्रापि दुर्घटेत्यर्थः। ननु कार्यं कारणात्मना प्रागपि सदेवाव्यक्तं कारकव्यापा- राद् व्यज्यते, तेन व्यक्त्यव्यक्त्योर्जन्मनाशव्यवहारान्मतान्तराद् विशेषसिद्धिः, तत्राह—अभिव्यक्तीति। कारकव्यापारात्प्रागनभिव्यक्तिवद् अभिव्यक्तेः सत्त्वम् , असत्त्वं वा? सत्त्वे कारकव्यापारवैयर्थ्यात् तद्विषयप्रमाणविरोधः, द्वितीये पक्षान्तरवदत्यन्तासतः तन्निर्वर्त्यत्वायोगे स एव दोषः। कारकव्यापारादूर्ध्वं व्यक्तिवदव्यक्तेरपि सत्त्वे स एव दोषः, असत्त्वेऽपि सतोऽसत्त्वानङ्गीकारान्मानमेयव्यवहारे न क्वापि

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

वैशेषिकपक्षोक्तं दोषं साङ्ख्यपक्षेऽप्यतिदिशति—सांख्यस्यापीति। पृथुबुध्नोदराकारस्यासत एवोत्पत्तिः, पिण्डाकारस्य च सत एव नाश इत्यङ्गीकरणात् पूर्ववत् प्रमाणविरोध इत्यर्थः। ननु अपूर्वधर्मस्यासतः उत्पत्तिर्नाङ्गीक्रियते, किन्तु सत एवा- भिव्यक्तिः। पूर्वरूप(पूर्व)स्यापि सत एव [न] नाशः। किन्तु तिरोधानभावमात्रमित्याशङ्क्याह—[अभिव्यक्तीति।]अभि-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. १८. श्लो. ४८]] [[९१०]]

तिरोभावस्य शशविषाणकल्पस्य सत्ताङ्गीकारे सर्वप्रमाणविरोधात् , तदनङ्गीकारेऽनभिव्यक्तितिरोभावस्यैवासिद्धेः। ननु उदासीनपुरुषवादिनः साङ्ख्यस्य मतं निष्क्रियात्मवादिनः स्वस्योपयुक्तमेवेति कुतस्तत्खण्डनमिति चेद्? उच्यते— साङ्ख्याभिमतपरिणामपक्षाभ्युपगमे त्वात्मन्यनभिव्यक्ततया सूक्ष्मरूपेण वर्तमाना क्रिया कालादिवशादभिव्यज्यत इति सक्रियत्वमापद्ये- तात्मनः; ततश्च सर्वकर्मत्यागानुपपत्तिरिति। ननूत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः। तन्तुप्रभृतीनि हि सन्त्येव द्रव्याणि रचनाविशेषयुक्तानि पटादीन्युच्यन्ते। तत्र पूर्वावस्थस्य द्रव्यस्योत्तरावस्थाप्राप्तिर्विनाश[स्त]स्यैव तदवस्थस्योत्पत्तिरिति द्वैतिनो विशिष्टाद्वैतिनश्च ब्रुवन्ति; तन्मतस्य का गतिः? अत आह—एतेनेति। संस्थानम् अवस्थाविशेषः, आकारविशेष इति यावत्। उत्पत्त्या- दीत्यादिपदान्नाशग्रहणम्। प्रत्युक्तमिति। किं पिण्डावस्थस्य मृद्द्रव्यस्य जायमाना घटावस्था प्रागुत्पत्तेरस्ति, उत नास्ति? आद्ये, सत्कार्यवादप्रोक्तकारकव्यापारवैयर्थ्यादिदोषप्रसङ्गः। द्वितीये तु , असत्कार्यवादप्रसङ्गः। तथा घटावस्थस्य मृद्द्रव्यस्य जायमानः कपालावस्थाप्राप्तिपूर्वको घटावस्थानाशः किमुत्पत्तेः प्रागस्ति, उत नास्ति? आद्ये, सत्कार्यवाददोषप्रसङ्गः। द्वितीये तु , असत्कार्यवाद- प्रसङ्ग इति भावः। अयमपि पक्षः साङ्ख्यपक्षवद् वैशेषिकपक्षान्न विशिष्यते, घटादिसंस्थानविशेषोत्पत्तितन्नाशयोर्विद्यमानत्वाविद्य- मानत्वनिरूपणे पूर्ववदेव प्रमाणविरोधात्। ततश्च सत्कार्यवादोऽसत्कार्यवादश्चेति पक्षद्वयमेव व्यवस्थितम् , सर्वेषां पक्षाणां तत्रैवान्त- र्भावात्। अस्मिंश्च पक्षद्वये दूषिते सति परिशेषन्यायात् कार्यं मिथ्येति पक्षस्तृतीयो निर्दुष्टः सिद्ध इत्याह—पारिशेष्यादिति। नटवदिति। यथा नट एक एव धर्मार्जुनकृष्णरामादिवेषैरनेकधा विकल्प्यते, तद्वदित्यर्थः। अयं भावः— सच्चिदानन्दे ब्रह्मणि प्रतीयमानमिदं जगद् उत्पत्तेः प्राक् सदिति असदिति वा वक्तुमशक् यमेव। सदसद- निर्वाच्यत्वादेव जगन्मिथ्या। न चोत्पत्त्यनन्तरं जगदिदं सदिति निर्वाच्यमेवेति वाच्यम् ; तदाऽपि मृद्व्यतिरेकेण घटस्येव कारणब्रह्म- व्यतिरेकेण जगतोऽभावान्मिथ्यात्वमेव। यथा रज्जुव्यतिरेकेणासतः सर्पाभासस्य मिथ्यात्वं सम्प्रतिपन्नम् , तद्वत्। एवं जगन्नाशोऽपि सदसदनिर्वाच्यः। ततश्च जगन्मिथ्या, तदुदयनाशौ च मिथ्या, तदुभयपूर्वकवृद्ध्यादिविकाराः अपि मिथ्या। जगतो वृद्धिः किमुत्पत्तेः प्रागस्ति, उत नास्ति? आद्ये, सत्कार्यवादप्रसङ्गः। द्वितीये त्वसत्कार्यवादप्रसङ्ग इति वृद्ध्यादीनामपि मिथ्यात्वात्। इमे च जगदुदय- विनाशादयो मिथ्याकार्यभूता धर्मा आत्मन्यविद्यया कल्पिताः सद्रूपे ब्रह्मणि, नटे रामादिवेषा इव, रज्जौ सर्पदण्डाद्याकारा इव च। तस्मादात्मनि प्रतीयमानं सर्वमपि कार्य(धर्म)जातं मिथ्यैव। आत्मैक एव सत्यः, सद्रूपत्वात् , ‘सदेव सत्य’मिति श्रुतेश्चेति भावः। न च – ब्रह्मापि किमुत्पत्तेः प्रागस्ति, उत नास्ति? उभयथा च दोषो दर्शित एवेति मिथ्यैवेति – वाच्यम् ; अकार्यत्वाद् ब्रह्मण उत्पत्त्याद्य- एतेन कारणस्यैव संस्थानमुत्पत्त्यादीत्येतदपि प्रत्युक्तम्। पारिशेष्यात् सदेकमेव वस्तु अविद्ययोत्पत्तिविनाशादिधर्मैः नटवदनेकधा विकल्प्यत इतीदं भागवतं मतमुक्तं ‘नासतो विद्यते भावः’ (भ.गी.२.१६) इत्यस्मिञ्श्लोके— विश्वासः, सत् सदेव असदसदेवेत्यनिर्धारणादित्यर्थः। सांख्यपक्षप्रतिक्षेपन्यायेन पक्षान्तरमपि प्रतिक्षिप्तमित्याह—एतेनेति। कारणस्यैव कार्यरूपापत्तिरुत्पत्तिः, तस्यैव तद्रूपत्यागेन स्वरूपापत्तिर्नाशः इत्येतदपि न, पूर्वरूपे स्थिते नष्टे च परस्य पररूपापत्तेरनुपपत्तेः। न च प्राप्तं रूपं स्थितेन नष्टेन वा त्यक्तुं शक्यमित्यर्थः। १आरम्भवादे परिणामवादेषु चोत्पत्त्यादिव्यवहारानुपपत्तौ परिशेषायातं दर्शयति— पारिशेष्यादिति। एकस्यानेकविधविकल्पानुपपत्तिमाशङ्क्याह—अविद्ययेति। अस्यापि मतस्य भगवन्मतानुरोधित्वाभावाद् अविशिष्टा त्याज्यतेत्याशङ्क्याह— इतीदमिति। उक्तमेव भगवन्मतं विशदयति—सत्प्रत्ययस्येति। सदेकमेव वस्तु स्यादिति शेषः। इतरेषां

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. आरम्भवादः वैशेषिकस्य, परिणामवादः सांख्यादेः। व्यक्तितिरोभावयोरपि सत्त्वे [सत्त्वेऽसत्त्वे वा न जन्म,] नरविषाणवदित्यर्थः।(?)…..एकदेशिमते व्यप[ऽप्यति]दिशति— एतेनेति। संस्थानस्यापि सत्त्वेऽसत्त्वे वा न जन्मेत्यर्थः॥४८॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[९११]]

भावात्। नित्यो हि निर्विकार आत्मा। न च सविकार इति वाच्यम् ; सविकारत्वे सति त आत्मविकाराः केनचिद् ग्रहीतव्याः स्युः। न चेष्टापत्तिः, स्वेन स्वविकाराणामग्राह्यत्वाद् नात्मग्राह्यत्वमात्मविकाराणाम्। नाप्यनात्मग्राह्यत्वम् , अनात्मनां जडत्वात्। न ह्यसाक्षिका आत्मविकारा अभ्युपगन्तव्याः। तस्मान्निर्विकारः सद्रूप एवात्मेति स एव सत्यः, अन्यत् सर्वं जगन्मिथ्यैव। श्रुतयोऽपि— ‘तत्सत्यं स आत्मा तत्त्वमसि, यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य’मित्याद्याः अमुमेवार्थं ब्रुवन्ति। स्मृतयश्च— ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्या- दयः। कारणमेव सत्यं, कार्यं मिथ्यैवेति ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य’मित्युपपत्तिमपि सदृष्टान्तं बोधयति श्रुतिः। ब्रह्मणः कारणत्वं, जगतः कार्यत्वं च ‘यतो वा इमानि भूतानि जायन्ते’, ‘आत्मन आकाशः सम्भूतः’ इत्यादिश्रुतयो दर्शयन्ति। ‘अहं सर्वस्य प्रभवः’ इत्यादिस्मृतयश्च। तस्मात् कारणं ब्रह्मैकमेव सत् सत्यं, कार्यं जगन्मिथ्यैवेतीदं भागवतं श्रीकृष्णाभिमतम् अद्वैतं मतम्। नन्वयमर्थः क्वोक्तः कृष्णेनेत्यत आह—नासत इति। किमुक्तम्? अत आह—सत्प्रत्ययस्येति। घटःसन् पटःसन् इत्येवं सर्वत्रानुगत- तया सत्प्रत्ययो न व्यभिचरति। घटादिप्रत्ययस्तु पटाद्यननुगतत्वाद् व्यभिचरति। यद्विषयः प्रत्ययो व्यभिचरति, तन्मिथ्या, यद्विषयः प्रत्ययो न व्यभिचरति, तत् सत्यम्। यथा सर्पाभासविषयप्रत्ययो व्यभिचरतीति सर्पाभासो मिथ्या, रज्जुविषयप्रत्ययो न व्यभिचरतीति रज्जुः सत्या, तथा सद्बुद्धेरव्यभिचारात् सद्ब्रह्म सत्यम् , जगद्बुद्धेर्व्यभिचाराद् जगन्मिथ्येति भावः। ननु भवत्वेवं जगदुदयादिधर्माणां मिथ्यात्वादविक्रियत्वमात्मनः सत्यत्वं च, किं तेन प्रकृते फलम्? अत आह—कथमिति। तर्हीत्यस्यार्थमाह—आत्मनोऽविक्रियत्वे सतीति। अशेषतः कर्मणस्त्यागः कथं नोपपद्यत इत्यन्वयः। अपि तूपपद्यत एवेत्यर्थः। मिथ्याभूतानां क्रियाकारकफलानां कालत्रयेऽप्यात्मन्यभावादिति भावः। ननु यद्येवमशेषतः कर्मत्याग उपपद्यते, तर्हि ‘न हि देहभृता शक् यं त्यक्तुं कर्माण्यशेषतः’ इति कुत उक्तमिति शङ्कायाम् अविदुष एव सर्वकर्मत्यागासम्भवो, न तु विदुष इत्याह—यदीति। यदि गुणाः सत्त्वादयो२ऽवस्तुभूता मिथ्याभूताः, यदि वा अविद्याकल्पिताः, तद्धर्मः कर्म च यदि मिथ्या, यदि चाविद्याकल्पितम् , तदा तर्हि आत्मन्यविद्याध्यारोपितमेव तत् सर्वं गुणतत्कार्यजातमिति यो न वेत्ति सोऽविद्वान् कर्माशेषतस्त्यक्तुं न शक्नोति, तमुद्दिश्यैव ‘न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृद्’ इति, ‘न हि देहभृता शक् यं त्यक्तुं कर्माण्यशेषतः’ इति चोक्तं भगवता। य इति। विद्वान् स तु पुनरविद्यानिवृत्तेरशेषतः कर्म त्यक्तुं शक्नोत्येव। कुतः शक्नोति विद्वान्? अत आह—अविद्येति। अविद्यया अध्यारोपणम् आत्मन्यध्यासो यस्य तस्य क्रियाकारकफलसमुदायस्येत्यर्थः। अविद्याकर्तृकक्रियाकारकफलाध्यारोपस्येति ‘सत्प्रत्ययस्याव्यभिचाराद् , व्यभिचाराच्चेतरेषाम्’ इति। कथं तर्हि आत्मनोऽविक्रियत्वेऽशेषतः कर्मणस्त्यागो नोपपद्यत इति? यदि वस्तुभूता गुणाः, यदि वा ऽविद्याकल्पिताः, तद्धर्मः कर्म, १तद् आत्मनि अविद्याध्यारोपितमेवेति अविद्वान् न हि कश्चित् क्षणमपि अशेषतस्त्यक्तुं शक्नोतीत्युक्तम्। विद्वांस्तु पुनर्विद्ययाऽविद्यायां निवृत्तायां शक्नोत्येवाशेषतः कर्म परित्यक्तुम् , अविद्याध्यारोपितस्य शेषानुपपत्तेः। न हि तैमिरिकदृष्ट्याऽध्यारोपितस्य द्विचन्द्रादेः तिमिरापगमे शेषोऽवतिष्ठते। एवं च सति इदं वचनमुप- विकारप्रत्ययानां रजतादिधीवदर्थव्यभिचाराद् अविद्यया तदेव सद्वस्तु अनेकधा विकल्प्यत इत्याह—व्यभिचाराच्चेति। इति मतं श्लोके दर्शितमिति सम्बन्धः। आत्मनश्चेदविक्रियत्वं भगवतेष्टम् , तर्हि सर्वकर्मपरित्यागोपपत्तेः सहजस्यापि कर्मणस्त्यागसिद्धिरिति शङ्कते—कथमिति। किं कार्यकरणात्मनां गुणानामकल्पितानां कल्पितानां वा कर्म धर्मत्वेनेष्टम्? द्विधाऽपि निःशेषकर्मत्यागोऽविदुषो विदुषो वा? नाद्य इत्याह— यदीत्यादिना। अविद्यारोपितमेव गुणशब्दितकार्यकरणारोपद्वारा कर्मेति शेषः। द्वितीयं प्रत्याह—विद्वांस्त्विति। आरोपशेषवशाद् विदुषो ऽपि नाशेषकर्मत्यागसिद्धिरित्याशङ्क्याह—अविद्येति। तामेवानुपपत्तिं दृष्टान्तेन स्पष्टयति—न हीति। विदुषोऽशेषकर्मत्यागे पाञ्चमिकमपि १. ‘तदा’ इति पा.। २. भाष्ये— ‘यद्यवस्तुभूता गुणाः’ इति रा.पा. इति भाति। अत्र मिथ्याभूतत्वाविद्याकल्पितत्वयोः भेदः कल्पनीयः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १८. श्लो. ४८]] [[९१२]]

वा। अविद्यायां निवृत्तायां तत्कार्यस्यावशेषोऽनुपपन्न इत्यर्थः। अनुपपत्तिमेव दृष्टान्तप्रदर्शनेन स्फुटयति—न हीति। अवशेषो नाव- तिष्ठत इत्यन्वयः। यद्यवशेषोऽवतिष्ठेत, तर्हि तिमिरेऽपनीतेऽपि द्विचन्द्रदर्शनं स्यात् , न तु तथाऽस्ति। तथा सति तिमिरापगमस्यैवा- सिद्धेः। नन्वेवं विदुषः सर्वकर्मत्यागः सम्भवतीति कुतो नोक्तं भगवतेत्यत आह—एवं चेति। ‘सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देहे नैव कुर्वन्न कारयन्॥’ इति सर्वकर्मत्यागः प्रोक्त एव भगवतेति भावः। न च तद्वचनं विद्वद्विषयमिति, ‘न हि देह- भृते’ति वचनमविद्वद्विषयमिति च कुतो ज्ञायत इति वाच्यम् ; वचनद्वयस्यैकाधिकारिपरत्वे व्याघाताद् भिन्नाधिकारिपरत्वं तावदवश्य- मभ्युपेतव्यम्। तथा च सति अविद्यानिवृत्त्या विदुषः कर्मत्यागसम्भवः, तदनिवृत्त्या त्वविदुषस्तदसम्भव इति ज्ञायते। विद्यावान् हि विद्वान् ; विद्या ह्यविद्याया निवर्तिका; अविद्यया ह्यात्मनि क्रियाकारकादिभेदप्रतीतिः। ‘सच्चिदानन्दं ब्रह्माहमस्मी’त्येषा हि विद्या। ‘कर्ता भोक्ता संसारी भिन्न ईश्वरादह’मित्येषा ह्यविद्या। एतदविद्यावान् पुरुषः सहजं कर्म न त्यजेत् , विद्यावांस्तु त्यजेदेवेति सिद्धः परमहंस- परिव्राजकस्य सर्वकर्मणामशेषतस्त्यागः। आत्मस्वरूपस्य निष्क्रियत्वात् परमहंसपरिव्राजकस्य तत्त्वविदश्चात्मत्वात् तत्त्वविदः सर्व- कर्मपरित्यागोपपत्तिरिति। ननु स्वस्मिन्नात्मन्यसतामेव कर्मणां कुतस्त्यागस्तत्त्वविदोऽपि सम्भवेत्? प्रसक्तिपूर्वको हि निषेध इति चेत् , मैवम् ; अवि- द्यया स्वात्मनि प्रसक्तानां कर्मणां विद्यया त्यागसम्भवादिति। यत्तु रामानुजः—ज्ञानयोग्योऽपि सहजं कर्मयोगं सदुःखमपि न त्यजेत्। ज्ञानारम्भाः कर्मारम्भाश्च दुःखेनावृता इति, तत्तुच्छम् ; सर्वारम्भपरित्यागित्वं यदुक्तं गुणातीतलक्षणं तन्नैव सिद्ध्येद् यदि विद्वानपि कर्म न त्यजेत्। ‘तरति शोकमात्मविद्’ इति श्रुतेर्ज्ञानारम्भस्य सदुःखत्ववचनं चायुक्तम्। न च ज्ञानस्यादुःखत्वेऽपि तदारम्भस्य संन्यासादिलक्षणस्य सदुःखत्वमिति वाच्यम् ; तस्यापि त्यागरूपत्वेनादुःखत्वात्। न हि गृहं निर्मातुर्यः श्रमः काष्ठादिसम्पादनरूपः, स तत्परित्यक्तुर्भवेत्। न च विदुषोऽपि रागत्यागो दुष्कर इति वाच्यम् ; ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इत्युक्तत्वेनात्मनि दृष्टे सति विदुषः स्त्र्यादिरागस्य सुत्यजत्वात्। तस्माद् द्रव्या- र्जनपरिकरसम्पादनादिना कर्मारम्भ एव सदुःखः, न तु ज्ञानारम्भः। किञ्च गुणकर्मविभागप्रकरणेऽस्मिन् कोऽवकाशो ज्ञानयोग- स्येति॥४८॥

असक्तेति। ननु दर्शितविधयेश्वरार्पणबुद्ध्या स्वस्वनियतकर्म कुर्वाणस्य ज्ञाननिष्ठाप्राप्तियोग्यत्वलक्षणचित्तशुद्धिरूपसंसिद्धि- र्भवतीत्युक्तम्। तथा सिद्धस्य पुनः किं भवतीत्यत आह—असक्तेति। कर्मसिद्धिः कर्मयोगफलम् , चित्तशुद्धिरिति यावत्। सर्वत्रासक्त- पन्नम् – ‘सर्वकर्माणि मनसा’ (भ.गी.५.१३) इत्यादि। ‘स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः’ (भ.गी. १८.४५) ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’(भ.गी.१८.४६) इति च ॥४८॥

या च कर्मजा सिद्धिरुक्ता ज्ञाननिष्ठायोग्यतालक्षणा, तस्याः फलभूता नैष्कर्म्यसिद्धिः ज्ञाननिष्ठालक्षणा१ वक्तव्येति श्लोक आरभ्यते— असक्तबुद्धिरिति। असक्ता सङ्गरहिता बुद्धिः अन्तःकरणं यस्य सः असक्तबुद्धिः सर्वत्र वचोऽनुकूलमित्याह—एवं चेति। अविदुषः सर्वकर्मत्यागायोगे च प्रकृताध्यायस्थमेव वाक्यमनुगुणमित्याह— स्वे स्व इति। वाक् यान्तर- मपि तत्रैवार्थे युक्तार्थमित्याह—स्वकर्मणेति॥४८॥

विदुषः सर्वकर्मत्यागेऽपि नाविदुषस्तथेत्युक्तम्। इदानीमुक्तमनूद्यानन्तरश्लोकतात्पर्यमाह—या च कर्मजेति। चोऽवधारणार्थो भिन्नक्रमो वक्तव्येत्यत्र सम्बध्यते२। साधनान्युपदिशन् नैष्कर्म्यसिद्धिं व्यपदिशति—असक्तेति। पुत्रादिविषये चेतसः सङ्गाभावेऽपि तस्या-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘ज्ञाननिष्ठालक्षणा च’ इति पा.। २. वक्तव्यैवेति संबन्धः इति यावत्। असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः।

[[९१३]]

बुद्धिर्जितात्मा विगतस्पृहश्च पुरुषः संन्यासेन परमां नैष्कर्म्यसिद्धिमधिगच्छति। कर्मभिश्चित्ते शुद्धे सति पुरुषस्य पुत्रदारादिषु सर्वत्र बुद्धेरसङ्गो भवति; ततश्च मनसो वशीकरणं भवति; ततश्च देहजीवितादिषु निस्पृहत्वं सिध्यति। ततश्च सम्यग्दर्शनेन सर्वकर्मसंन्यासं कृत्वा नैष्कर्म्यसिद्धिं प्राप्नोतीत्यर्थः। नैष्कर्म्यसिद्धिपदं व्याकरोति—निर्गतानीत्यादिना। निष्क्रियं ब्रह्मैवात्मेति बोधो यस्य स निष्क्रिय- ब्रह्मात्मबोधस्तस्मान्निष्क्रियब्रह्मात्मबोधादिति यस्मादित्यस्य विशेषणम्। निष्क्रियब्रह्मात्मबोधाद्धेतोरिति वा। स इति। निष्क्रिय- ब्रह्मात्मबोधवान् पुरुष इत्यर्थः। न हि तूष्णीं वर्तमानः पुरुषो निष्कर्मेत्युच्यते, तूष्णीं वर्तनस्यापि क्रियात्वात्। किन्तु निष्क्रियं ब्रह्मै- वाहमिति य आत्मानं वेत्ति स तत्त्वविदेव निष्कर्मा, निष्क्रियस्यात्मन एव तत्त्ववित्त्वात् तत्त्वविद एव निष्क्रियात्मस्वरूपत्वाच्च। तस्य निष्कर्मणो निष्क्रियस्य तत्त्वविदो भावो नैष्कर्म्यम् , निष्क्रियात्मस्वरूपेणावस्थानमित्यर्थः। सिद्धिर्गतिः। फलमिति यावत्। नैष्कर्म्य- रूपा सिद्धिर्नैष्कर्म्यसिद्धिः, नैष्कर्म्यं च तत्सिद्धिश्चेति कर्मधारयः। नैष्कर्म्यमिति सिद्धिर्नैष्कर्म्यसिद्धिरिति सम्भावनापूर्वपदकर्मधारयमाहु- रिममेव समासम्। न हि शास्त्रे ‘विशेषणं विशेष्येण बहुल’मिति सूत्रकृतसमासातिरिक्तः कश्चन सम्भावनापूर्वपदोऽवधारणपूर्वपदो वा कर्मधारयोऽस्ति। तस्माद्विशेषणसमास एवायम्। अत एवोक्तम्—नैष्कर्म्यं च तत्सिद्धिश्चेत्याचार्यैः। नैष्कर्म्यरूपा तत्सिद्धिरिति तु फलितार्थकथनम्। समासान्तरमाह—नैष्कर्म्यस्य सिद्धिरिति। निष्पत्तिरिति। प्राप्तिरिति यावत्। उभयथाऽपि निष्क्रियात्मस्वरूपा- वस्थानस्यैव फलत्वम्। नैष्कर्म्यसिद्धेः कुतः परमत्वम्? अत आह—कर्मजेति। कर्मजसिद्धिश्चित्तशुद्धिस्तद्विलक्षणत्वादियं सिद्धि- रुत्कृष्टेत्यर्थः। ननु मोक्षलक्षणसिद्धेरितोऽप्युत्कृष्टायाःसत्त्वात् कथमस्याः परमत्वम् , अत आह—सद्योमुक्तीति। सद्य एव मुक्तिर्यस्मात् तत् सद्योमुक्ति, तच्च तदवस्थानं सद्योमुक्त्यवस्थानं तद्रूपाम्। निष्क्रियात्मस्वरूपावस्थानात् सद्य एव मुक्तिर्भवतीत्यर्थः। सद्योमुक्तिरूपं यदवस्थानं तद्रूपामिति वा। निष्क्रियात्मस्वरूपावस्थानमेव सद्योमुक्तिरित्यर्थः। सद्योमुक्तिर्जीवन्मुक्तिरित्यर्थः। सद्योमुक्तिरूपामिति पाठः समीचीनः। धातूनामनेकार्थत्वादाह—संन्यासेन सम्यग्दर्शनेनेति। परसिद्धार्थपरित्यागोऽनुचित इत्याह—सर्वकर्मसंन्यासेनेति, तत्पूर्वकेणेति। सम्यग्दर्शनपूर्वकेणेत्यर्थः। न ह्यविदुषः सर्वकर्मसंन्यासः सम्भवतीति भावः। ननु विदुषः सर्वकर्मसंन्यासेन नैष्कर्म्य- सिद्धिरिति कुत्रोक्तम्? अत आह—तथा चोक्तमिति। इहैवेति शेषः। आस्त इत्युक्तमित्यन्वयः। अनेन श्लोकेन — गृहस्थः पुरुषः कर्मयोगादीश्वराराधनात्मकाच्चित्तशुद्धिं प्राप्य, ततो दारापत्यगृहादिकं सर्वं परित्यज्य प्रव्रज्य, तत्त्वविदः समीपे वेदान्तशास्त्रश्रवणादिकं स्वाधीनत्वमाशङ्क्याह—जितात्मेति। असक्तिमुक्त्वा स्पृहाभावं वदता पुनरुक्तिरिष्टेत्याशङ्क्याह—देहेति। उक्तमनूद्य तत्फलं लम्भयति—य एवमिति। कर्मणां निर्गतौ हेतुमाह—निष्क्रियेति। सम्यग्ज्ञानार्थत्वेन नैष्कर्म्यसिद्धिशब्दं व्याख्यायार्थान्तरमाह—नैष्कर्म्यस्येति। प्रकर्ष- मेव प्रकटयति—कर्मजेति। संन्यासस्य श्रुतिस्मृत्योः सम्यग्दर्शनत्वाप्रसिद्धेरयुक्तं तादात्म्यमित्याशङ्क्य पक्षान्तरमाह—तत्पूर्वकेणेति। संन्यासान्नैष्कर्म्यप्राप्तिरित्यत्र वाक् योपक्रमानुकूल्यमाह—तथा चेति॥४९॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

पुत्रदारादिष्वासक्तिनिमित्तेषु , जितात्मा जितो वशीकृत आत्माऽन्तःकरणं यस्य स जितात्मा, विगतस्पृहो विगता स्पृहा तृष्णा देहजीवितभोगेषु यस्मात् स विगतस्पृहः, य एवम्भूत आत्मज्ञः स नैष्कर्म्यसिद्धिं निर्गतानि कर्माणि यस्माद् निष्क्रियब्रह्मात्मसम्बोधात् स निष्कर्मा, तस्य भावो नैष्कर्म्यम् , नैष्कर्म्यं च तत् सिद्धिश्च सा नैष्कर्म्यसिद्धिः, १नैष्कर्म्यस्य वा निष्क्रियात्मस्वरूपावस्थानलक्षणस्य सिद्धिः निष्पत्तिः, तां नैष्कर्म्यसिद्धिं परमां प्रकृष्टां कर्मजसिद्धि- विलक्षणां सद्योमुक्त्यवस्थानरूपां संन्यासेन सम्यग्दर्शनेन, तत्पूर्वकेण वा सर्वकर्मसंन्यासेन अधिगच्छति प्राप्नोति। तथा चोक्तम्— ‘सर्वकर्माणि मनसा संन्यस्य, नैव कुर्वन् न कारयन् आस्ते’(द्र.भ.गी.५.१३) इति॥४९॥

नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति॥४९॥

अ. १८. श्लो. ४८ - ४९ ] १. ‘नैष्कर्म्यस्य वा सिद्धिः’ इति पा.।

[[९१४]]

सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे। समासेनैव कौन्तेय !निष्ठा ज्ञानस्य या परा॥५०॥

कृत्वा निष्क्रियं ब्रह्माहमस्मीति सम्यग्दर्शनं सम्पाद्य, ततः परमहंसपरिव्राजको भूत्वा सर्वं कर्माशेषतः संन्यस्य, निष्क्रियात्म- स्वरूपावस्थानलक्षणां सद्योमुक्तिं प्राप्य यावद्देहपातमात्मारामो वर्तेतेति—दर्शितम्। अस्य च जीवन्मुक्तस्य देहान्ते विदेहकैवल्य- लक्षणब्रह्मप्राप्तिरुत्तरश्लोके वक्ष्यते— ब्रह्म प्राप्नोतीति। एवं स्थिते कर्मयोगादेव ब्रह्मप्राप्तिरिति वदतो रामानुजस्य अहो ! साहसम् ॥४९॥

सिद्धिमिति। श्लोकमवतारयति—पूर्वोक्तेनेति। प्रागुक्तलक्षणामिति। चित्तशुद्धिलक्षणामित्यर्थः। ज्ञाननिष्ठाप्राप्तियोग्यतालक्षणा- मिति यावत्। तद्वक्तव्यमिति। स क्रमो वक्तव्य इत्यर्थः। कर्मजसिद्धिं प्राप्तस्य नैष्कर्म्यसिद्धिप्राप्तिर्येन क्रमेण भवति, तं क्रमं वक्ष्यामि शृण्विति प्रतिजानाति ‘सिद्धि’मिति श्लोकेन भगवानिति भावः। तदनुवादः सिद्धिप्राप्त्यनुवादः उत्तरार्थ इत्युक्ते पृच्छति—किं तदुत्तरमिति। प्रत्याह—यथेत्यादि। ब्रह्मप्राप्तिहेतुभूतज्ञाननिष्ठाप्राप्तिक्रमप्रदर्शनम् उत्तरम् , तदर्थः उत्तरार्थ इत्यर्थः। ज्ञाननिष्ठाप्राप्तिक्रम उत्तरमिति वा। तथापि पूर्वोक्त एव पर्यवसन्नोऽर्थः। इदंतयेति। इयं ब्रह्मप्राप्तिरिति बोधयितुमित्यर्थः। या ज्ञानस्य परा निष्ठा सेयमेव ब्रह्मप्राप्तिरित्यर्थः। ब्रह्मज्ञानस्य मोक्षैकफलत्वान्मोक्षस्य च ब्रह्मप्राप्तिरूपत्वाज्ज्ञानस्य पर्यवसानं ब्रह्मप्राप्तिरेव। साधनस्य साध्यं फलमेव हि पर्यवसानमिति भावः। हे कौन्तेय ! सिद्धिं प्राप्तो यथा ब्रह्म प्राप्नोति तथा समासेनैव मे वचनान्निबोध। या ज्ञानस्य परा निष्ठा भवतीति श्लोकस्यान्वयः। कर्मजसिद्धिं प्राप्तस्य पुरुषस्य ब्रह्मज्ञानस्य परा निष्ठा ब्रह्मप्राप्तिः यया ज्ञाननिष्ठया भवति, सा नैष्कर्म्यलक्षणा ज्ञाननिष्ठा येन क्रमेण प्राप्यते, तं ज्ञाननिष्ठाप्राप्तिक्रममहं वक्ष्यामि, हे कौन्तेय ! त्वं सावधानो भवेति श्लोकस्य सारार्थः। ननु या ब्रह्मज्ञानस्य परा निष्ठा सैव ब्रह्मप्राप्तिरित्युक्तम् , सा निष्ठा कीदृशीति पृच्छति—सा कीदृशीति। उत्तरयति—यादृशम् ज्ञानप्राप्तियोग्यतावतो जातसम्यग्धियः तत्फलप्राप्तौ मुक्तावुक्तायां वक्तव्यशेषो नास्तीत्याशङ्क्याह—पूर्वोक्तेनेति।१क्रमाख्यं वस्तु तदित्युच्यते। सिद्धिं प्राप्त इत्युक्तमेव कस्मादनूद्यते? तत्राह—तदनुवाद इति। उत्तरमेव प्रश्नपूर्वकं स्फोरयति—किं तदित्यादिना। ज्ञान- निष्ठाप्राप्तिक्रमस्य विस्तरेणोक्तौ दुर्बोधत्वमाशङ्क्य परिहरति—किमिति। चतुर्थपादस्य पूर्वेणासङ्गतिमाशङ्क्याह—यथेति। निष्ठायाः सापेक्षत्वात् प्रतिसम्बन्धि प्रतिनिर्देष्टव्यमित्याह—कस्येति। या ब्रह्मज्ञानस्य परा निष्ठा सा प्रकृतस्य ज्ञानस्य निष्ठेत्याह —ब्रह्मेति। तस्य परा निष्ठा न प्रसिद्धेति कृत्वा साधनानुष्ठानाधीनतया साध्येति मत्वा पृच्छति— कीदृशीति। प्रसिद्धमात्मज्ञानमनुरुध्य १. भाष्ये— ‘येन क्रमेण भवति, स वक्तव्यः’ इति पठितव्ये ‘तद् वक्तव्य’मिति कथमित्याशङ्कानिरासार्थमुक्तम्— क्रमाख्यं वस्तु इति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

पूर्वोक्तेन स्वकर्मानुष्ठानेनेश्वराभ्यर्चनरूपेण जनितां प्रागुक्तलक्षणां सिद्धिं प्राप्तस्य उत्पन्नात्मविवेकज्ञानस्य केवलात्मज्ञाननिष्ठारूपा नैष्कर्म्यलक्षणा सिद्धिर्येन क्रमेण भवति, तद् वक्तव्यमित्याह— सिद्धिमिति। सिद्धिं प्राप्तः स्वकर्मणेश्वरं समभ्यर्च्य तत्प्रसादजां कायेन्द्रियाणां ज्ञाननिष्ठायोग्यतालक्षणां सिद्धिं प्राप्तः। सिद्धिं प्राप्त इति तदनुवाद उत्तरार्थः। किं तदुत्तरं यदर्थोऽनुवाद इति? उच्यते। यथा येन प्रकारेण ज्ञाननिष्ठारूपेण ब्रह्म परमात्मानम् आप्नोति तथा तं प्रकारं ज्ञाननिष्ठाप्राप्तिक्रमं मे मम वचनाद् निबोध त्वं निश्चयेनावधारयेत्येतत्। किं विस्तरेण? नेत्याह— समासेनैव संक्षेपेणैव, हे कौन्तेय ! यथा ब्रह्म प्राप्नोति तथा निबोधेति अनेन या प्रतिज्ञाता ब्रह्मप्राप्तिः, ताम् इदन्तया दर्शयितुमाह— निष्ठा ज्ञानस्य या परेति। निष्ठा पर्यवसानम् , परिसमाप्तिरित्येतत्। कस्य? ब्रह्मज्ञानस्य या परा परिसमाप्तिः। कीदृशी सा? यादृशम्

[[९१५]]

इति। यादृशमात्मज्ञानं तादृशी ब्रह्मज्ञानस्य परा निष्ठा, ब्रह्मज्ञानस्यैव ब्रह्मप्राप्तिरूपत्वादिति भावः। कीदृक् तदिति पृच्छति—कीदृशम् इति। उत्तरयति—यादृश आत्मेति। आत्मा यादृशः, आत्मज्ञानं तादृशमेव, ज्ञानस्य विषयाकारत्वादिति भावः। ननु कीदृश आत्मेति पृच्छति। उत्तरयति—यादृश इति। भगवता गीताभिरुपनिषद्वाक् यैश्चात्मा यादृश इत्युक्तः, न्यायतश्चात्मा यादृश इति निर्णेतुं शक् यः, तादृश एवात्मेत्यर्थः। कूटस्थासङ्गस्वप्रकाशानन्दस्वरूप इति भावः। ननु ‘न जायते म्रियते’ इत्यादिवाक् यैर्न्यायतश्चात्मनः प्रसिद्धावपि नात्मज्ञानस्य सिद्धिः, आत्मनोऽविषयत्वादनाकारत्वाच्चेति शङ्कते— नन्विति। ज्ञानं विषयाकारं विषयस्य घटादेराकार इवाकारो यस्य तत् तथोक्तं, भवतीति शेषः। विषयाकारपरिणतबुद्धिवृत्ति- प्रतिफलितचैतन्यस्य ज्ञानत्वेन व्यवहारादिति भावः। भवतु , किं ततः? इत्यत्राह—नेति। क्वचिदपि वेदान्तशास्त्रे आत्मा विषय इति नेष्यते, आकारवानित्यपि नेष्यते। आत्मनो विषयत्वाभावे हेतुप्रदर्शनार्थम् ‘आकारवान् ने’त्युक्तमाचार्यैः। आकारविशिष्टं वस्तु ज्ञानस्य विषयो भवति। तद्विषयाकारं च ज्ञानं च भवतीति निराकारस्यात्मनः कथं ज्ञानविषयत्वम्? न कथमपीति नात्मज्ञानसिद्धिरिति भावः। न च ‘सत्यं ज्ञानमनन्तं ब्रह्मे’ति श्रुतेर्ज्ञानाकारस्यात्मनः कथं निराकारत्वमिति वाच्यम् ; तत्र ज्ञानपदस्य लाक्षणिकत्वेन चैतन्यपरत्वादात्मस्वरूपभूतं चैतन्यं निराकारमेव। वृत्तिज्ञानमेव हि साकारम्। न च निराकारमपि चैतन्यं भवतु ज्ञानस्य विषयः, आकाशादिवदिति वाच्यम् ; आकाशादेरवकाशादिमत्त्वेन साकारत्वात्। न च चैतन्यमपि गुणवत्त्वेन साकारमिति वाच्यम् ; निर्गुण- त्वात्। ‘साक्षी चेता केवलो निर्गुणश्चे’ति हि श्रूयते। न च सुतरां ज्ञानाविषयत्वे कथमात्मनः सिद्धिरिति वाच्यम्। स्वप्रकाशत्वेनैव तत्सिद्धेः। सर्वस्यापि अनात्मवर्गस्य सिद्धेरात्माधीनत्वाच्च। ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ इति श्रुतेः। न च – वृत्तिज्ञानमेव स्वप्रकाशं परप्रकाशकं चेति – वाच्यम् ; वृत्तेर्जडत्वात् , तत्प्रतिफलितचैतन्यस्य च बिम्बचैतन्यपरतन्त्रत्वात् ; बिम्ब- प्रतिबिम्बाभेदपक्षे तु वृत्तिज्ञानगतज्ञानांशस्य चैतन्यरूपत्वेन स्वप्रकाशत्वं तस्येष्टमेव। ननु यदि घट इति ज्ञानमपि चैतन्येन भास्यते, तर्हि ज्ञानस्य ज्ञेयत्वमापतितं, तच्चानिष्टम् , अनवस्थादिदोषादिति चेत् , मैवम्। ब्रह्मज्ञाननिष्ठा सुज्ञानेत्याह—यादृशमिति। तत्रापि प्रसिद्धिरसिद्धेति शङ्कते—कीदृगिति। ‘अर्थेनैव विशेषो ही’ति न्यायेनोत्तरमाह— यादृश इति। तस्मिन्नपि विप्रतिपत्तेरप्रसिद्धिमभिसन्धाय पृच्छति—कीदृश इति। भगवद्वाक् यान्युपनिषद्वाक् यानि चाश्रित्य परिहरति— यादृश इति। ‘न जायते म्रियते वा’ इत्यादीनि वाक् यानि। कूटस्थत्वमसङ्गत्वमित्यादि न्यायः। ज्ञानस्य विषयाकारत्वाद् , आत्मनश्चाविषयत्वादनाकारत्वाच्च तदाकारज्ञानायोगाद् आत्मप्रसिद्धावपि नात्मज्ञानप्रसिद्धिरिति शङ्कते— नन्विति। आकारवत्त्वमात्मनः श्रुतिसिद्धमिति सिद्धान्ती शङ्कते— नन्वादित्येति। उक्तवाक् यानामन्यार्थत्वदर्शनेन पूर्ववादी १.‘ज्ञानविषयः’ इति पा.। २. ‘परा निष्ठा’ इति पा.संभाव्यते।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

आत्मज्ञानम्। कीदृक् तत्? यादृश आत्मा। कीदृशोऽसौ? यादृशो भगवतोक्तः, उपनिषद्वाक् यैश्च, न्यायतश्च। ननु विषयाकारं ज्ञानम्। न १विषयः, नाप्याकारवान् आत्मेष्यते क्वचित्। ननु ‘आदित्यवर्णम्’(श्वे.उ.३.८) ब्रह्मज्ञानस्य परिनिष्ठा२ नामावगतिपर्यन्तता। सा चावगतिर्ज्ञानानुरूपा। ज्ञानं चात्मानुरूपम्। आत्मा च ‘न जायते म्रियते वे’त्यादिशास्त्रे निरवयवत्वादिन्यायतश्चाविक्रियः सिद्ध इत्युक्तम्। तदिदानीमात्मज्ञानस्य प्रयत्नादिविषयत्वोपपादनाय साकारत्वं निराकरोति सिद्धान्ती— ननु विषयाकारमिति। अविषयत्वान्निराकारत्वाच्चात्मनो न तज्ज्ञानं साकारम्। अतः कथं प्रयत्नस्य विषय इत्यर्थः। नन्विति अहो इत्यस्मिन्नर्थे, न तु पूर्वपक्षोपक्रमार्थः। एकदेशिमतमनूद्य दूषयति—नन्वादित्ये- त्यादिना। ‘अस्थूलमनण्वि’त्यादिना आत्मनो द्रव्याद्याकारप्रतिषेधे सति तमस्त्वं प्राप्तम् , अतस्तद्व्यावृत्त्यर्थं ज्योतिष्ट्वाभि-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. १८. श्लो. ५०]] [[९१६]]

‘भारूपः’ (छा.३.१४.२) ‘स्वयञ्ज्योतिः’ (बृ.उ.४.३.९) इत्याकारवत्त्वमात्मनः श्रूयते? न; तमोरूपत्वप्रतिषेधार्थत्वात् तेषां वाक् यानाम्। द्रव्यगुणाद्याकारप्रतिषेधे आत्मनः तमोरूपत्वे प्राप्ते तत्प्रतिषेधार्थानि ‘आदित्यवर्णम्’ इत्यादीनि वाक् यानि। ‘अरूपम्’ (क.उ.३.१५) इति च विशेषतो रूपप्रतिषेधात्। अविषयत्वाच्च— ‘न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्’ (श्वे.उ.४.२०) ‘अशब्दमस्पर्शम्’ (क.उ.३.१५) इत्यादेः। तस्माद् ‘आत्माकारं ज्ञानम्’ इत्यनुपपन्नम्। कथं तर्ह्यात्मनो ज्ञानम्? सर्वं हि यद्विषयं यद् ज्ञानम् , तत् तदाकारं भवति। निराकारश्चात्मेत्युक्तम्। चैतन्यावभासकवस्त्वन्तरानभ्युपगमेनानवस्थादोषाभावात् , चैतन्येतरस्य सर्वस्यापि ज्ञेयत्वाभ्युपगमाच्च, घट इति वृत्तिज्ञानस्यापि वृत्त्यंशे जडत्वेन ज्ञेयत्वसद्भावाच्च। तस्माच्चैतन्यैकस्वरूपत्वादात्मा निराकार एव। एवमात्मनो निराकारत्वमसहमानो द्वैती चोदयति— नन्विति। ‘आदित्यवर्णं तमसः परस्ता’दिति श्रुतिः। आदित्यस्येव वर्णो यस्य तमादित्यवर्णम्। भारूपः तेजोरूपः। स्वयञ्ज्योतिः स्वत एव भासमानः। आकारवत्त्वं तेजोमयाकार इत्यर्थः। पूर्वपक्षं परिहरति—नेति। नास्त्याकारवत्त्वमात्मन इत्यर्थः। तर्हि का गतिः श्रुतिवाक् यानाम्? अत आह—तम इति। संग्रहवाक् यं विवृणोति—द्रव्येति। तमोऽन्धकारः, अज्ञानं वा। कथमिदं ज्ञायते? अत आह—अरूपमिति। अरूपमिति विशेषतो रूपं प्रतिषिध्यात्मनः सैव श्रुतिः कथं तेजोरूपत्वं ब्रूयात् तस्यैव? रूपवद्द्रव्यं हि तेज इति भावः। हेत्वन्तरमाह—अविषयत्वाच्चेति। यद्यात्मा सरूपः स्यात् तर्हि घटादिवच्चक्षुरादेर्विषय एव स्यात् , न तु तथाऽस्तीति भावः। उक्तार्थे श्रुतिं प्रमाणयति—नेति। अस्यात्मनो रूपं दृशे दृग्विषये न सन्तिष्ठति। सन्दृशे सम्यग्दर्शनविषये इति वा। रूपं सच्चिदानन्दलक्षणं स्वरूपमित्यर्थः। न तु शुक्लकृष्णादि , तस्य दृग्विषयत्वाभावायोगात्। एनमात्मानं कश्चन कोऽपि चक्षुषा न पश्यति नीरूपत्वादिति भावः। कश्चनेत्यनेन मनुष्याणां तददर्शनेऽपि देवानां तद्दर्शनं स्यादित्यपास्तम्। न चैवं रूपाभावेन चक्षुरविषयत्वेऽपि शब्दादिसद्भावाच्छ्रोत्रादिविषयत्वं स्यादात्मन इत्यत आह— अशब्दमिति। ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्चे’ति श्रुतेः। पूर्वपक्षमुपसंहरति—तस्मादिति। ज्ञानस्याविषयत्वा- न्निराकारत्वाच्चात्मन इति तच्छब्दार्थः। आत्माकारं ज्ञानमिति। आत्मन आकार इवाकारो यस्य तदात्माकारं ज्ञानम् इत्यनुपपन्नम् अयुक्तम् , आत्मन आकाराभावेन ज्ञानस्यात्माकारत्वासम्भवादिति भावः। ननु ज्ञानस्यात्माकारत्वं मास्तु , किं ततः? इत्यत आह—कथमिति। तर्हीत्यस्य ज्ञानस्यात्माकारत्वाभाव इत्यर्थः। आत्मनो ज्ञानं कथम्? ननु ज्ञानस्यात्माकारत्वाभावे आत्मज्ञानसिद्धेः काऽनुपपत्तिः? अत आह—सर्वमिति। हिः प्रसिद्धौ। हि यस्मादिति वा। परिहरति— नेत्यादिना। संग्रहवाक् यं प्रपञ्चयति— द्रव्येति। इतश्चाकारवत्त्वमात्मनो नास्तीत्याह— अरूपमिति। यदात्मनो विषयत्वा- भावात् तद्विषयं ज्ञानं न सम्भवतीत्युक्तम् , तदुपपादयति—अविषयत्वाच्चेति। आत्मनोऽविषयत्वे श्रुतिमुदाहरति— नेत्यादिना। सन्दृशे सम्यग्दर्शनविषयत्वाय अस्य आत्मनो रूपं न तिष्ठतीत्यर्थः। तदेव करणागोचरत्वेनोपपादयति—नेति। शब्दादिशून्यत्वाच्चात्मा विषयो न भवतीत्याह—अशब्दमिति। आत्मनो विषयत्वाकारवत्त्वयोरभावे फलितमाह—तस्मादिति। ज्ञानस्यात्माकारत्वाभावे सत्यात्मज्ञानमिति व्यपदेशासिद्धिरित्येकदेशी शङ्कते—कथं तर्हीति। काऽत्रानुपपत्तिरित्याशङ्क्याह— सर्वं हीति। आत्मनोऽपि तर्हि विषयत्वेन ज्ञानस्य तदाकारत्वं स्यादित्याशङ्क्याह—निराकारश्चेति। आत्मनो विषयत्वराहित्यं चकारार्थः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

धानम् , न त्वादित्यसमानरूपत्वप्रतिपादनार्थमित्युक्तम्। तत्रैव हेत्वन्तरमाह—अरूपमिति चेति। सन्दृशे सन्दर्शनगोचरे न रूपमस्य तिष्ठतीत्यर्थः। आत्माकारत्वासम्भवे कथं तज्ज्ञानं(त्वं) तवापीत्याह—कथं तर्हि आत्मन इति। अग्निव्याप्तोऽयः-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[९१७]]

ज्ञानात्मनोश्चोभयोर्निराकारत्वे कथं तद्भावनानिष्ठेति? न; अत्यन्तनिर्मलत्वातिस्वच्छत्वातिसूक्ष्मत्वोपपत्तेरात्मनः, बुद्धेश्च आत्मसमनैर्मल्याद्युपपत्तेरात्मचैतन्याका- राभासत्वोपपत्तिः। बुद्ध्याभासं मनः, तदाभासानीन्द्रियाणि, इन्द्रियाभासश्च देहः। अतो लौकिकैर्देहमात्र एवात्मदृष्टिः क्रियते। देहचैतन्यवादिनश्च लोकायतिकाः ‘चैतन्यविशिष्टः कायः पुरुषः’ इत्याहुः। तथाऽन्य इन्द्रियचैतन्यवादिनः। यज्ज्ञानं यद्विषयं तत् सर्वं तदाकारं भवतीत्यन्वयः। घटविषयज्ञानस्य घटाकारत्वम् , पटविषयज्ञानस्य पटाकारत्वमित्येवं सर्वं ज्ञानं विषयाकारं भवतीत्यर्थः। तर्हि भवत्वेवमात्मविषयज्ञानमात्माकारम् , अत आह—निराकारश्चेति। चकारादविषयत्वमप्यात्मन उक्त- मित्यर्थः। ननु विषयस्य साकारत्वे ज्ञानस्य साकारत्वमिव, विषयस्य निराकारत्वे ज्ञानस्यापि निराकारत्वमिति कृत्वा निराकारमेव स्यादात्मज्ञानमित्यत आह—ज्ञानात्मनोरिति। यद्यात्मा निराकारः, आत्मज्ञानं च निराकारम् , तर्हि तद्भावनानिष्ठा न सिध्येदित्यर्थः। तस्य आत्मज्ञानस्य भावना पौनःपुन्येनानुसन्धानं तस्या निष्ठा समाप्तिरात्मसाक्षात्कारदार्ड्यं तद्भावनानिष्ठा। इतिशब्दः पूर्वपक्ष- समाप्तिवाची। पूर्वपक्षं परिहरति सिद्धान्ती— नेति। आत्मज्ञानस्यासिद्धिरिति न वक्तव्यमित्यर्थः। कुतो न वक्तव्यम्? तत्राह—अत्यन्तेति। अत्यन्तनिर्मलोऽतिस्वच्छोऽतिसूक्ष्मश्चात्मा भवति; तथा बुद्धिरप्यत्यन्तनिर्मलाऽतिस्वच्छा सूक्ष्मा च भवति। आत्मनश्च चैतन्यमाकारः, न तु वृत्तिज्ञानम् ; बुद्धिश्चात्मचैतन्याकारेणाभासते, बुद्ध्यात्मनोः अन्योन्यतादात्म्याध्यासाद् बुद्धावात्मचैतन्याकाराध्यासः। ततश्चात्म- चैतन्याध्यासवशाद् बुद्धिश्चेतनेवाभाति, तथा बुद्धिधर्माध्यासान्मनश्च बुद्धिवदाभासत इति बुद्ध्याभासं भवति। तन्मनोधर्माध्यासा- दिन्द्रियाण्यपि मनोवच्चेतनानीवाभासन्त इति मनआभासानीन्द्रियाणि। तदिन्द्रियधर्माध्यासाद् देहोऽपीन्द्रियवच्चेतन इवाभासत इतीन्द्रियाभासो देहः। अत इति। बुद्ध्यादिषु देहान्तेषु क्रमेण तारतम्येन चात्मचैतन्याकाराभाससत्त्वादित्यर्थः। देह एवात्मेति प्रति- पद्यन्ते लौकिकाः स्थूलोऽहमित्यादिप्रतीतेः। न केवलं लौकिकाः; किन्त्वागमविदोऽपि केचिदित्याह—लोकायतिका इति। बौद्धा इत्यर्थः। के ते? अत आह— देहचैतन्यवादिन इति। यच्चैतन्यमात्माकार इति वेदान्तिनो ब्रुवन्ति, तच्चैतन्यं देहस्यैवेति देहचैतन्य- वादिन एते। तदेव स्फुटयन्नाह—चैतन्येति। चैतन्यविशिष्टो देह एवात्मेत्याहुः। मृतशरीरस्य पुरुषव्यवहाराभावादुक्तं चैतन्यविशिष्ट इति। लौकिकापेक्षया लोकायतिकानामयमेव विशेषः। केवलदेह एवात्मेति लौकिकाः, चैतन्यविशिष्टदेह एवात्मेति लोकायतिका इति। आत्मवत् तज्ज्ञानस्यापि तर्हि निराकारत्वं भविष्यतीत्यत्राह—ज्ञानेति। तच्छब्देनात्मज्ञानं गृह्यते। तस्य भावना पौनःपुन्येनानुसन्धानं, तस्या निष्ठा समाप्तिः आत्मसाक्षात्कारदार्ड्यम्। न चैतत् सर्वमात्मनो ज्ञानस्य वा निराकारत्वे सिध्यतीत्यर्थः। ज्ञानात्मनोः साम्योपन्यासेन सिद्धान्ती समाधत्ते— नेत्यादिना। यथोक्तसाम्यानुसारादात्मचैतन्याभासव्याप्ता ज्ञानपरिणामवती बुद्धिः, साभासबुद्धिव्याप्तं मनः, साभासमनोव्याप्तानीन्द्रियाणि, साभासेन्द्रियव्याप्तः स्थूलो देहः। तत्र लौकिकभ्रान्तिं प्रमाणयति—अत इति। आत्मदृष्टेर्देहमात्रे दृष्टत्वात् तत्र चैतन्याभासव्याप्तिरिन्द्रियद्वारा कल्प्यते, इन्द्रियेषु च तद्दृष्टिदर्शनाच्चैतन्याभासवत्त्वं मनोद्वारा सिध्यति, मनसि चात्मदृष्टेश्चैतन्याभासवत्त्वं बुद्धिद्वारा लभ्यते, बुद्धौ चात्मदृष्टेरज्ञानद्वारा चैतन्याभाससिद्धिरित्यर्थः। देहे लौकिकमात्मत्व- दर्शनं न्यायाभावादुपेक्षितमित्याशङ्क्याह— देहेति। तथापि कथमिन्द्रियाणां न्यायहीनमात्मत्वमिष्टमित्याशङ्क्याह— तथेति। तथापि

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

पिण्डः स यथोपचारेणाग्न्याकारः उच्यते, तथा आत्मचैतन्यव्याप्ताया बुद्धेर्वृत्तिरुपचारेणात्माकारोच्यते। ततो ज्ञानस्यात्मा- कारत्वासम्भवान्न यत्नसाध्यत्वस्य सम्भव इत्याह—न, अत्यन्तनिर्मलत्वेत्यादिना। बुद्ध्यादिकं व्याप्य आत्मचैतन्यस्फुरण- मस्तीत्यत्र लिङ्गमाह—ततो [अतो] लौकिकैरित्यादिना।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. १८. श्लो. ५०]] [[९१८]]

अन्ये मनश्चैतन्यवादिनः। अन्ये बुद्धिचैतन्यवादिनः। ततोऽप्यान्तरम् अव्यक्तम् अव्याकृताख्यमविद्यावस्थमात्मत्वेन प्रतिपन्नाः केचित्। सर्वत्र हि बुद्ध्यादिदेहान्ते आत्मचैतन्याभासताऽऽत्मभ्रान्तिकारणम् इत्यत१ आत्मविषयं ज्ञानं न अन्ये पुनरिन्द्रियाण्येवात्मेत्याहुरित्याह—तथा चेति। यदि देह एवात्मा स्यात् , तर्हि काणबधिरादिदेहस्यापि दर्शनश्रवणादिव्यवहारो भवेत्। तस्मान्न देह आत्मा; किन्त्विन्द्रियाण्येवात्मेत्यमीषां भावः। अन्ये तु मन एवात्मेत्याहुरित्याह—अन्य इति। यदीन्द्रियसङ्घ एवात्मा स्यात् तर्हि मनस्यन्याक्रान्ते सत्यपीन्द्रियाणां दर्शनादिव्यवहारः स्यात्। स्वप्नदशायामिन्द्रियाभावाद् रथगजदर्शनादिव्यवहा- रानुपपत्तिश्चेति नेन्द्रियाण्यात्मा, किन्तु मन एवात्मेत्येतेषामाशयः। अन्ये तु बुद्धिरेवात्मेत्याहुरित्याह—अन्ये बुद्धीति। बुद्धेरेव चैतन्य- मिति वदितुं शीलं येषां ते बुद्धिचैतन्यवादिनः। यदि मन एवात्मा स्यात् तर्ह्यध्यवसायदशायामपि सङ्कल्पविकल्पौ स्यातां मनोधर्मत्वात् तयोर्मनस एवात्मत्वाच्च, ततोऽध्यवसायानुपपत्तिश्च। तस्मान्न मन आत्मा, किन्तु बुद्धिरेवात्मा, बुद्धेरेवात्मनः सङ्कल्पविकल्पकारणं करणं तु मनः; यथा रूपाद्युपलब्धिकारणं करणं चक्षुरादिकम् , तद्वदिति भावः। अन्ये त्वव्यक्तमेवात्मेति वदन्तीत्याह—ततोऽपीति। केचिदव्यक्तमात्मत्वेन प्रतिपन्ना इत्यन्वयः। अविद्यावस्थमज्ञानस्वरूपं कारणशरीरभूतकार्याज्ञानावस्थमिति वा। यदि बुद्धिरेवात्मा स्यात् तर्हि सुषुप्त्यनुभवो न स्यादात्मनो बुद्ध्यात्मनस्तदानीमभावादिति भावः। यद्यपि पूर्वं बुद्धेरेवादावात्मचैतन्याकाराभासत्वमुक्तम् , नाव्यक्तस्य, तथाप्यव्यक्तस्यैवादावात्मचैतन्याध्यासाकारः, तदनन्तरं बुद्धेरिति बोध्यम्। यद्वा आत्मन उपाधिरविद्येति मतमाश्रित्य, केचिदव्यक्तमात्मचैतन्याभासाकारत्वादात्मेत्याहुरित्युक्तम्। आत्मन उपाधिर्बुद्धिरेवेति मतमाश्रित्य तु बुद्धावेवादावात्मचैतन्याकाराभास इत्युक्तमिति न विरोधः; अन्तःकरणावच्छिन्नं चैतन्यमात्मेति, अविद्यावच्छिन्नं चैतन्यमात्मेति च मतद्वयसत्त्वादिति भावः। अन्तःकरणस्यैवावस्थाविशेषौ बुद्धिर्मनश्चेति बोध्यम्। ननु कस्मादेवं विविधं प्रतिपन्ना एकमेवात्मानं वादिनः? इत्यत आह—सर्वत्रेति। बुद्ध्यादिदेहान्तेषु सर्वेष्वप्यनात्मसु तत्तद्वा- दिनां दर्शिताया आत्मभ्रान्तेः कारणमात्मचैतन्याभासतैव। आभासः प्रतिफलनमध्यासो वा। बुद्ध्यादिषु य आत्मचैतन्याकारस्या- भासः पूर्वं दर्शितः, स एव तेष्वात्मेति भ्रमं जनयत्यविवेकिनामित्यर्थः। आत्मचैतन्यस्याभासो येषामस्ति, येष्वस्तीति वा आत्म- चैतन्याभासाः, तेषां भावस्तत्ता। आत्मचैतन्याभास इति यावत्। ननु भवत्वेवमज्ञानामनात्मस्वात्मभ्रमः, किं तत्कथनेन प्रकृतपूर्व- पक्षस्येति चेत् , उच्यते—भ्रमेण तत्त्वेन वा कश्चिदात्मेति पदार्थः सिद्ध एव ज्ञात इति सिद्धमात्मज्ञानमिति। अन्यथा अज्ञातस्यात्मनः प्रसिद्ध्ययोगादिति। एवमात्मज्ञानस्य प्रसिद्धत्वादेव न विधेयत्वमित्याह—अत इति। विधातव्यमिति। विधातुमर्हं विधातव्यं, विधिविषय इत्यर्थः। न चैवं श्रुत्या ‘आत्मा वा अरे द्रष्टव्यो मन्तव्यो निदिध्यासितव्यः’ इति विधीयत आत्मज्ञानं तव्यप्रत्ययान्तशब्दैरिति वाच्यम् ; ४विधिच्छायावचनत्वात् तेषाम्। ननु यद्येवमात्मज्ञानं न विधीयते, तर्हि किं विधीयते श्रोतव्यादि-वाक् यैः? अत आह—किं तर्हीति। मनसो यदात्मत्वं तन्न्यायशून्यमित्याशङ्क्याह—अन्य इति। बुद्धेरात्मत्वमपि न्यायोपेतमिति सूचयति—अन्ये बुद्धीति। देहादौ बुद्ध्यन्ते परमात्मत्वबुद्धिर्नान्यत्रेति नियमं वारयति—ततोऽपीति। तत्र हि साभासेऽन्तर्यामिणि कारणोपासकानामात्मत्वधीरस्तीत्यर्थः। बुद्ध्यादौ देहान्ते लौकिकपरीक्षकाणामात्मत्वभ्रान्तौ साधारणं कारणमाह—सर्वत्रेति। आत्मज्ञानस्य २लौकिकपरीक्षकप्रसिद्धत्वादेव ३विधिविषय- त्वमपि परेष्टं परास्तमित्याह—इत्यत इति। ज्ञानस्य विधेयत्वाभावे किं कर्तव्यं द्रष्टव्यादिवाक् यैरित्याशङ्क्याह—किं तर्हीति। आत्म-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘इत्यतश्च’ इति पा.। २. शास्त्रन्यायादिजन्यबुद्धिमन्तः परीक्षकाः। तादृशबुद्धिमप्राप्ताः लौकिकाः। ३. अज्ञातविषयत्वाद् विधेरिति भावः। ४. विधिसदृश- वचनत्वादित्यर्थः। द्रष्टव्यः इति तव्यप्रत्ययः अर्हार्थे इति भावः। श्रवणमनननिदिध्यासनानां वाचस्पत्युक्तरीत्या ज्ञानरूपत्वे तत्रापि अर्हार्थे तव्यप्रत्ययः। तेषां ज्ञानविजातीयचेतोवृत्तिरूपत्वे तु तत्र विधित्वमेवेति बोध्यम्। अव्यक्ताख्यमिति। जडरूपमहङ्कार इत्यर्थः। आत्मावगतेः सिद्धत्वादात्मज्ञानं चेत् प्रयत्नभाव्यं न भवति, कस्तर्हि

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[९१९]]

आत्मन्यविद्यया कृतं यन्नामरूपाद्यनात्माध्यारोपणम् , तन्निवृत्तिरेव कार्या। एवकारार्थमाह—नात्मचैतन्यविज्ञानं कार्यमिति। कुतो निवृत्तिरेव कार्येत्यत आह—अविद्येति। अविद्यया आत्मन्यध्यारोपिता ये बुद्ध्यादिसर्वपदार्थाकारास्तैर्विशिष्टतयैव आत्मचैतन्यस्य गृह्य- माणत्वात् ज्ञायमानत्वात्। अयं भावः—लोकायतिकादयः सर्वेऽप्यात्मचैतन्यं देहाद्याकारविशिष्टत्वेन रूपेण प्रतिपद्यन्त इत्यस्त्येव सर्वेषामात्मचैतन्य- प्रतिपत्तिः। सुतरामात्मज्ञानाभावे चैतन्यविशिष्टः काय आत्मेत्येवं वक्तुमशक् यत्वात्। अतः सिद्धमेवात्मज्ञानमिति नात्मज्ञानं साध्यम्। इदं चामीषामात्मज्ञानं भ्रान्तिरूपमेव, न प्रमारूपम् , निर्विशेषे आत्मनि सविशेष आत्मेति ज्ञानस्य भ्रमत्वात्। अयं तु भ्रमो नाशयि- तव्यः, अनर्थहेतुत्वादिति। निर्विशेषोऽप्यात्मा अविद्ययाऽध्यारोपिततत्तदाकारविशिष्टतयैव गृह्यतेऽतत्त्वविद्भिरित्यत्र विज्ञानवादिबौद्ध- भ्रान्तिं प्रमाणयति—अत एवेति। चैतन्यं केवलं केवलत्वादेव नोपलभ्यते। देहेन्द्रियादयस्तु जडत्वादेव नोपलभ्यन्ते, किं तर्हि? देहे- न्द्रियमनोबुद्ध्यव्यक्तैरुपलभ्यमानैः सहैवोपलभ्यते चैतन्यम् , नान्यथेति यस्मात् सिद्धं तस्मादेवेत्यर्थः। प्रतिपन्ना इति। सर्वं ज्ञेयं ज्ञान- व्याप्तमेव गृह्यते, तेन ज्ञानातिरिक्तं नास्त्येव वस्तु, सम्मतं हि ज्ञानातिरिक्तं स्वप्नदृष्टं वस्तु नास्तीत्येवं विज्ञानवादिनो भ्रान्तिं प्रतिपन्ना इत्यर्थः। ननु ज्ञानस्यापि ज्ञेयत्वाज्ज्ञातृ वस्त्वन्तरमेष्टव्यमित्याशङ्क्याह—प्रमाणेति। बौद्धाः ज्ञानस्य प्रमाणान्तरनिरपेक्षतां च प्रतिपन्ना इत्यन्वयः। कथं प्रतिपन्ना इत्यत्राह—स्वेति। ज्ञानस्य स्वसंविदितत्वाभ्युपगमेन स्वेनैव ज्ञेयत्वाङ्गीकारेण। ज्ञानं स्वैकवेद्यम्। अत एव स्वप्रकाशं स्वतः प्रमाणं चेति न प्रमाणान्तरापेक्षाऽस्ति ज्ञानस्येत्यर्थः। ननु ज्ञानस्य स्वतःप्रमाणत्वादिकं वेदान्तिभिरप्यभ्युपगतम्। ‘तस्मान्न विज्ञानमृतेऽस्ति किञ्चित् क्वचित् कदाचिद् द्विज ! वस्तुजातम्’ इति पराशरमुनिना विज्ञानातिरिक्तवस्त्वभावोऽपीष्ट इति कृत्वा किमिति विज्ञानवादिनो बौद्धा भ्रान्ता इत्युच्यत इति चेत् , उच्यते—शृणु तद्विवेकम्। विज्ञानं नित्यमखण्डमेकरूपं स्वप्रभं ब्रह्म ‘सत्यं ज्ञानमनन्त’मिति श्रुतेः। तस्माच्च चैतन्याद् ब्रह्मणो नास्त्यन्यः पदार्थः कोऽपि ‘सर्वं खल्विदं ब्रह्मे’ति श्रुतेः सर्वस्य ब्रह्मणि कल्पितत्वात् कल्पितस्य चाधिष्ठानानतिरेकादिति पराशरमतम्। नात्र मते बाह्यार्थस्यापलापः, किन्तु प्रतिभासमाने सत्येव बाह्यार्थे घटादौ विज्ञानं चैतन्यं घटाद्याकारपरिणतबुद्धिवृत्तिप्रतिफलितं सद् घटाद्याकारं ज्ञानमित्युच्यते भ्रान्त्या, न तु वस्तुत इति पराशराद्यद्वैतिमतम्। विज्ञानवादिनां बौद्धानां तु क्षणिकमेव विज्ञानं तावद्वासना- वैचित्र्याद् घटाकारमन्तर्जायते, तदेव बहिर्विषयवदवभासते, न तु कोऽपि बाह्यार्थोऽस्ति स्वप्नवज्जागरेऽपीति मतम्। विधातव्यम्। किं तर्हि? नामरूपाद्यनात्माध्यारोपणनिवृत्तिरेव कार्या, नात्मचैतन्यविज्ञानं कार्यम् , अविद्याध्यारोपित- सर्वपदार्थाकारैरेव १विशिष्टतया गृह्यमाणत्वात्। अत एव हि विज्ञानवादिनो बौद्धाः विज्ञानव्यतिरेकेण वस्त्वेव नास्तीति प्रतिपन्नाः, प्रमाणान्तरनिरपेक्षतां च स्वसंविदितत्वाभ्युपगमेन। तस्मादविद्याध्यारोपण२निराकरणमात्रं ब्रह्मणि ज्ञानस्याविधेयत्वे प्रागुक्तम् अतःशब्दितं हेतुं विवृणोति—अविद्येति। देहेन्द्रियमनोबुद्ध्यव्यक्तैरुपलभ्यमानैः सहोपलभ्यते चैतन्यम् , नान्यथा तेषामुपलम्भो जडत्वादित्यत्र विज्ञानवादिभ्रान्तिं प्रमाणयति—अत एवेति। सर्वं ज्ञेयं ज्ञानव्याप्तमेव ज्ञायते, तेन ज्ञानातिरिक्तं नास्त्येव वस्तु , सम्मतं हि स्वप्नदृष्टं वस्तु ज्ञानातिरिक्तं नास्ति इति ते भ्राम्यन्तीत्यर्थः। ज्ञानस्यापि ज्ञेयत्वाज्ज्ञातृ वस्त्वन्तरमेष्टव्यमि- त्याशङ्क्याह—प्रमाणान्तरेति। ज्ञानस्य स्वेनैव ज्ञेयत्वोपगमनेनातिरिक्तप्रमाणनिरपेक्षतां च प्रतिपन्नाः इति सम्बन्धः। ब्रह्मात्मनि ज्ञानस्य

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

पुरुषप्रयत्नस्य गोचर इत्याशङ्क्याह— किं तर्हीत्यादिना। ‘अहं [अ]परोक्षो, घटोऽपरोक्ष’ इति देहघटादीनां चैतन्यानुविद्धत्वेन स्फुरणाच्चिति कल्पितत्वम् । चित्प्रकाशश्चात्मा स्वतः सिद्ध इत्यत्र विज्ञानवादिनः सम्मतिं कथयति—अत एवेत्यादिना। किमिति तर्हि सर्वेषां प्राणिनां ब्रह्मज्ञानं न भवति? विपरीतं च ‘ब्रह्म नास्ति, न प्रकाशते ब्रह्मे’ति कथं ब्रुवत इत्याशङ्क्याह—

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१.‘अविशिष्टतया दृश्यमानत्वात्’ इति पा.। २. ‘ध्यारोपित’ इति पा.।

[[अ. १८. श्लो. ५०]] [[९२०]]

ननु कथमिदं बौद्धमतमवद्यमिति चेत् , उच्यते—क्षणिकस्य विज्ञानस्य स्वसंवेद्यत्वानुपपत्तिः। उत्पत्तेः पूर्वक्षणे नाशादुत्तर- क्षणे च ज्ञानं नास्ति, मध्यक्षण एव वर्तत इति हि क्षणिकं विज्ञानमित्युच्यते। तौ च ज्ञानस्योत्पत्तिनाशौ किं ज्ञानेन वेद्येते, उत न? आद्ये, व्याघातः, स्वोत्पत्तिनाशयोः स्वग्राह्यत्वायोगात्। न हि तत्काले स्वमस्ति। नान्त्यः, अवेद्ययोस्तयोरसाक्षिकत्वेनाभ्युपगमा- योगात्। न च ज्ञानान्तरेण वेद्यत इति वाच्यम् ; स्ववेद्यत्वापायात्। ज्ञानान्तरस्यापि क्षणिकत्वेन प्रकृतज्ञानोदयनाशदर्शनासम्भवाच्च। तस्माद् यदि ज्ञानं क्षणिकमेवेत्यभिनिवेशस्तर्ह्यन्यावभास्यमेव। न च– अद्वैतमतेऽपि कथं नित्यत्वं ज्ञानस्य? ‘घटज्ञानं मम नष्टम्’ ‘पटज्ञानं जात’मिति व्यवहारसत्त्वादिति– वाच्यम् ; घटादिविषयनाशादिप्रयुक्तत्वात् तद्व्यवहारस्य। एकस्मिन्नेवाखण्डे ज्ञाने एकस्मिन् क्षणे घटो विषयो भवति, क्षणान्तरे तु पट इति कृत्वा यदा घटो विषयस्तदा घटज्ञानं जातमिति,[यदा पटो विषयस्तदा पटज्ञानं जातमिति] च व्यवहार इति भावः। यद्वा वृत्तेः क्षणिकत्वाद् वृत्तिज्ञानस्य क्षणिकत्वव्यवहारः, वृत्तिप्रतिफलितचैतन्यस्यैव वृत्तिज्ञानत्वात्। सा च वृत्तिः साक्षि- भास्यैवेति वृत्तिज्ञानमपि साक्षिभास्यमेवेति न स्वसंवेद्यम्। विज्ञानं त्वद्वैत्यभिमतं साक्षिभूतं चैतन्यमेवेति तस्य नित्यत्वम् अनन्याव- भास्यत्वं च युक्तमेव। घटं विना तदाकारपरिणामाभावाद् बुद्धेर्वासनायाश्चायोगाद् बाह्यार्थापलापोऽप्ययुक्त इत्यवद्यं बौद्धमतम्। तस्मादिति। आत्मज्ञानस्य सिद्धत्वेनाविधेयत्वादित्यर्थः। मात्रशब्दार्थमाह—न त्विति। यत्न इति। कर्तव्य इति शेषः। कस्मा- दात्मज्ञाने यत्नो न कर्तव्यः? अत आह—अत्यन्तप्रसिद्धत्वादिति। ब्रह्मणः इति शेषः। आत्मत्वादिति भावः। न हि देहातिरिक्त- कर्तृभोक्त्रात्मवादी आत्मज्ञाने यतते, नापि देहात्मवादी आत्मानं ज्ञातुं यतते, तथा ब्रह्मात्मवाद्यपीति बोध्यम्। ननु यद्यत्यन्तं प्रसिद्धं ब्रह्म तर्हि सर्वैः कुतो न ज्ञायते? किमर्थं च महतो वेदान्तशास्त्रस्याध्ययनादिकम्? अत आह—अविद्येति। अत्यन्तप्रसिद्धं सुविज्ञेय- मासन्नतरमात्मभूतमपि ब्रह्म, अविद्याकल्पितनामरूपविशेषापहृतबुद्धीनामप्रसिद्धं दुर्विज्ञेयमतिदूरस्थमन्यदिव च प्रतिभातीत्यन्वयः। अविद्यया ब्रह्मणि कल्पिता ये नामरूपविशेषाकारास्तैरपहृतबुद्धयः, अविद्यावन्तो मूढा अनात्मनो बुद्ध्यादीनात्मत्वेन प्रतिपन्नाः सन्तः ‘स्थूलोऽहं मनुष्योऽहं काणोऽहं सुख्यहं दुःख्यहमज्ञोऽह’मित्येवं मन्यमानाः स्वात्मभूतमपि सच्चिदानन्दं ब्रह्म न विदुः। अत एवाविदुषां तेषां प्रसिद्धमपि ब्रह्माप्रसिद्धमिव भाति; सुविज्ञेयमपि दुर्विज्ञेयमिव भाति; आसन्नतरमपि दूरस्थमिव भाति; आत्मभूतमप्यनात्मभूत- मन्यदिव भातीत्यर्थः। तर्हि केषां पुनरिदं ब्रह्म सुप्रसिद्धम्? अत आह—बाह्येति। लब्धा गुर्वात्मप्रसादादयो यैस्तेषां लब्धगुर्वात्म- प्रसादादीनाम्। गुरुप्रसादः तत्त्वमस्यादिमहावाक् योपदेशादिरूपः, आत्मप्रसाद ईश्वरानुग्रहश्चित्तपरिशुद्धिर्वा। आदिपदाद् विवेकादि- कर्तव्यम् , न तु ब्रह्मज्ञाने यत्नः, अत्यन्तप्रसिद्धत्वात्। अविद्याकल्पितनामरूपविशेषाकारापहृतबुद्धित्वाद्१ अत्यन्त- प्रसिद्धं सुविज्ञेयम् आसन्नतरम् आत्मभूतमपि, अप्रसिद्धं दुर्विज्ञेयम् अतिदूरम् अन्यदिव च प्रतिभाति अविवेकिनाम्। बाह्याकारनिवृत्तबुद्धीनां तु २लब्धगुर्वात्मप्रसादानां नातः परं सुखं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरमस्ति। तथा चोक्तम् सिद्धत्वेनाविधेयत्वे फलितमाह—तस्मादिति। यत्नोऽत्र भावना। ब्रह्मणस्तज्ज्ञानस्य चात्यन्तप्रसिद्धत्वे कथं ब्रह्मण्यन्यथा प्रथा लौकिका- नामित्यत्राह—अविद्येति। यथाप्रतिभासं दुर्विज्ञेयत्वादिरूपमेव ब्रह्म किं न स्यात्? तत्राह—बाह्येति। गुरुप्रसादः शुश्रूषया तोषितबुद्धे- राचार्यस्य करुणातिरेकादेव ‘तत्त्वं बुध्यता’मिति निरवग्रहोऽनुग्रहः, आत्मप्रसादस्तु अधिगतपदशक्तिवाक्यतात्पर्यस्य श्रौतयुक्त्यनुसन्धा- नादात्मनो मनसो विषयव्यावृत्तस्य प्रत्यगेकाग्रतया तत्प्रावण्यमिति विवेकः। आत्मज्ञानस्यात्मद्वारा प्रसिद्धत्वे वाक् योपक्रमं प्रमाणयति—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अविद्याकल्पितेति। अविद्याकल्पितेन नामरूपविशेषाकारेण ‘मनुष्योऽह’मित्याद्यत्वविरुद्ध(?)बुद्धित्वाद् नात्मभूतमपि ब्रह्म प्रकाशते। देहादिभ्यो व्यावृत्तबुद्धीनां तु प्रकाशत एवेत्यर्थः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘बुद्धीनाम्’ इति पा.। २. ‘लब्धगुर्वात्मप्रसादादीनां’ इति रा.पा. भाति।

[[९२१]]

१. तथा च वह्निजन्येन धूमेन वह्न्यनुमितौ यथा नान्योन्याश्रयः, एवमत्रापीति भावः। — ‘प्रत्यक्षावगमं धर्म्यम्’ (भ.गी.९.२) इत्यादि। ग्रहणम्। अत एव बाह्याकारनिवृत्तबुद्धीनां बाह्याकारेभ्य आत्मनि कल्पितेभ्यो बुद्ध्याद्याकारेभ्यो निवृत्ता बुद्धिर्येषां तेषां विदुषां तु। अतोऽस्माद् ब्रह्मणः परम् अन्यत् सुखमानन्दरूपं सुप्रसिद्धं सुविज्ञेयं स्वासन्नतरं च वस्तु नास्ति। तेषां सच्चिदानन्दं ब्रह्मैवाहमस्मीति ज्ञानसत्त्वादिति भावः। अयमेवार्थो भगवताऽप्युक्त इत्याह—तथा चेति। तस्मात् स्वस्यैवात्मत्वाद् आत्मन एव ब्रह्मत्वात् तस्य च स्वप्रकाशत्वात् प्रमाणान्तरानपेक्षत्वाच्च कथमात्मनो ज्ञानमिति न चोदनीयम्। कुतो न चोदनीयमिति चेद्? उच्यते—न वयम् आत्मा ज्ञातव्यः इति ब्रूमः, येन तथा चोद्येत। कुतो न ब्रूथेति चेद्? येनात्मा ज्ञातव्यस्तस्यैव ज्ञातुरात्मत्वात्। तर्हि किं ब्रूथेति चेद्? देहादिष्व- नात्मस्वात्मत्वेन परिगृहीतेष्वात्मबुद्धिनिवृत्तिः कार्येति ब्रूमः। केन कार्येतिचेद्? येनानात्मान आत्मत्वेन परिगृहीतास्तेन। केन परि- गृहीता इति चेद्? अविदुषा। कोऽयमविद्वानिति चेद्? यस्याविद्याऽस्ति सः। कस्याविद्याऽस्तीति चेद्? योऽनात्मानमात्मेति प्रतिपद्यते तस्य। क एवं प्रतिपद्यत इति चेद्? उक्तमेवाविद्यावानिति। नन्वविद्यावतोऽनात्मन्यात्मबुद्धिः, अनात्मन्यात्मबुद्धिमतोऽविद्यावत्त्वमित्यन्योन्याश्रयः प्राप्त इति चेत् , न प्राप्तः, अविद्या- कार्यत्वादनात्मन्यात्मबुद्धेः। अनात्मन्यात्मबुद्धिरूपेण कार्यलिङ्गेनाविद्यावत्त्वरूपकारणस्य गम्यमानत्वात्१। ननु योऽनात्मानमात्मानं प्रतिपद्यते सोऽविद्यावानिति अहं जानाम्येव। परन्त्वेवं प्रतिपद्यमानोऽविद्यावान् स क इति पृच्छा- मीति चेत् , किं तव तत्प्रश्नेन? न च तज्ज्ञानमेव फलमिति वाच्यम् ; प्रश्नात्प्रागेव त्वया तस्य ज्ञातत्वात्। यदि त्वं तथा प्रतिपद्यमान- मविद्यावन्तं न जानासि, तर्हि कथं मां पृच्छसि—स क इति। तस्माद् अहमज्ञोऽहं मनुष्योऽहं संसारीति व्यवहारबलादविद्यावान् पुरुषः सिद्धः। तेनात्मन्यनात्माध्यारोपणनिवृत्तिः कार्या। न चासङ्गस्य पुरुषस्य कथमविद्यासङ्ग इति वाच्यम् ; नातिशङ्कनीयत्वादविद्या- वैचित्र्यविषये। असङ्गमपि ह्यविद्या ससङ्गं करोति पुरुषम् , यथा रज्जुमपि सर्पम् , गगनमपि नीलमिति। तस्माज्ज्ञानस्वरूपो ज्ञानाविषयश्चात्मेति स्थितम्। न च ज्ञानस्य साकारत्वात् कथं ज्ञानस्वरूपत्वं निराकारस्यात्मन इति वाच्यम् ; विज्ञानवादिबौद्धाभिमतक्षणिकविज्ञानस्यैव वृत्तिज्ञानरूपस्य साकारत्वम् , न तु चैतन्यस्येति। ननु यदुक्तमविषयत्वमात्मनः पूर्वपक्षिणा सिद्धान्तिना चाभ्युपेतम् , तदयुक्तम् , बुद्धिविषयत्वादात्मनः ‘दृश्यते त्वग्र्यया बुद्ध्ये’ति श्रुतेश्च। तस्मादात्मनो ज्ञानं सम्भवत्येवेति कोऽयं विपरीतो भाष्यपथ इति चेत् , मैवम् , ‘यत्तदद्रेश्यमग्राह्यं, यतो वाचो निवर्तन्त अप्राप्य मनसा सहे’त्यादिश्रुतिभिरविषयत्वस्यैवात्मन उक्तत्वात्। बुद्धिविषयत्वकथनं तु बुद्धावेकाग्रतया स्थितायामात्मतत्त्वं स्वयमेव स्फुरतीति हेतोरुक्तम्। कथमन्यथा ज्ञातुरात्मनो ज्ञेयत्वं स्यात्? ‘यन्मनसा न मनुते येनाहुर्मनो मतम्’, ‘विज्ञातारमरे केन विजानीया’दिति श्रुतेश्च। ‘यदोपरामो मनसो नामरूपरूपस्य दृष्टस्मृतिसम्प्रमोषात्। य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचि- षद्मने नमः॥’ इति भागवताच्च। तस्मान्निर्विशेषस्वप्रकाशचिन्मात्रस्यात्मनोऽविषयत्वं युक्तमेव। नन्वविषये प्रमाणान्तरानपेक्षे ब्रह्मणि कथं शास्त्रं प्रमाणम्? व्यासेनैवोक्तं हि शास्त्रयोनित्वं ब्रह्मणः। एवं शास्त्रप्रमाणत्वा- च्छास्त्रविषयस्य ब्रह्मणोऽविषयत्वकथनमयुक्तमेवेति चेत् , मैवम् ; शास्त्रमपि न ब्रह्मेदन्तया बोधयितुं शक्नोत्यविषयत्वात् , किं तर्हि? अविद्याध्यारोपणनिरासमात्रमेव करोतीति तावतैव शास्त्रप्रमाणत्वोक्तेर्ब्रह्मण इति। अत एवोक्तं श्रुतिगीतासु ‘श्रुतयस्त्वयि हि फलन्त्यतन्निरसनेन भवन्निधनाः’ इति। ननु वेदान्तानां ब्रह्मणि द्विधा प्रवृत्तिः- साक्षाद्विधिमुखेन, निषेधमुखेन चेति। तत्र सच्चिदानन्दादीनां विधिमुखेन, अस्थूल- मित्यादीनां निषेधमुखेनेति सम्प्रदायात् सच्चिदानन्दादिवाक् यानां कथं ब्रह्मण्यप्रवृत्तिर्येनाविषयत्वं स्याद् ब्रह्मण इति चेन्मैवम्। तथा चेति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १८. श्लो. ५०]] [[९२२]]

केचित्तु पण्डितम्मन्याः निराकारत्वाद् १आत्मवस्तु नोपैति बुद्धिः, अतो दुःसाध्या सम्यग्ज्ञाननिष्ठेत्याहुः। सच्चिदानन्दादिवाक् यानामपि लक्षणयैव ब्रह्मणि प्रवृत्तिर्नाभिधयेति सिद्धान्तात्। ये त्वभिधयैव ब्रह्मणि स्थूलत्वादिनिषेधं कृतवन्तस्तेषां निषेधमुखेन प्रवृत्तिः, ये तु लक्षणया असत्त्वजडत्वदुःखादिनिषेधं कृतवन्तस्तेषां विधिमुखेन प्रवृत्तिरित्यभ्युपगमात्। अत एव तात्पर्य- वृत्त्या ब्रह्मणि पर्यवसानं श्रुतीनामित्युक्तं श्रुतिगीतासु। एवं शब्दगोचरत्वादिविशेषाभावादेव निर्विशेषं ब्रह्मेत्युक्तम्। अन्यथा हि सविशेषमेव स्यात्। ननु निर्विशेषं (निराकारं) ज्ञानं क्वापि नास्ति, ज्ञानमात्रस्य सविशेषत्वादिति चेत् , मैवम् ; निर्विकल्पज्ञानस्य तार्किकादिभि- रप्यभ्युपगतत्वात्। तस्मान्निर्विशेषमेव चैतन्यरूपं ज्ञानम्। यत्पुनर्विषयाकारं ज्ञानं तद् वृत्तिज्ञानमेव। वस्तुतस्तु विषयाकारपरिणता बुद्धिवृत्तिर्नैव ज्ञानम् , किन्तु तत्प्रतिफलितं चैतन्यमेव। वृत्तेर्ज्ञानत्वं तु चैतन्याभासप्रयुक्तमौपचारिकमेव, बुद्ध्यादीनां चेतनत्ववत्। तस्माज्ज्ञानमात्रं निराकारमेव, यच्चैतन्यमात्मेत्युच्यते। बुद्धिवृत्तिरेव विषयाकारा। इयमेव क्षणिकविज्ञानमिति बौद्धेः, ज्ञानमिति तार्कि- कादिभिश्चोच्यते। एवं चोपासकस्य ‘अहं ब्रह्मास्मी’ति यदावर्त्यमानं ज्ञानं तदपि बुद्धिवृत्तिरेवेति बोध्यम्। ननु घटाकारा वृत्तिरिव ब्रह्माकारा वृत्तिः कथं जायेत? नीरूपत्वाद् ब्रह्मणो ब्रह्माकारपरिणामासम्भवाद् बुद्धेरिति चेत् , मैवम् , नीरूपस्य गगनस्य सुखस्य च बुद्धिवृत्तिविषयत्वदर्शनात्। तस्माद् गगनाकारेव ब्रह्माकाराऽपि बुद्धिवृत्तिः सम्भवत्येव। ननु तर्हि बुद्धिवृत्तिविषयत्वमात्मनः सम्पन्नमेवेति कथमविषयत्वमिति चेत् , उच्यते—अयं घटः, इदं गगनमितिवद् ‘इदं ब्रह्मे’ति ज्ञातुमशक् यत्वाद् बुद्धिवृत्त्यविषयमेव ब्रह्म, ‘अहं ब्रह्मास्मी’त्युपासकस्य बुद्धिवृत्तिस्तु ब्रह्माकारपरिणामं विनापि भवत्येव, शब्दाकारपरिणामादेवेष्टसिद्धेः, राममन्त्राकारपरिणतबुद्धिवृत्तिवत्। यथा राममन्त्रमुच्चारयत्यसकृत् तथैव हि ‘अहं ब्रह्मास्मी’त्युच्चार- यत्यसकृदुपासकः। ननूपासकस्य ‘अहं ब्रह्मास्मी’ति वृत्तिर्भवतु शब्दमयी, यद्वा मनोमयी, समाहितस्य ज्ञानिनः कथम् ‘अहं ब्रह्मा- स्मी’ति ब्रह्मसाक्षात्कारः ब्रह्माकारवृत्त्यभावे? इति चेत्, उच्यते—स्वात्मनि वृत्त्ययोगात्। आत्मसाक्षात्कारे वृत्त्यनपेक्षणात्। न हि देवदत्तो घटमिवात्मानं बुद्धिवृत्त्या जानाति, किन्तु स्वत एव। एवं च समाधौ बुद्धेर्ब्रह्माकारवृत्तिर्नाम निर्विकल्पतयैकाग्रत्वेन बुद्धे- रवस्थानमेव; तथा सत्यात्मसाक्षात्कारसम्भवात्। न चैवं सुषुप्तावप्यात्मसाक्षात्कारप्रसङ्ग इति वाच्यम् ; तदानीं बुद्धेरेवासत्त्वात्। जाग्रत्स्वप्नयोस्तु बुद्धेर्विक्षिप्ता[प्तत्वा]न्नैकाग्रतयाऽवस्थानम्। एवं बुद्ध्यैकाग्र्यस्यात्मसाक्षात्कारोपयोगित्वादेव ‘दृश्यते त्वग्र्यया बुद्ध्या’ इत्युक्तम् , न तु बुद्धिवेद्यत्वादिति। अत एव स्वसंवेद्योऽयमात्मा। न हि बुद्धिवेद्यत्वे सति स्वसंवेद्यत्वं सिध्यति, बुद्धेरन्यत्वात्। न च स्वसंवेद्यत्वमपि कथं वेदितरीति वाच्यम् ; अनन्यवेद्यत्वे स्वसंवेद्यत्वस्य तात्पर्यात्। न चानुभवरूपस्यात्मनः कथं वेदितृत्वमिति वाच्यम् ; सर्वप्रकाशकत्वस्यैव वेदितृत्वात्। अनुभवरूपेण ह्यात्मना सर्वं प्रकाश्यते, ‘तस्य भासा सर्वमिदं विभाती’ति श्रुतेः। तस्य भासेति ‘राहोः शिर’ इतिवद्भेदेन निर्देशः। आत्मचैतन्येनेत्यर्थः। तस्माज्ज्ञानस्वरूप एवात्मा ज्ञानाविषयश्च। आत्मत्वादेव स्व- प्रकाशश्चेति नात्मा ज्ञातव्यः केनचित् प्रमाणेन, सर्वप्रमाणानां तेनैव ज्ञायमानत्वादिति सङ्क्षेपः। ज्ञानात्मनोरुभयोश्च निराकारत्वे कथं तद्भावनानिष्ठेति यदुक्तं पूर्वपक्षिणा तन्निराकृतमपि स्थूणानिखननन्यायेन तन्निराकरणं पुनः स्थापयितुं भङ्ग्यन्तरेण तमेव पूर्वपक्षं पुनरुत्थापयति—केचित्त्विति। सगुणब्रह्मोपासनतत्पराः इह केचिच्छब्देनोच्यन्ते। पण्डितम् आत्मनो निराकारत्वात् तस्मिन् बुद्धेरप्रवृत्तेः सम्यग्ज्ञाननिष्ठा न सुसम्पाद्येति मतमुत्थापयति—केचित्त्विति। बहिर्मुखानामन्त- १. ‘आत्मवस्तुनोऽपैति’ इति रा.पा.।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

साकारे हि प्रतिमादौ बुद्धेः स्थैर्यं सम्भवति। ब्रह्मणः पुनः निराकारत्वात् दुःसम्पादं ब्रह्मज्ञानमिति यदाहुः कर्म- मीमांसकाः, तदनूद्य दूषयति—केचित्त्वित्यादिना।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[९२३]]

आत्मानं मन्यन्त इति पण्डितम्मन्याः, न तु वस्तुतः पण्डिता इत्यर्थः। निराकारत्वादिति। आत्मन इति शेषः। आत्मवस्तुनः सकाशाद् बुद्धिः अपैति अपगच्छति; नात्मनि निष्ठां लभत इत्यर्थः। अत इति। एवं बुद्धेरात्मनः सकाशादपगमाद्धेतोरित्यर्थः। सम्यग्ज्ञाननिष्ठा केवलात्मज्ञाननिष्ठा दुःसाध्या दुःसम्पाद्येति केचिदाहुरित्यन्वयः। अयममीषामाशयः— यद्यप्यनात्माकारनिवृत्त्यात्मज्ञानं सुलभं, तथाप्यात्मज्ञाननिष्ठा दुःसाध्या। कुतः? ज्ञाननिष्ठा नाम ज्ञाने नितरां स्थितिः, सा च बुद्धेरेव धर्मः। ज्ञेये आत्मन्येव बुद्धेरवस्थानं चिरकालमिति यत् सैवात्मज्ञाननिष्ठेत्युच्यते। यथा विष्णुध्याननिष्ठा, ध्येये शङ्खचक्रगदाधरे विष्णौ चिरकालं बुद्धेरवस्थितिर्विष्णुध्याननिष्ठेत्युच्यते, तद्वत्। तथा सति बुद्धेः साकारमेव वस्तु चिरकालमव- लम्बनं भवितुमर्हति, न तु निराकारं वस्तु। निराकारे आत्मवस्तुनि क्षणकालमेव बुद्ध्यवस्थापनस्य दुष्करत्वेन किम्पुनर्बहुकालमिति दुःसाध्यैवात्मज्ञाननिष्ठेति। एवमात्मनो निराकारत्वादेव तज्ज्ञाननिष्ठाया दुर्लभत्वे, किम्पुनर्ज्ञानस्यापि निराकारत्वे तस्या दुर्लभत्वं वक्तव्यमिति कैमुत्य- न्यायोऽनेन द्योत्यते। शङ्खचक्रगदाधरोऽयं विष्णुरिति साकारज्ञानवन्निराकारज्ञानस्य चिरमवस्थातुमयोगात्। वस्तुतो निराकारज्ञान- स्यैवाप्रत्यक्षत्वेनाप्रमाणत्वात्। न च – ‘अयमात्मे’ति निराकारं ज्ञानमस्तीति – वाच्यम् ; तस्यापि साकारत्वात्। विषयवत्त्वं हि ज्ञानस्य साकारत्वम्। तस्मान्निराकारस्य ज्ञानस्यैवासिद्धेः कथं पुनस्तन्निष्ठासिद्धिः? किञ्च अयं घट इतिवद् अयमात्मेति ज्ञानं भवितुमेव नार्हति घटवदप्रत्यक्षत्वादात्मनः। न ह्यप्रत्यक्षं देशान्तरस्थं वस्तु रजतादिकमिदं रजतमिति ग्रहीतुं शक् यते। तस्मादात्मज्ञाननिष्ठा दुःसाध्येति। सिद्धान्ती—किं विदुषामात्मज्ञाननिष्ठा दुःसाध्येति ब्रूषे, उताविदुषामिति विकल्प्य द्वितीयमङ्गीकरोति—सत्यमिति। सम्यक्प्र- माणेषु वेदान्तशास्त्रादिष्वित्यर्थः। आद्यं दूषयति—तद्विपरीतानामिति। तेभ्यः पूर्वोक्तेभ्यो विपरीताः तद्विपरीताः, गुरुसम्प्रदायवतां श्रुत- वेदान्तानां १बहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु कृतश्रमाणां चेत्यर्थः। लौकिकानि ग्राह्यग्राहकरूपाणि द्वैतवस्तूनि घटपटादीनि चक्षु- रादीनि च, तेषु बुद्धिर्नितरां दुःसम्पाद्या, न त्वद्वैते आत्मनीति भावः। तत्र हेतुमाह—आत्मेति। विदुषां विज्ञानव्यतिरेकेण वस्त्वन्तर- स्यानुपलब्धेः। ‘ऐतदात्म्यमिदं सर्वम्’ , ‘सर्वमात्मैवाभूद्विजानतः’, ‘वासुदेवः सर्व’मिति, ‘मत्तः परतरं नान्यत्किञ्चिदस्ती’ति, ‘यत्र सर्वमात्मैवाभूत्तत्र केन कं पश्ये’दित्यादिश्रुतिस्मृतिभ्यो विदुषां ब्रह्मव्यतिरेकेण किञ्चिदपि द्वैतं न भातीति द्वैतनिष्ठैव विदुषां दुःसम्पाद्या, अनुपलभ्यमानत्वाद् द्वैतस्य। न ह्यनुपलब्धे वन्ध्यापुत्रादौ कस्यापि बुद्धिः स्यात्। अद्वैते आत्मनि तु बुद्धिनिष्ठा सुलभैव, नित्या- परोक्षत्वादात्मनः। आत्मा हि स्वयम्। न हि स्वस्य स्वयं कदाचिदप्यप्रत्यक्षो भवेत्। ननु यच्चक्षुरादिप्रमाणैरुपलभ्यते तदिदं द्वैतं नास्त्यनुपलब्धेरिति, यत्पुनरिन्द्रियाद्यविषयं तदात्मवस्त्वस्त्युपलब्धेरिति च विरुद्धमिदमुभयमिति चेद्? विरुद्धमेवाज्ञानां, न तु विदुषाम्। गगनं नीलमिति मन्यमानां बालानां नीरूपं गगनमिति वचो विरुद्धमेव, न तु गगनतत्त्वविदाम् , तद्वत्। ननु ‘नाभाव उपलब्धे’रिति सूत्रकारेणैव द्वैताभाववादो निरस्त इति कथं विदुषां न विरुद्धं तव वचनमिति चेत् , मैवम् ; अविद्यादशायां द्वैताभावस्य सूत्रकारेण निन्दितत्वात्। न हि श्रुतिविरुद्धमर्थं सूत्रकारो ब्रूयात्। ‘नेह नानास्ति किञ्चन’, ‘यत्र हि द्वैतमिव र्मुखानां वा ब्रह्मणि सम्यग्ज्ञाननिष्ठा दुःसाध्या? इति विकल्प्याद्यमनूद्याङ्गीकरोति—सत्यमिति। पूर्वपूर्वविशेषणमुत्तरोत्तरविशेषणे हेतुत्वेन योजनीयम्। द्वितीयं दूषयति—तद्विपरीतानामिति। अद्वैतनिष्ठानां द्वैतविषये सम्यग्बुद्धेरतिशयेन दुःसम्पाद्यत्वे हेतुमाह—आत्मेति। १. बहिर्विषयेऽसक्ता बुद्धिर्येषामित्यर्थः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सत्यमेवम् , गुरुसम्प्रदायरहितानाम् अश्रुतवेदान्तानाम् अत्यन्तबहिर्विषयासक्तबुद्धीनां सम्यक्प्रमाणेषु अकृतश्रमा- णाम्। तद्विपरीतानां तु लौकिकग्राह्यग्राहकद्वैतवस्तुनि सद्बुद्धिर्नितरां दुःसम्पाद्या। आत्मचैतन्यव्यतिरेकेण वस्त्वन्त-

[[अ. १८. श्लो. ५०]] [[९२४]]

भवति तदितर इतरं पश्यति, यत्र तु सर्वमात्मैवाभूत् तत्र केन कं पश्येत्’, ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती’त्यादिना विद्यादशायां सर्वद्वैताभावस्य, अविद्यादशायां द्वैतसत्त्वस्य, अद्वितीयात्मनि द्वैतज्ञाननिन्दायाश्च श्रुतिभिरुक्तत्वात्। ‘एकमेवाद्वितीयं ब्रह्मे’त्यद्वैतत्वम् अत एव हि ब्रह्मणः सिद्ध्येत्। कथमन्यथा विद्यादशायामपि द्वैतसत्त्वे ब्रह्माद्वितीयं स्यात्? तस्मादविद्यायामन्तरावर्तमानैर्बौद्धैरुक्तस्य द्वैताभावस्याविद्याविषयत्वेन तदानीं तदभावप्रतिपादनमयुक्तमिति निन्दितं तन्मतं सूत्रकारेणेति कृत्वा विद्वद्दृष्ट्या द्वैताभावः सिद्ध एव, अनुपलब्धेर्द्वैतस्य विद्यादशायाम्। न हि सुषुप्तिमृतिमूर्छासु द्वैतोपलम्भो येन विद्या- दशायां द्वैतोपलम्भः स्याद् विदुषाम्। तस्मादविद्यादशायां द्वैतस्योपलब्धेर्हेतोरभावो न युक्तः; विद्यायामनुपलब्धेर्हेतोरभावो युक्त एव। ततश्च विद्यावतामात्मज्ञाननिष्ठा, अविद्यावतां द्वैतज्ञाननिष्ठेव सुलभैव। यथा चैतदेवमेव भवति, अन्यथा न भवति तथा पूर्वमेवावोचाम। नन्विदं तव कपोलकल्पितमेवेत्यत आह—उक्तं भगवतेति। यस्यामविद्यादशायां भूतानि जाग्रति व्यवहरन्ति, सा पश्यतो मुनेर्विदुषो निशा निशेवाप्रकाशा। द्वैतानुपलब्धेर्विदुष इति भावः। तस्मादिति। विदुषां ज्ञाननिष्ठायाः सुलभत्वादित्यर्थः। बुद्धेरात्मस्वरूपावलम्बनं प्रति बाह्याकारभेदज्ञाननिवृत्तिरेव कारणम् , न त्वात्मनः साकारत्वमित्यर्थः। अयं भावः—निराकारत्वादात्मन्यालम्बने बुद्धिर्न चिरं तिष्ठतीति यदुक्तम् , तदयुक्तम्। साकारेऽपि विष्णुमूर्त्यालम्बने विषय- लम्पटानां बुद्धिनिष्ठादर्शनात्। तस्मादालम्बनविशेषे बुद्धिनिष्ठां प्रत्यालम्बनगतसाकारत्वं न प्रयोजकम् , किन्तु तदालम्बनातिरिक्त- विषयानवगाहित्वमेव बुद्धेः। तथा चानात्माकारानवगाहित्वे सति बुद्धेरात्मस्वरूपावलम्बने निष्ठा सम्भवत्येव। यथा सगुणोपासकस्य शब्दादिविषयानवगाहित्वे सति बुद्धेर्विष्णुमूर्त्यालम्बने निष्ठा सम्भवति, तद्वत्। ततश्चात्मज्ञाननिष्ठाकामेन पुरुषेण विदुषा बाह्याकार- भेदबुद्धिनिवृत्तिरेव कार्या। तस्यां च कृतायां स्वत एव बुद्धिरात्मनि निष्ठिता भवति। सगुणोपासकस्य तु शब्दादिबाह्यविषयबुद्धिनिवृत्ति- मात्रेण न विष्णुस्वरूपज्ञाननिष्ठा सम्भवति; किन्तु शब्दादिभ्यो बुद्धिं प्रत्यावर्त्य, मनसि विष्णुमूर्त्याकारं कल्पयित्वा, तत्र बुद्धिः बलात्प्रवेशनीयेति श्लोको[क्लेशो]ऽधिकतर एव। तस्य च कल्पिताकारस्य चिरमवस्थापनमपि क्लेशावहमेव। तस्मात् साकारविष्ण्वादि- मूर्तिध्याननिष्ठापेक्षया आत्मज्ञाननिष्ठैव सुलभा। बाह्याकारभेदज्ञानं त्यक्त्वा तूष्णीमवस्थितायां सत्यां बुद्धावात्मस्वरूपस्फुरणात्। न चैवं सकृत्स्फुरितेऽप्यात्मनि बुद्धिश्चिरं न तिष्ठति, गुणाभावादिति वाच्यम् ; परमानन्दरूपत्वादात्मनः, ‘सच्चिदानन्दं ब्रह्मे’ति श्रुतेः, ‘आनन्दो ब्रह्मेति व्यजाना’दिति श्रुतेश्च; सुषुप्तौ सर्वप्राणिनामात्मानन्दानुभवाच्च; अभीष्टविषयसिद्धिवशाद् अन्तर्मुखमनोवृत्तौ प्रतिफलि- तस्यात्मानन्दस्यैव विषयानन्दत्वाच्च। यदि बुद्धिः सकृदात्मानन्दमनुभवेत् तर्हि तं न परित्यजेदेव। किं निद्रासुखमनुभवन्तः पुरुषाः निद्रां स्वेच्छया परित्यजन्तो दृश्यन्ते? अत एव ‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च सन्तुष्टस्तस्य कार्यं न तद्व्यतिरेकेण वस्त्वन्तरस्यासत्त्वं कथमित्याशङ्क्याह—यथा चेति। अद्वैतमेव वस्तु , द्वैतं त्वाविद्यकम् , न अन्यथा तात्त्विकमित्येतद् एवमेव यथा स्यात् तथोक्तवन्तो वयं तत्र तत्राध्यायेष्विति योजना। अन्तर्निष्ठानामद्वैतदर्शिनां द्वैते नास्ति सद्बुद्धिरित्यत्र भगवतोऽपि सम्मतिमाह—उक्तञ्चेति। परमतं निराकृत्य प्रकृतमुपसंहरन् , आत्मनो निराकारत्वे ज्ञानस्य तदालम्बनत्वे किं कारणमित्याशङ्क्याह— तस्मादिति। नन्वात्मा कथञ्चित् सम्यग्ज्ञानक्रियासाध्यश्चेत् तस्य हेयोपादेयान्यतरकोटिनिवेशात् प्राप्तं स्वर्गादिवत् क्रियासाध्यत्वेना- सिद्धत्वम् , नेत्याह— न हीति। आत्मत्वादेव १प्रसिद्धत्वेन प्राप्तत्वाद् , अनात्मवत् तस्य हेयोपादेयत्वयोरयोगान्न क्रियासाध्यतेत्यर्थः। १. सर्वो ह्यात्मास्तित्वं प्रत्येति—अहमस्मीति (ब्र.सू. १-१-१) भाष्यमनुसंधेयम्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

रस्यानुपलब्धेः। यथा चैतदेवमेव, नान्यथेत्यवोचाम। उक्तं च भगवता— ‘यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः’(भ.गी.२.६९) इति। तस्माद् बाह्याकारभेदबुद्धिनिवृत्तिरेवात्मस्वरूपालम्बने कारणम्। न ह्यात्मा नाम कस्यचित्

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

यदुक्तमात्मज्ञानस्य प्रयत्नानर्हत्वं तन्निगमयति अधिकविवक्षया— तस्मादित्यादिना। यद्विधीयमानं कर्मकारकं तदु-

[[९२५]]

विद्यते॥’ इत्युक्तम्। तस्मादकृतबुद्धेरेवात्मस्वरूपावलम्बनं दुर्लभम् , क्लेशावहं च, न तु कृतबुद्धेः। नन्वविषयो ह्यात्मा कथं बुद्धेर्विषयः स्यादिति चेत् , मैवम् ; असंस्कृतबुद्धेरेवाविषय इत्युक्तत्वात्। संस्कृतबुद्धिरपि नात्मानं विषयीकरोति, बुद्धेरेवात्मना गृह्यमाणत्वात् ; किं तर्हि? एकाग्रा सत्यात्मानन्दं स्वप्रतिफलितमनुभवतीत्येतावतैव बुद्धिविषय आत्मा इत्युच्यते। न च कथं बुद्धेर्जडाया आनन्दानुभवितृत्वमिति वाच्यम् ; आत्मचैतन्यप्रतिफलनेन चेतनत्वाद् बुद्धेः। एतेनात्मनः स्वा- नन्दानुभवे किं बुद्ध्यैकाग्र्येणेति शङ्काऽपि परास्ता। प्रमातुः स्वस्वरूपानन्दानुभवं प्रति बुद्ध्यैकाग्र्यस्य साधनत्वमिति। मोक्षे तु स्वरूप- चैतन्येनैवात्मन आनन्दानुभवः, सुषुप्तौ त्वविद्यावृत्तिभिरिति विवेकः। नन्वप्रसिद्धमिदं ब्रह्म कथं विदुषाऽप्युपलभ्येत? येन तस्यात्मज्ञाननिष्ठा स्याद् अत आह—न हीति। कस्यचिदपि कदाचिद- प्यात्मा नाप्रसिद्धः। आत्मत्वादेवेति भावः। अत एव प्राप्यो वा न भवति, नित्याप्तत्वादात्मन इति भावः। अत एव हेयो न भवति। हातुं त्यक्तुं शक् यो हेयः। हातुरेवात्मत्वादिति भावः। उपादेयोऽपि न भवति, उपादातुरेवात्मत्वादिति भावः। न चैवं प्रसिद्धमात्मानं कथं सर्वे सच्चिदानन्दं न विदुरिति वाच्यम् ; सर्वेषां सच्चिदानन्दरूपत्वेन न प्रसिद्धः; किन्त्वात्मत्वेन रूपेणैव यो यमात्मत्वेन प्रतिपद्यते तस्य स प्रसिद्धः। यथा देवदत्तो मनुष्यमात्मत्वेन प्रतिपद्यत इति मनुष्यदेहरूप आत्मा देवदत्तस्य प्रसिद्धः। विष्णुमित्रो मन आत्मत्वेन प्रति- पद्यत इति तस्य मन आत्मा प्रसिद्धः—सुख्यहं दुःख्यहमिति। विदुषां तु क्षेत्रज्ञ एवात्मत्वेन प्रसिद्ध इति ते सच्चिदानन्दं ब्रह्मैवात्मानं विदुः। अत एवाविद्वद्भिरात्मत्वेन गृहीतानामनात्मनामन्यत्वेन गृहीतस्य च ब्रह्मणो यथावद्ग्रहणार्थं वेदान्तशास्त्रं प्रवर्तितं कृपालुना भगवता, न त्वप्रसिद्धमात्मानं बोधयितुम्। येनात्मा बोद्धुमिष्टस्तस्यैवात्मत्वात्। ननु ‘मामहं न जानामी’त्यनुभवादप्रसिद्ध एवात्मेत्यत आह—अप्रसिद्धे हीति। तस्मिन्नात्मन्यप्रसिद्धे सति हि स्वार्थाः सर्वाः प्रवृत्तयो व्यर्थाः प्रसज्येरन्। यद्यप्रसिद्धः स्यादात्मा तर्हि लौकिकैर्वैदिकैश्चात्मार्थं क्रियमाणाः सर्वे व्यवहारा लुप्येरन्नेव। ममेदं सुखमिष्टं स्यान्ममेदमनिष्टं दुःखं माभूत् , अनेन भोजनेन मैथुनेन च मम सन्तोषः स्यात् , अनेन यज्ञेन मम स्वर्गः स्यादित्येवमभिसन्धाय हि पुरुषस्तेषु तेषु कर्मसु प्रवर्तते। स्वस्यैवाप्रसिद्धत्वे कथं तत्प्रवृत्तिः? ननु देहाद्यर्था भोजनादिप्रवृत्तयः। भोजने कृते देहादेर्वृद्धिः, तस्मिन्नकृते नाशश्च भवतीति। अत आह—न चेति। प्रवृत्तीनां देहाद्यचेतनार्थत्वं कल्पयितुं न शक् यम् , देहादीनामचेतनत्वात्। अनेन भोजनेन मम वृद्धिः स्यादिति न देहादीनां ज्ञानसम्भवः, अचेतनत्वात्। एवं ज्ञानाभावादेव देहादीनां भोजनादिषु न प्रवृत्तिः। न च – मम देहाभिवृद्धिः स्यादिति भोजने प्रवर्तते देहीति देहार्थमेव प्रवृत्तिरिति – वाच्यम् ; किं देहादन्यस्यात्मनो देहाभिवृद्ध्या? तस्माद् देहाभिवृद्धिरप्यात्मसुखायैवाकाङ्क्षितेत्यात्मार्थमेव देहाभिवृद्धिकरभोजनादौ प्रवृत्तिरपि, न तु देहार्थम्। आत्मनश्चेदृते क्रियामसिद्धत्वम् , तदा सर्वप्रवृत्तीनामभ्युदयनिःश्रेयसार्थानामात्मार्थत्वायोगादर्थिनोऽभावे स्वार्थत्वमप्रामाणिकं स्यादित्याह —अप्रसिद्धे हीति। न२ प्रवृत्तीनां स्वार्थत्वं देहादीनामन्यतमस्यार्थित्वेन तादर्थ्यादित्याशङ्क्य घटादिवदचेतनस्यार्थित्वायोगान्नैवमित्याह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कदाचिदप्रसिद्धः प्राप्यो हेय उपादेयो वा। अप्रसिद्धे हि तस्मिन्नात्मनि १स्वार्थाः सर्वाः प्रवृत्तयो व्यर्थाः प्रसज्येरन्। न

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

पादानाद्यहं[र्हं] दृष्टम्। ब्रह्म तु स्वरूपत्वादेव नोपादानाद्यर्हम् , ततो न तज्ज्ञानस्य विध्यर्हत्वमित्यभिप्रेत्याह— हेय उपादेयो वेति। प्रसिद्धत्वादात्मनः तज्ज्ञाने विधिर्न सम्भवतीत्युक्तम् । तां प्रसिद्धिमिदानीं साधयति—अप्रसिद्धे हीत्यादिना। संहतानां देहेन्द्रियादीनां शयनादिवत् स्वव्यतिरिक्तशेषाः प्रवृत्तयो वक्तव्याः। न चेद् व्यतिरिक्त आत्मा प्रसिद्धस्तर्हि ताः प्रवृत्तयः स्व- (वि)शेषभूता एव प्रसज्येरन्नित्यर्थः। यत्रापि भृत्यादिदेहस्य स्वाम्यादिशेषत्वं प्रसिद्धम् , तत्रापि देहादेरचेतनत्वाद् न शेषित्व- १. स्वशब्देन प्रवृत्तयो ग्राह्याः। वक्ष्यमाणरीत्या अन्यार्थत्वासंभवात् स्वार्थत्वम्। स्वार्थत्वे च वैयर्थ्यम् , स्वस्योपभोगाभावात्। ‘अस्वार्थाः सर्वाः प्रवृत्तयः प्रसज्ये- रन्’ इति पा.। २. ‘ननु’ इति पा.।

[[अ. १८. श्लो. ५०]] [[९२६]]

च देहाद्यचेतनार्थत्वं शक् यं कल्पयितुम्। न च सुखार्थं सुखम् , दुःखार्थं वा दुःखम्। आत्मावगत्यवसानार्थत्वाच्च सर्व- व्यवहारस्य। तस्माद् यथा स्वदेहस्य परिच्छेदाय न प्रमाणान्तरापेक्षा, ततोऽप्यात्मनोऽन्तरतमत्वात् तदवगतिं प्रति न प्रमाणान्तरापेक्षेति आत्मज्ञाननिष्ठा विवेकिनां सुप्रसिद्धेति सिद्धम्। ननु प्रवृत्तयो नात्मार्थाः, नापि देहाद्यर्थाः, किन्तु सुखार्था एवेत्यत आह—न च सुखार्थमिति। प्रवृत्तयः सुखार्था भवन्तु नाम, तच्च सुखं किमर्थमाकाङ्क्ष्यते पुरुषेण? किमात्मार्थं? यद्वा सुखार्थम्? आद्ये, सुखस्यात्मार्थत्वात् सुखहेतुप्रवृत्तयोऽप्यात्मार्था एवेति सिद्ध- मात्मार्थत्वम् आत्मसुखार्थत्वात् प्रवृत्तीनाम्। द्वितीये, सुखार्थं सुखं पुरुषेणाकाङ्क्ष्यत इत्यनुपपन्नं, व्याघातात् ; सुखस्याचेतनत्वात्। फलभूतस्य साधनभूतस्य च सुखस्यैकत्वे आत्माश्रयात् ; भिन्नत्वेऽनवस्थानात्। तस्मान्न सुखार्थं सुखमिष्यते। एवं दुःखार्थं च दुःखं नेष्यत इति दुःखहेतुप्रवृत्तयोऽपि न दुःखार्थाः, किन्तु शत्रुशरीराद्यवच्छिन्नात्मार्था एव। तत्र हेतुमाह—आत्मेति। सर्वव्यवहारस्या- त्मावगत्यवसानार्थत्वात्। आत्मावगतिरेव अवसानार्थः चरमार्थः, पर्यवसानमिति यावत्। यस्य तत्त्वाद् , आत्मावगतिपर्यवसा- यित्वादित्यर्थः। आत्मावगतिरवसानं यस्य स आत्मावगत्यवसानः, अर्थः प्रयोजनं यस्य तत्त्वादिति वा। सर्वव्यवहारार्थस्यात्मप्राप्ति- पर्यवसायित्वादित्यर्थः। सर्वस्यापि व्यवहारस्य यो योऽर्थः सुखदुःखसुकृतदुष्कृतादिः स सर्वोऽप्यात्मानमेवासाद्य नश्यति, न त्वन्यत्र गच्छतीत्यर्थः। तस्मादात्मन्यप्रसिद्धे सति कर्तुर्भोक्तुश्चाभावाद् व्यर्था एव स्युः सर्वाः प्रवृत्तयः, लुप्ताश्च। यो हि क्रियासु प्रवर्तते, यश्च क्रियाफलमनुभवति तस्यैवाप्रसिद्धत्वे कथं क्रियाणां सिद्धिः? क्रिया हि कर्तृपरतन्त्रा, न स्वतः सिद्ध्येत्। तस्माद् यः कर्म चिकीर्षति, यश्च तत्फलमनुबुभूषति, स आत्मा सुप्रसिद्ध एव। तस्मादिति। प्रसिद्धत्वादेवात्मन इत्यर्थः। परिच्छेदनाय ज्ञानायेति यावत्। प्रमाणेन चक्षुरादिना प्रमेयं घटादिकं परिच्छिद्यमानं दृश्यते लोके। एवं स्वदेहस्य केनापि प्रमाणेन परिच्छेदो न दृष्टः, प्रमाणव्यवहारात्प्रागेव सर्वस्य स्वदेहज्ञानसम्भवात्। न हि मनुष्यः चक्षुषा मनुष्यमात्मानं जानाति, तथा सति तमसि चक्षुर्व्यापाराभावान्मनुष्योऽहमिति ज्ञानासम्भवप्रसङ्गात्। न च देहस्य स्थौल्यकार्श्यादिपरिच्छेदनाय चक्षुरादिकमावश्यकमिति [वाच्यम्]। स हि न देहपरिच्छेदः, किन्तु गुणपरिच्छेद एवेति। एवं देहपरिच्छेदस्य प्रमाणान्तरानपेक्षत्वं प्रति हेतुरन्तरतमत्वमेव। अन्तरतमत्वं च नित्यसन्निहितत्वम्। न ह्यसन्निहित इवामलके करतलामलकेऽपि प्रमाणापेक्षाऽस्ति पुरुषस्य। तदेव करतलामलकं यदि क्वचित्क्षिप्तं स्यात् तर्हि तत्परिच्छेदनं पुनरावश्यकमेव। एवं च सति सन्निहितत्वासन्निहितत्वे एव वस्तुनः परिच्छेदने प्रमाणापेक्षत्वतदपेक्षत्वयोः प्रयोजके इति सिद्धम्। ततोऽपीति। देहादपीत्यर्थः। तदवगतिमात्मज्ञानं प्रति प्रमाणान्तरापेक्षा नास्ति, प्रमाणव्यापारात्प्रागेवात्मज्ञानसम्भवाद्, यः प्रमाणव्यापारेणात्मानं बोद्धुमिच्छति, तस्यैवात्मत्वात् , प्रमातर्यपि प्रमाणव्यापार इत्यस्य विरुद्धत्वाच्चेति हेतोः विवेकिनामात्मज्ञाननिष्ठा न चेति। ननु प्रवृत्तीनां फलावसायितया सुखदुःखयोरन्यतरार्थत्वान्न स्वार्थत्वम् , तत्राह— न चेति। प्रवृत्तीनां सुखदुःखार्थत्वेऽपि तयोः स्वार्थत्वासिद्धेरर्थित्वेनात्मा सिध्यतीत्यर्थः। किञ्च १सर्वापेक्षान्यायादात्मावगत्यवसानः सर्वो व्यवहारः। न चात्मन्यप्रसिद्धे यज्ञादिव्यवहा- रस्य तज्ज्ञानार्थत्वम्। तेनात्मप्रसिद्धिरेष्टव्येत्याह—आत्मेति। नन्वात्मा प्रसिद्धोऽपि प्रमाणद्वारा प्रसिध्यति, यत् सिध्यति तत् प्रमाणादे- वेति न्यायात् , तत्राह—तस्मादिति। मानमेयादिसर्वव्यवहारस्यात्मावगत्यन्तत्वोपगमात् , प्रागेव प्रमाणप्रवृत्तेरात्मप्रसिद्धेरेष्टव्यत्वा- दित्यर्थः। आत्मावगतेरेवं स्वाभाविकत्वे विवेकवतामारोपनिवृत्त्या ज्ञाननिष्ठा सुप्रसिद्धेत्युपसंहरति—इत्यात्मेति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ (ब्र.सू. ३।४।२६) सूत्रोक्तो न्यायः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

मित्याह— न च देहादीति। किञ्च ममे[ष्टं] स्यात् अनिष्टं मा भूदिति परमप्रेमास्पदत्वेनाप्यात्मा प्रसिद्ध इत्याह—न च सुखार्थ- मिति। आत्मनः स्वरूपभूता या अवगतिः तद्व्याप्तविषयत्वाच्च दर्शनादिव्यवहारस्यात्मनः प्रसिद्धिरवगम्यते। अन्यथा ‘मयेदं श्रुत’मित्यादिव्यवहाराभावः स्यादिति भावः।

[[९२७]]

येषामपि निराकारं ज्ञानमप्रत्यक्षम् , तेषामपि ज्ञानवशेनैव ज्ञेयावगतिरिति ज्ञानमत्यन्तं प्रसिद्धं सुखादिवदेव इत्यभ्युपगन्तव्यम्। जिज्ञासानुपपत्तेश्च। अप्रसिद्धं चेज्ज्ञानं ज्ञेयवज्जिज्ञास्येत। यथा ज्ञेयं घटादिलक्षणं ज्ञानेन ज्ञाता सुप्रसिद्धा। न चात्मज्ञानसम्भवेऽपि तन्निष्ठा न सम्भवतीति वाच्यम् ; स्वस्मिन् कदाचिदपि संशयविपर्ययज्ञानानामसम्भवेन निष्ठाया अपि सुलभत्वात्। न ह्यज्ञोऽपि मनुष्यत्वेनाभिमतमात्मानं कदाचित् किमहं मनुष्यः उत पशुरिति, पशुरेवाहमिति, नाहं मनुष्य इति च प्रत्येति, येन संशयादिभिः अहं मनुष्य इत्यात्मज्ञानस्य निष्ठा दुर्लभा स्यात्। तथा प्राज्ञोऽपि सच्चिदानन्दब्रह्मत्वेनाभिमतमात्मानं कदाचिदपि किमहं ब्रह्म, उत संसारीति, संसार्येवाहमिति, नाहं ब्रह्मेति च प्रत्येति, येन संशयादिभिः अहं ब्रह्मेत्यात्मज्ञाननिष्ठा दुर्लभा स्यात्। न हि यथावज्ज्ञाते घटे वस्तुनि संशयाद्युपपत्तिः, येन घटोऽयमिति ज्ञानं निष्ठितं न भवेत्। न हि कोऽपि यथावज्ज्ञातं घटं पुनर्विस्मरति, येन तदविस्मरणाय घटो घट इत्येवं ज्ञानमभ्यस्येत। तस्मादात्मज्ञानं तन्निष्ठा च सुलभैव। ये तु पुनरात्मानं ब्रह्मेत्यविदित्वा, अन्नादिष्विवात्मनि ब्रह्मबुद्धिमध्यस्य, अहं ब्रह्मेत्युपासते, तेषां भवत्वात्मध्याननिष्ठा दुर्लभा। बुद्धेरेवंविधध्याने चिरावस्थापनस्य दुःशकत्वात्। ‘चञ्चलं हि मनः कृष्ण’ इत्युक्तं प्रागेवार्जुनेन। तस्माद् विवेकिनां लब्धगुर्वादिप्रसादा- नामात्मज्ञाननिष्ठा सुलभैवेति सिद्धम्। ननु निराकारोऽप्यात्मा भवतु प्रसिद्धः, नित्यापरोक्षत्वात्। निराकारं ज्ञानं त्वप्रसिद्धमेवाप्रत्यक्षत्वाद् , अत आह—येषामिति। येषां वादिनां निराकारं ज्ञानमप्रत्यक्षमित्यभिमतं तेषामपि ज्ञानमत्यन्तप्रसिद्धमेवेत्यभ्युपगन्तव्यम्। कुतः? ज्ञानवशेनैव ज्ञेयावगतिरिति हेतोः। घटादयो हि ज्ञेया ज्ञानवशेनैवावगम्यन्ते ज्ञात्रा। न हि घटमानयेति पित्रादिष्टः पुत्रः ‘अयं घटः’ इति ज्ञानाभावे घटमानयेत्। न च ‘अयं घट’ इति ज्ञानस्य साकारत्वात् प्रसिद्धत्वमिति वाच्यम् ; तत्रापि विषयांशो घट एव साकारः, न तु विषय्यंशो ज्ञानमिति। तथाहि— ‘अयं घट’ इति ज्ञानस्य साकारत्वं किं त्वं घटशब्दवत्त्वाद् ब्रूषे, उत घटवत् कम्बुग्रीवाद्याकारवत्त्वात्? नाद्यः, अयं घट इति वाक् य एव शब्दोऽस्ति, न तु तज्ज्ञान इति। अन्यथा अयं रामशब्द इति ज्ञानेऽपि रामशब्दः स्यात्। न चेष्टापत्तिः, २रामशब्दे रामशब्द इति व्याघातात्। शब्दवतो वाक् यत्वेन ज्ञानस्यापि वाक् यत्वप्रसङ्गात्। ज्ञाने वर्तमानस्य शब्दस्य ग्रहणाय ज्ञानान्तरापेक्षायामनवस्था- प्रसङ्गात्। स्वेनैव स्वधर्मभूतशब्दग्रहणस्यासम्भवात्। यद्ययं घट इति ज्ञाने घटशब्दः स्यात् , तर्हीदं ज्ञानं घटशब्दयुक्तमिति ज्ञानं स्यात् , तच्च न दृश्यतेऽनुभवविरोधात्। न हि कोऽपीदं ज्ञानं घटशब्दवदिति प्रत्येति। तस्मान्न ज्ञाने घटशब्दोऽस्ति, नापि कम्बु- ग्रीवाद्याकारोऽस्ति, ज्ञाने तददर्शनात्। यद्यस्ति तद्ग्रहणार्थं ज्ञानान्तरापेक्षायामनवस्थाप्रसङ्गात् , स्वेनैव स्वाकारग्रहणायोगादिदं कम्बु- ननु ‘अनाकारामेवानुमिमीमहे बुद्धि’मिति वदतामनाकारमप्रत्यक्षमिच्छतां प्रागर्थावगतेरप्रसिद्धमेव ज्ञानम् , नेत्याह— येषामिति। सुखादिवन्नित्यानुभवगम्यं ज्ञानम् , नानुमेयम् , विषयावगत्या १तदनुमितावितरेतराश्रयादिति भावः। इतश्च ज्ञानं प्रसिद्धम् , अन्यथा तत्र जिज्ञासाप्रसङ्गात्। न च ज्ञाने जिज्ञासा प्रसिद्धा, प्रसिद्धे च तदयोगादित्याह—जिज्ञासेति। तदेव प्रपञ्चयति—अप्रसिद्धं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ननु ‘प्रज्ञानं ब्रह्मे’त्यादिशास्त्रात् (र्थतया?) त्वया ज्ञानस्वभाव आत्मा स्वीक्रियते। तच्च ज्ञानं नित्यानुमेयमिति भाट्टाः। अतः कथम् [अ]परोक्षत्वमात्मन इत्याशङ्क्याह—येषामपीति। यथा प्रदीपप्रकाश्यं तस्मिन्नप्रकाशमाने न प्रकाशते, तथा ज्ञानप्रकाश्यमप्रकाशमाने ज्ञाने न प्रकाशते। अतो ज्ञानमपरोक्षप्रकाशं वक्तव्यम्। अन्यथा घटज्ञानोदयानन्तरमेव ‘ज्ञातोऽयं मया घटः’ इति विशिष्टपरामर्शो न स्यादित्यर्थः। अस्तु तर्हि ज्ञानान्तरेणापरोक्षतेत्याशङ्क्याह—जिज्ञासेति। ज्ञानं

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. विषयगताऽवगतिः ज्ञाततापरपर्यायं प्राकट्यम्। ततो ज्ञानानुमितिः भाट्टानामिष्टा। २. ‘राम’ इति ज्ञाने रामशब्दो वर्तत इति रामाकारत्वं चेत् , ‘रामशब्द’ इति ज्ञाने रामशब्दाकारत्वं रामशब्दशब्दवत्त्वाद् वक्तव्यम्। तत्र च रामशब्द इति शब्दे रामशब्दो वर्तत इति आत्माश्रय इत्यर्थः।

[[अ. १८. श्लो. ५०]] [[९२८]]

ग्रीवाद्याकारवज्ज्ञानमिति प्रतीत्यभावादिति। न च सविषयत्वाद् अयं घट इति ज्ञानं साकारमिति वाच्यम् ; किं सविषये ज्ञाने घटो विषयः, उत निर्विषये? आद्ये, घटस्य ज्ञानविषयत्वापत्तेः प्राक्कथं ज्ञानस्य सविषयत्वम्? द्वितीये, सिद्धमेव निराकारं ज्ञानम्। न चोत्पन्ने ज्ञाने घटो न विषयो भवति, किन्तूत्पद्यमानमेव ज्ञानं सविषयमुत्पद्यत इति वाच्यम् ; ज्ञानस्य जन्मनाशयोरभावात्। भावे वा तद्ग्रहणार्थं ज्ञानान्तरापेक्षायां तस्यापि ज्ञानान्तरस्य जन्मनाशवत्त्वेन तद्ग्रहणार्थं ज्ञानान्तरापेक्षायामनवस्थाप्रसङ्गात् , स्वेनैव स्वनाशोदयग्रहणा- सम्भवाच्च। न च ज्ञात्रा ज्ञानस्य जन्मनाशौ गृह्येते इति वाच्यम् ; ज्ञानस्यैव ज्ञातृत्वात्। न च ज्ञानं न ज्ञाता, किन्तु ज्ञानाश्रयो ज्ञातेति वाच्यम् ; ज्ञानोदयात्प्राग्ज्ञाननाशान्तरं च तस्य ज्ञातृत्वासिद्धेः। न चेष्टापत्तिः, त्वत्समीहितज्ञानोदयतन्नाशयोरेवासिद्धेः। कथम्? असाक्षिकयोर्ज्ञानप्रागभावप्रध्वंसाभावयोरनभ्युपगन्तव्यत्वात्। न चात्मसाक्षिकावेवेति वाच्यम् ; ज्ञानप्रागभाववत्यात्मनि ज्ञानसत्त्वा- योगात्, तत्सत्त्वे वा ज्ञानप्रागभावायोगात्। एवं ज्ञानप्रध्वंसानन्तरं ज्ञानसत्त्वायोगात्, तत्सत्त्वे ज्ञानप्रध्वंसायोगाच्च। तस्माज्ज्ञानप्राग- भाववतो ज्ञानप्रध्वंसाभाववतश्चात्मनो ज्ञातृत्वमसम्भव्येव। ननु सविषयाण्युत्पद्यमानानि ज्ञानान्यनन्तानि तत्प्रागभावाश्चानन्तास्तत्प्रध्वंसाभावाश्चानेक इति चेत् , मैवम् ; युगपदनन्त- ज्ञानसत्त्वे प्रमाणाभावात्। अयं घट इति ज्ञानसत्त्वे अयं पट इति ज्ञानान्तरानुदयात्। क्षणभेदाज्ज्ञानभेदाभ्युपगमे तु पूर्वोक्तदोष- प्रसक्तिः। पटज्ञाननाशानन्तरं घटज्ञानोदयात्प्राक् च ज्ञानाभावादात्मनः पटज्ञाननाशो घटज्ञानोदयश्चासाक्षिकत्वान्नैव सिध्यत इति। न चायं घटप्रागभाव इति, अयं घटप्रध्वंसाभाव इति च ज्ञानमस्ति तदाप्यात्मन इति वाच्यम् ; तथाऽनुभवाभावात्। न च घटो नास्ती- त्यनुभवोऽस्तीति वाच्यम् ; तज्ज्ञानेन घटज्ञानोदयतन्नाशयोर्ग्रहणायोगात्। घटाभाव एव हि तेन गृह्यते, अयं घटप्रागभावः इत्यनुभवसत्त्वेऽपि न तेन घटज्ञानोदयो गृह्यते। नाप्ययं घटप्रध्वंसाभावः इति ज्ञानेन घटज्ञाननाशः, किन्तु घटाभाव एव गृह्यते। तस्मादयं घटज्ञानोदयः, अयं घटज्ञाननाश इति ज्ञानाभावादसाक्षिकावेव घटज्ञानस्यापि जन्मनाशौ। यदि घटज्ञानोदय इति ज्ञान- मस्तीत्याग्रहः, तर्हि तस्यापि घटज्ञानोदयज्ञानस्य सादित्वेन घटज्ञानोदयज्ञानोदयार्थमन्यस्यापि ज्ञानस्याभ्युपगन्तव्यत्वादनवस्था- दोषप्रसक्तिः। नन्वनुमानाद् घटज्ञानस्य जन्मनाशौ सिद्ध्यतः, अस्मिन् पक्षे घटज्ञानसत्त्वात् ; क्षणान्तरे तदभावाच्चेति चेत् , मैवम् ; क्षणान्तरे घटज्ञानाभावरूपहेतोरेवासाक्षिकत्वेनानुमानानवतारात्। तस्माद् ‘नोदेति नास्तमेत्येषा संविदेका स्वयम्प्रभा।’ न चैवं सदाऽपि घटज्ञानमेव भवेदिति वाच्यम् ; ज्ञाने सदाऽपि घटस्य विषयत्वाभावात्। तदभावे को हेतुरिति चेदुच्यते। न हि केवल आत्म- स्वरूपभूते ज्ञाने घटादयो विषया भवितुमर्हन्ति, सुषुप्त्यादावपि तत्प्रसङ्गात्। किं तर्हि? बुद्धिवृत्त्यभिव्यक्ते चैतन्य एव। सा च बुद्धिवृत्तिः क्षणिकेति न घटज्ञानस्य सदा सत्त्वप्रसङ्गः। न चैवं विषयाकारपरिणामरूपाया बुद्धिवृत्तेः साकारत्वात् तदभिव्यक्तचैतन्यमपि साकार- मेवेति सिद्धं ज्ञानस्य साकारत्वमिति वाच्यम् ; दर्पणाभिव्यक्तमुखस्य दर्पणाकारेण साकारत्वादर्शनात्। अन्यथाऽन्तःकरणप्रतिफलित आत्माऽप्यन्तःकरणाकारेण साकारः स्यात्। जले प्रतिफलितं गगनमपि जलाकारेण साकारं स्यात्। तस्मात् प्रतिबिम्बस्य बिम्बा- कारत्वमेव, नोपाध्याकारत्वमिति न बुद्धिवृत्त्यभिव्यक्तचैतन्यस्य बुद्धिवृत्त्याकारत्वम् , किन्तु बिम्बभूतचैतन्याकारत्वमेव। तच्च चैतन्यं निराकारमिति प्रतिबिम्बचैतन्यमपि निराकारमेव। बिम्बप्रतिबिम्बयोरौपाधिक एव भेदो न तात्त्विक इति न चैतन्यद्वित्वप्रसङ्गः। ननु यदा बुद्धिवृत्तिरस्ति तदा तत्प्रतिफलितचैतन्यमस्ति; यदा बुद्धिवृत्तिर्नास्ति तदा प्रतिबिम्बचैतन्यमपि नास्तीति वृत्तिप्रति- फलितचैतन्यं न नित्यमिति चेत् , मैवम् ; यदि वृत्तिप्रतिफलितचैतन्यं बिम्बचैतन्यादतिरिक्तं स्यात् तर्हि भवेदेवानित्यम् , न तु तथा- ऽतिरिक्तम्। किन्तु तदनतिरिक्तमेवेति नित्यमेव, प्रतिफलनांशस्यानित्यत्वेऽपि चैतन्यांशस्य नित्यत्वात्। तस्मान्निराकारमेकं स्वप्रभं नित्यं च ज्ञानमिति स्थितम्। तदेवात्मस्वरूपमिति च। न च न ज्ञानमात्मेति वाच्यम् ; आत्मनो ज्ञानादन्यत्वे घटादिवद्भास्यत्व- प्रसङ्गात्। घटादयो हि ज्ञानेन भास्यन्ते। न च सूर्यस्थानीय आत्मा, प्रकाशस्थानीयं ज्ञानमिति वाच्यम् ; प्रकाशातिरिक्तसूर्यपदार्था- भावात्। न च प्रकाशः चूर्णस्थानीयः, पिण्डस्थानीयस्तु सूर्य इति वाच्यम् ; चूर्णस्यैव पिण्डीभूतत्वेन चूर्णात्मकत्वात् पिण्डस्य। न च घनीभूततेजः परमाणुपुञ्जः सूर्यः, विरलीभूतास्तु तेजःपरमाणवः प्रकाश इति वाच्यम् ; सूर्यस्य सावयवत्वेनैतत्कल्पनाया उपपत्तावपि भाष्यार्कप्रकाशः

[[९२९]]

व्याप्तुमिच्छति, तथा ज्ञानमपि १ज्ञानान्तरेण ज्ञाता व्याप्तुमिच्छेत्। न चैतदस्ति। अतोऽत्यन्तप्रसिद्धं ज्ञानम्। ज्ञाताऽपि अत एव प्रसिद्ध इति। तस्माज्ज्ञाने यत्नो न कर्तव्यः, किन्तु अनात्मन्यात्मबुद्धिनिवृत्तावेव। तस्माज्ज्ञाननिष्ठा सुसम्पाद्या॥५०॥

निरवयवस्य नात्मन एतत्कल्पनोपपद्यते। घनीभूतज्ञानावयवपुञ्ज आत्मेति , विरलीभूतज्ञानावयवा ज्ञानमिति च वक्तुमशक् यत्वात्। तस्माज्ज्ञानमेवात्मा। ननु यदि ज्ञानमेवात्मा तर्ह्यात्मनः सुप्रसिद्धत्ववचनेनैव ज्ञानस्यापि सुप्रसिद्धत्वं सिद्धमिति कुतः पुनर्वचनं ज्ञानमत्यन्तप्रसिद्ध- मिति चेद्? उच्यते—ब्रह्मण आत्मत्वेन रूपेण सुप्रसिद्धिः पूर्वमुक्ता, ज्ञानत्वेन रूपेणाधुनेति। तस्माज्ज्ञानस्याप्रसिद्धत्वे ज्ञानवशेन ज्ञेयावगतिर्नैव स्यादिति सर्वव्यवहारलोपप्रसङ्गः, ज्ञानपूर्वकत्वात् सर्वव्यवहारस्य। तस्माज्ज्ञानमत्यन्तप्रसिद्धम्। किमिवेत्यत आह— सुखादिवदिति। न हि स्वानुभवसिद्धं सुखं केनापि प्रमाणान्तरेण बोद्धुमिच्छति पुरुषः। एवं प्रसिद्धत्वादेव सुखादिवज्ज्ञानस्यापि जिज्ञासानुपपत्तिरित्याह—जिज्ञासानुपपत्तेश्चेति। तदेव विवृणोति—अप्रसिद्धमिति। जिज्ञास्येत ज्ञातुमिष्येत। यथा ज्ञेयं घटादिविषयं ज्ञातुमिच्छति पुरुषः, तथा ज्ञानं ज्ञातुं नेच्छति। कुतः? प्रसिद्धत्वादेव। ३अप्रसिद्धं हि जिज्ञासाविषयम्। ज्ञेयवदित्येतद् विवृणोति— यथेति। ज्ञेयमित्यस्यैवार्थो ज्ञातव्यमिति। घटादिलक्षणं वस्तु यथा ज्ञानेनाप्तुमिच्छति ज्ञातुमिच्छतीत्यर्थः। तथा ज्ञातव्यं ज्ञानमपि ज्ञानान्तरेणाप्तुमिच्छेत् , ज्ञातव्यत्वाविशेषाज्ज्ञानघटयोः। ननु ज्ञानमपि ज्ञेयमिव ज्ञातुमिच्छेत् को दोषः? तत्राह—न चैतदस्तीति। एतत् ज्ञानस्य जिज्ञास्यमानत्वं नैवास्ति। ज्ञानेन घटमिव ज्ञानमप्याप्तुमिच्छति यदि तर्हि करणभूतं तज्ज्ञानं कर्मभूताज्ज्ञानात् किं भिन्नमुताभिन्नम्? आद्ये, तदपि करणभूतं ज्ञानमाप्तुं ज्ञानान्तरं करणं स्यादित्येवमनवस्था। द्वितीये, स्वस्यैव करणत्वं कर्मत्वं चेति विरुद्धम् । तस्मान्न ज्ञानस्य जिज्ञास्यमानत्वमस्ति। अत इति। ज्ञानस्य जिज्ञास्यत्वाभावादित्यर्थः। ज्ञानमत्यन्तप्रसिद्धं स्वप्रकाशत्वादिति भावः। अत एवेति। ज्ञानस्यातिप्रसिद्धत्वादेव ज्ञाता आत्माऽपि प्रसिद्धः, ज्ञानस्यैवात्मत्वादिति भावः। तस्मादिति। एवमतिप्रसिद्धत्वाज्ज्ञानस्वरूपस्यात्मन इत्यर्थः। नन्वात्मज्ञाने यदि प्रयत्नो न कर्तव्यस्तर्हि वेदान्तशास्त्रं वृथा, आत्मज्ञानार्थत्वात् तस्येत्यत आह— किन्त्विति। अनात्मनि अव्यक्तादिदेहान्तेष्वित्यर्थः। या आत्मबुद्धिः आत्मेति भ्रम अविदुषामिति भावः। तन्निवृत्तावेव यत्नः कर्तव्यः, मुमुक्षुणेति शेषः। तस्मादिति। अनात्मन्यात्मबुद्धिनिवृत्तौ सत्यां स्वत एवात्मस्वरूपस्य स्फुरणसम्भवादित्यर्थः। ज्ञाननिष्ठेत्यात्मज्ञाननिष्ठेत्यर्थः। ननु आत्मज्ञाननिष्ठायाः सुसम्पाद्यत्वेऽपि न तया किमपि फलम् ; किन्तु ब्रह्मज्ञाननिष्ठैव सम्पादनीया, मोक्षहेतुत्वात्। सा च न चेदिति। दृष्टान्तमेव व्याचष्टे—यथेति। दार्ष्टान्तिकं विवृणोति—तथेति। इष्टापत्तिं निराचष्टे—न चेति। ज्ञानस्य ज्ञानान्तरेण ज्ञेयत्वम् एतच्छब्दार्थः। अनवस्थापत्तेरित्यर्थः। ज्ञाने जिज्ञासानुपपत्तौ फलितमाह—अत इति। प्रसिद्धेऽपि ज्ञाने ज्ञातर्यात्मनि किमायातम्? तदाह—ज्ञाताऽपीति। ज्ञानस्य विना ज्ञातारमपर्यवसानादित्यर्थः। ज्ञानस्य प्रसिद्धत्वे तत्र २भावनापर्यायो विधिर्नास्तीत्याह— तस्मादिति। कुत्र तर्हि प्रयत्नाख्या भावनेत्याशङ्क्याह—किन्त्विति। अविषये निराकारे चात्मनि ज्ञाननिष्ठायाः दुःसम्पाद्यात्वाभावे फलितं निगमयति—तस्मादिति॥५०॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ज्ञातुम् इच्छामीत्यनुभवाभावाद् योग्यानुपलम्भादभावे ज्ञानान्तरस्य सिद्धे स्वतोऽपरोक्षं ज्ञानमित्यर्थः। ननु ज्ञानस्यानित्यत्वाद् ज्ञातृस्वरूपत्वायोगात् प्रसिद्धे ज्ञाने नात्मा प्रसिद्ध इत्याशङ्क्याह—ज्ञाताऽप्यत एवेति। स्वप्रकाशस्य ज्ञानस्य स्वतः परतो वा प्रागभावाद्यसिद्धेः तत्स्वभाव आत्मा स्वतोऽपरोक्ष इत्यर्थः॥५०॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘ज्ञानान्तरेण ज्ञातव्यमाप्तुमिच्छेत्’ ‘ज्ञानान्तरेण व्याप्तुमिच्छेत्’ इति पा.। २. शाब्दी भावनेत्यर्थः। ३. अनिश्चितमित्यर्थः। न तु यथाश्रुतम्।

[[अ. १८. श्लो. ५०]] [[९३०]]

बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च। शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च॥५१॥

सेयं ज्ञानस्य परा निष्ठोच्यते कथं कार्येति?— बुद्ध्येति। बुद्ध्या १अध्यवसायात्मिकया विशुद्धया मायारहितया युक्तः सम्पन्नः, धृत्या धैर्येण आत्मानं कार्यकरणसंघातं नियम्य च नियमनं कृत्वा वशीकृत्य, शब्दादीन् शब्द आदिः सम्भवति, निराकारत्वाद् ब्रह्मणोऽप्रसिद्धत्वाच्चेति चेत् , मैवम् ; ब्रह्मण्यत्यन्ताप्रसिद्धे सति तज्ज्ञाननिष्ठाया एवानाकाङ्क्ष्यत्वात्। ननु नात्यन्तमप्रसिद्धं ब्रह्म, किन्त्वनुमानादिना किञ्चित्प्रसिद्धमेव, तत एव तज्जिज्ञासोपपत्तिरिति चेत् , तर्हि शास्त्रेण तदेव ब्रह्म आत्मेति विदित्वा सुप्रसिद्धे ब्रह्मणि निष्ठां लभस्व। न च – शास्त्रेण ब्रह्मात्माभेदे प्रोक्तेऽप्यनुभवविरोधात् कथं सोऽर्थोऽवसीयते? सुखदुःखजन्म- मरणादिलक्षणसंसारवानहं क्व? सच्चिदानन्दब्रह्माभेदो मम क्व? इति – वाच्यम् ; कथं ज्ञायते संसार्यात्मेति। न च मयैवानुभूयते मम संसार इति वाच्यम् ; यस्त्वयाऽनुभूयते संसारः स नानुभवितुस्तव धर्मः, किन्तु मनआद्यनात्मधर्म एव, स्वधर्मस्य स्वग्राह्यत्वासम्भ- वात् ; जन्ममरणयोर्देहधर्मत्वस्य सुखदुःखयोर्मनोधर्मत्वस्य च दर्शनात्। न च – सुख्यहं दुःख्यहमित्यादिप्रतीतेः का गतिरिति – वाच्यम् ; अज्ञानकृताध्यास एव गतिरिति। यथा नास्तिकोऽनात्मदेहधर्मानात्मन्यध्यस्य जातो मृतः स्थूलो मनुष्यः काणोऽहमिति मन्यते, तथा आस्तिकश्चानात्ममनआदिधर्मानात्मन्यध्यस्य कर्ताऽहं, भोक्ताऽहं, सुख्यहं, दुःख्यहमिति मन्यते। तस्मादविवेककृत एवायं व्यवहारः। यद्यात्मधर्मः संसारः स्यात् , तर्हि सुषुप्तिमृतिमूर्छास्वपि स दृश्येत। न चानुभूयमानस्य ज्वरादितापस्य कथमपलाप इति वाच्यम् ; किं ज्वरादितापो देहादेरुतात्मनः? आद्ये, सिद्धमसंसारित्वमात्मनः। द्वितीये, कथं सुषुप्तौ ज्वरादितापादर्शनम्? कथं वा अनात्मचिकित्सया देहादितापनिवृत्तिः? यद्ययमात्मतापस्तर्ह्यात्मैव चिकित्सितव्यः, न तु देहादिः, रोगभेषजयोर्वैयधिकरण्यायोगात्। अन्यथा पितरि रुग्णे सति पुत्रो भेषजं सेवेत। तस्मादात्मनाऽनुभूयमानत्वादेव ज्वरतापादयो न आत्मधर्माः, किन्त्वनात्मधर्मा एवेत्यनुभवरूपोऽयमात्मा असंसार्येव सच्चिदानन्दं ब्रह्म। एवं ब्रह्मण आत्मत्वादेव ब्रह्मज्ञाननिष्ठा विदुषां सुसंपाद्या। ये त्वविद्वांसः पण्डितम्मन्याश्च नाहं ब्रह्मेति मन्यन्ते तेषां ब्रह्मज्ञाननिष्ठा दुःसम्पाद्यैवेति सगुणब्रह्मोपासने, यद्वा कर्मयोगे ते यावज्जीवं प्रवर्तन्ताम्। ‘अनेकजन्मसंसिद्धस्ततो याति परां गति’मिति गीतावचनादनेकजन्मभिस्ते ज्ञाननिष्ठायोग्यतालक्षणं संसिद्धिं प्राप्य, संन्यस्य ज्ञाननिष्ठां सम्पाद्य, सच्चिदानन्दं ब्रह्माहमिति सम्यग्ज्ञानान्मुच्यन्ते। येषां पुनर्जन्मान्तरानुष्ठितसुकृतप्रयुक्तेश्वरानुग्रहाद् अद्वैतसिद्धिः, त इहैव जन्मनि मुच्यन्ते, अयमेव द्वैतिनामद्वैतिनां च विशेषो यत्परम्परया द्वैतिनां मुक्तिः, साक्षात्पुनरद्वैतिनामिति ॥५०॥

बुद्ध्येति श्लोकमवतारयति—सेयमिति। सेयं ज्ञानस्य परा निष्ठा कथं कार्येत्यत्रेदमुच्यत इत्यन्वयः। कथं कार्येति। केनोपायेन सम्पाद्येत्यर्थः। मुमुक्षुभिरिति शेषः। विशुद्धया बुद्ध्या युक्तःसन् धृत्या आत्मानं नियम्य च, शब्दादीन् विषयान् त्यक्त्वा, रागद्वेषौ चोदस्य, विविक्तसेवी लघ्वाशी यतवाक्कायमानसः नित्यं ध्यानयोगपरश्च भूत्वा नित्यं वैराग्यं समुपाश्रितःसन् , अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहं च विमुच्य निर्ममः शान्तश्च सन् ब्रह्मभूयाय कल्पत इति श्लोकत्रयान्वयः। विशुद्धया निष्कपटया बुद्ध्या सात्त्विक् या ‘प्रवृत्तिं च निवृत्तिं चे’ति श्लोकोक्तलक्षणया निश्चयात्मिकया युक्तःसन् धृत्या सात्त्विक् या पूर्वोक्तलक्षणयाऽऽत्मानमात्मत्वेनाभिमतं कार्य- ब्रह्मज्ञानस्य परां निष्ठां प्रतिष्ठापितामनूद्य श्लोकान्तरमवतारयितुं पृच्छति—सेयमिति। येयं ब्रह्मज्ञानस्य परा निष्ठा समारोपिता- तद्धर्मनिवृत्तिद्वारा ब्रह्मणि परिसमाप्तिर्ज्ञानसन्तानरूपा उच्यते, सा कार्या सुसम्पाद्येति यदुक्तं तत् कथं केनोपायेनेति प्रश्नार्थः। पृष्टमुपाय- भेदमुदाहरति—बुद्ध्येति। अध्यवसायो ब्रह्मात्मत्वनिश्चयः, मायारहितत्वं संशयविपर्ययशून्यत्वम्। शब्दादिसमस्तविषयत्यागे देहस्थितिः

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘अध्यवसायलक्षणया’ इति पा.।

[[९३१]]

येषां ते शब्दादयः, तान् विषयान् त्यक्त्वा, सामर्थ्याच्छरीरस्थितिमात्र१हेतून् केवलान् मुक्त्वा ततोऽधिकान् सुखार्थान् त्यक्त्वेत्यर्थः। शरीरस्थित्यर्थत्वेन प्राप्तेषु च रागद्वेषौ व्युदस्य च परित्यज्य च॥५१॥

ततः— विविक्तेति। विविक्तसेवी अरण्यनदीपुलिनगिरिगुहादीन् विविक्तान् देशान् सेवितुं शीलमस्येति विविक्तसेवी। लघ्वाशी लघ्वशनशीलः। विविक्तसेवालघ्वशनयोर्निद्रादिदोषनिवर्तकत्वेन चित्तप्रसादहेतुत्वाद् ग्रह- णम्। यतवाक्कायमानसो वाक् च कायश्च मानसं च यतानि संयतानि यस्य ज्ञाननिष्ठस्य स ज्ञाननिष्ठो यतिः यत- वाक्कायमानसः स्यात्। एवम् उपरतसर्वकरणः सन् , ध्यानयोगपरो ध्यानम् आत्मस्वरूपचिन्तनम् , योगः आत्म- करणसंघातं देहेन्द्रियसंघातं नियम्य उत्पथान्निवर्त्य मनःप्राणेन्द्रियक्रियाणामुच्छास्त्रमार्गविषयान्निवर्तनस्य सात्त्विकधृतिकार्यत्वादिति भावः। यद्वा नियम्य स्वाधीनीकृत्य यथा स्वयमिन्द्रियादिपरतन्त्रो न स्यात् तथा कृत्वेत्यर्थः। अत एव शब्दस्पर्शादीन् विषयान् त्यक्त्वा, न हि चपलेन्द्रियस्य चपलचित्तस्य च विषयत्यागः सम्भवति। तस्मान्मनइन्द्रियनिग्रहपूर्वकं शब्दादिविषयत्यागः कर्तव्य इति भावः। ननु यदि सर्वात्मना विषयत्यागस्तर्हि शरीरमेव पतेदन्नपानाद्यभावात् , ततश्च ज्ञानोदयो न स्यादारम्भदशायामेव मरणात् , अत आह—सामर्थ्यादिति। ज्ञाननिष्ठाविधानसामर्थ्यादित्यर्थः। शरीरस्थितिमात्रानिति(?)। तन्मात्रफलकानित्यर्थः। केवलानिति। २न कामक्रोधादिहेतूनित्यर्थः। शरीरस्थितिमात्रफलकविषयातिरिक्तशब्दादिविषयांस्त्यक्त्वेत्यर्थः। ननु यदि शरीरस्थित्यर्थं विषयसेवा स्यात् , तर्हि अन्नपानादिविषयेषु रागः, अन्यत्र द्वेषश्च स्याद् , अत आह—रागद्वेषौ व्युदस्य चेति। अनुप्राप्तेष्विति, विषयेष्विति च शेषः ॥५१॥

विविक्तेति। विविक्ता विजनाः पूताश्च। लघ्वाशी स्वल्पाहार इत्येतत्। ननु किमर्थं विविक्तसेवालघ्वशनयोर्ग्रहणम्? अत आह—निद्रादीति। पत्तनादिजनसहितदेशसेवया ग्राम्यकथाप्रसङ्गः स्यात् ; सुरूपसुगन्ध्यादिद्रव्यदर्शनाच्चित्तेन्द्रियविक्षेपश्च स्यात्। बह्वशनात्तु निद्रामदादयः स्युरिति भावः। यतेति। वाङ्नियमः कायनियमो मानसनियमश्चेति नियमत्रयमस्यावश्यकं वाचिककायिक- मानसिकव्यापारनिवृत्त्यर्थम्। ततश्च मौनी जितासनो जितमानसश्च भूत्वेति सिद्धम्। अत एवाह—एवमुपरतसर्वकरणः सन्निति। उपरतानि निर्व्यापाराणि सर्वाण्यन्तर्बहिःस्थानि करणानि मनइन्द्रियाणि यस्य स तथोक्तः। ध्यानयोगौ परौ यस्य स ध्यानयोगपरः। अपि दुःस्था स्यादित्याशङ्क्याह—सामर्थ्यादिति। विषयमात्रत्यागे देहस्थित्यनुपपत्तेर्ज्ञाननिष्ठाऽसिद्धिप्रसङ्गादित्यर्थः। देहस्थित्यर्थत्वेनानु- ज्ञातेष्वर्थेषु प्राप्तं रागादि ज्ञाननिष्ठाप्रतिबन्धकं व्युदस्यति—शरीरेति। परित्यज्य विविक्तसेवी स्यादिति सम्बन्धः॥५१॥

बुद्धेर्वैशारद्यम् , यत्नेन कार्यकरणनियमनम् , देहस्थितिहेत्वतिरिक्तविषयत्यागः , देहस्थित्यर्थेष्वपि तेषु रागद्वेषवर्जनमित्युपाय- भेदे सिद्धे सन्त्युपायान्तराण्यपि यत्नसाध्यानीत्याह—तत इति। चित्तैकाग्र्यप्रसादार्थं विविक्तसेवित्वं व्याकरोति—अरण्येति। निद्रादि- दोषनिवृत्त्यर्थं लघ्वाशित्वं विशदयति— लघ्विति। लघु परिमितं हितं मेध्यं चाशितुं शीलमस्येति तथोच्यते। विशेषणयोस्तात्पर्यं विवृणोति—विविक्तेति। निद्रादीत्यादिशब्दादालस्यप्रमादादयो बुद्धिविक्षेपका विवक्षिताः। वक्ष्यमाणध्यानयोगयोरुपायत्वेन विशेषणान्तरं विभजते—वाक् चेति। वागादिसंयमस्यावश्यकत्वद्योतनार्थं स्यादित्युक्तम्। संयतवागादिकरणग्रामस्यानायासेन कर्तव्यमुपदिशति— एवमिति। मन्त्रजपादीत्यादिपदेन प्रदक्षिणप्रणामादयो ध्यानयोगप्रतिबन्धका गृहीताः। उक्तयोरेव ध्यानयोगयोरुपायत्वेनोक्तं विरागभावं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः। ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥५२॥

१. ‘हेतुभूतान्’ इति पा.। २. मात्रपदेनापुनरुक्तये केवलानिति विशेषणस्य व्यावर्त्यान्तरमाह—नेति। अ. १८. श्लो. ५१ - ५२ ]

[[९३२]]

विषय १एवैकाग्रीकरणम् , तौ ध्यानयोगौ परत्वेन कर्तव्यौ यस्य स ध्यानयोगपरः, नित्यम् , नित्यग्रहणं मन्त्र- जपाद्यन्यकर्तव्याभावप्रदर्शनार्थम्। वैराग्यं विरागभावो दृष्टादृष्टेषु विषयेषु वैतृष्ण्यं समुपाश्रितः सम्यगुपाश्रितो नित्य- मेवेत्यर्थः॥५२॥

किञ्च—अहङ्कारमिति। अहङ्कारम् अहङ्करणमहङ्कारः देहेन्द्रियादिषु तम् , बलं सामर्थ्यं २कामरागादियुक्तम् , नेतरच्छरीरादिसामर्थ्यम् , स्वाभाविकत्वेन तत्त्यागस्याशक्यत्वात्। दर्पम् - दर्पो नाम हर्षानन्तरभावी धर्मातिक्रमहेतुः ‘हृष्टो दृप्यति, दृप्तो धर्ममतिक्रामति’ (आ.ध.सू.१.१३.४) इति स्मरणात् ; तं च, कामम् इच्छां, क्रोधं द्वेषं, परिग्रहम् , इन्द्रियमनोगतदोषपरित्यागेऽपि शरीरधारणप्रसङ्गेन धर्मानुष्ठाननिमित्तेन वा बाह्यः परिग्रहः प्राप्तः, तं च विमुच्य परित्यज्य परमहंसपरिव्राजको भूत्वा देहजीवनमात्रेऽपि निर्गतममभावो निर्ममः, अत एव शान्त उपरतः यः संहृत- परशब्दश्चात्र लक्षणया कर्तव्यपर इत्याह—परत्वेनेति। उत्कृष्टं हि कर्तव्यमिति मन्यते लोकः। योगशब्दार्थमाह—आत्मेति। आत्मनि विषये चित्तस्य यदेकाग्रीकरणं तद् योग इत्युच्यते। नित्यं सदाऽपि ध्यानयोगपरः। सर्वदाऽपि ध्यानयोगावेवास्य कर्तव्यौ, न तु मन्त्र- जपादिकमिति भावः। तदेवाह—नित्यग्रहणमिति। नित्यमिति पदं काकाक्षिन्यायेन वैराग्येऽप्यन्वेतीत्याह—नित्यमेवेति। न तु कदा- चिदपि दृष्टेष्वदृष्टेषु चेष्टेषु विषयेषु रागः कर्तव्य इत्यर्थः॥५२॥

अहङ्कारमिति। अहङ्करणमिति। अहमिदं करोमीत्यादिरूपम्। दर्पो गर्वः। इच्छाम् इष्टविषयेष्विति भावः। द्वेषम् अनिष्ट- विषयेष्विति भावः। यद्यपि ‘रागद्वेषावुदस्य चे’त्यनेन कामं क्रोधं विमुच्येति सिद्धम्, तथापि शरीरस्थितिहेतुभूतविषयगतरागद्वेषत्यागः पूर्वमुक्तः। इह त्विष्टानिष्टविषयगतरागद्वेषत्याग इति न पुनरुक्तिः। परिगृह्यत इति परिग्रहः। स द्विविधः—आन्तरो बाह्यश्चेति। आन्तरो रागादिः, बाह्यो वस्त्रादिः। तत्राहङ्कारं बलं दर्पं कामं क्रोधं त्यक्त्वेत्यनेनान्तरपरिग्रहत्याग उक्तः। बाह्यपरिग्रहत्यागस्तु परिग्रहं विमुच्येत्यनेनोच्यत इत्याह—इन्द्रियेति। धर्मेति। संन्यासिनोऽपि स्वाश्रमविहितकर्मणां कर्तव्यत्वादिति भावः। एतेन विविक्तसेवादयः संन्यासिधर्मा एव, न गृहस्थधर्मा इति सिद्धम्। गृहे स्थितस्य तस्य वनादिस्थित्यसम्भवात्। संन्यासिन एव परमहंसाश्रमाधिकाराच्च। दण्डकमण्डलुकौपीनरहितः परमहंसपरिव्राजकः। निर्मम इति। ननु ममताविषयस्य गृहधनपश्वादेः प्रागेव परित्यक्तत्वात् परिग्रहं विमुच्येत्यनेन दण्डकौपीनादेरपि ममताविषयस्य परित्यक्तत्वकथनाद् व्यर्थमिदं निर्मम इति विधानम् , अत आह—देहेति। मम देहश्चिरं जीवेदित्यप्यमन्वान इत्यर्थः। अपिशब्दात् परमप्रेमास्पदेऽपि स्वदेहजीवने यस्य न कर्तव्या ममता, विभजते—दृष्टेति। सम्यक्त्वमेव व्यनक्ति—नित्यमिति॥५२॥

ज्ञाननिष्ठस्य यतेर्विशेषणान्तरं समुच्चिनोति—किञ्चेति। नित्यं ध्यानयोगपरत्वे समुच्चितं कारणान्तरं विवृणोति—अहङ्करणम् इति। सामर्थ्यमात्रे बलशब्दादुपलभ्यमाने, किमिति विशेषवचनमित्याशङ्क्याह—स्वाभाविकत्वेनेति। उक्तेऽर्थे मानमाह—हृष्ट इति। वैराग्यशब्देन लब्धस्यापि कामत्यागस्य पुनर्वचनं प्रकृष्टत्वख्यापनार्थम्। अहङ्कारादित्यागे परिग्रहप्राप्त्यभावात् तत्त्यागोक्तिरयुक्तेत्या- शङ्क्याह—इन्द्रियेति। परिग्रहाभावे ममत्वविषयाभावान्निर्ममत्वं कथमित्याशङ्क्याह—देहेति। अहङ्कारममकारयोरभावेन प्राप्तामन्तः- करणोपरतिमनुवदति—अत एवेति। उक्तमनूद्य जीवन्नेवासौ ब्रह्मीभवतीति फलितमाह—यः संहृतेति। ज्ञाननिष्ठपदादूर्ध्वं ‘स’शब्दो

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्। विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥५३॥

१. एवकारः क्वचिन्न। २.‘कामरागसंयुक्तम्’ इति पा.।

[[९३३]]

हर्षायासो यतिर्ज्ञाननिष्ठो ब्रह्मभूयाय ब्रह्मभवनाय कल्पते समर्थो भवति॥५३॥

अनेन क्रमेण— ब्रह्मभूत इति। ब्रह्मभूतो ब्रह्मप्राप्तः प्रसन्नात्मा १लब्धाध्यात्मप्रसादो न शोचति, किञ्चिदर्थ- वैकल्यम् आत्मनो वैगुण्यं २चोद्दिश्य न शोचति न सन्तप्यते, न काङ्क्षति। ३ब्रह्मभूतस्यायं स्वभावोऽनूद्यते— न शोचति न काङ्क्षतीति। न ह्यप्राप्तविषयाकाङ्क्षा ब्रह्मविद उपपद्यते। ‘न हृष्यती’ति वा पाठः। समः सर्वेषु भूतेषु आत्मौपम्येन सर्वेषु भूतेषु सुखं दुःखं वा सममेव पश्यतीत्यर्थः। नात्मसमदर्शनमिह , तस्य वक्ष्यमाणत्वाद्— ‘भक्त्या तस्य किं पुनर्वक्तव्यमतिरिक्तविषयेष्विति गम्यते। अत एवेति। विशुद्धबुद्धियोगादिसाधनसम्पन्नत्वादेवेत्यर्थः। निर्ममत्वादेवेति वा। उपरत इति। उपरतिमुपशमं चित्तस्य प्राप्तः। तदेवाह—संहृतहर्षायास इति। संहृतौ हर्षायासौ येन स तथोक्तः। हर्षायासरहित इत्यर्थः। आयासः श्रमः। श्रमवद् हर्षोऽपि चित्तस्य विक्षेपकर एवेति हर्षस्यापि संहार उक्तः। य एवंविधः स यतिर्ब्रह्मभूयाय ब्रह्म- भवनाय, ब्रह्मप्राप्तये इति यावत्। कल्पते। कोऽसौ यतिः? अत आह—ज्ञाननिष्ठ इति। ‘क्लृपू [कृपू ] सामर्थ्ये’ इति धातुपाठादाह— समर्थो भवतीति। मोक्षार्हो भवतीत्यर्थः। ब्रह्मज्ञानार्हो भवतीति वा॥५३॥

ब्रह्मभूत इति। ब्रह्मप्राप्त इति। गुरुशास्त्रादिना पारोक्ष्येण ब्रह्मविदित्यर्थः। ब्रह्मापरोक्ष्यस्य ‘भक्त्या मामभिजानाती’ति, ब्रह्म- प्राप्तेः ‘ज्ञात्वा विशते तदनन्तर’मिति च वक्ष्यमाणत्वादिति भावः। प्रसन्नात्मा प्रसन्न आत्मा मनो बुद्धिर्वा यस्य स प्रसन्नात्मा। लब्धः अध्यात्ममात्मनि प्रसादरूपः स्वभावो येन स लब्धाध्यात्मप्रसादस्वभावः। न शोचतीति। किमुद्दिश्यास्य शोकप्रसङ्गः? अत आह— किञ्चिदिति। अर्थवैकल्यं पुरुषार्थभ्रंशः। वैगुण्यं विगुणत्वम्। न सन्तप्यते सन्तापं न प्राप्नोति। न काङ्क्षति अप्राप्तं विषयविशेषं न वाञ्छति। ब्रह्मविदो ब्रह्म पारोक्ष्येण विदितवत इत्यर्थः। ‘भक्त्या मामभिजानाती’त्यपारोक्ष्यस्य वक्ष्यमाणत्वादिति भावः। परिपूर्णं ब्रह्मै- वाहमिति ज्ञाने सत्यप्राप्तविषयाभावात् कथं तदाकाङ्क्षेति भावः। अत इति। ब्रह्मविदोऽप्राप्तविषयाकाङ्क्षानुपपत्तेरित्यर्थः। ब्रह्मभूतस्य न शोचति न काङ्क्षतीत्ययं स्वभावोऽनूद्यते, न तु ब्रह्मभूतो न शोचेन्न काङ्क्षेदिति विधीयत इत्यर्थः। न च ब्रह्मापरोक्ष्यरहितस्य कथं ब्रह्म- भूतत्वमिति वाच्यम् ; यो हि पारोक्ष्येणापि ब्रह्माहमिति वेत्ति स ब्रह्मभूत एव, स्वस्मिन् ब्रह्मेति ज्ञानस्य सत्त्वादिति। सम इति। सम- दर्शीत्यर्थः। आत्मौपम्येनेति। यथा स्वस्य सुखमिष्टम् , दुःखमनिष्टम् , तथैव सर्वस्यापीति वेत्तीत्यर्थः। मम सुखमस्तु , अन्यस्य दुःखमस्त्विति नेच्छति, किन्तु सर्वस्यापि सुखमस्त्वितीच्छतीति यावत्। ‘आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन। सुखं वा यदि वा द्रष्टव्यः। ब्रह्मणो भवनम् अनुसन्धानपरिपाकपर्यन्तं साक्षात्करणम् , तदर्थमिति यावत्॥५३॥

अपेक्षितं पूरयन्नुत्तरश्लोकमवतारयति—अनेनेति। बुद्ध्या विशुद्धयेत्यादिरत्र क्रमः। ब्रह्मप्राप्तो जीवन्नेव निवृत्ताशेषानर्थो निरति- शयानन्दं ब्रह्मात्मत्वेनानुभवन्नित्यर्थः। अध्यात्मं प्रत्यगात्मा, तस्मिन् प्रसादः सर्वानर्थनिवृत्त्या परमानन्दाविर्भावः, स लब्धो येन जीवन्मुक्तेन स तथा। ‘न शोचती’त्यादौ तात्पर्यमाह—ब्रह्मभूतस्येति। प्राप्तव्यपरिहार्याभावनिश्चयादित्यर्थः। स्वभावानुवादमुपपादयति — न हीति। तस्याप्राप्तविषयाभावात् ; नापि परिहार्यापरिहारप्रयुक्तः शोकः, परिहार्यस्यैवाभावादित्यर्थः। पाठान्तरे तु रमणीयं प्राप्य न प्रमोदते, तदभावादित्यर्थः। विवक्षितं समदर्शनं विशदयति—आत्मेति। ननु सर्वेषु भूतेष्वात्मनः समस्य निर्विशेषस्य दर्शनमत्राभिप्रेतं किं नेष्यते? तत्राह—नात्मेति। उक्तविशेषणवतो जीवन्मुक्तस्य ज्ञाननिष्ठा प्रागुक्तक्रमेण प्राप्ता सुप्रतिष्ठिता भवतीत्याह—एवम्भूत इति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘लब्धाध्यात्मप्रसादस्वभावः’इति पा.। २.‘वोद्दिश्य’इति पा.। ३. ‘न ह्यप्राप्तविषयाकाङ्क्षा ब्रह्मविद उपपद्यते। अतो ब्रह्मभूतस्य’ इति पा.। ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति। समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥५४॥

अ. १८. श्लो. ५२ - ५४ ]

[[९३४]]

मामभिजानाति’ (भ.गी.१८.५५) इति। एवम्भूतो ज्ञाननिष्ठो मद्भक्तिं मयि परमेश्वरे भक्तिं भजनं पराम् उत्तमां ज्ञानलक्षणां चतुर्थीं लभते। ‘चतुर्विधा भजन्ते माम्’ (भ.गी.७.१६) इति ह्युक्तम् ॥५४॥

ततो ज्ञानलक्षणया भक्त्येति। भक्त्या मामभिजानाति यावान् अहमुपाधिकृत१विस्तरभेदः, यश्च अहम् अस्मि विध्वस्तसर्वोपाधिभेदः उत्तमपुरुष आकाशकल्पः, तं माम् अद्वैतं चैतन्यमात्रैकरसम् अजम् अजरम् अमरम् अभयम् अनिधनं तत्त्वतोऽभिजानाति। ततो मामेवं तत्त्वतो ज्ञात्वा विशते तदनन्तरं मामेव ज्ञानानन्तरम्। नात्र दुःखं स योगी परमो मतः’ इति षष्ठाध्याये प्रोक्तत्वादिति भावः। नन्वात्मानं समं पश्यतीति सम इति कुतो नोच्यते? अत आह— नात्मेति। नात्मदर्शनमिह समशब्देनोच्यते, तस्यात्मदर्शनस्य वक्ष्यमाणत्वात्। केन वाक् येनेत्यत आह—भक्त्या मामभिजानातीति। मयीति। मद्विषयामित्यर्थः। ज्ञानलक्षणामिति। ‘अहं ब्रह्मास्मी’त्यखण्डचैतन्याकारबुद्धिवृत्तिलक्षणामित्यर्थः। ननु ज्ञानस्य कथं भजन- त्वम्? कथं वा ज्ञानलक्षणभक्तेश्चतुर्थत्वम्? अत आह—चतुर्विधा इति। ‘आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ’ इति ज्ञानिनश्चतुर्थस्य भगवद्भक्तत्वकथनाज्ज्ञानं भगवद्भजनं, भगवत्प्राप्तौ तुरीयोपायश्चेति भावः॥५४॥

भक्त्येति। तत इति। मद्भक्तिप्राप्त्यनन्तरमित्यर्थः। अहं यावानस्मि, यश्चास्मि तं मां भक्त्या विद्वांस्तत्त्वतोऽभिजानाति। तत- स्तत्त्वतो मां ज्ञात्वा तदनन्तरं मां विशते। यावानिति। यत्परिमाणः। ननु कथमात्मनो निर्विशेषस्य यावत्त्वम्? अत आह—उपाधीति। उपाधिभिः कृतो विस्तारः आधिक् यं येषां तैर्भेदैः। बहुभिरुपाधिविशेषैरित्यर्थः। आकाशकल्प इति। आकाशवत् सर्वगतत्वनिराकार- त्वादिगुणयुक्त इत्यर्थः। अद्वैतमिति। द्वयोर्भावो द्विता, द्वितैव द्वैतम् , भेद इति यावत्। तद्रहितमद्वैतम्। चैतन्यमेव चैतन्यमात्रं तदेवैको मुख्यः केवल इति वा रसो यस्य तं चैतन्यस्वरूपमित्यर्थः। रसशब्दादानन्दरूपमिति च। न जीर्यतीत्यजरः। जरारहित इति वा। निधनं नाशः। तत इति। तथेत्यर्थे। तत्त्वतो यथावत्। ज्ञात्वा आपरोक्ष्येण विदित्वेत्यर्थः। तदनन्तरमित्यस्यार्थमाह—ज्ञानानन्तर- मिति। विशते प्रविशति। प्राप्नोतीति यावत्। कं विशते? अत आह—मामेवेति। परमात्मानं प्राप्नोति, मुक्तो भवतीति यावत्। अखण्ड- चैतन्याकारबुद्धिवृत्त्या प्रत्यगभिन्नब्रह्मात्मसाक्षात्काराद् ब्रह्मसायुज्यं लभत इति भावः। ननु ‘मां ज्ञात्वा, मां प्रविशती’ति धातुद्वयेन ज्ञानप्रवेशात्मकक्रियाद्वयमभिधीयते। तत्र च ज्ञानक्रिया पूर्वभाविनी, पश्चाद्भाविनी श्रवणमनननिदिध्यासनवतः शमादियुक्तस्याभ्यस्तैः श्रवणादिभिर्ब्रह्मात्मन्यपरोक्षं मोक्षफलं ज्ञानं सिध्यतीत्यर्थः। आर्तादिभक्तित्रयापेक्षया ज्ञानलक्षणा भक्तिश्चतुर्थीत्युक्ता। तत्र सप्तमस्थवाक्यमनुकूलयति—चतुर्विधा इति॥५४॥

ननु समाधिसाध्येन परमभक्त्यात्मकेन ज्ञानेन किमपूर्वमवाप्यते? तत्राह— तत इति। भक्त्या समाधिजन्यया मां ब्रह्म आभि- मुख्येन प्रत्यक्तया जानाति व्याप्नोतीत्यर्थः। तदेव ज्ञानं भक्तिपराधीनं विवृणोति—यावानिति। आकाशकल्पत्वम् अनवच्छिन्नत्वम् असङ्गत्वं च। चैतन्यस्य विषयसापेक्षत्वं प्रतिक्षिपति—अद्वैतमिति। २ये तु द्रव्यबोधात्मत्वमात्मनो मन्यन्ते, तान् प्रत्युक्तम्—चैतन्य- मात्रेति। आत्मनि तन्मात्रेऽपि धर्मान्तरमुपेत्य धर्मधर्मित्वं प्रत्याह—एकरसमिति। सर्वविक्रियाराहित्योक्त्या कौटस्र्ह्यमात्मनो व्यवस्था- पयति—अजमिति। उक्तविक्रियाऽभावे तद्धेत्वज्ञानासम्बन्धं हेतुमाह—अभयमिति। तत्त्वज्ञानमनूद्य तत्फलं विदेहकैवल्यं लम्भयति— तत इति। तत्त्वज्ञानस्य तस्मादनन्तरप्रवेशक्रियायाश्च भिन्नत्वं प्राप्तं प्रत्याह— नात्रेति। भिन्नत्वाभावे का गतिर्भेदोक्तेरित्याशङ्क्य

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘विस्तारभेदः’ इति रा.पा. भाति। २. भाट्टाः। भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः। ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥५५॥

[[९३५]]

१ज्ञानप्रवेशक्रिये भिन्ने विवक्षिते— ज्ञात्वा विशते तदनन्तरमिति। किं तर्हि? फलान्तराभावाद् ज्ञानमात्रमेव, ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ.गी.१३.२) इत्युक्तत्वात्। ननु विरुद्धमिदमुक्तम्— ज्ञानस्य या परा निष्ठा तया मामभिजानातीति। कथं विरुद्धमिति चेद्? उच्यते— यदैव यस्मिन् विषये ज्ञानमुत्पद्यते ज्ञातुः, तदैव तं विषयमभिजानाति ज्ञातेति न ज्ञाननिष्ठां ज्ञानावृत्तिलक्षणामपेक्षत इति; २ततश्च ज्ञानेन नाभिजानाति, ज्ञानावृत्त्या तु ज्ञाननिष्ठयाऽभिजानातीति। तु प्रवेशक्रिया। यो यं जानाति, यं च प्रविशति स तस्माद्भिन्न एव ३भवितव्यः, ज्ञानक्रियायां प्रवेशक्रियायां वा कर्तृकर्मणोर्भेदेन भाव्य- त्वात्। यथा गृहं जानाति, गृहं प्रविशति च पुरुष इति। तस्माज्ज्ञातुः प्रवेष्टुश्चात्मनः सकाशाज्ज्ञेयं प्रवेश्यं च ब्रह्म भिन्नमेवेति कृत्वा कथमद्वैतसिद्धिरिति शङ्कायामाह—नात्रेति। ‘ज्ञात्वा विशते तदनन्तर’मित्यत्र वाक् ये ज्ञानप्रवेशक्रिये भिन्ने न विवक्षिते मूलकारेण। किं तर्हि? ज्ञानमात्रमेव विवक्षितम्। कुतः? फलान्तराभावात्। ब्रह्मज्ञानातिरिक्तब्रह्मप्रवेशरूपफलाभावादित्यर्थः। कुतः फलान्तराभावः? अत आह—क्षेत्रज्ञं चापीति। ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ इति श्लोकेन जीवब्रह्माभेदस्योक्तत्वान्न जीवाद्भिन्नं जीवेन प्राप्यं च ब्रह्मास्ति, येन तत्प्राप्तिरूपं फलं जीवस्य भवेत्। तस्मात् प्राप्तृप्राप्यपदार्थद्वयाभावाज्ज्ञानमात्रमेव विवक्षितमिति। न चैवं ज्ञानस्य वा कथं सिद्धिः? ज्ञातृज्ञेयपदार्थद्वयाभावादिति वाच्यम् ; एकस्यैव चैतन्यस्य बुद्धितादात्म्याध्यासाज्ज्ञातृत्वम् , तमेवापेक्ष्य ज्ञेयत्वम् , स्वतस्तु ज्ञानत्वमित्यविरोधात्। नन्वेवं ज्ञानमात्रस्यैव विवक्षितत्वे ‘भक्त्या मामभिजानाती’त्येतावदेव वक्तव्यम् , न तु ‘ज्ञात्वा तदनन्तरं विशते’ इति चेत् , मैवम् ; ‘भक्त्या मां जानाती’त्येतावदुक्तौ किं त्वज्ज्ञानात् फलमित्याशङ्क्येत, तदाशङ्कापूरणार्थमुक्तम्—ज्ञात्वा मामेव विशतीति। मज्ज्ञानस्याहमेव फलम् , न तु मत्तः फलान्तरमस्तीति तदर्थात्। न चैवमपि ज्ञानातिरिक्तं फलं सिद्धमिति वाच्यम् ; सति ब्रह्मात्म- साक्षात्कारे ज्ञातव्यस्य प्राप्तव्यस्य वा वस्तुनोऽभावेन ज्ञानातिरिक्तफलासिद्धेः; ज्ञानस्वरूपत्वाच्च ब्रह्मणस्तस्यैवात्मत्वाच्च। तस्माद् ब्रह्म- ज्ञानादनतिरिक्त एव ब्रह्मप्रवेशः। ननु कर्मयोगाच्चित्तशुद्धिं प्राप्तः पुरुषो विशुद्धबुद्धियोगादिक्रमेण ज्ञाननिष्ठां प्राप्य, तया परया ज्ञाननिष्ठया ब्रह्म प्राप्नोतीत्युक्तं ‘सिद्धिं प्राप्त’ इत्यारभ्य ‘विशते तदनन्तर’मित्यन्तेन ग्रन्थेन। सा च ब्रह्मप्राप्तिर्ब्रह्मज्ञानादनतिरिक्तेत्युक्तम्। तथा च ज्ञाननिष्ठया ब्रह्म जानातीति सिद्धम्। इयमेव ज्ञाननिष्ठा ‘भक्त्या मामभिजानाती’ति भक्तिशब्देनोक्ता। ‘ज्ञानलक्षणा चतुर्थी भक्ति’रित्युक्तत्वात् , ज्ञान- निष्ठायाश्च ज्ञानलक्षणत्वात्। एवं सति भक्त्या ज्ञाननिष्ठया मां ब्रह्माभिजानातीति सिद्धत्वेनार्थाज्ज्ञानमात्रेण ब्रह्मज्ञानं न सिद्ध्यतीति सिद्धम्। ज्ञानेनैव ब्रह्मज्ञानसिद्धौ ज्ञाननिष्ठाविधानस्य व्यर्थत्वाज्ज्ञाननिष्ठा कथं कार्येति शङ्कायामेव ‘बुद्ध्या विशुद्ध्या युक्तः’ इत्यादि- ग्रन्थस्यावतारितत्वात्। तस्माज्ज्ञानेन ब्रह्म न जानाति; ज्ञाननिष्ठया तु ब्रह्म जानातीत्येतद् विरुद्धमिति पृच्छति—नन्विति। ज्ञान- निष्ठायाः स्वरूपमाह—ज्ञानावृत्तिलक्षणामिति। ज्ञानस्य ‘अहं ब्रह्मास्मी’त्याकारकस्य आवृत्तिरसकृदभ्यासो लक्षणं स्वरूपं यस्यास्तां औपचारिकत्वमाह—किं तर्हीति। प्रवेश इति शेषः। ब्रह्मप्राप्तिरेव फलान्तरमित्याशङ्क्य , ब्रह्मात्मनोर्भेदाभावान्न ज्ञानातिरिक्ता तत्प्राप्ति- रित्याह—क्षेत्रज्ञं चेति। ज्ञाननिष्ठया परया भक्त्या मामभिजानातीत्युक्तमाक्षिपति—नन्विति। विरुद्धत्वं स्फोरयितुं पृच्छति—कथमिति। विरोधस्फुटी- करणं प्रतिजानीते—उच्यत इति। तत्र ज्ञानस्योत्पत्तिरेव विषयाभिव्यक्तिरित्याह—यदेति। एवकारनिरस्यं दर्शयति—न ज्ञानेति। इत्यावयोः सिद्धमिति शेषः। ज्ञानस्योत्पत्तेरेव विषयाभिव्यक्तित्वेऽपि कथं प्रकृते विरोधधीरित्याशङ्क्याह—ततश्चेति। विरुद्धमिति शेषः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १८. श्लो. ५४ - ५५ ] १. ‘ज्ञानानन्तर’ इति पा.। २. ‘अतश्च’ इति पा.। ३. भवितव्यः इति कर्तरि प्रत्ययश्चिन्त्यः। भव्य इति तु युक्तम्।

[[९३६]]

नैष दोषः; ज्ञानस्य स्वात्मोत्पत्तिपरिपाकहेतुयुक्तस्य प्रतिपक्षविहीनस्य यद् आत्मानुभवनिश्चयावसानत्वम् , तस्य निष्ठाशब्दाभिलापात्। शास्त्राचार्योपदेशेन ज्ञानोत्पत्तिपरिपाकहेतुं सहकारिकारणं बुद्धिविशुद्ध्यादि अमानित्वादि चापेक्ष्य जनितस्य क्षेत्रज्ञपरमात्मैकत्वज्ञानस्य कर्त्रादिकारकभेदबुद्धिनिबन्धनसर्वकर्मसंन्याससहितस्य स्वात्मानुभव- निश्चयरूपेण यदवस्थानं, सा परा ज्ञाननिष्ठेत्युच्यते। सेयं ज्ञाननिष्ठा आर्तादिभक्तित्रयापेक्षया परा चतुर्थी भक्ति- रित्युक्ता। तया परया भक्त्या भगवन्तं तत्त्वतोऽभिजानाति, यदनन्तरमेव ईश्वरक्षेत्रज्ञभेदबुद्धिरशेषतो निवर्तते। अतो ज्ञाननिष्ठालक्षणया भक्त्या मामभिजानातीति वचनं न विरुध्यते। तथोक्ताम्। ज्ञानेनैव ज्ञेयस्य साक्षात्कारो भवति। अन्यथा ज्ञानाभ्यासेन वाऽपि कथं ज्ञेयसाक्षात्कारः? ‘अयं घटः’ इति ज्ञानेन घटस्यानवभास्यत्वे कथं पुनस्तदेव ज्ञानमावर्तितं भूत्वा तं घटमवभासयेत्? परिहरति—नैष दोष इति। ज्ञाननिष्ठया मामभिजानातीति वचनं न दुष्टमित्यर्थः। तत्र हेतुमाह—ज्ञानस्येति। ज्ञानावृत्तिर्न ज्ञाननिष्ठा, किन्तु ज्ञानस्यात्मानुभवनिश्चयावसानत्वं ज्ञाननिष्ठा। कीदृशस्य ज्ञानस्यात्मानुभवनिश्चयावसानत्वं भवति? तत्राह— स्वात्मेति। स्वात्मनो ज्ञानस्वरूपस्य ‘अहं ब्रह्मास्मी’त्याकारकस्योत्पत्तिपरिपाकयोर्जन्मनि दार्ड्ये च ये हेतवो विशुद्धबुद्धियोगादयः, तैर्युक्तस्य। प्रतिपक्षाः ज्ञानोत्पत्तिपरिपाकप्रतिबन्धभूता मानदम्भादयस्तैर्विहीनस्य च ज्ञानस्य यदात्मानुभवनिश्चय आत्मानुभवरूपो निश्चयः। आत्मानुभवापादनमिति यावत्। स एवावसानं परिसमाप्तिर्यस्य तत्त्वमात्मानुभवनिश्चयावसानत्वम् , तस्य। निष्ठाशब्दाभिला- पान्निष्ठाशब्दाभिधेयत्वात्। इदमेव विवृणोति—शास्त्रेति। शास्त्राचार्योपदेशेन हेतुना। गुणं चापेक्ष्येति। ज्ञानोत्पत्तिपरिपाकहेतुभूतबुद्धि- विशुद्धत्वादिगुणवशेन तत्सहकारिकारणभूतामानित्वादिगुणवशेन चेत्यर्थः। जनितस्य कर्तृत्वादिकारकभेदबुद्धिनिबन्धनानि यानि सर्व- कर्माणि तत्संन्याससहितस्य क्षेत्रज्ञपरमात्मैकत्वज्ञानस्य ‘अहं ब्रह्मास्मी’ति ज्ञानस्य परोक्षकल्पस्येति भावः। आत्मानुभवनिश्चयरूपेण अपरोक्षत्वरूपेणेति भावः। अवस्थानमिति। यत् सैव परा ज्ञाननिष्ठेत्युच्यते। यदनन्तरमेवेति। तत्त्वतो भगवज्ज्ञानानन्तरमित्यर्थः। अशेषत इति। एतेन परोक्षज्ञानवेलायां न तद्भेदबुद्धेरशेषतो निवृत्तिरिति गम्यते। तत इति। स्वात्मानुभवनिश्चयरूपेणावस्थितेनैव ज्ञानेन ब्रह्मात्मसाक्षात्कारो, न तु केवलज्ञानेनेति हेतोरित्यर्थः। ज्ञानावृत्तेर्ज्ञाननिष्ठात्वाभावादिति वा। ज्ञाननिष्ठालक्षणयेति। न च ‘ज्ञान- लक्षणया भक्त्ये’ति पूर्वोक्तव्याघात इति वाच्यम् ; स्वात्मानुभवनिश्चयरूपावस्थितज्ञानलक्षणयेति तदर्थात्। एवं ‘ज्ञानलक्षणां चतुर्थीम्’ इत्यत्रापि बोध्यम्। यद्वा ‘ज्ञाननिष्ठालक्षणां चतुर्थी’मिति, ‘ततो ज्ञाननिष्ठालक्षणया भक्त्ये’ति च भाष्यं पाठ्यम्। ननु ज्ञानमिति, ज्ञाननिष्ठेति, ज्ञाननिष्ठया मज्ज्ञानमिति च ज्ञानत्रयमिह दृश्यते। तत्र परोक्षज्ञानमिति, अपरोक्षज्ञानमिति च द्वयं प्रसिद्धम् ; तृतीयं कथमप्रसिद्धमवगन्तुं शक् यत इति चेत् , उच्यते—बुद्धिवृत्तिरूपं तत्फलभूतानुभवरूपं चेत्यपरोक्षज्ञानं द्विविधम्। शङ्कितं विरोधं निरस्यति—नैष दोष इति। उक्तमेव हेतुं प्रपञ्चयति—शास्त्रेति। यो हि शास्त्रानुसार्याचार्योपदेशस्तेन ज्ञानोत्पत्तिः ‘आचार्यवान्पुरुषो वेद’ इति श्रुतेः। तस्याश्च परिपाकः संशयादिप्रतिबन्धध्वंसः, तत्र हेतुभूतमुपदेशस्यैव सहकारिकारणं यद् बुद्धि- शुद्ध्यादि, तदपेक्ष्य तस्मादेवोपदेशाज्जनितं यदैक्यज्ञानं तस्य, कारकभेदबुद्धिनिबन्धनानि यानि सर्वाणि कर्माणि तेषां संन्यासेन सहितस्य, फलरूपेण स्वात्मन्येव सर्वकल्पनारहिते यदवस्थानं, सा ज्ञानस्य परा निष्ठेति व्यवह्रियते प्रामाणिकैरित्यर्थः। यदि यथोक्ता परा ज्ञाननिष्ठा, कथं तर्हि सा चतुर्थी भक्तिरित्युक्तेति? तत्राह—सेयमिति। यथोक्तया भक्त्या भगवत्तत्त्वज्ञानं सिध्यतीत्याह—तयेति। तत्त्वज्ञानस्य फलमाह—यदनन्तरमिति। ज्ञाननिष्ठारूपाया भगवद्भक्तेस्तत्त्वज्ञानानतिरेकात् तत्फलस्य चाज्ञाननिवृत्तेस्तन्मात्रत्वाद् भेदोक्तेश्चौपचारि- कत्वात् प्रकृतं वाक्यमविरुद्धमित्युपसंहरति—अत इति। औपदेशिकैक्यज्ञानस्य सर्वकर्मसंन्याससहितस्य स्वरूपावस्थानात्मकस्य परमपुरुषार्थौपयिकत्वमित्यस्मिन्नर्थे मानमाह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[९३७]]

१. ‘तत्र च’ इति पा.। २. वेदमूलकत्वात् इतरेषां स्मृतिवाक्यानां प्रामाण्यमित्यर्थः। १अत्र च सर्वं निवृत्तिविधायि शास्त्रं वेदान्तेतिहासपुराणस्मृतिलक्षणं न्यायप्रसिद्धमर्थवद् भवति, ‘विदित्वा… व्युत्थायाथ भिक्षाचर्यं चरन्ति’ (द्र.बृ.उ.३।५।१) ‘तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः’(म.ना.उ.६३.१९) ‘न्यास एवात्यरेचयत्’ (म.ना.उ.६२.१२) इति, ‘संन्यासः कर्मणां न्यासः’, ‘वेदानिमं च लोकममुं च परित्यज्य’(आ. ध.सू.२.२३.१३), ‘त्यज धर्ममधर्मं च’(सं.उ.२.१२, म.भा.१२.३२९.४०)इत्यादि। इह च दर्शितानि वाक् यानि। न च तत्र बुद्धिवृत्तिर्ज्ञाननिष्ठा; तत्फलभूतोऽनुभवस्तु ब्रह्मज्ञानमिति। यद्वा परोक्षज्ञानमेव द्विविधम्। तत्र श्रवणादुत्पन्नम् ‘अहं ब्रह्मास्मी’ति ज्ञानमेकम् ; मननादुत्पन्नं ‘ब्रह्मैवाहमस्मी’ति निश्चयज्ञानमपरम्। इदमेव ज्ञाननिष्ठेत्युच्यते। निदिध्यासादपरोक्षात्मसाक्षात्कारस्तु ब्रह्म- ज्ञानमिति ज्ञानत्रयम्। अथवा परोक्षमपरोक्षमनुभवश्चेति ज्ञानत्रयम्। तत्र परोक्षज्ञानमपरोक्षज्ञानं चेति द्वयं ज्ञानकरणभूतम् , करणभूत- ज्ञानस्य फलभूतस्त्वनुभवः। तत्र परोक्षज्ञानं गुरुशास्त्रादिक[जन्य]म् , अपरोक्षज्ञानं ब्रह्माकारबुद्धिवृत्तिः ज्ञाननिष्ठात्मकम् , अनुभवस्तु ब्रह्मात्मसाक्षात्कार इति। यद्वा ‘नाहं ब्रह्मे’ति विपर्ययनिवर्तकं ज्ञानमेकं यद्गुरुशास्त्रोपदेशजन्यम्। ‘अहं ब्रह्म उत संसारी’ति संशय- निवर्तकं ज्ञानमन्यत् , यत् समाधिलभ्यं ज्ञाननिष्ठात्मकम्। ‘अहं ब्रह्मैवे’ति निश्चयात्मको ब्रह्मात्मसाक्षात्कारस्त्वपरं ज्ञानमिति ज्ञान- त्रयमिति। तत्र चेति। एवं सति ज्ञाननिष्ठया ब्रह्मज्ञानसम्भवे सतीत्यर्थः। निवृत्तिविधायि निवृत्तिमार्गविधायकम् , संन्यासविधायकमिति यावत्। वेदान्तेतिहासपुराणस्मृतिलक्षणं शास्त्रं न्यायप्रसिद्धं न्याय्यम् अर्थवच्च भवति। निवृत्तिमार्गनिरतसंन्यास्यनुष्ठेयत्वाज्ज्ञाननिष्ठाया इति भावः। तदेव शास्त्रं दर्शयति—विदित्वेति। ब्रह्म पारोक्ष्येण विदित्वेत्यर्थः। नित्यानित्यवस्तुविवेकादिज्ञानवान् भूत्वेति वा। अथ वेदनानन्तरम् अभ्युत्थाय संसारादुत्थाय संन्यस्येति यावत्। भिक्षाचर्यं चरन्ति, भिक्षाटनं कुर्वन्ति। यद्वा विदित्वा अभ्युत्थाय, अथाभ्युत्थानानन्तरं भिक्षाचर्यं चरन्ति। येषां तपसां मध्ये न्यासं संन्यासमतिरिक्तमुत्कृष्टमाहुः, न्यास एवात्यरेचयत् , अतिरिक्तम् अभवत्। नारायणीये सत्यं तपो दमः शमो दानं धर्मः प्रजननमग्नयोऽग्निहोत्रं यज्ञो मानसं न्यासः इति द्वादश मुक्तिहेतूनुपन्यस्य ‘तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचये’दित्युक्तम्। तथा तत्रैवानुवाकान्तरे सत्यादीन् न्यासान्तान् मोक्षोपायत्वेनोपन्यस्य ‘तस्मान्न्यासमेषां तपसामतिरिक्तमाहु’रित्युक्तम्। किं चात्रैव ‘न्यास इत्याहुर्मनीषिणो ब्रह्माण’मिति, पूर्वानुवाके ‘न्यास इति ब्रह्मा ब्रह्मा हि परः परो हि ब्रह्मे’ति च दृश्यते। न्यास इत्युक्तो यो मोक्षहेतुस्तं ब्रह्माणं हिरण्यगर्भरूपं मनीषिणः स्मृतिकर्तार आहुः, ‘संन्यासाद् ब्रह्मणः स्थान’मिति स्मरणात्। हिरण्यगर्भप्राप्तेरन्तरङ्गसाधनत्वात् संन्यासस्य तद्रूपत्वम्। परो ब्रह्मा हिरण्यगर्भो न्यासो मोक्षहेतु- रित्याह—स च ब्रह्मा परः परमात्मरूपो हीति श्रुत्यर्थः। एवं सर्वजीवाधिकहिरण्यगर्भमतत्वान्न्यास एव सर्वाधिकः। यदि संन्यास एव न स्यात् , तर्हीमाः श्रुतयो विरुध्येरन्निति भावः। कर्मणां न्यासः संन्यास इत्युच्यते। वेदानिमं मनुष्यलोकममुं स्वर्गलोकं च परित्यज्य, धर्मं त्यज, अधर्मं त्यजेत्यादीत्यादिपदात् ‘अथ पुनरव्रती वा स्नातको वा अस्नातको वोत्सन्नाग्निरनग्निको वा यदहरेव विरजेत् तदहरेव प्रव्रजेत् , ब्रह्मचर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्’, ‘अनन्यचित्तता ब्रह्मनिष्ठा सा कर्मठे कथम्। कर्मत्यागी ततो ब्रह्म- निष्ठामर्हति नेतरः॥’ त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम्। त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम्॥ सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद् बुधः। यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत्॥ कुटुम्बं पुत्रदारांश्च वेदाङ्गानि च सर्वशः। यज्ञं यज्ञोपवीतं च त्यक्त्वा गूढश्चरेन्मुनिः॥ ‘एतद्द्विजन्मसाफल्यं ब्राह्मणस्य विशेषतः। प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा॥’इत्यादि ग्राह्यम्। इह चेति। अत्र चेति। तदेव शास्त्रमुदाहरति— विदित्वेत्यादिना। दर्शितानि वाक् यानि ‘सर्वकर्माणि मनसे’त्यादीनि। नन्वेषां वाक् यानामविवक्षिता- र्थत्वाद् नास्ति स्वार्थे प्रामाण्यमित्याशङ्क्य , अध्ययनविध्युपात्तत्वाद् वेदवाक् यानां २तदनुरोधित्वाच्चेतरेषां नैवमित्याह—न चेति। तथापि

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १८. श्लो. ५५]] [[९३८]]

तेषां वाक् यानामानर्थक् यं युक्तम्। न चार्थवादत्वम् , स्वप्रकरणस्थत्वात् , प्रत्यगात्माविक्रियस्वरूपनिष्ठत्वाच्च मोक्षस्य। न हि पूर्वसमुद्रं जिगमिषोः प्रातिलोम्येन प्रत्यक्समुद्रं जिगमिषुणा समानमार्गत्वं सम्भवति। प्रत्यगात्मविषय- ‘सर्वकर्माणि मनसा संन्यस्ये’ति, ‘सर्वारम्भपरित्यागी’तीत्यादीनि। ननु संन्यासाश्रमविध्यभावेऽपि तद्वाक् यानां नानर्थक् यमर्थवादत्वाद्, अत आह— न चेति। विधिप्रकरणस्थवाक् यानामर्थवादत्वमयुक्तमित्यर्थः। यदीमान्यर्थवादवाक् यानि स्युस्तर्हि विधिवाक् यान्यन्यत्रोप- लभ्येरन्। विधिवाक् यस्तुतिपरत्वादर्थवादानां विधिवाक् यानि विनाऽर्थवादवाक् यानारम्भात् ; न तु तथाऽन्यत्र वाक् यान्युपलभ्यन्ते। तस्मादिमानि नार्थवादवाक् यानि, किन्तु विधिवाक् यान्येव। नन्वस्तु नाम संन्यासविधिर्न तु तस्य मोक्षहेतुत्वम् , अत आह—प्रत्यगिति। प्रत्यगात्मनो यदविक्रियं स्वरूपं, तस्मिन्निष्ठा यस्य तत्त्वान्मोक्षस्य निरतिशयानन्दलक्षणस्य। निरतिशयानन्दं हि प्रत्यगात्मनः स्वरूपम्। यद्वा प्रत्यगात्मा अविक्रियस्वरूपमेव निष्ठा यस्य तत्त्वान्मोक्षस्य, यन्निष्कृष्टं स्वरूपं तत् प्रत्यगात्मस्वरूपमेवेत्यर्थः। अथवा निष्ठत्वादिति[निष्ठात्वादिति] पाठः। प्रत्यगात्मा अविक्रियस्वरूपे या निष्ठा, सैव मोक्षः। यद्वा प्रत्यगात्मनोऽविक्रियस्वरूपेण या निष्ठा सैव मोक्षः। अनात्मतादात्म्याध्यासतद्धेत्वविद्यानिवृत्तेर्यदविक्रियात्मरूपेण स्थितिः पुरुषस्य सैव मोक्ष इत्यर्थः। अयं च मोक्षः आत्मज्ञाननिष्ठासाध्यः; सा च निष्ठा सर्वकर्मसंन्याससाध्येति मोक्षस्य संन्यास एव हेतुरुत्तम इति भावः। ननु मुमुक्षुणा मोक्षार्थं संन्यस्य ज्ञाननिष्ठैव किमिति कार्या? कर्मनिष्ठाऽपि क्रियताम् , अत आह—न हीति। स्वर्गाद्यभ्युदयार्थं प्रवृत्तिमार्गः कर्मिणाम् , मोक्षार्थं निवृत्तिमार्गः संन्यासिनां च विभज्य पृथङ्निर्मित ईश्वरेणैव। तथा चोक्तं भाष्यारम्भे ‘ईश्वरः प्रवृत्तिधर्मं प्रजापतीन् ग्राहयामास, निवृत्तिधर्मं सनकसनन्दनादी’निति। तत्र कर्मानुष्ठानात्मकः प्रवृत्तिमार्गः, कर्मसंन्यासात्मको निवृत्तिमार्गः। यः पुनरज्ञः स्वर्गं जिगमिषति स कर्ममार्गेणैव स्वर्गं गच्छेत् ; न तु संन्यासमार्गेण, संन्यासमार्गस्य स्वर्गाप्रापकत्वात्। यस्तु विद्वान् मोक्षं जिगमिषति स संन्यासमार्गेणैव मोक्षं गच्छेत् , न तु कर्ममार्गेण, तस्यामोक्षप्रापकत्वात्। एवमज्ञप्राज्ञयोर्विरुद्धफलकौ विपरीतौ द्वौ मार्गौ स्तः ‘दूरमेते विपरीते विषूची अविद्या या च विद्या चे’ति श्रुतेः। तत्र प्रवृत्तिमार्गः कर्ममार्गोऽविद्यामार्ग इत्यर्थान्तरम्। निवृत्ति- मार्गो ज्ञानमार्गो विद्यामार्गो मोक्षमार्ग इत्यप्यर्थान्तरम्। न च विद्यामार्ग एव मोक्षहेतुरिति कुत उच्यत इति वाच्यम् ; ‘नान्यः पन्था विद्यतेऽयनाय’ इति, ‘विद्ययाऽमृतमश्नुते’ इत्यादिश्रुतिभ्यः। तस्मान्मोक्षार्थिना संन्यस्य ज्ञाननिष्ठैव कार्या। अभ्युदयार्थिना त्वसंन्यस्य कर्मनिष्ठैव कार्या। यथा पूर्वसमुद्रं जिगमिषुः सूर्योदयोपाधिकपूर्वदिशं प्रत्येव प्रयायात्। पश्चिमसमुद्रं जिगमिषुस्तु सूर्यास्त- मयोपाधिकपश्चिमदिशं प्रत्येव प्रयायात्। न तूभयोरपि पूर्वदिशं प्रति पश्चिमदिशं प्रति वा एक एव मार्गोऽस्ति। एवं स्वर्गमोक्षार्थिनो- रुभयोरपि नैकोऽस्ति मार्गः, किन्तु भिन्न एव। फलभेदादनुष्ठानभेदाच्चेति। अक्षरार्थस्तु पूर्वसमुद्रं जिगमिषोर्गन्तुमिच्छोः पुरुषस्य प्राति- लोम्येन स्वप्रातिकूल्येन पश्चिमसमुद्रं जिगमिषुणा सह समानमार्गत्वमेकमार्गत्वं न हि नास्ति हि; तथा प्रत्यक्समुद्रं जिगमिषोः प्राति- लोम्येन पूर्वसमुद्रं जिगमिषुणा सह समानमार्गत्वं न हि सम्भवतीति। तस्मान्मुमुक्षुणा विदुषा निवृत्तिमार्ग एव स्वीकर्तव्यः। ननु पूर्वपश्चिमसमुद्रद्वयप्रापकमार्गद्वयवदिह परस्परप्रतिकूलं किं तन्मार्गद्वयम्? अत आह—प्रत्यगिति। ज्ञाननिष्ठा ज्ञानमार्गः। तस्याः स्वरूपमाह—प्रत्यगात्मेति। प्रत्यगात्मविषयं यज्ज्ञानम् ‘अहं ब्रह्मास्मी’त्याकारकं तस्य सन्तानकरणे आवृत्तौ योऽभिनिवेशः स ज्ञाननिष्ठा। ‘अहं ब्रह्मास्मी’त्येवमसकृदभ्यसनं ज्ञाननिष्ठेत्यर्थः। न च ज्ञानस्यात्मानुभवनिश्चयावसानत्वं ज्ञाननिष्ठे- त्युक्तं प्रागिति तद्विरोध इति वाच्यम् ; ज्ञानस्यात्मानुभवनिश्चयापादनार्थमेव ज्ञानावृत्तेः कर्तव्यत्वात् तादृशज्ञाननिष्ठाहेतुत्वेन ज्ञानावृत्ति- ‘सोऽरोदीदि’त्यादिवन्न स्वार्थे १मानतेत्याशङ्क्याह—न चार्थवादत्वमिति। इतश्च मुमुक्षोरपेक्षितमोक्षौपयिकज्ञाननिष्ठस्य संन्यासे ऽधिकारो, न कर्मनिष्ठायामित्याह— प्रत्यगिति। ज्ञाननिष्ठस्य कर्मनिष्ठा विरुद्धेत्यत्र दृष्टान्तमाह— न हीति। ज्ञाननिष्ठास्वरूपानुवादपूर्वकं कर्मनिष्ठया

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘सोऽरोदीद् यदरोदीत् तद् रुद्रस्य रुद्रत्वम्’ इत्याद्यर्थवादानां न स्वार्थपरत्वम् , किन्तु ‘बर्हिषि रजतं न देयम्’ इत्यादिनिषेधापेक्षितनिन्दासमर्पकत्वमिति मीमांसायां निर्णीतम्। द्र. जै.सू. १.२.१०।

[[९३९]]

प्रत्ययसन्तानकरणाभिनिवेशश्च ज्ञाननिष्ठा। सा च प्रत्यक्समुद्रगमनवत् कर्मणा सहभावित्वेन विरुध्यते। पर्वतसर्षप- योरिवान्तरवान् विरोधः प्रमाणविदां निश्चितः। तस्मात् सर्वकर्मसंन्यासेनैव ज्ञाननिष्ठा कार्येति सिद्धम् ॥५५॥

रपि ज्ञाननिष्ठेत्युच्यते उपचारादिति। सा च ज्ञानावृत्तिलक्षणा ज्ञाननिष्ठा कर्मणा सहभावित्वेन विरुध्यते। विरोधात् कर्मणा सह न भव- तीत्यर्थः। तत्र दृष्टान्तमाह—प्रत्यगिति। पूर्वसमुद्रं जिगमिषोः प्रत्यक्समुद्रगमनं यथा विरुध्यते, तद्वदित्यर्थः। कर्ममार्गज्ञानमार्गयोर्न सहभावित्वं, विरोधात्। यथा पूर्वपश्चिमसमुद्रप्रापकयोर्मार्गयोर्नैकदेशवृत्तित्वरूपं सहभावित्वं, तद्वदिति भावः। ननु नास्ति ज्ञानकर्मणोर्विरोधः? अत आह—पर्वतेति। पर्वतसर्षपयोरिव ज्ञानकर्मणोः अन्तरवान् बहुतारतम्यवान् , महानिति यावत्। विरोधः प्रमाणविदां विदुषां निश्चितः। पर्वतसर्षपयोरिव ज्ञानकर्मणोर्महदस्ति तारतम्यमिति विदुषां निश्चितोऽयमर्थः। तथाहि —कर्मानुष्ठानात्मकः क्रियाकारकादिभेदबुद्धिप्रयुक्तः, स्वर्गप्रापकः, बन्धहेतुः, देहेन्द्रियव्यापारसाध्यः, अनात्मतादात्म्याध्यासमूलकः, वर्णाश्रमाद्यभिमानग्रस्तः, यज्ञाग्निहोत्राद्यनेकविधः एवमादिलक्षणः कर्ममार्गः। कर्मत्यागात्मकः, उपमृदितक्रियाकारकादिभेदबुद्धिः, ब्रह्मप्रापकः, मोक्षहेतुः, देहेन्द्रियव्यापारोपरमसाध्यः, अनात्मतादात्म्याध्यासनिवृत्तिमूलकः, वर्णाश्रमाद्यभिमानरहितः, ‘अहं ब्रह्मा- स्मी’त्येवमेकविधः एवमादिलक्षणो ज्ञानमार्गः। तस्मात् स्वरूपतः फलतश्च परस्परमत्यन्तविरुद्धं ज्ञानकर्ममार्गद्वयम्। अत एवा- विद्वांसः सकामाः कर्ममार्गेऽधिकुर्वन्ति। विद्वांसस्तु निष्कामा ज्ञानमार्गे इत्यधिकारिभेदश्च सङ्गच्छते। एवमधिकारिभेदादपि कर्मज्ञान- योर्विरोधः प्रसिद्धः। तस्मादिति। ज्ञाननिष्ठाया एव मुमुक्षुभिः कार्यत्वादित्यर्थः। संन्यासस्यैव ज्ञाननिष्ठाहेतुत्वादिति वा। सर्वकर्मसंन्या- सेनैवेति। तत्पूर्वकमित्यर्थः। आदौ सर्वकर्मसंन्यासं कृत्वा पश्चाज्ज्ञाननिष्ठा कार्येत्यर्थः। न च – ज्ञाननिष्ठाप्राप्तेः प्रागविदुषः कथं सर्वकर्मसंन्याससम्भवः, विदुष एव सर्वकर्मसंन्याससम्भवादिति – वाच्यम् ; पारोक्ष्येण ब्रह्मविदः सर्वकर्मसंन्याससम्भवात्। पारोक्ष्येण ब्रह्मविद्धि सर्वं कर्म संन्यस्य ज्ञाननिष्ठामभ्यस्य तया परिपक्वया परं ब्रह्म जानाति। यत्तु रामानुजः—विशुद्धबुद्धियोगादिभिर्ब्रह्मप्राप्तिरात्मसाक्षात्कारो भवति; ततो भगवति पुण्डरीकनयने स्वस्वामिन्यत्यर्थ- प्रियानुभवरूपा भक्तिर्जायते; भक्त्या तत्त्वतो भगवन्तं जानाति; ततो भक्तित एव भगवन्तं विशते इति, तत् तुच्छात्तुच्छतरम्। देहाद्यति- रिक्तात्मस्वरूपसाक्षात्कारानन्तरं पुण्डरीकनयनत्वाद्याकारवति देहे परमात्मभ्रान्त्युदयायोगात्। न ह्यात्मानमेव देहाद्यतिरिक्तं जानन् पुरुषः परमात्मानं देहात्मकं मन्येत; येन पुण्डरीकनयने तस्य भक्तिः स्यात्। नापि तादृश्या भक्त्या देहेश्वरभ्रान्तिपूर्विकया परमात्म- तत्त्वसाक्षात्कारः। सच्चिदानन्दं हि परमात्मनस्तत्त्वम् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुतेः। स च देहाद्यनात्मबुद्धिनिवृत्त्यैव भवितु- मर्हति। न तु पुण्डरीकनयनोऽयं भगवानित्याकारकानात्मदेहेश्वरबुद्ध्या। यस्य – देहो नात्मा, नापीन्द्रियाणि, नापि मनः, नापि बुद्धिः, नाप्यव्यक्तम् ; किन्तु प्रत्यग्ज्योतिरेवात्मेति स्वात्मसाक्षात्कारादात्मज्ञाननिश्चयः, तस्य कथं सर्वान्तरं स्वप्रभं सच्चिदानन्दं विहाय पुण्डरीकनयनोऽयं देहः परमात्मेति निश्चयो भवितुमर्हति? इन्द्रियाद्यपेक्षया बाह्यो हि देहोऽत्यन्तम्। सर्वान्तरश्चात्मेति प्रसिद्धिः। ‘य आत्मनि तिष्ठ’न्नित्यादिरन्तर्यामिब्राह्मणश्रुतिस्तव प्रमाणं हि। कथमेवं सर्वान्तरः सर्वान्तर्यामी ज्ञानानन्दरूप ईश्वरः सर्वबाह्यः पुरुष- मनोऽधीनसत्ताकः१ जडरूपश्च स्यात्। तस्मादनात्मविद एव सगुणब्रह्मणि भक्तिः, न त्वात्मविदः। आत्मविद्धि निर्गुणे ब्रह्मणि सच्चिदानन्दलक्षणे प्रत्यगभिन्ने परमात्मनि रमते ‘यस्त्वात्मरतिरेवः स्या’दिति स्मरणात् , ‘आत्मरतिरात्मक्रीडः’ इति श्रुतेश्च। न च तस्याः सहभावित्वं विरुद्धमिति दार्ष्टान्तिकमाह— प्रत्यगात्मेति। कथं ज्ञानकर्मणोर्विरोधधीरित्याशङ्क्य कर्मणां ज्ञाननिवर्त्यत्वस्य श्रुति- स्मृतिसिद्धत्वादित्याह—पर्वतेति। अन्तरवान् उभयोरेकधर्मिनिष्ठत्वेन साङ्कर्याभावसम्पादकभेदवानित्यर्थः। ज्ञानकर्मणोरसमुच्चये फलित- मुपसंहरति—तस्मादिति ॥५५॥

१. अत्र ‘पुरुषबुद्धिकल्पितत्वाद्धृदये भगवद्विग्रहस्येति भावः।’ इति मुद्रितपुस्तकस्था टिप्पणी।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १८. श्लो. ५५]] [[९४०]]

न प्रत्यगभिन्नं ब्रह्मेति वाच्यम् ; प्रत्यग्भिन्नत्वे सति ब्रह्मणः, ब्रह्मभिन्नत्वे सति प्रतीचो वा जाड्यादिप्रसङ्गात्। तस्मात् पुण्डरीक- नयनत्वादिविशिष्टमानसिकबाह्यभगवद्विग्रहनिष्ठार्थप्रीतिरूपभगवद्भक्तिवशात् सच्चिदानन्दब्रह्मसाक्षात्कार इत्यनुपपन्नम्। यद्यपि तादृश- भक्त्या चित्तशुद्ध्यादिपूर्वकं ज्ञानलाभाद् ब्रह्मसाक्षात्कारः। तथापि न साक्षाद् ब्रह्मानुभवहेतुत्वं भक्त्येति [भक्तेरिति] बोध्यम्। एवं भक्त्या ब्रह्म साक्षात्कृत्य भक्त्यैव ब्रह्म प्रविशतीत्यप्ययुक्तम्। सति ब्रह्मसाक्षात्कारे ‘एकमेवाद्वितीयं ब्रह्मे’ति सर्वद्वैतनिवृत्त्या प्राप्तृप्राप्य- द्वयाभावात्। न हि निराकारे परिपूर्णे निरवयवे निर्विशेषे ब्रह्मणि प्रवेशो घटते तदन्यस्य तदनन्यस्य वा जीवस्य। समुद्रे नदीजलवत्, निरवकाशत्वाद् ब्रह्मणः। सावकाशत्वे सति परिपूर्णत्वायोगात्। तव मते जीवब्रह्मणोः सायुज्यायोगाच्च न सुतरां प्रवेशोपपत्तिः। न च लक्ष्ये शरवद् ब्रह्मणि जीवः प्रविशतीति वाच्यम् ; निरवयवत्वादुभयोर्निराकारत्वाच्च। न ह्येवमितः प्राक्तना मुक्ता ब्रह्मणि प्रविष्टाः पृथगुपलभ्यन्ते ब्रह्मसाक्षात्कारसमये विदुषा मधुपिष्टगतस्वर्णरेणुवत्। न च ‘यथा नद्यः स्यन्दमानाः समुद्रेऽस्तङ्गच्छन्ती’ति श्रुतिरेव प्रमाणमिति वाच्यम् ; नामरूपोपाधिप्रहाणपूर्वकं जीवो ब्रह्मात्मनावतिष्ठत इति तदर्थात्। न च ब्रह्मांशत्वाज्जीवानां पुनर्ब्रह्मप्रवेश उपपद्यत इति वाच्यम् ; निरंशस्य ब्रह्मणः सांशत्वस्यैवायुक्तत्वात्। न च ‘ममैवांशः’ इति गीतावचनाद्युक्तमिति वाच्यम् ; औपाधि- कत्वादंशव्यवहारस्य। न च घटाकाशो घटे नष्टे सति महाकाश इवान्तःकरणावच्छिन्नचैतन्यमन्तःकरणे नष्टे सति निरवच्छिन्नचैतन्ये प्रविशतीति वाच्यम् ; घटनाशानन्तरं यदि घटाकाशः स्यात् , तर्हि स महाकाशं प्रविशेत्। न तु सोऽस्तीति कथं तस्य ब्रह्मप्रवेशः? न चोपाधिनाशानन्तरं घटाकाशो जीवश्चास्तीति वाच्यम् ; तथा सति ब्रह्मप्रवेशस्यैवायोगात्। उपाधिं विनापि घटाकाश- महाकाशयोर्जीवेश्वरचैतन्ययोश्च भेदसत्त्वात्। उपाधिनाशानन्तरं निरुपाधिकयोस्तयोर्घटाकाश इति, जीव इति च व्यवहर्तु- मशक् यत्वात्। उपाधिनाशानन्तरं महाकाशात्पूर्णचैतन्याच्च भेदेन ग्रहीतुमशक् यत्वाच्च। तथा सति प्रवेशानन्तरमपि भेदग्रहणप्रसङ्गात्। न चेष्टापत्तिः, घटनाशानन्तरं महाकाशे प्रविष्टस्य घटाकाशस्यादर्शनाच्च। तस्मादुपाधिसद्भावदशायामेव घटाकाशमहाकाश- भेदव्यवहारः, न तूपाधिनाश इति घटाकाशमहाकाशयोरिव जीवेश्वरचैतन्ययोः सिद्धमद्वैतमिति न जीवचैतन्यस्येश्वरचैतन्ये प्रवेशप्रसङ्ग इति॥५५॥

सर्वकर्माणीति। सदा सर्वकर्माणि कुर्वाणोऽपि मद्व्यपाश्रयः पुरुषो मत्प्रसादाच्छाश्वतमव्ययं पदमवाप्नोति। यस्येति शेषः। स्व- कर्मणा भगवतोऽभ्यर्चनभक्तियोगस्य ज्ञाननिष्ठायोग्यतारूपसिद्धिप्राप्तिः फलम् , ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ इत्युक्त- तर्हि ३ज्ञाननिष्ठयैव मोक्षसम्भवान्न कर्मानुष्ठानसिद्धिरित्याशङ्क्याह—स्वकर्मणेति। तामेव सिद्धिप्राप्तिं विशिनष्टि—ज्ञानेति। ज्ञान- निष्ठायोग्यतायै स्वकर्मानुष्ठानं भगवदर्चनरूपं कर्तव्यमित्यर्थः। ज्ञाननिष्ठायोग्यताऽपि किमर्थेत्याशङ्क्य ज्ञाननिष्ठासिद्ध्यर्थेत्याह—यन्निमि- त्तेति। ज्ञाननिष्ठाऽपि कुत्रोपयुक्तेत्यत्राह—मोक्षेति। स्वकर्मणा भगवदर्चनात्मनो भक्तियोगस्य परम्परया मोक्षफलस्य कार्यत्वेन विधेयत्वे विध्यपेक्षितां स्तुतिमवतारयति—स भगवदिति। ज्ञाननिष्ठा कर्मनिष्ठेत्युभयं प्रतिज्ञाय तत्र तत्र विभागेन प्रतिपादितम्। किमितीदानीं कर्म- निष्ठा पुनः स्तुत्या कर्तव्यतयोच्यते? तत्राह—शास्त्रार्थेति। तत्र तत्रोक्तस्यैव कर्मानुष्ठानस्य प्रकरणवशादिहोपसंहारः। स च शास्त्रार्थ- निश्चयस्य दृढतां द्योतयतीत्यर्थः। यद्यपि कस्यचित् कर्मानुष्ठायिनो बुद्धिशुद्धिद्वारा कैवल्यं सिध्यति, तथापि पापबाहुल्यात् कर्मानुष्ठायिनो

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. यन्निमित्तेति यच्छब्देन ज्ञाननिष्ठायोग्यता परामृश्यते। २. सः ज्ञाननिष्ठायोग्यताकारणीभूतः। ३. ‘ज्ञाननिष्ठस्यैव’ इति पा.। सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः। मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥५६॥

स्वकर्मणा भगवतोऽभ्यर्चनभक्तियोगस्य सिद्धिप्राप्तिः फलं ज्ञाननिष्ठायोग्यता, १यन्निमित्ता ज्ञाननिष्ठा मोक्ष- फलावसाना, २स भगवद्भक्तियोगोऽधुना स्तूयते शास्त्रार्थोपसंहारप्रकरणे शास्त्रार्थनिश्चयदार्ड्याय— सर्वेति। सर्व-

[[९४१]]

त्वात्। यस्येश्वराराधनबुद्ध्याऽनुष्ठितस्वकर्मानुष्ठानात्मकभक्तियोगस्य ज्ञाननिष्ठायोग्यतारूपसिद्धिप्राप्तिः फलमित्यर्थः। यदिति। मोक्ष- फलमेवावसानं यस्याः सा ब्रह्मप्राप्तिपर्यवसाना ज्ञाननिष्ठा यन्निमित्ता य एव भक्तियोगो निमित्तं हेतुर्यस्याः सा तथोक्ता। स चेति। ज्ञान- निष्ठायोग्यताप्राप्तिहेतुः, तद्द्वारा ज्ञाननिष्ठाहेतुश्चेत्यर्थः। सर्वकर्माण्यपीत्यपिशब्दादाह—प्रतिषिद्धान्यपीति। किं पुनर्विहितानीत्य-पेरर्थः। कुर्वाण इति। अज्ञ इति भावः। मयि अर्पितः सर्वात्मेति भावो यस्य सः। सर्वात्मेश्वर इति बुद्धियुक्त इत्यर्थः। यद्वा सर्वेषामात्मनां देहेन्द्रियमनोबुद्धीनां ये ये भावा व्यापारास्ते सर्वे मयीश्वरे येनार्पिताः स मय्यर्पितसर्वात्मभावः। ईश्वरार्थमेव मया देहेन्द्रियादिभिस्तानि तानि सर्वाणि कर्माणि क्रियन्ते, न मदर्थमिति निश्चयवानित्यर्थः। अथवा सर्वोऽप्यात्मभावो मनसो भावना मय्यर्पितो येन स तथोक्तः। सर्वात्मना मामेवाश्रित इत्यर्थः। सर्वकर्माणि कुर्वाणस्यापि परमपदाप्ताविदमेव निमित्तं यदीश्वरव्यपाश्रयत्वम्। पदमवाप्नोतीति। ज्ञान- प्राप्तिद्वारेति भावः। न तु साक्षात्। अत एव ‘भक्तियोगः स्तूयते’ इत्युक्तम्। भक्तियोगात् परमपदप्राप्तिरितिवचनं स्तुतिर्हि, साक्षात् तस्मात् तत्प्राप्त्यभावात्। ज्ञानयोगात् परमपदप्राप्तिरिति वचनं तु यथार्थकथनम् , साक्षात् तत्प्राप्तिसम्भवात्। अथवा स्तूयत इत्यस्य कथ्यत इत्येवार्थः। मत्प्रसादाद् भक्तियोगानुष्ठाता परमं पदं प्राप्नोतीत्युक्तत्वात्। भक्तियोगस्येश्वरानुग्रहद्वारा परमपदप्राप्ति[हेतुत्व]सम्भ- वादिति। ईश्वरानुग्रहश्च ज्ञानप्रदानलक्षणः। यः कर्मभिः परिशुद्धचित्तः सन् ज्ञानं लभते स ईश्वरेणानुगृहीत इत्यनुमातुं शक् यत्वात्। ‘ईश्वरानुग्रहादेव पुंसामद्वैतवासने’ति ह्युक्तम्। यद्वा मत्प्रसादाच्छाश्वतं पदं प्रत्यगभिन्नं ब्रह्मावाप्नोति जानाति, मदनुग्रहात् तस्य सम्यग्ज्ञानोदयो भवतीत्यर्थः॥५६॥

चेतसेति। त्वं चेतसा सर्वकर्माणि मयि संन्यस्य मत्परःसन् बुद्धियोगमुपाश्रित्य सततं मच्चित्तो भव। यस्मादेवमिति। यस्मा- दीश्वराराधनात्मककर्मयोगानुष्ठानादीश्वरानुग्रहात् परमपदप्राप्तिस्तस्मादित्यर्थः। दृष्टेति। ऐहिकान्यामुष्मिकाणि चेत्यर्थः। कथं संन्यासः? अत आह—यत्करोषीति। ‘यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्’ इति ऽपि कस्यचिद् बुद्धिशुद्ध्यभावे कैवल्यासिद्धिरित्याशङ्क्याह—सर्वकर्माणीति। सर्वशब्दानुरोधादीश्वराराधनस्तुतिपरत्वेन३ श्लोकं व्याचष्टे— प्रतिषिद्धान्यपीति। नित्यनैमित्तिकवदित्यपेरर्थः। निषिद्धाचरणस्य प्रामादिकत्वं व्यावर्तयति—सदेति। अनुतिष्ठन् वैष्णवं पदमाप्नोतीति सम्बन्धः। पापकर्मकारिणो यथोक्तपदप्राप्तौ पापस्यापि मोक्षफलत्वमुपगतं स्यादित्यत्राह—मद्व्यपाश्रय इति। तस्यैव तात्पर्यमाह— मयीति। तर्हि ज्ञानस्य मोक्षहेतुत्वमुपेक्षितं स्यादित्यत्राह— सोऽपीति। प्रसादः अनुग्रहः, सम्यग्ज्ञानोदयः। पदं पदनीयम् , उपनिषत्तात्पर्यगम्यम् । अव्ययम् अपक्षयरहितम् ॥५६॥

परमेश्वरप्रसादस्यैवं माहात्म्यं यतः सिद्धम् , तस्मात् तत्प्रसादार्थं भवता प्रयतितव्यमित्याह— यस्मादिति। भगवत्प्रसादादा- १. ‘अपाश्रित्य’ इति मूले भाष्ये च पा.। २. ‘मय्यर्पितसर्वभावः’ इति पा.। ३. प्रतिषिद्धकर्मणो मोक्षप्रतिबन्धकत्वस्य शास्त्रसिद्धत्वात् स्तुतिपरत्वाभावे सर्वकर्माणीत्यसंगतेरिति भावः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कर्माणि प्रतिषिद्धान्यपि सदा कुर्वाणोऽनुतिष्ठन् मद्व्यपाश्रयः अहं वासुदेव ईश्वरो व्यपाश्रयो यस्य स मद्व्यपाश्रयो २मय्यर्पितसर्वात्मभाव इत्यर्थः। सोऽपि मत्प्रसादाद् मम ईश्वरस्य प्रसादाद् अवाप्नोति शाश्वतं नित्यं वैष्णवं पदमव्ययम्॥५६॥

यस्मादेवं तस्मात्चेतसेति। चेतसा विवेकबुद्ध्या सर्वकर्माणि दृष्टादृष्टार्थानि मयि ईश्वरे संन्यस्य ‘यत् करोषि यदश्नासि’(भ.गी.९.२७) इत्युक्तन्यायेन मत्परः अहं वासुदेवः परो यस्य तव स त्वं मत्परः सन् मय्यर्पितसर्वात्मभावः, चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः। बुद्धियोगमुपाश्रित्य१ मच्चित्तः सततं भव॥५७॥

अ. १८. श्लो. ५६ - ५७ ]

[[९४२]]

बुद्धियोगं मयि समाहितबुद्धित्वं बुद्धियोगस्तं बुद्धियोगम् उपाश्रित्य, २आश्रयोऽनन्यशरणत्वम् , मच्चित्तो मय्येव चित्तं यस्य तव स त्वं मच्चित्तः सततं सर्वदा भव॥५७॥

मच्चित्त इति। मच्चित्तः सर्वदुर्गाणि सर्वाणि दुर्गाणि दुस्तराणि संसारहेतुजातानि मत्प्रसादात् तरिष्यसि अति- क्रमिष्यसि। अथ चेद् यदि त्वं मदुक्तम् अहङ्कारात् पण्डितोऽहमिति, न श्रोष्यसि न ग्रहीष्यसि, ततस्त्वं विनङ्क्ष्यसि विनाशं गमिष्यसि॥५८॥

इदं च त्वया न मन्तव्यम्— स्वतन्त्रोऽहं किमर्थं परोक्तं करिष्यामीति। यदीति। ३यदि चेत् त्वमहङ्कारमाश्रित्य न योत्स्य इति न युद्धं करिष्यामीति मन्यसे चिन्तयसि निश्चयं करोषि, मिथ्यैष व्यवसायो निश्चयः ते तव, यस्मात् प्रकृतिः क्षत्रियस्वभावः त्वां नियोक्ष्यति॥५९॥

पूर्वोक्तरीत्येत्यर्थः। कर्मणामीश्वरार्पणमेवेह संन्यास इत्युच्यते, उपचारात्। न तु मुख्यः संन्यासः। ‘सर्वकर्माणि कुर्वाणः’ इति प्रकरणत्वादस्य। परः उत्कृष्टः, प्राप्यः इति वा। बुद्धियोगमुपाश्रित्य बुद्धियोगोपाश्रयः सन्नित्यर्थः। उपाश्रयं कृत्वोपाश्रित्य। उपाश्रय- शब्दार्थमाह—अनन्यशरणत्वमिति। न विद्यतेऽन्यच्छरणं यस्य तत्त्वम्। बुद्धियोगैकशरणो भूत्वेति यावत्॥५७॥

मच्चित्त इति। मच्चित्तः सततं भवेत्युक्तम् , किं तथा भवनेनेत्यत आह—मच्चित्त इति। त्वं मच्चित्तःसन् मत्प्रसादात् सर्वदुर्गाणि तरिष्यसि। अथ त्वमहङ्कारान्मदुक्तमिति शेषः। न श्रोष्यसि चेत् , तर्हि विनङ्क्ष्यसि। कीदृशोऽहङ्कारः? अत आह—पण्डितोऽहमिति। पण्डितस्य मम किं परोक्तश्रवणेनेत्यहङ्कारादिति भावः। न ग्रहीष्यसीति। मदुक्तमनतिक्रम्य नाचरिष्यसि चेदित्यर्थः। न तु केवलश्रवणरूपग्रहणार्थोऽयं श्रोष्यसीति शब्दः। श्रोत्रेन्द्रियवत्त्वेन शब्दश्रवणस्य जातत्वान्न श्रोष्यसीति वचनस्य व्यर्थत्वापत्तेः। विनाशं नरकादिरूपम्। तस्मान्मदुक्तविधया मदाराधनात्मकं स्वधर्मं युद्धं कुरु इति भावः। ‘नियतं कुरु कर्म त्व’मित्येवं पूर्वमुक्तत्वात् ॥५८॥

यदीति। यदीति श्लोकमवतारयति—इदं चेति। ‘स्वतन्त्रोऽहं किमर्थं परोक्तं करिष्यामि’ इतीदं च त्वया न मन्तव्यमित्याह— यदीति। त्वमहङ्कारमाश्रित्य ‘न योत्स्ये’ इति मन्यसे यद्येष ते व्यवसायो मिथ्या भविष्यतीति शेषः। प्रकृतिस्त्वां, कर्मणीति शेषः। नियोक्ष्यतीति। एष इति। ‘नाहं युद्धं करिष्ये’ इत्येवंरूप इत्यर्थः। मिथ्या व्यर्थः। कुतो मिथ्या भविष्यतीत्यत आह—प्रकृतिरिति। सादितसम्यग्ज्ञानादेव मुक्तिः, न कर्ममात्रादिति ज्ञानं विवेकबुद्धिः। आश्रयशब्दार्थमाह—अनन्येति॥५७॥

किमतो भवति? तदाह—मच्चित्त इति। भीत्याऽपि प्रवर्तेतेति मन्वानो विपर्यये दोषमाह—अथ चेदिति॥५८॥

स्वातन्त्ये सति भीतेरवकाशो नास्तीत्याशङ्क्याह—इदं चेति॥५९॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात् तरिष्यसि। अथ चेत् त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि॥५८॥

१यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे। मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति॥५९॥

स्वभावजेन कौन्तेय !निबद्धः स्वेन कर्मणा। १.‘यदहंकार’ इति मूले, भाष्ये च पा.। २. ‘उपाश्रयः’ इति पा.। ३.‘यच्चैतत् त्वम्’ इति पा.।

[[९४३]]

कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत्॥६०॥

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन !तिष्ठति। भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥६१॥

यस्मात्प्रकृतिस्त्वां नियोक्ष्यति, तस्मादेष मिथ्येति भाष्यान्वयः। नियोक्ष्यति नियुक्तं करिष्यति। कर्मणि युद्धे प्रवर्तयिष्यतीत्यर्थः॥५९॥

स्वभावजेनेति। कथं प्रकृतिर्नियोक्ष्यतीत्यत आह—स्वभावजेनेति। हे कौन्तेय, स्वभावजेन स्वेन कर्मणा निबद्धस्त्वं मोहाद् यत् कर्म कर्तुं नेच्छसि, तदवशःसन्नपि त्वं करिष्यसि। स्वभावः क्षत्त्रस्वभावः। तज्जेन स्वेन स्वकीयेन कर्मणा शौर्यादिना। ‘शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायन’मिति श्लोकोक्तेनेत्याह—यथोक्तेनेति। मोहादिति। न तु सम्यग्ज्ञानादिति भावः। तत्त्वविदः प्रकृति- परवशत्वासम्भवात्। अवशोऽस्वाधीनः। फलितमाह—परवश इति। प्रकृतिपरतन्त्र इत्यर्थः। नाहं कर्म करिष्ये इति दृढं सङ्कल्प्य स्थितोऽपि त्वं क्षत्त्रस्वभावप्रयुक्तसहजशौर्यादिगुणयुक्तत्वाच्छत्रुभिर्बाध्यमानान् स्वीयानवलोक् य, शत्रुभिः क्रियमाणामात्मनिन्दां च श्रुत्वा, प्रभूतक्रोधविक्षिप्तं मनो नियन्तुमशक्तःसन् करिष्यस्येव युद्धम्। न हि प्रकृतिस्त्वया नियन्तुं शक् यते। न ह्यग्नेरौष्ण्यस्वभाव इव क्षत्त्रस्य शौर्यादिस्वभावोऽन्यथा भवति। यस्मादेवं तस्मान्मिथ्यैव तव ‘न योत्स्येऽह’मित्येष निश्चयः। तस्मान्मदुपदेशात्प्राग् यत् त्वया निश्चितं न योत्स्ये इति, तदधुना परित्याज्यमेव। न त्वद्यापि तथैव न योत्स्य इति मन्तव्यमिति भावः॥६०॥

ईश्वर इति। न केवलं प्रकृतिरेव त्वां नियोक्ष्यति, किन्त्वीश्वरोऽपीत्याह—ईश्वर इति। यद्वा ‘अवशः’ इत्यनेन न केवलं प्रकृतिपरवशत्वं तवोच्यते, किन्त्वीश्वरपरवशत्वमपीत्याह—ईश्वर इति। अथवा कुतो मां स्वतन्त्रमीश्वरं प्रकृतिर्नियोक्ष्यतीत्यत आह— ईश्वर इति। हे अर्जुन, यन्त्रारूढानि माययेव सर्वभूतानि भ्रामयन् सन्नीश्वरः सर्वभूतानां हृद्देशे तिष्ठति। अर्जुनशब्दार्थमाह—शुक्लेति। शुक्लः परिशुद्धोऽन्तरात्मस्वभावो यस्य स शुक्लान्तरात्मस्वभावः। अस्यैवार्थमाह—विशुद्धान्तःकरण इति। नन्वर्जुनशब्दः श्वेतवाची- त्यत आह—अहश्चेति। कृष्णमपरिशुद्धं मेघाच्छादनादिनेति भावः। अर्जुनं परिशुद्धं मेघाभावादिनेति भावः। मेघच्छन्नेऽह्नि दुर्दिनशब्द- व्यवहारात्। न ह्यह्नि शुक्लकृष्णरूपयोगः। तस्मादर्जुनशब्दः परिशुद्धवाची। इदं च सम्बोधनं वेदान्तशास्त्रोपदेशार्हत्वसूचनाय, परिशुद्धान्तःकरणस्य तव मदुक्तार्थग्रहणमुचितमिति सूचनाय वा; परिशुद्धान्तःकरणस्य तवोच्छास्त्रप्रवृत्तिरयुक्तेति सूचनाय वा; इतश्च त्वया युद्धान्न वैमुख्यं कर्तुमुचितमित्याह—यस्माच्चेति। स्वभावजेन स्वेन कर्मणा निबद्धस्त्वमिति सम्बन्धः॥६०॥

इतोऽपि त्वया युद्धं कर्तव्यमेवेत्याह—यस्मादिति। अर्जुनशब्दस्योक्तार्थत्वे श्रुतिमुदाहरति—अहश्चेति। ‘अहश्च कृष्णमहरर्जुनं च विवर्तेते रजसी वेद्याभिः’ इत्यत्र किञ्चिदहस्तावत् कृष्णमस्वच्छं कलुषितमिव लक्ष्यते, किञ्चित्पुनरहः अर्जुनमतिस्वच्छं शुद्धस्वभाव- मुपलभ्यते। एवमर्जुनशब्दस्य शुक्लशब्दपर्यायतया प्रयोगदर्शनादुक्तार्थत्वमुचितमित्यर्थः। २यन्त्रारूढानीवेति कथमुच्यते? तत्राह— इव- १. ‘शुक्लान्तरात्मस्वभाव! विशुद्धान्तःकरण !’ इति पा.। २. इवशब्दस्य श्लोकेऽदर्शनात् किमर्थं तदध्याहार इत्याक्षेपः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यस्माच्च— स्वभावजेनेति। स्वभावजेन शौर्यादिना यथोक्तेन, कौन्तेय ! निबद्धो निश्चयेन बद्धः स्वेन आत्मीयेन कर्मणा, कर्तुं नेच्छसि यत् कर्म मोहाद् अविवेकतः करिष्यसि अवशोऽपि परवश एव तत् कर्म॥६०॥

यस्मात्— ईश्वर इति। ईश्वरः ईशनशीलो नारायणः सर्वभूतानां सर्वप्राणिनां हृद्देशे हृदयदेशे, अर्जुन ! १शुक्लान्तरात्मस्वभावो विशुद्धान्तःकरणः (इति), ‘अहश्च कृष्णमहरर्जुनं च’ (ऋ.सं.४.५.१०.१) इति दर्शनात्। तिष्ठति स्थितिं लभते। तेषु स कथं तिष्ठतीत्याह— भ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राण्यारूढानि अ. १८. श्लो. ५७ - ६१ ]

[[९४४]]

अधिष्ठितानि इवेति इवशब्दोऽत्र द्रष्टव्यः— यथा १दारुकृतपुरुषादीनि यन्त्रारूढानि। मायया छद्मना भ्रामयंस्तिष्ठतीति सम्बन्धः॥६१॥

परिशुद्धान्तःकरणस्त्वं समाहितेन मनसा हृद्देशस्थमीश्वरं साक्षात्कर्तुं क्षमसे इति सूचनाय वा। कानि तानि यन्त्रारूढानीत्यत आह—दारुकृतपुरुषादीनि यन्त्राणीति। दारुकृतानि पुरुषादीन्येव यन्त्राणि यन्त्रारूढानीत्युच्यन्त इत्यर्थः। अवयवावयविभावेन यन्त्रे पुरुषादिपुत्रिकाणां सत्त्वाद् यन्त्रावयवानां पुत्रिकाणां यन्त्रत्वं यन्त्रारूढत्वं चेति भावः। यद्वा कानि तानि यन्त्राणीत्यत आह—दारुकृतेति। तदारूढानि तु मनुष्यसत्त्वानि। पुरुषाश्वगवादिरूपासु यन्त्रस्थासु पुत्रिकासु बालानारोप्य केनचित् कपटेन भ्रामयति हि पुरुषः। अथवा आरूढानि स्वेनाधिष्ठितानि च तानि यन्त्राणि यन्त्रारूढानि; आहिताग्न्यादित्वान्निष्ठान्तस्य परनिपातः। कानि तानीत्यत आह—दारुकृतेति। पुरुषाकारामश्वाकारां वृषभाकारां वा काञ्चित् पुत्रिकां दारुमयीं निर्माय यन्त्रभूतां तां स्वयमधिष्ठाय केनचिन्मिषेण तद् यन्त्रं भ्रामयति कुशलः। ‘दारुकृतपुरुषादीनि यन्त्रारूढानी’ति भाष्यपाठस्तु नागरपुस्तकेषु दृश्यते। तद्वदीश्वरो ब्रह्मादिस्तम्बपर्यन्तं सचेतनं कार्यकरणसंघातात्मकं चराचरभूतजातं निर्माय तस्य हृद्देशे स्थितःसन् तद् यथास्वभावं तत्रतत्र प्रवर्तयतीत्यर्थः। नन्वपरिच्छिन्नस्य महतो महीयसः परिपूर्णस्य परमेश्वरस्य कथं भूतहृद्देशे स्थितिः? परिमितो हि हृत्पुण्डरीकप्रदेश इति चेत्? नैष दोषः; ‘हृत्पुण्डरीके विमले प्रविष्टः शास्ता जनाना’मिति, ‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठती’ति च श्रुतेः। मायया रामकृष्णादिसप्तवितस्तिपरिमितकायवदङ्गुष्ठपरिमितकायोऽपि भवेदीश्वरस्य; तेन च रूपेण हृत्पुण्डरीकस्थितिरुपपद्यत इति। ननु यदि तु पुण्डरीके अङ्गुष्ठमात्रपरिमित ईश्वरः साकारोऽस्ति, तर्हि स दृश्येतैवेति चेत्? नैष दोषः; चक्षुषो बहिःकरणस्या- न्तःस्थवस्तुस्वरूपग्रहणासामर्थ्यात्। किं घटादिरिवान्तःस्थमांसादिकं चक्षुषा गृह्यते? नन्वेवं मृतभूतशरीरे ईश्वरः सोऽस्ति वा न वा? आद्ये, प्रकृतशरीरदाहेन सप्राणस्यापीश्वरस्य दाहः; तेन चेश्वरस्य महत् कष्टम्। द्वितीये, कस्माद्धेतोर्नास्ति? न च बहिर्निर्गमनादिति वाच्यम् ; बहिर्निर्गतस्य तस्य कुतोऽचाक्षुषत्वम्? किं मृतशरीराद् बहिर्निर्गतोऽङ्गुष्ठमात्रपुरुषः केनापि दृश्यते पार्श्वस्थेन? न च प्राकृत- चक्षुरगोचर इति वाच्यम् ; सन्निपातदोषेण दन्तपङ्क्तिद्वयसङ्घट्टने सति वक्त्रमार्गाभावात् केन मार्गेण स पुरुषो निर्गतः स्यात्? न हि नेत्रादिमार्गा अङ्गुष्ठपरिमिताः। न च गुदद्वारेण निर्गत इति कल्पयितुं शक् यम् , अश्लीलत्वात्। किञ्च दर्पणमयनीरन्ध्रकरण्डे निक्षिप्ताद् म्रियमाणाद् मनुष्यान्निर्गतस्य परमेश्वरस्य तस्य कथं दर्पणाद् बहिर्गमनम् , रन्ध्राभावात्। अपि च अतिसूक्ष्मेषु कीटादिशरीरेषु हृद्देशस्यात्यल्पत्वात् कथं तत्र तादृशेश्वरस्थितिः? तस्मादिह हृद्देशे स्थितः पुरुषो नाङ्गुष्ठमात्र इति वक्तुं शक् यते। न च श्रुतेः का गतिरिति वाच्यम् ; मनुष्यहृद्देशस्याङ्गुष्ठपरिमितत्वात् तत्स्थस्येश्वरस्यापि तत्परिमितत्वं कल्प्यत एवोपासनार्थम् , न तु तात्त्विकमिति। नन्वेवञ्चेत् मायावच्छिन्नचैतन्यलक्षणः सत्त्वादिगुणभेदेन विष्णुब्रह्मरुद्ररूपश्चेश्वरो भूतहृद्देशे तिष्ठतीति ब्रूमः। इदं च न युक्तम्। किं हृद्देशे विष्ण्वादिमूर्तित्रयमस्ति, उत तत्रैका मूर्तिः? उभयथाऽपि शङ्खचक्रकमण्डलुत्रिशूलादिधराणां गरुडहंसवृषभध्वजानां लक्ष्मीसरस्वतीपार्वतीसहितानां महतां तेषां त्रयाणां देवोत्तमानां स्वल्पे हृत्पुण्डरीके स्थितिर्न घटते। नापि त्रयाणां तेषाम् अनेककोटि- भूतजातहृदयस्थितिरुपपद्यते। अनेककोटिविष्ण्वादिमूर्तयः सन्तीति कल्पनं चायुक्तम् , अप्रमाणत्वात्। नापि विशस्यमानपश्वादि- हृत्पुण्डरीके काऽपि मूर्तिरुपलभ्यते। तस्मात् सत्त्वगुणावच्छिन्नं चैतन्यं विष्णुरिति, रजोगुणावच्छिन्नं ब्रह्मेति, तमोगुणावच्छिन्नं रुद्र शब्द इति। तदेव प्रपञ्चयति—यथेति। दारुमयानि यन्त्राणि यथा लौकिको मायावी मायया भ्रामयन् वर्तते, तथेश्वरोऽपि सर्वाणि भूतानि भ्रामयन्नेव हृदये तिष्ठतीत्यर्थः॥६१॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘दारुकृतपुरुषादीनि यन्त्राणि’ इति रा.पा.। सूत्रसंचारादियन्त्रमारूढानि दारुनिर्मितपुरुषादीनीति मधुसूदनी।

[[९४५]]

इति च नामभिरुच्यते। न तु चैतन्यस्य कोऽप्याकारः। अत एव विष्ण्वादिशरीरा अस्मदादिशरीरवद् देवादिशरीरवच्च दृश्यत्वा- ज्जडत्वात्परिच्छिन्नत्वाच्च नैवेश्वरभूताः; किं तर्हि? मायावच्छिन्नं चैतन्यमेवापरिच्छिन्नत्वादीश्वर इति। नन्वेवमपि मायावच्छिन्नचैतन्यलक्षणेश्वरस्य परिपूर्णस्यापरिच्छिन्नस्य कथं हृद्देशे स्थितिरिति चेत् , मायापरिणामत्वात् सर्वस्य घटाकारपरिणतमृदि गन्ध इव हृदाकारपरिणतमायायामीश्वरोऽस्तीति। एतदपि न युक्तम् , हृद्देशे तिष्ठतीति विशेषवादस्या- युक्तत्वात्। सर्वभूतानां करचरणनखलोमादिष्वपि मायापरिणामेषु दर्शितविधया सत्त्वादीश्वरस्य। किञ्चानया विधयाऽन्तःकरणस्यापि मायापरिणामत्वेन तत्रापीश्वरचैतन्यस्यैव सत्त्वाद् , अन्तःकरणावच्छिन्नचैतन्यं जीव इति वेदान्तसिद्धान्तविरोधाच्च। तस्मादीश्वरः सर्वभूतानां हृद्देशे तिष्ठतीत्येतदनुपपन्नमेवेति पूर्वपक्षः। अत्रोच्यते— ‘सत्यं ज्ञानमनन्तं ब्रह्मे’त्युक्तसत्यज्ञानानन्दलक्षणः परिपूर्णः सर्वव्यापी परमात्मा नारायणः परमेश्वरः सर्वभूतानां हृद्देशे प्रत्यग्रूपेण तिष्ठतीति। अन्तःकरणावच्छिन्नं चैतन्यं प्रत्यगित्युच्यते। यद्यपि परिपूर्णं चैतन्यं निरुपाधिकं सर्वत्रास्ति, तथापि तदेव चैतन्यमन्तःकरणावच्छिन्नं सद् भूतानां हृदि तिष्ठतीति न कोऽपि दोषः। न च सर्वान्तरस्य प्रत्यक् चैतन्यस्यापि सर्व- शरीरावयवव्यापित्वेन कथं हृद्देशे स्थितिरिति वाच्यम् ; अन्तःकरणस्य हृत्पुण्डरीके स्थितत्वात् तदवच्छिन्नचैतन्यस्य तत्रैवोपलभ्यमानत्वाद् हृद्देशे स्थितिरुक्तेति। यद्वा मायोपाधिको महेश्वर एव हृद्देशे प्रत्यग्रूपेण तिष्ठति। न च मायोपाधिकस्य कथ- मन्तःकरणोपाधिकत्वमिति वाच्यम् ; वस्त्रावृतायाः क्षुरिकायाः पेटिकावृतत्ववत् तदुपपत्तेः। अविद्यावच्छिन्नमेव चैतन्यं पुनरन्तःकर- णावच्छिन्नमपि भवतीति वेदान्तशास्त्रे दृश्यते हि। अन्तःकरणावच्छिन्नस्यापि प्रतीचो जीवस्येन्द्रियावच्छिन्नत्वं देहावच्छिन्नत्वं च दृश्यते हि , ‘पश्याम्यहम्’ ‘मनुष्योऽह’मित्यादिव्यवहारात्। न चेश्वरस्यैव कथं जीवत्वमिति वाच्यम् ; निर्विशेषस्य ब्रह्मणो यथेश्वरत्वं तथैवेश्वरस्यापि जीवत्वमिति शास्त्रैकप्रमाणा वयमभ्युपगच्छामः। तथाहि शास्त्रम् ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ , ‘अनेन जीवेनात्मना- नुप्रविश्य’ इत्यादिश्रुतिः; ‘ममैवांशो जीवलोके जीवभूतः सनातनः’, ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’, ‘ईश्वरो जीवकलया प्रविष्टो भगवानि’त्येवमादिस्मृतयः; ‘भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः’ इति पुराणम्। न च शास्त्रादपि कथमीश्वरस्यानीश्वर- जीवत्वमिति वाच्यम् ; रज्जोरपि सर्पत्वमिव स्थाणोरपि चोरत्वमिव गगनस्यापि नैल्यमिव सशिरसोऽपि स्वप्ने भिन्नशिरस्कत्वमिव स्थिरस्यापि जलसूर्यकस्य चलनमिवाविद्यावशादीश्वरस्यापि जीवस्यानीश्वरत्वसम्भवात्। न ह्यनुभवसिद्धं जीवगतमनीश्वरत्वं शास्त्र- सिद्धमीश्वरत्वं वा प्रत्याख्यातुं शक् यते केनाप्यास्तिकेन। न चैवं जीवे ईश्वरत्वानीश्वरत्वयोरनन्यतरस्य निश्चेतुमशक् यत्वेनोभयासिद्धिरिति वाच्यम् ; शास्त्राद् विद्वदनुभवात् सुषुप्त्यादिदृष्टान्ताच्च जीवे ईश्वरत्वस्य, लोकादविद्वदनुभवाज्जागराच्च तस्मिन्ननीश्वरत्वस्य च निश्चेतुं शक् यत्वात्। एकस्यापि नटस्य दशाभेदात् स्त्रीपुरुषाकारद्वयपरिग्रहवद् एकस्यापि जीवस्य विद्याऽविद्यादशाभेदेनेश्वरत्वानीश्वरत्व- सम्भवाच्च। तस्मादुपपन्नं जीवेश्वराद्वैतं तत्त्वमस्यादिमहावाक् योपदिष्टम्। तथाहि—तदित्यस्येश्वरोऽर्थः; त्वमित्यस्य जीवोऽर्थः; असीत्यस्य तयोरैक् यमर्थः। मायावच्छिन्नचैतन्यलक्षणेश्वरस्यैव पुन- रन्तःकरणावच्छिन्नत्वाज्जीवेश्वराभेदः। तथा अविद्यादशायां यः संसारी जीवः स एव विद्यावस्थायामसंसारीश्वर इति जीवेश्वराभेदः। महाकाशस्य घटाकाश इव जीव ईश्वरस्यांश इति कृत्वा अंशांशिनोर्जीवेश्वरयोर्घटाकाशमहाकाशयोरिवाभेदः। बिम्बभूतं मुखं प्रति- बिम्बरूपेण यथा दर्पणे तिष्ठति, तथा बिम्बभूत ईश्वरः प्रतिबिम्बजीवरूपेणान्तःकरणे तिष्ठति; तच्चान्तःकरणं हृद्देशे तिष्ठतीतीश्वरस्यैव जीवरूपेण भूतहृद्देशे स्थितत्वाद् बिम्बप्रतिबिम्बयोर्मुखप्रतिमुखयोरिव जीवेश्वरयोरभेदः। बाह्यचैतन्यमीश्वरः, आन्तरचैतन्यं जीवः। तथा च बाह्याकाशदहराकाशयोरिव जीवेश्वरयोरभेदः। सोपाधिकचैतन्यं जीवः, निरुपाधिकचैतन्यमीश्वरः। तथा च घटाकाशमहा- काशयोरिव जीवेश्वरयोरभेदः। यथा भोग्यो बाह्यो वायुर्भोक्तृप्राणरूपेणान्तस्तिष्ठति, तथा ज्ञेयं बाह्यं ब्रह्म ज्ञातृजीवरूपेण हृद्देशे तिष्ठतीति वायुप्राणयोरिव जीवेश्वरयोरभेदः। न च वायोः प्राणभोग्यत्वं कथमिति वाच्यम् ; सर्पाणामृषीणां च वाताहारत्वात् प्राणस्यैवाहारभोक्तृ- त्वाच्चेति। लक्षणापक्षे त्वन्तःकरणावच्छिन्नत्वमायावच्छिन्नत्वबिम्बत्वप्रतिबिम्बत्वज्ञातृत्वज्ञेयत्वसर्वज्ञत्वकिञ्चिज्ज्ञत्वेश्वरत्वानीश्वरत्व- संसारित्वासंसारित्वसोपाधिकत्वनिरुपाधिकत्वादिविशेषणांशत्यागेन शुद्धचैतन्यमेकमेवाद्वितीयं ब्रह्म तत्त्वमसीति वाक् येन लक्ष्यत इति भाष्यार्कप्रकाशः

[[अ. १८. श्लो. ६१]] [[९४६]]

बोध्यम्। ननु यद्येवमीश्वरो जीवरूपेण भूतानां हृदि तिष्ठेत् तर्हि नियाम्यनियामकभावासिद्धिर्जीवेश्वरद्वयाभावादिति चेत् , मैवम् ; नेश्वरेण जीवो नियम्यते , ईश्वरस्यैव जीवत्वात्। किन्तु जीवरूपेणेश्वरेण कार्यकरणसंघातो नियम्यते। जीवेऽस्मिन् देहे सत्येव संघा- तस्य प्रवृत्तिः, अस्माद् देहादुत्क्रान्ते त्वप्रवृत्तिरिति दर्शनात्। लौकिकास्तार्किकादयश्च जीवस्वरूपमविदित्वा, कार्यकरणसंघातं चरा- चरात्मकं ब्रह्मादिस्तम्बपर्यन्तं दृश्यमेव सचेतनं सर्वं जीवत्वेन प्रतिपद्य, जीवा ईश्वरेण नियम्यन्त इत्याहुः। एतत्कार्यकरणसंघातेऽहम- भिमानादेव वयं केनापि नियमिता इवावशाः प्रवर्तामह इति मन्यन्ते ‘केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमी’ति स्मरणात्। जन्ममरणसुखदुःखादिलक्षणं संसारं चानुभवन्ति। वस्तुतस्तु न जीवस्याविक्रियस्य काऽपि प्रवृत्तिः सम्भाव्यते, ‘अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते’ इति ह्युक्तम्। एवं कार्यकरणसंघातस्य नानात्वादेव तदभिमानाज्जीवा अप्यनेके इति भ्रान्त्या ब्रुवन्ति तार्किकादयः। वस्तुतस्तु जीव एक एव, ‘एको देवः’ इति मन्त्रवर्णात् ; ईश्वरैकत्वस्य तार्किकादिसम्प्रतिपन्नत्वादीश्वरस्यैव जीवत्वाच्च। तस्मात् कार्यकरणसंघातात्मकाः प्राणिनो जीवा ईश्वरेण प्रत्यगात्मना नियम्यन्त एव। सर्वान्तरात्मा प्रत्यक्पुरुषस्तु नेश्वरेण नियम्यते, तस्यैवेश्वरत्वादिति स्थितम्। नन्वेवं प्रकृते ईश्वरः सर्वभूतानि भ्रामयतीत्यस्य किमीश्वरो जीवान् नियमयतीत्यर्थः? उत प्रत्यगात्मा कार्यकरणसंघातजातं नियमयतीत्यर्थः इति चेत् , उभयथाऽप्येक एवाभिप्रायः पर्यवस्यति। अविद्वद्दृष्ट्येश्वरो जीवान् नियमयतीत्युक्तेऽपि विद्वद्दृष्ट्या प्रत्यगात्मा कार्यकरणसंघातजातं नियमयतीत्येव सिद्धत्वात्। विद्वद्दृष्ट्या प्रत्यगात्मा कार्यकरणसंघातजातं नियमयतीत्युक्तेऽपि, अविद्वद्दृष्ट्या जीवानीश्वरो नियमयतीत्येव सिद्धत्वात्। विदुषा हीश्वर आत्मत्वेनाभिमतः, अविदुषा च कार्यकरणसंघातः आत्मत्वेनाभिमतः। न चैक एवात्मा कुत एकेश्वरत्वेन नानासंघातत्वेन च गृहीत इति वाच्यम् ; एकस्यैव चन्द्रस्य तैमिरिकेण नानाचन्द्रत्वेन निर्मलचक्षुषा एक- चन्द्रत्वेन च गृह्यमाणत्वात्। एकस्यैव सूर्यस्यास्मदादिभिः प्रकाशरूपत्वेन, उलूकैस्तिमिररूपत्वेन च गृह्यमाणत्वात्। तस्माद् विद्यया एकस्यैवात्मन ईश्वरत्वेन, अविद्यया नानाजीवत्वेन च ग्रहणमुपपद्यते। ननु यः आत्मानं विद्यया ईश्वरत्वेन गृह्णाति, यश्चाविद्यया नानाजीवत्वेन गृह्णाति, सोऽसौ कः इति चेद्? उच्यते—प्रमातेति। स हि वस्तुत आत्माऽपि सन्नन्तःकरणतादात्म्याध्यासात् प्रमाता भवति। अयं चान्तःकरणभेदान्नानैवेति ग्रहीतृभेदाद् ग्रहणभेदोप- पत्तिः। इम एव प्रमातारः कार्यकरणसंघाताहमभिमाना जीवा इति व्यवह्रियन्ते अविद्यावशात्। विद्यया त्वीश्वरात्मका एव, चैतन्यात्म- कत्वादिति स्थितं जीवेश्वराद्वैतम्। अविद्यादशामधिकृत्य प्रोक्तोऽयं श्लोको भगवता, न तु विद्यादशायाम् , तत्र सर्वभूतानामेवाभावात्। तथाच यान्यविद्यादशायामुपलभ्यमानानि सर्वाणि चराण्यचराणि च ब्रह्मादिस्तम्बपर्यन्तानि भूतानि, तेषां हृद्देशे प्रत्यग्रूपेणावस्थित आत्मेश्वरो भ्रामयतीति पर्यवसन्नः श्लोकार्थः। यत्तु रामानुजः—ईश्वरोऽन्तर्यामिरूपेण हृद्देशे तिष्ठन् जीवान् भ्रामयतीति, तदयुक्तम् ; यद्यन्तर्यामिरूपं प्रसिद्धं स्यात् , तर्हीश्वरोऽन्तर्यामिरूपेण तिष्ठतीति वक्तुमुचितम्। न तु तत् प्रसिद्धम्। न हि कस्याप्यन्तर्यामी प्रत्यक्षः। किन्त्वनुमेय एव जीवपार- तन्त्यलिङ्गात्। तस्मात् तस्यान्तर्यामिण ईश्वरस्य रूपं वक्तव्यम्। न च रुक् मवर्णोऽङ्गुष्ठमात्रः पुरुषोऽन्तर्यामीति वाच्यम् ; दूषितत्वादेत- द्वादस्य; ‘अशब्दमस्पर्शमरूपमव्यय’मितीश्वरस्य रूपवत्त्वनिषेधाच्च। जीवस्यैव नीरूपत्वे किं पुनरीश्वरस्य नीरूपत्वं वक्तव्यम्? न च जीवः कृष्णवर्णः, ईश्वरः शुक्लवर्ण इति वाच्यम् ; सपापनिष्पापपरत्वात् कृष्णशुक्लशब्दयोः। न हि देहे देहाद् गच्छन् वा नीलो जीवः कैरपि दृश्यते। तथा श्वेतोऽपीश्वरः। तस्मात् सत्यज्ञानानन्दरूप एवान्तर्यामीश्वर इत्यभ्युपेयम्। अभ्युपेते च तथा तदेव सत्यं ज्ञानं जीवस्यापि स्वरूपमिति प्रत्यगात्मन एवान्तर्यामीश्वरत्वं सम्भवतीति कृत्वा तदतिरिक्तान्तर्यामिकल्पनमप्रमाणम् , अनुभवविरुद्धमनुप- पन्नं च। न चान्तर्यामिब्राह्मणं प्रमाणम् , १तस्यापि प्रत्यगात्मपरत्वात्। नापि जीवपारतन्त्यानुभवः प्रमाणम् , संघातगतत्वात् पार- तन्त्यस्य। तस्मात् प्रत्यगात्मैवान्तर्यामी। भाष्यार्कप्रकाशः १. ‘एष त आत्माऽन्तर्याम्यमृतः’ इति प्रतिपर्यायं श्रवणात् । न च ‘त आत्मे’ति निर्देशाद् भेदसिद्धिः, ‘ममात्मा भूतभावनः’ इतिवदुपपत्तेः।

[[९४७]]

तमेवेति। तमेव ईश्वरं शरणम् आश्रयं संसारार्तिहरणार्थं गच्छ आश्रय सर्वभावेन सर्वात्मना, हे भारत !ततः अस्य श्लोकस्य श्रीविद्यारण्यस्वामिभिः− यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् सन्नीश्वरः सर्वभूतानां हृद्देशे तिष्ठती- त्यन्वयमाश्रित्य देहादिपञ्जरं यन्त्रं तदारूढानि अभिमानित्वरूपमारोहं प्राप्तानि कार्यकरणसंघातेऽहमिति ममेति चाभिमानयुक्तानि इत्यर्थः। सर्वभूतानि सर्वजीवान् मायया त्रिगुणात्मिकया भ्रामयन्नित्यर्थः उपवर्णितः पञ्चदश्याम् ‘देहादिपञ्जरं यन्त्रं तदारोहोऽभि- मानिता’ इत्यादिना। रामानुजेनापि देहेन्द्रियावस्थं प्रकृत्याख्यं यन्त्रमारूढानीत्ययमेवार्थ उक्तः। अस्मिन्नर्थेऽपि कार्यकरणसंघाता- भिमानिनां सर्वेषां जीवानां प्रमातॄणां यत् स्थानं हृत्पुण्डरीकदेशः, तस्मिन् प्रत्यगात्मरूपेणेश्वरस्तिष्ठन् सन् कार्यकरणसंघातं प्रवर्तयति। तथा प्रवर्तिते संघातेऽहमित्यभिमानसत्त्वाज्जीवास्ते स्वयमीश्वरेण प्रवर्तिता इव मन्यन्त इति तात्पर्यं बोध्यम्। अस्मिन्नन्वये तु केन साधनेनेश्वरः सर्वभूतानि भ्रामयतीत्याकाङ्क्षा पूरिता, माययेत्युक्तत्वात्। कथं भ्रामयतीत्याशङ्का तु न पूरिता। श्रीशङ्करोक्तान्वये तु कथमित्याशङ्का पूरिता, यन्त्रारूढानि माययेवेत्युक्तत्वात्। न च भाष्यकृदन्वयेऽपि करणाकाङ्क्षापूर्त्यभावो न्यूनतावह एवेति वाच्यम् ; मायाया ईश्वरशक्तित्वात्। ईश्वरो भूतानि भ्रामयतीत्यनेनैवाग्निः काष्ठानि दहतीतिवच्छक्त्या भ्रामयतीति सिद्धत्वाद् , अशक्तस्य भ्रामणासम्भवाच्च। न च यन्त्रारूढानीत्यस्य सर्वभूतपदाविशेषणीकरणे देहादिपञ्जराभिमानित्वं सर्वभूतानां न सिध्यतीति वाच्यम् ; अचेतनानां कार्यकरणसंघातानां प्रवर्तकत्वानुपपत्तेः सर्वभूतशब्देन सचेतनान्येव कार्यकरणसंघातानि ग्रहीत- व्यानि। तथा च सति सचेतनानि सर्वभूतानि नाम प्रमातृभिरहमित्यभिमन्यमानाः कार्यकरणसंघाता एव। ततश्च कार्यकरणसंघाताभि- मानिनः प्रमातार एव सर्वभूतशब्दार्थ इति सिद्धमेव। तस्माद् यन्त्रारूढानीति विशेषणं व्यर्थमेव सर्वभूतानीत्यस्य। किञ्च अजो नित्यः शाश्वतश्च प्रमाता। भवन्तीति भूतानीति व्युत्पत्त्या भूतशब्दः कार्यवाची न प्रमातारमजमभिधातुं क्षमते। एवं च सति देहादिपञ्जर- यन्त्रारूढानि तानि भूतानि कानीत्युक्ते किमुत्तरं श्रीविद्यारण्यस्वामिनाम्? न किमपि। ततश्च सर्वभूतानीत्यस्य कार्यकरणसंघाताः सचेतना इत्येवार्थो न्याय्यः। अत एव प्राणिनः इत्युक्तमाचार्यैः। एवं कार्यकरणसंघातानामेव भ्रामणकथनेन जीवस्य वस्तुतस्तदभाव इति च प्रतीयत इति महान् गुणः। तस्माच्छाङ्करमेव भाष्यं शङ्करम्। वस्तुतस्तु कुशलो यन्त्रारूढानि माययेव ईश्वरः सर्वभूतानि मायया भ्रामयन् सन् सर्वभूतानां हृद्देशे तिष्ठतीति माययेति पदमावर्त्य अन्वेतव्यम्। तथा सति करणाकाङ्क्षापूर्तिरपि भवति। न च इवशब्दाध्याहारः कुशलशब्दाध्याहारश्च दुष्ट इति वाच्यम् ; सति गुणेऽध्याहारस्यादोषात्। अन्यथा एकवाक् यत्वे यन्त्रारूढानीति पदवैयर्थ्यप्रसङ्गादिति सङ्क्षेपः॥६१॥

तमेवेति। यदि प्रकृतिर्मां नियोक्ष्यति, यदि चेश्वरो भ्रामयति, तर्हि प्रकृतीश्वरद्वयपरतन्त्रस्य मम का गतिः? अत आह— तमेवेति। हे भारत ! त्वं सर्वभावेन तमेव शरणं गच्छ, तत्प्रसादात् परां शान्तिं शाश्वतं स्थानं च प्राप्स्यसि। शरणशब्दार्थमाह— आश्रयमिति। शरणं गच्छेति पदद्वयार्थमाह—आश्रयेति। किमर्थमाश्रयणम्? अत आह—संसारार्तिहरणार्थमिति। सर्वात्मनेति। वाचा मनसा बुद्ध्या चेत्यर्थः। यदीश्वराद्भिन्नोऽहमिति मन्यसे, तर्हि संसारस्तव प्राप्नोति देहेन्द्रियादिसंघाततादात्म्याध्यासप्रयुक्तः सुखदुःख- ईश्वरः सर्वाणि भूतानि प्रेरयति चेत् १प्राप्तं कैवल्यार्थस्यापि पुरुषकारस्यानर्थक्यमित्याशङ्क्याह—तमेवेति। सर्वात्मना मनोवृत्त्या

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

तमेव शरणं गच्छ सर्वभावेन भारत !। तत्प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥६२॥

अ. १८. श्लो. ६२ ] १. ‘प्राप्तकैवल्यस्यापि’ इति पा.। दारुयन्त्राणीवाधिष्ठायेश्वरो जीवान् प्रेरयति चेत् , ‘ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा’ इति न्यायेनात्यन्तपरतन्त्रस्य तस्य तत्प्रेरणया कैवल्यप्राप्तिरपीति तदर्थपुरुषप्रयत्नवैयर्थ्यमिति शङ्का। समाधानं तु— विधिनिषेधशास्त्रावैयर्थ्याय जीवस्य कर्तृत्वेऽवश्यस्वीकर्तव्ये, ‘कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः’ (ब्र.सू. २-३-४२) इति सूत्रोक्तन्यायेन कुर्वन्तमेव हीश्वरः कारयतीति न भोगमोक्षार्थपुरुषप्रयत्नवैयर्थ्यमिति।

[[९४८]]

तत्प्रसादाद् ईश्वरानुग्रहात् परां प्रकृष्टां शान्तिम् उपरतिं, स्थानं च मम विष्णोः परमं पदं प्राप्स्यसि शाश्वतं नित्यम्॥६२॥

जन्ममरणादिलक्षणः। तस्मात् ‘क्षत्रियोऽयं[हं] युवे’त्याद्यभिमानं त्यक्त्वा ‘ईश्वर एवाह’मिति सर्वभावेन प्रत्यगभिन्नं परमात्मानमाश्र- यस्व। किमस्मादीश्वराश्रयणात् फलम्? अत आह—तत्प्रसादादिति। एवं सर्वभावेनाश्रितस्य तस्येश्वरस्यानुग्रहाच्चित्तशुद्धिज्ञानप्राप्त्या- दिलक्षणात् , शान्तिं संसारोपरमं, शाश्वतं स्थानं परं पदं प्रत्यगभिन्नपरमात्मस्वरूपं सच्चिदानन्दलक्षणं प्राप्स्यसि साक्षात्करिष्यसी- त्यर्थः। ब्रह्मैव भविष्यसीति यावत्। तस्माद् ‘अहं ब्रह्मे’तीश्वराश्रयणात् सर्वसंसारनिवृत्तिपूर्वकं ब्रह्मात्मसाक्षात्कारः फलमित्यर्थः। यद्वा ‘अहं ब्रह्मे’तीश्वराश्रयणाज्जीवन्मुक्तिलक्षणः संसारोपरमः, विदेहमुक्तिलक्षणा ब्रह्मप्राप्तिश्च फलमित्यर्थः। ननु प्रकृतिस्त्वां नियोक्ष्यति, ईश्वरस्त्वां प्रेरयति, मदुक्तं न श्रोष्यसि चेद् विनङ्क्ष्यसि, तस्माद् युद्धं कुरु इति पूर्वमुक्त्वा कथमधुना परमेश्वरसमाश्रयणं विधीयते ज्ञाननिष्ठालक्षणं कर्मनिष्ठाविरोधीति चेत्? नैष दोषः; मदुक्तविधयेश्वराराधनबुद्ध्या युद्धं कृत्वा पश्चात् संसारनाशार्थमीश्वरं शरणं गच्छेत्युक्तत्वात्। कर्मनिष्ठा हि ज्ञाननिष्ठायाः साधनभूता। न चैवं साध्यसाधकयोर्ज्ञानकर्मणोः कथं विरोध इति वाच्यम् ; काष्ठद्वयनिर्मथनसाध्यस्याग्नेः काष्ठद्वयदाहदर्शनात्। कर्मभिरुत्पन्नमपि ज्ञानं कर्मनिर्मूलकमेवेति कर्मविरोध्येव। यद्वा प्रकृतीश्वरपारतन्त्याद् युद्धे प्रवृत्तोऽपि त्वं तमेवेश्वरं सर्वभावेन शरणं गच्छ; ईश्वरेण ‘क्षत्रियस्य विजित(व्य)’मिति शासितत्वात् , मया युद्धं क्रियते तदाराधनार्थम् , न तु पृथिवीस्वर्गजयाद्यैहिकामुष्मिकफलार्थमिति वाचा मनसा बुद्ध्या चावधार- येत्यर्थः। एवं सर्वभावेनेश्वरमाश्रित्य तदाराधनात्मके स्वकर्मणि युद्धे त्वया कृते सति तु तस्येश्वरस्य त्वयि महान् प्रसादो भविष्यति। ततश्च चित्तशुद्धिं सम्यग्दर्शनं च प्राप्य संसारोपरतिं मोक्षं च प्राप्स्यसीति कर्ममार्गप्रतिपादनपर एवायं श्लोकः। एतेन नाधुनैव तव ज्ञाननिष्ठाप्राप्तियोग्यताऽस्ति; तस्मान्न त्वं ज्ञाननिष्ठां प्रविश; किन्तु युद्धमधुना यथोक्तरीत्या विधाय तेन ज्ञाननिष्ठाप्राप्तियोग्यो भूत्वा ज्ञाननिष्ठां प्रविशेत्यर्जुनाय श्रीकृष्णोपदेश इति सूचितम्। अत एव ‘नियतं कुरु कर्म त्वम्’, ‘तस्माद्युध्यस्व भारत’ इत्यादिवाक् यानि पूर्वाध्यायेषूक्तानि। अथवा भवत्वर्जुनस्य ज्ञाननिष्ठाप्राप्तियोग्यता विनाऽपि युद्धानुष्ठानं, तस्येश्वरांशत्वात् , तथापि लोकसंग्रहार्थमप्यर्जुनेन कर्मैवादौ कर्तव्यं ज्ञानहेतुत्वात् कर्मण इत्यभिप्रेत्येत्थमुक्तं भगवता ‘लोकसंग्रहमेवापि सम्पश्यन् कर्तुमर्हसी’ति पूर्वमुक्तत्वात्। तस्मान्नार्जुने ज्ञाननिष्ठानर्हत्वशङ्का कार्येति। यत्तु रामानुजः—विष्णोः परं स्थानं वैकुण्ठाख्यं प्राप्स्यसि ‘तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः’, ‘ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः’, ‘यत्र ऋषयः प्रथमजा ये पुराणाः’ इत्यादिश्रुतिभ्य इति, तदयुक्तम् , सगुणब्रह्मविद्याफलत्वाद् वैकुण्ठलोकप्राप्तेः। वैकुण्ठलोको हि द्विविधः− एकः सुमेरुशिखरस्थः शुभ्रपत्न्यां विकुण्ठायां जातेन वैकुण्ठेन भगवता रमायाः प्रिय- काम्यया निर्मितः। अन्यस्तु ब्रह्माण्डात् परतः सत्यलोके स्थितः। तत्र सालग्रामार्चनादिभिर्मेरुशिखरस्थवैकुण्ठलोकप्राप्तिः। सगुण- ब्रह्मोपासनेन तु सत्यलोकस्थवैकुण्ठप्राप्तिः। अयं च सत्यलोकस्त्रेधा विभिन्नः—सत्यलोक इति, वैकुण्ठलोक इति, कैलासलोक इति च। तत्र हिरण्यगर्भः सत्यलोकस्य स्वामी; विष्णुर्वैकुण्ठलोकस्य; शम्भुः कैलासलोकस्य। त्रयोऽप्यमी देहधारित्वाज्जीवा एव। परन्तु सर्वज्ञा - रजःसत्त्वतमोगुणवशात् सृष्टिस्थितिलयहेतवः ईश्वरत्वेन पूज्याः, प्रथमजास्त्रिमूर्तिव्यपदेश्या देवताः। अमीषां स्थानान्येव सगुणमुक्तिक्षेत्राणीत्युच्यन्त इति केचित्।

‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसी’दिति श्रुतेर्हिरण्यगर्भ एव प्रथमजः। स एव सत्यलोकस्वामी; तस्यैव स्थानं सगुणमुक्तिक्षेत्रम् , सगुणमुक्तिक्षेत्राणाम् अनेकेषां सत्त्वे प्रमाणाभावादिति परे।

सर्वथाऽपि सगुण-मुक्तिक्षेत्रसत्त्वम् अविद्याभूमाव् एव;
न तु विद्याभूमौ।
अविद्याविषयत्वात् सर्वद्वैतस्य।
‘नेह नानाऽस्ती’त्यादिना विद्यायां हि सर्वद्वैताभावः वाचा कर्मणा चेत्यर्थः। ईश्वरस्यानुग्रहात् तत्त्वज्ञानोत्पत्तिपर्यन्तादिति शेषः। १मुक्तास्तिष्ठन्त्यस्मिन्निति स्थानम् ॥६२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. मुक्ताः यस्मिन् स्वरूपे तिष्ठन्ति तत् आत्मस्वरूपमिह स्थानशब्दार्थः।

[[९४९]]

१. निर्गुणमुक्त्यभावः इति विवक्षितम्। २. अन्यथा विमृश्येत्युक्तिवैयर्थ्यादिति भावः। इतीति। इति एतत् ते तुभ्यं ज्ञानम् आख्यातं कथितं गुह्याद् गोप्याद् गुह्यतरम् अतिशयेन गुह्यं रहस्य- मित्यर्थः; मया सर्वज्ञेनेश्वरेण। विमृश्य विमर्शनम् आलोचनं कृत्वा एतद् यथोक्तं शास्त्रम् अशेषेण समस्तं यथोक्तं चार्थजातं, यथेच्छसि तथा कुरु॥६३॥

भूयोऽपि मयोच्यमानं शृणु— सर्वेति। सर्वगुह्यतमं सर्वेभ्यः गुह्येभ्योऽत्यन्तगुह्यतमम् अत्यन्तरहस्यम् श्रूयते। न ह्यविद्याविषयं सगुणमुक्तिक्षेत्रं तत्त्वविदा गम्यते, तत्त्वविद्दृष्ट्या तत्क्षेत्रस्यैवाभावात्। अत एव न सगुणमुक्तिक्षेत्रस्य शाश्वत- त्वम् , ब्रह्मातिरिक्तस्य सर्वस्याप्यशाश्वतत्वात्। ‘अजो नित्यः शाश्वतः’ इति परमात्मन एकस्यैव हि शाश्वतत्वमुच्यते। तस्माच्च शाश्वतं स्थानं परमात्मैव, न वैकुण्ठादिकम्। नन्वाधारवाचिनः स्थानशब्दस्य कथं स्वरूपपरत्वमिति वाच्यम् ; सर्वजगत्कल्पनाधिष्ठानत्वेन सर्वाधारस्य ब्रह्मस्वरूपस्य स्थानशब्दवाच्यत्वसम्भवात्। तिष्ठत्यस्मिन् सर्वं जगदिति स्थानमिति निरुक्तेः। तस्माच्छाश्वतं स्थानं ब्रह्मैव, न वैकुण्ठादिकम्। इदमेव ब्रह्म ‘तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः’ इत्यनेनोच्यते, विद्वद्भिर्नित्यमनुभूयमानत्वाद् ब्रह्म- स्वरूपस्य। न हि वैकुण्ठं चक्षुरगोचरं विद्वांसो भूलोकादिस्था द्रष्टुमर्हन्ति। ‘यत्र पूर्वे साध्याः सन्ति देवाः’ इत्यादिश्रुतयस्तु सगुणमुक्ति- क्षेत्रप्रतिपादिका एव। सूरयोऽनन्तगरुडादिनित्यसूरयो वैकुण्ठं पश्यन्तीति वर्णनेऽपि नैतावता निर्गुणमुक्तिक्षेत्राभावः।१ नापि सगुण- मुक्तिक्षेत्रस्य शाश्वतत्वमिति सङ्क्षेपः॥६२॥

इतीति। इति गुह्याद् गुह्यतरं ज्ञानं ते मयाऽऽख्यातम्। एतदशेषेण विमृश्य यथेच्छसि तथा कुरु। इतिशब्दः पूर्वोक्तसर्व- शास्त्रार्थपरामर्शीत्याह—एतदिति। अत एव परिसमाप्तिद्योतकमपि इतीदमव्ययं भवति। अतिशयेन गुह्यं गुह्यतरं, गुह्याद् गुह्यतरं गुह्यतममित्यर्थः। ‘आयुर्वित्तं गृहच्छिद्रं मन्त्रौषधसमागमाः। दानं मानावमानौ च नव गोप्या मनीषिभिः॥’ इति वचनादायुरादयो गोप्याः। तत्सर्वापेक्षयाऽपीदमध्यात्मज्ञानमतीव गोप्यमिति भावः। ननु त्वयोक्तमपीदमप्रमाणमेवेत्यत आह—सर्वज्ञेनेश्वरेणेति। सर्वज्ञेश्वरोक्तत्वादिदं शास्त्रं परं प्रमाणमित्यर्थः। विमृश्य आलोच्येत्यर्थः। ‘यथेच्छसि तथा कुरु’ इत्यभ्यनुज्ञामात्रेण न युद्धादुपरति- रर्जुनेन कार्या। किन्तु यथाशास्त्रं कुरु इत्येव श्रीकृष्णाशयाद् युद्धमेव कार्यम्। अत एव विमृश्य कुरु इत्युक्तम्२। विमृष्टे च शास्त्रे युद्ध- करणेच्छैव जायेतार्जुनस्य, न तूपरमेच्छा, स्वधर्मः कार्य इति बहुश उद्घुष्टत्वात्। तस्माद् यथाशास्त्रं यथेच्छं कुरु॥६३॥

सर्वेति। भूयः सर्वगुह्यतमं परमं मे वचः शृणु। त्वं मे दृढमिष्टोऽसीति, कृत्वेति शेषः। ततस्ते हितं वदामि। विस्तरेणोक्तार्थस्य बुद्धिसौकर्याय संग्रहेण वचनं न्याय्यमिति, संग्रहेणोक्तस्यापि भङ्ग्यन्तरेण बुद्धिसौकर्याय पुनर्वचनं न्याय्यमिति वा हेतोरसकृदुक्तस्यापि शास्त्रमुपसंहर्तुमिच्छन्नाह—इति ते ज्ञानमिति। ज्ञानं करणव्युत्पत्त्या गीताशास्त्रम्। यथेच्छसि तथा कुरु ज्ञानं कर्म वा यदिष्टं तदनुतिष्ठेत्यर्थः॥६३॥

गीताशास्त्रस्य पौर्वापर्येण विमर्शनद्वारा तात्पर्यार्थं प्रतिपत्तुमसमर्थं प्रत्याह—भूयोऽपीति। किमर्थमिच्छन् पुनःपुनरभिदधासी-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया। विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥६३॥

सर्वगुह्यतमं भूयः शृणु मे परमं वचः। इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्॥६४॥

अ. १८. श्लो. ६२ - ६४ ]

[[९५०]]

उक्तमप्यसकृद् भूयः पुनः शृणु मे मम परमं प्रकृष्टं वचो वाक्यम्। न भयात् , नाप्यर्थकारणाद् वा वक्ष्यामि। किं तर्हि? इष्टः प्रियोऽसि मे मम दृढम् अव्यभिचारेण इति कृत्वा ततः तेन कारणेन वक्ष्यामि कथयिष्यामि ते तव हितं परमं ज्ञानप्राप्तिसाधनम्। तद्धि सर्वहितानां हिततमम्॥६४॥

किं तदित्याह—मन्मना इति। मन्मना भव, मच्चित्तो भव, मद्भक्तो भव मद्भजनो भव, मद्याजी मद्यजनशीलो भव, मां नमस्कुरु नमस्कारमपि ममैव कुरु। तत्रैवं वर्तमानो वासुदेवे एव समर्पितसाध्यसाधनप्रयोजनो मामेव एष्यसि आगमिष्यसि। सत्यं ते तव प्रतिजाने सत्यां प्रतिज्ञां करोम्येतस्मिन् वस्तुनीत्यर्थः। यतः प्रियोऽसि मे। एवं भगवतः अर्थस्य पुनर्वचनम्। ननु किमर्थं त्वं वदसि पुनः पुनः? किं राज्ञे भृत्य इव भयात्? किमुपाध्यायः शिष्यायेव धनार्थमिति शङ्कायामाह —न भयादित्यादि। तर्हि किमर्थं वक्ष्यसीति पृच्छति—किं तर्हीति। उत्तरयति—इष्ट इति। अव्यभिचारेणेति। त्वयि मम प्रीतिः कदाचि- दपि न व्यभिचरतीत्यर्थः। ध्रौव्येणेति यावत्। कृत्वेति। मत्वेत्यर्थः। गम्यमानार्थत्वात् कृत्वेत्यस्याप्रयोगः। तेन कारणेनेति। तव मत्प्रियत्वेन हेतुनेत्यर्थः। कुतस्तद्वचनस्य हितत्वम्? अत आह—विज्ञानप्राप्तिसाधनमिति। विज्ञानम् ‘अहं ब्रह्मास्मी’ति सम्यग्ज्ञानम्। तद्धि मोक्षकारणम्। अत एव तद्धिततममित्याह—तद्धीति। तद् विज्ञानप्राप्तिसाधनं वचनमित्यर्थः। विज्ञानमिति वा। सर्वहितानामिति। धर्मादिपुरुषार्थहेतूनां सर्वेषां हितानां मध्य इत्यर्थः। हिततमम् अतिशयेन हितम्। मोक्षस्य परमपुरुषार्थत्वात् तत्साधनस्य हिततमत्व- मिति भावः॥६४॥

मन्मना इति। किं तदिति। तद् वचनमित्यर्थः। त्वं मन्मना भव; मद्भक्तो भव; मद्याजी भव; मां नमस्कुरु; मामेवैष्यसि। ते सत्यं प्रतिजाने। यतो मे प्रियोऽसि। मच्छब्दानामत्र प्रत्यगभिन्नः परमात्माऽर्थः। मयि मनो यस्य स मन्मना भव। मामेव चिन्त- येत्यर्थः। मद्भक्तो भव। मामेव भजस्व। मद्याजी भव। मामेव यजस्व। मां नमस्कुरु। नमस्कारः प्रह्वीभावः। आत्मन्यान्तरे हस्तादि- करणकबाह्यनमस्कारायोगेऽपि मानसिकनमस्कारो युज्यत एवेति बोध्यम्। ममैवेत्येवकारान्न तु बाह्यप्रतिमादीनामिति गम्यते। तत्रेत्यस्यार्थमाह—एवं वर्तमान इति। कथं वर्तमान इत्यत आह—वासुदेव इति। वासुदेवे मय्येव समर्पितानि साध्या भजनयजनादि- क्रियाः, साधनानि वाङ्मनआदीनि करणानि, प्रयोजनानि फलानि स्वर्गादीनि। एतानि साध्यसाधनप्रयोजनानि येन स वासुदेव एव समर्पितसाध्यसाधनप्रयोजनः। त्वं मामेवागमिष्यसि प्राप्स्यसि, मत्सायुज्यं प्राप्स्यसीत्यर्थः। सम्यग्ज्ञानोदयद्वारेति भावः। सत्यमिति। मदुक्तमिदं सर्वं सत्यमिति ते प्रतिजाने। सत्यं यथा तथा प्रतिजान इति वा। फलितमाह—सत्यां प्रतिज्ञां करोमीति। क्व प्रतिज्ञां करोषी- त्यत आह—एतस्मिन् वस्तुनीति। यथोक्तार्थ इत्यर्थः। मन्मनस्कत्वादिभिः साधनैस्त्वं मामेवैष्यसीत्ययमर्थः सत्य इति प्रतिज्ञां करोम्यहमिति नात्र त्वया अविश्वासः कार्य इति भावः। कुत एवं प्रतिजानासीत्यत आह—यतो मे प्रियोऽसीति। तव मत्प्रियत्वेन त्वद्धिताकाङ्क्षिणा मया तव श्रेयोऽर्थं सत्यप्रतिज्ञा क्रियत इत्यर्थः। योऽर्थो यथा मया प्रतिज्ञायते, सोऽर्थस्तथैव भवितुमर्हति, न त्याशङ्क्याह—न भयादिति। हितमिति साधारणनिर्देशे कथं परममित्यादिविशेषणमित्याशङ्क्याह—तद्धीति॥६४॥

तदेव प्रश्नद्वारा विवृणोति—किं तदित्यादिना। उत्तरार्धं व्याचष्टे—तत्रेति। एवमुक्तया रीत्या वर्तमानस्त्वं तस्मिन्नेव वासुदेवे भगवत्यर्पितसर्वभावो मामेवागमिष्यसीति सम्बन्धः। सत्यप्रतिज्ञाकरणे हेतुमाह—यत इति। इदानीं वाक् यार्थं श्रेयोऽर्थिनां प्रवृत्त्युप-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥६५॥

१. मन्मनस्त्वे हेतुः भक्तिरनुरक्तिरूपा। तत्र च यजनं, नमस्कारश्च हेतुः। यजनं श्रवणकीर्तनाद्युपलक्षणमिति मधुसूदनी। भजनं श्रवणकीर्तनादि इति केचित्।

[[९५१]]

त्वन्यथा। यस्मादहं सत्यप्रतिज्ञः, ‘सत्यकामः सत्यसङ्कल्पः’ इति श्रुतेरिति भावः। इदमेवाह—एवमिति। भगवद्भक्तेरिति। भगवदा- राधनबुद्ध्या स्वकर्मानुष्ठानस्येत्यर्थः। अवश्यम्भावीति। ज्ञानप्राप्त्यादिक्रमेणेति भावः। भगवच्छरणैकपरायण इति। भगवानेव शरणमा- श्रयो भगवच्छरणं, तदेवैकं मुख्यं परमयनं प्राप्यं यस्य स तथोक्तः। भगवानेव शरणमेकपरायणं च यस्येति वा। भगवदाश्रयो भगवत्परायणश्च भवेत्यर्थः। साध्यसाधनप्रयोजनानीश्वरे समर्प्य, ईश्वराराधनबुद्ध्या कर्तव्यं कर्म केवलमिति मत्वा युद्धाख्यं स्वधर्ममनु- तिष्ठ। ततः क्रमेण तव परमपदप्राप्तिर्भविष्यतीति परमार्थः। अस्मिन् शास्त्रे कर्मयोगो ज्ञानयोगश्चेति मार्गद्वयं परिनिष्ठितं ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मित्युपक्रम्य तत्रतत्रा- भ्यस्तमुपसंहर्तव्यं चेह तदेव। भक्तिध्यानयोगादयस्तु मार्गद्वयान्तर्भूता एव। तत्र कर्मयोगोपसंहारोऽयं श्लोकः। वक्ष्यमाणस्तु ज्ञान- योगोपसंहारपर इति बोध्यम्॥६५॥

सर्वेति। ईश्वरशरणतामिति। ईश्वराराधनबुद्ध्या सर्वं क्रियाकारकफलजातमीश्वरे समर्प्य कर्मानुष्ठानरूपामिति भावः। सम्यग्दर्शनमिति। ज्ञानयोगनिष्ठेत्यर्थः। सर्वेति। सर्वेषां वेदान्तानामुपनिषदां साराणि सारभूतानि वाक् यानि तैर्विहितम् , सर्ववेदान्त- सारत्वेन गीताशास्त्रेण विहितमिति वा। सर्ववेदान्तसारभूतमित्यर्थः। वक्तव्यमिति। उपसंहारप्रकरण इति भावः। इति मत्वेति शेषः। आह भगवान् ‘सर्वधर्मा’निति श्लोकम्। अयं हि सर्वस्य गीताशास्त्रस्य चरमः श्लोकः। ‘अशोच्यानन्वशोचस्त्व’मिति तु प्रथमः श्लोकः। त्वं सर्वधर्मान् परित्यज्य एकं मां शरणं व्रज, अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि, त्वं मा शुचः। ननु ज्ञानकर्मयोगयोर्युगपदेकेनानुष्ठातुमशक् यत्वात् कथमर्जुनं प्रति योगद्वयविधानमिति चेत्? नैष दोषः; अर्जुनं निमित्तीकृत्य लोकत्रयोपकारार्थं हि गीताशास्त्रं प्रवर्तितं कृष्णेन। तथा च वचनं साम्प्रदायिकानाम् ‘सारथ्यमर्जुनस्याजौ कुर्वन् गीतामृतं ददौ। लोकत्रयोपकाराय तस्मै कृष्णात्मने नमः॥’ इति। तथा च कर्मनिष्ठायोग्यानुद्दिश्य कर्मनिष्ठोक्ता पूर्वश्लोकेन। ज्ञाननिष्ठायोग्यानुद्दिश्य तु ज्ञाननिष्ठोच्यतेऽनेनेति। यद्वा एकेन युगपद्योगद्वयमनुष्ठातुमशक् यमपि कर्मयोगानन्तरं ज्ञानयोगोऽनुष्ठातुं शक् यत एवेत्यर्जुनायापि मार्ग- द्वयोपदेशो युक्त एव। प्रथमतः कर्मयोगं कुरु, ततश्चित्ते शुद्धे सति ज्ञानयोगं कुरु इति। अत एव प्रथमतः कर्मयोग एवोपसंहृतः, न तु ज्ञानयोग इति। सर्वधर्मानिति। कार्यनियोगापूर्वापरपर्यायो यज्ञादिजन्यः सुकृतात्मकः संस्कारो धर्मः। तद्धेतुत्वाद् यज्ञादिकर्माण्यपि धर्मा एव। अविहितकर्मजन्यं दुष्कृतमधर्मः। तद्धेतूनि दुष्टकर्माण्यप्यधर्मा एव। ‘सर्वधर्मान् परित्यज्ये’त्यनेन सर्वाधर्मकरणे प्राप्ते तस्य च नरकहेतुत्वेन दुष्टत्वादिह मोक्षशास्त्रे तादृशविपरीतार्थकथनस्यायुक्तत्वादाह—अधर्मोऽपीति। धर्मशब्दोऽत्राधर्ममप्युपलक्षयतीत्यर्थः। भाष्यार्कप्रकाशः सत्यप्रतिज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यम्भावि मोक्षफलमवधार्य भगवच्छरणैकपरायणो भवेदिति वाक् यार्थः॥६५॥

कर्मयोगनिष्ठायाः परमरहस्यम् ईश्वरशरणतामुपसंहृत्य, अथेदानीं कर्मयोगनिष्ठाफलं सम्यग्दर्शनं १सर्व- वेदान्तविहितं वक्तव्यमित्याह— सर्वेति। सर्वधर्मान् सर्वे च ते धर्माश्च सर्वधर्माः, तान्। धर्मशब्देनात्राधर्मोऽपि गृह्यते, नैष्कर्म्यस्य विवक्षितत्वात्। ‘नाविरतो दुश्चरितात्’(क.उ.२.२४) इति, ‘त्यज धर्ममधर्मं च’(म.भा.१२.३२९.४०) योगित्वेन संगृह्णाति—एवमिति॥६५॥

वृत्तमनूद्यानन्तरश्लोकतात्पर्यमाह—कर्मयोगेति। धर्मविशेषणादधर्मानुज्ञां वारयति— धर्मेति। ज्ञाननिष्ठेन मुमुक्षुणा धर्माधर्म- आनन्दगिरिकृतव्याख्या सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥६६॥

अ. १८. श्लो. ६५ - ६६ ] १. ‘सर्ववेदान्तसारविहितं’ इति पा.।

[[९५२]]

इत्यादिश्रुतिस्मृतिभ्यः। सर्वधर्मान् परित्यज्य संन्यस्य सर्वकर्माणीत्येतत्। माम् एकं सर्वात्मानं समं १सर्वभूतस्थम् ईश्वरम् अच्युतं गर्भजन्मजरामरणवर्जितम् ‘अहमेवे’त्येवम् एकं२ शरणं व्रज, न मत्तोऽन्यदस्तीत्यवधारयेत्यर्थः। अहं त्वा त्वामेवं निश्चितबुद्धिं सर्वपापेभ्यः सर्वधर्माधर्मबन्धनरूपेभ्यो मोक्षयिष्यामि स्वात्मभावप्रकाशीकरणेन। उक्तं च— येनास्तिकेन मुमुक्षुणा विदुषा सर्वे धर्माः परित्याज्याः, किं पुनस्तेनाधर्मः परित्याज्य इति वक्तव्यमित्यर्थापत्तिसिद्धः सर्वाधर्मपरित्याग इति वा भावः। धर्मशब्दोऽत्र लक्षणया कर्ममात्रं बोधयति, ततश्च विहितप्रतिषिद्धधर्माधर्मलाभ इति वा। धर्मशब्दोऽत्र अभिधया विहितकर्मबोधकः सन् लक्षणया स्वप्रतियोगिनमधर्ममपि बोधयतीति वा। धर्मानिति बहुवचनेनैव सर्वधर्मार्थसिद्धौ सर्वशब्दानर्थक् य- प्रसङ्गात् सर्वशब्दबलेनाधर्मसिद्धिरिति वा। वस्तुतस्तु आस्तिकस्य वैदिकस्य कर्मिणोऽधर्मपरित्यागो धर्मस्वीकारश्च पूर्वतन्त्रेणैव विहितः। अनेन तूत्तरतन्त्रेण तस्यैव मुमुक्षोः शमदमादिसाधनसम्पन्नस्य ब्रह्मविचाराधिकारिणः पूर्वतन्त्रप्राप्तसर्वधर्मपरित्याग एव विधेयः। अधर्मपरित्यागस्य पूर्वतन्त्रेणैव कृतत्वात्। अत एव भगवता बादरायणेन ‘सर्वधर्मान् परित्यज्ये’त्युक्तम् ; अन्यथा ‘धर्माधर्मान् परित्यज्ये’त्येवोच्येत। सर्वधर्मान् परित्यज्येत्यनेन मन्दमतीनामधर्मकरणं प्राप्तमिति बुद्धिः स्यादिति तद्वारणाय धर्मशब्देनात्राधर्मोऽपि गृह्यत इति भाष्यकारैरुक्तमिति बोध्यम्। सर्वधर्माः नित्यनैमित्तिककाम्यरूपाः। अधर्मस्तु हिंसादिरूपः। ननु सर्वधर्मपरित्यागस्यैव व्यासेन कण्ठत उक्तत्वात् कथं त्वयाऽधर्मोऽपि परित्याज्य इत्युच्यते? अत आह—नैष्कर्म्यस्येति। नैष्कर्म्यं सर्वकर्मसंन्यासः। न हि धर्मान् परित्यज्याधर्मे क्रियमाणे सति पुरुषो निष्कर्मा स्यात्। ननु नैष्कर्म्यं विवक्षितं सर्वधर्मान् परित्यज्येति वाक् येन व्यासेनेति कथं व्यासहृदयं त्वया ज्ञायते? अत आह—नाविरत इति। ‘नाविरतो दुश्चरितान्नाशान्तो नासमाहितः’ इत्यत्र दुश्चरितादधर्मान्नाविरतो विरत उपरतो न भवतीत्यविरतः स न भवतीति नाविरतोऽत्यन्तं विरत इत्यर्थः; इत्यधर्मत्यागस्य विहितत्वात्। तथा ‘त्यज धर्ममधर्मं च उभे सत्यानृते त्यज’ इत्यत्राप्य- धर्मं त्यजेत्यधर्मत्यागस्य विहितत्वात् , श्रुतिस्मृतिविरुद्धमर्थं कथं व्यासो ब्रूयात्? न कथमपीति भावः। अथ सर्वधर्मान् परित्यज्येत्यस्य फलितार्थमाह—संन्यस्य सर्वकर्माणीति। सर्वकर्मसंन्यासं कृत्वेत्यर्थः। अन्यथा वक्ष्यमाण ईश्वरशरणागतिरूपज्ञाननिष्ठाऽसम्भवादिति भावः। न हि कर्म कुर्वाणस्य क्रियाकारकादिद्वैतदर्शिनोऽज्ञस्य ज्ञाननिष्ठा ‘ब्रह्माहमद्वितीयम् अस्मी’त्येवंरूपा भवितुमर्हति। अत उक्तम्—सर्वधर्मान्परित्यज्येति। अत एव भाष्यकृद्भिः—‘तस्मात् सर्वकर्मसंन्यासेनैव ज्ञाननिष्ठा कार्येति सिद्धम्’ इत्युक्तं ‘भक्त्या मामभिजानाती’ति श्लोकभाष्यान्ते। तस्माज्ज्ञाननिष्ठाया अन्तरङ्गसाधनं सर्वकर्मसंन्यासः। अत एव ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मित्युक्तं भगवता आदावेव। साङ्ख्या विद्वांसः सर्वकर्मसंन्यासिन इति प्रपञ्चितं बहुधा प्राक् ‘कथं स पुरुषः पार्थ कं घातयति हन्ति कम्?’ ‘सर्वकर्माणि मनसा संन्यस्य, नैव कुर्वन् न कारयन्’ , ‘सर्वारम्भपरित्यागी’त्यादिभिर्ज्ञानिनां कर्माभावस्योक्तत्वात्। एतदिति। यावदित्यर्थः। मामित्यस्यार्थमाह—ईश्वरमिति। ननु मामित्यस्यैकमिति विशेषणं विरुद्धम् , ईश्वरस्य ब्रह्मविष्ण्वादिभेदेनानेकत्वाद् , अत आह—सर्वात्मानमिति। सर्वस्यापि ब्रह्मादिस्तम्बपर्यन्तस्य ब्रह्मविष्णुरुद्रगणपतिकुमारलक्ष्मीसरस्वतीप्रमुखस्य च कार्यकरणसंघाता- त्मकस्य सचेतनस्य, अचेतनानां च मृत्पाषाणलोहादीनां पृथिव्यादिभूतानां शब्दादीनां च, किं बहुना? समूर्तस्यामूर्तस्य च सर्वस्य जगतो दृश्यस्यात्मानमात्मभूतम् , अत एव समं निर्विशेषम्। कुतोऽस्य सर्वात्मत्वम्? अत आह—सर्वभूतस्थमिति। सर्वेषु भूतेषु भाष्यार्कप्रकाशः १. ‘सर्वभूतस्थितम्’ इति पा.। २. ‘अहमेवेत्येवं शरणं’ इति पा.। आनन्दगिरिकृतव्याख्या योस्त्याज्यत्वे श्रुतिस्मृतीरुदाहरति— नाविरत इति। मामेकमित्यादेस्तात्पर्यमाह— न मत्तोऽन्यदिति। अर्जुनस्य क्षत्रियत्वादुक्त- संन्यासद्वारा ज्ञाननिष्ठायां मुख्यानधिकारेऽपि तं पुरस्कृत्याधिकारिभ्यस्तस्योपदिदिक्षितत्वादविरोधमभिप्रेत्याह—अहं त्वेति। उक्तेऽर्थे

[[९५३]]

ब्रह्मादिस्तम्बपर्यन्तेषु विष्णुरुद्रादिषु चोक्तेषु प्राणिषु , अचेतनेषु च पृथिव्यादिभूतेषु भौतिकेषु चाचेतनेषु , किं बहुना? सर्वेष्वपि चेतना- चेतनात्मकेषु कार्येषु तिष्ठतीति सर्वभूतस्थः, तम्। सर्वव्यापित्वादिति भावः। भवन्तीति भूतानीति व्युत्पत्त्या कार्यवाचित्वाद् भूत- शब्दस्य। कार्ये कारणसत्त्वं कार्यस्य कारणात्मकत्वं च घटादिषु दृष्टमिति परमकारणस्य परमात्मनः सर्वभूतस्थत्वं सर्वभूतात्मत्वं चोप- पद्यते, सर्वभूतानामीश्वरकार्यत्वेनेश्वरात्मकत्वात्। ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतिरीश्वरस्य कारणत्वं, ‘न चास्य कश्चिज्जनि- ते’त्यादिश्रुतिरीश्वरस्याकार्यत्वं च ब्रूत इति परमकारणं हीश्वरः। तस्माद् घटादिस्वकार्याणां यथा मृत्तिकैवात्मा घटादिषु चास्ति, तथा स्वकार्याणां सर्वभूतानामीश्वर एवात्मा, स च सर्वभूतेष्वस्तीत्यत उक्तम्—सर्वात्मानं सर्वभूतस्थमिति। ननु मृद्घटयोर्जाड्यादिसलक्षणत्वाद् घटानामात्मा भवितुमर्हति मृत्तिका। मृद्रूपो हि घटो दृश्यते; आत्मा हि नाम स्वरूपम् , घटस्य च मृदेव स्वरूपं, मृदतिरिक्तघटपदार्थाभावात्। नैवमीश्वरजगतोः सालक्षण्यं येन जगत ईश्वर आत्मा स्यात्। ईश्वरो हि सत्य- ज्ञानानन्दरूपः; जगद् अनृतजडदुःखरूपम्। तस्माज्जगदात्मत्वमीश्वरस्य, ईश्वरात्मकत्वं वा जगतो नोपपद्यते। एवम् ईश्वरात्मकत्वा- भावादेव जगतो जगदीश्वरयोः कार्यकारणभावोऽपि नोपपद्यते। ततश्च सर्वभूतस्थत्वमपीश्वरस्य नोपपद्यत इति चेत् , मैवम् ; ‘यतो वे’त्यादिश्रुतिप्रामाण्याद् रज्जुसर्पादिदृष्टान्ताच्च, स्वप्नरथगजाद्यनुभवाच्च विवर्तवादाश्रयणेन ईश्वरविवर्तभूतस्य जगत ईश्वरात्मकत्व- सम्भवात् कारणेश्वरधर्माणां सच्चिदानन्दानां जगत्यनुगमदर्शनाज्जगदस्ति भाति प्रियं चेति व्यवहारात्। तस्माज्जगतः स्वरूपं सच्चिदा- नन्द ईश्वर एव, यथा सर्पस्य स्वरूपं रज्जुः। रज्जौ सर्पस्येव जगत ईश्वरे मायया कल्पितत्वात्। अत एव रज्जुयाथात्म्यविदां सर्पो यथा न प्रतिभाति, ब्रह्मविदां जगत् तथा न प्रतिभाति, सच्चिदानन्दब्रह्मातिरिक्तजगत्पदार्थाभावाद् , रज्ज्वतिरिक्तसर्पपदार्थाभाववत्। न चैवं विदुषां व्यवहारलोपप्रसङ्ग इति वाच्यम् ; यावद्देहपातमविद्याया लेशतःसत्त्वाद् द्वैतप्रतीतिसत्त्वेऽपि विदुषां तत् सर्वं ब्रह्मैवाभाति ‘वासुदेवः सर्वमिति स महात्मा सुदुर्लभः’ इत्युक्तम्। तस्मान्न व्यवहारलोपप्रसङ्गः। नापि ब्रह्मातिरिक्तजगत्पदार्थानुभवश्च विदुषामिति। स एष सर्वोऽर्थः पूर्वमेव विस्तरेणोक्त इतीहोपरम्यते। ईश्वरमिति। देहेन्द्रियादीशनशीलं चैतन्यरूपं परमात्मानमित्यर्थः। शरणं व्रजेति। कथं शरणागतिः? अत आह—अहमेवे- त्येवमिति। ‘अहमेवेश्वरः’ इत्येवमित्यर्थः। ननु मामेव शरणं व्रजेत्यनेनैवेष्टसिद्धौ किं फलम् एकग्रहणेनेत्यत आह—नेति। ईश्वर एक एवास्ति, स एवाहमस्मि, मत्त ईश्वरादन्यत् किमपि नास्तीत्यवधारय निश्चयेन जानीहि। यद्वा मामेकं शरणं व्रजेत्यस्य फलितमाह— नेति। ईश्वरोऽहमेक एवास्मि, न तु मत्तोऽन्यत् किमप्यस्तीत्यवधारयेत्यर्थः। ‘तत्सत्यं स आत्मा तत्त्वमसि, अतोऽन्यदार्त’मित्यादि- श्रुतिभ्यः, ‘मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय’ ‘क्षेत्रज्ञं चापि मां विद्धि’ ‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’ इत्यादि- स्मृतिभ्यः, ‘न वासुदेवात्परमस्ति किञ्चित्’ ‘तस्मान्न विज्ञानमृतेऽस्ति किञ्चिदि’त्यादिपुराणाच्च कारणातिरिक्तं कार्यं नास्ति, मृदतिरिक्त- घटादर्शनात् , रज्ज्वतिरिक्तसर्पादर्शनात्। एवं परमकारणादीश्वरादतिरिक्तं कार्यं जगन्नास्ति। ईश्वरे उपलभ्यमानौ नामाकारौ तु मिथ्या- भूतावेव। मृद्युपलभ्यमानघटनामकम्बुग्रीवाकारयोर्मिथ्यात्वदर्शनात्। अत एव ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य’मिति श्रुतिरपि सङ्गच्छते, १इत्यनुमानाच्च। सुषुप्त्यादौ द्वैताभावस्य सर्वानुभवसिद्धत्वादनुभवित्रभावे अनुभवासिद्धेश्च स्वात्मैक एवास्ति, न तु द्वैतमित्यनुभवाच्च नेश्वरादन्यदस्तीति भावः। यदुक्तम् ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ इति तस्य फलमुच्यते—अहं त्वामित्युत्तरार्धेन। अहं प्रत्यगभिन्नः भाष्यार्कप्रकाशः ‘नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता’(भ.गी.१०.११) इति। अतो मा शुचः शोकं मा कार्षीरित्यर्थः॥६६॥

[आनन्दगिरिकृतव्याख्या]

दाशमिकं वाक्यमनुकूलयति— उक्तञ्चेति। ईश्वरस्य त्वदीयबन्धननिरसनद्वारा त्वत्पालयितृत्वान्न ते शोकावकाशोऽस्तीत्याह— अत इति॥६६॥

अ. १८. श्लो. ६६ ] १. ईश्वरे उपलभ्यमानौ नामाकारौ मिथ्याभूतौ, नामरूपत्वात् , मृद्युपलभ्यमानघटनामरूपवत् इत्यनुमानम्। दृष्टान्तसिद्धिस्तु वाचारम्भणश्रुत्येति बोध्यम्।

[[९५४]]

परमात्मा त्वाम् एवं पूर्वोक्तविधया ‘ब्रह्मैवाहमस्मीति, न मत्तोऽन्यदस्ती’ति च निश्चिताऽवधारिता बुद्धिर्यस्य तं निश्चितबुद्धिं त्वां प्रमा- तारमित्यर्थः। तस्यैव देहादितादात्म्याध्यासप्रयुक्तसंसारान्मुमुक्षुत्वात् , केवलात्मनो मोक्षेच्छाद्ययोगाच्चेति भावः। सर्वपापेभ्य इति। बन्धकत्वात् पापवत् पुण्यमपि पापमेव। अतः पापशब्दोऽत्र पुण्यपापोभयपर इत्यभिप्रेत्याह—सर्वधर्मेति। सर्वेभ्यो धर्माधर्मात्मकेभ्यो बन्धनरूपेभ्यो बन्धनमेव रूपं येषां तेभ्यः सर्वपापेभ्यः। यद्वा बध्नन्तीति बन्धनानि, धर्माधर्मा एव बन्धनानि धर्माधर्मबन्धनानि, सर्वाणि च तानि धर्माधर्मबन्धनानि च सर्वधर्माधर्मबन्धनानि, तद्रूपेभ्यो बन्धकेभ्यो धर्माधर्मरूपेभ्यो सर्वेभ्यः पापेभ्य इत्यर्थः। मोक्षयिष्यामि त्याजयिष्यामि, सर्वपापविनिर्मुक्तं करिष्यामीत्यर्थः। यदि धर्माः क्रियेरन् तर्हि पुण्यबन्धः स्यात्; यद्यधर्माः क्रियेरन् तर्हि पापबन्धः स्यात् ; यदि विहितानि न क्रियेरन् तथापि पापबन्धः स्यात् ; तस्मात् सर्वान् धर्मानधर्मांश्च परित्यज्य ईश्वरशरणागतौ कृतायां सत्यां पुण्यपापबन्धविनिर्मुक्तिर्भविष्यति मुमुक्षोः। ईश्वरशरणागतिरूपज्ञाननिष्ठाधिकृतस्य विहिताकरणजन्यदोषाभावाद् यथाविधि सर्वं कर्म संन्यस्य हि ज्ञाननिष्ठायामधिकरोति पुरुषः। तस्मात् सर्वधर्मपरित्यागेश्वरशरणागतिभ्यां सर्वपुण्यपापरूपबन्धविमुक्तिः सुलभा मुमुक्षोरिति भावः। इदं च सर्वपापविनिर्मुक्तिरूपं मया दास्यमानं फलं तव न स्वर्गादिवद् देहपातानन्तरानुभवविषयम्; किं तर्हि? इहैवानुभूयते। सर्वपापविनिर्मुक्तपरिशुद्धसच्चिदानन्दस्वात्मसाक्षात्कारस्येहैव जायमानत्वाद् ‘अहं ब्रह्मास्मी’त्यात्मस्वरूपानुसंधानवतः पुरुषस्य। तस्मात् स आत्मसाक्षात्कारस्तव यथा स्यात् तथाऽहं तव स्वात्मभावप्रकाशं कृत्वा, तेन द्वारा त्वां सर्वपापेभ्यो मोक्षयिष्यामीत्याह— स्वात्मभावप्रकाशकरणेनेति। स्वस्य तवात्मभावो बुद्धिरूपः पदार्थस्तस्य प्रकाशः सत्त्वोत्कर्षकृतं स्वच्छत्वं, तस्य करणेन हेतुना। सत्त्वगुणात्प्रकाशमानया हि बुद्ध्या दृश्यते स्वात्मा ‘दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभि’रिति श्रुतेः। स्वोक्तार्थे भगवदुक्तिं प्रमाणयति—उक्तं चेति। नाशयामीति। ‘अहमज्ञानजं तमः’ इति पूर्वमुक्तं तमो नाशयामीत्यर्थः। ज्ञानदीपेनेति। ‘अहं ब्रह्मे’त्याकारक- बुद्धिवृत्तिरूपदीपेनेत्यर्थः। सर्वं कर्म संन्यस्य यो ज्ञाननिष्ठामभ्यस्यति, तस्य बुद्धिः सत्त्वगुणोत्कर्षादतीव प्रसन्ना एकाग्रा भूत्वा ‘अहं ब्रह्मास्मी’त्यखण्डचैतन्याकारेण परिणमते, तत आत्मसाक्षात्कारो जायते। साक्षात्कृते चात्मनि सर्वद्वैतोपमर्दात् क्व पुण्यपापसद्भावः? क्व वा तत्कृतो बन्धः? तस्मान्मुक्त एव त्वं भविष्यसि, नित्यशुद्धबुद्धमुक्तत्वादात्मस्वरूपस्येति भावः। एतेन सर्वधर्मपरित्यागपूर्वकेश्वरशरणागत्याः स्वात्मभावप्रकाशकरणरूप ईश्वरानुग्रहः फलम् ; मोक्षस्तु नित्यसिद्धत्वान्नैव फलम् ; न हीतः प्रागात्माऽसङ्गः पुण्यपापबद्धो येनेदानीं मुच्येतेति सिद्धम्। स्वात्मभावप्रकाशकरणमित्यस्य स्वात्मनः स्वस्य प्रतीचो यो भावः सच्चिदानन्दस्वभावः, तत्त्वमिति यावत्। तस्य प्रकाशकरणं बोधनं तेनेत्यप्यर्थ आयाति। भावस्तु स एव। ईश्वरानुग्रहाद् बुद्धे- रात्मैकाग्र्यं भवतीति पूर्वोक्तार्थस्यापीहैव तात्पर्यात्। ततश्च सर्वधर्मान् परित्यज्य ‘अहं ब्रह्मास्मी’त्यनिशं चिन्तयतः पुरुषस्येश्वरानुग्र- हाद् आत्मसाक्षात्कारो जायत इति सिद्धम्। अयं चेश्वरानुग्रहो नाम अनवरतप्रत्यगात्माश्रयवशाद् बुद्धेः प्राप्तं यदात्मैकाग्र्यं तत्प्रत्यगा- त्मानुग्रहकृतमेवेत्यभिप्रायादुक्तः प्रत्यगात्मानुग्रह एव, न त्वन्यः, अद्वैतज्ञाने तदयोगात्; प्रत्यगात्मातिरिक्तेश्वरपदार्थासत्त्वाच्च। अत इति। यस्मादहं सम्यग्दर्शनप्रदानद्वारा त्वामेवं ज्ञाननिष्ठं सर्वकर्मसंन्यासिनं मोक्षयिष्यामि तस्मादित्यर्थः। मा शुच इति। मा खिद्यस्व। शोकमिति। कथमहमिमं संसारं तरिष्यामीत्येवंरूपमिति भावः। मा कार्षीरिति। तवात्मनोऽसंसारीश्वरत्वात् सर्वकर्मसंन्यासपूर्वकात्म- ज्ञाननिष्ठाया स्वात्मसाक्षात्कारसम्भवाच्चेति भावः। न च कथमात्मज्ञाननिष्ठाकृतात्मसाक्षात्कारमात्रेण संसारोपरम इति वाच्यम् ; प्रमा- तुरस्यात्मतत्त्वसाक्षात्काराभावरूपाज्ञानादनात्मन्यात्मतादात्म्याध्यासमूलकः संसारो य आसीत् कथं तस्यात्मतत्त्वसाक्षात्कार- रूपाज्ज्ञानादनिवृत्तिः? किं रज्जुस्वरूपाज्ञानकृतसर्पाभासो रज्जुस्वरूपसाक्षात्कारादनिवृत्तो दृश्यते? किं निर्धन देवदत्त-स्वरूपाज्ञानकृतो नैद्राकालिको महाराजात्मभ्रमः प्रबोधेऽपि देवदत्तस्य भवितुमर्हति? किं देहातिरिक्तकर्तृभोक्त्रात्माज्ञानकृतो देहात्मभ्रमः सत्यपि देहाति- रिक्तकर्तृभोक्त्रात्मज्ञाने वैदिकस्यास्तिकस्य भवितुमर्हति नास्तिकवद् बालवच्च? तस्मादसंसारीश्वरात्मस्वरूपसाक्षात्कारादेव संसार- निवृत्तिः, नान्यस्मादुपायाद् भवति। अत एव ‘तरति शोकमात्मवि’दिति श्रुतिरात्मज्ञानादेव शोकनिवृत्तिं ब्रूते। अत एव ‘नान्यः पन्था विद्यतेऽयनाये’त्यात्मज्ञानस्यैव मोक्षहेतुत्वमुक्तम्। मोक्षो हि संसारबन्धनिवृत्तिः। तस्मादीश्वरात्मज्ञानादेव मोक्ष इति स्थितमद्वैतम्॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

[[९५५]]

अस्मिन् (हि) गीताशास्त्रे १परमनिःश्रेयससाधनं निश्चितं किं ज्ञानम् , (किं) कर्म वा, आहोस्विदुभयमिति? कुतः सन्देहः? ‘यज्ज्ञात्वाऽमृतमश्नुते’(भ.गी.१३.१२), ‘ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्’(भ.गी.१८.१५) इत्यादीनि वाक् यानि केवलाज्ज्ञानान्निःश्रेयसप्राप्तिं दर्शयन्ति। ‘कर्मण्येवाधिकारस्ते’(भ.गी.२.४७), ‘कुरु कर्मैव’(भ.गी. ४.१५) इत्येवमादीनि कर्मणामवश्यकर्तव्यतां दर्शयन्ति। एवं ज्ञानकर्मणोः कर्तव्यतोपदेशात् समुच्चितयोरपि निःश्रेय- सहेतुत्वं स्यादिति भवेत् संशयः २कस्यचित्। किं पुनरत्र मीमांसाफलम्? नन्वेतदेव एषामन्यतमस्य परमनिःश्रेयस- साधनत्वावधारणम्। अतो ३विस्तीर्णतरं मीमांस्यमेतत्। ननु ज्ञानादेव मोक्ष इति योंऽशः तवाद्वैतिनोऽभिमतः, सोऽयं न सिध्यति। प्रकृतगीताशास्त्रे भगवताऽस्यांशस्य निष्कृष्या- नुक्तत्वादिति शङ्कायां तमेवांशं स्थापयितुं विचारमारभते— किमस्मिन्नित्यादिना सम्यग्दर्शनादत्यन्तोपरम इति सिद्धमित्यन्तेन ग्रन्थेन। अस्मिन् गीताशास्त्रे निश्चितं परं निःश्रेयससाधनं किमित्यन्वयः। अस्मिन् गीताशास्त्रे मोक्षसाधनत्वेन निश्चितं वस्तु किमित्यर्थः। प्रश्नमेवामुं विकल्पयति—किं ज्ञानमित्यादिना। अस्मिन् शास्त्रे किं ज्ञानं परं निःश्रेयससाधनमिति निश्चितं, यद्वा कर्म, आहोस्विदुभयं कर्मज्ञानद्वयमिति त्रेधा विकल्पः। एवं विकल्पनस्य संशयपूर्वकत्वात् संशयहेतुं पृच्छति—कुतः संशय इति। क्वचिज्ज्ञानान्मोक्ष इति प्रतिपादनात् क्वचित्पुनः कर्मणा मोक्ष इति प्रतिपादनाच्च संशय इत्याह—यज्ज्ञात्वेति। इत्यादीनीत्यादिपदात् ‘यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद्भजति मां सर्वभावेन भारत’, ‘नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति। गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति’, ‘क्षेत्रक्षेत्रज्ञोरेवायमन्तरं ज्ञानचक्षुषा। भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्’, ‘य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते’, ‘ज्ञानवान्मां प्रपद्यते’, ‘ज्ञात्वा मां शान्तिमृच्छति’, ‘ज्ञानं लब्ध्वा परां शान्तिमचिरे- णाधिगच्छती’त्यादीनि वाक् यानि ग्राह्याणि। ‘तस्मात्त्वमित्यादीनी’त्यादिपदात्तु ‘कर्मणैव हि संसिद्धिमास्थिता जनकादयः’, ‘मत्कर्म- कृन्मत्परमः’, ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’, ‘असक्तो ह्याचरन् कर्म परमाप्नोति पूरुष’ इत्यादीनि ग्राह्याणि। नन्वेवं श्रेयःसाधनं किं ज्ञानमुत कर्मेति भवेत् संशयः। कथं पुनः किमुभयमिति संशयो भवेत्? अत आह—एवमिति। ज्ञान- कर्मणोरप्युभयोः कर्तव्यत्वोपदेशादुभयमपि श्रेयःसाधनमिति संशयः स्यादित्यर्थः। ननु भवतु संशयः, किमत्र तद्विचारेण फलमिति पृच्छति—किं पुनरिति। उत्तरयति—नन्वेतदेवेति। नन्विति प्रष्टुः सम्बोधनम्। वाक् यालङ्कारे वा। एतदेव फलम् ; किं तद्? अत आह — एषामिति। एषां त्रयाणामन्यतमस्य परमनिःश्रेयससाधनत्वावधारणमेव फलम्। विचारात् त्रयाणां मध्ये एकस्य मोक्षसाधनत्वं निश्चितं भवतीत्यर्थः। अत इति। अन्यतमस्य निःश्रेयससाधनत्व[त्वाव]धारणार्थमित्यर्थः। एतत् पूर्वोक्तांश इत्यर्थः। विकल्पत्रयात्मक इति भावः। मीमांस्यं विचार्यम्। कथं मीमांस्यम्? अत आह—निस्तीर्णतममिति। अतिशयेन निस्तीर्णं निश्चितं यथा भवति तथा। सति पूर्वापरालोचनातो गीताशास्त्रं व्याख्यायोपसंहृत्य तत्तात्पर्यार्थं निर्धारितमपि विचारद्वारा निर्धारयितुं विचारमवतारयति— अस्मिन्निति। किंशब्दार्थमेव त्रेधा विभजते—ज्ञानमिति। निमित्ताभावे संशयस्याभासत्वान्न निरस्यतेति मत्वा पृच्छति—कुत इति। तत्तदर्थावद्योतकानेकवाक्यदर्शनं तन्निमित्तमित्याह—यज्ज्ञात्वेति। कर्मणामवश्यकर्तव्यत्वोपलम्भात् तेभ्योऽपि निःश्रेयसप्राप्तिर्भातीत्याह —कर्मण्येवेति। तथापि समुच्चयप्रापकं नास्तीत्याशङ्क्याह—एवमिति। सत्यां सामग्र्यां कार्यमवश्यम्भावीत्युपसंहरति—इति भवेदिति। सन्दिग्धं सफलं च विचार्यमिति स्थितेरसति फले सन्दिग्धमपि न विचार्यमिति बुद्ध्या पृच्छति—किं पुनरिति। प्रत्येकं ज्ञानकर्मणोः, समुच्चितयोर्वा मुक्तिं प्रति परमसाधनतेत्यवधारणमेव विचारफलमिति परिहरति—नन्विति। सन्देहप्रयोजनयोर्विचारप्रयोजकयोर्भावाद् विचारद्वारा परममुक्तिसाधनं निर्धारणीयमिति निगमयति—अत इति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘परं निश्रेयस’ इति पा.। २. ‘कस्यचित्’ इति क्वचिन्न। ३. ‘निस्तीर्णतरं’ रा.पा.।

[[अ. १८. श्लो. ६६]] [[९५६]]

आत्मज्ञानस्य तु केवलस्य निःश्रेयसहेतुत्वम् , भेदप्रत्ययनिवर्तकत्वेन १कैवल्यफलावसानत्वात्। क्रिया- कारकफलभेदबुद्धिः अविद्ययाऽऽत्मनि २नित्यप्रवृत्ता— ‘मम कर्म, अहं कर्ता, अमुष्मै फलायेदं कर्म करिष्यामि’ इति इयमविद्याऽनादिकालप्रवृत्ता। अस्याः अविद्यायाः निवर्तकम् ‘अयमहमस्मि केवलोऽकर्ताऽक्रियोऽफलः, न मत्तो तु संशये मुमुक्षोर्निश्चयाभावात् क्वाप्यप्रवृत्तिः स्यादिति संशयनिरासाय विचारः आवश्यक इति भावः। ननु किं निर्धारणेन? त्रयाणामपि मोक्षसाधनत्वाद् यथाबुद्धि यथाशक्ति च पुरुषोऽन्यतममनुष्ठाय मोक्षं प्राप्स्यतीति चेत् , मैवम् ; ज्ञानस्यैकस्यैव मोक्षसाधनत्वात् कर्मणो मोक्षासाधनत्वात् समुच्चयस्यासिद्धत्वाद् ज्ञानमेकमेव मोक्षसाधनमिति निर्धारणम् आवश्यकमेव। अनिर्धारिते ह्यस्मिन्नंशे कर्मापि मोक्षसाधनमिति मत्वा मुमुक्षुः कर्मणि प्रवर्त्य[प्रवृत्य] मोक्षपुरुषार्थाद्धीयेत। अथवा समुच्चयो मोक्षसाधनमिति मत्वा समुच्चयस्य दुष्करत्वादेकैकस्यामोक्षसाधनत्वाच्च क्वापि पुरुषो न प्रवर्तेत मोक्षार्थी। ततश्च पुरुषार्थाद् भ्रष्टः स्यात्। तस्मादन्यतमस्य मोक्षसाधनत्वनिर्धारणाय, यद्वा ज्ञानस्यैकस्यैव मोक्षसाधनत्वनिर्धारणाय विचारोऽयमावश्यक एव। न हि मथनं विना अमृतवद् विचारं विना निश्चयार्थो लभ्यते। तस्मान्निस्तीर्णतमं मीमांस्यमेतत्। एवं विकल्पत्रयं प्रदर्श्य सिद्धान्तमाह—आत्मज्ञानस्य त्विति। केवलस्यात्मज्ञानस्य तु निःश्रेयसहेतुत्वम् , अस्तीति शेषः। तत्र हेतुमाह—भेदेति। भेदप्रत्ययानां निवर्तकत्वेन हेतुना कैवल्यफलावसायित्वात् मोक्षपर्यवसायित्वात्। कर्मसमुच्चितत्ववारणायोक्तम् —केवलस्येति। तुशब्दस्य फलं स्वयमेव वक्ष्यति। आत्मज्ञानस्य भेदप्रत्ययनिवर्तकत्वमेवोपपादयति—क्रियेति। आत्मन्यविद्यया क्रियाकारकफलभेदबुद्धिर्नित्यप्रततेत्यन्वयः। नित्यमनादिकालादारभ्य प्रकर्षेण तता विस्तृता। कथं प्रततेत्यत आह—मम कर्मेति। ननु यद्यविद्ययैवात्मनि क्रियाकारकफलभेदबुद्धिर्वितता, तर्ह्यविद्यायाः प्राक् सा भेदबुद्धिर्भवितुं नार्हति। ततश्चाविद्यायाः प्राक् कैवल्यमस्त्येवात्मनः, ततः पुनरविद्योदयानन्तरं भेदबुद्धिपूर्वकं संसारः प्राप्त आत्मनः, यद्येवं तर्हि विद्यया मुक्तस्याप्यात्मनः पुनः संसारो भविष्यत्येव। पूर्वमविद्यमानाया अविद्याया यथा आत्मन्युदयस्तथा नष्टाया अप्यविद्यायाः पुनरुदयसम्भवात् , उदयात्प्रागिव नाशादनन्तरमपि वस्तुनोऽविद्यमानत्वस्य तुल्यत्वाद् अविद्यमानवस्तुन उत्पत्त्यङ्गीकारे नष्टवस्तुनोऽपि पुनरुत्पत्तेरवर्जनीयत्वात्। एवं च सति स्वर्गं गतस्येव, मुक्तिं गतस्यापि पुनरावृत्तिप्रसङ्गः। तस्मान्नाविद्यया आत्मनि क्रियाकारकफलभेदबुद्धिर्वितता, किन्तु स्वत एवास्तीति शङ्कायामाह—इयमिति। अनादिरियमविद्या, अनादिकालमारभ्य प्रवृत्तत्वात्। न ह्यस्मिन् काले इयमविद्या प्रवृत्तेति ज्ञातुं शक् यते। तस्मात् कार्यभूताऽपीयमविद्या अनादिरेव। तस्मादविद्योदयात्प्रागिति वक्तुं न शक् यम्। न चैवं नष्टाया अविद्यायाः पुनरागति- रिति वाच्यम् ; नष्टस्य घटस्य दीपस्य वा पुनरुदयादर्शनात्। न च स्वत एव क्रियादिकमात्मन्यस्तीति वाच्यम् , ‘निष्कलं निष्क्रियं शान्त’मित्यादिश्रुतिविरोधात्। तस्मात् क्रियाकारकफलरूपो भेदस्तद्बुद्धिश्चात्मन्यविद्ययैव प्रतता, न तु स्वाभाविकी। किमस्या अविद्याया निवर्तकम्? अत आह—अस्या अविद्याया इति। निवर्तकं ज्ञानमिति व्यवहितेन सम्बन्धः। किंविषयं ज्ञानम्? अत आह— एवं विचारमवतार्य सिद्धान्तं संगृह्णाति—आत्मेति। संग्रहवाक् यं विवृण्वन्नादावात्मज्ञानापोह्यामविद्यां दर्शयति—क्रियेति। आश्रयोक्त्या तदनादित्वमाह—आत्मनीति। तामेवाविद्यामनाद्यविद्योत्थामनर्थात्मिकां प्रपञ्चयति—ममेति। अनाद्यविद्याकार्यत्वात् प्रवाहरूपेणानादित्वमस्या विवक्षित्वा विशिनष्टि—अनादीति। तत्र कारणाविद्यानिवर्तकत्वमात्मज्ञानस्योपन्यस्यति—अस्या इति। ननु

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सन्दिग्धत्वात् सप्रयोजनत्वाच्च विचारारम्भमुपपाद्य सिद्धान्तमुपक्रमते—आत्मज्ञानस्य त्वित्यादिना। वस्तुसंग्रह- वाक् यं व्याख्यातुं भेदप्रत्ययस्य अविद्यात्मकत्वं तावदाह—क्रियाकारकेत्यादिना। अविद्यान्वयव्यतिरेकाभ्यां भेदबुद्धेरविद्या- त्मकत्वमुपपाद्य, इदानीं ज्ञानमात्रनिवर्त्यत्वमाह—अस्या अविद्याया इति। ननु ब्रह्मज्ञानमुत्पद्यमानं ब्रह्माविद्यां निवर्तयतीति

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘कैवल्यफलावसायित्वात्’ इति पा.। २. ‘नित्यप्रतता’ इति रा.पा.।

[[९५७]]

ऽन्योऽस्ति कश्चिद्’ इत्येवंरूपमात्मविषयं ज्ञानमुत्पद्यमानम् , कर्मप्रवृत्तिहेतुभूताया भेदबुद्धेर्निवर्तकत्वात्। तुशब्दः पक्षद्वयव्यावृत्त्यर्थः। न केवलेभ्यः कर्मभ्यः, न च ज्ञानकर्मभ्यां समुच्चिताभ्यां निःश्रेयसप्राप्तिरिति पक्षद्वयं निवर्तयति। अकार्यत्वाच्च निःश्रेयसस्य १कर्मसाधनत्वानुपपत्तिः। न हि नित्यं वस्तु कर्मणा ज्ञानेन वा क्रियते। केवलज्ञानमप्यनर्थकं तर्हि? न, अविद्यानिवर्तकत्वे सति दृष्टकैवल्यफलावसानत्वात्। अविद्यातमोनिवर्तकस्य आत्मविषयमिति। किमाकारकं ज्ञानम्? अत आह—अयमहमित्यादि। केवल एकः। अकर्ता कर्तृत्वरहितः, अक्रियो न विद्यन्ते क्रिया यस्मिन् स तथोक्तः। नायं क्रियाः करोति, नाप्यस्मिन् क्रियाः सन्तीत्यर्थः। अफलोऽभोक्तेत्यर्थः। एवंविधोऽयमात्माऽहमस्मीति, मत्तोऽन्यः कश्चिन्नास्तीति चैवंरूपं ज्ञानम्। इदं ज्ञानमविद्यां कदा निवर्तयतीत्यत आह—उत्पद्यमानमिति। कुतो निवर्तयतीत्यत आह—कर्मेति। कर्मप्रवृत्तौ हेतुभूताया भेदबुद्धेः क्रियाकारकफलभेदप्रत्ययस्य निवर्तकत्वाद्धेतोः। अविद्यानाशपूर्वको हि भेदबुद्धिनाशः, अविद्यापूर्वकत्वाद् भेदबुद्धेः। भेदबुद्धिरूपकार्यलिङ्गानुमेया ह्यविद्या। भेदबुद्धिरूपकार्याभावे केन लिङ्गेनानुमातुं शक् यते? न केनापीति कृत्वा भेदबुद्धिनिवर्तकमिदमात्मज्ञानमविद्यानिवर्तकमेवेति भावः। तस्मादात्मज्ञानमेव समूलभेदप्रत्ययनिवर्तकत्वान्मोक्षसाधनम्। ‘तुशब्दः पक्षव्यावृत्त्यर्थ’ इति वाक् यं स्वयमेव विवृणोति—नेति। केवलेभ्यः कर्मभ्यः, समुच्चिताभ्यां ज्ञानकर्मभ्यां वा निःश्रेयसप्राप्तिर्नेति पक्षद्वयं निवर्तयति तुशब्दः। एवकारार्थकत्वादिति भावः। तस्मात् कर्म, समुच्चयो वा न मोक्षसाधनमिति सिद्धम्। भेदप्रत्ययपूर्वकत्वेन कर्मणः समुच्चयस्य वा कैवल्यफलावसायित्वाभावादिति भावः। कर्मणो मोक्षसाधनत्वाभावे हेत्वन्तरमाह—अकार्यत्वाच्चेति। यदि स्वर्गादिवन्मोक्षोऽपि कार्यः स्यात् , तर्हि तस्य कर्म साधनं स्यात्; न तु तथा मोक्षः कार्यः। तस्मान्न तस्य कर्म साधनं भवति। साध्यस्य हि वस्तुनो यत्किञ्चित् साधनं स्यात् ; न त्वसाध्यस्य। तस्मादसाध्यस्य (अकार्यस्य) मोक्षस्य कर्मसाधनत्वमनुपपन्नम्। कर्म साधनं यस्य तत् कर्मसाधनम् , तद्भावः कर्मसाधनत्वं तस्यानुपपत्तेरिति समासः। तदेवोपपादयति—न हीति। नित्यं वस्तु कर्मणा ज्ञानेन वा न हि क्रियते; यत्क्रियते तद्ध्यनित्यं, यथा घटः। मोक्षस्तु नित्य इति सर्ववादिभिरभ्युपगत एव। तस्मान्नित्यस्य मोक्षस्य न कार्यत्वम् , येन कर्म तस्य साधनं स्यादिति भावः। ननु यदि कर्मणा ज्ञानेन वा मोक्षो न क्रियते, तर्हि कर्मेव ज्ञानमपि न मोक्षसाधनमिति व्यर्थमेव ज्ञानमपीति पृच्छति— नेदमुत्पन्नं ज्ञानं निवर्तयत्यविरोधेनोत्पन्नत्वात् , न चानुत्पन्नम् , अलब्धात्मकस्यार्थक्रियाकारित्वाभावात् , तत्राह—उत्पद्यमानमिति। कथं तस्य कारणाविद्यानिवर्तकत्वमित्याशङ्क्य कार्याविद्यानिवर्तकत्वदृष्टेरित्याह—कर्मेति। आत्मज्ञानस्येत्यादिसंग्रहवाक् ये तुशब्दद्योत्य- विशेषाभावात् तदानर्थक्यमाशङ्क्याह—तुशब्द इति। पक्षद्वयव्यावर्तकत्वमेवास्य स्फुटयति—नेत्यादिना। इतश्च कर्मासाध्यता मुक्ते- रित्याह—अकार्यत्वाच्चेति। ‘एष नित्यो महिमा’ इति श्रुतेर्नित्यत्वेन मोक्षस्याकार्यत्वान्न तत्र हेत्वपेक्षेत्युपपादयति—न हीति। ज्ञानेनापि मोक्षो न क्रियते चेत् , तर्हि केवलमपि ज्ञानं मुक्त्यनुपयुक्तमिति कुतस्तस्य तत्र हेतुत्वधीरित्याशङ्कते—केवलेति। ज्ञानानर्थक् यं दूषयति—नेति। तदेव प्रपञ्चयति—अविद्येति। यदुक्तमविद्यानिवर्तकज्ञानस्य कैवल्यफलावसायित्वं दृष्टमिति, तत्र दृष्टान्त-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कथमुच्यते कारकादिभेदबुद्धिं निवर्तयतीत्याशङ्क्याह—कर्मप्रवृत्तीति। मूलभूतब्रह्माविद्यानिवर्तने तत्कार्यभेदबुद्धेर्निवर्तकत्वा- दित्यर्थः। संग्रहवाक्यगत‘तु’शब्दस्यार्थमाह— तुशब्द इत्यादिना। बन्धः केवलज्ञानापनोद्यः, अविद्यात्मकत्वात् , शुक्ति- रूप्यवदित्यर्थः। हेत्वन्तरमाह—अकार्यत्वाच्चेति। अनादित्वान्नित्यत्वाच्च मोक्षस्य कर्मसाध्यत्वं नोपपद्यते चेत् , तर्हि ज्ञानस्याप्यानर्थक्यमित्युक्ते तस्यार्थकत्व १. कर्म साधनं यस्येति व्युत्पत्त्या कर्मसाध्यत्वानुपपत्तिरित्यर्थः।

[[अ. १८. श्लो. ६६]] [[९५८]]

ज्ञानस्य दृष्टं कैवल्यफलावसानत्वम्। रज्ज्वादिविषये सर्पाद्यज्ञानतमोनिवर्तकप्रदीपप्रकाशफलवत्। विनिवृत्तसर्पादि- विकल्परज्जुकैवल्यावसानं हि प्रकाशफलम्। तथा ज्ञानम्। दृष्टार्थानां च छिदिक्रियाग्निमन्थनादीनां व्यापृत- केवलेति। तर्हि केवलज्ञानमप्यनर्थकमित्यन्वयः। उत्तरयति—नेति। हेतुमाह—अविद्येति। ज्ञानस्य अविद्यानिवर्तकत्वेन दृष्टकैवल्य- फलावसानत्वादिति। ज्ञानेन मोक्षः साध्यत इति न वयं ब्रूमः, किं तर्हि? ज्ञानेनाविद्या निवर्तते, यन्मूलः संसारः। निवृत्तायां चाविद्यायां केवलात्मस्वरूपेणावतिष्ठते विद्वान्। तस्मादविद्यानिवर्तकस्य ज्ञानस्य केवलात्मस्वरूपेणावस्थानलक्षणं कैवल्यफलमवसानमिति दृष्टम्। एवमविद्यानिवर्तकत्वेन कैवल्यफलावसायित्वान्मोक्षसाधनं ज्ञानमित्यस्माभिरुच्यत इति। अविद्यानिवृत्तिरेव ज्ञानेन क्रियते, कैवल्यरूपमोक्षफलं तु नित्यसिद्धमेव। नित्यसिद्धमपीदमविद्यानिवृत्त्यभावेऽसिद्धमिव प्रतिभातीति कृत्वा तदविद्यानिवर्तकं ज्ञानं मोक्षसाधनमित्युक्तम्। यथा स्वगृहे नित्यं स्थितमपि हिरण्यनिधिमज्ञानादस्थितमिव सन्त- मञ्जनादिना पुरुषः साधयति, तद्वज्ज्ञानेन विद्वान् नित्यसिद्धमपि मोक्षमविद्यावशादसिद्धमिव सन्तं साधयति। नैतावता ज्ञानसाध्यत्वं मोक्षस्य नित्यसिद्धस्य। मोक्षो हि ब्रह्म, नित्यापरोक्षं च ब्रह्म, ‘यत् साक्षादपरोक्षाद् ब्रह्मे’ति श्रुतेः। कथं तस्य कार्यत्वं स्यात्? तस्मान्मोक्षस्वरूपावारकाविद्यानिवर्तकत्वाज्ज्ञानं मोक्षसाधनमित्युक्तम् , न तु मोक्षजनकत्वादिति कृत्वा न ज्ञानस्य मोक्षसाधनत्वम् , नापि मोक्षस्य ज्ञानकार्यत्वमिति भावः। हेतुवाक् यं विवृणोति—अविद्येति। दृष्टं ज्ञातम् , विद्वदनुभवसिद्धमित्यर्थः। कैवल्यं केवलात्म- स्वरूपेणावस्थानम् , तदेव फलं कैवल्यफलम् , तदेवावसानं परिसमाप्तिः, तस्मिन्नेवावसानमिति वा यस्य तत्त्वं कैवल्यफलावसा- नत्वम्। अविद्यालक्षणं तमोऽज्ञानम् अविद्यातमः, तमोऽन्धकारः, तदिव स्वरूपप्रकाशविरोधित्वादविद्या अविद्यातम इत्युच्यत इति वा, तन्निवर्तकस्य। विदुषां हि विद्यया अविद्यातमोनिवृत्तौ सत्यां केवलात्मरूपेणावस्थानमनुभवसिद्धमिति कृत्वा, न हि दृष्टेऽनुपपत्ति- रिति न्यायेनानुभवसिद्धेऽस्मिन्नर्थे नानुपपत्तिः कार्येति भावः। ज्ञानस्यैवंविधत्वे दृष्टान्तमाह—रज्ज्वादीति। रज्ज्वादिविषये रज्जुशुक्ति- कादौ विषये सर्पादिः सर्परजतादिरूपो योऽध्यासस्तद्धेतुर्यदज्ञानं रज्ज्वादिविषयावच्छिन्नचैतन्यनिष्ठं तत्स्वरूपावारकं चाज्ञानमित्यर्थः। तदुपलक्षितं यत् तमोऽन्धकारः, तत् सर्पाद्यज्ञानतमः; यद्वा अज्ञानपदं तत्कार्याध्यासपरम् ; तथा च सर्पाद्यज्ञानं सर्पाद्यध्यासः, तद्धेतु- भूतं तमोऽन्धकारः सर्पाद्यज्ञानतमः। अध्यासस्याज्ञानकार्यत्वेऽपि तमःकार्यत्वमप्यस्ति, प्रकाशे रज्ज्वादौ सर्पाद्यध्यासादर्शनात्। तस्य सर्पाद्यज्ञानतमसो निवर्तको यः प्रदीपस्य प्रकाशः, तस्येव तद्वत्। यथा प्रदीपप्रकाशः रज्ज्वादिविषयावारकं सर्पाद्यध्यासकारणं तमो निवर्त्य रज्ज्वादिं स्वस्वरूपेणावस्थापयन् तावतैव पर्यवसितो दृष्टः, तथा ज्ञानमप्यात्मस्वरूपावारकं देहेन्द्रियाद्यध्यासकारणं चाज्ञानं निवर्त्यात्मानं स्वस्वरूपेणावभासयन् तावतैव पर्यवसितो दृष्टः१ तत्त्वविद्भिरित्यर्थः। रज्ज्वादिविषये सर्पाद्यज्ञानतमोनिवर्तक-प्रदीप- प्रकाशवदविद्यातमोनिवर्तकस्य ज्ञानस्य कैवल्यफलावसानत्वं दृष्टमित्यन्वयः। कथं प्रदीपप्रकाशस्य कैवल्यफलावसानत्वम्? अत आह— विनिवृत्तेति। विशेषेण निवृत्ताः सर्वे विकल्पाः दण्डसर्पादयो यस्याः सा रज्जुर्विनिवृत्तसर्वविकल्परज्जुः, तस्याः कैवल्यावसानं [र्थवत्त्वम्] आह— न, अविद्यानिवर्तकत्व इत्यादिना। स्वरूपेण साध्यत्वाभावेऽपि मुक्तिप्रतिबन्धकाविद्यानिवर्तनेन दृष्टफलत्वाद् ज्ञानस्य नानर्थक्यमित्यर्थः। ननु ब्रह्मज्ञानं नैयोगिकफलं, वैदिकज्ञानत्वात् , धर्मज्ञानवत्। अतो न दृष्टफलत्वमित्याशङ्क्याह—अविद्यातमोनिवर्तकस्येति। विद्वदनुभवबाधितमनुमानमित्यर्थः। किञ्च कैवल्यं [न] नैयोगिकम् , प्रकाशफलत्वात् , प्रदीपफलवदित्याह—रज्ज्वादिविषय इति। यथा सर्पादेरज्ञानजन्यस्य निमित्तं यत् तमः, तन्निमित्तकस्य माह—रज्ज्वादीति। उक्ते विषये तमोनिवर्तकप्रकाशस्य कस्मिन् फले पर्यवसानम्? तत्राह—विनिवृत्तेति। प्रदीपप्रकाशस्य सर्पभ्रम- निवृत्तिद्वारा रज्जुमात्रे पर्यवसानवदात्मज्ञानस्यापि तदविद्यानिवृत्त्याऽऽत्मकैवल्यावसानमिति दार्ष्टान्तिकमाह—तथेति। ज्ञात्रादीनां १. ज्ञानप्रकाशः इति शेषः। ‘स्वस्वरूपेणावभासयत् तावतैव पर्यवसितं दृष्टम्’ इति वा पाठः स्यात्।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[९५९]]

कर्त्रादिकारकाणां द्वैधीभावाग्निदर्शनादिफलादन्यफले १कर्मान्तरे व्यापारानुपपत्तिर्यथा, तथा ज्ञाननिष्ठाक्रियायां दृष्टार्थायां व्यापृतस्य ज्ञात्रादिकारकस्यात्मकैवल्यफलादन्यफले २कर्मान्तरे प्रवृत्तिरनुपपन्नेति न ज्ञाननिष्ठा कर्मसहितो- पपद्यते। केवलरज्जुरूपेणावस्थानम् , तदेव प्रकाशस्य फलमिति। न च कर्माप्येवमेवाविद्यानिवर्तकत्वान्मोक्षसाधनमिति वाच्यम् ; भेदप्रत्ययविशिष्टस्य कर्मणोऽविद्यामूलकत्वेन तन्निवर्तकत्वाभावात्। अत एव समुच्चयोऽपि न मोक्षसाधनम्। एतेन अविद्यानिवृत्तिलक्षणो मोक्षोऽपि कार्यो न कर्मणा क्रियते, किन्तु ज्ञानेनैवेति सिद्धम्। एवं कर्मणो मोक्षसाधनत्वपक्षं निरस्य तेनैव समुच्चयस्यापि मोक्षसाधनत्वे निरस्तेऽपि समुच्चयस्यैव तावदनुपपत्तिं दर्शयति— तथेत्यादिना। तथेति कर्मणो मोक्षसाधनत्वपक्षनिरासपरिसमाप्तिद्योतकमव्ययम्। दृष्टोऽर्थो द्वैधीभावादिलक्षणं फलं येषां तेषां दृष्टार्थानां छिदिक्रियाग्निमथनादीनां छिदिक्रिया छेदनरूपा क्रिया, अग्नेर्मथनं, तदादीनां कर्मणां, करण इति शेषः। दृष्टार्थेषु छिदिक्रियाग्निमथना- दिष्विति सप्तम्यन्तपाठो वा। व्यापृतानां प्रवृत्तानां कर्त्रादिकारकाणां कर्तृकरणादिकारकाणां कर्मान्तरे व्यापारानुपपत्तिः। कीदृशे कर्मान्तरे? द्वैधीभावः द्विधा भवनमग्निदर्शनमेवमादिलक्षणं यत् फलं तस्मादन्यत् फलं यस्य तस्मिन् द्वैधीभावाग्निदर्शनादिफलादन्यफले यथा, तथा दृष्टोऽर्थः कैवल्यफलं यस्यास्तस्यां दृष्टार्थायां, निर्गताः क्रिया देहेन्द्रियादिव्यापारा यस्यास्तस्यां निष्क्रियायां ज्ञाननिष्ठा- त्मिकायां क्रियायां व्यापृतस्य कर्त्रादिरूपस्य कारकस्यात्मकैवल्यफलादन्यफले कर्मान्तरेऽन्यकर्मणि प्रवृत्तिर्व्यापारोऽनुपपन्ना अयुक्ता। इति हेतोः कर्मसहिता ज्ञाननिष्ठा, कर्मज्ञानसमुच्चय इति यावत्। नोपपद्यते न युज्यते, न सम्भवतीति यावत्। ‘अहं ब्रह्मास्मी’त्या- कारकबुद्धिवृत्तिरूपज्ञाननिष्ठाया मानसिकक्रियात्वात् तस्यां प्रवृत्तस्य विदुषः ‘कर्ता भोक्ताऽह’मिति ज्ञानपूर्वकाग्निहोत्रादिकर्मसु प्रवृत्तिर्न घटते। अकर्त्रभोक्तृब्रह्मात्मज्ञानस्य, ‘कर्ता भोक्ताऽह’मिति ज्ञानस्य च परस्परं विरोधात्। मनइन्द्रियादिषु बहिर्विषयव्यापृतेषु सत्सु ‘अहं ब्रह्मास्मी’त्याकारकबुद्धिवृत्त्यसम्भवाच्च। मनइन्द्रियाद्युपरतिसाध्या हि दर्शितबुद्धिवृत्तिः। समाधि-निष्ठस्यैव तद्बुद्धिवृत्तिदर्शनात्। तस्मात् कर्मज्ञाननिष्ठयोः समुच्चयो न सम्भवति। ननु युगपत्समुच्चयासम्भवेऽपि क्रमेण सम्भवत्येव स इत्यत आह—दृष्टार्थायामिति। किं कर्मनिष्ठस्य कालान्तरे ज्ञाननिष्ठोपपद्यत इति ब्रूषे? किंवा ज्ञाननिष्ठस्य कालान्तरे कर्मनिष्ठेति? आद्य इष्ट एव, कर्मनिष्ठाया ज्ञान- निष्ठाहेतुत्वात्। नैतावता कर्मज्ञानसमुच्चयः। ज्ञाननिष्ठाप्राप्त्यनन्तरं कर्मनिष्ठायास्त्यक्तत्वेन कर्मनिष्ठां परित्यज्यैव ज्ञाननिष्ठायां प्रवृत्तत्वेन च समुच्चयासिद्धेः। न तु द्वितीयः, ज्ञाननिष्ठाया दृष्टकैवल्यफलावसानत्वेन ज्ञाननिष्ठायाः फलं कैवल्यम् , साक्षात्कृतवतो विदुषः ज्ञान- निष्ठां विहाय कर्मनिष्ठायां प्रवर्तितुं कारणाभावात्। न हि निरर्थकं कर्म कुर्याद् विद्वान्। न चैवं कर्मनिष्ठायामधिकृतस्यापि तां परित्यज्य ज्ञाननिष्ठास्वीकारो नोपपद्यत इति वाच्यम् ; कर्मनिष्ठाया अदृष्टफलत्वात्। यद्वा दृष्टकैवल्यफलावसानत्वाभावात्। कैवल्यार्थी हि मुमुक्षुः पुरुषः प्रथममज्ञानादिना कर्मनिष्ठायां प्रवृत्तोऽपि तया स्वस्य कृतार्थत्वालाभाज्ज्ञाननिष्ठां स्वीकरोत्येव, स्वीकृतायां च तस्यां कैवल्य- फलानुभवेन कृतार्थो भवति। एवं कृतार्थःसन् स विद्वान् पुनः कर्मनिष्ठां किमिति स्वीकुर्यात्? न हि कृतार्थस्य दृष्टकैवल्यफलस्य कृत- कृत्यस्य तत्त्वविदः कर्तव्यशेषोऽस्ति यदर्थं पुनः कर्मणि प्रवृत्तिः स्यात्। उक्तं हि ‘एतद् बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत’ इति। [तन्निवर्तकस्य] दीपप्रकाशस्य [केवलरज्जुस्वरूपावस्थानं दृष्टं] फलम् , तथा ज्ञानफलमपि केवलात्मस्वरूपावस्थानं दृष्टमेवेत्यर्थः। दृष्टफलत्वादेव च ज्ञानस्य कर्मसमुच्चयोऽपि निरस्तो भवतीत्यभिप्रेत्य दृष्टान्तान्तरमाह— तथा दृष्टार्थानां चेति। ज्ञानं स्वफले नेतिकर्तव्यापेक्षम् , दृष्टफलत्वात् , छिदिक्रियावदित्यर्थः। ज्ञाननिष्ठाहेतूनां कर्मान्तरे प्रवृत्तिसम्भवात् कर्मसहितैव सा कैवल्यावसायिनीति चेत् , तत्राह—दृष्टार्थानामिति। १. ‘कर्मान्तरे वा’ इति पा.। २. ‘कर्मान्तरे वा’ इति पा.।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १८. श्लो. ६६]] [[९६०]]

भुज्यग्निहोत्रादिक्रियावत् स्यादिति चेत्? न, कैवल्यफले ज्ञाने क्रियाफलार्थित्वानुपपत्तेः। कैवल्यफले हि ज्ञाने प्राप्ते १सर्वतःसम्प्लुतोदकफले कूपतडागादिक्रियाफलार्थित्वाभाववत् फलान्तरे तत्साधनभूतायां वा क्रियायामर्थित्वा- तस्माद् द्वैधीभावाग्निदर्शनादिफलाकाङ्क्षी पुरुषो यथा दृष्टफलेषु छेदनमथनादिकर्मसु प्रवर्तते, प्रवृत्तश्च ततस्तत्फलं पश्यति, न तु प्रकृतफलातिरिक्तफलप्रदेषु कर्मसु प्रवर्तते। तद्वत् कैवल्यफलार्थी पुरुषः दृष्टकैवल्यफलावसानायां ज्ञाननिष्ठायां प्रवर्तते। प्रवृत्तश्च ततस्तत्फलं पश्यति, न तु कर्मनिष्ठायां पुनः प्रवर्तते। यदि कर्मनिष्ठेव ज्ञाननिष्ठाऽपि दृष्टकैवल्यफलावसाना न स्यात् , तर्हि ज्ञाननिष्ठां परित्यज्य भ्रान्त्यादिना पुनः कर्मनिष्ठायां प्रवर्तेत, न तु तथाऽस्ति। तस्मात् कैवल्यार्थी पुरुषः अज्ञानादनधिकाराद्वा प्रथमं कर्मनिष्ठायां प्रवृत्तःसन् तत्र स्वाभिलषितं फलमपश्यन् विवेकादिसाधनसम्पत्तिशाली भूत्वा ज्ञाननिष्ठायां प्रविश्य तत्र कैवल्यफलं स्वेष्टं पश्यन् सन् कथं पुनः कर्मनिष्ठायां प्रविशेत्? न कथमपीति कृत्वा ज्ञाननिष्ठस्य विदुषो ज्ञाननिष्ठासमकाले, कालान्तरे वा कर्मनिष्ठा न सम्भवति, नाप्युपपद्यते। नन्वेकस्मिन् पुरुषे एकस्मै फलाय क्रियाद्वयस्यानुपपन्नत्वेऽपि द्वाभ्यां फलाभ्यां क्रियाद्वयमुपपन्नमेव। यथा क्षुच्छान्तिस्वर्ग- फलाभ्यामेकस्मिन् पुरुषे भोजनाग्निहोत्रक्रियाद्वयमस्ति। तद्वदेकस्मिन्नेव कैवल्यस्वर्गफलाभ्यां ज्ञानकर्मनिष्ठाद्वयमुपपद्यत एवेत्याह— भुजीति। परिहरति—नेति। हेतुमाह—कैवल्येति। कैवल्यं फलं यस्य तस्मिन् कैवल्यफले ज्ञाने प्राप्ते सति क्रियाफलयोः क्रियायां यज्ञादिरूपायां फले स्वर्गादिलक्षणे चार्थित्वस्यानुपपत्तेः। क्रियाफलार्थित्वमिति पदं प्रातिलोम्येन फलक्रियार्थित्वमिति कृत्वा व्याकरोति —फलान्तरे तत्साधनायां वा क्रियायामिति। क्रियार्थित्वस्य फलार्थित्वपूर्वकत्वात् फलान्तर इति प्रथममुक्तम्। मम स्वर्गः स्यादिति फलान्तरार्थित्वम् , मम स्वर्गार्थं ज्योतिष्टोमः स्यादिति क्रियार्थित्वम्। अर्थयते फलादिं प्रार्थयत इत्यर्थी कामी तस्य भावोऽर्थित्वम् ; यथा[तथा] च क्रियाफलार्थित्वं नाम क्रियाफलकामः। तत्र दृष्टान्तमाह—सर्वत इति। सर्वतःसम्प्लुतोदकफले प्राप्ते सति, प्राप्तुमिष्टे सतीति वा तटाकादिक्रियाफलार्थित्वाभाववत्। तटाकादिजलस्नानादिक्रियाजन्यफलार्थित्वाभाववदित्यर्थः। तस्मात् कैवल्यफलार्थिनः पुरुषस्य विदुषः स्वर्गादिफलार्थित्वासम्भवाज्ज्ञाननिष्ठायां दृष्टकैवल्यफलावसानायां प्रवृत्तस्य विदुषः कैवल्यार्थिनः स्वर्गाद्यदृष्टफलक- कर्मानुष्ठानप्रसङ्गः स्वप्नेऽपि न भवेदिति न ज्ञाननिष्ठायाः कर्मसाहित्यमुपपद्यते। ननु कैवल्यार्थिनः कुतः कर्मफलार्थित्वानुपपत्तिरित्यतो २ज्ञात्रादि न कर्मान्तरे व्यापि, दृष्टफलकारकत्वात् , छिदिक्रियाव्यापृतकर्त्रादिवत्। अतः कर्मसहितज्ञाननिष्ठा न सम्भवतीत्युक्तम् । तत्र व्यभिचारमाशङ्कते—भुजीति। भुजिक्रियायां दृष्टफलायां व्यापृतस्य देवदत्तस्याग्निहोत्रादिक्रिया- प्रवृत्तिवत् ज्ञाननिष्ठायां प्रवृत्तस्यापि ज्ञात्रादेः कर्मणि प्रवृत्तिर्भविष्यतीत्यर्थः। तत्रापि क्षुन्निवृत्तिकामस्य भोजने प्रवृत्तिः, स्वर्गार्थिनस्तु अग्निहोत्रादाविति विशिष्टाधिकारभेदान्न व्यभिचारः। सम्यग्दर्शन[र्शिन]श्च कर्मफले नार्थवत्त्व[नार्थित्व]म् ३अवस्तुत्वदर्शनादित्याह— न, कैवल्यफल इति। कर्मसाहित्यं ज्ञाननिष्ठाया दृष्टान्तेन साधयन्नाशङ्कते—भुजीति। भुजिक्रियाया लौकिक् याः, वैदिक् याश्चाग्निहोत्रादिक्रियायाः सहानुष्ठानवदग्निहोत्रादिक्रियाया ज्ञाननिष्ठायाश्च साहित्यमित्यर्थः। भुजिफले तृप्त्याख्ये प्राप्तेऽपि स्वर्गादौ तद्धेतौ चाग्निहोत्रादावर्थित्वदृष्टे- र्युक्तं तत्र साहित्यम्। न तथा मुक्तिफलज्ञाननिष्ठालाभे स्वर्गादौ तद्धेतौ वा कर्मण्यर्थित्वम्। तेन ज्ञाननिष्ठाकर्मणोर्न साहित्यमिति परिहरति —नेत्यादिना। संग्रहवाक् यं विवृणोति—कैवल्येति। ज्ञाने फलवति लब्धे, फलान्तरे तद्धेतौ च नार्थितेत्यत्र दृष्टान्तमाह—सर्वत इति। सर्वत्र सम्प्लुतं व्याप्तमुदकमिति समुद्रोक्तिः। तत्फलं स्नानादि। तस्मिन् प्राप्ते न तडागादिनिर्माणक्रियायां, तदधीने च स्नानादौ कस्यचि- १. ‘सर्वतःसम्प्लुतोदके फले’ इति पा.। २. ज्ञाता ज्ञाननिष्ठायाः कर्ता। ३. अवस्तुत्वं मिथ्यात्वम्।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[९६१]]

नुपपत्तिः। न हि राज्यप्राप्तिफले कर्मणि व्यापृतस्य क्षेत्रमात्रप्राप्तिफले १व्यापारोपपत्तिः, तद्विषयं २वाऽर्थित्वम्। तस्मान्न कर्मणोऽस्ति निःश्रेयससाधनत्वम्। न च ज्ञानकर्मणोः समुच्चितयोः। नापि ज्ञानस्य कैवल्यफलस्य कर्मसाहाय्यापेक्षा, दृष्टान्तान्तरमाह—न हीति। राज्यप्राप्तिः फलं यस्य तस्मिन् कर्मणि युद्धादौ प्रवृत्तस्य क्षत्रियस्य, क्षेत्रमात्रस्य प्राप्तिः फलं यस्य तस्मिन् क्षेत्रमात्रप्राप्तिफले कर्मणि याच्ञादौ व्यापारो न ह्युपपद्यते, तद्विषयं क्षेत्रमात्रविषयमर्थित्वं वा न ह्युपपद्यते यथा, तथा कैवल्यफले ज्ञाने प्रवृत्तस्य विदुषः स्वर्गादिफलककर्मणि प्रवृत्तिः, स्वर्गादिफलविषयमर्थित्वं च नोपपद्यते। राज्यप्राप्तिफले क्षेत्रप्राप्तिफलवत् कैवल्यफले कर्मफलस्यान्तर्भूतत्वादिति भावः। उक्तं हि ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ इतीहैव भगवता। ‘यत्किञ्च प्रजाः साम [साधु] कुर्वन्ति सर्वं तदभिसमेती’ति श्रुतेश्च। ननु क्षेत्रपुरग्रामादीनां सर्वेषां राज्याङ्गत्वादङ्गिनि राज्ये प्राप्ते सति तदङ्गानां क्षेत्रादीनां प्राप्तिः स्यादेवेति राज्यकामिनः क्षत्रियस्य क्षेत्रादिप्राप्त्याशा मा भून्नाम। कथं पुनः कैवल्यार्थिनः स्वर्गादिप्राप्त्याशाभावः? न हि कैवल्यस्य स्वर्गादयोऽङ्गानि, निरस्तनिखिलद्वैतं हि कैवल्यमिति चेत्? नैष दोषः; प्राप्तराज्यस्य क्षेत्रमात्रकामाभाव इव प्राप्तकैवल्यस्य स्वर्गादिकामाभावः इत्येतावत एवेह दृष्टान्त- दार्ष्टान्तिकसाधर्म्यस्य विवक्षितत्वात्। प्राप्तकैवल्यस्य स्वर्गादिप्राप्तिकामाभावे हेतुस्तु स्वर्गादिद्वैतस्याभाव एवेति। यद्वा प्राप्तराज्येन यथा क्षेत्रमात्रमपि प्राप्तमिति न तत्र तस्याशा, तथा प्राप्तकैवल्येन स्वर्गादिकमपि प्राप्तमेवेति न तत्र तस्याशा। कैवल्यस्यात्मस्वरूपत्वाद् आत्मनश्च परिपूर्णत्वेन सर्वव्यापित्वात् स्वर्गादयोऽप्यात्मना नित्याप्ता एवेति कृत्वा येनात्मा प्राप्तः कथं तस्य स्वर्गाद्यप्राप्तिः? अथवा कैवल्यस्यात्मत्वाद् आत्मनश्चेश्वरत्वाद् ईश्वरस्य चावाप्तसमस्तकामत्वाद् येनात्मा प्राप्तस्तेन सर्वे कामाः प्राप्ता एवेति। अथवा कैवल्य- स्यात्मत्वादात्मनश्च ब्रह्मत्वाद् ब्रह्मणश्च स्वर्गादिसर्वजगदाधारत्वाद् येनात्मा प्राप्तस्तेन स्वर्गादिकं सर्वमपि प्राप्तमेवेति। यद्वा कैवल्यस्य ब्रह्मत्वाद् ब्रह्मणश्चैकदेशे सर्वस्य जगतः सत्त्वाद् येन कैवल्यं प्राप्तं तेन स्वर्गादिकं प्राप्तमेवेति। वस्तुतस्तु कैवल्यस्य ब्रह्मत्वाद् ब्रह्मणश्च सर्वात्मत्वाद् येन ब्रह्म प्राप्तं तेन स्वर्गादिकमपि प्राप्तमेव। अत एवैकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय ब्रह्मणि विज्ञाते सति सर्वं विज्ञातं भवतीत्युक्तं श्रुत्या, ब्रह्मकार्यत्वात् सर्वस्य। सर्वस्य स्वरूपं हि ब्रह्म। तस्माद् ब्रह्मप्राप्तौ सर्वप्राप्तिः सिद्धैवेति न दृष्टान्तदार्ष्टान्तिकयोः साधर्म्याभावप्रसङ्गदोषः। तस्मादिति। ज्ञानकर्मणोः समुच्चयानुपपत्तेर्मोक्षस्य कर्मसाधनत्वानुपपत्तेश्चेत्यर्थः। कर्म निःश्रेयससाधनं न भवति। ज्ञानकर्मणोः समुच्चयो निःश्रेयससाधनं न भवति च। ननु कर्मसहित- मेव ज्ञानं कैवल्यफलकं, न केवलज्ञानम् , यथाऽनुष्ठानसापेक्षमेव वेदार्थज्ञानं स्वर्गादिफलकमित्यत आह—नापीति। ज्ञानं कैवल्यं प्रदातुं कर्मरूपं सहायं नापेक्षत इत्यर्थः। सह अयति गच्छतीति सहायः सखा, तस्य भावः कर्म वा साहाय्यं, कर्मणः साहाय्यं कर्म- साहाय्यं तस्यापेक्षा ज्ञानस्य न हीत्यन्वयः। इदमित्थमनेन कर्तव्यमित्येवंरूपस्य वेदार्थज्ञानस्य कर्मानुष्ठानं विना निष्फलत्वाद् युक्ता निरस्तान् पक्षान् सङ्क्षेपतो निगमय(ती)ति—तस्मादित्यादिना। किञ्च सम्यग्ज्ञानस्याविद्यानिवर्तकत्वेन अविद्यामूलेन दर्थित्वम् , तथा प्रकृतेऽपीत्यर्थः। निरतिशयफले ज्ञाने लब्धे सातिशयफले कर्मणि नार्थित्वमित्येतद् दृष्टान्तेन स्फुटयति—न हीति। कर्मणः सातिशयफलत्वमुक्तमुपजीव्य फलितमाह—तस्मान्नेति। ज्ञानकर्मणोः साहित्यासम्भवमपि पूर्वोक्तं निगमयति—न चेति। न हि प्रकाशतमसोरिव मिथो विरुद्धयोस्तयोः साक्षादेकस्मिन् फले साहित्यमित्यर्थः। ननु ज्ञानमेव मोक्षं साधयदात्मसहायत्वेन कर्मापेक्षते, ३करणस्योपकरणापेक्षत्वात् , तत्राह—नापीति। ४ज्ञानमुत्पत्तौ यज्ञाद्यपेक्षमपि नोत्पन्नं फले तदपेक्षम् , स्वोत्पत्तिनान्तरीयकत्वेन १. ‘व्यापार उपपद्यते’ इति पा.। २. ‘चार्थित्वम्’ इति पा.। ३. स्वर्गादिसाधनस्य दर्शपूर्णमासादेः प्रयाजाद्यङ्गापेक्षादर्शनात् मोक्षरूपफलं प्रति करणस्य ज्ञानस्याङ्गत्वेन (उपकरणत्वेन इतिकर्तव्यतया) कर्म संबध्यतामिति शङ्कितुराशयः। ४. ननु ‘सर्वापेक्षा च यज्ञादिश्रुतेः’ इति सूत्रात् ज्ञानस्य यज्ञाद्यपेक्षावगमात् कथं कर्मसाहाय्यनिषेध इत्याशङ्क्य तात्पर्यमाह—ज्ञानमिति। शुद्धचित्तस्य तत्त्वज्ञानोत्पत्तेः चित्तशुद्ध्यर्थं निष्कामकर्मानुष्ठानापेक्षणात् परम्परया ज्ञानं कर्मापेक्षम्। उत्पन्नस्य तु ज्ञानस्य कर्मसहभावो नेति भावः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १८. श्लो. ६६]] [[९६२]]

अविद्यानिवर्तकत्वेन विरोधात्। न हि तमस्तमसो निवर्तकम् । अतः केवलमेव ज्ञानं निःश्रेयससाधनमिति। [मीमांसकपूर्वपक्षः] न, नित्याकरणे प्रत्यवायप्राप्तेः, कैवल्यस्य च नित्यत्वात्। यत् तावत् केवलाज्ज्ञानात् कैवल्यप्राप्तिरित्येतत् , कर्मणा विरोधान्न कर्मणस्तत्सहकारित्वसम्भव इत्याह— अविद्यानिवर्तकत्वेनेति। ननु कर्मणोऽपि शास्त्रीयत्वेन [अ]विद्या- निवर्तकत्वात् स्यादविद्यानिवर्तकज्ञानं प्रति सहकारित्वमित्याशङ्क्याह—न हि तम इति। प्रकाशत्वप्रयुक्ततमोनाशवद् ज्ञानत्वप्रयुक्त एव [अ]ज्ञाननाशः, न शास्त्रीयत्वप्रयुक्त इति भावः। ब्रह्मज्ञानं स्वफले नेतिकर्तव्यापेक्षम् , अविद्यादिनिवर्तक- त्वात् , रज्जुज्ञानवदित्याह—अतः केवलमेवेति। नित्यकर्मानुष्ठानविधिवधं[विरोधं] शङ्कते—न, नित्याकरण इति। वस्तुसंग्रहवाक् यं विवृणोति—यत्तावदित्यादिना। मुक्तेस्तन्मात्रायत्तत्वादित्यर्थः। यदुक्तमितिकर्तव्यत्वेन ज्ञानं कर्मापेक्षमिति, तत्राह—अविद्येति। ज्ञानस्याज्ञाननिवर्तकत्वात् तत्र कर्मणो विरुद्धतया सहकारित्वायोगान्न फले तदपेक्षेत्यर्थः। कर्मणोऽपि ज्ञानवदज्ञाननिवर्तकत्वे कुतो विरुद्धतेत्याशङ्क्याह—न हीति। केवलस्य समुच्चितस्य वा कर्मणो मोक्षे साक्षादनन्वये फलितमाह—अत इति। केवलं ज्ञानं मुक्तिसाधनमित्युक्तम् , तन्निषेधयन्नाशङ्कते—नेत्यादिना। निषेध्यमनूद्य नञर्थमाह—यत्तावदिति। नित्याकरणे कर्मसाहाय्यापेक्षा। ‘अहं ब्रह्मास्मी’त्येवंरूपस्यात्मज्ञानस्य कर्तव्यबोधकत्वाभावाद् अयं घट इति ज्ञानवद् वस्तुस्वरूपसमर्पकत्वात् तावतैव सफलत्वान्न कर्मसाहाय्यापेक्षेति भावः। मास्तु ज्ञानस्य कर्मसाहाय्यं, प्रत्युत कर्मविरोधित्वमप्यस्तीत्याह—अविद्येति। ज्ञानस्याविद्यानिवर्तकत्वेन हेतुना अविद्यामूलककर्मविरोधात्। अविद्यानिवर्तकं हि ज्ञानमविद्यामूलकं कर्म नाशयतीति विरोध एव ज्ञानकर्मणोः। क्व पुनः साहाय्याशङ्का? न चाविद्याया एव विरोधि ज्ञानम् , न तु कर्मण इति वाच्यम् ; कर्मणो भेदप्रत्ययमूलकत्वाद् भेदप्रत्ययस्य च कर्त्रादिलक्षणस्याविद्यामूलकत्वाद् अद्वैतज्ञानेन भेदप्रत्ययस्य तत्कारणाज्ञानस्य च निवृत्तत्वे क्व पुनः कर्मसम्भव इति समूलं कर्म नाशयत्येवाद्वैतज्ञानमिति ज्ञानं कर्मविरोध्येव। ननु यथा ज्ञानमविद्यानिवर्तकत्वेन कैवल्यफलावसायि, एवं कर्मापीति कर्मापि मोक्षसाधनमेवेत्यत आह—न हीति। हिः प्रसिद्धौ। यथा तमस्तमोऽन्तरं न निवर्तयत्येवं कर्म नाज्ञाननिवर्तकम्। सूर्याभाव- कृतमन्धकारं दीपाभावकृतोऽन्धकारो यथा न निवर्तयति तथा कर्माज्ञानं न निवर्तयति, तमसोरिव कर्माज्ञानयोर्विरोधाभावात्; प्रत्युता- ज्ञानमूलत्वाच्च कर्मणः। न ह्यन्धकारमूलः पिशाचादिभ्रमोऽन्धकारं निवर्तयति। एवमज्ञानमूलं कर्माप्यज्ञानं न निवर्तयति। न च रामानुजोक्तरीत्या ज्ञानपूर्वकं कर्माज्ञानं निवर्तयतीति वाच्यम् ; कर्मणो ज्ञानपूर्वकत्वासम्भवात्। निष्क्रियात्मस्वरूपज्ञानस्य कर्मप्रवृत्ति- भञ्जकत्वान्न ह्यात्मज्ञानपूर्वकं कर्म भवेत्। न च कर्त्रात्मज्ञानपूर्वकं कर्मेति वाच्यम् ; कर्ताऽहमित्यात्मज्ञानस्य भ्रमत्वेन प्रमात्वाभावात्। तादृशभ्रमज्ञानस्याज्ञानमूलकत्वेनाज्ञानानिवर्तकत्वात् तेन कैवल्याभावाच्चेति। उपसंहरति सिद्धान्ती स्वमतम्—अत इति। कर्मणो मोक्षसाधनत्वाभावात् समुच्चयस्यानुपपन्नत्वाच्चेत्यर्थः। पक्षद्वयस्य दूषितत्वादिति भावः। केवलमिति। कर्मानपेक्ष-मित्यर्थः। ज्ञानमेव निःश्रेयससाधनम्। एवकारान्न कर्मादिकमिति भावः। अत्राह मीमांसकः पूर्वपक्षं—नन्विति[नेति]। यत्तावत् केवलज्ञानात् कैवल्यप्राप्तिरिति, तदेतदसत् , कुतः? कैवल्यस्य नित्यत्वात्। यदि नित्यं कैवल्यं ज्ञानेनाप्येत, तर्हि प्राप्यं तत् कैवल्यमनित्यमेव स्यात्। निर्विकारं हि वस्तु नित्यम् , प्राप्यत्वं च विकार एवेति कथं प्राप्यत्वात् सविकारं कैवल्यं नित्यं स्यात्? न कथमपीति कृत्वा ज्ञानेन कैवल्यं प्राप्यत इत्युक्तमयुक्तम्। मास्तु सर्वकर्म- संन्यासपूर्वकज्ञानात् कैवल्यम् , प्रत्युत नरकपातोऽपि स्यादित्याह—नित्याकरणादिति। तदेव स्वयं विवृणोति—नित्यानामिति। यतः कर्मसंन्यासात् प्रत्यवायः स्यात् , यतश्च नित्यत्वात् कैवल्यं ज्ञानेन नाप्येत, तस्मात् केवलज्ञानात् कैवल्यप्राप्तिरित्यद्वैतिनोक्तमयुक्तम् भाष्यार्कप्रकाशः

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या

[[९६३]]

इत्यर्थः। अत्र कैवल्यस्य नित्याप्तत्वाच्चेत्यपि हेत्वन्तरं गम्यते। नित्यत्वादित्यनेनार्थात् सिध्यतीति वा। ततश्च नित्याप्तस्य कैवल्यस्य ज्ञानप्राप्यत्वकथनं चायुक्तमिति भावः। ननु यद्येवं नित्याकरणात् प्रत्यवायः, नित्यकरणाच्च प्राजापत्यलोकप्राप्त्यादिलक्षणो बन्धः, तर्हि उभयथाऽप्यानर्थक् यात् कर्मभ्यो मोक्षो नास्ति; ज्ञानान्मोक्षप्राप्तिस्तु दूषितेति हेतोः पुरुषस्यानिर्मोक्षो मोक्षाभाव एव प्राप्त इति चेत्? एष मोक्षाभावरूपो दोषो न नास्ति। कुतः? नित्यत्वादिति। यदि कर्मभ्यो मोक्षः स्यात् तर्हि कर्मकृतो मोक्षोऽनित्य एव स्यात् घटवत् , यत्कृतकं तदनित्यमिति व्याप्तिदर्शनात्। नित्यो हि मोक्षः। अतः स कथं कर्मभ्यो ज्ञानाद्वा भवितुमर्हति? न हि नित्यस्य मोक्षस्याभावो वक्तुं शक् यते, नित्यस्य सत्यत्वेन सत्यस्य सत्त्वेन च सतो मोक्षस्याभावायोगात्। उक्तं हि ‘नासतो विद्यते भावो नाभावो विद्यते सतः’ इति। ननु भवत्वेवं नित्यो मोक्षः, कथं पुनस्तत्सिद्धिर्मुमुक्षोः? अत आह—नित्यानामिति। सर्वकर्मसंन्यासान्नित्यानामकरणे या प्रत्यवायप्राप्तिः दर्शिता केवलज्ञानिनि, सा कर्मिणो न भवति। कुतः? नित्यानां कर्माणामनुष्ठानात्। एतेन मुमुक्षुणा पुरुषेण नित्यं कर्म कार्यमिति सिद्धम्। अत एव श्रीकृष्णेनापि ‘नियतं कुरु कर्म त्वम्’ इत्युक्तमिति भावः। प्रतिषिद्धं कर्म मुमुक्षुणा न कार्यमित्याह— प्रतिषिद्धस्येति। अनिष्टशरीराणि यातनापश्वादिशरीराणि। काम्यान्यपि कर्माणि न कर्तव्यानीत्याह—काम्यानां चेति। अनिष्टपश्वादि- शरीरवद् इष्टदेवादिशरीराणामपि सुखदुःखादिजननद्वारा बन्धकत्वादिति भावः। एवं कृते सति किं भवतीत्यत आह—वर्तमानेति। प्रारब्धकर्मणो भोगेन क्षयादिति भावः। अस्मिन् वर्तमाने देहे पतिते मृते सतीत्यर्थः। कारणाभावादिति। सुकृतस्य दुष्कृतस्य वा अभावादित्यर्थः। ‘पुण्यः पुण्येने’ति शास्त्रादिति भावः। ननु कथं कारणाभावः? धर्माधर्मानुष्ठानहेतुभूतरागादिसत्त्वेन धर्माधर्माकरणा- नुपपत्तेः, अत आह—आत्मन इति। आत्मनो मनसो ये रागादयस्तेषामकरणे सति। आत्मन इत्यस्य कैवल्यमित्यनेनान्वय इति वा, तत्पक्षे आत्मनः स्वस्य मुमुक्षोरित्यर्थः। स्वरूपावस्थानं तल्लक्षणमित्यर्थः। कैवल्यम् अयत्नसिद्धम् , प्रयत्नं विनैव सिध्यति। अतो न

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

तदसत्। यतो नित्यानां कर्मणां श्रुत्युक्तानामकरणे प्रत्यवायो नरकादिप्राप्तिलक्षणः स्यात्। नन्वेवं तर्हि कर्मभ्यो मोक्षो नास्तीत्यनिर्मोक्ष एव। नैष दोषः; नित्यत्वान्मोक्षस्य। नित्यानां कर्मणामनुष्ठानात् प्रत्यवायस्याप्राप्तिः। प्रतिषिद्धस्य चाकरणादनिष्टशरीरानुपपत्तिः। काम्यानां च वर्जनादिष्टशरीरानुपपत्तिः। वर्तमानशरीरारम्भकस्य च कर्मणः फलोप- भोगक्षये पतितेऽस्मिञ्शरीरे , देहान्तरोत्पत्तौ च कारणाभावाद् आत्मनो रागादीनां चाकरणात् स्वरूपावस्थानमेव प्रत्यवायप्राप्तेरिति हेतुं प्रपञ्चयति—यत इति। ज्ञानवतोऽपि नित्यानुष्ठानस्यावश्यकत्वान्न केवलज्ञानस्य कैवल्यहेतुतेत्यर्थः। कैवल्यस्य च नित्यत्वादित्यस्य व्यावर्त्यं दर्शयति—नन्विति। यदि नित्यनैमित्तिककर्माणि श्रौतान्यकरणे प्रत्यवायकारीण्यवश्यानुष्ठेयानि, एवं तर्हि तेभ्यः समुच्चितेभ्योऽसमुच्चितेभ्यश्च मोक्षो नेत्युक्तत्वात् केवलज्ञानस्य चातद्धेतुत्वादनिबन्धना मुक्तिर्न सिध्येदित्यर्थः। कैवल्यस्य चेत्यादि व्याकुर्वन्ननिर्मोक्षप्रसङ्गं प्रत्यादिशति—नैष दोष इति। मुक्तेर्नित्यत्वेनायत्नसिद्धेर्न तदभावशङ्केत्युक्तं प्रपञ्चयति—नित्यानामिति। काम्य- कर्मवशादिष्टशरीरापत्तिं शङ्कित्वोक्तम्—काम्यानां चेति। आरब्धकर्मवशात् तर्हि देहान्तरम् , नेत्याह—वर्तमानेति। तर्हि देहान्तरं शेषकर्मणा स्यादित्याशङ्क्य , कर्माशयस्यैकभविकत्वान्नेत्याह—पतितेऽस्मिन्निति। रागादिना कर्मान्तरम् , ततो देहान्तरं च भविष्यति कैवल्यस्य नित्यत्वादिति वाक्यभागं शङ्कापूर्वकं व्याचष्टे—नन्वेवमित्यादिना। केवलज्ञानान्मोक्षो नास्तीति त्वयोच्यते चेत् , तर्हि कर्मभ्यो मोक्षो नास्तीति मयाऽप्युक्तमेव। अतोऽनिर्मोक्ष एव प्रसज्यते। अतो मोक्षसिद्ध्यन्यथानुपपत्त्या कर्मविधेरज्ञ- विषयत्वान्नानुमानबाधकत्वमिति भावः। मोक्षस्य प्रकारान्तरेणापि सिद्धत्वान्न ज्ञानस्य तत्साधनत्वं वक्तव्यमित्याह— नैष दोष इति। प्रकारान्तरं दर्शयति— नित्यानामित्यादिना। पतितेऽस्मिन् शरीरे कैवल्यमित्यन्वयः। ननु सञ्चितकर्मवशाद्

[[अ. १८. श्लो. ६६]] [[९६४]]

कैवल्यमित्ययत्नसिद्धं कैवल्यमिति। अतिक्रान्तानेकजन्मान्तरकृतस्य स्वर्गनरकादिप्राप्तिफलस्यानारब्धकार्यस्योप- भोगानुपपत्तेः क्षयाभाव इति चेत्? न, नित्यकर्मानुष्ठानायासदुःखोपभोगस्य तत्फलोपभोगत्वोपपत्तेः। प्रायश्चित्तवद्वा पूर्वोपात्तदुरितक्षयार्थत्वान्नित्यकर्मणाम् । आरब्धानां चोपभोगेनैव कर्मणां क्षीणत्वाद् , अपूर्वाणां च कर्मणामनारम्भे मोक्षस्य यत्नसाध्यत्वप्रयुक्तानित्यत्वप्रसङ्गः। तस्मान्मुमुक्षुणा रागादिप्रहाणपूर्वकं नित्यकर्मैव कर्तव्यम् , तथा सति दर्शितविधया मोक्ष- सिद्धेरिति। ननु नैवं मोक्षः सिध्यति। कुतः? अतिक्रान्तेति। अतिक्रान्तेष्वनेकेषु जन्मान्तरेषु कृतस्य, स्वर्गनरकादिप्राप्तिः फलं यस्य तस्य, सुकृतदुष्कृतात्मकस्येत्यर्थः। अनारब्धं कार्यं देहादिरूपं येन तस्य सञ्चितस्येत्यर्थः। कर्मण उपभोगानुपपत्तेः उपभोगाभावाद्धेतोः क्षयाभाव इति मोक्षासिद्धौ हेतुः। प्रकृतशरीरत्यागानन्तरं पुनः शरीरान्तरपरिग्रहाभावे सति हि स्वरूपावस्थानलक्षणं कैवल्यमात्मनः सम्भवति, स तु शरीरान्तरपरिग्रहाभावो नित्यकर्मानुष्ठानमात्रेण न सिध्यति। कृत-विप्रणाशस्यायुक्तत्वेन यथा प्रारब्धकर्मण उपभोगेन क्षयस्तथा सञ्चितकर्मणामप्युपभोगं विना क्षयानुपपत्तेः, सञ्चितकर्मफलोपभोगार्थमनन्तानि शरीरान्तराणि परिग्राह्याण्येव कर्मिणा। नित्यकर्मानुष्ठानं हि प्रत्यवायाप्राप्तिं करोति, न तु सञ्चितकर्मक्षयम्। न चायं दोषः समानो ज्ञानान्मोक्षवादिनोऽपीति वाच्यम् ; ज्ञानस्य सर्वसञ्चितकर्मतूलराशिदहने वह्निप्रायत्वात्। उक्तं हि भगवता ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन’ इति। तस्माच्छरीरान्तर- परिग्रहस्यावर्जनीयत्वान्न नित्यानुष्ठानान्मोक्ष इति चेन्न। हेतुमाह—नित्येति। तच्छब्दस्य सञ्चितकर्माण्यर्थः। उपभोगेन क्षपयितव्यानां सञ्चितकर्मणां यः फलोपभोगः स नित्यकर्मानुष्ठानजन्यायासदुःखोऽपि भोग एव। ततश्च नित्यकर्मानुष्ठानायासदुःखमनुभूय सञ्चित- कर्माणि क्षपयितव्यानीत्यर्थः। नित्यकर्मानुष्ठानप्रयुक्तायासदुःखानुभवात् सञ्चितकर्मणां क्षय इति भावः। नित्यकर्मानुष्ठानप्रयुक्तायास- दुःखोपभोगस्य तत्फलोपभोगत्वमुपपद्यत इत्यन्वयार्थः। उपभोगं विनापि सञ्चितकर्मणां क्षयः संभवति, नित्यकर्मानुष्ठानादित्याह— प्रायश्चित्तवद्वेति। यथेह जन्मनि प्रमादादिना कृतानां पापकर्मणां तप्तकृच्छ्रादिप्रायश्चित्तैस्तत्फलोपभोगं विनापि क्षयः, एवं जन्मान्तर- कृतानामपि कर्मणां विविधानां नित्यकर्मणा क्षयः सम्भवति। नित्यकर्म हि पूर्वोपचितदुरितक्षयार्थं पूर्वोपचितानां जन्मान्तरार्जितानां देहान्तरोत्पत्तिरपि भविष्यतीत्याशङ्क्याह—देहान्तरोत्पत्तौ चेति। मरणे अभिव्यक्तानां सर्वेषामेव कर्मणां देहान्तरारम्भकत्वा- योगात् ना?शरीरारम्भकत्वात् पुण्यारब्धे च मुमुक्षुदेहे धर्माद्यप्रसङ्गात् नित्यानुष्ठानाच्चानारब्धफलदुरितक्षयसम्भवात् नास्त्य- नुपभुक्तफलं कर्मेत्याह—न, नित्यकर्मेत्यादिना। इत्याशङ्क्याह— रागादीनां चेति। आत्मनः स्वरूपावस्थानमिति सम्बन्धः। अतीतासंख्यजन्मभेदेष्वर्जितस्य कर्मणो नानाफलस्या- नारब्धस्य भोगेन विनाऽक्षयात् ततो देहान्तरारम्भादैकभविकत्वस्याप्रामाणिकत्वान्न मुक्तेरयत्नसिद्धतेति चोदयति—अतिक्रान्तेति। नोक्तकर्मनिमित्तं देहान्तरं शङ्कितव्यमित्याह—नेति। नित्यनैमित्तिककर्माणि श्रौतान्यवश्यमनुष्ठेयानि; तदनुष्ठाने च महानायासः; ततो दुःखोपभोगः; तस्योक्तानारब्धकर्मफलभोगत्वोपगमान्न ततो देहान्तरमित्याह—नित्येति। नित्यादिना दुरितनिवृत्तावपि, अविरोधान्न सुकृतनिवृत्तिः, ततो देहान्तरमित्याशङ्क्य सुकृतस्य नित्यादेरन्यत्वेऽनारब्धत्वे च १न्यायविरुद्धस्य तस्यासिद्धत्वात् ततो देहान्तरायोगात् , नित्यादेरनन्यत्वे च न तस्य फलान्तरमिति मत्वा, यथा प्रायश्चित्तमुपात्तदुरितनिबर्हणार्थं न फलान्तरापेक्षम् , तथेदं सर्वमपि नित्यादिकर्मोपात्तपापनिराकरणार्थं तस्मिन्नेव पर्यवस्यन्न देहान्तरारम्भकमिति पक्षान्तरमाह—प्रायश्चित्तवदिति। तथापि प्रारब्धवशादेव देहान्तरं शङ्क्यते, नानाजन्मारम्भकाणामपि तेषां २यावदधिकारन्यायेन सम्भवादित्याशङ्क्याह—आरब्धानां चेति। पूर्वार्जितकर्मणामेवं क्षीणत्वेऽपि कानिचिदपूर्वकर्माणि देहान्तरमारभेरन्नित्याशङ्क्याह—अपूर्वाणां चेति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. प्राग् मरणात् प्रबलेनारब्धफलेन कर्मणा प्रतिबन्धात् न संचितानां फलौन्मुख्यम्। मरणकाले प्रारब्धकर्मनाशाच्च प्रतिबन्धकविगमे स्थितानां सर्वेषामेव तेषां शरीरारम्भकत्वमिति न्यायः।(द्र.ब्र.सू. ३-१-८) २. तत्र हि सकृत्प्रवृत्तस्य प्रारब्धकर्मणो नानाजन्मारम्भकत्वमपि क्वचित् स्वीकृतमिति भावः।(द्र.ब्र.सू. ३-३-३२)

[[९६५]]

दुरितानां क्षयो नाशोऽर्थः फलं यस्य तत् तथोक्तम्। अत एव ‘उपात्तदुरितक्षयार्थ’मिति सन्ध्यावन्दनादिनित्यकर्मसु कर्मिणः सङ्कल्प- यन्तीति। प्रायश्चित्तेन तुल्यं प्रायश्चित्तवदिति ‘तेन तुल्यं क्रिया चेद्वति’रिति वतिः। यथा प्रायश्चित्तमुपचितदुरितक्षयार्थं तथा नित्य- कर्मापीत्यर्थः। प्रायश्चित्तनित्यकर्मणोस्त्वयं विशेषः—इहजन्मोपचितदुरितक्षयार्थं प्रायश्चित्तम् , जन्मान्तरोपचितदुरितक्षयार्थं नित्य- कर्मेति। वस्तुतस्तु नित्यकर्मणोऽप्यैहिकदुरितोपक्षयार्थत्वमप्यस्तीति बोध्यम् ‘यदह्नात्कुरुते पापं तदह्नात्प्रतिमुच्यते’ इत्यादिश्रुतेः। स्वमतं निगमयति—आरब्धानां चेति। जन्मान्तरकृतानामित्यर्थः। कर्मणां प्रारब्धसञ्चितोभयात्मकानामित्यर्थः। उपभोगेनैव तत्तत्फलानुभवेनैव क्षीणत्वात् , सञ्चितानां नित्यकर्मभिः क्षीणत्वाच्चेति बोध्यम्। अपूर्वाणाम् आगामिनामित्यर्थः। कर्मणां काम्यानां प्रतिषिद्धानां चेत्यर्थः। अनारम्भे अकरणे सति कैवल्यं भवति मुमुक्षोरिति शेषः। तस्मात् कैवल्यार्थिना नित्यकर्मैकमेव कार्यमिति। एवं परमतमुपन्यस्य दूषयितुमारभते सिद्धान्ती—नेत्यादिना। नैवं नित्यकर्मानुष्ठानं मोक्षसाधनम् , कुतः? श्रुत्यादि- विरोधादित्याह—तमेवमिति। तं परमात्मानम् एवं प्रत्यगभिन्नत्वेन उक्तरीत्येति वा, विदित्वा ज्ञात्वा, विद्वानिति शेषः। मृत्युं संसारम् अत्येति अतिगच्छति; अयनाय मोक्षाय, अन्यो ज्ञानादतिरिक्तः पन्थाः न नास्ति। ‘नान्यः पन्था विद्यतेऽयनाय’ इत्यस्याः अर्थं स्वय- मेवाह भाष्यकृत् ‘अन्यः पन्था मोक्षाय न विद्यते’ इति। ‘यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तदा देवमविज्ञाय दुःखस्यान्तो भविष्यती’ति श्रुतिरप्यमुमेवार्थमाहेत्याह—चर्मवदिति। चर्मण इवाकाशस्य वेष्टनं यथा न सम्भवति, तद्वदविदुषोऽनात्मज्ञस्य मोक्षो न सम्भवतीत्येतदर्थप्रतिपादकश्रुतेश्चेत्यर्थः। पुराणरूपां स्मृतिमाह—ज्ञानादिति। युक्तिमाह—अनारब्धेति। अनारब्धफलानामिति। सञ्चि- तानामित्यर्थः। पुण्यानामिति। दुरितानां प्रायश्चित्तैरिव नित्यकर्मभिः क्षीणत्वेऽपि नित्यकर्मानुष्ठानायासदुःखानुभवस्य दुरितफलत्वेन तदुपभोगेन वा दुरितानां क्षीणत्वेऽपि पुण्यानामुपभोगं विना क्षयो नोपपद्यत इति भावः। नन्वनारब्धफलानां पुण्यानां सत्त्वमेवासिद्धम् , अत आह—यथेति। अनारब्धफलानि दुरितानि सन्तीति यथा त्वमभ्युपैषि, तथा तादृशानि पुण्यान्यपि सन्तीत्यभ्युपगच्छ। दुष्कृतान्ये- प्रकारान्तरेण मोक्षकल्पनं श्रुतिविरुद्धमित्याह—तमेव विदित्वेति। इतश्च नायत्नसिद्धं कैवल्यमित्याह—अनारब्ध- फलानामिति। देवताधिकरणन्यायेन मन्त्रार्थवादादीनां स्वार्थे प्रामाण्यात् तत्प्रतिपाद्यस्वर्गफलानां पुण्यानां नात्र क्षयः सम्भवतीत्यर्थः। मुमुक्षोर्न सन्त्येव तादृशानि पुण्यानीति न वाच्यम्। निश्चयकारणाभावादित्याह—यथेत्यादिना। किञ्च विना ज्ञानं कर्मणैव मुक्तिरिति पक्षं श्रुत्यवष्टम्भेन निराचष्टे—नेत्यादिना। विद्यतेऽयनायेति श्रुतेरिति सम्बन्धः। एवकारार्थं विवृण्वन् नेत्यादिभागं व्याकरोति—अन्य इति। ‘यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति॥’ इति श्रुतिमर्थतोऽनुवदति—चर्मवदिति। श्रौतार्थे स्मृतिं संवादयति—ज्ञानादिति। किञ्च त्वदीयन्यायस्यानुग्राह्यमानहीनत्वेनाभासतया पुण्यकर्मणामनारब्धफलानां क्षयाभावे देहान्तरारम्भसम्भवान्न ज्ञानं विना मुक्तिरित्याह—अनारब्धेति। तथाविधानां कर्मणां नास्ति सम्भावनेत्याशङ्क्याह—यथेति। अनारब्धफलपुण्यकर्मभावेऽपि कथं मोक्षानुपपत्तिरिति? तत्राह—तेषां चेति। इतश्च कर्मक्षयानुपपत्त्या

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अयत्नसिद्धं कैवल्यमिति। [सिद्धान्तः] न, ‘तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’(श्वे.उ.३.८) इति विद्याया अन्यः पन्था मोक्षाय न विद्यत इति श्रुतेः, चर्मवदाकाशवेष्टनासम्भववद् अविदुषो मोक्षासम्भवश्रुतेः, ‘ज्ञानात् कैवल्यमाप्नोति’ इति च पुराणस्मृतेः, अनारब्धफलानां पुण्यानां कर्मणां क्षयानुपपत्तेश्च। यथा पूर्वोपात्तानां दुरितानामनारब्धफलानां सम्भवः,

[[अ. १८. श्लो. ६६]] [[९६६]]

तथा पुण्यानामप्यनारब्धफलानां स्यात् सम्भवः। तेषां च देहान्तरमकृत्वा क्षयानुपपत्तौ मोक्षानुपपत्तिः। धर्माधर्म- हेतूनां च रागद्वेषमोहानाम् अन्यत्रात्मज्ञानादुच्छेदानुपपत्तेः धर्माधर्मोच्छेदानुपपत्तिः। नित्यानां च कर्मणां पुण्यलोक- फलश्रुतेः, ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः’ (गौ.ध.सू.११.२९) इत्यादिस्मृतेश्च कर्मक्षयानुपपत्तिः। ये त्वाहुः— नित्यानि कर्माणि दुःखरूपत्वात् पूर्वकृतदुरितकर्मणां फलमेव, न तु तेषां स्वरूपव्यतिरेकेणान्यत् फलमस्ति, अश्रुतत्वात् , जीवनादिनिमित्ते च विधानाद् इति। न , अप्रवृत्तानां कर्मणां फलदानासम्भवात् , दुःखफल- वानेन जन्मान्तरेषु सञ्चितानि, न तु सुकृतानीति निश्चेतुमशक् यत्वादिति। एवं देहान्तरापत्तौ च कारणाभावादित्येतद् दूषयित्वा रागा- दीनां चाकरणे इत्येतद् दूषयति—धर्मेति। धर्माधर्मयोर्हेतूनां रागद्वेषमोहानाम् आत्मज्ञानादन्यत्र आत्मज्ञानं विनेत्यर्थः। उच्छेदस्य नाशस्यानुपपत्तेः। आत्मज्ञानवानेव रागद्वेषादीनकृत्वा तिष्ठति, न त्वनात्मवित्। ज्ञानं विनाऽन्येन केनापि कारणेन रागद्वेषमोहनाशा- सम्भवादिति। एवं रागद्वेषादीनामनाशे तत्कार्ययोर्धर्माधर्मयोरुच्छेदानुपपत्तिः। सतोश्च धर्माधर्मयोस्तत्फलोपभोगाय शरीरान्तरपरिग्रह आवश्यक इति मोक्षानुपपत्तिरिति भावः। अथ यदुक्तं नित्यकर्मकरणात् प्रत्यवायाप्राप्त्या मोक्ष इति, तद् दूषयति—नित्यानामिति। नित्यकर्मानुष्ठानस्य अकरणे प्रत्यवायरूपदोषाप्राप्तिरेव न फलं, किन्तु पुण्यफलमप्यस्तीति श्रूयते स्मर्यते च। ततश्च श्रुतिस्मृतिप्रमाण- सिद्धस्य नित्यकर्मानुष्ठानजन्यपुण्यफलस्य देहान्तरेऽवश्यमनुभोक्तव्यत्वात् तदनुभवं विना नित्यकर्मणः कृतस्य क्षयानुपपत्तेर्नित्यकर्म- कर्तुर्देहान्तरप्राप्तिरवर्जनीयेति मोक्षानुपपत्तिरिति भावः। ननु नित्यकर्मानुष्ठानान्न पुण्यफलम् , किन्तु नित्यकर्मानुष्ठानमेव जन्मान्तरकृतदुरितफलम् , आयासदुःखरूपत्वादित्याह— ये त्विति। फलमेवेत्येवकारार्थमाह—न त्विति। तेषामिति। नित्यकर्मणामित्यर्थः। अन्यत् फलं न त्वस्तीत्यन्वयः। तत्र हेतुमाह— अश्रुतत्वादिति। ‘ज्योतिष्टोमेन स्वर्गकामो यजेते’तिवद् एतत्काम इदं नित्यं कर्म कुर्यादित्यश्रवणादिति भावः। ब्राह्मणस्य यजनादयः षट् नित्यकर्माणीत्युक्तम् , तत्र ‘याजनाध्यापनप्रतिग्रहाः जीवनार्थं विहिताः’ इति वृद्धवचनादाह१— जीवनादिनिमित्ते चेति। मोक्षानुपपत्तिरित्याह— धर्मेति। ‘कर्मणा पितृलोकः’ इति श्रुतिमाश्रित्य कर्माक्षये हेत्वन्तरमाह—नित्यानामिति। स्मृत्याऽपि यथोक्तमर्थं समर्थयति—वर्णा इति। प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टजात्यादिभाजो जन्म प्रतिपद्यन्त इत्येतदादिपदार्थः। यत्तु नित्यानुष्ठानायासदुःखभोगस्य तत्फलभोगत्वमिति, तदिदानीमनुवदति— ये त्विति। नित्यान्यनुष्ठीयमानानि आयास- पर्यन्तानीति शेषः। तथापि नित्यानां काम्यानामिव स्वरूपातिरिक्तं फलमाशङ्क्य विध्युद्देशे तदश्रवणान्मैवमित्याह—न त्विति। विध्युद्देशे फलाश्रुतौ तत्कामनाया निमित्तस्याभावान्न नित्यानि विधीयेरन्नित्याशङ्क्याह— जीवनादीति। न नित्यानां विध्यसिद्धिरिति शेषः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

मुमुक्षुणा काम्यं प्रतिषिद्धं च न क्रियत इत्यपि नियन्तुं न शक्यते, अनात्मज्ञस्य रागाद्युच्छेदासम्भवादित्याह—धर्माधर्महेतूनां चेति। ‘सर्व एते पुण्यलोका भवन्ती’त्यादिश्रुतेः नित्यकर्मणां पुण्यलोकप्राप्तिः फलम्। अतो न पतितेऽस्मिन् शरीरे कैवल्य- मवश्यम्भावीत्यर्थः। ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण जन्म प्रतिपद्यन्ते’ इति गौतमसूत्रादपि कर्मशेषसद्भावावगमान्नैकस्मिन् देहे सर्वकर्मक्षयः संभवतीत्यर्थः। पराभिप्रायमनुवदति—ये त्वाहुरिति। अश्रुतत्वादिति। विधिवाक् ये फलश्रवणाभावात् ,‘यावज्जीवमग्निहोत्रं जुहोती- त्यादिना च जीवनादिनिमित्तेनैव विधानात् , ‘सर्व एते पुण्यलोका भवन्ती’त्यादेरर्थवादमात्रत्वान्नास्त्यदृष्टफलं नित्यानाम्। १. वस्तुतस्तु याजनादीनां जीवनार्थत्वस्य रागप्राप्तत्वात् , तत्र विध्ययोगात् ‘यावज्जीवमग्निहोत्रं जुहोति’ इत्यादिना जीवने निमित्ते विधानादिति व्याख्यानं युक्तम्। नैमित्तिकस्याप्यकरणे प्रत्यवायात् तद्भयादेव निमित्तवतः प्रवृत्त्युपपत्तेः नान्यत् फलं कल्पनीयमिति भावः।

[[९६७]]

विशेषानुपपत्तिश्च स्यात्। यदुक्तं पूर्वजन्मकृतदुरितानां कर्मणां फलं नित्यकर्मानुष्ठानायासदुःखं भुज्यत इति, तदसत्। न हि मरणकाले फलदानायानङ्कुरीभूतस्य कर्मणः फलम् अन्यकर्मारब्धे जन्मन्युपभुज्यत इत्युपपत्तिः। अन्यथा स्वर्गफलोपभोगायाग्निहोत्रादिकर्मारब्धे जन्मनि नरक(१कर्म)फलोपभोगानुपपत्तिर्न स्यात्। तस्य दुरितदुःखविशेष- तस्माज्जीवनार्थं विहितानां नित्यकर्मणां जीवनातिरिक्तफलकल्पनमयुक्तमिति भावः। आदिपदात् तत्तद्वर्णविशेषनिर्धारणं गृह्यते। तथा च यजनाध्ययनदानानि त्रीणि नित्यकर्माणि ब्राह्मणस्य ब्राह्मणवर्णविशेषनिर्धारणार्थं विहितानीति कृत्वा न तेषामपि फलान्तरं कल्प- यितुं शक् यमिति। परिहरति—नेति। किं त्वं नित्यकर्माणि प्रारब्धकर्मफलभूतानीति ब्रूषे, उत सञ्चितकर्मफलानीति? आद्ये, त्वदिष्टा- सिद्धिः। द्वितीये दोषमाह—अप्रवृत्तानामिति। अप्रवृत्तानां फलप्रदानार्थमप्रवृत्तानां सञ्चितानामित्यर्थः। अयमेव हि सञ्चितप्रारब्धयो- र्भेदः—जन्मान्तरकृतं फलदानाय प्रवृत्तं यत् तत् प्रारब्धम् , यदप्रवृत्तं तत् सञ्चितमिति। तस्मात् सञ्चितानां कर्मणां प्रकृतजन्मनि फलदानं नैव सम्भवति। सति च तदसम्भवे सञ्चितकर्मफलमेवायं नित्यकर्मानुष्ठानायासदुःखविशेष इति कथमुच्यते? तस्मात् सञ्चित- कर्मणां दुःखफलविशेषस्यानुपपत्तिः स्यात्। इदमेवाप्रवृत्तानामिति संग्रहवाक् यं विवृणोति—यदुक्तमित्यादिना। दुरितानां फलं दुःखं भुज्यत इति यदुक्तं तदसदित्यन्वयः। अनङ्कुरीभूतस्येति। अनारब्धस्येत्यर्थः। अन्यकर्मेति। प्रारब्धकर्मेत्यर्थः। उपभुज्यत इत्यत्रोप- पत्तिर्न हीत्यन्वयः। येन कर्मणा यज्जन्मारब्धं तज्जन्मनि तत्कर्मणः फलमेवानुभवितव्यम् , न त्वन्यकर्मफलमिति नियमादिति भावः। उक्तनियमास्वीकारे को दोषः? तत्राह—अन्यथेति। जन्मनीति। देवदेह इत्यर्थः। ३उपपत्तिः आपत्तिरित्यर्थः। अयं भावः—केनचिद् अग्निहोत्रादिधर्मः कृतः, हिंसास्तेयादिवदधर्मश्च कृतः। तत्र धर्मेण स्वर्गप्राप्तिः, अधर्मेण नरकप्राप्तिश्च क्रमेण भवितुमर्हति, न तु युगपदेव, विरोधात्। एवं सति फलदानायाङ्कुरीभूताद् धर्मात् तस्य स्वर्गफलोपभोगार्हदेवजन्मनि सति तत्रैवाधर्मफलं नरकमपि तेन भुज्येत। अन्यकर्मारब्धेऽपि जन्मन्यन्यकर्मफलानुभवः इत्यभ्युपगमात्। न हि स्वर्गिणो नरकानुभवः सम्भवति, स्वर्गनरकयोः सुखदुःखयोर्विरोधात्। तस्मादुक्तनियमोऽवश्यं स्वीकर्तव्यः इति। किञ्च नित्यकर्मानुष्ठानायाससिद्धं दुःखं किं पूर्वकृतदुरितसामान्यफलमुत दुरितविशेषफलम्? नाद्यः, सर्वेषां ब्रह्महत्यास्वर्णस्तेयपरदारगमनादिपातकानाम् अविशेषेण नित्यकर्मा- नुष्ठानायासदुःखमेव फलमिति कल्पनस्यायुक्तत्वादप्रमाणत्वाच्च। न द्वितीयः, अस्य दुरितविशेषस्येदं नित्यकर्मानुष्ठानदुःखं फलमिति अनुभाषितं दूषयति—नेत्यादिना। तदेव विवृण्वन् निषेध्यमनूद्य नञर्थमाह—यदुक्तमिति। अप्रवृत्तानामित्यादिहेतुं प्रपञ्चयति—न हीति। कर्मान्तरारब्धेऽपि देहे दुरितफलं नित्यानुष्ठानायासदुःखं भुज्यताम् , काऽनुपपत्तिरित्याशङ्क्याह—अन्यथेति। यदुक्तं दुःखफलविशेषा- नुपपत्तिश्च स्यादिति, तदुपपादयति—तस्येति। सम्भावितानि तावदनन्तानि सञ्चितानि दुरितानि; तानि च नानादुःखफलानि; यदि तानि नित्यानुष्ठानायासरूपं [यद्]दुःखं तन्मात्रफलानि कल्प्येरन् , तदा तेष्वेवं कल्प्यमानेषु सत्सु नित्यस्यानुष्ठितस्य २आयासमासादयतो यो दुरितकृतो दुःखविशेषो न तत् फलम् , दुरितफलानां दुःखानां बहुत्वात्। अतो नित्यं कर्म यथाविशेषितं दुरितकृतदुःखविशेषफलकम्

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. क्वचिन्न। २. आयासं जनयतः इत्यर्थः। ३. भोगानुपपत्तिरित्यत्र प्रतियोग्युपपत्तिपदार्थोऽयम्। तथा च स्वर्गेऽपि नरकफलभोगः आपद्येतेति भाष्यार्थः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

ततो निष्फलविधानान्यथानुपपत्त्या पूर्वकृतदुरितफलत्वमेव कल्प्यत इति भावः। अत्र दूषणमाह— न, अप्रवृत्तानामिति। फलदानायानङ्कुरीभूतानां पूर्वदुरितानां कर्मान्तरारब्धे शरीरे फलदानासम्भवात् नित्यानुष्ठानायासदुःखं न [तत्फलं] सम्भव- तीत्यर्थः। यदि वाऽन्यारब्धेऽपि फलदानं स्यात् , तथापि नित्यानुष्ठानदुःखस्यानुपपत्तिः स्यात् , दुःखान्तरस्यापि सम्भवा- दित्यर्थः। वस्तुसंग्रहवाक्यद्वयमध्ये पूर्ववाक् यं व्याचष्टे—यदुक्तमित्यादिना। विमतं कर्मफलं नान्यारब्धे उपभुज्यते, कर्म- फलत्वात् , यदेवं तदेवम् , यथा स्वर्गार्थमारब्धे न नरकफलमिति भावः। विपक्षे बाधकमाह— अन्यथेति। द्वितीयं वाक् यं

[[अ. १८. श्लो. ६६]] [[९६८]]

फलत्वानुपपत्तेश्च। अनेकेषु हि दुरितेषु सम्भवत्सु भिन्नदुःखसाधनफलेषु नित्यकर्मानुष्ठानायासदुःखमात्रफलेषु कल्प्य- मानेषु १द्वन्द्वरोगादिबाधानिमित्तं न हि शक्यते कल्पयितुम् ; नित्यकर्मानुष्ठानायासदुःखमेव २पूर्वकृतदुरितफलम् , न शिरसा पाषाणवहनादिदुःखमिति। अप्रकृतं चेदमुच्यते— नित्यकर्मानुष्ठानायासदुःखं पूर्वकृतदुरितकर्मफलमिति। कथम्? ३अप्रसूतफलस्य हि निश्चेतुं शास्त्राद्यभावादित्याह—तस्येति। नित्यकर्मानुष्ठानायासदुःखस्येत्यर्थः। दुरितदुःखविशेषफलत्वानुपपत्तेः दुरितविशेषदुःख- फलत्वानुपपत्तेरित्यर्थः। दुरितानां यद् दुःखविशेषरूपं फलं तत्त्वानुपपत्तेरिति वा। संग्रहवाक् यमेव विवृणोति—अनेकेष्विति। अनेकेषु भिन्नदुःखसाधनफलेषु सम्भवत्सु भिन्नदुरितेषु नित्यकर्मानुष्ठानायासदुःखमात्रफलेषु कल्प्यमानेषु सत्सु – भिन्नानि दुःखं साधनं फलं करणवैकल्यादिकं चेत्येतानि येषां तेषु भिन्नदुःखसाधनफलेषु सम्भवत्सु सम्भावितेष्वित्यर्थः। नित्यकर्मानुष्ठानायासमात्रं फलं येषां तेषु तथोक्तेषु। भिन्नदुःखसाधनफलानां बहूनां सम्भावितानामनेकजन्मसञ्चितानां दुरितानां नित्यकर्मानुष्ठानायासदुःखमेव फलमिति कल्पिते सतीत्यर्थः। अनिमित्तं द्वन्द्वरोगादिबाधनं कल्पयितुं न हि शक् यते। द्वन्द्वरोगादिबाधनमनिमित्तं कल्पयितुं न हि शक् यते इति वा। अस्मिन् पक्षे कल्पयितुं वक्तुमित्यर्थः। उभयथाऽपि अनुभवसिद्धत्वाद् दुरपलापं द्वन्द्वरोगादिबाधनं निर्निमित्तं स्यादित्यर्थः। द्वन्द्व- रोगादिबाधानां कारणत्वेनाभ्युपगतानि शास्त्रविद्भिर्यानि दुरितानि तेषामपि नित्यकर्मानुष्ठानायासदुःखमेव यदि फलं स्यात् , तर्हि द्वन्द्व- रोगादिबाधा फलं नैव भवतीति निर्निमित्ता एव द्वन्द्वरोगादिबाधाः स्युः। तस्मादेवं कल्पयितुं न शक् यत इति भावः। तामेवाशक् यां कल्पनामभिनीय दर्शयति—नित्येति। पूर्वोपात्तदुरितानां नित्यकर्मानुष्ठानायासदुःखमेव फलम् , शिरसा पाषाणादिवहनादिसिद्धदुःखं तु न फलमित्यनिमित्तं द्वन्द्वरोगादिबाधनं कल्पयितुं न शक् यत इति पूर्वेणान्वयः। वहनादीत्यादिपदात् द्वन्द्वरोगादिग्रहणम्। द्वन्द्वरोगादीत्यादिपदात् पाषाणवहनादिग्रहणम्। तस्मात् परस्परं भिन्नानां दुरितानां फलमपि परस्परं भिन्नमेव दुःखविशेषो भवितु- मर्हतीति न सर्वेषां दुरितानां नित्यकर्मानुष्ठानायासदुःखमेव फलम् , तथा सति द्वन्द्वरोगशिरःपाषाणवहनादिदुःखस्य निर्निमित्तत्वा- पत्तेः। निर्निमित्तस्यापि दुःखस्याभ्युपगमे कारणं विनापि कार्यं स्यादिति महदनिष्टम्। सुकृतिनोऽपि निष्कारणदुःखानुभवप्रसङ्गाच्चेति भावः। इत्ययुक्तमित्यर्थः। किञ्च नित्यानुष्ठानायासदुःखमात्रफलानि चेद् दुरितानि कल्प्यन्ते, तदा द्वन्द्वशब्दितरागादिबाधस्य रोगादिबाधायाश्च दुरितनिमित्तत्वानुपपत्तेः सुकृतकृतत्वस्य चासम्भवादनुपपत्तिरेवोदीरितबाधायाः स्यादित्याह— द्वन्द्वेति। इतश्च नित्यानुष्ठानायास- दुःखमेव दुरितफलमित्ययुक्तमित्याह—नित्येति। दुःखमिति न शक्यते कल्पयितुमिति पूर्वेण सम्बन्धः। यदि तदेव तत्फलम् , न तर्हि शिरसा पाषाणवहनादिदुःखं दुरितकृतम् , न च तत्कारणं सुकृतम् , दुःखस्यातत्कार्यत्वात् , अतस्तदाकस्मिकं स्यादित्यर्थः। नित्यानुष्ठानायासदुःखमुपात्तदुरितफलमित्येतदप्रकृतत्वाच्चायुक्तं वक्तुमित्याह—अप्रकृतं चेति। तदेव प्रपञ्चयितुं पृच्छति—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

विवृणोति— तस्येति। नित्यानुष्ठानस्य दुरितदुःखविशेषफलत्वानुपपत्तिमेवाह— अनेकेषु हीत्यादिना। द्वन्द्वरोगादि दृश्यमानं (कल्पनायासो?) बाधकमित्युक्तं स्यात्। तत्र हेतुमाह— न हीति। पूर्वं नित्यानुष्ठानायासदुःखमनारब्धफलस्य कर्मणः कार्यमित्युपगम्य तावन्मात्रफलत्वं निश्चेतुं न शक्यत इत्युक्तम्। इदानीं नित्यानुष्ठानायासदुःखमपि आरब्धफलस्यैव कार्यमित्याह—अप्रकृतं चेदमित्यादिना। किञ्च नित्यानुष्ठानायासदुःखं

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘द्वन्द्वरोगादिबाधनं निर्निमित्तं’ ‘द्वन्द्वरोगादिबाधनमनिमित्तं’ इति पा.। २. ‘पूर्वोपात्तदुरितफलं’ इति पा.। ३. अत्र रामकविदृष्टो भाष्यपाठः— ‘अप्रसूतफलस्य हि पूर्वकृतदुरितस्य क्षयो नोपपद्यत इति प्रकृतम्। तत्राप्रसूतफलस्य कर्मणः फलं नित्यकर्मानुष्ठानायासदुःखमाह भवान् , न प्रसूतफलस्येति’ इति स्यादिति भाति।

[[९६९]]

दोषान्तरमाह—अप्रकृतं चेति। प्रकृतविरुद्धमित्यर्थः। किमुच्यते? अत आह—नित्येति। कथमिदं वचनमप्रकृतमिति पृच्छति—कथमिति। उत्तरयति—अप्रसूतेति। हि यस्मादप्रसूतफलस्य पूर्वकृतदुरितस्य क्षय उपपद्यत इत्युक्तम् , तस्मादिदमप्रकृतम् इत्यर्थः। किं तत् प्रकृतं यस्येदं विरुद्धमप्रकृतम्? अत आह—नोपपद्यत इतीति। अप्रसूतस्य कर्मणः क्षयो नोपपद्यत इति प्रकृतम्। यद्वा कथमप्रकृतमुच्यते? अत आह—कथमिति। अप्रसूतस्य पूर्वकृतदुरितस्य क्षयः कथमुपपद्यते? कथमपि नोपपद्यत इति प्रकृतम्। एतद्विरुद्धत्वात् त्वदुक्तमप्रकृतमिति भावः। तदेव स्फुटयति—तत्रेति। एवं सतीत्यर्थः। अप्रसूतफलस्य पूर्वकृतदुरितस्य क्षयो नोपपद्यत इति प्रकृते सतीत्यर्थः। भवान् अप्रसूतफलस्य – सञ्चितस्येत्यर्थः – कर्मणो नित्यकर्मानुष्ठानायासदुःखं फलमित्याह , प्रसूतफलस्य प्रारब्धस्य कर्मणो नित्यकर्मानुष्ठानायासदुःखं फलं न भवतीति च भवानाह त्वं वदसि। तस्मादिदमप्रकृतमुच्यते। अयं भावः—नित्यकर्मानुष्ठानायासदुःखमेव पूर्वकृतदुरितफलमिति वदन् भवान् प्रष्टव्य इति। किं पूर्वकृतानां सञ्चितानां दुरितानां नित्यकर्मानुष्ठानदुःखं फलमिति तवाभिप्रेतम्? यद्वा प्रारब्धानाम्? द्वितीये, प्रारब्धस्य नित्यकर्मानुष्ठानदुःखोपभोगेन क्षये सत्यपि सञ्चितानां क्षयाभावान्मोक्षानुपपत्तिः। आद्ये, फलदानायानङ्कुरीभूतानां सञ्चितानां कथं नित्यकर्मानुष्ठानदुःखरूपफलप्रदान- सम्भवः? तस्मादनुभवसिद्धमिदं नित्यकर्मानुष्ठानायासदुःखं न प्रारब्धफलं, किन्तु सञ्चितदुरितफलमेवेति तव वचनमिदम् अप्रकृतम् अप्रमाणमग्राह्यमेवेति। विरोधं स्फुटयितुमेव—अप्रसूतफलस्येति, प्रसूतफलस्येति चोक्तमाचार्यैः। अप्रसूतमनुत्पादितं फलं दुःखं येन तस्याप्रसूतफलस्य। प्रसूतमुत्पादितं फलं दुःखं येन तस्य प्रसूतफलस्य। अप्रसूतफलस्य दुःखफलप्रसूतिः, प्रसूतफलस्य१ दुःखफला- प्रसूतिश्चेत्युभयं विरुद्धमिति भावः। ननु न वयं पूर्वकृतदुरितानां सञ्चितत्वमभ्युपगच्छामः, किन्तु प्रारब्धत्वमेव। तस्मान्नित्यकर्मानुष्ठानायासदुःखोपभोगेन पूर्व- कृतदुरितक्षयोपपत्तिरिति नाप्रकृतत्वदोष इत्यत आह—अथेति। सर्वमेवेति। सर्वमपीत्यर्थः। भवान् सर्वमेव पूर्वकृतं दुरितं प्रसूत- फलमेवेति मन्यते यदि, ततस्तर्हि नित्यकर्मानुष्ठानायासदुःखमेव - पूर्वकृतदुरितानामिति शेषः - फलमिति विशेषणं विशिष्य वचनम- युक्तम् , द्वन्द्वरोगादिदुःखस्यापि पूर्वकृतदुरितफलस्यानुभूयमानस्यापलपितुमशक् यत्वादिति भावः। दोषान्तरमाह—नित्यकर्मेति। ‘वसन्ते वसन्ते ज्योतिषा यजेत’, ‘अहरहः सन्ध्यामुपासीत’ इत्यादयो विधयो व्यर्था एव। विधिं विनापि पूर्वकृतदुरितफलस्य नित्य- कर्मानुष्ठानायासदुःखस्यावश्यमनुभोक्तव्यतया तत्प्रारब्धबलादेव नित्यकर्मसु प्रवृत्त्युपपत्तेरिति भावः। इदमेवाह—उपभोगेनैवेति। पूर्वकृतदुरितस्य क्षयो नोपपद्यत इति प्रकृतम्। तत्र प्रसूतफलस्य कर्मणः फलं नित्यकर्मानुष्ठानायासदुःखमाह भवान् , नाप्रसूतफलस्येति। अथ सर्वमेव पूर्वकृतं दुरितं प्रसूतफलमेवेति मन्यते भवान् , ततो नित्यकर्मानुष्ठानायासदुःखमेव फलमिति विशेषणमयुक्तम्। नित्यकर्मविध्यानर्थक्यप्रसङ्गश्च, उपभोगेनैव प्रसूतफलस्य दुरितकर्मणः क्षयोपपत्तेः। कथमिति। तत्रादौ प्रकृतमाह—अप्रसूतेति। तथापि कथमस्माकमप्रकृतवादित्वम्? तत्राह—तत्रेति। प्रसूतफलत्वमप्रसूतफलत्वमिति प्राचीनदुरितगतविशेषानुपगमादविशेषेण सर्वस्यैव तस्य प्रसूतफलत्वान्नित्यानुष्ठानायासदुःखफलत्वसम्भवान्नाप्रकृतवादितेति शङ्कते— अथेति। पूर्वोपात्तदुरितस्याविशेषेणारब्धफलत्वे विशेषणानर्थक्यमिति परिहरति—तत इति। दुरितमात्रस्यारब्धफलत्वेनानारब्धफलस्य तस्योक्तफलविशेषवत्त्वानुपपत्तेरित्यर्थः। पूर्वोपात्तदुरितमारब्धफलं चेद् भोगेनैव तत्क्षयसम्भवात् तन्निवृत्त्यर्थं नित्यं कर्म न विधातव्यमिति दोषान्तरमाह—नित्येति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यदि पूर्वकृतदुरितस्य फलम् , तर्हि पूर्वकृतदुरितवशादेव तत्र प्रवृत्तिसिद्धेः विधेर्वैयर्थ्यं स्यादित्याह— नित्यकर्म- विध्यानर्थक् येति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. दुरितस्येति शेषः। अप्रसूतफलस्य दुःखफलप्रसूतिः, प्रसूतफलस्य दुरितस्य दुःखफलाप्रसूतिश्चेत्युभयं प्रमाणविरुद्धमित्यर्थः।

[[अ. १८. श्लो. ६६]] [[९७०]]

किञ्च १श्रुतस्य नित्यस्य दुःखं कर्मणश्चेत् फलम् , नित्यकर्मानुष्ठानायासादेव तद् दृश्यते, व्यायामादिवत् , तदन्यस्येति कल्पनानुपपत्तिः। जीवनादिनिमित्ते च विधानान्नित्यानां कर्मणां प्रायश्चित्तवत् पूर्वकृतदुरितफलत्वा- नुपपत्तिः । यस्मिन् पापकर्मणि निमित्ते यद् विहितं प्रायश्चित्तम् , न तु तस्य पापस्य तत् फलम्। अथ तस्यैव पापस्य विधिं विनापि प्राप्तेनोपभोगेनैवेत्यर्थः। ज्वरादिदुःखोपभोगवदिति भावः। अप्राप्तार्थप्रापणे हि विधीनामानर्थक् याभावः। किञ्च नित्यकर्मानुष्ठानात् प्रत्यवायाप्राप्तिः फलमिति ब्रुवतस्तव नित्यकर्मानुष्ठानाद् दुःखं फलमिति वचनं व्याहतम्। व्याहत- मप्ययुक्तं चेत्याह—किञ्चेति। श्रुतं फलं प्राजापत्यलोकादिकं यस्य तस्य श्रुतफलस्य, नित्यकर्मणां पुण्यफलश्रवणादिति बोध्यम्। नित्यस्य कर्मणो दुःखं फलं चेत् तर्हीति शेषः। नित्यकर्मानुष्ठानायासात् तद् दुःखफलं दृश्यत एव। तत्र दृष्टान्तमाह—व्यायामादि- वदिति। यथा व्यायामादेर्दुःखं फलं दृश्यते, तद्वदित्यर्थः। एवं स्थिते तद् दृश्यमानं दुःखं फलम् अन्यस्य पूर्वकृतदुरितस्येति कल्पनाया अनुपपत्तेः। अयं भावः—अश्रुतफलस्य व्यायामादेरिव श्रुतफलस्य नित्यकर्मणो दृष्टदुःखफलत्वकल्पनं तावदयुक्तम्। तत्रापि व्यायामादेः इव नित्यकर्मणोऽपि यदि दृष्टं दुःखं फलं तर्हि तत् कथं पूर्वकृतदुरितफलं स्यात्? न हि व्यायामगमनादिकृतं दुःखमन्यस्य दुरितस्य इष्यते। एवं नित्यकर्मकृतमपि दुःखं न पूर्वदुरितफलम् , किं तर्हि? नित्यकर्मफलमेव, यथा व्यायामादिजन्यदुःखं व्यायामादिफलम्। तस्माच्छ्रुतफलस्य नित्यस्य दृष्टफलव्यायामादिवन्न दुःखं फलम्। नापि नित्यकर्मानुष्ठानायासजन्यं दुःखं पूर्वोपार्जितदुरितफलं व्याया- मादिजन्यदुःखवदिति भावः। इतश्च नित्यकर्मानुष्ठानं न पूर्वकृतदुरितफलमित्याह—जीवनेति। जीवनादिनिमित्ते नित्यानां कर्मणां विधानाच्च नित्यकर्मणां पूर्वकृतदुरितफलत्वं नोपपद्यते। प्रायश्चित्तवदिति दृष्टान्तं स्वयमेव विवृणोति—यस्मिन्निति। यस्मिन् पापकर्म- निमित्तेऽभोज्यभोजनादिपापकर्मरूपे निमित्ते यत्प्रायश्चित्तं चान्द्रायणादिकं शास्त्रेण विहितं तस्य पापस्य कर्मणस्तदेव प्रायश्चित्तं फलं न भवति। तद्वज्जीवनादिनिमित्ते विहितस्य नित्यस्य पूर्वकृतदुरितफलत्वं नोपपद्यत इति। ननु पापनिमित्ते विहितस्य प्रायश्चित्तस्य पापफलत्वाभावेऽपि प्रायश्चित्तानुष्ठानायासदुःखस्य पापफलत्वमस्त्येव, पापस्य दुःखमेव फलमिति नियमात्। एवं जीवनादिनिमित्ते विहितस्य नित्यस्य पूर्वकृतदुरितफलत्वाभावेऽपि नित्यकर्मानुष्ठानायासदुःखस्य तत्फलत्वमस्त्येवेति शङ्कते—अथेति। तस्य प्रायश्चित्तं प्रति निमित्तभूतस्य पापस्यैव फलं प्रायश्चित्तदुःखमिति यदि त्वं ब्रूषे, तर्हीति शेषः। जीवनादिनिमित्तमपि नित्यकर्मानुष्ठानायासदुःखं जीवनादिनिमित्तस्यैव फलं प्रसज्येत। पापनिमित्तविहितप्रायश्चित्तानुष्ठानायास- इतश्च नित्यानुष्ठानायासदुःखं नोपात्तदुरितफलमित्याह—किञ्चेति। तदेव स्फोरयति—श्रुतस्येति। यथा व्यायामगमनादिकृतं दुःखं नान्यस्य दुरितस्येष्यते, तत्फलत्वसम्भवात् , तथा नित्यस्यापि श्रुत्युक्तस्यानुष्ठितस्यायासपर्यन्तस्य फलान्तरानुपगमादनुष्ठानायास- दुःखमेव चेत् फलम् , तर्हि तस्मादेव तद्दर्शनात् तस्य न दुरितफलत्वं कल्प्यम् , नित्यफलत्वसम्भवादित्यर्थः। दुःखफलत्वे नित्यानामन- नुष्ठानमेव श्रेयः स्यादित्याशङ्क्याह—जीवनादीति। नित्यानां दुरितफलत्वानुपपत्तौ हेत्वन्तरमाह—प्रायश्चित्तवदिति। दृष्टान्तं प्रपञ्चयति— यस्मिन्निति। तथा जीवनादिनिमित्ते विहितानां नित्यानां दुरितफलत्वासिद्धिरिति शेषः। सत्यं प्रायश्चित्तं न निमित्तस्य पापस्य फलम् , किन्तु तदनुष्ठानायासदुःखं तस्य पापस्य फलमिति शङ्कते—अथेति। प्रायश्चित्तानुष्ठानायासदुःखस्य निमित्तभूतपापफलत्वे जीवनादि-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इतश्च न पूर्वकृतदुरितफलत्वं कल्पयितुं (न) शक्यत इत्याशयः। किञ्च नित्यानुष्ठानं न पूर्वकृतदुरितफलं विहितत्वात् , प्रायश्चित्तवदित्याह—जीवनादीति। ननु प्रायश्चित्तमपि दुरितफलमेवेति साध्यविकलो दृष्टान्त इत्याशङ्क्याह— यस्मिन्निति। प्रमाणाभावात् फलान्तरसिद्धेश्च पापस्येत्यर्थः। विपक्षे चानिष्टमाह—अथ तस्यैवेत्यादिना।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘श्रुतफलस्य’ इति रा.पा. भाति।

[[९७१]]

निमित्तस्य प्रायश्चित्तदुःखं फलम् , १जीवनादिनिमित्तमपि नित्यकर्मानुष्ठानायासदुःखं जीवनादिनिमित्तस्यैव (तत् ) फलं प्रसज्येत, नित्यप्रायश्चित्तयोर्नैमित्तिकत्वाविशेषात्। जन्यं दुःखं यथा पापफलम् , तथा जीवनादिनिमित्तविहितनित्यकर्मानुष्ठानायासजन्यदुःखं जीवनादिनिमित्तस्यैव फलं स्यात् ; न तु पूर्वकृतदुरितस्येत्यर्थः। ननु नित्यस्य नैमित्तिकेन प्रायश्चित्तेन कथं साम्यम्? अत आह—नित्येति। यथा पापनिमित्ते प्रायश्चित्तं विहितं, तथा जीवनादिनिमित्ते नित्यं विहितमिति नित्यप्रायश्चित्ते उभे अपि नैमित्तिके एव। निमित्ते विहितं हि नैमित्तिकम्। ननु निमित्तशब्दैक् येऽपि निमित्तार्थयोर्हेतुफलयोर्भेद एव। प्रकृते च प्रायश्चित्तस्य पापं निमित्तं हेतुः। नित्यकर्मणो जीवनादिकं निमित्तं फलम् , पापनिवर्तकत्वात्प्रायश्चित्तस्य, जीवनादिनिर्वर्तकत्वाच्च नित्यस्य। तस्मान्न नित्यप्रायश्चित्तयोः साधर्म्यमिति चेत् , मैवम् ; यथा पापनिमित्ते प्रायश्चित्तं विहितं तथा जीवनादिनिमित्ते नित्यं विहितमित्येतावदंशस्यैव विवक्षितत्वादिह। न हि सर्वात्मना सादृश्यं वयं तयोर्ब्रूम इति। वस्तुतस्तु पापनिवृत्त्यर्थं विहितं प्रायश्चित्तम् , जीवनादिनिर्वृत्त्यर्थं विहितं नित्यमिति नित्यप्रायश्चित्तयोः अविशेषानभ्युपगमेऽपि प्रायश्चित्तवत्पूर्वोपचितदुरितक्षयार्थं नित्यकर्मेति यदुक्तं मीमांसकेन, तन्नोपपद्यत एव, प्रायश्चित्तस्य दुरितक्षयार्थ- त्वेऽपि नित्यस्य जीवनाद्यर्थत्वेन दुरितक्षयार्थत्वाभावात्। नित्यकर्मणां जीवनादिनिमित्ते च विधानादिति स्वेनैवोक्तत्वात्। ननु नित्यकर्मसु कानिचिद् दुरितक्षयार्थानि, कानि[चित्] पुनर्जीवनाद्यर्थानि। यथा ब्राह्मणस्य यजनाध्ययनदानानि दुरित- क्षयार्थानि, याजनाध्यापनप्रतिग्रहणानि जीवनाद्यर्थानीति चेत् , मैवम् ; यजनादीनां चान्द्रायणादिवद् दुरितक्षयार्थत्वे सति प्रायश्चित्तत्व- प्रसङ्गेन नित्यत्वस्यैवाभावात्। यजनादीनां ब्राह्मणवर्णधर्मत्वेन तेषां दुरितक्षयार्थत्वकल्पनायोगाच्च। न च – अकरणे प्रत्यवायप्रापकत्वं नित्यत्वम् , तत् प्रायश्चित्तस्य नास्तीति नित्यप्रायश्चित्तयोर्विशेषः; वर्णधर्माश्च दुरितक्षयार्था एवेति – वाच्यम् ; प्रायश्चित्तस्याप्यकरणे नरकपातलक्षणप्रत्यवायसत्त्वात्। अन्यथा प्रायश्चित्तस्याकर्तव्यत्वापातात्। वर्णधर्माणां दुरितक्षयार्थत्वे तैरेव दुरितक्षये कृते सति प्रायश्चित्तविधिवैयर्थ्यप्रसङ्गाच्च। ननु इहजन्मकृतदुरितक्षयार्थानि प्रायश्चित्तानि, तदकरणे च दुरितफलस्यैव जन्मान्तरेऽनुभवः; न तु प्रायश्चित्ताकरणादपूर्वं किञ्चिद् दुरितमुत्पद्यते। नित्यानि तु जन्मान्तरकृतदुरितक्षयार्थानि, तदकरणे चापूर्वं किञ्चिद् दुरितमुत्पद्यत इति नित्यप्रायश्चित्तयोर्भेद इति चेत् , अस्तु। किं प्रायश्चित्तनिवर्त्यमिव नित्यकर्मनिवर्त्यं दुरितं फलदानायानारब्धमुतारब्धम्? आद्ये, नित्यकर्मभिः सञ्चितदुरित- क्षयानुपपत्तौ मोक्षानुपपत्तिः। द्वितीये, प्रायश्चित्तवदिति दृष्टान्तानुपपत्तिः। न हि हिंसादिलक्षणमिहजन्मनि कृतं दुरितं फलदानायारब्धं भवितुमर्हति यत् प्रायश्चित्तेन निवर्त्यते। फलदानायेदं मया कृतं दुरितमारब्धं मा भूदिति हि तस्य प्रायश्चित्तं करोति पापी। किञ्च फल- दानायारब्धस्य दुरितस्य फलोपभोगेनैव क्षयः। ‘प्रारब्धं भोगतो नश्ये’दिति शास्त्रादिति कृत्वा तत्क्षयार्थं नित्यकर्मानुष्ठानं व्यर्थमेव; तद्विधिश्च व्यर्थ एव। न च जन्मान्तरकृतस्य दुरितस्य नित्यकर्मानुष्ठानायासजन्यदुःखोपभोगेनैव क्षय इति वाच्यम् ; अन्यव्यायामादिदुःखोपभोगेन तस्य न क्षय इति वक्तुमयुक्तत्वाद् अन्यदुःखोपभोगस्य जन्मान्तरकृतदुरितहेतुकत्वाभावस्य सिद्धत्वेन तद्दुःखस्य निर्निमित्तकत्वापत्तेश्च। अथैतद्दोषपरिहाराय सर्वमपि दुःखं पूर्वकृतदुरितफलमेवेत्यभ्युपगम्यते, तर्हि नित्यकर्मैवानुष्ठाय तदायासदुःखेनैव पूर्वकृतदुरितं क्षपणी- यमिति कथमुच्यते? किं तर्हि? काम्यकर्माप्यनुष्ठाय तद्दुःखेन तद्दुरितं क्षपणीयमेव। अपि च प्रारब्धवशाद् यथा नित्यकर्मानुष्ठानायास- निमित्तनित्याद्यनुष्ठानायासदुःखमपि जीवनादेरेव फलं स्यात् , नोपात्तदुरितस्येति परिहरति— जीवनादीति। प्रायश्चित्तदुःखस्य २तन्निमित्तपापफलत्ववज्जीवनादिनिमित्तकर्मकृतमपि दुःखं जीवनादिफलमित्यत्र हेतुमाह—नित्येति। १. ‘यावज्जीवमग्निहोत्रं जुहोति’ इत्यादिवाक्यैः जीवने निमित्ते विहितं कर्म अकरणे प्रत्यवायकरत्वात् नित्यं कर्म। ‘जीवनादिनिमित्तेऽपि’ इति पा.। २. तन्निमि- त्तेति। प्रायश्चित्तनिमित्तेत्यर्थः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १८. श्लो. ६६]] [[९७२]]

किञ्चान्यत् नित्यस्य काम्यस्य चाग्निहोत्रादेरनुष्ठानायासदुःखस्य तुल्यत्वाद् नित्यानुष्ठानायासदुःखमेव पूर्व- कृतदुरितस्य फलम् , न तु काम्यानुष्ठानायासदुःखमिति विशेषो नास्तीति तदपि पूर्वकृतदुरितफलं प्रसज्येत। तथा च सति नित्यानां फलाश्रवणात् तद्विधानान्यथानुपपत्तेश्च नित्यानुष्ठानायासदुःखं पूर्वकृतदुरितफलम् इत्यर्थापत्तिकल्पना- ऽनुपपन्ना। एवं विधानान्यथानुपपत्तेरनुष्ठानायासदुःखव्यतिरिक्तफलत्वानुमानाच्च नित्यानाम्। दुःखप्राप्तिः, तथा तद्वशादेव काम्यकर्मानुष्ठानायासदुःखप्राप्तिरिति कृत्वा कथं काम्यकर्मदुःखस्य परित्यागः शक् यते कर्तुम्? तदिदमभिप्रेत्याह—किं चान्यदिति। अन्यदपि दूषणमस्तीत्यर्थः। नित्यस्य काम्यस्य वा सर्वस्यापि कर्मणोऽनुष्ठानायासजन्यं दुःखं पूर्वोपात्तदुरितफलमेव, न तु नित्यानुष्ठानजन्यं दुःखं पूर्वकृतदुरितफलं, काम्यानुष्ठानजन्यं दुःखं तु पूर्वकृतदुरितफलं न भवतीति विशेषोऽस्ति। इति हेतोस्तदपि काम्यानुष्ठानदुःखमपि पूर्वकृतदुरितफलं प्रसज्येत स्यादित्यर्थः। भवतु काम्यानुष्ठानदुःखस्यापि पूर्वकृत- दुरितफलत्वप्रसङ्गः, को दोषस्तत्रेत्यत आह—तथा च सतीति। काम्यानुष्ठानदुःखस्यापि दुरितफलत्वे सतीत्यर्थः। अर्थापत्तिकल्पनेति। पीनो देवदत्तो दिवा न भुङ्क्ते इत्यत्र दिवाभोजनाभावेऽपि प्राप्तस्य पीनत्वस्यान्यथानुपपत्त्या रात्रिभोजनमर्थापत्तिप्रमाणेन यथा कल्प्यते, तद्वन्निष्फलनित्यकर्माविधानान्यथानुपपत्त्या अर्थापत्तिप्रमाणेन कल्पितं यन्नित्यकर्मानुष्ठानदुःखस्य पूर्वकृतदुरितफलत्वं कथं तदुप- पद्यते? सफलकाम्यकर्मानुष्ठानजन्यदुःखस्यापि पूर्वकृतदुरितफलत्वेन निष्फलनित्यकर्मानुष्ठानजन्यदुःखमेव पूर्वकृतदुरितफलमिति वक्तुमशक् यत्वादिति भावः। भवत्वेवमर्थापत्तिकल्पनाया अनुपपत्तिः, किं ततः? अत आह—एवमिति। अर्थापत्तिकल्पनाया अनुप- पन्नत्वे सतीत्येवंशब्दार्थः। नित्यकर्मणोऽनुष्ठानायासदुःखव्यतिरिक्तं फलमस्ति, नित्यकर्मविधेरन्यथोपपत्त्यभावात् काम्यकर्मवदित्यनु- मानाच्च नित्यानां फलवत्त्वसिद्धिः। चकाराच्छास्त्रादपीत्यर्थः। विरोधाच्चेति। नित्यकर्मणः फलाभाववचनस्य विरुद्धत्वाच्चेत्यर्थः। यद्वा अर्थापत्तिकल्पनाया अनुपपत्तावेकं कारणमुक्तं काम्यानुष्ठानदुःखस्यापि पूर्वकृतदुरितफलत्वप्रसक्तिरूपम्। कारणान्तरमाह—[एवमिति।] अनुमानाच्चोक्तार्थापत्तिकल्पना अनुपपन्नेत्यर्थः। अनुमानं च दर्शितम्। यदि नित्यकर्मानुष्ठानस्य प्रारब्धदुरितकृतनित्यानुष्ठानायासदुःखमेव फलम् , तर्हि प्रारब्धवशादेव तद्दुःखानुभवसिद्धौ व्यर्थमेव नित्यकर्मविधानमिति नित्यकर्म- इतश्च नित्यानुष्ठानायासदुःखमेवोपात्तदुरितफलमित्यशक् यं वक्तुमित्याह—किञ्चेति। काम्यानुष्ठानायासदुःखमपि दुरितफल- मित्युपगमात् प्रसङ्गस्येष्टत्वमाशङ्क्याह—तथा चेति। विहितानि तावन्नित्यानि। न च तेषु फलं श्रुतम्। न च विना फलं विधिः। तेन दुरितनिबर्हणार्थानि नित्यानीत्यर्थापत्त्या कल्प्यते। न च सा युक्ता, काम्यानुष्ठानादपि दुरितनिवृत्तिसम्भवादित्यर्थः। किञ्च नित्यानि अनुष्ठानायासदुःखातिरिक्तफलानि, विहितत्वात् , काम्यवदित्यनुमानान्न तेषां दुरितनिवृत्त्यर्थतेत्याह—एवमिति। काम्यादिकर्म दृष्टान्त- यितुम् एवमित्युक्तम्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इतश्च नित्यानुष्ठानायासदुःखमात्रं दुरितफलं वक्तुं न शक्यत इत्याह—किञ्चान्यदिति। काम्यानुष्ठानायासकृतदुःख- मपि पूर्वकृतदुरितफलमित्येवं स्थिते या पूर्वमर्थापत्तिकल्पना कृता, साऽप्यनुपपन्ना। पूर्वकृतदुरितस्य फलान्तरलाभादि- त्यर्थः। निष्फलस्य नित्यस्य विधानानुपपत्तेर्दुरितफलत्वेन विधानं वक्तव्यमित्यत्रार्थापत्त्यनुद(ति)ये सति फलान्तरमेवाध्या- पत्त्या[वार्थापत्त्या] वक्तव्यमित्याह—एवं विधानेति। काम्यवन्नित्यस्यापि विधानान्यथानुपपत्त्याऽनुष्ठानायासव्यतिरिक्त- फलत्वमेव वक्तव्यमित्यर्थः। नित्यानि नायासमात्रफलानि, विहितत्वात् , काम्यवदिति अनुमानमपि शक्यत इत्याह— अनुष्ठानायासेति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[९७३]]

विरोधाच्च। विरुद्धं चेदमुच्यते— नित्यकर्मण्यनुष्ठीयमानेऽन्यस्य कर्मणः फलं भुज्यत इत्यभ्युपगम्यमाने स एवोपभोगो नित्यस्य कर्मणः फलमिति, नित्यस्य कर्मणः फलाभाव इति च विरुद्धमुच्यते। किञ्च काम्याग्निहोत्रादौ अनुष्ठीयमाने नित्यमप्यग्निहोत्रादि तन्त्रेणैवानुष्ठितं भवतीति तदायासदुःखेनैव काम्याग्निहोत्रादिफलमुपक्षीणं स्यात् , तत्तन्त्रत्वात्। अथ काम्याग्निहोत्रादिफलमन्यदेव स्वर्गादि , तदनुष्ठानायासदुःखमपि भिन्नं प्रसज्येत। न च तदस्ति, दृष्ट- विधानान्यथानुपपत्तिरेव नित्यानां दुःखातिरिक्तफलसद्भावं साधयतीत्यर्थः। कारणान्तरमाह—विरोधाच्चेति। विरोधाच्चार्थापत्तिकल्पना अनुपपन्नेत्यर्थः। विरोधमेव प्रकटयति—विरुद्धं चेदमुच्यत इति। किं तद्? अत आह—नित्येति। नित्यकर्मणि क्रियमाणे सत्यन्यस्य पूर्वकृतदुरितस्य कर्मणः फलं भुज्यत इत्यभ्युपगम एको विरोधः। तथा अभ्युपगम्यापि स एव पूर्वकृतदुरितफलभूतस्य नित्यकर्मानुष्ठानायासजन्यदुःखस्योपभोगो नित्यकर्मणः फलमिति वचनमन्यो विरोधः। एवं नित्यस्य दुःखं फलमित्यभ्युपगम्यापि नित्यकर्मणः फलवत्त्वाभाव इति वचनं तृतीयो विरोधः। तस्माद् विरुद्धं तदिदं यत् त्वयोच्यते नित्यानां फलाश्रवणान्नित्यानुष्ठानायासदुःखं पूर्वकृतदुरितफलमिति। दूषणान्तरमाह—किं चेति। अग्निहोत्रादिकर्मणां नित्यत्वकाम्यत्वप्रयुक्तो न कोऽपि स्वरूपभेदः। क्रियाकारकमन्त्रोपकरण- कलापस्य तुल्यत्वान्नित्ये काम्ये चाग्निहोत्रादिकर्मणि। किं तर्हि? तदनुष्ठातुः सकामत्वनिष्कामत्वाभ्यामेव नित्यकाम्ययोर्भेदः। ‘वसन्ते वसन्ते ज्योतिषा यजेते’ति विहितो नित्य एव ज्योतिष्टोमः ‘ज्योतिष्टोमेन स्वर्गकामो यजेते’ति स्वर्गकामिना अनुष्ठीयमानः सन् काम्यो भवति। एवं सति नित्याज्ज्योतिष्टोमात् काम्यस्य ज्योतिष्टोमस्य कामांश एक एवाधिकः, तदतिरिक्तः सर्वोऽप्यविशिष्ट एवेति कृत्वा काम्ये तस्मिन्ननुष्ठीयमाने सति नित्योऽप्यनुष्ठित एव। ततश्च काम्यकर्मणोऽपि नित्यकर्मण इव नित्यानुष्ठानायसदुःखं फलमेवेति कृत्वा नित्या- नुष्ठानायासदुःखेनैव काम्यकर्मणोऽपि फलस्योपक्षयः स्यात् , आयासदुःखतन्त्रत्वात् काम्यफलस्य। अयं भावः—नित्यानुष्ठानायास- दुःखोपभोगद्वारा यथा नित्यस्य कृतस्य कर्मणः क्षयः, तथा काम्यस्यापीति कृत्वा नातिरिक्तं स्वर्गादिलक्षणं फलं भवितुमर्हति स्वोक्तिव्याघाताच्च नित्यानुष्ठानाद् दुरितफलभोगोक्तिरयुक्तेत्याह—विरोधाच्चेति। तदेव प्रपञ्चयति—विरुद्धं चेति। इदंशब्दार्थमेव विशदयति—नित्येति। अन्यस्य कर्मणो दुरितस्येति यावत्। स एवेति। २यदनन्तरं यद् भवति तत् तस्य कार्यमिति नियमादित्यर्थः। इतश्च नित्यानुष्ठाने दुरितफलभोगो न सिध्यतीत्याह—किञ्चेति। काम्यानुष्ठानस्य नित्यानुष्ठानस्य च यौगपद्यान्नित्यानुष्ठानायासदुःखेन दुरितफलभोगवत् काम्यफलस्यापि भुक्तत्वसम्भवादिति हेतुमाह— तत्तन्त्रत्वादिति। नित्यकाम्यानुष्ठानयोर्यौगपद्येऽपि नित्यानुष्ठानायासदुःखादन्यदेव काम्यानुष्ठानफलम् , श्रुतत्वादिति शङ्कते— अथेति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

किञ्च नित्यस्य फलं नास्तीति प्रतिज्ञायाः विरोधप्रसङ्गादपि नायासमात्रफलं त्वया नित्यस्य वक्तव्यमित्याह—विरुद्धं चेत्यादिना। इतश्च नायासमात्रफलं नित्यमित्याह—किञ्च काम्येति।१सकृदनुष्ठितम् अनेकोपकारकं तन्त्रम्। यथा सकृदनुष्ठितं प्रयाजाद्याग्नेयादित्रयस्योपकारकम्। तथैकमेवाग्निहोत्रादि यथा[यदा] नित्यबुद्ध्या काम्यबुद्ध्या च तन्त्रेणानुष्ठीयेत, तदा नित्यस्य चिदायासमात्रेणोपक्षयः[चेदायासमात्रेणोपक्षयः,] तदा काम्यस्यापि स्याद् अनुष्ठानैक्यादित्यर्थः। काम्यत्वसिद्ध्यन्यथानुपपत्त्यैवाधिकं फलं वक्तव्यमित्याह—अथ काम्येति। दूषणमाह—तदनुष्ठानायासेति। अ. १८. श्लो. ६६ ] १. अनेकोद्देशेन सकृदनुष्ठानं तन्त्रम्। यथा आग्नेयोपांशुयाजाग्नीषोमीययागान् त्रीनुद्दिश्य सकृत् प्रयाजाद्यङ्गानुष्ठानम्। इह तु अनुष्ठानैक्यमात्रं तन्त्रमिति विवक्षि- तम्। २. नित्यकर्मानुष्ठानायासः पूर्वकृतदुरितस्य फलमित्युक्तम् , न तु नित्यकर्मानुष्ठानस्येति कथं स एवोपभोगो नित्यस्य कर्मणः फलमिति भाष्यसंगतिरित्या- शङ्कायामाह — यदनन्तरमिति।

[[९७४]]

विरोधात्। न हि काम्यानुष्ठानायासदुःखात् केवलनित्यानुष्ठानायासदुःखं १भिद्यते। किञ्चान्यत् , अविहितमप्रतिषिद्धं च कर्म तत्कालफलम् , न तु शास्त्रचोदितं प्रतिषिद्धं वा तत्कालफलम्२। काम्यस्यापीति। ननु नित्यस्यैवानुष्ठानायासदुःखं फलम् , न तु काम्यस्य, तस्य स्वर्गादिफलश्रवणादित्याह—अथेति। अथ काम्याग्निहोत्रादि- फलं स्वर्गादिरूपमन्यदेवेति यदि ब्रूषे, तर्हीति शेषः। तदनुष्ठानेति। काम्यानुष्ठानेत्यर्थः। भिन्नमिति। नित्यानुष्ठानायासदुःखादिति भावः। अभिन्नत्वे तु तेनैव काम्यस्य क्षयः स्यादिति भावः। भवतु भिन्नम् , किं ततः? आह—न चेति। तत् नित्यानिष्ठानायासदुःखात् काम्यानुष्ठानायासदुःखस्य भिन्नत्वमित्यर्थः। न चास्ति नैवास्ति। कुतः? दृष्टविरोधात् प्रत्यक्षविरोधात्। दृष्टविरोधमेवोपपादयति—न हीति। हिः प्रसिद्धौ। भिन्नं दुःखं न दृश्यत इत्यन्वयः। अयं भावः—यदि नित्यकाम्याग्निहोत्रयोर्न स्वरूपभेदः, नाप्यनुष्ठानायासदुःखरूपफलभेदः, तर्ह्यनुष्ठानायासदुःखेन नित्यस्येव काम्यस्य कुतो न क्षयः? न च स्वर्गादिफलत्वादक्षय इति वाच्यम् ; यदि दुःखोपभोगात् काम्यस्य क्षयो न स्यात् , तर्हि स्वर्गादिफल- वत्त्वं स्यात्। क्षयाभाव एव नोपपद्यते। सर्वस्यापि कृतस्य कर्मणः फलोपभोगेन क्षय इत्यभ्युपगमादनुष्ठानायासदुःखस्य च कर्मफल- त्वात्। एवमनुष्ठानदुःखोपभोगेनैव क्षीणस्य काम्यस्य कथं स्वर्गादिफलप्रदत्वम्? न ह्यङ्कुरमुत्पाद्य क्षीणं बीजमङ्कुरान्तरमुत्पादयति। तस्मात् स्वर्गादिरूपं काम्याग्निहोत्रफलमन्यदेवेति वक्तुं न शक् यते। अथैतत्साधनाय नित्याग्निहोत्रानुष्ठानायासदुःखमेव फलम् , न तु काम्याग्निहोत्रानुष्ठानायासदुःखमिति कल्प्यते, तर्हि किं नित्यदुःखात् काम्यदुःखं भिन्नमुताभिन्नम्? आद्ये, प्रत्यक्षविरोधः। द्वितीये, काम्यदुःखफलमेवेति। तस्मात् काम्यस्याप्यग्निहोत्रादेर्नित्यस्येवानुष्ठानायासदुःखमेव फलम् , न तु स्वर्गादिकमिति कृत्वा कथं काम्यस्य फलवत्त्वं नित्यस्य तदभावश्चोच्यते त्वया? दूषणान्तरमाह—किं चान्यदिति। यत् कर्म शास्त्रेणाविहितम् , यच्च शास्त्रेणाप्रतिषिद्धम् , तदेव व्यायामादि लौकिकं कर्म, तत्कालफलं कर्मसमकालदृष्टफलकमित्यर्थः। यत्पुनः शास्त्रेण चोदितं प्रतिषिद्धं वा कर्म, तन्न तत्कालफलं भवेत्। अत एव हि ‘प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते। एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता॥’ इति वेदस्य शास्त्रस्य लक्षणं स्मर्यते। न हि काम्यानुष्ठानफलं नित्यानुष्ठानायासदुःखाद्भिन्नं चेत् , तर्हि काम्यानुष्ठानायासदुःखं नित्यानुष्ठानायासदुःखं च मिथो भिन्नं स्यादित्याह— तदनुष्ठानेति। प्रसङ्गस्येष्टत्वमाशङ्क्य निराचष्टे—न चेति। दृष्टविरोधमेव स्पष्टयति—न हीति। आत्मज्ञानवदग्निहोत्रादीनां मोक्षे साक्षादन्वयो नेत्यत्रान्यदपि कारणमस्तीत्याह—किञ्चान्यदिति। तदेव कारणं विवृणोति— अविहितमिति। यत् कर्म मर्दनभोजनादि (तत्) न शास्त्रेण विहितं निषिद्धं वा, तद् अनन्तरफलम् , तथाऽनुभवादित्यर्थः। शास्त्रीयं कर्म तु नानन्तरफलम् , आनन्तर्यस्याचोदितत्वात्३। अतो ज्ञाने दृष्टफले नादृष्टफलं कर्म सहकारि भवति। नापि स्वयमेव दृष्टफले मोक्षे कर्म प्रवृत्तिक्षममिति विवक्षित्वाऽऽह—न त्विति। शास्त्रीयस्याग्निहोत्रादेरपि फलानन्तर्ये स्वर्गादीनामनन्तरमनुपलब्धिर्विरुध्येत। ततस्तेष्वदृष्टे

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘भिन्नं दृश्यते’ इति पा.। २. ‘फलं भवेत्। तदा’ इति पा.। ३. कर्मफले कर्मानुष्ठानाव्यवहितोत्तरकालोत्पत्तेः विधिनाऽबोधितत्वादित्यर्थः। तथा च कस्यचित् फलस्य दृष्टसामग्रीवैकल्येन, प्रतिबन्धकसत्त्वेन वा अनन्तरानुत्पत्तावपि शास्त्रप्रामाण्यमक्षतमिति। पूर्वं क्रियास्वरूपप्रयुक्तस्यायासदुःखस्य फलत्वमभ्युपगम्य तावन्मात्रफलत्वं न सम्भवतीत्युक्तम्। इदानीं तु अदृष्ट- मेव नित्यस्य फलं वक्तव्यमित्याह—किञ्चान्यदिति। नित्यं कर्म न क्रियास्वरूपप्रयुक्तफलम् , चोदितत्वात् , काम्यवदित्यर्थः। किञ्च नित्यकाम्ययोः न स्वरूपे कश्चिद्विशेषोऽस्ति, उत्पत्त्यादिविधीनामविशेषात्। किन्तु अधिकारभेदादेव भेदः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[९७५]]

दृष्टस्य फलस्योपायः प्रत्यक्षानुमित्यविषयः स्यात् ; किं त्वदृष्टस्य फलस्यैव। तस्माददृष्टफलसाधनबोधनेनैव शास्त्रमर्थवत्। न हि ‘ऋतौ भार्यामुपेयात् , न कलञ्जं भक्षयेत् , न सुरां पिबेदि’त्यादिविधिनिषेधवाक् यानां किमपि दृष्टं फलमस्ति। न च ऋतौ भार्योपगमनात् सुखं दृश्यत एवेति वाच्यम् ; अनृतौ भार्यागमनादपि दर्शनाद् ऋतौ तद्गमनविधानस्य वैयर्थ्यादिति। ननु शास्त्रचोदितं शास्त्रप्रतिषिद्धं च कर्मापि तत्कालफलमेवेत्यत आह—१अन्यथेति। शास्त्रचोदितप्रतिषिद्धयोरपि तत्कालफलत्वे सतीत्यर्थः। स्वर्गादिष्वदृष्टफलेषु शास- नोद्यमो न स्यात् , शास्त्रस्येति शेषः, ईश्वरस्येति वा। ‘अदृष्टफलशासने’ति पाठे स्वर्गादिषु कामितेषु विषयेऽदृष्टं स्वर्गादिलक्षणं फलं येषां तेषामदृष्टफलानां ज्योतिष्टोमादिकर्मणां शासनोद्यम इत्यर्थः। ‘स्वर्गाद्यदृष्टफलशासनोद्यम’ इति पाठः समीचीनः। तस्मान्नित्यस्य काम्यस्य वा कर्मणः शास्त्रविहितस्य न तत्कालफलत्वमिति कृत्वा दृष्टमनुष्ठानायासदुःखं न तत्फलं भवितुमर्हति। दुःखार्थं कर्मणाम् अविहितत्वाच्छास्त्रेण। यदि दुःखायैव विहितानि कर्माणि स्युस्तर्हि न कोऽपि तत्र प्रवर्तत इति वैयर्थ्यमेवमपि स्याच्छास्त्रस्य। ननु न व्यर्थं शास्त्रम् , पूर्वकृतदुरितक्षयः कर्मानुष्ठानदुःखोपभोगेनैव कर्तव्य इति विधानादिति चेत् , मैवम् ; किं दुरितक्षयः सामान्यदुःखोपभोगेन भवति? उत विशेषदुःखोपभोगेन? आद्ये, कर्मविधिवैयर्थ्यम् , शिरःपाषाणवहनादिदुःखेनापि दुरितक्षयसत्त्वात्। द्वितीये, कर्मानुष्ठानायासदुःखातिरिक्तद्वन्द्वरोगादिदुःखं न स्यात् पुरुषस्य। सति तस्मिन् दुरितक्षयस्यावर्जनीयत्वात्। न च पूर्वकृत- दुरितक्षयः कर्मानुष्ठानायासदुःखोपभोगेनापि कर्तव्य इति शास्त्रमर्थवदिति वाच्यम् ; द्वन्द्वरोगादिदुःखोपभोगेनैव क्षीयमाणस्य दुरित- कर्मणः क्षयार्थं नित्यादिकर्मविधानानर्थक् यात्। न च कर्मानुष्ठानायासदुःखक्षपणीयं पूर्वकृतं दुरितमन्यत्। द्वन्द्वरोगादिदुःखोपभोग- क्षपणीयं दुरितमपरम्। यथा जठररोगदुःखोपभोगक्षपणीयं दुरितमन्यत् , शिरःपाषाणवहनादिदुःखक्षपणीयमपरम् , तद्वत्। अत एव ‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हती’ति स्मृतिरपि सङ्गच्छते। अग्निहोत्रादिकर्मानुष्ठानायासजन्यदुःखोपभोगनिवर्त्यपातकाभावा- च्छूद्रस्योपनयनादिसंस्काराभावः। कर्मार्थो हि स संस्कारः। द्विजेषु तु तादृशपातकसत्त्वात् संस्कारविधानमिति वाच्यम् ; द्वन्द्वरोगादि- तुल्यमग्निहोत्रादिकं विहितं कर्म। सपापेभ्यो द्विजेभ्यो निष्पापः शूद्र एवाधिक इति कल्पयितुस्तव साहसस्य वाचामगोचरत्वात्। सत्त्वस्वभावस्य ब्राह्मणस्य सपापत्वम् , तमःस्वभावस्य शूद्रस्य निष्पापत्वं च विचित्रायते। एवं सति संस्कारानर्हाणां चण्डालपक्षि- पशुस्थावरादीनां तमःस्वभावानामपि निष्पापत्वं स्यात्। न चेष्टापत्तिः, ‘वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम्। शरीरजैः कर्म- दोषैर्याति स्थावरतां नरः’ इति स्मृतिविरोधात्। शूद्रादीनां पापस्वभावात् , ब्रह्मणादीनां पुण्यस्वभावादेव कर्माधिकारो ब्राह्मणादीनाम् ; वेदाधिकारश्च। उक्तं हि भगवतैव ‘तन्मन्त्रं ब्राह्मणाधीनं ब्राह्मणो मम दैवत’मिति, ‘स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा’ इति। किञ्च निष्पापत्वाच्छूद्रः संस्कारानर्हः, सपापत्वाद् द्विजः संस्कारार्ह इति महदसङ्गतम्। संस्कारानर्हत्वस्यैव पापकार्यत्वात्। न हि यजनादिकर्मार्हत्वं ब्राह्मणस्य पापफलमिति वक्तुं शक् यते। तथा सति गमनादिकर्मार्हत्वमपि चराणां भूतानां पापफलमेव, स्थावराण्येव महापुण्यानीति वक्तव्यत्वात्। तस्मात् तमःस्वभावत्वेन सपापत्वादेव शूद्राणामुपनयनाद्यनर्हत्वम् , न तु निष्पापत्वात्। न हि शतवारम् उपदिष्टोऽपि शूद्रो वेदाक्षरमुच्चारयितुं क्षमते। न हि तत्पुण्यस्य फलम् , अन्यथा ग्राम्याक्षरोच्चारणाशक्तिर्मूकस्यापि पुण्यफलं स्यात्। ‘न शूद्र’ इति वचनस्य तु देवर्षिपितृऋणात्मकं पातकं किञ्चिदपि शूद्रे नास्ति। द्विजो हि जन्मनैव त्रिभिः ऋणवान् जायते। स शूद्रः संस्कारं च नार्हति, तमःस्वभावत्वेनातिपापित्वादित्यर्थः। एवं सत्त्वस्वभावस्य ब्राह्मणस्य विहितं यजनादिलक्षणं नित्यकर्म कथं द्वन्द्वरोगादिवत् पापफलं भवितुमर्हति? यदि नित्यकर्म यजनादिकं पापफलं स्यात् तर्हि तमःस्वभावस्यैव पापीयसः शूद्रस्य चण्डालस्य वा तद् विहितं भवेत्। नापि श्रुतमहाफलस्य नित्यकर्मणः पूर्वकृतपापफलत्वं वक्तुमुचितम्। न हि पूर्वकृतदुरितफलस्य द्वन्द्वरोगादेर्महाफलत्वं श्रूयत इति। अपि तथाविधफलापेक्षया प्रवृत्तिरग्निहोत्रादिषु न स्यादित्याह—तदेति। किञ्च नित्यानामग्निहोत्रादीनां नादृष्टं फलम् , तेषामेव काम्यानां

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १८. श्लो. ६६ ] १. ‘तत्कालफलम् , अन्यथा स्वर्गाद्यदृष्टफलशासनोद्यमो न स्यात्’ इति रा.पा. भाति।

[[९७६]]

ननु काम्यानामेव महाफलत्वश्रवणम् , न तु नित्यानामिति काम्यकर्मणां न द्वन्द्वरोगादितौल्यम् ; किन्तु नित्यानामेव। नित्यानि हि अनुष्ठानायासदुःखोपभोगमात्रेण क्षीयन्ते। एवं दृष्टदुःखफलकत्वाददृष्टफलाभावाच्च नित्यानि द्वन्द्वरोगादितुल्यान्येवेति कृत्वा पूर्वकृतदुरितफलमेव नित्यानुष्ठानमिति शङ्कायामाह—अग्निहोत्रादीनामिति। अग्निहोत्रादीनामेव नित्यानां कर्मस्वरूपाविशेषे सत्यप्यनुष्ठानायासदुःखमात्रेणोपक्षयः, तेषामेव काम्यानामङ्गेतिकर्तव्यताद्याधिक् ये असत्यपि फलकामित्वमात्रेण स्वर्गादिमहाफलत्वम् इति वक्तुं न शक् यत इति शेषः। यद्वा, स्वर्गाद्यदृष्टफलशासनोद्यमाभावरूपदोषपरिहाराय शास्त्रचोदितं काम्यमेव तत्कालफलं न भवति, किन्त्वदृष्टफलकं भवति। नित्यं तु दृष्टफलकमेवेति ब्रूम इति शङ्कायामाह—अग्निहोत्रादीनामिति। एतस्य कर्मणोऽङ्गान्येवं कर्तव्यानीति यो विधिः साऽङ्गेतिकर्तव्यता।आदिपदात् कारकभेदादिग्रहणम्। तदादीनाम् , आधिक् ये विशेषे। यदि विवाहोपनयनयोरिव कर्म- स्वरूपभेदः, अङ्गेतिकर्तव्यताभेदः, कारकादिभेदश्च स्यान्नित्यकाम्याग्निहोत्रयोस्तर्ह्यनुष्ठानायासदुःखेन नित्यस्य क्षयः, काम्यस्य तु नेति वक्तुं शक् येत, न तु तथाऽस्ति। तस्मात् तथावचनमयुक्तमेव। न हि फलकामित्वमात्रेण कर्मस्वरूपाद्यभेदेऽपि काम्यस्य दुःखमात्रेण न क्षय इति वक्तुं शक् यते। फलकामित्वस्य पुरुषनिष्ठस्य कर्मणः स्वाभाविकशक्त्यतिरिक्तशक्तिजननायोगात्। दुःखमात्रजनकस्य कर्मणो- ऽग्निहोत्रादेः कथं पुरुषगतकामित्वमात्रेण स्वर्गरूपमहाफलजनकत्वसम्भवः? एवं दुःखमात्रफलकेनाग्निहोत्रादिकर्मणा स्वर्गमारोढु- मिच्छाऽपि पुरुषस्य तुरगमारुह्य गगने विहर्तुमिच्छेव व्यर्थैव। ततश्च ‘ज्योतिष्टोमेन स्वर्गकामो यजेते’ति विधिरपि व्यर्थैव [व्यर्थ एव], तुरगेण गगनविहारकामः सञ्चरेदितिवत्। न हि पुरुषस्य गगनविहारकामित्वमात्रेण तुरगस्य भूसञ्चाराक्षमस्य गगनसञ्चारशक्तिः सम्भवति, येन पुरुषस्य स्वर्गकामित्वमात्रेण कर्मणोऽग्निहोत्रादेर्दुःखमात्रफलकस्य स्वर्गदानशक्तिः सम्भवेत्। तस्माच्छास्त्रचोदितस्य नित्यस्याग्निहोत्रादेर्दुःखमेव दृष्टं फलम् , तस्यैव काम्यस्य स्वर्गः फलमिति वचनमयुक्तमेव। तस्माच्चेति। काम्यानामग्निहोत्रादीनां नित्याग्निहोत्राभिन्नस्वरूपाणां स्वर्गादिमहाफलत्वाभ्युपगमादित्यर्थः। नित्यानां कर्मणामदृष्टफलाभावः कदाचिदपि नोपपद्यत इत्यन्वयः। एवं नित्यकर्मणामदृष्टफलाभावानुपपत्तावदृष्टफले सति तेन बन्धः स्यादेवेति न नित्यकर्मानुष्ठानान्मोक्षः। ननु नित्यकर्मणा- मदृष्टफलमस्ति कृतदुरितक्षयरूपम्। अत एव हि प्राज्ञैः सङ्कल्प्यते— उपात्तदुरितक्षयार्थमिति। तच्च दुरितमिह जन्मनि जन्मान्तरेषु वा कृतं भवति। उभयविधस्यापि दुरितस्य नित्यैः क्षयसम्भवात् , प्रारब्धदुरितं तु न नित्यैरपि क्षीयते, तस्य भोगत एव नाशात्। स च भाष्यार्कप्रकाशः तादृक्फलम् , न च हेतुं विनाऽयं विभागो भावीत्याह—अग्निहोत्रादीनामिति। फलकामित्वमात्रेणेति। न स्यादिति पूर्वेण सम्बन्धः। यानि नित्यान्यग्निहोत्रादीनि यानि च काम्यानि, तेषामुभयेषामेव कर्मस्वरूपविशेषाभावेऽपि नित्यानां तेषामनुष्ठानायासदुःखमात्रेण क्षयो न फलान्तरमस्ति, तेषामेव काम्यानामङ्गाद्याधिक् याभावेऽपि फलकामित्वमधिकारिण्यस्तीत्येतावन्मात्रेण स्वर्गादिमहाफलत्वमित्ययं विभागो न प्रमाणवानित्यर्थः। उक्तविभागायोगे फलितमाह—तस्मान्नेति। भवेद् यदि, तदा स्वर्गादिष्वपि १अदृष्टफलशासने चोद्यमो न स्यात्। अग्निहोत्रादीनामेव कर्मस्वरूपाविशेषेऽनुष्ठाना- यासदुःखमात्रेणोपक्षयः नित्यानाम् , काम्यानां च स्वर्गादिमहाफलत्वम् अङ्गेतिकर्तव्यताद्याधिक् ये त्वसति फलकामि- त्वमात्रेणेति २न शक् यं कल्पयितुम्। ३तस्मान्न नित्यानां कर्मणामदृष्टफलाभावः कदाचिदप्युपपद्यते। १. ‘अदृष्टफलाशासनेनोद्यम’ इति पा.। २. ‘न शक् यं कल्पयितुम्’ इति क्वचिन्न। व्याख्यानुसारेणापि तस्यासत्त्वं ज्ञायते। ३. ‘तस्माच्च न’ इति पा.। तावन्मात्रेण च नित्यानामायासमात्रं फलम् , काम्यानां तु स्वर्गादि फलमिति न शक्यते वक्तुमित्याह—अग्निहोत्रादीना- मेवेति। यस्मान्नित्यानां काम्यवन्नित्याधीनमेव फलं ‘कर्मणा पितृलोकः’ इत्यादिश्रुतिसिद्धं वक्तव्यम् , तस्मादित्युपसंहारः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या

[[९७७]]

भोगो द्वन्द्वादिरोगदुःखोपभोगादिरूपः। एवं स्थिते यातनाशरीरपशुपक्ष्यादिजन्मप्रददुरितनिबर्हणरूपमहाफलस्य नित्यस्य कर्मणः संसारनाशहेतुत्वमेव, न तु बन्धहेतुत्वमिति कृत्वा नित्यकर्मानुष्ठानान्मोक्ष एवेति शङ्कायां नित्यकर्मानुष्ठानादशुभस्य शुभस्य वा कर्मणः क्षयो न सम्भवतीत्याह—अतश्चेति। अस्माच्च कारणादित्यर्थः। किं तत् कारणम्? अत आह—अविद्येति। अविद्यापूर्वकस्य शुभस्या- शुभस्य वा कर्मणोऽशेषतः क्षयकारणं विद्यैव, न नित्यकर्मानुष्ठानमिति हेतोरित्यर्थः। कुतो नित्यकर्मानुष्ठानान्न क्षयः? अत आह— अविद्याकामेति। हि यस्मात् सर्वमेवेहजन्मनि जन्मान्तरे वा कृतं नित्यकाम्यप्रतिषिद्धप्रायश्चित्तादिरूपं समस्तमपि कर्म अविद्याकाम- बीजम् अविद्या च कामश्चाविद्याकामौ बीजं हेतुर्यस्य तद् अविद्याकाममूलकमित्यर्थः। यथा शुभमशुभं वा कर्माविद्यापूर्वकं तथा नित्य- कर्माप्यविद्यापूर्वकमेवेति कृत्वा अविद्यापूर्वकस्य कर्मणः शुभाशुभलक्षणस्य कथमविद्यापूर्वकमेव नित्यकर्म नाशकं स्यात्? न हि तमो- मूलकस्य सर्पादिभयस्य तमोमूलकमेव पिशाचादिभयं निवर्तकं भवति। वस्तुतस्तु नित्यकर्मभिर्दुरितक्षयसम्भवेऽपि सुकृतक्षयो न सम्भ- वतीति कृत्वा दुरितस्यापि समूलं क्षयो न सम्भवति। दुरितमूलस्याज्ञानस्य नित्येन क्षयासम्भवात् सति च मूले सति च सुकृतकर्मपुञ्जे कथं पुरुषस्य मोक्षः स्यान्नित्यानुष्ठानमात्रेण? न कथमपीति नित्यस्य दुरितक्षयार्थत्वाभ्युपगमेऽपि न मुक्तिस्तस्मादिति बोध्यम्। अत एव ‘अशेषतः’ इत्युक्तं भाष्यकृद्भिः। अशेषतो निःशेषतो मूलरूपाज्ञानस्यावशेषो न भवति यथा तथेत्यर्थः। नन्वविद्यामूलस्य कर्मणोऽविद्यामूलं कर्म न नाशकमिति नियमो न सिध्यति, अविद्यामूलस्याभोज्यभोजनादिलक्षणपाप- कर्मणोऽविद्यामूलेन चान्द्रायणादिलक्षणेन प्रायश्चित्तेन कर्मणा क्षयसम्भवात्। अन्यथा प्रायश्चित्तकाण्डस्य धर्मशास्त्रान्तर्गतस्य वैयर्थ्या- पातादिति चेत् , मैवम् ; अविद्यामूलस्य कर्मणोऽविद्यामूलं कर्म न नाशकमित्येतावानेव नियमो नास्माभिरभ्युपेयते, किं तर्हि? अविद्या -मूलस्य कर्मणोऽविद्यामूलं कर्म निःशेषतो न नाशकमिति; ततो न दोषः, अज्ञानस्य मूलस्य वा शेषोऽस्तीत्युक्तत्वात्। न च मूलमप्य- ज्ञानं कुतो न नाशयति कर्मेति वाच्यम् ; अज्ञानजन्यत्वात् कर्मणः। न हि मृन्मयो घटो मृदं नाशयति, येनाज्ञानमयं कर्माज्ञानं नाशयेत्। नन्वज्ञानात् कृतमभोज्यभोजनादिकं दुरितम् , तत्प्रायश्चित्तं चान्द्रायणादिकं तु ज्ञानादेव क्रियते। तथा नित्यकर्मापीति कृत्वा निवर्तकं कर्म ज्ञानमूलकमेवेत्यज्ञानमूलस्य कर्मणो निःशेषतः क्षय उपपद्यते ज्ञानमूलेन नित्येन कर्मणेति शङ्कायाम् , मैवं वादीः; अविद्याकामबीजमेव सर्वं कर्म यथैवं तथोपपादितं भगवतेहैवेत्याह—तथेति। किमुपपादितम्? अत आह—अविद्वदिति। अविद्वान् अविद्यावान् स विषय आश्रयो यस्य तदविद्वद्विषयं कर्म। संन्यासपूर्विका सर्वकर्मसंन्यासमूला ज्ञाननिष्ठा तु विद्वद्विषयेत्युपपादित- मित्यर्थः। कैर्वाक् यैरुपपादितोऽयमर्थः? अत आह—उभावित्यादि। ‘य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते’ इति, ‘वेदाविनाशिनं नित्यं य एनमजमव्ययम्। कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥’ इमौ श्लोकौ

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अतश्चाविद्यापूर्वकस्य कर्मणो विद्यैव शुभस्याशुभस्य वा क्षयकारणमशेषतः, न नित्यकर्मानुष्ठानम्। अविद्या- कामबीजं हि सर्वमेव कर्म। तथा चोपपादितम्। अविद्वद्विषयं कर्म, विद्वद्विषया च सर्वकर्मसंन्यासपूर्विका ज्ञाननिष्ठा। ‘उभौ तौ न विजानीतः’(भ.गी.२.१९), ‘वेदाविनाशिनं नित्यम्’ (भ.गी.२.२१), ‘ज्ञानयोगेन सांख्यानां कर्मयोगेन काम्यवन्नित्यानामपि पितृलोकाद्यदृष्टफलवत्त्वे दुरितनिवृत्त्यर्थत्वायोगात् तादर्थ्येनात्मविद्यैवाभ्युपगन्तव्येत्याह—अतश्चेति। शुभाशुभात्मकं कर्म सर्वमविद्यापूर्वकं चेद् , अशेषतस्तर्हि तस्य क्षयकारणं विद्येत्युपपद्यते, न तु सर्वं कर्माविद्यापूर्वकमिति सिद्धमित्या- शङ्क्याह— अविद्येति। तत्र हिशब्दद्योतितां युक्तिं दर्शयति—तथेति। इतश्चाविद्वद्विषयं कर्मेत्याह—अविद्वदिति। अधिकारिभेदेन निष्ठा- द्वयमित्यत्र वाक् योपक्रममनुकूलयन् , ‘आत्मनि कर्तृत्वं कर्मत्वं चारोपयन् न जानात्यात्मान’मिति वदता कर्माज्ञानमूलमिति दर्शितमि- त्याह—उभाविति। ‘आत्मानं याथातथ्येन जानन् कर्तृत्वादिरहितो भवती’ति ब्रुवता कर्मसंन्यासे ज्ञानवतोऽधिकारित्वं सूचितमित्याह— वेदेति। निष्ठाद्वयमधिकारिभेदेन बोद्धव्यमित्यत्रैव वाक् यान्तरमाह—ज्ञानेति। ‘न बुद्धिभेदं जनयेदि’त्यत्र चाविद्यामूलत्वं कर्मणः सूचयता

[[अ. १८. श्लो. ६६]] [[९७८]]

योगिनाम्’ (भ.गी.३.३) ‘अज्ञानां कर्मसङ्गिनाम्’ (भ.गी.३.२६) ‘तत्त्ववित्तु महाबाहो…. गुणा गुणेषु वर्तन्ते इति मत्वा न सज्जते’(भ.गी.३.२८) ‘सर्वकर्माणि मनसा संन्यस्यास्ते’(भ.गी.५.१३) ‘नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्व- वित्’(भ.गी.५.८), अर्थादज्ञः करोमीति१। आरुरुक्षोः कर्म कारणम् , २आरूढस्य योगस्थस्य शम एव कारणम्। (द्र.भ.गी.६.३) उदारास्त्रयोऽप्यज्ञाः, ज्ञानी त्वात्मैव मे मतम् (द्र.भ.गी.७.१८), अज्ञाः कर्मिणो गतागतं कामकामा लभन्ते(भ.गी.९.२१), अनन्याश्चिन्तयन्तो मां नित्ययुक्ताः यथोक्तम् आत्मानम् आकाशकल्पम् अकल्मषम् उपासते। ‘ददामि बुद्धियोगं तं येन मामुपयान्ति ते’ (भ.गी.१०.१०), अर्थान्न कर्मिणोऽज्ञा उपयान्ति। ३भगवत्कर्मकारिणो ये ज्ञानिनः सर्वकर्माभावं दर्शयतः। ‘ज्ञानयोगेने’ति श्लोको ज्ञानिनां ज्ञानम् , अज्ञानां कर्म च विभज्य दर्शयति। ‘अज्ञाना’मिति, ‘तत्त्व- वित्तु’ इति वचनद्वयमज्ञानां कर्मसङ्गो, न तु ज्ञानिनामिति दर्शयति। ‘सर्वकर्माणी’ति, ‘नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववि’दिति वचनद्वयं सर्वकर्मसंन्यासं दर्शयति विदुषः। अज्ञः करोमीति। ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ता ऽहमिति मन्यते॥’ इति श्लोकेनाज्ञस्यैव कर्तृत्वमुक्तमिति भावः। ‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते॥’ इति श्लोकेन योगमारुरुक्षोरज्ञस्य कर्म साधनम् , योगारूढस्य प्राज्ञस्य तु सर्वकर्मसंन्यास एवेत्युक्तमित्यर्थः। उदारा इति। ‘आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ। उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मत’मिति श्लोकेनार्तादयस्त्रयो ऽज्ञा उदाराः, ज्ञान्येक एव ममात्मेति भगवता ज्ञानिन एव स्तुतत्वादात्मत्वेनात्मनश्चाकर्तृत्वादकर्तृत्वं ज्ञानिनः सिद्धम् ; अज्ञानां च त्रयाणामनात्मत्वेन कर्तृत्वं च सिद्धम्। अज्ञा इति। ‘त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते। ते पुण्यमासाद्य सुरेन्द्र- लोकमश्नन्ति दिव्यान् दिवि देवभोगान्॥ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एवं त्रयीधर्ममनुप्रपन्ना गता- गतं कामकामा लभन्ते॥’ इतीहानुसन्धेयम्। अनन्या इति। ‘अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥ अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते। इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥ तेषां नित्याभियुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥’ इतीहानुसन्धेयम्। अर्थादिति। बुधा मामुपयान्तीत्युक्तत्वादिति भावः। कर्मनिष्ठाऽविद्वद्विषयाऽनुमोदितेत्याह—अज्ञानामिति। यदुक्तं विद्वद्विषया संन्यासपूर्विका ज्ञाननिष्ठेति, तत्र ‘तत्त्ववित्तु महाबाहो गुणकर्म- विभागयोः’ इत्यादिवाक्यमुदाहरति—तत्त्ववित्त्विति। तत्रैव वाक् यान्तरं पठति—सर्वेति। विदुषो ज्ञाननिष्ठेत्यत्रैव पाञ्चमिकं वाक् यान्तर- माह—नैवेति। तत्रैवार्थसिद्धमर्थं कथयति—अज्ञ इति। मन्यत इति सम्बन्धः। अज्ञस्य चित्तशुद्ध्यर्थं कर्म, शुद्धचित्तस्य कर्मसंन्यासो ज्ञानप्राप्तौ हेतुरित्यत्र वाक् यान्तरमाह—आरुरुक्षोरिति। यथोक्ते विभागे साप्तमिकं वाक्यमनुगुणमित्याह—उदारा इति। ‘एवं त्रयी- धर्म’मित्यादि नावमिकं वाक्यम् अविद्वद्विषयं कर्मेत्यत्र प्रमाणयति—अज्ञा इति। विदुषः संन्यासपूर्विका ज्ञाननिष्ठेत्यत्रैव नावमिकं वाक् यान्तरमाह—अनन्या इति। मामित्येतद् व्याचष्टे—यथोक्तमिति। ‘तेषां सततयुक्ताना’मित्यादि दाशमिकं वाक् यं तत्रैव प्रमाणयति— ददामीति। विद्यावतामेव भगवत्प्राप्तिनिर्देशादितरेषां तदप्राप्तिः सूचितेत्यर्थसिद्धमर्थमाह—अर्थादिति। ननु भगवत्कर्मकारिणां युक्ततम- त्वात् कर्मिणोऽपि भगवन्तं यान्तीत्याशङ्क्याह—भगवदिति।ये ‘मत्कर्मकृदि’त्यादिन्यायेन भगवत्कर्मकारिणः, ते यद्यपि युक्ततमाः,

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

नन्वविद्वद्विषयं कर्मेति न शक्यते वक्तुम् , यतः भगवदाराधकानां कर्मिणामेव भगवता युक्त[तमत्वमुक्त]म् – ‘ते मे युक्ततमाः’ इति, तत्राह—भगवत्कर्मकारिण इति। ज्ञानध्यानाद्यपेक्षयोत्तरोत्तरहीनं फलत्यागावसानं [साधनं] येषां ते

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. अज्ञः करोमीति मन्यते इति शेषः पूरणीय इत्यर्थः। २. ‘योगारूढस्य’ इति पा.। ३. भगवत्कर्मकारिणोऽपि चित्तशुद्धिज्ञानप्राप्तिद्वारेणैव भगवन्तं यान्तीति नाज्ञा भगवन्तं यान्तीत्याशयः।

[[९७९]]

अज्ञा इत्यादिना ग्रन्थेन अज्ञानां कर्मिणामेव यज्ञानुष्ठानम् , स्वर्गादिफलप्राप्तिः, पुनरावृत्तिश्च। ज्ञानिनां संन्यासिनां त्वात्मभजनम् , आत्मप्राप्तिः, अपुनरावृत्तिश्चेति सिद्धमिति बोध्यम्। फलितार्थमाह—भगवदिति। ये भगवत्कर्मकारिणो भगवद्विहितं नित्यं कर्म भगवदाराधनबुद्ध्या (ये) कुर्वन्ति, ते भगवत्कर्मकारिणः इत्युच्यन्ते; युक्ततमाः समाहितचित्तास्तेऽप्यज्ञाः कर्मिणः उत्तरोत्तरहीनफल- त्यागावसानसाधनाः भवन्ति। उत्तरस्मादुत्तरस्माद् भगवच्चित्तसमाधानाभ्यासादिरूपाद् हीनोऽपकृष्टः फलत्यागोऽवसानं परिसमाप्ति- र्यस्य तदुत्तरोत्तरहीनफलत्यागावसानं साधनं येषां ते तथोक्ता भवन्ति। ‘अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम्। अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय॥ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव।…अथैतदप्यशक्तोऽसि…सर्वकर्मफलत्यागं कुरु’ इति चित्त- समाधानाद्यशक्तस्याज्ञस्य फलत्यागविधानाद् अज्ञा एते कर्मिण इति भावः। अनिर्देश्याक्षरोपासकाः अनिर्देश्यमक्षरमात्मतत्त्वम् , तस्योपासकास्तु ‘अद्वेष्टा सर्वभूताना’मित्यारभ्याध्यायपरिसमाप्तिपर्यन्तम् आऽध्यायपरिसमाप्त्युक्तानि साधनानि सर्वभूतद्वेषाभावमैत्र- करुणनिर्ममत्वनिरहङ्कारत्वसमदुःखसुखत्वसन्तुष्टत्वप्रमुखानि येषां ते तथोक्ताः। क्षेत्राध्यायाद्यध्यायत्रयोक्तानि ‘अमानित्वमदम्भित्व- महिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥’ इत्यादीनि, ‘न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति। उदासीन- वदासीनो गुणैर्यो न विचाल्यते॥’ इत्यादीनि, ‘निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः’ इत्यादीनि च येषां ते तथोक्ताश्च भवन्ति। एवं ज्ञानिनां कर्माभावादेव ‘अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्। भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचि’दिति श्लोकेनानिष्टादिफलत्रयाभावः। अज्ञानां कर्मसत्त्वादेव तत्फलत्रयसद्भावश्चोक्त इत्याह—अधिष्ठानादीति। ‘अधिष्ठानं तथा कर्ता करणं च पृथग्विधम्। विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम्॥’ इत्युक्तमधिष्ठानादिपञ्चकं हेतुर्येषां तेषामधिष्ठानादिपञ्चकहेतूनां सर्वेषां नित्यानां काम्यानां प्रतिषिद्धानां च कर्मणां संन्यासिनां त्यागशीलानाम्। एवं त्यागित्वे हेतुमाह— आत्मेति। आत्मा एकः अकर्ता चेत्येवंरूपज्ञानवताम् अत एव परस्याम् उत्कृष्टायाम् , कर्मनिष्ठातः इति भावः। ज्ञाननिष्ठायां वर्तमानानाम् अत एव भगव- त्तत्त्वविदां प्रत्यगभिन्नपरमात्मयाथात्म्यविदाम् अत एव लब्धं भगवत्स्वरूपात्मैकत्वरूपं शरणं यैः तेषाम् , भगवानेक एवात्मेति तथापि कर्मिणोऽज्ञाः सन्तो न भगवन्तं सहसा गन्तुमर्हन्तीत्यर्थः। तेषामज्ञत्वे गमकं दर्शयति—उत्तरोत्तरेति। चित्तसमाधानमारभ्य फलत्यागपर्यन्तं पाठक्रमेणोत्तरोत्तरं हीनसाधनोपादानादभ्यासासमर्थस्य भगवत्कर्मकारित्वाभिधानाद् भगवत्कर्मकारिणामज्ञत्वं विज्ञात- मित्यर्थः। ‘ये त्वक्षरमनिर्देश्य’मित्यादिवाक् यावष्टम्भेन विद्वद्विषयत्वं संन्यासपूर्वकज्ञाननिष्ठाया निर्धारयति—अनिर्देश्येति। उक्तसाधनाः तेन ते संन्यासपूर्वकज्ञाननिष्ठायामधिक्रियेरन्निति शेषः। किञ्च त्रयोदशे यान्यमानित्वादीनि, चतुर्दशे च ‘प्रकाशं च प्रवृत्तिं चे’त्यादीनि यानि, पञ्चदशे च यान्यसङ्गत्वादीन्युक्तानि, तैः सर्वैः साधनैः सहिता भवन्त्यनिर्देश्याक्षरोपासकाः, ततोऽपि ते ज्ञाननिष्ठायामेवाधिक्रिये- रन्नित्याह—क्षेत्रेति। निष्ठाद्वयमधिकारिभेदेन प्रतिष्ठाप्य ज्ञाननिष्ठानाम् अनिष्टमिष्टं मिश्रमिति त्रिविधं कर्मफलं न भवति, किन्तु मुक्तिरेव, कर्मनिष्ठानां तु त्रिविधं कर्मफलम् , न मुक्तिरिति शास्त्रार्थविभागमभिप्रेतमुपसंहरति—अधिष्ठानादीति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

युक्ततमा अपि कर्मिणोऽज्ञाः, ते उत्तरोत्तरहीनफलत्यागावसानसाधनाः। अनिर्देश्याक्षरोपासकास्तु ‘अद्वेष्टा सर्व- भूतानाम्’(भ.गी.१२.१३) इत्याऽध्यायपरिसमाप्त्युक्तसाधनाः, क्षेत्राध्यायाद्यध्यायत्रयोक्तज्ञानसाधनाश्च। अधिष्ठानादि- पञ्चहेतुकसर्वकर्मसंन्यासिनाम् आत्मैकत्वाकर्तृत्वज्ञानवतां परस्यां ज्ञाननिष्ठायां वर्तमानानां भगवत्तत्त्वविदाम् अनिष्टा- दिकर्मफलत्रयं परमहंसपरिव्राजकानामेव लब्धभगवत्स्वरूपात्मैकत्वशरणानां न भवति, भवत्येवान्येषामज्ञानां तथोक्ताः, ततस्तेषामज्ञत्वमित्यर्थः। एवं तावदविद्वद्विषयां कर्मनिष्ठां, विद्वद्विषयं च संन्यासमुपपाद्य निष्ठाद्वयस्य फलमपि विलक्षणमेवेत्याह—अनिर्देश्येति। अनिर्देश्याक्षरोपासकानामनिष्टादि कर्मत्रयफलं न भवतीति सम्बन्धः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. १८. श्लो. ६६]] [[९८०]]

कर्मिणामसंन्यासिनाम् इत्येष गीताशास्त्रोक्तस्य कर्तव्याकर्तव्यार्थस्य विभागः। अविद्यापूर्वकत्वं सर्वस्य कर्मणोऽसिद्धमिति चेन्न; ब्रह्महत्यादिवत्। यद्यपि शास्त्रावगतं नित्यं कर्म, तथाप्य- विद्यावत एव भवति। यथा प्रतिषेधशास्त्रावगतमपि ब्रह्महत्यादिलक्षणं कर्मानर्थकारणम् अविद्याकामादिदोषवतो ज्ञानैकशरणानामित्यर्थः। ‘भगवत्स्वरूपात्मैकशरणाना’मिति वा पाठः। भगवत्स्वरूप आत्मैवैकं मुख्यं शरणं येषां तेषां परमहंस- परिव्राजकानामनिष्टादिकर्मफलत्रयं न भवति; अनिष्टादि त्रिविधं कर्मफलं न भवति। अन्येषामज्ञानाम् अत एवासंन्यासिनां कर्मिणां त्वनिष्टादिकर्मफलत्रयं भवत्येव। तस्मात् कर्मिणां कर्मणा बन्ध एव, ज्ञानिनां ज्ञानेन मोक्ष एवेति भावः। इतिशब्दः परिसमाप्तौ। एष उक्त इत्यर्थः। ज्ञानादेव मोक्षः, न तु कर्मण इत्येवंरूप इति भावः। गीतेति। गीताशास्त्रेण मुमुक्षुणा ज्ञाननिष्ठैव कर्तव्येति विभज्य दर्शितोऽयमर्थ इत्यर्थः। गीताशास्त्रोक्तस्य कर्तव्यस्य मुमुक्षुणाऽनुष्ठेयस्यार्थस्य ज्ञाननिष्ठारूपस्य विभागः इत्यक्षरार्थः। यद्वा गीता- शास्त्रोक्तयोः कर्तव्ययोरज्ञेन प्राज्ञेन च मुमुक्षुणा कार्ययोरर्थयोः कर्मज्ञाननिष्ठयोर्विभागः। तस्मादज्ञेन चित्तशुद्ध्यर्थं कर्मयोगः कर्तव्यः; विदुषां तु मोक्षार्थं ज्ञाननिष्ठैव कर्तव्या। ज्ञानादेव सर्वबन्धविनिवृत्तिः, न तु कर्मणः। अज्ञानकृतानां सर्वेषां बन्धानामज्ञानमयेन कर्मणा निवृत्त्यसम्भवात् , तमःकृतानां सर्पाभासादीनां तमोमयेन पिशाचेनानिवृत्तिवत्। ज्ञानं त्वज्ञानविरोधीति युक्तम्। तस्याज्ञानमूलक- सर्वबन्धनिवर्तकत्वं प्रकाशस्येव तमोमूलकसर्पादिनिवर्तकत्वम्। न च नित्यकर्म ज्ञानपूर्वकमेवेति नाज्ञानमयमिति वाच्यम् ; मया कृतस्यास्य पापस्येदं कर्म निवर्तकमित्येवंरूपं ज्ञानं नास्माभिर्ज्ञानमित्युच्यते; किन्तु तदज्ञानमेव। ‘अकर्ताऽभोक्ता चिन्मात्रोऽहं सदाशिवः’ इत्यात्मज्ञानमेव ज्ञानमित्यस्माभिरुच्यते। तद्धि न कर्मणो मूलम् , किन्तु नाशकमेव। कर्ता भोक्ताऽहमिति विरुद्धं ज्ञानम- ज्ञानात्मकं हि कर्मणो मूलम्। तस्मादज्ञानमयमेव नित्यकर्म, प्रायश्चित्तकर्म, काम्यकर्म, प्रतिषिद्धकर्म, व्यायामादिलौकिककर्म च, न तु ज्ञानमूलकम्। ज्ञानाज्ञानयोर्विरोधित्वेन ज्ञानकर्मणोरपि विरोधात्। अज्ञानमूलकं हि कर्म अज्ञाननिवर्तकेन ज्ञानेन निवर्त्यते। तमो- मूलको रज्जुसर्पाभासो यथा तमोनिवर्तकेन प्रकाशेन निवर्त्यते। एवं कर्मभिरनिवर्त्ये अज्ञाने तत्कार्येषु सुकृतकर्मसु च सत्सु , कर्माज्ञान- निवर्तके सर्वकर्मसंन्यासपूर्वके ज्ञाने चासति कथं पुरुषस्य मोक्षलाभः? न कथमपि। अज्ञानं तत्कृतकर्माणि च पुरुषस्य पशोरिव रज्जवः कण्ठपाशायितानि हि। तच्छेदनार्थं ज्ञानलवित्रमेवाश्रयणीयं कुशलेन, न तु नित्यकर्मरूपपाशान्तरमिति। ननु यदि गीताशास्त्रेणैवाज्ञेन कर्म कर्तव्यमित्युच्यते, तर्ह्यविद्यापूर्वकं[कत्वं] सर्वस्य कर्मणोऽसिद्धम् , शास्त्रं हि विद्या, शास्त्रादवगतत्वात् कर्म विद्यापूर्वकमिति शङ्कते—अविद्येति। परिहरति—नेति। यदि शास्त्रावगतत्वमात्रेण नित्यनैमित्तिकादिकर्मणां विद्यापूर्वकत्वं स्यात् , तर्हि ब्रह्महत्यादीनामपि विद्यापूर्वकत्वं स्यादित्याह—ब्रह्महत्यादिवदिति। संग्रहवाक् यं विवृणोति—यद्यपीति। शास्त्रावगतं विधिशास्त्रावगतमित्यर्थः। नित्यमिति नैमित्तिकादेर्विहितस्योपलक्षणम्। अविद्यावत एवेत्येवकारान्न विद्यावतः इत्यर्थः। अयं भावः—अर्थस्य शास्त्रावगतत्वमात्रेण न १विद्यापूर्वकत्वसिद्धिः, किन्तु विद्यावद्विषयत्वेनैव। अन्यथा विधिशास्त्रावगत- नित्यकर्मणामिव प्रतिषेधशास्त्रावगतब्रह्महत्यादीनामपि विद्यापूर्वकत्वं स्यात्। न चेष्टापत्तिः, विद्यापूर्वकाणां नित्यानामिव ब्रह्महत्यादी- यदुक्तमविद्याकामबीजं सर्वं कर्मेति, तन्न, शास्त्रावगतस्य कर्मणोऽविद्यापूर्वकत्वानुपपत्तेरित्याक्षिपति—अविद्येति। दृष्टान्तेन समाधत्ते—नेति। तत्राभिमतां प्रतिज्ञां विभजते—यद्यपीति। उक्तं दृष्टान्तं व्याचष्टे—यथेति। अविद्यादिमतो ब्रह्महत्यादि कर्मेत्यत्र हेतु-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

पूर्वं भगवद्वचनपर्यालोचनया अज्ञविषयं कर्मोपपाद्य, इदानीं युक्त्याऽप्यज्ञविषयत्वमुपपादयितुमुपक्रमते—अविद्या- पूर्वकत्वमित्यादिना। यौक्तिकज्ञानस्यापरोक्षभ्रमानिवर्तकत्वादविद्वद्विषयत्वं कर्मणोऽनुभवसिद्धं नापलपनीयमित्याह—न,

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. विद्याशब्देन ब्रह्मविद्या विवक्षितेति भावः।

[[९८१]]

भवति, अन्यथा प्रवृत्त्यनुपपत्तेः, तथा नित्यनैमित्तिककाम्यान्यपीति। १(देह)व्यतिरिक्तात्मन्यज्ञाते प्रवृत्तिर्नित्यादि- कर्मस्वनुपपन्नेति चेन्न; चलनात्मकस्य कर्मणोऽनात्मकर्तृकस्य ‘अहं करोमी’ति प्रवृत्तिदर्शनात्। नामप्यनुष्ठानान्मोक्षप्रसङ्गात्। विद्यापूर्वककर्मानुष्ठानान्मोक्ष इति हि तव मतम्। विद्यावद्विषयत्वं तु न शास्त्रार्थस्य कर्मणोऽस्ति, किन्तु ज्ञानस्यैव कर्मसंन्यासपूर्वकस्य। तस्मादविद्यावद्विषयकर्मानुष्ठानान्न मोक्षः। नन्वविद्यावत एव विहितं प्रतिषिद्धं वा कर्म भवतीत्यस्य नियमस्यानभ्युपगमे को दोषः? तत्राह—अन्यथेति। अविद्याकामादिदोषाभावे कर्मसु प्रवृत्त्यनुपपत्तेः पुरुषस्य। यथा प्रतिषेधशास्त्राव- गतमप्यनर्थकारणं ब्रह्महत्यादिलक्षणं कर्म अविद्याकामादिदोषवत एव भवति, तथा नित्यनैमित्तिककाम्यान्यपि विधिशास्त्रावगतानि पुरुषार्थकारणान्यप्यविद्यावत एव भवन्ति, अन्यथा प्रवृत्त्यनुपपत्तेरिति शेषपूरणपूर्वको भाष्यवाक् यसमन्वयः। तस्मादविद्यावद्विषय- त्वेन सर्वं कर्माविद्यापूर्वकमेव। अविद्यापूर्वकस्य कर्मणः शुभाशुभलक्षणस्य विद्यैव क्षयकारणमिति सिद्धान्तिनोक्ते सति कर्मणोऽविद्या- पूर्वकत्वमसहमानःसन् पूर्ववादी शास्त्रावगतत्वात् सर्वं कर्म विद्यापूर्वकमेवेत्युवाच , तच्च परिहृतं सिद्धान्तिना। अथ पुनः प्रकारान्तरेण विद्यापूर्वकत्वं साधयति कर्मणः पूर्ववादी— देहेति। देहव्यतिरिक्ते आत्मन्यज्ञाते सति देहान्तरानुभाव्यप्राजापत्यस्वर्गादिफललोभेन नित्यादिकर्मसु प्रवृत्तिरनुपपन्नेति देहातिरिक्तात्मज्ञानपूर्वकत्वात् कर्म विद्यापूर्वकमेवेति। परिहरति—चेन्नेति। अनात्मकर्तृकस्य चलनात्मकस्य कर्मणः ‘अहं करोमी’ति प्रवृत्तिदर्शनादित्यन्वयः। आत्मनोऽन्योऽनात्मा देहादिः, तत्कर्तृके चलनात्मके कर्मणि ‘अहं करोमी’ति पुरुषस्य प्रवृत्तिदर्शनादित्यर्थः। नित्यनैमित्तिकादिकं वैदिकं, व्यायामादिकं लौकिकं च सर्वमपि कर्म चलनात्मकमेव। तच्चानात्मकर्तृकम्। अनात्मसु देहेन्द्रियादिषु व्याप्रियमाणेषु सत्सु कर्मनिष्पत्तेः। न च देहचलनाद् गमनादिक्रियानिष्पत्तावपीन्द्रि- यान्तःकरणयोरचलतोरेव दर्शनसङ्कल्पादिक्रियानिष्पत्तिरिति वाच्यम् ; ‘चञ्चलं हि मनः कृष्ण’ इत्यादिशास्त्राद् , अनुभवाच्चैकत्र विषये- ऽनवस्थानलक्षणं चाञ्चल्यं मनइन्द्रियाणामप्यस्ति। मनस इन्द्रियस्य वा वृत्तिकृतचलनाभावे विषयग्रहणानुपपत्तिश्च; चक्षुःश्रोत्रयो- र्विषयदेशं गत्वा विषयग्राहकत्वं वेदान्तशास्त्रप्रसिद्धं च। वायुवेगादप्यधिको मनोवेग इति मनसो वेगवत्त्वाच्चलनं प्रसिद्धमेव। देहे रामेश्वरक्षेत्रे स्थिते सत्यपि मनो हि काशीं गच्छति। एतेषां देहेन्द्रियमनसां चलनाभावादेव निर्व्यापारता सुषुप्त्यादौ। एवं सति सर्वमपि कर्म देहेन्द्रियमनआश्रयमेवेति कृत्वा अनात्मकर्तृकमेव। ‘अचलोऽयं सनातनः’ इति गीतावाक् यादेवा-चलस्यात्मनः चलनात्मककर्मा- श्रयत्वायोगादात्मकर्तृकं न भवति। अचलत्वं चात्मनः परिपूर्णचैतन्यत्वादेव। न च – बुद्धिपरिच्छिन्न एवात्मा, तस्य चोत्क्रान्ति- गत्यादिश्रवणात् कर्माश्रयत्वमस्तीति – वाच्यम् ; ‘ध्यायतीव लेलायतीवे’त्यादिश्रुत्या बुद्धौ चलन्त्यामात्मा चलतीवेति बुद्ध्युपाधि- धर्माध्यासप्रयुक्तमेवात्मन उत्क्रान्तिगत्यादिकं न स्वाभाविकमिति स्वभावतोऽचलोऽपरिच्छिन्न एवात्मा, नित्यत्वात्। ‘अजो नित्यः शाश्वतोऽय’मिति ह्युक्तम्। न हि परिच्छिन्नस्य घटादेः क्वापि नित्यत्वं दृष्टम्। तस्मादचल एवात्मा। एवं स्थिते अचलस्यात्मनः कथम् अहं करोमीति प्रवृत्तिरुपपद्येत देहाद्यनात्माश्रये कर्मणि? न कथमप्युपपन्ना। तथाप्यहं करोमीति प्रवर्तत एव सर्वो लोकः कर्मणि। तत्र माह—अन्यथेति। दार्ष्टान्तिकं गृह्णाति—तथेति। तान्यप्यविद्यादिमतो भवन्तीत्यविद्यादिपूर्वकत्वं तेषामेषितव्यमित्यर्थः। पारलौकिक- कर्मसु देहाद्यतिरिक्तात्मज्ञानं विना प्रवृत्त्ययोगान्न तेषामविद्यापूर्वकतेति शङ्कते—व्यतिरिक्तेति। सत्यपि व्यतिरिक्तात्मज्ञाने पारमार्थि- कात्मज्ञानाभावान्मिथ्याज्ञानादेव नित्यादिकर्मसु प्रवृत्तेरविद्यापूर्वकत्वं तेषामप्रतिहतमिति परिहरति—नेत्यादिना। कर्मणश्चलनात्मकत्वा- न्नात्मकर्तृकत्वम् , तस्य निष्क्रियत्वात्। देहादिसंघातस्य तु सक्रियत्वात् तत्कर्तृकं कर्म युक्तम्। तथापि संघातेऽहमभिमानद्वारा ‘अहं करोमी’ति आत्मनो मिथ्याधीपूर्विका कर्मणि प्रवृत्तिर्दृष्टा। तेनाविद्यापूर्वकत्वं तस्य युक्तमित्यर्थः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

चलनात्मकस्येति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

अ. १८. श्लो. ६६ ] १. देह इति क्वचिन्न।

[[९८२]]

देहादिसंघातेऽहम्प्रत्ययो गौणः, न मिथ्येति चेत् , न , तत्कार्येष्वपि गौणत्वोपपत्तेः। आत्मीये देहादिसंघाते ऽहम्प्रत्ययो गौणः, यथा आत्मीये पुत्रे ‘आत्मा वै पुत्रनामासि’ (एकाग्नि. २.१२) इति, लोके च (अपि) मम प्राण एवायं गौरिति, तद्वत् , १नैवायं मिथ्याप्रत्ययः। मिथ्याप्रत्ययस्तु स्थाणुपुरुषयोरगृह्यमाणविशेषयोः। न गौणप्रत्ययस्य च हेतुरात्मानात्मनोरितरेतरधर्माध्यास एवाज्ञानकृत इति सर्वैरभ्युपगन्तव्यम्। अभ्युपगते च तस्मिन् नित्यादिकर्मसु प्रवृत्तौ न देहव्यतिरिक्तात्मज्ञानं कारणम् , किं तर्हि? देहेन्द्रियान्तःकरणतादात्म्याध्यासप्रयुक्तं ‘कर्ता भोक्ताऽह’मिति मिथ्याज्ञानं कारणम्। यदि देहव्यतिरिक्तोऽहमात्मेति ज्ञानं स्यादमीषां, तर्हि देहे तदवयवहस्तादौ च स्नानहोमादिकर्मसु प्रवृत्ते सति ‘देहः स्नाति’ ‘हस्तो जुहोती’ति प्रतिपत्तव्ये, ‘अहं स्नामि, जुहोमी’ति कथं प्रतिपद्येरन्नेते? तस्मान्नामीषां देहव्यतिरिक्तात्मज्ञानमपि दृढमस्ति, किं पुनरिन्द्रियान्तः- करणातिरिक्तात्मज्ञानम्? तस्मान्मिथ्याज्ञानिन एवैते। मिथ्याज्ञानादेव नित्यादिकर्मसु प्रवृत्तिरमीषाम् , न पुनर्देहादिव्यतिरिक्ताकर्त्र- भोक्त्रात्मज्ञानात्। न हि देहादिव्यतिरिक्तः आत्मा कर्ता भोक्ता वा स्यात्। ननु देहादिष्वनात्मसु कुर्वत्सु सत्सु ‘अहं करोमी’ति यः प्रत्ययोऽज्ञस्य स देहाद्यनात्मतादात्म्याध्यासप्रयुक्त एव। स च देहादावनात्मनि ‘अह’मित्यात्मतादात्म्याध्यासो न मिथ्याज्ञानम् , किन्तु गौणज्ञानमेवेत्याह—देहादीति। परिहरति—नेति। हेतुमाह —तत्कार्येति। संग्रहेणोक्तं प्रश्नोत्तरवाक् यद्वयं स्वयमेव विवृणोति—आत्मीय इति। आत्मीय इति हेतुगर्भं विशेषणम्। आत्मीयत्वा- दित्यर्थः। न हि स्वपुत्र इव स्वशरीर इव च, परपुत्रे परशरीरेऽहमिति प्रत्ययोऽस्ति लोकस्येति भावः। तत्र दृष्टान्तमाह—यथेति। आत्मीये पुत्रेऽहम्प्रत्ययो यथा गौणः, तथाऽऽत्मीये देहादिसंघातेऽहम्प्रत्ययो गौण इति। दृष्टान्तासिद्धिं परिहरति श्रुतिप्रामाण्यप्रदर्शन- द्वारा— ‘आत्मा वै पुत्रनामासी’ति। त्वमिति शेषः। पुत्र इति नाम यस्य स पुत्रनामाऽऽत्मा वै अहमेवासि। पितैव पुत्र इत्यर्थः। एतेन पितुः पुत्रेऽहम्प्रत्ययो दर्शितः। आत्मीये वस्तुन्यहम्प्रत्ययो लोकतश्च सिध्यतीत्याह—लोके चेति। आत्मीये गवि ‘मम प्राण एवाय’मिति स्वप्राणप्रत्ययरूपः स्वप्रत्ययः। न हि प्राणमात्मानं च पृथक्त्वेन प्रतिपद्य मम प्राण इति व्यवहरति लोकः; किन्त्वेकी- कृत्यैव। तथा च ‘मम प्राण’ इत्यस्य ममात्मेतिवद् अहमित्येवार्थः। यद्वा कथमात्मीयत्वमात्रेणाप्राणभूते देहादिसंघाते पुत्रे वा ऽऽत्मेति प्रत्ययो लोकस्येत्यत आह—लोके चेति। आत्मीयत्वमात्रेणाप्राणभूते गवि यथा लोकस्य मम प्राण इति प्रत्ययस्तद्वदित्यर्थः। ननु अतस्मिन् तद्बुद्धिर्मिथ्याप्रत्ययः। अनात्मनि देहादिसंघाते पुत्रे वा या आत्मबुद्धिः, अप्राणे गवि च या प्राणबुद्धिर्गौण- प्रत्ययत्वेन तवाभिमता, साऽपि मिथ्याप्रत्यय एवेत्यत आह—नैवमिति। मिथ्याप्रत्यय एवंविधो न भवति। तर्हि कीदृशो मिथ्याप्रत्ययः? अत आह—मिथ्याप्रत्ययस्त्विति। तुशब्दो गौणप्रत्ययवैलक्षण्यद्योतनार्थः। अगृह्यमाणः अनुपलभ्यमानो विशेषो भेदो ययोस्तयोः यदुक्तं देहादिसंघातेऽहमभिमानस्य मिथ्याज्ञानत्वं तदाक्षिपति—देहादीति। अहंधियो गौणत्वे तत्पूर्वककर्मस्वपि गौणत्वा- पत्तेरात्मनोऽनर्थाभावात् तन्निवृत्त्यर्थं हेत्वन्वेषणं न स्यादिति दूषयति—नेति। एतदेव प्रपञ्चयन्नादौ चोद्यं प्रपञ्चयति—आत्मीय इति। तत्र श्रुत्यवष्टम्भेन दृष्टान्तमाह—यथेति। दर्शितश्रुतेरात्मीये पुत्रेऽहम्प्रत्ययो गौणो यथा, संघातेऽप्यात्मीयेऽहम्प्रत्ययस्तथा युक्त इत्यर्थः। भेद- धीपूर्वकत्वं गौणधियो लोके प्रसिद्धमित्याह—लोके चेति। लोकवेदानुरोधेनात्मीये संघातेऽहन्धीरपि गौणी स्यादिति दार्ष्टान्तिकमाह— तद्वदिति। मिथ्याधियोऽपि भेदधीपूर्वकत्वसंभवादात्मीये संघाते अहंधियो मिथ्यात्वमेव किं न स्यादित्याशङ्क्याह—नैवायमिति। भेदधी- पूर्वकत्वाभावे कथं मिथ्याधीरुदेतीत्याशङ्क्याह—मिथ्येति। अधिष्ठानारोप्ययोर्विवेकाग्रहात् तदुत्पत्तिरित्यर्थः। देहादावहन्धियो गौणतेति १. ‘नैवम्’ इति रा. पा. भाति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

मिथ्याप्रत्यय एवायं न भवतीत्याह—देहादीति। चोद्यं विवृणोति—आत्मीय इत्यादिना। ननु मिथ्याप्रत्ययादस्य को विशेषः येनास्य गौणत्वमित्याशङ्क्याह—मिथ्याप्रत्ययस्त्विति। द्रष्टृदृश्य(च)भावेन विशेषस्मरणात् ‘अहं मनुष्य’ इत्यादिः न

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[९८३]]

अगृह्यमाणविशेषयोः स्थाणुपुरुषयोर्मिथ्याप्रत्ययो भवति। गौणप्रत्ययस्तु गृह्यमाणविशेषयोर्देहिदेहयोः पितृपुत्रयोः गोप्राणयोश्च भवति। स्थाणुं, रज्जुं, शुक्तिकां वा मन्दान्धकारे सामान्याकारेण गृहीत्वा तद्गतविशेषाकारमगृहीत्वा पुरुष इति, सर्प इति, रजतमिति च प्रत्येति लोक इति स प्रत्ययो मिथ्यैव। संघातात्मानौ पुत्रात्मानौ गोप्राणौ च पृथग् विशेषतो गृहीत्वैव संघातं पुत्रं चाहमिति, गां प्राण इति च प्रत्येति लोक इति स प्रत्ययो गौण एवेति गौणमिथ्याप्रत्यययोर्भेदः। अविवेककृता अतस्मिंस्तद्बुद्धिर्मिथ्याप्रत्ययः, विवेककृता त्वतस्मिं- स्तद्बुद्धिर्गौणप्रत्यय इति भावः। अत एव मिथ्याप्रत्ययो भ्रमज्ञानम् , गौणप्रत्ययस्तु प्रमैवेति व्यवहारः१। अथ सिद्धान्तांशं विवृणोति—गौणेति। यदि देहादिष्वहम्प्रत्ययो गौणः स्यात् तर्हि देहादिकार्याण्यपि गौणान्येव स्युः, गौणात्मकृतकार्याणां मुख्यकार्यत्वायोगात्। न हि गौणात्मना पुत्रेण कृतं भोजनादिकर्म मुख्यात्मना स्वेनैव कृतमिति मन्यते पिता। तस्माद् गौणात्मना देहादिसंघातेन कृतं कार्यं सर्वमपि मुख्यात्मानं प्रति गौणमेव, न मुख्यम् , मुख्यात्मना तस्याकृतत्वात्। प्रकृते तु देहादिसंघातकृतं कर्म स्वेनैव कृतं मुख्यं कर्मेत्येव प्रत्येत्यात्मा। मया गतं भुक्तं स्नातं हुतमित्यादिव्यवहारात्। तस्मात् संघातकार्येषु मुख्यकार्यत्वदर्शनाद् गौणकार्यत्वादर्शनाच्च न संघातेऽहमिति प्रत्ययो गौणः, किन्तु मिथ्यैव। ननु गौणप्रत्ययोऽपि मुख्यकार्यार्थः किं न स्याद्? अत आह—गौणप्रत्ययस्येति। लुप्तोपमाशब्देन प्रतीयमानस्य गौणप्रत्ययस्य न मुख्यकार्यार्थता; अधिकरणस्तुत्यर्थत्वादि- त्यन्वयः। गौणप्रत्ययो मुख्यकार्यार्थो न भवति; किन्त्वधिकरणस्तुत्यर्थ एव। तत्र दृष्टान्तमाह—यथेति। ‘सिंहो देवदत्तः’ इति, ‘अग्नि- र्माणवकः’ इति च गौणप्रत्ययः। सिंह इवेत्यर्थे सिंहशब्दस्य, अग्निरिवेत्यर्थे अग्निशब्दस्य च प्रयोगात् सिंहाग्निशब्दौ लुप्तोपमाशब्दौ। उपमानोपमेययोः सिंहदेवदत्तयोरग्निमाणवकयोश्च साधारणधर्ममाह—क्रौर्यपैङ्गल्येति। किमर्थमेवं गौण्या वृत्त्या प्रयुज्यते? अत आह—देवदत्तेति। देवदत्तमाणवकरूपाधिकरणस्तुत्यर्थमित्यर्थः। माणवको बालः, ‘ब्राह्मणमाणवे’ति निपातनाद् णत्वम् , अल्पार्थे कन्। मनोरल्पमपत्यम् पुमान् माणवकः। सिंहवत् क्रूरे देवदत्ते अग्निवत् पिङ्गलवर्णे माणवके च सिंह इति, अग्निरिति च यो गौणः प्रयोगः स न मुख्यकार्यार्थः, किन्तु देवदत्तमाणवकयोः स्तुत्यर्थ एव। एवकारार्थमाह—न त्विति। गौणशब्दप्रत्ययनिमित्तं सिंहकार्य- मग्निकार्यं वा किञ्चिन्न तु साध्यत इत्यन्वयः। गौणशब्दः सिंह इति, अग्निरिति च प्रयोग इति यावत्। प्रत्ययो ज्ञानम् , तयोर्निमित्तं सिंहकार्यमग्निकार्यं वा मुख्यकार्यं गजकुम्भविदलनदाहादिरूपं किञ्चिन्न साध्यते, देवदत्तमाणवकयोरिति शेषः। ‘सिंहो देवदत्तः’ इति, ‘अग्निर्माणवकः’ इति च प्रयुञ्जानः प्रतिपद्यमानश्च पुरुषः देवदत्ते माणवके वा मुख्यसिंहकार्यं मुख्याग्निकार्यं च न विधित्सति, १. विवक्षितगुणस्य विशेष्येऽबाधितत्वादिति भावः। भाष्यार्कप्रकाशः मिथ्याप्रत्यय इति भावः। वस्तुसंग्रहवाक् यं सिद्धान्तवाक् यं विवृणोति—न गौणप्रत्ययस्येत्यादिना। यत्र (न) गौणप्रत्ययः, तत्र न मुख्यं कार्यं दृष्टम् , यथा न सिंहकार्यं देवदत्ते किञ्चिद् दृश्यते इत्युक्तम्। तर्हि मिथ्याप्रत्ययकार्यमपि मिथ्याप्रत्ययवति न मुख्यकार्यार्थता, अधिकरणस्तुत्यर्थत्वाल्लुप्तोपमाशब्देन। यथा ‘सिंहो देवदत्तः’, ‘अग्निर्माणवकः’ इति सिंह इवाग्निरिव क्रौर्यपैङ्गल्यादिसामान्यवत्त्वाद् देवदत्तमाणवकाधिकरणस्तुत्यर्थमेव, न तु सिंहकार्यमग्निकार्यं वा गौणशब्द-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

चोद्ये विवृते तत्कार्येष्वपीत्यादिपरिहारं विवृणोति—नेत्यादिना। हेतुभागं विभजते—यथेति। ‘सिंहो देवदत्तः’ इति वाक् यं देवदत्तः सिंह इवेत्युपमया देवदत्तं क्रौर्याद्यधिकरणं स्तोतुं प्रवृत्तम्। ‘अग्निर्माणवकः’ इत्यपि वाक् यं माणवकोऽग्निरिवेत्युपमया माणवकस्य पैङ्गल्या- धिकरणस्य स्तुत्यर्थमेव। न तथा ‘मनुष्योऽह’मिति वाक्यस्याधिकरणस्तुत्यर्थता भातीत्यर्थः। देवदत्तमाणवकयोरधिकरणत्वं कथमित्याशङ्क्याह—क्रौर्येति। किञ्च गौणशब्दं तत्प्रत्ययं च निमित्तं कृत्वा सिंहकार्यं न किञ्चिद् देवदत्ते साध्यते। नापि माणवके किञ्चिदग्निकार्यम्। मिथ्याधीकार्यं त्वनर्थमात्माऽनुभवति। अतो न देहादावहन्धीर्गौणीत्याह— न त्विति। इतोऽपि देहादौ आनन्दगिरिकृतव्याख्या

[[अ. १८. श्लो. ६६]] [[९८४]]

असम्भवात्। किन्तु सिंहवत् क्रूरो देवदत्त इति, अग्निरिव पिङ्गलो माणवक इति च स्तुतिमेव चिकीर्षतीति भावः। ननु गौणप्रत्यय- विषयदेवदत्तमाणवककार्येष्वेव मुख्यकार्यत्वाभावे मिथ्याप्रत्ययविषयसंघातकार्येष्वपि कथं मुख्यात्मकार्यत्वम्? अत आह—मिथ्येति। अनात्मनि देहादिसंघाते य आत्मेति मिथ्याप्रत्ययस्तस्य कार्यं संसाररूपोऽनर्थ एव; तमनुभवत्येव स मिथ्याप्रत्ययी। अयं भावः—देहादिसंघातकार्येष्वपि न मुख्यकार्यत्वं, किन्तु देहादिसंघातमनात्मानं यथा आत्मत्वेन प्रत्येति तथा तत्कार्य- मप्यात्मकार्यत्वेन प्रत्येतीति देहादिसंघातकार्ये मिथ्यात्मकार्यत्वमेवास्ति, न मुख्यात्मकार्यत्वम्। तत्र च मुख्यात्मकार्यत्वप्रत्ययो मिथ्यैव। अस्माच्च मिथ्याप्रत्ययादज्ञस्य संसारबन्ध एवेति। तस्माद् देहादिसंघातकार्याणि न गौणानि, नापि मुख्यानि, गौणात्माकार्य- त्वान्मुख्यात्माकार्यत्वाच्च। न हि संघातो गौणात्मा, नापि मुख्यात्मा, किन्तु मिथ्याभूतान्येव[त्मैव], मिथ्याकार्यत्वात्। संघातो हि मिथ्यात्मेति भावः। किञ्च गौणप्रत्ययविषयं गौणज्ञानविषयमित्यर्थः। देवदत्तं, माणवकं चेति यावत्। एष देवदत्तः सिंहो न भवति, अयं माणवकोऽग्निर्न भवतीति जानाति, ‘सिंहो देवदत्तः’ इति, ‘अग्निर्माणवकः’ इति च वाक् यप्रयोक्ता। एवं मिथ्याप्रत्ययविषयं तु स्थाणु- पुरुषादिकं न जानाति भ्रान्तः पुरुषः। न हि ‘नायं पुरुषः, नेदं रजतं, नायं सर्पः’ इति ज्ञानवान् स्थाणुं शुक्तिं रज्जुं वा दृष्ट्वा ‘पुरुषोऽयं रजतमिदं सर्पोऽय’मिति भ्रमं प्रपद्येत। ततश्च यदि संघातो गौणप्रत्ययविषयस्तर्हि ‘नायं संघात आत्मा’ इति जानीयादेव लोकः, न तु तथा जानाति; किन्तु ‘मनुष्योऽह’मित्येवं जानाति, न तु ‘नाहं मनुष्य’ इति। यः पुनर्विद्वान् संघातमनात्मानं जानाति, स संघात- मात्मत्वेन न गृह्णात्येवेति कथं गौणप्रत्ययविषयत्वं संघातस्य? तस्मान्मिथ्यैव संघातेऽहमिति प्रत्ययोऽज्ञानाम्। ननु गौणात्मकृत- कार्याणां गौणत्वे किं प्रयोजकमिति शङ्कायां मुख्यात्माकृतत्वमेवेत्यभिप्रेत्य मुख्यात्माकृतत्वमेव दर्शयति—तथेति। त्वदुक्तविधया गौणत्वाभ्युपगमे सतीत्यर्थः। गौणात्मकर्तृकस्य कर्मणः कुतो न मुख्यात्मकर्तृकत्वम्? अत आह—न हीति। गौणसिंहाग्निभ्यामिति। देवदत्तमाणवकाभ्यामित्यर्थः। ननु सिंहवत् क्रूरत्वाद् अग्निरिव पिङ्गलत्वाच्च मुख्यसिंहाग्निकार्यं गौणसिंहाग्नी कुरुत एव, गौण-सिंहाग्नि- कार्यं तु मुख्यसिंहाग्नी मा कुरुतां नाम, इत्यत आह—न चेति। सिंहवत्क्रूरः, अग्निवत्पिङ्गलः इत्यर्थबोधकगौणसिंहाग्निशब्दप्रयोगाद् देवदत्ते माणवके च क्रौर्यं पिङ्गलत्वं सिद्धम्। तेन च क्रौर्येण पैङ्गल्येन वा मुख्यसिंहाग्न्योः कार्यं किञ्चिन्नैव क्रियते। न हि गजकुम्भ- भाष्यार्कप्रकाशः प्रत्ययनिमित्तं किञ्चित् साध्यते, मिथ्याप्रत्ययकार्यं त्वनर्थमनुभवतीति। गौणप्रत्ययविषयं च जानाति ‘नैष सिंहः देवदत्तः’, तथा ‘नायमग्निर्माणवकः’ इति। तथा गौणेन देहादिसंघातेनात्मना कृतं कर्म न मुख्येनाहम्प्रत्यय- विषयेणात्मना कृतं स्यात्। न हि गौणसिंहाग्निभ्यां कृतं कर्म मुख्यसिंहाग्निभ्यां कृतं स्यात्। न च क्रौर्येण पैङ्गल्येन वा दृष्टमित्याशङ्क्याह—मिथ्याप्रत्ययकार्यं त्विति। सर्पभ्रमादिकृतभयकम्पादेर्दर्शनादित्यर्थः। न केवलं गौणे मुख्यकार्याभावः, प्रत्ययोऽपि तत्र परस्परानात्मतावगाहीत्यादि[त्याह—] गौणप्रत्ययविषयमिति। दार्ष्टान्तिके योजयति—तथा गौणेनेति। तथा चात्मनि १भट्टानां बन्धो न स्यादिति दूषणम्। ननु यद्यपि गौणेन कृतं मुख्यस्य न सम्भवति, तथापि मुख्यकृतं गौणे

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या नाहन्धीर्गौणीत्याह— गौणेति। यो देवदत्तो माणवको वा गौण्या धियो विषयः, तं परो ‘नैष सिंहः’ ‘नायमग्नि’रिति जानाति। नैवमविद्वानात्मनः संघातस्य च सत्यपि भेदे संघातस्यानात्मत्वं प्रत्येति। अतो न संघातेऽहंशब्दप्रत्ययौ गौणावित्यर्थः। संघाते तयोर्गौणत्वे दोषान्तरं समुच्चिनोति—तथेति। तथा सत्यात्मनि कर्तृत्वादिप्रतिभासासिद्धिरिति शेषः। गौणेन कृतं न मुख्येन कृतमित्युदा- हरणेन स्फुटयति—न हीति। यद्यपि देवदत्तमाणवकाभ्यां कृतं कार्यं मुख्याभ्यां सिंहाग्निभ्यां न क्रियते, तथापि देवदत्तगतक्रौर्येण मुख्यसिंहस्य, माणवकनिष्ठपैङ्गल्येन मुख्याग्नेरिव च संघातगतेनापि जडत्वेनात्मनो मुख्यस्य किञ्चित् कार्यं कृतं भविष्यतीत्याशङ्क्याह— १. कुमारिलभट्टानुयायिनामित्यर्थः। तैः देहाद् भेदज्ञानवतः ‘अहं मनुष्य’ इत्यादिव्यवहारस्य गौणत्वोक्तेः।

[[९८५]]

१. आत्मवृत्तीच्छादिजन्यत्वात् देहादिनिष्ठकर्मणः इत्यर्थः। विदलनदाहादिलक्षणं मुख्यसिंहाग्निकार्यं क्रौर्येण पैङ्गल्येन वा देवदत्तमाणवकाभ्यां निर्वर्तयितुं शक् यते। तर्हि किं फलं क्रौर्यपैङ्गल्य- विधानस्य? अत आह—स्तुत्यर्थत्वेनेति। स्तुत्यर्थं विहितस्य तस्य स्तुतिमात्रफलत्वात् तावतैव तस्योपक्षय इति न तद्विधानस्य फलान्तरं कल्पयितुं शक् यमिति भावः। स्तूयमानौ च देवदत्तमाणवकौ ‘अहं सिंहो न भवामि, अहमग्निर्न भवामी’ति जानीतः, मम सिंहस्य कर्म न हि, ममाग्नेः कर्म न हीति च जानीतः। तथा देवदत्तमाणवकवत् संघातस्य गौणात्मनः कर्म मुख्यस्यात्मनो न भवतीति प्रत्ययो युक्ततरः स्यात्। ‘अहं कर्ता, मम कर्मे’ति प्रत्ययः पुनः ज्ञानं तु आत्मन इति भावः, न युक्ततरः। अयं भावः—‘सिंहो देवदत्तः’ ‘अग्निर्माणवकः’ इतिवद् देहादिसंघात आत्मेति यदि गौणः प्रत्ययः स्यात् , तर्हि गौणात्मनः संघातस्य यत् कर्म तन्मुख्यस्यात्मनो न भवत्येवेति कृत्वा कथं गौणात्मसंघातकर्तृककर्मणि मुख्यात्मनः कर्ताऽहं मम कर्मेति प्रत्ययः स्यात्? न हि गौणसिंहाग्निकर्तृककर्मसु मुख्यसिंहाग्न्योरहं कर्ता मम कर्मेति प्रत्ययो भवति। तस्मात् संघातकार्येषु गौणत्वाभावात् , मुख्यात्मनः तेषु स्वकर्तृकत्वस्वकर्मत्वप्रतीतिसत्त्वेन मुख्यत्वसत्त्वाच्च न संघातेऽहमिति प्रत्ययो गौणः, किन्तु मिथ्यैवेति। कूटस्थो मुख्यात्मा, संघातो मिथ्यात्मा, पुत्रादिर्गौणात्मेति विवेकोऽत्र बोध्यम् [बोध्यः]। ननु संघातस्य जडस्य कर्तृत्वानुपपत्तेः आत्मैव स्वीयस्मृतीच्छाप्रयत्नैः कर्म करोतीति तार्किकादिमतमनुवदति—यच्चाहुरिति। करोतीति यच्चाहुरित्यन्वयः। तदपि न, न युक्तमित्यर्थः। तत्र हेतुमाह—तेषामिति। स्मृतीच्छाप्रयत्नानामित्यर्थः। मिथ्याप्रत्ययपूर्वक- त्वमेव विवृणोति—मिथ्येति। अनात्मनि संघातेऽहमिति यो मिथ्याप्रत्ययः स एव निमित्तं यस्य सः। इष्टानिष्टरूपादनुभूतात् क्रिया- फलाज्जनितो यः संस्कारः स पूर्वः कारणं येषां ते मिथ्याप्रत्ययनिमित्तेष्टानिष्टानुभूतक्रियाफलजनितसंस्कारपूर्वकाः, मिथ्याप्रत्यय- निमित्तत्वं क्रियाफलविशेषणं वा; मिथ्याप्रत्ययनिमित्तेष्टानिष्टरूपक्रियाफलानुभवजनितसंस्कारपूर्वका इत्यर्थः। अनात्मनि देहादि- संघातेऽहमिति मिथ्याप्रत्यये सति तत्क्रियासु ममेति मिथ्याप्रत्ययो भवति; ततस्तत्फलेष्विष्टानिष्टेषु ‘मयेदमनुभूयत’ इति ‘ममेदं भाष्यार्कप्रकाशः भवति। कथमन्यथा क्रौर्यादिकं देवदत्तादौ दृश्यत इत्याशङ्क्याह—न च क्रौर्येणेति। न केवलं गौणवाक्यप्रयोक्तुः विवेको भाति, श्रोतुरपि भातीत्याह—स्तूयमानौ चेति। देहादेर्यत् कर्म तदात्मन एव भवति, १आत्मेच्छादिनिबन्धकत्वादित्याह—यच्चाहुरिति। भवेदेवं गौणपक्षेऽप्यात्मनः कर्तृत्वं यदीच्छादिमत्त्वं मिथ्याज्ञानं विना स्यादित्याह—न, तेषामिति। मिथ्याप्रत्ययनिमित्ते ये इष्टानिष्टे अनुभूते क्रियाफले मुख्यसिंहाग्न्योः कार्यं किञ्चित् क्रियते, स्तुत्यर्थेनोपक्षीणत्वात्। स्तूयमानौ च जानीतो नाहं सिंहो नाहमग्निरिति, न सिंहस्य कर्म ममाग्नेश्चेति। तथा न संघातस्य कर्म मम मुख्यस्यात्मनः इति प्रत्ययो युक्ततरः स्यात् , न पुनरहं कर्ता मम कर्मेति। यच्चाहुः— आत्मीयैः स्मृतीच्छाप्रयत्नैः कर्महेतुभिरात्मा कर्म करोतीति। न, तेषां मिथ्याप्रत्ययपूर्वकत्वात्। न चेति। देहादावहन्धियो गौणत्वायोगे हेत्वन्तरमाह—स्तूयमानाविति। देवदत्तमाणवकयोः सिंहाग्निभ्यां भेदधीपूर्वकं तद्व्यापार- वत्त्वाभावधीवदात्मनोऽपि मुख्यस्य संघाताद् भेदधीद्वारा तदीयव्यापारराहित्यमात्मनि दृष्टं स्यादित्यर्थः। व्यावर्त्यं दर्शयति—न पुनरिति। संघातेऽहन्धियो मिथ्याधीत्वेऽपि न तत्कृतमात्मनि कर्तृत्वम् , किं त्वात्मीयैर्ज्ञानेच्छाप्रयत्नैरस्य कर्तृत्वं वास्तवमिति मतमनु- वदति—यच्चेति। ज्ञानादिकृतमपि कर्तृत्वं मिथ्याधीकृतमेव, ज्ञानादीनां मिथ्याधीकार्यत्वादिति दूषयति—न, तेषामिति। तदेव

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या

[[अ. १८. श्लो. ६६]] [[९८६]]

फल’मिति च मिथ्याप्रत्ययो भवति। तस्माच्च मिथ्याप्रत्ययपूर्वकात् फलानुभवात् संस्कारो जायते, अनुभवजन्यत्वात् संस्कारस्य। स च संस्कारो मिथ्याप्रत्ययपूर्वक एव। तस्मात् संस्कारात् पूर्वानुभूतार्थस्मृतिर्जायते, स्मृतिहेतुत्वात् संस्कारस्य। ततः स्मृतेऽर्थे इच्छा जायते, ततस्तत्सिद्ध्यर्थं प्रयतत इति स्मृतीच्छाप्रयत्ना मिथ्याप्रत्ययपूर्वका एव, क्रियायास्तत्फलस्य च मिथ्याप्रत्ययपूर्वकत्वादिति। ननु कस्यचित् कदाचिद् १अप्यननुभूतार्थे स्मृत्युपलम्भात् कथं संस्कारपूर्वकत्वं स्मृत्यादीनामिति चेत् , मैवम् ; जन्मान्तरा- नुभूतार्थस्यैवेह जन्मनि स्मरणसम्भवात्। ननु जन्मान्तरीयानुभवस्य मिथ्याप्रत्ययपूर्वकत्वं कथं ज्ञायते? अत आह—यथेति। अस्मिन् जन्मनि पुरुषस्य देहादिसंघाते यः अहमित्यभिमानो ममेत्यभिमानश्च तत्प्रयुक्ता ये रागद्वेषादयः, तत्कृतौ धर्माधर्मौ, तत्फलानुभवो धर्माधर्मफलसुखदुःखानुभवश्च, तत्कृतो देहादिसंघाताभिमानप्रयुक्तरागद्वेषादिकृतः, देहादिसंघाताभिमानकृत इत्येव वा। तथाऽतीते जन्मन्यतीततरे जन्मनि चेत्यनादिरविद्याकृतोऽतीतोऽनागतश्च संसारोऽनुमेयः। यथाऽस्मिन् देहादिसंघातेऽहमिति मिथ्याज्ञानाद् राग- द्वेषादिपूर्वकं धर्माधर्मौ कृत्वा तत्फलमनुभवति पुरुषः, एवं जन्मान्तरेऽपीति कृत्वा प्रकृतभवीयानुभववद् जन्मान्तरीयानुभवोऽपि मिथ्याप्रत्ययपूर्वक एव; तथा प्रकृतभवीयक्रियावज्जन्मान्तरीयक्रिया अपि मिथ्याप्रत्ययपूर्विका एव। तथा प्रकृतभवीयरागद्वेषादि- वज्जन्मान्तरीयरागद्वेषादयोऽपि मिथ्याप्रत्ययपूर्वका एव। एवं प्रकृतभवीयमिथ्याप्रत्ययोऽपि जन्मान्तरीयमिथ्याप्रत्ययपूर्वक एव, पूर्व- पूर्वाध्यासस्योत्तरोत्तराध्यासं प्रति हेतुत्वात्। तथा च मिथ्याप्रत्ययः, तत्पूर्वको रागद्वेषादिः, तत्कृतो धर्माधर्मादिः, तत्फलसुखदुःखानु- भवः, तज्जन्यः संस्कार इत्येष संसार इहजन्मनीव जन्मान्तरेष्वप्यस्ति पूर्वेषु, प्राग्भवीयसंसारप्रयुक्तत्वादेतद्भवीयसंसारस्य। एवमुत्तर- जन्मस्वपि भविष्यति, पूर्वजन्मसंसारस्येहजन्मसंसारहेतुत्ववदिहजन्मसंसारस्योत्तरजन्मसंसारहेतुत्वात्। एवमनादिरयं चक्रवत् परि- भ्रमति संसारः। अनेन चानादित्ववचनेन कथमादावहमभिमानः संघाते पुरुषस्य, पूर्वकृतसंस्काराभावादिति शङ्का प्रत्युक्ता। अनादि- रपि कार्यभूतत्वादनित्य एवायमिति सुपरिहर इत्याह—अविद्याकृत इति। अज्ञानकृतोऽज्ञानवन्मिथ्याभूत इत्यर्थः। एतेन देहादि- संघातेऽहमिति मिथ्याप्रत्ययस्याज्ञानमेव हेतुरिति सिद्धम्। एवमज्ञानहेतुकत्वादेव संघातेऽहमिति प्रत्ययो मिथ्याप्रत्ययः, न तु गौणः। आत्मानात्माविवेकपूर्वकत्वात्। गौणो हि सिंहदेवदत्तविवेकपूर्वकः।अनुमेय इति। इहजन्मानुभवसिद्धेन संसारेण जन्मान्तरीय- संसारोऽनुमेय इत्यर्थः। यथा— जन्मान्तरे मम संसारानुभवोऽस्ति, इहजन्मनि मया संसारस्य स्मर्यमाणत्वात्। अनुभवजन्य- संस्कारपूर्विका हि स्मृतिः। पूर्वदिनानुभूतघटस्यास्मिन् दिने स्मरणवत्। एवमुत्तरजन्मनि मम संसारो भविष्यति, इहजन्मनि मया संसारस्यानुभूतत्वात्। पूर्वजन्मानुभूतसंसारो यथेहजन्मन्यासीत् तद्वदिति च प्रयोगवशादिति भावः। भवत्वेवमविद्याकृतः संसारः, किं भाष्यार्कप्रकाशः प्रपञ्चयति—मिथ्येति। मिथ्याज्ञानं निमित्तं कृत्वा किञ्चिदिष्टं किञ्चिदनिष्टमित्यारोप्य तद्द्वाराऽनुभूते तस्मिन् प्रेप्साजिहासाभ्यां क्रियां निर्वर्त्य तयेष्टमनिष्टं च फलं भुक्त्वा तेन संस्कारेण तत्पूर्वकाः स्मृत्यादयः स्वात्मनि क्रियां कुर्वन्तीति युक्तं कर्तृत्वस्य मिथ्यात्वमित्यर्थः। अतीता- नागतजन्मनोरिव वर्तमानेऽपि जन्मनि कर्तृत्वादिसंसारस्य वस्तुत्वमाशङ्क्याह—यथेति। विमतौ कालावविद्याकृतसंसारवन्तौ कालत्वाद् वर्तमानकालवदित्यर्थः। संसारस्याविद्याकृतत्वे फलितमाह—ततश्चेति। आनन्दगिरिकृतव्याख्या मिथ्याप्रत्ययनिमित्तेष्टानिष्टानुभूतक्रियाफलजनितसंस्कारपूर्वका हि स्मृतीच्छाप्रयत्नादयः। यथा अस्मिञ्जन्मनि देहादि- संघाताभिमानरागद्वेषादिकृतौ धर्माधर्मौ तत्फलानुभवश्च, तथाऽतीतेऽतीततरेऽपि जन्मनीत्यनादिरविद्याकृतः संसारो- ऽतीतोऽनागतश्चानुमेयः। ततश्च सर्वकर्मसंन्याससहितज्ञाननिष्ठया आत्यन्तिकः संसारोपरम इति सिद्धम्। ताभ्यां जनितो यः संस्कारः तत्पूर्वकत्वं स्मृत्यादेः इदानीं यद्यप्यनुभवसिद्धं तथापि कालान्तरे कथं सिद्ध्यतीत्याशङ्क्याह— यथाऽस्मिन् जन्मनीति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. अननुभूतार्थेऽपि इत्यन्वयः।

[[९८७]]

ततः? अत आह— ततश्चेति। संसारस्याविद्यापूर्वकत्वादित्यर्थः। सर्वकर्मसंन्यासपूर्वकज्ञाननिष्ठयैवात्यन्तिकः संसारोपरमः। आत्य- न्तिको निःशेष इत्यर्थः। संसारमूलस्याज्ञानस्यापि नाशादिति भावः। अविद्यापूर्वकस्य मिथ्याप्रत्ययधर्माधर्मरागद्वेषेष्टानिष्टसंस्कारादि- रूपस्य संसारस्य विद्ययैव समूलोच्छेदः, विद्याविद्ययोर्विरोधात् ; न तु कर्मणा, तस्याप्यविद्यापूर्वकत्वेन कर्माविद्ययोरविरोधात् , कर्म- संसारयोः हेतुहेतुमद्भावात् कर्मणोऽपि धर्माधर्मलक्षणस्य संसारान्तःपातित्वेन संसारत्वाच्च। तस्माज्ज्ञानादेव मोक्ष इति सिद्धम्। कुतः सिद्धम्? अत आह—अविद्येति। देहाभिमानस्य देहादिसंघातेऽहम्प्रत्ययस्य मिथ्याभूतस्य अविद्यात्मकत्वाद् अज्ञान- कृतत्वात् कार्यकारणयोरभेदेनाज्ञानस्वरूपत्वाच्च, तन्निवृत्तौ अविद्याया निवृत्तौ देहाभिमानानुपपत्तेः संसारानुपपत्तिः; देहाभिमानपूर्वक- त्वात् संसारस्येति भावः। देहादिसंघातमविद्ययाऽऽत्मत्वेन प्रतिपद्य हि धर्माधर्मसुखदुःखजन्ममरणादिलक्षणं संसारमनुभवत्यज्ञः। अविद्यात्मकत्वाद् देहाभिमानस्येति वाक् यं व्याचष्टे—देहादीति। अविद्यानिवृत्तावभिमाननिवृत्तिः, अविद्यायां निवृत्तायां सत्यां ‘संघाता- दन्योऽहमात्मा, मत्तोऽन्यः संघात’ इति जानाति, अविद्याकृतत्वात् संघातात्मनोस्तादात्म्याध्यासस्य। एवमात्मानात्मानौ स्वसंघातौ विविच्य जानन् पुरुषः तस्मिन् संघाते स्वस्मादत्यन्तभिन्ने कथमहमिति प्रत्ययं कुर्यात्? न कथमपि। तत्र दृष्टान्तमाह—न हीति। ननु यद्येवं जानन् पुरुषः संघाते न कुर्यादहमिति मिथ्याप्रत्ययम् , तर्हि कः पुनः करोति? अत आह—कश्चिदजानन्निति। यथा स्थाणुमजा- नन् पुरुषः स्थाणौ पुरुष इति विज्ञानं (प्रत्ययं) करोति, तथा आत्मानात्माविवेकतः संघातेऽहमिति प्रत्ययं कुर्यादजानन् कश्चित् पुरुषः। अजानंस्त्विति तुशब्दार्थमाह—न विवेकतो जानन्निति। आत्मानात्मानौ विवेकतो जानन् अयमात्मा, अयमनात्मेति विविच्य जानन् पुरुषः संघातेऽनात्मनि अहमिति प्रत्ययं न करोति; यथा स्थाणुं विद्वान् पुरुषः स्थाणौ पुरुषोऽयमिति प्रत्ययं न करोति, तद्वदिति भावः। ननु स्थाणुपुरुषदृष्टान्तो नेहानुकूलः, विद्यमाने स्थाणावविद्यमानपुरुषभ्रमः सः, विद्यमाने संघाते विद्यमानात्मभ्रमोऽयमिति भेदात्। न हि परस्पराध्यस्तमात्मानात्मपदार्थद्वयमिव स्थाणुपुरुषद्वयं तत्रास्तीति चेत् , मैवम् ; स्थाणौ पुरुष इतिवद् अनात्मन्यात्मेति भ्रम इत्येतावत एवांशस्येह साधर्म्यत्वेन विवक्षितत्वात्। यथा पुरुषव्यतिरिक्तोऽपि स्थाणुः पुरुषतादात्म्याध्यासात् ‘पुरुषः सः’ इति व्यवह्रियते, तथा आत्मव्यतिरिक्तोऽप्यनात्मा संघातः आत्मतादात्म्याध्यासादात्मेति व्यवह्रियत इति। भाष्यार्कप्रकाशः अविद्यात्मकत्वाच्च देहाभिमानस्य तन्निवृत्तौ देहानुपपत्तेः संसारानुपपत्तिः। देहादिसंघात आत्माभिमानो ऽविद्यात्मकः। न हि लोके गवादिभ्योऽन्योऽहं मत्तश्चान्ये गवादय इति जानंस्तान् अहमिति (प्रत्ययं) मन्यते कश्चित्। अजानंस्तु स्थाणौ पुरुषविज्ञानवदविवेकतो देहादिसंघाते कुर्यादहमिति प्रत्ययं, न विवेकतो जानन्। यस्तु ‘आत्मा वै पुत्रनामासि’(एकाग्नि.२.१२) इति पुत्रेऽहम्प्रत्ययः, स तु जन्यजनकसम्बन्धनिमित्तो गौणः। गौणेन चात्मना देहाद्यभिमानस्याविद्यात्मकत्वं विद्याविरोधित्वेन विवृणोति—देहादिसंघातेऽभिमान इत्यादिना। ननु यथा गौणेना- त्मना पुत्रेण कृतं वैश्वदेवादि स्वकृतमेव भवति, तथा गौणेन देहादिना कृतमात्मकर्तृ[क](त्व)मेव भविष्यतीत्याशङ्क्याह—

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या तस्याविद्यत्वेन विद्यापोह्यत्वे हेत्वन्तरमाह—अविद्येति। कुतोऽस्याविद्याकृतत्वं धर्माधर्मकृतत्वसम्भवादित्याशङ्क्याह— देहादीति। आत्मनो धर्मादिकर्तृत्वस्याविद्यत्वान्नाविद्यां विना कर्मिणां देहाभिमानः सम्भवति, अतश्चात्मनः संघातेऽहमभिमानस्या- विद्याविद्यमानतेत्यर्थः। आत्मनो देहाद्यभिमानस्याविद्यकत्वमन्वयव्यतिरेकाभ्यां साधयन् व्यतिरेकं दर्शयति—न हीति। अन्वयं दर्शयन् व्यतिरेकमनुवदति—अजानन्निति। पुत्रे पितुः अहन्धीवद् आत्मीये देहादौ अहन्धीर्गौणीत्युक्तमनुवदति—यस्त्विति। तत्र दृष्टान्त- श्रुतेर्गौणात्मविषयत्वमुक्तमङ्गीकरोति—स त्विति। तर्हि देहादावपि तथैव स्वकीये स्यादहन्धीर्गौणीत्याशङ्क्याह— गौणेनेति। न हि

[[अ. १८. श्लो. ६६]] [[९८८]]

भोजनादिवत् परमार्थकार्यं न शक्यते कर्तुम् , गौणसिंहाग्निभ्यां मुख्यसिंहाग्निकार्यवत्। ननु यः स्थाणुं पुरुषं चोभौ वेत्ति तस्य स्थाणौ पुरुषभ्रमः, न त्वन्यतरापरिज्ञातुः, नाप्युभयापरिज्ञानात् , बालस्य तददर्शनात्। एवमात्मानात्मानौ जानतः किं संघातात्मभ्रमो भवति, उतान्यतरमजानतः, यद्वोभयमजानतः? नाद्यः, आत्मानात्मविदः सम्यग्दर्शिन एव संघातात्मभ्रमप्रसङ्गात्। द्वितीये, किमात्मानमजानतः? उतानात्मानमजानतः? नाद्यः, पुरुषापरिज्ञातुः स्थाणौ पुरुषभ्रमासम्भवव- दात्मापरिज्ञातुः संघाते आत्मभ्रमासम्भवात्। न द्वितीयः, अनात्मविद एवाभावात्। न तृतीयः, सुषुप्तिमृत्यादिषु भ्रमासम्भवादिति चेत् , मैवम् ; आत्मानमनात्मानं वा यः सम्यग् वेत्ति, न तस्य संघाते आत्मभ्रमो भवति। न हि स्थाणुं पुरुषं वा सम्यग् विदितवतः स्थाणावपि पुरुषभ्रमो भवति। न च प्रकृतपुरुषभ्रमविषयस्थाणुस्वरूपयाथार्थ्यज्ञानाभावेऽपि स्थाणुसामान्यस्वरूपज्ञानमस्तीति वाच्यम् ; भ्रमम्प्रति संस्कार(ज्ञान)स्यैव हेतुत्वेन स्वानुभूतस्थाणुपुरुषसंस्कारवशाद् यथा स्थाणौ पुरुषभ्रम एवं दिनान्तरे जन्मान्तरे वा स्वानुभूतसंघातात्मभ्रमसंस्कारवशादिदानीं संघातात्मभ्रमोदय इति। तस्माद् य आत्मानं सम्यङ् न वेत्ति तस्यैवानात्मनि संघाते आत्मेति भ्रमः, आत्मनि सम्यग्विदिते सति संघाते आत्मभ्रमायोगात्। नाप्यात्मानं सुतरामविदुषः संघाते आत्मभ्रमः सम्भवति; किन्तु कर्ता भोक्ता जातो मृत इति विपरीतलक्षणमात्मानं यो वेत्ति तस्य संघाते आत्मभ्रमः। न च भ्रमात्प्राक् कथं विपरीतात्मज्ञानम् इति वाच्यम् ; बीजाङ्कुरन्यायेन भ्रमात्प्राग् विपरीतात्मज्ञानं तस्मात्प्राग् भ्रमश्चास्तीति। यद्वाऽज्ञानादात्मनि विपरीतज्ञानं भ्रमश्चेत्युभ- यमेकदैव भवति। वस्तुतस्तु स्वशब्दवाच्योऽहमित्यनुभवसिद्ध आत्मेति कश्चन पदार्थोऽस्तीति सामान्याकारेणात्मानं सर्वे विदन्त्येव। अज्ञास्तु तमेवात्मानं संघातत्वेन प्रतिपद्यन्त इति संघाते आत्मभ्रमोऽज्ञानां युक्ततरः। अनुभवसिद्धत्वाद् दुरपलापेऽस्मिन् संघातात्मभ्रमेऽवि- द्यापूर्वकत्वादनिर्वाच्ये नातीव प्रश्नोत्तरसरणिः कार्या, मायामयस्य वस्तुनः सति विमर्शे स्वरूपासिद्धेः। न हि कृते विमर्शे रज्जुसर्पस्य क्वाप्यात्मसत्तालाभः। तस्मान्मायामयोऽयं संघातः, तस्मिन्नात्मभ्रमश्चेति मिथ्यैवैतदुभयम्। अत एव संघातेऽहमिति मिथ्याप्रत्यय इत्युक्तम्। ननु ‘आत्मा वै पुत्रनामासी’ति श्रुतिप्रामाण्यात् पुत्रे अहमिति प्रत्ययो यथा गौणः, तथा स्वीये संघातेऽप्यहमिति प्रत्ययो गौण एव, न मिथ्येत्यत आह—यस्त्विति। पुत्रस्य गौणात्मत्वेऽपि संघातस्य न गौणात्मत्वम्। कुतः पुत्रस्य गौणात्मत्वम्? अत आह—स त्विति। जन्यजनकयोः पुत्रपित्रोर्यः सम्बन्धः जन्यजनकभावरूपः, स निमित्तं यस्य स तथोक्तः, पुत्रेऽहमिति प्रत्ययो गौणः, जन्यजनकभावरूपसम्बन्धात्मकगुणनिमित्तत्वादिति भावः। नैवात्मसंघातयोरस्ति जन्यजनकसम्बन्धः, देहेन्द्रियाद्यवच्छिन्नचैतन्यलक्षणस्यात्मनः देहेन्द्रियादिजनकत्वासम्भवात्। ‘आत्मन आकाशः सम्भूतः’ इति श्रुतिस्तु देहेन्द्रियाद्य[न]वच्छिन्नात्मपरेति न विरोधः। तस्मात् संघातेऽहम्प्रत्ययो न गौणः, किन्तु मिथ्यैव। किञ्च गौणेनात्मना संघातेन परमार्थात्मकार्यं कर्तुं न शक् यते। यथा पुत्रेण गौणात्मना पितुर्मुख्यात्मनः कार्यं भोजनादिकं कर्तुं न शक् यते, तद्वदित्याह— गौणेन चेति। न हि पितृदेहस्य पितृभुक्तान्नपानैरिव पुत्रभुक्तान्नपानैर्वृद्ध्यादिरस्ति, येन गौणात्मसंघातकृतकर्मभिर्मुख्यात्मनः स्वर्गादि- प्राप्तिः स्यात्। श्रूयते चात्मनः संघातकर्मभिः स्वर्गादिप्राप्तिः। तस्मात् संघातो न गौणात्मा, किन्तु मिथ्यात्मैव। मुख्यात्मकार्यं भाष्यार्कप्रकाशः गौणेन चात्मनेति। यथा पुत्रेण कृते भोजने न तत्पित्रा कृतं भवतीति लौकिकव्याप्तिबलादवगम्यते। वैश्वदेवादौ तु तत्कृतमेवास्य सम्भवतीति शास्त्रबलादेवाभ्युपगम इति भावः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या स्वकीयेन पुत्रादिना गौणात्मना पितृभोजनादिकार्यं क्रियते। तथा देहादेरपि गौणात्मत्वे तेन कर्तृत्वादिकार्यमात्मनो न वास्तवं सिद्ध्यतीत्यर्थः। गौणात्मना मुख्यात्मनो नास्ति वास्तवं कार्यमित्यत्र दृष्टान्तमाह—गौणेति। न हि गौणसिंहेन देवदत्तेन मुख्यसिंहकार्यं क्रियते। नापि गौणाग्निना माणवकेन मुख्याग्निकार्यं दाहपाकादि। तथा देहादिना गौणात्मना मुख्यात्मनो न वास्तवं कार्यं कर्तृत्वादि कर्तुं

[[९८९]]

गौणात्मना कुतो न क्रियत इत्यतो दृष्टान्तमाह—गौणेति। गौणसिंहाग्निभ्यां देवदत्तमाणवकाभ्यां मुख्यसिंहाग्निकार्ये यथा न क्रियेते, तद्वत्। न च मिथ्यात्मनाऽपि मुख्यात्मकार्यं कथं क्रियत इति वाच्यम् ; संघाते आत्मेति प्रत्ययवत् , तत्कार्येष्वपि मुख्यात्मकार्यत्व- प्रत्ययसत्त्वात्। नन्वदृष्टेषु विषयेषु स्वर्गादिषु या चोदना ‘ज्योतिष्टोमेन स्वर्गकामो यजेते’त्यादिविधिः, साऽनात्मनो न भवति, तस्य जडत्वात्। अतो मुख्यात्मन एव भवति। तच्छास्त्रप्रामाण्याच्च कर्तव्यमेव मुख्यात्मना यज्ञादिकं कर्म, अन्यथा विधिवैयर्थ्यप्रसङ्गेन विधीनामप्रामाण्यापत्तेः। तच्च मुख्यात्मना कर्तव्यं कर्म गौणात्मभिः क्रियते मुख्यात्मनः करणाद्यभावादिति शङ्कते—अदृष्टेति। परि- हरति—नेति। हेतुमाह—अविद्येति। देहेन्द्रियादयो न गौणात्मानः, तेषां देहादीनामविद्याकृतात्मत्वात्। अविद्ययैव देहेन्द्रियादयोऽना- त्मानोऽप्यात्मानः कृताः, न तु गौणवृत्त्या, यथा अविद्यया रज्जुः सर्पः क्रियते, तद्वत्। तस्मान्मिथ्यात्मान एव त इत्याह—किं तर्हीति। अनात्मनां सतामनात्मत्वेन वर्तमानानां तेषां देहादीनां मिथ्याप्रत्ययेनैवाविद्यापूर्वकेणात्मत्वमापाद्यते, न तु गौणप्रत्ययेन। तस्मात् ते मिथ्यात्मान एव। मिथ्याप्रत्ययेनैव देहादीनामात्मत्वमापाद्यत इत्यत्र हेतुमाह—तद्भाव इति। मिथ्याप्रत्ययसत्त्वे देहादीनामात्मत्व- सत्त्वम् , मिथ्याप्रत्ययाभावे देहादीनामात्मत्वाभाव इत्यन्वयव्यतिरेकाभ्यां मिथ्याप्रत्ययपूर्वकत्वं देहाद्यात्मत्वस्य सिद्धम्। यथा मृत्सत्त्वे घटसत्त्वं, मृदभावे घटाभावः इत्यन्वयव्यतिरेकाभ्यां घटस्य मृत्पूर्वकत्वसिद्धिः, तद्वदिति भावः। अन्वयव्यतिरेकावेव विवृणोति— अविवेकिनामिति। अविवेकिनां बालानां मूढानामज्ञानकाले देहादिसंघाते विषये ‘दीर्घोऽहम्’ ‘गौरोऽह’मिति प्रत्ययो दृश्यते। देहादि- संघातादन्योऽहमिति जानतां विवेकिनां तु तत्काले ज्ञानकाले देहादिसंघातेऽहम्प्रत्ययो न भवति। अविवेकिनामपि कालान्तरे विवेक- सत्त्वे तादृशप्रत्ययाभावादुक्तमज्ञानकाल इति। विवेकिनामपि कस्मिंश्चिद् दुःखाद्यनुभवकाले विवेकलोपे सति संघातात्मप्रत्यय- शक्यमित्यर्थः। स्वर्गकामादिवाक्यप्रामाण्यादात्मनो देहाद्यतिरेकज्ञानात् तस्य च केवलस्याकर्तृत्वात् तत्कर्तव्यं कर्म गौणैरेव देहाद्यात्मभिः सम्पाद्यते। न हि सत्येव श्रौतातिरेकज्ञाने देहादावात्मत्वमात्मनो मुख्यं युक्तमिति चोदयति—अदृष्टेति। न देहादीनामात्मत्वं गौणं तदीयात्मत्वस्याविद्यत्वेन मुख्यत्वात् , अतो न गौणात्मभिरात्मकर्तव्यं कर्म क्रियते, किन्तु मिथ्यात्मभिरिति परिहरति—नाविद्येति। तदेव विवृण्वन्नञर्थं स्फुटयति—न गौणा इति। कथं तर्हि देहादिविषयात्मत्वप्रथेत्याशङ्क्याविद्याकृतेत्यादिहेतुं विभजते—कथं तर्हीति। देहादीनामनात्मनामेव सतामात्मत्वं मिथ्याप्रत्ययकृतमित्यत्रान्वयव्यतिरेकावुदाहरति—तद्भाव इति। उक्तेऽन्वये शास्त्रीयसंस्कारशून्या- नामनुभवं प्रमाणयति—अविवेकिनामिति। व्यतिरेकेऽपि दर्शिते शास्त्राभिज्ञानामनुभवमनुकूलयति—न त्विति। अन्वयव्यतिरेकाभ्याम्

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अदृष्टविषयचोदनाप्रामाण्यादात्मकर्तव्यं गौणैर्देहेन्द्रियात्मभिः क्रियत एव इति चेन्न, अविद्याकृतात्मत्वात् तेषाम्। न गौणा आत्मानो देहेन्द्रियादयः। १कथं तर्हि? मिथ्याप्रत्ययेनैव २असङ्गस्यात्मनः सङ्गत्यात्मत्वमापाद्यते, तद्भावे भावात् तदभावे चाभावात्। अविवेकिनां ह्यज्ञानकाले बालानां दृश्यते दीर्घोऽहं गौरोऽहमिति देहादिसंघाते अहम्प्रत्ययः। न तु विवेकिनाम् अन्योऽहं देहादिसंघातादिति जानतां तत्काले देहादिसंघातेऽहम्प्रत्ययो भवति। तर्हि इदं नाम शास्त्रबलादेवाभ्युपगम्यतामित्याह—अदृष्टविषयेति। किं शास्त्रस्य प्रामाण्यं प्रकारान्तरेण न सम्भव- तीत्यभिप्रायः, किं वा शास्त्रमुखादित्थमेव प्रतीयते? प्रथमं प्रत्याह—नाविद्यात्मकत्वात् [नाविद्याकृतात्मत्वात्] इति। तेषां देहादीनाम्। ततो ब्राह्मण्यादिविशिष्टदेहादिना कृतमात्मकृतमेवेति भावः। वस्तुसंग्रहं विवृणोति—न गौणा इत्यादिना।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘किं तर्हि’ इति पा.। २. ‘अनात्मानः सन्तः आत्मत्वमापाद्यन्ते’ इति पा.।

[[अ. १८. श्लो. ६६]] [[९९०]]

सत्त्वादुक्तम्— तत्काल इति। तस्मादिति। विवेकिनां विवेककाले संघातात्माभिमानादर्शनात् , अविवेकिनामविवेककाले संघातात्मा- भिमानदर्शनाच्चेत्यर्थः। विवेकिनामपि विवेककाले संघाताभिमानादर्शनाद् अविवेककाले तद्दर्शनाद् अविवेकिनामपि विवेकोदयानन्तरं संघाताभिमानादर्शनाच्चेत्यर्थ इति वा। मिथ्याप्रत्ययाभावे देहाद्यात्मत्वाभावादित्याह—मिथ्येति। नन्वविवेकिनामित्यादिग्रन्थेनाज्ञान- सत्त्वे मिथ्याप्रत्ययसत्त्वम् , तदभावे तदभाव इत्येवान्वयव्यतिरेकावुक्तौ। न तु मिथ्याप्रत्यये सति देहाद्यात्मत्वम् तदभावे तदभाव इति चेत् , नैष दोषः, अज्ञाने सति मिथ्याप्रत्ययः मिथ्याप्रत्यये सति देहाद्यात्मत्वमिति कृत्वा अज्ञाने सति मिथ्याप्रत्ययः, तदभावे तदभाव इत्यन्वयव्यतिरेकप्रदर्शनेन मिथ्याप्रत्यये सति देहाद्यात्मत्वम् , तदभावे तदभाव इत्यन्वयव्यतिरेकयोरप्युक्तप्रायत्वादिति। यद्वा मिथ्या- प्रत्ययेन संघातस्यात्मत्वमन्वयव्यतिरेकाभ्यां सिद्धं भवतु नाम, स तु मिथ्याप्रत्ययो ना-विद्यापूर्वकः। विदुषामपि संघातेऽहम्प्रत्यय- दर्शनात् , अत आह—अविवेकिनामिति। तस्मादिति। मिथ्याप्रत्ययस्याविद्यापूर्वकत्वादित्यर्थः। तत्कृत एवेति। संघातेऽहमिति प्रत्ययोऽज्ञानकृतमिथ्याप्रत्यय एवेत्यर्थः। एवकारार्थमाह—न गौण इति। कस्मान्न गौणः? अत आह—पृथगिति। पृथग्गृह्यमाणे विशेषसामान्ये ययोस्तयोः पृथग्गृह्यमाणविशेषसामान्ययोः। हिः प्रसिद्धौ। गौणप्रत्ययः ‘सिंहो देवदत्तः’ इति ज्ञानं तत्पूर्वकः शब्द- प्रयोगः ‘सिंहो देवदत्तः’ इति वाचोच्चारणम्। अगृह्यमाणविशेषसामान्ययोरात्मसंघातयोस्तु न गौणः प्रत्ययो भवति संघात आत्मेति। तस्मात् संघातेऽहमिति प्रत्ययो न गौणः। अयं भावः—सिंहं देवदत्तं च सामान्याकारेण विशेषाकारेण च पृथग् जानन्नेव पुरुषः ‘सिंहो देवदत्तः’ इति प्रत्येति, सिंहदेवदत्तगतक्रौर्यादिसमानधर्माणामग्रहणे देवदत्ते सिंहतौल्यबुद्ध्यनुदयात्। केसरशिखाचतुष्पात्त्वद्विपात्त्वादिविशेषधर्माणामग्रहणे देवदत्ते सिंहाभेदबुद्ध्युदयप्रसङ्गाच्च। एवमात्मानं संघातं च यदि सामान्याकारेण विशेषाकारेण च पृथग् जानन् पुरुषो यदि संघात आत्मेति प्रतीयात् तर्हि संघातेऽहम्प्रत्ययो गौणः स्यात् , न तु तथा विद्वान् प्रत्येति, विद्याया आनर्थक् यप्रसङ्गात्। संघातात्मभ्रम- निवारणफला संघातभिन्नसच्चिदानन्दात्मस्वरूपावगतिपर्यवसाना च हि विद्या। कथं संघातभिन्नं सच्चिदानन्दलक्षणमात्मानं सामान्यतो विशेषतश्च जानन् पुरुषः संघातेऽहमिति प्रत्ययं कुर्यात्? यस्तु मनुष्योऽहमित्यभिमन्यते; स ह्यनात्मेति, आत्मेति च पदार्थद्वयमस्तीति सामान्याकारेणैव न वेत्त्यात्मानात्मानौ। किम्पुनः सच्चिदानन्दलक्षण आत्मा, अनृतजडदुःखात्मकोऽनात्मेति विशेषाकारेण। अत एव हि तस्यानात्मन्यात्मेति प्रत्ययो भ्रमः स्थाणौ पुरुष इति प्रत्ययवत्। यथा सिंहदेवदत्तौ पृथक्पश्यन् पुरुषः ‘सिंहो देवदत्त’ इति प्रत्येति, (न तथा स्थाणुः पुरुष इति प्रत्येति,) न तथा स्थाणुपुरुषौ पृथक् पश्यन् स्थाणुः पुरुष इति प्रत्येति; किन्तु स्थाणुमेकमेव पश्यन् पुरुष इति प्रत्येति। एवमात्मानात्मानौ पृथक् पश्यन् संघात आत्मेति (मनुष्योऽहमिति) न प्रत्येत्यज्ञः, किन्त्वनात्मानमेकमेव पश्यन्नात्मेति प्रत्येति। तस्मात् संघातेऽहमिति प्रत्ययो न गौणः, किन्तु मिथ्यैव। अनुभवानुसारिणां सिद्धमर्थमुपसंहरति—तस्मादिति। तत्कृत एव देहादावहम्प्रत्यय इति शेषः। किञ्च व्यवहारभूमौ भेदग्रहस्य गौणत्वव्यापकत्वात् तस्य प्रकृतेऽभावान्न देहादावहंशब्दप्रत्ययौ गौणावित्याह—पृथगिति। १. विवेकापरोक्ष्यं भेदप्रत्यक्षम्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

तस्माद् मिथ्याप्रत्ययाभावेऽभावात् तत्कृत एव, न गौणः। पृथग्गृह्यमाणविशेषसामान्ययोर्हि सिंहदेवदत्तयोः अग्नि- माणवकयोर्वा गौणः प्रत्ययः, शब्दप्रयोगो वा स्यात् , नागृह्यमाणसामान्यविशेषयोः। अन्वयव्यतिरेकाभ्यामविद्याकृतत्वमुपपाद्य गौणत्वाभावे पूर्वोक्तं हेतुं स्मारयति—पृथग्गृह्यमाणेत्यादिना। यत्रापरोक्षेऽर्थे गौणप्रत्ययः, तत्र देवेकापरोक्ष्यमदृष्टम्[विवेकापरोक्ष्यं१ दृष्टम्]। इह तु यौक्तिकविवेकेऽपि (हेतु)विवेकापरोक्ष्यं व्यापकं व्यावर्त- मानं स्वव्याप्यं गौणत्वमपि व्यावर्तयतीति भावः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[९९१]]

ननु यदि देहेन्द्रियादयो मिथ्यात्मानः स्युस्तर्हि तत्कृतमपि कर्म मिथ्यैव स्यादिति कथं मिथ्याभूतं यज्ञादिकर्म श्रुतिर्ब्रूयाद् मुख्यात्मकर्तव्यत्वेन? तस्माच्छ्रुतेरदृष्टविषयमुख्यात्मचोदनाप्रामाण्यान्मुख्यात्मकर्तव्यं गौणैर्देहेन्द्रियादिभिः क्रियत इत्यवश्यमभ्युप- गन्तव्यम् , वेदस्य सर्वप्रमाणाधिकत्वात्। न हि वेदप्रामाण्यमुपपत्तिभिर्विघटयितुमर्हम् , अत आह—यत्तूक्तमित्यादि। तत्प्रामाण्य- स्येति। श्रुतिप्रामाण्यस्येत्यर्थः। ‘प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते। एनं विदन्ति वेदेने’ति वचनात् प्रत्यक्षानुमितिप्रमाणा- विषयादृष्टार्थबोधकत्व एव वेदस्य प्रामाण्यम् , न तु दृष्टार्थविषय इति भावः। इदमेवाह—प्रत्यक्षादीति। आदिपदादनुमानादिग्रहणम्। कस्य विषयः? अत आह—अग्निहोत्रादीति। अग्निहोत्रादि कर्म, तत्साध्यं स्वर्गादिफलम् , तयोः कर्मफलयोर्वर्तमानः साध्यसाधनभाव- रूपसम्बन्धश्चेत्ययं विषय इत्यर्थः। अग्निहोत्रादिसाध्यं स्वर्गादि; साधनमग्निहोत्रादि; सम्बन्धश्च त्रयाणां समाहारद्वन्द्वः। तस्मिन् विषये श्रुतेः प्रामाण्यात्। प्रत्यक्षादिविषये श्रुतेर्न प्रामाण्यम्। तत्र हेतुमाह—अदृष्टेति। प्रामाण्यस्यादृष्टस्याज्ञातस्यार्थस्य दर्शनं ज्ञापनं तदेवार्थो वस्तु विषयो यस्य तत्त्वात् ; ‘अदृष्टार्थदर्शनविषयत्वा’दिति वा पाठः। सर्वेषामपि प्रमाणानामज्ञातार्थज्ञापकत्वादेव प्रामाण्यम्। तथा हि— प्रमाकरणं प्रमाणम् ; अनधिगताबाधितार्थविषयकं ज्ञानं प्रमा; भ्रमव्यावृत्त्यर्थमुक्तम् अबाधितेति। ततश्चाज्ञाताबाधितार्थ- ज्ञापकं प्रमाणम् ; प्रत्यक्षप्रमाकरणं प्रत्यक्षप्रमाणं चक्षुरादि। तत्र चक्षुर्व्यापारात्प्रागदृष्टं घटं स्वव्यापारेण घटोऽयमिति पुरुषं प्रति बोधयित्वा चक्षुः प्रमाणं भवति। एवं स्वव्यापारात्प्रागश्रुतं शब्दं बोधयित्वा श्रोत्रं प्रमाणम् , तथा रसनादिकमपि। अनुमितिकरणम् अनुमानम् , तच्च मनः। परत्वे[पर्वते]ऽदृश्यमानमग्निं वह्निव्याप्यो धूम इति धूमलिङ्गेन पुरुषं प्रति बोधयित्वा प्रमाणं भवति। व्याप्तिज्ञानं करणमिति केचित्। सादृश्यज्ञानमुपमितिकरणमुपमानम्। तच्चाज्ञातमेव गोगवयसादृश्यं ज्ञापयित्वा प्रमाणं भवति। तथा पीनो देवदत्तो दिवा न भुङ्क्त इत्यर्थापत्तिरप्यज्ञातमेव पीनदेवदत्तकर्तृकं रात्रिभोजनं ज्ञापयित्वा प्रमाणं भवति। एवमनुपलब्धिरपि अज्ञातमेव घटाभावं ज्ञापयित्वा प्रमाणं भवति। तद्वच्छब्दोऽप्यज्ञातार्थज्ञापनादेव प्रमाणम्। आप्तवाक् यं शब्दः। घटमविदन् हि बालो घटं दृष्ट्वा कोऽयमिति मातरं पृष्ट्वा घटोऽयमिति मातृवचनाद् घटं जानाति। वेदश्च परमाप्तस्य भगवतो वाक् यमिति परं प्रमाणम्। स ह्यज्ञातं स्वर्गाग्निहोत्रादिकं ज्ञापयति। तस्मादिति। दृष्टार्थे वेदस्याप्रमाणत्वादित्यर्थः। दृष्टं मिथ्या च तदज्ञानं च मिथ्याज्ञानं निमित्तं यस्य तस्य दृष्टमिथ्याज्ञाननिमित्तस्य, देहादिसंघातेऽहम्प्रत्ययस्य दृष्टस्यैवेत्यर्थः, गौणत्वं कल्पयितुं न शक् यम्। ननु देहादिसंघातेऽहम्प्रत्ययः तत्कारणमज्ञानं च यद्यपि मिथ्यात्वेन ज्ञातम् , तथापि गौणत्वेनाहम्प्रत्ययो न ज्ञात इत्यज्ञातज्ञापनमस्ति वेदप्रामाण्यकारणं प्रकृतेऽपी- त्यत आह—न हीति। ‘अग्निरुष्णः प्रकाशः’ इत्यनुभवसिद्धे विषये यदि बहवोऽपि वेदाः ‘अग्निः शीतो ऽप्रकाशो वे’ति भाषमाणाः सन्तः प्रमाणं स्युस्तर्हि मिथ्यात्वेन विद्वदनुभवसिद्धे संघाताहम्प्रत्यये विषये देहेन्द्रियादयो गौणा इति वदन् वेदः प्रमाणं स्यात्। अदृष्टविषयचोदनाप्रामाण्यात् कर्तुरात्मनो व्यतिरेकावधारणात् तस्य देहादावहमभिमानस्य गौणतेत्युक्तमनुवदति—यत्त्विति। श्रुतिप्रामाण्यस्याज्ञातार्थविषयत्वान्मानान्तरसिद्धे व्यतिरिक्तात्मनि चोदनाप्रामाण्याभावान्न तदवष्टम्भेन देहादावात्माभिमानस्य गौणते- त्युत्तरमाह—न तदिति। श्रुतिप्रामाण्यस्यादृष्टविषयत्वं स्पष्टयति—प्रत्यक्षादीति। अज्ञातार्थज्ञापकं प्रमाणमिति स्थितेर्न ज्ञाते श्रुति- प्रामाण्यमित्याह—अदृष्टेति। अज्ञातसाध्यसाधनसम्बन्धबोधिनः शास्त्रस्यातिरिक्तात्मन्यौदासीन्ये फलितमाह—तस्मादिति। अन्वय-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यत्तूक्तम्— श्रुतिप्रामाण्यादिति, तन्न, तत्प्रामाण्यस्यादृष्टविषयत्वात्। प्रत्यक्षादिप्रमाणानुपलब्धे हि विषये- ऽग्निहोत्रादिसाध्यसाधनसम्बन्धे श्रुतेः प्रामाण्यम् , न प्रत्यक्षादिविषये, अदृष्टदर्शनार्थविषयत्वात् प्रामाण्यस्य। तस्मान्न द्वितीयं विकल्पं दूषयति—यत्तूक्तमित्यादिना। अग्निहोत्रादेः स्वर्गादिसाधनत्वे श्रुतिः प्रमाणम्। न गौणेनात्मना कृतं मुख्यस्य स्यादिति श्रुतिमुखात् प्रतीयते। तात्पर्यकल्पनं त्वनुभवविरुद्धमिति भावः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. १८. श्लो. ६६]] [[९९२]]

दृष्टमिथ्याज्ञाननिमित्तस्याहम्प्रत्ययस्य देहादिसंघाते गौणत्वं कल्पयितुं शक्यम्। न हि श्रुतिशतमपि शीतोऽग्निर- प्रकाशो वेति ब्रुवत् प्रामाण्यमुपैति। यदि ब्रूयाच्छीतोऽग्निरप्रकाशो वेति, तथाप्यर्थान्तरं श्रुतेर्विवक्षितं कल्प्यम् , प्रामाण्यान्यथानुपपत्तेः, न तु प्रमाणान्तरविरुद्धं स्ववचनविरुद्धं वा। कर्मणो मिथ्याप्रत्ययवत्कर्तृकत्वात् कर्तुरभावे श्रुतेरप्रामाण्यमिति चेत्? न, ब्रह्मविद्यायामर्थवत्त्वोपपत्तेः। तस्मादनुभवाविरुद्ध एव वेदः प्रमाणम्। ननु वेदाः प्रमाणमिति प्रसिद्धेऽर्थे कथमप्रामाण्यप्रसङ्ग इत्यत आह—यदीति। श्रुतेः प्रामाण्या- न्यथानुपपत्त्या विवक्षितमर्थान्तरं कल्प्यम् , यथा ‘शीतोऽग्निरप्रकाशः’ इति वेदवाक् ये सति तस्य— अग्निः शीतः शान्तो, नष्ट इति यावत् , अत एवाप्रकाश इति। किमिति यथाश्रुतार्थो न कल्प्यः? अत आह—न त्विति। स्ववचनविरुद्धं प्रमाणान्तरविरुद्धं न कल्प्यम् , विरोधादिति भावः। एतेन यजेतेत्याद्यदृष्टविषयचोदनाप्रामाण्याद् यदि संघातो गौणात्मेति कल्प्यते, तर्हि सर्ववेदान्तविरोध इति स्ववचनविरोधः। वेदान्तेषु हि मायया सर्वं जगदात्मनि कल्पितमिति, अविद्यया देहेन्द्रियादिकमात्मत्वेन प्रत्येतीति च घण्टाघोषः, विद्वदनुभवविरोधश्च, विदुषां संघातेऽहम्प्रत्ययाभावात्। यदि स गौणः स्यात् तर्हि विदुषां किमिति न स्यात्? किमु विद्वान् पिता ‘आत्मा वै पुत्रनामासी’ति पुत्रं गौणात्मानं न प्रत्येति? प्रत्युत विद्वानेव प्रत्येति, न त्वविद्वान् मूर्खः, श्रुत्यर्थानभिज्ञत्वात् तस्य। उप- पत्तिविरोधश्च, अगृहीतसामान्यविशेषयोः संघातात्मनोर्गौणत्वायोगादित्युक्तत्वात् ; प्रत्यक्षप्रमाणविरोधश्च, गौणमुख्यसिंहयोरिव गौण- मुख्यात्मनोः पृथगनुपलम्भात्। तस्मान्मिथ्यात्मैव संघातः। यजेतेत्यादिश्रुतयस्तु अविद्वद्विषयत्वेन प्रमाणमेव। यो हि संघातं कर्तारम् आत्मत्वेन प्रत्येति, स हि यज्ञादिकं कुरुते, तत्फलमनुभवति च। तथा च विधिश्रुतीनामविद्वद्विषयत्वं प्रकल्प्य प्रामाण्यं सम्पादनीयम् इति भावः। ननु संघातेऽहमिति मिथ्याप्रत्ययवान् यः स एवाविद्यावान् कर्मणः कर्तेति मिथ्याप्रत्ययवत्पुरुषकर्तृकत्वे सति कर्मणो मिथ्या- त्मभूतसंघातकर्तृकत्वमेव प्राप्तं कर्मणो न मुख्यात्मकर्तृकत्वमिति कृत्वा मुख्यस्य कर्तुरात्मनोऽभावाच्छ्रुतिरप्रमाणेति शङ्कते—कर्मण इति। संघातात्मानमुद्दिश्य यजेतेत्यादिविधिरनुपपन्ना। न हि स्थाणुपुरुषं कोऽप्यनुन्मत्तः ‘त्वमेवं कुरु’ इति चोदयति , मुख्यात्मा त्वकर्तैव। तस्माच्छ्रुतिरप्रमाणैवेति भावः। यद्वा कर्मणोऽविद्वत्कर्तृकत्वे सति विदुषः कर्मण्यप्रवृत्त्या कर्तुरभावात् श्रुतेरप्रामाण्यमिति शङ्कते—कर्मण इति। परिहरति—नेति। हेतुमाह—ब्रह्मेति। कर्मकाण्डो ज्ञानकाण्डश्चेति काण्डद्वयात्मको वेदः। तत्र कर्मकाण्डस्या- प्रमाणत्वेऽपि ज्ञानकाण्डः प्रमाणमेवेति न श्रुतेरप्रामाण्यप्रसङ्गः। ज्ञाननिष्ठाकर्तुर्विदुषः सत्त्वेन ज्ञातुर्मुख्यात्मनः सत्त्वेन च ज्ञानकाण्डस्य व्यतिरेकाभ्यां दृष्टो मिथ्याज्ञाननिमित्तो देहादिसंघातेऽहम्प्रत्ययः, तस्येति यावत्। अन्यविषयत्वाच्चोदनाया नातिरिक्तात्मविषयतेत्युक्तम्। इदानीं तद्विषयत्वाङ्गीकारेऽपि न तन्निर्वोढुं शक् यम् , प्रत्यक्षविरोधादित्याह— न हीति। १अपौरुषेय्याः श्रुतेरसम्भावितदोषाया मानान्तर- विरोधेऽपि प्रामाण्यमप्रत्याख्येयमित्यभिप्रेत्याह—यदीति। स्वार्थं बोधयन्त्याः श्रुतेरविरोधापेक्षत्वाद् विरुद्धार्थवादित्वे तत्परिहाराय विवक्षितमर्थान्तरमविरुद्धं तस्याः स्वीकर्तव्यम् , विरोधे तत्प्रामाण्यानुपपत्तेरित्याह—तथापीति। २(अ)विरोधमवधीर्य श्रुत्यर्थकल्पना न युक्तेति व्यावर्त्यमाह—न त्विति। अविद्यावत्कर्तृकं कर्मेति त्वयोपगमाद् उत्पन्नायां विद्यायामविद्याऽभावे तदधीनकर्तुरभावाद् अन्तरेण कर्तारमनुष्ठानासिद्धौ कर्म- काण्डाप्रामाण्यमित्यध्ययनविधिविरोधः स्यादिति शङ्कते—कर्मण इति। कर्मकाण्डश्रुतेर्विद्योदयात्पूर्वं व्यावहारिकप्रामाण्यस्य तात्त्विक-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

मिथ्याप्रत्ययवांश्चेत् कर्ता, तर्हि परमार्थतः कर्तुरभावादप्रामाण्यं स्यादित्याह— कर्मणो मिथ्याप्रत्ययवत्कर्तृकत्वा- दिति। कर्तृत्वादिभ्रमसिद्धक्रियाकारकाद्यनुवादेन परमपुरुषार्थसाधनभूतायां ब्रह्मविद्यायां सर्वस्य वेद्यस्य[वेदस्य] तात्पर्य-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘अपौरुषेयायाः’ इति पा.। २. ‘अविरोधमवधार्य’ इति पा.।

[[९९३]]

कर्मविधिश्रुतिवद् ब्रह्मविद्याविधिश्रुतेरप्यप्रामाण्यप्रसङ्ग इति चेत्? न, बाधकप्रत्ययानुपपत्तेः। यथा ब्रह्मविद्याविधि- श्रुत्यात्मन्यवगते देहादिसंघातेऽहम्प्रत्ययो बाध्यते, तथा आत्मन्येवात्मावगतिः न कदाचित् केनचित् कथञ्चिदपि बाधितुं शक् या, १फलाव्यतिरेकादवगतेः, यथा अग्निरुष्णः प्रकाशश्चेति। न चैवं कर्मविधिश्रुतेरप्रामाण्यम् , पूर्वपूर्व- सार्थकत्वादिति भावः। ब्रह्मविद्यायां ज्ञानकाण्डे, उपनिषत्स्विति यावत्। अर्थवत्त्वस्योपपत्तेरित्यक्षरार्थः। ननु यजेतेत्यादिकर्मकाण्डो- ऽविद्वद्विषयत्वेन यथा विदुषामप्रमाणम् , तथा ज्ञानकाण्डोऽपि विद्वद्विषयत्वेनाविदुषामप्रमाणमेवेति कर्मज्ञानकाण्डयोरप्रामाण्यं तुल्यमेव। अविदुषामप्रवृत्त्या ज्ञानकाण्डस्य, विदुषामप्रवृत्त्या कर्मकाण्डस्य चानर्थकत्वादिति शङ्कते—कर्मविधीति। कर्मविधिश्रुतिः यजेतेत्यादिः। तस्या इव तद्वत्। ब्रह्मविद्याविधिश्रुतिः ‘श्रोतव्यो मन्तव्य’ इत्यादिः। तस्या अप्यप्रमाण्यप्रसङ्ग इति चेन्न, कुतः? बाधकेति। बाधकज्ञानासम्भवादित्यर्थः। तदेव विवृणोति—यथेति। ब्रह्मविद्याविधिश्रुत्या तज्जन्यज्ञानेनेत्यर्थः। आत्मन्यवगते साक्षात्कृते सति देहादिसंघातेऽहमिति प्रत्ययो यथा बाध्यते, तथा आत्मावगतिः, केनापीति शेषः, कदाचिदपि कथञ्चिदपि बाधितुं न शक् या। कुतः? अवगतेरात्मज्ञानस्य फलाव्यतिरेकाद् आत्मप्राप्तिरूपफलाभेदात् , आत्मसाक्षात्कारातिरिक्तात्मप्राप्तिरूपमोक्षफला- भावादित्यर्थः। तस्माद् ब्रह्मविद्याया वैयर्थ्यमापादयितुं न शक् यते, येन तस्या अप्रामाण्यं स्यादिति भावः। कुतो न शक् यते? अत आह—यथेति। अग्निरुष्णः प्रकाशश्चेति प्रत्ययस्य यथा न केनापि बाधः, तद्वद् अहं ब्रह्मेति प्रत्ययस्यापीत्यर्थः। यथावदवस्थितवस्तु- ज्ञानत्वात् तस्येति भावः। अत्रेदं बोध्यम्—अविदुषां ज्ञानकाण्डेऽप्रवृत्तिः किं ब्रह्मविद्याया बाधितत्वादुत तेषां तत्रानधिकारात्? नाद्यः; ब्रह्मविद्यायाः कयाऽपि तद्भिन्नविद्यया बाधाभावात्। न ह्यग्निविषयकः अग्निरुष्णः प्रकाशश्चेति प्रत्ययः केनापि प्रत्ययान्तरेण बाध्यते? किंवा घट- विषयोऽयं घट इति प्रत्ययः केनापि बाध्यते? एवं ब्रह्मविषयोऽहं ब्रह्मेति सच्चिदानन्दं ब्रह्मेति च ज्ञानं न केनापि बाध्यते? किञ्चाहं ब्रह्मेति प्रत्ययः नाहं ब्रह्मेति प्रत्ययेनैव बाध्येत। यस्य त्वज्ञस्य नाहं ब्रह्मेति प्रत्ययोऽस्ति, तस्य ब्रह्माहमस्मीति प्रत्ययस्यैवाभावात् कथं तद्बाध- प्रसङ्गः? न ह्यहं ब्रह्मेति विदुषो नाहं ब्रह्मेति प्रत्ययः पुनरुदीयाद् येन ब्रह्मात्मप्रत्ययस्य बाध आशङ्क्येत। न ह्यग्निरुष्ण इति विदुषः शीतोऽग्निरिति प्रत्यय उदेति, नापि घटोऽयमिति विदुषो नायं घटः इति। अत एव ह्यबाधितार्थविषयं ज्ञानं प्रमेत्युक्तमभियुक्तैः। अर्थस्याबाधितत्ववचनेन च ज्ञानस्यापि तत्त्वं सिद्धमित्यबाधितमेव ज्ञानं प्रमा। यत्तु बाधितार्थविषयं ज्ञानं भ्रमरूपं, तद् बाधितमेव। यथा रज्जुविषये रज्जुरियमिति ज्ञानमबाधितार्थविषयत्वादबाधितं प्रामाण्याभावेऽपि सम्भवाद् ब्रह्मकाण्डश्रुतेश्च तात्त्विकप्रामाण्यस्य ब्रह्मविद्याजनकत्वेनोपपन्नत्वाद् नाध्ययनविधिविरोध इति परिहरति— न, ब्रह्मेति। कर्मकाण्डश्रुतेस्तात्त्विकप्रामाण्याभावे ब्रह्मकाण्डश्रुतेरपि तदसिद्धिरविशेषादिति शङ्कते—कर्मेति। उत्पन्नाया ब्रह्मविद्याया बाधकाभावेन प्रमाणत्वात् तद्धेतुश्रुतेस्तात्त्विकं प्रामाण्यमिति दूषयति—न, बाधकेति। ब्रह्मविद्याया बाधकानुपपत्तिं दृष्टान्तेन साधयति— यथेति। देहादिसंघातवदित्यपेरर्थः। लौकिकावगतेरिवात्मावगतेरपि फलाव्यतिरेकमुदाहरणेन स्फोरयति—यथेति। फलमज्ञान- निवृत्तिः। कर्मविधिश्रुतिवदित्युक्तं दृष्टान्तं विघटयति—न चेति। अनादिकालप्रवृत्तस्वाभाविकप्रवृत्तिव्यक्तीनां प्रतिबन्धेन यागाद्यलौकिक- १. ‘फलाव्यतिरेकावगतेः’ इति पा.।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

वृत्त्या प्रामाण्योपपत्तेः नाप्रामाण्यप्रसङ्ग इत्युक्तम्। तत्रातिप्रसङ्गं शङ्कते—कर्मसिद्धिरि[विधिश्रुती]ति। श्रुतित्वमप्रयोजकम् , बाधाधीनत्वादप्रामाण्यस्य, नेह स विद्यत इत्याह—न, बाधकेति। ज्ञानस्य फलम् आत्मस्वरूपावस्थानम् , तदभिन्नत्वाव- गतेर्न बाध इत्यर्थः। अबाध्यनिश्चयस्य लौकिकमुदाहरणमाह—यथाऽग्निरिति। श्रुतेर्गत्यन्तरमाह—न च कर्मविधिश्रुतेरिति। ननु स्वाभाविकप्रवृत्तिनिरोधेन कर्मापूर्वप्रवृत्तिमुपदिश्यात्माभिमुखप्रवृत्त्युत्पादनार्थत्वं चेत् , तर्हि स्वार्थस्य व्याजमात्रत्वा-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. १८. श्लो. ६६]] [[९९४]]

प्रमाज्ञानम् ; रज्जुविषये सर्पोऽयमिति ज्ञानं तु बाधितार्थविषयत्वाद् बाधितं भ्रमज्ञानम्। रज्जुरयं न सर्पः इत्याप्तवाक् यजन्यरज्जुज्ञानेन हि सर्पभ्रमो बाध्यते; बाधो हि निवृत्तिः। रज्जुज्ञानात् सर्पभ्रमनिवृत्तिरनुभवसिद्धैव। तस्माद् भ्रमज्ञानस्य बाधकं प्रमाज्ञानमस्ति। प्रमा- ज्ञानस्य तु न किञ्चिदपि बाधकम् , तथा भ्रमज्ञानविषयस्य सर्पाभासस्य बाधितत्वम् , न तु प्रमाज्ञानविषयस्य रज्जोः। एवं संघातात्म- ज्ञानं भ्रमः। संघातस्यानात्मत्वात् तद्विषयात्मज्ञानस्य ब्रह्माहमस्मीति वेदवाक् यजन्यब्रह्मात्मज्ञानेन बाधितत्वाद् भ्रमविषयसंघातस्यापि बाधितत्वेन बाधितार्थविषयत्वाच्च संघातात्मज्ञानस्य। ब्रह्मात्मज्ञानं तु न भ्रमः, किन्तु प्रमा। रज्जुज्ञानवद् ब्रह्मज्ञानस्य केनाप्य- बाधितत्वाद् रज्जुवद् ब्रह्मणोऽप्यबाधितार्थत्वात्। पारमार्थिकं सद्रूपं हि ब्रह्म। न हि बाधितस्य क्वापि सत्त्वमस्ति; नित्यं हि सत्। रज्जुस्तु व्यावहारिकसत्या; प्रातिभासिका रज्जुसर्पमरीच्युदकस्वप्नरथादयः। तज्ज्ञानानि च व्यावहारिकसर्पमरीचिजागरप्रपञ्चैः तज्ज्ञानैश्च बाध्यन्ते यथा, तथा व्यावहारिकोऽपि संघातस्तदात्मज्ञानं च पारमार्थिकेन ब्रह्मणा तदात्मज्ञानेन च बाध्यते। तस्मात् ‘सत्यं ज्ञान- मनन्तं ब्रह्म’, ‘अजो नित्यः शाश्वतः’ इत्यादि शास्त्रादबाधितं नित्यं सद्रूपं ब्रह्मेति तद्विषयं ज्ञानं चाबाधितं प्रमैव। संघातस्तु ‘नेति नेती’त्यादिश्रुतिभिः, ‘नेह नाने’त्यादिश्रुतिभिश्च बाधित इति तद्विषयं ज्ञानमपि बाधितमेवेति भ्रम एव। न च ‘नेह नाने’त्यादिना संघातस्यैव बाधितत्वात् संघातविषये संघातज्ञानं च भ्रम एवेति विरुद्धमिदमिति वाच्यम् ; इष्टापत्तेः। अत एव हि ‘सर्वं खल्विदं ब्रह्म’, ‘वासुदेवःसर्व’मिति, ‘सर्वं विष्णुमयं जग’दिति च श्रुतिस्मृतिपुराणानि सङ्गच्छन्ते। रज्जौ सर्पवद् ब्रह्मणि सर्वमध्यस्तमिति, सर्पज्ञानवत् सर्वज्ञानं बाधितार्थविषयत्वाद् भ्रम एव, ब्रह्मज्ञानमेकमेव प्रमा, ब्रह्मण एकस्यैवाबाधितार्थत्वात्। अबाधितार्थविषयं हि ब्रह्मज्ञानम्। रज्जुज्ञानादीनां प्रमात्वं तु यावद्व्यवहारमप्यबाधितत्वरूपम्। अत एव संघाते संघातज्ञानस्य यावद्व्यवहारमबाधितत्वाद् रज्जु- ज्ञानवत् प्रमात्वम्। निरपेक्षमबाधितत्वं तु नास्तीति भ्रमत्वं च परमार्थदृष्ट्या। संघाते आत्मज्ञानं तु रज्जौ सर्पज्ञानवद् यावद्व्यवहारमप्य- बाधितं न भवति, आप्तवाक् यज्ञानेन रज्जुसर्पज्ञानवद् महावाक् यज्ञानेन संघातात्मज्ञानस्य व्यवहारकालेऽपि बाधितत्वात्। व्यवहार- दशायामपि संघातादन्यमात्मानं हि मन्यन्ते विद्वांसः। अन्यथा ज्ञानोपदेशतद्ग्रहणाद्यसम्भवात्। तस्मात् संघातात्मज्ञानं बाधितमेवेति भ्रम एव; ब्रह्मात्मज्ञानं त्वबाधितमेवेति प्रमैव। न हि ‘सच्चिदानन्दं ब्रह्मे’ति वेदवाक् यजन्यस्य स्वानुभवारूढस्य ब्रह्मात्मज्ञानस्य केनापि बाधः सम्भवति, सर्वाण्यपि ज्ञानान्तराणि देहात्मेन्द्रियात्मेत्यादीनि बाधित्वा जातत्वात् तस्य। सम्यग्विचारेण जातं हि तत्। एतद्ब्रह्मात्मज्ञानायैव हि ब्रह्मविचारात्मकं ब्रह्ममीमांसाशास्त्रं कृतं व्यासाचार्यैः। संघातात्मज्ञानं तु स्वभावतोऽविचाराज्जातमौत्पत्ति- कमेव, आबाल्यादपि तस्य सत्त्वात्। अत एवाविवेकमूलकं संघातात्मज्ञानं विवेकपूर्वकेण ब्रह्मात्मज्ञानेन बाध्यते। यथा अविवेकपूर्वकं रज्जुसर्पज्ञानं विवेकपूर्वकेण रज्जुज्ञानेन बाध्यते; न तु विवेकपूर्वकस्य रज्जुज्ञानस्याविवेकपूर्वकसर्पज्ञानेन बाधो दृश्यते। येन ब्रह्मज्ञानस्य गुरुशास्त्रोपदेशादिविचारजन्यस्य स्वाभाविकसंघातात्मज्ञानेन बाधः स्यात्। किञ्च प्रकाशतुल्या ब्रह्मविद्या, स्पष्टपदार्थावगतिहेतु- त्वात्। तमस्तुल्या तु स्वाभाविक् यविद्या, यन्मूलं संघातात्मज्ञानमज्ञानां पदार्थस्वरूपतिरोधायकत्वात्। तथा च तेजसा तम इव ब्रह्म- विद्यया अविद्या निवर्त्यते। तस्मात् संघातात्मज्ञानस्यैव बाधकमस्ति, न तु ब्रह्मात्मज्ञानस्येति कृत्वा अविदुषां ज्ञानकाण्डेऽप्रवृत्तिर्ब्रह्म- विद्याया बाधितत्वादिति वक्तुं न शक् यते। अतो द्वितीयः पक्षः परिशिष्टः; अनधिकारादिति। युक्तं चैतत्। न ह्यविद्यारागादिदोष- दूषितहृदयानां संघातात्मनिश्चयानां कर्ता भोक्ताऽहमिति मन्यमानानां धर्माधर्मादिसंस्कारवशाद् विहितेषु प्रतिषिद्धेषु च कर्मसु प्रवर्त- मानानां संसरतामज्ञानां ब्रह्मविद्यायामधिकारोऽस्ति। अत एव हि ‘शान्तो दान्त उपरतस्तितिक्षु’रिति श्रुत्या, ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रेण च शमदमादिसाधनसम्पन्नानां प्राज्ञानामापातज्ञातब्रह्मात्मभावानामेव ब्रह्मविद्यायामधिकारो दर्शितः। इह च ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मिति साङ्ख्यानां ज्ञानिनामेव ब्रह्मविद्यायामधिकारः, न तु कर्मिणामज्ञानामिति दर्शितम्। तथा चानधि- कारिणामज्ञानां ज्ञानकाण्डेऽप्रवृत्त्या न ज्ञानविधिवैयर्थ्यम्। तथा विदुषां कर्मकाण्डेऽप्रवृत्तिः किं कर्मविद्याया बाधितत्वात्? यद्वा तेषां तत्रानधिकारात्? नान्त्यः, ब्रह्मविदां द्विजानां स्त्रीशूद्रादिवत् कर्मण्यनधिकार इति वचनस्यायुक्तत्वात्। ब्रह्मज्ञानात्प्रागेव येषां द्विजानां कर्माधिकारस्तेषां ब्रह्मज्ञाने सति कर्माधिकार- भाष्यार्कप्रकाशः

[[९९५]]

नाशो यदि स्यात् तर्हि ब्रह्मज्ञानं दोष एव स्यात् सुरापानब्रह्महत्यादिवत्। न चेष्टापत्तिः; तथा सति ब्रह्मविद्याप्रतिपादकवेदभागस्या- प्रामाण्यापत्तेः। एवं ब्रह्महत्योपदेष्टुरिव ब्रह्मज्ञानोपदेष्टुरीश्वरस्यानाप्तत्वापत्तेः, ब्रह्महत्यादिकृत इव ब्रह्मज्ञाननिष्ठस्यापि राजादिभि- र्दण्ड्यत्वापत्तेः। तस्मात् कर्मविद्याया ब्रह्मविद्यया बाधितत्वादेव विदुषां कर्मण्यप्रवृत्तिः। ‘नेह नानास्ति किञ्चन’, ‘आत्मैवेदं सर्वं’, ‘निष्कलं निष्क्रियं शान्तं’, ‘तत्सत्यं स आत्मा तत्त्वमसि’, ‘अशब्दमस्पर्शमरूपमव्ययं’, ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्य- द्विजानाति स भूमा, यो वै भूमा तदमृतम् ’, ‘अतोऽन्यदार्त’मित्यादिश्रुतिभिरकर्त्रभोक्तृसच्चिदानन्दलक्षणाद्वितीयब्रह्मात्मज्ञाने सति कर्ताऽहं भोक्ताऽहं मम कर्मेति मिथ्याज्ञानं कथमबाधितं सद् वर्तेत? येन कर्मणि प्रवृत्तिः स्याद् विदुषः। न हि तेजसि जाते तिमिरमव- तिष्ठेत। तस्मान्न ब्रह्मविद्यायाः कयाऽपि बाध इति बाधकप्रत्ययानुपपत्तिः। ननु शास्त्रजन्यम् ‘अहं ब्रह्मे’ति ज्ञानं ‘नाहं ब्रह्मे’त्यनुभवेन बाध्यत इति चेत् , मैवम् ; स किं विद्वदनुभवः? उताविद्वदनुभवः? नाद्यः, ‘अहं ब्रह्मे’ति विदुषां ‘नाहं ब्रह्मे’त्यनुभवायोगात्। न द्वितीयः, अविद्वन्निष्ठेन ‘नाहं ब्रह्मे’त्यनुभवेन विद्वन्निष्ठस्य ‘अहं ब्रह्मे’ति ज्ञानस्य बाधायोगात्। समानाधिकरणसमानविषययोर्हि ज्ञानाज्ञानयोर्बाध्यबाधकभावः। अन्यथा देवदत्तकर्तृकाच्छब्दशास्त्राध्ययनाद् देवदत्तनिष्ठतर्कशास्त्राज्ञानस्य यज्ञदत्तनिष्ठशब्दशास्त्राज्ञानस्य च निवृत्त्यापत्तेः। ‘नाहं ब्रह्मे’त्यनुभवो ह्यज्ञानम्। न चानुभवस्य १ज्ञाना- भावत्वं कथमिति वाच्यम् ; ज्ञानाभावादन्यस्यैव भावरूपाज्ञानस्य सिद्धान्तितत्वात्। अथवा ‘नाहं ब्रह्म’ इत्यनुभवोऽपि ज्ञानमेव भवतु। तथापि ‘अहं ब्रह्मे’ति ज्ञानस्य ‘नाहं ब्रह्मे’ति ज्ञानस्य च विरोधः, ब्रह्मतदभावयोर्विरोधेन तज्ज्ञानयोरपि विरोधात्। ‘नाहं ब्रह्मे’ति हि ब्रह्माभावज्ञानम्। तस्माद् ‘अहं ब्रह्मे’ति ज्ञानस्य न केनापि बाधः। ननु बहुवारं पठितवेदान्तशास्त्राणां वेदान्ताचार्यपदमधिरुह्य ब्रह्मज्ञानोपदेष्टॄणां च बहूनां ‘नाहं ब्रह्मे’त्यनुभवोऽस्ति संसार- दुःखोपलम्भात् तेष्विति चेत् , मैवं वादीः; यथावदनवगतब्रह्मात्मज्ञानानामेव संसार्यहमिति संसारदुःखानुभवः, न तु सम्यग्दर्शिनाम्। दुर्लभो हि ब्रह्मात्मसाक्षात्कारः, पुंसां प्रतिबन्धबाहुल्यसत्त्वात्। न हि बहुवारं श्रुतमपि चूतफलमाधुर्यमचर्वितचूतफलानां बुद्ध्यारूढं भवति। एवं बहुवारं श्रुतब्रह्मणामपि तत्साक्षात्काररहितानां तद् बुद्ध्यारूढं न भवति। तस्माद् ब्रह्मात्मसाक्षात्कारशून्या एव ते; ये त्वयो- पन्यस्ताः। शिष्योपदेशस्तु परोक्षज्ञानमात्रेणापि सम्भवत्येव। अज्ञाननिवृत्तिस्त्वपरोक्षज्ञानादेव। यथा घटाज्ञाननिवृत्तिर्घटाकारपरि- णतबुद्धिवृत्त्यपरोक्षज्ञानाद् भवति, तथा ब्रह्माज्ञाननिवृत्तिरपि ब्रह्माकारपरिणतबुद्धिवृत्त्यपरोक्षज्ञानादेव भवति। एवंविधब्रह्मापरोक्षज्ञान- जनकत्वादेव ब्रह्मविद्यायाः प्रामाण्यम् , यथा घटापरोक्षज्ञानजनकत्वाच्चक्षुषः। ननु अज्ञातार्थज्ञापकत्वाच्छास्त्रं प्रमाणमित्युक्तम् , ब्रह्मविद्यायास्तथात्वाभावादप्रामाण्यमेव। किं वेदान्तशास्त्रमज्ञातं ब्रह्म बोधयत्युत ज्ञातम्? नाद्यः; ‘यत् साक्षादपरोक्षाद् ब्रह्मे’ति श्रुतेर्नित्यापरोक्षस्य ब्रह्मणोऽज्ञातत्वासम्भवात् , येन ब्रह्म ज्ञातुमिष्टं तस्यै- वात्मनो ब्रह्मत्वाच्च। द्वितीये, वेदान्तशास्त्रस्य ब्रह्मविद्यात्मकस्याप्रामाण्यमेवेति चेत् , मैवम् ; यो ब्रह्म जिज्ञासति२ स नाहं ब्रह्मेति वेद, यद्यहं ब्रह्मेति वेद तर्हि तस्य तज्जिज्ञासैव नोदीयात्। न हि घटं विदुषः पुरुषस्य घटजिज्ञासा दृश्यते, तस्मादज्ञातमेव ब्रह्म। न च सुतरामज्ञातत्वे कथं तज्जिज्ञासोदय इति वाच्यम् ; आपाततो ज्ञातत्वाद् ब्रह्मणः। सर्वो ह्यास्तिकः कश्चिदीश्वरो देवोऽस्तीति प्रत्येति, जगत्कार्यलिङ्गकानुमानेन चापाततो वेत्ति; आपाततो ज्ञातमपि तदज्ञातप्रायमेवेति न कश्चिद् दोषः। ‘यत् साक्षा’दिति श्रुतिस्तु विद्वद्विषया, विदुषो हि साक्षादपरोक्षं ब्रह्म, न त्वविदुषः। यो ब्रह्मैव पारोक्ष्येणापि सम्यङ् न वेद, कथं तस्य ब्रह्मसाक्षात्कारप्रसङ्गः? यत्तु येन ब्रह्म ज्ञातुमिष्टं तस्यैवात्मनो ब्रह्मत्वान्नाज्ञातत्वं ब्रह्मणः इति, तदप्ययुक्तम् ; यो ब्रह्म जिज्ञासति स एवात्मा ब्रह्मेति किं जिज्ञासुर्वेद उत तदन्यस्तत्त्ववित्? नाद्यः; विदितत्वे जिज्ञासानुदयप्रसङ्गात्। नान्त्यः; विद्वत्कर्तृकब्रह्मात्मज्ञानेनाविदुषो ब्रह्मज्ञानासम्भवात्। न चात्मनोऽपि कथमज्ञातत्वमिति वाच्यम् ; अविद्यावैभवप्रयुक्तेन संघाते आत्मेति प्रत्ययेन सच्चिदानन्दलक्षणस्यात्मनोऽप्यज्ञातत्वो- पपत्तेः; निद्रायां ह्यात्मनोऽप्यज्ञातत्वं सर्वानुभवसिद्धम्। तस्मान्मामहं न जानामीत्यनुभवान्मनुष्योऽहमित्याद्यनुभवान्नाहं ब्रह्मेत्यनु- भाष्यार्कप्रकाशः अ. १८. श्लो. ६६ ] १. ज्ञानाभावः अज्ञानम् इति शङ्कितुराशयः। २. यो ब्रह्म जिज्ञासते सः अहं ब्रह्मेति न वेदेत्यन्वयः। जिज्ञासते इति युक्तम्।

[[९९६]]

प्रवृत्तिनिरोधेनोत्तरोत्तरापूर्वप्रवृत्तिजननस्य प्रत्यगात्माभिमुख्येन प्रवृत्त्युत्पादनार्थत्वात्। मिथ्यात्वेऽप्युपायस्योपेय- भवात् संसार्यहमित्यनुभवाच्च सिद्धस्यात्मनोऽप्यज्ञातत्वस्य केवलयुक्त्या प्रतिषेद्धुमयुक्तत्वाच्च सच्चिदानन्दलक्षणब्रह्माभिन्न आत्मा सर्वस्याज्ञस्याविदित एवात्मा सन्नपि मायावैभवादिति सिद्धमज्ञातब्रह्मात्मार्थज्ञापनाद् ब्रह्मविद्यायाः प्रामाण्यम्। न च तर्कादिशास्त्रेण ब्रह्म ज्ञातमेवेति वेदान्तशास्त्रं व्यर्थमिति वाच्यम् ; तर्कादिशास्त्रेणात्मभिन्नस्य ब्रह्मणो ज्ञातत्वेऽप्यात्माभिन्नस्य ब्रह्मणोऽज्ञातत्वात्। एतेन भिन्नात्मवादिनां द्वैतिनां विशिष्टाद्वैतिनां च मते वेदान्तशास्त्रस्य प्रामाण्यमेव दुरुपपादमिति सिद्धम्। नन्वनधिगताबाधितब्रह्मात्मविषयज्ञानजनकत्वाद् वेदान्तशास्त्रमेकमेव परं प्रमाणम् ; अनधिगतस्यापि कर्मरूपार्थस्य ब्रह्म- ज्ञानबाधितत्वेन तद्बोधकः कर्मकाण्डात्मको वेदोऽप्रमाणमेव। किम्पुनः तर्कादिशास्त्राणां चक्षुरादिप्रमाणानां चाप्रामाण्यं वक्तव्यम्। तथा च सर्वात्मना वेदोऽप्रमाणमिति वदतो बौद्धान्नास्तिकादर्धांशेन वेदोऽप्रमाणमिति वदन् भवान् मनाग् वरमित्यत आह—न चैवम् इति। अनधिगतयावद्व्यवहाराबाधितकर्मार्थविषयज्ञानजनकत्वेन तादृशघटाद्यर्थविषयज्ञानजनकचक्षुरादिवत् कर्मकाण्डस्यापि प्रामा- ण्यात्। न हि वयं नास्तिका इव यावद्व्यवहारं कर्मार्थस्य बाधितत्वं ब्रूमः, येन वयमर्धबौद्धाः प्रच्छन्नबौद्धा वा भवेम। किञ्च कर्मकाण्डस्य ज्ञानोपकारकत्वेनापि प्रामाण्यमस्ति। उक्तं हि कर्मनिष्ठाया ज्ञाननिष्ठोपकारकत्वमिहैव ‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते’ इत्या- दिना। कर्मनिष्ठापूर्विका हि ज्ञाननिष्ठा। कर्मनिष्ठया चित्ते शुद्धे सत्येव ज्ञाननिष्ठाप्राप्तियोग्यत्वलाभात्। तच्चोक्तमत्रैवाध्याये। इदमेव कर्मणो ज्ञानोपकारकत्वं दर्शयति—पूर्वपूर्वेति। पूर्वपूर्ववैश्वदेवाग्निहोत्राग्निष्टोमादिप्रवृत्तिनिरोधेन उत्तरोत्तरापूर्वचयनपौण्डरीकादिप्रवृत्ति- जननस्य, कर्मविधिकृतस्येति शेषः, प्रत्यगात्माभिमुख्येन, ब्रह्मविद्यायामिति शेषः, प्रवृत्त्युत्पादनार्थत्वात्। अयं भावः—उपनीतस्य विवाहः, विवाहितस्य वैश्वदेवः, कृतवैश्वदेवस्याग्निहोत्राधानं, कृताधानस्याग्निष्टोमः, कृताग्निष्टोमस्य चयनमित्येवं पूर्वपूर्वकर्म कृतवत उत्तरोत्तरं कर्म विदधाति कर्मकाण्डः, न तूपनीतस्य पुनरुपनयनमित्येवं कृतमेव कर्म पुनः कर्तव्य- तयोपदिशति। ततश्च किं ज्ञायते? कर्मकाण्डस्य न स्वार्थे तात्पर्यम् , किन्तु ज्ञानार्थ एवेति। एवं हि पूर्वपूर्वं कर्म विहायोत्तरोत्तरं कर्म कुर्वन् पुरुषः क्रमेण प्रत्यगात्माभिमुखो भूत्वा ब्रह्मविद्यायां प्रवर्तत इति। न चैवं कर्मठस्य ब्रह्मविद्यायां प्रवृत्तिर्न स्यादिति वाच्यम् ; ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने’ति श्रुतेः। ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ इति स्मृतेश्च। ‘यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पण’मित्युक्तन्यायेनेश्वरार्पणबुद्ध्या कर्म कुर्वाणस्य स्त्र्यन्नपानादिबाह्यविषयेषु रागरहितस्य क्रमेण चित्तशुद्धौ सत्यां क ईश्वरः, कश्चात्मेति जिज्ञासा स्यात्। ततश्च ब्रह्मविद्यायां प्रवर्तत एव कर्मठोऽपि। तस्माद् आत्मज्ञानार्थकब्रह्मविचारहेतुभूतशमदमादिसाधनसम्पत्तिसम्पादकत्वात् कर्मणां कर्मकाण्डस्य ज्ञान- काण्डोपकारकत्वमिति युक्तं कर्मकाण्डस्यापि प्रामाण्यम्। ननु कर्मणो बाधितत्वात् तद्विषयज्ञानस्यापि बाधितत्वेन कर्मकाण्डो मिथ्याभूत एवेति कथं तस्य प्रामाण्यम्? अत आह— मिथ्यात्वेऽपीति। उपायस्य कर्मणः तत्प्रतिपादकवेदभागस्य वा मिथ्यात्वेऽपि उपेयस्य चित्तशुद्ध्यादिद्वारा प्राप्यस्य ब्रह्मणः सत्यत्वाद् उपायस्यापि सत्यत्वमेव स्यात्। एतेन कर्मकाण्डवज्ज्ञानकाण्डस्याप्युपायभूतस्य व्यावहारिकत्वेनापारमार्थिकत्वात् कथं ब्रह्मविद्या- विधिश्रुतेः प्रामाण्यं मिथ्याभूताया इति शङ्काऽपि प्रत्युक्ता। ननु ब्रह्मप्राप्तिं प्रति साक्षादुपायस्य ज्ञानकाण्डस्य भवत्वेवमुपेयसत्यतया प्रवृत्तिव्यक्तीर्जनयति कर्मकाण्डश्रुतिः। तज्जननं च चित्तशुद्धिद्वारा प्रत्यगात्माभिमुख्यप्रवृत्तिमुत्पादयति। तथाच कर्मविधिश्रुतीनां पारम्पर्येण प्रत्यगात्मज्ञानार्थत्वात् तात्त्विकप्रामाण्यसिद्धिरित्यर्थः। नन्वेवमपि श्रुतेर्मिथ्यात्वाद् धूमाभासवदप्रामाण्यमिति चेन्नेत्याह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

दप्रामाण्यमित्याशङ्क्याह—मिथ्यात्वेऽपीति। यथा ‘प्रजापतिरात्मनो वपामुदखिदत्’ इत्याद्यर्थवादानां स्वार्थस्य व्याजरूपत्वे ऽपि यत्र शेषिणि विधौ तात्पर्यं तस्य सत्यत्वात् सत्यत्वं प्रामाण्यमित्यर्थः। ‘शिखा ते वर्धते वत्से’त्यादिवचनं

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[९९७]]

सत्यत्वम् ; कथं पुनः कर्मकाण्डस्येत्यत आह—यथेति। अपूर्वयज्ञादिकर्मप्रतिपादकत्वाद् विधिवाक् यानि प्रमाणानि। तत्स्तुत्यर्थत्वादर्थ- वादा विधिशेषा अपि विधिशेषत्वेन प्रमाणानि यथा, तथा अपूर्वब्रह्मात्मप्रतिपादकत्वाद् ब्रह्मविद्याविधिश्रुतिः प्रमाणम् , तदर्थत्वेन तच्छेषत्वात् कर्मविधिरपीत्युपेयसत्यतया ज्ञानकाण्डस्य सत्यत्वे ज्ञानकाण्डोपकारकतया कर्मकाण्डस्य सत्यत्वम्। यथा यज्ञाद्यपूर्व- प्रतिपादकतया विधिवाक् यानां सार्थकत्वे विधिशेषभूततया अर्थवादानां सार्थक् यम् , तद्वदिति भावः। ननूपेयस्य ब्रह्मणः प्राप्त्युपायतया ब्रह्मविद्यैव विधीयताम् , किमिति कर्मविधिः? अत आह—लोकेऽपीति। ‘यवागूं पिब, शिखा ते वर्धिष्यते’ इति प्ररोचनावचनं यथा यवागूपानकृतशिखावृद्ध्यंशेऽप्रमाणमपि तापोपशमार्थे विहितत्वेन सार्थकत्वाद् यवागू- पानस्य तद्वचनं प्रमाणमेव, तथा ‘अक्षय्यँ ह वै चातुर्मास्ययाजिनः सुकृतं भवती’ति कर्मविधिवचनमक्षयसुकृतप्रदश्चातुर्मास्ययाग इत्यंशेऽप्रमाणमपि ब्रह्मज्ञानहेतुभूतचित्तशुद्ध्यर्थं विहितत्वेन चातुर्मास्ययागस्य तत्र तत्प्रमाणमेव। तस्मात् प्ररोचनावाक् यवत् कर्म- विधिवाक् यस्य स्वार्थे तात्पर्याभावात् , कर्मविधानं विना चित्तशुद्ध्यलाभाच्चित्तशुद्धिलाभं विना ब्रह्मविद्यारूपोपायस्वीकारानधिकाराद् ब्रह्मविद्याप्राप्त्यर्थं कर्मविधिरिति। यद्वा कर्मविधिवाक् यानां स्वार्थे तात्पर्यं नास्ति, किन्तु ज्ञान एवेत्यत्र शास्त्राभिमतोऽर्थवाददृष्टान्त उक्तः। अथ लोकन्यायोऽप्यस्तीत्याह—लोकेऽपीति। एवं ज्ञानशेषत्वात् कर्मणः प्रामाण्यमिति मतमुक्त्वा यावद्व्यवहारमबाधितत्वात् कर्मार्थस्य तद्विषयं ज्ञानमपि प्रमैवेति मतमाश्रित्याह—साक्षादेव वेति। वाशब्दः पक्षान्तरद्योतनार्थः। प्रकारान्तरस्थानाम् आत्मज्ञानो- दयात्प्रागवस्थायां स्थितानां कर्मविधिश्रुतीनां साक्षादेव वा प्रामाण्यं सिद्धम्। अज्ञातस्वर्गाग्निहोत्रादिसम्बन्धबोधकत्वादिति भावः। तत्र दृष्टान्तमाह—प्रागिति। आत्मज्ञानात्प्राग् यावद् व्यवहारमित्यर्थः। आत्मज्ञानसूर्योदये सति हि सर्वव्यवहारकारणाज्ञानतमसः क्षय इति भावः। देहाभिमाननिमित्तं प्रत्यक्षादीनां प्रमाणानां प्रामाण्यं यथा यावद्व्यवहारमस्ति, तथेत्यर्थः। देहादिष्वहमभिमानाभावे हि पश्यामि ५मनोम्यहमित्येवं न व्यवहरति। तद् व्यवहाराभावे च कथं चक्षुरादिप्रामाण्यमुपपादयितुं शक् यते? व्यवहारबलकल्प्यं हि चक्षुरादीनां प्रामाण्यम्। तस्माद् यावद्व्यवहारमस्माकं कर्मविधिश्रुतिः प्रमाणमेव व्यावहारिकत्वात् कर्मणस्तद्विधीनां च। परमार्थतस्तु सर्वव्यवहारो ऽप्यप्रमाणमेव। आत्मन एकस्यैव सत्त्वादिति। एवं ब्रह्मविद्यायाः प्रामाण्यादकर्तैवात्मा। न च कर्मविद्याप्रामाण्यात् कर्ताऽपीति वाच्यम् ; कर्मविद्याया ब्रह्मविद्यया बाधितत्वेन तदंशेऽप्रमाणत्वात्। भाष्यार्कप्रकाशः नेत्रविकारादिकरणं च व्याजरूपमपि प्रमाणमित्यर्थः। एकदेशिमतेन कर्मश्रुतेः गतिमुक्त्वा, इदानीं स्वाभिप्रायमाह— साक्षादेवेति। क्रियाकारकादिद्वैतस्य मिथ्यात्वेऽवगतेऽप्यर्थक्रियासामर्थ्यानपहारात् व्यावहारिकप्रामाण्यमिति भावः। सत्यतया सत्यत्वमेव स्याद् , यथा अर्थवादानां विधिशेषाणाम्। लोकेऽपि बालोन्मत्तादीनां पयआदौ पाययितव्ये चूडावर्धनादिवचनम्। प्रकारान्तरस्थानां च साक्षादेव १वा प्रामाण्यसिद्धिः, प्रागात्मज्ञानाद् २देहाभिमाननिमित्त- प्रत्यक्षादिप्रामाण्यवत्। मिथ्यात्वेऽपीति। स्वरूपेणासत्यत्वेऽपि सत्योपेयद्वारा प्रामाण्यमित्यत्र दृष्टान्तमाह—यथेति। मन्त्रार्थवादेतिहासपुराणानां श्रुतेऽर्थे प्रामाण्याभावेऽपि ३शेषिविध्यनुरोधेन प्रामाण्यवत् प्रकृतेऽपि श्रुतेः स्वरूपेणासत्यायाः विषयसत्यतया ४सत्यत्वं प्रामाण्यम् अविरुद्धमित्यर्थः। वाक्यस्य शेषिविध्यनुरोधेन प्रामाण्यं नालौकिकमित्याह—लोकेऽपीति। कर्मकाण्डश्रुतीनामुक्तरीत्या परम्परया प्रामाण्येऽपि साक्षात्प्रामाण्यमुपेक्षितमित्याशङ्क्याह—प्रकारान्तरेति। आत्मज्ञानोदयात्प्रागवस्था प्रकारान्तरम्। तत्र स्थितानां कर्म- श्रुतीनाम् अज्ञातसम्बन्धबोधकत्वेन साक्षादेव प्रामाण्यमिष्टमित्यर्थः। ज्ञानात्पूर्वं कर्मश्रुतीनां व्यावहारिकप्रामाण्ये दृष्टान्तमाह—प्रागिति। आनन्दगिरिकृतव्याख्या

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘वा’ इति क्वचिन्न। २. ‘देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः। लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात्॥’ इति समन्वयाधिकरणान्ते भाष्यकारैरुद्धृतः श्लोकोऽनुसंधेयः। ३. विधिशेषार्थप्रतिपादकत्वेनेत्यर्थः। ४. ‘सत्यत्वं गतायाः’ ‘सत्यत्वे’ इति पा.। ५. आत्मनेपदप्रयोगो युक्तः।

[[अ. १८. श्लो. ६६]] [[९९८]]

ननु कर्मब्रह्मविद्ययोरन्यतराप्रामाण्यस्य वेदवादिनामभ्युपगन्तुमयुक्तत्वाद् विद्याद्वयमपि प्रमाणमेव। न च – कथमात्मनः कर्तृत्वमविक्रियस्य? येन कर्मविद्याऽपि प्रमाणं स्यादिति – वाच्यम् ; कर्तृभूतसंघातस्य सन्निधिमात्रेणात्मनः कर्तृत्वस्य वस्तुतोऽकर्तृ- त्वस्य च सत्त्वादिति पूर्वपक्षिणः शङ्कामुपपादयति— यत्त्वित्यादिना। मन्यत इति। भवानिति शेषः। पूर्ववादीति वा। यत्तु मन्यते, तदसदित्यन्वयः। मननप्रकारमेव दर्शयति— स्वयमित्याद्यारभ्य आत्मन इत्यन्तेन ग्रन्थेन। तदेवेति। सन्निधिमात्रेण कर्मकरण- मेवेत्यर्थः। नन्वव्याप्रियमाणस्याकर्तुरप्यात्मनः सन्निधिमात्रेण यदि कर्तृत्वं स्यात् , तर्हि घटस्यापि तत् स्यादित्यतो दृष्टान्तमाह— यथेति। योधेषु भटेषु युध्यमानेषु सत्सु राजा युध्यत इति यथा प्रसिद्धम् , योधेषु जितेषु पराजितेषु वा सत्सु स्वयमयुध्यमानोऽपि राजा सन्निधिमात्रेण जितः पराजितश्चेति यथा प्रसिद्धम् , एवं राजवत् सेनापतिश्चापि स्वयमयुध्यमानः सन्निधिमात्रेण युद्धं करोति जितः पराजितश्चेति प्रसिद्धम्। न केवलं प्रसिद्धमात्रम् , किन्तु युद्धक्रियाफलभूतराज्यधनादिसम्बन्धोऽपि राज्ञः सेनापतेश्च दृष्टः। दृष्टान्तान्तर- माह—यथा चेति। ऋत्विक्कर्म यजमानस्य यथा दृष्टम् , ऋत्विग्गणे होमादिकर्मसु व्याप्रियमाणे सति यजमानः स्वयमव्याप्रियमाणोऽपि यजमानो यज्ञं करोतीति प्रसिद्धम् , तद्यज्ञकर्मफलसम्बन्धश्च यजमानस्य श्रुतश्च। तथा राजवत् सेनापतिवद् यजमानवच्चेत्यर्थः; देहाद्याश्रयं कर्मात्मकृतं स्यात्। हेतुमाह—फलस्येति। यथा युद्धफलस्य राज्यप्राप्त्यादिलक्षणस्य राजगामित्वाद् भटकृतमपि युद्धं राजकृतं भवति। यथा यज्ञफलस्य स्वर्गस्य यजमानगामित्वादृत्विक्कृतमपि यज्ञकर्म यजमानकृतं भवति, तथा कर्मफलस्यात्मगामित्वाद् देहादिसंघातकृतमपि कर्मात्मकृतं भवतीत्यर्थः। घटकलशादेस्तु सन्निहितस्यापि न कर्तृत्वप्रसङ्गः, कर्मफलस्य घटादिगामित्वाभावा- दिति भावः। ननु राजयजमानयोरपि युद्धयज्ञकर्मणोर्दर्शनप्रेरणादिरूपो यः कश्चिद् व्यापारोऽस्त्येवेति कृत्वा कथं तद्दृष्टान्तेन सुतरां निर्व्यापारस्यात्मनः कर्तृत्वं साधयितुं शक् यत इत्यतो दृष्टान्तान्तरमाह—यथा वेति। भ्रामकस्य अयस्कान्तशिलायाः। अव्यापृतस्यैव भ्रामकस्य लोहभ्रामयितृत्वान्मुख्यमेव कर्तृत्वं यथा, तथा चाव्यापृतस्यैवात्मनो मुख्यमेव कर्तृत्वमित्यर्थः। परिहरति पूर्वपक्षम्—तदसदिति। हेतुमाह—अकुर्वत इति। कृञः कर्तरि ण्वुलि कारकमिति रूपम्; तथा च करोतीति कारक- मिति व्युत्पत्तिः। कर्तृ इत्यर्थः। तस्य भावः कारकत्वम्। तद्धि कर्तर्येवास्ति, न त्वकर्तरि; यथा गव्येव गोत्वं, न तु मनुष्ये; यथा वा घट भाष्यार्कप्रकाशः

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

यत्तु मन्यसे - स्वयमव्याप्रियमाणोऽप्यात्मा सन्निधिमात्रेण करोति, तदेव च मुख्यं कर्तृत्वमात्मनः। यथा राजा युद्ध्यमानेषु योधेषु युध्यत इति प्रसिद्धं स्वयमयुध्यमानोऽपि सन्निधानादेव जितः पराजितश्चेति; तथा सेनापतिः वाचैव करोति; क्रियाफलसम्बन्धश्च राज्ञः सेनापतेश्च दृष्टः। यथा च ऋत्विक्कर्म यजमानस्य, तथा देहादीनां कर्मात्मकृतं स्यात् तत्फलस्यात्मगामित्वात्। १यथा च भ्रामकस्य लोहभ्रामयितृत्वादव्यापृतस्यैव मुख्यमेव कर्तृत्वम् , यत्त्वित्यादिना दृष्टान्तावष्टम्भेन मिथ्याज्ञानं विनाऽप्यात्मनो मुख्यकर्तृत्वमाशङ्क्य परिहृतम्। प्रातीतिककर्तृत्वस्याविद्यकत्वेऽपि श्रुतिप्रामाण्यमप्रत्यूहमित्युक्तम्। संप्रति कर्तृत्वस्य प्रकारान्तरेण पारमार्थिकत्वमुत्थापयति— यत्त्विति। स्वव्यापाराभावे सन्निधिमात्रेण कुतो मुख्यं कर्तृत्वमित्याशङ्क्य दृष्टान्तमाह—यथेति। स्वयमयुध्यमानत्वे कथं तत्फलवत्त्वम् इत्याशङ्क्य प्रसिद्धिवशादित्याह—जित इति। कायिकव्यापाराभावेऽपि कर्तृत्वस्य मुख्यत्वे दृष्टान्तमाह—सेनापतिरिति। तस्यापि फल- वत्त्वं राजवदविशिष्टमित्याह—क्रियेति। अन्यकर्मणाऽन्यस्य सन्निहितस्य मुख्ये कर्तृत्वे वैदिकमुदाहरणमाह—यथा चेति। कथमृत्विजां कर्म यजमानस्येत्याशङ्क्याह—तत्फलस्येति। स्वव्यापारादृते सन्निधेरेवान्यव्यापारहेतोर्मुख्यकर्तृत्वे दृष्टान्तान्तरमाह—यथा चेति। क्रियां आनन्दगिरिकृतव्याख्या १. ‘यथा वा’ इति पा.।

[[९९९]]

एव घटत्वं, न तु पटे। एवं सति कथमकर्तर्यात्मनि कारकत्वप्रसङ्गः? यद्येवमकर्तर्यप्यात्मनि कारकत्वं स्यात् , तर्ह्यकर्तरि घटादावपि तत् स्यात्; अघटादौ घटत्वादिकमपि स्यात् , विरुद्धधर्मसामानाधिकरण्यस्याभ्युपगतत्वात्। तस्माद् अकुर्वतोऽकर्तुरात्मनः कारकत्वं कर्तृत्वमित्यस्य दोषस्य तव मते प्रसक्तत्वादसत् तव मतम्। नन्वकुर्वतोऽपि कारकत्वमस्त्येव, कारकस्यानेकविधत्वात्। यत् स्वयमेव करोति तन्मुख्यं कारकम् , यथा भटऋत्विगादिः; यथा वा भोजनमैथुनादिकर्मणि देवदत्तादिः; यत् स्वयमकुर्वदप्यन्यैः कारयति तद्गौणं कारकम् , यथा राजयजमानादिः। एवं कारक- स्यैकविधत्वाभावादकुर्वतोऽपि गौणकारकत्वप्रसङ्गो न दोषायेति भाव इत्याह पूर्ववादी—कारकमिति। परिहरति—नेति। हेतुमाह — राजेति। राजसेनापतियजमानानां त्वयोदाहृतानां न हि गौणं कारकत्वमस्ति, येनाकुर्वतोऽपि कारकत्वप्रसङ्गो निर्दुष्टः स्यात् ; किन्तु मुख्यमेव कारकत्वमस्ति। ततश्च कुर्वतामेव राजादीनां कारकत्वमिति सिद्धम् ; न त्वकुर्वतामिति कृत्वा अकुर्वतः कारकत्वप्रसङ्गो दुष्ट एव। ननु कथं राजादीनां युद्धादिकमकुर्वतामस्ति मुख्यं कारकत्वम्? अत आह—राजेति। आदौ राज्ञो मुख्यं कारकत्वं दर्शया- मीत्याह— राजा तावदिति। राजशब्दोऽत्र सेनापतेरप्युपलक्षणम्। स्वव्यापारेणापि युध्यत इति। श्रीरामधर्मराजादीनां राज्ञां स्वयमेव युद्धे व्यापृतत्वश्रवणादिति भावः। अधुनातनानामपि राज्ञाम्। योधानामिति कर्मणि षष्ठी शेषे षष्ठी च। योधानां योधयितृत्वे कर्मणि, योधानां धनदाने कर्मणि च मुख्यमेव कर्तृत्वमस्ति। एवं धृष्टद्युम्नादिसेनापतीनां स्वव्यापारेण योद्धृत्वमस्ति। आधुनिकसेनापतीनां च योधयितृत्वमस्तीति बोध्यम्। न केवलं योद्धृत्वयोधयितृत्वयोरेव राज्ञो मुख्यं कर्तृत्वम् , किन्तु तत्फलानुभवेऽपीत्याह—तथेति। जयफलं परराज्यधनादिप्राप्तिसुखम् , पराजयफलं स्वराज्यधनादिनाशदुःखम् , तयोरुपभोगे ऽनुभवकर्मणि मुख्यमेव कर्तृत्वमस्ति राज्ञः। प्रधानत्यागे प्रधानहोमे; प्रधाने त्यागे धनदाने ब्राह्मणानामिति वा। दक्षिणादाने ऋत्विजामिति भावः। एतेन यदन्यैः कारयति तद् गौणं कारकमिति लक्षणमपि दूषितम् , कारयितृत्वांशेऽपि मुख्यकर्तृत्वसत्त्वेन कारयितुरपि मुख्यकारकत्वात्। तस्मादिति। कर्तुरिव कारयितुरपि मुख्यकर्तृत्वादित्यर्थः। कर्तृत्वेन कारयितृत्वेन तत्फलभोक्तृत्वेन च राजप्रभृतीनां व्याप्रियमाणत्वान्मुख्यकर्तृत्वाच्चेत्यर्थ इति वा। य इति। अव्यापृतस्य गौणं कर्तृत्वमुपचारादुच्यत इत्यर्थः। कर्तृत्वरूपं कारयितृत्वरूपं वा कारकत्वमव्यापृतस्य न सम्भवतीति कृत्वा अकुर्वतः कारकत्वप्रसङ्गो दुष्ट एवेति भावः। नन्वकुर्वतोऽकारयतश्चाव्यापृतस्य भ्रामकस्य सन्निधिमात्रेणैव लोहभ्रमणे कर्मणि मुख्यकर्तृत्वदर्शनादव्यापृतस्यापि सन्निधि- भाष्यार्कप्रकाशः तथा चात्मन इति। तदसत् ; अकुर्वतः कारकत्वप्रसङ्गात्। कारकमनेकप्रकारमिति चेत् , न; राजप्रभृतीनां मुख्यस्यापि कर्तृत्वस्य दर्शनात्। राजा तावत् स्वव्यापारेणापि युध्यते, योधानां च १योधयितृत्वे धनदाने च मुख्यमेव कर्तृत्वम्। तथा जयपराजयफलोपभोगे। तथा यजमानस्यापि २प्रधानत्यागे दक्षिणादाने च मुख्यमेव कर्तृत्वम्। तस्मादव्यापृतस्य कर्तृत्व उपचारो यः स गौण इत्यवगम्यते३। कुर्वत् कारणं कारकमित्यङ्गीकारविरोधान्नैतदिति दूषयति—तदसदिति। कारकविशेषविषयत्वेनाङ्गीकारोपपत्तिरिति शङ्कते—कारकमिति। स्वव्यापारमन्तरेण न किञ्चिदपि कारकमिति परिहरति—न, राजेति। दर्शनमेव विशदयति—राजेति। यथा राज्ञो युद्धे योधयितृत्वेन धनदानेन च मुख्यं कर्तृत्वम् , तथा फलभोगेऽपि मुख्यमेव तस्य कर्तृत्वमित्याह— तथेति। यदुक्तमृत्विक्कर्म यजमानस्येति, तत्राह— यजमानस्यापीति। स्वव्यापारादेव मुख्यं कर्तृत्वमिति स्थिते फलितमाह— तस्मादिति। आनन्दगिरिकृतव्याख्या १. ‘योधयितृत्वेन धनदानेन च’ इति पा.। २. प्रधाने त्यागे इति कर्मधारयः। देवतोद्देशेन द्रव्यत्यागो हि प्रधानम् ; तस्मिन् , ऋत्विग्भ्यो दक्षिणादाने च यजमान एव कर्ता। स्वत्वत्यागात्मकं हि दानम्। यजमानस्यैव द्रव्यादौ स्वत्वसत्त्वेन ऋत्विग्भिः तत्त्यागासंभवात् तत्र यजमानस्यैव कर्तृत्वम्। अथ च यजमानस्य प्रयोजककर्तृत्वम् आर्त्विज्येऽपि कर्मणि अस्तीत्यपि बोध्यम्। ‘प्रधानत्यागेन दक्षिणादानेन च’ इति पा.। ३. सिद्धान्ते तु आरोपितं कर्तृत्वमात्मनो मुख्यमेवेति वक्ष्यते। तथा च तत्संभवे न गौणस्य स्वीकार्यतेति भावः।

[[अ. १८. श्लो. ६६]] [[१०००]]

मात्रेण मुख्यमेव कर्तृत्वं सम्भवतीति कृत्वा राजादीनामपि तथा सन्निधिमात्रेणैव मुख्यकर्तृत्वसम्भवे योधयितृत्वादिप्रयुक्तमुख्यकर्तृत्व- वर्णनं क्लिष्टमित्यत आह—यदीति। राजयजमानप्रभृतीनां यदि २स्वव्यापारलक्षणमयद्योधयितृत्वधनदातृत्वादिलक्षणं वा मुख्यं कर्तृत्वं नोपलभ्येत, तदा सन्निधिमात्रेणापि मुख्यं कर्तृत्वं परिकल्प्येत। प्रसिद्धे सत्यप्रसिद्धकल्पनस्यान्यायत्वादिति भावः। यथा भ्रामकस्य लोहभ्रमणे सन्निधिमात्रेणैव मुख्यं कर्तृत्वम् , तद्वत् ; तथा राजयजमानादीनां स्वव्यापारो नोपलभ्यत इति न, किन्तूपलभ्यत एव। स्व- व्यापारानुपलम्भाद् भ्रामकस्य सन्निधिमात्रेण मुख्यकर्तृत्वकल्पनमुचितम्। स्वव्यापारोलम्भात्तु न राजादीनां तत्कल्पनमुचितमिति भावः। तस्मादिति। स्वव्यापारलक्षणमुख्यकर्तृत्वसत्त्वादित्यर्थः। सन्निधिमात्रप्रयुक्तं कर्तृत्वं राजादीनां गौणमेव। नन्वेवमस्तु राजादीनां सन्निधिमात्रेण कर्तृत्वं गौणं, स्वव्यापारलक्षणमुख्यकर्तृत्वसम्भवात्३। आत्मनस्तु भ्रामकस्येव स्व- व्यापाराभावादव्यापृतस्यैव तस्य सन्निधिमात्रेण मुख्यं कर्तृत्वं स्यादित्यकुर्वतः कारकत्वप्रसङ्गो न दुष्ट इति चेत् , उच्यते—अव्यापृ- तस्यापि स्वाध्यस्तदेहादिव्यापारैर्व्यापृतवदवभासमानस्यात्मनः सन्निधिमात्रेण मुख्यं कर्तृत्वं न सम्भवति; किन्तु गौणमेव। भ्रामकं तु स्वयमव्यापृतं सद् व्यापृतमिव नावभासत इति युक्तं तस्य सन्निधिमात्रेण मुख्यं कर्तृत्वम्। तस्मादकुर्वत आत्मनो मुख्यं कारकत्वम् अयुक्तमेव। ननु तर्हि अकुर्वत्यप्यात्मनि सन्निधिमात्रेण कर्तृत्वारोप इति भवतु गौणं कारकत्वमात्मन इत्यत आह—तथा च सतीति। तत्फलेति। कर्मफलेत्यर्थः। कर्मफलसम्बन्धोऽप्यात्मनि कल्पित एव स्यात् ,न तु मुख्य इत्यर्थः। भवतु फलसम्बन्धोऽपि गौणः, किं ततः? अत आह—नेति। गौणेन कर्त्रा मुख्यं कार्यं न निर्वर्त्यते, मुख्येन कर्त्रैव तस्य निर्वर्त्यत्वात्। ततश्च मुख्यकर्तरि कर्मनिर्वर्तके देहेन्द्रियादिसंघाते सति कर्मानिर्वर्तक आत्मनि किमिति कर्तृत्वारोपः? यदि कर्मतत्फलसम्बन्धशून्येऽप्यात्मनि कर्तृत्वमारोप्येत सन्निधिमात्रेण, तर्हि घटादावप्यारोप्येतेति भावः। तस्मात् कार्यानिर्वर्तत्वात् कर्मफलाभोक्तृत्वाच्चात्मन इत्यर्थः। देहादीनां व्यापारेणा- व्यापार एवात्मा कर्ता भोक्ता च स्यादित्येतदसदेवेति निश्चीयते। ननु तर्हि कथं कर्ताऽहं भोक्ताऽहं संसार्यहं सुख्यहं दुःख्यहमित्यादि- भाष्यार्कप्रकाशः

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

यदि मुख्यं कर्तृत्वं स्वव्यापारलक्षणं नोपलभ्यते राजयजमानप्रभृतीनाम् , तदा सन्निधिमात्रेणापि कर्तृत्वं मुख्यं परिकल्प्येत, यथा भ्रामकस्य लोहभ्रमणेन। न तथा राजयजमानादीनां स्वव्यापारो नोपलभ्यते। तस्मात् संनिधि- मात्रेण कर्तृत्वं गौणमेव। तथा च सति तत्फलसम्बन्धोऽपि गौण एव स्यात्। न गौणेन मुख्यं कार्यं निर्वर्त्यते। उक्तं प्रमेयजातं सङ्क्षेपतो निगमयति सुखप्रतिपत्तये — तस्मात् सन्निधिमात्रेणेत्यादिना। अनुभूतिस्वरूपाख्यो यतिश्चकार टिप्पणम्। व्याख्याऽसामर्थ्यसन्तापिपुंसां चित्तानुरञ्जनम्॥

॥ इति श्रीगीताभाष्यटिप्पणे अष्टादशोऽध्यायः॥

तदेव प्रपञ्चयति—यदीति। तर्हि सन्निधानादेव मुख्यं कर्तृत्वं राजादीनामुपगतमिति, नेत्याह— न तथेति। राजादीनां स्व- व्यापारवत्त्वे पूर्वोक्तं सिद्धमित्याह—तस्मादिति। राजप्रभृतीनां सन्निधेरेव१ कर्तृत्वस्य गौणत्वे जयादिफलवत्त्वस्यापि सिद्धं गौणत्वम् इत्याह—तथा चेति। तत्र पूर्वोक्तं हेतुत्वेन स्मारयति—नेति। अन्यव्यापारेणान्यस्य मुख्यकर्तृत्वाभावे फलितमुपसंहरति—तस्मादिति। आनन्दगिरिकृतव्याख्या १. सन्निधिमात्रादेवेत्यर्थः। २. ‘स्वव्यापारलक्षणं योधयितृत्वधनदातृत्वादिलक्षणं वा’ इति पाठः स्यात्। ३. अन्यत्र स्वव्यापारेण मुख्यकर्तृत्वं राजादेः प्रसिद्धमिति सन्निधिमात्रेण कर्तृत्वं गौणं स्यात्। आत्मनस्तु स्वव्यापारेण कर्तृत्वं न क्वापि प्रसिद्धमिति सन्निधिमात्रेण कर्तृत्वं कथं गौणं स्यात् , किन्तु मुख्यमेव स्यादिति शङ्का। व्यापारारोपेण मुख्यकर्तृत्वसंभवात् न सन्निधिमात्रेण कर्तृत्वं मुख्यमिति समाधानभावः।

[[१००१]]

व्यवहारस्योपपत्तिः? अत आह—भ्रान्तीति। भ्रान्त्या हेतुना सर्वमुपपद्यते, मायायां सर्वसम्भवादिति न्यायादिति भावः। रज्जौ सर्प इव, मरुमरीचिकासूदकमिव, गगने नैल्यमिव भ्रान्त्या संसारः प्रतीयत आत्मनीति सर्वस्याप्यसम्भावितार्थस्य भ्रान्तिरेव शरणम् ; सा च भ्रान्तिरज्ञानमूला। ननु भ्रान्त्याऽपि कथमकर्तुरभोक्तुः कर्तृत्वभोक्तृत्वोपपत्तिः? अत आह—यथेति। स्वप्ने देहे पर्यङ्के शयानेऽपि स्वयं यथा रथ्यायां सञ्चरन्निव दृश्यते, हृत्पुण्डरीकान्तर्गते केवलेऽप्यात्मनि यथा रथगजपत्तनादय अलभ्यन्ते निद्रादोषात् , तद्वदात्मन्यपि संसारः। दृष्टान्तान्तरमाह—मायायामिति। इन्द्रजालादिलक्षणायामित्यर्थः। इन्द्रजालादौ हि गगनेऽपि गन्धर्वनगरादयो दृश्यन्ते, गोगर्भं प्रविश्य निर्गच्छन्निव पुरुषो दृश्यते, छिन्नेन शिरसा पुनः कृतसन्धान इव जीवन् पुरुषो दृश्यते, तद्वदात्मन्यपि संसार इति भावः। एवं भ्रान्तिसत्त्वे संसारसत्त्वमित्यन्वयं, भ्रान्त्यभावे संसाराभाव इति व्यतिरेकेण द्रढयति—न चेति। देहादावनात्मन्यात्मेति प्रत्ययो भ्रान्तिः भ्रमज्ञानं, तस्य सन्तानोऽविच्छेदेन धारारूपतया पूर्वपूर्वज्ञाननाशे उत्तरोत्तरज्ञानोदय इत्येवंरूपेण वर्तनं, भ्रान्तीनां सन्तानः समूह इति वा। तस्य विच्छेदो नाशो येषु तेषु सुषुप्तसमाधानादिषु सुषुप्तः सुषुप्तिः, समाधानं समाधिः। आदिपदान्मृति- मूर्छादिग्रहणम्। तेषु कर्तृत्वभोक्तृत्वाद्यनर्थो न चोपलभ्यते, नैवानुभूयते। आत्मनेति शेषः। तस्मादिति। भ्रान्तिसत्त्वे संसारसत्त्वात् , तदभावे संसाराभावाच्चेत्यर्थः। अयं संसारभ्रमो भ्रान्तिप्रत्ययः, देहादावात्मेति मिथ्याप्रत्ययस्तन्निमित्त एव। देहादावात्मप्रत्यये सत्येव तद्धर्माणां कर्तृत्वभोक्तृत्वसुखदुःखादीनामात्मधर्मत्वभ्रम इति भावः। एवकारार्थमाह—न त्विति। परमार्थतो वस्तुत आत्मनि न कोऽपि संसार इत्यर्थ इति। अत एव सम्यग्दर्शनात् ‘नाहं देहो नेन्द्रियाण्यन्तरङ्गो नाहङ्कारः प्राणवर्गो न बुद्धिः। दारापत्यक्षेत्रवित्तादिदूरः साक्षी नित्यः प्रत्यगात्मा शिवोऽह’मिति यथार्थज्ञानात् संसारस्यात्यन्तोपरमः समूलोच्छेदः; भ्रान्तिज्ञानसम्यग्ज्ञानयोः सर्पज्ञानरज्जुज्ञान- योरिव विरोधात् सम्यग्ज्ञानेन भ्रान्तिज्ञानं निवर्त्यते। ज्ञानाज्ञानयोर्विरोधाद् भ्रान्तिहेत्वज्ञानमपि ज्ञानेन निवर्त्यत इति ज्ञानादेव मोक्षः। कर्म तु ‘कर्ता भोक्ताऽह’मिति भ्रान्तिज्ञानपूर्वकमेवेति न कर्मणा भ्रान्तिज्ञानस्य निवृत्तिः। अत एव नाज्ञानस्यापि निवृत्तिरिति न कर्मणा मोक्षः। अत एव ‘नास्त्यकृतः कृतेने’ति श्रुतिरुपपद्यते। कृतेन कर्मणा अकृतो मोक्षो नास्तीति तदर्थः। समुच्चयस्त्वसिद्ध एव, कर्म- ज्ञानयोर्विरोधात्। तस्मान्न समुच्चयान्मोक्षः। अत एवोक्तं भगवता ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजे’ति सर्वकर्म- संन्यासपूर्विका ज्ञाननिष्ठा त्वया कार्येत्यभिप्रेत्य ज्ञाननिष्ठायाः फलं च स्वयमेवाह भगवान् ‘अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामी’ति। पुण्यपापात्मकसर्वबन्धविनिर्मोक्षो हि मोक्षः। श्रुतिरप्यमुमेवार्थमाह ‘तरति शोकमात्मवि’दिति, ‘ब्रह्मविद् ब्रह्मैव भवती’ति च। संसारे तीर्णे सति हि आत्मा सच्चिदानन्दब्रह्मस्वरूपेणावतिष्ठते। अत एव ब्रह्मस्वरूपावस्थानाय यत्नो न कर्तव्यः, किन्तु संसारोप- रमायैव यत्नः कार्य इत्युक्तम्। स च ज्ञानसाध्यः, अज्ञानमूलत्वात् संसारस्य। तस्माज्ज्ञानमेव मोक्षसाधनमिति गीताशास्त्रस्य निश्चितो ऽर्थः। अयमेव सर्वोपनिषदर्थश्च उपनिषत्सारत्वाद् गीताशास्त्रस्येति। ननु ज्ञानान्मोक्ष इति यदुक्तं तद् युक्तमेव, परन्तु नाद्वैतज्ञानान्मोक्ष इति गीताशास्त्रकर्तुराशयः। किं तर्हि? द्वैतज्ञानादेव। भाष्यार्कप्रकाशः तस्मादसदैवैतद् गीयते— देहादीनां व्यापारेणाव्यापृतः आत्मा कर्ता भोक्ता च स्यादिति। भ्रान्तिनिमित्तं तु सर्वमुप- पद्यते। यथा स्वप्ने मायायां च, एवम्। न च देहाद्यात्मप्रत्ययभ्रान्तिसन्तानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्वभोक्तृ- त्वाद्यनर्थः उपलभ्यते। तस्माद् भ्रान्तिप्रत्ययनिमित्त एवायं संसारभ्रमः, न तु परमार्थः इति सम्यग्दर्शनादत्यन्तमेवो- परम इति सिद्धम्॥६६॥

कथं तर्हि त्वयाऽऽत्मनि कर्तृत्वादि स्वीकृतम्? न हि बुद्धेस्तदिष्टम् , ‘कर्ता शास्त्रार्थवत्त्वा’दिति न्यायात् , तत्राह— भ्रान्तीति। कर्तृत्वाद्यात्मनि भ्रान्तमित्येतदुदाहरणेन स्फोरयति—यथेति। मिथ्याज्ञानकृतमात्मनि कर्तृत्वादीत्यत्र व्यतिरेकं दर्शयति—न चेति। उक्तव्यतिरेकफलं कथयति—तस्मादिति। संसारभ्रमस्याविद्याकृतत्वे सिद्धे परमप्रकृतमुपसंहरति—इति सम्यगिति॥६६॥

[आनन्दगिरिकृतव्याख्या]

[[अ. १८. श्लो. ६६]] [[१००२]]

तथाहि उपक्रमे तावत् ‘न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः’ इति जीवेश्वरद्वैतमेवोक्तम्। उपसंहारे ‘मां त्वं शरणं व्रज, अहं त्वां मोक्षयिष्यामी’ति कृष्णार्जुनयोर्जीवेश्वरयोर्द्वैतमेवोक्तम्। मध्ये च तत्र तत्र ‘ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम्’, ‘मामेति सोऽर्जुन’, ‘तस्याहं न प्रणश्यामि स च मे न प्रणश्यति’, ‘श्रद्धावान् भजते यो मां स मे युक्ततमो मतः’, ‘कश्चिन्मां वेत्ति तत्त्वतः’, ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’, ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’, ‘मां नित्ययुक्ता उपासते’, ‘भजन्ते मां बुधा भावसमन्विताः’, ‘तेषामहं समुद्धर्ता’, ‘यो मामेवमसम्मूढो जानाति पुरुषोत्तम’मित्यादिवाक् येषु जीवेश्वरभेद एवासकृत् प्रपञ्चितः। एवं जीवेश्वरद्वैते यथार्थे सति ‘अहं ब्रह्मे’त्यद्वैतज्ञानमयथार्थमेव, भटस्य ‘राजाऽह’मिति वचनवत्। अत एव ‘राजाऽह’मिति वदन् दुरहङ्कारो भटो राज्ञेव, ‘ब्रह्माह’मिति वदन् अद्वैत्यपीश्वरेण दण्ड्य एवेत्यद्वैतज्ञानान्नरकपात एवेति चेत् , मैवं वादीः; जीवेश्वरभेदज्ञानस्य लोकतस्तर्कादिशास्त्रतोऽनुमानाच्च सिद्धस्य महता गीताशास्त्रेण प्रतिपादनस्य व्यर्थत्वात् , तादृशज्ञानान्मोक्षासिद्धेश्च। यदि मोक्षसिद्धिः, तस्माद् द्वैतज्ञानात् , तर्ह्यास्तिकः सर्वोऽपि लोको विनैव गीताशास्त्राध्ययनं कृतार्थ एव स्याद् , द्वैतज्ञानस्य प्रागेव सिद्धत्वात्। न च – जीवेश्वरभेदज्ञानस्य लोकादिना सिद्धत्वेऽपीश्वराद्भिन्नस्य जीवस्य देहेन्द्रियादिविलक्षणशुद्धचिन्मात्रत्वज्ञानस्यासिद्धत्वात् तदर्थं शास्त्रा- ध्ययनमावश्यकम् , तादृशज्ञानादेव मोक्षश्चेति – वाच्यम् ; जीवस्य शुद्धचिन्मात्रत्वाभ्युपगम ईश्वरभिन्नत्वस्य दुर्निरूपत्वात्। शुद्ध- चिन्मात्रत्वं हीश्वरस्यापि। न च चिन्मात्रोऽपि विभुरीश्वरः, अणुर्जीव इति वाच्यम् ; निरवयवचैतन्यरूपजीवस्याणुत्वासम्भवात्। सावयवं हि वस्तु सपरिमाणं भवति। न च – सर्वज्ञ ईश्वरः, किञ्चिज्ज्ञो जीव इति – वाच्यम् ; मुक्तौ जीवचैतन्यस्य सर्वज्ञत्वस्य त्वयाऽप्यभ्युपगतत्वात्। यन्मुक्तिदशावस्थितमात्मस्वरूपं तदेव बद्धदशायामपि, अन्यथा सविकारत्वापत्त्या ‘अविकार्योऽय’मित्यादि- शास्त्रविरोधाद् अनित्यत्वप्रसङ्गाच्च। न च सकलकल्याणगुणपरिपूर्णमीश्वरचैतन्यमिति वाच्यम् ; ‘केवलो निर्गुणश्चे’ति श्रुतिविरोधात्। न च नियामकेश्वरस्य नियाम्यजीवाभेदोऽयुक्त इति वाच्यम् , नियाम्यनियामकभावस्य भूतेश्वरनिष्ठत्वेनात्मेश्वरनिष्ठत्वाभावात्। न च भूतान्येवात्मान इति वाच्यम् ; ‘यतो वे’त्यादिश्रुत्या सादीनां सान्तानां च भूतानामात्मत्वायोगात्। आत्मा हि जन्मादिविकारशून्यत्वा- न्नित्यः ‘अजो नित्यः शाश्वतः’ इति शास्त्रात्। न च चराचरात्मकभूतसंसृष्टतया जन्मादिसिद्धिरात्मन इति वाच्यम् ; तथात्व ईश्वर- स्यापि तत्प्रसङ्गात्। भूतोपाधिकजन्मादिविकारस्य भूतनिष्ठत्वेन वस्तुत आत्मनिष्ठत्वासम्भवाच्च। न च संसारिजीवस्यासंसारीश्वराभेदोऽयुक्त इति वाच्यम् ; जीवस्य संसारित्वाभावात्। न च ‘संसार्यह’मित्यनुभवसिद्ध- जीवसंसारस्य कथमपलाप इति वाच्यम् ; जीवेनानुभूयमानस्य सुखदुःखजन्ममरणादिलक्षणसंसारस्यानात्मधर्मत्वात्। देहस्य जन्म- मरणवृद्धिक्षयादिमत्त्वं प्रत्यक्षमेव; मनसः सुखदुःखवत्त्वं च ‘कामः सङ्कल्पः’ इत्यादिश्रुतिसिद्धमनुभवसिद्धं च, सुषुप्तौ मनसोऽभावे सुखदुःखानुभवाभावात्। न च देहादिगतोऽपि संसारो जीवेनानुभूयमानत्वाज्जीवधर्म एवेति वाच्यम् ; तथा सति सर्वस्यापि जगतो यः संसारः स सर्वज्ञेनेश्वरेणानुभूयत इतीश्वरस्यापि संसारित्वप्रसङ्गात्। न चानुभवो न ज्ञानमात्रम् , किन्तूपभोग इति वाच्यम् ; जीवेनापि संसारस्यानुपभुज्यमानत्वात्। न च ममायं संसारः इत्यस्त्येवोपभोगो जीवस्येति वाच्यम् ; तस्यानात्मतादात्म्याध्यासप्रयुक्तत्वेन तस्य चाध्यासस्याज्ञानमूलकत्वेन ममायं संसारः इत्यस्य भ्रान्तिज्ञानत्वाद् वस्तुतो जीवस्यासंसारित्वमेवेति। न हि भ्रान्तिसिद्धो धर्मो वस्तुतस्तद्धर्मो भवति। यथा गगने बालानां भ्रान्तिसिद्धं नैल्यं वस्तुतो न गगनधर्मः; यथा वा मरुमरीचिकासु भ्रान्तिसिद्धमुदकं वस्तुतो न मरुमरीचिकाधर्मः; यथा वा शयानस्य भ्रान्तिसिद्धः शिरश्छेदादिधर्मो वस्तुतो न पुरुषधर्मः, तद्वत्। न च – संसारो न भ्रान्तिसिद्धः, किन्तु सत्य एवेति – वाच्यम् ; सत्यत्वे तस्य निवृत्त्ययोगेन मोक्षशास्त्रवैयर्थ्यप्रसङ्गात्। न च – सत्यमपि पापं प्रायश्चित्तेन निवर्तत इति वाच्यम् ; ब्रह्मातिरिक्तस्य सर्वस्याप्यसत्यत्वात्। ‘तत्सत्यमतोऽन्यदार्त’मिति श्रुतेः सत्यत्वनित्यत्वयोर्वैयधिकरण्यायोगेन सत्यस्य नित्यत्वान्नित्यस्य निवृत्तिमत्त्वे नित्यत्वस्यैवासिद्धिप्रसङ्गाच्च। न च – असत्यत्वे संसारस्य कथमुपलम्भः? न ह्यसत्यं शशशृङ्गादिकं केनाप्युपलभ्यत इति – वाच्यम् ; असत्यस्यापि स्वप्नरथगजादेरैन्द्रजालिकगन्धर्वनगरादेश्चोपलम्भसत्त्वात्। एवमसत्यत्वे सत्युप- लभ्यमानत्वादेव संसारस्य मिथ्यात्वमवोचाम। न च ईश्वरसृष्टत्वादिन्द्रजालसृष्टत्वाच्च स्वप्नरथगन्धर्वनगरादिकं सत्यमेवेति भाष्यार्कप्रकाशः

[[१००३]]

वाच्यम् ; त्वदभ्युपगतानित्यत्वेनैव सत्यत्वस्य निराकृतत्वात्। न हि सत्यं वस्त्वनित्यं भवति। उक्तं हि पराशरेणापि ‘ज्ञानं यथा सत्यमसत्यमन्य’दिति। न चैवं ज्ञानमीश्वर एव, ‘सत्यं ज्ञानमनन्तं ब्रह्मे’ति श्रुतेः। तस्मादीश्वर एव सत्य इति वाच्यम् ; जीवस्यापि ज्ञानैकाकारत्वस्य त्वयाऽप्यभ्युपगतत्वात्। तस्माद् भ्रान्तिसिद्ध एव जीवस्य संसारोपभोग इति सिद्धमसंसारीश्वराद्वैतम्। न चैकस्येश्वरस्यानेकजीवाभेदोऽयुक्त इति वाच्यम् ; जीवानेकत्वे मानाभावात्। न च ‘न त्वेवाहं जातु नास’मित्यादीनि मदुदाहृतानि वाक् यानि मानमिति वाच्यम् ; प्रमातृभेदपरत्वात् तद्वाक् यानामात्मभेदकल्पनस्यायुक्तत्वात्। न चात्मैकत्वे मानाभाव इति वाच्यम् ; प्रकृतगीताशास्त्रस्यैव मानत्वात्। तथाहि ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्। विनाशमव्ययस्यास्य न कश्चित् कर्तु- मर्हति॥ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः। अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥ य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥ वेदाविनाशिनं नित्यं य एनमजमव्ययम्’ , ‘नैनं छिन्दन्ति शस्त्राणि’, ‘अच्छेद्यो ऽयमदाह्योऽयम- क्लेद्योऽशोष्य एव च। नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते’, ‘आश्चर्यवत्पश्यति कश्चिदेनम्’, ‘देही नित्यमवध्योऽयं देहे सर्वस्य भारत’, ‘परस्तस्मात्तु भावोऽन्यो व्यक्तोऽव्यक्तात्सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥ अव्यक्तोऽक्षर इत्युक्तः’, ‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’, ‘ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते। सर्वत्रगम- चिन्त्यं च कूटस्थमचलं ध्रुवम्’, ‘एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’, ‘अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते। सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रिय- विवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च॥ बहिरन्तश्च भूतानां चरं चाचरमेव च। सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्॥ अविभक्तं च भूतेषु विभक्तमिव च स्थितम्। भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च। ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते। ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥’ ‘प्रकृतिं पुरुषं चैव’, ‘पुरुषः प्रकृतिस्थो हि’, ‘पुरुषः सुखदुःखानाम्’ , ‘उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः। परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः॥’ ‘य एवं वेत्ति पुरुषम्’, ‘समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥ समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्। न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्॥’, ‘यः पश्यति तदात्मानमकर्तारं स पश्यति। अनादित्वान्निर्गुणत्वात्परमात्माऽयमव्ययः॥ शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥ यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते॥ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥’, ‘ममैवांशो जीवलोके जीवभूतः सनातनः’, ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ इत्यादीनि। न च जात्येकवचननिर्देश इति वाच्यम् ; शुद्धचिन्मात्रे आत्मनि जातिव्यक्त्योरभावात्। यद्यात्मनो व्यक्तिभेदः स्यात् , तर्हि व्यक्त एव स्यात् , न त्वव्यक्तः। उक्तं हि ‘अव्यक्तोऽयमचिन्त्योऽय’मिति१। न चोपाधिकृतो व्यक्तिभेद इति वाच्यम् ; औपाधिकस्य तस्य वास्तवात्मभेदव्यवस्थापनाशक्तत्वात्। न ह्यौपाधिकघटाकाशादिभेदो महाकाशस्य भेदं जनयितुमीष्टे। न चात्मैकत्वे सुख- दुःखाद्यनुभवसाङ्कर्यप्रसङ्ग इति वाच्यम् ; मनआद्युपाधिभेदेन तदसाङ्कर्यात्। न चैकोऽप्यात्मा परमात्मनः ईश्वराद् भिन्न एवेति वाच्यम् ; ‘परमात्मेति चाप्युक्तः’ इति जीवस्यापि परमात्मत्वात् । न च श्रीकृष्णेन जीवेश्वराभेदः कण्ठतो नोक्त इति वाच्यम्। ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्युक्तत्वात्। न च मां मदात्मकमित्यर्थान्तरपरं तद्वाक् यमिति वाच्यम् ; तस्य प्रागेव दूषितत्वात्। विमृष्टे सति मदात्मकमित्यस्यापीश्वराभिन्नमित्येवार्थलाभात्। तस्मान्निर्विशेषशुद्धचिन्मात्रे ब्रह्मणि प्रत्यगभिन्ने जीवेश्वरभेदव्यवहारादयोऽज्ञानमूला एव। न च परिपूर्णचैतन्यस्येश्वरस्य प्रत्यग्रूपत्वमयुक्तमिति वाच्यम् ; ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’, ‘सर्वस्य चाहं हृदि सन्निविष्टः’ इति, ‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’ इति च प्रत्यग्रूपेणेश्वरस्थितेरुक्तत्वात्। अन्तर्बहिः सर्वत्र परिपूर्ण- भाष्यार्कप्रकाशः अ. १८. श्लो. ६६ ] १. तस्मान्न व्यक्तिभेद आत्मन इति शेषः।

[[१००४]]

चैतन्यस्येश्वरात्मकस्य, अन्तःस्थचैतन्यरूपप्रत्यगात्मभावस्य युक्तत्वाच्च। अन्यथा ईश्वरस्यान्तर्व्याप्त्यभावेऽपरिपूर्णत्वप्रसङ्गाच्च। तस्मात् सिद्धं जीवेश्वराद्वैतम् , चैतन्यैकस्वरूपत्वाज्जीवेश्वरयोः; चैतन्यस्य च निर्विशेषत्वात्। एतस्मादेवाद्वैतज्ञानान्मोक्षमाह गीताशास्त्रं ‘सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः। सर्वथा वर्तमानोऽपि स योगी मयि वर्तते॥’ ‘ज्ञात्वा मां शान्तिमृच्छति’ ‘यो मामेवम- सम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद्भजति मां सर्वभावेन भारत॥’ ‘एवं मां तत्त्वतो ज्ञात्वा विशते तदनन्तर’मित्यादिवाक् यैः। द्वैतज्ञानात् संसारभयं श्रुतिरेवाह ’य उदरमन्तरं कुरुते अथ तस्य भयं भवती’ति। यदप्युक्तं राजाऽहमिति ज्ञानवान् भट इव, ब्रह्माहमिति ज्ञानवान् दण्ड्यः इति, तदयुक्तम् ; ज्ञानिन ईश्वरात्मत्वेनेश्वरस्य परं प्रियत्वात्। आत्मा हि प्रियः। उक्तं हि कृष्णेनैव ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ इति, ‘ज्ञानी त्वात्मैव मे मत’मिति च। भटस्तु न राज्ञः संघाताभिमानिन आत्मेति दण्ड्य एव तादृशो राज्ञा। ननु ज्ञानिन एवेश्वरत्वे कथं ज्ञानिनोऽहं प्रियः इत्युक्तमिति चेत् , नैष दोषः; ममात्मा प्रिय इतिवददोषात्। न च त्वं मां शरणं व्रजेति भेदेन कथमुक्तमिति वाच्यम् ; प्रमाता स्वात्मभूतं ब्रह्म शरणं व्रजेदिति तदर्थात्। न च - प्रमातैव जीवो न त्वात्मा, आत्मा त्वीश्वर एवेति - वाच्यम् ; प्रमातुरेव स्वरूपत्वादात्मनः। आत्मनि हि प्रमाता कल्पितः, रज्जौ सर्पवत्। सर्पस्य कल्पितस्य यथा रज्जुरेव स्वरूपम् , तथा प्रमातुरात्मैव स्वरूपम्। न चैवं प्रमातुर्मिथ्यात्वे शास्त्राधिकारिण एवाभावान्मोक्षफलभोक्तुरप्यभावाच्च व्यर्थं गीता- शास्त्रमिति वाच्यम् ; अन्तःकरणावच्छिन्नचैतन्यस्य प्रमातृत्वेन प्रमातृगतप्रमातृत्वप्रयोजकविशेषणीभूतान्तःकरणावच्छिन्नत्वांशस्य मिथ्यात्वेऽपि विशेष्यचैतन्यांशस्य सत्यत्वात्। न च सिद्धोऽपि मोक्षो व्यर्थ एव, अनुभवसाधनाभावादिति वाच्यम् ; करणानधीन- ज्ञानत्वादात्मनः। ‘अपाणिपादो जवनो ग्रहीता’ इति श्रूयते। तस्मात् स्वरूपचैतन्येनैव मोक्षानन्दानुभव इति। तस्मात् सिद्धमद्वितीय- ब्रह्मात्मज्ञानान्मोक्ष इति। यत्तु रामानुजः—कर्मयोगज्ञानयोगभक्तियोगरूपान् सर्वान् धर्मान् कुर्वाण एव फलकर्मकर्तृत्वादित्यागेन परित्यज्य मामेकमेव कर्तारमाराध्यं प्राप्यमुपायं चानुसन्धत्स्वेति, तत्तुच्छम् ; सर्वधर्मान् परित्यज्येति यथाश्रुतार्थपरित्यागस्यान्यार्थकल्पनस्य च लक्षणया अयुक्तत्वात्। न हि सर्वधर्मानपरित्यज्येति सर्वधर्मफलाभिसन्ध्यादिकं परित्यज्येति वा मूले दृश्यते, किन्तु सर्वधर्मान् परित्यज्येत्येव दृश्यते। न च यथाश्रुतार्थस्वीकारे, ‘नियतस्य तु संन्यासः कर्मणो नोपपद्यते। मोहात्तस्य परित्यागस्तामसः परिकीर्तितः॥’ इति तामसत्यागस्य सर्वधर्मपरित्यागस्य निन्दितत्वात् तद्विरोधः स्यात्। ततश्च सर्वधर्मानित्यस्य लक्षणया सर्वधर्मफलानीत्येवार्थः पूर्वा- विरोधात् स्वीकार्यः। पूर्वं हि ‘एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च। कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्॥ कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन। सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥’ इत्युक्तम्। तस्मात् स एव सात्त्विकत्याग इहापि स्वीकर्तव्य इति वाच्यम् ; तस्य सात्त्विकत्यागस्य कर्माधिकार्यज्ञपरत्वात् , इहोक्तसर्वधर्मपरित्यागस्य सर्वकर्मसंन्यासिज्ञानि- परत्वाच्च। सर्वधर्मानिति श्लोकेन हि ज्ञाननिष्ठोपसंह्रियते, पूर्वश्लोकेन कर्मनिष्ठाया उपसंहृतत्वात्। न च सर्वकर्मसंन्यास एव [न] श्रीकृष्णस्याभिमत इति वाच्यम् ; ‘सर्वकर्माणि संन्यस्य’ ‘सर्वारम्भपरित्यागी’ इत्यादिवाक् यैरुक्तत्वात् तेनैव सर्वकर्मसंन्यासस्य, ‘ब्राह्मणो निर्वेदमायात्’, ‘यदहरेव विरजेत्तदहरेव प्रव्रजेदि’त्यादिश्रुतिसिद्धं सर्वकर्मसंन्यासं भगवान् न हि निरुन्ध्यात्। न च विदुष एव तामसत्यागो निन्दित इति वाच्यम् ; मोहादित्युक्तत्वात्। न हि विदुषो निरस्तमोहस्य मोहः सम्भवति। न च – भक्तियोगस्यापि परित्यागे कथं ज्ञानिनोऽपि ब्रह्मप्राप्तिः? ‘मद्भक्ता यान्ति मामपि’, ‘भजन्ते मां दृढव्रताः’ ‘जरामरणमोक्षाय’ ‘मय्यर्पितमनोबुद्धिर्मामे- वैष्यस्यसंशयः’ ‘अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभं पार्थ’, ‘पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया’, ‘मद्भक्तो भव, मामेवैष्यसि’, ‘भक्त्या त्वनन्यया शक् य अहमेवंविधोऽर्जुन। ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥’ ‘मद्भक्तो यः स मामेति पाण्डव’। एवं भक्तस्य भगवत्प्रियत्वमप्याह— ‘यो मे भक्तः स मे प्रियः’ ‘भक्तिमान् मे प्रियो नरः’ ‘भक्तास्तेऽतीव मे प्रियाः’ इति भक्तियोगादेव मोक्षः परब्रह्मप्राप्तिलक्षणो भवति। ज्ञानयोगात्तु केवलादात्मप्राप्तिरेवेति – वाच्यम् ; ज्ञाननिष्ठालक्षणः कर्मनिष्ठा- भाष्यार्कप्रकाशः

[[१००५]]

लक्षणाश्च भक्तियोगो द्विविधः। भक्तिर्भजनमीश्वरस्य; तद्धि कर्मनिष्ठया ज्ञाननिष्ठया वा कर्तुं शक् यते। अत एवोक्तम् ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिना’मिति। न हि भक्तियोगात्मकं निष्ठान्तरमुक्तम्। तत्र च ज्ञाननिष्ठालक्षणो भक्तियोगो मोक्षस्य साक्षात्साधनं, कर्मनिष्ठालक्षणस्तु परम्परयेति। तस्माज्ज्ञानयोगातिरिक्तः त्वदुक्तो भक्तियोगः कर्मयोगादनन्य एव। तं परित्यज्य ज्ञाननिष्ठाप्राप्त्यैव ब्रह्मप्राप्तिः। त्वदुदाहृतवचनेषु तु केषुचिद् भक्तियोगः कर्मयोगात्मकः, केषुचिज्ज्ञानयोगात्मक इति कृत्वा कर्मयोगलक्षणभक्तियोगात् परम्परया ब्रह्मप्राप्तिः, ज्ञानयोगलक्षणभक्तियोगात्तु साक्षादिति बोध्यम्। तथा सति ‘ज्ञात्वा मां शान्तिमृच्छती’त्यादिवचनाविरोधः, अन्यथा ज्ञानाद् ब्रह्मप्राप्तिप्रतिपादकवचनविरोधः स्यात्। यत्तूक्तं ज्ञानादात्मप्राप्तिरेव, न परमात्मप्राप्तिरिति; तद् आत्मपरमात्मभेदवादविध्वंसनेनैव विध्वस्तम्। यच्चोक्तम् ‘मामेकं शरणं व्रजे’त्यस्य कर्तारमाराध्यमुपायमुपेयं च मामनुसन्धत्स्वेति, तदयुक्तम् ; तद्वाक् यात् तादृशार्थाप्रतीतेः। अकर्तारमीश्वरमात्मानं कर्तेत्यनुसन्धानस्य विपरीतज्ञानत्वेन मोक्षाहेतुत्वाच्च। न च वासुदेवः सर्वमिति तदुपपद्यत एवेति वाच्यम् ; कर्तृभोक्त्रादिसर्वप्रपञ्चबाधे ब्रह्मैकमेव शिष्यत इति तदर्थात् ; ब्रह्मणि कल्पितस्य सर्वस्य ब्रह्मैव स्वरूपमिति वा। न च सर्वशरीरकत्वात् सर्वं ब्रह्मेत्युच्यत इति वाच्यम् ; शरीरभूतसर्वस्याब्रह्मात्मकत्वप्रसङ्गात् , कर्तारं जीवं मां परमात्मानमनुसन्धत्स्वेत्यनेन जीवब्रह्माभेदवादप्रवेशप्रसङ्गाच्च तव। यदप्यनेनोक्तम्— सर्वधर्मान् कृच्छ्रचान्द्रायणादीन् प्रायश्चित्तरूपान् सर्वान् धर्मान् परित्यज्य मामेकं शरणं व्रज। न च ते पापेभ्यो भीतिः, अस्मच्छरणागतिमात्रेणैव सर्वपापक्षयात् तवेत्याह— अहं त्वामित्यादीति; तदपि तुच्छम् ; नित्यनैमित्तिककाम्यरूप- धर्मापरित्यागस्यार्थतः सिद्धत्वात् , सर्वशब्दस्य प्रायश्चित्तमात्रपरत्वे सङ्कोचस्यान्याय्यत्वात् , भगवच्छरणागतिमात्रेण सर्वपापक्षये सति मोक्षप्राप्तौ च सत्यां नित्याद्यनुष्ठानस्यापि वैयर्थ्यापत्तेः; नित्याद्यनुष्ठानस्य बहिर्मुखत्वेन भगवच्छरणागतिविरोधित्वाच्च। तस्मात् प्रायश्चित्तानुष्ठानवन्नित्याद्यनुष्ठानस्यापि भगवदेकपरायणत्वविरुद्धत्वात् तदपि त्याज्यमेव। अत एवोक्तं भगवता पाराशर्येण—‘सर्व- धर्मान् परित्यज्ये’ति, अन्यथा ‘प्रायश्चित्तानि सन्त्यज्ये’त्येव ब्रूयात्। न च नित्यकर्मानुतिष्ठतोऽपि भगवदेकपरायणत्वं स्यादिति वाच्यम् ; तथा सति प्रायश्चित्तमनुतिष्ठतोऽपि तत् स्यादिति प्रायश्चित्तपरित्यागस्याप्यकर्तव्यापत्तेः। ‘सन्ध्यावन्दन भद्रमस्तु भवते भो स्नान तुभ्यं नमो भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम्। यत्र क्वापि निषद्य यादवकुलोत्तंसस्य कंसद्विषः स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥’ इति १शुकवचनान्नित्यकर्मानुष्ठानं भगवदेकपराय- णत्वविरोध्येव। हृत्पुण्डरीकस्थे भगवति परमात्मनि मनसः प्रवेशनं, तत्रैव चिरमवस्थापनं च हि भगवदेकपरायणत्वम् , तत् कथमन्तर्मुखस्य भवितुमर्हति? कथमेवमन्तर्मुखस्य बहूपकरणसाध्ये कर्मणि बाह्ये प्रवृत्तिर्भवितुमर्हति? तस्मात् सर्वकर्मसंन्यास- पूर्विकैव भगवदेकशरणागतिरूपा ज्ञाननिष्ठा। न च भगवत्प्रीत्यर्थं भगवत्कर्मकरणमेव भगवच्छरणागतिरिति वाच्यम् ; तादृशकर्म- योगस्य पूर्वश्लोक एवोपसंहृतत्वात् ; भगवद्ध्यानयोगस्य भगवच्छरणागतित्वाभाव इत्यस्य विरुद्धत्वाच्च। न च भगवद्ध्यानं नाम मनसि कल्पितभगवद्विग्रहार्चनमेवेति तदपि कर्मयोग एवेति वाच्यम् ; नित्यसिद्धप्रत्यगभिन्नभगवत्स्वरूपानुसन्धानलक्षणभगवद्ध्यानस्याकर्म- योगत्वात्। ‘अकल्पितभगवत्स्वरूपध्यानं न कर्तव्यम् , किन्तु कल्पितभगवद्विग्रहध्यानमेव कर्तव्य’मिति राजाज्ञाऽभावात् कल्पिता- पेक्षया अकल्पितं युक्तमिति प्रसिद्धत्वात्। न चाकल्पितेश्वरस्वरूपध्यानं दुष्करमिति वाच्यम् ; येषां दुष्करं तदर्थं कर्मयोगो विहित एव; येषां तु सुकरं तदर्थमेव ज्ञानयोगो विहितः। न च हृदि कल्पितेश्वरविग्रहार्चनमेव ज्ञानयोग इति वाच्यम् ; यथावस्थितवस्तुस्वरूप- चिन्तनस्यैव ज्ञानयोगत्वात्। लोकेऽपि यथावस्थितघटादिवस्तुज्ञानमेव ज्ञानमिति व्यवह्रियते, न तु कल्पितसर्पाभासादिज्ञानम् ; नापि तदुपासनम्। तस्मान्नित्यादिकर्मानुष्ठानं हृदि प्रतिमादिषु वा कल्पितभगवद्विग्रहार्चनादिकं सर्वमपि कर्मयोग एव। स चाज्ञविषयः, ‘यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् , अर्चायां भजते मौड्या’दिति भागवतात्। इहापि कर्मयोगस्याज्ञ-विषयत्वेनोक्तत्वात्। ‘अहं ब्रह्मास्मी’ति प्रत्यगभिन्नब्रह्मस्वरूपचिन्तनं तु ज्ञानयोगः। स च प्राज्ञविषयः; स च सर्वकर्मसंन्यासपूर्वकः; स एव ‘सर्वधर्मान् परित्यज्य भाष्यार्कप्रकाशः अ. १८. श्लो. ६६ ] १. कृष्णकर्णामृते लीलाशुकवचनादित्यर्थः।

[[१००६]]

मामेकं शरणं व्रजे’ति श्लोके उपसंहृतः। युक्तं चैतत्—ज्ञानकर्मनिष्ठाद्वयस्य पूर्वमुपक्रान्तत्वेन तस्येहोपसंहृतत्वात्। तस्माज्ज्ञाननिष्ठापर एवायं श्लोकः। अयमेव श्लोको मया भङ्ग्यन्तरेणोक्तोऽद्वैतामृतग्रन्थे मामके— ‘धर्मान् विहाय विविधान् शरणं भजेऽहं मामेव येन विनि- वर्तत एव माया’ इति। तस्मात् प्रत्यगभिन्नब्रह्मात्मज्ञानादेव मायातत्कार्यनिवृत्त्यात्मको मोक्षः सम्भवति। यदप्युक्तं वेदान्तदेशिकेन—‘मामेक’मित्यत्र निर्विशेषचिन्मात्रैक् यादिविवक्षां शृण्वन्तो बाला अपि परिहसेयुरिति, तत् सत्यमेव ; बाला अज्ञा अपिशब्दाद् विपरीतज्ञाश्च परिहसन्त्येवाद्वैतम् , न तु सम्यग्दर्शिनः। मां कर्तारमाराध्यमुपायमुपेयं चानुसन्ध- त्स्वेति योजनां शृण्वन्तस्तु विवेकिन एव परिहसेयुः, न तु बालादयः, तद् दृष्ट्या तद्योजनाया युक्तत्वात्। यथा गर्दभगानं पिशाचानां श्रवणानन्दकरम् , यथा वा गोमायुगानं महिषाणाम्। तथाहि—यदि मामित्यस्य वक्तरि वासुदेवे पार्थसारथौ शक्तिस्तर्हि तच्चरणार- विन्दयोः सुदृढं परिग्रहणमेव तच्छरणागतिः स्यात्। तत् पार्थस्य सुलभमपि, दुर्लभमेव ततः प्राक्तनानां प्रह्लादादीनाम् , पश्चात्तनानां परीक्षिदादीनां च। न चेष्टापत्तिः; लोकत्रयोपकाराय गीताशास्त्रस्य भगवता प्रवर्तितत्वात्। अथ यदि सर्वज्ञे परमात्मनि विष्णौ लक्षणा, तर्हि सिद्धमेव निर्विशेषचिन्मात्रैक् यम् , निर्विशेषचिन्मात्रत्वाद् विष्णोरिति। यच्चानेनोक्तम्—गीताशास्त्रस्य सारार्थोऽयम् - भगवानेव परं तत्त्वम् , यथाधिकारं तदाश्रयणमेव परमधर्मः - इति, तदपि स्वतात्पर्यानुसारेण न सिध्यति। श्रीकृष्ण एक एव परं तत्त्वं, न तु ब्रह्मरुद्रादयः। ते हि जीवा इति हि तवाशयः। न हि सोऽर्थो गीता- शास्त्रात् सिद्ध्यति, किन्तु श्रीकृष्णश्रीनिवासरुद्रब्रह्मेन्द्रबृहस्पतिवायुसूर्येन्दुलक्ष्मीसरस्वतीपार्वतीगणपतिकुमारविनायकदेवगरुडगन्धर्व- पिशाचोरगकिन्नरकिम्पुरुषसिद्धसाध्यपितृमातृभूतप्रेतग्रहतारानक्षत्रमनुष्यपक्षिपशुमत्स्यकमठकीटसरीसृपतरुगुल्मलतादिचराचरसर्व- भूतहृदयस्थं मृत्पाषाणादिसर्व[र्वा]चेतनस्यापि च परिपूर्णं निर्विशेषं सत्यमनन्तं चैतन्यमेकमेवाद्वितीयं ब्रह्म परं तत्त्वम् , तदेकानु- सन्धानात्मकज्ञाननिष्ठैव परमधर्मः, तदुपायभूता तु कर्मनिष्ठा इति गीताशास्त्रस्य सार इति। अत एवोक्तमभियुक्तैः— ‘अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनी’मिति। सर्वकर्मसंन्यासस्तु देशिकेनाप्यभ्युपगतः। यस्य वशिनो योगेन सर्वकर्मकालो व्याप्तः, तस्य कर्म- परित्यागो युक्तो, नान्यस्य। एतदेव तृतीयचतुर्थपञ्चमेषु भगवता प्रतिपादितमित्यनुसन्धातव्यम्। तृतीये तावत् ‘यस्त्वात्मरतिरेव स्या’दित्यत्र, चतुर्थे ‘योगसंन्यस्तकर्माण’मित्यत्र, पञ्चमे च ‘सर्वकर्माणि मनसा संन्यस्यास्ते’ इत्यत्र। तेनात्मरतीनां वशिनां योगारूढा- नामेव कर्मसंन्यासो युक्त इति। १अस्य तु - ज्ञानिनः संन्यासो न युक्तः, किन्तु समाधिनिष्ठस्यैव युक्त इति बुद्धिः; सा तु दुष्टा। यस्य तु प्राज्ञस्य ब्रह्मैवाहमस्मीति निश्चयः कुतस्तस्य समाधिः? समाधिसाध्यो हि ब्रह्मसाक्षात्कारः स्वत एव भवति विदुषः, आत्मत्वाद् ब्रह्मणः। तस्मात् समाधिनिरपेक्ष एव ज्ञानयोगः। यस्य तु प्रतिबन्धवशाद् ब्रह्मसाक्षात्काराभावो बहुवारं श्रुतवेदान्तस्यापि तस्य समाधिर्विहितः। न तावता समाधिनिष्ठस्यैव संन्यासो युक्तः, न तु ज्ञानिन इति वाच्यम् ; कृतात्मसाक्षात्कारस्य ज्ञानिनः संन्यासो न युक्तः। आत्मसाक्षात्कारं प्रति यतमानस्य योगिनः समाहितस्य संन्यासो युक्त इति कल्पनस्यायुक्तत्वात्। आत्मसाक्षात्कारेण हि पुरुषः कृतकृत्यो भवति ‘एतद् बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत’ इत्युक्तत्वात्। न हि कृतकृत्यस्य कृत्यावशेषः स्याद् येन विदुषः कर्मसंन्यासो न युक्त इति कल्प्येत। न च समाहितस्यैवात्मरतिर्न तु ज्ञानिन इति वाच्यम् ; अज्ञस्याप्यस्त्येवात्मरतिरात्मत्वे- नाभिमते देहे, किं पुनः प्राज्ञस्य सच्चिदानन्दे आत्मनि रतिः। तस्माद् विदुषः कृतात्मसाक्षात्कारस्य कर्मसंन्यासो युक्त एव, तथा आत्मसाक्षात्काराय यतमानस्य ज्ञाननिष्ठायां प्रविष्टस्यापि युक्त एव, ब्रह्माहमस्मीत्यन्वहमनुसन्धातव्यत्वात् तेनात्मरूपस्य। अतः समाधिनिष्ठस्यापि कर्मसंन्यासो युक्त एव। यच्चानेनोक्तम् आत्मरतेर्वशिनोऽपि लोकसंग्रहार्थं कर्मयोग एव कार्य इति, तदयुक्तम् ; विदुषः कर्तव्यत्वानवशेषात् ; किन्तु विद्वांसो यदृच्छया वासुदेववत् कर्मयोगादौ विहरन्ति। उक्तं हि ‘कृष्णो भोगी शुकस्त्यागी नृपौ जनकराघवौ। वसिष्ठः कर्मनिरतः पञ्चैते ज्ञानिनः स्मृताः॥’ इति। तत्र च कारणं प्रारब्धकर्मैव। अत एव भगवानपि स्वस्य धर्मसंस्थापनार्थमवतीर्णत्वात् तत्सङ्कल्पानुगुणं भाष्यार्कप्रकाशः १. अस्य वेदान्तदेशिकस्य।

[[१००७]]

कर्मणि प्रवृत्तः। उक्तं हि ‘वर्त एव च कर्मणी’ति तेनैव। अयमेव ऋषभावतारे अवधूतःसन् चचार परमहंसपरिव्राजकचर्यां ग्राहयितुं लोकेन। तस्माद् विदुषः कर्मयोग एव युक्त इति न नियमः; जनकराघवादीनां तु नृपत्वेन तत्प्रारब्धानुगुणं प्रजापरिपालनादौ प्रवृत्तिः। अत एव अर्जुनस्यापि स्वप्रारब्धानुगुणं युद्धे प्रवृत्तिरुचितेति मत्वा ‘कुरु कर्मैव तस्मात्त्व’मित्युक्तम्। नैतावता विदुषः कर्मयोग एव युक्त इति भ्रमितव्यम्। शुकादीनां विदुषां तत्र प्रवृत्त्यदर्शनात्। अनेन च शुकदृष्टान्तेन सर्वदा समाधिशालिन एव कर्मसंन्यासो युक्त इत्येतत् प्रत्युक्तम् , शुकस्य संन्यासिनः सर्वदा समाधिनिष्ठत्वे भागवतसम्प्रदायोच्छेदप्रसङ्गात्। तस्माद् विदुषो विविदिषोश्च कर्म- संन्यासो युक्तः। अत एव विद्वत्संन्यासो विविदिषासंन्यासश्चेति द्विविधः संन्यासो विहितः शास्त्रेण। तस्मान्मुमुक्षुणा सर्वकर्मसंन्यास- पूर्विका ब्रह्मात्मज्ञाननिष्ठैव कार्येति गीताशास्त्रसारार्थः। तत्रानधिकारिणा तु कर्मनिष्ठेति। नन्वेवं जनकादीनामत्यागिनां मोक्षानुपपत्तिरिति चेत् , मैवम् ; मुमुक्षोः कर्मसंन्यासाभावे मोक्षानुपपत्तिर्न तु मुक्तस्य। जनकादयो हि जीवन्मुक्ताः, कृतात्मसाक्षात्कारत्वात्। अत एव तेषां न मुमुक्षाऽस्ति, यया मोक्षार्थं तैः संन्यासः स्वीक्रियेत। अत एव हि शमादिसम्पत्तिर्नित्यानित्यवस्तुविवेक इहामुत्रफलभोगविरागो मुमुक्षुत्वं चेति विशेषणचतुष्टयं विहितं ब्रह्मविद्याधिकारिणः। ननु यद्येवं मुमुक्षोरेव संन्यासाधिकारः, न तु विदुषो मुक्तस्य, तर्हि सिद्धमेव विदुषः सर्वकर्मसंन्यासानर्हत्वमिति चेत् , मैवम् ; विदुषः सर्वकर्मसंन्यासः कार्यो न भवतीत्यस्माभिरुच्यते, कृतकृत्यत्वात् तस्य। न तेन तस्य कर्मसंन्यासानुपपत्तिः, कर्मानुष्ठानहेत्व- ज्ञानाभावादेव संन्यासस्य सिद्धत्वात् तस्य। तस्माद् विदुषः कर्मयोगस्यैवानुपपत्तिः। ननु यद्येवं कृतकृत्यत्वे विदुषः कथं तस्य संन्यासपूर्विका ज्ञाननिष्ठा कार्येत्युच्यते ‘ज्ञानयोगेन साङ्ख्याना’मिति वाक् येनेति चेत्? नैष दोषः; आत्मज्ञानस्य परोक्षत्वापरोक्षत्वाभ्यां विदुषो द्वैविध्यम्। तत्र परोक्षज्ञानिनो ज्ञाननिष्ठा विधीयते, नापरोक्षज्ञानिनः, तस्य कृतकृत्यत्वादिति। ननु कथं ज्ञायते स्वस्य परोक्षात्मज्ञत्वमपरोक्षात्मज्ञत्वं वेति चेत्? उच्यते—यस्य मनसि संसारदुःखं नास्ति, मोक्षकामो नास्ति, विषयस्पृहा नास्ति, ‘अहं ब्रह्मास्मी’ति निश्चयोऽस्ति, कृतकृत्योऽहमिति सन्तोषोऽस्ति, देहपातानन्तरं मम का वा गतिर्भविष्य- तीति चिन्ता नास्ति, ईश्वरान्मृत्योर्वा भयं नास्ति स विद्वानपरोक्षात्मवित्। एतद्भिन्नस्तु शास्त्रादात्मानं ब्रह्मेति यः केवलं वेद, न स्वानु- भवात् स परोक्षात्मविदिति। ततश्च विद्वान् स्वबुद्ध्या स्वस्य परोक्षज्ञत्वमपरोक्षज्ञत्वं च विदित्वा परोक्षज्ञश्चेत् तदापि शमदमादिसम्पत्ति- मालोच्य साऽप्यस्ति चेद् यथाविधि शिखायज्ञोपवीतादिकं परित्यज्य प्रव्रज्य ज्ञानयोगं कुर्यात्। शमदमादिसम्पत्तिर्नास्ति चेत् कर्मयोग एवावतिष्ठेत। एवमन्यजन्मसु कर्मयोगानुष्ठाने इहजन्मनि वा सुकृतातिशयाच्चित्तशुद्धौ जातायां ज्ञानयोगाधिकारी भवति। उक्तं हि ‘बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते।’ ‘अनेकजन्मसंसिद्धस्ततो याति परां गति’मिति, ‘स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः’ इति च। यद्यपरोक्षज्ञस्तर्हि यथाप्रारब्धं यथेच्छं तस्य विहारः। उक्तं हि‘निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः’ इति। यस्तु पुनः पारोक्ष्येणाप्यात्मानं न वेत्ति, तस्याज्ञस्य कर्मयोग एवाधिकारः। स च कर्मयोगः स्ववर्णाश्रमानुसारेण विहितमिति बुद्ध्या फलत्यागपूर्वकमीश्वराराधनमिदमिति नित्यनैमित्तिककर्मानुष्ठानम् ; न तु स्नानसन्ध्यादिकं विहाय देवालयादौ सतैलाम्लान्नदध्यो- दनादिभोजनादिकम्। ज्ञानयोगो नाम वेदान्तश्रवणमननादिपूर्वकं ब्रह्माहमस्मीत्यात्मानुसन्धानम् , न तु द्रविडवेदपारायणादिकम् , नापि शङ्खचक्राङ्कनादिकमिति बोध्यम्। तस्मादज्ञेनाधिकृतेन कर्मयोगः कार्यः, विदुषा परोक्षज्ञेन ज्ञानयोगः कार्य इति सर्वस्य गीताशास्त्रस्य निश्चितमंशद्वयम्। तच्च ‘मन्मना’ इति, ‘सर्वधर्मानि’ति च श्लोकद्वयेन भगवतैव दर्शितम्। मुमुक्षुणा कर्मयोगः कार्योऽज्ञेन द्विजन्मना। परोक्षज्ञेन विदुषा ज्ञानयोग इति स्थितिः॥

स च ज्ञानयोगः संन्यासपूर्वकः। स च संन्यासो द्विविधः वैदिको लौकिकश्चेति। मन्त्रपूर्वकसंन्यासाश्रमस्वीकारो वैदिकः; गृहधनदारापत्यादिकमुत्सृज्य क्वापि प्रयाणं लौकिकः। वैदिके द्विजस्यैवाधिकारः; लौकिके तु स्त्रीशूद्रादीनां सर्वेषामपि। अत एवोक्तं श्रीशङ्करस्वामिभिरुपनिषद्भाष्ये ‘ज्ञानमार्गे सर्वेषामधिकारः’ इति। कर्मयोगे तु द्विजस्यैवाधिकारः, तस्यैवोपनयनादिसंस्कारवत्त्वेन भाष्यार्कप्रकाशः

[[अ. १८. श्लो. ६६]] [[१००८]]

वेदाधिकारात्। तस्मात् ‘यथाविधि परित्यज्य ज्ञानयोगं द्विजोऽभ्यसेत्। गृहादिकं परित्यज्य तदन्यस्तु तमभ्यसेत्॥

कामक्रोधादिरहितचित्तः संन्यासमाश्रयेत्। दम्भाद्यर्थं तु संन्यस्य पतेदेव नरोऽशुचौ॥

ईश्वराराधनार्थं स्वं कर्म कुर्यान्मलाशयः। दम्भाद्यर्थं तु तत्कृत्वा पतेदेव नरोऽशुचौ॥

मलं कामक्रोधादिरूपम्। अशुचिः संसारः। स्वं स्ववर्णाश्रमविहितम्। स्वकर्मोत्सृज्य पुरुषः परकर्म न चाचरेत्। अन्यथा यदि वर्तेत पतेदेव नरोऽशुचौ॥

यस्तु ज्ञानावलेपेन विहितं न समाचरेत्। प्रतिषिद्धं चाचरेत् स पतेदेव नरोऽशुचौ॥

शास्त्रदीपेन कर्तव्यमर्थं दृष्ट्वा समाचरेत्। स्वेच्छया यदि वर्तेत पतेदेव नरोऽशुचौ॥

शास्त्राणामुत्तमं शास्त्रं गीताशास्त्रमिति स्मृतम्। कृष्णधीमथिताम्नायपाराब्धिजमिवामृतम्॥

कृष्णो व्यासो वासुदेवो वा; आम्नायपाराः उपनिषदः। अशोच्यानन्वशोचस्त्वमित्युपक्रम्य शोचनम्। अन्ते मा शुच इत्युक्तः शोकाभावोऽत्र शौरिणा॥

अशेषशोकप्रशमोपायभूतमिदं ततः। शोकान्मुमुक्षुणा नित्यमध्येयमधिकारिणा॥

मलनिर्मोचनं पुंसां जलस्नानं दिने दिने। सकृद्गीताम्भसि स्नानं संसारमलमोचनम्॥

भगवद्गीता किञ्चिदधीता गङ्गाजललवकणिका पीता। सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमोऽपि न चर्चाम्१॥

गङ्गास्नानादिवादृष्टं गीतापारायणात् फलम्। गीतार्थब्रह्मविज्ञानं ब्रह्मानन्दप्रदं पुनः॥

॥इति समाप्तं गीताशास्त्रं तद्भाष्यार्कप्रकाशश्च ॥

॥समर्पितश्चायं श्रीहयग्रीवपरब्रह्मणे॥

प्रकाशमेनं परिलक्ष्य कौस्तुभप्रकाशमप्यात्मनि संशयाकुलम्। निरीक्ष्य लक्ष्म्या तुरगेन्द्रकन्धरं कृतं स्मितं हन्तु तमो, ददातु शम्॥

  संशयः- किं कौस्तुभस्यैवायमपूर्वः प्रकाशः? मद्धृदयगतं

गीताशास्त्रतात्पर्यं कथमेवं बहिर्गतम्? कौस्तुभप्रकाशैतत्प्रकाशयोः कतरोऽधिकः? स्वानुजेन कौस्तुभेन सहार्धासनाधिपत्यं स्वीकृतवन्तं प्रकाशमिमं दृष्ट्वा लक्ष्मीः किं मन्येत? प्रकाशद्वयव्याप्ते मद्धृदये लक्ष्मीं स्थापयितुमवकाशोऽस्ति वा, न वा? एतत्प्रकाशसाक्षात्काराल्लक्ष्म्या अपि ज्ञाननिष्ठास्वीकारेण मयि वैराग्यं भवेत् किमु? इत्यादि- रूह्यः। स्मितस्य चन्द्रिकातुल्यत्वात् तमोनाशनं सुखदानं च युक्तमिति भावः। ‘अशोच्यानि’त्यारभ्य ‘मा शुचः’ इत्येतदन्तं गीताशास्त्रमेकत्रिंशदधिकषट्छतश्लोकात्मकम्। ‘धर्मक्षेत्रे’ इत्यारभ्य ‘ध्रुवा नीतिर्मतिर्ममे’त्येतदन्तस्तु ग्रन्थः सप्तशतश्लोकात्मकः। अत एवोक्तं भाष्यकृद्भिर्भाष्यारम्भे—‘सप्तभिः श्लोकशतैरुपनिबबन्धे’ति। ‘प्रकृतिं पुरुषं चैवे’ति श्लोकस्तु प्रक्षिप्त एवेति न गणनीयः॥६६॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

१. यमोऽपि न चर्चां कुरुते इति योजनीयम्। २. स्वरचितस्य भाष्यव्याख्यानस्य भगवत्तात्पर्यानुसारित्वं, स्वखण्डितस्य रामानुजादिभाष्यादेः तदननुसारित्वं च सूचयन् गीताशास्त्रव्याख्यानान्ते मङ्गलमाचरति— प्रकाशमेनमिति।

[[१००९]]

अथ शास्त्रसम्प्रदायविधिं शिक्षयति भगवान् इदमित्यादिना इत्याह भाष्यकारः—सर्वमिति। सर्वं गीताशास्त्रार्थमस्मिन्नध्याये उपसंहृत्य विशेषतश्चेहान्ते शास्त्रार्थदार्ड्याय सङ्क्षेपत उपसंहारकं कृत्वा, यद्वा विशेषतो विस्तरत उपसंहृत्येत्यन्वयः। अथ शास्त्रार्थोप- संहारानन्तरमित्यर्थः। इदमिति। ‘सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः’ इति यत्पूर्वं वक्ष्यमाणत्वोपाधिना इदंशब्देन सङ्गृहीतम् अशोच्यानित्यारभ्य मा शुचः इत्येतदन्तं, तदेवेह इदंशब्देनोक्तत्वोपाधिना संगृह्यते। तथा च इदं पूर्वोक्तमशोच्यानित्यादिकं मा शुच इत्यन्तं गीताशास्त्रमित्यर्थः। ते तव मयोक्तमिति शेषः। किमर्थमुक्तम्? अत आह—हितायेति। किं तद् हितम्? अत आह—संसार- विच्छित्तय इति। संसारविच्छित्तिरूपहितायेत्यर्थः। अतपस्काय न वाच्यं, त्वयेति शेषः। यद्वा त इति त्वयेत्यर्थे षष्ठी ‘षष्ठी शेषे’ इति सूत्रेण विहिता। तथा चेदं ते न वाच्यमित्यन्वयः। तव हिताय मयोक्तमिति तु भाष्यकृद्भिरिदंशब्दार्थविवरणरूपतयोक्तमिति बोध्यम्। अतपस्काय न वाच्यमित्यनेन तपस्विने वाच्यमिति प्राप्त आह—तपस्विनेऽप्यभक्ताय न वाच्यमिति। कस्मिन्नभक्तायेत्यत आह—गुरौ देवे चेति। देव ईश्वरः परमात्मा। कस्यांचिदपीति। दारिद्र्यादिकष्टदशाप्राप्तावपीत्यर्थः। दरिद्रो हि शास्त्रविद् धनलोभेना-भक्तायापि ब्रूयादिति भावः। रुग्णश्च शास्त्रवित् स्वरोगापहारायाभक्तायापि भिषजे ब्रूयादिति च। एवं तपस्विने भक्ताय ब्रूयादिति प्राप्त आह—न चाशुश्रूषव इति। श्रोतुमिच्छुः शुश्रूषुः, ‘नापृष्टः कस्यचिद् ब्रूयादि’ति न्यायादिति भावः। यः शुश्रूषुः स जिज्ञासया श्रोतव्यार्थं पृच्छत्ये- वेति बोध्यम्। यद्वा शुश्रूषुः गुरुपरिचरणशीलः ‘गुरुशुश्रूषया विद्ये’ति स्मरणात्। एवं तपस्विने भक्ताय शुश्रूषवेऽपि भगवत्यसूया- युक्ताय न वाच्यमित्याह—न च मामिति। मां शास्त्रकर्तारमित्यर्थः। शास्त्रकर्तरि ईश्वर इति बुद्धौ सत्यामेव तच्छास्त्रोपदेशः फलतीति भावः। कुतोऽभ्यसूयति? तत्राह—मनुष्यं प्राकृतं मत्वेति। प्राकृतं साधारणं मनुष्यं मत्वा आत्मप्रशंसादिदोषाध्यारोपणेन आत्म- प्रशंसादिरूपदोषारोपणेन ‘मत्तः परतरं नान्यदि’त्यादेरुक्तत्वाच्छ्रीकृष्णेनेति भावः। तदीयमीश्वरतत्त्वं निरवद्यमजानन् न सहते ईर्ष्यायुक्तो भवति। अयोग्यः शास्त्रोपदेशानर्हः। सामर्थ्याद् गम्यते अर्थात् सिध्यतीत्यर्थः। इदं ते अतपस्काय न वाच्यम् , इदं ते अभक्ताय न वाच्यम् , इदं ते अशुश्रूषवे न वाच्यम् ; यो मामभ्यसूयति तस्मा इदं न वाच्यम् ; कदाचनेति सर्ववाक् येष्वन्वेतव्यम्। तत्रैवं भाष्यार्कप्रकाशः इदं ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥६७॥

[आनन्दगिरिकृतव्याख्या]

सर्वं गीताशास्त्रार्थमुपसंहृत्यास्मिन्नध्याये विशेषतश्चान्ते इह शास्त्रार्थदार्ड्याय संक्षेपत उपसंहारं कृत्वा अथेदानीं शास्त्रसम्प्रदायविधिमाह— इदमिति। इदं शास्त्रं ते तव हिताय मयोक्तं संसारविच्छित्तये अतपस्काय तपो- रहिताय न वाच्यमिति व्यवहितेन सम्बध्यते। तपस्विनेऽपि अभक्ताय गुरौ देवे च भक्तिरहिताय कदाचन कस्यांचि- दप्यवस्थायां न वाच्यम्। १भक्तस्तपस्वी अपि सन् अशुश्रूषुर्यो भवति तस्मा अपि न वाच्यम्। २न च यो मां वासुदेवं प्राकृतं मनुष्यं मत्वा अभ्यसूयति आत्मप्रशंसादिदोषाध्यारोपणेन ममेश्वरत्वमजानन् न सहते असावप्ययोग्यः, तस्मा अपि न वाच्यम्। ३भगवति भक्ताय तपस्विने शुश्रूषवेऽनसूयवे च वाच्यं शास्त्रमिति सामर्थ्याद् गम्यते। तत्र ‘मेधाविने शास्त्रतात्पर्यार्थं विचारद्वारा निर्धार्यानन्तरश्लोकमवतारयति—सर्वमिति। प्रकृते खल्वष्टादशाध्याये गीताशास्त्रार्थं सर्वं प्रतिपत्ति- सौकर्यार्थमुपसंहृत्य, अन्ते च ‘सर्वधर्मान् परित्यज्ये’त्यादौ विशेषतस्तस्य संक्षेपेणोपसंहारं कृत्वा, सम्प्रदायविधिवचनस्यावसरे सति, इदानीमिति योजना। किमिति विस्तरेणोपसंहृतः शास्त्रार्थः संक्षिप्योपसंह्रियते? तत्राह—शास्त्रार्थेति। संक्षेपविस्तराभ्यामुक्तोऽर्थः सर्वेषां दृढतया बुद्धिमधिरोहतीत्यर्थः। हितायेत्येतदेव व्याचष्टे—संसारेति। कदाचनेति सर्वैः सम्बध्यते। प्रतिषेधसामर्थ्यसिद्धमर्थं कथयति— १. ‘न चाशुश्रूषवे भक्तस्तपस्वी’ इति रा.पा.भाति। २. ‘न च मां यो’ इति रा.पा.। ३. ‘भगवति अनसूयायुक्ताय भक्ताय तपस्विने शुश्रूषवे च’ इति पा.।

[[अ. १८. श्लो. ६७]] [[१०१०]]

सति ग्रन्थान्तरे ‘मेधाविने तपस्विने वा वाच्य’मिति मेधावितपस्विनोर्विकल्पस्य दर्शनात् इहानुक्तोऽपि मेधावी ग्राह्यः। गृहीते च तस्मिन् मेधावितपस्वित्वयोः समप्राधान्येन १सामानाधिकरण्यं नावश्यकम्। मेधा ग्रहणधारणशक्तिः; तपः चित्तैकाग्र्यम्। मन्दबुद्धेरपि चित्तैकाग्र्ये सति शास्त्रार्थपरिज्ञानं भवति। मेधाविनस्तु मेधावशादेव शास्त्रार्थपरिज्ञानं भवति। चित्तैकाग्र्यं त्वस्य गौणमेव। यद्वा यम- नियमादिलक्षणं तपः, तद्वान् तपस्वी; बुद्धिमांस्तु मेधावी यमनियमादिरहित एव। तत्र मेधावी उत्तमाधिकारी, तपस्वी तु मध्यम इति बोध्यम्। शुश्रूषाभक्ती तु द्वयोरपि प्रधाने एवेत्याह—शुश्रूषेति। तद्युक्तायेति। शुश्रूषाभक्तियुक्तायेत्यर्थः। शुश्रूषाभक्तिवियुक्ताय तपस्विने न वाच्यम् ; तादृशाय मेधाविनेऽपि न वाच्यमिदं शास्त्रमिति शेषः। शुश्रूषाभक्तिमान् मेधावी तपस्वी वा यदि श्रीकृष्णे सासूयस्तर्हि तस्मै न वाच्यमित्याह—भगवतीति। समस्तेति। शुश्रूषाभक्ती मेधातपसोरन्यतरश्चेति गुणत्रयवतेऽपीत्यर्थः। यद्वा यस्य कस्यापि धन्यस्य मेधातपसी द्वे अपि भवत इति गुणचतुष्टयवतेऽपीत्यर्थः। एवं भगवत्यसूयायाः सर्वगुणावारकप्रबलदोषत्वादेव पृथगुक्तिः। यः पुनर्न तपस्वी, नापि मेधावी; तस्यापि यदि गुरुपरिचर्या गुरौ देवे कृष्णे च भक्तिस्तर्हि तस्मा इदं वाच्यमेवेत्याह—गुर्विति। अत एव श्रीशङ्कराचार्यस्वामिना स्वशुश्रूषाभक्तियुक्तस्य मन्दमतेरतपस्विनोऽप्यानन्दगिरेः२ शिष्यस्य शास्त्रोपदेशः कृतः। शास्त्रसम्प्रदायः पूर्व- पूर्वस्य गुरोरुत्तरोत्तरं शिष्यं प्रति शास्त्रस्योपदेशः शास्त्रसम्प्रदाय इत्युच्यते। सम्यक् प्रदीयते शिष्यायेदं गुरुणेति सम्प्रदायः उपदेशस्तस्य विधिः विधानम्॥६७॥

य इति। यो मयि परां भक्तिं कृत्वा परमं गुह्यमिमं मद्भक्तेष्वभिधास्यति स मामेवैष्यत्यसंशयः। सम्प्रदायस्य कर्तुः उपदेष्टु- रित्यर्थः। यथोक्तं पूर्वोक्तं ग्रन्थम्। परमम् उत्कृष्टम्। उत्कृष्टत्वं चास्य ग्रन्थस्योत्कृष्टपुरुषार्थसाधनत्वादित्याह—परमनिःश्रेयसार्थमिति। भाष्यार्कप्रकाशः तपस्विने वा’( निरुक्तं द्र. २.१.३) इत्यनयोर्विकल्पदर्शनात् शुश्रूषाभक्तियुक्ताय तपस्विने, तद्युक्ताय मेधाविने वा वाच्यम्। शुश्रूषाभक्तिवियुक्ताय न तपस्विने नापि मेधाविने वाच्यम्। भगवत्यसूयायुक्ताय समस्तगुणवतेऽपि न वाच्यम्। गुरुशुश्रूषाभक्तिमते च वाच्यमित्येष शास्त्रसम्प्रदायविधिः॥६७॥

सम्प्रदायस्य कर्तुः फलमिदानीमाह— य इति। य इमं यथोक्तं परमं परमनिःश्रेयसार्थं केशवार्जुनयोः संवाद- रूपं ग्रन्थं गुह्यं गोप्यं मद्भक्तेषु मयि भक्तिमत्सु अभिधास्यति वक्ष्यति। ग्रन्थतोऽर्थतश्च स्थापयिष्यतीत्यर्थः। यथा भगवतीति। अर्थसिद्धेऽर्थे स्मृत्यन्तरमनुसृत्य मेधावित्वमन्तर्भावयति—तत्रेति। विकल्पदर्शनात् तेषूक्तेषु विशेषणेषु मेधावित्वमपि प्रवि- शतीत्यर्थः। विकल्पपक्षे कथमधिकारिप्रतिपत्तिरिति? तत्राह—शुश्रूषेति। ताभ्यां युक्ताय भगवत्यसूयारहिताय तपस्विने वाच्यमिति सम्बन्धः। तद्युक्ताय शुश्रूषाभक्त्यनसूयासहितायेत्यर्थः। तपस्वित्वं मेधावित्वं वा निरपेक्षमधिकारिविशेषणमिति शङ्कां शातयति— शुश्रूषेति। भगवद्विषयासूयाराहित्ये तात्पर्यं सूचयति—भगवतीति। कस्मै तर्हि वाच्यमेतदित्याशङ्क्य पूर्वोक्तसर्वगुणसम्पन्नायेत्याह— गुरुशुश्रूषेति। अनुक्तेतरविशेषणोपलक्षणार्थमुभयग्रहणम्। मेधाविनस्तपस्वित्वं नातीवापेक्षते[क्ष्यते]। सर्वमन्यद् बाधकाभावादपेक्षितमे- वेति भावः ॥६७॥

शास्त्रसम्प्रदायप्रवृत्त्यर्थमुत्तरश्लोकप्रवृत्तिं दर्शयति—सम्प्रदायस्येति। यः इत्यध्यापको निर्दिश्यते। परमत्वं ग्रन्थस्य निरतिशय- पुरुषार्थसाधनत्वमित्याह—परममिति। गोप्यत्वमस्य रहस्यार्थविषयत्वात्। यथोक्तसंवादस्य ग्रन्थतोऽर्थश्च भक्तेषु स्थापने दृष्टान्तमाह— आनन्दगिरिकृतव्याख्या य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति। भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥६८॥

१. सामानाधिकरण्यं समुच्चयः। २. कथेयं माधवीयशंकरविजये द्वादशे सर्गे द्रष्टव्या।

[[१०११]]

परमनिःश्रेयसं मोक्षोऽर्थः फलं यस्य तं तथोक्तम्। संवादः प्रश्नोत्तरसरणिः। गोप्यतमं रहस्यम्। मयि भक्ताः मद्भक्तास्तेषु मद्भक्तेषु ग्रन्थतोऽर्थतश्चेति ग्रन्थं तदर्थं च वक्ष्यतीत्यर्थः। कथमभिधास्यतीत्यत्राह—यथेति। त्वयि मया यथाऽभिहितं, यद्वा स्थापितं, तथेत्यर्थः। ननु ‘नाभक्ताय कदाचने’त्यनेनाभक्तेषूपदेशस्य निषिद्धत्वान्मद्भक्तेष्विति वचनमिह व्यर्थम् , अत आह—भक्तेरिति। भवतीति। पुरुष इति शेषः। शुश्रूषा परिचर्या, तदुपदिष्टार्थस्य शिष्यप्रशिष्यद्वारा भुवि विपुलीकरणमेव तच्छुश्रूषेति भावः। न संशयोऽसंशयः,४संशय- स्याभावः। मदुक्तार्थे कोऽपि संशयो नास्तीत्यर्थः। एतेन गीताशास्त्रसम्प्रदायकर्तुर्मुक्तिः फलमिति सिद्धम्॥६८॥

नेति। मे मनुष्येषु तस्मादन्यः प्रियकृत्तमः कश्चिदपि नास्ति। भुवि मे तस्मादन्यः प्रियतरो न च भविता। यो गीतासम्प्रदाय- कृद् विद्वान् स एव मम वर्तमानकाले भविष्यत्काले वा अतिशयेन प्रियः, न तु तदन्यः कोऽपि मम प्रियतमः। ज्ञानिनः प्रियत्वं पूर्व- मुक्तं—स च मम प्रिय इति। यस्तु ज्ञानी सन् गीतासम्प्रदायं करोति पात्रे, स तु प्रियतम इतीहोच्यते। अन्यथा गीताशास्त्रप्रसङ्गो भुवि लुप्येत, यदि ज्ञानी किं मम शिष्योपदेशेनेति तूष्णीं तिष्ठेत्। तस्माज्ज्ञानिनः शिष्योपदेश आवश्यकः; स्वयं तीर्णः परान् तारयेदिति न्यायादिति भावः। वर्तमानेष्विति। मनुष्येष्वित्यस्य विशेषणम्। भविष्यत्यपि काल इति। भविष्यत्सु मनुष्येष्वपीत्यर्थः। लोकेऽस्मिन् इति। भूलोक इत्यर्थः। एवं ज्ञानिनो ज्ञानोपदेष्टुश्च भगवत्प्रियतमत्वादेव ‘नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्व- नाथम्’ इत्युक्तमभियुक्तैः शिवस्य विष्णुप्रियत्वम्॥६९॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

आनन्दगिरिकृतव्याख्या न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः। भविता न च मे तस्मादन्यः प्रियतरो भुवि॥६९॥

त्वयि मया। भक्तेः पुनर्ग्रहणाद् भक्तिमात्रेण केवलेन शास्त्रसम्प्रदाने पात्रं भवतीति गम्यते। कथमभिधास्यति इत्युच्यते— भक्तिं मयि परां कृत्वा ‘भगवतः परमगुरोः अच्युतस्य शुश्रूषा मया क्रियते’ इत्येवं कृत्वेत्यर्थः। तस्येदं फलम् — मामेवैष्यति मुच्यत एव। असंशयः अत्र संशयो न कर्तव्यः॥६८॥

किञ्च नेति। न च तस्मात् शास्त्रसम्प्रदायकृतो मनुष्येषु मनुष्याणां मध्ये कश्चिद् मे मम प्रियकृत्तमः अतिशयेन प्रियकरः, अन्यः प्रियकृत्तमो नास्त्येवेत्यर्थो वर्तमानेषु। न च भविता भविष्यत्यपि काले तस्माद् द्वितीयोऽन्यः प्रियतरः प्रियकृत्तरः भुवि १लोकेऽस्मिन् ॥६९॥

यथेति। मयि वासुदेवे भगवति अनन्यभक्ते त्वयि यथा मया ग्रन्थोऽर्थतः स्थापितः, तथा मद्भक्तेष्वन्येष्वपि यो ग्रन्थमिमं स्थापयिष्यति तस्येदं फलमित्युत्तरत्र सम्बन्धः। ‘नाभक्ताये’ति भक्तेरधिकारिविशेषणत्वोक्तेः ‘मद्भक्तेष्वि’ति पुनर्भक्तिग्रहणमनर्थकमित्याशङ्क्याह— भक्तेरिति। २शुश्रूषादिसहकारिराहित्यं केवलशब्दार्थः। यद्यपि मात्रशब्देन सूचितमेतत् , तथापीतरेण३ स्फुटीकृतमित्यविरोधः। प्रश्नपूर्व- कमभिधानप्रकारमभिनयति—कथमित्यादिना। भगवति भक्तिकरणप्रकारं प्रकटयति—भगवत इति। यच्छब्दापेक्षितं पूरयति—तस्येति। ‘मामेष्यत्येवे’त्यन्वयं गृहीत्वा व्याचष्टे—मुच्यत एवेति॥६८॥

ननु सर्वेषां मुक्तिसाधनानां ध्यानस्य श्रेष्ठत्वात् तन्निष्ठस्य मुमुक्षोर्नास्ति विद्यासम्प्रदाने प्रवृत्तिरिति, तत्राह—किञ्चेति। इतश्च [अतश्च] विद्यासम्प्रदानं मुमुक्षुणा यथोक्तविशेषणवते कर्तव्यमित्यर्थः। वर्तमानेषु मध्ये ततोऽन्यो नास्त्येव प्रियकृत्तमः। नाप्यतीतेषु तादृक् कश्चिदासीदिति शेषः। तस्माद् विद्यासम्प्रदायकर्तुः सकाशादित्यर्थः। ध्याननिष्ठस्य श्रेष्ठत्वेऽपि स्वसम्प्रदायप्रवक्तुः श्रेष्ठतमत्वाद् उचिता विद्यासम्प्रदाने प्रवृत्तिरिति भावः॥६९॥

१. ‘लोकेऽस्मिन् न भविता’ इति पा.। २. शुश्रूषेति।गुरुशुश्रूषेत्यर्थः। ३. केवलेन भक्तिमात्रेणेत्यत्र मात्रशब्देन सूचितं यत् तदेव इतरेण केवलशब्देन स्फुटीकृत- मित्यर्थः। ४. असंशयः इति अर्थाभावे नञ्तत्पुरुषः। अ. १८. श्लो. ६८ - ६९ ]

[[१०१२]]

अध्येष्यत इति। यो धर्म्यमावयोरिमं संवादमध्येष्यते च तेन ज्ञानयज्ञेनाहमिष्टः स्यामिति मे मतिः। यज्ञानां द्रव्ययज्ञादीनां जपयज्ञःश्रेष्ठः ‘यज्ञानां जपयज्ञोऽस्मी’त्युक्तत्वात्। स च त्रिविधः—विधिजपः, उपांशुजपः, मानसजपश्चेति। तत्र विधिजपो वाचा विस्पष्टं बहिर्मन्त्रोच्चारणम् ; उपांशुजपो निःशब्दं जिह्वोष्ठचलनपूर्वकं मन्त्रोच्चारणम् ; मानसजपस्तु मनसि केवलं मन्त्रोच्चारणं जिह्वोष्ठ- चलनादिरहितम्। एषु त्रिष्वपि जपेषु मानस उत्कृष्टः चित्तैकाग्र्यपूर्वकत्वान्मानसजपस्य। स एव मानसजप इह ज्ञानयज्ञशब्देनोच्यत इत्याह—विधीति। मानसत्वादिति। मनसोऽन्तःकरणत्वेनोत्कृष्टत्वात् तदीयोऽयं जपोऽप्युत्कृष्ट एवेति भावः। स्तूयत इति। ज्ञान- यज्ञतुल्यं गीताशास्त्राध्ययनमित्युच्यत इत्यर्थः। पक्षान्तरमाह—फलविधिरिति। तदेव विवृणोति—देवतेति। देवतादिविषयज्ञानयज्ञस्य यत्फलं तत्तुल्यं फलमस्य गीताध्येतुर्भवतीत्यर्थः। यथा ज्ञानयज्ञेनाग्न्यादिमन्त्रजपरूपेणाग्न्यादिदेवता इष्टा भवन्ति, तथा गीताध्ययनेन भगवानहमिष्टो भवेयमित्यर्थः। यद्वा मानसिकनारायणाष्टाक्षरीमन्त्रजपवद् गीताध्ययनमपि मत्प्रीतकारणमिति भावः। तेनेति। ज्ञान- यज्ञतुल्येनेत्यर्थः। अध्ययनेनेति। गीताध्ययनेनेत्यर्थः। ममेति। सर्वज्ञस्येत्यर्थः। ततश्चेश्वराभिमतत्वान्नात्र संशयादिः कार्यः। भगव- द्विषयकज्ञानयज्ञतुल्यमेव गीताध्ययनमिति सिद्धान्त एव॥७०॥

श्रद्धावानिति। यो नरःश्रद्धावाननसूयसश्च सन्नावयोरिमं संवादं शृणुयादपि सोऽपि मुक्तःसन् पुण्यकर्मणां शुभाल्ँलोकान् प्राप्नुयात्। शृणुयादपीत्यपिशब्दार्थमाह—अपीति। श्रोताऽप्येवं, किमुत प्रज्ञावांस्तदर्थाभिज्ञ इत्यपेरर्थः। मुक्तस्य कथं पुण्यलोकप्राप्तिः? भाष्यार्कप्रकाशः अध्येष्यते च य इमं धर्म्यं संवादमावयोः। ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः॥७०॥

श्रद्धावाननसूयश्च शृणुयादपि यो नरः। सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम्॥७१॥

योऽपि अध्येष्यत इति। अध्येष्यते च पठिष्यति यः इमं धर्म्यं धर्मादनपेतं संवादरूपं ग्रन्थमावयोः, तेनेदं कृतं स्यात्। ज्ञानयज्ञेन विधिजपोपांशुमानसानां यज्ञानां ज्ञानयज्ञो मानसत्वाद् विशिष्टतमः इत्यतस्तेन ज्ञानयज्ञेन गीताशास्त्रस्याध्ययनं स्तूयते। फलविधिरेव वा, देवतादिविषयज्ञानयज्ञफलतुल्यम् अस्य फलं भवतीति। तेनाध्ययनेन अहम् १इष्टः पूजितः स्यां भवेयमिति मे मम मतिः निश्चयः॥७०॥

अथ श्रोतुरिदं फलम् श्रद्धावानिति। श्रद्धावान् श्रद्दधानः अनसूयश्च असूयावर्जितः सन् इमं ग्रन्थं सम्प्रदायप्रवक्तुः सर्वाधिकं फलं ‘स वक्ता विष्णुरित्युक्तो न स विश्वाधिदैवतम्’ इति न्यायेनोक्त्वा, सम्प्रति अध्येतुर्विवक्षितं फलम् आह—योऽपीति। यथोक्तस्य शास्त्रस्य योऽप्यध्येता तेनेदं कृतं स्यादिति सम्बन्धः। तदेवाह—अध्येष्यत इति। तेनेदं कृतमित्यत्र इदं- शब्दार्थं विशदयति—ज्ञानेति। तेनाहमिष्टः स्यामिति सम्बन्धः। चतुर्विधानां यज्ञानां मध्ये ज्ञानयज्ञस्य ‘श्रेयान् द्रव्यमयाद् यज्ञाज्ज्ञान- यज्ञः’ इति विशिष्टत्वाभिधानात् , तेनाहमिष्टः स्यामित्यध्ययनस्य स्तुतिरभिमतेत्याह—विधीति। पक्षान्तरमाह—फलेति। फलविधिमेव प्रकटयति—देवतादीति। यद्धि ज्ञानयज्ञस्य फलं कैवल्यम् , तेन तुल्यमस्याध्येतुः सम्पद्यते, तच्च देवताद्यात्मत्वमित्यर्थः। कथमध्यय- नादेव सर्वात्मत्वं फलं लभ्यते? ‘तस्मात् तत् सर्वमभवत्’ इति श्रुतेः, तत्राह—तेनेति। तेनाध्येत्रा ज्ञानयज्ञतुल्येनाध्ययनेन भगवानिष्टः। तथा च तज्ज्ञानादुक्तं फलमविरुद्धमित्यर्थः॥७०॥

प्रवक्तुरध्येतुश्च फलमुक्त्वा श्रोतुरिदानीं फलं कथयति—अथेति॥७१॥

[आनन्दगिरिकृतव्याख्या]

१. इष्टः इति ‘यज देवपूजासंगतिकरणदानेषु’ इति धातोः क्तप्रत्यये रूपम्।

[[१०१३]]

अत आह—पापादिति। नायं पुण्यपापविनिर्मुक्तः परमात्मज्ञानिवत्किन्तु पापादेव मुक्त इत्यर्थः। पुण्यकर्मणां स्वर्गिणाम्॥७१॥

कच्चिदिति। शास्त्रार्थस्य ग्रहणाग्रहणे ज्ञानाज्ञाने तयोर्विवेकः, तस्य बोद्धुमिच्छा बुभुत्सा तया। शास्त्रार्थो मदुक्तः शिष्येणार्जुनेन ज्ञातो वा, उताज्ञात इतीममंशं विविच्य ज्ञातुं पृच्छति कृष्ण इत्यर्थः। किं तत्फलम्? अत आह—तदिति। तदग्रहणे शास्त्रार्थस्याग्रहणे, शिष्यस्येति शेषः। ज्ञाते सति मदुक्तमर्थं शिष्योऽयं नावैदिति ज्ञाने सतीत्यर्थः। उपायान्तरेण शास्त्रार्थं ग्राहयिष्याम्यर्जुनेनेति प्रष्टुः कृष्णस्याशयः। अनेन चाचार्यधर्मः शिक्षितो भवतीत्याह—यत्नान्तरमिति। यद्येकेनोपायेनोक्तेन शिष्यः कृतार्थो न भवति, तर्ह्युपाया- न्तरेणापि शिष्यः कृतार्थीकर्तव्यः आचार्येणेत्यर्थः। हे पार्थ ! त्वयैकाग्रेण चेतसा एतत् श्रुतं कच्चित्? हे धनञ्जय ! तेऽज्ञानसम्मोहः प्रणष्टः कच्चित्? श्रोत्रेन्द्रियसत्त्वादर्जुनस्य श्रुतमिति प्रश्नोऽनर्थकः, अत आह—श्रवणेनावधारितमिति। मदुक्तं सर्वं श्रुत्वा स्वकर्तव्यार्थं निश्चितवान् किमित्यर्थः। एकाग्रेण चेतसा सावधानमनसेत्यर्थः। तदेवाह—अप्रमादत इति। प्रमादोऽनवधानता, तदभावोऽप्रमादः, ततोऽप्रमादतः। अज्ञानात् सम्मोहोऽज्ञानसम्मोहः, पञ्चमीति योगविभागात् समासः; यद्वा शाकपार्थिवादित्वादुत्तरपदलोपसमासः। इदमेवाह—अज्ञाननिमित्तः सम्मोहोऽज्ञानसम्मोह इति। अज्ञानं निमित्तं कारणं यस्य सोऽज्ञाननिमित्तः। अविविक्तभावो विविक्तं विवेकः, स यस्य नास्ति सोऽविविक्तः, तस्य भावोऽविविक्तभावः अविवेकित्वम्। अविवेकस्वभाव इति यावत्। अयं चाविवेकः कार्याकार्यविषयः, आत्मानात्मविषयो वा; उभयविधस्याप्यविवेकस्यात्मनिष्ठस्यार्जुनेनादौ दर्शितत्वात्। ‘पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः’ इति। यदर्थ इति। यदज्ञानसम्मोहनिवृत्त्यर्थ इत्यर्थः। ते तुभ्यमिति। तदर्थ[त्वदर्थ]मित्यर्थः। त्वां शोचयितुं प्रवृत्त इति यावत्। ते तवेति वा भाष्यपाठः। त्वद्बुद्धिगत इत्यर्थः। धनञ्जयेति। धनञ्जयस्य तव मदुपदेशेन मोहजयः सुकर एवेति भावः ॥७२॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

कच्चिदेतच्छ्रुतं पार्थ !त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय !॥७२॥

शृणुयादपि यो नरः, अपिशब्दात् किमुतार्थज्ञानवान् , सोऽपि पापाद् मुक्तः शुभान् प्रशस्तान् लोकान् प्राप्नुयात् पुण्य- कर्मणाम् अग्निहोत्रादिकर्मवताम्॥७१॥

शिष्यस्य शास्त्रार्थग्रहणाग्रहणविवेकबुभुत्सया पृच्छति। तदग्रहणे ज्ञाते पुनर्ग्राहयिष्याम्युपायान्तरेणापीति प्रष्टुरभिप्रायः। यत्नान्तरं चास्थाय १शिष्यः कृतार्थः कर्तव्यः इत्याचार्यधर्मः प्रदर्शितो भवति। कच्चिदिति। कच्चित् किम् एतद् मयोक्तं श्रुतं श्रवणेनावधारितं, हे पार्थ ! किं त्वयैकाग्रेण २चेतसा चित्तेन? किं वा प्रमादितम्? कच्चिद् अज्ञानसम्मोहः अज्ञाननिमित्तः सम्मोहो ३विचित्तभावोऽविवेकः स्वाभाविकः किं प्रनष्टः? यदर्थोऽयं शास्त्रश्रवणायासस्तव, मम चोपदेष्टृत्वायासः प्रवृत्तः, ते ४तव, हे धनञ्जय !॥७२॥ आचार्येण शिष्याय यावदज्ञानसंशयविपर्यासः, तावदनेकधोपदेष्टव्यमिति दर्शयितुं भगवानर्जुनं पृष्टवानित्याह—शिष्यस्येति। प्रष्टुरभिप्रायं प्रकटयति—तदग्रहण इति। शिष्यश्चेद् उक्तं ग्रहीतुं नेष्टे, तर्हि तं प्रत्यौदासीन्यमाचार्यस्योचितम् , तस्य मन्दबुद्धित्वादित्या- शङ्क्याह— यत्नान्तरमिति। कच्चिदिति ५कोमलप्रश्ने। तमेव व्याचष्टे—किमेतदिति। द्वितीयं किम्पदं पूर्वस्य व्याख्यानतया सम्बध्यते। कच्चिदिति द्वितीयं प्रश्नं विभजते—किं प्रनष्ट इति। मोहप्रणाशस्य प्रसङ्गं दर्शयति—यदर्थ इति॥७२॥

[आनन्दगिरिकृतव्याख्या]

१. ‘शिष्यस्य कृतार्थता कर्तव्या’ इति पा.। २. ‘चेतसा चित्तेनाप्रमादतः’ रा.पा.। ‘किं वा प्रमादतः’ इति पा.। ३. ‘अविविक्तभावः’ इति पा.। यथाश्रुतपाठस्तु मुह वैचित्त्ये इति धातुपाठानुसारी। ४. ‘तुभ्यम्’ इति पा.। तस्य उपदेशेऽन्वयः। यथाश्रुतपाठे तव संमोह इत्यन्वयः। ५. ‘प्रशस्तप्रश्ने’ इति पा.। अ. १८. श्लो. ७० - ७२ ]

[[१०१४]]

नष्ट इति। हे अच्युत ! त्वत्प्रसादाद् मम मोहो नष्टः; मया स्मृतिर्लब्धा; त्वच्छासने स्थितोऽस्मि; गतसन्देहश्चास्मि; तव वचनं करिष्ये; गतसन्देहःसन् त्वच्छासने स्थितोऽस्मि वा। मोहोऽविवेकः। कस्मादुदितोऽयम्? अत आह—अज्ञानज इति। किमस्य कृत्यम्? अत आह—संसारेति। न चायं मोहनाशः सुकर इत्याह—सागर इवेति। दुरुत्तरः दुःखेनाप्युत्तर्तुमशक् य इत्यर्थः। किंविषया स्मृतिः? अत आह—आत्मेति। आत्मतत्त्वस्मरणं जातमित्यर्थः। अनेन कृष्णोपदेशात्प्रागप्यर्जुनस्यात्मतत्त्वज्ञानं परोक्षप्रायम् अस्त्येव। तत्तु मोहेनाच्छादितं मेघेन सूर्य इव। भगवदुपदेशान्मोहनाशे सति पुनस्तत्स्मरणं जातमिति सूच्यते। यद्वा स्मृतिरिह ज्ञानमेवेति बोध्यम्। अथवा यत्त्वयोपन्यस्तमात्मतत्त्वं तदिदानीं स्मर्यत इत्यर्थः। एतेन स्मृतिजनकसंस्कारवत्तया सुदृढमर्जुनस्यात्म- ज्ञानमिति सूच्यते। स्मृतिफलमाह—यस्या इति। हृदयग्रन्थीनां कामानां विशेषेण प्रकर्षेण मोक्षो विप्रमोक्षो, नाश इति यावत्। मोह- नाशप्रश्नप्रतिवचनेनेति। ‘मोहो नष्टः कि’मिति प्रश्नः, ‘मोहो नष्टः’ इति तत्प्रतिवचनं च, तेनेत्यर्थः। एतावदेवेति। मोहनाशमात्रमेवे- त्यर्थः। यतो यस्माज्ज्ञानात् शास्त्रार्थभूतब्रह्मात्मज्ञानादित्यर्थः। आत्मस्मृतिरात्मस्वरूपस्मरणं यत्प्रागज्ञानाद् विस्मृतमिव स्थितं तस्यात्मस्वरूपस्य सच्चिदानन्दलक्षणस्य स्मरणमित्यर्थः। तत्साक्षात्कार इति यावत्। तल्लाभश्चेत्येतावदेव शास्त्रार्थज्ञानफलमित्यर्थः। यस्माज्ज्ञानान्मोहनाश आत्मस्मृतिलाभश्च भवति, तस्माच्छास्त्रार्थज्ञानस्यैतावदेव फलमित्यर्थः। अनयोरपि मोहनाशमात्रमेव फलं सति तस्मिन्नात्मस्मृतेः स्वत एव जायमानत्वादिति बोध्यम्। ‘अनात्मविच्छोचामि तं मा भगवः शोकस्य पारं तारयतु’ इत्यादिरिहानु- सन्धेयः। तत्र विद्यादशायामेकत्वमात्मैक् यमनुपश्यतो विदुषः को मोहः? कः शोकः? शोकमोहौ द्वावपि न स्त इत्यर्थः। वचनमिति। त्वदुक्तमर्थं करिष्य इत्यर्थः। युद्धं करिष्यामीति यावत्। ‘कुरु कर्मैव तस्मात् त्व’मित्युक्तत्वादिति भावः। भाष्यार्कप्रकाशः प्रेमोपदिष्टात्मज्ञानस्य अज्ञानसन्देहविपर्यासरहितस्य पृष्टस्य २भगवदनुग्रहात् प्राप्तिकथनेन भगवन्तं परितोषयिष्यन्नर्जुनो विज्ञापितवानित्याह—अर्जुन इति। अज्ञानोत्थस्याविवेकस्य नष्टत्वमेव स्पष्टयति—समस्त इति। स्वयञ्ज्योतिषि प्रतीचि ब्रह्मण्यविद्याभ्रमं विद्याऽपनयति, नाविदितं प्रकाशयतीति मत्वाऽऽह—स्मृतिश्चेति। स्मृतिलाभे किं स्यादिति चेत् , तदाह—यस्या इति। मोहनाशे स्मृति- प्रतिलम्भे चासाधारणं कारणमाह—त्वत्प्रसादादिति। प्रकृतेन प्रश्नप्रतिवचनेन लब्धमर्थं कथयति—अनेनेति। यदुक्तं स्मृतिप्रतिलम्भा- दशेषतो हृदयग्रन्थीनां विप्रमोक्षः स्यादिति, तत्र प्रमाणमाह—तथा चेति। ज्ञानादज्ञानतत्कार्यनिवृत्तौ श्रुत्यन्तरमपि संवादयति—भिद्यत इति। भगवदनुग्रहादज्ञानकृतमोहदाहानन्तरमात्मज्ञाने प्रतिलब्धे त्वदाज्ञाप्रतीक्षोऽहमित्युत्तरार्धं व्याकरोति—अथेति। तव वचनं करिष्ये- नष्ट इति। नष्टो मोहोऽज्ञानजः समस्तसंसारानर्थहेतुः सागर इव १दुस्तरः। स्मृतिश्चात्मतत्त्वविषया लब्धा, यस्या लाभात् सर्वहृदयग्रन्थीनां विप्रमोक्षः। त्वत्प्रसादात् तव प्रसादात् मया त्वत्प्रसादमाश्रितेन, अच्युत ! । अनेन मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलमेतावदेवेति निश्चितं दर्शितं भवति, यतो ज्ञानान्मोहनाश आत्मस्मृति- लाभश्चेति। तथा च श्रुतौ ‘अनात्मवित्…शोचामि’(द्र.छा.उ.७.१.३) इत्युपन्यस्यात्मज्ञानेन सर्वग्रन्थिविप्रमोक्ष उक्तः। ‘भिद्यते हृदयग्रन्थिः’(मु.उ.२.२.८) ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’(ई.उ.७) इति च मन्त्रवर्णः। अथेदानीं त्वच्छासने स्थितोऽस्मि गतसन्देहो मुक्तसंशयः। करिष्ये वचनं तव। अहं त्वत्प्रसादात् कृतार्थः, न मे कर्तव्यम् अर्जुन उवाच— नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत !। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥७३॥

[आनन्दगिरिकृतव्याख्या]

१. ‘दुरुत्तरः’ इति पा.। २. ‘भगवदनुग्रहप्राप्ति’ इति पा.।

[[१०१५]]

ननु साक्षात् परमेश्वरस्य श्रीकृष्णस्योपदेशादर्जुनः किं कृतार्थः, उताकृतार्थः? आद्ये, ‘युद्धं करिष्ये’ इत्यर्जुनवचनमयुक्तं, युद्धस्य कर्तव्यत्वेनावशेषे सति कृतकृत्यत्वाभावात्। द्वितीये, यदि साक्षाच्छ्रीकृष्णेनोपदिष्टगीताशास्त्रार्थोऽप्यर्जुनोऽकृतार्थस्तर्हि अर्वा- चीनैर्गुरुभिरुपदिष्टगीतार्थानां शिष्याणां कथं कृतकृत्यत्वं स्यात्? न कथमपीत्याशङ्कायामाह—अहमिति। ननु ‘करिष्ये वचनं तवे’ति कण्ठत उक्तत्वात् कथं मम कर्तव्यं नास्तीत्यभिप्रायस्य सिद्धिरिति चेत् , उच्यते— त्वत्प्रसादा- दात्मस्मृतिलाभेन मम सर्वकामप्रहाणात् कृतार्थ एवाहम् , मम चाविक्रियस्यात्मनः किमपि न कर्मास्ति, लोकसंग्रहार्थं भूभारहरणार्थ- तया आवयोरवतीर्णत्वेन तत्प्रारब्धानुगुणं तत्प्रारब्धक्षपणार्थं च क्षत्रियस्वभावसिद्धं युद्धाख्यं कर्म, भवानिव लोकसृष्ट्यादिकं कर्म, करिष्ये केवलं लीलयेति पार्थस्याशयात्। आचार्यकर्तृकशास्त्रार्थोपदेशस्य कृतार्थोऽहमिति शिष्यवचनश्रवणमेवावसान-मित्यभिप्रेत्याह— परिसमाप्तः शास्त्रार्थ इति ॥७३॥

इतीति। अहं रोमहर्षणमद्भुतमि(ती)मं महात्मनो वासुदेवस्य पार्थस्य च संवादमश्रौषम्॥७४॥

व्यासेति। अहं साक्षात् स्वयं कथयतो योगेश्वरात् कृष्णाद् व्यासप्रसादाद् गुह्यतमं परं योगमिमं श्रुतवान्। कोऽसौ व्यासप्रसादः? अत आह—दिव्यचक्षुर्लाभादिति। दिव्यचक्षुर्दानरूपव्यासप्रसादादित्यर्थः। अतिव्यवहितमपि दुर्दर्शमर्थमव्यवहितमिव येन पश्यति तद् दिव्यचक्षुः, योगिनां स्वाभाविकमिदं चक्षुः। अत एवातीन्द्रियार्थदर्शिनो योगिनः। इदंशब्दार्थमाह—संवादमिति। ग्रन्थमित्यर्थः। ग्रन्थस्य कथं योगत्वम्? अत आह—योगार्थत्वादिति। योगः कर्मयोगज्ञानयोगोभयात्मकः; स एवार्थोऽभिधेयो यस्य भाष्यार्कप्रकाशः सञ्जय उवाच— इत्यहं वासुदेवस्य पार्थस्य च महात्मनः। संवादमिममश्रौषम् अद्भुतं रोमहर्षणम्॥७४॥

व्यासप्रसादाच्छ्रुतवानेतद्१ गुह्यमहं परम्। अस्तीत्यभिप्रायः॥७३॥

परिसमाप्तः शास्त्रार्थः। अथेदानीं कथासम्बन्धप्रदर्शनार्थं सञ्जय उवाच— इतीति। इति एवम् अहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमं यथोक्तम् अश्रौषं श्रुतवानस्मि अद्भुतम् अत्यन्तविस्मयकरं रोमहर्षणं रोमाञ्चकरम् ॥७४॥

तं चेमम्— व्यासप्रसादादिति। व्यासप्रसादात् ततो दिव्यचक्षुर्लाभात् श्रुतवान् [एतद्] १एतं संवादं गुह्यतमं ऽहमित्यत्र तात्पर्यमाह—अहमिति॥७३॥

शास्त्रार्थे समाप्ते सत्यस्यामवस्थायां सञ्जयवचनं कुत्रोपयुक्तमिति? तदाह—परिसमाप्त इति। वासुदेवस्य सर्वज्ञस्य सर्वेश्वरस्य कृतार्थस्य पार्थस्य पृथासुतस्यार्जुनस्य महात्मनः अक्षुद्रबुद्धेः सर्वाधिकारिगुणसम्पन्नस्य सम्यञ्चं वादं संवादं गुरुशिष्यभावेन प्रश्नप्रति- वचनाभिधानम् इमम् अनुक्रान्तम् अद्भुतं विस्मयकरं रोमाणि हृष्यन्ति पुलकीभवन्त्यनेनेति रोमहर्षणम् २आह्लादकरं यथोक्तं श्रुतवा- नस्मीत्याह—इत्येवमिति॥७४॥

प्रकृष्टं संवादं कथमश्रौषीरिति चेत् , तत्राह—तं चेति। एतत्पदं संवादपरत्वात् पुंलिङ्गत्वेन नेतव्यमित्याह—एतमिति। परम- पुरुषार्थौपयिकत्वात् परत्वम्। परं गुह्यम् अतिशयेन गुह्यं रहस्यमिति वा। ३योगो ज्ञानं कर्म च, तदर्थत्वादयं संवादो योग उक्तः। अथवा आनन्दगिरिकृतव्याख्या १. ‘इमं’ इति मूले भाष्ये च पा.। २. ‘आह्लादकं’ इति पा.। ३. संवादे योगशब्दप्रयोगमुपपादयति— योग इति। अ. १८. श्लो. ७३ - ७५ ]

[[१०१६]]

तत्त्वात्। अत एवास्य योगशास्त्रत्वमिति भावः। योगप्रतिपादकं शास्त्रं हि योगशास्त्रम्। न चात्मसंयमयोगादयो बहव इहोक्ता इति कृत्वा किमिति कर्मज्ञानयोगद्वयमेव त्वयोक्तमित्युच्यत इति वाच्यम् ; सर्वेषां योगानां तदुभयेऽन्तर्भावात्। व्याख्यानान्तरमाह— संवादमिति। संवादरूपमिमं योगमित्यर्थः। योगेश्वरादिति। कर्मयोगज्ञानयोगफलप्रदात् तन्निर्वाहकाच्चेत्यर्थः। न हीश्वरानुग्रहाभावे कर्मयोगे ज्ञानयोगे वा प्रवृत्तः पुरुषस्तत्पारं पश्येदिति भावः। साक्षात् स्वयं कथयत इत्यस्यार्थमाह—न परम्परयेति। एतेन नात्र ग्रन्थ- लोपतद्विस्तराद्याशङ्का कार्येति सिद्धम्॥७५॥

राजन्निति। हे राजन् ! इमं पुण्यमद्भुतं केशवार्जुनयोः संवादं संस्मृत्य संस्मृत्य मुहुर्मुहुर्हृष्यामि च। संस्मृत्य संस्मृत्येति नित्यार्थे द्विर्भावः। कदा संस्मृत्येत्यत आह—प्रतिक्षणमिति। क्षणे क्षण इत्यर्थः। श्रवणेनापीति। किं पुनस्तदर्थानुष्ठानेनेति भावः। गीताशास्त्रस्याबन्धकत्वात् पुण्यप्रदमिति नोक्तम् , किन्तु पापहरमित्युक्तमिति बोध्यम्। हृष्यामि हर्षं प्राप्नोमि॥७६॥

तच्चेति। हे राजन् ! तच्चात्यद्भुतं हरेः रूपं संस्मृत्य संस्मृत्य मे महान् विस्मयो भवति; पुनःपुनः हृष्यामि च॥७७॥

यत्रेति। एवं सञ्जयोक्तं श्रुत्वाऽपि दुर्योधनविजयाकाङ्क्षिणं सर्वात्मनाऽन्धं धृतराष्ट्रं दृष्ट्वा प्राह सञ्जयः— यत्रेति। यत्र योगेश्वरः भाष्यार्कप्रकाशः १. ‘इमं श्रवणेनापि’ इति पा.। योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम्॥७५॥

राजन् !संस्मृत्य संस्मृत्य संवादमिममद्भुतम्। केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥७६॥

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः। विस्मयो मे महान् राजन् ! हृष्यामि च पुनः पुनः॥७७॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। परं योगं योगार्थत्वाद् ग्रन्थोऽपि योगः। संवादमिमं योगमेव वा। योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् , न परम्परया॥७५॥

राजन्निति। हे राजन् धृतराष्ट्र !संस्मृत्य संस्मृत्य प्रतिक्षणं संवादमिममद्भुतं केशवार्जुनयोः पुण्यं १श्रवणादपि पापहरं श्रुत्वा हृष्यामि च मुहुर्मुहुः प्रतिक्षणम्॥७६॥

तदिति। तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः विश्वरूपम् , विस्मयो मे महान् , राजन् ! हृष्यामि च पुनः पुनः॥७७॥

किं बहुना? — यत्रेति। यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानामीश्वरः, तत्प्रभवत्वात् सर्वयोगबीजस्य, चित्तवृत्तिनिरोधस्य योगस्याङ्गत्वादयं संवादो योग इत्याह—संवादमिति। योगानामीश्वरो योगेश्वरः, तदनुग्रहहेतुत्वाद् योगतत्फलयोः। ततः साक्षाद् अव्यवधानेन श्रुतवान् , न परम्परयेत्याह—योगेश्वरादिति। स्वयं स्वेन पारमेश्वरेणातिरस्कृतज्ञानैश्वर्यरूपेण कथयतो व्याचक्षाणादित्यर्थः॥७५॥

यथोक्तं संवादं भगवतः श्रुत्वा किमुपेक्षसे? नेत्याह—राजन्निति। पुण्यत्वं साधयति—श्रवणादपीति॥७६॥

यत्तु विश्वरूपाख्यं रूपं सगुणमर्जुनाय भगवान् दर्शितवान् ध्यानार्थम् , तदिदानीं स्तौति—तच्चेति॥७७॥

[आनन्दगिरिकृतव्याख्या]

[[१०१७]]

कृष्णोऽस्ति, यत्र धनुर्धरः स पार्थोऽस्ति, तत्र श्रीर्विजयो भूतिर्नीतिश्च ध्रुवेति मम मतिः। सर्वेषां योगानां यद्बीजं कारणं गीताशास्त्रं तस्य तत्प्रभवत्वात् स कृष्णः प्रभवः कारणं यस्य तत्त्वात् ; कृष्णेनोक्तत्वादित्यर्थः। यद्वा सर्वस्यापि योगलक्षणस्य बीजस्य तत्प्रभवत्वात्। अथवा सर्वेषामपि योगिनां यद्योगबीजमस्ति, तस्य तत्प्रभवत्वात् ; यद्वा सर्वयोगबीजस्य सत्त्वगुणस्य तत्प्रभवत्वात् सर्वमपि योगात्मकं बीजम् ; तस्मादीश्वरानुग्रहादित्यर्थः; प्रभवति वर्धते अङ्कुरीभवतीति वा तत्प्रभवं, तस्य भावस्तत्प्रभवत्वं, तस्मात् ; यद्वा योगो बीजं यस्य तद् योगबीजम् , सर्वं च तद् योगबीजं च सर्वयोगबीजं तस्य सर्वस्यापि योगफलस्येत्यर्थः। तत्प्रभवत्वाद् ईश्वरजन्यत्वाद् , ईश्वराधीनत्वादिति यावत्। नास्य धनुः सर्वसाधारणमिति द्योतयितुमाह—गाण्डीवधन्वेति। गाण्डीवं धनुर्यस्य स गाण्डीवधन्वा। श्रीः सम्पद् ध्रुवा। विजयो जयो ध्रुव इति लिङ्गविपरिणामेन योज्यम्। भूतिशब्दार्थमाह—श्रियो विशेष इति। सम्पद्विस्तार इत्यर्थः। ध्रुवा अव्यभिचारिणी; सत्येत्यर्थः। शाश्वतेति वा। राज्ञः समीपे भृत्यस्य विनयेन भवितव्यत्वात् ‘ध्रुवा नीतिरिति ध्रुव’मिति नोक्तम् ; किन्तु ‘मतिर्ममे’त्युक्तम्। कृष्णार्जुनवति पक्षे श्रीविजयादिकं वस्तुतो भविष्यतु[ति] वा, मा वा। मम तु भविष्यत्येवेति प्रतिभातीति विनय- प्रदर्शनम्। वस्तुतो भविष्यत्येवेति निश्चय एव सञ्जयस्य, दृष्टकृष्णमाहात्म्यत्वाद् विश्वरूपप्रसङ्गे - इतीदमभिप्रेत्याह भगवान् भाष्य- कारः— मम त्विति। तुशब्दादन्येषां भवदादीनामन्यथा प्रतिभातु नामेति सूच्यते। ममेति इति भाष्यपाठे तु इतिशब्दो भाष्यसमाप्ति- वाचीति बोध्यम्॥७८॥

इति श्री बेल्लंकोण्डोपनामकरामकविवरकृते श्रीमच्छाङ्करभगवद्गीताभाष्यार्कप्रकाशेऽष्टादशोऽध्यायः। समाप्तोऽयं ग्रन्थः। ॥सौम्यज्येष्ठामायामर्पितश्च श्रीहयवदनाय॥

मोक्षसंन्यासयोगो मोक्षप्रदकर्मसंन्यासयोगप्रतिपादक इत्यर्थः। सर्वधर्मानिति चरमश्लोके तस्यैव प्रतिपादितत्वादिति भावः। ***** भाष्यार्कप्रकाशः तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥७८॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः॥१८॥

कृष्णः, यत्र पार्थो यस्मिन् पक्षे धनुर्धरो गाण्डीवधन्वा, तत्र श्रीः तस्मिन् पाण्डवानां पक्षे श्रीः, विजयः, तत्रैव भूतिः श्रियो विशेषो विस्तारो भूतिः ध्रुवा अव्यभिचारिणी नीतिः नयः इत्येवं मतिर्ममेति१॥७८॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये मोक्षसंन्यासयोगो नामाष्टादशोऽध्यायः॥१८॥

द्वयोरपि कृष्णार्जुनयोर्नरनारायणयोः संवादस्य प्रामाण्यार्थं परममुत्कर्षं दर्शयति—किं बहुनेति। कथं सर्वेषां योगानामीश्वरो भगवानिति, तत्राह—तत्प्रभवत्वादिति। सर्वयोगो ज्ञानं कर्म च, तस्य बीजं शास्त्रीयं ज्ञानवैराग्यादि , तद्धि भगवदधीनं तदनुग्रहविहीनस्य तदयोगात्। अतो योगतत्फलयोर्भगवदनुग्रहायत्तत्वाद् भगवतो योगेश्वरत्वमित्यर्थः। श्रीः लक्ष्मीः, विजयः परमः उत्कर्षः। राज्ञो धृतराष्ट्रस्य स्वपुत्रेषु विजयाशां शिथिलीकृत्य पाण्डवेषु जयप्राप्तिमैकान्तिकीमुपसंहरति—इत्येवमिति। उपायोपेयभावेन निष्ठाद्वयस्य प्रतिष्ठापितत्वात् कर्मनिष्ठा परम्परया ज्ञाननिष्ठाहेतुः, ज्ञाननिष्ठा तु साक्षादेव मोक्षहेतुरिति शास्त्रार्थमुपसंहर्तुम् इतीत्युक्तम्॥७८॥

***** आनन्दगिरिकृतव्याख्या अ. १८. श्लो. ७५ - ७८ ] १. भाष्ये— ‘मम तु’ इति रा.पा. भाति।

[[१०१८]]

[आनन्दगिरिकृतव्याख्या]

श्रीकृष्णलीला उपवर्ण्य कृष्णलीलातरङ्गिण्यभिधे प्रबन्धे। श्रीकृष्णगीतार्थमवर्णयद् य एवं स रामोऽहमहो ! कृतार्थः॥१॥

श्रीकृष्णपादाब्जमरन्दपानात् कृष्णस्वरूपामृतपानतश्च। तृप्तस्य रामस्य कवेः प्रकाशः प्रकाशतामारवि४ माधवाप्तः॥२॥

श्रीकृष्णभक्त्या क्रियते बताज्ञोऽप्यात्मज्ञ इत्यत्र ५कविं प्रमाणम्। विज्ञाय कृष्णे सगुणेऽगुणे वा भक्तिं मुमुक्षुर्वितनोतु नित्यम्॥३॥

***** भाष्यार्कप्रकाशः काण्डत्रयात्मकं शास्त्रं १पदवाक् यार्थगोचरम्। आदिमध्यान्तषट्केषु व्याख्याया गोचरीकृतम्॥१॥

२सङ्क्षेपविस्तराभ्यां यो लक्षणैरुपपादितः। सोऽर्थोऽन्तिमेन संक्षिप्य लक्षणेन विवक्षितः॥२॥

३गीता शास्त्रमहार्णवोत्थममृतं वैकुण्ठकण्ठोद्भवं श्रीकण्ठापरनामवन्मुनिकृतं निष्ठाद्वयद्योतितम्। निष्ठा यत्र मतिप्रसादजननी साक्षात्कृतं कुर्वती मोक्षे पर्यवसास्यति प्रतिदिनं सेवध्वमेतद् बुधाः!॥३॥

प्राचामाचार्यपादानां पदवीमनुगच्छता। गीताभाष्ये कृता टीका टीकतां पुरुषोत्तमम्॥४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्यानेऽष्टादशोऽध्यायः॥१८॥

१. पदार्थौ महावाक्यघटकत्वम्पदार्थतत्पदार्थौ, वाक्यार्थः तदभेदः, तत्प्रतिपादकं क्रमेण काण्डत्रयमिति भावः। २. अष्टादशाध्यायतात्पर्यमाह—संक्षेपेति। लक्षणम् अध्यायः। ३. अतिगम्भीरमहार्णवसदृशसर्वशास्त्रार्थसाररूपत्वात् गीतायाः अमृतत्वरूपणम्। वैकुण्ठः श्रीकृष्णः, तन्मुखनिःसृतम्। श्रीकण्ठापरनामवन्मुनिः व्यासः, तेन निबद्धम्। ‘तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो भगवान् गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध’ इति भाष्यात् , ‘व्यासेन ग्रथितां पुराणमुनिना’ इति पुराणवचनाच्च। व्यासस्य श्रीकण्ठनामवत्त्वे प्रमाणमन्वेष्यम्। केचित् श्रीकण्ठापरनामशिवावतारभगवत्पादीयभाष्यपरतया इदं विशेषणं योजयन्ति। तत्र गीतामृतस्य भाष्येणाभेदोपचारः कल्प्यः। यत्र गीतायाम् , निष्ठा तत्परतयाऽर्थानुसंधानम् , साक्षात्कृतं साक्षात्कारम् । शेषं स्पष्टम्। ४. रविः सूर्यः, तत्स्थितिपर्यन्तम्। माधवेन परमात्मना आप्तः। ५. कविः= रामरायकविः। अनुभूतिस्वरूपाचार्य - श्रीमदानन्दगिरि - श्रीबेल्लंकोण्डरामरायकविविरचित-व्याख्योपबृंहित-श्रीमच्छाङ्करभाष्योपेता श्रीमद्भगवद्गीता श्रीमद्भगवद्गीता श्रीमद्भगवद्गीता ***** ***** *****

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

श्रीमद्धयग्रीवपदारविन्द ५मारन्दसानन्दमनोमिलिन्दः। रामः कविर्व्याप्रियते यथार्थगीतार्थभाष्यार्थविमर्शनार्थे ॥

अस्ति खलु भुवि समस्तास्तिकजनैरपौरुषेयतया स्वतःप्रमाणतया चाभ्युपगतः परमेश्वराज्ञारूपः स्मृत्यादिमूलप्रमाणं वेदः इति महच्छास्त्रम्। अनेन हि शास्यते - ‘अहरहः सन्ध्यामुपासीत’ ‘यावज्जीवमग्निहोत्रं जुहुयात्’ ‘न परदारान् गच्छेत्’ ‘न सुरां पिबेत्’ इत्यादिविधिनिषेधसन्ततिः। अयं च पूर्वोत्तरभागद्वयात्मकः। तत्र कर्म(काण्ड)प्रतिपादकः पूर्वो भागः, यस्यैव मीमांसा जैमिनिना कृता ‘अथातो धर्मजिज्ञासा’ इत्यादिना, पूर्वमीमांसाशास्त्रमिति व्यवह्रियते। साध्यधर्मप्रतिपादकश्चायमभ्युदयहेतुः, चित्तशुद्धिजनकतया ज्ञानोत्पत्तिहेतुश्च। एतदुक्तकर्ममार्ग एव ‘कर्मयोगेन योगिनाम्’ इति गीताशास्त्रे कर्मयोग इति प्रतिपादितः। अथ ज्ञान(काण्ड)प्रतिपादक उत्तरो भागः, यस्यैव मीमांसा व्यासेन कृता ‘अथातो ब्रह्मजिज्ञासा’ इत्यादिना, उत्तरमीमांसा- शास्त्रमिति व्यवह्रियते। सिद्धब्रह्मप्रतिपादकश्चायं मोक्षहेतुः साक्षादिति। एतदुक्तज्ञानमार्ग एव ‘ज्ञानयोगेन सांख्यानाम्’ इति गीताशास्त्रे ज्ञानयोग इति प्रतिपादितः। अस्यैवोत्तरभागस्य ‘उपनिषदः’ इति जन्मजरामरणादिदुःखनिशातनाद्, ब्रह्मप्रापकत्वाच्च व्यवहारः। तत्तद्वेदशाखान्तत्वाच्च ‘वेदान्ताः’ इति व्यवहारः। आसां चोपनिषदां प्रधानतात्पर्यं ब्रह्मात्मैक्यप्रतिपादन एवेति कृत्वा अद्वितीयं ब्रह्मैवासां विषयः। स च मुखत एवाभिहितः— ‘एकमेवाद्वितीयं ब्रह्म’ इति। लक्षणया च प्रत्यपादि – ‘तत्त्वमसि’ ‘अयमात्मा ब्रह्म’ ‘अहं ब्रह्मास्मि’ ‘प्रज्ञानं ब्रह्म’ इति। भागत्याग- लक्षणया हि महावाक्यानामेतेषाम् अखण्डं ब्रह्मैवार्थः। एतदुपनिषदर्थप्रतिपादनपरत्वादेव भगवद्गीतानाम् उपनिषत्त्वव्यवहारः— ‘भगवद्गीतासूपनिषत्सु’ इति। अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् सच्चिदानन्दरूपाय कृष्णायाक्लिष्टकारिणे। नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे॥

गीताशास्त्रं व्याचिख्यासुर्भगवान् भाष्यकारः विघ्नोपशमनादिप्रयोजनसिद्ध्यर्थं ‘स्मृते सकलकल्याणभाजनं यत्र जायते’ इत्यादिस्मृतिविहितनारायणानुस्मरणं मङ्गलं चिकीर्षुः पुराणान्तर्गतमेव श्लोकं पठति स्म, पुराणानामपि गीतार्थ- आनन्दगिरिकृतव्याख्या दृष्टिं मयि विशिष्टार्थां१ कृपापीयूषवर्षिणीम्। हेरम्ब! देहि प्रत्यूह२क्ष्वेडव्यूहनिवारिणीम्॥१॥

यद्वक्त्रपङ्केरुहसंप्रसूतं निष्ठामृतं३ विश्वविभागनिष्ठम्। ४साध्येतराभ्यां परिनिष्ठितान्तं तं वासुदेवं सततं नतोऽस्मि॥२॥

प्रत्यञ्चमच्युतं नत्वा गुरूनपि गरीयसः। क्रियते शिष्यशिक्षायै गीताभाष्यविवेचनम्॥३॥

कर्मनिष्ठा ज्ञाननिष्ठेत्युपायोपेयभूतं निष्ठाद्वयमधिकृत्य प्रवृत्तं गीताशास्त्रं व्याचिख्यासुर्भगवान् भाष्यकारो विघ्नोपप्लवोपशमनादि- ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने । व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः॥

१.विशिष्टः अर्थः प्रयोजनं मोक्षो ग्रन्थसमाप्त्यादि च यस्यास्ताम्। २. प्रत्यूहो विघ्न एव क्ष्वेडो विषम्। व्यूहः समूहः। ३.गीतामृतमिति पा.। यथास्थितपाठे कर्म- निष्ठा ज्ञाननिष्ठा चामृतमिव, परम्परया साक्षाच्चामृतत्वसाधनत्वात्। विश्वविभागनिष्ठम् = वर्णाश्रमादिप्रविभागेन जगत्स्थितिहेतुः। ४. साध्येन सिद्धेन च फलेन परिनिष्ठितः अन्तो यस्य। साध्यं फलं चित्तशुद्ध्यादि स्वर्गादि च, सिद्धं फलं मोक्षः, तत्र निष्ठाद्वयं पर्यवसितम्। ५. मरन्दः= मकरन्दः, स एव मारन्दः। तल्लाभेन सानन्दः मनोरूपो मिलिन्दः=भ्रमरः यस्य सः। मरन्द इत्येव वा पाठः स्यात् , ‘श्रीकृष्णपादाब्जमरन्दपानात्’ इति ग्रन्थान्तश्लोके दर्शनात्। ॐ श्रीदक्षिणामूर्तये नमः

[[२]]

तत्र प्रथमषट्के ‘न जायते म्रियते वा’ इत्यादिभिः त्वम्पदार्थजीवस्वरूपं शोधितम्। मध्यमषट्के ‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ इत्यादिभिः तत्पदार्थेश्वरस्वरूपं शोधितम्। चरमषट्के तु ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ इत्यादिभिरसिपदार्थो विवृतः। फलं च ‘ब्रह्मविद् ब्रह्मैव भवति’ इति ब्रह्मसायुज्यलक्षणं वेदान्तैर्मुखत एवाभिहितम्। गीताभिश्च – ‘मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते’ ‘मामैवैष्यसि’ इत्यादिना। ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वाऽऽत्मन्येवात्मानं पश्येदि’ति श्रुत्या शमादिसम्पन्नोऽधिकारी दर्शितः। गीतास्वपि— ‘तानि सर्वाणि संयम्य’ ‘तांस्तितिक्षस्व भारत’ इत्यादिना। किञ्च - अत्राधिकारिणा इहामुत्रफलभोगविरागिणा भवितव्यमित्येतदुपोद्घातग्रन्थसन्दर्भेण दर्शितम् – ‘न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च’ इत्यादिना। एवमधिकारिणा ‘तद्विज्ञानाय स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ इति श्रुत्या गुरूपसत्तिः कार्येति बोधितम्। अत्रापि उपोद्घातग्रन्थे ‘शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्’ इति। एवं शास्त्रस्य विषयप्रयोजनाधिकारिणो निरूपिताः। सम्बन्धस्तु विषयग्रन्थयोः प्रतिपाद्यप्रतिपादकभावरूपः, फलाधिकारिणोः प्राप्यप्राप्तृभावरूपः, फलग्रन्थयोः प्राप्य- प्रापकभावरूपः—उपेयोपायभावरूप इत्यर्थः; विषयाधिकारिणोर्ज्ञेयज्ञातृभावरूपः, ग्रन्थाधिकारिणोः अध्येयाध्येतृभावरूपः, विषयप्रयोजनयोः जन्यजनकभावरूपः इति। एवमुपनिषद्भिः सह गीतानां समानविषयादिमत्त्वादुपनिषदां भाष्यं रचितवता श्रीशङ्करावतारेण श्रीशङ्कराचार्येण गीतानामपि भाष्यं विरचितम्। न च व्यर्थमिदमिति मन्तव्यम् ; उपनिषदां गम्भीरहृदयत्वेन दुर्बोधत्वात् तदर्थं निश्चित्य संक्षिप्य भगवता बादरायणेन विष्ण्ववतारेण गीतानामुक्तत्वात् तथैव तद्भाष्यं रचनीयमेवेति। ‘शिवस्य हृदयं विष्णुर्विष्णोश्च हृदयं शिवः’ इति, ‘शङ्करः शङ्करः साक्षाद् व्यासो नारायणो हरिः’ इति च वचनाद् विष्ण्ववतारव्यासहृदयपरिज्ञानं शिवावतारशङ्करैकविषयमेवेति कृत्वा गीताभिप्रायः शङ्करभाष्यादेव ज्ञेयः; न तु रामानुजभाष्यादिभिः; तेषां श्रीशङ्करभाष्यनिन्दैकप्रधानोद्देशत्वात्। मूलाननुगतार्थत्वाद् वेदान्तविरुद्धत्वेना- प्रमाणत्वाच्च तद्भाष्याणाम्। तत्र च शङ्करभाष्यप्रतिपक्षभूतभाष्यमध्ये रामानुजभाष्यमेव प्रधानमिति प्रधानमल्लनिबर्हणन्यायेन रामानुजभाष्ये वेदान्त- देशिककृततात्पर्यचन्द्रिकासहिते श्रुतियुक्त्यादिभिर्विमृष्टे सति शङ्करभाष्यं निरवद्यमप्रतिभटं स्थितं स्यादित्येतदर्थमहमधुना मन्दमतिरपि श्रीहयग्रीवदेवकृपया श्रीशाङ्करभगवद्गीताभाष्यव्याख्याने प्रयुक्तः। किं नाम दुष्करमचिन्त्यविचित्रशक्तेर्भगवतः कृपायाः? तृणमपि श्रीरामेण निहितशक्तिकं ब्रह्मास्त्रमभवत् किल काकासुरे। ‘पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना। आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम्’ इति पञ्चलक्षणं व्याख्यानम्। इदं च मया मूलग्रन्थस्यापि श्रीशङ्कराचार्यैरकृतव्याख्यानस्य क्रियते। तैर्व्याख्यातश्लोकानां च पदान्वयः प्रदर्श्यते। अत्र च अशोच्यान् इत्यारभ्य किञ्चिदूनसप्तदशाध्यायात्मकं सर्वधर्मान् इत्यन्तमेव गीताशास्त्रम्। तदेव व्याकृतमाचार्यैः। अवशिष्टं तूपोद्घातरूपकथामात्रं स्पष्टार्थं चेति न व्याकृतम्। ननु शङ्करमते ग्रन्थारम्भ एव नोपपद्यते, गुरुशिष्यादिद्वैताभावादित्याह वेदान्तदेशिकः। तत्र २कोपपत्तिरिति चेद्? उच्यते— परत्वप्रकटनाय, पुराणव्याख्यातृसम्प्रदायप्रकटनाय च— नारायणः परोऽव्यक्ता[द्] इत्यादि। नराणां प्रतिबिम्बकल्पानां जीवानाम् अयनमधिष्ठानं बिम्बकल्पं ब्रह्म नरायणः। नरायण एव नारायणः। तद्धितोऽनन्यार्थः, १राक्षसवायसादिवत्। ननु

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

भाष्यार्कप्रकाशः श्रीमच्छांकरभाष्योपक्रमणिका नारायणः परोऽव्यक्तादण्डमव्यक्तसम्भवम्। अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी॥

१. रक्ष एव राक्षसः, वय एव वायस इतिवत् स्वार्थे तद्धितः अण् प्रत्ययः इत्यर्थः। २. उपपत्तिः= समाधानम्। उपोद्घातः ]

[[३]]

परमार्थदशायां द्वैताभावेऽपि व्यवहारदशायां तत्सत्त्वान्न ग्रन्थारम्भानुपपत्तिरिति। अस्ति हि द्वैतिनामपि समाध्यादौ द्वैताभावः, अन्यत्र द्वैतसत्त्वम्। किं बहुना? सर्वेषामपि प्राणिनां सुषुप्तौ द्वैताभावः, स्वप्नजागरयोस्तु द्वैतसत्त्वं चेति सर्वजनविदितमेव । ‘यत्र सर्वमात्मैवा- भूत् तत्र केन किं पश्येदि’ति श्रुतेः सुषुप्तिमुक्तिविषयत्वं ‘स्वाप्ययसम्पत्त्यो’रिति सूत्रेण व्यासेनैव स्थापितम्। न च - द्वैतसत्त्वे व्यवहारः, व्यवहारसत्त्वे द्वैतमित्यन्योन्याश्रय इति - वाच्यम् , अनादित्वादुभयोर्बीजाङ्कुरवत्। नाप्यज्ञजनाश्रयो व्यवहार इति वाच्यम् , लीलया जगज्जन्मादिषु व्यवहरतः ईश्वरस्याप्यज्ञत्वापत्तेः। तस्माद् द्वैताश्रय एव व्यवहारः, व्यवहाराश्रयमेव द्वैतम् ; यथा शब्दाश्रयोऽर्थः, अर्थाश्रयः शब्दश्च। उभयमपीदमद्वैते ब्रह्मणि मायया कल्पितमिति न ब्रह्मणो द्वैतप्रसङ्गः। वस्तुतस्तु प्रतिपक्षशिरस्येवायं दोषो वज्रप्रहारः प्रपतति। तथाहि– ईश्वरः प्रलयदशायां सूक्ष्मचिदचिद्विशिष्टः, प्रपञ्चदशायां तु स्थूलचिदचिद्विशिष्ट इति विशिष्टाद्वैतिनो वदन्ति। ततश्च सर्वदाऽपि चिदचिद्विशिष्ट एवेश्वर इति चिदचितोरीश्वरसायुज्यस्य नित्यसिद्ध- त्वान्निष्फलत्वेन तावदनारम्भणीयं विशिष्टाद्वैतमते वेदान्तशास्त्रम्। चितो जीवस्याचिद्विशिष्टेश्वरसायुज्यं चार्धांशेन ४स्थावरत्वं जन- यतीति पुनरनर्थप्रदञ्च। ईश्वरस्य चिदचितोरपृथक्सिद्धविशेषणत्वेन, स्वापृथक्सिद्धान् स्वानन्यांश्चेतनानुद्दिश्येश्वरस्योपदेशोऽपि न घटत इति कृष्णस्यार्जुनं प्रत्युपदेशानुपपत्तिश्च। अर्जुनश्चित् , शास्त्रमचित् , विशिष्टस्त्वीश्वरः इति स्थिते अर्जुनशास्त्रविशिष्ट ईश्वरोऽर्जुनायोप- दिशति शास्त्रमिति प्राप्तमिदमपार्थं खलु वाक्यम् , अर्जुनादिभिन्नस्यैव तदुपदेशक्रियान्वयौचित्यात्। न च लक्षणया विशेषणांशत्यागः, अपृथक्सिद्धयोर्विशेषणयोस्त्यागायोगात् , त्यागे सति विशेषणस्वरूपासिद्धेः। अर्जुनदेहरूपाचिद्विशिष्टस्य कृष्णदेहरूपाचिद्विशिष्टस्य चेश्वरस्यैकत्वेन गुरुशिष्यभेदायोगाच्च। कृष्णदेह इवार्जुनदेहेऽपीश्वरसत्त्वानङ्गीकारे ईश्वरस्य सर्वव्याप्तिभङ्गप्रसङ्गात्। न चार्जुनदेहविशि- ष्टचिते कृष्णदेहविशिष्ट ईश्वर उपदिशतीति वाच्यम् , अर्जुनदेह इव कृष्णदेहेऽपि चितः सत्त्वाद् , अन्यथा तद्देहावच्छिन्नेश्वरस्य चिद्वैशि- ष्ट्याभावेन चिदचिद्विशिष्टेश्वरत्वाभावात् , अर्जुनदेहतच्चिद्विशिष्टस्य कृष्णदेहतच्चिद्विशिष्टस्य चैकत्वात्। स्फुटीभविष्यत्ययमंश उत्तरत्रेति इहोपरम्यते॥

५नत्वा लक्ष्मीहयग्रीवौ वासुदेवपृथासुतौ। व्यासार्यशङ्कराचार्यौ भाष्यार्थं विवृणोम्यहम्॥

नारायणस्यापि चेतनत्वादस्मदादिवदविद्यादिक्लेशयुक्तत्वादशुद्धत्वम् , ततः न तदनुस्मरणाद् विघ्नोपशमादिसम्भव इत्या- शङ्क्याह—परोऽव्यक्तादिति। अव्यक्तम् अनिर्वाच्यमवास्तवधर्मेण मायादिशब्दाभिधेयं जडम्। तस्मात् परः तद्गुणदोषाभ्याम- प्रयोजनप्रसिद्धये प्रामाणिकव्यवहारप्रमाणकमिष्टदेवतातत्त्वानुस्मरणं मङ्गलाचरणं सम्पादयन् १अनवशेषेणेतिहासपुराणयोर्व्याचिख्या- सितगीताशास्त्रेणैकवाक्यतामभिप्रेत्य पौराणिकश्लोकमेकमेवान्तर्यामिविषयमुदाहरति— नारायण इति। ‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः। अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः॥’ इति स्मृतिसिद्धः स्थूलदृशां नारायणशब्दार्थः। सूक्ष्मदर्शिनः पुनराचक्षते — नरशब्देन चराचरात्मकं शरीरजातमुच्यते। तत्र नित्यसन्निहिताश्चिदाभासा जीवाः नारा इति निरुच्यन्ते। तेषाम् अयनमाश्रयो नियामको ऽन्तर्यामी नारायण इति, यमधिकृत्यान्तर्यामिब्राह्मणं २ श्रीनारायणाख्यं मन्त्राम्नायं चाधीयते। तदनेन शास्त्रप्रतिपाद्यं विशिष्टं ३तत्त्वमादिष्टं भवति। १. अनवशेषेण= कार्त्स्न्येन। सर्वेषामितिहासपुराणानां गीताशास्त्रेणैकवाक्यत्वं तात्पर्यैक्यात् । २. अन्तर्यामिब्राह्मणं बृहदारण्यकोपनिषत्स्थम् (द्र.बृ.उ.३-७)। श्रीनारायणाख्यो मन्त्राम्नायः पुरुषसूक्तम्। ‘पुरुषेण नारायणेन यजमान उपतिष्ठते’(आप.श्रौ.सू .१६-२३-३) इत्यादौ ‘सहस्रशीर्षा पुरुषः’ इत्यनुवाको नारायण- शब्देन व्यवहृतः। ३. ब्रह्मात्मैक्यरूपम्। एतच्चानुपदमेव स्फुटीकरिष्यते। ४. जडत्वं लक्षणया विवक्षितम्। ५. रामरायकविना प्रथमम् ‘अशोच्यान्’(भ.गी.२.११) इति श्लोकान्तं गीताग्रन्थं स्वयं सोपोद्घातं विवृत्य ततो ‘नत्वा’ इति मङ्गलपद्यपूर्वकं ‘नारायणःपरोऽव्यक्तादि’त्यादि भाष्यं व्याख्यातम्। तदनुसारेण इत आरभ्य ‘अतः तत इत्यर्थः’ (पृ.१४) इत्यन्तग्रन्थभागस्य द्वितीयाध्यायस्थत्वेऽपि इतरव्याख्याद्वयानुरोधेनात्र निवेशः कृतः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[४]]

(पसृष्टः)[संस्पृष्टः]।‘अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः’ इति श्रुतेरित्यर्थः। ननु माययाऽप्यसंस्पर्शे नारायणस्य जगत्कर्तृत्वं न स्यात् , तथा च वचनान्तरं विरुध्येत –‘अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः। स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः॥’ इति। तत्राह—अण्डमव्यक्तसंभवमिति। यदिदं ब्रह्माण्डं [तत्] तावदव्यक्तसं- भवम् , जाड्यानुविद्धत्वात् , ‘मायां तु प्रकृतिं विद्याद्’ इत्यादिश्रुतेश्च। ये चेमे भूरादयो लोका अण्डान्तर्वर्तिनो, या च जम्बू- द्वीपादिसप्तद्वीपवती पृथिवी, तत् सर्वमव्यक्तप्रभवमेव। अण्डादिग्रहणस्योपलक्षणार्थत्वात् सर्वमेव द्वैतजातं मायाकार्यम्। मायाद्वारेणैव च नारायणस्य जगत्कर्तृत्वमित्यर्थः। यथा नीरस्याकाशतन्त्रत्वेऽपि न नीरगुणदोषाभ्यामाकाशः स्वतः संस्पृश्यते, तस्मिन्नेव नीरे प्रतिबिम्बितः तच्चलनादिना चलनादिमानि[व] भवति; तथा मायायाः नारायणतन्त्रत्वेऽपि १न ननु परस्यात्मनो मायासम्बन्धादन्तर्यामित्वं शास्त्रप्रतिपाद्यत्वं च वक्तव्यम्। अन्यथा कूटस्थासङ्गाविषयाद्वितीयस्य तदयोगात्। तथा च शुद्धताऽसिद्धौ कथं यथोक्ता परदेवता शास्त्रादावनुस्मर्यते? शुद्धस्य हि तत्त्वस्यानुस्मरणमभीष्टफलवदभीष्टम् , तत्राह— परो ऽव्यक्तादिति। अव्यक्तम् अव्याकृतं मायेत्यनर्थान्तरम् । तस्मात् परो व्यतिरिक्तः, तेनासंस्पृष्टोऽयं परः, ‘अक्षरात्परतः परः’ इति श्रुतेर्गृहीतः। तत्त्वतो मायासम्बन्धाभावेऽपि कल्पनया तदीयसङ्गतिमङ्गीकृत्यान्तर्यामित्वादिकमुन्नेयम्। यस्मादीश्वरस्य व्यतिरेको विवक्षितः, तस्मिन् अव्यक्ते २साक्षिसिद्धेऽपि ३कार्यलिङ्गकमनुमानमुपन्यस्यति— अण्डमिति। अपञ्चीकृतपञ्चमहाभूतात्मकं हैरण्यगर्भं तत्त्वम् अण्डमित्यभिलप्यते। तदव्यक्तात् पूर्वोक्तादुत्पद्यते। प्रसिद्धा हि श्रुतिस्मृतिवादेषु हिरण्यगर्भस्य मूलकारणादुत्पत्तिः। तथा च कार्यलिङ्गादव्यक्तादभिव्यक्तिरित्यर्थः४। हिरण्यगर्भे श्रुतिस्मृतिसमधिगतेऽपि कार्यलिङ्गकमनुमानमस्तीति मन्वानो विराडुत्पत्तिमुपदर्शयति – अण्डस्येति। उक्तस्याण्डस्य हिरण्यगर्भाभिधानीयस्यान्तरिमे भूरादयो लोका विराडात्मका वर्तन्ते। कार्यं हि कारणस्यान्तर्भवति। तेन हिरण्यगर्भान्तर्भूता भूरादयो लोका विराडात्मानस्तेन सृष्टा इति तल्लिङ्गाद्धिरण्यगर्भसिद्धिरित्यर्थः। लोकानेव पञ्चीकृतपञ्चमहाभूतात्मक- अशोच्यानिति प्रथमो गीताशास्त्रश्लोकः। श्रीशांकरभाष्यावतारिकाग्रन्थारम्भगतश्चायं मङ्गलश्लोकः—[नारायणः परोऽव्यक्ता- दिति] । अस्यायमर्थः– अस्मिन् वेदान्तशास्त्रे दृग् दृश्यमिति द्वावेव पदार्थौ । तौ चाचार्यैः एव प्रतिपादितौ—‘दृग् ब्रह्म दृश्यं माया’ इति दृग्दृश्यविवेके। इमौ च परस्परविलक्षणौ। लोकेऽपि घटतद्दृशोर्भेददर्शनात्। इदमेवाह—नारायणः परोऽव्यक्तादिति।अव्याकृत- प्रकृति-शक्ति-मायादिनामकेश्वरोपाधिः अव्यक्तपदार्थः। तस्मात् परो विलक्षणः नारायणः। न रीयते न क्षीयते इति नरः परमात्मा। तस्येदं नारं जगत्। तद् एति जानातीति नारायणः दृग्रूपः प्रत्यगभिन्नः परमात्मा। प्रतीचः साक्षित्वस्य द्वैतिभिरप्यभ्युपगतत्वात् , ‘नान्योऽतोऽस्ति द्रष्टा’ इति द्रष्ट्रन्तरस्य श्रुत्यैव निषिद्धत्वाच्च न प्रत्यक्परयोर्भेदः। ननु यदि दृग्दृश्ये द्वावेव पदार्थौ, दृश्यं चाव्यक्तं , तर्हि व्यक्तस्यास्य जगतः कुत्रान्तर्भावः? अत आह— अण्डमव्यक्तसम्भव- मिति। अव्यक्तात् सम्भवो यस्य तदव्यक्तसम्भवम्। ब्रह्माण्डस्याव्यक्तसम्भवत्वाद् मृत्सम्भवस्य घटस्य मृदात्मत्वमिवाव्यक्तात्मत्व- मेवेत्यव्यक्ते एव ब्रह्माण्डस्यान्तर्भावः। नन्वेवं साङ्ख्यवत् तवाप्यचेतनकारणवादः प्राप्त इति चेत् , मैवम् । ईश्वरादृष्टादिसहकृताव्यक्तस्य, अव्यक्तावच्छिन्नस्येश्वरस्य वा जगत्कारणत्ववादात्। अत्रेदं बोध्यम् – दृश्यमिदमव्यक्तं न दृग्वत् स्वतन्त्रम् , किन्तु दृशि अध्यस्तमेव । अनध्यस्तत्वे तु दृश्यस्यास्य नित्यत्वप्रसङ्गात् । तस्मिंश्च दृश्ये दृशोऽप्यस्त्यध्यासः कोऽप्यनिर्वचनीयः। एवं दृग्दृश्ययोरितरेतराध्यासवशाद् दृश्यस्य चेतनत्वं, दृशः प्रपञ्चकारणत्वं च प्राप्तम्। यथा लोकेऽपि जीवदेहयोस्तादात्म्याध्यासाद् देहस्य चेतनत्वं, जीवस्य मनुष्यत्वादिकं च प्राप्तं, तद्वत्।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘न नारायणस्तद्गुणदोषाभ्याम्’ इति पाठः संभाव्यते। संस्पृश्यते इत्यस्यानन्तरम् ‘अस्मन्नेव शरीरे प्रतिबिम्बितः तच्चलनादिना संस्पृश्यते’ इत्यधिकः कुण्डलितः पाठः। २. अव्यक्तस्याज्ञानात्मकस्य साक्षिवेद्यत्वादिति भावः। ३. हैरण्यगर्भतत्त्वकारणत्वेन तत्सिद्धिरिति भावः। ४. अण्डस्येति शेषः। उपोद्घातः ]

[[५]]

विराडात्मत्वेन व्युत्पादयति—सप्तद्वीपेति। ‘सा पृथिव्यभवत्’ इति श्रुतौ विराजो जन्म सङ्कीर्तितमित्यङ्गीकाराद् अशेषद्वीपोपेता पृथिवीत्यनेन सर्वलोकात्मको विराडेवोच्यते। चशब्देन विराजो हि हिरण्यगर्भे पूर्वोक्ताण्डात्मन्यन्तर्भावात् ततः सम्भवोऽनुकृष्यते। परमात्मा हि स्वाज्ञानद्वारा जगदशेषमुत्पाद्य १स्वात्मन्येवान्तर्भाव्याखण्डैकरससच्चिदानन्दात्मना स्वे महिम्नि तिष्ठतीत्यर्थः। अत्र च नारायणशब्देनाभिधेयमुक्तम्। नरा एव नारा जीवास्त्वम्पदवाच्याः, तेषामयनमधिष्ठानं तत्पदवाच्यं परं ब्रह्म। तथा च कल्पितस्याधिष्ठानातिरिक्तस्वरूपाभावाद् , वाच्यस्य कल्पितत्वेऽपि लक्ष्यस्य ब्रह्ममात्रत्वाद् ब्रह्मात्मैक्यं विषयोऽत्र सूच्यते। तेनार्थाद् विषयविषयिभावः सम्बन्धोऽपि ध्वनितः। परोऽव्यक्तादित्यनेन मायासंस्पर्शाभावोक्त्या सर्वानर्थनिवृत्त्या परमानन्दाविर्भावलक्षणो मोक्षो विवक्षितः। तेन च तत्कामस्याधिकारो द्योतितः। २परिशिष्टेन तु वस्तुनो वास्तवमद्वितीयत्वमावेदितम्। तेन च वस्तुद्वारा परमविषयत्वं तज्ज्ञाननिष्ठायाः, तदुपायभूतकर्मनिष्ठायाश्चावान्तरविषयत्वम् इत्यर्थादुक्तमित्यवधेयम्॥१॥

ननु नैवं साध्यसाधनभूतं निष्ठाद्वयमत्र भगवता प्रतिपाद्यते; भूमिप्रार्थितेन ब्रह्मणाऽभ्यर्थितस्य भगवतो भूमिभारापहारार्थं वसुदेवेन देवक्यामाविर्भूतस्य३ तादर्थ्येन मध्यमं पृथासुतं प्रथितमहिमानं प्रेरयितुं धर्मयोरिहानूद्यमानत्वात्। अतो नास्य शास्त्रस्य निष्ठाद्वयं ४परापरविषयभावमनुभवितुमलमिति। ५तन्न। भगवतो धर्मसंस्थापनस्वाभाव्यध्रौव्याद् धर्मद्वयस्थापनार्थमेव प्रादुर्भावाभ्युपगमाद् , भूभार- परिहारस्य चार्थिकत्वाद् , अर्जुनं निमित्तीकृत्याधिकारिणं स्वधर्मप्रवर्तनद्वारा ज्ञाननिष्ठायामवतारयितुं गीताशास्त्रस्य प्रणीतत्वादुचितमस्य अत एव – ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतिर्ब्रह्मणो जगद्धेतुत्वमवदत् , मायावच्छिन्नस्य ब्रह्मणो जगद्धेतुत्वात्। एवमपि न ब्रह्मणो जगत्प्रकृतित्वम् , तस्य निर्विशेषचिन्मात्रस्योपादानत्वाभावात्। किन्तु तदुपाधेर्मायाया एव, मायामयत्वादनृतजडदुःखा- त्मकस्य जगतः। अत एव केचिज्जगदाकारपरिणतमायाधिष्ठानत्वाद् ब्रह्म जगत्कारणमित्याहुः। तस्मादीश्वरकारणपक्षे ब्रह्मकारणपक्षे वा मायांशस्यैव जगत्प्रकृतित्वमिति युक्तमुक्तम्— अण्डमव्यक्तसम्भवमिति। एतेन अत्राव्यक्तशब्दस्येश्वराधिष्ठिता प्रकृतिरर्थ इति सिद्धम् इत्यनवद्यम्। नन्वस्तु ब्रह्माण्डस्याव्यक्तसम्भवा[वत्वा]दव्यक्तात्मत्वम् , कथं पुनर्लोकानाम् ? अत आह— अण्डस्यान्तरिति। इमे लोकाः सप्तद्वीपा मेदिनी चाण्डस्यान्तः वसन्तीति शेषः। अण्डान्तःपातित्वाल्लोकानां भुवश्चाण्डात्मत्वमेवेति कृत्वा अण्डवदेषामपि सिद्ध- मव्यक्तात्मत्वमिति भावः। एतेन आकाशादिकममूर्तं, पृथिव्यादि मूर्तं, तत्कारणमव्यक्तं चेति त्रिविधं दृश्यमिति सिद्धम्। अत्रेदं बोध्यम् – एक एव नारायणः परमात्मा सच्चिदानन्दरूपः सर्वदृश्यविलक्षणः शुद्धोऽद्वितीयश्च। स चाव्यक्तोपहित ईश्वर इत्युच्यते, ब्रह्माण्डोपाधिकस्तु हिरण्यगर्भ इति, लोकोपाधिकस्तु विराडिति। तत्र – अव्यक्तस्यानादित्वादीश्वरस्य नास्त्यौपाधिकमपि जन्मेत्यज एवेश्वरः। इतरयोरुपाध्यधीनजन्मवत्त्वान्नाजत्वम् , नापीश्वरत्वम् , किन्तु जातौ जीवावेव तौ। तयोश्च हिरण्यगर्भः प्रथमजः, विराट्पुरुषस्तु अनन्तरज इति विवेकः। अयमेव जीवेश्वरविभागः श्रुत्याऽप्युक्तः– ‘कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः’ इति। कार्यकारणभूतजीवेश्वरोपाधिद्वयविनिर्मुक्तं चिद्रूपं ब्रह्मेति श्लोकस्य परमार्थः। एतेन ब्रह्मातिरिक्तं सर्वमपि मायामयत्वान्मृषैव, मायायाः ६सदसदनिर्वाच्यत्वेन ७प्रबोधबाध्यत्वेन च मृषात्वाद्, एकमेवाद्वितीयं ब्रह्म अमायामयत्वात् सत्यमित्यद्वैतं सिद्धम्। एतदेव हि गीताशास्त्रे प्रधानप्रतिपाद्यम्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘आत्मन्येव’ इति पा.। २. परिशिष्टेन =‘अण्डमव्यक्तसंभवम्’ इत्यादिना। ‘परिशिष्टेन तु शब्देन वस्तुनो’ इति पा.। ३. षष्ठ्यन्तस्य अनुवादक्रियायामन्वयः। कर्तुःशेषत्वविवक्षया षष्ठी। ४. प्रधानावान्तरेत्यर्थः। ५. ‘तत्र’ इति पा.। ६. अनेन सदसद्विलक्षणत्वं मिथ्यात्वमुक्तम्। ७.अनेन ज्ञाननिवर्त्यत्वरूपं मिथ्यात्वमुक्तम्। नीरगुणदोषाभ्यां संस्पृश्यते, किन्तु तत्प्रतिबिम्बितः तत्परिणामैरेव सर्वज्ञत्वसर्वेश्वरत्वसर्वजगत्कर्तृत्वादिधर्मवान् भवति। तदेवं नारायण एव एकं परमार्थतत्त्वम् , द्वैतं तु सर्वं मायामात्रमित्येव सर्वोपनिषदामर्थः, पुराणानां च सर्वेषाम् , गीतायाश्च।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[६]]

एवं तत्त्वं प्रतिपाद्य प्रकृतं वक्तुं तस्यैव मायावैभवमाह— स चेति । भगवानिति । ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां वर्गो भगो मतः’ इति, ‘उत्पत्तिं च विनाशं च भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवा- निति’[इति] वोक्तलक्षणः भगोऽस्यास्तीति भगवान् । ‘तदस्यास्ती’ति मतुप् । वासुदेवः वसन्ति जगन्त्यस्मिन्निति, वसति जगतीति वा वासुः। दीव्यति भूतपालनादिना क्रीडति, स्वयं भासत इति वा देवः। वासुश्चासौ देवो वासुदेवः। नारायणस्यापि स्वोपाधिभूतमायया भगवत्त्वं वासुदेवत्वं चेति भावः। सृष्ट्वेति। संकल्पेनेति शेषः। अनेन प्रधानपरमाण्वादिजगत्कारणवादा निरस्ताः, प्रधानादीना- मचेतनत्वेन संकल्पासम्भवात् , ‘तदैक्षते’ति श्रुतौ सृष्टेः संकल्पपूर्वकत्वश्रवणात् , कुलालस्यापि संकल्पपूर्वकं घटादिनिर्माणमिति दर्शनाच्च। स्थितिं रक्षाम्। मरीच्यादीन् प्रजापतीन् अग्रे प्रथमं सृष्ट्वेति। हिरण्यगर्भद्वारेति भावः। वेदोक्तमिति धर्मविशेषणम्। ननु ननु तथापि न गीता व्याख्यानार्हा, अप्रमाणत्वात्। पौरुषेयं हि वचनमाप्तप्रणीतमेव प्रमाणम्। सम्यग्ज्ञानेना- र्थमुपलभ्य यथोपलब्धमेव यः प्रतिपादयति सः आप्तः उच्यते। कृष्णस्य च न धर्मादिविषयं सम्यग्ज्ञानं भवति, गोपालत्वात् , गोपालान्तरवत्। अत एव न प्रयोजनादित्व[मत्त्व]मपि सम्भवति गीताया इत्याशङ्क्य, गीतायाः प्रामाण्य- समर्थनाय कृष्णस्याप्तत्वं तावत् समर्थयति— स भगवानिति। यद्यपि कृष्णो गोपालवेषधारी, तथापि स भगवानिति प्रसिद्ध इतिहासपुराणादिषु। ततो निरुप(म)चरितभगवच्छब्दवाच्यत्वप्रसिद्धिबलेनैव तस्य याथार्थ्यदर्शित्वमाप्तत्वं च सिद्धमित्यर्थः। ‘उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्। वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति’। किञ्च नासौ जातितो गोपः, किन्तु य एव आदिकर्ता नारायणः हंसरूपेण धर्मप्रवर्तकः आसीत् , स एव धर्मपरिपिपालयिषया यदोर्वंशेऽवतीर्णः। कुतः तस्मिन् सकलक[ध]र्मगोप्तरि अनाप्तत्वशङ्केत्याह—सृष्ट्वेदमित्यादिना। प्रवृत्तिलक्षणं यज्ञाध्ययनादिरूपं धर्मम् । न स्वबुद्धिपरिकल्पितं काणादादिवत् ग्राहितवान् , किन्तु अनादिवेदोपनिबद्धमित्याह— वेदोक्तमिति।ननु यदि प्रवृत्तिलक्षण एव धर्मः परमेश्वरेण निष्ठाद्वयविषयत्वमिति परिहरति— स भगवानित्यादिना धर्मद्वयमर्जुनायोपदिदेशेत्यन्तेन भाष्येण। तत्र नेदं गीताशास्त्रं व्याख्यातुमुचितमाप्तप्रणीतत्वानिर्धारणात् , तथाविधशास्त्रान्तरवदित्याशङ्क्य मङ्गलाचरणस्योद्देश्यं दर्शयन् आदौ शास्त्रप्रणेतुराप्तत्वनिर्धारणार्थं सर्वज्ञत्वादिप्रतिज्ञापूर्वकं सर्वजगज्जनयितृत्वमाह—स भगवानिति। प्रकृतो नारायणाख्यो देवः सर्वज्ञः सर्वेश्वरः समस्तमपि प्रपञ्चमुत्पाद्य व्यवस्थितः। न च तस्यानाप्तत्वम् , ईश्वरानुगृहीतानामाप्तत्वप्रसिद्ध्या तस्य २परमाप्तत्वसिद्धेरित्यर्थः। ननु भगवता सृष्टमपि चातुर्वर्ण्यादिविशिष्टं हिरण्यगर्भादिलक्षणं जगन्न व्यवस्थितिमास्थातुं शक्यते, व्यवस्थापकाभावात्। न च परस्यैवेश्वरस्य व्यवस्थापकत्वम् , वैषम्यादिप्रसङ्गात् , तत्राह— तस्य चेति। सृष्टस्य जगतो मर्यादाविरहितत्वे शङ्किते तदीयां व्यवस्थां कर्तुमिच्छन् व्यवस्थापकमालोच्य ३क्षत्रस्यापि क्षत्रत्वेन प्रसिद्धं धर्मं तथाविधमधिगम्य सृष्टवानित्यर्थः। सृष्टस्य धर्मस्य साध्यस्वभावतया साधयितारमन्तरेणासम्भवात् , ४तस्यैव तदनुष्ठातृत्वानभ्युपगमात् , प्राणिप्रभेदानामधर्मप्रायाणां तदयोगात् कुतस्तदीया सृष्टिरित्याश- ङ्क्याह— मरीच्यादीनिति। तेषां भगवता सृष्टानां प्रजासृष्टिहेतूनां यागदानादिप्रवृत्तिसाध्यं धर्ममनुष्ठातुमधिकृतानां स्वकीयत्वेन ५तदुपादानमुपपन्नमित्यर्थः। चैत्यवन्दनादिभ्यो ६विशेषार्थं धर्मं विशिनष्टि— वेदोक्तमिति। ननु नैतावता जगदशेषमपि व्यवस्थापयितुं

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

स भगवान्१ सृष्ट्वेदं जगत् , तस्य च स्थितिं चिकीर्षुः मरीच्यादीन् अग्रे सृष्ट्वा प्रजापतीन् प्रवृत्तिलक्षणं धर्मं ग्राहयामास वेदोक्तम्। ततोऽन्यांश्च सनकसनन्दनादीनुत्पाद्य निवृत्तिलक्षणं धर्मं ज्ञानवैराग्यलक्षणं ग्राहयामास। १. ‘स च भगवान् वासुदेवः’ रा.पा.। २. अनुग्राहकस्य तस्याप्तत्वं कैमुतिकन्यायसिद्धमिति भावः। ३. ‘तदेतत् क्षत्रस्य क्षत्रं यद्धर्मः’(बृ.उ.१.४.१४) इति क्षत्रस्यापि नियन्तृत्वेन श्रुतिप्रसिद्धमिति भावः। ४. तस्यैव= स्रष्टुः भगवत एव। ५. धर्मोपादानम्। तथा चानुष्ठातृलाभः। ६. व्यावृत्त्यर्थम्। उपोद्घातः ]

[[७]]

जगत्स्थितिचिकीर्षोरीश्वरस्य किमिति प्रवृत्तिनिवृत्तिधर्मग्राहणं मरीच्यादिभिः, सनकादिभिश्चेत्यत आह— स इति। हि यस्मात् प्रवृत्ति- लक्षणो निवृत्तिलक्षणश्च स द्विविधो वेदोक्तो धर्मः जगतः स्थितिकारणमित्यन्वयः। धर्मस्य लक्षणमाह— प्राणिनामिति। अभ्युदय- निःश्रेयसहेतुः ब्राह्मणाद्यैर्वर्णिभिराश्रमिभिश्चानुष्ठीयमानो यः स धर्मः। आद्यशब्दात् क्षत्रियवैश्यशूद्रग्रहणम्। वर्ण एषामस्तीति वर्णिनः, आश्रमः एषामस्तीत्याश्रमिणः ब्रह्मचारिगृहस्थवानप्रस्थसंन्यासिनः। ब्रह्मचार्याद्यनुष्ठीयमानत्वे सति अभ्युदयनिःश्रेयसान्यतरहेतुत्वं धर्मस्य लक्षणम्। एकस्य धर्मस्योभयहेतुत्वाभावादन्यतरेति। ईश्वरेऽतिव्याप्तिवारणाय सत्यन्तम्। अधर्मेऽतिव्याप्तिवारणाय विशेष्य- दलम्। प्रवृत्तिलक्षणो धर्मः कर्मनिष्ठाशब्देन वक्ष्यमाणः अभ्युदयस्य स्वर्गादिरूपस्य चित्तशुद्धिरूपस्य वा हेतुः, निवृत्तिलक्षणो धर्मः १. ’स द्विविधः’ इति रा.पा.। २. ‘तत्रैको जगतः’ इति पा.। ३. निमित्तकारणं धर्मः। कारणम् अभ्युपगन्तव्यमित्यन्वयः। ४. स्थेम्ने स्थैर्याय स्थितये इति यावत्। ५. ज्ञानातिरिक्तमद्वारीकृत्य हेतुत्वमेव साक्षात्पदेन विवक्षितमिति भावः। ६. फलसाधनीभूतप्रधानांशे इत्यर्थः। इतिकर्तव्यता अङ्गम्। गृहीतः, तर्हि निवृत्तिनिष्ठाः संन्यासिनो नेश्वरमार्गानुसारिण इत्याशङ्क्याह— ततोऽन्यांश्चेति।ततो मरीच्यादिभ्यः। ननु जगत्स्थितिं चिकीर्षुः धर्मं ग्राहयामासेत्यसङ्गतम् , यतः कार्यस्थितिः सो[स्वो]पादानाधीनेत्याशङ्क्याह— द्विविधो हीति। केचिन्मुक्तरूपेणावतिष्ठन्ते, केचित् प्रतिबिम्बरूपेणेत्येवंरूपेण स्थितेः ३कारणं द्विविधो धर्मः ‘पुण्यो वै पुण्येन कर्मणा’ इत्यादिशास्त्रात् मूलकारणस्य वैषम्यनैर्घृण्यदोषपरिहारायावश्यमभ्युपगन्तव्यमित्यर्थः। ननु धर्मस्य क्षणिकत्वात् कालान्त- रीयफलहेतुत्वासम्भवात् न स्थितिहेतुत्वमित्याशङ्क्याह— प्राणिनामिति। कृषिसेवादिवत् स्थाय्यवान्तरकार्योत्पादनद्वारेण सम्भवति कालान्तरीयफलहेतुः धर्म इत्यर्थः। ननु तथापि न धर्मः सकलजगत्स्थितिहेतुः, सर्वैरननुष्ठानादित्याशङ्क्याह— स धर्म इति। अनधिकारिणामननुष्ठानं न दोषाय भवति। अधिकारिभिस्त्वनुष्ठीयमानो भवत्येव स्वफलभोगाक्षिप्तसकल- स्थितिहेतुरित्यर्थः। अस्तु जगत्स्थितिहेतुर्धर्मः; तथाप्यादिकर्तुः नावतारे हेतुरस्ति, पूर्वोपदिष्टस्यैव धर्मस्य परमेश्वराज्ञा- वशेनाप्रतिहत[वशेन प्रतिभान]संभवादित्याशङ्क्याह—दीर्घेण कालेनेति। ननु यदा कामिनां परमेश्वराज्ञा[वशत्वा]संभवाद् शक्यते, प्रवृत्तिमार्गस्य पूर्वोक्तधर्मं प्रति नियतत्वेऽपि निवृत्तिमार्गस्य तेन व्यवस्थापनायोग्यत्वात् , तत्राह— ततोऽन्यांश्चेति। निवृत्ति- रूपस्य धर्मस्य शमदमाद्यात्मनो गमकमाह— ज्ञानेति। विवेकवैराग्यातिशये शमाद्यतिशयो गम्यते। ततो विवेकादि तस्य गमकमित्यर्थः। धर्मे बहुविदां विवाददर्शनात् , जगतः ४स्थेम्ने कारणीभूतधर्मान्तरमपि स्रष्टव्यमस्तीत्याशङ्क्याह— द्विविधो हीति। अति- प्रसङ्गाप्रसङ्गव्यावृत्तये प्रकृतं धर्मं लक्षयति— प्राणिनामिति। प्रवृत्तिलक्षणो धर्मोऽभ्युदयार्थिनां साक्षादभ्युदयहेतुः, निश्रेयसार्थिनां परम्परया निःश्रेयसहेतुः। निवृत्तिलक्षणस्तु धर्मः साक्षादेव निःश्रेयसहेतुरिति विभागः। ज्ञानस्यैव निःश्रेयसहेतुत्वेऽपि शमादीनां ज्ञानद्वारा मोक्षहेतुत्वम्। ज्ञानातिरिक्तव्यवधानाभावाच्च साक्षादित्युक्तम्५। यद्येवं धर्मो लक्ष्यते, तर्हि वर्णित्वमाश्रमित्वं चोपेक्ष्य सर्वैरेव पुरुषार्थार्थिभिर्द्वावपि धर्मौ यथायोग्यमनुष्ठेयावित्यनुष्ठातृनियमासिद्धिरित्याशङ्क्याह— ब्राह्मणाद्यैरिति। अर्थित्वाविशेषेऽपि श्रुतिस्मृति- पर्यालोचनयाऽनुष्ठानान्नियमसिद्धिरित्यर्थः। नित्यनैमित्तिकेषु यावज्जीवमनुष्ठानम् ; काम्येषु ६करणांशे रागाधीना प्रवृत्तिः, इतिकर्तव्यतांशे वैधीति विभागेऽपि कदाचिदेवानुष्ठानमिति विभागमभिप्रेत्याह— दीर्घेणेति। अथ यथोक्तधर्मवशादेव जगतो विवक्षितस्थितिसिद्धेर्भगवतो नारायणस्यादिकर्तुः अनेकानर्थकलुषितशरीरपरिग्रहासम्भवाद् अन्यस्यैव कस्यचिदनाप्तस्य वैषम्यनैर्घृण्यवतो नि[वि]ग्रहपरिग्रहद्वारेण गीताशास्त्रप्रणयनमिति कुतोऽस्याप्तप्रणीतत्वम्? तत्राह— अनुष्ठातॄणामिति। अथवा यथोक्तशङ्कायां दीर्घेणेत्यारभ्योत्तरम्। महता कालेन १द्विविधो हि वेदोक्तो धर्मः– प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च २जगतः स्थितिकारणम्। प्राणिनां साक्षादभ्युदयनिःश्रेयस- हेतुर्यः स धर्मः ब्राह्मणाद्यैर्वर्णिभिः आश्रमिभिश्च श्रेयोऽर्थिभिरनुष्ठीयमानः। दीर्घेण कालेनानुष्ठातॄणां कामोद्भवाद्

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[८]]

ज्ञाननिष्ठाशब्देन वक्ष्यमाणः निःश्रेयसस्य मोक्षस्य हेतुरिति बोध्यम्। हीयमानेति। हीयमानं क्षीयमाणं विज्ञानमेव हेतुर्यस्य तेन हीयमानविज्ञानहेतुकेन। ‘शेषाद्विभाषा’ इति कः। अधर्मस्य विज्ञानक्षय एव हेतुरित्यर्थः। यद्वा हेतुरेव हेतुकः इति स्वार्थे कः। हीयमानेन विज्ञानेन हेतुना, विज्ञानक्षयाद्धेतोरित्यर्थः। परिपिपालयिषुः परिपालयितुमिच्छुः। आदिकर्तेति। जगत उपादानं निमित्तं चेत्यर्थः। यद्वा प्रधानकर्ता। हिरण्यगर्भस्याप्रधानकर्तुरन्यस्य सत्त्वादियमुक्तिः। अनेन चाभिन्ननिमित्तोपादानकारणवादेन प्रधानकारण- वादिनः सांख्याः, ईश्वरनिमित्तकारणवादिनस्तार्किकादयश्च पराकृताः। न च कथमेकस्यैव कारणवस्तुनः निमित्तत्वमुपादानत्वं चेत्युभयमिति वाच्यम् , मायया तत्सम्भवात् , ‘यतो वा’ इति ‘तत्सृष्ट्वा’ इति च श्रुतेः। श्रौतस्यार्थस्य प्रबलस्य दुर्बलयुक्त्यवष्टम्भेन प्रतारणायोगाच्च, ऊर्णनाभेस्तन्तुसन्ततिं प्रत्यभिन्ननिमित्तोपादानत्वदर्शनाच्च। विष्णुर्व्यापकः परमात्मा सत्त्वगुणप्रधानमायावच्छिन्न- चैतन्यलक्षणः। भौमस्येति। भूलोकस्थस्य ब्रह्मणो वेदस्य५। अंशेनेति। माययेत्यर्थः। कथमन्यथा निरंशस्य परमात्मनः स्यादंशः? किलेत्यलीके वार्तायां वा। उभयथाऽपि मृषैवायं कृष्णावतार इति फलितम्। अत्र ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्॥’ इति गीतावचनमनुसंधेयम्। ननु नष्ट एव धर्मो रक्षणीयः; तथा च धर्मस्य रक्षणार्थमित्येव वक्तव्यम् ; किमिति ब्राह्मणत्वस्येत्युक्तम्? अत आह— ब्राह्मणत्वस्येति। याजनाध्यापनादिरूपब्राह्मणधर्मस्य रक्षणं ब्राह्मणत्यागब्राह्मणेतरस्वीकारादिरूपविप्लवात् त्राणम्। तत्र हेतुमाह— तदधीनत्वादिति। ब्राह्मणाधीनत्वात् । येन येन वर्णिना येन येनाश्रमिणा यद्यत् कर्म यथा यथाऽनुष्ठेयं तेन तेन तत्तत् तथा तथा विद्वान् ब्राह्मणोऽनुष्ठापयतीत्यर्थः। हीयमानं विवेकज्ञानं भवति, तत्कार्येण चाधर्मेण धर्मस्याभिभवः संभवति, तदा तर्हि धर्मसंरक्षणायेश्वरः प्रादुर्भूत इति वक्तव्यम्। [किम्] इदमुक्तम् - भूमौ भवं यद् ब्रह्मशब्दाभिधेयं ब्राह्मणत्वम् , तस्य रक्षणायेति? तत्राह— ब्राह्मणत्वस्य हीति। ननु कृष्णो नेश्वरः, शरीरवत्त्वात् , प्राण्यन्तरवत्। ततः कृष्णस्य परमेश्वरत्वमुपादायाप्तत्वसमर्थनमयुक्तमित्या- कृतत्रेतात्यये द्वापरावसाने साधकानां कामक्रोधादिपूर्वकादविवेकादधर्मबाहुल्याद् धर्माभिभवादधर्माभिवृद्धेश्च जगतो मर्यादाभेदे तदीयां मर्यादामात्मनिर्मितां पालयितुमिच्छन् प्रकृतो भगवानेतदर्थेन चातुर्वर्ण्यादिसंरक्षणार्थं लीलामयं ४मायाशक्तिप्रयुक्तं स्वेच्छाविग्रहं जग्राहेत्यर्थः। ‘भौमस्य ब्रह्मणो गुप्त्यै वसुदेवादजीजनत्’ इति स्मृतिमनुसृत्य पदद्वयमनूद्य व्याचष्टे— भौमस्येति। अंशेनेति। स्वेच्छानिर्मितेन मायामयेन स्वरूपेणेत्यर्थः। किल इत्यस्मिन्नर्थे पौराणिकी प्रसिद्धिरनूद्यते। न हि भगवतो व्यतिरिक्तस्येदं जन्मेति युज्यते, बहुविधागमविरोधादिति भावः। ननु वैदिकधर्मसंरक्षणार्थं भगवतो जन्म, ‘यदा यदा हि धर्मस्य’ इत्यादिदर्शनात् ; किमिदं ब्राह्मणत्वस्य रक्षणार्थमिति? तत्राह— ब्राह्मणत्वस्य हीति। तथापि वर्णाश्रमभेदव्यवस्थापनं विना कथं यथोक्तधर्मरक्षणमित्याशङ्क्याह— तदधीनत्वादिति। ब्राह्मणं हि पुरोधाय क्षत्रादि प्रतिष्ठां प्रतिपद्यते, याजनाध्यापनयोस्तद्धर्मत्वात् , तद्द्वारा च वर्णाश्रमभेदव्यवस्थापनात्। अतो ब्राह्मण्ये रक्षिते सर्वमपि सुरक्षितं भवतीत्यर्थः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

हीयमानविवेक१विज्ञानहेतुकेनाधर्मेणाभिभूयमाने धर्मे, प्रवर्धमाने चाधर्मे जगतः स्थितिं परिपिपालयिषुः स आदिकर्ता नारायणाख्यो विष्णुः भौमस्य ब्रह्मणो ब्राह्मणत्वस्य रक्षणार्थं देवक्यां वसुदेवादंशेन २कृष्णः किल सम्बभूव। ब्राह्मणत्वस्य हि रक्षणेन रक्षितः स्याद् वैदिको धर्मः, तदधीनत्वाद् ३वर्णाश्रमभेदानाम्। १. ‘विवेक’ इति नास्ति रा.पाठे। २. ‘कृष्णः’ इति नास्ति क्वचित् । ३. ‘वर्णाश्रमधर्मभेदानाम्’ इति पा.। ४. ‘मायाशक्तिप्रयुक्तस्वेच्छाविग्रहं’ इति पा.। ५. भाष्ये—‘भौमस्य ब्रह्मणो ब्राह्मणत्वस्य चाभिरक्षणार्थम्’ इति रा.पा.। तदनुसारेण ब्रह्मपदं वेदपरतया व्याख्यातम्। उपोद्घातः ]

[[९]]

नन्वजस्य नारायणस्य धर्मसंस्थापनरूपलोकानुग्रहार्थमपि कथं जन्मादिसम्भवः? अत आह— स चेति। भगवानित्यस्यार्थं स्वयमेवाह— ज्ञानेति। वसिष्ठादयो जीवाश्च केचिज्ज्ञानादिमन्तो दृश्यन्त इत्यत आह— स चेति। जीवानां ज्ञानादिकमीश्वरप्रसादादि- लभ्यम् , ईश्वरस्य तु स्वतःसिद्धम् ‘पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे’ति श्रुतेरिति भावः। कुत ईश्वरस्य भगः स्वाभाविकः? अत आह— प्रकृतिं वशीकृत्येति। जीवास्तु प्रकृतिपरतन्त्राः। अत एवेश्वरस्य मायित्वं ब्रूते श्रुतिः– ‘मायिनं तु महेश्वरम्’ इति। कस्येयं प्रकृतिः? अत आह— वैष्णवीं स्वामिति। स्वस्य विष्णोः सबन्धिनीं स्वोपाधिभूतामित्यर्थः। तस्याः स्वरूपमाह— त्रिगुणेति। सत्त्वरजस्तमोगुणात्मिका; सत्त्वादिगुणाश्रयातिरिक्तप्रकृतिपदार्थाभावादिति भावः। एतेन सत्त्वरजस्तमोगुणोपहितानां विष्णुब्रह्मरुद्राणां भेदः परास्तः, मायोपाधिकत्वेन त्रयाणामेकत्वात्। एवं प्रकृतिवशित्वादेव नेश्वरस्य कर्माधीनजन्मसद्भाव इत्याह— अज इति। जन्माभावादेव न लय इत्याह— अव्यय इति। ‘जायते मरणायैव म्रियते जन्मने पुनः’ इति, ‘जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च’ इति स्मरणाज्जन्ममरणयोः सामानाधिकरण्यमिति भावः। ईश्वरः ईशनशीलः। एवं मायिकं रूपमुक्त्वा तात्त्विकमाह—नित्येति। नित्यः सत्यः, ‘नित्योऽनित्यानाम्’ इति श्रुतेः, ‘तत्सत्यं स आत्मे’ति श्रुतेश्च। कुतो नित्यत्वम्? अत आह— शुद्ध इति। उपाधिसंसृष्टस्य मलिनस्य जीवस्य हि उपाधिवशाद् भवत्यनित्यत्वम्। तस्य निष्कृष्टं स्वरूपमाह— बुद्ध इति। ज्ञानस्वरूप शङ्क्याह— स च भगवान् इति। ज्ञानशक्तिः, ऐश्वर्यशक्तिश्च, बलमवष्टम्भो, वीर्यं पराक्रमः, तेजः प्रागल्भ्यम्। एतैः सदा सम्पन्नः स भगवान् कृष्णः। तस्मादैश्वर्यगुणोपलम्भेन बाधितमनुमानमित्यर्थः। ननु यो जीवदेहः स धर्माधर्माधीनो दृष्टः। परमेश्वरस्य वेदवेद्यस्य देवदेवस्य न धर्मादिसम्बन्धोऽस्ति, ‘स पर्यगात् शुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्धम्’ इत्यादिश्रुतेः। तत् कथं देहादिसम्बन्ध इत्याशङ्क्याह—त्रिगुणात्मिकामिति। लौकिकमायाविनो व्याघ्रादिशरीरवत् स्वमाययैव शरीरं निर्माय धर्मसंरक्षणादिकं करोतीत्यर्थः। ननु लौकिकस्यापि मायाविनो द्रव्यादिलिप्सया व्याघ्रादिशरीरनिर्माणम् , तथा नन्वेवमपि भगवतो नारायणस्य शरीरादिमत्त्वे सत्यस्मदादिभिरविशेषादनीश्वरत्वप्रसक्तिरित्याशङ्क्य ज्ञानादिकृतं विशेषमाह— स चेति। ज्ञानं ज्ञप्तिरर्थपरिच्छित्तिः, ऐश्वर्यमीश्वरत्वं स्वातन्त्यम् , शक्तिस्तदर्थनिर्वर्तनसामर्थ्यम् , बलं सहायसम्पत्तिः, वीर्यं पराक्रम- वत्त्वम् , तेजस्तु प्रागल्भ्यम् अप्रधृष्यत्वम्। एते च षड् गुणाः सर्वविषयाः सर्वदा भगवति वर्तन्ते। तथा च तस्य शरीरादिमत्त्वेऽपि नास्मदादिसाम्यमित्यर्थः। अथैवमपि कथमीश्वरस्यानादिनिधनस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य स्वभावविपरीतं जन्मादि सम्भवति? न हि भूतानामीशिता २स्वतन्त्रः स्वात्मनोऽनर्थं स्वयमेव सम्पादयितुमर्हति। न चास्य देहादिग्रहे किमपि फलमुपलभ्यते, तत्राह— त्रिगुणात्मिकामिति। सिसृक्षितदेहादिगतवैरूप्यसिद्ध्यर्थमिदं विशेषणम्। तस्याः व्यापकत्वं वक्तुं वैष्णवीमित्युक्तम्। ईश्वरपारवश्यं तस्या दर्शयति— स्वामिति। तस्याश्च प्रतिभासमात्रशरीरत्वमेव, न तु वस्तुत्वमित्याह— मायामिति। तस्या नानाविधकार्याकारेण परिणामित्वं सूचयति— मूलप्रकृतिमिति। ईश्वरस्य प्रकृत्यधीनत्वं वारयति— वशीकृत्येति। नित्यत्वं ३कार्याकारविरहितत्वं, शुद्धत्वमकारणत्वं, बुद्धत्वमजडत्वं, मुक्तत्वम् अविद्याकामकर्मपारतन्त्यराहित्यम्। न च नित्यत्वादयः संसारावस्थायामसन्तो मोक्षावस्थायां सम्भवन्तीति युक्तमित्याह— स्वभाव इति। देहग्रहे प्राधान्यं मायाया दर्शयितुं पुनः स्वमाययेत्युक्तम्। ‘स वा अयं पुरुषो जायमानः शरीरमभि सम्पद्यमानः’ इति श्रुतिमाश्रित्याह— देहवानिति। इवकाराभ्यां देहादेरवस्तुत्वेन कल्पितत्वं द्योत्यते। धर्मद्वयोपदेशद्वारा प्राणिवर्गस्या-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

स च भगवान् ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिः सदा सम्पन्नस्त्रिगुणात्मिकां वैष्णवीं स्वां मायां मूलप्रकृतिं वशीकृत्य१ अजोऽव्ययो भूतानामीश्वरो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि सन् स्वमायया देहवानिव, जात इव च १. द्र.भ.गी. ४-६। २. ‘स्वतन्त्रश्चात्मनोऽनर्थं’ इति पा.। ३. ‘कार्याकारविरहित्वं’ इति पा.।

[[१०]]

इत्यर्थः, ‘सच्चिदानन्दं ब्रह्मे’ति श्रुतेः। ज्ञातुर्हि ज्ञानं स्वरूपम्। ज्ञातृत्वं चास्य ‘स [यः] सर्वज्ञः सर्वविदि’ति श्रुतम्। सर्वज्ञत्वं सर्वावभासकत्वम् , नेदं मायाधर्मः , मायाया जडत्वेनेश्वरभास्यत्वात्। अत एवायं मुक्तः, न तु जीववत् कदाऽपि बद्धः, अज्ञानानभिभूतत्वादिति भावः। इवेति। न तु वस्तुत इत्यर्थः। इवशब्दः कुर्वन्नित्यत्रापि सम्बध्यते। न हि वस्तुतः परमात्मनः लोकानुजिघृक्षाऽपि सम्भवति, निष्कामत्वादीश्वरस्य। यद्वा – परमार्थतः परमात्मनः कामासम्भवेऽपि व्यवहारत ईश्वरस्य लोकानुग्रहः सम्भवत्येव; जन्मदेहौ तु व्यवहारतोऽपि न सम्भवत इत्यभिप्रेत्य कुर्वन्निवेति नोक्तमाचार्यैः। व्यवहारदशायामपि कारणोपाधिर्हीश्वरः। लक्ष्यत इति। अज्ञैरिति शेषः। न हि प्राज्ञा ईश्वरं जातं पश्यन्ति। स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया भगवानर्जुनाय धर्मद्वयमुपदिदेशेति सम्बन्धः। पूर्णकामस्य कुतः शिष्योपदेशे प्रवृत्तिः? अत आह— भूतेति। ५भूताः प्राणिनः, तेषामनुग्रहीतुमिच्छा भूतानुजिघृक्षा, तया। शोकमोहावेव महोदधिः, शोकयुक्तो मोहः शोकमोहः, स एव महोदधिरिति वा शोकमोहमहोदधिस्तस्मिन्निति। एतेनोपदेशस्य शोकमोहनिरासः फलमिति व्यज्यते। किमित्यर्जुनायोपदेशः? अत आह— गुणाधिकैरिति। गृहीतो ज्ञातः, प्रचयम् अभिवृद्धिम्। गुणाधिकत्वादर्जुनस्य यद्ययं मत्तः सकाशाद् धर्मं गृहीत्वाऽनुतिष्ठेत् , तर्हि ‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः’ इति न्यायादितरजनोऽप्यनुतिष्ठेत् । तं च दृष्ट्वा तदितरजनः इत्येवमभिवृद्धिमीयान्मदुक्तः पन्था धर्मस्येति मत्वा भगवानर्जुनाय धर्ममुपदिदेशेति भावः। अनेन च विद्वानाचार्यः सच्छिष्यायैव धर्मं बोधयेदिति सूच्यते। आचार्यस्य स्वयं कृतार्थत्वेन लोकानुग्रह- प्रयोजनवैमुख्ये सति सम्प्रदायोच्छेदप्रसङ्गात्। यथोपदिष्टमिति। उपदिष्टमुपदेशः, भावे क्तः। तदनतिक्रम्य यथोपदिष्टम्। यद्वा – तथेति, यथा भगवतोपदिष्टं तथेत्यन्वयः। उपनिबबन्ध ग्रथितवान्। ईश्वरस्य स्वप्रयोजनं किञ्चिदस्ति न वा? न चेत् , न प्रवृत्तिर्धर्मोपदेशे, अस्ति चेत् अनीश्वरत्वप्रसङ्गः इत्याशङ्क्याह— स्वप्रयोजनाभावेऽपीति। लौकिकस्य तत्त्वविदः शिष्यानुशासनप्रवृत्तिवत् प्रवृत्तिरित्यर्थः। अर्जुनायेति पुरुषविशेष(ण) ग्रहणकारणमाह— गुणाधिकैर्हीति। तदेवं कृष्णस्य धर्मोपदेशकस्य परमेश्वरावतारत्वेन परमाप्तत्वमुक्त्वा तदुपदिष्टे धर्मे श्लोकानां कर्तुः व्यासस्यापि परमाप्तत्वप्रसिद्धेः नाप्रमाणं गीताशास्त्रमित्याह— तं धर्ममिति। भ्युदयनिःश्रेयस२तत्परत्वापादनं लोकानुग्रहः। यद्यपि कूटस्थः स्वतन्त्रो नित्यत्वादिलक्षणश्चायमीश्वरः स्वतो दृश्यते, तथापि यथोक्तमायाशक्त्या देहादि गृहीत्वा प्राणिनामनुग्रहमादधानो न स्वभावविपर्ययं ३प्रयातीत्यर्थः। ननु ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति न्यायाद् ईश्वरस्याप्तकामतया कृतकृत्यस्य प्रयोजनाभावाद् , अनुग्राह्याणां चाद्वैतवादे व्यतिरिक्तानामसत्त्वान्न धर्मद्वय- मुपदेष्टुमुचितमिति, तत्राह— स्वप्रयोजनेति। कल्पितभेदभाञ्जि भूतान्युपादाय तदनुग्रहेच्छया चैत्यवन्दनादिविलक्षणं धर्मद्वयमर्जुनं निमित्तीकृत्याप्तकामोऽपि भगवानुपदिष्टवानित्यर्थः। अर्जुनस्योपदेशापेक्षाऽस्तीति दर्शयितुं विशिनष्टि— शोकेति। ननु भूतानुग्रहे कर्तव्ये किमित्यर्जुनाय धर्मद्वयं भगवतोपदिश्यते? तत्राह— गुणाधिकैरिति। प्रचयं गमिष्यतीति मत्वा धर्मद्वयमर्जुनायोपदिदेशेति सम्बन्धः। अथ४ सुगतोपदिष्टधर्मवदयमपि भगवदुपदिष्टो धर्मो न प्रामाणिकोपादेयतामुपगच्छेदित्याशङ्क्य , वेदोक्तत्वान्नास्य तत्तुल्यत्वमित्युक्त- मित्यभिप्रेत्य शिष्टपरिगृहीतत्वाच्च मैवमित्याह— तं धर्ममिति। अधर्मे धर्मबुद्धिर्वेदव्यासस्य जातेत्याशङ्क्याह— सर्वज्ञ इति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

लोकानुग्रहं कुर्वन् लक्ष्यते। स्वप्रयोजनाभावेऽपि भूतानुजिघृक्षया वैदिकं१ धर्मद्वयमर्जुनाय शोकमोहमहोदधौ निमग्नाय उपदिदेश, गुणाधिकैर्हि गृहीतोऽनुष्ठीयमानश्च धर्मः प्रचयं गमिष्यतीति। तं धर्मं भगवता यथोपदिष्टं वेदव्यासः सर्वज्ञो १. ‘वैदिकं हि’ इति पा.। २. ‘प्रवणत्वापादनम्’ इति पा.। ३. ‘पर्येतीत्यर्थः’ इति पा.। ४. ‘अथ तथापि’ इति पा. क्वचित्। ‘तथागतोपदिष्ट’ इति पा.। ५. भूतानीति पाठः संभाव्यते। उपोद्घातः ]

[[११]]

अनेकैर्वृत्तिकारादिभिर्विद्वद्भिः। उपलभ्य दृष्ट्वा। संक्षेपत इति। ग्रन्थविस्तरभयादिति भावः। ५लोकानुग्रहार्थमेवाचार्यस्य प्रवृत्तत्त्वात् तत्क्रियाफलस्य सुकृतादेरात्मगामित्वं ६माऽस्त्वित्यभिप्रेत्याह— करिष्यामीति। यदि करिष्ये इत्युच्येत तर्हि तज्जन्य- सुकृतादिना बन्धः स्यात् कवेरिति बोध्यम्। ‘कृष्णद्वैपायनं विद्धि व्यासं नारायणं प्रभुम्’ इति स्मृतेः, सज्जनोपकारकभगवदवतारत्वाच्च व्यासस्य नान्यथाबुद्धिरित्याह— भगवानिति। गीताशास्त्रस्यानाप्तप्रणीतत्वमपाकृत्य व्याख्येयत्वमुपपादितमुपसंहरति— तदिदमिति। पौरुषेयस्य वचसो मूलप्रमाणाभावेना- प्रामाण्यमिति मत्वा विशिनष्टि— समस्तेति। शास्त्राक्षरैरेव तदर्थप्रतिपत्तिसम्भवे किमिति व्याख्यानमित्याशङ्क्याह— दुर्विज्ञेयार्थमिति। ‘पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना। आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम्॥’ इत्यादिक्रमेणास्य शास्त्रस्य पूर्वाचार्यैर्व्याख्या- तत्वात् किमर्थमिदमारभ्यते, गतार्थत्वात् , तत्राह—तदर्थेति। गीताशास्त्रार्थस्य प्रकटीकरणार्थं पदविभागस्तदर्थोक्तिः समासद्वारा वाक्या- र्थनिर्देशस्तत्रापेक्षितो न्यायश्चाक्षेपसमाधानलक्षणो वृत्तिकारैर्दर्शितः, तथापि तथाविधमेव शास्त्रं शास्त्रपरिचयशून्यैः २समुच्चयवादिभिः विरुद्धार्थत्वेनानेकार्थत्वेन च गृहीतमालक्ष्य तद्बुद्धिमनुरोद्धुमिदमारब्धव्यमित्यर्थः। येषां प्राचीने व्याख्याने बुद्धिरप्रविष्टा तेषां सम्प्रतितन एतस्मिन्नसौ प्रवेक्ष्यतीति कुतो नियमस्तत्राह— विवेकत इति। पूर्वव्याख्याने तत्तदर्थनिर्धारणार्थो न्यायः३ सङ्कीर्णवद् भातीति न तत्र केषाञ्चिन्मनीषा समुन्मिषति, प्रकृते त्वसंकीर्णतया तत्तत्पदार्थनिर्णयोपयोगी न्यायो विव्रियते। तेनात्र मन्दमध्यमयोरपि बुद्धिरव- तरतीत्यर्थः। किञ्चानपेक्षिताधिकग्रन्थसद्भावान्न प्राचीने व्याख्याने श्रोतॄणां प्रवृत्तिः, अत्र त्वपेक्षिताल्पग्रन्थे विवरणे प्रायशः सर्वेषां प्रवृत्तिः स्यादिति मत्वाऽऽह— संक्षेपत इति। नन्वनाप्तप्रणीतत्वाभावेऽपि नेदं शास्त्रं व्याख्येयम् , विषयाद्यनुबन्धस्यानभिहितत्वेन ४अभावादित्याशङ्क्य सर्वव्यापाराणां

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

वेदमूलत्वादपि वेदवत् प्रमाणं गीताशास्त्रम् , ततो व्याख्यानार्हमित्याह— तदिदमिति। तथापि स्फुटार्थत्वादव्या- ख्येयमित्याशङ्क्याह— दुर्विज्ञेयार्थमिति। तथाप्यनेकैः वृत्तिकारैस्तदर्थप्रकटनाय यत्नस्य कृतत्वात् तव प्रयासो व्यर्थ इत्याशङ्क्याह— तदर्थाविष्करणायेति। विवृतानि पदानि पदार्थाश्च वाक्यार्थश्च तदनुग्राहको न्यायश्च यस्य शास्त्रस्य [तत्] तथोक्तम्। कर्मैव पुरुषार्थसाधनं गीतार्थ इति केचित् , कर्मसमुच्चितं ज्ञानमित्येके, केवलविज्ञानमित्यन्ये, एवमत्यन्त- विरुद्धानेकार्थत्वेनेत्यर्थः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

भगवान् गीताख्यैः सप्तभिः श्लोकशतैरुपनिबबन्ध१। तदिदं गीताशास्त्रं समस्तवेदार्थसारसंग्रहभूतं दुर्विज्ञेयार्थं तदर्थाविष्करणायानेकैर्विवृतपदपदार्थवाक्यार्थन्याय- मपि अत्यन्तविरुद्धानेकार्थत्वेन लौकिकैर्गृह्यमाणमुपलभ्याहं विवेकतोऽर्थनिर्धारणार्थं संक्षेपतो विवरणं करिष्यामि। १. तत्र च प्रायशः श्रीकृष्णमुखनिःसृतानेव श्लोकानलिखत्। कांश्चित् तत्संगतये स्वयं व्यरचयत् । यथोक्तं गीतामाहात्म्ये - ‘गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः। या स्वयं पद्मनाभस्य मुखपद्माद् विनिःसृता।’ इति श्रीधरीये। अत्र च व्यासस्य ज्ञानकार्यत्वेन ज्ञानोपदेशे प्राधान्यम् , कृष्णस्य तु बलकार्यत्वेन ज्ञानोपदेशस्य प्रासङ्गिकत्वमित्यभिप्रेत्य मध्वाचार्याः व्यासावतारपुरस्कारेण गीताशास्त्रमवतारयामासुः। वस्तुतस्तु ज्ञानावतारत्वेऽपि भगवता व्यासेन श्रीकृष्णो- पदिष्टत्वेनैव गीताशास्त्रस्य निबद्धत्वेन कृष्णावतारोपवर्णनेनैव गीतावतारणौचित्यमिति। २. ‘समुच्चयासमुच्चयवादिभिः’ इति पा.। ३. ‘निर्धारणार्थोपन्यासः’ इति पा.। ४. विषयाद्यनुबन्धस्याभावादिति संबन्धः। ‘विषयाद्यनुबन्धस्यानभिहितत्वेन शास्त्रत्वाभावाद्’ इति पा.। ५. करिष्यामीति परस्मैपदप्रयोगस्याभिप्रायमाह— लोकेति। ६. ‘स्वरितञितः कर्त्रभिप्राये क्रियाफले’ (पा.सू. १.३.७२) इति सूत्रेण कर्तृगामिनि फले आत्मनेपदविधानात् , भाष्यकाराणां च लोकानुग्रहार्थमेव गीतार्थविवरणे प्रवृत्तत्वात् , फलस्यात्मगामित्वेनेष्टत्वाभावात् परस्मैपदप्रयोगस्यौचित्यमिति।

[[१२]]

प्रयोजनार्थत्वादादौ प्रयोजनमाह— तस्येति। प्रसाधितप्रामाण्यस्य व्याख्येयत्वेन मनसि सन्निहितस्य गीताशास्त्रस्य। २संक्षेपतः संग्रहः सम्पिण्डितत्वमेकवाक्यत्वम् , तेन । इदं परमं फलं यन्निश्चितं श्रेयो निःश्रेयसं कैवल्यम्। अवान्तरफलं तु तत्र तत्रावान्तरवाक्यभेदेन मनोनिग्रहादि विवक्ष्यते। निःश्रेयसं च द्विविधम् – निरतिशयसुखाविर्भावो निःशेषानर्थोच्छित्तिश्च। तत्राद्यमुदाहरति— परमिति। द्वितीयं दर्शयति— सहेतुकस्येति। संसारोपरमस्यात्यन्तिकत्वं प्रतियोगिनः संसारस्य पुनरुत्पत्त्ययोग्यत्वम्। तच्च स्वापमूर्च्छादिव्यवच्छेदार्थं विशेषणम्। ३तदेव साधयितुं सहेतुकस्येत्युक्तम्। उक्तं फलं ४समुच्चितादेकाकिनो वा कर्मणः स्यादिति तस्यैव शास्त्रप्रतिपाद्यतेत्याशङ्क्य अभिधेयमभिधित्समानः समाधत्ते— तच्चेति। आत्मज्ञाननिष्ठाशेषत्वेन कर्मनिष्ठाऽत्रोच्यते, प्राधान्येन त्वात्मज्ञाननिष्ठैवात्र प्रतिपाद्यत इत्यर्थः। ५ननु शेषिणी निष्ठा कुतो भवति संन्यासात् , न कर्मनिष्ठायाः, शेषत्वात्? तत्राह—सर्वेति। संन्यासद्वारेणासकृदनुष्ठितश्रवणादेः शेषिणी निष्ठा सिध्यति। शेषत्वं च कर्मणस्तत्र ६परम्पराश्रयत्वमित्यर्थः। ननु ‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्’ इति वाक्यशेषात् ७समुच्चितमात्मज्ञानमत्र प्रतिपाद्यते, नेत्याह— तथेति। सर्वकर्मसंन्यासपूर्वकमात्मज्ञाननिष्ठारूपं धर्मं ८निःश्रेयसप्रयोजनं प्रागुक्तं परा- मृशति— इममेवेति। वक्तृभेदादभिप्रायभेदाशङ्कां वारयति— भगवतैवेति। उक्तमनुगीतास्विति सम्बन्धः। ब्रह्मणः पदं पूर्वोक्तं निःश्रेयसम् , तस्य वेदनं लाभः, तत्र विशिष्टो ज्ञाननिष्ठारूपो धर्मः समर्थो भवतीत्यर्थः। यज्ञदानादिवाक्यस्य तु तद्व्याख्यानावसरे तात्पर्यं आनन्दगिरिकृतव्याख्या तदेवमप्रामाण्यप्रयुक्तामव्याख्येयत्वाशङ्कां परिहृत्य, यदुक्तं प्रयोजनादिराहित्यं तत् परिहरति—तस्यास्येति। तस्येति साधितप्रामाण्यस्य, अस्येति व्याख्येयत्वेन हृदि सन्निधापितस्येत्यर्थः। प्रयोजनमुक्त्वा विषयमाह— तच्चेत्यादिना। ननु सर्वकर्मसंन्यासपूर्विका ज्ञाननिष्ठा न गीतायां प्रतिपाद्या, यतो ‘यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत्’ इति भगवता स्वमत [मुक्त]मित्याशङ्क्याह— तथेममेवेति। स हि धर्मः सर्वधर्मसंन्यासपूर्वकज्ञाननिष्ठालक्षणः, सुपर्याप्तः समक्षो[मर्थो] ब्रह्मणः पदप्राप्तावित्यनुगीतासु भगवतैवोक्तम्। ततः कर्मसंन्यासो नास्तीति भगवतोऽ[न]नुमतम्। तस्मादियमपि गीता संन्यास-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

संक्षेपत इति। प्राधान्येनेत्यर्थः। कर्मज्ञानादीनि त्ववान्तरफलानीति भावः। स हीति। स आत्मज्ञाननिष्ठारूपो निवृत्तिलक्षणो धर्मो ब्रह्मणः परमात्मनः पदवेदने स्वरूपसाक्षात्कारे सुपर्याप्तः सुष्ठु समर्थः। हिशब्दः सर्वशास्त्रविद्वत्प्रसिद्धिं द्योतयति। ननु ‘चोदनालक्षणोऽर्थो धर्मः’ इति जैमिनिसूत्रात् प्रवृत्तेरस्तु धर्मत्वं, कथं पुनर्निवृत्तेरिति शङ्कायामौपचारिकमेव निवृत्तेर्धर्मत्वमिति हृदि कृत्वा तत्र प्रमाणमाह— नैवेति। यः किञ्चिदप्यचिन्तयन् तूष्णीमेकासने एकस्मिन् सर्वाधारे प्रत्यगभिन्ने ब्रह्मणि लीनःस्यात् सः धर्मी नैव, अधर्मी च नैव, शुभी नैव, अशुभी नैव च । हिः प्रसिद्धौ। ननु निवृत्तेर्मास्तु तस्यास्य गीताशास्त्रस्य संक्षेपतः प्रयोजनम् – परं निःश्रेयसं सहेतुकस्य संसारस्यात्यन्तोपरमलक्षणम् । तच्च सर्वकर्मसंन्यासपूर्वकादात्मज्ञाननिष्ठारूपाद् धर्माद् भवति। तथेममेव गीतार्थं धर्ममुद्दिश्य भगवतैवोक्तम् – ‘स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने’ (म.भा.अश्व.१६.१२) इत्यनुगीतासु। १तत्रैव चोक्तम् – ‘नैव धर्मी न चाधर्मी न चैव भाष्यार्कप्रकाशः १. ‘किञ्चान्यदपि तत्रैवोक्तम्’ इति पा.। २. ‘संक्षेपः’ इति पा.। ३. परं निःश्रेयसं संसारस्यात्यन्तोपरमलक्षणम् इत्येतावतैवोपपत्तौ सहेतुकस्येति विशेषणं संसारोपरमस्यात्यन्तिकत्वे प्रमाणबोधकतया सार्थकयति—तदेवेति। स्वापादौ तदनात्यन्तिकत्वं तु हेतोरनुपरमादिति भावः। ४. आत्मज्ञानेन समुच्चिता- दित्यर्थः। ५. कर्मनिष्ठायाः आत्मज्ञाननिष्ठाशेषत्वे, शेषिणी आत्मज्ञाननिष्ठा कर्मनिष्ठातो भवतीति वक्तव्यम् , अन्यथा तस्याः शेषत्वानुपपत्तेः, अतः संन्यास- पूर्वकादिति भाष्यासंगतिरित्याशङ्क्य निराकरोति—नन्विति। ‘कुतो भवति? न संन्यासात् , कर्मनिष्ठायाः शेषत्वात्’ इति पा.। ६. परम्परयोपकारकत्वमित्यर्थः। ‘परम्परायत्त’मिति पा.। ७. ‘असमुच्चितमात्मज्ञानमत्र न प्रतिपाद्यते’ इति पा.। ८. ‘निःश्रेयससाधनम्’ इति पा.। उपोद्घातः ]

[[१३]]

धर्मत्वं, कथं पुनर्ज्ञानत्वम्? अत आह— ज्ञानमिति। संन्यासः सर्वकर्मसंन्यासः लक्षणं स्वरूपं यस्य तत् संन्यासलक्षणम् - सर्वकर्मसंन्यासरूपा निवृत्तिरेवात्मज्ञाननिष्ठा, न त्वन्यदित्यर्थः। किं ग्रन्थान्तरप्रमाणोदाहरणेनेत्याह—इहापीति। सर्वेति। प्रवृत्ति- लक्षणसर्वधर्मान् विहायेत्यर्थः, निवृत्तिधर्मस्य त्यागायोगात् , मामेकं प्रत्यगभिन्नं ब्रह्म शरणं व्रजेति निवृत्तिधर्मस्यैव कर्तव्यत्वेनो- पदेशाच्च। आत्मज्ञाननिष्ठैव खलु निवृत्तिधर्मः। एवं निःश्रेयसार्थं निवृत्तिधर्ममुपवर्ण्य अथ प्रवृत्तिधर्ममाह— अभ्युदयार्थ इति। अभ्युदयः अर्थः प्रयोजनं यस्य सः प्रवृत्तिलक्षणश्चोदनालक्षणः ज्योतिष्टोमादिः। नित्यनैमित्तिककाम्यप्रायश्चित्तभेदेन चतुर्विधोऽयं धर्मः। सत्त्वशुद्धिः चित्तशुद्धिः । फलाभिसन्धिः धर्मफलेषु स्पृहा। शुद्धसत्त्वस्येति। शुद्धचित्तस्य पुरुषस्य। प्रतिपद्यते प्राप्नोति, धर्म हि शुभाशुभी।’ (द्र.म.भा.अश्व.१९.७) ‘यः स्यादेकासने लीनस्तूष्णीं किञ्चिदचिन्तयन्’ (म.भा.अश्व.१९.१) इति, ‘ज्ञानं संन्यासलक्षणम्’ (म.भा.अश्व.४३.२६) इति च। इहापि चान्ते उक्तमर्जुनाय – ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ (भ.गी.१८.६६) इति। अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णान् आश्रमांश्चोद्दिश्य विहितः, स च देवादिस्थानप्राप्तिहेतुरपि सन् ईश्वरार्पणबुद्ध्या अनुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धिवर्जितः; शुद्धसत्त्वस्य च ज्ञाननिष्ठायोग्यताप्राप्तिद्वारेण ज्ञानोत्पत्तिहेतुत्वेन च निःश्रेयसहेतुत्वमपि प्रतिपद्यते। तथा चेममर्थमभिसन्धाय वक्ष्यति पूर्वकज्ञानपर्यवसायिनी, गीतार्थात् [गीतात्वात् ], अनुगीतावदित्यर्थः। अत्यागवचनस्याभिप्रायं वक्ष्यति। संन्यासो लक्षणं कारणमस्येति तथोक्तं ज्ञानं विद्धीत्यर्थः। न केवलमनुगीतास्वेवोक्तम् , अत्रापि अन्तेऽवसाने दर्शितमित्याह— इहापि चेति। ननु ‘कुरु कर्मैव तस्मात् त्वम्’ इत्यादिप्रदेशेषु प्रवृत्तिलक्षणोऽपि धर्मो गीतायां प्रतिपाद्यते। तत् कथं ससंन्यासपूर्वं कर्मात्म [संन्यासपूर्वकमात्म]ज्ञानं गीताप्रतिपाद्यमुच्यते इत्याशङ्क्य, तस्यापि परम्परया ज्ञाने तात्पर्यं दर्शयति— अभ्युदयार्थो ऽपीत्यादिना। वक्ष्यते। कर्मत्यागस्य भगवतोऽभिप्रेतत्वे वाक्यान्तरमनुगीतागतमेवोदाहरति— तत्रैवेति। धर्माधर्मापूर्वासंसर्गित्वे हेतुमाह— १न चैवेति। क्रियाद्वयसम्बन्धाभावात् तन्निर्वर्त्त्यापूर्वाभ्यामसम्बन्धे प्राप्तमर्थमाह— यः स्यादिति। वागादिबाह्यकरणव्यापारविरहितत्वं तूष्णीमित्यु- च्यते। किञ्चिदचिन्तयन्नित्यन्तःकरणव्यापाराभावोऽभिप्रेतः। द्विविधकरणव्यापारविरहितः सन् प्रागुक्तो योऽधिकारी, केवलमेकस्मिन्न- द्वितीये ब्रह्मण्यासनमवस्थानम् , तत्र लीनस्तस्मिन्नेव समाप्तिभागी स्यात् , तस्यासम्प्रज्ञातसमाधिनिष्ठस्य सर्वकर्मत्यागहेतुकं ज्ञानं मुक्तिहेतुर्भवतीत्यर्थः। न केवलमनुगीतास्वेव यथोक्तं ज्ञानमुक्तम् , किन्तु प्रकृतेऽपि शास्त्रे समाप्त्यवसरे दर्शितमित्याह— इहापीति। नन्वत्र निवृत्तिलक्षणधर्मात्मकं ससंन्यासमात्मज्ञानमेव न प्रतिपाद्यते, ‘कुरु कर्मैव तस्मात्त्वम्’ इत्यादौ प्रवृत्तिलक्षणस्यापि धर्मस्य वक्ष्यमाणत्वाद् ,२धर्मयोश्च प्रकृतत्वाविशेषात् , तत्राह— अभ्युदयार्थोऽपीति। ननु वर्णिभिराश्रमिभिश्चानुष्ठेयत्वेनान्यत्र विहितस्यापि तस्य न युक्तं मोक्षसाधनत्वाधिकारे विधानम् , देवादिस्थानप्राप्तिहेतुत्वेन ३मोक्षप्रतिपक्षत्वात्। सत्यम् , तथापि फलाभिलाषमन्तरेणेश्वरार्पण- धिया कृतस्य बुद्धिशुद्धिहेतुत्वात् तस्येह वचनमित्याह— स च४ देवादीति। फलाभिसन्धिद्वारा कृतः सन्निति शेषः। प्रवृत्तिलक्षण- धर्मस्योक्तरीत्या चित्तशुद्धिहेतुत्वेऽपि ५मोक्षहेतुत्वेन कुतो मोक्षाधिकारे निर्देशः स्यादित्याशङ्क्याह— शुद्धेति। प्रतिपद्यते प्रागुक्तो धर्म इति शेषः। यदुक्तं फलाभिसन्धिवर्जितमीश्वरार्पणबुद्ध्याऽनुष्ठितं कर्म बुद्धिशुद्धये भवतीति, तत्र वाक्यशेषमनुकूलयति— तथा चेति। भाष्यार्कप्रकाशः १. ‘नैवेति’ इति पा.। तन्न युक्तम् , ‘न चैव हि शुभाशुभी’ इत्यस्यैव हिशब्दघटितत्वेन हेतुपरतयाऽवतारणौचित्यात् । २. ‘द्वयोश्च’ इति पा.। ३. ‘मोक्षं प्रति प्रतिपक्षत्वात्’ इति पा.। ४. ‘च’ इति भाष्ये टीकाप्रतीके च क्वचिन्न। ५. मोक्षहेतुत्वेन निर्देशः कुत इत्यन्वयः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या

[[१४]]

– ‘ब्रह्मण्याधाय कर्माणि’ ‘योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये’ (भ.गी.५.१०, ११) इति। १इमं द्विप्रकारं धर्मं निःश्रेयसप्रयोजनम् , परमार्थतत्त्वं च वासुदेवाख्यं परं ब्रह्म अभिधेयभूतं विशेषतो ऽभिव्यञ्जयद् विशिष्टप्रयोजनसम्बन्धाभिधेयवद् गीताशास्त्रम्। यतः २तदर्थविज्ञानेन समस्तपुरुषार्थसिद्धिः, अतः तद्विवरणे यत्नः क्रियते मया॥

॥समाप्तेयं श्रीमच्छाङ्करभाष्योपक्रमणिका॥

उक्तं संक्षेपतो निगमयति— इमं द्विप्रकारमित्यादिना॥

॥इत्युपोद्घातभाष्यटिप्पणम्॥

शास्त्रस्य प्रयोजनं ससाधनमुक्तमनूद्य विषयं दर्शयति— इममिति। दर्शितेन फलेन शास्त्रस्य निष्ठाद्वयद्वारा साध्यसाधनभावः सम्बन्धः, विषयेण विषयविषयित्वमिति विवक्षित्वाऽऽह— विशेषत इति। एवमनुबन्धत्रयविशिष्टं शास्त्रं व्याख्यानार्हमित्युपसंहरति— विशिष्टेति। सिद्धे व्याख्यानयोग्यत्वे व्याख्येयत्वं फलितमाह— यत इति॥

॥इत्युपोद्घातभाष्यव्याख्या॥

इत्येव कर्तृपदम् । आत्मशुद्धये सत्त्वशुद्धये। विषयसम्बन्धाधिकारिप्रयोजनाख्यमनुबन्धचतुष्टयं तावच्छास्त्रस्यावश्यकम् । तत्र अधिकारिणां मुमुक्षूणामत्र सुज्ञेयत्वादन्यत् त्रयमाह— इहेत्यादिना। अभिधेयभूतं विषयभूतम्। निःश्रेयसप्रयोजनं साक्षात्क्रमेण च मोक्षफलकं द्विप्रकारं द्विविधं धर्मं – निवृत्तिधर्मं प्रवृत्तिधर्मं च, परमार्थतत्त्वं परमार्थतःसत्यं वासुदेवाख्यं परं ब्रह्म च विशेषतोऽभिव्यञ्जयत् प्रकटयत् सद् गीताशास्त्रं विशिष्ट- प्रयोजनसम्बन्धाभिधेयवत् । विशिष्टानि विलक्षणानि उत्कृष्टानि वा प्रयोजनसम्बन्धाभिधेयानि अस्य सन्तीति (अस्मिन् सन्तीति वा) तथोक्तं भवति। निःश्रेयसं प्रयोजनम् , द्विविधो धर्मः वासुदेवश्चेत्येतत् त्रयमभिधेयम् , व्यङ्ग्यव्यञ्जकभावः सम्बन्ध इति विवेकः। तदर्थे गीताशास्त्रार्थे धर्मद्वये, वासुदेवे चेत्यर्थः। अतः ३तत इत्यर्थः॥

॥इत्युपोद्घातभाष्यार्कप्रकाशः॥

[आनन्दगिरिकृतव्याख्या]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

भाष्यार्कप्रकाशः १. ‘इह द्विप्रकारम्’ इति रा.पा.। २. ‘तदर्थे विज्ञाते’ इति रा.पा.। ३. भाष्ये ‘यतः’ इति आदौ यच्छब्दप्रयोगात् अतःशब्दस्य ‘ततः’ इति तच्छब्देन विवरणम्।