॥अथ सप्तदशोऽध्यायः॥
अर्जुन उवाच— ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः। तेषां निष्ठा तु का कृष्ण ! सत्त्वमाहो रजस्तमः॥१॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
लब्धप्रश्नबीज इति। ‘तव शास्त्रं प्रमाण’मित्युक्तत्वेन केषाञ्चिच्छास्त्रं प्रमाणं न भवत्येवेति सिद्धत्वात् तदीयगतिं प्रष्टुम् अर्जुनस्यावकाश आसीदिति भावः। ये शास्त्रविधिमुत्सृज्य श्रद्धयाऽन्विताः सन्तो यजन्ते, हे कृष्ण ! तेषां तु निष्ठा का? किं सत्त्वं निष्ठा? आहो रजः? यद्वा तमः? अवशेषिताः पूर्वमनुक्ता इत्यर्थः। ‘यज देवपूजे’ति धातुपाठादाह— देवादीनिति। वृद्धेति। यथा वृद्धाः प्राचीना येषु येषु कर्मसु प्रवृत्ताः, तान् दृष्ट्वा श्रुत्वा वा स्वयमपि तथा तेषु तेषु प्रवृत्ताः श्रद्धायुक्ताः सन्त इत्यर्थः। ननु शास्त्रविधिमुत्सृज्य देवादीन् यजमाना इमे किं शास्त्रविदोऽप्यासुरसम्पत्प्रयुक्ततया शास्त्रविधिं त्यक्तवन्तः? किं वा अशास्त्रविदोऽज्ञाः विध्यपरिज्ञानाच्छास्त्रविधिं त्यक्तवन्तः? इति शङ्कायां द्वितीयविकल्पं परिगृह्य समाधत्ते— श्रुतीति। इति गृह्यन्त इति। इति वाक् येन प्रतिपाद्यन्त इत्यर्थः। प्रथमं विकल्पं निराचष्टे— ये पुनरिति। तत्र हेतुं पृच्छति— कस्मादिति। उत्तरयति— श्रद्धयेति। तदेव संग्रहभूतं हेतुवाक् यं विवृणोति— देवादीति। शास्त्रविधिं विद्वांसोऽपि ये परित्यजन्ति, तेषां तत्परित्यागे कारणं शास्त्रविधौ श्रद्धाऽभाव एव। शास्त्रविधिमविदुषां तत्परित्यागे तु शास्त्रविधिज्ञानाभाव एव कारणम् , न तु श्रद्धाऽभावः। न च शास्त्रविधिमविदुषां कुतस्तस्मिन् श्रद्धाऽवकाश इति वाच्यम् ; वृद्धव्यवहारदर्शनानुमिते यत्किञ्चिद्विधौ तेषां श्रद्धायाः सत्त्वादिति। ३अश्रद्धधानतया तदुत्सृज्येत्यन्वयः। तदित्यस्य शास्त्रमि- आनन्दगिरिकृतव्याख्या आस्तिकानां नास्तिकानां च शास्त्रैकचक्षुषां गतिरुक्ता। सम्प्रत्यास्तिकानामेव शास्त्रानभिज्ञानां गतिजिज्ञासया पृच्छतीत्याह— तस्मादिति। यजन्ते इति यागग्रहणं दानादेरुपलक्षणम्। यदि वेदोक्तं विधिमपश्यन्तस्तमुत्सृजन्ति, कथं तर्हि श्रद्दधाना यागादि कुर्वन्ति? न हि मानं विना श्रद्धया यागादि कर्तुं शक् यमित्याशङ्क् याह— श्रुतीति। ननु शास्त्रीयं विधिं पश्यन्तोऽपि केचित् तमुपेक्ष्य स्वोत्प्रेक्षया यागादि कुर्वन्तो दृश्यन्ते, तेषामिह ‘ये शास्त्रविधिमुत्सृज्य’ इति ग्रहो भविष्यति, नेत्याह— ये पुनरिति। तेषामत्रापरिग्रहे प्रश्नपूर्वकं हेतुमाह—कस्मादिति। शास्त्रज्ञानां तदुपेक्षावतां ग्रहेऽपि विशेषणमविरुद्धमित्याशङ्क् य व्याघातान्मैवमित्याह—देवादीति। अश्रद्दधान- तया तदुत्सृज्येति सम्बन्धः। शास्त्रोक्तं विधिमधिगच्छतामपि तमवधीर्य स्वेच्छया देवपूजादौ प्रवृत्तानामासुरेष्वेवान्तर्भावो ‘तस्माच्छास्त्रं प्रमाणं ते’ (भ.गी.१६.२४) इति भगवद्वाक् याल्लब्धप्रश्नबीजोऽर्जुन उवाच— ये शास्त्रेति। ये केचिदविशेषिताः१ शास्त्रविधिं शास्त्रविधानं श्रुतिस्मृतिशास्त्रचोदनाम् उत्सृज्य परित्यज्य यजन्ते देवादीन् पूजयन्ति श्रद्धयाऽन्विताः श्रद्धया आस्तिक् यबुद्ध्या अन्विताः संयुक्ताः सन्तः; श्रुतिलक्षणं स्मृतिलक्षणं वा कञ्चिच्छास्त्रविधिम् अपश्यन्तो वृद्धव्यवहारदर्शनादेव ये श्रद्दधानतया देवादीन् पूजयन्ति, त इह ‘ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धया ऽन्विताः’ २इत्येवं गृह्यन्ते। ये पुनः कञ्चिच्छास्त्रविधिमुपलभमाना एव तमुत्सृज्य अयथाविधि देवादीन् पूजयन्ति, त इह ‘ये शास्त्रविधिमुत्सृज्य यजन्ते’ इति न परिगृह्यन्ते। कस्मात्? श्रद्धयाऽन्वितत्वविशेषणात्। देवादिपूजाविधिपरं १. ‘केचिदवशेषिताः’ इति रा.पाठ इति भाति। २. ‘इति गृह्यन्ते’ इति रा.पा.। ३. अत्र भाष्यमुत्तरपुटे द्र.।
[[८२४]]
किञ्चिच्छास्त्रं पश्यन्त एव तदुत्सृज्याश्रद्दधानतया १तद्विहितायां देवादिपूजायां श्रद्धयाऽन्विताः प्रवर्तन्त इति न शक्यं कल्पयितुं यस्मात् तस्मात् पूर्वोक्ता एव ‘ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः’ इत्यत्र गृह्यन्ते। तेषाम् एवम्भूतानां निष्ठा तु का कृष्ण ! सत्त्वमाहो रजस्तमः किं सत्त्वं निष्ठा अवस्थानम् , आहोस्विद् रजः, अथवा तम इति? एतदुक्तं भवति— या तेषां देवादिविषया पूजा सा किं सात्त्विकी, आहोस्विद् राजसी, उत तामसीति॥१॥
सामान्यविषयोऽयं प्रश्नो नाप्रविभज्य प्रतिवचनमर्हतीति श्रीभगवानुवाच— त्रिविधेति। त्रिविधा त्रिप्रकारा भवति श्रद्धा, यस्यां निष्ठायां त्वं पृच्छसि, देहिनां शरीरिणां सा स्वभावजा। जन्मान्तरकृतो धर्मादिसंस्कारो त्यर्थः। तद्विहीनायां शास्त्रविधिरहितायां देवादिपूजायां श्रद्धयाऽन्विताः प्रवर्तन्त इति कल्पयितुं यस्मान्न शक् यमित्यन्वयः। तस्माद् एवं कल्पयितुं नशक् यत्वादित्यर्थः। पूर्वोक्ता एवेति। अशास्त्रविद एवेत्यर्थः। शास्त्रविधिमविद्वांसोऽप्यज्ञाः श्रद्धया देवादिपूजायां प्रवर्तमाना दृश्यन्ते। तेषां सा प्रवृत्तिः किं सत्त्वकृता? उत रजःकृता? अथवा तमःकृता? इति प्रश्ननिष्कर्षः। सत्त्वं निष्ठेति। नितिष्ठति प्रति- तिष्ठत्यस्यामिति निष्ठा प्रतिष्ठा, आश्रय इति यावत्। २अवतिष्ठत्यस्मिन्नित्यवस्थानम्। यद्वा भावार्थवाची निष्ठाशब्दः। निष्ठा अवस्थानं स्थितिरिति यावत्। औपचारिकोऽयं प्रयोगः निष्ठेति निष्ठाश्रये वस्तुनि। किं ते सत्त्वे तिष्ठन्ति? उत रजसि? यद्वा तमसि? इति फलितार्थः। एवं श्लोकार्थस्य दुर्बोधत्वादाह— एतदुक्तं भवतीति। तेषामिति। अविदुषामित्यर्थः। अविद्वत्तयोत्सृष्टशास्त्रविधीनामिति वा। ॥१॥
त्रिविधेति। सामान्यविषयोऽपि प्रश्नः प्रविभज्य विशिष्य प्रतिवचनमर्हतीति न्यायाच्छ्रद्धयाऽन्विता इति सामान्येनोक्ते ऽप्यर्जुनेन भगवान् तां प्रविभज्य उत्तरयति— त्रिविधेत्यादिना। यस्यामिति। श्रद्धायामित्यर्थः। यद्यपि सत्त्वादिनिष्ठैवार्जुनेन पृष्टा, तथापि तत्प्रश्नस्य श्रद्धानिष्ठायामेव पर्यवसानमिति बोध्यम्। स्वभावशब्दार्थमाह— जन्मान्तरेति। अतीतानेकजन्मकृतानां बहूनां धर्माधर्माणां संस्काराः अविद्यायामन्तःकरणे वा वर्तमानाः सन्तः कर्मशब्देनोच्यते। तत्र यत् कर्म मरणकालेऽभिव्यज्यते, तदेवोत्तरजन्मारम्भकत्वात् प्रारब्धमित्युच्यते, तदेवेह स्वभावशब्देनोच्यत इति। देहिनां श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा भवति, सा स्वभावजा भवति। तां शृणु इत्यन्वयः। देहिनां स्वभावजा सा श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा भवति, तां शृणु इति वा। प्रारब्धवशात् केषाञ्चिद् देहिनां सात्त्विकी श्रद्धा भवति, केषाञ्चिद् राजसी, केषाञ्चित् पुनस्तामसी। इयं श्रद्धा सात्त्विकी, पुनरियं यस्मादनन्तराध्याये सिद्धः, तस्मादास्तिकाधिकारे तेषां प्रसङ्गो नास्तीत्युपसंहरति— यस्मादिति। पूर्वोक्ताः शास्त्रानभिज्ञाः, वृद्धव्यवहारानुसारिण इति यावत्। तैः श्रद्धया क्रियमाणं कर्म कुत्र पर्यवस्यतीति पृच्छति— तेषामिति। का निष्ठेत्येतद् विवृणोति— सत्त्वमिति। कार्याणां कारणैर्व्यपदेशमाश्रित्य तात्पर्यमाह— एतदिति॥१॥
विशेषनिष्ठमुत्तरं सामान्येन वक्तुं न शक् यमित्याशयेन परिहरति— सामान्येति। किमिति श्रद्धात्रैविध्यं प्रश्नानुपयुक्तमुच्यते? तत्राह— यस्यामिति। श्रद्धापूर्विकायां क्रियायामिति यावत्। श्रद्धात्रैविध्ये हेतुमाह— सा स्वभावजेति। स्वभावशब्दार्थं प्रकृतोपयोगितया
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘तद्विहीनायां’ इति रा.पाठः भाति। २. ‘अवतिष्ठते’ इति युक्तम्। श्रीभगवानुवाच— त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥२॥
[[८२५]]
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत !। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥३॥
यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः। राजसी, पुनरियं तामसीति ज्ञानोपायं सूचयति देवपूजादिविषयेत्यादिविशेषणदानेन। प्रारब्धवशात् केचित् सात्त्विकश्रद्धया देवादीन् यजन्ते, केचिद् राजसश्रद्धया यक्षरक्षःप्रमुखान् , केचित् तामसश्रद्धया प्रेतपिशाचादीनिति परमार्थः। सैवमिति। सा श्रद्धा। एवम् उक्तरीत्या। अत्र - शास्त्रीयश्रद्धात्रैविध्यं तावदाहेति रामानुजः। तदयुक्तम् , देहिनामित्यविशेषेण निर्देशात् , अशास्त्रीयश्रद्धाया अपि सात्त्विकादित्रैविध्यसम्भवाच्च॥२॥
सत्त्वेति। हे भारत ! सर्वस्य सत्त्वानुरूपा श्रद्धा भवति। अयं पुरुषः श्रद्धामयो भवति। यो यच्छ्रद्धः सः स एव भवति। सत्त्वम् अन्तःकरणम्। कीदृशमिदम्? अत आह— विशिष्टेति। तत्तत्पुरुषनियतधर्माधर्मादिसंस्कारोपेतमित्यर्थः। तस्यानुरूपा सत्त्वानुरूपा। श्रद्धाप्रायः प्रचुरश्रद्धः। प्राचुर्ये मयड्विधानात्। श्रद्धा प्रकृतमुच्यते यस्मिन् स श्रद्धामय इति २समासः। अन्नमयो यज्ञ इतिवत्। असंसार्यसङ्गात्मनः कथं श्रद्धासङ्गः? अत आह— संसारीति। स एवेति। तच्छ्रद्ध एवेत्यर्थः। यो जीवो यच्छ्रद्धः स तच्छ्रद्ध एव। किमनेनाभिप्रेतम्? अत आह— तच्छ्रद्धानुरूप एवेति। तच्छ्रद्धानुगुणप्रवृत्तिरित्यर्थः। सर्वे पुरुषाः स्वस्वसात्त्विक् यादिश्रद्धानुसारेण देवपूजादिषु प्रवर्तन्त इत्यर्थः। श्रद्धामयः इत्यत्र विकारार्थे मयटमभिप्रेत्य श्रद्धापरिणाम इत्याह रामानुजः। तन्मन्दम् , पुरुषस्य श्रद्धाविकारत्वासम्भवात् ॥३॥ कथयति— जन्मान्तरेति। कथं त्रिविधेत्यपेक्षायामाह— सात्त्विकीत्यादिना। कथमुक्ता श्रद्धा स्वभावजेति? तत्राह— तामिति॥२॥
प्राचीनकर्मोद्बोधिता त्रिविधा वासना स्वभावशब्दिता त्रिविधायाः श्रद्धाया निमित्तमित्युक्तम्। इदानीमुपादानं तस्या दर्शयति— सैवमिति। विशिष्टचित्तोपादाना श्रद्धा तत् त्रैविध्ये त्रिविधेति पूर्वार्धस्यार्थः। कथं निष्ठायाः १सात्त्विकादिप्रश्नद्वारा श्रद्धायास्त्रैविध्यनिरूपण- मुपयुक्तमिति मन्वानः शङ्कते— यद्येवमिति। श्रद्धेयं विषयमभिध्यायंस्तया तत्रैव प्रवर्तत इति मन्वानः परिहरति— उच्यत इति। श्रद्धामयत्वं प्रश्नपूर्वकं कथयति— कथमिति। श्रद्धा खल्वधिकृते पुरुषे प्राचुर्येण प्रकृतेति तस्य श्रद्धामयत्वसिद्धिरित्यर्थः॥३॥
तथापि कथं सत्त्वादिनिष्ठा यथोक्तस्य पुरुषस्य ज्ञातुं शक् येत्याशङ्क् याह— ततश्चेति। अधिकृतस्य पुरुषस्य श्रद्धाप्रधानत्वादिति
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मरणकालेऽभिव्यक्तः स्वभाव उच्यते। ततो जाता स्वभावजा। सात्त्विकी सत्त्वनिर्वृत्ता देवपूजादिविषया, राजसी रजोनिर्वृत्ता यक्षरक्षःपूजादिविषया, तामसी तमोनिर्वृत्ता प्रेतपिशाचादिपूजाविषया। एवं त्रिविधां तामुच्यमानां श्रद्धां शृणु अवधारय॥२॥
सैवं त्रिविधा भवति— सत्त्वेति। सत्त्वानुरूपा विशिष्टसंस्कारोपेतान्तःकरणानुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति, भारत !। यद्येवं, ततः किं स्यादिति? उच्यते— श्रद्धामयः श्रद्धाप्रायोऽयं पुरुषः संसारी जीवः। कथम् ? यो यच्छ्रद्धो या श्रद्धा यस्य जीवस्य स यच्छ्रद्धः, स एव तच्छ्रद्धानुरूप एव सः जीवः॥३॥
ततश्च कार्येण लिङ्गेन देवादिपूजया सत्त्वादिनिष्ठाऽनुमेयेत्याह— यजन्त इति। यजन्ते पूजयन्ति सात्त्विकाः १. ‘सत्त्वादिप्रकारप्रश्नद्वारा’ इति पा.। २. समास इति। विग्रहः इति भावः।
[[अ. १७. श्लो. १-४]] [[८२६]]
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥४॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः। दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः॥५॥
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान्॥६॥
यजन्त इति। ततश्चेति। श्रद्धानुरूपत्वात् पुरुषप्रवृत्तेरित्यर्थः। कार्येणेति। सत्त्वादिनिष्ठाकार्यभूतया देवादिपूजयैव लिङ्गेन कार- णभूता सत्त्वादिनिष्ठा अनुमातुं शक् याऽनुमेया। अस्य सत्त्वनिष्ठाऽस्ति, देवपूजकत्वाद् , यः सत्त्वनिष्ठः स देवान् पूजयति, यो नैवं स नैवम् , यथा रजोनिष्ठस्तमोनिष्ठश्च देवान् न पूजयति, एवमादिप्रयोगा ऊह्याः। सत्त्वनिष्ठा इति। सात्त्विकश्रद्धायुक्ता इत्यर्थः। स्वधर्मात् प्रच्युता विप्रादयो देहपातादूर्ध्वं वायवीयं देहमापन्नाः प्रेता इत्युच्यन्ते॥४॥
अशास्त्रेति। ये जना अचेतसो दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताश्च सन्तः शरीरस्थं भूतग्राममन्तःशरीरस्थं मां चैव कर्शयन्तः सन्तश्चाशास्त्रविहितं घोरं तपस्तप्यन्ते, तानसुरनिश्चयान् विद्धि। शास्त्रविध्युत्सर्ग इति। शास्त्रविधिसामान्ये। तत्रेति। एवं निर्णीते सति। देवपूजादितत्परो देवब्राह्मणगुरुपित्रादिपूजासक्तः। सत्त्वे निष्ठा यस्य स सत्त्वनिष्ठः॥५॥
कर्शयन्त इति। कृशीकुर्वन्तः पीडयन्तः, स्वस्वव्यापारनिर्वर्तनाक्षमं कुर्वन्त इत्यर्थः। न हीन्द्रियाणां शरीरस्येव स्वरूपतः कार्श्यं सम्भवति। ४शरीरस्थत्वविशेषणादाह— भूतग्रामं करणसमुदायमिति। करणानि समनस्कानीन्द्रियाणि। अचेतस इति। चेतनानां यावत्। देवाः वस्वादयः, यक्षाः कुबेरादयः, रक्षांसि नैरृतादयः, स्वधर्मात्प्रच्युता विप्रादयो देहपातादूर्ध्वं वायुदेहमापन्नाः प्रेताः। एभ्यश्च यथायथमाराध्यदेवादयः सात्त्विकराजसतामसान् २कामान् प्रयच्छन्तीति सामर्थ्यादवगन्तव्यम्॥४॥
ननु सत्त्वादिनिष्ठाः शास्त्रेण ज्ञातुं शक् यन्ते, कृतं कार्यलिङ्गकानुमानेनेति, तत्राह— एवमिति। सत्त्वादिनिष्ठानां जन्तूनामवान्तर- विशेषं ३प्रचुरत्वाप्रचुरत्वरूपं दर्शयति— तत्रेत्यादिना। राजसानां तामसानां च प्राचुर्यं प्रश्नद्वारा विवृणोति— कथमित्यादिना। कामश्च काम्यमानविषयः, रागश्च तद्विषयभोगाभिलाषः, तत्कृतं तत्प्रयुक्तम् , तन्निमित्तमिति यावत्॥५॥
रजोनिष्ठान् प्राधान्येन प्रदर्श्य तमोनिष्ठान् प्राधान्येन दर्शयति— कर्शयन्त इति। कथं शरीरादिसाक्षिणमीश्वरं प्रति कृशीकरणं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सत्त्वनिष्ठाः देवान् , यक्षरक्षांसि राजसाः, प्रेतान् भूतगणांश्च सप्तमातृकादींश्च अन्ये यजन्ते तामसा जनाः॥४॥
एवं कार्यतो निर्णीताः सत्त्वादिनिष्ठाः १शास्त्रविध्युत्सर्गे । तत्र कश्चिदेव सहस्रेषु देवपूजादितत्परः सत्त्वनिष्ठो भवति; बाहुल्येन तु रजोनिष्ठाः तमोनिष्ठाश्चैव प्राणिनो भवन्ति। कथम्? — अशास्त्रेति। अशास्त्रविहितं न शास्त्र- विहितम् अशास्त्रविहितं घोरं पीडाकरं प्राणिनामात्मनश्च तपः तप्यन्ते निर्वर्तयन्ति ये (तपो) जनाः, ते च दम्भाहङ्कार- संयुक्ताः दम्भश्चाहङ्कारश्च दम्भाहङ्कारौ, ताभ्यां संयुक्ता दम्भाहङ्कारसंयुक्ताः, कामरागबलान्विताः कामश्च रागश्च कामरागौ तत्कृतं बलं कामरागबलं तेनान्विताः, (कामरागबलैर्वा अन्विताः)॥५॥
कर्शयन्त इति। कर्शयन्तः कृशीकुर्वन्तः शरीरस्थं भूतग्रामं करणसमुदायम् अचेतसः अविवेकिनो मां चैव १. ‘ये शास्त्रविधिमुत्सृज्य’ इति प्रक्रमात् इति भावः। २. ‘प्रकामान्’ इति पा.। ३. प्रचुरत्वं बाहुल्यम्। ४. भूतसमुदायस्य शरीरस्थत्वविशेषणात् इन्द्रियरूपेण परिणतः स विवक्षित इति करणसमुदायः फलितार्थ इति भावः।
[[८२७]]
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः। यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥७॥
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः। रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः॥८॥
चेतोराहित्यासम्भवादाह— अविवेकिन इति। साक्षिभूतमिति। साक्षितया प्रत्यग्रूपेण स्थितमित्यर्थः। नारायणमिति। परमात्मानम्। असुरनिश्चयानिति। दम्भाहङ्कारपरपीडनादीनामसुरधर्मत्वादिति भावः।‘आसुरनिश्चयान्’ ४इति रामानुजीयपाठस्तु अणो वैयर्थ्यादुपेक्ष्यः ॥६॥
आहार इति। कथं नु नामेति। अतिप्रयासेनेत्यर्थः। सर्वस्यापि त्रिविध आहारस्तु प्रियो भवति। त्रिविधो यज्ञः प्रियो भवति। तथा त्रिविधं दानं प्रियं भवति। इमं तेषां भेदं शृणु॥७॥
आयुरिति। आयुः शरीरे प्राणवायुसञ्चारः। सत्त्वं गुणविशेषः। बलं शरीरेन्द्रियपाटवम्। आरोग्यमरोगता। विशेषेण वर्धयन्तीति विवर्धनाः। रसोपेता इति। न तु नीरसा इत्यर्थः। ‘मधुररसोपेताः’ इति रामानुजः। तदयुक्तम् , केवलमधुररसाहारस्यापि रोगादिहेतुत्वात्। प्राणिनां प्रकल्प्यते? तत्राह— मदनुशासनेति। तेषां विपर्यासनिश्चयवतां परिज्ञानं कुत्रोपयुज्यते? तत्राह— परिहरणार्थमिति॥६॥
उत्तरश्लोकपूर्वार्धतात्पर्यमाह— आहाराणामिति। रस्यादिवर्गस्य सात्त्विकपुरुषप्रियत्वं, कट्वादिवर्गस्य राजसप्रियत्वं, यातयामा- दिवर्गस्य तामसप्रियत्वमिति दर्शनं कुत्रोपयुज्यते? तत्राह— रस्येति। श्लोकोत्तरार्धतात्पर्यमाह— तथेति। आहारत्रैविध्यवदिति यावत्। कथमेतेषां प्रत्येकं त्रैविध्यम्? तत्राह— तेषामिति॥७॥
सात्त्विकप्रीतिविषयमाहारविशेषमुदाहरति— आयुरिति। आयुः ३जीवनम् , सत्त्वं चित्तस्थैर्यम् वीर्यं वा, बलं कार्यकरण-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तत्कर्मबुद्धिसाक्षिभूतम् अन्तःशरीरस्थं १नारायणं कर्शयन्तः। मदनुशासनाकरणमेव मत्कर्शनम्। तान् विद्धि आसुरनिश्चयान् आसुरो निश्चयो येषां त आसुरनिश्चयाः, तान् परिहरणार्थं विद्धीत्युपदेशः॥६॥
२आहाराणां च रस्यस्निग्धादिवर्गत्रयरूपेण भिन्नानां यथाक्रमं सात्त्विकराजसतामसपुरुषप्रियत्वदर्शनमिह क्रियते रस्यस्निग्धादिष्वाहारविशेषेषु आत्मनः प्रीत्यतिरेकेण लिङ्गेन सात्त्विकत्वं राजसत्वं तामसत्वं च बुद् ध्वा रजस्तमोलिङ्गानामाहाराणां परिवर्जनार्थम् , सत्त्वलिङ्गानां चोपादानार्थम्। तथा यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनमिह राजसतामसान् बुद् ध्वा कथं नु नाम परित्यजेत् , सात्त्विकानेवानुतिष्ठेद् इत्येवमर्थमाह— आहारस्त्विति। आहारस्त्वपि सर्वस्य भोक्तुः प्राणिनस्त्रिविधो भवति प्रियः इष्टः। तथा यज्ञस्तथा तपस्तथा दानम्। तेषामाहारादीनां भेदमिमं वक्ष्यमाणं शृणु॥७॥
आयुरिति। आयुश्च सत्त्वं च बलं चारोग्यं च सुखं च प्रीतिश्च आयुःसत्त्वबलारोग्यसुखप्रीतयः, तासां विवर्धना आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः, ते च रस्या रसोपेताः स्निग्धाः स्नेहवन्तः स्थिराः चिरकाल- १. ‘नारायणम्’ इति क्वचिन्न। २. ‘आहारादीनाम्’ इति पा.। ३. ‘ज्योग्जीवनम्’ इति पा.। ४. मूले ‘असुरनिश्चयान्’ इति रा. पाठः भाति। अद्यत्वे तु ‘आसुर- निश्चयान्’ इत्येव पाठः सर्वत्र उपलभ्यते।
[[अ. १७. श्लो. ४-८]] [[८२८]]
स्थायिनो देहे , हृद्या हृदयप्रिया आहाराः सात्त्विकप्रियाः सात्त्विकस्येष्टाः॥८॥
कट्विति। १कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः इत्यत्र अतिशब्दः कट्वादिषु सर्वत्र योज्यः– अतिकटुः, अतितीक्ष्ण इत्येवम्। कटुश्चाम्लश्च लवणश्चात्युष्णश्च तीक्ष्णश्च रूक्षश्च विदाही च कट्वम्ललवणात्युष्णतीक्ष्णरूक्ष- विदाहिनः। एवंविधा आहारा राजसस्येष्टा दुःखशोकामयप्रदाः दुःखं च शोकं चामयं च प्रयच्छन्तीति दुःख- शोकामयप्रदाः॥९॥
यातयाममिति। यातयामं मन्दपक्वम् , निर्वीर्यस्य गतरसशब्देनोक्तत्वात् । गतरसं रसवियुक्तं पूति दुर्गन्धि स्नेहो द्रवः। चिरकालं स्थातुं शीलं येषां ते चिरकालस्थायिनः। क्वेत्यत आह— देह इति। रक्तमांसादिरूपेणेति भावः। ‘स्थिरपरिणामाः’ इति रामानुजार्थस्तु लाक्षणिकत्वादुपेक्ष्यः॥८॥
कट्विति। कट्वादिरसानां सर्वात्मना अभावस्यारुच्यादिहेतुत्वात् सात्त्विकस्यापि कट्वादिरससेवा आवश्यक् येवेत्यत आह— अतिशब्द इति। कटुस्तिक्तः कटुरसस्य तीक्ष्णशब्देनोक्तत्वात्। अतिकटुर्निम्बादिः। अत्याम्लातिलवणौ प्रसिद्धौ। अत्युष्णः पाकोत्तरक्षणकालिकान्नादिः। अतितीक्ष्णः श्लेष्मप्रकोपकः मरिचादिः। अतिरूक्षः शोषकरो वातप्रकोपकः कोद्रवादिः। अतिविदाही तापकरः पित्तप्रकोपकः सर्षपादिः। आमयं रोगम्। ‘पाघ्राध्मा’ इति दाणो यच्छादेशादाह— प्रयच्छन्तीति॥९॥
यातयाममिति। यातो यामः पाकस्य नियमो यस्य तद् यातयामं, यावत्कालं यस्य पाकः कर्तव्यस्तावत्कालं तस्य पाकेऽकृते सति तदन्नं यातयाममित्युच्यते। इदमेवाह— मन्दपक्वमिति। मन्दमल्पं यथा तथा पक्वं मन्दपक्वम्। ‘पचो वः’ इति निष्ठायां वः। न चानुपसृष्टस्य यमधातोर्नियमार्थो नास्तीति वाच्यम् ; द्योतकत्वनियमादुपसर्गाणां, धातूनामेवानेकार्थत्वात्। ननु यातो यामः श्रेष्ठांशो यस्य तद् यातयामं निर्वीर्यमित्यक्लिष्टार्थस्य कुतः परित्यागः? अत आह— निर्वीर्यस्येति। आहारस्य रसो हि वीर्यम्। ननु यातयामं यातप्रहरं चिरकालावस्थितमिति रामानुजार्थःसमीचीन इति चेत् , मैवम् ; पर्युषितमित्यनेन चिरकालावस्थित- स्योक्तत्वात्। रात्र्यन्तरितं हि पर्युषितं यातयामं चिरकालावस्थितं भवति। न च कालातिपत्त्या रसान्तरापन्नं पर्युषितं, कालातिक्रम- सामर्थ्यम् , आरोग्यं नीरोगता, सुखम् अन्तराह्लादः, प्रीतिः परेषामपि सम्पन्नानां दर्शनात् परमो हर्षः, तासां विवर्धनाः, विवर्धयन्तीति व्युत्पत्तेः। रसोपेता रसयितव्याः सरसाः। देहे चिरकालस्थायित्वं चिरतरं शरीरोपकारहेतुत्वम्॥८॥
राजसप्रीतिविषयमाहारविशेषं दर्शयति— कट्विति। कटुस्तिक्तः, कटुकस्य तीक्ष्णशब्देनोक्तत्वात्। रूक्षो विस्नेहः, विदाही सन्तापकः। अतिशब्दस्य सर्वत्र योजनामेवाभिनयति— अतिकटुरिति। दुःखं तात्कालिकी पीडा, इष्टवियोगजं दुःखं शोकः, आमयो रोगः॥९॥
तामसप्रियमाहारमुदाहरति— यातयाममिति। ननु निर्वीर्यं यातयाममुच्यते, न पुनः सामिपक्वमिति, नेत्याह—निर्वीर्यस्येति १. ‘कटुरम्लो लवणोऽत्युष्णः। अतिशब्दः’ इति पा.। ‘कट्वाम्ल’ इति रा.पा.।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः। आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥९॥
यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥१०॥
[[८२९]]
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥११॥
अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्। मात्रदुष्टं यातयाममिति भेदोऽस्तीति वाच्यम् ; रसान्तरापत्त्यादिकं विना कालातिक्रममात्रेण यस्य कस्याप्याहारस्य दुष्टत्वाभावात्। न हि रात्र्यन्तरितं गङ्गाजलं कूपजलवद् दुष्टं भवति। नापि रात्र्यन्तरितं माषवटकादिभक्ष्यमन्नादिवद् दुष्टं भवतीति। दुर्गन्धि दुष्टो गन्धो दुर्गन्धः, सोऽस्यास्तीति दुर्गन्धि। पर्युषितमिति। यत् पक्वं सद् रात्र्यन्तरितं तत् पर्युषितम्। यातयामाद् भेदप्रदर्शनार्थम् — पक्वं सदिति। पक्वस्यापि दुष्टत्वप्रदर्शनार्थम् — रात्र्यन्तरितमिति। भुक्तशिष्टमिति। भुक्तावशेष इत्यर्थः। रामानुजस्तु— गुर्वादिभ्योऽन्येषां भुक्तशिष्टमित्याह। तदयुक्तम् , शिष्याय श्रोत्रियाय स्वभुक्तावशेषप्रदानेन गुरोर्दोषप्रसङ्गात्। तथोपनीताय पुत्रायोच्छिष्टप्रदानेन पितुर्दोषप्रसङ्गाच्च। तथा शिष्टाचारादर्शनाच्च। यदि वैष्णवादीनामयं गुर्वाद्युच्छिष्टान्नभोजनं शिष्टाचारः, तर्हि चक्राङ्कनादिशिष्टाचारसम्पन्नानां तेषां तदपि शिष्टाचार एव भवतु। स्मार्तानां तु न तथा। न ह्यत्र गुर्वादिभिन्नोच्छिष्ट- मिति मूलं दृश्यते, किन्तूच्छिष्टमित्येव। तस्य चैवं सङ्कोचनमन्याय्यमिति स्फुटम्। अमेध्यम् अशुद्धमपवित्रमिति यावत्। पवित्रं हि पुरोडाशादिकं यज्ञायार्हतीत्यत आह— अयज्ञार्हमिति। अयज्ञशिष्टमिति तु रामानुजः, तदयुक्तम् , सात्त्विकराजसयोरप्ययज्ञशिष्टान्नस्य भक्षणदर्शनात्। न हि ये अयज्ञशिष्टान्नं भुञ्जते ते तामसा एवेति नियन्तुं शक् यते; सात्त्विकश्रेष्ठैरपि पक्वचूतफलादीनामयज्ञशिष्टानामद्यमानत्वात्। भोजनम् आहारोऽन्नादिकम्। भुज्यते आह्रियत इति भोजनमाहार इति च व्युत्पत्तेः१। तामसप्रियं तामसस्येष्टम्॥१०॥
अफलेति। अफलाकाङ्क्षिभिः यष्टव्यमेवेति मनः समाधाय विधिदृष्टो यो यज्ञ इज्यते स सात्त्विकः। यजेतेत्यादिविधिदर्शनात् केवलं मया यष्टव्यं, न तु फलमाकाङ्क्षितव्यमिति मनोनिश्चयपूर्वकं यथाविधि क्रियमाणो यज्ञः सात्त्विक इत्युच्यत इत्यर्थः॥११॥
अभिसन्धायेति। हे भरतश्रेष्ठ! फलमभिसन्धाय दम्भार्थमपि चैव इज्यत इति यत् तं यज्ञं राजसं विद्धि। यदिज्यते तमिति वा। यदिति सामान्ये नपुंसकम् , यः इत्यर्थः। यथाविधि फलाभिसन्धिमता क्रियमाणः, यथाविधि दाम्भिकेन क्रियमाणश्च यज्ञो राजस ॥१०॥
हानादानार्थमाहारत्रैविध्यमेवं विभज्य क्रमप्राप्तं यज्ञत्रैविध्यं कथयति— अथेति। तत्र सात्त्विकं यज्ञं ज्ञापयति— अफलेति। फलाभिसन्धिं विना यज्ञस्वरूपमेव भाव्यमिति बुद्ध्या शास्त्रतोऽनुष्ठीयमानो यज्ञः सात्त्विक इत्यर्थः॥११॥
राजसं यज्ञं हानार्थं दर्शयति— अभिसन्धायेति। स्वर्गाद्युद्दिश्य धार्मिकत्वख्यापनार्थं च यद् यजनं क्रियते, तं यज्ञं रजसा निर्वृत्तं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
पर्युषितं च पक्वं सद् रात्र्यन्तरितं च यद् , उच्छिष्टमपि च भुक्तशिष्टमपि अमेध्यम् अयज्ञार्हं भोजनमीदृशं तामसप्रियम् ॥१०॥
अथेदानीं यज्ञस्त्रिविध उच्यते— अफलेति। अफलाकाङ्क्षिभिः अफलार्थिभिर्यज्ञो विधिदृष्टः शास्त्रचोदनादृष्टो यो यज्ञ इज्यते निर्वर्त्यते, यष्टव्यमेवेति यज्ञस्वरूपनिर्वर्तनमेव कार्यमिति मनः समाधाय, नानेन पुरुषार्थो मम कर्तव्य इत्येवं निश्चित्य, स सात्त्विको यज्ञ उच्यते॥११॥
अभिसन्धायेति। अभिसन्धाय तु उद्दिश्य फलं, दम्भार्थमपि चैव यदिज्यते, भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसं अ. १७. श्लो. ८-१२ ] १. कर्मव्युत्पत्तेरित्यर्थः।
[[८३०]]
इत्युच्यत इत्यर्थः॥१२॥
विधिहीनमिति। चोदितमनतिक्रम्य वर्तमानं यथाचोदितं, तस्माद्विपरीतं यथाचोदितविपरीतं विधिविरुद्धमित्यर्थः। मन्त्रहीन- मिति। मन्त्रान् यद्यपि पठन्ति, तथापि स्वरवर्णविपर्ययेण पठन्ति, अत उक्तम्— मन्त्रहीनमिति। स्वरवर्णविपर्ययरहितमन्त्ररहित- मित्यर्थः। इदमेवाह— स्वरतो वर्णतश्च वियुक्तमिति। मन्त्रशब्दोऽत्र तद्गतस्वरवर्णपरः। यद्वा स्वरवर्णातिरिक्तमन्त्रपदार्थाभावात् स्वरयुक्तवर्णसमुदायो मन्त्रः। तेन हीनोऽयं यज्ञः स्वरतो वर्णतश्च वियुक्त इति। श्रद्धाविरहितमिति। तामसश्रद्धावत्त्वेऽप्येषां तामस- श्रद्धाया देवपूजायामनुपयुक्तत्वात् सात्त्विकश्रद्धायाश्चाभावादिति भावः। यद्वा भूतप्रेतादिपूजायामेवैषां तामसी श्रद्धा, न तु यज्ञे इति भावः॥१३॥
देवेति। तपस्तावत् त्रिविधम्— शारीरवाचिकमानसिकभेदात्। पुनस्त्रिविधम्— सात्त्विकराजसतामसभेदात्। तत्र प्राथमिक- भेदत्रयं दर्शयति श्लोकत्रयेण। देवाः आदित्यचन्द्रादयः। द्विजाः अतिथ्यादयः। गुरवः पितृविद्यामन्त्रोपदेष्टारः। ‘जनिता चोपनेता च यश्च विद्यां प्रयच्छति। श्वशुरश्चाग्रजो भ्राता पञ्चैते गुरवः स्मृताः॥’ इत्युक्ता वा। प्राज्ञाः पण्डिताः। ब्रह्मचर्यं स्त्रीसम्भाषणाद्यभावः। निर्वर्त्यं साध्यम्। ननु शरीरेण जडेन कथं निर्वर्त्यते? अत आह— शरीरप्रधानैरिति। शरीरं प्रधानं येषां तैः शरीरप्रधानैः। त्याज्यमवगच्छेत्यर्थः॥१२॥
तामसं यज्ञं हानार्थमेवोदाहरति— विधीति॥१३॥
सात्त्विकादिभावं निरूपयितुं सर्वस्य तपसः स्वरूपं त्रिविधं निरूपयति— अथेति। तत्र शारीरं तपो निर्दिशति— देवेति। देवाः ब्रह्मविष्णुशिवादयः, द्विजाः पूज्यपूज्यत्वाद् द्विजोत्तमाः, गुरवः पित्रादयः, प्राज्ञाः पण्डिता विदितवेदितव्यास्तेषां पूजनं प्रणामशुश्रूषादि, शौचं मृज्जलाभ्यां शरीरशोधनम् , आर्जवमृजुत्वं विहितप्रतिषिद्धयोरेकरूपप्रवृत्तिनिवृत्तिमत्त्वं, ब्रह्मचर्यं मैथुनासमाचरणम् , अहिंसा प्राणिनामपीडनम्। शरीरमात्रनिर्वर्त्यत्वमस्य तपसो न सम्भवतीति मत्वा विशिनष्टि— शरीरेति। कथं कर्त्रादिसाध्यत्वे तपसः १. ‘रजोगुणनिर्वर्त्यं’ इति पाठः क्वचिन्न। २. ‘यथाचोदितविधिविपरीतं’ इति पा.।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥१२॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्। श्रद्धाविरहितं यज्ञं तामसं परिचक्षते॥१३॥
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्। ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥१४॥
१रजोगुणनिर्वर्त्यं राजसं जानीहि॥१२॥
विधिहीनमिति। विधिहीनं २यथाचोदितविपरीतम् , असृष्टान्नं ब्राह्मणेभ्यो न सृष्टं न दत्तम् अन्नं यस्मिन् यज्ञे सोऽसृष्टान्नः, तमसृष्टान्नम् , मन्त्रहीनं मन्त्रतः स्वरतो वर्णतो वा वियुक्तं मन्त्रहीनम् , अदक्षिणम् उक्तदक्षिणारहितं, श्रद्धाविरहितं यज्ञं तामसं परिचक्षते तमोनिर्वृत्तं कथयन्ति॥१३॥
अथेदानीं तपस्त्रिविधमुच्यते— देवेति। देवाश्च द्विजाश्च गुरवश्च प्राज्ञाश्च देवद्विजगुरुप्राज्ञाः, तेषां पूजनं देवद्विजगुरुप्राज्ञपूजनम् , शौचम् , आर्जवम् ऋजुत्वं, ब्रह्मचर्यम् , अहिंसा च शरीरनिर्वर्त्यं शारीरं शरीरप्रधानैः सर्वैः
[[८३१]]
अनुद्वेगकरं वाक् यं सत्यं प्रियहितं च यत्। स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥१५॥
कर्त्रादिभिरिति। कर्ताऽहङ्कारः। आदिपदात् करणानां ग्रहणम्। कर्ता शरीरतादात्म्याध्यासमापन्नः सन् शरीरतादात्म्याध्यासवद्भिरेवे- न्द्रियैर्देवादिपूजां कुर्वन् सन् , ‘ब्राह्मणोऽहमादित्यं हस्ताभ्यां नमस्करोमि, रुद्रं हस्तेन वारिणा अभिषिञ्चामी’त्येवं मन्यत इत्यस्य तपसः शारीरत्वमुक्तमिति भावः। ननु क्वोक्तं शरीरस्य कर्मसाधनत्वम्? अत आह— पञ्चेति। ‘अधिष्ठानं तथा कर्ते’ति श्लोकेनेति भावः। यद्वा कर्त्रादिभिरित्यादिपदाद् ‘अधिष्ठान’मिति श्लोकोक्तकरणादिग्रहणम्। तथा च पञ्चभिः कर्तृकरणशरीरचेष्टादैवैः क्रियमाणमपि देवद्विजा- दिपूजनादिकं शरीरेणैव कृतमिति शारीरमित्युच्यते। कुतः? प्रकृततपसि शरीरस्यैव प्रधानत्वात्। इन्द्रियाद्यधिष्ठितदेहव्यापारो हि पूजादिः॥१४॥
अनुद्वेगेति। अनुद्वेगकरं सत्यं प्रियहितं च यद्वाक् यं तत् , स्वाध्यायाभ्यसनं चैव वाङ्मयं तप इत्युच्यते। प्रियं च तद्धितं च प्रियहितम्। दृष्टार्थं प्रियम् , अदृष्टार्थं हितम्। यद्धीहैव सुखं जनयति तत् प्रियमिष्टम् , यत्तु नरकादिदुःखं निवारयति तद्धितम् अमुत्रोपकारकम्। प्रियहितं चेति चकारस्यार्थमाह— अविशेषेणेति। अनुद्वेगकरत्वसत्यत्वप्रियत्वहितत्वाख्यधर्मचतुष्टयस्याविशेषेण समुच्चयार्थश्चकारः। नामीषामन्यतमस्य न्यूनाधिकभावः। किन्तु चतुरोऽप्यमी धर्माः साम्येन वर्तितव्या वाक् य इति[चत्वारोऽप्यमी धर्माः साम्येन वर्तेरन् वाक् य इति ] बोधनार्थश्चकार इत्यर्थः। तेन च यत्र वाक् ये चत्वारस्ते धर्माः सन्ति, तदेव वाचिकं तपः। यत्र तु तेषां मध्ये त्रयो द्वौ वा एको वा धर्मोऽस्ति, तद्वाक् यं नैव तप इति सिध्यति। इदमेवाह— परेति। परप्रत्ययार्थं परविश्वासार्थं परेषां ज्ञानार्थमिति वा। अनुद्वेगकरस्य वाक् यस्य विहीनस्य सतो वाङ्मयतपस्त्वं नेत्यन्वयः। इतरेषामिति। अनुद्वेगकरप्रियहितानामिति, अन्यत्र अनुद्वेगकरसत्यहितानामिति, अपरत्र अनुद्वेगकरसत्यप्रियाणामिति चार्थः। शारीरत्वम्? शारीरत्वे वा कथं कर्त्रादिसाध्यत्वमित्याशङ्क् याह— पञ्चेति॥१४॥
सम्प्रति वाङ्मयं तपो व्यपदिशति— अनुद्वेगकरमिति। सत्यं यथादृष्टार्थवचनं, प्रियं श्रुतिसुखं, हितं परिणामपथ्यम्। प्रियहितयोर्विधान्तरेण विभागमाह— प्रियेति। कथमत्र विशेषणविशेष्यत्वम्? तदाह— अनुद्वेगेति। विशेषणानां धर्माणामनुद्वेगकरत्वा- दीनां विशेष्येण वाक् येन समुदितानां परस्परमपि समुच्चयद्योती चकार इत्याह— विशेषणेति। किमिति वाक् यमेतैर्विशेष्यते? किमिति वा तेषां मिथः समुच्चयः? तत्राह— परेति। यद्यपि वाक् यमात्रस्याविशेषितस्य वाङ्मयतपस्त्वानुपपत्तिः, तथापि सत्यवाक् यस्य विशेषणान्तराभावेऽपि वाङ्मयतपस्त्वमित्याशङ्क् याह— तथेति। तथापि प्रियवाक्यमात्रस्य तथात्वं स्यादित्याशङ्क्याह—तथा प्रियेति। तथापि परिणामपथ्यं वाक् यमात्रं तथा भविष्यति, नेत्याह— तथा हितेति। कीदृक् तर्हि तपो वाङ्मयमिति प्रश्नपूर्वकं विशदयति— किं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
एव कार्यकरणैः कर्त्रादिभिः साध्यं शारीरं तप उच्यते। ‘पञ्चैते तस्य हेतवः’(भ.गी.१८.१५) इति हि वक्ष्यति॥१४॥
अनुद्वेगेति। अनुद्वेगकरं प्राणिनामदुःखकरं वाक् यं सत्यं प्रियहितं च यत्। प्रियहिते दृष्टादृष्टार्थे। अनुद्वेगकर- त्वादिभिर्धर्मैर्वाक् यं विशेष्यते। १विशेषणधर्मसमुच्चयार्थः चशब्दः। परप्रत्ययार्थं प्रयुक्तस्य वाक् यस्य सत्यप्रियहितानु- द्वेगकरत्वानाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा हीनता स्याद् यदि , न तद् वाङ्मयं तपः। तथा सत्यवाक् यस्येतरेषामन्य- तमेन द्वाभ्यां त्रिभिर्वा विहीनतायां न वाङ्मयतपस्त्वम्। तथा प्रियवाक् यस्यापीतरेषामन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य न वाङ्मयतपस्त्वम्। तथा हितवाक् यस्यापीतरेषामन्यतमेन द्वाभ्यां त्रिभिर्वा २विहीनस्य न वाङ्मयतपस्त्वम्। १. अविशेषेण धर्मसमुच्चयार्थश्चकारः इति रा.पा.। २. ‘वियुक्तस्य’ इति पा.।
[[अ. १७. श्लो. १२-१५]] [[८३२]]
वाङ्मयमित्यस्याकाङ्क्षामाह— किंपुनस्तत्तप इति। वाङ्मयं वाग्विकारः, वाक्साध्यमिति यावत्। अस्मिन् तपसि वागेव प्रधाना, अन्तःकरणादयस्त्वप्रधानाः। अत उक्तम्— वाङ्मयमिति। न ह्यत्र देवपूजादाविव शरीरव्यापारः कश्चिदस्ति, किन्तु वाग्व्यापार एव। जिह्वादयस्तु वाचोऽधिष्ठानभूता एवेति बोध्यम्। अनुद्वेगकरत्वादिधर्मचतुष्टययुक्तं वाक् यमेव किञ्चिदुदाहरति— यथा शान्त इति। हे वत्स! शान्तो भव, कामादिविकारशून्यचित्तो भव। सति चित्तविक्षेपे स्वाध्याययोगाभ्यसना[योगा]दिति भावः। स्वाध्यायं, योगं कर्मयोगं चानुतिष्ठ। यथैतदुभयं करोषि तथा तव श्रेयो भविष्यति इति स्वाध्यायाभ्यसनस्यापि श्रेयोहेतुत्वप्रतिपादनात् स्वाध्यायाभ्य- सनमपि वाङ्मयं तप इत्युच्यते। कीदृशम्? अत आह—यथाविधीति। विधिमनतिक्रम्येत्यर्थः। स्नानसन्ध्यागुरुध्यानादयः स्वाध्यायस्य विधयः। स्वाध्यायो वेदः। स च यस्य शाखिनो यो विहितः स एव। तेन स्वशाखां परित्यज्यान्यशाखां योऽभ्यस्यति स शाखारण्डः सर्वकर्मबहिष्कृत एवेति न परशाखाध्ययनं वाङ्मयं तप इत्युच्यते। इदमेव सूचयितुं स्वाध्याय इत्युक्तम्। अधीयत इत्यध्यायो वेदः। स्वः स्वीयश्चासावध्यायः, स्वस्याध्याय इति वा स्वाध्याय इति व्युत्पत्तेः। एवं स्वाध्यायस्य वाङ्मयतपस्त्वादेव ‘स्वाध्यायोऽध्येतव्यः’ इति विधिर्दृश्यते। न हि निष्फलः कोऽपि विधिः सर्वज्ञेनेश्वरेण विधीयते। तथा सत्यनर्थकत्वेनेश्वरस्याप्रमाणत्वप्रसङ्गात्॥१५॥
मन इति। स्वच्छता कामादिकालुष्याभावः। सौम्यत्वं सौमनस्यम् , तस्य च लिङ्गं मुखादिप्रसादः। भ्रूविक्षेपनेत्रारुणत्वादिभिः लिङ्गैः क्रुद्धं पितरं ज्ञात्वा पुत्रः स्वापराधक्षमापणं स्तुतिनमस्कारादिभिः कुर्वन् मुखप्रसादादिना तं पुनःसौम्यत्वमापन्नं निश्चित्य कृता- र्थोऽहमिति मन्यते। सेयं मुखप्रसादादिकार्योन्नेया अन्तःकरणवृत्तिः सौम्यत्वमित्युच्यते। स्वानुभवैकवेद्यो मनःप्रसादः, परप्रत्यक्षं तु सौम्यत्वमिति विवेकः। मनसः परेषामभ्युदयप्रावण्यं सौम्यत्वमिति रामानुजः१। सौम्यत्वमापन्नो हि राजा अर्थिभ्यः किमपि धनादिकं ददाति। मनसः क्रोधाद्यभावः प्रसादः, अनुग्रहरूपान्तःकरणवृत्तिः सौम्यत्वमिति विवेक इति भावः। २अन्तःकरणवृत्तिरिति। अन्तःकरणस्य सात्त्विकः परिणामविशेष इत्यर्थः। अन्तःकरणं यदा सत्त्वमयं वर्तते, तदा पुनरिति। विशिष्टे वाङ्मये तपसि दृष्टान्तमाह— यथेति। प्राङ्मुखत्वं पवित्रपाणित्वमित्यादिविधानमनतिक्रम्य स्वाध्यायस्य आवर्तनमपि वाङ्मये तपसि अन्तर्भवतीत्याह— स्वाध्यायेति। वाक् प्राचुर्येण प्रस्तुता अस्मिन्निति वाङ्मयं, वाक्प्रधानमित्यर्थः॥१५॥
मानसं तपः संक्षिपति— मन इति। प्रशान्तिफलमेव व्यनक्ति— स्वच्छतेति। मनसः स्वाच्छ्यमनाकुलता। नैश्चिन्त्यमित्यर्थः। सौमनस्यं सर्वेभ्यो हितैषित्वम् अहिताचिन्तनं च। तत् कथं गम्यते? तत्राह— मुखादीति। तस्य स्वरूपमाह— अन्तःकरणस्येति। ननु मौनं वाङ्नियमनं वाङ्मये तपस्यन्तर्भवति, तत् कथं मानसे तपसि व्यपदिश्यते? तत्र वाचः संयमस्य कार्यत्वान्मनःसंयमस्य कारणत्वात् कार्येण कारणग्रहणान्मानसे तपसि मौनमुक्तमित्याह— वागिति। यद्वा मौनं मुनिभावो मननम् , आत्मनो मनसो विनिग्रहो निरोधः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किं पुनस्तत् तपः? यत् सत्यं वाक् यमनुद्वेगकरं प्रियहितं च तत् परमं तपो वाङ्मयम्। यथा ‘शान्तो भव वत्स, स्वाध्यायं योगं चानुतिष्ठ, तथा ते श्रेयो भविष्यति’ इति। स्वाध्यायाभ्यसनं चैव यथाविधि वाङ्मयं तप उच्यते॥१५॥
मन इति। मनःप्रसादो मनसः प्रशान्तिः, स्वच्छतापादनं मनसः प्रसादः। सौम्यत्वं यत् सौमनस्यमाहुर्मुखा- दिप्रसादकार्योन्नेया अन्तःकरणस्य वृत्तिः, मौनम् वाक्संयमोऽपि मनःसंयमपूर्वको भवतीति कार्येण कारणमुच्यते मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥१६॥
१. अत्र रामानुजमतस्याखण्डनम् अविरोधात् इति ज्ञेयम् । २. ‘अन्तःकरणवृत्ति’रिति भाष्ये पाठान्तरं भाति।
[[८३३]]
मुखप्रसादादिर्भवति। मौनं वाक् यनियमः। वाक् योपरम इति यावत्। वाचामप्रयोग इति भावः। स हि वाङ्मयस्तप एवेत्यत आह— मनःसंयमेति। मनसो विवक्षाव्यापारोपरमे सत्येव वाचो निर्व्यापारत्वम् , मनोव्यापारपूर्वकत्वादिन्द्रियव्यापारस्य। कार्येण मौनेन कारणं मनःसंयम उच्यते। उपचारादिति भावः। उक्तप्रकारमेव दर्शयति— मनःसंयमो मौनमिति। मौनशब्दस्यात्र मौनहेतुभूतो मनःसंयमोऽर्थः। तस्य च मानसिकतपस्त्वमुचितमिति भावः। मनोनिरोध इति। ननु मनःसंयमशब्देनोक्त एवायमर्थ इत्यत आह— सर्वत इति। सर्वविषयेभ्यः सामान्येन मनसो निरोध आत्मविनिग्रहः। वाग्विषयादेव मनसो निरोधो मनःसंयम इति मौनात्मविनिग्रहयोर्भेद इत्यर्थः। सामान्यविशेषभावेन द्वेधा निर्देशान्न पौनरुक्त्यमिति भावः। अमायावित्वं निष्कापट्यम्॥१६॥
श्रद्धयेति। नरैः परया श्रद्धया तप्तं तत् तपस्त्रिविधं भवति। अफलाकाङ्क्षिभिर्युक्तैस्तप्तं तपः सात्त्विकं परिचक्षते। यथोक्तं पूर्वोक्तम्। कथमिति। पुनः कथं त्रिविधं भवतीति शङ्कायामुच्यते— अधिष्ठानमिति। वाङ्मनोदेहनिर्वर्त्यमित्यर्थः। तपोऽनुष्ठातारोऽत्र नराः, न तु केवलमनुष्या इत्याह— अनुष्ठातृभिरिति। समाहितैः समाहितचित्तैः। फलाभिसन्धिरहितं योगयुक्तं तपः सात्त्विकमित्यर्थः ॥१७॥
सत्कारेति। यत् तपः सत्कारमानपूजार्थं दम्भेन चैव क्रियते नरैरिति शेषः। चलमध्रुवं तत् तप इह राजसमिति शिष्टैः प्रोक्तम्। मया तपसि कृते सति मां जनास्तपस्विनं मत्वा मम सत्कारमानपूजाः कुर्युरिति बुद्ध्या धार्मिकोऽहमिति प्रख्यापनार्थं च यत्तपः नन्वेवं मौनस्य मनोनिग्रहस्य च मनःसंयमत्वेनैकत्वात् पौनरुक्त्यम् , नेत्याह— सर्वत इति। भावस्य हृदयस्य संशुद्धी रागादिमल- विकलतेति व्याचष्टे— परैरिति। मानसं मनसा प्रधानेन निर्वर्त्यमित्यर्थः॥१६॥ त्रिविधस्य तपसो यथासम्भवं सात्त्विकादिभावेन त्रैविध्यमाकाङ्क्षाद्वारा निक्षिपति— यथोक्तमिति। त्र्यधिष्ठानं देहवाङ्मनो- निर्वर्त्यमित्यर्थः। समाहितैः सिद्ध्यसिद्ध्योर्निर्विकारैरिति यावत्॥१७॥
राजसं तपो निर्दिशति— सत्कारेति। साधुकारमेव स्फोरयति— साधुरिति। दम्भेन चैव नास्तिक् येन, केवलधर्मध्वजित्वेने-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मनःसंयमो मौनमिति। आत्मविनिग्रहो मनोनिरोधः सर्वतः सामान्यरूपः आत्मविनिग्रहः, वाग्विषयस्यैव मनसः संयमो मौनमिति विशेषः। भावसंशुद्धिः परैर्व्यवहारकालेऽमायावित्वं भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥१६॥
यथोक्तं कायिकं वाचिकं मानसं च तपस्तप्तं नरैः १सत्त्वादिगुणभेदेन कथं त्रिविधं भवतीत्युच्यते— श्रद्धयेति। श्रद्धया आस्तिक् यबुद्ध्या परया प्रकृष्टया तप्तम् अनुष्ठितं तपस्तत् प्रकृतं त्रिविधं त्रिप्रकारम् २त्र्यधिष्ठानं नरैः अनुष्ठातृभिः अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः युक्तैः समाहितैः, यदीदृशं तपः तत् सात्त्विकं सत्त्वनिर्वृत्तं परिचक्षते कथयन्ति शिष्टाः॥१७॥
सत्कारेति। सत्कारमानपूजार्थम् सत्कारः साधुकारः, साधुरयं तपस्वी ब्राह्मण इत्येवमर्थं, मानो माननं १. ‘सात्त्विकत्वादिभेदेन’ इति पा.। २. ‘अधिष्ठानम्’ इति पा.। एवं टीकायामपि। श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः। अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥१७॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥१८॥
[[अ. १७. श्लो. १५-१८]] [[८३४]]
प्रत्युत्थानाभिवादनादिस्तदर्थं, पूजा १पादप्रक्षालनार्चनाशयितृत्वादिस्तदर्थं च तपः सत्कारमानपूजार्थं, दम्भेनैव च यत् क्रियते तपस्तद् इह प्रोक्तं कथितं राजसं चलं कादाचित्कफलत्वेनाध्रुवम्॥१८॥
मूढेति। मूढग्राहेण अविवेकनिश्चयेन आत्मनः पीडया क्रियते यत् तपः, परस्य उत्सादनार्थं विनाशार्थं वा तत् तामसं तप उदाहृतम्॥१९॥
इदानीं दानभेद२ उच्यते— दातव्यमिति। दातव्यमित्येवं मनः कृत्वा यद् दानं दीयते अनुपकारिणे प्रत्युप- कारासमर्थाय, समर्थायापि निरपेक्षं दीयते, देशे पुण्ये कुरुक्षेत्रादौ, काले सङ्क्रान्त्यादौ, पात्रे च षडङ्गविद्वेदपारग इत्यादौ, तद् दानं सात्त्विकं स्मृतम्॥२०॥
यत्त्विति। यत्तु दानं प्रत्युपकारार्थं काले त्वयं मां प्रत्युपकरिष्यतीत्येवमर्थं, फलं वाऽस्य दानस्य मे भविष्यत्य- क्रियते तद् राजसमित्यर्थः। साधुकारः साधुवादः। तमेव दर्शयति— साधुरिति। तदर्थमिति। तस्मा इदं तदर्थं, तत्फलायेत्यर्थः। अभिवादनं नमस्कारः। आदिपदात् स्तुत्यादिग्रहणम्। पादप्रक्षालनार्चनादीत्यादिपदात् पीठोपवेशनादिग्रहणम्। इह शास्त्रे॥१८॥
मूढग्राहेणेति। मूढग्राहेणात्मनः पीडया परस्योत्सादनार्थं वा यत् तपः क्रियते नरैस्तत् तामसमुदाहृतं शिष्टैः। मूढैरविवेक- निश्चयेन कृतं स्वशरीरेन्द्रियादिपीडकं परनाशफलकं च तपः तामसमित्यर्थः। अविवेकनिश्चयो मनुष्योऽहं ब्राह्मणोऽहमित्यादिरूपः। आत्मन आत्मत्वेन गृहीतस्य शरीरेन्द्रियादेः। वाशब्दो विकल्पार्थः। आत्मपीडाकरत्वेन परनाशकरत्वेन च तामसतपसो द्वैविध्यात् ॥१९॥
दातव्यमिति। दातव्यमिति मत्वा देशे काले पात्रे चानुपकारिणे यद्दानं दीयते, तद्दानं सात्त्विकं स्मृतम्। अनुपकारिण इति। इतः प्राक् स्वस्योपकारमकृतवते पश्चादप्यात्मन उपकर्तुमक्षमाय, समर्थत्वेऽपि त्वमिदं द्रव्यं गृहीत्वा काले मम प्रत्युपकारं कुर्वित्येवं वाचा स्वेनानुक्ताय। मनसाऽप्ययमुद्देशो न कार्य इत्याह— निरपेक्षमिति। पात्र इति। पात्रभूतायानुपकारिण इत्यर्थः॥२०॥
त्यर्थः। तदिह प्रोक्तम् अस्मिन्नेव लोके फलप्रदमित्यर्थः। कादाचित्कफलत्वं क्षणिकफलत्वम्। अध्रुवम् अनियतम् अनैकान्तिकफलमिति यावत्॥१८॥
तामसं तपः सङ्गृह्णाति— मूढेति। मूढोऽत्यन्ताविवेकी, तस्य ग्राहो नामाग्रहोऽभिनिवेशस्तेनेत्याह— अविवेकेति। आत्मनः स्वस्य देहादेरित्यर्थः॥१९॥
क्रमप्राप्तं दानस्य गुणनिमित्तं भेदमाह— इदानीमिति। दातव्यमित्येवं मनः कृत्वा दानमेव मया भाव्यं, न फलमित्यभिसन्धा- येत्यर्थः॥२०॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः। परस्योत्सादनार्थं वा तत् तामसमुदाहृतम्॥१९॥
दातव्यमिति यद् दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम्॥२०॥
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः। १. ‘पादप्रक्षालनार्चनातिशयितृ’ इति पा.। २. ‘दानत्रैविध्यम्’ इति पा.।
[[८३५]]
दृष्टमिति तदुद्दिश्य, पुनर्दीयते च परिक्लिष्टं खेदसंयुक्तं तद् दानं राजसं स्मृतम्॥२१॥
अदेशेति। अदेशकाले - अदेशे अपुण्ये देशे म्लेच्छाशुच्यादिसङ्कीर्णे, अकाले १पुण्यहेतुत्वेनाप्रख्याते सङ्क्रान्त्यादिविशेषरहिते, अपात्रेभ्यश्च मूर्खतस्करादिभ्यो, देशादिसम्पत्तौ वा असत्कृतं प्रियवचनपादप्रक्षालन- पूजादिरहितम् अवज्ञातं पात्रपरिभवयुक्तं च यद् दानं तत् तामसमुदाहृतम्॥२२॥
यज्ञदानतपःप्रभृतीनां साद्गुण्यकरणायायमुपदेश उच्यते— ओं तत्सदिति। ओं तत् सदित्येष निर्देशो निर्दिश्यतेऽनेनेति निर्देशः, त्रिविधो नामनिर्देशो ब्रह्मणः स्मृतश्चिन्तितो वेदान्तेषु ब्रह्मविद्भिः। ब्राह्मणास्तेन निर्देशेन त्रिविधेन वेदाश्च यज्ञाश्च विहिता निर्मिताः पुरा पूर्वम् इति निर्देशस्तुत्यर्थमुच्यते॥२३॥
यत्त्विति। यत्तु प्रत्युपकारार्थं दीयते, यत्पुनः फलमुद्दिश्य वा दीयते, यच्च परिक्लिष्टं यथा तथा दीयते, तद्दानं राजसमुदाहृतम्। अदृष्टं स्वर्गादिरूपम्॥२१॥
अदेशेति। यद्दानमदेशकालेऽपात्रेभ्यश्च दीयते, यच्चासत्कृतमवज्ञातं तद्दानं तामसमुदाहृतम्। अदेशो दानानुचितदेशः। स च कीदृशोऽत आह— म्लेच्छेति। अनाख्यातशब्दं स्वयमेव व्याख्याति— अप्रख्यात इति। अप्रसिद्ध इत्यर्थः। देशकालपात्ररूपसम्पद्यपि सत्यां यदसत्कृतं दीयते, तद्दानं च तामसमित्याह— देशादीति। असत्कृतमिति। न विद्यते सत्कृतं सत्कारः पादप्रक्षालनपूजादिरूपो यस्मिन् कर्मणि तद् यथा तथा। यदवज्ञातं दीयते तच्च दानं तामसम्। पात्रपरिभवयुक्तं यथा तथेति क्रियाविशेषणम्। दीयत इति दानं द्रव्यं, न तु वितरणक्रियामात्रं, दीयत इत्यनेनानन्वयात्। वितीर्यमाणद्रव्यत्रैविध्यकथनाद् वितरणत्रैविध्यसिद्धिः। यद्वा दानं दीयत इति यद्द्रव्यं वितीर्यत इति यत्तद्दानं तद्वितरणमिति व्याख्येयम्। अथवा यद्दानं वितरणं दीयते क्रियते धातूनामनेकार्थत्वात्तद्दानं वितरणमिति॥२२॥
ओमिति। साद्गुण्यं सद्गुणत्वं, गुणवत्तातिशय इति यावत्। ब्रह्मणः ‘ॐ तत् सदि’ति त्रिविधो निर्देशः स्मृतः। पुरा तेन ब्राह्मणा वेदाश्च यज्ञाश्च विहिताः। निर्देशो नाम। यद्वा निर्दिशनम्। कस्य निर्देशः? अत आह— नामनिर्देश इति। त्रिविधो नामनिर्देशः ब्रह्मणः राजसतामसदानविभजनं स्पष्टार्थम्॥२१- २२॥
विहितानां कर्मणां प्रमादयुक्ते वैगुण्ये कथं परिहारः स्यादित्याशङ्क् याह— यज्ञेति। ‘ओमिति ब्रह्म’ इत्यादिश्रुतेः ओमिति तावद् ब्रह्मणो नामनिर्देशः, ‘तत्त्वमसि’ इति श्रुतेः तदित्यपि ब्रह्मणो नाम निर्देशः, ‘सदेव सोम्येदम्’ इति श्रुतेः सदित्यपि तस्य नामेति मत्वाऽऽह— ओमिति। कथं निर्देशेन तेषां विधानमित्याशङ्क् याह— निर्दिश्यत इति। यज्ञादीनां वैगुण्यप्रतीतिकाले यथोक्तनाम्ना- मन्यतमोच्चारणादवैगुण्यं सिध्यतीति भावः। कर्मसाद्गुण्यकारणं त्रिविधं नाम स्तौति— ब्राह्मणा इति। पूर्वं सर्गादौ। निर्माणं च
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. ‘पुण्यहेतुत्वेनानाख्यातेऽप्रख्याते’ इति रा.पा.। दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्॥२१॥
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञातं तत् तामसमुदाहृतम्॥२२॥
ओं तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥२३॥
[[अ. १७. श्लो. १८-२३]] [[८३६]]
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः। प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥२४॥
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः। स्मृत इति। ब्रह्मणस्त्रिविधं नाम निर्दिष्टमित्यर्थः। क्वेत्यत आह— वेदान्तेष्विति। कैरित्यत आह— ब्रह्मविद्भिरिति। ब्रह्मणः परमात्मनः, ओमिति, तदिति, सदिति च नामत्रयनिर्देशः शास्त्रप्रसिद्ध इत्यर्थः। ‘ओमित्येकाक्षरं ब्रह्म’ ‘तत्त्वमसि’ ‘सच्चिदानन्दं ब्रह्म’ इत्यादिशास्त्रादिति भावः। यद्यपि चिदानन्दात्मादिनिर्देशान्तराण्यपि ब्रह्मणः सन्ति। तथापि प्रकृतोपयोगात् प्रधानत्वाच्च नामत्रयनिर्देश एवेह गृहीत इति बोध्यम्। प्रकृतोपयोगित्वं चानुपदमेव दर्शयिष्यति। नामत्रयनिर्देशस्य नामरूपादिविहीनस्यापि ब्रह्मणः कल्पितमिदं नामनिर्देश- त्रयमिति बोध्यम्। ब्राह्मणा इति। ननु ब्रह्मणैव सृष्टा ब्राह्मणादयः, न तु निर्देशेनेति चेत्? सत्यम्। ब्रह्मणा हि मायाविनेश्वरेण ॐ तत्सदिति निर्देशपूर्वकं ब्राह्मणादीनां सृष्टत्वात् तथोक्तिरिति। यत्तु रामानुजः— ब्रह्मणो वेदस्येति वैदिककर्मण इत्यर्थ इति, तेन निर्देशेन युक्ता ब्राह्मणादयो मया पुरा विहिता इति च। तदयुक्तम् , परब्रह्मवाचिनो ब्रह्मशब्दस्य वेदपरत्वासम्भवात् तस्य च वैदिककर्मपरत्वस्य लाक्षणिकत्वेनायुक्तत्वाच्च। ॐ तत्सदिति त्रिविध-शब्दाभिलप्यत्वाभावाच्च वेदवैदिककर्मणोः। न च - ॐ तत् सदिति त्रिविधः शब्दो वैदिककर्मान्वयी भवतीति - वाच्यम् ; अन्वयीति मूलाद्बहिः पदकल्पनस्याप्रमाणत्वात्। किञ्च ब्राह्मणानां वेदानां यज्ञानां च वैदिककर्मणां त्रयाणामपि तन्निर्देशयुक्तत्वस्य ब्राह्मणास्तेनेति वाक् येन प्रोक्तत्वे सति वैदिकं कर्म तन्निर्देशयुक्तमिति पूर्ववाक् येन कथनं व्यर्थं पौनरुक्त्यावहं च। तेन विहिता इति साक्षाच्छ्रूयमाणं तच्छब्दनिष्ठं कर्तृत्वं परित्यज्य तच्छब्दार्थस्याप्राधान्यं कल्पयित्वा मयैवेति कर्त्रन्तराध्याहारोऽप्ययुक्त एव। श्रुतहानाश्रुतकल्पनयोर्दुष्टत्वात्॥२३॥
तस्मादिति। तस्माद् ब्रह्मवादिनां विधानोक्ता यज्ञदानतपःक्रियाः सततमोमित्युदाहृत्य प्रवर्तन्ते। तस्मादिति। ब्रह्मनिर्देशत्वा- दोङ्कारादित्रयस्येत्यर्थः। यज्ञश्च दानं च तपश्च यज्ञदानतपांसि, तान्येव क्रियाः यज्ञदानतपःक्रियाः। ब्रह्म वेदः, तद् वदितुं शीलं येषां ते ब्रह्मवादिनः, वैदिका इत्यर्थः। नात्र परब्रह्मवाची ब्रह्मशब्दः, परब्रह्मविदां कर्मप्रवृत्त्ययोगात्। प्रपञ्चितं चैतदधस्तात्। अत्र ‘ओमित्याश्रावयत्योमिति शंसत्योमित्युद्गायती’ति छान्दोग्यमनुसन्धेयम्। यत्तु रामानुजः— वेदाश्चोमित्युदाहृत्यारभ्यन्ते। ओमिति शब्दान्वितवेदधारणात् तदन्वितयज्ञादिकर्मकरणाच्च ब्राह्मणाना- मप्योमिति शब्दान्वय इति। तदेतद् मूलाद्बहिःकल्पितमुपेक्ष्यम्॥२४॥
तदिति। ओमित्यस्य विनियोगं दर्शयित्वा तदित्यस्य दर्शयति। मोक्षकाङ्क्षिभिस्तदित्युच्चार्य फलमनभिसन्धाय यज्ञतपःक्रिया प्रजापतिकर्तृकम्॥२३॥
यस्माद् ब्राह्मणादीनां कारणम् , यस्माच्च ब्रह्मणो निर्देशस्तस्मादित्युपसंहरति— तस्मादिति। ‘ब्रह्मवादिना’मित्यत्र ब्रह्म वेदः॥२४॥
ॐशब्दस्य विनियोगमुक्त्वा तच्छब्दस्य विनियोगमाह— तदित्यादिना॥२५॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तस्मादिति। तस्मादोमिति उदाहृत्य उच्चार्य यज्ञदानतपःक्रियाः यज्ञादिस्वरूपाः क्रियाः प्रवर्तन्ते विधानोक्ताः शास्त्रचोदिताः सततं सर्वदा ब्रह्मवादिनां ब्रह्मवदनशीलानाम्॥२४॥
तदिति। तदित्यनभिसन्धाय - तद् इति ब्रह्माभिधानमुच्चार्यानभिसन्धाय च यज्ञादिकर्मणः फलं यज्ञतपः-
[[८३७]]
१. ‘उच्यते’ इति पा.। २. सज्जन इति प्रयोगोऽपि बोध्यः। विविधा दानक्रियाश्च क्रियन्ते। क्रियन्त इति क्रियाः कर्माणि, न तु करणं क्रिया, क्रियत इत्यनेनानन्वयात्। मुमुक्षुभिरिति। चित्तशुद्धि- ज्ञानप्राप्तिद्वारा मोक्षाभिलाषिभिरित्यर्थः। न हि मुमुक्षूणां विदुषां संन्यासिनां क्रियाधिकारोऽस्ति॥२५॥
श्लोकद्वयफलितार्थमाह—ॐ तदिति । सद्भाव इति। सद्भावः सत्त्वम्। कस्येत्यत आह— असत इति। असतः कथं सत्तेत्यत आह— यथेति। जन्मनः प्रागसतः पुत्रस्य जन्मनि सदिति प्रयुज्यते। असतोऽपि जन्मना लब्धसत्ताकत्वात् पुत्रस्य सत्त्वं युक्तम्। अत एव जन्मानन्तरं सन् पुत्र इति सच्छब्दप्रयोगः। साधुभावः साधोर्भावः, सद्वृत्तत्वं तस्मिन्। कस्य साधुभावः? अत आह— असद्वृत्तस्येति। असद् दुष्टं वृत्तं चरितं, व्यापार इति यावत् ; यस्य तस्य असद्वृत्तस्य। तदर्थमाह— असाधोरिति। असद्वृत्तत्वं ह्यसाधुत्वम्। सत् श्रेष्ठं वृत्तं यस्य स सद्वृत्तः सद्भावः सद्वृत्तत्वं साधुत्वम्। यः पूर्वमसद्वृत्तः सन्निदानीं दैववशात् सद्वृत्तो जातस्तस्य तत्साधुत्वं सदित्युच्यत इत्यर्थः। असतः सद्भावे वक्तव्ये, असाधोः साधुभावे वक्तव्ये च सदित्येतत् पदं प्रयुज्यत इति श्लोकान्वयः। एतच्छब्दार्थमाह— ब्रह्मणोऽभिधानमिति। अभिधानं नाम अभिधीयते उच्यते घटादिपदार्थोऽनेनेति घटादिशब्दस्याभि- धानत्वम्। नाम्ना ह्यभिधेयं वस्तु निर्दिश्यते। घटमानयेत्युक्तो वृद्धेन तरुणो घटमानयतीति प्रत्यक्षम्। तद्धि नाम्नो वस्तुनिर्देशं विना न सम्भवतीति। न च सन् पुत्र इति सद्भावे प्रयोगवत् साधुभावे प्रयोगो नास्तीति वाच्यम् ; साधुः सन्निति प्रयोगसत्त्वात्।२ असाधुना राज्ञा स्वस्मै धनादिके दत्ते सति ब्राह्मणः प्रत्येति हि ‘असाधुरयं दैवात् साधुः सन् राजा मह्यमिदं धनादिकमदिशदि’ति। प्रशस्ते कर्मणीति। विवाहादिशुभकर्म हि सत्कर्मेत्युच्यते। आदिपदाद् वापीकूपतटाकादिपूर्तकर्मणाम् अग्निष्टोमादीष्टकर्मणां च ग्रहणम्। तानि हि सत्कर्माणीत्युच्यन्ते। एवं च यज्ञदानतपःक्रियाणां प्रशस्तानां सच्छब्दविषयत्वं सिद्धम्। ‘सन् यज्ञः’ ‘सत् तपः’ ‘सद् दान’मिति प्रयोगात्॥२६॥
यज्ञ इति। यज्ञे तपसि दाने च, पुरुषस्येति शेषः। स्थितिः सदित्युच्यते च। तदर्थीयं कर्म चैव सदित्यभिधीयत एव। स्थितिः क्रियाः यज्ञक्रियास्तपःक्रियाश्च यज्ञतपःक्रियाः, दानक्रियाश्च विविधाः क्षेत्रहिरण्यप्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभिः मोक्षार्थिभिः, मुमुक्षुभिः॥२५॥
ओंतच्छब्दयोर्विनियोग उक्तः। अथेदानीं सच्छब्दस्य विनियोगः १कथ्यते— सद्भाव इति। असतः सद्भावे, यथा अविद्यमानस्य पुत्रस्य जन्मनि, तथा साधुभावे च असद्वृत्तस्यासाधोः सद्वृत्तता साधुभावः, तस्मिन् साधुभावे च सदित्येतदभिधानं ब्रह्मणः प्रयुज्यते अभिधीयते। प्रशस्ते कर्मणि विवाहादौ च तथा सच्छब्दः पार्थ युज्यते प्रयुज्यत इत्येतत् ॥२६॥
यज्ञे यज्ञकर्मणि या स्थितिः, तपसि च या स्थितिः, दाने च या स्थितिः, सा च सदित्युच्यते विद्वद्भिः, कर्म वृत्तमनूद्यानन्तरश्लोकतात्पर्यमाह— ॐ तच्छब्दयोरिति॥२६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥२५॥
सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥२६॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते।
[[अ. १७. श्लो. २३-२७]] [[८३८]]
कर्म चैव तदर्थीयं सदित्येवाभिधीयते॥२७॥
निष्ठा, प्रवृत्तिरिति यावत्। यज्ञादिषु प्रवृत्तं पुरुषं दृष्ट्वा सत्स्थितिरयमिति प्रतियन्ति शिष्टाः। अतो यज्ञादिस्थितेः सच्छब्दाभिधेयत्वमिति भावः। यज्ञादिविषयैव स्थितिः सत्स्थितिरित्युच्यते, नान्यविषयेति कृत्वा यज्ञादिस्थितेः सत्स्थितित्वमुचितमित्यभिसन्धिः। नात्र सच्छब्दस्य सद्भावः साधुभावः प्राशस्त्यं वाऽर्थः, किन्तु यज्ञादिकर्मस्थितिरेवेति न पूर्वोक्तार्थसाङ्कर्यम्। न च यज्ञादिकर्मस्थितेरेव सच्छब्दार्थत्वे सत्स्थितिपदयोः पौनरुक्त्यमिति वाच्यम् ; ‘मृत्युञ्जयः शिवः’ इतिवत् ‘सती स्थितिः’ इत्यस्योपपत्तेर्विशेष्यमपि विशेष्यान्तरे सति विशेषणभावे पर्यवस्यति हि। एवं यज्ञादिविषयस्थितिवाच्यपि सच्छब्दः स्थितिशब्दप्रयोगे सति यज्ञादिविषयत्वमात्रे पर्यवस्यतीति। तदर्थीयमिति। तानि यज्ञदानतपांस्येवार्थाः प्रयोजनानि तदर्थाः, तेषामिदं तदर्थीयं तदर्थमित्यर्थः। यज्ञदानतपोनिर्वर्तकं धनार्जनादिकर्मेति भावः। एवं तच्छब्दस्य पूर्वोक्तयज्ञादिपरामर्शित्वमभ्युपेत्य व्याख्याय, अथ प्रकृतपरामर्शित्वमभ्युपेत्य व्याख्याना- न्तरमाह— अथवेति। प्रकृताभिधानत्रयवानीश्वर इह तच्छब्दार्थः। तस्यार्थः प्रयोजनं स्वाज्ञानिर्वर्तनम् , तस्येदं तदर्थीयम्। ईश्वरा- ज्ञानिर्वर्तनमात्रफलकमित्यर्थः। फलाभिसन्ध्यादिरहितमिति यावत्। कर्तव्यमित्येव हि कुशलेन कर्म कार्यमिति प्राग् दर्शितम्। एतस्य चेश्वरार्थस्य कर्मणः सत्त्वं बन्धाहेतुत्वाच्चित्तशुद्धिद्वारा ज्ञानप्राप्तिहेतुत्वादिप्रयुक्तम्। अन्यद्धि बन्धहेतुत्वादिना दुष्टं कर्मासदेव यत्फलाभिसन्ध्यादिमत्। तस्मादीश्वरार्थं कर्म सदित्युच्यते। नेदं प्रशस्तकर्मत्वरूपं सत्कर्मत्वं पौनरुक्त्यात् , किन्तु ईश्वरार्थकर्मत्व- रूपमेव। तस्मादीश्वरार्थे कर्मणि सत्कर्मेति प्रयोगः। श्रद्धापूर्वकं यथा तथेति प्रयोगक्रियाविशेषणम्। अभिधानत्रयम् ॐ तत् सदिति नामत्रयम् , तस्य प्रयोगेण उच्चारणेन। ननु ओमित्युदाहृत्य, तदित्युदाहृत्य चेतिवत् सदित्युदाहृत्येति नोक्तम्। प्रत्युत सच्छब्दस्य ब्रह्मणोऽन्ये सद्भावादय एवार्थाः प्रोक्ता इति कथमभिधानत्रयप्रयोगसम्भवः? ॐ तदिति ब्रह्माभिधानद्वयप्रयोग एव हि दर्शित इति चेत् , सत्यम् , ब्रह्मवाचिन एव सच्छ- ब्दस्य सद्भावादिष्वौपचारिकः प्रयोगो दर्शितः प्रशंसार्थः। ततश्च सदित्युदाहृत्यैव यज्ञदानतपःक्रियाः क्रियन्ते मुमुक्षुभिरिति बोध्यम्। यद्वा ॐ तदित्युदाहृत्य फलमनभिसन्धाय ब्रह्मवादिनो मुमुक्षवः ईश्वरार्थीयमिदं कर्म सदिति मत्वा कुर्वन्ति। अन्ये त्वेवमविद्वांसोऽपि ॐ तत्सदिति ब्रह्माभिधानत्रयमुदाहृत्य कर्म कुर्युश्चेद् विगुणमपि तत् कर्म सगुणं भवतीति कर्मसाद्गुण्यापादनं ब्रह्माभिधानत्रयोच्चारण- मिति भावः। ननु सच्छब्दस्य यज्ञादिक्रियावाचित्वं कण्ठोक्तम्। तदनुसारेण तच्छब्दस्यापि तदेव युक्तं, तथैव व्याख्यातं च रामानुजेन। फलमनभिसन्धाय यज्ञादिक्रियाः मुमुक्षुभिः क्रियन्ते, ताश्च क्रियास्तदित्युच्यन्त इति। न च कथं ब्रह्मवाचितच्छब्दवाच्यत्वं क्रियाणामिति वाच्यम् , ब्रह्मप्राप्त्युपायतया ब्रह्मवाचिना तदिति शब्देन निर्देश्याः क्रिया इति। तस्मात् तदित्युदाहृत्येति व्याख्यानम- युक्तमिति चेत् , मैवम् ; तस्मादोमित्युदाहृत्येति पूर्वश्लोकानुसारेणेहापि तथैव तदित्युदाहृत्येति व्याख्यातव्यत्वात्। क्रियाणां तच्छब्द- निर्देश्यत्वमिवोङ्कारनिर्देश्यत्वस्यापि सम्पादयितुं शक् यत्वेनोमित्युदाहृत्य यज्ञादिक्रियाः वैदिकानां प्रवर्तन्ते, ताश्चोमित्युच्यन्त इति कुतो रामानुजेन न व्याख्यातम्? यद्यधुना व्याख्यायत इति ब्रूषे, तर्हि तथैव तदित्युदाहृत्य मुमुक्षुभिः क्रियाः क्रियन्त इति व्याख्याहि। तुल्यार्थत्वाच्छ्लोकद्वयस्य। एवं व्याख्याने च ताश्च क्रिया ओमित्युच्यन्ते तदित्युच्यन्त इति वाक् यद्वयमपि मूलाद्बहिः स्वकपोलकल्पित- प्रकारान्तरेण सच्छब्दस्य विनियोगमाह— यज्ञ इति। नामत्रयोच्चारणेन साद्गुण्यं सिध्यतीति प्रकरणार्थमुपसंहरति— तदेतदिति ॥२७॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
चैव तदर्थीयं यज्ञदानतपोर्थीयम् । अथवा यस्याभिधानत्रयं प्रकृतं तदर्थीयम् , १ईश्वरार्थीयमित्येतत् , सदित्येवाभि- धीयते। तदेतद् यज्ञदानतपआदि कर्म असात्त्विकम् विगुणमपि श्रद्धापूर्वकं ब्रह्मणोऽभिधानत्रयप्रयोगेण सगुणं १. तदर्थीयं तदर्थम् इति व्याख्याने मत्वर्थीय इत्यत्रेव स्वार्थे बाहुलकाच्छप्रत्ययः।
[[८३९]]
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्। असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह॥२८॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः॥१७॥
मेव रामानुजस्येत्यप्रमाणं रामानुजव्याख्यानम्। यदि तु ओमित्युदाहृत्येति श्लोके ओमित्यनेन क्रिया उच्यन्त इति न व्याख्यायते, तर्हीहापि न व्याख्याहि। न चोदाहृत्येति पदाभावादिहैवं व्याख्यायते, तत्र तु तत्सत्त्वान्नैवं व्याख्यायत इति वाच्यम् ; पूर्वश्लोकोक्त- स्थोदाहृत्येति पदस्येहाप्यन्वयसम्भवादध्याहारादिना। ‘ताश्च क्रियास्तदुच्यन्त’ इति पदानामध्याहारस्त्वयुक्त एव। पूर्वश्लोकेऽपि तथा अनुक्तत्वात्। तस्मात् ‘तस्मादोमित्युदाहृत्ये’ति पूर्वश्लोकवदिहापि तदित्युदाहृत्येत्येव व्याख्येयं, न तु ताश्च तदित्युच्यन्ते उपचारादिति व्याख्येयमयुक्तत्वात्। सच्छब्दानुसारस्तु न न्याय्यः। सच्छब्दस्य सद्भावसाधुभावाद्यर्थविशेषा यथा दर्शितास्तथा तच्छब्दस्यार्थ- विशेषाणामदर्शितत्वात्। तस्मादोङ्कारानुसार एव युक्तः, तच्छब्दवदोङ्कारस्याप्यर्थविशेषाणामदर्शितत्वात्। प्रत्युत ओमित्युदाहृत्य तदित्युच्चार्येतिवत् सदित्युदाहृत्येत्येव कल्पनमुचितं, प्रकरणादिति सङ्क्षेपः। सात्त्विकमिति। ॐ तत्सदिति निर्देशेन कर्मण ईश्वरार्थीयत्वस्य जातत्वादिति भावः। अत एव सन्ध्यावन्दनादिकमपि कर्म कृत्वा वृद्धाः ‘ॐ तत्सद्ब्रह्मार्पणमस्तु’ इति ब्रुवन्ति, ॐ तत्सदिति निर्देशेन, ब्रह्मार्पणेन च तत्कर्मणः साद्गुण्यलाभार्थमिति बोध्यम् ॥२७॥
तत्र च एवं सति सर्वत्र यज्ञादिकर्मसु सर्वं साद्गुण्यं सात्त्विकत्वं च। श्रद्धया ॐ तत् सदिति निर्देशे कृते सति हि कर्मणः साद्गुण्यादिसम्प्राप्तिः। अश्रद्धयेति। तस्मादिति। श्रद्धापूर्वकत्वात् कर्मसाद्गुण्यस्येत्यर्थः। यदश्रद्धया हुतं, यदश्रद्धया दत्तं, यत्तपोऽश्रद्धया तप्तं, यच्चाश्रद्धया कृतं, तत् सर्वमसदित्युच्यते। हे पार्थ! तत् प्रेत्य फलाय नो भवति, इह फलाय च नो भवति। कुतोऽस्यासत्त्वम् अत आह— मत्प्राप्तीति। मत्प्राप्तिसाधनभूतान्मार्गात् सन्मार्गात् कर्मयोगादिलक्षणाद् बाह्यं बहिर्भवं सुदूरमित्यर्थः; तत्त्वात् , मत्प्राप्त्य- हेतुत्वादित्यर्थः। प्रेत्यफलायामुष्मिकस्वर्गादिफलाय नो न भवति। आमुष्मिकफलदं न भवतीत्यर्थः। इहार्थमिति। ऐहिकफलायेत्यर्थः। कुतो नैहिकफलार्थत्वम्? अत आह— साधुभिरिति। साधुनिन्दाया अकीर्तेरैहिकफलत्वाभावादिति भावः। यद्वा कुतस्तत् प्रेत्यफलाय अश्रद्धान्वितस्यापि कर्मणो नामत्रयोच्चारणादवैगुण्ये श्रद्धाप्राधान्यं न स्यादित्याशङ्क् याह— तत्र चेति। सप्तमीभ्यां प्रकृतं यज्ञादि गृह्यते। सर्वं यज्ञादि सगुणमिति शेषः। तस्यासत्त्वं साधयति— मत्प्राप्तीति। ऐहिकमामुष्मिकं वा फलमश्रद्धितेनापि कर्मणा सम्पत्स्यते कुतोऽस्यासत्त्वमित्याशङ्क् याह— न चेति। तस्योभयविधफलाहेतुत्वे हेतुमाह— साधुभिरिति। निन्दन्ति हि साधवः श्रद्धारहितं कर्म। अतो नैतदुभयफलौपयिकमित्यर्थः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सात्त्विकं सम्पादितं भवति ॥२७॥
तत्र च सर्वत्र श्रद्धाप्रधानतया सर्वं सम्पाद्यते यस्मात् तस्मात्—अश्रद्धयेति। अश्रद्धया हुतं हवनं कृतं, दत्तं च ब्राह्मणेभ्योऽश्रद्धया, तपः तप्तम् अनुष्ठितमश्रद्धया, तथा अश्रद्धयैव कृतं यत् स्तुतिनमस्कारादि , तत् सर्वम् असदित्युच्यते मत्प्राप्तिसाधनमार्गबाह्यत्वात् , हे पार्थ ! । न च तद् १बह्वायासमपि प्रेत्य फलाय, नो अपीहार्थम् , अ. १७. श्लो. २७-२८ ] १. ‘बहुलायासमपि’ इति पा.।
[[८४०]]
साधुभिर्निन्दितत्वादिति॥२८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः॥१७॥
इहफलाय च न भवतीत्यत आह— साधुभिरिति। यदि तदसत् कर्म फलदं स्यात् तर्हि तन्नैव निन्द्येत सद्भिः। अनर्थकं हि साधवो निन्दन्ति। तस्मात् साधुभिर्निन्दितमिदं कर्म नरकदुःखाकीर्त्यादिप्रदमेव, न तु फलप्रदमिति भावः। तस्मात् सर्वोऽपि कुशलः सर्वं विहितं कर्म ब्रह्माभिधानत्रयप्रयोगपूर्वकं श्रद्धया युक्तःसन् फलमनभिसन्धाय कर्तव्यमिति बुद्ध्या कुर्यात्। तेन च कर्मयोगेन तत्कर्माकर्मेवाबन्धकं सत् चित्तशुद्धिज्ञानप्राप्तिद्वारा मोक्षहेतुर्भवति। यत एवं तस्मात् , हे पार्थ! त्वमपि युद्धं स्वकर्म श्रद्धया यथोक्तविधं कुरु। ततश्च संसारबन्धान्मोक्ष्यसे इतीमं भावं सूचयितुमेव पार्थेति सम्बुद्धिः॥२८॥
इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृतौ श्रीभगवद्गीताभाष्यार्कप्रकाशे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः॥१७॥
श्रीहयग्रीवार्पणमस्तु तदनेन शास्त्रानभिज्ञानामपि श्रद्धावतां श्रद्धया सात्त्विकत्वादित्रैविध्यभाजां राजसतामसाहारादित्यागेन सात्त्विकाहारादिसेवया सत्त्वैकशरणानां प्राप्तमपि यज्ञादिवैगुण्यं ब्रह्मनामनिर्देशेन परिहरतां परिशुद्धबुद्धीनां श्रवणादिसामग्रीसञ्जाततत्त्वसाक्षात्कारवतां मोक्षोपपत्तिरिति स्थितम्॥२८॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशांकरभाष्यव्याख्याने सप्तदशोऽध्यायः॥१७॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
ॐ श्रीपरमात्मने नमः