॥अथ षोडशोऽध्यायः॥
श्री भगवानुवाच— अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥१॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
प्रकृतयः स्वभावाः। नवम इति। ‘मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः। राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः। भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥’ इति तत्रोक्तत्वादिति भावः। सङ्क्षेपेणो- क्तार्थस्य विस्तरेण कथनमिह सङ्गतिरिति बोध्यम्। किमर्थं तत्प्रदर्शनम्? अत आह— तत्रेति। प्रकृतित्रयमध्य इत्यर्थः। संसारेति। ‘दैवी सम्पद् विमोक्षाय निबन्धायासुरी मते’ति वक्ष्यमाणत्वादिहैवेति भावः। आदानायेति। धर्मवत् स्वीकारायेत्यर्थः। इतरयोः राक्षस्याः आसुर्याश्चेत्यर्थः। परिवर्जनायेति। अधर्मवदिति भावः। दैवी विज्ञाता ग्रहणयोग्या, आसुरी राक्षसी च विज्ञाता परित्याग- योग्येति तद्विज्ञानमावश्यकमिति तद्विज्ञानार्थमाह भगवानिममध्यायं षोडशमिति भावः। अभयमिति। ‘द्वितीयाद्वै भयं भवती’ति श्रुतेरद्वितीयब्रह्मज्ञानसाध्यमिदमभयं भयाभावः। देहादिकं सर्वमनित्यमिति निश्चयाद् व्याध्यादिभ्यो भयाभावोऽभयमिति वा। न तु नास्तिकवद् नरकादेर्भयाभावः इहाभयमित्युक्तमिति भ्रमितव्यम् , तस्यासुरसम्पद्विषयत्वात्। शुद्धसत्त्वभावेनेति। निष्कापट्येनेत्यर्थः। अन्तरेकमर्थं निधाय बहिरन्यार्थस्य कथनं कपटस्वभावः, तद्विपरीतोऽयं शुद्धसत्त्वस्वभावः। यदन्तर्बहिश्चैकरूप्येण वर्तनम्। स्वात्मसंवेद्यतापादनं स्वानुभवापादनम्। एषेति। अभयादित्रिकमित्यर्थः। का दैवीत्यत आह— सात्त्विकीति। सात्त्विकीं लक्षयति— आनन्दगिरिकृतव्याख्या व्यवहितेन सम्बन्धं वदन्नध्यायान्तरमवतारयति— दैवीति। सूचिताः ‘राक्षसीमासुरीं चैव प्रकृतिं मोहिनीम्’ इत्यादाविति२ शेषः। प्रकृतीनां विस्तरेण दर्शनं कुत्रोपयोगीत्याशङ्क् य विभज्योपयोगमाह— संसारेति। अतीते चाध्याये ‘कर्मानुबन्धीनि अधश्च मूलान्यनुसन्ततानि’ इत्यत्र कर्मव्यङ्ग्याः वासनाः संसारस्यावान्तरमूलत्वेनोक्ताः, ताः मनुष्यदेहे प्राग्भवीयकर्मानुसारेण व्यज्यमानाः सात्त्विकादिभेदेन दैव्यादिप्रकृतित्रयत्वेन विभक्ताः वितिस्तीर्षुः भगवानुक्तवानित्याह— श्रीभगवानिति। अभीरुता शास्त्रोपदिष्टेऽर्थे सन्देहं हित्वाऽनुष्ठाननिष्ठत्वम्। परवञ्चना परस्य व्याजेन वशीकरणम् , माया हृदयेऽन्यथा कृत्वा बहिरन्यथा व्यवहरणम् , अनृतम् अयथादृष्टकथनम्। आदिपदेन विप्रलम्भादिग्रहः। उक्तमर्थं संक्षिप्याह— शुद्धेति। एषेति अभयाद्या ज्ञानादिस्थित्यन्ता त्रिधोक्तेति यावत्। दैवी आसुरी राक्षसी चेति प्राणिनां प्रकृतयो नवमेऽध्याये सूचिताः। तासां विस्तरेण प्रदर्शनाय ‘अभयं सत्त्वसंशुद्धिः’ इत्यादिरध्यायः आरभ्यते। तत्र संसारमोक्षाय दैवी प्रकृतिः१, निबन्धनायासुरी राक्षसी च इति, दैव्याः आदानाय प्रदर्शनं क्रियते, इतरयोः परिवर्जनाय च। श्रीभगवानुवाच— अभयमिति। अभयम् अभीरुता। सत्त्व- संशुद्धिः सत्त्वस्यान्तःकरणस्य संशुद्धिः, संव्यवहारेषु परवञ्चनामायाऽनृतादिपरिवर्जनम् , शुद्धसत्त्वभावेन व्यवहारः इत्यर्थः। ज्ञानयोगव्यवस्थितिः ज्ञानं शास्त्रतः आचार्यतश्चात्मादिपदार्थानामवगमः, अवगतानामिन्द्रियाद्युपसंहारेणै- काग्रतया स्वात्मसंवेद्यतापादनं योगः, तयोर्ज्ञानयोगयोः व्यवस्थितिः व्यवस्थानम् , तन्निष्ठता। एषा प्रधाना दैवी १. अभयं सर्वभूताभयदानसङ्कल्पपालनम् । एतच्चान्येषामपि परमहंसधर्माणामुपलक्षणम् । सत्त्वसंशुद्धिः श्रवणादिपरिपाकेणान्तःकरणस्यासम्भावनाविपरीत- भावनादिमलराहित्यम्। ज्ञानमात्मसाक्षात्कारः, योगो मनोनाशवासनाक्षयानुकूलः पुरुषप्रयत्नः, ताभ्यां विशिष्टा संसारिविलक्षणावस्थितिर्जीवन्मुक्तिः ज्ञानयोग- व्यवस्थितिः इति व्याख्यायां फलभूतैव दैवी सम्पदियं द्रष्टव्या। इति मधुसूदनी। २. आदिपदेन ‘श्रिताः। महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः’ इति ग्राह्यम्।
[[८०७]]
सात्त्विकी सम्पत्। यत्र च येषामधिकृतानां या प्रकृतिः सम्भवति, सात्त्विकी सोच्यते। दानं यथाशक्ति संविभागोऽ- न्नादीनाम्। दमश्च बाह्यकरणानामुपशमः। अन्तःकरणस्योपशमं शान्तिं वक्ष्यति। यज्ञश्च श्रौतोऽग्निहोत्रादिः, स्मार्तश्च देवयज्ञादिः। स्वाध्यायः ऋग्वेदाद्यध्ययनमदृष्टार्थम् । तपो १वक्ष्यमाणं शारीरादि। आर्जवम् ऋजुत्वं सर्वदा॥१॥
किञ्च—अहिंसेति। अहिंसा अहिंसनं प्राणिनां पीडावर्जनम्। सत्यम् अप्रियानृतवर्जितं यथाभूतार्थवचनम्। अक्रोधः परैराक्रुष्टस्याभिहतस्य वा प्राप्तस्य क्रोधस्योपशमनम्। त्यागः संन्यासः, पूर्वं दानस्योक्तत्वात्। शान्तिः अन्तःकरणस्योपशमः। अपैशुनम् अपिशुनता, परस्मै पररन्ध्रप्रकटीकरणं पैशुनम् , तदभावोऽपैशुनम्। दया कृपा भूतेषु दुःखितेषु । अलोलुप्त्वम्२ इन्द्रियाणां विषयसन्निधावविक्रिया। मार्दवं मृदुता अक्रौर्यम्। ह्रीः लज्जा। अचापलम् असति प्रयोजने वाक्पाणिपादादीनामव्यापारयितृत्वम् ॥२॥
यत्रेति। यत्र च ब्रह्मचर्याग्निहोत्रादौ, येषां ब्रह्मचारिगृहस्थादीनाम्। यत्र च इज्याध्ययनयुद्धादौ, येषां ब्राह्मणक्षत्रियादीनामिति वा। या प्रकृतिः स्वभावः, प्रवृत्तिरिति यावत्। सम्भवति सा सात्त्विकीत्युच्यते। स्वस्ववर्णाश्रमविहितानुष्ठानं सात्त्विकी प्रकृतिरित्यर्थः। शक्तिमनतिक्रम्य यथाशक्ति स्वशक्त्यनुगुणमित्यर्थः। अन्नादीनाम् अन्नधान्यधनादीनां संविभागः अर्थ्यादिभ्यो यथार्हं विभजनम्। उपरमो निर्व्यापारता। वक्ष्यतीति। शान्तिरित्यनेनेति भावः। अदृष्टार्थमिति। आमुष्मिकफलकमित्यर्थः। इदं विशेषणं स्वाध्याये तपसि चान्वेति। शारीरादीति। ‘देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्। ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥ अनुद्वेगकरं वाक् यं सत्यं प्रियहितं च यत्। स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥’ इत्यनन्तराध्याये वक्ष्यति। ऋजुत्वमवक्रत्वम् , समस्वभाव इति यावत्॥१॥ अहिंसेति। न हिंसा अहिंसा, हिंसाऽभावः। अप्रियानृतवर्जितमिति। अप्रियानृताभ्यामन्यदित्यर्थः। यदप्रियं न भवति, यच्चानृतं न भवति तदिति यावत्। प्रियं नामात्र हितम् , न त्विष्टम् , यथाभूतार्थवचनस्यापि केषाञ्चित् पिशुनादीनामनिष्टत्वात्। अनिष्टमपि हितमेव चोरस्यापि सत्यवचनम् , राजदण्डनेन पापक्षयादिति। यद्वा अप्रियानृतवर्जितम् अप्रियत्वानृतत्वरहितम्। तथा च स्मर्यते – ‘सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम्। प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः॥’ इति। यथाभूतार्थवचनमिति। यथाभूतप्रियार्थवचनमित्यर्थः। योऽर्थो यथाभूतस्तस्यार्थस्य प्रियस्य तथैव कथनमिति यावत्। यथाभूतस्याप्यप्रियस्य वर्जनाय तामेव सात्त्विकीं प्रकृतिं प्रकटयति— यत्रेति। ज्ञाने कर्मणि वाऽधिकृतानाम् अभीरुताद्या या प्रकृतिः, सा तेषां तत्र सात्त्विकी सम्पदित्यर्थः। महाभाग्यानामत्युत्तमा दैवी सम्पदुक्ता; सम्प्रति सर्वेषां यथासम्भवं सम्पदं व्यपदिशति— दानमिति। ३बाह्यकरणविशेषणे कारणमाह— अन्तःकरणस्येति। देवयज्ञादिरित्यादिशब्देन पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्चेति त्रयमुक्तम्। ब्रह्मयज्ञस्य स्वाध्यायेन पृथक्करणात्॥१॥
दैवीं सम्पदमभिजातस्य विशेषणान्तराणि दर्शयति— किञ्चेति। त्यागशब्देन दानं कस्मान्नोच्यते? तत्राह— पूर्वमिति। लज्जा अकार्यानुवृत्तिहेतुगर्हानिमित्ता मनोवृत्तिः॥२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्॥२॥
१. ‘देवद्विजगुरुप्राज्ञपूजनम्’ इति वक्ष्यमाणमित्यर्थः। न च वक्ष्यमाणतपोग्रहणे शौचाहिंसादेः तदन्तर्भावात् पौनरुक्त्यमिति वाच्यम्। गोबलीवर्दन्यायेन तदतिरिक्तस्यैव तपःपदेनात्र ग्रहणात्। २. लोलुप्यतेः कर्तरि क्विपि लोलुप् शब्दः, ततः त्वप्रत्ययान्तेन नञ्समासे अलोलुप्त्वमिति रूपं बोध्यम्। अलोलुपत्वम् इत्यर्थः। ३. बाह्येति करणविशेषणे इत्यर्थः।
[[अ. १६. श्लो. १-२]] [[८०८]]
प्रियस्येत्युक्तम्। प्रियस्याप्यनृतस्य वर्जनाय यथाभूतार्थस्येत्युक्तम्। यथाभूतप्रियार्थवचनं, यथाभूतहितार्थवचनं वा सत्यमिति फलितार्थः। अप्रियानृतवर्जितं वचनं सत्यमित्युच्यते। अप्रियानृतवर्जितमित्यस्यैव व्याख्यानं यथाभूतार्थवचनमिति विवेकः। अन्यथा अनृतवर्जितमित्यनेनैव यथाभूतार्थसिद्धौ यथाभूतेत्यस्य पुनरुक्तिः स्यात्। यथाभूतेत्यनेनैवानृतवर्जितत्वसिद्धावनृतवर्जितमित्यस्य वा पुनरुक्तेः। अप्रियवर्जितं यथाभूतार्थकथनमिति भाष्यपाठस्तु निरवद्यः। यथाभूतप्रियार्थकथनं सात्त्विकस्वभावः। तेन यः सात्त्विकीं दैवीं सम्पदमिच्छति प्राप्तुं स पुरुषो यथाभूतप्रियार्थमेव ब्रूयात्। रामानुजेनाप्युक्तम् - सत्यं यथादृष्टार्थगोचरभूतहितवाक् यमिति। यद्यपि यथाभूतार्थवचनेनैव सत्यवादी भवति, तथापि ‘सत्यं भूतहितं प्रोक्त’मिति नियमात् तथाभूतोक्तिरिति वेदान्तदेशिकेनाप्युक्तम्। परन्तु वाक् यमिति कथनमयुक्तं रामानुजस्य। वाक् यप्रयोगस्यैव सात्त्विकपुरुषधर्मत्वम् , न तु वाक् यमिति [वाक्यस्येति]। आक्रुष्टस्य अधिक्षिप्तस्य अभिहतस्य ताडितस्य वा सतः स्वस्य यः प्राप्तः क्रोधः, तस्योपशमनमक्रोधः। संन्यासः कर्मणां तत्फलस्य वा परित्यागः। न तु द्रव्यत्याग इत्याह— पूर्वमिति। पिशुनः सूचकः। रन्ध्राणि दोषाः। लज्जेति। आत्मगुणश्रवणादिष्विति भावः। अकार्यकरणे इति रामानुजः, तदसत् , अकार्यकरणेच्छाप्रसक्तेरप्यभावात् सात्त्विकपुरुषस्य। अव्यापारयितृत्वं वचनादिव्यापाराजनकत्वम्॥२॥
तेज इति। प्रागल्भ्यं पराभिभवनसामर्थ्यं, प्रौढत्वमिति यावत्। न तु देहकान्तिरित्याह— नेति। अन्तर्विक्रिया मनोविकारो दुःखामर्षादिः। उत्पन्नविकारोपशमनमक्रोधः; विकारानुत्पत्तिः क्षमेति विवेकमाह— उत्पन्नायामिति। सत्यामिति शेषः। उपशमन- मिति। विक्रियायाः इति शेषः। ‘उत्पन्नायाः विक्रियायाः उपशमनम्’ इति भाष्यपाठः समीचीनः। अवसादं शैथिल्यम्। तस्य अवसादस्य। उत्तम्भितानि उच्छ्वसितानि करणानीन्द्रियाणि समनस्कानि नावसीदन्ति; देहश्च नावसीदति। द्विविधमिति। बाह्यमाभ्यन्तरं वेति भावः। माया वञ्चनादिः; रागः कामः; आदिपदात् क्रोधादिग्रहणम्। अहिंसेत्यनेन परद्रोहः प्रतिषिद्धः। अद्रोहः इत्यनेन परद्रोहेच्छैव प्रतिषिध्यत इति भेदः। अतिमानितायाः अभावो नातिमानिता, पूज्यतातिशयस्य भावनं प्रकटनम् , तदभावः आत्मश्लाघाराहित्यमित्यर्थः। अभिलक्ष्य उद्दिश्य। भावि भविष्यत् कल्याणं देवत्वरूपं यस्य तस्य भाविकल्याणस्य। अभयादयः एते देवधर्माः यस्य सात्त्विकपुरुषस्य सन्ति, स एतद्देहावसाने देवो भविष्यतीत्यर्थः। दैवीं सम्पदं प्राप्तस्य विशेषणान्तराण्यपि सन्तीत्याह— किञ्चेति। व्यावर्त्यं कीर्तयति— नेति। अध्यात्माधिकारादिति शेषः। क्षमाऽक्रोधयोरेकार्थत्वेन पौनरुक्त्यमाशङ्क् य परिहरति— उत्पन्नायामिति। तयोरेवं विशेषादपौनरुक्त्यं फलतीत्याह—इत्थमिति। वृत्ति- विशेषमेव विशदयति— येनेति। शौचस्य द्वैविध्यमेव प्रकटयति— मृज्जलेत्यादिना। नैर्मल्यमेव स्फोरयति— मायेति। उक्तमुपसंहरति — एवमिति। अतिमानित्वाभावमेव व्यनक्ति— आत्मन इति। कस्यैतानि विशेषणानीत्यपेक्षायामाह— भवन्तीति। साधकस्य मनुष्य-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किञ्च— तेज इति। तेजः प्रागल्भ्यं, न त्वग्गता दीप्तिः। क्षमा आक्रुष्टस्य ताडितस्य वाऽन्तर्विक्रियानुत्पत्तिः। उत्पन्नायां विक्रियायां प्रशमनम् अक्रोधः इत्यवोचाम। इत्थं क्षमाया अक्रोधस्य च विशेषः। धृतिः देहेन्द्रियेष्ववसादं प्राप्तेषु तस्य प्रतिषेधकोऽन्तःकरणवृत्तिविशेषो येनोत्तम्भितानि करणानि देहश्च नावसीदन्ति। शौचं द्विविधं, मृज्जलकृतं बाह्यम् , आभ्यन्तरं च मनोबुद्ध्योर्नैर्मल्यं मायारागादिकालुष्याभावः। एवं द्विविधं शौचम्। अद्रोहः परजिघांसाभावो ऽहिंसनम्। नातिमानिता अत्यर्थं मानोऽतिमानः, स यस्य विद्यते सोऽतिमानी, तद्भावोऽतिमानिता, तदभावो नातिमानिता, आत्मनः पूज्यतातिशयभावनाऽभाव इत्यर्थः। भवन्ति अभयादीन्येतदन्तानि सम्पदमभि जातस्य। तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति सम्पदं दैवीमभि जातस्य भारत !॥३॥
[[८०९]]
दम्भो दर्पोऽतिमानश्च१ क्रोधः पारुष्यमेव च। अज्ञानं चाभि जातस्य पार्थ ! सम्पदमासुरीम्॥ ४॥
दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता। मा शुचः सम्पदं दैवीमभि जातोऽसि पाण्डव !॥ ५॥
यद्वा कल्याणं स्वर्गापवर्गान्यन्तरात्मकम्। तथा च यस्याभयादयः सन्ति स देवविभूतिप्राप्त्यर्हः सम्यग्दर्शनानुदये देवत्वं प्राप्स्यति। तदुदये च मुक्तिं प्राप्स्यतीत्यर्थः। अथवा कल्याणं मोक्ष एव ‘दैवी सम्पद्विमोक्षाये’ति वक्ष्यमाणत्वात्। देवविभूत्यर्होऽप्यय- मभयादिगुणवान् सात्त्विकः पुरुषः सम्यग्ज्ञानान्मोक्ष्यत इत्यर्थः। एतेन यथा दिवि देवा राक्षसाश्चेति द्वेधा पुरुषाः सन्ति; शान्ताः क्रूराश्च तथा भुव्यपि मनुष्येषु देवाः राक्षसाश्चेति द्विविधाः सन्ति। तत्राभयाद्युक्तगुणवन्तः पुरुषा मनुष्या देवाः। दम्भादिवक्ष्यमाणगुण- शालिनस्तु मनुष्याः राक्षसा असुराश्चेति सिद्धम्। ‘दैवीमभिजातस्ये’त्यस्य भगवदाज्ञां निर्वर्तयितुं जातस्येति रामानुजोऽर्थमाह। नेदं सम्यक्, हिरण्याक्षादिराक्षसानामपि भगवदाज्ञानिर्वर्तनायैव जातत्वात्। यथाश्रुतार्थं विहायैतल्लाक्षणिकार्थकल्पनस्यान्याय्यत्वात्॥३॥
दम्भ इति। धर्मध्वजित्वं धर्म एव ध्वजो धर्मध्वजः, सोऽस्यास्तीति धर्मध्वजी, तत्त्वम्। यथा पार्थादीनां कप्यादयो ध्वजास्तथा ऽस्य धर्म एव ध्वज इत्यर्थः। यथा राजानो ध्वजैः स्वप्रतिष्ठां प्रख्यापयन्ति, तथा अयं धर्मेण स्वप्रतिष्ठां प्रख्यापयतीति भावः। धार्मिकत्वप्रख्यापनाय धर्मानुष्ठानं दम्भ इति यावत्। स्वभिजनः सत्कुलोत्पत्तिः। आदिपदाद् रूपादिग्रहणम्। उत्सेको गर्वः। पूर्वोक्त इति। आत्मनः पूज्यतातिशयभावनेत्यर्थः। क्रोधः इष्टवस्तुविघातादिजन्यो मनोविकारः प्रसिद्धः। येन कर्तव्याकर्तव्यविमूढःसन् मातरं, पितरं, भ्रातरं, सुतं वा हन्ति। परुषवचनं कटुवाक्प्रयोगः। तदेव दर्शयति— यथेति। चक्षुष्मान् काण इति, रूपवान् विरूप इति, उत्तमाभिजनो हीनाभिजन इति च यदुच्यते, तद्वचनं परुषमित्यर्थः। गुणवत्यपि पुरुषे दोषमारोप्य दूषणं पारुष्यमिति यावत्। मिथ्या- प्रत्ययो भ्रमः; कर्तव्ये विषये अकर्तव्यबुद्धिः; अकर्तव्ये च कर्तव्यबुद्धिरित्यर्थः। आसुरीमित्युपलक्षणं राक्षस्याश्च। असुराणामियम् आसुरी॥४॥
देहस्थस्यैव कथं दैवीं सम्पदमभिलक्ष्य जातत्वमित्याशङ्क् याह— दैवेति॥३॥
आदेयत्वेन दैवीं सम्पदमुक्त्वा हेयत्वेनासुरीं सम्पदमाह— अथेति। उत्सेको मदो महदवधीरणाहेतुः। आत्मन्युत्कृष्टत्वाध्यारोपो ऽतिमानः। क्रोधस्तु कोपापरपर्यायः स्वपरापकारप्रवृत्तिहेतुर्नेत्रादिविकारलिङ्गः अन्तःकरणवृत्तिविशेषः। परुषो निष्ठुरः प्रत्यक्षरूक्षवाक्, तस्य भावः पारुष्यम्। तदुदाहरति— यथेति। तामभिजातस्य दम्भादीनि अज्ञानान्तानि भवन्तीत्यनुषज्यते॥४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किंविशिष्टां सम्पदम्? दैवीम् , २देवानां या सम्पत् तामभिलक्ष्य जातस्य दैवविभूत्यर्हस्य भाविकल्याणस्येत्यर्थः, हे भारत ! ॥३॥
अथेदानीमासुरी सम्पदुच्यते—दम्भ इति। दम्भो धर्मध्वजित्वम्। दर्पो विद्याधन३स्वजनादिनिमित्तः उत्सेकः। अतिमानः पूर्वोक्तः, क्रोधश्च। पारुष्यमेव च परुषवचनम् - यथा काणं चक्षुष्मान् , विरूपं रूपवान् , हीनाभिजनम् उत्तमाभिजनः इत्यादि। अज्ञानं चाविवेकज्ञानं ४मिथ्याप्रत्ययः कर्तव्याकर्तव्यादिविषयम् । अभि जातस्य, पार्थ ! किमभि जातस्येत्याह— संपदमासुरीम् असुराणां सम्पद् आसुरी, तामभि जातस्येत्यर्थः॥४॥
अनयोः सम्पदोः कार्यमुच्यते— दैवीति। दैवी सम्पद् या सा विमोक्षाय संसारबन्धनात् , निबन्धाय नियतो १. ‘ऽभिमानश्च’ इति पा.। २. ‘देवानां संपदमभिलक्ष्य’ इति पा.। ३. ‘स्वभिजन’ इति रा.पा.। ४. ‘कर्तव्याकर्तव्यादिविषयमिथ्याप्रत्ययः’ इति पा.।
[[अ. १६. श्लो. २-५]] [[८१०]]
बन्धो निबन्धः, तदर्थम् आसुरी सम्पद् मता अभिप्रेता। तथा राक्षसी च। तत्रैवमुक्ते अर्जुनस्यान्तर्गतं भावं ‘किमहमासुरसम्पद्युक्तः, किंवा दैवसम्पद्युक्तः?’ इत्येवमालोचनारूपमालक्ष्याह भगवान्— मा शुचः शोकं मा कार्षीः। सम्पदं दैवीम् अभि जातोऽसि अभिलक्ष्य जातोऽसि, भाविकल्याणस्त्वमसीत्यर्थः; हे पाण्डव !॥५॥
द्वौ भूतेति। द्वौ द्विसङ्ख्याकौ भूतसर्गौ भूतानां मनुष्याणां सर्गौ सृष्टी भूतसर्गौ, सृज्येते इति सर्गौ। भूतान्येव सृज्यमानानि दैवासुरसम्पद् द्वययुक्तानीति द्वौ भूतसर्गावित्युच्यते१, ‘द्वया ह प्राजापत्या देवाश्चासुराश्च’(बृ.उ.१.३.१) इति श्रुतेः। लोकेऽस्मिन् संसार इत्यर्थः, सर्वेषां द्वैविध्योपपत्तेः। कौ तौ भूतसर्गाविति? उच्यते— प्रकृतावेव दैवः, आसुर एव च। उक्तयोरेव पुनरनुवादे प्रयोजनमाह— दैवो भूतसर्गः ‘अभयं सत्त्वसंशुद्धि’रित्यादिना विस्तरशो विस्तरप्रकारैः प्रोक्तः कथितः, न त्वासुरो विस्तरशः। अतस्तत्परिवर्जनार्थम् आसुरम् , हे पार्थ ! मे मम वचनादुच्यमानं विस्तरशः शृणु अवधारय॥६॥ दैवीति। ननु दैवी मोक्षहेतुः, आसुरी संसारहेतुश्चेत्युक्तम् , न तु - राक्षसी कस्यापि हेतुरिति, अत आह— राक्षसी चेति। राक्षसी च संसारहेतुरेवेत्यर्थः॥५॥
द्वाविति। अस्मिन् लोके दैव आसुर एव चेति द्वौ भूतसर्गौ स्तः। तत्र मया दैवो भूतसर्गो विस्तरशः प्रोक्तः। हे पार्थ! आसुरं भूतसर्गं मे वचनाद् विस्तरशः शृणु। २आसुरराक्षसयोरभेदाद् द्वावित्युक्तिः। भूतानां सृष्टिर्द्विविधा - दैवी आसुरी चेति। अयं च सृष्टिभेदः सृज्यमानभूतभेदप्रयुक्त एवेति बोध्यम्। सर्गशब्दस्य भावव्युत्पत्त्या सृष्ट्यर्थमभिधाय कर्मव्युत्पत्त्या अर्थान्तरमाह— सृज्येते इति। भूतान्येव सर्गौ भूतसर्गौ। सृज्यमानदेवासुरसम्पद् द्वययुक्तभूतानीत्यर्थः। सृज्यमानभूतानि द्विविधानि - देवसम्पद्युक्तानि, असुर- सम्पद्युक्तानि चेति भावः। तत्र श्रुतिं प्रमाणयति— द्वया हीति। देवाश्चासुराश्चेति प्राजापत्या द्वया हि। प्रजापतिर्ब्रह्मा, तेन सृष्टाः प्राणिनः प्राजापत्याः। द्वया द्विविधाः, हिः प्रसिद्धौ। ननु जगति देवासुरसम्पद् द्वयरहितपृथिव्यादिभूतसर्गस्याप्यचेतनस्य सत्त्वात् कथं ‘द्वौ भूतसर्गौ लोकेऽस्मिन्’ इत्युक्तम् अत आह— संसार इति। संसारविषयभूतौ भूतसर्गौ द्वावेव। अचेतनानां संसाराविषयत्वादिति भावः। सर्वेषामिति। संसाराश्रयाणां सचेतनानामित्यर्थः। देवासुरसम्पदन्यतररहितः कोऽपि प्राणी नास्तीति द्वैविध्यमेव भूतानामिति भावः। कौ तौ भूतसर्गाविति शङ्कायामाह भगवान्— दैव आसुर एव चेति। तौ च नाप्रकृतावित्याह भगवान् भाष्यकारः— प्रकृतावेवेति। दैवासुरसम्पत्प्रदर्शनप्रकरणत्वादस्याध्यायस्येति भावः। तत्परिवर्जनार्थमिति। आसुरसम्पत्परित्यागार्थमिति। आसुर- सर्गस्य विस्तरेण कथनार्थं दैवासुरयोरिह पुनरनुवादः कृतः। तच्च कथनम् आसुरसम्पत्परिवर्जनार्थमिति भावः॥६॥
कार्यं फलविभागः। आसुरीत्युपलक्षणम् , राक्षसी चेति द्रष्टव्यमित्याह— तथेति। फलविभागे सम्पदोरेवमुक्ते, प्रतीत्यार्जुनस्या- भिप्रायं भगवतो वचनमित्याह— तत्रेति। तत्राभिजात्यं हेतुं करोति— हे पाण्डवेति॥५॥
निर्दयानां रक्षसां सम्पत् तृतीयाऽस्ति, सा कस्मान्नोक्तेत्याशङ्क् य, आसुर्यामन्तर्भावादित्याह— द्वाविति। भूतानां द्वैविध्ये मानत्वेन उद्गीथब्राह्मणमुदाहरति— द्वया हेति। सम्पद् द्वययुतेभ्योऽतिरिक्तानामपि प्राणिभेदानां सम्भवात् कुतो भूतानां द्वित्वनियतिः? इत्याशङ्क् याह— सर्वेषामिति॥६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च। दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु॥ ६॥
१.‘युक्तानि द्वौ भूतसर्गावित्युच्येते, द्वया हि’ इति रा.पा.। २. विषयभोगप्राधान्येन रागप्राबल्यादासुरीत्वम् , हिंसाप्राधान्येन द्वेषप्राबल्याद् राक्षसीत्वमिति विवेकः।
[[८११]]
आ अध्यायपरिसमाप्तेः आसुरी सम्पत् प्राणिविशेषणत्वेन प्रदर्श्यते, प्रत्यक्षीकरणेन च शक् यते तस्याः परिवर्जनं कर्तुमिति— प्रवृत्तिमिति। प्रवृत्तिं च प्रवर्तनं, यस्मिन् पुरुषार्थसाधने कर्तव्ये प्रवृत्तिः तां, निवृत्तिं च तद्विपरीतां यस्मादनर्थहेतोर्निवर्तितव्यं सा निवृत्तिः, तां च जना आसुराः न विदुः न जानन्ति। न केवलं प्रवृत्तिनिवृत्ती एव ते न विदुः, न शौचं नापि चाचारो न सत्यं तेषु विद्यते। अशौचा अनाचारा मायाविनोऽनृतवादिनो ह्यासुराः॥७॥
किञ्च — असत्यमिति। असत्यं यथा वयमनृतप्रायास्तथेदं जगत् सर्वमसत्यम् , अप्रतिष्ठं च नास्य धर्माधर्मौ प्रतिष्ठा, अतोऽप्रतिष्ठं चेति ते आसुरा जनाः जगदाहुः। अनीश्वरम् न च २धर्माधर्मसव्यपेक्षकोऽस्य शासितेश्वरो विद्यत आ अध्यायपरिसमाप्तेरिति छेदः। अध्यायपरिसमाप्तिपर्यन्तमसुरसम्पदिह वर्ण्यत इत्यर्थः। प्राणिविशेषाः आसुरसम्पच्छालिन इत्यर्थः। तथा प्रदर्शने फलमाह— प्रत्यक्षेति। तस्याः आसुरसम्पदः। प्रत्यक्षेण ज्ञाता ह्यसुरसम्पत् त्यक्तुं शक् यते पुरुषेणेत्यर्थः। प्रवृत्तिमिति। आसुरा जनाः प्रवृत्तिं च निवृत्तिं च न विदुः। शौचं न विदुः। तेष्वाचारोऽपि न विद्यते। सत्यं च न विद्यते। यज्ञादिविहितकर्मणि प्रवृत्तिं, हिंसादिनिषिद्धकर्मणो निवृत्तिं च न विदुरित्याह— यस्मिन्निति। पुरुषार्थस्य स्वर्गादेः साधने कर्तव्ये यज्ञादिकर्मणि विहिते या प्रवृत्तिः प्रवर्तनं तां तत्कर्मविषयतत्प्रवृत्तिमित्यर्थः। तद्विपरीतामिति। प्रवृत्तिविपरीतामित्यर्थः। अनर्थहेतोः नरकादिदुःखहेतोरधर्मान्निवर्तितव्यं पुरुषेणेति शेषः; स्वेनेति वा। सा तस्मान्निवर्तनमित्यर्थः; विधेयप्राधान्यात् स्त्रीत्वम् ; निवृत्तिः इत्युच्यत इति शेषः। तां च निवृत्तिमनर्थहेतोर्निषिद्धकर्मणो निवर्तनमित्यर्थः। आसुराः असुरसम्पच्छालिनोऽसुरांशजा वेति यावत्। न विदुरिति। अज्ञानादेव विहिते कर्मणि न प्रवर्तन्ते, निषिद्धान्नैव निवर्तन्त इत्यर्थः। ‘न केवल’मिति वाक् यस्यानन्तरं ‘किन्तु’ इति शेषः। एवंविधजनानामासुरत्वे को हेतुः? अत आह— अनाचारा इति। मायाविनः परवञ्चकाः। जनाश्चासुराः ‘स्वर्गो नास्ति, नरकं नास्ती’ त्येवं वदन्तः परेषामपि बुद्धिं भेदयन्ति। हिः प्रसिद्धौ। हि यस्मादिति वा। यस्मादसुरा एवंविधास्तस्मादासुरा जनास्तादृशा इत्यर्थः॥७॥
असत्यमिति। ते जगद् असत्यमप्रतिष्ठमनीश्वरं चाहुः। अपरस्परसम्भूतं किञ्चिन्न। कामहेतुकम्। असत्यप्रायाः अनृतप्रचुराः। असत्यं सत्यरहितम्। ‘आत्मवन्मन्यते जगदि’ति न्यायादिति भावः। जगतोऽसत्यत्वं तद्गतप्राणिद्वारेति बोध्यम्। जगति कोऽपि प्राणी सत्यवान् न भवतीत्यर्थः। अप्रतिष्ठं धर्माधर्माख्यप्रतिष्ठारहितम् , धर्माधर्मपरतन्त्रं न भवतीत्यर्थः। जन्मान्तरकृतधर्माधर्मवशात् प्राणिनां सुखदुःखसम्भव इति वचनमयुक्तम् , किन्तु स्वाभाविक एव सुखदुःखानुभवः प्राणिनामिति भावः। धर्माधर्मसव्यपेक्षं नन्वध्यायशेषेणासुरसम्पद्दर्शनमयुक्तम् , तस्याः त्याज्यत्वेन ३पङ्कप्रक्षालनन्यायावतारादित्याशङ्क् याह— प्रत्यक्षीकरणेनेति। वर्जनीयामासुरीं सम्पदं विवृणोति— प्रवृत्तिं चेति। तां विहितां प्रवृत्तिं न जानन्तीत्यर्थः। तां च निषिद्धां क्रियां न जानन्तीति सम्बन्धः। ‘न शौच’मित्यादेस्तात्पर्यमाह— अनाचारा इति। शौचसत्ययोराचारान्तर्भावेऽपि ब्राह्मणपरिव्राजकन्यायेन पृथगुपादानम्॥७॥
आसुराणां जनानां विशेषणान्तराण्यपि सन्तीत्याह— किञ्चेति। विद्यत इत्याहुरिति पूर्वेण सम्बन्धः। शास्त्रैकगम्यमदृष्टं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः। न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥ ७॥
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्। अपरस्परसम्भूतं किमन्यत् कामहैतुकम्१॥८॥
अ. १६. श्लो. ५-८ ] १. ‘अपरस्परसम्भूतं न किञ्चित् कामहेतुकम्’ इति रा.पा.। २. ‘धर्माधर्मसव्यपेक्षमस्य’ इति रा.पा.। ३. ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति न्यायः।
[[८१२]]
धर्माधर्मसापेक्षं यथा, तथा अस्य प्राणिवर्गस्य शासिता शिक्षकः कश्चिदीश्वरो न विद्यत इत्यन्वयः। ईश्वरेऽभ्युपगते सति धर्माधर्माभ्युपगमः स्यात्। ततश्चाधर्मानुष्ठानान्नरकादिभयमाशङ्क् येतेति कृत्वा तावदीश्वरमेव नाभ्युपगच्छन्त्यासुरा जना इति भावः। नन्वेवमीश्वराभावे कथं जगदुत्पत्तिरत आह—अपरस्परसम्भूतमिति। अत्रायं भाष्यपाठः- अपरस्परसम्भूतं न किञ्चिद् दृष्टम्। कामप्रयुक्तयोः स्त्रीपुरुषयोरन्योन्यसंयोगाज्जगत् सर्वं सम्भूतम्। न यदि कर्मादि कारणान्तरं विद्यते जगतः, किमस्य कारणम्? कामहेतुकम्। कामहेतुरेव कामहेतुकम्। न किञ्चित्कारणान्तरम्। न किञ्चन कामान्यकारणं स्याद् दृष्टम्। काम एव प्राणिनां कारणमिति लोकायतिकदृष्टिरियम्। अस्येदं व्याख्यानम्— परस्परो मिथुनम्। अन्योन्यवाचिनः परस्परशब्दस्यात्र परस्परसंयुक्तमिथुनपरत्व- मुपचारतः। तस्माद् असम्भूतम् अपरस्परसम्भूतं किञ्चिदपि सत्त्वमिति शेषः। न दृष्टं नोपलभ्यते। पशुपक्षिमनुष्यादयः सर्वेऽपि प्राणिनः परस्परसङ्गतात् स्त्रीपुरुषमिथुनादेव जाताः, न त्वीश्वरादिति भावः। नेदं बौद्धमतं समीचीनमिति भ्रमितव्यम् , क्षित्यादीनामप्राणिनां स्वेदजादीनां प्राणिनां चापरस्परसम्भूतानां सत्त्वेन तदर्थमीश्वरस्यावश्यमभ्युपगन्तव्यत्वात्। तात्पर्यार्थमाह— कामप्रयुक्तयोरिति। कामः सुरतेच्छा। तेन प्रयुक्तयोः प्रेरितयोः सङ्गतयोर्वा स्त्रीपुरुषयोरन्योन्यसंयोगाद् मिथुनीभावान्निमित्तात् सर्वं जगत् सम्भूतम्। कर्मादिकारणान्तराज्जगन्नोद्भूतमिति फलितार्थः। ननु यदि जगतः कर्मादिकारणान्तरं न विद्यते, तर्हि किमस्य जगतः कारणमिति पृच्छति— न यदीति। समाधत्ते— कामहेतुकमिति। स्वार्थे क इत्याह—कामहेतु(कमे)[रे]वेति। काम एव हेतुः कामहेतुः, स एव कामहेतुकम्। क्लीबत्वं सामान्यात्। न चापरस्परसम्भूतमित्यस्मादेव पदादयमर्थः सिद्ध इति वाच्यम् , अपरस्परसम्भूतं न किञ्चिदस्तीत्यनेन स्त्रीपुरुषसंयोगो जगतो निमित्तमित्युक्तम् , तस्य च संयोगस्य को हेतुरित्यत उक्तम् ‘कामहेतुक’मिति। एतस्य कामहेतुकमित्यस्याप्यर्थस्य सङ्ग्रहादुक्तं भाष्यकारैः कामप्रयुक्तयोरिति बोध्यम्। न च स्त्रीपुरुषसंयोगं प्रत्येव कामः कारणं न जगत इति वाच्यम् , संयोगद्वारा कामस्य जगतोऽपि कारणत्वात्। संयोगस्य कारणत्वम् , कामस्य परमकारणत्वमिति वा। एवं ‘न किञ्चित् कामहेतुक’मिति पाठमाश्रित्य भाष्यं विधाय, अथ ‘न किञ्चित् कारणान्तर’मिति पाठमाश्रित्य भाष्यं रचयति भाष्यकारः— न किञ्चिदिति। न किञ्चिदित्यस्यावृत्तिः। अपरस्परसम्भूतं किञ्चिन्नास्ति। कारणान्तरं किञ्चिन्नास्तीति। अपरस्परसम्भूतमित्यनेन त्वर्थात् सिद्धं कामकारणकत्वं जगतः। अत उक्तम् - कामान्यकारणमिति। किञ्चनापि कामान्यकारणं दृष्टं न स्यादित्यन्वयः। कामादन्यत् किमपि कारणं नोपलभ्यत इत्यर्थः। फलितमाह— काम एवेति। कारणमिति। उत्पत्तिं प्रति हेतुरित्यर्थः। स्त्रीपुरुषसंयोजनद्वारेति भावः। केषां मतमिदम्? अत आह— लोकायतिकदृष्टिरिति। बौद्धमतमित्यर्थः। अत्र ‘अपरस्परसम्भूतं किमन्यत्कामहैतुक’मिति नागरपुस्तकेषु पाठः। भाष्यपाठस्तु - अपरस्परसम्भूतं कामप्रयुक्तयोः स्त्री- पुरुषयोरन्योन्यसंयोगाज्जगत् सर्वं सम्भूतम्। किमन्यत् कामहैतुकम् , कामहेतुकमेव कामहैतुकं किमन्यज्जगतः कारणं न किञ्चिददृष्टं धर्माधर्मादि कारणान्तरं विद्यते जगतः, काम एव प्राणिनां कारणमिति। अस्येदं व्याख्यानम्— अपरश्च परश्चेत्यपरस्परमन्योन्यं स्त्रीपुरुषमिथुनमित्यर्थः। तस्मात् सम्भूतमपरस्परसम्भूतमित्यभिप्रेत्याह— कामप्रयुक्तयोरित्यादि। काम एव हेतुर्यस्य तत् कामहेतुकं, तदेव कामहैतुकम् , कामातिरिक्तकारणशून्यमित्यर्थः। अपरस्परसम्भूतं जगत् कामहैतुकं भवतीत्यन्वयः। जगदपरस्परसम्भूतम् , निमित्तीकृत्य २प्रकृत्यधिष्ठात्रात्मकेन ब्रह्मणा रहितं जगदिष्यते चेत् , कथं तदुत्पत्तिरित्याशङ्क् याह— किञ्चेति। किमन्यदित्यादेराक्षेपस्य तात्पर्यमाह— न किञ्चिदिति॥८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१इत्यतोऽनीश्वरं जगदाहुः। किञ्च अपरस्परसम्भूतं कामप्रयुक्तयोः स्त्रीपुरुषयोरन्योन्यसंयोगाज्जगत् सर्वं सम्भूतम्। किमन्यत् कामहैतुकम् - कामहेतुकमेव कामहैतुकम्। किमन्यज्जगतः कारणम्? न किञ्चिददृष्टं धर्माधर्मादि कारणान्तरं विद्यते जगतः। काम एव प्राणिनां कारणमिति लोकायतिकदृष्टिरियम् ॥८॥
१. ‘इत्यतोऽनीश्वरं जगदाहुः’— इति व्याख्यानुसारेण नास्तीति भाति। २. ‘प्रकृति’ इति नास्ति क्वचित्।
[[८१३]]
अत एव कामहैतुकं भवतीति वा। अथ किमन्यदित्येतद् व्याख्याति— किमन्यज्जगत इति। जगतः कामादन्यत् कारणं किमस्तीति आक्षेपः। फलितमाह— न किञ्चिदिति। कामरूपे दृष्टकारणे सम्भवति धर्माधर्मादिलक्षणादृष्टकारणकल्पनानवकाशादिति भावः। धर्माधर्मादीत्यादिपदादीश्वरस्यापि ग्रहणम्। सिद्धमर्थमाह— काम एवेति। अस्मिन् पक्षे तु अपरस्परसम्भूतं कामहैतुकमिति वाक् यान्तरे किमन्यदिति वाक् यान्तरकल्पनमयुक्तम् , न ह्यपरस्परसम्भूतं कामहैतुकं किमन्यदिति मूलमस्ति, येनादोषः स्यात्। अत एव श्रीधरः - जगदपरस्परसम्भूतं भवति, किमन्यत् कारणमस्य, नास्त्यन्यत् किञ्चित् , किन्तु कामहैतुकमेव जगदिति शेषः। स्त्रीपुरुषयोः काम एव प्रवाहरूपेण हेतुरस्येत्यर्थः - इति व्याचख्यौ। अस्मिंश्च व्याख्याने अनेकवाक् यकल्पनं बहुपदाध्याहारश्च। न च न किञ्चिदिति पाठपक्षेऽपि नास्त्येकवाक् यतेति वाच्यम् , कामहेतुक- मपरस्परसम्भूतं किञ्चिन्नेत्येकवाक् यतायाः सत्त्वात्। न च कामहेतुकमित्यस्य पूर्ववाक् यान्वये समाप्तपुनराख्यातदोष इति वाच्यम् , साकाङ्क्षत्वात् तस्य। हेतुगर्भविशेषणं हि तत्। कामहेतुकत्वादपरस्परसम्भूतं किमपि नास्तीति। न च भाष्यकारैरेवमेकवाक् यतया न व्याख्यातमिति वाच्यम् , प्रौड्या तथा तैर्व्याख्यातत्वात्। अस्मन्मते कामो हेतुर्यस्य तत् कामहेतुकमिति बहुव्रीहिरेव। ‘शेषाद्विभाषा’ इति कः। तस्माद् ‘अपरस्परसम्भूतं न किञ्चित् कामहेतुक’मित्येव साधीयान् पाठः। अत्र परश्च परश्च परस्परः ‘कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये’ इति परशब्दस्य द्विर्भावः। ‘समासवच्च बहुल’मिति बहुलग्रहणादन्यपरयोर्न समासवद्भावः। असमासवद्भावात् सोरलुक्। पर सु पर सु इत्यलौकिकविग्रहः। सो रुः, रोर्विसर्गः, विसर्गस्य कस्कादित्वात् सः। परस्परः, क्लीबे स्त्रियां च परस्परमिति१ रूपम्। लक्षणया द्वयोरेकस्मिन् देहिनि स्त्रीत्वविवक्षया च प्रकृते मिथुनमिति तस्यार्थः। अपरश्च परश्चेति विग्रहे तु अपरस्परमिति रूपस्या- सिद्धिरेव। अपरपरशब्दयोः समासे सोर्लुकि विसर्गाभावेन सत्वाभावात्। न चायं कर्मव्यतिहारे सर्वनामद्विर्भावः, अपरपरशब्दयोः भेदेन द्विर्भावाभावात्। न चापरश्चापरश्चेति विग्रहं ब्रूम इति वाच्यम् , तथाप्यसमासवद्भावाभावात्। अन्यपरयोर्ह्यसमासवद्भावः। किञ्च द्वितीयस्यापरशब्दस्य कथमकारलोपः? नाप्यपरश्च परश्च तयोः समाहारोऽपरस्परमिति ब्रूमः इति वाच्यम् , सुड्विधानाभावेनापरस्पर- मित्येव भवितव्यत्वात्। न च ‘अपरस्पराः’ इति निपातनात्२ सुट् सिद्धिरिति वाच्यम् , क्रियासातत्य एव तन्निपातनात् , बहुत्वे चेति सङ्क्षेपः। रामानुजस्तु - अपरस्परसम्भूतमन्यत् किमुपलभ्यते? अतः सर्वमिदं जगत् कामहेतुकमिति व्याचख्यौ। तन्मन्दम्। कुतो मन्दत्वमिति चेद्? उच्यते - अपरस्परसम्भूतं किमित्येतावतैवाभीष्टार्थसिद्धौ अन्यदिति व्यर्थमसङ्गतं च। अन्यदित्यनेन कस्मादन्यत्वं, कस्यान्यत्वं वा विवक्षितम्? यदि परस्परसम्भूतादन्यत्वं विवक्षितम् , तर्हि अपरस्परसम्भूतमित्येनेनैव परस्परसंभूतान्यार्थसिद्धेः अन्यत्पदस्य पौनरुक्त्यम्। तदन्यत्वं हि नञोऽर्थः। कस्यान्यत्वं तु नैव विवक्षितुं शक् यं, यस्यान्यत्वं विवक्षितं तस्य सत्त्वेऽपरस्परसम्भूतं नास्तीति वचनस्यायुक्तत्वात्। तस्यासत्त्वे अप्रसक्तनिषेधायोगेन तन्निषेधायोगाच्च। तथा कामहेतुकमित्यस्यान्वयाय सर्वमिदं जगदिति पदाध्याहारोऽप्ययुक्त एव, मूलाद् बहिः कल्पनस्याप्रमाणत्वात्। श्लोकपूर्वार्धस्थजगत्पदस्येहाकर्षणमप्ययुक्तम् , व्यवहितत्वादिति॥८॥
एतामिति। जना इति शेषः, आसुरा जनाः इति प्रकरणात्। एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः उग्रकर्माणो जगतोऽहि- ताश्च सन्तो जगतः क्षयाय प्रभवन्ति। एतां पूर्वोक्तां दृष्टिं लोकायतिकदर्शनमवष्टभ्य। नष्टोऽदर्शनं गतः, शून्य इति यावत्। स्वभावो १. बहुलग्रहणात् स्त्रियां टाबभावः। २. ‘अपरस्पराःक्रियासातत्ये’ (पा.सू. ६-१-१४२) इति सूत्रे इति शेषः। भाष्यार्कप्रकाशः एतामिति। एतां दृष्टिम् अवष्टभ्य आश्रित्य नष्टात्मानो नष्टस्वभावाः विभ्रष्टपरलोकसाधनाः, अल्पबुद्धयः एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः। प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः॥ ९॥
[आनन्दगिरिकृतव्याख्या]
यथोक्ता दृष्टिर्ब्रह्मदृष्टिवदिष्टैवेत्याशङ्क् याह— एतामिति। प्रागुपदिष्टामेतां लोकायतिकदृष्टिमवलम्ब्येति यावत्। नष्टस्वभावत्वमेव
[[अ. १६. श्लो. ८-९]] [[८१४]]
ज्ञानात्मको येषां ते नष्टस्वभावाः, नष्टज्ञानाः इत्यर्थः। चेतनानां हि ज्ञानं स्वभावः। ज्ञानशून्याः पाषाणकल्पाः इति यावत्। अर्थान्तरमाह—विभ्रष्टेति। आत्मशब्दस्य यत्नार्थवाचित्वाद् भ्रष्टपारलौकिकप्रयत्ना इत्यर्थः। बुद्धेरल्पत्वं नाम विषयविषयत्वमेवेत्यभि- प्रेत्याह— विषयविषयैवेति। विषयाः शब्दादयो विषया गोचरा यस्याः सा विषयविषया, विषयासक्तेत्यर्थः। बुद्धिरन्तःकरणावस्था- विशेषः, न तु ज्ञानम्। उद्भवन्ति जायन्ते। जन्मना सहैव जायते एतेषामियमासुरी प्रवृत्तिरिति भावः। हिंसात्मका इति। हिंसायामेव आत्मा मनो येषां ते हिंसात्मकाः, घातुकाः इत्यर्थः। क्षयायेति। लोकायतिकदृष्ट्यवलम्बानाम् अत एव नष्टात्मनाम् अल्पबुद्धीनाम् उग्रकर्मणां जगदहितानां जनानां जन्म जगतः क्षयायैव भवति। अत एवैते लोकशत्रवः। ननु कुतः क्षयायेति चेद्? उच्यते - असुरप्रवृत्तयो हीमे जनाः प्राणिनो हिंसन्ति। वैदिकमार्गात् स्वयं भ्रष्टाः अन्यानपि बलात्कारोपदेशादिना भ्रंशयित्वा यज्ञाद्यभावेन वर्षाद्यभावपूर्वकं क्षामाद्युपद्रवेण लोकं हिंसन्ति चेति॥९॥
काममिति। विशेष्यपदमाह— ते चेति। आसुरा जनाः इत्यर्थः। ते दुष्पूरं काममाश्रित्य दम्भमानमदान्विताः अशुचिव्रताश्च सन्तो मोहादसद्ग्राहान् गृहीत्वा प्रवर्तन्ते। दुष्पूरमिति। ‘न जातु कामः कामानामुपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभि- वर्धते॥’ इति वचनादिति भावः। गृह्यन्ते जायन्ते[ज्ञायन्ते] एभिर्ज्ञेयाः इति ग्रहाः ज्ञानानि। त एव ग्राहाः, स्वार्थेऽण्। असन्तश्च ते ग्राहाश्चासद्ग्राहास्तान् असद्ग्राहान्। क्व प्रवर्तन्ते? अत आह— लोक इति॥१०॥
चिन्तामिति। आसुरा जनाः अपरिमेयां प्रलयान्तां चिन्तां चोपाश्रिताः, कामोपभोगपरमाः एतावदिति निश्चिताः, आशापाश- शतैर्बद्धाः, कामक्रोधपरायणाः सन्तः कामभोगार्थमन्यायेनार्थसञ्चयानीहन्ते। इयत्ता परिमितिः। मरणान्तामिति। आमरणमित्यर्थः। फलितमाह— सदेति। चिन्ता विषयानुध्यानम्। स्पष्टयति— विभ्रष्टेति। विषयबुद्धेरल्पत्वं दृष्टमात्रोद्देशेन प्रवृत्तत्वम्। जगतः प्राणिजातस्येति यावत्॥९॥
तानेव दुराचारानासुरान् प्रकारान्तरेण विशिनष्टि — ते चेति॥१०॥
तानेव विधान्तरेण विशिनष्टि—किञ्चेति। चिन्ताम् आत्मीययोगक्षेमोपायालोचनात्मिकाम् अपरिमेयविषयत्वात् परिमातु-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
विषयविषयाऽल्पैव बुद्धिर्येषां तेऽल्पबुद्धयः, प्रभवन्ति उद्भवन्ति उग्रकर्माणः क्रूरकर्माणो हिंसात्मकाः, क्षयाय जगतः प्रभवन्तीति सम्बन्धः१। जगतः अहिताः शत्रवः इत्यर्थः॥९॥
ते च — काममिति। कामम् इच्छाविशेषम् आश्रित्य अवष्टभ्य दुष्पूरम् अशक् यपूरणं दम्भमानमदान्विताः दम्भश्च मानश्च मदश्च दम्भमानमदाः, तैरन्विता दम्भमानमदान्विताः मोहाद् अविवेकतो गृहीत्वा उपादाय असद्ग्राहान् अशुभनिश्चयान्२ , प्रवर्तन्ते लोके अशुचिव्रताः अशुचीनि व्रतानि येषां तेऽशुचिव्रताः॥१०॥
किञ्च — चिन्तेति। चिन्ताम् अपरिमेयां च न परिमातुं शक् यते यस्याश्चिन्ताया इयत्ता सा अपरिमेया, तामपरिमेयां प्रलयान्तां मरणान्ताम् उपाश्रिताः, सदा चिन्तापरा इत्यर्थः। कामोपभोगपरमाः काम्यन्त इति कामाः काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः। मोहाद् गृहीत्वाऽसद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः॥१०॥
चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः। कामोपभोगपरमा एतावदिति निश्चिताः॥११॥
१. ‘जगतः’ इति क्षयाय, अहिताः इत्युभयत्र संबध्यते। २. कामिनीनामाकर्षणं करिष्यामि, महानिधीन् साधयिष्यामि इत्यादिदुराग्रहाः अशुभनिश्चयाः।
[[८१५]]
विषयाः शब्दादयस्तदुपभोगपरमाः, ‘अयमेव परमः पुरुषार्थो यः कामोपभोगः’ इत्येवं निश्चितात्मानः एतावदिति निश्चिताः॥११॥
आशापाशेति। आशापाशशतैः आशा एव पाशास्तच्छतैराशापाशशतैः बद्धाः नियन्त्रिताः सन्तः सर्वत आकृष्यमाणाः कामक्रोधपरायणाः कामक्रोधौ परमयनं परः आश्रयो येषां ते कामक्रोधपरायणाः, ईहन्ते चेष्टन्ते कामभोगार्थं कामभोगप्रयोजनाय, न तु धर्मार्थम् , अन्यायेन अर्थसञ्चयान् अर्थप्रचयान् , अन्यायेन परस्वा- पहरणादिनेत्यर्थः॥१२॥
ईदृशश्च तेषामभिप्रायः—इदमिति। इदं द्रव्यम् अद्य इदानीं मया लब्धम्। इदमन्यत् प्राप्स्ये मनोरथं मन- प्रलयः प्राकृतप्रलय इति रामानुजः। तदयुक्तम् - देहत्यागरूपप्रलयातिक्रमणे कारणाभावात्। चिन्तादीनां मरणावधिकत्वस्य लोकव्यवहारसिद्धत्वाच्च। कामोपभोगो विषयानुभवः परमः २प्रधानो येषां ते कामोपभोगपरमाः। एतावच्छब्दार्थमाह— अयमेवेति। निश्चिताः निश्चयवन्तः। फलितमाह— निश्चितात्मान इति। निश्चितबुद्धयः इत्यर्थः॥११॥
आशेति। सर्वत इति। सर्वेषु विषयेष्वित्यर्थः। आकृष्यमाणा इति। आशापाशशतैरिति कर्तृ। तत्तद्विषयविषयास्तास्ता आशाः पुरुषं तत्तद्विषयान् प्रत्याकर्षन्तीत्ययमाशापाशबन्धो जीवस्येत्यर्थः। पुरुषस्य चेदमाकर्षणमन्तःकरणतादात्म्याध्यासप्रयुक्तमिति मन्तव्यम्। कामभोगो विषयानुभवः तस्मै कामभोगार्थम्। किमीहन्त इति पृच्छति—किमिति। प्रचयाः राशयः। अर्थाः धनानि। अर्थसञ्चयान् प्रतीहन्त इत्यन्वयः। अर्थसञ्चयसङ्ग्रहार्थं व्याप्रियन्त इत्यर्थः। यद्वा सञ्चयाः प्रचयाः, सञ्चयनानीत्यर्थः। अर्थान् सञ्चेतुं व्याप्रियन्त इत्यर्थः। ईहन्त इच्छन्तीत्यर्थे त्विच्छामात्रमेव; न तु तत्र प्रवृत्तिरिति सिध्येत् , तच्चानिष्टमिति बोध्यम्। कामोपभोगार्थमपि नामी न्यायेन कृष्यादिना धनं सञ्चिन्वन्तीत्याह— अन्यायेनेति। कञ्चिदन्यायविशेषं दर्शयति— परस्वेति। परस्वं परधनं तदपहरणं चौर्यादिना परस्वापहरणम्। आदिपदात् परक्षेत्रापहरणादिसङ्ग्रहः॥१२॥
इदमिति। आसुरा जनाः - अद्य मयेदं लब्धम् , इमं मनोरथं प्राप्स्ये, इदं धनमस्ति, पुनरिदं धनं मे भविष्यति, असौ शत्रुर्मया मशक् यामाश्रिताः इति सम्बन्धः। एष कामोपभोगः परमयनं सुखस्येत्येतावत् , पारत्रिकं तु नास्ति सुखमिति निश्चयवन्त इत्याह— एतावदितीति॥११॥
आसुरानेव पुनर्विशिनष्टि— आशेति। अशक् योपायार्थविषया अनवगतोपायार्थविषया वा प्रार्थना आशाः, ताः पाशा इव पाशास्तेषां शतैर्बद्धा इव, श्रेयसः प्रच्याव्य, इतस्ततो नीयमाना इत्याह— आशा एवेति॥१२॥
तेषामभिप्रायोऽपि विवेकविरोधीत्याह— ईदृशश्चेति। द्रव्यं गोहिरण्यादि। इदमन्यद् बुद्धौ प्रार्थ्यमानत्वेन विपरिवर्तमानमित्ये-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः। ईहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयान्॥१२॥
इदमद्य मया लब्धमिदं१ प्राप्स्ये मनोरथम्। इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥१३॥
अ. १६. श्लो. ९-१३ ] १. ‘इमम्’ इति रा.पा.। २. तन्मते अर्थकामौ पुरुषार्थौ, तत्र कामः प्रधान इत्यर्थः।
[[८१६]]
हतः, अपरानपि शत्रून् हनिष्ये च, अहमीश्वरः, अहं भोगी, अहं सिद्धः, बलवान् सुखी च भवामीति शेषः। अहमाड्योऽभिजनवां- श्चास्मि। मया सदृशोऽन्यः कोऽस्ति? अहं यक्ष्ये, दास्यामि, मोदिष्य इत्यज्ञानविमोहिताः अनेकचित्तविभ्रान्ताः मोहजालसमावृताः कामभोगेषु प्रसक्ताश्च सन्तः, अशुचौ नरके पतन्तीति श्लोकचतुष्टयान्वयः। प्राप्स्ये प्राप्स्यामि। भविष्यतीति भविष्यदर्थनिर्देशादाह— आगामिनि संवत्सर इति। तदन्तर्गतं भावमाह— तेनेति। विख्यातः प्रसिद्धो, लोक इति शेषः॥१३॥
असाविति। तपस्विनो दीनाः। एते शत्रवः। सिद्धः सम्पन्नः। कैरित्यत आह— पुत्रैरिति। पुत्रैः पौत्रैर्नप्तृभिश्चाहं सिद्धः; मानुषैः मनुष्यैः सिद्धः। पुत्रादिभिः केवलं न, किन्तु बलसुखाभ्यामपि सिद्ध एवेत्याह— बलवान् सुखी चेति॥१४॥
आड्य इति। ‘इभ्य आड्यो धनी स्वामी’ इति कोशादाह— धनेनेति। यद्वा आड्यः श्लाघ्यः। केनास्य श्लाघ्यत्वमत आह— धनेनेति। अभिजनः सत्कुलप्रसूतिः। सद्वंश इत्येव वा। कथं वंशस्य सत्त्वमत आह— सप्तेति। यस्य प्राचीनाः पितृपितामहादयः सप्त पुरुषाः श्रोत्रियाः। ‘श्रोत्रियंश्छन्दोऽधीते’ इति निपातनाद् वेदाध्यायिनः। उपलक्षणमिदं वेदार्थानुष्ठानस्य चेति वेदार्थानुष्ठातारश्च। स सप्तपुरुषश्रोत्रियः, तस्य भावस्तत्त्वम्। आदिपदाद् याजनाध्यापनादिग्रहणम्। अथवा मातृवंशशुद्ध्यादिग्रहणम्। तेन सम्पन्नः। एतेन सप्तपुरुषश्रोत्रियत्वादिकमभिजनशब्दार्थ इति सिद्धम्। यक्ष्ये यागं करिष्यामि। ननु दैवविभूतिरेव यागानुष्ठानम् , अत आह— यागेनेति। न चित्तशुद्ध्याद्यर्थममीभिर्यागो विधीयते येनैतद्यागस्य दैवविभूतित्वं स्यात्। किन्तु पराभिभवार्थमेवेति यागोऽयमासुर- विभूतिरेव। एवं यागस्यासुरविभूतित्वं प्रदर्शयितुमेव ‘यागेनाप्यन्यानभिभविष्यामी’त्यर्थो लक्षणया दर्शितो यक्ष्य इति पदस्याचार्यैः। अपिशब्दादभिजनेनाहमन्यानभिभूतवानेवेति गम्यते। दास्यामीति। ननु दानं दैवविभूतौ कथितम् , अत आह— नटादिभ्य इति। १. आत्मनेपदमार्षम् । २. पूर्वमेव संचितमिति शेषः। ३. ‘मानुषैर्बलवान्’ इति पा.। ४. ‘अभिजनेन अभिजनवान्’ इति पा.। ५. ‘सप्तपुरुषश्रोत्रियत्वादिसम्पन्नः’ इति रा.पा.भाति। भाष्यार्कप्रकाशः असौ मया हतः शत्रुर्हनिष्ये१ चापरानपि। ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी॥१४॥
आड्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥१५॥
स्तुष्टिकरम् । इदं चास्ति२। इदमपि मे भविष्यत्यागामिनि संवत्सरे पुनर्धनं तेनाहं धनी विख्यातो भविष्यामि॥१३॥
असौ मयेति। असौ देवदत्तनामा मया हतो दुर्जयः शत्रुः। हनिष्ये चान्यान् वराकान् अपरानपि। किमेते करिष्यन्ति तपस्विनः? सर्वथाऽपि नास्ति मत्तुल्यः। कथम्? ईश्वरोऽहम् अहं भोगी सर्वप्रकारेण च सिद्धोऽहं सम्पन्नः पुत्रैः पौत्रैर्नप्तृभिः, न केवलं ३मानुषोऽहं , बलवान् सुखी चाहमेव। अन्ये तु भूमिभारायावतीर्णाः॥१४॥
आड्य इति। आड्यो धनेन, ४अभिजनवान् ५सप्तपुरुषं श्रोत्रियत्वादिसम्पन्नः, तेनापि न मम तुल्योऽस्ति तत्॥१३॥
यथोक्ते मदभिप्राये प्रतिबन्धकः शत्रुरपि न सम्भवतीत्याह— असाविति। त्वत्तो विहीनानां त्वया परिभवेऽपि त्वत्तुल्यानां शत्रूणां परिभवो निश्चितो न भवतीत्याशङ्क् याह— सर्वथेति। ऐश्वर्यातिरेकेऽपि कुतस्ते भोगसामर्थ्यमित्याशङ्क् याह— अहमिति। सिद्धत्वमेव स्फुटयति— सम्पन्न इति। बलवान् ओजस्वी। सुखी रोगरहितः॥१४॥
विद्यावृत्तधनाभिजनैर्मत्तुल्यो नास्तीत्याह— आड्य इति। तथापि यागदानाभ्यां तत्फलेन वा कश्चिदधिको भविष्यतीत्या- आनन्दगिरिकृतव्याख्या
[[८१७]]
पात्रदानमेव दैवविभूतिः, इदमपात्रदानं त्वासुरविभूतिरेवेति भावः। आदिपदाद् विटगायकादिग्रहणम्। इदं च नटादिभ्यो दानं न परलोकापेक्षया अमीभिः क्रियते, किन्तु नटादय एते मां धनिकं दातारं प्रभुं च कीर्तयेयुरिति बुद्ध्यैवेति बोध्यम्। मोदिष्य इति। मोदं हर्षातिशयं प्राप्स्यामि। कीर्तिस्तुत्यादिश्रवणादिति भावः। कामभोगादिनेति वा। इति पूर्वोक्तविधयेत्यर्थः। विविधो मोह एषां सञ्जात इति विमोहिताः। मोहोऽविवेकः। अविवेकभावमिति। विवेकाभावमित्यर्थः। न विद्यते विवेको येषां तेऽविवेकाः, तेषां भावमविवेकभावम् अविवेकत्वमापन्नाः प्राप्ताः॥१५॥
अनेकेति। चित्तैः ज्ञानैरित्यर्थः। यद्वा मनोभिरित्येवार्थः। विषयभेदादेकस्यापि मनसो नानात्वम्। भ्रान्ता भ्रमं प्राप्ताः। जालं मत्स्यादिबन्धनयन्त्रविशेषः। तद्धि मत्स्यादीनावृत्य बद् ध्वा सूनकस्य हस्ते निधत्ते। एवमज्ञानमपि जनानावृत्य बद् ध्वा नरके क्षिपति, अत उक्तम् - मोहजालमिति। तेनेति। कामभोगप्रसङ्गेनेत्यर्थः। उपचितं वर्धितं सञ्चितं वा कल्मषं नरककारणं पापं यैस्ते उपचितकल्मषाः। पतन्ति देहत्यागानन्तरं पतिष्यन्तीत्यर्थः। वैतरणीति नरकविशेषः। आदिपदाद् रौरवादिग्रहणम्॥१६॥
आत्मेति। आत्मसम्भाविताः स्तब्धाः धनमानमदान्वितास्ते दम्भेनाविधिपूर्वकं नामयज्ञैर्यजन्ते। आत्मसम्भाविता इति। सर्व- गुणविशिष्टोऽहमिति स्वयमेव स्वात्मानं श्लाघयन्त इत्यर्थः। आत्मनैव स्वेनैव। सम्भाविताः श्लाघिताः। अप्रणतात्मानः अप्रणतः प्रकर्षेणानतः आत्मा मनो देहो वा स्वभावो वा येषां ते तथोक्ताः। स्वप्नेऽपि नामीषां नम्रतेत्यर्थः। नाममात्रैरिति। धर्मतो नास्ति तेषा- अनेकचित्तविभ्रान्ता मोहजालसमावृताः। प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ॥१६॥
आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः। यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्॥१७॥
शङ्क् याह— किञ्चेति। न च तेषामेषोऽभिप्रायः साधीयानित्याह— इत्येवमिति॥१५॥
उक्तप्रकारविपर्ययेण कृत्याकृत्यविवेकविकलानां किं स्यादित्यपेक्षायामाह— अनेकेति। कामाः विषयाः, तेषां भोगेषु तत्प्रयुक्तेषु उपभोगेष्विति यावत्॥१६॥
ननु तेषामपि केषाञ्चिद् वैदिके कर्मणि यागदानादौ प्रवृत्तिप्रतिपत्तेरयुक्तं वैतरण्यादौ पतनमिति चेत् , तत्राह— आत्मेति॥१७॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
कश्चित्। कोऽन्योऽस्ति सदृशः तुल्यो मया? किञ्च यक्ष्ये यागेनाप्यन्यानभिभविष्यामि, दास्यामि नटादिभ्यः, मोदिष्ये हर्षं चातिशयं प्राप्स्यामि इति एवम् अज्ञानविमोहिताः अज्ञानेन विमोहिताः विविधम् अविवेकभावमापन्नाः॥१५॥
अनेकेति। अनेकचित्तविभ्रान्ताः उक्तप्रकारैरनेकैश्चित्तैः विविधं भ्रान्ता अनेकचित्तविभ्रान्ताः मोहजाल- समावृता मोहोऽविवेकोऽज्ञानम् , तदेव जालमिव, आवरणात्मकत्वात् , तेन समावृताः, प्रसक्ताः कामभोगेषु तत्रैव निषण्णाः सन्तः, तेनोपचितकल्मषाः पतन्ति नरकेऽशुचौ वैतरण्यादौ॥१६॥
आत्मेति। आत्मसम्भाविताः सर्वगुणविशिष्टतया आत्मनैव सम्भाविता आत्मसम्भाविताः, न साधुभिः, स्तब्धाः अप्रणतात्मानो धनमानमदान्विताः धननिमित्तो मानो मदश्च ताभ्यां धनमानमदाभ्यामन्विताः यजन्ते नामयज्ञैः नाममात्रैर्यज्ञैः ते दम्भेन धर्मध्वजितया अविधिपूर्वकं १विहिताङ्गेतिकर्तव्यतारहितम्॥१७॥
अ. १६. श्लो. १३-१७ ] १. ‘विधिविहित’ इति पा.।
[[८१८]]
अहङ्कारमिति। अहङ्कारम् अहङ्करणमहङ्कारो, विद्यमानैरविद्यमानैश्च गुणैरात्मन्यध्यारोपितैर्विशिष्टमात्मानम् अहमिति मन्यते सोऽहङ्कारोऽविद्याख्यः कष्टतमः सर्वदोषाणां मूलं सर्वानर्थप्रवृत्तीनां च, तम्। तथा बलं पराभिभवनिमित्तं कामरागान्वितम्। दर्पं दर्पो नाम यस्योद्भवे धर्ममतिक्रामति सोऽयमन्तःकरणाश्रयो दोषविशेषः। कामं स्त्र्यादिविषयं, क्रोधम् अनिष्टविषयम् एतानन्यांश्च महतो दोषान् संश्रिताः। किञ्च ते माम् ईश्वरम् आत्मपरदेहेषु स्वदेहे परदेहेषु च तद्बुद्धिकर्मसाक्षिभूतं मां प्रद्विषन्तो मच्छासनातिवर्तित्वं प्रद्वेषस्तं कुर्वन्तः अभ्यसूयकाः सन्मार्ग- स्थानां गुणेष्वसहमानाः॥१८॥
मासुरजनक्रियमाणयज्ञानां यज्ञत्वं, किन्तु नामत एवेत्यर्थः। नाममात्रस्वरूपैरिति यावत्। विधिः शास्त्रं, तेन विहिता अङ्गानां यज्ञाङ्गानां यूपादीनां या इतिकर्तव्यता, इदमित्थं कर्तव्यमिति विधिस्तया रहितं यथा तथेति क्रियाविशेषणम्। विधिमतिक्रम्येति यावत्। स्वेच्छया अश्रद्धया यथाकथञ्चिद् यजन्त इति भावः॥१७॥
अहङ्कारमिति। त अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः अत एव आत्मपरदेहेषु सन्तं मां द्विषन्तोऽभ्यसूयकाश्च भवन्ति। आत्मनि स्वस्मिन्। मन्यत इति। येन मन्यते सोऽहङ्कार इत्यन्वयः। मन्यत इति यत् सोऽहङ्कार इति वा। अहं सर्वोत्कृष्ट इत्यभि- मानोऽहङ्कार इत्यर्थः। अविद्याप्रयुक्तत्वादस्याहङ्कारस्याप्यविद्येति व्यवहार इत्याह— अविद्याख्य इति। अतिदुःखहेतुत्वादयं कष्टतमः। सर्वेषां कामक्रोधादिदोषाणां सर्वासामप्यनर्थहेतूनां हिंसादिप्रवृत्तीनां च मूलं कारणभूतः। पराभिभवनस्य निमित्तं कारणम्। न हि दुर्बलः परानभिभवेत्। कामरागविवर्जितबलस्येश्वरविभूतित्वादाह— कामरागान्वितमिति। काम इच्छा। स्त्र्यादीत्यादिपदात् स्रक् चन्दनादिविषयग्रह- णम्। उक्तानुक्तसमुच्चयार्थकस्य क्रोधं चेति चकारस्यार्थमाह— अन्यांश्चेति। महतः प्रबलान्। सर्वात्मभूतस्य तव प्रद्वेषणं कथमत आह— मच्छासनातिवर्तित्वमिति। ईश्वराज्ञारूपवेदशास्त्रोक्तविधिमतिक्रम्य प्रागुक्तरीत्या वर्तनमेवेश्वरप्रद्वेषः। ईश्वर एव जीवभावेन सर्वत्र सममवस्थित इतीममर्थमविदित्वा शत्रुरयं मम देवदत्तो हन्तव्यः, धिक् शत्रुभिः पराजितं मां जीवन्तमित्येवं मत्वा स्वपरदेहहिंसादिकं यः करोति सोऽपीश्वरप्रद्वेषकार्येव। एवंविधप्रवर्तनस्यापीश्वरशासनातिक्रमरूपत्वादिति बोध्यम्॥१८॥
आसुरीं सम्पदमभिजातैरधर्मजातमेव सञ्चीयते प्रवृत्तैरपि वैदिके १वर्त्मनि, नैव पुण्यमित्युक्तम्। ब्रह्मज्ञानात् पुनरासुरा दूरादेव उद्विजन्त इत्याह— अहङ्कारमिति। अहङ्कारमेव स्फोरयति— विद्यमानैरिति। अध्यारोपितवैशिष्ट्यविषयत्वादहङ्कारस्याविद्यामूलत्वेना- विद्यात्वमाह— अविद्याख्य इति। विवेकिभिस्तस्यातियत्नादवहेयत्वं२ सूचयति— कष्टतम इति। तदेव स्पष्टयति— सर्वेति। तं संश्रिता इति सम्बन्धः। कार्यकरणसामर्थ्यमुक्तविशेषणं बलम्। अहङ्कार एव महदवधीरणापर्यन्तत्वेन परिणतो दर्पः। तं व्याकरोति— दर्पो नामेत्यादिना। अन्यांश्च दोषान् मात्सर्यादीन्। न केवलमुक्तमेव तेषां विशेषणं, किन्तु कष्टतममस्ति विशेषणान्तरमित्याह— किञ्चेति। यद्यपीश्वरं प्रति द्वेषस्तेषां सम्भाव्यते, तथापि कथं स्वदेहे परदेहेषु च तं प्रति द्वेषः? न हि तत्र भोक्तारमन्तरेणेश्वरस्यावस्थान- मित्याशङ्क् याह— तद्बुद्धीति। तेषामीश्वरं प्रति द्वेषमेव प्रकटयति— मच्छासनेति। ईश्वरस्य शासनं श्रुतिस्मृतिरूपम् , तदतिवर्तित्वं तदुक्तार्थज्ञानानुष्ठानपराङ्मुखत्वम् ॥१८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः। मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः॥१८॥
१. ‘कर्मणि’ इति पा.। २. ‘यत्नादेव हेयत्वम्’ इति पा.।
[[८१९]]
तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनिषु॥१९॥
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि। मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्॥२०॥
तानिति। अहं द्विषतः क्रूरानशुभान् तान् नराधमानजस्रं संसारेष्वासुरीषु योनिष्वेव क्षिपामि। द्विषत इत्यस्य साधूनिति, मामिति वा कर्मेत्याह— साधुद्वेषिण इति, मां च द्विषत इति। संसारशब्दस्तद्धेतुवाची। उपचारात् संसारकारणभूतास्वित्यर्थः। ननु दैवयोनयोऽपि संसारहेतव एवेत्यत आह— नरकेति। अनेकनरकदुःखात्मकसंसारकारणभूतास्वित्यर्थः। मार्गशब्दः कारणवाची। यद्वा द्वारवाची। अनेकनरकदुःखानुभवद्वारभूतास्वित्यर्थः। योनिष्वित्यस्य विशेषणमिदम्। नरेष्वधमाः नीचा नराधमाः। कुत एषाम- धमत्वम्? अत आह—अधर्मदोषवत्त्वादिति। अशुभत्वमेषां स्वरूपतोऽभावादाह—अशुभकर्मकारिण इति। अविद्यमानशुभानित्यर्थ- कथने तु शुभाभाव एवेति सिध्यति, न तु [अ]शुभसत्त्वमिति बोध्यम्। कास्ताः आसुरयोनयः? अत आह— व्याघ्रेति। किमासामासुरत्वम्? अत आह— क्रूरप्रायास्विति। क्रूरस्वभावास्वित्यर्थः। असुराः खलु क्रूराः। क्षिपामीति उत्पादयामीत्यर्थः॥१९॥
आसुरीमिति। किं तत्र क्षेपणेन फलम्? अत आह— आसुरीमिति। हे कौन्तेय! मूढा
जन्मनि जन्मन्यासुरीं योनिमापन्नाः सन्तो मामप्राप्यैव ततोऽधमां गतिं यान्ति। मनुष्या असुरसम्पदा व्याघ्रादियोनावुद्भूय ततः क्रमेण स्थावरत्वलक्षणामधोगतिं प्रपद्यन्त इत्यर्थः। तमोबहुलासु तमःप्रायासु सर्पादियोनिषु जायमानाःसन्त एवाधो गच्छन्तः पूर्वपूर्वस्मादुत्तरोत्तरं निकृष्टं जन्म प्रपद्यमानाःसन्त इत्यर्थः। तस्मादपीति। सर्पादिजन्मनोऽपीत्यर्थः। निकृष्टतमाम् अतिनिकृष्टां स्थावरत्वलक्षणामित्यर्थः। गतिं जन्मेत्यर्थः। ननु निकृष्टं जन्म गच्छतः कथमीश्वरप्राप्तिशङ्का? येन मामप्राप्येत्युच्येत, अत आह— मच्छिष्टेति।मच्छिष्टं मया शासितं साधूनां मार्गं साधुमार्गमपि अप्राप्य , मच्छिष्टानां साधूनां मार्गमिति वा। एतेन मामप्राप्येत्यस्य मच्छिष्टसाधुमार्गमप्यप्राप्येत्यर्थो लाक्षणिक इति सिद्धम्॥२०॥
तेषामुक्तविशेषणवतामासुराणां किं स्यादिति, तदाह— तानिति। भगवतो नैर्घृण्यप्रसङ्गं प्रत्यादिशति— अधर्मेति॥१९॥
ननु तेषामपि क्रमेण बहूनां जन्मनामन्ते श्रेयो भविष्यति, नेत्याह— आसुरीमिति। तेषामीश्वरप्राप्तिशङ्काऽभावे कथं तन्निषेधः स्यादित्याशङ्क् याह— मामित्यादिना। यस्मादासुरी सम्पद् अनर्थपरम्परया सर्वपुरुषार्थपरिपन्थिनी, तस्माद् यावत् पुरुषः स्वतन्त्रो, न काञ्चित् पारवश्यकरीं योनिमापन्नः, तावदेव तेनासौ परिहरणीयेति समुदायार्थः॥२०॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तानहमिति। तान् अहं (सर्वान् ) सन्मार्गप्रतिपक्षभूतान् साधुद्वेषिणो द्विषतश्च मां, क्रूरान् संसारेष्वेव अनेक- नरकसंसरणमार्गेषु नराधमान् अधर्मदोषवत्त्वात् क्षिपामि प्रक्षिपामि अजस्रं सन्ततम् अशुभान् अशुभकर्मकारिणः आसुरीष्वेव क्रूरकर्मप्रायासु व्याघ्रसिंहादियोनिषु क्षिपामीत्यनेन सम्बन्धः॥१९॥
आसुरीमिति। आसुरीं योनिम् आपन्नाः प्रतिपन्नाः मूढाः अविवेकिनः जन्मनि जन्मनि (अविवेकिनः) प्रतिजन्म तमोबहुलास्वेव योनिषु जायमानाः अधो गच्छन्तो मूढाः मामीश्वरम् अप्राप्य अनासाद्यैव, हे कौन्तेय ! ततः तस्मादपि यान्ति अधमां निकृष्टतमां गतिम्। मामप्राप्यैवेति न मत्प्राप्तौ काचिदप्याशङ्काऽस्ति, अतो मच्छिष्टसाधुमार्गम् अप्राप्येत्यर्थः॥२०॥
अ. १६. श्लो. १७-२०]
[[८२०]]
त्रिविधमिति। अनन्तोऽपि सर्वः आसुरीसम्पद्भेदः त्रिविधे यस्मिन्नन्तर्भवति। आसुर्यः असुरप्रकृतयस्तासां सम्पत् समृद्धिः। तद्भेदः तद्विशेषः। आसुरसम्पदिति भाष्ये तु आसुरी च सा सम्पदासुरसम्पद्, आसुरस्वभावः इत्यर्थः। यत्परिहारेणेति। यस्य त्रिविधस्यासुरस्वभावस्य परिहारेण। परिहृत इति। सर्वोऽप्यासुरसम्पद्भेद इति शेषः। सर्वस्यानर्थस्य नरकादिसंसारस्य यत् त्रिविध आसुरसम्पद्भेदो मूलं कारणं भवति। कामः क्रोधस्तथा लोभ इति त्रिविधमिदमात्मनो नाशनं नरकस्य द्वारं भवति। तस्मान्मुमुक्षुरेतत् त्रयं त्यजेत्। आत्मा नश्यतीति। देहेन्द्रियादितादात्म्याध्यासवान् पुरुषो नश्यतीत्यर्थः। आत्मनः पुरुषार्थप्राप्त्यनर्हत्वमेव नाश इत्याह— २आत्मा नेति। तस्माच्छब्दार्थमाह— यत इति। आत्मनाशननरकद्वारत्वादित्यर्थः॥२१॥
एतैरिति। नरः तमोद्वारैरेतैस्त्रिभिर्विमुक्तःसन्नात्मनः श्रेयः आचरति, ततः परां गतिं याति। यत्प्रतिबद्धः यैः कामादिभिः प्रति- बद्धः। तत् श्रेयः। तदपगमात् कामादिप्रतिबन्धापगमात्। आचरति श्रेय इति शेषः। तत इत्यस्यार्थमाह—तदाचरणादिति। श्रेयोऽनुष्ठानादित्यर्थः। परामुत्तमां गतिं देवत्वादिकं याति, मोक्षं च यातीत्याह— मोक्षमपीति। श्रेयोऽनुष्ठानस्य ज्ञानप्राप्तिद्वारा मोक्षस्यापि हेतुत्वादिति भावः॥२२॥
सर्वस्याः आसुर्याः सम्पदः संक्षेपोऽयमुच्यते। यस्मिंस्त्रिविधे सर्वः आसुरीसम्पद्भेदोऽनन्तोऽप्यन्तर्भवति, यत्परिहारेण परिहृतश्च भवति, यद् मूलं सर्वस्यानर्थस्य, तदेतदुच्यते— त्रिविधमिति। त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ इदं द्वारं नाशनमात्मनो यद् द्वारं प्रविशन्नेव नश्यत्यात्मा, कस्मैचित् पुरुषार्थाय योग्यो न भवतीत्येतत्। अत उच्यते ‘द्वारं नाशनमात्मनः’ इति। किं तत्? कामः क्रोधस्तथा लोभः। तस्मादेतत् त्रयं त्यजेत् । यत एतद् द्वारं नाशनमात्मनः, तस्मात् कामादित्रयमेतत् त्यजेत्॥२१॥
त्यागस्तुतिरियम् — एतैरिति। एतैर्विमुक्तः, कौन्तेय ! तमोद्वारैः तमसो नरकस्य दुःखमोहात्मकस्य द्वाराणि कामादयः तैः, एतैस्त्रिभिर्विमुक्तो नरः आचरति अनुतिष्ठति। किम्? आत्मनः श्रेयो यत्प्रतिबद्धः पूर्वं १नाचरति, तदपगमादाचरति, ततः तदाचरणाद् याति परां गतिं मोक्षमपीति॥२२॥
कथमासुरी सम्पदनन्तभेदवती पुरुषायुषेणापि परिहर्तुं शक् येतेत्याशङ्क् याह— सर्वस्या इति। संक्षेपोक्तिफलमाह— यस्मिन्निति। कामादौ त्रिविधे सर्वस्यासुरसम्पद्भेदस्यान्तर्भावेऽपि कथमसौ परिह्रियते? तत्राह—यत्परिहारेणेति। कामादिपरिहारेणा- सुरसम्पद्भेदपरिहारेऽपि कथं सर्वानर्थपरिवर्जनमित्याशङ्क् याह— यन्मूलमिति। कथमात्मनो नित्यस्य नाशाशङ्केति? तत्राह— कस्मैचिदिति। त्रिविधमपि सामान्यतो दर्शितमाकाङ्क्षाद्वारा विशेषतो दर्शयति— किं तदिति। तस्मादिति व्याचष्टे— यत इति॥२१॥
[एतैरिति।] कामादित्यागे सति अनर्थाचरण-श्रेयःप्रतिबन्धनिवृत्ती स्यातामिति भावः। न केवलं श्रेयः समाचरन् आसुरीं च सम्पदं वर्जयन् मोक्षमेव सम्यग्धीद्वारा लभते, किन्तु लौकिकमपि सुखमिति अपेरर्थः॥२२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः। कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्॥२१॥
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः। आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्॥२२॥
१. ‘नाचचार’ इति पा.। २. भाष्ये ‘आत्मा नश्यति, आत्मा न कस्मैचित् पुरुषार्थाय योग्यो भवतीत्येतत्’ इति रा.पा. भाति।
[[८२१]]
सर्वस्यैतस्यासुरसम्पत्परिवर्जनस्य श्रेयआचरणस्य च शास्त्रं कारणम् , शास्त्रप्रमाणादुभयं शक् यं कर्तुम् , नान्यथा। अतः— यः शास्त्रेति। यः शास्त्रविधिं शास्त्रं वेदः, तस्य विधिं कर्तव्याकर्तव्यज्ञानकारणं विधिप्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तः सन् , न स सिद्धिं पुरुषार्थयोग्यतामवाप्नोति। नाप्यस्मिन् लोके सुखम् , नापि परां प्रकृष्टां गतिम्— स्वर्गं मोक्षं वा॥२३॥
तस्मादिति। तस्माच्छास्त्रं प्रमाणं ज्ञानसाधनं ते तव कार्याकार्यव्यवस्थितौ कर्तव्याकर्तव्यव्यवस्थायाम्। अतो ज्ञात्वा बुद् ध्वा शास्त्रविधानोक्तम् विधिः विधानम् , १शास्त्रमेव विधानं शास्त्रविधानं ‘कुर्यात् , न कुर्याद्’ इत्येवं- लक्षणम् , तेनोक्तं स्वकर्म यत् तत् कर्तुमिहार्हसि। इहेति कर्माधिकारभूमिप्रदर्शनार्थमिति॥२४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः॥१६॥
य इति। उभयमिति। आसुरसम्पत्परिवर्जनं श्रेयआचरणं चेत्यर्थः। यः शास्त्रविधिमुत्सृज्य कामकारतो वर्तते, स सिद्धिं नावा- प्नोति, सुखं नावाप्नोति, परां गतिं नावाप्नोति। कामकारतः कामकारेण, स्वेच्छाचारेणेत्यर्थः। फलितमाह— कामप्रयुक्त इति। पुरुषार्थ- योग्यतां पुरुषार्थप्राप्त्यर्हताम्॥२३॥
तस्मादिति। तस्मात् ते कार्याकार्यव्यवस्थितौ शास्त्रं प्रमाणं भवति। इह शास्त्रविधानोक्तं कर्म ज्ञात्वा कर्तुमर्हसि। कार्याकार्य- व्यवस्थितिः इदं कार्यमिदमकार्यमिति निर्णयः। तस्यां विषये। शास्त्रविधानोक्तमिति। शास्त्रेण कृतं विधानं शासनं शास्त्रविधानं तेनोक्तम् , विधिप्रतिषेधात्मकशास्त्रेण विहितमित्यर्थः। किं तत् कर्म? अत आह— स्वकर्मेति। स्वस्ववर्णाश्रमविहितं कर्मेत्यर्थः। तच्चार्जुनस्य क्षत्रियस्य युद्धमेव। ‘क्षत्रियस्य विजित(व्य)’मित्यादिशास्त्रादिति भावः। इह अस्यां कर्मभूमावित्यर्थः। कुरुक्षेत्रादि- भूमिविशेष एव कर्माधिकारः, न तु सिंहलद्वीपादाविति भावः। इहेति शब्दः कर्माधिकारभूमिप्रदर्शनार्थ इत्यन्वयः। इहशब्दप्रयोगस्य आसुर्याः सम्पदो वर्जने, श्रेयसश्च करणे किं कारणम्? तदाह— सर्वस्येति। तस्य कारणत्वं साधयति— शास्त्रेति। उक्तमुपजीव्यानन्तरश्लोकं प्रवर्तयति— अत इति। शिष्यतेऽनुशिष्यते बोध्यतेऽनेनापूर्वोऽर्थः इति शास्त्रम् , तच्च विधिनिषेधात्मकमि- त्युपेत्य व्याचष्टे— कर्तव्येति। कामस्य करणं कामकारः, तस्माद्धेतोरित्युपेत्य, कामाधीना शास्त्रविमुखस्य प्रवृत्तिरित्याह— कामेति। कामाधीनप्रवृत्तेः सदा पुमर्थायोग्यस्य सर्वपुरुषार्थासिद्धिरित्याह— नापीति॥२३॥
शास्त्रादृते कर्मणो निष्फलत्वे फलितमाह— तस्मादिति। कर्तव्याकर्तव्यौ धर्माधर्मौ, तत्र शास्त्रस्य प्रमाणत्वेऽपि मम किं कर्तव्य- १. ‘शास्त्रेण विधानं’ इति पा.।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिमवाप्नोति न सुखं न परां गतिम्॥२३॥
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ। ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि॥२४॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः॥१६॥
[[अ. १६. श्लो. २१-२४]] [[८२२]]
कर्माधिकारभूमिप्रदर्शनार्थमेव[प्रदर्शनमेव] फलमित्यर्थः। इतिशब्दः प्रकृताध्यायभाष्यसमाप्तिवाचकः॥२४॥
इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृतौ श्रीभगवद्गीताभाष्यार्कप्रकाशे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः। श्रीहयग्रीवार्पणमस्तु मित्याशङ्क् याह— अत इति। स्वकर्म क्षत्रियस्य युद्धादि। इतिशब्दोऽध्यायसमाप्त्यर्थः। तदनेनाध्यायेन प्राग्भवीयकर्मवासनानुसारेणाभिव्यज्यमानसात्त्विकादिप्रकृतित्रयविभागेन दैवी आसुरी इति सम्पद्द्वयम् १आदान- हानाभ्यामुपदिश्य कामक्रोधलोभानपहाय पुरुषार्थिना शास्त्रप्रवणेन तदुक्तकारिणा भवितव्यमिति निर्धारितम्॥२४॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशांकरभाष्यव्याख्याने षोडशोऽध्यायः॥१६॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. चतुर्थ्यन्तमिदम्। आदानाय, हानाय चेत्यर्थः। क्रमेण संपद्द्वयस्यान्वयः। ॐ श्रीपरमात्मने नमः