१५

॥अथ पञ्चदशोऽध्यायः॥

श्रीभगवानुवाच— ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्॥१॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

यस्मात् प्राणिनां कर्मिणां कर्मफलं, ज्ञानिनां ज्ञानफलं च मदधीनम् ईश्वरायत्तम् , अतः तस्माद् भक्तियोगेन ये मां सेवन्ते ते मम प्रसादाज्ज्ञानप्राप्तिक्रमेण गुणातीताः जीवन्मुक्ताः सन्तो मोक्षं गच्छन्ति। यस्मादेवं मां केवलं भजन्त एव मोक्षं गच्छन्ति, तस्मादात्मनो ममैवं वक्ष्यमाणविधं तत्त्वं सम्यग् विजानन्तो मोक्षं गच्छन्तीति किमु वक्तव्यम्? इत्यतः भगवत्तत्त्वज्ञानस्य मोक्षहेतुत्वादित्यर्थः। अर्जुनेनापृष्टमप्यात्मनस्तत्त्वं विवक्षुःसन् भगवानुवाच— ऊर्ध्वमूलमित्यादिपञ्चदशाध्यायम्। तत्रेति। अध्याये। तावदिति। आदौ वैराग्यहेतोः वैराग्यार्थं वृक्षरूपकल्पनया संसाररूपं वर्णयति संसारवृक्षं कथयतीत्यर्थः। किं फलं वैराग्यादत आह— विरक्तस्येति। संसाराद् विरक्तस्यैव भगवत्तत्त्वज्ञानेऽधिकारः, अन्यस्य संसारासक्तस्य नाधिकारः। अत एव हि संसारं परित्यज्य व्रजन्ति परिव्राजकास्तत्त्वज्ञानलाभार्थम्। गृहिणां हि कुटुम्बपोषणासक्तचेतसां पुत्रादिजन्ममरणादिप्रयुक्तसुखदुःखविक्षिप्तचेतसां च कामातुराणां कथं वेदान्तश्रवणादिकं सम्भवेत्? न कथमपीति भावः। ऊर्ध्वमूलमिति। यं संसारवृक्षमिति शेषः। ऊर्ध्वमूलमधःशाखमव्ययमश्वत्थं प्राहुः श्रुतयः, वेदविदो वा। यं संसारमिति वा। आनन्दगिरिकृतव्याख्या ४ज्ञानेन गुणात्यये दर्शिते; नाशित्वे तेषां विना ५ज्ञानेनात्ययाद् ; अनाशित्वे तेनापि तदयोग्यत्वाद् न ज्ञानं गुणात्ययहेतु- रित्याशङ्कां निरस्य६, साक्षादेव श्रवणादिहेतुं संन्यासं विधित्सुर्ब्रह्मत्वस्य परमपुरुषार्थतां च विवक्षुरध्यायान्तरमारभते— यस्मादिति। कर्मिणो ज्ञानिनश्च शास्त्रेऽधिकृताः। तत्र कर्मिणां कर्मानुकूलं फलमीश्वरायत्तम् , ‘फलमत उपपत्तेः’ इति न्यायात्। ज्ञानिनामपि तत्फलमीश्वरायत्तमेव ‘ततो ह्यस्य बन्धविपर्ययौ’ इत्युक्तत्वात्। यस्मादेवं तस्माद् ये भक्त्याख्येन योगेन मामेव सेवन्ते, ते मत्प्रसादद्वारा ज्ञानं प्राप्य गुणातीताः मुक्ता भवन्तीति स्थितमित्यर्थः। ये त्वात्मनस्तत्त्वमेव सन्देहाद्यपोहेन जानन्ति, ते तेन ज्ञानेन गुणातीताः सन्तो मुक्तिं गच्छन्तीति किमु वक्तव्यमिति अर्थसिद्धमर्थमाह— किमु वक्तव्यमिति। आत्मतत्त्वाज्ञानं यतः संसारहेतुः, ज्ञानं मोक्षानुकूलम् , अतोऽर्जुनेन किं तदित्यपृष्टमपि तत्त्वं भगवानुक्तवान् , प्रश्नाभावेऽपि तस्य तद्व्युत्पादनाऽभिमानादित्याह— अत इति। तत्त्वे विवक्षिते किमिति संसारो वर्ण्यते? तत्राह— तत्रेति। अध्यायादिः सप्तम्यर्थः। वैराग्यमपि किमिति मृग्यते? तत्राह— विरक्तस्येति। इति वैराग्याय संसारवर्णनमिति शेषः। नाशसंभावनायै वृक्षरूपकं बन्धहेतोर्दर्शयति— ऊर्ध्वमूलमिति। कथं कालतः सूक्ष्मत्वम्? तदाह— यस्माद् मदधीनं कर्मिणां कर्मफलम् , ज्ञानिनां च ज्ञानफलम् , अतो भक्तियोगेन मां ये सेवन्ते, ते मत्प्रसादाज्ज्ञानप्राप्तिक्रमेण गुणातीताः मोक्षं गच्छन्ति; किमु वक्तव्यम् आत्मनस्तत्त्वमेव सम्यग् विजानन्तः इत्यतो भगवान् अर्जुनेनापृष्टमपि१ आत्मनस्तत्त्वं विवक्षुरुवाच— ऊर्ध्वमूलमित्यादि। तत्र तावद् २वृक्षरूपककल्पनया वैराग्यहेतोः ३संसारस्वरूपं वर्णयति ; विरक्तस्य हि संसाराद् भगवत्तत्त्वज्ञानेऽधिकारो, नान्यस्येति। ऊर्ध्वमूलमिति। १. ‘अपृष्टोऽपि’ इति पा.। २. ‘वृक्षरूपकल्पनया’ इति रा.पा.। ३. ‘संसाररूपं’ इति रा.पा.। ४. भक्तियोगस्य ज्ञानद्वारा गुणात्ययहेतुत्वात् ज्ञानेनेत्युक्तम्। ‘भक्ति- योगेन’ इति पा.। ५. ‘ज्ञानेनानत्ययाद्’ इति पा.। ६. आत्मतत्त्वाज्ञानं यतः तद्धेतुः, अतः आत्मतत्त्वज्ञानेन तदत्ययः इति शङ्कानिरासो बोध्यः।

[[७७०]]

ऊर्ध्वमूलं कालतः सूक्ष्मत्वात् कारणत्वाद् नित्यत्वाद् महत्त्वाच्च ऊर्ध्वमुच्यते ब्रह्म अव्यक्तमायाशक्तिमत्। तद् मूलमस्येति सोऽयं संसारवृक्षः ऊर्ध्वमूलः। श्रुतेश्च ‘ऊर्ध्वमूलोऽवाक्छाखः’ (क.उ.६.१) इति। पुराणे च— ‘अव्यक्तमूलप्रभवस्तस्यैवानुग्रहोत्थितः१। बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः॥ महाभूतविशाखश्च विषयैः २पत्रवांस्तथा। धर्माधर्मसुपुष्पश्च सुखदुःखफलोदयः॥ आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः। एतद्ब्रह्मवनं चैव यं संसारमश्वत्थमूर्ध्वमूलमधःशाखमव्ययं प्राहुरिति वा। यस्य छन्दांसि पर्णान्याहुः। भवन्तीति वा। तं संसारवृक्षं यो वेद स वेदविद् भवति। यथा वृक्षः समूलः सशाखः सपर्णो बीजाङ्कुरभावेन प्रवाहानादिः प्रवाहानन्तश्चेत्यन्वयः[त्यव्ययः], तथा संसारोऽयं समूलः सशाखः सपर्णः प्रवाहतोऽनादिरनन्तश्चेत्यव्ययश्चेति साधर्म्यसत्त्वात् संसारे वृक्षत्वारोपणमिति बोध्यम्। अव्यक्तमायाशक्तिमद् ब्रह्म ऊर्ध्वमित्युच्यते। कुत उच्यते? अत आह— सूक्ष्मत्वादिति। किमपेक्षया? अत आह— कालत इति। कालो हि सूक्ष्मः, तस्मादपि ब्रह्म सूक्ष्मम्। संवत्सरादिलक्षणकालस्य विज्ञेयत्वेन स्थूलत्वेऽपि कलाकाष्ठादिलक्षणकालस्य दुर्विज्ञेयत्वेन सूक्ष्मत्वम् , ब्रह्मणश्चातीन्द्रियस्य दुर्विज्ञेयत्वं स्फुटमेव। ऊर्ध्वस्थस्य च नक्षत्रादेः सूक्ष्मत्वदर्शनात् सूक्ष्मत्वादिदं ब्रह्माप्यूर्ध्वमित्युच्यते। तथा कारणत्वादिति। ‘यतो वा इमानी’त्यादिश्रुतेर्ब्रह्म जगत्कारणम्। कारणं च वस्तु कार्यादूर्ध्वमिति प्रतीतिः। एवं कारणत्वाद् ब्रह्मोर्ध्वमित्युच्यते। नित्यत्वादिति। अनित्यं संसारमण्डलमतीत्य वर्तते नित्यत्वाद् ब्रह्मेत्यूर्ध्वमित्युच्यते। तथा महत्त्वादिति। उत्कृष्टत्वादूर्ध्वत्वं ब्रह्मण इति भावः। यद्वा ऊर्ध्वं ब्रह्म सूक्ष्मत्वादिहेतुचतुष्टयेन मूलमित्युच्यते। वृक्षस्यापि हि बीजं मूलमल्पपरिमाणत्वात् सूक्ष्मं, वृक्षोदयं प्रति हेतु- त्वात् कारणम् , अङ्कुरात्मना पुनर्बीजात्मना पुनरङ्कुरात्मनेत्येवं परिणममानत्वात् प्रवाहनित्यं, कार्यमहत्त्वान्महच्च। एवं ब्रह्मापि। ‘अणोरणीयान्महतो महीया’निति श्रुत्या ब्रह्मणः सूक्ष्मत्वमहत्त्वे, ‘यतो वे’त्यादिश्रुत्या कारणत्वम् , ‘अजो नित्यः’ इत्यादिश्रुत्या नित्यत्वं चेति बोध्यम्। निर्विशेषस्य ब्रह्मणः संसारमूलत्वायोगादाह—अव्यक्तेति। अव्यक्तं, माया, शक्तिश्चेति पर्यायाः। अव्यक्तमाया- शब्दद्वयवाच्या या शक्तिस्तद्युक्तमित्यर्थः। मायाशबलितमीश्वराख्यं ब्रह्म जगद्धेतुत्वात् संसारवृक्षस्य मूलमित्युच्यत इति परमार्थः। ननु क्वोक्तं संसारवृक्षस्योर्ध्वमूलत्वम्? अत आह— ऊर्ध्वमूलो हीति श्रुतिम्। एष इति। संसाररूप इत्यर्थः। सनातनः अनादिः। अव्यक्तेति। अव्यक्तं माया, तदेव मूलं, तस्मात् प्रभवतीत्यव्यक्तमूलप्रभवः। तस्यैवाव्यक्तमूलस्यानुग्रहाद् उच्छ्रितः प्रवृद्धः। बुद्धिरेव स्कन्धः प्रकाण्डो बुद्धिस्कन्धः, तन्मयो बुद्धिस्कन्धमयः। वृक्षस्य स्कन्धाच्छाखा इव, संसारस्य बुद्धेः सकाशाद् नानाविधपरिणामाः भवन्तीतीयमुक्तिः। इन्द्रियान्तराण्येव कोटरा यस्य स इन्द्रियान्तरकोटरः। इन्द्रियाणां रन्ध्राभावेऽपि तदधिष्ठान- चक्षुःश्रोत्रादीनां सरन्ध्रत्वादियमुक्तिः। महाभूतान्येव विशाखा विविधाः शाखा यस्य स महाभूतविशाखः। विषयैः शब्दादिभिः पत्रवान् पत्राण्यस्य सन्तीति तथोक्तः, विषया एव पत्राणीत्यर्थः। धर्माधर्मावेव सुपुष्पाणि यस्य स धर्माधर्मसुपुष्पः। सुखदुःखयोरेव फलानामुदयो यस्मात् सः, उदयोऽभिवृद्धिर्यस्य स इति वा सुखदुःखफलोदयः। सर्वभूतानां सर्वेषां प्राणिनां मनुष्यादीनामन्यत्र कारणत्वादिति। तदेव कथम्? कार्यापेक्षया नियतपूर्वभावित्वादित्याह— नित्यत्वादिति। सर्वव्यापित्वाच्चोत्कर्षं सम्भावयति— महत्त्वाच्चेति। ऊर्ध्वम् उच्छ्रितम् , उत्कृष्टमिति यावत्। तस्य कूटस्थस्य कथं मूलत्वमित्याशङ्क् याह— अव्यक्तेति। स्मृतिमूलत्वेन श्रुतिमुदाहरति— श्रुतेश्चेति। ३अवाञ्च्यो निकृष्टाः शाखा इव महदाद्याः यस्य स तथा। प्रकृते संसारवृक्षे पुराणसम्मतिमाह—पुराणे चेति। अव्यक्तम् अव्याकृतं, तदेव मूलं, तस्मात् प्रभवनं प्रभवो यस्य स तथा। तस्यैव मूलस्याव्यक्तस्यानुग्रहादतिदृढत्वाद् उत्थितः संवर्धितः। तस्य लौकिकवृक्षसाधर्म्यमाह— बुद्धीत्यादिना। वृक्षस्य हि शाखाः स्कन्धादुद्भवन्ति, संसारस्य च बुद्धेः सकाशान्नानापरिणामाः जायन्ते, तेन बुद्धिरेव स्कन्धः, तन्मयः तत्प्रचुरोऽयं संसारतरुः। इन्द्रियाणामन्तराणि छिद्राणि कोटराणि यस्य स तथा। महान्ति भूतानि पृथिव्यादीन्याकाशान्तानि विशाखाः स्तम्भा यस्य स तथा। आजीव्यत्वम् उपजीव्यत्वम्। ब्रह्मणाऽधिष्ठितो वृक्षो ब्रह्मवृक्षः। तथापि ज्ञानं १. ‘नुग्रहोच्छ्रितः’ इति रा.पा.। २. ‘पत्रशाखवान्’ इति पा.। ३. ‘अर्वाञ्च्यः’ इति पा.।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[७७१]]

ब्रह्माचरति १नित्यशः॥ एतच्छित्त्वा च भित्त्वा च ज्ञानेन परमासिना। ततश्चात्मरतिं प्राप्य २तस्मान्नावर्तते पुनः॥’(द्र. म.भा.आश्व.४७.१२-१५) इत्यादि। तमूर्ध्वमूलं ३संसारं मायामयं वृक्षम् अधःशाखं महदहङ्कारतन्मात्रादयः शाखा इवास्याधो भवन्तीति सोऽयमधःशाखः, तमधःशाखम्। न श्वोऽपि स्थातेत्यश्वत्थः, तं क्षणप्रध्वंसिनम् अश्वत्थं प्राहुः कथयन्ति। अव्ययं संसारमायायाः अनादिकालप्रवृत्तत्वात् सोऽयं संसारवृक्षोऽव्ययः, ४अनाद्यनन्तदेहादिसन्तानाश्रयो हि सुप्रसिद्धः। तमव्ययम्। तस्यैव संसारवृक्षस्येदमन्यद् विशेषणम् - छन्दांसि यस्य पर्णानि । छन्दांसि छादनाद् काकादीनां चाजीव्यः उपजीव्यः, आश्रय इति यावत्। एवंविधः सनातनो बीजाङ्कुरन्यायादनादिर्ब्रह्मवृक्षः। ब्रह्म प्रकृतिः, तत्कार्यत्वात् संसारोऽपि ब्रह्म, तदेव वृक्षोऽश्वत्थः। ब्रह्मणा परमात्मना अधिष्ठितो वृक्षो ब्रह्मवृक्ष इति वा। एतद्ब्रह्मवनमित्येकं पदम्। एतस्य अस्य ब्रह्मणो जीवरूपस्य वनं भजनीयम् , भोग्यमिति यावत्। ब्रह्म परमात्मा अत्र साक्षिवदाचरति, ब्रह्मैव साक्षिभूतमित्यर्थः। निर्विशेषे ब्रह्मणि वस्तुतः साक्षित्वस्याप्ययोगात् साक्षिवदाचरतीत्युक्तम्। ‘अहं ब्रह्मास्मी’त्याकारेण ज्ञानेनैव परमेणासिना खड्गेन। एतद् देहरूपं वृक्षम्। सामान्ये क्लीबत्वम्। एतद् ब्रह्मवनमिति वा। छित्त्वा भित्त्वा च। देहस्य छेदनं भेदनं च तत्राहङ्कारममकारयोरकरणमेव। अकृते च तदभिमानद्वये छिन्नभिन्नवृक्ष इव देहो हि नश्यति। ज्ञानेनाज्ञानं नाशयित्वेति वा। नाशिते त्वज्ञाने देहभ्रंशः स्यादिति भावः। अज्ञानमूलत्वाद् देहस्य। न हि वृक्षस्य मूले छिन्ने सति वृक्षो जीवेत्। ततश्चाज्ञाननाशानन्तरमात्मगतिम् आत्मरूपां गतिं प्राप्य तस्मादात्मरूपान्मोक्षात् पुनर्नावर्तते, तद् ब्रह्मरूपेणैव तिष्ठतीत्यर्थः। कोऽसावूर्ध्वमूलः? अत आह— संसारमिति। संसरति देही एतत्तादात्म्याद्यध्यासेनेति संसारो देहादिप्रपञ्चः। नायं सत्यः इत्याह— मायामयमिति। मायाकार्यत्वाद् मायावद् मिथ्याभूतमित्यर्थः। अधोभूताः शाखाः यस्य सोऽधःशाखः। कास्ताः शाखाः? अत आह— महदिति। कारणत्वाद् ब्रह्मण ऊर्ध्वत्वम् , कार्यत्वान्महदादीनामधःस्थत्वमिति बोध्यम्। अस्य संसारवृक्षस्योर्ध्वभूतं ब्रह्म मूलम् , अधोभूता महदादयस्तु शाखा इति परमार्थः। एतेन - वृक्षस्य कथं मूलमूर्ध्वं स्याच्छाखाः कथमधो भवेयुरिति शङ्काऽपि प्रत्युक्ता। अत्रोर्ध्वाधःशब्दाभ्यां ब्रह्मणो महदादीनां चोच्यमानत्वात्। न हि ब्रह्ममूलो महदादिशाखश्च संसारः इति वृक्षरूपणे कोऽपि विरोधः। अथवोर्ध्वशब्दस्यैवात्र ब्रह्मपरत्वम् , अधःशब्दस्तु शाखाविशेषणभूत एव। शाखाशब्दात्तु ५निगीर्णातिशयोक्त्या तत्तुल्य- महदादिग्रहणमिति स्वीकारेऽपि न दोषः, शाखानां वृक्षस्य पत्रपुष्पाद्यपेक्षयाऽधःस्थत्वात्। अश्वत्थशब्दं निर्वक्ति— न श्वोऽपीति। फलितमाह— क्षणप्रध्वंसिनमिति। यद्यपि देहादय एतत्क्षणे दृष्टाः, क्षणान्तरे पुनर्दृश्यन्त एव, न क्षणप्रध्वंसस्तेषाम् , तथापि क्षणान्तरेऽवश्यं दृश्यन्त इति वक्तुं न शक् यते मरणसम्भवात्। तस्मात् क्षणप्रध्वंसशीला एव देहादय इत्यभिप्रेत्य क्षणप्रध्वंसिनमित्युक्तम्। अत एव ताच्छील्ये णिनिः प्रयुक्तः— प्रध्वंसिनमिति। वृक्षोऽप्यश्वत्थसंज्ञः प्रसिद्ध एव। अव्ययमिति। ननु क्षणप्रध्वंसिनः संसारस्य कथमव्ययत्वम्? अत आह— मायाया इति। नन्वनादिकालमारभ्य प्रवृत्तत्वे विना छेत्तुमशक् यतया सनातनः चिरन्तनः। एतच्च ब्रह्मणः परस्यात्मनो वनं वननीयं, सम्भजनीयम्। अत्र हि ब्रह्म प्रतिष्ठितम्। तस्य वृक्षस्य संसाराख्यस्य तदेव ब्रह्म सारभूतम्। अथवाऽस्य ब्रह्मवृक्षस्यानवच्छिन्नस्य संसारमण्डलस्य तदेतद् ब्रह्म वनमिव वनं वननीयं सम्भजनीयम्। न हि ब्रह्मातिरिक्तं संसारस्य आस्पदमस्ति, ब्रह्मैवाविद्यया संसरतीत्यभ्युपगमादित्यर्थः। अहं ब्रह्मेति दृढज्ञानेन उक्तं संसारवृक्षं छित्त्वा प्रतिबन्धकाभावादात्मनिष्ठो भूत्वा पुनरावृत्तिरहितं कैवल्यं प्राप्नोतीत्याह— एतदिति। अधःशाखमित्येतद् व्याचष्टे— महदिति। आदिशब्देनेन्द्रियादिसंग्रहः। संसारवृक्षस्यातिचञ्चलत्वे प्रमाणमाह— प्राहुरिति। क्षणध्वंसिनोऽव्ययत्वं विरुद्धमित्याशङ्क् याह — संसारेति। तदेवोपपादयति— अनादीति। छादनं रक्षणं प्रावरणं वा; कर्मकाण्डानि खल्वारोहावरोहफलानि नानाविधार्थवादयुक्तानि

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘साक्षिवत्’ इति पा.। २. ‘यस्मात्’ इति पा.। ३. ‘संसारमायामयम्’ इति पा.। ४. ‘अनाद्यन्त’ इति .पा.। ५. उपमेयस्य स्वशब्देनोल्लेखं विना उपमान- वाचकेनैव शब्देन ग्रहणं तस्य निगरणम्। प्रकृते शाखाशब्देन महदादिग्रहणं तथा।

[[अ. १५. श्लो. १]] [[७७२]]

ऋग्यजुःसामलक्षणानि यस्य संसारवृक्षस्य पर्णानीव पर्णानि। यथा वृक्षस्य परिरक्षणार्थानि पर्णानि, तथा वेदाः संसारवृक्षपरिरक्षणार्थाः, धर्माधर्मतद्धेतुफल१प्रकाशनार्थत्वात्। यथाव्याख्यातं संसारवृक्षं समूलं यः तं वेद स वेदविद् वेदार्थविदित्यर्थः। न हि संसारवृक्षादस्मात् समूलाज्ज्ञेयोऽन्योऽणुमात्रोऽप्यवशिष्टोऽस्ति इत्यतः सर्वज्ञः सर्व- वेदार्थविदिति समूलसंसारवृक्षज्ञानं स्तौति॥१॥

मायैवाव्यया स्यात् , कथं पुनस्तत्कार्यसंसारः अव्ययः? अत आह— अनादीति। न विद्येते आद्यन्तौ यस्य सोऽनाद्यन्तः, स चासौ देहादिसन्तानः, स आश्रयो यस्य स तथोक्तः। बीजाङ्कुरन्यायेन प्रवाहाकारेण पूर्वपूर्वदेहादेरुत्तरोत्तरदेहादिर्भवन् सन् न कदाऽप्युपरमत इत्यनन्तत्वं देहादिसन्तानस्य। प्रलयेऽपि सूक्ष्मरूपेण सत्त्वादयमिदानीमारब्ध इति वक्तुमशक् यत्वादनादित्वं च। एवमस्यानादित्वे हेतुर्मायायाः एतन्मूलभूतायाः अनादित्वमेवेति मायायाः अनादिकालप्रवृत्तत्वादित्युक्तम्। तथा मायायाः अनन्तत्वमेव देहादि- सन्तानस्यानन्तत्वे कारणम्। एवंविधसन्तानाश्रयत्वादेव संसारस्याप्यनाद्यनन्तत्वमिति युक्तमव्ययत्वं संसारस्येति भावः। एवं सुखदुःखसम्भोगरूपसंसारस्य तु स्वत एवाव्ययत्वम् , स्थूलदेहस्य नश्यत्त्वेऽपि सूक्ष्मदेहस्याविनाशित्वात्। प्रपञ्चरूपसंसारस्य त्वव्ययत्वं स्फुटमेव, प्रलयेऽपि जगतः सूक्ष्मरूपेण सत्त्वात्। तस्मात् सर्वथाऽप्यव्यय एव संसारो यावदविद्यम्। अन्यदिति। विलक्षणमित्यर्थः। अन्यद् विशेषणं विशेषणान्तरम्२। छन्दःशब्दस्य व्युत्पत्तिमाह— छादनादिति।३ रक्षणादिति यावत्। छादन- पूर्वकत्वाद् रक्षणस्य। कवचो हि देहमाच्छाद्य रक्षति शस्त्रादेः सकाशात्। अथर्वणवेदस्य ऋगादिवेदत्रयान्तःपातित्वादाह— ऋग्यजुःसामात्मकानीति। पर्णशब्दोऽत्र लक्षणया तत्सदृशपरः। छन्दसां प्रसिद्धपर्णत्वासम्भवादित्याह—पर्णानीवेति। रक्षणार्थानीति। पर्णानि हि वृक्षमाच्छाद्य वातातपादिभ्यो रक्षन्ति। एवं संसारवृक्षं वेदाः परिरक्षन्ति। तत्र हेतुमाह— धर्मेति। धर्माधर्मयोस्तद्धेतूनां विहितप्रतिषिद्धकर्मणां तत्फलस्य स्वर्गनरकादेश्च प्रकाशनं प्रतिपादनम् अर्थः प्रयोजनं येषां तत्त्वात्। धर्मो यागादिजन्यमपूर्वं सुकृतात्मकमात्मनिष्ठम्। अधर्मो हिंसादिजन्यं दुष्कृतमिति विवेकः। विद्वांसोऽपि वेदप्रामाण्याद् यज्ञादिकमनुष्ठाय स्वर्गादिकं प्राप्य तत्पुण्यक्षयात् पुनर्भुवि मनुष्यात्मना ४प्रजाय पुनः कर्माणि कुर्वन्तीति विदुषामपि जन्ममरणादिलक्षणोऽयं संसारो वेदमूलक एव। नास्तिका अपि हिंसादिलक्षणं कर्म विधाय तत्फलानुभवाय नरकं पश्वादिजन्म च प्राप्य पुनर्म्रियन्ते पुनरुत्पद्यन्त इत्ययमर्थोऽपि वेदादेव ज्ञायत इति तेषां संसारोऽपि वेदमूल एव। तस्माद् वेदैः संसारः परिरक्ष्यत इति भावः। अत एव ‘त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन’ इत्युक्तं भगवता। समूलमिति। मूलेन ब्रह्मणा मायिना सहेत्यर्थः। केवलसंसारवेदनेन फलाभावादिति भावः। ब्रह्मज्ञानाद्धि मोक्षः। ननु सर्वेऽपि वेदविद एव वेदपाठकाः इत्यत आह— वेदार्थविदिति। वेदान् प्रायशः पठन्त्येव ब्राह्मणाः, परन्तु तदर्थं ते न जानन्ति। अर्थज्ञान- शून्याश्च वैदिकाः वेदेनैव निन्दिताः— ‘स्थाणुरयं भारवाहः किलाभूदधीत्य वेदं न विजानाति योऽर्थ’मिति। तस्माद् वेदपाठकानां वेदार्थज्ञानमावश्यकम् , तज्ज्ञानादेव दर्शितसमूलसंसारज्ञानसम्भवात्। ननु यः समूलं संसारं वेद स कथं सर्ववेदार्थविद् भवेत् , अन्यस्याविज्ञेयस्य बहुधा सत्त्वाद्, अत आह— न हीति। दृग्दृश्याभ्यां पदार्थाभ्यामन्यत् किमपि नास्ति। तत्र - ब्रह्म दृक् । माया, तत्कार्यं सर्वं जगद् दृश्यम्। एवं स्थिते मूलस्य मायावतो संसारवृक्षं रक्षन्ति, तन्निष्ठं दोषं चावृण्वन्ति, तेन तानि छन्दांसि पर्णानीव भवन्तीत्यर्थः। तदेव प्रपञ्चयति— यथेति। उक्तेऽर्थे हेतुमाह— धर्मेति। कर्मकाण्डानां वेदानामिति शेषः। कर्मब्रह्माख्यसर्ववेदार्थस्य तत्रान्तर्भावमुपेत्य व्याचष्टे— वेदार्थेति। समूलसंसारवृक्षज्ञानेऽमूलं हित्वा मूलमेव निष्कृष्य ज्ञातुं शक् यमिति तज्ज्ञानार्थं प्रयतितव्यमिति मत्वा तज्ज्ञानस्तुतिरत्र विवक्षितेत्याह— न हीति॥१॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘प्रदर्शनार्थत्वात्’ इति पा.। २. ‘इदमन्यद् विशेषणान्तरम्’ इति भाष्यपाठः क्वचिद् दृश्यते। तमनुसृत्यापौनरुक्त्याय अन्यदित्येतत् विलक्षणमिति व्याख्याय विशेषणान्तरमित्यस्येत्थं व्याख्यानं भाति। ३. ‘छादयन्ति ह वा एनं छन्दांसि पापात् कर्मणः’ (ऐ .आ. २-१-६) इति श्रुतिरप्यनुसंधेया। ४. जनित्वेत्यर्थः।

[[७७३]]

ब्रह्मणो, वृक्षस्य जगद्रूपसंसारस्य च ज्ञाने सति किं पुनरवशिष्येत ज्ञेयतया? न किमपि, ताभ्यामन्यस्याभावात्। वेदार्थानां यज्ञादिकर्मणां ब्रह्माद्युपासनानां च सर्वेषां संसारान्तःपातित्वाद् , वेदान्तार्थस्य च ब्रह्मत्वेन मूलान्तःपातित्वाच्चेति भावः। अत इति। समूलात् संसारवृक्षादन्यस्य ज्ञेयस्याभावादित्यर्थः। सर्ववेदार्थविद् यः स सर्वज्ञ एवेति समूलस्य वृक्षस्य संसारस्य विज्ञानं स्तौति। समूलवृक्षविज्ञानिनां सर्वज्ञत्वे सति तद्विज्ञानस्य सर्वोत्कर्षः प्राप्नोति। यथा धनवतः पुरुषस्य कीर्तनीयत्वे सति धनस्याप्युत्कर्षः, तद्वत्। धर्मोत्कर्षपूर्वकत्वाद् धर्म्युत्कर्षस्येति भावः।१ यत्तु रामानुजः - सप्तलोकोपरि निविष्टचतुर्मुखादित्वेन तस्योर्ध्वमूलत्वम् , पृथिवीनिवासिसकलनरपशुमृगक्रिमिकीटपतङ्ग- स्थावरान्ततया अधःशाखत्वम्। संसारस्यावेदत्वेऽपि संसारविद् वेदविदेव। वेदो हि संसारवृक्षच्छेदोपायं वदति। छेद्यवृक्षस्वरूपज्ञानं छेदनोपायज्ञानोपयोगीति वेदविदित्युच्यत इति। तत्तुच्छम् ; चतुर्मुखः किं जगद्रूपसंसारस्यादिः, उत देहरूपस्य, अथवा सुखदुःख- सम्भोगरूपस्य? नाद्यः, ‘जन्माद्यस्य यतः’ इति सूत्रेणेश्वरस्यैव जगत्कारणत्वेन जगदादित्वस्य स्थापितत्वात्। आदिर्हि कारणम्। न द्वितीयः, देवमनुष्यादिदेहान् प्रति चतुर्मुखस्यादित्वेऽपि चतुर्मुखदेहं प्रति चतुर्मुखस्यादित्वाभावात्। न हि पुत्रदेहस्यादिः पिता पितृ- देहस्याप्यादिर्भवति। न तृतीयः, चतुर्मुखस्यापि सुखदुःखसम्भोगसत्त्वेन तदादित्वाभावात् तस्य। न हि स्वानर्थकरं संसारं चतुर्मुखः स्वयं सृजति। ननु आदिर्न कारणम् , किन्त्वाद्यवयवः, यथा वृक्षस्यादिमध्यान्तावयवाः सन्ति, भूसन्निहितभागः आदिर्वृक्षस्य, चरमभागो ऽन्तः, स्कन्धादिभागस्तु मध्यः, तथा जगद्रूपसंसारस्य चतुर्मुख आदिभागः, पृथिवीनिवासिनो मनुष्यादयो मध्यभागः, पातालवासिनो ऽन्तभागः इति चेत् , नैतदप्युचितम् ; तथा सति चतुर्मुखस्यैकस्यैव कथमादित्वम्? तल्लोकवासिनः सर्वेऽप्यादिभूता एव। किञ्च वृक्षाश्रयपक्षिकीटादिप्रायाः जगदाश्रयचतुर्मुखादिप्राणिनः, न तु स्कन्धशाखादिस्थानीयाः। सत्यादिलोका एव तत्स्थानीयाः, लोकात्मकत्वाज्जगतः। तथा च जगतः सत्यलोक आदिः, भूलोको मध्यः, पाताललोकोऽन्तः। यद्वा स्वर्गलोकः आदिः, मर्त्यलोको मध्यः, पाताललोकोऽन्तः इति सत्यलोकादित्वं स्वर्गलोकादित्वं वा जगद्वृक्षस्य वक्तव्यमिति कथं चतुर्मुखादित्वं तस्य? अपिच यद्यत्रोर्ध्वशब्देनाद्यवयवो विवक्षितः स्यात् , तर्हि अधःशब्देन किं मध्यावयवो विवक्षितः? यद्वाऽन्तावयवः? अथवोभयम्? नाद्यः, स्थावरान्ततयेति स्ववचोविरोधात्। न द्वितीयः, न हि पृथिवी तन्निवासिनः स्थावराः पर्वतादयो वा जगद्वृक्षस्यान्तभागः स्यात्। न तृतीयः, तद्विवक्षानुसारेण त्वया पृथिवीनिवासिमनुष्यादिमध्यतया पातालनिवासिसर्पाद्यन्ततया चाधःशाख इत्युच्यत इत्यनुक्तत्वात्। किञ्च ‘अव्यक्तमूलप्रभवः’ इति पुराणं च प्रकृतगीतामूलभूतश्रुतिगतोर्ध्वमूलपदस्य मायाकारणकत्वरूपार्थमेव प्रतिपादयतीति तद्विरोधश्च तव। तस्मादूर्ध्वं ब्रह्म मूलं कारणमस्येत्यूर्ध्वमूलमित्येव व्याख्येयम्। न च ब्रह्मणः कारणत्वप्रतिपादकस्य तवापि मायाकारणत्वप्रतिपादकपुराणविरोध इति वाच्यम् ; शक्तिशक्तिमतोरभेदात्। केवलाव्यक्तस्य केवलब्रह्मणो वा कारणत्वाभावात्। अव्यक्तशक्तिमद् ब्रह्म ब्रह्माश्रयमव्यक्तं वा जगतः कारणमिति न कश्चिद् विरोधः। यच्चानेनोक्तम् - संसारो न वेदः इति, तदप्ययुक्तम् , वेदस्यापि संसारपदवाच्यजगदन्तःपातित्वेन संसारस्यापि वेदत्वात्। यज्ञादिसंसारस्य वेदार्थत्वेन च वेदस्य संसारप्रतिपादकत्वात् संसारस्य वेदत्वमिति वा, प्रतिपाद्यप्रतिपादकयोरभेदात्।२ यच्च वेदः संसारवृक्षच्छेदोपायं वदतीति, तदप्ययुक्तम् , यज्ञादिप्रतिपादकवेदभागस्य संसारप्रवृद्ध्युपायप्रतिपादकत्वात्। वेदार्थो हि यज्ञादिः संसारं वर्धयतीति॥१॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

अ. १५. श्लो. १ ] १. ज्ञानवतः स्तुतिः ज्ञानस्तुतौ पर्यवस्यतीति भावः। अत्र च आत्मतत्त्वस्य विज्ञेयत्वात् तज्ज्ञाने विरक्तानामेवाधिकारात् , संसाराद्वैराग्यसिद्धये संसारवृक्षस्व- रूपवर्णनमिति भाष्यकारैरुक्तम्। वैराग्यसिद्ध्युपयोगितया संसारवृक्षस्य सम्यग् यथार्थस्वरूपवर्णनं भाष्यकारैः कठोपनिषद्भाष्ये (क.उ.६.१) कृतं तत्रैव द्रष्टव्यम्। २. प्रतिपाद्यप्रतिपादकयोरभेदमादाय सामानाधिकरण्येन व्यवहारस्य ‘ओमित्येतदक्षरमिदं सर्वम्’ (मा.उ. १) इत्यादौ दर्शनादिति भावः। इदं च संसारस्य वेदत्वोपपादनं प्रौड्यैव। तस्यावेदत्वेऽपि वेदार्थस्य समस्तस्य तदन्तर्भावात् तद्विदः समस्तवेदार्थज्ञत्वस्य समर्थितत्वात्। वस्तुतस्तु समूले संसारवृक्षे ज्ञाते अध्यारोपापवादन्यायेन आरोपितसंसारनिषेधेन तन्मूलत्वेनोक्तमात्मतत्त्वं निष्कृष्य ज्ञातुं शक्यमिति आत्मतत्त्वज्ञानमेवेत्थं स्तुतमिति ज्ञेयम्। स्पष्टं चेदम् आनन्दगिरीयव्याख्याने । अत एव ‘स वेदवित् स आत्मवित् स सर्ववित्’ (बृ.उ. ३.७.१) इत्यन्तर्यामिज्ञानस्तुतिः इत्यलम्।

[[७७४]]

तस्यैव संसारवृक्षस्यापरा अवयवकल्पनोच्यते— अधश्चेति। अधो मनुष्यादिभ्यो यावत्स्थावरम् , ऊर्ध्वं च १यावद् ‘ब्रह्मा विश्वसृजो धर्म’ इत्येतदन्तं यथाकर्म यथाश्रुतं ज्ञानकर्मफलानि तस्य वृक्षस्य शाखा इव शाखाः प्रसृताः प्रगताः गुणप्रवृद्धाः गुणैः सत्त्वरजस्तमोभिः प्रवृद्धाः स्थूलीकृताः उपादानभूतैः विषयप्रवालाः विषयाः शब्दादयः प्रवाला इव देहादिकर्मफलेभ्यः शाखाभ्योऽङ्कुरीभवन्तीव, तेन विषयप्रवालाः शाखाः। संसारवृक्षस्य २परममूलम् अध इति। ४अपरेति छेदः। पूर्वोक्तादन्येत्यर्थः। गुणप्रवृद्धा विषयप्रवालाश्च तस्य शाखाः अधश्चोर्ध्वं च प्रसृताः भवन्ति। कर्मानुबन्धीनि तस्य मूलान्यधश्च मनुष्यलोकेऽनुसन्ततानि भवन्ति। अधःशब्दार्थमाह— मनुष्यादीति। मनुष्यो मानवदेहः आदिर्यस्य तन्मनुष्यादि। यावत्स्थावरं स्थावरान्तमित्यर्थः। मनुष्यपशुपक्षिसरीसृपक्रिमिकीटमत्स्यकच्छपतरुगुल्मलतादिकमिह दृश्यमानं भुवि सर्वं चराचरजन्तुजातमधःशब्दार्थः। ‘मनुष्यादिभ्य’ इति पाठे मनुष्यादिभ्य आरभ्येति शेषः। आदिपदात् पश्वादिग्रहणम्। ऊर्ध्वशब्दा- र्थमाह— अत इति। मनुष्यलोकादित्यर्थः। ऊर्ध्वं वर्तमाना गरुडगन्धर्वयक्षरक्षःपितृमातृगणसिद्धसाध्यचारणदेवदानवादयश्चतुर्मुखेन सह सर्वेऽपि प्राणिन ऊर्ध्वशब्दार्थः। इदमेवाह— यावदिति। ब्रह्मणो हिरण्यगर्भस्य। धाम लोकः। तत्र वर्तमानसनकादिसर्वप्राणि- सङ्ग्रहाय धामशब्दग्रहणम्। एतदन्तमिति। चतुर्मुखान्तमित्यर्थः। चतुर्मुखजन्मनोऽपि ज्ञानकर्मफलत्वादिति भावः। यद्वा एतस्मिन् प्रपञ्चे प्रकृतचतुर्मुखादन्यस्य चतुर्मुखस्यासम्भवाच्चतुर्मुखलोकप्राप्तिरेव फलमिति विवक्षणे एतदन्तमित्यस्य चतुर्मुखधामान्तमित्येवार्थः। एवमधऊर्ध्वशब्दाभ्यां ब्रह्मादिस्थावरान्तचराचरसर्वप्राणिसङ्ग्रहः कृतः। अमूनि हि चराचरजन्तुजालानि कर्मानुसारेण शास्त्रानुसारेण च ज्ञानकर्मफलानीत्याह—यथाकर्मेति। ज्ञानमुपासनादिकम्, न तु तत्त्वज्ञानम् , मोक्षस्यैव तत्प्राप्यत्वात्। कर्म यज्ञादिकं फलाभिसन्धिपूर्वकं, तद्रहितं च। फलाभिसन्धिरहितकर्मकृदपि तत्त्वविदां कुलेषु जायते इत्युक्तत्वात्। तयोः फलानि तत्प्राप्याणीत्यर्थः। ‘देवान् देवयजो यान्ती’त्यादिना देवयजनादीनां देवत्वादिप्राप्तिहेतुत्वस्योक्तत्वादिति भावः। इमानि भूतानि संसारवृक्षस्य शाखास्थानीयानीत्याह— तस्येति। प्रगता व्याप्ता इति यावत्। स्थूलीकृताः स्थौल्यं प्रापिताः। यथा प्रवालाः पल्लवाः शाखाशालाशिफाजटाभ्योऽङ्कुरीभवन्ति तथा कर्मफलेभ्यश्चराचरेभ्यो देहेभ्यः शब्दादयो जायन्त इति विषयेषु प्रवालत्वारोपणमित्याह — विषया इत्यादिना। देहादीत्यादिपदादिन्द्रियादिग्रहणम्। गुणप्रवृद्धाः विषयप्रवालाश्च मनुष्यादिस्थावरान्ताः ब्रह्मादिमनुष्यान्ताश्च सर्वे भूतसङ्घाः शाखा इव संसारवृक्षस्याधश्चोर्ध्वं च प्रसृता भवन्तीत्यर्थः। एतेन तन्त्रादिनाऽधःशब्दस्योर्ध्वशब्दस्य च भूतपरत्वे[त्वेन] भूताश्रयदेशपरत्वेन च द्वेधा व्याख्यानं कृतमिति सिद्धम्। यद्वा शाखारूपविषयनिर्देशेन ब्रह्मादिस्थावरान्तसर्वप्राणिनिकायरूपविषयो लक्ष्यते। ततश्च वृक्षतुल्यस्यास्य संसारस्य प्रवाल- तुल्यविषयोपलक्षिताः, जलादितुल्यगुणप्रवृद्धाश्च शाखातुल्याः सर्वभूतसङ्घा अधश्चोर्ध्वं च प्रसृता भवन्तीत्यर्थः। मनुष्यादिस्थावरान्त- अवयवसम्बन्धिनी अपरा प्रागुक्तादतिरिक्ता कल्पनेति यावत्। आ मनुष्यलोकाद् आ विरिञ्चे[३आऽवीचे]रित्यधःशब्दार्थमाह— मनुष्यादिभ्य इति। तस्मादेवारभ्य आ सत्यलोकादित्यूर्ध्वशब्दार्थमाह— यावदिति। शाखाशब्दार्थं दर्शयति— ज्ञानेति। तेषां हेत्वनु- गुणत्वेन बहुविधत्वं सूचयति— यथेति। प्रत्यक्षाणां शब्दादिविषयाणां प्रवालत्वं शाखासु पल्लवत्वम्। अङ्कुरत्वं स्फोरयति— देहादीति। ऊर्ध्वमूलमित्यत्र संसारवृक्षस्य मूलमुक्तम् , किमिदानीम् अधश्च मूलानीत्युच्यते? तत्राह— संसारेति। अनुप्रविष्टत्वं सर्वेषु

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके॥२॥

१. ‘यावद् ब्रह्मणो विश्वसृजो धाम’ इति पा.। २. ‘परं मूलम्’ इति पा.। ३. अवीचिः नरकविशेषः। अयमेव पाठो युक्तः, विरिञ्चिपदवाच्यस्य ब्रह्मणः ऊर्ध्वशब्देन ग्राह्यत्वाद्, अधःशब्देन ग्रहणायोगात् । ४. ‘अपरावयवकल्पना’ इत्यत्र अपरेति अवयवविशेषणत्वभ्रमनिरासाय पदच्छेदो दर्शितः।

[[७७५]]

उपादानकारणं पूर्वमुक्तम्। अथेदानीं कर्मफलजनितरागद्वेषादिवासनाः मूलानीव धर्माधर्मप्रवृत्तिकारणानि अवान्तर- भावीनि, तानि अधश्च देवाद्यपेक्षया, मूलानि अनुसन्ततानि अनुप्रविष्टानि कर्मानुबन्धीनि कर्म धर्माधर्मलक्षणम् अनुबन्धः पश्चाद्भावी येषामुद्भूतिमनु उद्भवति तानि कर्मानुबन्धीनि, मनुष्यलोके विशेषतः। अत्र हि मनुष्याणां कर्माधिकारः प्रसिद्धः॥२॥

जन्तुसन्ततिर्यत्रास्ति सोऽधःशब्दार्थः। ब्रह्मादिमनुष्यान्तजन्तुसन्ततिर्यत्रास्ति स ऊर्ध्वशब्दार्थः। मनुष्यादीति तद्गुणसंविज्ञान- बहुव्रीहिः। मनुष्यान्तेति त्वतद्गुणसंविज्ञानबहुव्रीहिः। स्वविवरभूतपाताललोकसहिता पृथिवी अधःशब्दार्थः। सत्यादिलोकसहितः स्वर्गलोक ऊर्ध्वशब्दार्थ इति यावत्। एवं चाधो मर्त्यलोकपाताललोकयोरूर्ध्वं स्वर्गलोके च ये प्राणिनो ब्रह्मादिस्तम्बान्तास्ते संसार- वृक्षस्याधोभागोर्ध्वभागद्वयव्यापिन्यः शाखा इत्युच्यत इति परमार्थः। ननु कोऽयं संसारः? यस्य प्राणिनः शाखाः। न तावत् प्रपञ्चः, तस्य लोकानामेव शाखात्वेन भवितव्यत्वात्। लोकमयो हि प्रपञ्चः, प्राणिनस्तु पक्षिप्राया एव। नापि देहः, तस्य सर्वभूतशाखावत्त्वासम्भवात्। नापि सुखदुःखादिसम्भोगः, तस्य प्राण्याश्रयकत्वेन प्राणिमत्त्वासम्भवादिति चेत् , उच्यते— जन्ममरणादिलक्षणः सुखदुःखादिसम्भोग एव संसारः। सर्वेऽपि संसारिणः प्राणिनोऽमुमेव संसारमाश्रयन्त इति प्राणिनामाश्रय एव संसारः, शाखानां वृक्ष इव। प्राणिनां संसारस्य चेतरेतराश्रयाश्रयिभावात् प्राणिन आश्रित्य वर्तमानोऽपि संसारः प्राणिनामाश्रयो भवति, यथा भर्तृभार्ये परस्परम्। यद्वा अविद्यामयोऽयं संसारः, अविद्यायाश्च सर्वप्राण्याश्रयत्वात् संसारस्य च तथात्वमिति। अथवा प्रपञ्च एवेह संसारः। स हि यथा लोकमयस्तथा भूतमयश्च। तथा च लोका इव लोकस्थप्राणिनोऽपि तस्य शाखा इव भवन्तीति। यद्वा सर्वे प्राणिनः स्वाश्रयलोकद्वारेण संसारवृक्षस्य शाखा इव भवन्तीति। यद्वा प्रपञ्चो वृक्षो लोकाः शाखा याः स्कन्धादुपरि प्रादुर्भूताः स्थूलाः, ये तु शाखासूद्भूताः शालाशिफाजटाशब्दैरुच्यमानाः सूक्ष्मसूक्ष्मतरसूक्ष्मतमवृक्षावयवाः तत्स्थानीयास्तु प्राणिन इति। परं प्रधानमित्यर्थः। पूर्वमिति। ऊर्ध्वमूलमित्यनेनेत्यर्थः। धर्माधर्मयोर्यज्ञादिहिंसादिविहितनिषिद्धकर्मणोः प्रवृत्तौ प्रवर्तने कारणानि पुंसामिति भावः। अवान्तरभावीनीति। अप्रधानानीत्यर्थः। अवान्तरे मध्ये भवन्तीत्यवान्तरभावीनि। अधश्चेति। मनुष्यलोक इत्यस्य विशेषणम्। कथमस्याधस्त्वम्? अत आह— देवाद्यपेक्षयेति। स्वर्गाद्यपेक्षयेत्यर्थः। कर्मेत्यनुबन्धः कर्मानुबन्धः, स एषामस्तीति कर्मानुबन्धीनि। रागद्वेषादिवासनाप्रयुक्तत्वात् कर्मणः क्रियमाणस्य वासनापेक्षया पश्चाद्भावित्वमिति भावः। येषां रागद्वेषादिसंस्काराणाम् उद्भूतिम् उत्पत्तिम् अनुसृत्योद्भवति, कर्मेति शेषः। तानि कर्मानुबन्धीनीत्युच्यन्ते। मनुष्यलोके भूलोके। ननु पशुलोक इत्युक्तेऽपि भूलोक एव सिध्यति, किमिति मनुष्यशब्दोपादानम्? अत आह— विशेषत इति। अत्र हि भूलोके मनुष्याणां विशेषतः कर्माधिकारः प्रसिद्धः। विशेषत इत्यनेन पश्वादीनामपि सामान्यतो मैथुनादिकर्माधिकारोऽस्तीति सूच्यते। अथवा मनुष्यलोको मनुष्यसमूहः। किमिति मूलानि मनुष्यसमूहेऽनुसन्ततानीत्यत आह— विशेषत इति। अत्र प्रपञ्च इत्यर्थः। विशेषत इत्यनेन देवादीनां क्वाचित्कः कर्माधिकार इति सूच्यते। मनुष्येषु वर्तमानास्तत्तत्कर्मानुमेयाः जन्मान्तरकृतकर्मप्रयुक्ता रागद्वेषादि- वासनाः संसारवृक्षस्यावान्तरमूलानि। मनुष्याणामधःस्थत्वादिमानि मूलानि चाधश्चेत्युक्तानि। वृक्षस्यापि ह्यवान्तरमूलान्यधोव्यापीनि सन्ति। अज्ञानमूलकः पूर्वपूर्वकर्मवासनाभिरभिवर्धितश्च जन्ममरणादिप्रयुक्तसुखदुःखसम्भोगात्मकः प्राणिनां संसार इति श्लोकद्वयस्य फलितार्थः। भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या लिङ्गेष्वनुगततया सन्ततत्वम् अविच्छिन्नत्वम्। रागादीनां कर्मफलजन्यत्वं प्रकटयति— कर्मेति। कर्मणां रागादीनां मिथो हेतु- हेतुमत्त्वम्। तेषां तथात्वेनानवच्छिन्नतया प्रवृत्तिर्विशेषतो मनुष्यलोके भवतीत्यत्र हेतुमाह— अत्र हीति। कर्मव्युत्पत्त्या प्राणिनिकायो लोकः। मनुष्यश्चासौ लोकश्चेत्यधिकृतो ब्राह्मण्यादिविशिष्टो देहो मनुष्यलोकः॥२॥

[[अ. १५. श्लो. २]] [[७७६]]

रामानुजस्तु - अधःशाखमिति पूर्वश्लोकपदस्य यमर्थमाह ‘मनुष्यपश्वादयः शाखाः’ इति, तमेवार्थमत्राप्याहेति पुनरुक्ति- स्तन्मते। न च शङ्करमते पूर्वापरविरोधः, संसारवृक्षस्य महदादयः शाखाः इति पूर्वमुक्त्वा, मनुष्यादयः शाखाः इत्यधुनोक्तत्वादिति वाच्यम् ; महदादयस्तत्सङ्घातात्मकमनुष्यादयश्चास्य शाखाः इत्यदोषात्॥२॥

नेति। अस्य रूपमिह यथावर्णितमिति शेषः, तथा नोपलभ्यते। अस्यान्तो नास्ति, आदिर्नास्ति, सम्प्रतिष्ठा च नास्ति। सुविरूढमूलमेनमश्वत्थं दृढेनासङ्गशस्त्रेण छित्त्वा ततो यस्मिन् गताः भूयो न निवर्तन्ति, तत् पदं परिमार्गितव्यम्। नोपलभ्यत इति। संसारस्य रूपं न दृश्यत इत्यर्थः। विद्यावस्थायामिति भावः। अविद्यावस्थायामस्य सर्वैर्दृश्यमानत्वेनादृश्यमानत्वोक्तेर्विरुद्धत्वात्। यद्वा अस्य रूपं यथा सत्यमिवोपवर्णितम् , तथा सत्यतया नोपलभ्यते, किन्तु मिथ्यात्वेनैव दृश्यते। किमिवोपलभ्यते? अत आह— स्वप्नेति। यद्वा विद्यावस्थायां कुतो नोपलभ्यते? अत आह— स्वप्नेति। स्वप्नस्थरथादयः स्वप्नपदार्थाः। माया ऐन्द्रजालिकेन दर्शितो विग्रहादिः। कुतः संसारस्य स्वप्नादिसाम्यम्? अत आह— दृष्टेति। हि यस्मात् स संसारो दृष्टनष्टस्वरूपो यदा दृष्टं तदैव नष्टम् , पूर्वं दृष्टं पश्चान्नष्टं वा दृष्टनष्टं स्वरूपं यस्य स तथोक्तः। प्रतिभानसमयनियतसत्ताकः इत्यर्थः। स्वप्नादयश्च तादृशा एवेति स्वप्नादिसाम्यं संसारस्येति भावः। अत एव मिथ्यात्वादेवेत्यर्थः। व्यावहारिकसत्यस्य वस्तुनः स्वरूपं हि परिनिष्ठितं घटः सर्वथा सर्वदा च घट एव, न तु पट इति। प्रातिभासिकस्तु सर्पाभासादिः कदाचित् सर्पत्वेन दृश्यते, कदाचिद् दण्डत्वेन, कदाचिद् रज्जुत्वेनेति न तस्य परिनिष्ठितं स्वरूपमस्ति। तथा घटस्य मुद्गरप्रहारादिना समाप्तिरस्ति, सर्पाभासस्य तु न समाप्तिः। तदानीं रज्जुज्ञानेन समाप्तावपि पुनर्मन्दान्धकारे सा रज्जुः क्षिप्तोरगी भवेदेव। तथा व्यावहारिकस्य घटस्यादिरस्ति, अयं घटः इदानीं कुलालेन कृतः इति दर्शनात्। स्वाप्निकस्य तु नादिरुपलभ्यते। तथा व्यावहारिकस्य मध्यः उपलभ्यते, प्रातिभासिकस्य तु न, आद्यन्तज्ञानप्रयुक्तत्वान्मध्यज्ञानस्य। एवं प्रातिभासिकस्य आद्यन्तमध्यानामनुपलम्भेनाभावे सिद्धे , संसारस्यापि स सिध्यति प्रातिभासिकत्वात्। अयं संसारोऽनुप- लभ्यमानादिमध्यान्तः, प्रातिभासिकत्वात् , स्वप्नपदार्थवदिति प्रयोगः। संसारः प्रातिभासिकः, दृष्टनष्टस्वरूपत्वात् , स्वप्नादिवदिति च। न च व्यावहारिकसंसारस्य कथं प्रातिभासिकत्वमिति वाच्यम् ; व्यवहारप्रतीत्योरविशेषात्। प्रातिभासिकत्वादेव हि संसारस्य सुषुप्तौ प्रतिभासाभावादभावः। न चैवं सर्पाभासवत् सर्वस्यापि प्रातिभासिकत्वे भ्रमप्रमाविवेकानुपपत्तिरिति वाच्यम् ; सिद्धान्ते सर्वस्यापि भ्रमत्वात्। अज्ञदृष्ट्या तु कल्पितः प्रातिभासिकव्यावहारिकभेदः, तत्त्वविद्दृष्ट्या तु ब्रह्मणोऽन्यस्य सर्वस्यापि कल्पितत्वेन प्रातिभासि- कत्वमेवेति न कश्चिद् दोषः। ननु अयं देहः इदानीं जातः, इदानीं वर्धते, इदानीं मृतः इति देहस्याद्यन्तमध्योपलम्भात् कथं प्रातिभासिकत्वमिति चेत्? उच्यते— संसारस्य वयमादिमध्यान्तानुपलम्भं ब्रूमः, न तु देहस्य। पूर्वपूर्वकर्मवशादुत्तरोत्तरदेहजन्ममरणलक्षणः संसारो ह्यनादि- पुनःपुना रागादिना प्रवृत्तत्वेनानादित्वान्न संसारवृक्षः स्वयमुच्छिद्यते, न चोच्छेत्तुं शक् यते केनापीत्याशङ्क् याह— यस्त्विति। यथा पूर्वं वर्णितम् , यथा च लोके प्रसिद्धम् , तथाऽस्य रूपमिह शास्त्रादनुमीयते; तथा चास्य ज्ञानापनोद्यत्वं युक्तमित्याह— यथेति। तस्याप्रमितत्वे हेतुमाह— स्वप्नेति। तस्य स्वप्नादिसमत्वे दृष्टनष्टस्वरूपत्वं हेतुं करोति—दृष्टेति। इत्यमेयतेति शेषः। तमेवामेयत्वं हेतुं कृत्वाऽवसानमपि तस्य न भातीत्याह—अत एवेति। ज्ञानं विना भ्रान्तिवासनाकर्मणामन्योन्यनिमित्तत्वात् नावसानमस्तीत्यर्थः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यस्त्वयं वर्णितः संसारवृक्षः— न रूपमिति। न रूपमस्य इह यथोपवर्णितं तथा नैवोपलभ्यते, स्वप्नमरीच्यु- दकमायागन्धर्वनगरसमत्वात्। दृष्टनष्टस्वरूपो हि स इति। अत एव नान्तो न पर्यन्तो निष्ठा परिसमाप्तिर्वा विद्यते। न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ॥३॥

[[७७७]]

तथा न च आदिः इत आरभ्यायं प्रवृत्तः इति न केनचिदवगम्यते। न च सम्प्रतिष्ठा स्थितिः मध्यम् अस्य न केनचिदुपलभ्यते। अश्वत्थमेनं यथोक्तं सुविरूढमूलं सुष्ठु विरूढानि विरोहं गतानि सुदृढानि मूलानि यस्य तमेनं सुविरूढमूलम् असङ्गशस्त्रेण - असङ्गः १पुत्रवित्तलोकैषणाभ्यो व्युत्थानम् , तेनासङ्गशस्त्रेण दृढेन परमात्माभिमुख्य- निश्चयदृढीकृतेन पुनःपुनर्विवेकाभ्यासाश्मनिशितेन छित्त्वा संसारवृक्षं सबीजमुद्धृत्य२ ॥३॥

रनन्तश्च। अत एवामध्यश्च। न चैवं व्यावहारिकदेहस्य कथं प्रातिभासिकत्वमिति वाच्यम् ; दृष्टनष्टस्वरूपत्वाद् देहस्य प्रातिभासिक- त्वम् , न त्वादिमध्यान्तानुपलम्भात्। न चानन्तस्य संसारस्य कथं देहवद् दृष्टनष्टस्वरूपत्वमिति वाच्यम् ; संसारस्य सुषुप्त्यादौ नाशदर्शनेन तथात्वात्। न च प्रबोधे पुनर्दृश्यत एवेति वाच्यम् ; प्रबोधे दृश्यमानस्य संसारान्तरत्वात्। पूर्वानुभूतसंसारो हि सुषुप्तौ नष्टः। सोऽयं संसारः इति प्रत्यभिज्ञा तु सेयं दीपज्वालेतिवत् साजात्यादिति। नन्वज्ञानमूलोऽयं संसारः कथमनादिः स्यात्? अत आह— इत आरभ्येति। नास्य संसारस्य जन्माभावप्रयुक्तमनादित्वं वयं ब्रूमः, किं तर्ह्यज्ञायमानजन्मकालवत्त्वरूपमनादित्वमेवेति। ननु न केनचिदवगम्यत इत्ययुक्तम् , ईश्वरेण तस्यावगम्यमानत्वाद् , अन्यथा तस्यासर्वज्ञत्वापत्तेरिति चेत् , मैवम् ; किमयमीश्वरश्चिन्मात्रः, उत मायामयः? यं त्वं सर्वज्ञं ब्रूषे, आद्ये, निर्धर्मकस्य न तस्य ज्ञातृत्वधर्मप्रसङ्गः। द्वितीये, सोऽपि कल्पित एव मायया संसारवदिति कथं तस्य मायामयसंसारादिपरिज्ञातृत्वम्?३ न चैवमीश्वरस्य सर्वज्ञत्वभङ्गप्रसङ्गः, यज्ज्ञातुं शक् यते तदपरि- ज्ञानस्यैव सर्वज्ञत्वभङ्गहेतुत्वात्। न च संसारस्रष्टुरीश्वरस्य कथं तदाद्यपरिज्ञातृत्वमिति वाच्यम् ; पूर्वपूर्वं संसारं दृष्ट्वा उत्तरोत्तरं संसारं सृष्टवानीश्वरः इत्यदोषात्। अन्यथा हि विषमसृष्टिप्रयुक्तवैषम्यादिदोषप्रसक्तिः स्यादीश्वरस्य। किञ्च अज्ञानादपि वासनारूपेणाज्ञानेऽवस्थित एव संसारो जायते, नापूर्वः इति कृत्वा कथमज्ञानमूलकत्वमात्रेणेश्वरेण संसारस्यादिर्ज्ञातुं शक् येत? अभावादेवादेः। न ह्यविद्यमानशशशृङ्गापरिज्ञानमात्रेणेश्वरस्य सर्वज्ञत्वहानिः। एतत्संसारस्य हेतुस्तु न केवलमविद्या, किन्तु चिदविद्यासंयोगः। उक्तं हि क्षेत्रक्षेत्रज्ञसंयोगः संसारस्य कारणमिति। स च संयोगोऽनादिरिति तत्प्रयुक्तः संसारोऽप्यनादिरेव। यदैव संयोगस्तदैव हि संसारः प्रवृत्तः। तस्मात् कार्यत्वेऽप्यनादिरेव संसारः। ज्ञाननाश्यत्वादस्यानन्तत्वं तु व्यवहारसापेक्षम् , अथवा अविद्यासापेक्षमिति बोध्यम्। मूलानि रागद्वेषादिवासनाः। रागादिप्रयुक्तो हि संसारः। अथवा अज्ञानप्रयुक्तो रागद्वेषाद्यभिवर्धितश्च संसारः। मित्रशब्देन भार्या गृह्यते। भार्या हि भर्तुर्मित्रमिवेष्टप्रापिका, अनिष्टनिवारिका च। लोकैषणं नाम स्वर्गादिलोकप्राप्त्याशा। तेभ्यो व्युत्थानं नाम तत्परित्यागः। संन्यासः इति यावत्। ‘व्युत्थायाथ भिक्षाचर्यं चरन्ती’ति श्रुतेः। गृहस्थस्य हि पुत्रादिसङ्गो दुष्परिहर इति भावः। परमात्माभिमुख्यं परमात्मानुसन्धानप्रावण्यम् , तस्मिन् यो निश्चयोऽध्यवसायः तेन दृढीकृतेन। पुनःपुनर्विवेकाभ्यासः आत्मानात्म- विवेकस्यासकृदावर्तनम् अहमात्मा इदमनात्मेत्येवंरूपम् , तदेवाश्मा शाणोपलस्तेन निशितेन तीक्ष्णीकृतेन। सबीजं साज्ञानमूलम् ४उद्भिद्य उच्चैर्भित्त्वा। संन्यासाश्रमं स्वीकृत्य वैराग्यशमदमादिभिः रागद्वेषादीनि संसारवृक्षमूलानि छित्त्वा, आत्मानात्मविवेकज्ञानेन संसारवृक्षप्रधानमूलमज्ञानं च छित्त्वेत्यर्थः। इदम्प्रथमत्वमपि नास्य परिच्छेत्तुं शक् यमित्याह— तथेति। आद्यन्तवद् मध्यमपि नास्य प्रामाणिकमित्याह— मध्यमेति। संसारवृक्ष- स्याश्वत्थशब्दितस्य क्षणभङ्गुरस्य स्वयमेवोच्छेदसम्भवात् तदुच्छेदार्थं न प्रयतितव्यमित्याशङ्क् याह— अश्वत्थमिति। व्युत्थानं वैराग्यपूर्वकं पारिव्राज्यम्। दृढीकृतत्वमेव विवेकपूर्वकत्वेन स्फुटयति— पुनःपुनरिति॥३॥

१. ‘पुत्रमित्रवित्तलोकैषणाभ्यो’ इति रा.पा.। २. आत्मतत्त्वज्ञानेन संसारस्य मूलाज्ञानेन सहोच्छेद इह च्छेदनमभिप्रेयते। क्त्वाप्रत्ययस्तु समानकाले व्याख्येयः। ३. एतदुत्तरं टिप्पणीरूपः (संसारस्यादिर्जन्मेत्यर्थः।) इति कुण्डलितः पाठः मुद्रितपुस्तके उपलभ्यते। ४. ‘उद्भिद्य’ इति रा.पा. भाति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १५. श्लो. २-३]] [[७७८]]

तत इति। ततः पश्चाद् यत् पदं वैष्णवं तत् परिमार्गितव्यम् , परिमार्गणम् अन्वेषणम् , ज्ञातव्यमित्यर्थः। यस्मिन् पदे गताः प्रविष्टाः न निवर्तन्ति नावर्तन्ते भूयः पुनः संसाराय। कथं परिमार्गितव्यमित्याह। तमेव च यः पद- यत्तु रामानुजः - अस्य वृक्षस्य चतुर्मुखादित्वेनोर्ध्वमूलत्वं, तत्सन्तानपरम्परया मनुष्याग्रत्वेनाधःशाखत्वं, मनुष्यत्वे कृतैः कर्मभिर्मूलभूतैः पुनरप्यधश्चोर्ध्वं च प्रसृतशाखत्वमिति यथेदं रूपं निर्दिष्टम् , न तथा संसारिभिरुपलभ्यते। मनुष्योऽहं देवदत्तस्य पुत्रो यज्ञदत्तस्य पिता तदनुरूपपरिग्रहश्चेत्येतावन्मात्रमुपलभ्यते। तथाऽस्य वृक्षस्यान्तो विनाशोऽपि गुणमयभोगेष्वसङ्गकृत इति नोपलभ्यते। तथाऽस्य गुणसङ्ग एवादिरिति नोपलभ्यते। तस्य प्रतिष्ठा चानात्मन्यात्माभिमानरूपमज्ञानमिति नोपलभ्यते। प्रतितिष्ठत्यस्मिन्नेवेति ह्यज्ञानमेवास्य प्रतिष्ठेति, तन्मन्दम् ; यदि संसारवृक्षस्य चतुर्मुख आदिः स्यात् , तर्हि स्थावरमेवाग्रं स्यात् , न तु मनुष्यः। तस्य ब्रह्मादिस्थावरान्तप्राणिवर्गमध्यस्थत्वात्। न च स्थावराणां ब्रह्मसन्तानपरम्परान्तःपातित्वं नास्तीति वाच्यम् ; ब्रह्मणः स्रष्टृत्वसङ्कोचस्यान्याय्यत्वात्। सर्वं जगत् सृष्टं हि चतुर्मुखेन प्रजापत्यादिद्वारा। न च मनुष्यत्वकृतकर्मवशादेव पश्वाद्यधःशाखप्रसार इति वाच्यम् ; मनुष्यसृष्टेः प्रागपि पश्वादिसृष्टिसम्भवात्। तथा संसारिभिरस्य रूपं नोपलभ्यते यथोक्तमित्यप्ययुक्तम् ; किमिमे संसारिणो वेदवेदाङ्गाध्ययनसम्पन्ना उत मूर्खाः? आद्ये, तैरेतज्ज्ञायत एव। द्वितीये, किं नास्तिकजनमतस्येह वर्णनेन फलम्? न च वेदवेदाङ्गादिविदो न संसारिण इति वाच्यम् ; यज्ञादिकर्मप्रवृत्त्यादिरूपसंसारस्य तेषु दर्शनात्। न चास्तिकेष्वप्यवेदविदो नैतज्जानन्तीति वाच्यम् ; किं तदपरिज्ञानप्रतिपादनादिह फलम्? तेभ्योऽप्यत्यन्तमूढो बालो ह्यात्मानं मनुष्य इति, देवदत्त इत्यपि च न जानातीति कथमुक्तं मनुष्य इत्यादिकमुपलभ्यत इति? तथा नान्त इत्यस्यान्तो गुणमयभोगासङ्गकृत इति नोपलभ्यत इत्यर्थस्य कथमागमः? न च तथेत्यस्यात्राप्यन्वयात् तदर्थागम इति वाच्यम् ; यथोक्तं तथेति हि तथाशब्दार्थः। रूपं तु पूर्वमुक्तमिति तत्र तथाशब्दान्वयो न्याय्यः। न हीह गुणमयभोगासङ्गादिकं वर्णितं प्राग् येनास्य तथाशब्देन ग्रहणं स्यात्। न च त्रयोदशाध्यायोक्तार्थस्येह ग्रहणं न्याय्यं व्यवहितत्वात्। तत्रापि गुणसङ्गः संसारकारणमित्येवोक्तम् , न त्वसङ्गस्तन्नाशकारणमिति। तत्त्विहैवोच्यते ‘असङ्गशस्त्रेण दृढेन छित्त्वा’ इति। न चादिरित्यत्र तथाशब्दानुवर्तनेऽपि गुणसङ्ग आदिरित्यर्थस्यासिद्धिरेव। गुणसङ्गपदार्थवाचकत्वाभावात् तथाशब्दस्य। तथाशब्दो हि प्रकारवाची गुणसङ्गं न बोधयेत्। गुणसङ्ग इति पदस्याध्याहारस्त्वप्रमाणः। तं विनाऽप्यन्वयसम्भवे तदध्याहारस्या- युक्तत्वाच्च। सम्प्रतिष्ठेत्यत्राप्यज्ञानमेवेति पदकल्पनस्यापि मूलाद् बहिरयुक्तत्वादप्रमाणत्वाच्च। एवम् अन्त इति, आदिरिति, सम्प्रतिष्ठेतीति शब्दत्रयकल्पनमपि गौरवावहत्वादयुक्तमेव। न ह्यन्तो नोपलभ्यत इति लघुवाक् यान्वयं विहाय, गुणमयभोगासङ्ग एवान्तः इति नोपलभ्यत इति गुरुवाक् यान्वयकल्पनं युक्तमिति कोऽपि विद्वान् प्रत्येति। युक्त एवायं रामानुजस्य यथाश्रुतार्थपरित्यागोऽपार्थकल्पनं च विशिष्टाद्वैताख्याश्रौतमताभिमानपिशाचग्रस्तस्येति॥ ३॥

तत इति। पश्चादिति। संसारनाशाच्चित्ते शुद्धे सतीत्यर्थः। संसारो हि चित्तविक्षेपकः। वैष्णवं पदं विष्णोरात्मनः स्वरूपं सच्चि- दानन्दाख्यं परिमार्गितव्यम् अन्वेष्टव्यम्। ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ इति श्रुतेरिति भावः। परिमार्गशब्दार्थमाह— अन्वेषणमिति। ज्ञानमिति यावत्। परिमार्गितव्यस्य फलितार्थमाह— ज्ञातव्यमिति। प्रविष्टा इति। यत्सायुज्यं प्राप्ताः इत्यर्थः। न निवर्तन्तीति परस्मैपदमार्षम्। किमर्थं नावर्तन्ते? अत आह— संसारायेति। संसरणायेत्यर्थः। पुनः संसारं न प्राप्नुवन्तीत्यर्थः। यथा स्वर्गादिपदे प्रविष्टाः पुनरावर्तन्ते न तथेति भावः। आदौ सृष्टेः प्रागपि भवति अस्तीति, आदौ भव आद्यः अनादिरित्यर्थः। पुरुषं उद्धृत्य किं कर्तव्यम्? तदाह—तत इति। पश्चाद् अश्वत्थादूर्ध्वं व्यवस्थितमित्यर्थः। किं तत् पदं यदन्विष्य ज्ञातव्यम्? तदाह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ततः पदं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥

[[७७९]]

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः। द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत्॥५॥

पूर्णमात्मानं प्रपद्ये स एवाहमस्मीति भजे इत्यनुसन्धानवान् सन् विद्वान् पदं परिमार्गयेदित्याह— इत्येवमिति। एवमहं ब्रह्मास्मीति तत्त्वज्ञानात् परमपदप्राप्तिर्भवेद् विदुष इति भावः। यतः पुराणी प्रवृत्तिः प्रसृता, तमेव चाद्यं पुरुषं प्रपद्य इत्यन्वयः। कस्य प्रवृत्तिरत आह— संसारेति। संसाराख्यमायावृक्षस्य प्रवृत्तिः प्रवर्तनं, प्रसृता जातेति यावत्। अनादिरयं संसारवृक्षो यस्मान्मायिनः परमेश्वरात् प्रवृत्तः सोऽयं परमात्मेह पुरुष इत्युक्त इत्यर्थः। प्रपद्येदिति रामानुजीयपाठस्तु पद्यतेः परस्मैपदित्वस्यापाणिनीयत्वादुपेक्ष्यः। यच्चानेन - ‘प्रपद्येयतः’ इति पाठेऽपि प्रपद्य इयत इति छित्वा तमेव चाद्यं पुरुषं प्रपद्य शरणमुपगम्य इयतोऽज्ञाननिवृत्त्यादेः कृत्स्नस्यैतस्य साधनभूता प्रवृत्तिः पुराणी पुरातनी प्रसृता, पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी। पुरातना हि मुमुक्षवो मामेव शरणमुपगम्य निर्मुक्तबन्धाः सञ्जाता इत्यर्थः इत्युक्तम् , तच्चासत्। या प्रसृता सा न शरणं प्रपन्ना, किन्तु पुरातना मुमुक्षव एवेति समानकर्तृकत्वाभावेन प्रपद्येति ल्यपोऽनुपपत्तेः। पुराणानामियं प्रवृत्तिः पौराणीति ‘तस्येदम्’ इत्यणि ‘टिढ्ढाणे’ति ङीपा भाव्यत्वेन पुराणीति रूपासिद्धेः। इयतः प्रवृत्तिरित्यस्य इयतः साधनभूता प्रवृत्तिरिति कल्पनं चान्याय्यम् , इयतः इत्यस्याज्ञाननिवृत्त्याद्यर्थश्च स्वकपोलकल्पितत्वादुपेक्ष्यः। न हि इयच्छब्दादभिधया तादृगर्थलाभः सम्भवति। न च शङ्करमतेऽपि प्रपद्य इत्युत्तमपुरुषस्य वाक् यानन्वय इति वाच्यम् ; तं प्रपद्ये इति तत् पदं परिमार्गितव्यमिति वाक् यान्वयलाभात्। यतः पुराणी प्रवृत्तिः प्रसृता तमेव चाद्यं पुरुषं प्रपद्य इति, यस्मिन् गताः भूयो न निवर्तन्ति, तत् पदं ततः परिमार्गितव्यमिति श्लोकस्यान्वयः पर्यवसन्नः॥४॥

निर्मानेति। निर्मानमोहाः जितसङ्गदोषाः अध्यात्मनित्याः विनिवृत्तकामाः अमूढाः यतयः इति शेषः। सुखदुःखसंज्ञैर्द्वन्द्वै- र्विमुक्ताः सन्तः तदव्ययं पदं गच्छन्ति। मानोऽहंममाभिमानः। मोहोऽज्ञानम्। मूढोऽविवेकी तद्भिन्ना अमूढाः विवेकिनः इत्यर्थः। निर्लेपेन निःशेषेणेत्यर्थः। गृहिणां दारापत्यादिसङ्गस्यावर्जनीयत्वादुक्तम्— यतय इति। अध्यात्ममात्मनि नित्याः आसक्ताः, आत्मन्यासक्तिः नामात्मस्वरूपालोचनासक्तिरित्यभिप्रेत्याह— परमात्मेति। इदं मे स्यादिदं मे स्यादितीच्छाः कामाः। प्रियमिष्टं सुखसंज्ञं सुखे तद्धेतौ च सर्वेषामिच्छाऽस्ति हि। अप्रियमनिष्टं दुःखसंज्ञं दुःखे तद्धेतौ च सर्वेषामकामोऽस्ति हि। आदिपदात् स्तुतिनिन्दादिद्वन्द्वग्रहणम्। यद्यपि शीतोष्णमानावमानादयः सर्वे द्वन्द्वपदार्थाः प्रियाप्रियद्वन्द्वेऽन्तर्भूतास्तथापि तद्विशेषसङ्ग्रहायादि- यस्मिन्निति। २येन सर्वं पूर्णं तम् , पूर्षु वा शयानं पुरुषं प्रपद्ये शरणं गतोऽस्मीत्यर्थः। विवर्तवादानुरोधिनं दृष्टान्तमाह— ऐन्द्रेति॥४॥

परिमार्गणपूर्वकं वैष्णवं पदं गच्छतामङ्गान्तराण्याकाङ्क्षापूर्वकं कथयति— कथमित्यादिना। मानोऽहङ्कारः, मोहस्त्वविवेकः। जितसङ्गदोषाः शत्रुमित्रसन्निधावपि द्वेषप्रीतिवर्जिता इत्यर्थः। तत्परत्वं श्रवणादिनिष्ठत्वम्। संन्यासिनो वैराग्यद्वारा त्यक्तसर्वकर्माणः

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

शब्देनोक्तः, आद्यम् आदौ भवमाद्यं पुरुषं प्रपद्य १इत्येवं परिमार्गितव्यं तच्छरणतयेत्यर्थः। कोऽसौ पुरुषः इत्युच्यते यतो यस्मात् पुरुषात् संसारमायावृक्षप्रवृत्तिः प्रसृता निःसृता, ऐन्द्रजालिकादिव माया, पुराणी चिरन्तनी॥४॥

कथम्भूतास्तत्पदं गच्छन्तीत्युच्यते—निर्मानेति। निर्मानमोहाः मानश्च मोहश्च मानमोहौ, तौ निर्गतौ येभ्यस्ते निर्मानमोहाः, मानमोहवर्जिताः, जितसङ्गदोषाः सङ्ग एव दोषः सङ्गदोषः, जितः सङ्गदोषो यैस्ते जितसङ्गदोषाः, अध्यात्मनित्याः परमात्मस्वरूपालोचननित्यास्तत्पराः, विनिवृत्तकामाः विशेषतो निर्लेपेन निवृत्ताः कामाः येषां ते अ. १५. श्लो. ४-५ ] १. इत्येवं तच्छरणतया परिमार्गितव्यमित्यर्थः- इत्यन्वयः। एतेन— तमेव प्रपद्य इत्येवं परिमार्गितव्यमिति संबन्धोऽयुक्तः, तस्य परिमार्गणत्वाभावादिति दूषणं निरस्तम्। २. पुरुषशब्दस्य व्युत्पत्तिद्वयम्—येनेत्यादि।

[[७८०]]

विनिवृत्तकामाः यतयः संन्यासिनो द्वन्द्वैः प्रियाप्रियादिभिः विमुक्ताः सुखदुःखसंज्ञैः परित्यक्ताः गच्छन्ति अमूढाः मोहवर्जिताः पदमव्ययं तद् यथोक्तम्॥५॥

तदेव पदं पुनर्विशिष्यते— नेति। तद् धामेति व्यवहितेन धाम्ना सम्बन्धः। तद् धाम तेजोरूपं पदं न भासयते सूर्यः आदित्यः सर्वावभासनशक्तिमत्त्वेऽपि सति। तथा न शशाङ्कः चन्द्रः, न पावकः नाग्निरपि। यद् धाम वैष्णवं पदं गत्वा प्राप्य न निवर्तन्ते, यच्च सूर्यादिर्न भासयते, तद् धाम पदं परमं मम विष्णोः॥६॥

पदनिर्देशः कृतः इति बोध्यम्। ‘न ह वै स शरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ इति श्रुतेः अशरीरत्वं प्राप्नुवन्तीत्यर्थः। पद्यते गम्यत इति पदं स्वरूपम् , ब्रह्मेति यावत्॥५॥

नेति। तत् सूर्यो न भासयते, शशाङ्को न भासयते, पावको न भासयते, यद् गत्वा न निवर्तन्ते तद् धाम मम परमं, पदमिति शेषः। यद्वा यद् गत्वा न निवर्तन्ते तद् धाम मम परमं पदम् , तद् धाम सूर्यो न भासयते, शशाङ्को न भासयते, पावको न भासयते। तेजो ज्ञानम् , न त्वालोकः, तस्य दृश्यत्वेनानात्मत्वात्। आत्मा हि द्रष्टा। ननु घटः पटं न भासयत इतिवत् सूर्यस्तन्न भासयत इत्यनेन धाम्नः क उत्कर्षो लब्धः? अत आह— सर्वेति। अह्नि यः सर्वं जगदवभासयितुमीष्टे, स सूर्योऽपि तन्नावभासयत इत्यर्थः। तथा निशि यः सर्वावभासकश्चन्द्रः, सोऽपि तन्नावभासयते। यश्च सन्ध्ययोः सर्वावभासकोऽग्निर्यश्चान्तर्गृहे सर्वावभासको दीपादिः, स चाग्निर्न तद् भासयितुमीष्टे। आत्मभास्या हि ते कथमात्मानं भासयेरन्? ‘अयं सूर्यः, अयमिन्दुः, अयमग्निः, अयं दीपः’ इति क्षेत्रज्ञ एव सूर्यादीन् जानातीति सूर्यादीनामवभासकः। सूर्यादयस्तु जडा एव, ते हि स्वात्मानमेव न विदुः ‘अहं रविः, अहं दीपः’ इत्येवम् , किं पुनरन्यान् अवभासयेरन्? न च सूर्यादयश्चेतना एवेति वाच्यम् ; यः सूर्यादिमण्डलान्तर्वर्ती पुरुषो, देहवर्ती पुरुष इव, स एक एव चेतनो द्रष्टा क्षेत्रज्ञश्च। तदतिरिक्तं मण्डलं तु देहवज्जडमेवेति। नन्वेवं जडस्य सूर्यादेः कथं सर्वावभासनशक्तत्वमिति चेद् , उच्यते— देहान्तर्वर्ती प्रत्यगात्मा यथा बाह्यघटाद्यवभासने चक्षुर्वृत्त्यादिकमपेक्षते, तथा सूर्यादिज्योतिरप्यपेक्षत एव। अज्ञानेनेवान्धकारेणापि घटादेरावृतत्वात्। अज्ञाननिरसनाय चक्षुर्वृत्तिः, अन्धकारनिरसनाय सूर्यादितेजश्च क्षमत इति। यद्वा अज्ञानेनावृतो घटः पुनरन्धकारेणाप्यावृतः। पटेन वेष्टितं वस्तु पेटिकयेव। तस्य चान्धकारस्यापगमनाभावे चक्षुर्वृत्ते- र्घटाज्ञानसम्बन्धो न स्यात्। न हि बाध्यबाधकयोः सम्बन्धं विना बाधकेन बाध्यं नाश्येत। तस्माच्चक्षुर्वृत्तिरेव सूर्यादिज्योतिरपेक्षते; क्षेत्रज्ञस्तु वृत्तिमपेक्षत इति। तथा चान्धकारनाशकत्वलक्षणं सर्वावभासकत्वं सूर्यस्य, अज्ञाननाशकत्वलक्षणं भासकत्वं चक्षुर्वृत्तेश्चा- स्तीति सूर्यादिरप्यवभासक एव, वृत्तिवत्। न चैवमन्धकारे सूर्यादितेजसा नाशिते, अज्ञाने वृत्त्या नाशिते च, घटः स्वयमेव स्फुरेदिति किं क्षेत्रज्ञेनेति वाच्यम् ; जडत्वाद् इत्यर्थः। २आदिशब्देन तद्धेतुग्रहः। मोहवर्जितत्वम् उक्तहेतुतः सञ्जातसम्यग्धीत्वम्॥५॥

तच्चेत् पदं वेद्यं, कर्तुरन्यत् कर्मेति३ द्वैतापातः, अवेद्यं चेद् अपुमर्थत्वात् प्रेप्सितत्वासिद्धिरित्याशङ्क् याह४— तदेवेति॥६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१न तद् भासयते सूर्यो न शशाङ्को न पावकः। यद् गत्वा न निवर्तन्ते तद् धाम परमं मम॥६॥

१. ‘न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः’ इति श्रुत्यर्थोऽत्रानुसंधेयः। अत्र श्लोके सूर्यचन्द्राग्नीनां भासकत्वनिषेधस्य तद्देवताकानां चक्षुर्मनोवाचामविषयत्वबोधने तात्पर्यमिति नीलकण्ठीयव्याख्याने उक्तम्। २. भाष्ये ‘प्रियाप्रियादिभिः’ इत्यत्र आदिपदेनेत्यर्थः। ३. वेदितुः अन्यत्वं वेद्यस्य पदस्य स्यादित्यर्थः। ४. वेदितुरात्मत्वेन स्वप्रकाशत्वेन चोक्तशङ्कानिरासो बोध्यः।

[[७८१]]

यद् गत्वा न निवर्तन्त इत्युक्तम्। ननु सर्वा हि गतिरागत्यन्ता, ‘संयोगा विप्रयोगान्ताः’ (म.भा. ११.२.३) इति हि प्रसिद्धम् , कथमुच्यते तद्धाम गतानां नास्ति निवृत्तिरिति? शृणु तत्र कारणम्— ममैवेति। ममैव परमात्मनो नारायणस्य अंशो भागोऽवयवः एकदेशः इत्यनर्थान्तरम्। जीवलोके जीवानां लोके संसारे जीवभूतः कर्ता भोक्ता घटस्य। न हि स्फुरणं स्वयं सम्भवति तस्य। न हि ‘घटोऽह’मिति घटः आत्मानं वेत्ति, नापि ‘पटोऽय’मिति पटं वा वेत्ति। तस्माद् ‘अयं घटः’ इति घटे ज्ञातत्वरूपं भास्यत्वं जीवप्रयुक्तमेवेति जीव एव भासकः। न हि वृत्तिरपि ‘अयं घट’ इति जानाति जडत्वात् तस्याश्च। तस्माद् घटादिभासने करणभूतं चक्षुरपि सूर्योऽपि ‘इदं चक्षुः, अयं सूर्यः’ इति जीवेन ज्ञायेतैवेति सर्वावभासकत्वं जीवस्य सिद्धं सर्वज्ञातृत्वलक्षणम् , न त्वन्धकारनिरसनरूपम् , नाप्यज्ञाननिरसनरूपमिति बोध्यम्। न चैवं जीवस्य सर्वावभासकत्वे विवदितव्यम् , ‘साक्षी चेते’ति श्रुत्यैव साक्षित्वलक्षणसर्वावभासकत्वस्योक्तत्वात्। न च जीवो घटादिमिवात्मानमपि वृत्त्यादिसापेक्षः सन्नेव भासयतीति पराधीनप्रकाश एवेति भास्य एवेति वाच्यम् ; अन्धकारे स्वप्ने सुषुप्त्यादौ च सूर्यादिज्योतिरभावेऽपि वृत्त्यभावेऽपि जीवस्य स्वत एव भासमानत्वात्। अत एव हि स्वयञ्ज्योतिरित्युच्यत आत्मा। तस्मात् सूर्यादयः सर्वेऽपि भासकत्वेन प्रसिद्धाः आत्मभास्या एवेति न तं भासयितुं सूर्यादिः कोऽपि शक्नोति। पदस्य पूर्वश्लोके प्रकृतत्वादुक्तम्— पदमिति। यत् सर्वावभासकमनन्यावभास्यं च तेजस्तदेव मम पदम् , तदेव गत्वा न पुनरावर्तन्ते मुक्ता इति परमार्थः। यत्तु रामानुजः - तद् धामात्मज्योतिर्मम मदीयं ममैवांश इत्यर्थः इति, तन्मन्दम् ; अंशांशिभावस्यात्राविवक्षितत्वात्। उत्तर- श्लोकेन तस्य वक्ष्यमाणत्वाच्च॥६॥

ममेति। ननु ‘सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्॥’ इति संयोगस्य वियोगान्तत्वप्रसिद्धेः सर्वाऽपि गतिरागत्यन्तैवेति कृत्वा, ‘यद् गत्वा न निवर्तन्ते’ इत्युक्तमयुक्तमित्याक्षिपति— नन्विति। गतिः प्राप्तिः संयोगः, आगतिरागमनं वियोगः। येन यद् गम्यते, तेन ततः आगम्यते। यथा कर्मिणा स्वर्गो गम्यते तत आगम्यते च। तथा मुमुक्षुणा यद् धाम गम्यते, तद्धाम्नः पुनः स आगच्छत्येव। ननु ग्रामान्तरं गतः कश्चित् पुनः स्वग्रामं प्रत्यागच्छति, कश्चित् तत्रैव तिष्ठतीति कथमुच्यते आगच्छत्येवेति चेत्? मैवम् ; यावज्जीवं तत्र स्थित्वाऽपि मरणानन्तरं तत् परित्यज्यान्यत्र गच्छत्येवेति। न हि वयं यस्माद् गतः, तत् पुनः प्राप्नोतीति ब्रूमः, किं तर्हि? यं गतः, तं परित्यज्यागच्छतीत्येव ब्रूमः। येन तद् गम्यते तेन तत् त्यज्यत इत्येव व्याप्तिनियम इति भावः। निवृत्तिः पुनरावृत्तिः। तद्धामपरित्याग इति यावत्। जीवलोके प्रसिद्ध इति शेषः। सनातनो जीवभूतो ममैवांशः प्रकृतिस्थानि मनःषष्ठानीन्द्रियाणि कर्षति। यद्वा सनातनो ममैवांशो जीवलोके जीवभूतः, स इति शेषः; प्रकृतिस्थानि मनःषष्ठानीन्द्रियाणि कर्षति। अनर्थान्तरमिति। अंशभागावयवैकदेशाख्यं पदचतुष्टयमर्थान्तररहितमेकस्मिन्नेवार्थे वर्तते। अभिन्नार्थकमिति यावत्। पर्यायपदानि चत्वारीति भावः। यद्वा अर्थान्तरं तत्त्वान्तरं न भवति। अहं परमात्मैव जीवः, न तु मदर्थान्तरं जीवः, मदंशत्वाज्जीवस्य। कोऽसा- वंशः? अत आह— भाग इति। तदर्थमाह— अवयव इति। तस्यापि फलितमाह— एकदेश इति। यथा जलस्य तटाकगतस्यांशः एकदेशो जलादर्थान्तरं [न], तद्वज्जीवोऽपीति भावः। यद्वा ममैवांशः इत्यत्रैवकारार्थमाह— अर्थान्तरमिति। ममैवांशो, न त्वर्थान्तरं उक्तमनूद्याक्षिपति— यद्गत्वेति। तत्र प्रसिद्धिं प्रमाणयति— संयोगा इति। गमनस्यागमनान्तत्वप्रसिद्धेरयुक्तं यद्गत्वेत्यादीत्युप- संहरति— कथमिति। आक्षेपं परिहरति— शृण्विति। भगवत्प्राप्तेर्निवृत्त्यन्तत्वाभावः सप्तम्यर्थः। जीवस्य परांशत्वेऽपि कथमुक्तदोष-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ममैवांशो जीवलोके जीवभूतः सनातनः। मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति॥७॥

[[अ. १५. श्लो. ५-७]] [[७८२]]

मत्तः इत्यर्थः। जीवेन लोक् यते दृश्यत इति जीवलोकः इति व्युत्पत्त्याऽऽह— संसार इति। जगतीति यावत्। अज्ञाः वैदिकास्तार्किकादयश्च कर्तारं भोक्तारं जीवं मन्यन्त इत्यत आह— कर्ता भोक्तेति। कर्ता भोक्तेति वैदिकादयो यं व्यवहरन्ति, स जीवो ममैवांश इत्यर्थः। एतेन यथाऽहमकर्ताऽभोक्तेति प्रसिद्धस्तथा मदंशोऽप्यकर्ताऽभोक्ता चैव, तस्मिन् कर्ता भोक्तेति प्रत्ययस्तु भ्रम एव, न प्रमेति सिद्धम्। जीवो भूतो जातो जीवभूतः। अनेन च भूतशब्दनिर्देशेन न वस्तुतः कर्तृत्वभोक्तृत्वप्रयुक्तजीवत्वं मदंशस्येति सूच्यते। ननु भवतु तवांशो जीवः, किं तावता तव पदं गतानामपुनरावृत्तौ कारणं सिद्धम्? अत आह— यथेति। जलसूर्यको जले सूर्य- प्रतिबिम्बः। सूर्य इव सूर्यकः ‘इवे प्रतिकृतौ’ इति कन्। प्रतिबिम्बो हि बिम्बस्यांश इति सूर्यांश इत्युक्तम्। जलमेव निमित्तं प्रतिबिम्ब- भावं प्रति कारणम् , तस्य अपाये नाशे सति। ततः सूर्यात्। तथा चिदाभासो जीवोऽपि चिद्रूपपरमात्मनः प्रतिबिम्बत्वेन तदंशः प्रतिबिम्बनिमित्तस्याविद्यायाः अन्तःकरणस्य वा ज्ञानान्नाशे सति परमात्मचैतन्यं तत्पदं गत्वा ततो न निवर्तत इति प्रतिबिम्बपक्षा- नुसारेणोत्तरमुक्तमाचार्यैः। अथावच्छेदपक्षानुसारेणाह— यथा वेति। घटादीत्यादिपदात् करकमठादिग्रहणम्। एवमन्तःकरणाव- च्छिन्नोऽविद्यावच्छिन्नो वा चैतन्यरूपो जीवः स्वोपाधिभूताविद्यान्तःकरणनाशे सत्यपरिच्छिन्नं परिपूर्णं परमात्मचैतन्यं प्राप्य न ततो निवर्तते। एकमेव चैतन्यं पूर्णं महाकाश इवोपाधिवशात् परिच्छिन्नमिव प्रतिभाति, तदुपाधिनाशे तु परिपूर्णं सदेवावतिष्ठत इति कथं पूर्णचैतन्यस्य महाकाशस्येव गमनादिकमिति भावः। अयं चोपाधिपरिच्छेदः परिपूर्णस्याज्ञानकृत एवेति तदज्ञाननाशे कथं पुनरुपाधिपरिच्छेददर्शनं स्यात्? न कथमपीत्यभिसन्धिः। अत इति। जलसूर्यकघटाकाशदृष्टान्तद्वयेन परमात्मांशस्य जीवस्य परमात्मप्राप्तौ सत्यां पुनरावृत्त्यभावस्य स्थापितत्वादित्यर्थः। उपपन्नं युक्तम् , सदृष्टान्तत्वाद् युक्तिमदित्यर्थः। उक्तमेव स्मारयति— यद् गत्वा न निवर्तन्त इति। परिपूर्णचैतन्यस्य स्वरहितस्वप्रतिफलनयोग्यदेशाभावात्। मुखं हि स्वरहितेऽत एव स्वप्रतिफलनयोग्ये दर्पणप्रदेशे प्रतिफलति। अपरिच्छिन्नस्य निरवयवस्य निरवकाशस्य चैतन्यस्य चोपाधिपरिच्छेदायोगात्। सावयवस्य सावकाशस्य हि महाकाशस्य घटादिपरिच्छेदः। चैतन्यप्रतिफलनं चैतन्यपरिच्छेदश्चेत्युभयमपि भ्रान्तिसिद्धमेव, न वास्तवमिति तत्त्वम्५। इदमेव प्रकटयितुं पूर्वपक्षयति— नन्विति। निरवयवस्येति। सावयवस्यैव सांशत्वान्निरवयवोऽयं निरंश एवेति कथमस्यावयवोंऽशो वा सिध्येत्? न कथमपि। एवमंशाभावादेवैकदेशस्याप्यभावः। अंशो ह्येकदेशः। यथा मृदंशो मृदवयवस्त्र्यणुकादिर्मृद एकदेशः।यद्येवं निरवयवस्यांशासिद्धिस्तर्हि ममैवांश इति प्रकृतगीताप्रामाण्यादस्तु परमात्मनः सावयवत्वम्? अत आह— सावयवत्वे चेति। विनाशाख्यदोषप्रसङ्गात्। सावयवो हि घटादिर्नश्यन् दृष्टः। कुतः सावयवस्य विनाशः? अत आह— अवयवविभागादिति। घटो ह्यवयवी कपालाद्यवयवविश्लेषाद् विनश्यति। एवमनन्तानां जीवरूपाणामवयवानां परमात्मनः सकाशाद् वियोगे सति नश्येत् १. ‘ततो न निवर्तते’ इति पा.। २. ‘तथा अयमप्यंशः’ इति क्वचिन्न। ३. ‘तेनैवात्मना गच्छत्येवमेव’ इति पा.। ४. तथा च प्राप्यस्यात्मत्वादेव न ततः प्रत्यावृत्तिरिति भावः। ५. प्रतिबिम्बावच्छेददृष्टान्तयोः विवक्षितांशः ऐक्यप्रतिपत्तिरेवेति दार्ष्टान्तिके न वास्तवतद्भावापेक्षेति भावः। भाष्यार्कप्रकाशः इति प्रसिद्धः सनातनः चिरन्तनः। यथा जलसूर्यकः सूर्यांशो जलनिमित्तापाये सूर्यमेव गत्वा १न निवर्तते, २तथा अयमप्यंशः तेनैवात्मना ३संगच्छति एवमेव। यथा वा घटाद्युपाधिपरिच्छिन्नो घटाद्याकाश आकाशांशः सन् घटादिनिमित्तापाये आकाशं प्राप्य न निवर्तते इत्येवम्। अत उपपन्नमुक्तम् — यद् गत्वा न निवर्तन्त इति। ननु निरवयवस्य परमात्मनः कुतोऽवयवः एकदेशोंऽशः इति। सावयवत्वे च विनाशप्रसङ्गोऽवयवविभागात्। समाधिरित्याशङ्क् य प्रतिबिम्बपक्षमादाय दृष्टान्तेन प्रत्याचष्टे—४यथेति। अवच्छेदपक्षमाश्रित्य दृष्टान्तान्तरेणोक्तदोषसमाधिं दर्शयति— यथा वेति। आक्षेपसमाधिमुपसंहरति— अत इति। परस्य निरवयवत्वात् तदंशत्वं जीवस्यायुक्तमिति शङ्कते— नन्विति। तस्य निरवयवत्वं साधयति— सावयवत्वे चेति। वस्तुतो आनन्दगिरिकृतव्याख्या

[[७८३]]

परमात्मेत्यर्थः। न च परमात्मनो विनाशित्वं युक्तमिति वाच्यम् ; अविनाशित्वस्य पूर्वं प्रतिपादितत्वात्। ‘अविनाशी वा अरेऽयमात्मा’ इति श्रुतेश्च। न च जीव एवाविनाशी, परमात्मा तु विनाश्येवेति वाच्यम् ; अवयविन एवानित्यत्वे तदवयवानां नित्यत्वस्यायुक्तत्वात्। अवयविनो देहस्य घटस्य तटाकजलस्य वा अनित्यस्यावयवाः करचरणादयः कपालादयो बिन्द्वादयश्च नित्यत्वेन किं दृश्यन्ते? नित्यत्वे चावयवानां कथमवयविनः स्यादनित्यत्वम्? नन्ववयविनां द्व्यणुकादीनामनित्यत्वस्यावयवस्य परमाणोर्नित्यत्वस्य च शास्त्रान्तरसिद्धत्वात् कथमित्थमुच्यते इति चेत्? मैवम् ; अण्ववयवस्य निरवयवस्य परमाणोरस्माभिरनभ्युपगतत्वात्। न हि वयं परमात्मनोऽन्यत् किमपि निरवयवं नित्यं वा ब्रूमः। ‘यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य’मिति श्रुतेः, ‘तत्सत्यं स आत्मा, अतोऽन्यदार्त’मिति श्रुतेश्चैकमेव ब्रह्म सत्यं नित्यं च; ततोऽन्यदनित्यं मिथ्यैवेति ह्यस्माकमभ्युपगमः। शास्त्रान्तरं तु नास्माकं प्रमाणम् , असच्छास्त्रत्वात् तस्य। वेदान्तशास्त्रमेकमेव हि प्रमाणम् , यथावस्थितवस्तुतत्त्वप्रतिपादकत्वात्। अन्यानि सर्वाणि तु मिथ्याभूतवस्तुप्रतिपादकान्येवेत्यप्रमाणान्येव। श्रुतयो हि सर्वेषामास्तिकानां प्रमाणम् , तत्सम्मतं च वेदान्तशास्त्रम्। किञ्च वेदान्ता एवास्माकं शास्त्रम् , ते चापौरुषेयत्वात् स्वतः प्रमाणम्। तस्मात् तार्किकाद्यभिमतनिरवयवपरमाणुकल्पना अयुक्ता। न चाणोः सावयवत्वात् तदवयवस्य निरवयवत्वेन भवितव्यमनवस्थादोषादन्यथेति वाच्यम् ; निरवयवस्य परमाणुद्वयस्य परमाणुसहस्रस्य वा संयोगान्न भवेदणूत्पत्तिः, प्रथिमानुपपत्तेः। सावयवस्य हि वस्तुनोऽवयवान्तरसंयोगात् प्रथिमा जायते। निरवयवस्य च संयोग एव तावन्न सम्भवति। अवयवसंश्लेषरूपत्वात् संयोगस्य। तस्मादीश्वरसङ्कल्पात् सावयवा एवाणवस्तावज्जाताः। तदणुद्वयादिसंयोगाद् द्व्यणुकाद्युत्पत्तिरिति। ते चानित्या अणवः, सावयवत्वात्। अवयविनोऽणोस्तु पृथङ्नावयवोपलम्भः। सति तदुपलम्भेऽणोरेवासिद्धेः। सावयवस्यैवोपलभ्यमानत्वं, न तु निरवयवस्येति कृत्वा अण्ववयवोपलम्भासम्भवाच्च। ननु यद्यणुः सावयवः स्यात् तर्हि स्वघटकीभूतैः कैरवयवैरणोः सावयवत्वमुच्यते? न हि परमाणवोऽनभ्युपगता भवद्भिरिति चेत् , उच्यते— निरवयवे ब्रह्मणि मायया सावयवाः अणवः कल्पिताः। अणुत्वात्मकं सावयवत्वं कल्पितमित्यर्थः। तस्मिंश्चाणुत्वा- वच्छिन्ने ब्रह्मणि तथा द्व्यणुकादयः कल्पिताः। एवं सत्यणूनामवयवाः मायामया एवेति सिद्धम्। ननु सर्वमपि जगन्मायामयमेवेति कृत्वा किं विशेषेणाणूनामवयवा मायामया इति कथनेनेति चेत्? मैवम् ; अवयवद्वयसंयुक्तो हि तव मतेऽणुः१। स च संयोगात् प्राक् नैव सिध्यति, संयोगपूर्वकत्वात् संयुक्तस्य। अवयवद्वयं हि संयुक्तं सदणुमुत्पादयति। स चाणूदयं प्रति कारणभूतः परमाणुरवयवः इति सम्मतं तव। अत एव हि निरवयवः परमाणुरित्यभ्युपगमः। स च परमाणुः कस्यावयवः? न तावदणोरवयवः, परमाणुद्वयसंयोगात् प्रागणोरभावात्। नापि परमाणोः, स्वस्य स्वयमेवावयव इति वचनस्यायुक्तत्वात्। नापि ब्रह्मणः, तस्य सावयवत्वप्रसङ्गादनित्यत्वप्रसङ्गाच्च। तस्मान्मायाया एवावयवः परमाणुरिति सिद्धम्। एवं मायाया अवयवः परमाणुरित्यपि न निश्चेतुं क्षमम् , मायाया निरवयवत्वेन सावयवत्वेन वा निरूपयितुमशक् यत्वात्। अव्यक्ता हि मिथ्याभूता माया। तस्मात् परमाणुत्वेनाभिमता इमे अण्ववयवाः मायाकार्यत्वान्मायामयाः। अतीन्द्रियत्वाद् मिथ्याभूतत्वाच्च मायावन्निरवयवत्वेन सावयवत्वेन वा निरूपयितुमशक् याः। तस्मान्निरवयवपरमाणुकल्पना तार्किकादीनामयुक्तैव। परमाणवो हि न निरवयवाः, नापि सावयवाः, किन्त्वनिर्वाच्या एवेति। यद्यप्येवं जगदपि सत्त्वासत्त्वाभ्यामनिर्वाच्यम् ; तथापि सावयवत्वेन निर्वाच्यमेवेति जगतः परमाणूनां च भेदोऽवगन्तव्यः। तस्मात् सावयवस्याणोर्येऽवयवास्ते सावयवत्वेन निरवयवत्वेन वा निरूपयितुं न शक् याः इति [न] निरवयवपरमाणुसिद्धिः, नापि नित्यपरमाणुसिद्धिः, किन्तु निरवयव एक एव नित्य आत्मेति कथं निरवयवस्य परमात्मनो ममैवांश इत्यंशः प्रोक्त इति पूर्वपक्षः। परिहरति तम्—नैष दोष इति। निरवयवस्यांशवत्त्वकथनं न दोष इत्यर्थः। तत्र हेतुमाह— अविद्येति। यतो यस्मादविद्या- कृतोपाधिपरिच्छिन्नः परमात्मन एकदेशोंऽश इव कल्पितस्तस्मान्नैष दोष इत्यर्थः। अपरिच्छिन्नेऽप्यात्मनि माययाऽन्तःकरणाद्युपाधि- भाष्यार्कप्रकाशः अ. १५. श्लो. ७ ] १. अणुपदेन द्व्यणुकं गृह्यते।

[[७८४]]

परिच्छेदः कल्पितः। तस्माच्च परिच्छेदादंशसिद्धिः। यथा अपरिच्छिन्नस्याप्याकाशस्य घटाद्युपाधिपरिच्छेदः। तस्माच्च घटाकाशा- द्यंशसिद्धिस्तद्वदिति भावः। निरंशस्यापि परमात्मनो मायया जीवरूपोंऽशः कल्पितो, न वस्तुतोंऽशोऽस्तीति न कोऽपि दोषः। यदि मरीच्युदकेन मरुभूमेः पङ्किलत्वं स्यात् , तर्हि मायाकल्पितांशेन परमात्मनः सांशत्वं स्यादिति भावः। कल्पित इति। माययेति शेषः। या माया निरंशेऽप्यंशं कल्पितवती, सैवासंसारिण्यपि तस्मिन्नंशे जन्ममरणादिलक्षणं संसारं च कल्पितवतीत्याह— मन इति मूलम्। संसरतीति। सुखदुःखादिकमनुभवतीत्यर्थः। उत्क्रामति म्रियते, मरणलक्षणं संसारमनुभवतीत्यर्थः। मनःषष्ठानीत्यर्धश्लोकेन सह शरीरं यदवाप्नोतीत्युत्तरश्लोको जीवस्य जन्ममरणलक्षणसंसारप्रकारं दर्शयति। श्रोत्रमिति श्लोकस्तु सुखदुःखसम्भोगात्मकसंसारप्रकारं दर्शयतीति विवेकः। प्रकृतिः स्वस्थानं; तच्च षोढा भिन्नम् ; तत्र मनसो हृत्पुण्डरीकं, श्रोत्रस्य कर्णशष्कुली, चक्षुषो नेत्रगोलकं, स्पर्शनस्य त्वक्, रसनस्य जिह्वाग्रं, घ्राणस्य नासिकाग्रमिति विवेकः। यत्तु रामानुजः - मद्विभूतिभूतो मदंशः इति, यच्च वेदान्तदेशिकः— ‘पादोऽस्य विश्वा भूतानि’ ‘तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्’, ‘यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्व एवात्मानो व्युच्चरन्ती’त्यादिश्रुतिप्रतीतांशत्वं विशिष्टे विशेषणांशतयेति ‘अंशो नानाव्यपदेशा’दित्यधिकरणे ‘प्रकाशादिवत्तु नैवं परः’ इति सूत्रे स्थापितम्। अतोऽनेकेष्वेव केनचिदुपाधिना एकतयाऽभिमतेषु कश्चिन्निरूप्यमाणः ‘अंशः’ इति व्यपदिश्यते। एवमेव हि पटादिराश्यादिष्वपि। तच्च विशेषणविशेष्यभावेनावस्थिते- ष्वपि विशिष्टैक् ये विशेषणांश इत्यादिव्यपदेशेषु तुल्यम्। तस्मादत्रात्यन्तभिन्नयोर्जीवपरयोर्विभूतितद्वद्भावेन विशिष्टैक् याद् विशेषणभूतो जीवो निष्कृष्य व्यपदिश्यमानः प्रधानापेक्ष(त)यांऽश इति व्यपदिश्यत इति भावः— इति। तत् सर्वं तुच्छम्। तथाहि— यदि विशिष्टस्य विशेषणमंशः स्यात् तर्हि धनिकस्य धनमंशः, दण्डिनः पुरुषस्य च दण्डोंऽशः स्यात्। नैवं लोके प्रतीतिरस्ति। न हि यः कोऽपि रूपिकां दण्डं वा दृष्ट्वा पुरुषांशोऽयमिति प्रत्येति। एवं प्रकृतिपुरुषविशिष्टेश्वरस्य पुरुषवत् प्रकृतिरप्यंश एव स्याद् विशेषणत्वांशेऽभेदात्। न चेष्टापत्तिः, ‘ममैवांशो जीवभूत’ इतिवद् ‘ममैवांशः प्रकृतिभूतः’ इति क्वाप्यप्रतिपादनात्। ईश्वरांशात् प्रधानादीश्वरांशस्य जीवस्य निष्कर्षणासम्भवाच्च। यद्धि विशेषणं धर्मभूतं तत्तु विशिष्टस्यांश इति वक्तुं शक् यते। यथा ज्ञानवान् पुरुषः। ज्ञानं हि पुरुषधर्मत्वात् पुरुषांशः। न च अपृथक्सिद्धविशेषणमंश इत्युच्यत इति कृत्वा ईश्वरस्यापृथक्सिद्धविशेषणत्वादंशभूतो जीव इति वाच्यम् ; ईश्वरात् पृथक्सिद्धत्वाज्जीवस्य। कथमन्यथा जीवेश्वरयोरत्यन्तं भेदःस्यात्? न हि घटादत्यन्तं भिन्नः पटो घटस्यापृथक्सिद्धविशेषणांशः स्यात्। गुणिनो घटस्य तु गुणो रूपमपृथक्सिद्धविशेषणं स्यात्। द्रव्यात् पृथग् रूपस्यानुलम्भात्। ईश्वरात् पृथग्जीवोऽहं संसारीत्युपलभमानो जीवः कथं तदपृथक्सिद्धविशेषणं स्यात्? कथं वा अनन्यशेषतया ऽहमिति स्फुरन् जीवो विशेष्यभूतः परमात्मनो विशेषणं स्यात्? न च भार्या भर्तुरिव जीवः ईश्वरस्य शेषतया विशेषणमिति वाच्यम् ; यथा भार्या भर्तुः शेषः, तथा भर्ता भार्याया अपि शेषभूत एव। विनिगमनाभावाच्च नैकतरस्यापि शेषत्वम् , किन्त्वात्मशेषत्वमेवोभयोरपि। न हि भर्तृसुखार्थं भार्या भर्तारं सेवते, नापि भार्यासुखार्थं भर्ता भार्यां पोषयति, किन्त्वात्मसुखार्थमेवेत्यात्मा शेष्येव, न कस्यापि शेषः। तस्मान्न परमात्मन आत्मा विशेषणभूतः। निरंशस्यापि परस्य कल्पनया जीवोंऽशो भविष्यतीति परिहरति— नैष दोष इति। वस्तुतस्तु जीवस्य नांशत्वम् , परमात्मना तावन्मात्रताया दर्शितत्वादित्याह—दर्शितश्चेति। यदि परस्यांशत्वेन कल्पितो जीवो वस्तुतस्तदात्मैव, न तर्हि तस्य संसारित्व- मुत्क्रान्तिर्वेति शङ्कते— कथमिति। जीवस्य संसरणमुत्क्रमणं चोपपादयितुमुपक्रमते— उच्यत इति॥७॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

नैष दोषः, अविद्याकृतोपाधिपरिच्छिन्नः एकदेशोंऽश इव कल्पितो यतः। दर्शितश्चायमर्थः क्षेत्राध्याये विस्तरशः। स च जीवो मदंशत्वेन कल्पितः कथं संसरति, उत्क्रामति चेति? उच्यते— मनःषष्ठानीन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्षति आकर्षति॥७॥

[[७८५]]

किञ्च दण्डी पुरुषो, नीलमुत्पलमित्यादौ विशेषणविशेष्योभयांशप्रतीतिरस्ति। एवं प्रकृतिपुरुषवानीश्वरः इत्यत्रापि तदुभयांश- प्रतीतिरावश्यकी। तत्र प्रकृतिपुरुषौ विशेषणांशः। कः पुनर्विशेष्यांशः? न त्वीश्वरः, तस्य प्रकृतिपुरुषविशिष्टत्वरूपत्वात्। यदि तु प्रकृतिपुरुषविलक्षणः कश्चन विशेष्यांश ईश्वराख्योऽस्ति, तर्हि तत्पृथक्सिद्धावेव प्रकृतिपुरुषौ। स चेश्वरांशो वक्तव्यः- किं सच्चिदानन्दरूपः, उतान्यः? आद्ये, जीवोऽपि तादृश एव। ‘निरञ्जनः परमं साम्युपैतीति हि त्वयाऽपि जीवेश्वरयोः परमं सादृश्यमभ्युपेयते ज्ञानैकाकारत्वादिरूपम् । तथा च परस्परसदृशयोर्जीवेश्वरयोः कथं विशेषणविशेष्यभावः? द्वितीये, सच्चिदानन्दरूपादन्यो जडस्वरूप एव स्यादिति कथं तथापि प्रकृतीश्वरयोर्विशेषणविशेष्यभावः? विशेषणविशेष्ययोर्हि वैलक्षण्येन भाव्यम् , तच्च न दृश्यते, प्रकृतिवैलक्षण्ये सति पुरुषसालक्षण्यापत्तेः। तदुभयवैलक्षण्यस्य च दुर्वचत्वात्। तस्मादीश्वरशक्तित्वेनेश्वरवत् सच्चिदानन्दस्वरूपाभावेन च प्रकृतेरीश्वरापृथक्सिद्धविशेषणत्वमस्तु। अग्नेः पृथगग्निशक्तेरिवेश्व- रात्पृथगीश्वरशक्तेर्मायाया असिद्धत्वादीश्वरस्वभावत्वेनेश्वरविशेषणत्वाच्च। पुरुषस्तु नेश्वरशक्तिर्नाप्यसच्चिदानन्दस्वरूप इति कथं तस्ये- श्वरापृथक्सिद्धविशेषणत्वं भवेत्? यदि जीव ईश्वराद् भिन्नस्तर्हि तत्पृथक्सिद्ध एव। यदि त्वभिन्नस्तर्हीश्वरस्याविशेषणभूत एव। यद्यद् वस्तु पृथक्त्वेनापृथक्त्वेन वा दुर्निरूपम् , तद्धि तदपृथक्सिद्धविशेषणम्। यथा अग्निशक्तिरग्नेः पृथक्त्वेनापृथक्त्वेन वा दुर्निरूपेत्यग्ने- रग्निशक्तिरपृथक्सिद्धविशेषणम्। यथा वा नीलो गुण उत्पलात् पृथक्त्वेनापृथक्त्वेन वा दुर्निरूप इति नील उत्पलस्यापृथक्सिद्ध- विशेषणम्। एवमीश्वरशक्तिर्माया ईश्वरात् पृथक्त्वेनापृथक्त्वेन वा दुर्निरूपेति भवतु सा ईश्वरस्यापृथक्सिद्धविशेषणम्। पुरुषस्तु नैवम् , ईश्वरात्पृथग् अहमज्ञः संसारीति जीवस्योपलम्भात्। तस्मात् त्वदुक्तविधया प्रकृतेरेवेश्वरांशत्वं प्राप्तम् , न तु पुरुषस्येत्यहो! मूलच्छेदी तव पाण्डित्यप्रकर्षः। न चेश्वरस्याचिदिव चिदपि प्रकृतिरेवेति प्रकृतिवत् पुरुषोऽपीश्वरशक्तिरेवेति वाच्यम् ; ईश्वरस्याचिद्रूपत्वा- भावादचित्प्रकृतिरीश्वरशक्तिः स्यात् , चिद्रूपत्वसत्त्वात्तु कथं चित्प्रकृतेः पुरुषस्येश्वरशक्तित्वम्? न हि चितश्चिदेव शक्तिरिति वक्तुमुचितम्। न हि स्वस्य स्वयमेव शक्तिः स्यात्। न चैवं चिदचिद्विलक्षण ईश्वरश्चिद्रूपो नेति वाच्यम् ; ‘सत्यं ज्ञानमनन्तं ब्रह्मे’त्यादि श्रुतिभिरीश्वरस्य चिद्रूपत्वप्रतिपादनात्। न हि दृग्दृश्याभ्यामन्यद् यत्किञ्चिदपि वस्त्वस्ति लोके यदीश्वर इति त्वयोच्येत। न च ज्ञातृज्ञानज्ञेयाख्यानि त्रीणि वस्तूनि सन्ति, तत्र ज्ञाता ईश्वरः, ज्ञानं जीवः, ज्ञेयमव्यक्तमिति वाच्यम् ; जीवो ज्ञातेति तवाभ्युपगमात्। ज्ञानस्वरूपः ईश्वरः इति च। न चेदानीं सोऽभ्युपगमः परित्यज्यत इति वाच्यम् ; श्रुत्यादिविरोधात्। न हि ज्ञानस्वरूपत्वाभावं ज्ञातृत्वाभावं वा श्रुत्यादयो ब्रुवन्ति जीवस्येश्वरस्य वा। तस्माज्ज्ञातुर्जीवस्येश्वरस्य वा ज्ञानमेव स्वरूपमिति दृग्दृश्याख्यं पदार्थद्वयमेवेति दृश एव दृग् विशेषणमिति वादोऽयुक्तः। न च दृग्रूपत्वेऽपि जीवेश्वरयोर्धर्मभूतज्ञानसुखादिषु तारतम्यसत्त्वाद् वैलक्षण्यमस्त्येवेति वाच्यम् ; निर्विशेषज्ञाने विशेषापादकधर्मायोगाद् , यत्किञ्चिद् धर्मजातमासञ्जयसि त्वं तत्र, तत् सर्वं माया- कल्पितमेवेत्यभ्युपगमाच्च। तस्मान्निर्विशेषचिन्मात्र एव जीव ईश्वरश्चेति कथं तयोरन्योन्यविशेषणविशेष्यभावसिद्धिः? अथवा भवत्वल्पज्ञो जीवः, सर्वज्ञः ईश्वरश्च। तथापि न तवेष्टसिद्धिः, ज्ञातृत्वस्य [ज्ञानस्य] एवोभयोराकारत्वात्। ज्ञानैकाकारौ हि जीवेश्वरौ श्रुत्यनुभवादिभ्यः। ततश्च धर्मतो वैलक्षण्ये सत्यपि स्वरूपतो वैलक्षण्याभावादेकस्वरूपयोर्जीवेश्वरयोः कथं विशेषणविशेष्याभावः? न ह्यल्पो घटाकाशो महाकाशस्य विशेषणं भवति। नाप्यल्पं करतलगृहीतं जलं महतो गङ्गाजलस्य विशेषणं भवति। तुष्यतु दुर्जन इति न्यायेनैकस्वरूपयोरेव घटाकाशमहाकाशयोरल्पत्वमहत्त्वाभ्यां विशेषणविशेष्यभावाङ्गीकारेऽपि कथमस्मदुक्तांशासिद्धिः? स्वरूपस्यैक् ये सति महतो हि वस्तुनोऽल्पं वस्त्वंश इत्यस्माभिरुच्यते। तदेव विशेषणमिति त्वयोच्यते। एवं च विशेषणांशशब्दयोरेव भेदः, न त्वर्थभेदः इति कृत्वा कथमुच्यते— विशेषणांश एव, न स्वरूपांशः— इति। न च निरंशस्येश्वरस्य स्वरूपांशासम्भवाद् विशेषणांशः इत्युक्तमिति वाच्यम् ; निरंशस्य स्वरूपांशवन्निर्विशेषस्य विशेषणांशोऽपि न सम्भवत्येवेति विशेषणांश इतिवदस्यापि स्वरूपांश इत्येव फलितार्थसिद्धेश्च दर्शितत्वात्। न च - अंशी ईश्वरः, दण्डी पुरुष इत्यत्र पुरुष इव विशेष्यम् , अंशो जीवस्तु दण्डवद् विशेषणमिति विशेषणांश एव जीवः ईश्वरस्य, न स्वरूपांशः- इति वाच्यम् ; दण्डव्यतिरिक्तपुरुषवदंशव्यतिरिक्तांशीश्वरानुपलम्भात्। यद्युपलभ्यते, तर्हि स नांश्येव। यथा अवयवी देहः करचरणा- भाष्यार्कप्रकाशः

[[अ. १५. श्लो. ७]] [[७८६]]

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः१। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्॥८॥

द्यवयवातिरेकेण न दृश्यते। यदि दृश्यते तर्हि देहोऽपि निरवयव एव स्यात्। ततश्च करचरणादयोऽवयवा देहस्य स्वरूपांशभूता एव, न तु विशेषणांशभूताः। तद्वदीश्वरांशाः जीवा अप्यंशिन ईश्वरस्य स्वरूपांशा एव, न तु विशेषणांशाः इति। तस्मादंशांशिभावो विशेषणविशेष्यभावादतिरिक्त एव। न च - ईश्वरात्पृथग् जीवस्योपलम्भाज्जीवो नेश्वरस्यांशः, किन्तु दण्डः पुरुषस्येव विशेषणभूत एव; अत एव निरंशस्येश्वरस्य कथमंशित्वमिति चोद्यमपि नात्र प्रवर्तते - इति वाच्यम्। महाकाशात् पृथग् घटाकाशस्येवेश्वरात् पृथग् जीवस्योपलम्भोऽविद्योपाधिकृत एव, न तु तात्त्विकः इत्यसकृदुक्तत्वात्। तथा निरंशस्यांशित्वं चाविद्योपाधिकृतमेव, न तात्त्विकम्। तस्मान्निरंशस्यापीश्वरस्य चैतन्यरूपस्य चैतन्यरूपो जीवो भवति स्वरूपांश एवाविद्योपाधि- वशाद्, घटाद्युपाधिवशाद् घटाद्याकाशो यथा महाकाशस्य स्वरूपांशः इत्यनवद्यम्। ‘पादोऽस्ये’ति श्रुतिस्तु निर्विशेषे आत्मन्येकदेशे सर्वं चराचरं जगद् वर्तते माययेति ब्रूते। न तु जीवा ईश्वरस्य अपृथक्सिद्धविशेषणानीति, तत्र तदर्थाप्रतीतेः। न हि श्रुतौ क्वापि जीवः ईश्वरस्यापृथक्सिद्धविशेषणमिति दृश्यते। तस्मादियमश्रौतकल्पनैव। ‘तस्यावयवभूतै’रित्यत्र तु अवयवैरिति स्फुटमुक्तमेव जीवस्येश्वरांशत्वम्। अंशो ह्यवयवः। यथा देहस्यैवांशः करादिरवयवः। न ह्यवयवशब्दोऽपृथक्सिद्धविशेषणार्थवाची, येन तवेष्टसिद्धिः। अग्नेरिति वाक् यमपि महतोऽग्नेरल्पाः स्फुलिङ्गाः यथा अंशभूतास्तथैव परमात्मनोंऽशा जीवाः इति प्रतिपादयति। उपाधिभेदात्तु आत्मान इति बहुवचननिर्देशः। न हि निरुपाधिक आत्मा अंशो भवितुमर्हति, उपाधिपरिच्छिन्नस्यैव चैतन्यस्यांशत्वात्। एवम् ‘अंशो नानाव्यपदेशा’दित्यधिकरणेऽपि शङ्कराचार्यैरंशांशिभाव एव जीवेश्वरयोः मायामयः साधित इति न सूत्रसामञ्जस्यं तवास्ति। यदप्युक्तं नीलपीतरक्ताद्यनेकपटेषु पटत्वरूप एक उपाधिरंश इत्युच्यत इति, तच्च न दृष्टान्तभावमर्हति, पटानेकत्ववदात्माने- कत्वस्यासम्प्रतिपन्नत्वात्। पटा हि नीलपीतादिगुणवशादनेके भवन्ति। कथं निर्गुणात्मानेकत्वम्? ‘अशब्दमस्पर्शमरूपमव्यय’ मित्यादिश्रुतयो हि निर्गुणमात्मानं ब्रुवन्ति। न च नीलपीतादिगुणवत्त्वेन जीवो येन केनाप्यनुभूयते। न च सुखदुःखाद्यनुभव- वैचित्र्यादात्मानेकत्वमिति वाच्यम् ; सुखदुःखादिवैचित्र्यस्यान्तःकरणानेकत्वप्रयोजकत्वात्। अन्तःकरणधर्माः खलु सुखदुःखादयः। सुखादीनामात्मधर्मत्वे तु मूर्छादिष्वपि तदुपलम्भः स्यात्। प्रकृतगीताशास्त्रविरोधश्च, इच्छाद्वेषसुखादेः क्षेत्रत्वस्य प्रतिपादनादस्मिन्। तस्मादुपाधित एवात्मानेकत्वमाकाशानेकत्ववन्न तूपाधितः एकत्वमात्मन इति बोध्यम्॥७॥

शरीरमिति। ईश्वरो यच्चाप्युत्क्रामति तदा प्रकृतिस्थानि मनःषष्ठानीन्द्रियाणि कर्षति। ईश्वरो यच्छरीरमवाप्नोति तदा वायु- राशयाद् गन्धानिवैतानि गृहीत्वा संयाति। ननु लिङ्गशरीरोपाधिपरिच्छिन्नस्य स्थूलशरीरादुत्क्रममाणजीवस्य कथमीश्वरत्वम्? अपरिच्छिन्नो हीश्वरः, अत आह— देहादीति। वस्तुतो निरुपाधिकत्वेनापरिच्छिन्नेश्वरोऽपि जीवोऽविद्यया सोपाधिकत्वेन परिच्छिन्नः सन् देहादिसङ्घातस्वामित्वरूपमीश्वरत्वं भजत इत्यर्थः। यद्वा कस्यायमीश्वरः क्षेत्रज्ञः? अत आह— देहादीति। क्षेत्रस्येश्वरः इत्यर्थः। न स्वस्थाने स्थितानामिन्द्रियाणां जीवेनाकर्षणस्य कालं पृच्छति— कस्मिन्निति। जीवस्योत्क्रान्तिर्नेश्वरस्येत्याशङ्क् येश्वर-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कस्मिन् काले?—शरीरमिति। यच्चापि यदा चापि उत्क्रामति ईश्वरो देहादिसङ्घातस्वामी जीवः तदा कर्षतीति १. ‘ममैवांशो जीवभूतः मनःषष्ठानीन्द्रियाणि कर्षति’ इति पूर्वश्लोके जीवस्य प्रकृतत्वात् ‘शरीरादुत्क्रामति, शरीरमवाप्नोति’ इत्यत्रापि कर्तृत्वेन स एव संबध्यते। तत्र च ईश्वरशब्दः देहादिसङ्घातस्वामित्वाद् योगेनोपपन्नः। रूढित्यागस्तु प्रकरणानुरोधान्न दुष्यति। अग्रिमश्लोकोऽपि ‘अधिष्ठाय मनश्चायं विषयानुपसेवते’ इति विषयभोगप्रतिपादनात् जीवविषय एव। एवं चात्र ईश्वरशब्दरूड्यनुरोधेन - जीवस्योत्क्रान्तिकाले ईश्वरः एतानि गृहीत्वा संयातीति व्याख्यानम् , अग्रिमश्लोके ऽपीश्वरस्य विषयभोगवर्णनं च वाक्याभाससमाश्रयणेन यत् माध्वैः कृतं तन्नादर्तव्यं विद्वद्भिः।

[[७८७]]

श्लोकस्य १द्वितीयपादोऽर्थवशात् प्राथम्येन सम्बध्यते। यदा च पूर्वस्माच्छरीराच्छरीरान्तरमवाप्नोति तदा गृहीत्वैतानि मनःषष्ठानीन्द्रियाणि संयाति सम्यग् याति गच्छति। किमिवेत्याह— वायुः पवनो गन्धानिव आशयात् पुष्पादेः॥८॥

कानि पुनस्तानीति? — श्रोत्रमिति। श्रोत्रं चक्षुः स्पर्शनं च त्वगिन्द्रियं रसनं जिह्वा घ्राणमेव च मनश्च षष्ठं प्रत्येकमिन्द्रियेण सहाधिष्ठाय देहस्थो विषयान् शब्दादीन् उपसेवते॥९॥

एवं देहगतं देहात्— उत्क्रामन्तमिति। उत्क्रामन्तं परित्यजन्तं देहं पूर्वोपात्तं, स्थितं वाऽपि देहे तिष्ठन्तं, हि क्षेत्रक्षेत्रज्ञातिरिक्तं किञ्चिदपि वस्त्वस्ति, यस्यायं क्षेत्रज्ञो भवेदनीश्वरः। तस्मात् सर्वस्यापीश्वर एव जीव इति न जीवेश्वरभेदावकाशः, नापि जीवगतेश्वरत्वसङ्कोचः। कर्षतीति पूर्वेणान्वय इति शेषः। तृतीयः पादो गृहीत्वैतानि संयातीत्ययमित्यर्थः। प्राथम्येन शरीरं यदवाप्नोतीत्यनेनेत्यर्थः। प्रथम एव प्राथम्यमिति चतुर्वेदादित्वात् स्वार्थे ष्यञ्। सम्बध्यतेऽन्वितो भवति। तमेवान्वयं दर्शयति— यदा चेति। यदित्यस्य यदेत्यर्थः। लिङ्गशरीरावयवभूतानि मनःषष्ठानीन्द्रियाणि इति बोध्यम्। वस्तुतोऽपरिच्छिन्नेश्वरस्यापि जीवस्य सूक्ष्मशरीरोपाधिवशात् प्रकृतशरीरादुत्क्रमणं शरीरान्तरप्राप्तिश्च भवतीति परमार्थः। यच्छरीरमवाप्नोति यस्माच्छरीरादुत्क्रामतीति रामानुजः। तन्मन्दम् ; यच्छरीरमवाप्नोति तच्छरीरं संयातीति वचनस्य पुन- रुक्तिदोषग्रस्तत्वात्। यच्चेत्यस्य यस्माच्चेत्यर्थकल्पनस्याप्ययुक्तत्वाच्च। न हि प्रथमान्ताद् द्वितीयान्ताद्वा पञ्चम्यन्तार्थलाभः। श्रीशङ्करमते तु यदित्यव्ययमिति न दोषः॥८॥

श्रोत्रमिति। अयं श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च मनश्चाधिष्ठाय विषयानुपसेवते। इन्द्रियाणि प्रत्येकमधिष्ठाय तत्तत्प्रत्येकेन्द्रियेण सह मनश्चाधिष्ठाय देहस्थः सन्नपि जीवः शब्दादिबाह्यविषयाननुभवतीत्याह— प्रत्येकमिति। युगपत् सर्वैरिन्द्रियैः शब्दादिसर्वविषयानुभवासम्भवात् प्रत्येकमित्युक्तम्। मनस्यन्यत्र गते सति शब्दादिविषयग्रहणासम्भवाद् इन्द्रियेण सह मनश्चाधिष्ठाये- त्युक्तम्। विनापीन्द्रियसाहित्यं मनसा सुखादेरनुभवाद् मनश्चाधिष्ठायेत्युक्तम्। जीवस्य मनःषष्ठेन्द्रियाधिष्ठानं नाम मनइन्द्रिय- तद्धर्माणामात्मन्यध्यास एव। तथा च मनोधर्माध्यासात् सुख्यहं दुःख्यहमिति, चक्षुरादीन्द्रियधर्माध्यासात् पश्यामि, शृणोमि, स्पृशामि, जिघ्रामि, स्वादयामि चेति प्रत्येत्यविद्यावान् जीवः। एवमज्ञानकृतानात्मतद्धर्माध्यासवशाज्जीवस्य सुखदुःखादिसम्भोग- लक्षणः संसारः सम्भवतीत्यभिप्रायः। अधिष्ठाय स्वस्वविषयवृत्त्यनुगुणानि कृत्वेति रामानुजः। तन्मन्दम्। चक्षुषो रूपग्रहणे पक्ष्मोन्मीलनरूपपुरुषप्रयत्न- सापेक्षत्वेऽपि त्वगादीनां स्पर्शादिग्रहणे तन्नैरपेक्ष्यात्॥९॥

उत्क्रामन्तमिति। गुणैः सत्त्वादिगुणकार्यैरित्यर्थः। संयुक्तमिति। अन्तःकरणतादात्म्याध्यासादिति भावः। एनं जीवम् शब्दार्थमाह— देहादीति। उत्क्रान्त्यनन्तरभाविनी गतिरित्येतद् अर्थवशादित्युक्तम्। अवशिष्टानि श्लोकाक्षराण्याचष्टे— यदा चेति॥८॥

मनःषष्ठानीन्द्रियाण्येव प्रश्नद्वारा विशेषतो दर्शयति— कानीति॥ ९॥

‘शरीर’मित्यादिश्लोके देहादात्मनोऽतिरेकमुक्त्वा, ‘श्रोत्रं चक्षु’रित्यादौ स्वाभिलषिते विषये यथायथं करणानां प्रवर्तकत्वात् तेभ्यो

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। अधिष्ठाय मनश्चायं विषयानुपसेवते॥९॥

उत्क्रामन्तं स्थितं वाऽपि भुञ्जानं वा गुणान्वितम्। अ. १५. श्लो. ७-९ ] १. ‘तृतीयः पादः’ इति रा.पा. भाति। तत्र च प्राथम्यपदस्य प्रथम इत्यर्थं स्वीकृत्य - तृतीयपादः प्रथमपादेन संबध्यते तदीयं व्याख्यानम्। वस्तुतस्तु पूर्वदेहा- दुत्क्रान्त्युत्तरमेव शरीरान्तरावाप्तेरौचित्यात् उत्क्रान्तिप्रतिपादको द्वितीयपादः पूर्वं योजनीयः—यदा उत्क्रामति जीवः तदा कर्षतीति। अतो यथाश्रुतं साधीयः।

[[७८८]]

भुञ्जानं वा शब्दादींश्चोपलभमानं गुणान्वितं सुखदुःखमोहाख्यैः र्गुणैरन्वितम् अनुगतं संयुक्तमित्यर्थः। एवम्भूतमपि एनम् अत्यन्तदर्शनगोचरप्राप्तं विमूढाः दृष्टादृष्टविषयभोगबलाकृष्टचेतस्तया अनेकधा मूढाः नानुपश्यन्ति। अहो कष्टं वर्तत इत्यनुक्रोशति च भगवान्। ये तु पुनः प्रमाणजनितज्ञानचक्षुषः त एनं पश्यन्ति ज्ञानचक्षुषो विविक्तदृष्टयः इत्यर्थः ॥१०॥

अत्यन्तं दर्शनगोचरं ज्ञानविषयं प्राप्तं, ज्ञानविषयभूतमित्यर्थः। सुज्ञेयमिति यावत्। दृष्टविषयभोगः शब्दादिविषयाणामनुभवः, अदृष्टविषयभोगः स्वर्गादिविषयकाम इति विवेकः। न ह्यदृष्टानां विषयाणामनुभवः सम्भवतीहैव। अथवा अस्मिन् जन्मनि दृष्टविषयभोगः, परेत्य देवादिलोके उद्भूय तत्रादृष्टविषयभोगः इति बोध्यम्। दृष्टाश्चादृष्टाश्च विषया दृष्टादृष्टविषयास्तेषां भोगोऽनुभवः, तद्बलेनाकृष्टं चेतो येषां तेषां भावस्तत्ता, तया हेतुना। अनेकधा विमूढाः विमोहं प्राप्ताः। आत्मानात्मविवेकशून्याः इत्यर्थः। नानुपश्यन्ति न जानन्ति। अयं भावः - यो देहादुत्क्रामति, स न देहः। यथा गृहान्निष्क्रामन् पुरुषो न गृहं भवति। यश्च देहे तिष्ठति सोऽपि न देहः। यथा गृहे तिष्ठन् पुरुषो न गृहम्। एवमनात्मनः स्थूलदेहस्य जीवस्य च विवेके सुकरे सति मूढा इमं विवेकमकृत्वा स्थूलोऽहं, कृशोऽहं, मनु- ष्योऽहमिति व्यवहरन्ति। तथा यश्चक्षुरादिभी रूपादीन् विषयाननुभवति, मनसा च सुखादीन् , स हि चक्षुरादिभ्यो भिन्न एव, करणाद्भिन्नत्वात् कर्तुः, लवित्रादिव च्छेदकः इति सूक्ष्मशरीरात्पृथग् विविच्य ग्रहीतुं शक् यमपि जीवं मूढाः न जानन्ति। किन्तु सूक्ष्मशरीरस्य जीवस्य च विवेकमकृत्वा काणोऽहं, बधिरोऽहं, सुख्यहं, दुःख्यहमिति व्यवहरन्ति। तथा ‘अहमज्ञ’ इति योऽज्ञानमनुभवति, ‘नाहं किञ्चिदवेदिष’मिति योऽनुसन्धत्ते स हि अज्ञानाद्भिन्नः। न हि घटमनुभवन् पुरुषो घटो दृष्टः। अनुभूताद्धि अनुभविता भिन्न इति कारणशरीरात्पृथग् विविच्य ग्रहीतुं शक् यमपि जीवं मूढा न जानन्ति। किन्तु कारणशरीरस्य जीवस्यास्य चाविवेकं कृत्वा, ‘अहमज्ञ’ इति व्यवहरन्ति। तथा यस्य येन सहाध्यासिकः सम्बन्धः, स वस्तुतस्तेन रहित एव। यथा गगनस्य नीलेन सहाध्यासिकः सम्बन्ध इति गगनं वस्तुतो नीलगुणरहितमेव। एवं सुखादिभिर्गुणैर्जीवस्याध्यासिकः सम्बन्ध इति जीवो वस्तुतः सुखादिरहित एव। एवं निर्गुणत्वेन सुग्रहमपि जीवं मूढा न जानन्ति, किन्तु सगुणमेव प्रतिपद्य ‘सुख्यहं, दुःख्यहं , मूढोऽह’मिति व्यवहरन्ति। यद्वा यो येन संयुक्तः, स तस्य न स्वाभाविको धर्मः। संयोगस्य वियोगपूर्वकत्वाद् वियोगावसानत्वाच्च। स्वभावसिद्धस्य वियोगानर्हत्वाच्च। यथा पटेन संयुक्तस्य घटस्य न पटः स्वाभाविको धर्मः, घटपटयोर्वियोगसम्भवात्। अग्नेरौष्ण्यं तु स्वाभाविको धर्मः। न ह्यग्न्यौष्ण्ययोर्वियोगः। न ह्यग्निरौष्ण्येन संयुक्त इति व्यवहारः। एवं सुखादिगुणसंयुक्तस्य जीवस्य सुखादिगुणा न स्वाभाविकाः। निर्गुणत्वमेव तस्य स्वाभाविकम्। ते च जीवेऽध्यस्ता गुणा अन्यदीया एवेति मूढा न जानन्ति। एवमविदुषां मूढानां संसारदुःखमवर्जनीयमिति भगवत एतेष्वनुक्रोशः सूच्यत इत्याह— अहो इति। कष्टं दुःखं वर्तते। मूढानामिति शेषः। अनुक्रोशो दया। प्रमाणं वेदान्तशास्त्रम् , तज्जनितं यज्ज्ञानमात्मानात्मविवेकरूपं तदेव चक्षुर्येषां ते तथोक्ता ज्ञानचक्षुषः। फलितार्थमाह— विविक्तदृश इति। विविक्तं यथा तथा पश्यन्तीति विविक्तदृशः। विविक्तमात्मानं पश्यन्तीति विविक्तदृश इति वा। आत्मानात्मविवेकसम्पन्ना इत्यर्थः। ते एनमात्मानं पश्यन्ति अनात्मभ्यो देहेन्द्रियान्तःकरणेभ्यो विवेकेन जानन्तीत्यर्थः ऽतिरिक्तश्चात्मेत्युक्तम् । तर्हि तमुत्क्रान्त्यादि कुर्वन्तं स्वरूपत्वात् किमिति सर्वे न पश्यन्तीत्याशङ्क् याह— एवमिति। सन्निहततमत्वेन दर्शनयोग्यमपि विषयपारवश्यादात्मानं सर्वे न पश्यन्तीति भगवतोऽनुक्रोशं दर्शयति—एवम्भूतमिति। तर्हि केषामात्मदर्शनम्? तदाह— ये तु पुनरिति॥१०॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥१०॥

[[७८९]]

केचित्तु— यतन्त इति। यतन्तः प्रयत्नं कुर्वन्तो योगिनश्च समाहितचित्ताः एनं प्रकृतमात्मानं पश्यन्ति ‘अयमहमस्मि’ इत्युपलभन्ते आत्मनि स्वस्यां बुद्धौ अवस्थितम्। यतन्तोऽपि शास्त्रादिप्रमाणैः अकृतात्मानः असंस्कृतात्मानः तपसेन्द्रियजयेन च दुश्चरितादनुपरताः १अशान्तदर्पाः प्रयत्नं कुर्वन्तोऽपि नैनं पश्यन्ति अचेतसः अविवेकिनः॥११॥

यत् पदं सर्वस्यावभासकमप्यग्न्यादित्यादिकं ज्योतिर्नावभासयते, यत् प्राप्ताश्च मुमुक्षवः पुनः संसाराभिमुखाः ॥१०॥

यतन्त इति। यतन्तो योगिनश्चात्मन्यवस्थितमेनं पश्यन्ति। अकृतात्मानोऽचेतसस्तु यतन्तोऽप्येनं न पश्यन्ति।केचित्त्विति। ज्ञानचक्षुषः पश्यन्तीति पूर्वमुक्तत्वात् तेभ्योऽन्ये योगिन इमेऽपि पश्यन्तीत्युच्यत इत्यर्थः। उत्तमानां श्रवणादिवशादेवात्मसाक्षात्कारः, मन्दबुद्धीनां तु योगवशादात्मसाक्षात्कार इत्याह— यतन्तो योगिन इति। चशब्दो ज्ञानिसमुच्चयार्थः। योगोऽत्र न कर्मयोगः, तस्यात्म- साक्षात्कारं प्रति व्यवहितसाधनत्वात् , किन्तु ध्यानयोग एवेत्याह— समाहितचित्ता इति। ध्यानादिना येषां चित्तमात्मप्रवणं जातं त इत्यर्थः। चित्तसमाधानं चाभ्याससाध्यमित्यभिप्रेत्याह— यतन्त इति। प्रयत्नोऽभ्यासः। कथं पश्यन्तीत्यत आह— अयमिति। उपलभन्ते साक्षात्कुर्वन्ति। जानन्तीति यावत्। आत्मानमिति भावः। स्वस्यामिति। स्वकीयायामित्यर्थः। यदवच्छिन्नोऽयमात्मा तद्बुद्धावित्यर्थः। कैरकृतात्मत्वम्? अत आह— शास्त्रादिप्रमाणैरिति। शास्त्राचार्योपदेशशमदमादिभिर्येषां मनः संस्कृतं न भवति, ते ऽकृतात्मानः। अत एव अचेतसः आत्मानात्मविवेकविधुराः, ते यतन्तोऽपि। २केन साधनेन यतनम्? अत आह— तपसेति। कीदृशं तपः? अत आह— इन्द्रियजयेनेति। इन्द्रियाणां जयो विषयेष्वप्रवृत्तिर्यस्माद् भवति तदिन्द्रियजयं, तेन तपसा। तपसा इन्द्रियजयेनेति साधनद्वयं वा। तपः कृच्छ्रचान्द्रायणादिकम्। इन्द्रियाणि विषयेभ्यः समाकृष्य बलादात्मवश्यानि कुर्वन्नप्ययमविवेकी शास्त्रादि- संस्कारराहित्येन चित्तशुद्ध्यभावाद् दुश्चरितान्नोपरमते। नाप्यस्य मनसि कामक्रोधादिदर्पः शाम्यतीत्यभिप्रेत्याह— दुश्चरितादिति। दुष्टं च तच्चरितं प्रवृत्तिश्च दुश्चरितं, तस्मात् अनुपरताः मनसा स्वभावानुगुणं दुष्टमेव ध्यायन्तीत्यर्थः। तत्र हेतुमाह— अशान्तदर्पा इति। अशान्तो दर्पः कामक्रोधाद्युद्भवो वेगो येषां ते तथोक्ताः। एवंविधाः प्रयत्नं कुर्वन्तोऽप्येनं न पश्यन्ति। किं पुनः प्रयत्नमकुर्वन्त इति अपिशब्दार्थः। तस्मान्मुमुक्षुर्यथाधिकारं श्रवणादौ योगे वा प्रवर्तेतात्मसाक्षात्कारार्थमिति सिद्धम्। अत्र— मत्प्रपत्तिपूर्वकं यतन्त इति रामानुजः, तत्तु तदभिप्रायेण दुष्टमेव, अहमीश्वरादन्यः, मामीश्वरो रक्षत्वित्यभिसन्धेः प्रपत्तित्वमिति तदभ्युपगमात्। एतदभिप्रायेण मत्प्रपत्तिपूर्वकमिति मूलाद्बहिः कल्पनस्यान्याय्यत्वाच्च॥११॥

यदिति। आकाशस्य घटाकाशादय इव यस्य पदस्य जीवाः अंशा इत्यन्वयः। के ते जीवाः? अत आह— उपाधिभेदमनु- ज्ञानचक्षुःशब्देन न्यायानुगृहीतं शास्त्रं ज्ञानसाधनमुक्तम्। तत् किमिदानीं शास्त्रमात्रेण न्यायानुगृहीतेनात्मानं पश्यन्ति? नेत्याह— केचित्त्विति। प्रयत्नः श्रवणमननात्मकः। शास्त्रादिप्रमाणैर्यतन्तोऽपीति सम्बन्धः। असंस्कृतात्मत्वं प्रकटयति— तपसेति। दुश्चरितादविरतिफलं कथयति—अशान्तेति। अशुद्धबुद्धीनामविवेकिनां सदपि श्रवणादि न फलवदिति मत्वाऽऽह—प्रयत्नमिति॥११॥

अनन्तरश्लोकचतुष्टयस्य वृत्तानुवादद्वारा तात्पर्यार्थमाह— यत्पदमिति। जीवात्मत्वेन चिद्रूपत्वमुक्त्वा तदीयचैतन्येनादित्यादी-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्। यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥११॥

अ. १५. श्लो. १०-१२ ] १. ‘अशान्तदर्पात्मानः’ इति पा.। २. ‘शास्त्रादिप्रमाणैः अकृतात्मानः तपसेन्द्रियजयेन च यतन्तोऽपि दुश्चरिताद्यनुपरमात् नैनं पश्यन्ति’- इति रामकविसंमता योजना। ‘तपसेन्द्रियजयेन च अकृतात्मानः शास्त्रादिप्रमाणैः यतन्तोऽपि नैनं पश्यन्ति’ - इत्यन्येषां योजना।

[[७९०]]

विधीयमाना इति। अन्तःकरणाद्युपाधिभेदमनुसृत्य भिन्ना इव प्रतीयमाना इत्यर्थः। मायया भिन्ना इव क्रियमाणा इति वा। सर्वस्यात्मा सर्वात्मा, तत्त्वं सर्वात्मत्वम्। सर्वव्यवहारास्पदत्वं सूर्यचन्द्रादिसर्वजगदधिष्ठानत्वमित्यर्थः। भासनधारणपचनादिसर्वव्यवहाराधिष्ठान- त्वमिति वा। तत् पदमेव सर्वस्यात्मेति, तस्मिन्नेव पदे सर्वं जगत् सर्वो व्यवहारश्च कल्पित इति विवक्षुरित्यर्थः। आदित्यगतं यत् तेजोऽखिलं जगद् भासयते, चन्द्रमसि वर्तमानं यत् तेजोऽखिलं जगद् भासयते, अग्नौ वर्तमानं यत् तेजोऽखिलं जगद् भासयते, तत् तेजो मामकं विद्धि। यद्वा आदित्यगतं यत् तेजोऽखिलं जगद् भासयते, चन्द्रमसि यत् तेजो वर्तते, अग्नौ च यत् तेजो वर्तते, तत् तेजो मामकं विद्धि। सूर्यचन्द्राग्निषु यस्तेजोरूपः प्रधानांशः स मदीय एवेत्यर्थः। मन्मायामयत्वात् तस्येति भावः। ममैव मायाशक्तिविशेषः सूर्यादिषु तेजोरूपेण स्थित्वा सर्वं जगदवभासयतीति परमार्थः। यद्वा अहमेव मायया सूर्यादिषु तेजोरूपेण वर्तमानः सन् सर्वं जगदवभासयामीति। सर्वथाऽपि सूर्यादिगता या जगदवभासन- शक्तिः सा मदीयैव, न तु सूर्यादिसम्बन्धिनी। सर्वत्रापि शक्तेर्मत्स्वभावत्वान्ममैव शक्तिमदीश्वरत्वाच्च। ईश्वरात्सकाशात् सूर्यादीनां पृथक्करणे सति तेषां निस्तत्त्वत्वापत्तेश्च। न हि सूर्योऽस्ति सूर्यो भातीत्यत्र सूर्यात् सकाशादस्तिभात्योः पृथक्करणे सूर्यशब्दवाच्यं किमप्यवशिष्यते। तस्मात् सूर्यावच्छिन्नचैतन्यनिष्ठैव जगदवभासनशक्तिः शक्तेरीश्वरोपाधित्वात्। एतेन यत्र क्वापि वस्तुनि यत्कियती शक्तिरुपलभ्यते, सा सर्वाऽपि तत्तद्वस्त्ववच्छिन्नचैतन्यनिष्ठैवेति सिद्धम्। ननु नीरूपस्येश्वरस्य कथं तेजोवत्त्वम्२? तेजो हि सरूपम् , अतः कथमुक्तं मदीयं तेज इति शङ्कायाम् , सत्यपि समाधाने मायया तेजोवत्त्वमित्येवमादिरूपे, निःशङ्कमर्थं दिदर्शयिषुराह—अथवेति। विष्णोस्तज्ज्योतिरिति। परमात्मनोंऽशभूतं चैतन्यमित्यर्थः। आविस्तरेति। अतिशयेनाविर्भवतीत्याविस्तरं प्रकटतरमित्यर्थः। सत्त्वं गुणः। अत्यन्तं प्रकाशत इत्यत्यन्तप्रकाशम्। भाष्यार्कप्रकाशः यदादित्यगतं तेजो जगद् भासयतेऽखिलम्। यच्चन्द्रमसि यच्चाग्नौ तत् तेजो विद्धि मामकम्॥१२॥

न निवर्तन्ते, यस्य च पदस्योपाधिभेदमनुविधीयमाना जीवाः घटाकाशादय इवाकाशस्यांशाः, तस्य पदस्य सर्वात्मत्वं सर्वव्यवहारास्पदत्वं च विवक्षुः चतुर्भिः श्लोकैर्विभूतिसङ्क्षेपमाह भगवान्—यदिति। यदादित्यगतम् आदित्याश्रयम्। किं तत्? तेजो दीप्तिः प्रकाशो जगद् भासयते प्रकाशयति अखिलं समस्तम् , यच्चन्द्रमसि शशभृति तेजोऽवभासकं वर्तते, यच्चाग्नौ हुतवहे , तत् तेजो विद्धि विजानीहि मामकं मदीयं मम विष्णोस्तज्ज्योतिः। अथवा यदादित्यगतं तेजः चैतन्यात्मकं ज्योतिः, यच्चन्द्रमसि यच्चाग्नौ वर्तते, तत् तेजो विद्धि मामकं मदीयं मम विष्णोस्तज्ज्योतिः। ननु स्थावरेषु जङ्गमेषु च तत् समानं चैतन्यात्मकं ज्योतिः, तत्र कथमिदं विशेषणं - यदादित्यगतमित्यादि। नैष दोषः, १सत्त्वाधिक् यादाविस्तरत्वोपपत्तेः। आदित्यादिषु हि सत्त्वमत्यन्तप्रकाशम् अत्यन्तभास्वरम् , अतस्तत्रैव नामवभासकत्वाच्च ब्रह्मणश्चिद्रूपत्वमित्याह— यदादित्येति। चिद्रूपस्यैव ब्रह्मणः सर्वात्मकत्वप्रतिपादकत्वेन श्लोकं व्याचष्टे— यदित्यादिना। आदित्यादौ तत्र तत्र स्थितं ब्रह्मचैतन्यज्योतिः सर्वावभासकमित्यर्थः। ब्रह्मणः सर्वज्ञत्वेन चिद्रूपत्वमत्र विवक्षितमिति व्याख्यान्तरमाह— अथवेति। चैतन्यज्योतिषः सर्वत्राविशेषाद् आदित्यादिगतत्वविशेषणमयुक्तमिति शङ्कते— नन्विति। सर्वत्र सत्त्वेऽपि क्वचिदेवाभिव्यक्ति- विशेषाद् विशेषणमिति परिहरति— नैष दोष इति। तदेव प्रपञ्चयति— आदित्यादिष्विति। सर्वत्र चैतन्यज्योतिषस्तुल्यत्वेऽपि आनन्दगिरिकृतव्याख्या १. ‘सत्त्वाधिक् यादाधिक्योपपत्तेः’ इति पा.। २. ‘तसौ मत्वर्थे’ इति सकारान्तस्य भसंज्ञाविधानात् तेजस्वत्त्वम् इति युक्तम्।

[[७९१]]

तस्यैवार्थमाह— अत्यन्तभास्वरमिति। अत्यन्तप्रकाशनशीलमित्यर्थः, सत्त्वस्य प्रकाशात्मकत्वात्। अत इति। आदित्यादिषु सत्त्वाधिक् यादित्यर्थः। आदित्यादिषु सत्त्वस्यात्यन्तभास्वरत्वादिति वा। सर्वत्र भास्वरस्यापि सत्त्वस्यादित्यादिष्वत्यन्तभास्वरत्वं रजस्तमसोरत्यल्पत्वप्रयुक्तमित्यवगन्तव्यम्। श्रीकृष्णाद्यवतारेषु तु सूर्यादिभ्योऽपि सत्त्वाधिक् यमिति बोध्यम्। तत्रैवेति। सूर्यादिष्वेवेत्यर्थः। तज्ज्योतिरित्यर्थः। विशिष्यते उत्कृष्टतया प्रतिपाद्यत इत्यर्थः। आदित्यादिषु चैतन्यस्य सत्त्वाधिक् यप्रयुक्तं प्रकटतरत्वमेव, न तु स्वरूपत आधिक् यमित्याह— न त्विति। तत्रैव सूर्यादिष्वेवेत्यर्थः। न तु स्थावरादिष्वित्येवकारार्थः। चेतनाचेतनेषु सर्वेष्वपि चैतन्यमेकरूपमेव, निर्विशेषचैतन्ये न्यूनाधिकभावायोगात्। किन्तु यत्र चेतनेषु त्रिगुणात्मिका बुद्धिरस्ति, तत्र चैतन्यं स्फुटं भाति। तन्मध्येऽपि यत्रादित्यादिषु सत्त्वगुणप्रचुरा बुद्धिस्तत्र चैतन्यं स्फुटतरमवभासते। यत्र च श्रीकृष्णादिषु शुद्धसत्त्वप्रधाना बुद्धिरस्ति, तत्र चैतन्यं स्फुटतममवभासते। तथा च मनुष्याद्यपेक्षया सूर्यादिगतचैतन्यस्य स्फुटतरत्वाद् ‘यदादित्यगतं तेजः’ इत्याद्युक्तमित्यर्थः। उक्तार्थे दृष्टान्तमाह— यथा हीत्यादिना। मुखसंस्थाने मुखाकारे। स्वच्छे आदर्शे, स्वच्छतरे मणौ, च मुखं तारतम्येनावि- र्भवति, प्रतिफलतीति यावत्। १काष्ठादर्शदर्पणेषु यथा मुखं क्रमेण - न प्रतिफलति, प्रतिफलति, अतिशयेन प्रतिफलति, तथा मृत्पाषाणादिषु , स्थावरजङ्गमादिषु आदित्यादिषु च चैतन्यं न प्रतिफलति, प्रतिफलति, अतिशयेन प्रतिफलति चेत्यर्थः। न चैवम् अचेतनेषु चैतन्यप्रतिफलनाभावात् काष्ठेषु मुखमिव तत्र चैतन्यं नास्तीति वाच्यम् ; चैतन्यप्रतिफलनस्यैवाभावः, न तु चैतन्यस्येति। न हि मुखमिव चैतन्यं परिच्छिन्नम् , येन काष्ठादौ मुखमिव, चैतन्यं मृदादौ न स्यात्। अपरिच्छिन्नं परिपूर्णं हि चैतन्यम्। न च प्रतिफलनात् प्रागपि चेतनेषु चैतन्यसत्त्वे कथं पुनः प्रतिफलनमिति वाच्यम् ; मायया प्रतिफलनसम्भवात्। यथा नीरूपस्यापि चैतन्यस्य प्रतिफलनसम्भवः। तस्मात् सूर्यादिदेवेषु सत्त्वाधिक् याच्चैतन्यस्य स्फुटतरमवभासः। चैतन्यस्यावभासनं नाम प्रतिफलनमेव। एवं स्फुटतरचैतन्यावभासवत्त्वादेव सूर्यादिदेवानां सर्वजगदवभासकत्वरूपं सर्वज्ञत्वं च शास्त्रोक्तं सङ्गच्छते। परमेश्वरापेक्षया सूर्यादीनामल्पज्ञत्वेऽप्यस्मदाद्यपेक्षया सर्वज्ञा हि ते। कथमन्यथा सूर्याद्युपास्तिः श्रुतिभिरुच्येत? इति। यद्वा आदित्यादिदेवानामन्तःकरणेषु प्रतिफलितं यत् तेजश्चैतन्यं वर्तते, तद् मामकमेव। ‘आनन्दं ब्रह्मण’ इतिवद् ‘राहोः शिर’ इतिवच्चाभेदेऽपि भेदेन निर्देशो ‘मम चैतन्य’मिति। बिम्बभूतमीश्वरचैतन्यमादित्याद्यन्तःकरणेषु प्रतिबिम्बरूपेण वर्तत इत्यर्थः। अयं च चेतनप्रतिबिम्बो न मृदादिष्वस्ति। अन्तःकरणोपाध्यभावात् तत्र। एवं चैतन्यप्रतिबिम्बसत्त्वासत्त्वप्रयुक्तैव चेतनाचेतनभिदा। न तु कूटस्थचैतन्यकृता, तस्य सर्वव्यापित्वात्। ननु माऽस्तु नाम मृदादौ चैतन्यप्रतिबिम्बः, स्थावरपश्वादिष्वस्त्येवेति कथम् आदित्यगत- मित्याद्युक्तमित्याक्षिपति— ननु स्थावरेष्वित्यादिना। अन्यत् सर्वं समानम्। नन्वेवं प्रतिबिम्बजीवपक्षे उपाधिप्रयुक्तप्रतिफलनतारतम्यादादित्यादीनामस्तूत्कर्षः, कथं पुनरवच्छेदपक्षे उपपत्तिरिति चेत् , उच्यते— उपाधिधर्माः सुखादयो यथोपहितेऽध्यस्यन्ते मायया, यथा च ब्रह्मेन्द्रदेवाद्यन्तःकरणगतसत्त्वशुद्धितारतम्यप्रयुक्तमानन्द- तारतम्यमप्युपहिते माययाऽध्यस्यते ‘स एको मानुष आनन्दः’ इत्यादिश्रुत्या, तथा आदित्यादिदेवान्तःकरणगतसत्त्वशुद्धिविशेष- प्रयुक्तज्ञानाधिक् यमप्युपहिते चैतन्ये माययाऽध्यस्यत इति आदित्यादीनां सत्त्वादिगुणोत्कर्षप्रयुक्तं वृत्तिज्ञानाधिक् यमेव तत्सर्वज्ञत्व- प्रयोजकं, न तु चैतन्याधिक् यम् , निर्विशेषत्वाच्चैतन्यस्येति भाव इति। भाष्यार्कप्रकाशः आविस्तरं ज्योतिरिति तद् विशिष्यते, न तु तत्रैव तदधिकमिति। यथा हि लोके तुल्येऽपि मुखसंस्थाने न काष्ठकुड्यादौ मुखमाविर्भवति, आदर्शादौ तु स्वच्छे स्वच्छतरे च तारतम्येनाविर्भवति, तद्वत् ॥१२॥

क्वचिदेवाभिव्यक्त्या विशेषणोपपत्तिं दृष्टान्तेन स्पष्टयति— यथा हीति॥१२॥

[आनन्दगिरिकृतव्याख्या]

अ. १५. श्लो. १२ ] १. अत्र आदर्शदर्पणयोः स्वच्छस्वच्छतरत्वाभ्यां भेदो विवक्षितः।

[[७९२]]

रामानुजस्तु मामकं तेजो मया तेभ्यो दत्तमित्याह। तन्मन्दम् ; ममेदं मामकमिति व्युत्पत्तिस्वारस्यभङ्गात्। न ह्यन्यस्मै दत्तां गां कोऽपि मामिकेयं गौरिति ब्रूते। स्वत्वनिवृत्तिपूर्वकपरकीयत्वानुकूलव्यापारो हि दानम्। ततश्च दत्ते वस्तुनि कथमीश्वरस्य स्वत्वम्? येन ममेदं तेज इति ब्रूयात्। न च भूतपूर्वगत्या मामकमित्युक्तमिति वाच्यम् ; पूर्वं मामकमिति साक्षादेव तत्कथनस्य न्याय्यत्वात्। ‘तत्पूर्वं विद्धि मामक’मिति हि श्लोकः कर्तुं शक् यते। किञ्च सूर्यादिभ्यस्तेजोदानात् प्राक् किमयमीश्वरस्तेजस्वी, उत न? आद्ये, ‘अशब्दमस्पर्शमरूपमव्यय’मिति श्रुतिविरोधः। द्वितीये, स्वस्यैव तेजोऽभावे कथमन्यस्मै प्रदानं तस्य सम्भवति? किञ्च भगवतः सकाशात् तेजसः प्राप्तेः प्राक् किं सूर्यादयस्तेजोमया उत जलमयाः, अथवा पृथिवीमयाः, यद्वा वायुमयाः, उत स्विदाकाशमयाः? नाद्यः, तेजसः प्राप्तेः प्राक् तेजोमयत्वायोगात्। न द्वितीयतृतीयौ, प्रमाणाभावात्। न चतुर्थपञ्चमौ, नीरूपत्वप्रसङ्गात्। यद्यपि चन्द्रस्य जलमयत्वं वक्तुं शक् येत। सूर्याग्न्योस्तु न तद् वक्तुं शक् यमिति बोध्यम्। अपि च यदि सूर्यादीनां प्रकाशः स्वाभाविकधर्मो न स्यात् तर्हि कदाचिदप्रकाशः स्यादेव तेषाम्। संयोगस्य वियोगान्तत्वेन संयुक्तधर्मस्य विनाशसम्भवात्। न हि प्रकाशात्मकानां सूर्यादीनां स्वरूपनाशं विना प्रकाशनाशः सम्भवति। मेघाद्यावरणात्तु अस्माकमेव सूर्यादिप्रकाशादर्शनम् , न तु तेषां प्रकाशनाशः। तस्मात् प्रकाशात्मका एव सूर्यादयो भगवता सृष्टाः मायया। न तु सूर्यादीन् सृष्ट्वा पश्चात् तेभ्योऽदिशत् तेजः। यथा रसगन्धाद्यात्मक- जलपृथिव्यादयः इति स्थितम्॥१२॥

गामिति। अहं गामाविश्य च ओजसा भूतानि धारयामि। अहं रसात्मकः सोमो भूत्वा सर्वाश्चौषधीः पुष्णामि। अहमोजसा गामाविश्य च भूतानि धारयामीति वा। चैतन्यरूपेण सर्वत्र सममवस्थितोऽपीश्वरः तत्तद्विशिष्टशक्तिमत्त्वेन रूपेण पुनः प्रविष्ट इव। तत आह— गामाविश्येति। ओजसा रूपेण गामाविश्येत्यन्वये तु न काऽप्यनुपपत्तिः। किं तदोजः? अत आह— यद्बलमिति। ‘बलं बलवतामस्मि कामरागविवर्जित’मिति पूर्वमुक्तत्वादिति भावः। ऐश्वरं रूपमिति। ईश्वरीयमायाशक्तिविशेष इत्यर्थः। न हि सच्चिदानन्दस्येश्वरस्य बलं रूपं भवितुमर्हतीति भावः। येनेति। बलेनेत्यर्थः। अध इति। समुद्रजल इति भावः। विदीर्यते भिद्यते। येनैश्वरबलरूपेण द्यौरुग्रा पृथिवी च द्वे दृढे भवत इति शेषः। दार्ड्यं च जगद्धारणसामर्थ्यमविदीर्यमाणत्वं च। स पृथिवीमिमां द्यामुत द्यां च दाधार दधार, दीर्घश्छान्दसः। स ईश्वर इत्यर्थः। अत इति। ईश्वरानुप्रवेशेनैव पृथिव्या जगद्धारणादिशक्तिमत्त्वादिति भावः। धारयामि धरामीत्यर्थः। पृथिव्या धारयामीति वा। एतेन पृथिवीनिष्ठत्वेन दृश्यमाना सर्वजगद्धारणशक्तिरीश्वरशक्तिरेवेति सिद्धम्। अहमेव बलस्वरूपेण पृथिव्यां वर्तमानः सन् जगदिदं सर्वं धारयामीति परमार्थः। अनेन च पृथिव्यां बलमहमस्मीति प्रतिपादनेन सर्वेषु वस्तुषु दृश्यमानं यत्किञ्चिद् बलमप्यहमेवेति सिद्धं भवति। भाष्यार्कप्रकाशः गामाविश्य च भूतानि धारयाम्यहमोजसा। पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः॥१३॥

किञ्च— गामिति। गां पृथिवीम् आविश्य प्रविश्य धारयामि भूतानि जगद् अहम् ओजसा बलेन, यद् बलं कामरागविवर्जितमैश्वरं रूपं जगद्विधारणाय पृथिव्यां प्रविष्टम् , येन गुर्वी पृथिवी नाधः पतति, न विदीर्यते च। तथा च मन्त्रवर्णः ‘येन द्यौरुग्रा पृथिवी च १दृढा’ (ऋ.सं.१०.१२१.५) इति, ‘स दाधार पृथिवीम्’ (तै.सं.४.१.८) इत्यादिश्च। इतश्च सर्वात्मत्वं प्रकृतपदस्य युक्तमित्याह— किञ्चेति। ईश्वरो हि पृथिवीदेवतारूपेण पृथिवीं प्रविश्य भूतशब्दितं जगदैश्वरेणैव बलेन बिभर्ति। ततो गुर्व्यपि पृथिवी विदीर्य नाधो निपततीत्यत्र प्रमाणमाह— तथा चेति। २परस्यैव हिरण्यगर्भात्मनाऽवस्थानान्न मन्त्रयोरन्यपरतेति भावः। देवतात्मना द्यावापृथिव्योरुग्रत्वमुद्धरणसामर्थ्यं तथापीश्वरायत्तमेव स्वरूपधारणं तदपेक्षया दुर्बलत्वादिति आनन्दगिरिकृतव्याख्या १. ‘दृढे’ इति रा.पा.। स च तैत्तिरीयपाठानुसारी (तै.सं.४.१.८)। २. परमात्मनि प्रकृते हिरण्यगर्भसूक्तगतमन्त्रोदाहरणमसंगतमित्याशङ्क्याह— परस्येति।

[[७९३]]

रसेति। यो जलस्य गुणः स रसः। चन्द्रस्य च जलमयत्वाद् रसस्वभावत्वम्। सर्वरसानामिति। सर्वेषां व्रीह्यादिगतानां रसानामाकरो निलयः। रसस्यैकत्वेऽप्युपाधिनानात्वात् सर्वरसेत्युक्तिः। स्वात्मरसानिति। स्वगतं रसमित्यर्थः। यद्यपि जलगतरसेनैव वर्धन्ते व्रीह्यादयः, फलन्ति च। तथापि चन्द्र एव तत्पोषकः, ओषधीशत्त्वात् तस्य। चन्द्रकरसम्पर्कद्वारा तद्गतं रसं पीत्वा हि सर्वा ओषधयः परिपुष्टा रसवत्यश्च भवन्ति। न हि चन्द्रकरसम्पर्करहितो व्रीह्यादिर्गृहे जलेन सिक्तोऽपि वर्धते, फलति वा। तस्मात् सोमगता सर्वौषधिपोषणशक्तिरीश्वरशक्तिरेव। ईश्वर एव सोमे रसस्वरूपेण वर्तमानः सन् पुष्णात्योषधीरिति च सिद्धम्। एतेन जलादिगतो रसोऽपीश्वरात्मक एवेति सूच्यते। एवं श्लोकद्वयेन तेजोबलरसानां त्रयाणामीश्वरविभूतित्वमिति फलितम्। सोमो भूत्वेत्यनेन तु न केवलं रस एवेश्वरः, किन्तु तदाश्रयः सोमोऽपीश्वर एवेति प्रतिपाद्यते। अनेनैव न्यायेन सूर्याग्निभूमीनामपीश्वर- विभूतित्वं गम्यते। ततश्च सूर्यादयः तद्गततेजआदयः, तद्गतभासकत्वादयश्चेत्येतत् सर्वमपीश्वरविभूतिरेव, कल्पितत्वान्मायया सर्वस्यास्येश्वरे इति फलति॥१३॥

अहमिति। अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितःसन् प्राणापानसमायुक्तश्च सन् चतुर्विधमन्नं पचामि। न केवलं बाह्याग्नि- रेवाहम् , किन्तु जाठराग्निरप्यहमेवेत्याह— अहमिति। यद्वा बाह्याग्निगतसर्वावभासकत्वशक्तिरेव नास्मदीया, किन्तु जाठराग्निगतान्न- पचनशक्तिरप्यस्मदीयैवेत्याह— अहमिति। जाठराग्नेर्वैश्वानरत्वे प्रमाणमाह— अयमिति। अन्तःपुरुषे शरीरमध्ये योऽयमग्निरस्ति, सोऽयं वैश्वानर इत्युच्यते। येनान्तःस्थाग्निनेदं भुक्तमन्नं पच्यते। बाह्याग्निस्तण्डुलानामेव पचने प्रभवति, न तु भुक्तस्यान्नस्य, बाह्याग्निसंयोगाभावात् तस्य। अपक्वस्य त्वन्नस्य रक्तादिरूपेण परिणामो न सम्भवति। तस्माद् भुक्तान्नपरिणामहेतुरस्ति जठरे कश्चिदग्निर्वैश्वानर इति। मृतशरीरे जठराग्न्यभावादाह— प्राणिनामिति। अन्तःकरणादेर्जठराग्न्याश्रयत्वाभावादाह— देहमिति। स्थूल- शरीरमित्यर्थः। प्रविष्ट इति। देहान्तःस्थत्वरूपमाश्रयत्वमिहोक्तम् , न तु देहाद् बहिः ५पटादिवद् वर्तमानत्वरूपमिति भावः। बाह्यो ऽप्यग्निर्वातसंयुक्त एव ज्वलतीत्यत आह— प्राणापानसमायुक्त इति। यद्यपि प्राण एव जठराग्निवर्धकः, तथाप्यपानेन मलानिःसारणे भाष्यार्कप्रकाशः अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्॥१४॥

अतो गामाविश्य च भूतानि चराचराणि धारयामीति युक्तमुक्तम्। किञ्च पृथिव्यां जाताः ओषधीः सर्वाः व्रीहियवाद्याः पुष्णामि पुष्टिमतीः रसस्वादुमतीश्च करोमि सोमो भूत्वा रसात्मकः १सोमः सर्वरसात्मको रसस्वभावः। सर्वरसानामाकरः सोमः। स हि सर्वाः ओषधीः २स्वात्मरसानुप्रवेशेन पुष्णाति॥१३॥

किञ्च— अहमिति। अहमेव वैश्वानरः उदरस्थोऽग्निः भूत्वा ‘अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते’ (बृ.उ.५.९.१) इत्यादिश्रुतेः, वैश्वानरःसन् प्राणिनां प्राणवतां देहम् आश्रितः प्रविष्टः प्राणापानसमायुक्तः द्रष्टव्यम्। ईश्वरस्य सर्वात्मत्वे हेत्वन्तरमाह— किञ्चेति। रसात्मकसोमरूपतापत्तावपि कथमोषधीरीश्वरः सर्वाः पुष्णातीत्याशङ्क् याह— सर्वेति॥१३॥

भगवतः सर्वात्मत्वे हेत्वन्तरमाह— किञ्चेति। अहमेवेत्यहंशब्देन परो लक्ष्यते। भूत्वा पचामीति सम्बन्धः। परस्यैव जाठरात्मना स्थितौ श्रुतिं प्रमाणयति— अयमिति। बाह्यं ३भौममग्निं व्यावर्तयति— योऽयमिति। ४देहान्तरारम्भकं तृतीयं भूतं व्यवच्छिनत्ति— येनेति। जाठरात्मना परः स्थितश्चेत् तस्य देहाश्रितत्वं सिद्धमिति न पृथग् वक्तव्यमित्याशङ्क् य ‘पुरुषविधं पुरुषेऽन्तः आनन्दगिरिकृतव्याख्या अ. १५. श्लो. १२-१४ ] १. ‘सोमः सन् रसात्मको’ इति पा.। २. ‘स्वात्मरसाननुप्रवेशयन्’ इति रा.पा.। ३. पार्थिवेन काष्ठादिनेन्धनेन दीप्यमानत्वात् बाह्याग्नेः भौमत्वम्। ४. पाञ्च- भौतिकत्वाद् देहस्य तदारम्भकत्वेनान्तरं तेज इत्यर्थः। ५. देहावरणवस्त्रादिवदित्यर्थः।

[[७९४]]

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च। सति न हि प्राणोऽग्निं ज्वलयितुमीष्ट इत्यत उक्तम्— प्राणापानसमायुक्त इति। पक्तिं पाकं, परिणामं रक्ताद्यात्मनेति यावत्। भोज्यं प्रधानमन्नं शाल्यादि। भक्ष्यं माषवटकादि। चोष्यम् इक्षुखण्डादि। लेह्यं पायसादि। चतस्रो विधाः रीतयो यस्य तच्चतुर्विधम्। एतेन जठराग्नेस्तद्गतपचनशक्तेश्चेश्वरविभूतित्वं सिद्धम्। एवं तेजोऽबन्नात्मिकायाः अवान्तरप्रकृतेरीश्वरविभूतित्वमिति फलितम्। सूर्यादेः सोमस्य पृथिव्याश्चेश्वरविभूतित्वस्योक्तत्वात्।(१अन्नं पृथिवी) ततश्च त्रिवृत्कृततेजआदिभूतत्रयकार्यस्य सर्वस्यापि जगतो भगवद्विभूतित्वं फलति। प्रसङ्गादत्र विशेषमाह— भोक्तेति। उभयम् अग्न्यन्नद्वयम् अग्नीषोमावित्युच्यते। ‘ईदग्नेः सोमवरुणयोः’ इति ईत्वम्। इदमुभयं सर्वमिति पश्यतः पुरुषस्य अन्नदोषलेपोऽन्नदोषसम्बन्धो न भवति। अन्नस्य हि पाकादिसामयिकक्रिमिकीटादिनाशप्रयुक्ताः कुट्टनीपेषण्यादयो दोषाः सन्ति, यन्निरसनाय हि वैश्वदेवो विहितः। तद्दोषसम्बन्धस्तु वैश्वदेवविहीनस्यापि दर्शितज्ञानवतो न भवति। ननु कुतो न भवति ‘इदमन्नं सोमः, अयमग्निर्भोक्ता वैश्वानरः’ इति ज्ञानमात्रेण? इति चेत् , उच्यते— यो ह्यन्नमत्ति, तस्यान्नदोषो भवति, न त्वनश्नतः, अन्यथाऽतिप्रसङ्गात्। न हि चैत्रभुक्तान्नगतगुणदोषप्रसक्तिर्मैत्रस्य। अन्यथा चैत्रे भुक्तवति सति अभुक्तवतोऽपि मैत्रस्य क्षुन्निवृत्तिः स्यात्। एवं सति ‘योऽन्नमत्ति सः वैश्वानरोऽग्निरेव, न त्वहम् , ममाभोक्तृत्वादि’ति यो वेत्ति कथं तस्यान्नदोषलेपो भवितुमर्हति? न कथमपि। किञ्च योऽस्मद्देहेऽन्नमत्ति सोऽग्निः साक्षाद्भगवद्रूपो वैश्वानर एव। यच्चेदमन्नं तच्च साक्षाद्भगवद्रूपः सोम एव, ‘सोमो भूत्वे’ति, ‘वैश्वानरो भूत्वे’ति च सोमवैश्वानरयोर्भगवद्रूपत्वप्रतिपादनादिति - यो जानाति, कथं तस्यान्नदोषगन्धसम्बन्धः? न कथमपि। अन्नस्य भगवदात्मकत्वानुसन्धानेन सर्वदोषप्रहाणात्। नन्वन्नस्य कथं सोमत्वम् , व्रीह्यादिपोषको हि सोम इति चेत्? उच्यते— सोमपुष्टव्रीह्यादिमयत्वादन्नस्य सोमत्वम् , सोमरस- मयत्वाद्वा, सोमदेवताकत्वादिति वा। एवमग्नीषोमदर्शनस्यान्नदोषनाशकत्वादेव तत्प्रतिपादकोऽयं श्लोकः परिषेचनकाले स्मार्तैः पठ्यते ॥१४॥

सर्वस्येति। अहं सर्वस्य हृदि सन्निविष्टश्च। मत्तः सर्व(ज्ञ)स्य स्मृतिर्ज्ञानमपोहनं च भवति। अहमेव सर्वैर्वेदैश्च वेद्यः। अहमेव वेदान्तकृत्। अहमेव वेदविच्च भवामीति शेषः। सन्निविष्टः सम्यङ् निविष्टः प्रविष्टः, प्रविश्य स्थितः इति यावत्। ननु सर्वव्यापिनश्चैतन्य- रूपेश्वरस्य कः पुनरपरः प्रवेशः इत्यत आह— आत्मा सन्निति। आत्मरूपेणेत्यर्थः। ‘अनेन जीवेनात्मनाऽनुप्रविश्य’ इति श्रुतेरिति भावः। शुद्धचैतन्यात्मना सर्वत्रावस्थितोऽपीश्वरः अन्तःकरणावच्छिन्नचैतन्यरूपेण प्रतिबिम्बरूपेण वा प्राणिनां बुद्धौ प्रविष्ट इति प्रतिष्ठितं वेद’ इति श्रुतिमाश्रित्याह— प्रविष्ट इति। परस्य जाठरात्मनोऽन्नपाके सहकारिकारणमाह— प्राणेति। संयुक्तत्वं सन्धुक्षितत्वम्। अन्नस्य चातुर्विध्यं प्रकटयति— भोज्यमिति। भोक्तरि वैश्वानरदृष्टिर्भोज्ये सोमदृष्टिरेवं भोक्तृभोज्यरूपं सर्वं जगदग्नीषोमात्मना भुक्तिकाले ध्यायतो भोक्तुरन्नकृतो दोषो नेति प्रासङ्गिकं सफलं ध्यानं दर्शयति— भोक्तेति॥१४॥

इतश्च सर्वात्मत्वेन सर्वव्यवहारास्पदत्वमीश्वरस्येत्याह— किञ्चेति। प्राणिजातं ब्रह्मादिपुत्तिकान्तम्। आत्मतया बुद्धौ सन्निविष्टत्वं तद्गुणदोषाणामशेषेन द्रष्टृत्वम्। अतो बुद्धिमध्यस्थस्य गुणदोषद्रष्टृत्वादिति यावत्। मत्तः सर्वकर्माध्यक्षाज्जगद्यन्त्र-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

प्राणापानाभ्यां समायुक्तः संयुक्तः पचामि पक्तिं करोमि, अन्नम् अशनं चतुर्विधं चतुष्प्रकारम्— भोज्यं, भक्ष्यं, चोष्यं, लेह्यं च। भोक्ता वैश्वानरोऽग्निः, भोज्यमन्नं सोमः, तदेतदुभयमग्नीषोमौ सर्वमिति पश्यतोऽन्नदोषलेपो न भवति॥१४॥

किञ्च— सर्वस्येति। सर्वस्य च प्राणिजातस्य अहमात्मा सन् हृदि बुद्धौ सन्निविष्टः, अतो मत्तः आत्मनः १. टिप्पणीरूपः अयं पाठ इति भाति।

[[७९५]]

तत्त्वम्। एतेनेश्वरादर्थान्तरं जीव इति परास्तम्। न चान्तर्यामिरूपेणेश्वरो जीवस्य बुद्धौ प्रविष्ट इति जीवादर्थान्तरमेवेश्वर इति वाच्यम् ; हृदि प्रविष्टस्य जीवान्येश्वरस्यानुपलम्भात्। न च नियमनादिभिर्लिङ्गैरनुमेय इति वाच्यम् ; प्रतीच एव नियमनादिसम्भवात्। न च स्वयमेव स्वस्य कथं नियामक इति वाच्यम् ; प्रत्यगात्मनः प्रमातृनियमनसम्भव इत्यदोषात्। न च प्रत्यगात्मैव प्रमातेति वाच्यम् ; अन्तःकरणोपहितस्य प्रत्यगात्मत्वम् , तदवच्छिन्नस्य (तद्विशिष्टस्य) चैतन्यस्य प्रमातृत्वमिति कल्पितभेदसत्त्वात्। न च विशेष्य- चैतन्यांशेऽभेद एवेति वाच्यम् ; तत्र नियमनादेरप्यभावात्। न च प्रत्यगात्मैवान्तर्यामीश्वरो जीवाद्भिन्न इति वाच्यम् ; जीवस्यैव स्वस्वरूपत्वात् प्रत्यगात्मनः। न च ‘गुहां प्रविष्टौ परमे परार्ध्ये’ इति, ‘द्वा सुपर्णा’विति, ‘ज्ञाज्ञौ द्वावजा’विति च श्रुतयो जीवेश्वरयोर्द्वयोर्गुहाहितत्वं ब्रुवन्तीति वाच्यम् ; एकस्यैव चैतन्यस्यान्तःकरणे उपहितत्वरूपेण विशिष्टत्वरूपेण द्वेधा प्रवेशः; अथवा बिम्बत्वरूपेण प्रतिबिम्बत्वरूपेण द्वेधा प्रवेश इति विवक्षितत्वात्। न च केनचित् स्वस्मादन्येनेश्वरेण प्रयुक्त इव जीवोऽनुभवति संसारमिति वाच्यम् ; अविद्यावस्थायां जीवो नात्मानं प्रत्यञ्चं मन्यते। असंसारी हि प्रत्यगात्मा क्षेत्रज्ञः, किन्तु संसारिणं प्रमातारमेव मन्यते। ततश्च साक्षिणा स्वेनैव प्रत्यगात्मना नियमितोऽपि परेण नियमितोऽहमिति प्रत्येति। स्वयमपि प्रत्यगात्मा हि जीवस्याज्ञानतः परोक्षकल्पतयाऽवतिष्ठते। अत एव स्वात्मभूतमपि प्रत्यञ्चं परोक्षेश्वरं मन्यन्ते मूढाः, द्वैतिनश्च तार्किकादयः। तस्मात् प्रत्यगात्मनः क्षेत्रज्ञादर्थान्तरं न भवत्यन्तर्यामीश्वरः, यमन्तर्यामिब्राह्मणादयः प्रतिपादयन्ति। इयं जीवरूपा प्रकृतिरीश्वरस्य परा विभूतिः। क्षेत्रलक्षणा अपरा विभूतिस्तु पूर्वश्लोकत्रयेण प्रतिपादिता। न च कथमीश्वरस्यैव सतो जीवस्य (कथम्) ईश्वरविभूतित्वमिति वाच्यम् ; अन्तःकरणाद्युपाधिप्रयुक्तत्वाज्जीवस्येश्वरविभूतित्वव्यवहारस्य। निरुपाधिकचैत- न्यस्य हि सोपाधिकचैतन्यं विभूतिः। विशेष्यांशस्याविभूतित्वेऽपि विशेषणांशस्योपाधेर्विभूतित्वेन विशिष्टस्यापि विभूतित्वव्यवहारात्। न च ‘यदादित्यगत’मिति श्लोकेनैव जीवविभूतिरुक्तेति वाच्यम् ; तत्रादित्यादित्रयगतस्यैव जीवचैतन्यस्य विभूतित्वेन प्रतिपादनम् , इह तु सर्वगतस्येति भेदात्। यथा ‘आदित्यानामहं विष्णु’रित्यादिकं प्रतिपाद्य विशेषतः, अन्ते ‘विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगद्’ इति सामान्यतः प्रतिपादितम् , तद्वदिति। अथवा आदित्यगतप्रमातृचैतन्यस्य भगवद्विभूतित्वं पूर्वमुक्तम् , इदानीं तु साक्षिचैतन्यस्येति भेदः। न च साक्षिचैतन्यं शुद्धमेवेति कथं विभूतित्वं तस्येति वाच्यम् ; शुद्धचैतन्ये साक्षित्वधर्मायोगात् साक्षिचैतन्यं सोपाधिकमेव। अन्तःकरणोपहितं हि चैतन्यं साक्षीत्युच्यते। तस्मादीश्वरादनर्थान्तरमपि साक्षी प्रत्यगात्मा क्षेत्रज्ञो जीव ईश्वरस्य निरुपाधिकचैतन्यस्य विभूतिभूत एव। अत इति। बुद्धौ मम सन्निविष्टत्वादेवेत्यर्थः। मत्त इति। अस्मच्छब्दलक्ष्यार्थभूतादात्मन इत्यर्थः। अथवा प्रत्यग्रूपेणावस्थितात् परमेश्वरान्मत्तः इत्यर्थः। स्मृतिरनुभूतार्थस्मरणम् , ज्ञानमनुभवः, अपोहनं तदुभयस्य नाशः- एतत् त्रयं भवति। तथाहि— यः पूर्वेद्युः घटमनुभूतवान् प्रमाता स तन्निशि ब्रह्मणि सम्पन्नत्वान्नष्ट एव , ‘प्राज्ञेनात्मना सम्परिष्वज्ये’ति, ‘सति सम्पत्स्यते’ इति च श्रुतेः। प्रमाता हि सुप्तावन्तःकरणतादात्म्याध्यासं विहाय कूटस्थात्मनाऽवतिष्ठते। अतस्तदा चैतन्यस्य प्रमातृत्वनाशात् प्रमाता नष्ट एव। सुप्त्यनन्तरं ब्रह्मणः सकाशादज्ञानकर्मवशात् पुनरुत्थितः परेद्युः प्रमाता तु पूर्वस्मात् प्रमातुरन्य एवेति कथं तस्य पूर्वदिनानुभूतघटस्मरणं सम्भवेत् साक्ष्यनुग्रहं विना? न कथमपि। न चैवं प्रतिसुषुप्ति प्रमातृनाशे प्रतिजागरं प्रमात्रन्तरोदये च कृतहानाकृताभ्यागमदोषप्रसङ्ग इति वाच्यम् ; प्रमातृनाशेऽप्युपाध्यनाशात् , उपाध्याश्रयत्वाच्च कर्मणः। न चान्तःकरणं नश्यत्येवेति वाच्यम् ; अविद्यायाः कारणशरीरस्य तूलाज्ञानस्योपाधेरनाशात् , तन्नाशस्यैव मोक्षत्वात् , तत्सत्त्वादेव पुनरावृत्तिप्रसङ्गात्। न चोपाध्यनाशे कथमुपहितनाश इति वाच्यम् ; प्रमात्रुपाधेरन्तःकरणस्य नाशेन प्रमातृनाशात्। अविद्या हि प्राज्ञस्योपाधिः। न च प्रमातुर्नष्टस्य दीपस्येव निर्वाणस्य कथं पुनरावृत्तिरिति वाच्यम् ; यदन्तःकरणावच्छिन्नः पूर्वः प्रमाता तदन्तःकरणावच्छिन्न एवायमुत्तरः प्रमातेति प्रमात्रभेदेन पुनरावृत्ति- सम्भवात्। अथवा अज्ञाने निलीय वर्तमानस्यान्तःकरणस्य ततः पुनरागमनात् [तत्-]तादात्म्याध्यासमापन्नः प्रमाताऽपि पुनरागत इत्युच्यते। न चैवं प्रमाताऽपि निलीय वर्तत एव सुषुप्तौ, न नष्ट इति वाच्यम् ; तस्यैव निलयनस्य नाशत्वेनास्माभिर्विवक्षितत्वात्। यद्वा भाष्यार्कप्रकाशः

[[अ. १५. श्लो. १४-१५]] [[७९६]]

सर्वप्राणिनां स्मृतिः, ज्ञानं, तदपोहनं च१। येषां २पुण्यकर्मणां पुण्यकर्मानुरोधेन ज्ञानस्मृती भवतस्तथा ३पापकर्मणां अन्तःकरणमज्ञाने संस्काररूपेण वर्तते, इदमेव निलीय वर्तनमन्तःकरणस्य। स च संस्कारोऽन्तःकरणमिव न प्रमातृत्वमावहति कूटस्थस्येति न सुषुप्तौ प्रमातृसद्भावः। यदि सुषुप्तौ संसारः स्यात् तर्हि संसारी प्रमाताऽपि स्यात्। न तु तथा दृश्यते। तस्मात् सुषुप्तौ प्रमाता नष्ट एव। कूटस्थात्मना तु तस्य नित्यत्वप्रतिपादनम्। एवं सति योऽहं पूर्वेद्युर्घटमद्राक्षं सोऽहमिदानीं स्मरामीति स्मरणं प्रमातुः स्मर्तुरनुभवित्रन्यस्य कथं सम्भवेत्? न हि चैत्रानुभूतोऽर्थो मैत्रेण स्मर्यते, अनुभवजन्यसंस्कारकार्यत्वात् स्मरणस्य। तच्च स्मरणमनुभवसिद्धं दुरपलापमिति कूटस्थानुग्रहकृतमेव स्मरणम्। कूटस्थ एव पूर्वदिनावस्थितप्रमातृरूपेण घटमनुभूतमुत्तरदिना- वस्थितप्रमातृरूपेण स्मरति, यथा प्रमाता चक्षुषा दृष्टं करेण स्पृशति, तद्वदिति भावः। अपिच साक्षिणाऽनुभूतस्य सुषुप्तिगतस्यानन्दस्याज्ञानस्य च प्रबोधे प्रमात्रा स्मरणं दृश्यते— सुखमहमस्वाप्सम् , न किञ्चिद- वेदिषमिति। तद्धि स्मरणं साक्ष्यनुग्रहादेवेति स्फुटम्। तथाऽनुभवश्च साक्षिणः सकाशादेव भवति। साक्षिचैतन्यप्रतिफलनप्रयुक्तत्वाद् वृत्तिज्ञानस्य। प्रमातृभावमापन्नं हि साक्षिचैतन्यं विषयावच्छिन्नब्रह्मचैतन्याभिन्नं सदनुभव इत्युच्यते। अत एव हि ‘तस्य भासा सर्वमिदं विभाति’ इति श्रुतिरुपपद्यते। तस्य साक्षिणो भासा स्वरूपचैतन्येन सर्वमिदं जगद् विभातीति श्रुत्यर्थः। साक्षिणोऽन्यस्य सर्वस्य जडत्वात् साक्ष्यनुग्रहादेवान्तःकरणस्य ज्ञानलाभ इति तत्त्वम्। तथा अपोहनं च साक्षिणः सकाशादेव भवति। सूर्ये तिमिरेण तिरोहिते सति यथा घटादिप्रकाशाभावः, एवं साक्षिण्यज्ञानेनाच्छादिते सति ज्ञानस्मरणाभावः। अन्तःकरणस्य तमोगुणोद्रेके सति प्रमात्रा न किञ्चिदनुभूयते, न किञ्चित् स्मर्यते, किन्तु निद्रादिकं प्रपद्यते। तत्र च कारणं तमोमयेऽन्तःकरणे साक्षिचैतन्यस्य स्फुटमस्फुरणमेव। अत्यन्तास्फुरणे तु मान्द्याद्यनुभवोऽपि न स्यात्। अथवा अत्यन्तं तमसा दूषितेऽन्तःकरणे नैव प्रतिफलति साक्षिचैतन्यम् , काष्ठादाविव मुखं, कर्दमच्छन्नदर्पणे मुखमिव च। तदैव निद्राति प्रमाता, स च निद्रानुभवः साक्षिण एव, न प्रमातुः। एवमन्तःकरणे तमसा दूषिते सति साक्षी अज्ञानेनावृत इव भवति। न तु वस्तुतस्तस्यावरणम् , जगदान्ध्यप्रसङ्गात्। अत उक्तं ‘ज्ञानस्मरणाभावोऽपि साक्षिण एवे’ति, सूर्यादेव घटादिप्रकाशाभाव इतिवत्। सूर्यानुदयप्रयुक्तो घटाद्यप्रकाशो यथा सूर्याद् भवतीत्युच्यते, तथा साक्ष्यप्रतिफलनप्रयुक्तो ज्ञानाद्यभावः साक्षिणः सकाशाद् भवती- त्युच्यते। राजानुग्रहाभावकृतमर्थिनां दारिद्र्यं राजकृतमिति यथोच्यते, तद्वच्चेति भावः। अथवा वृत्तय इव वृत्त्यन्तरालाः वृत्त्यभावाश्च साक्षिणा भास्यन्त इति सिद्धान्ताज्ज्ञानाद्यभावोऽपि साक्षिभास्यत्वेन साक्षिणो भवतीत्युच्यते। न ह्यभास्यमसाक्षिकं वस्तु किञ्चिदपि अस्तीति प्रतिपत्तुमर्हम्। अन्यथा शशशृङ्गादेरप्यस्तित्वप्रतीतिप्रसङ्गात्। तस्मात् साक्ष्यभास्यत्वे ज्ञानाभावस्य स्वरूपासिद्धिरेवे- त्युपपन्नमुक्तं साक्षिणोऽपोहनमिति। ननु यद्येवं तर्ह्यात्मन ईश्वरस्य वैषम्यादिप्रसङ्गः। केचित् किञ्चिज्जानन्ति, केचिदधिकं जानन्ति, केचिज्ज्ञातं विस्मरन्ति, केचित् स्मरन्ति चेत्येवमादेर्वैषम्यस्य साक्षिप्रयुक्तत्वाद् , अत आह— येषामिति। पुण्यपापकर्मप्रयुक्तसत्त्वादिगुणन्यूनाधिकभावकृतान्तःकरण- शुद्ध्यशुद्धितारतम्यकृतमेव साक्षिप्रतिफलनवैचित्र्यम् , न तु साक्षिस्वरूपकृतम् , यथा दर्पणगतस्वच्छत्वास्वच्छत्वादितारतम्यकृतं मुखप्रतिफलनवैचित्र्यम् , न तु मुखस्वरूपकृतम् , तद्वदिति न साक्षिणो वैषम्यावकाश इत्यर्थः। यद्वा, स्मृतिः शास्त्राचार्योपदेशाद्याहितसंस्कारजनितं स्मरणम् , ज्ञानं कार्याकार्यविषयविवेकः, अपोहनं तदुभयभ्रंशः। ननु एकस्यैव प्राणिनः कथं स्मृतिर्ज्ञानवत्त्वं तद्भ्रंशवत्त्वं चेत्यत आह— येषामिति। पुण्यकर्मणां सर्वप्राणिनां पुण्यकर्मानुसारेण स्मृतिज्ञाने जायमाने अपि मत्त एव भवतः। तथा पापकर्मणां सर्वप्राणिनां पापानुरोधेन जायमानमपि स्मृतिज्ञानापोहनं मत्त एव भवति। ईश्वरस्य सूत्रधारादित्यर्थः। प्राणिनां स्मृतिज्ञानयोस्तदपायस्य च भगवदधीनत्वे भगवतो वैषम्यं स्यादित्याशङ्क् याह— येषामिति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘अपगमनं च’ इत्यधिकं क्वचित्। २. ‘येषां यथा पुण्यकर्मिणां’ इति पा.। ३. ‘पापकर्मिणां’ इति पा.।

[[७९७]]

वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद् वेदविदेव चाहम्॥१५॥

कर्मादिसाक्षित्वान्मत्त एवेत्युक्तम्। पूर्वोक्तविधया साक्षिप्रतिफलनतदभावयोर्ज्ञानतदभावहेतुत्वादिति वा। पुण्यकर्मणां पुण्यानुरोधेन, पापकर्मणां पापानुरोधेन च तत्तत्फलभूतं स्मरणं ज्ञानमपोहनं चाहमेव साक्षी परमेश्वरः प्रत्यगात्मा क्षेत्रज्ञः प्रदिशामि, मन्माया- कृतत्वात् सर्वव्यवहारस्येति परमार्थः। अपगमनं नाशः। ‘सम्मोहात्स्मृतिविभ्रमः, स्मृतिभ्रंशाद् बुद्धिनाशः’ इति पूर्वमुक्तम्। स च सम्मोहोऽज्ञानकार्यमेव, तच्चाज्ञानमीश्वरस्योपाधिरेवेति भगवन्माययैव प्राणिनामपोहनसम्भव इति भावः। वेदैरिति। ‘सर्वे वेदा यत्पदमामनन्ति’ इति श्रुतेरिति भावः। यद्यपि यज्ञादिप्रतिपादका अपि सन्ति वेदाः, तथापि यज्ञादेः सर्वस्य जगतो भगवति परमात्मनि कल्पितत्वेन भगवदात्मकत्वात् तत्प्रतिपादका अपि वेदाः परमात्मप्रतिपादका एव। ‘वासुदेवः सर्व’मिति ह्युक्तमत्रैव। ‘सर्वं खल्विदं ब्रह्मे’ति श्रुतिश्च। वेदैश्चेति चकारात् स्मृत्यादिग्रहणम्। किं बहुना? अकारादिपञ्चाशन्मातृका- क्षरान्यतमघटिताः सर्वेऽपि घटपटविष्णुशङ्करादिशब्दास्तत्तद्घटाद्यर्थबोधकतया लौकिकैः गृह्यमाणा अपि वस्तुतो घटाद्यवच्छिन्न- चैतन्येश्वरवाचिन एवेति बोध्यम्। न चैवं ‘यतो वाचो निवर्तन्त’ इति श्रुतिविरोधः, निर्विशेषचैतन्यपरत्वात् तच्छ्रुतेः। सविशेषं हि चैतन्यं सर्वे शब्दाः प्रतिपादयन्तीति वयं ब्रूमः। परमात्मेति। सर्वजगदाश्रयचैतन्यमित्यर्थः। परमात्मचैतन्ये हि सर्वं जगत् कल्पितं मायया। प्रत्यगात्मा तु सर्वान्तर इति न सर्वशब्दप्रतिपद्यः, तत्र सर्वस्याकल्पितत्वात्। अत उक्तं परमात्मेति। परमात्माभेदेन तु प्रत्यगात्मनः सर्वात्मत्वकथनं सर्वाधिष्ठान- कल्पनं चेति बोध्यम्। न हि प्रत्यगात्मपरमात्मनोर्वास्तवो भेदोऽस्ति, किन्त्वौपाधिक एव। देहाद्युपाधिप्रयुक्तो हि पूर्णचैतन्यस्यान्तरत्वबाह्यत्वरूपो भेदः। तस्मात् प्रत्यगभिन्नः परमात्मैव सर्ववेदवेद्यः। वेदान्तकृदिति। ‘तेने ब्रह्म हृदा य आदिकवये’ इति भागवताद् नारायणः परमेश्वरो ब्रह्मणे चतुर्मुखाय तावद् वेदान्तार्थमुपदिदेश, स च सनकादिभ्यः, ते नारदाय, स व्यासाय, स शुकायेत्येवं वेदान्तार्थसम्प्रदायप्रवर्तक इत्यर्थः। केवलवेदवित्त्वस्याधुनिकब्राह्मणेष्वपि सत्त्वाद् वेदार्थविदित्युक्तम्। वेदार्थश्च ब्रह्म सर्वस्यापि ब्रह्मत्वात्। ब्रह्मविदित्यर्थः। सर्वज्ञ इति यावत्। न तु मदन्यः कश्चित् सर्वज्ञोऽस्ति, मदन्यस्य सर्वस्य जडत्वात्। क्षेत्रज्ञस्य च मदात्मकत्वादित्यभिप्रायः। यत्तु रामानुजः - सर्वस्य चेति चशब्दात् सोमवैश्वानरयोर्ग्रहणमिति, देवमनुष्यादिशब्दैर्जीवात्मेव सूर्यादिशब्दैस्तदन्तर्यामी ईश्वरः प्रतिपाद्यत इति, वेदानामन्तः फलम् , तत्कृत् तत्प्रदातेति च। तन्मन्दम् ; सर्वशब्देनैव सोमादेरपि ग्रहणे सति तत्समुच्चायकत्वेन चशब्दस्य व्यर्थत्वात्। वैश्वानरस्य जठराग्नेर्जडत्वेन तदन्तरीश्वरप्रवेशासम्भवाच्च। जीवरूपेणेश्वरप्रवेशो ह्यत्र विवक्षितः। अन्तर्यामिरूपेणापि न हि जडे ईश्वरस्य प्रवेशः, फलाभावात्। न हि जडमीश्वरेण नियम्यते। एतेन सूर्यादिशब्दैः तदन्तर्यामीश्वरप्रतिपादने सम्भवत्यपि यूपादिशब्दैस्तदसम्भवाद् अनया विधया सर्ववेदवेद्यत्वं नास्तीश्वरस्येति सिद्धम्। किञ्च देवमनुष्यादिशब्दाः देवादिदेहतादात्म्याध्यासमापन्नं जीवं प्रतिपादयन्तु नाम। कथं पुनरीश्वरमध्यासशून्यं प्रति- स्मृतिर्जन्मान्तरादावनुभूतस्य परामर्शः। देशकालस्वभावविप्रकृष्टस्यापि ज्ञानमनुभवः। १धर्माधर्माभ्यां विचित्रं कुर्वतो नेश्वरस्य वैषम्यमिति भावः। वेदवेद्यं परं ब्रह्म भगवतोऽन्यदिति शङ्कां वारयति— वेदैरिति। २वेदान्तानां पौरुषेयत्वं परिहरति— वेदेति। तदर्थसम्प्रदायप्रवर्तकत्वार्थं तदर्थयाथातथ्य-ज्ञानवत्त्वमाह— वेदार्थेति॥१५॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

पापकर्मानुरूपेण स्मृतिज्ञानयोः अपोहनं च अपायनम् अपगमनं च। वेदैश्च सर्वैः अहमेव परमात्मा वेद्यो वेदितव्यः, वेदान्तकृद् वेदान्तार्थसम्प्रदायकृदित्यर्थः, वेदविद् वेदार्थविदेव चाहम्॥१५॥

अ. १५. श्लो. १५ ] १. जीवकृतधर्माधर्मावपेक्ष्य तथा कुर्वतो न वैषम्यमित्यर्थः। २. यथाश्रुते इति शेषः। वेदानामन्तो निर्णयो यस्मात् स वेदान्तः, ब्रह्मसूत्ररूपः, तस्य व्यासरूपेण कर्ता इति माध्वाः। तत्र वेदान्तशब्दस्य रूड्यर्थत्यागोऽस्वरसः। स्वमते तु रूढिपूर्वकलक्षणा योगापेक्षया बलवतीति न्यायः।

[[७९८]]

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते॥१६॥

पादयेयुः? यदीश्वरोऽप्यध्यासवान् तर्ह्यज्ञ एव स्यात् सोऽपि, जीववत्। न चेश्वरस्याध्यासाभावेऽपि वेदानां तत्सत्त्वात् प्रतिपादनं सम्भवतीति वाच्यम् ; तथा सति वेदानामज्ञत्वेनाप्रमाणत्वापत्तेः। न हि देवोऽहं मनुष्योऽहमिति जीवस्याज्ञस्य वचनं प्रमाणं, येन तादृशं ‘सूर्य ईश्वरश्चन्द्र ईश्वरः’ इति वेदवचनं प्रमाणं स्यात्। किञ्च जडस्य वेदस्य कथमध्याससम्भवः? न हि घटस्याध्यासो दृष्टः। वेदपुरुषस्तु सर्वज्ञ एवेति कथं तस्याध्यासः सम्भवति? वेदान्तकृदित्यस्यापि वेदफलप्रदातेत्यर्थोऽप्ययुक्त एव, वेदोक्तकर्मफलप्रदातेत्यर्थस्य लाक्षणिकत्वात्। केवलवेदस्य फला- भावाच्च। ‘वेदाक्षराणि यावन्ति पठितानि द्विजोत्तमैः। तावन्ति हरिनामानि कीर्तितानि न संशयः॥’ इति स्मृतेश्चोच्चार्यमाणवेदस्यैव फलवत्त्वप्रतिपादनपरत्वम् , न केवलवेदस्य। किञ्च करोतीति कृदित्यस्य दातेत्यर्थवर्णनमपि व्याकरणविरुद्धम्। यच्च वेदान्तशब्दस्यो- पनिषत्परत्वे प्रकृतासङ्गतमिति वेदान्तदेशिकः, तदसत् , विभूतिकथनप्रस्तावे वेदान्तसम्प्रदायकृत्त्वविभूतिवर्णनस्यापि सङ्गतत्वात् ॥१५॥

द्वाविति। विशिष्टोपाधयः तेजोबलादयः तत्तदुपाधयः परस्परं भिन्नाः। तत्कृतो भगवतो विभूतिसङ्क्षेपो ‘यदादित्यगतं तेजः’ इत्यादिना ग्रन्थेनोक्तः। प्रकर्षेण विभक्तः प्रविभक्तः प्रविविक्तस्तद्भावेन प्रविभक्ततया क्षराक्षरोपाधिद्वयाद् विविच्येत्यर्थः। निरुपाधिकस्य उपाधिरहितस्य, निर्विशेषस्येति यावत्। अत एव केवलस्य एकस्यात्मनश्चिन्मात्रस्येति वा। तत्त्वं याथार्थ्यं, स्वरूपमिति यावत्। तस्य निर्धारयितुमिच्छया निर्दिधारयिषया । त्रिधा राशीकृत्येति। राशित्रयीकृत्येत्यर्थः। लोके क्षरश्चाक्षर एव चेति इमौ द्वौ पुरुषावित्युच्येते। सर्वाणि भूतानि क्षर इत्युच्यन्ते। कूटस्थोऽक्षर इत्युच्यते। संसारः सुखदुःखसम्भोगः, तस्मिन् , तदाश्रयभूतावित्यर्थः। अथवा संसारो व्यवहारः, तस्मिन् विषये, व्यवहारगोचरावित्यर्थः। पुरुषोत्तमो ह्यव्यवहार्यः, ‘यत्तदद्रेश्यमग्राह्य’मित्यादिश्रुतेः। लोके जगतीति तु नोक्तमाचार्यैः, क्षराक्षरयोरेव जगत्पदार्थत्वेन क्षराक्षरातिरिक्त- जगत्पदार्थाभावात्। क्षरति नश्यतीति क्षरः। एको राशिरेका कोटिरित्यर्थः। तद्विपरीतः क्षराद् विलक्षणोऽविनाशित्वादिति भावः। भगवन्मायाशक्तिरेवाक्षरः पुरुष इत्युच्यते। अनेकेषां संसारिणां जन्तूनां प्राणिनां ये कामकर्मादिसंस्कारास्तेषामाश्रयः। प्रलयदशायां सुषुप्तौ च संस्काररूपेण हि तत्तज्जीवोपाध्यन्तःकरणानि प्रकृतौ निलीय वर्तन्ते। तानि च प्रलयावसाने पुनः प्रादुर्भवन्ति प्रकृतेः उत्तरश्लोकानां तात्पर्यं वक्तुं वृत्तं कीर्तयति—भगवत इति। विशिष्टोपाधिः आदित्यादिः। सम्प्रति आऽध्यायसमाप्तेरुत्तरसंदर्भस्य तात्पर्यमाह—अथेति। न केवलं निरुपाधिकात्मस्वरूपनिर्धारणायोत्तरग्रन्थः, किन्तु सर्वस्यैव गीताशास्त्रस्यार्थनिर्णयार्थमित्याह— तत्रेति। क्षराक्षरोपाधिभ्यां परमात्मना च राशित्रयम्। उक्तेन सर्वात्मत्वेनाशुद्ध्यादिदोषप्रसक्तावुक्तम्— द्वाविमाविति। २पुरुषोपाधित्वात् पुरुषत्वं, न साक्षादिति विवक्षित्वाऽऽह— पुरुषाविति। परं पुरुषं व्यावर्तयति— भगवत इति। तत्र कार्यलिङ्गकमनुमानं ३सूचयति—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

भगवतः ईश्वरस्य नारायणाख्यस्य विभूतिसङ्क्षेपः उक्तो विशिष्टोपाधिकृतः ‘यदादित्यगतं तेजः’ इत्यादिना। अथाधुना तस्यैव क्षराक्षरोपाधिप्रविभक्ततया निरुपाधिकस्य केवलस्य १स्वरूपनिर्दिधारयिषयोत्तरे श्लोकाः आरभ्यन्ते। तत्र सर्वमेवातीतानागताध्यायार्थजातं त्रिधा राशीकृत्याह— द्वाविमाविति। द्वाविमौ पृथग् राशीकृतौ पुरुषावित्युच्येते लोके संसारे। क्षरश्च क्षरतीति क्षरो विनाशी इति एको राशिः, अपरः पुरुषः अक्षरः तद्विपरीतः। भगवतो मायाशक्तिः १. ‘तत्त्वस्वरूपनिर्दिधारयिषया’ ‘तत्त्वनिर्दिधारयिषया’ इति पा.। २. चेतनवाचिनः पुरुषशब्दस्य जडे प्रयोगमुपपादयति—पुरुषोपाधित्वादिति। तत्तादात्म्या- ध्यासात् तच्छब्दता। ३. जडस्य जगद्रूपकार्यस्य उपादानकारणं जडं किंचिदपेक्षणीयम्। अतः भगवतो मायाशक्तिरेव तदुपादानमिति भावः।

[[७९९]]

क्षराख्यस्य पुरुषस्योत्पत्तिबीजम् अनेकसंसारिजन्तुकामकर्मादिसंस्काराश्रयोऽक्षरः पुरुषः उच्यते। कौ तौ पुरुषौ? इत्याह स्वयमेव भगवान् —क्षरः सर्वाणि भूतानि समस्तं विकारजातमित्यर्थः। कूटस्थः कूटो राशिः, राशिरिव स्थितः। अथवा - कूटो माया वञ्चना जिह्मता कुटिलतेति पर्यायाः। अनेकमायावञ्चनादिप्रकारेण स्थितः कूटस्थः, संसारबीजानन्त्याद् न क्षरतीति अक्षरः उच्यते॥१६॥१ सकाशादिति प्रकृतिर्भूतोत्पत्तिबीजम्। वृक्षोत्पत्तिं प्रति बीजस्येव भूतोत्पत्तिं प्रति प्रकृतेः कारणत्वेन बीजत्वात्। विकारजातं कार्यवर्गं [वर्गः]ब्रह्मादिस्तम्बपर्यन्तश्चेतनवर्गः, मृत्पाषाणाद्यचेतनवर्गश्चेत्यर्थः। भवन्तीति भूतानीति व्युत्पत्त्या भूतशब्दस्य कार्यमात्रपरत्वादिति भावः। अन्यथा रामानुजोक्तविधया चेतनवर्गमात्रग्रहणेऽचेतनवर्गस्य राशित्रयाद् बहिर्भूतत्वं स्यात्। न चेष्टापत्तिः, भगवता राशि- चतुष्टयस्याप्रतिपादितत्वात्। क्षराक्षरपुरुषोत्तमाख्यं राशित्रयं हीह प्रतिपादितम्। क्षराक्षराभ्यामन्यस्य पुरुषोत्तमस्याचेतनत्वं च स्यात्। चेतनवर्गात् कूटस्थाच्चाचेतनवर्गो ह्यन्य इति। राशिरिवेति। अप्रकम्प्यस्वभाव इत्यर्थः। कूट इव तिष्ठतीति कूटस्थः। कूटरूपेण तिष्ठतीति च कूटस्थ इति व्युत्पत्त्यन्तरमाश्रित्याह— अथवेति। एकमेवाज्ञानं मायावञ्चनाजिह्मताकुटिलताशब्दैरुच्यत इति मायादि- प्रकारेण स्थितमित्यर्थः। माया इन्द्रजालादिः। वञ्चना प्रतारणम् , पश्यतो हरणादिकम्। जिह्मता कपटस्वभावः। कुटिलता कौटिल्यमित्येतेषामवान्तरस्वरूपभेदसत्त्वान्मायावञ्चनादिप्रकारेणेत्युक्तम्। चतुर्णामप्यज्ञानपदार्थत्वात् पर्याया इत्युक्तम्। ननु ज्ञान- नाश्यायाः प्रकृतेः कथमक्षरकूटस्थत्वम्? अत आह— संसारेति। संसारबीजानां कामकर्माविद्यानामानन्त्याद् बीजाङ्कुरन्यायेना- नन्तत्वात् तदाश्रया प्रकृतिरप्यनन्तैव। न ह्याश्रयस्य सान्तत्वे तदाधेयस्यानन्तत्वं स्यात्। एवमनन्तत्वात् प्रकृतिर्न क्षरति न नश्यतीत्यक्षर इत्युच्यते। यावज्ज्ञानोदयमक्षरत्वस्य विवक्षितत्वात् सापेक्षं नित्यत्वमस्ति मायाया इति भावः। एवं सर्वं कार्यजातमेकः पुरुषो विनाशिस्वभावात् , कारणं माया त्वन्यः पुरुषोऽविनाशिस्वभावात्। अतः कार्यं जगत् क्षरपदार्थः, कारणमज्ञानं माया त्वक्षरपदार्थः इति राशिद्वयमनेन श्लोकेन प्रतिपादितम्। तृतीयराशिं तु पुरुषोत्तमाख्यमुत्तरश्लोकेन प्रतिपादयिष्यति। यत्तु रामानुजः - तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीवशब्दाभिलपनीयब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि, अचित्संसर्गवियुक्तः स्वेन रूपेणावस्थितो मुक्तात्मा अक्षरः पुरुषः, एकत्वनिर्देशस्तु अचिद्वियोगरूपैकोपाधिनाऽभिहित इति, तत् तुच्छम्। किमिह जीव ईश्वरश्च विविच्य प्रदर्श्यते, उताविविच्य? आद्ये, अचित्संसृष्टो जीवः क्षर इत्ययुक्तम्। द्वितीये, ईश्वरोऽप्यचिद्विशिष्ट एवेति क्षर एव स्यादिति कथं तस्य क्षरादन्यत्वम्? तथाऽचिद्विशिष्ट एवेति कथमक्षरादन्यत्वं च तस्य? क्षराख्यस्येति। मायाशक्तिं विना भोक्तॄणां कर्मादिसंस्कारादेवोक्तकार्योत्पत्तिरित्याशङ्क् य तस्य निमित्तत्वेऽपि मायाशक्तिरुपादानमिति मत्वाऽऽह— अनेकेति। कामकर्मादीत्यादिशब्देन ज्ञानं गृह्यते। ‘प्रकृतिं पुरुषं चैवे’ति प्रकृतयोरिह ग्रहणमिति शङ्कामाकाङ्क्षाद्वारा वारयति— कौ ताविति। कूटशब्दार्थमुक्त्वा तेन स्थितस्य कूटस्थतेति सम्पिण्डितमर्थमाह— अनेकेति। तस्य कथमक्षरत्वम्? विना ब्रह्मज्ञानमनाशादित्याह— संसारेति॥१६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १५. श्लो. १५-१६ ] १. क्षरतीति व्युत्पत्त्या क्षरः कार्यवर्गः, अक्षरः कारणं माया इति अद्वैतिव्याख्यानम्। तत्र ‘क्षरः सर्वाणि भूतानि’ इति चेतनवाचिनो भूतशब्दस्य, पुरुषशब्दस्य च प्रयोगोऽनुपपन्नः इति अस्वरसात् ‘क्षरो ब्रह्मादिजीवराशिः, अक्षरो लक्ष्मीः’ इति माध्वाः। तत्रापि नित्यत्वाज्जीवस्य क्षरत्वं कथमिति शङ्कायां ‘ब्रह्मरुद्रादयः सर्वे शरीरक्षरणात् क्षराः। श्रीरक्षरात्मेत्युदिता नित्यचिद्देहका यतः॥’ इति शरीरक्षरणाक्षरणाभ्यामेव जीवानां लक्ष्म्याश्च क्षराक्षरशब्दवाच्यत्वमुपपादितम्। लक्ष्म्याश्च क्षरशब्दोक्तचेतनाचेतनात्मकराशेः नियामकत्वेन प्रकृतित्वं चोक्तम्— ‘चेतनाचेतनस्यास्य राशेः संस्थापकत्वतः। कूटस्थ आत्मा सा ज्ञेया’ इति। इदं च घट्टकुटीप्रभातायितम्। क्षरशरीरसंबन्धात् क्षरत्वोक्तौ हि मुख्यं क्षरत्वं कार्यस्य देहस्यैवेति सिध्यति। तथा च क्षरशब्दो मुख्यार्थकः कार्यवर्गग्रहणे। किंच लक्ष्म्याः स्वरूपतः अक्षरत्वसंभवेऽपि अक्षरदेहकत्वेनाक्षरत्वोक्तिः अत्र क्षराक्षरविभागः उपाधिप्राधान्येनैव विवक्षित इति गमयति। तथाच पुरुषोपाधिरूपयोः कार्यकारणयोः जगन्माययोः क्षराक्षरशब्दवाच्यत्वं मुख्यमिति तयोः ग्रहणमेव युक्तम्।

[[८००]]

अचिद्विविक्तचित्प्रदर्शनं च कूटस्थोऽक्षर इति कथम्? न च जीवः प्रकृतेर्विविच्याविविच्य च द्वेधा प्रदर्श्यते, ईश्वरस्तु विविच्यैव प्रदर्श्यत इति न दोष इति वाच्यम् ; किं बद्धजीवो विविच्याविविच्य च प्रदर्श्यते, उत मुक्तजीवः? नाद्यः, तस्य विविच्य प्रदर्शनायोगात्। विवेचिते सति बद्धत्वस्यैवापायात्। नान्त्यः, तस्याविविच्य प्रदर्शनायोगात्। विविक्त एव हि मुक्तः। तथा किं विशिष्टेश्वरो विविच्य प्रदर्श्यते? उत शुद्धचिन्मात्रः? नाद्यः, विशिष्टस्य विवेचनायोगात्। नान्त्यः, तव मते निर्विशेषचिन्मात्रेश्वरानभ्युपगमात्। न च जीवो बन्धदशायां क्षरणस्वभावाचिद्वैशिष्ट्यात् क्षरः; मुक्तिदशायां तद्वियोगादक्षर इति; प्रकृतिपुरुषविशिष्टोऽपीश्वरः प्रकृतिपुरुषाभ्यामन्य एव, दण्डविशिष्टः पुरुषो दण्डादिवेति चोच्यत इति वाच्यम् ; किं जीवस्य स्वभावतः क्षरणं धर्मः? उताक्षरणम्? आद्ये, कथमक्षरत्वं तस्य? द्वितीये, कथं क्षरत्वम्? न च स्वभावतोऽक्षरोऽपि जीवोऽचिद्वैशिष्ट्यात् क्षर इति वाच्यम् ; स्वभावसिद्धस्य धर्मस्य स्वरूपनाशं विना विनिमयायोगात्। न ह्यग्निरुष्णस्वभावः शीतस्वभावो भवति विना स्वरूपनाशम्। न चाचिद्विशिष्टे जीवेऽचिद्गतं क्षरणमारोप्यत इति वाच्यम् ; स्वसिद्धान्तभङ्गप्रसङ्गात्। न च ‘विशेष्यस्य बाधे सति विधिनिषेधौ विशेषणमुपसङ्क्रामत’ इति न्यायेनाचिद्विशिष्टो जीवः क्षर इत्युक्तेऽचित एव विशेषणांशस्य क्षरत्वमापततीति वाच्यम् ; तथा सत्यचित्पदार्थः क्षरः, चित्पदार्थोऽक्षर इत्येव वक्तव्यम् , किमनया अचिद्विशिष्टो जीवः क्षर इति कुकल्पनया? न च मूलकर्तुरेवायं दोषः, न ममेति वाच्यम् ; अहो! तव पाण्डित्यप्रकर्षः! येन भगवत्यपि पराशरसूनौ दोषमासञ्जयसि। सर्वाणि भूतानीत्यस्य सर्वमचिद्द्रव्यमित्यर्थवर्णने सति किं तव रसना विदीर्यते? अपि च तव मते प्रकृतेरपि नित्यत्वेन कथं क्षरणस्वभावमचिद्द्रव्यं भवेत्? न च कारणप्रकृतिरेव नित्या, तत्परिणामास्तु देहादयोऽनित्या एवेति वाच्यम् ; तथा सति सर्वं कार्यजातं क्षर इति श्रीशङ्करभगवत्पादाचार्यप्रोक्तार्थ एव घट्टकुटीप्रभातन्यायेन तवापि पर्यवसानात्। एवं क्षरशब्देन विनाश्यचिद्द्रव्यप्रतिपादने सत्यविनाश्यचिद्द्रव्यप्रतिपादनस्याप्यावश्यकत्वादिह केन वाक् येन पुनस्तदविनाश्यचिद्द्रव्यं प्रतिपादितम्। न च ‘कूटस्थोऽक्षर उच्यत’ इति वाक् येनेति वाच्यम् ; अन्यथा व्याख्यातत्वात्तद्वचनस्य त्वया। न च तत्प्रतिपादनमनावश्यकमिति वाच्यम् ; विनाशी अविनाशी चेति द्वावेव हि पदार्थौ। तदतिरिक्तपदार्थाभावात्। न हि विनाशाविनाशावेकस्मिन् स्तः, येन तदुभयात्मकं पदार्थान्तरं स्यात्। तत्र कार्यजातं सर्वं विनाशिपदार्थः। स क्षरः सर्वाणि भूतानीत्यनेनोक्तः। अविनाशी तु द्विविधः- चिदचिद्भेदात्। न हि चेतनादचेतनाच्चान्यद् वस्त्वस्ति, तदुभयात्मकं तदुभयविलक्षणं वा। न च तदुभयविलक्षण ईश्वरोऽस्तीति वाच्यम् ; चेतनत्वेनेश्वरस्य तद्विलक्षणत्वासम्भवात्। द्रष्टा हीश्वरस्त्वयाऽप्यभ्युपगतः। कथमचेतनस्य द्रष्टृत्वम्? तस्मादविनाशी द्विविध एव, चिदचिद्भेदात्। तत्र च ‘उत्तमः’ इति श्लोकेन चित् प्रतिपाद्यते। अचित्तु न केनापीति कृत्वा प्रतिपाद्यस्याप्रतिपादनं दोष एव। तथा एक एव चित्पदार्थः ‘कूटस्थ’ इति वाक् येनापि प्रतिपाद्येत चेत् पुनरुक्तिदोषश्च। न च न पुनरुक्तिदोषः, यथा अविनाशी पदार्थो द्विविधः तथा चित्पदार्थोऽपि द्विविध एव, जीवेश्वरभेदात्। तत्र जीवः कूटस्थवाक् येनेश्वरः परमात्मवाक् येन च प्रतिपाद्यत इति वाच्यम् ; ‘परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः’ इति परमात्मवाक् यस्यापि जीवप्रतिपादकत्वात्। कूटस्थवाक् यस्यापि निर्विकारेश्वरप्रतिपादकत्वाच्च। ‘एतस्य वा अक्षरस्ये’ति श्रुतिर्ह्यक्षरशब्दमीश्वरं परं ब्रूते। न च तत्तत्प्रकरणादिवशात् तत्तच्छब्दानां तत्तदर्थविशेषवाचकत्वमिति प्रकृतेऽक्षरशब्दः कूटस्थशब्दश्च जीवपर एव। परमात्मशब्दस्तु ईश्वरपर एवेति वाच्यम् ; चित्पदार्थस्ये- श्वरस्याचित्पदार्थाद् वैलक्षण्यसत्त्वेऽपि चित्पदार्थाज्जीवाद्वैलक्षण्यस्य दुर्वचत्वेन ‘उत्तमः पुरुषस्त्वन्यः’ इति कथनस्यासङ्गतत्वापत्तेः। न च ज्ञानैकाकारयोरपि जीवेश्वरयोर्धर्मतो भेदोऽस्तीति वाच्यम् ; निर्धर्मकत्वाच्चैतन्यस्य जीवेश्वरस्वरूपभूतस्य। प्रकृतिवियुक्तं हि मुक्तप्राप्यमात्मस्वरूपं सच्चिदानन्दं सुखादिसंसाररहितं सर्वज्ञं चेति तवाप्यभ्युपगमः। तस्मान्न सर्वज्ञत्वकिञ्चिज्ज्ञत्वप्रयुक्तोऽपि जीवेश्वरभेदोऽस्ति। न च सर्वज्ञं यदि चैतन्यं तर्हि सधर्मकमेवेति वाच्यम् ; सर्वज्ञत्वं सर्वावभासनम् , तच्चानुभवमात्रं चैतन्यमेवेत्यभ्युपगमात्। तस्मादिह कूटस्थवाक् यमविनाश्यचिद्द्रव्यमेव प्रतिपादयति, न त्वात्मानम् , तस्योत्तरवाक् येन प्रतिपादयिष्य- माणत्वादिति नात्र जीवेश्वरभेदकल्पनं न्याय्यमिति स्थितमद्वैतम्॥१६॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

[[८०१]]

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥१७॥

उत्तम इति। सोऽन्यः उत्तमः पुरुषस्तु परमात्मेत्युदाहृतः। अव्ययः ईश्वरो यः लोकत्रयमाविश्य बिभर्ति। अन्यत्वं पूर्वोक्त- क्षराक्षरापेक्षयेत्याह— आभ्यामिति। उपाधिसंसृष्टस्योपाध्यन्यत्वायोगादाह— अस्पृष्ट इति। निरुपाधिक इत्यर्थः। कार्योपाधिकारणो- पाधिद्वयरहित इति यावत्। अत एव नित्यशुद्धबुद्धमुक्तस्वभावः; अत एव पूर्वोक्तपुरुषद्वयादयमुत्तमः पुरुष इत्याह— उत्तम इति। पूर्णत्वात् पुरि देहे शयनाद्वा पुरुषः। क्षराक्षरयोरुपाध्योस्तु पुरुषभोग्यत्वात् पुरुषत्वम्। न च पुरुषशब्दस्य जीववाचित्वाद् बद्धमुक्तजीवौ द्वावेव क्षराक्षरपुरुषाविति वाच्यम् ; ‘स वा एष पुरुषोऽन्नरसमयः’ इति श्रुत्या देहस्यापि पुरुषत्वस्योक्तत्वात्। अस्यां पुरि उपाधौ शेते परमात्मेति पुरुष इति व्युत्पत्त्या च पुरुषशब्दः क्षराक्षरोपाधिपरः। अत्यन्तेति। प्रकृतेस्तत्कार्यस्य च जडत्वादनृतत्वाद् दुखत्वाच्च, परमात्मनश्चेतनत्वात् सत्यत्वादानन्दत्वाच्च वैलक्षण्यमत्यन्तमित्यर्थः। ‘सच्चिदानन्दं ब्रह्मे’त्यादिश्रुतेरिति भावः। देहादीति। देहादिरूपेभ्योऽविद्याकृतेभ्य आत्मभ्य आत्माभासेभ्य इत्यर्थः। देहात्मेन्द्रियात्ममनआत्मबुद्ध्यात्माव्यक्तात्मभ्यः इति यावत्। परम उत्कृष्ट अकल्पितत्वादिति भावः। आत्मा सर्वभूतानामन्तरात्मा। केन रूपेणेत्यत आह— प्रत्यक्त्वेनेति। कथ- मात्मत्वम्? अत आह— चेतन इति। आत्मा हि सर्वं चेतयति, स्वभासा चेतयितृत्वस्यैवात्मधर्मत्वात्। ‘तस्य भासा सर्वमिदं विभाती’ति श्रुतेः। ननु परमात्मशब्दादभिधया अक्लेशेन परिपूर्णचैतन्येश्वरवाचिनः क्लेशेन प्रत्यगात्मार्थाकर्षणमयुक्तमिति चेत् , मैवम् , ‘परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः’ इति पूर्वानुरोधात्। परिपूर्णचैतन्यस्यैव प्रत्यगात्मत्वाच्चोपाधिवशात्। किञ्च ‘यो लोकत्रयमाविश्ये’ति सर्वभूतान्तःप्रवेशेन लिङ्गेन सर्वान्तरचैतन्यमेवेह ग्रहीतुमुचितम्। क्वोदाहृतोऽत आह— वेदान्तेष्विति। विशिष्यत इति। विशेषणविशिष्टतया प्रतिपाद्यत इत्यर्थः। तस्यैव कश्चिद् विशेषणविशेषः (धर्मविशेषः) कथ्यत इति यावत्। स्वकीयया स्वाभाविक् येत्यर्थः, मायामय्येति यावत्। बलशक्त्या सहेति शेषः। अयं भावः— परमात्मा निर्विशेषचिन्मात्रोऽपि मायया ज्ञानबलक्रियाशक्तियुक्तप्रत्यग्रूपेण सर्वान्तरात्मा सन् ज्ञानशक्त्या सर्वं चेतयति, बलशक्त्या सर्वं बिभर्ति, यथा अपतितं स्यात् तथा बिभर्तीत्यर्थः। क्रियाशक्त्या तु सर्वं कर्म कारयतीति। तत्र बलशक्तिकार्य- मिहोच्यते— ‘यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः’ इति। कथं बिभर्तीत्यत आह— स्वरूपेति। बिम्बप्रतिबिम्बभावविशिष्टम् अन्तःकरणावच्छिन्नं वा चैतन्यमिह स्वरूपशब्दार्थः, न तु शुद्धम् , तस्य मृतशरीरेऽपि सत्त्वात् तेन मृतशरीरस्याधृतत्वाच्च। एतेन कार्यकारणाख्यौ राशी दर्शयित्वा राश्यन्तरं दर्शयति— आभ्यामिति। वैलक्षण्यफलमाह— क्षरेति। उपाधिद्वयकृतगुणदोषा- स्पर्शे फलितमाह— नित्येति। आभ्यां क्षराक्षराभ्यामिति यावत्। उत्तमोऽन्य इति पदद्वयं वस्तुतः सर्वथैव क्षराक्षरात्मत्वाभावदृष्ट्यर्थम्। जडवर्गस्यान्यत्वकृतं स्वातन्त्यं निरयति— स एवेति। लोकत्रयमित्युपलक्षणम्। सर्वं जगदपि विवक्षितम्। चैतन्यमेव बलम् , तत्र शक्तिर्माया, तयेति यावत्। जगद्धारणे परस्य व्यापारान्तरं वारयति— स्वरूपेति। न चास्यान्यो धारयिता, स्वतोऽचलत्वादित्याह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

आभ्यां क्षराक्षराभ्याम् अन्यः विलक्षणः क्षराक्षरोपाधिद्वयदोषेणास्पृष्टो नित्यशुद्धबुद्धमुक्तस्वभावः— उत्तम इति। उत्तमः उत्कृष्टतमः पुरुषस्तु अन्योऽत्यन्तविलक्षण आभ्याम् , परमात्मेति परमश्चासौ देहाद्यविद्याकृतात्मभ्यः आत्मा च सर्वभूतानां प्रत्यक् चेतनः इत्यतः परमात्मेति उदाहृतः उक्तो वेदान्तेषु। स एव विशिष्यते - यो लोकत्रयं भूर्भुवःस्वराख्यं स्वकीयया चैतन्यबलशक्त्या आविश्य प्रविश्य बिभर्ति स्वरूपसद्भावमात्रेण बिभर्ति धारयति अव्ययो

[[अ. १५. श्लो. १६-१७]] [[८०२]]

नास्य व्ययो विद्यत इत्यव्ययः। १कः? ईश्वरः सर्वज्ञो नारायणाख्यः ईशनशीलः॥१७॥

यथाव्याख्यातस्येश्वरस्य पुरुषोत्तमः इत्येतन्नाम प्रसिद्धम् , तस्य नामनिर्वचनप्रसिद्ध्याऽर्थवत्त्वं२ नाम्नो दर्शयन् निरतिशयोऽहमीश्वरः इत्यात्मानं दर्शयति भगवान्— यस्मादिति। यस्मात् क्षरमतीतोऽहं संसारमायावृक्षम् अश्वत्थाख्यम् अतिक्रान्तोऽहम् , अक्षरादपि संसारमायावृक्षबीजभूतादपि चोत्तमः उत्कृष्टतमः, ऊर्ध्वतमो वा। अतः औपाधिकमेवेदं लोकत्रयभरणमात्मन इति सिद्धम्। मात्रपदाद् राष्ट्रभरणे राज्ञ इव, लोकत्रयभरणे नात्मनः कोऽपि प्रयत्नादिरिति सूच्यते। ततश्च निर्विकारत्वं सिध्यति। न च लोकत्रयवर्तिचराचरभूतसङ्घात एव प्रत्यगात्मना ध्रियते, न तु लोकत्रयमिति वाच्यम् ; लोकत्रयशब्दस्यात्र तद्वर्तिभूतसङ्घाते लाक्षणिकत्वात्। न च चतुर्दशलोकसत्त्वात् कथं लोकत्रयमिति वाच्यम् ; सर्वेषां त्रिष्वेवान्तर्भावात्। अव्ययोऽविक्रिय इत्यर्थः। ईश्वरशब्दार्थमाह— ईशनशील इति। ईशनं नियमनं तस्य च ज्ञानपूर्वकत्वादाह— सर्वज्ञ इति। सर्वावभासक इत्यर्थः। मायया सर्वं वेत्तीति वा। तस्य च प्रसिद्धं नाम निर्दिशति— नारायणाख्य इति। नारस्य भूतसङ्घस्यायनं प्रवृत्तिर्यस्मात् स नारायणः। प्रत्यगात्मना विधृत एव सन् भूतसङ्घः प्रवर्तते हि। इदमेवोक्तम् ‘यो लोकत्रयमाविश्य बिभर्ती’ति। तस्मात् प्रत्यगात्मैव नारायणः। नारस्यायनं स्थितिर्यस्मिन् स नारायण इति व्युत्पत्त्या तु परमात्माऽपि नारायण एव। अत एव ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतेः। एवं नारायणाख्यं परिपूर्णमेकमेव चैतन्यं सर्वं भूतसङ्घं प्रत्यग्रूपेण प्रविश्य बलशक्त्या धारयत् सत् क्षराक्षरविलक्षणपुरुषोत्तमशब्दवाच्यं भवतीति फलितोऽर्थः। कार्यप्रकृतिः क्षरपुरुषः, कारणप्रकृतिरक्षरपुरुषः, प्रत्यगभिन्नः परमात्मा तूत्तमपुरुष इति विवेकः। श्लोकस्य—अन्यः परमात्मा तूत्तमः पुरुष इत्युदाहृत इत्यप्यन्वयः सम्भवति। यत्तु रामानुजः - क्षराक्षरशब्दनिर्दिष्टाभ्यां बद्धमुक्तपुरुषाभ्यामन्यः पुरुषोत्तम ईश्वरः परमात्मा, अचेतनं बद्धमुक्तजीवौ चेति लोकत्रयं य आत्मतया आविश्य बिभर्ति, अव्ययत्वादीश्वरत्वाद् व्यापकत्वाद् भर्तृत्वाच्च लोकत्रयादर्थान्तरभूत ईश्वर इति, तत्तुच्छम् ; असङ्गपुरुषस्याचित्संयोगवियोगायोगेन बद्धत्वमुक्तत्वावस्थयोरसम्भवात्। निरुपाधिकस्य च मुक्तात्मनः सव्ययत्वानीश्वरत्वाद्ययोगात्। ज्ञानैकाकारयोर्जीवेश्वरयोरेकपदार्थत्वेन पदार्थद्वित्वायोगाज्जीवादीश्वरो नार्थान्तरभूतः। अत एवोक्तं हि ‘ममैवांशो जीव’ इति भगवता। यश्च तस्यापि रामानुजेन दर्शितोऽपार्थः, स तत्रैव परिहृतः॥१७॥

यस्मादिति। अहं यस्मात् क्षरमतीतो यस्माच्चाक्षरादप्युत्तमः, अतोऽहं लोके वेदे च पुरुषोत्तम इति प्रथितोऽस्मि। ऊर्ध्वमूल- मित्युपक्रमादुपसंहारेऽपि तं स्मारयति— संसारेति। सर्वभूतमयः संसारवृक्षः क्षरपदार्थः, तमतीतोऽतिक्रान्तः क्षरादुत्तम इत्यर्थः। बीजेति। यद्यप्यूर्ध्वमूलमिति साव्यक्तं ब्रह्मैव मूलमित्युक्तम् , तथापि तत्र मायांशस्यैव बीजत्वमिति बोध्यम्। निर्विशेषचिन्मात्रस्य जगद्धेतुत्वाभावाद् अक्षरादव्यक्तादित्यर्थः। उत्कृष्टतम इति। सच्चिदानन्दरूपत्वादिति भावः। ऊर्ध्वतम इति। ‘तमसः परस्ता’दिति अव्यय इति। ‘संयुक्तमेतत्क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः’ इति श्रुत्यर्थं गृहीत्वाऽऽह— ईश्वर इति॥१७॥

किञ्च लोकवेदयोर्भगवतो नामप्रसिद्ध्या सिद्धमप्रपञ्चत्वमित्याह— यथेति। अश्वकर्णादिवदस्य नाम्नो रूढत्वादर्थविशेषाभावाद् भगवतोऽपि लौकिकेश्वरवदीश्वरत्वं सातिशयमिति, नेत्याह— तस्येति। यस्मादित्यस्यापेक्षितं निक्षिपति — अत इति। उत्तमः पुरुष इति वाक् यशेषः॥१८॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥१८॥

१. ‘कः?’ इति क्वचिन्न। २. ‘अन्वर्थत्वम्’ इति पा.।

[[८०३]]

श्रुतेरिति भावः। सबीजात् संसारमण्डलादुपरि वर्तते, न तु तदन्तः देहादिपदार्थवदिति परमार्थः। अत इत्यस्यार्थं स्वयमेवाह— ताभ्यामिति। पुरुषाभ्यां द्वाभ्यां क्षराक्षराभ्यामुत्तमः पुरुषोत्तम इति निरुक्तिः। पुरुषेषु क्षराक्षरपरमात्मसु त्रिषु मध्ये उत्तमः पुरुषोत्तमः इति निरुक्तिरप्यस्ति, तस्याः अप्यत्रैव पर्यवसानं बोध्यम्। लोके प्रसिद्धिं दर्शयितुं कवयः इत्यादिकमुक्तम्। स च ‘[न च] तेन विना निद्रां लभते पुरुषोत्तमः’ इत्यादिकाव्ये प्रयोगः॥१८॥

य इति। य एवमसम्मूढः सन् मां पुरुषोत्तमं जानाति, हे भारत! स सर्वविद् भवति, मां सर्वभावेन भजति। सम्मोह आत्मा- नात्माविवेकः। ज्ञानप्रकारं दर्शयति— अयमहमस्मीति। पुरुषोत्तमं प्रत्यगभिन्नं परमात्मानम् , परमात्माभिन्नं प्रत्यगात्मानमिति वा, क्षराक्षरविलक्षणं चैतन्यमिति परमार्थः। सर्वभावेनेति। आत्मैवेदं सर्वमिति बुद्ध्येत्यर्थः। सर्वात्मकतयेति। सर्वात्मभावेन इत्यर्थः। मां परमात्मानं भजति प्राप्नोति, परमात्मसायुज्यं लभते। निर्मुक्तोपाधिःसन् परिपूर्णचैतन्यात्मनाऽवतिष्ठत इति यावत्। यः परमात्माभिन्नं प्रत्यगात्मानमयमहमस्मीति साक्षात्कुरुते, तस्य ज्ञातव्यांशशेषाभावात् सर्ववित्त्वं, देहावसाने परमात्मसायुज्यं च भवतीति फलितार्थः। यद्वा भजति सेवते। तथा च य एवमात्मानमपरोक्षतया वेद स विद्वान् यावद्देहापायं सर्वं विषयजातं सेवमानोऽपि स्वसेव्यमानं सर्वं तद् ब्रह्मेत्येव वेदेति ब्रह्मैव सेवते। ब्रह्म हि सर्वात्मकं ‘सर्वं ब्रह्मे’ति श्रुतेरिति फलितार्थः। यत्तु रामानुजः - ईश्वरं पुरुषोत्तमं ज्ञात्वा सर्वप्रकारैर्भजते जीव इति, तन्मन्दम् ; अज्ञैरपीश्वरस्य सेव्यमानत्वात्॥१९॥

इतीति। हे अनघ! इतीदं गुह्यतमं शास्त्रं मयोक्तम्। हे भारत! मुमुक्षुरेतद्बुद्ध्वा बुद्धिमान् कृतकृत्यश्च स्यात्। मोक्षः फलं यस्य तन्मोक्षफलम्। ननु गीताशास्त्रे असमाप्ते सत्येव कथमुक्तम् ‘इति शास्त्र’मितीत्यत आह— यद्यपीति। ननु कथमस्याध्यायस्यैकस्य आत्मनोऽप्रपञ्चत्वं ज्ञानफलोक्त्या स्तौति— अथेति। यथोक्तविशेषणं सर्वात्मत्वादिविशेषणोपेतमिति यावत्। क्षराक्षरातीतत्वं यथोक्तप्रकारः। सम्मोहवर्जितः सम्मोहेन देहादिष्वात्मात्मीयत्वबुद्ध्या रहितः इत्यर्थः। भगवन्तं जानतः सर्ववित्त्वं तस्यैव सर्वात्मना मेय- त्वादित्याह— स सर्वविदिति। सर्वात्मनि मय्येवासक्तचित्तत्वेनेत्यर्थः॥१९॥

अध्यायार्थमनूद्योपसंहारश्लोकमवतारयति— अस्मिन्निति। सर्वस्यां गीतायां शास्त्रशब्दे वक्तव्ये कथमस्मिन्नध्याये तत्प्रयोगः स्यादित्याशङ्क् याह—यद्यपीति। सन्निहितमध्यायं स्तोतुमपि कुतस्तत्र शास्त्रशब्दस्तदर्थाभावात् , तत्राह—सर्वो हीति। गीताशास्त्रार्थस्य

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ताभ्यां क्षराक्षराभ्यामुत्तमत्वाद् अस्मि भवामि लोके वेदे च प्रथितः प्रख्यातः पुरुषोत्तम इत्येवं मां भक्तजनाः विदुः। कवयः काव्यादिषु चेदं नाम निबध्नन्ति , पुरुषोत्तम इत्यनेनाभिधानेनाभिगृणन्ति॥१८॥

अथेदानीं यथानिरुक्तमात्मानं यो वेद तस्येदं फलमुच्यते— यो मामिति। यो माम् ईश्वरं यथोक्तविशेषणम् एवं यथोक्तेन प्रकारेण असम्मूढः सम्मोहवर्जितः सन् जानाति अयमहमस्मीति पुरुषोत्तमम् , स सर्ववित् सर्वात्मना सर्वं वेत्तीति सर्वज्ञः सर्वभूतस्थं भजति मां सर्वभावेन १सर्वात्मचित्ततया, हे भारत !॥१९॥

अस्मिन्नध्याये भगवत्तत्त्वज्ञानं मोक्षफलमुक्त्वा, अथेदानीं तत् स्तौति— इति गुह्यतममिति। इति एतद् गुह्यतमं गोप्यतमम् , अत्यन्तरहस्यमित्येतत्। किं तत् ? शास्त्रम्। यद्यपि गीताख्यं समस्तं शास्त्रमुच्यते, तथापि यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्। स सर्वविद् भजति मां सर्वभावेन भारत !॥१९॥

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ !। अ. १५. श्लो. १७-२० ] १. ‘सर्वात्मतया’ इति रा.पा.।

[[८०४]]

अयमेवाध्यायः इह शास्त्रमित्युच्यते स्तुत्यर्थम् , प्रकरणात्। सर्वो हि गीताशास्त्रार्थोऽस्मिन्नध्याये समासेनोक्तः। न केवलं १गीताशास्त्रार्थ एव, किन्तु सर्वश्च वेदार्थः इह परिसमाप्तः। ‘यस्तं वेद स वेदवित्’ (भ.गी.१५.१), ‘वेदैश्च सर्वैरहमेव वेद्यः’(भ.गी.१५.१५) इति चोक्तम्। इदमुक्तं कथितं मया हे अनघ अपाप ! । एतत् शास्त्रं यथादर्शितार्थं बुद् ध्वा बुद्धिमान् स्याद् भवेत् , नान्यथा, कृतकृत्यश्च, भारत ! कृतं कृत्यं कर्तव्यं येन स कृतकृत्यः। विशिष्टजन्म- प्रसूतेन ब्राह्मणेन यत् कर्तव्यं तत् सर्वं भगवत्तत्त्वे विदिते कृतं भवेदित्यर्थः। न चान्यथा कर्तव्यं परिसमाप्यते कस्यचिदित्यभिप्रायः। ‘सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’(भ.गी. ४.३३) इति चोक्तम्। ‘एतद्धि जन्मसामग्र्यं शास्त्रत्वम्? अत आह—सर्वो हीति। क्षराक्षरपरमात्मव्यतिरिक्तगीताशास्त्रार्थाभावादिति भावः। इह अस्मिन्नध्याये। कुतः परिसमाप्तः? अत आह— यस्तमिति। समूलसंसारविद एव वेदार्थवित्त्वाद् वेदार्थस्य समूलसंसारस्येहोक्तत्वाच्चेति भावः। कारणान्तरमाह— वेदैश्चेति। सर्ववेदवेद्यस्य सर्ववेदार्थभूतस्य परमात्मन इह प्रतिपादितत्वादिति भावः। तव निष्पापत्वादेतच्छ्रवणं जातमित्याह— हे अनघेति। यथादर्शितार्थं यथोक्तार्थकमित्यर्थः। दर्शितमर्थमनतिक्रम्येति वा। बुद्धिमान् सदसद्विवेकशालीत्यर्थः, पण्डित इति यावत्। अनात्मविवेकेनात्मविऊदिति परमार्थः। अन्यथेति। एतच्छास्त्रमविदित्वेत्यर्थः। एतच्छास्त्रार्थमन्यथा विदित्वेति वा। विशिष्टजन्म सद्वंशः। ब्राह्मणेनेति। संन्यासिनेत्यर्थः। ‘ब्राह्मणस्य विजानतः’ इत्यत्र तथा व्याख्यातत्वादाचार्यैः। संन्यासिनामेव गीताशास्त्रे ऽधिकाराच्च। यत्कर्तव्यमिति। स्वाश्रमविहितं कर्मेत्यर्थः। यद्वा संन्यासाश्रमस्वीकारात् प्राग् यत् कर्तव्यं यज्ञादिकमस्ति, तत् सर्वं संन्यासाश्रमं स्वीकृत्य प्रकृतशास्त्रार्थवेदने सति तेन कृतमेव भवतीत्यर्थः। अथवा कलियुगे क्षत्रवैश्ययोः शूद्रप्रायत्वाद् ब्राह्मणेनेत्युक्तम् , ततश्च ब्राह्मणेन द्विजेन यत् कर्तव्यं यज्ञादिकं तत् सर्वं संन्यासाश्रमस्वीकारद्वारा वेदान्तश्रवणं कृत्वा भगवत्तत्त्वे विदिते सति कृतं भवेदित्यर्थः। एतेन ब्राह्मणस्यैव गीतास्वधिकारो नान्येषाम् , नापि स्त्रीणामिति सिद्धम्। असंन्यासिनामपि ब्राह्मणानां क्वचिद् वेदान्तशास्त्रेऽधिकारदर्शनाद् गृहस्थादीनामपि ब्राह्मणानां वेदान्तपाठ इव गीतापाठेऽप्यस्त्यधिकारः, तदर्थविचारे च। भाष्यकाराणां तु वेदान्तानां गीतानां वा पाठमात्र एवासंन्यासिनामधिकारः, अर्थविचारे तु संन्यासिनामेवेति मतम्। स्त्रीशूद्रादीनां पाठमात्रेऽपि गीतानाम् , वेदानामिव नाधिकारः इति सर्वेषां सम्मतम् , ‘स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा’ इति स्मरणात् , त्रयीतुल्यत्वाच्च गीतायाः। भगवद्गीतासूपनिषत्स्विति ह्युच्यते। अन्यथेति। भगवत्तत्त्ववेदनं विनेत्यर्थः। ज्योतिष्टोमादौ कृतेऽपि चयनादेः कर्तव्यस्यावशिष्यमाणत्वादिति भावः। उक्तार्थे गीतामेव प्रमाणयति— सर्वमिति। मनुस्मृतिं च प्रमाणयति— एतदिति। ‘यद्विष्णोर्लिङ्गधारण’मिति पाठान्तरम्। विष्णोर्लिङ्गं संन्यासस्तद्धारणमिति यत् तदेतदेव जन्मसामग्र्यं जन्मनः सामग्र्यं साफल्यं यस्मात् तत् तथोक्तम् , संन्यासिनां तत्त्वविदामेव सर्वस्यात्र सङ्क्षिप्तत्वादेव केवलं शास्त्रशब्दो न भवति, किन्तु वेदार्थस्यापि सर्वस्यात्र समाप्तेर्युक्तं शास्त्रपदमित्याह— नेति। तत्र गमकमाह — यस्तमिति। भगवत्तत्त्वज्ञाने कृतकृत्यतेत्येतदुपपादयति— विशिष्टेति। नान्यथेत्युक्तं प्रपञ्चयति— न चेति। सत्यपि तत्त्वज्ञाने कर्मणां कर्तव्यत्वान्न कर्तव्यसमाप्तिरित्याशङ्क् याह— सर्वमिति। तत्त्वज्ञाने कृतार्थतेत्यत्र मनोरपि सम्मतिमाह— एतद्धीति। भारतेति सम्बोधनतात्पर्यमाह— यत इति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

एतद् बुद् ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत !॥२०॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः॥१५॥

१. ‘गीताशास्त्रार्थ एव’ इति क्वचिन्न।

[[८०५]]

जन्मफलम् , अन्येषां तु पश्वादिजन्मवद् व्यर्थमेवेत्यर्थः। अकृतकृत्यत्वादज्ञानामिति भावः। एतत्तत्त्वश्रवणादर्जुनोऽपि कृतकृत्य एवेत्याह— यत इति। एतेन येषामेतदध्यायार्थश्रवणं भवति, ते सर्वेऽपि कृतार्था एवार्जुनवदिति सूच्यते। इदं च भारतेति सम्बोधनसूचितमिति न निर्मूलं भाष्यम्। क्षत्रियाणामसंन्यासिनामपि गीतार्थश्रवणाधिकारोऽस्तीति भगवता अर्जुनाय गीतार्थस्योपदेश एव सूचयतीति कृत्वा कथमर्जुनाय कृष्णेनोक्तमिति न शङ्कनीयमिति। अयं चाध्यायः सर्वगीतार्थवेदार्थपरि- समाप्तिमत्त्वेनोत्कृष्ट इति कृत्वा सर्वगीताशास्त्रपारायणासमर्थाः शिष्टाः इममध्यायमन्वहं पठन्ति। एतत्पाठवशाच्च सर्वपापविनिर्मुक्ताः इह जन्मनि, जन्मान्तरे वा शमदमादिपूर्वकं संन्यासमुपलभ्य, वेदान्तश्रवणादिना तत्त्वं ज्ञात्वा मुक्तिं यास्यन्तीति कृत्वा एतत्पाठोऽपि क्रमेण कृतकृत्यताहेतुरेव। तस्मात् सर्वैरपि मुमुक्षुभिः पठनीयोऽयमध्यायः सर्वथा श्रोतव्यश्चास्यार्थश्चिन्तनीयश्च। धन्योऽस्म्यहं यदेतदध्यायभाष्यार्थविवरणं लब्धं मम। ये चैतत् पश्यन्ति, वदन्ति, शृण्वन्ति ते च धन्या एव। ‘एतद् बुद् ध्वा बुद्धिमान् स्यात् कृतकृत्यश्चे’त्युक्तत्वेन ज्ञानमात्रमेव कृतकृत्यत्वकारणम् , न तु कर्मज्ञानसमुच्चय इति सूचितम्। ततश्च – ‘तरति शोकमात्मवि’दिति श्रुत्यनुसारो गीतायाः सिध्यति। अत एवोपनिषत्तौल्यं गीताया उपनिषदभेदश्च, उपनिषदर्थप्रतिपादकत्वाद् गीताया इति॥२०॥

पुरुषोत्तमप्राप्तिः - परमात्मस्वरूपप्रतिपादनमिति यावत्। पुरुषोत्तमस्य प्राप्तिर्यस्मात् तत् पुरुषोत्तमप्राप्ति ज्ञानं, तस्य योगः सम्बन्धो यत्र स पुरुषोत्तमप्राप्तियोगः। पुरुषोत्तमप्राप्तिर्मोक्षः, तत्प्रदायकः प्रकृताध्यायार्थश्च पुरुषोत्तमप्राप्तिरुच्यत इति वा; ये गत्यर्थास्ते ज्ञानार्थका इति प्राप्तिर्ज्ञानमित्यर्थ इति वा। क्षराक्षरपुरुषाभ्यामुत्तमस्य पुरुषस्य परमात्मन इह प्रतिपादितत्वादस्याध्यायस्य पुरुषोत्तमप्राप्तियोग इति नाम कृतमिति भावः। इति श्रीबेल्लङ्कोण्डोपनामक रामकविकृतौ श्रीभगवद्गीताभाष्यार्कप्रकाशे पुरुषोत्तमप्राप्तियोगो नाम पञ्चदशोऽध्यायः॥१५॥

॥श्रीहयग्रीवार्पणमस्तु॥

तदनेनात्मनो देहाद्यतिरिक्तत्वं, चिद्रूपत्वं, सर्वात्मत्वं, कार्यकारणविनिर्मुक्तत्वेनाप्रपञ्चत्वं, तस्याखण्डैकरसब्रह्मात्मत्वज्ञानाद् अशेषपुरुषार्थपरिसमाप्तिरित्युक्तम्॥२०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने पञ्चदशोऽध्यायः॥१५॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ब्राह्मणस्य विशेषतः। प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा॥’ (म.स्मृ.१२.९३) इति च मानवं वचनम्। यत एतत् परमार्थतत्त्वं मत्तः श्रुतवानसि, ततः कृतार्थस्त्वं भारतेति॥२०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीभगवद्गीताभाष्ये पुरुषोत्तमयोगो१ नाम पञ्चदशोऽध्यायः॥१५॥

अ. १५. श्लो. २० ] १. ‘पुरुषोत्तमप्राप्तियोगः’ इति रा.पा.। DO NOT PRINT THIS PAGE ॐ श्रीपरमात्मने नमः