॥अथ चतुर्दशोऽध्यायः॥
श्रीभगवानुवाच— परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्। यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥१॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
२उत्पद्यमानं सर्वं क्षेत्रक्षेत्रज्ञसंयोगादुत्पद्यत इत्युक्तम्। ‘यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ!॥’ इति श्लोकेनेति भावः। तत् क्षेत्रक्षेत्रज्ञसंयोगाद् भूतानां जननमित्यर्थः। कथमिति शङ्कायां तत्प्रकारं प्रदर्शयितुं चतुर्दशाध्याय आरभ्यते भगवतेति शेषः। सङ्गत्यन्तरं दर्शयति— अथवेति। ननु प्रकृतिपुरुषसंयोगाज्जगज्जायत इत्युक्तम् ; ‘क्षेत्रज्ञं चापि मां विद्धी’त्यादिना पुरुष एवेश्वर इति चोक्तम् ; ततश्च सिद्धमद्वैतस्य निरीश्वरसाङ्ख्यत्वम् , पुरुषातिरिक्तेश्वरानभ्युपगमादद्वैतमतेऽपि इति शङ्कायाम् , न वयं साङ्ख्या इव प्रकृतिपुरुषयोः स्वतन्त्रयोरेव जगत्कारणत्वं ब्रूमः, किन्त्वीश्वरपरतन्त्रयोरेव। यद्यपि साङ्ख्याः ‘न प्रकृतिर्न विकृतिः पुरुषः’ इति पुरुषस्य जगत्कारणत्वं स्वातन्त्येण पारतन्त्येण वा न प्रतिपादयन्ति, किन्तु स्वतन्त्रायाः प्रकृतेरेव तत् प्रतिपादयन्ति। तथापि छत्रिन्यायेन द्वयोरपीत्युच्यत इति बोध्यम्। एवम् अद्वैतमते क्षेत्रस्यैवेश्वरपरतन्त्रत्वात् क्षेत्रज्ञस्य चेश्वरत्वेन स्वतन्त्रत्वादुभयोरीश्वरपारतन्त्यकथनमपि छत्रिन्यायेनैवेति बोध्यम्। अयं चेश्वरः क्षेत्रज्ञ उदासीनो न जगत्कारणम् , किन्तु प्रकृतिस्थो गुणसक्तश्चेत्यस्ति साङ्ख्याद्वैतमतयोर्महद् वैषम्यम्। साङ्ख्यमते— प्रकृतिः स्वतन्त्रा जगद्धेतुः, पुरुषस्तूदासीनो न जगद्धेतुरिति। अद्वैतमते ईश्वरपरतन्त्रा प्रकृतिः, तत्संयुक्तः क्षेत्रज्ञश्चोभयं जगत्कारणमिति चाभ्युपगमात्। यद्वा विद्यादशायामेव क्षेत्रज्ञस्येश्वरैकत्वमद्वैतिनो वदन्ति, न त्वविद्यादशायाम्। अविद्यादशायां हि प्रकृतिस्थो गुणयुक्तश्च क्षेत्रज्ञ ईश्वरपरतन्त्र एव, प्रकृतिवदिति कृत्वा ईश्वरपरतन्त्रयोः प्रकृतिपुरुषयोर्जगत्कारणत्वं वदतां सेश्वरसाङ्ख्यानामद्वैतिनां, प्रकृतिपुरुषौ स्वतन्त्रौ प्रकृतिश्च जगत्कारणमिति वदतां निरीश्वरसाङ्ख्यानां च महदस्ति वैलक्षण्यमित्येवं प्रदर्शनार्थमेव क्षेत्रज्ञस्य प्रकृतिस्थत्वं, गुणेषु सङ्गश्च संसारकारणमित्युक्तम्। ‘पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु॥’ इति श्लोकेनेति भावः। न चेश्वरस्यैव क्षेत्रज्ञस्य कथमीश्वरपारतन्त्यमिति वाच्यम् ; वस्तुत अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् चतुर्दशादयोऽध्यायाः स्पष्टार्थाः।१ आनन्दगिरिकृतव्याख्या क्षेत्रक्षेत्रज्ञसंयोगस्य सर्वोत्पत्तिनिमित्तत्वमज्ञातं ज्ञापयितुम् अध्यायान्तरमवतारयन् अध्याययोरुत्थाप्योत्थापकत्वरूपां सङ्गति- माह— सर्वमिति। विधान्तरेणाध्यायारम्भं सूचयति— अथवेति। तदेव वक्तुमुक्तमनुवदति— ईश्वरेति। प्रकृतिस्थत्वं पुरुषस्य प्रकृत्या १. अतो न व्याख्यायन्ते। इतः परम् अष्टादशे एव किंचिदुच्यते (पृ. ८४७) इति भावः। २. भाष्यवाक्यमिदं प्रतीकतया धृतम्। सर्वमुत्पद्यमानं क्षेत्रक्षेत्रज्ञसंयोगादुत्पद्यत इत्युक्तम्। तत् कथमिति तत्प्रदर्शनार्थं ‘परं भूयः’ इत्यादिरध्यायः आरभ्यते। अथवा ईश्वरपरतन्त्रयोः क्षेत्रक्षेत्रज्ञयोर्जगत्कारणत्वम् , न तु साङ्ख्यानामिव स्वतन्त्रयोः - इत्येवमर्थं, प्रकृति-
[[७३५]]
स्थत्वं, गुणेषु च सङ्गः संसारकारणमित्युक्तम् ; कस्मिन् गुणे कथं सङ्गः? के वा गुणाः? कथं वा ते बध्नन्तीति ? गुणेभ्यश्च मोक्षणं कथं स्यात् ? मुक्तस्य च लक्षणं वक्तव्यमित्येवमर्थं च। १(श्रीभगवानुवाच—) परमिति। परं ज्ञानमिति व्यवहितेन सम्बन्धः। भूयः पुनः पूर्वेषु सर्वेष्वध्यायेष्वसकृदुक्तमपि प्रवक्ष्यामि। तच्च परं परवस्तुविषयत्वात्। किं तत् ? ज्ञानम् , सर्वेषां ज्ञानानाम् उत्तमम् उत्तमफलत्वात् । ज्ञानानामिति नामानित्वादीनाम् , किं तर्हि? यज्ञादि- ज्ञेयवस्तुविषयाणामिति। तानि न मोक्षाय, इदं तु मोक्षायेति परोत्तमशब्दाभ्यां स्तौति श्रोतृबुद्धिरुच्युत्पादनार्थम्। ईश्वरोऽपि क्षेत्रज्ञो मायया प्रकृतिस्थत्वादिना जीवभावमापन्नः सन्नीश्वरपरतन्त्रो भवतीति। न च माययाऽपि कथमयुक्तार्थस्योपपत्तिरिति वाच्यम् ; मायायां सर्वसम्भवादिति न्यायात् का नामानुपपत्तिः? मायया हि रज्जुरपि सर्पो भवति; गगनमपि नीलं भवति; मरुभूमिरपि जलप्रायप्रदेशो भवति; तल्पे शयानोऽपि देशान्तरे रथादिभिर्व्याप्रियते; स्वं छिन्नं शिरः स्वयमेव पश्यति; मृतोऽहमिति स्वयमेव रोदिति निद्रायाम्; चक्षुषस्तिमिरदोषादप्येकं चन्द्रमनेकत्वेन पश्यति; इन्द्रजालेनापि गगने हस्तिहर्म्यादयः कल्प्यन्ते, दृश्यन्ते चास्मदादिभिः। तस्मादीश्वरस्यापि क्षेत्रज्ञस्य मायया पारतन्त्यादिकं घटत एव, अघटितघटनापटीयस्त्वान्मायाया इति। ननूक्तमेव, किं ततः? इत्यत आह— कस्मिन्निति। तत्रेति शेषः। कस्मिन् गुणे क्षेत्रज्ञस्य कथं सङ्गः? के वा गुणाः कथं क्षेत्रज्ञं बध्नन्ति? कथं क्षेत्रज्ञस्य गुणेभ्यो मोक्षणं स्यात्? मुक्तस्य च किं लक्षणम्? इति प्राप्तानां प्रश्नानामुत्तरप्रदानार्थं चायमध्याय आरभ्यते। परमिति। अहमिति शेषः। भूयः, ते इति शेषः। ज्ञानानां मध्ये उत्तमं परं तज्ज्ञानं प्रवक्ष्यामि। सर्वे मुनयो यज्ज्ञात्वा इतः परां सिद्धिं गताः। भूय इत्यनेन पूर्वमस्योक्तत्वमवगम्यत इत्यभिप्रेत्याह— पूर्वेष्विति। तत्त्वस्य दुर्बोधत्वात् पुनःपुनः शब्दान्तरेण प्रतिपादनमिति भावः। प्रवक्ष्यामीति। प्रकर्षेण यथावद् वक्ष्यामि। परवस्तु ब्रह्म। तद्विषये ज्ञानेऽपि परत्वमुपचारादित्याह— परवस्तुविषयत्वादिति। यद्वा ज्ञानस्योत्कर्षापकर्षौ ज्ञेयाधीनौ, न तु स्वत इत्यभिप्रेत्य परवस्तुविषयत्वादित्युक्तम्। ननु प्रथमान्तं ज्ञानं ब्रह्मविषयम् , षष्ठ्यन्तज्ञानानि किंविषयाणीत्यत आह— यज्ञादीति। यज्ञ आदिर्येषां तानि यज्ञादीनि, तानि च तानि ज्ञेयवस्तूनि, यज्ञादिज्ञेयवस्तूनि विषया येषां तानि तथोक्तानि। ४यज्ञयागपूर्तादिधर्मविषयाणीत्यर्थः। ननु षष्ठ्यन्तज्ञानशब्देन पूर्वाध्यायोक्ताः अमानित्वादयो गृह्यन्ताम् , ते हि ज्ञानत्वेन प्रतिपादिताः, अत आह— न त्विति। ज्ञानसाधनान्येवामानित्वादीनि, न तु ज्ञानानीति भावः। ननु यद् ब्रह्मविषयं, यच्च धर्मविषयं तदुभयमपि सविषयज्ञानत्वेन तुल्यमेव, निर्विषयं चैतन्यरूपज्ञानमेवोत्तमम् , अत आह— उत्तमफलत्वादिति। ननु यज्ञादयो ऽप्युत्तमफलान्येव स्वर्गादीनि दिशन्तीत्यत आह— तानि न मोक्षायेति। यज्ञादिविषयज्ञानानि यज्ञाद्यनुष्ठापनद्वारा स्वर्गादीन्येव दिशन्ति, न तु मोक्षं, निरतिशयपुरुषार्थो हि मोक्षः उत्तमफलम्। ननु ब्रह्मज्ञानमपि तादृशमेवेत्यत आह— इदं त्विति। ब्रह्मज्ञानं तु मोक्षाय भवतीति शेषः। अनुष्ठानापेक्षाभावश्चाधिकोऽत्र गुणोऽस्तीति बोध्यम्। अयं चार्थः परोत्तमशब्दाभ्यां सिद्ध इत्याह— परेति। परविषयमुत्तमफलकं च ज्ञानम् अपरविषयेभ्योऽनुत्तमफलकेभ्यो ज्ञानेभ्य उत्कृष्टमिति भावः। इदं ज्ञानं परापरवस्तुविषयाणां ज्ञानानां सहैक्याध्यासः। तस्यैव गुणेषु शब्दादिविषयेषु सङ्गोऽभिनिवेशः। षड्विधामाकाङ्क्षां निक्षिप्य तदुत्तरत्वेनाध्यायारम्भे पूर्ववदेव पूर्वाध्याय- सम्बन्धसिद्धिरित्याह—कस्मिन्निति। पूर्वोक्तेनार्थेनास्याध्यायस्य२ समुच्चयार्थश्चकारः। परमित्यस्य भाविकालार्थत्वं व्यावर्तयितुं सङ्गतिमाह — परमिति। भूयःशब्दस्याधिकार्थत्वमिह नास्तीत्याह— पुनरिति। पुनःशब्दार्थमेव विवृणोति— पूर्वेष्विति। पुनरुक्तिस्तर्हीत्याशङ्क्य सूक्ष्मत्वेन दुर्बोधत्वात् पुनर्वचनमर्थवदित्याह— तच्चेति। विशेष्यं प्रश्नद्वारा निर्दिशति— किं तदिति। ३निर्धारणार्थां षष्ठीमादाय तस्य प्रकर्षं दर्शयति— सर्वेषामिति। ‘परम् , उत्तम’मिति पुनरुक्तिमाशङ्क्य विषयफलभेदान्मैवमित्याह— उत्तमेति। ‘ज्ञानं ज्ञेय’मित्यादौ ज्ञानशब्दे- नामानित्वादीनामुक्तत्वात् , तन्मध्ये च ज्ञानस्य साध्यत्वेनोत्तमत्वान्न तस्य वक्तव्यतेत्याशङ्क्याह— ज्ञानानामिति। नामानित्वादीनां ग्रहणमिति शेषः। इतिशब्दादूर्ध्वं पूर्ववदेव शेषो द्रष्टव्यः। यथोक्तज्ञानापेक्षया कुतस्तज्ज्ञानस्य प्रकर्षः? तत्राह— तानीति। स्तुतिफल-
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
१. कुण्डलितः पाठः आनन्दाश्रमपुस्तके नास्ति। २. अध्यायार्थस्येत्यर्थः। ३. ज्ञानानां मध्ये उत्तमं ज्ञानमित्यत्र निर्धारणं षष्ठ्यर्थः। ४. यज्ञो यागविशेषः।
[[अ. १४. श्लो. १]] [[७३६]]
यज्ज्ञात्वा यद् ज्ञानं ज्ञात्वा प्राप्य मुनयः संन्यासिनो मननशीलाः सर्वे परां सिद्धिं मोक्षाख्याम् इतोऽस्माद् देहबन्धनादूर्ध्वं गताः प्राप्ताः॥१॥
अस्याश्च सिद्धेरैकान्तिकत्वं दर्शयति— इदमिति। इदं ज्ञानं यथोक्तम् उपाश्रित्य ज्ञानसाधनमनुष्ठायेत्येतत्। मम परमेश्वरस्य साधर्म्यं मत्स्वरूपताम् आगताः प्राप्ता इत्यर्थः, न तु समानधर्मतां साधर्म्यम् , क्षेत्रज्ञेश्वरयोर्भेदा- मध्ये परमुत्तमं च परवस्तुविषयत्वान्मोक्षाख्योत्तमफलवत्त्वाच्च। यत् परवस्तुविषयमुत्तमफलवच्च न भवति तज्ज्ञानमपरमनुत्तमं च, यथा घटज्ञानमिति प्रयोगः। पूर्वार्धोक्तस्य ज्ञानस्यैवेह यच्छब्देन ग्राह्यत्वात् , ज्ञानस्य च स्वप्रकाशस्य ज्ञानान्तरवेद्यत्वासम्भवात् , तत्कल्पने चानवस्थादोषादाह— प्राप्येति। असंन्यासिनां श्रवणमननाद्यनधिकारात् , गृहदारापत्यादिपोषणादिव्यग्रतया मननावकाशा- सम्भवाच्च मुनयो मननशीलाः संन्यासिनः इत्युक्तम्। तत्त्वविदः सकाशाद् ज्ञानं प्राप्य, श्रुत्वेति यावत्। पश्चात् स्वयं मननं कृत्वेत्यर्थः। यत इमे संन्यासिनो मननशीलास्तत एव श्रुत्वा मननं कुर्वन्तीति भावः। यद्वा ज्ञानं प्राप्य श्रवणमननादिना ज्ञानं लब्ध्वेत्यर्थः। सर्वे प्राचीनाः याज्ञवल्क्यादयः। देहबन्धनादिति। देहबन्धनं विहायेति ल्यब्लोपे पञ्चमी। यत्तु रामानुजः— सत्त्वादिगुणविषयमिदं ज्ञानं प्रकृतिपुरुषविषयज्ञानानामुत्तममित्याह। तत्तुच्छम्। सत्त्वादिगुणविषय- ज्ञानस्य प्रकृतिविषयज्ञानाद् भिन्नत्वासिद्धेः। प्रकृतेरेव हि गुणाः सत्त्वादयः। सत्त्वादिगुणवती हि प्रकृतिः। पुरुषविषयज्ञानस्य मोक्षप्रदस्य परमात्मवस्तुविषयस्य च कथं सत्त्वादिगुणविषयज्ञानापेक्षया भवेदनुत्तमत्वम्? न कथमपीति। यच्च यज्ज्ञानं ज्ञात्वेति, तदप्यसत्। ज्ञानस्य ज्ञेयत्वायोगात्। ज्ञानं हि विषयि, ज्ञेयं तु विषयः। न हि विषयि विषयो भवेत्। अन्यथा घटज्ञानमपि घटो भवेत् ॥१॥
इदमिति। तेषां मोक्षं गतानां किं फलम् , को लाभः इति शङ्कायामिदमिति पद्यमुच्यते। तस्याश्च मोक्षाख्यायाः सिद्धेर्गतेः ऐकान्तिकत्वं ध्रुवत्वं चोच्यते इदमिति पद्येन। इदं वक्ष्यमाणं परवस्तुविषयं ज्ञानमुपाश्रित्य प्राप्य मम साधर्म्यमागताः, मुक्ताः इति यावत्। मुनयः इति शेषः। सर्गेऽपि नोपजायन्ते, प्रलये च न व्यथन्ति। मुक्तानामपुनरावृत्तिः फलमिति भावः। एतेन मोक्षस्य ध्रुवत्वं सिद्धम्। यदेव वक्ष्यमाणं, तदेव पूर्वोक्तं चेत्यभिप्रेत्याह— यथोक्तमिति। ज्ञानमिति। अहं ब्रह्मास्मीत्याकारकमिति भावः। तत्प्राप्तौ साधनं दर्शयति— ज्ञानसाधनमनुष्ठायेति। ज्ञानसाधनामानित्वाद्यनुष्ठानद्वारा ज्ञानं प्राप्येति यावत्। यद्वा इदं पूर्वोक्तं ज्ञानं ज्ञानसाधनम् अमानित्वादिकम् उपाश्रित्य अनुष्ठाय, ततः सम्यग्दर्शनप्राप्तिद्वारा मम साधर्म्यं ३समानोऽभिन्नो धर्मः सच्चिदानन्दलक्षणं स्वरूपं यस्य, तस्य भावः साधर्म्यम् , मत्स्वरूपतां मदभिन्नस्वरूपत्वम् , मद्भावमिति यावत् ; आगताः ब्रह्मभूताः इत्यर्थः। समानधर्मतेति। माह— श्रोतृबुद्धीति। ज्ञानं ज्ञात्वा१। ज्ञानस्य ज्ञेयत्वोपगमादनवस्थेत्याशङ्क्याह— प्राप्येति। मुनिशब्दस्य चतुर्थाश्रमविषयत्वे तन्मात्रादेव ज्ञानायोगात् कुतस्तेषां मुक्तिरित्याशङ्क्याह— मननेति। सिद्धेर्ज्ञानत्वं परामिति विशेषणाद् व्यावर्त्य मुक्तित्वमाह—मोक्षाख्यामिति। देहाख्यस्य बन्धनस्य २अध्यक्षत्वमाह— अस्मादिति॥१॥
ज्ञानफलस्य कर्मफलवैलक्षण्यमाह— अस्याश्चेति। कथं ज्ञानाश्रयणम्? तद्धेतुश्रवणादिसामग्रीसम्पत्तिद्वारेत्याह— ज्ञानेति। साधर्म्ये गोगवययोरिव विद्वदीश्वरयोरपि भेदः स्यादित्याशङ्क्याह— मत्स्वरूपतामिति। साधर्म्यस्य मुख्यत्वे भेदध्रौव्याद् गीताशास्त्र- १. भाष्यप्रतीकधारणमिदम्। तस्य च यथाश्रुतार्थे दोषं प्रदर्शयति—ज्ञानस्येति। २. इतः इतीदंशब्देन प्रत्यक्षतया निर्देष्टुं योग्यं देहबन्धनमाहेत्यर्थः। ३. समान- शब्दः सामानाधिकरण्यमित्यादाविवाभिन्नपरः, न तु तुल्यपरः, भगवत्तुल्यस्यान्यस्यासंभवात्।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥२॥
[[७३७]]
तुल्यधर्मत्वमित्यर्थः। ननु स्वत एव ब्रह्मभूतस्य कथं पुनः ब्रह्मभावप्राप्तिरुच्यते? अत आह— स्तुत्यर्थ इति। न तु वस्तुतो मोक्षाख्यं स्वरूपातिरिक्तं ज्ञानप्राप्यं किञ्चित् फलमस्तीति भावः। ब्रह्मण इति। हिरण्यगर्भस्य विनाशकाले द्विपरार्धावसाने। बहुवचनप्रयोगस्तु लोकव्यवहारसिद्धोपाधिभेदाभिप्रायेण, न त्वात्मभेदाभिप्रायेण। लोके हि शुको मुक्तः, वामदेवो मुक्तः, जनको मुक्तः इत्येवं व्यवहारो दृश्यते। स च शुकत्ववामदेवत्वजनकत्वादिः शरीरगत एव, न त्वात्मगतः, नामरूपाद्यभावादात्मनि। यत्तु रामानुजः— साधर्म्यं सादृश्यमिति, तत्तुच्छम्। सर्वज्ञसर्वेश्वरसर्वशक्तिसर्वनियामकसर्वजगत्सृष्टिस्थितिसंहारकर्तृसर्वग- कल्याणगुणनिलयपरमात्मसादृश्यस्य किञ्चिज्ज्ञपरतन्त्राल्पशक्तिनियाम्याजगत्कर्तृनिर्गुणाणुस्वरूपजीवेऽसम्भवात्। न हि मुक्तावपि अणोर्जीवस्यासर्वगस्य भवितुमर्हति सर्वज्ञत्वसर्वान्तर्यामित्वादीश्वरधर्मसञ्चयः। न च मुक्तौ सर्वव्याप्येव जीव इति वाच्यम् ; तथा सति बहूनां मुक्तजीवानां सर्वव्यापिनां सत्त्वेन सर्वभूतानां हृद्देशे ईश्वरवत् ते सर्वे जीवा अपि वर्तेरन्। न चेष्टापत्तिः, ‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती’ति वक्ष्यमाणत्वेन सर्वे मुक्तजीवा हृद्देशे तिष्ठन्तीति क्वाप्यप्रतिपादनेन, अन्तर्यामिब्राह्मणादिषु एकस्यैवेश्वरस्य सर्व- भूतस्थितिप्रतिपादनेन च विरोधात्। बहुषु नियामकेषु सत्सु एको बद्धजीवः केन नियमितं कुर्यात्? बहूनां नियामकेश्वराणां सत्त्वे कथमेकेश्वरत्वव्यवहारः? न च मुक्तजीवाः सर्वव्यापिनः सन्तोऽप्यनियामकाः सन्तस्तूष्णीं वर्तन्त इति वाच्यम् ; तथा सतीश्वरसाध- र्म्यायोगात्। एतेषां मुक्तजीवानामीश्वरानियाम्यत्वे ईश्वरस्य सर्वेश्वरत्वाभावप्रसङ्गात्। तन्नियाम्यत्वे च बन्धमुक्त्योरविशेषात्। अस्मद्धृदीश्वरसत्त्वं नियमनलिङ्गेनानुमीयते, अनन्तमुक्तजीवसत्त्वं तु केन प्रमाणेन वेद्यते? न केनापि। न च शास्त्रेणेति वाच्यम् ; शास्त्रे अनन्ताः मुक्तजीवाः भूतानां हृदि वर्तन्ते ईश्वरवदिति क्वाप्यप्रतिपादनात्। किञ्च यत्प्रदेशे जीवाः सन्ति, तत्प्रदेशे नेश्वर इति न स्यादीश्वरस्य सर्वव्यापित्वमपि। प्रकृतिपुरुषसंयुक्तेश्वरस्य प्रकृतिवियुक्तपुरुषस्य वा कथं साम्यम्? यदि मुक्तजीवेश्वरयोः क्वचिदंशे साम्यं क्वचिदंशे वैषम्यमित्युच्यते, तर्हि बद्धजीवेश्वरयोरपि ज्ञातृत्वनित्यत्वाद्यंशे साम्यमस्त्येवेति व्यर्थं स्यात् ‘मम साधर्म्यमागताः’ इति वचनम्। आगतेः प्रागेव साधर्म्यसत्त्वादिति॥२॥
ममेति। क्षेत्रक्षेत्रज्ञसंयोगो भूतकारणमित्युक्तं पूर्वाध्याये। स कीदृशः संयोगः? इति शङ्कायामीदृशः इत्युच्यते ममेति श्लोकेनेत्याह—क्षेत्रेति। स्वभूतेति। ईश्वरस्य सच्चिदानन्दत्वं मायित्वं चेत्यस्ति रूपद्वयम्। वस्तुतः सच्चिदानन्दो, व्यवहारतस्तु मायीति। तत्र व्यवहारतः ईश्वरस्य स्वकीयत्वात् स्वभूतैव माया। ईश्वरशक्तेरेव मायात्वादिति भावः। न च स्वभूतेत्यत्र स्वशब्दः आत्मवाची, किन्त्वात्मीयवाच्येवेत्याह— मदीयेति। ननु अव्यक्तस्य कथं महत्त्वम् , व्यक्ते हि वस्तुनि महत्त्वमल्पत्वं वा निश्चेतुं शक्यम् , अत नभ्युगमाद् गीताशास्त्रे। फलवादश्चायं स्तुत्यर्थमुच्यते। सर्गेऽपि सृष्टिकालेऽपि नोपजायन्ते नोत्पद्यन्ते, प्रलये ब्रह्मणोऽपि विनाशकाले न व्यथन्ति च व्यथां नापद्यन्ते, न च्यवन्तीत्यर्थः॥२॥
क्षेत्रक्षेत्रज्ञसंयोगः ईदृशो भूतकारणमित्याह— ममेति। मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः विरोधः स्यादित्याह— न त्विति। ज्ञानस्तुतये तत्फलस्य विवक्षितत्वाच्च नात्र सारूप्यमिष्टमित्याह— फलेति। १सारूप्ये धीफलं हित्वा ध्यानफलमप्रस्तुतं प्रसज्येतेत्यर्थः। ईश्वरात्मतां गतानामेवावान्तरसर्गादौ जन्माद्यभावेऽपि महासर्गादौ तद् भविष्यतीत्याशङ्क्याह— सर्गेऽपीति॥२॥ ज्ञानस्तुत्या तदभिमुखायावहितचेतसे विवक्षितमर्थमाह— क्षेत्रेति। स्वरूपत्वेन स्वभूतत्वं वारयति— मदीयेति। ईश्वरीं
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम्। सम्भवः सर्वभूतानां ततो भवति भारत ! ॥३॥
अ. १४. श्लो. १-३ ] १. सारूप्यं चेत् साधर्म्यं विवक्ष्यते, तदा प्रस्तुतज्ञानफलं विहायाप्रस्तुतध्यानफलकथनमिहासंगतं प्रसज्येतेत्यर्थः।
[[७३८]]
योनिः सर्वभूतानां कारणम्। सर्वकार्येभ्यो महत्त्वाद् भरणाच्च स्वविकाराणां महद् ब्रह्मेति योनिरेव विशिष्यते। तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनो बीजं सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि, क्षेत्रक्षेत्रज्ञ- प्रकृतिद्वयशक्तिमानीश्वरः अहम् अविद्याकामकर्मोपाधिस्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामीत्यर्थः। सम्भवः आह—सर्वकार्येभ्य इति। सर्वकार्यापेक्षयाऽधिकत्वात् कारणस्य महत्त्वं प्रकृतेरिति भावः। ननु मिथ्याभूतायाः प्रकृतेः कथं ब्रह्मत्वम्? सत्यं हि ब्रह्मेत्यत आह—स्वविकाराणामिति। महदहङ्कारभूताद्यात्मविकाराणां २बृंहणत्वाद् वर्धकत्वाद् ब्रह्मत्वं प्रकृतेः। बृंहणाद् ब्रह्मेति व्युत्पत्तेरिति भावः। योनिरेवेति। प्रकृतिरेवेत्यर्थः। योनिप्रकृतिशब्दयोर्द्वयोरपि कारणवाचित्वात् प्रकृतौ योनिशब्दप्रयोगः। सर्वेति। सर्वेषां भूतानां प्रजापतीन्द्रादीनां प्राणिनां जन्मनः कारणं सृष्टिकर्तेत्यर्थः। यः हिरण्यगर्भः ब्रह्मा तस्य जन्मन उत्पत्तेर्बीजं कारणं क्षेत्रज्ञमिति यावत्। निक्षिपामीति। यथा पिता पुत्रजन्मनः कारणं रेतोरूपं गर्भं स्त्रीयोनौ निक्षिपति, तद्वदिति भावः। क्षेत्रे क्षेत्रज्ञं निक्षिपामीत्युक्तवाक्यतः सिद्धमर्थमाह—क्षेत्रेति। क्षेत्रक्षेत्रज्ञ एव प्रकृतिद्वयं, तदेव शक्ती चिच्छक्तिर्जडशक्तिश्चेति यस्य स तथोक्तोऽहमीश्वरः। अविद्याकामकर्माण्येवोपाधयः तेषां स्वरूपमनुविधातुं शीलमस्येति तं तथोक्तमविद्याकामकर्मरूपोपाधि- तादात्म्याध्यासमापन्नमित्यर्थः। अविद्याकामकर्मयुक्तमिति यावत्। संसारस्य बीजानीमानि त्रीणीति भावः। अविद्या अज्ञानं, काम इच्छा, कर्म अदृष्टं जन्मान्तरीयमिति विवेकः। केवलक्षेत्रज्ञस्य क्षेत्रसंयोगासम्भवादिदं विशेषणमुक्तम्। एतेन वस्तुत ईश्वरस्यापि क्षेत्रज्ञस्य जीवभावः प्राप्तोऽविद्ययेति सिद्धम्। अत एवास्येश्वरपारतन्त्यं प्रकृतिपारतन्त्यं च। एवंविधं जीवं क्षेत्रेण प्रकृत्या संयोजयामीत्येवं प्रकृत्या पुरुषे संयोजिते सतीश्वरेण ततो हिरण्यगर्भशरीरं जायते, तेन च तच्छरीराभिमानिना हिरण्यगर्भेण सर्वाणि भूतानि सृज्यन्त इत्याह— सम्भव इति। अयमभिप्रायः— प्रपञ्चावसाने क्षेत्रज्ञः स्थूलशरीरोपाधीनां सर्वेषां नाशे सति कारणोपाधिभिरविद्याभिः सूक्ष्मशरीरोपाधिभिः कामाद्याश्रयैर्मनोबुद्ध्यात्मकैर्लिङ्गैश्च सहितः सन्नीश्वरप्रकृतौ मूलाज्ञाने निलीय वर्तते प्रलयावसानपर्यन्तम्। ततः प्रलयावसाने स एव सोपाधिकः क्षेत्रज्ञ ईश्वरसङ्कल्पवशात् पुनः स्थूलशरीरैः संयुज्यते। तानि च स्थूलशरीराणि न युगपदेवाविर्भवन्ति, पूर्वमपि युगपदनष्टत्वात् , किन्तु क्रमेणैव। तत्र चादौ हिरण्यगर्भाख्यं स्थूलशरीरं जायते, ततः क्रमेण प्रजापतिमन्वादय इति। अत एव ‘हिरण्यगर्भः समवर्तताग्रे’ इति श्रुतिः। पितृदेहात् पुत्रदेहवद्धिरण्यगर्भदेहात् प्रजापत्यादिदेहसम्भवाद् हिरण्यगर्भस्य जगत्स्रष्टृत्व- व्यपदेशश्चेति। ननु क्षेत्रज्ञं लिङ्गिनं क्षेत्रेण संयोजयति, ततो हिरण्यगर्भो जायत इत्ययुक्तम् , हिरण्यगर्भस्य स्थूलशरीरस्य जन्मनः प्राक् तेन सह क्षेत्रस्य संयोगासम्भवादिति चेत् , नैष दोषः। स्थूलशरीराकारपरिणामोन्मुखप्रकृतिरिह क्षेत्रशब्दार्थः। तेन लिङ्गिनं योजयति, लिङ्गिसंसृष्टं च तत् क्षेत्रं स्थूलशरीराकारपरिणतं भवति। यथा सजीवं जातं शरीरं पुनर्वृद्ध्या स्थौल्यं भजते, तद्वदिति। ननु प्रपञ्चदशायां स्थूलोपाधिप्रयुक्त इव प्रलयदशायां सूक्ष्मोपाधिप्रयुक्तोऽस्त्येव क्षेत्रज्ञभेदः, तथा च क्षेत्रज्ञं क्षेत्रेण संयोजया- मीत्युक्तिरयुक्तेति चेत् , मैवम् ; उपाधिभेदस्य क्षेत्रज्ञभेदाप्रयोजकत्वात् । न हि घटाद्युपाधिभेद आकाशं भेदयेत्। ननु माऽस्तु क्षेत्रज्ञभेदः, लिङ्गिभेदस्त्वस्त्येव, लिङ्गिनां परस्परभेदस्य सम्मतत्वात्। अन्यथाऽन्तःकरणाभेदे सुखदुःखादि- चिच्छक्तिं व्यावर्तयति— त्रिगुणात्मिकेति। साङ्ख्यीयप्रकृतिरपि मदीयेति व्यावर्तिता। योनिशब्देन सर्वाणि भवनयोग्यानि कार्याणि प्रति उपादानत्वमभिप्रेतमित्याह— सर्वभूतानामिति। प्रकृतेर्महत्त्वं साधयति— सर्वेति। १सर्वकार्यव्याप्तिमादाय योनावेव ब्रह्मशब्दः। लिङ्ग- वैषम्याद् ‘महद् ब्रह्मे’त्यर्थान्तरं किञ्चिदित्याशङ्क्याह— योनिरिति। तस्मिन्नित्यादि व्याचष्टे— तस्मिन्निति। ईदृशस्य क्षेत्रक्षेत्रज्ञसंयोगस्य भूतकारणत्वमिति वक्तुमुपक्रम्य किमिदमन्यदादर्शितमित्याशङ्क्याह— क्षेत्रेति। गर्भशब्देनोक्तसंयोगस्य फलं दर्शयति— सम्भव इति। १.सर्वकार्यव्याप्तिरूपगुणमादाय गौण्या ब्रह्मशब्दप्रयोगः, यौगिको वेत्यर्थः। २. भाष्ये ‘भरणादि’त्यस्य स्थाने ‘बृंहणाद्’ ‘बृंहणत्वाद्’ इति पा.।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
[[७३९]]
सर्वयोनिषु कौन्तेय ! मूर्तयः सम्भवन्ति याः। तासां ब्रह्म महद् योनिरहं बीजप्रदः पिता ॥४॥
साङ्कर्यप्रसङ्गात्। अमी च लिङ्गिनः सर्वे प्रलये ईश्वरप्रकृतौ निलीय वर्तन्त इत्युक्तम् , तत्र कं लिङ्गिनं केन क्षेत्रेण संयोजयतीश्वरः प्रलयावसाने इति चेद्? उक्तमेव भाष्यकारैः— हिरण्यगर्भजन्मनो बीजमिति। यस्य हिरण्यगर्भशरीरप्राप्तिहेतुभूतमदृष्टमस्ति, तं लिङ्गिनं हिरण्यगर्भ- शरीराकारपरिणामोन्मुखप्रकृत्या संयोजयति तावदीश्वरः। ततः सचेतनं हिरण्यगर्भशरीरं जायते, स च तच्छरीराभिमानी हिरण्यगर्भः स्वयमन्यान् लिङ्गिनः क्षेत्रान्तरैः संयोजयति, एवं सर्वभूतसम्भवो भवति— ‘धाता यथापूर्वमकल्पय’दिति श्रुतेः। धाता विधाता हिरण्यगर्भो ब्रह्मा। न चैवं हिरण्यगर्भकर्तृके जगति कथमीश्वरस्य स्रष्टृत्वमिति वाच्यम् ; जगत्स्रष्टुर्हिरण्यगर्भस्यापि स्रष्टृत्वेनेश्वरस्य जगत्स्रष्टृत्वमिति। यथा पितृस्रष्टा पितामहः पौत्रस्यापि स्रष्टा, तद्वत्। अत एव परमकारणत्वमीश्वरस्येति। एतावता परमेश्वरः स्वप्रकृतौ निलीय वर्तमानं ब्रह्माधिकारप्राप्तियोग्यादृष्टशालिनं लिङ्गिनं क्षेत्रज्ञं स्वसङ्कल्पवशाद्धिरण्यगर्भ- शरीराकारपरिणामोन्मुखया प्रकृत्या संयोजयतीति फलितार्थः सिद्धः ‘मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यह’मित्यस्य। प्रकृत्या क्षेत्रज्ञस्य संयोजनं नाम तत्तादात्म्याध्यासापादनम् , ‘अध्यासलक्षणः संयोगः’ इति दर्शितत्वादाचार्यैः। अयं चाध्यासोऽविद्याकृत एवेति दर्शितं च। तस्मादविद्यामय एव सर्वः सृष्ट्यादिव्यवहारः। रामानुजस्तु— अचेतनेऽपरप्रकृतिभूते महति ब्रह्मणि योनिभूते परप्रकृतिभूतं चेतनपुञ्जरूपं गर्भं दधामि, भोगक्षेत्रभूतया अचेतनप्रकृत्या भोक्तृवर्गपुञ्जभूतां चेतनप्रकृतिं संयोजयामीत्यर्थः। ततः संयोगाद् ब्रह्मादिस्तम्बपर्यन्तसर्वप्राण्युत्पत्तिरिति जगाद। तन्मन्दम्। चेतनपुञ्जस्य युगपदेव प्रकृतिसंयोजने सति युगपदेव ब्रह्मादिसर्वजगदुत्पत्तिप्रसङ्गात्। पुराणादिसिद्धब्रह्मप्रजापत्यादिपुत्र- पौत्रादिक्रमविरोधाच्च। चेतनोपाधिभूतलिङ्गशरीरपुञ्जस्यापरप्रकृतित्वेन चेतनपुञ्जस्य परप्रकृतित्वमात्रासम्भवाच्च। न हि निरुपाधिक- चैतन्यस्य पुञ्जत्वं सम्भवतीति। अन्वयस्तु— मम मदीया योनिः प्रकृतिर्महद् ब्रह्म, इत्युच्यत इति शेषः। तस्मिन् महति ब्रह्मणि। अन्यत् सुगमम्। मम मदीयं योनिः कारणभूतं महद् यद् ब्रह्म प्रकृतिस्तस्मिन्निति रामानुजीयान्वयः॥३॥
सर्वेति। हे कौन्तेय! सर्वयोनिषु या मूर्तयः सम्भवन्ति तासां महद् ब्रह्म योनिर्भवति। अहं बीजप्रदः पिता भवामि। सर्वयोनिष्वित्यत्रत्यसर्वशब्दार्थमाह—देवेति। आदिशब्दात् पक्षिसर्पादिग्रहणम्। योनयो जातयः। मूर्छिताः प्रवृद्धा अङ्गानि करचरणादीन्येवावयवा यासां ता मूर्छिताङ्गावयवाः। स्थावरजङ्गमात्मका देहा मूर्तय इति यावत्। सर्वावस्थं सर्वकार्यावस्थम् , अत एव महद् ब्रह्म प्रकृतिः। बीजं गर्भं क्षेत्रज्ञलक्षणं प्रदत्त इति बीजप्रदः, गर्भाधातेत्यर्थः। पितेति। यः प्राकृतः पिता स्त्रीयोनौ गर्भाधातृत्वेन प्रसिद्धः, स न गर्भाधाता, किन्तु रेतोनिधातैव। स्त्रीयोन्याकारेणावस्थितायां प्रकृतौ बीजलक्षणगर्भाधाता तु परमेश्वर एव। यद्वा नार्याः ‘आदिकर्ता स भूतानाम्’ इति स्मृत्या हिरण्यगर्भकार्यत्वावगमाद् भूतानां कथं यथोक्तगर्भाधाननिमित्तत्वम्? इत्याशङ्क्याह— हिरण्यगर्भेति॥३॥
ननु कथमुक्तकारणानुरोधेन हिरण्यगर्भोद्भवमभ्युपेत्य भूतानामुत्पत्तिरुच्यते, देवादिजातिविशेषेषु देहविशेषाणां कारणान्तरस्य सम्भवात् , तत्राह— सर्वयोनिष्विति। तत्र तत्र हेत्वन्तरप्रतिभासे कुतोऽस्य१ हेतुत्वमित्याशङ्क्य , तत्तद्रूपेणास्यैवावस्थानादित्याह—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
उत्पत्तिः सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततः तस्माद् गर्भाधानाद् भवति, हे भारत !॥ ३॥
सर्वयोनिष्विति। सर्वयोनिषु देवपितृमनुष्यपशुमृगादिसर्वयोनिषु , हे कौन्तेय ! मूर्तयो देहसंस्थानलक्षणाः अ. १४. श्लो. ३-४ ] १. महद्ब्रह्मशब्देनोक्तस्यार्थस्येत्यर्थः।
[[७४०]]
मूर्च्छिताङ्गावयवा मूर्तयः सम्भवन्ति याः, तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् , अहम् ईशो बीजप्रदो गर्भाधानस्य कर्ता पिता॥४॥
के गुणाः, कथं बध्नन्तीत्युच्यते— सत्त्वमिति। सत्त्वं रजः तम इत्येवन्नामानः। गुणाः इति पारिभाषिकः शब्दः, न रूपादिवद् द्रव्याश्रिताः गुणाः। न च गुणगुणिनोरन्यत्वमत्र विवक्षितम् । तस्माद् गुणा इव नित्यपरतन्त्राः गर्भाधाता पुरुषः, पुरुषस्य गर्भाधाता तु परमेश्वरः। न हि केवलरेतोनिधानमात्रेण नार्याः गर्भो जायते। तस्मात् परमेश्वरः रेतोरूपेणावस्थितायां प्रकृतौ क्षेत्रज्ञलक्षणं बीजं निदधाति, तेन पुरुषस्तावद् गर्भवान् भवति, पश्चात् स्वेन धृतं सजीवरेतोरूपं गर्भं पुरुषः स्त्रीयोनौ निक्षिपति। सा च तेन गर्भवती भवति। एवं स्थिते गर्भाधाता परमेश्वर एव जायमानस्य पिता। अन्यः पिता त्वौपचारिक एवेति कृत्वा अहं बीजप्रदः पितेत्युक्तं भगवता। एतेन पुत्रोत्पत्तिं प्रति प्रकृतपितरौ नैव प्रधानकारणमिति सिद्धम्। अयं चेश्वरः कर्मसापेक्षः सन्नेव गर्भं दधातीति न वैषम्यादिदोषप्रसक्तिरीश्वरस्य। ननु यद्येवं परमेश्वर एव सर्वत्र गर्भाधाता, तर्हि हिरण्यगर्भस्य स्रष्टृत्वाभ्युपगमो व्यर्थ इति चेन्न। हिरण्यगर्भाख्यजीव- स्वरूपावस्थितपरमेश्वरसङ्कल्पायत्तः क्षेत्रक्षेत्रज्ञसंयोग इत्यभ्युपगमात्। यद्वा राजचोदितभटकृतशत्रुविजये यथा राजकृतत्वव्यपदेशः, तथा परमेश्वरचोदितहिरण्यगर्भकृतभूतसृष्टौ परमेश्वरकृतत्वव्यपदेशः। अथवा भूतसृष्टौ परमेश्वर एव मुख्यं कारणम् , हिरण्यगर्भस्तु द्वारकारणमिति॥४॥
सत्त्वमिति। हे महाबाहो! प्रकृतिसम्भवाः सत्त्वं रजस्तम इति गुणा देहेऽव्ययं देहिनं निबध्नन्तीव। ननु रूपसङ्ख्यापरिमाण- संयोगविभागादिवत् सत्त्वादिगुणत्रयस्येन्द्रियवेद्यत्वाभावाद्, ईश्वरशक्तिभूतायाः प्रकृतेश्चाग्निशक्तेरिव द्रव्यत्वाभावाद्, द्रव्याश्रितत्वस्य च गुणलक्षणत्वात् कथं प्रकृत्याश्रयाणां सत्त्वादीनां गुणत्वव्यवहारः? अत आह— गुणा इति पारिभाषिकः शब्द इति। वेदान्तशास्त्रसङ्केत- सिद्धसत्त्वादीनां गुणाः इति संज्ञेत्यर्थः। एवं सत्त्वादीनां गुणसंज्ञायाः पारिभाषिकत्वादेव रूपादीनामिव द्रव्याश्रितत्वलक्षणं गुणत्वं नास्तीत्याह— नेति। सत्त्वादय इति शेषः। रूपादिवद् द्रव्याश्रिता गुणा न भवन्ति। प्रकृतेरद्रव्यत्वात् , सत्त्वादीनां चातीन्द्रियत्वादिति भावः। तस्मादिति। सत्त्वादीनां रूपादिवद् गुणत्वाभावादित्यर्थः। गुणगुणिनोः सत्त्वादिगुणानां तदाश्रयप्रकृतेश्चेत्यर्थः। अत्र शास्त्रे ऽन्यत्वं न विवक्षितम्। यद्वा गुणगुणिनोः रूपघटयोरिव, सत्त्वादिगुणत्रयप्रकृत्योरन्यत्वमत्र न विवक्षितम्। ‘गुणाः प्रकृतिसम्भवाः’ इति सत्त्वादित्रयप्रकृत्योः कार्यकारणभावस्योच्यमानत्वात् कार्यकारणयोश्चानन्यत्वाद् , द्रव्यगुणयोश्चा(न)न्यत्वादिति भावः। तथाहि४— कारणतन्तुनाशे कार्यपटनाशात् , तन्तुव्यतिरेकेण पटादर्शनाच्च, कारणस्यैव कार्यात्मना परिणामदर्शनाच्च कार्यकारणयोरनन्यत्वं सर्वावस्थमिति ॥४॥
एवं क्षेत्रक्षेत्रज्ञसंयोगाज्जगदुत्पत्तिं दर्शयता ब्रह्मैवाविद्यया संसरतीत्युक्तम्। इदानीमध्यायादावुक्तमाकाङ्क्षाद्वयं पूर्वमनूद्यानन्तर- श्लोकेनोत्तरमाह— के गुणा इति। सत्त्वादिषु कथं गुणशब्दप्रवृत्तिरित्याशङ्क्य परतन्त्रत्वादित्याह— गुणा इति। रूपादिष्विव गुणशब्दः सत्त्वादिषु द्रव्याश्रितत्वं निमित्तीकृत्य किं न स्यादित्याशङ्क्य प्रकृत्यात्मकानां तेषां १सर्वाश्रयत्वान्नैवमित्याह— न रूपादिवदिति। गुणानां प्रकृतेश्च पृथगुक्तेरन्यत्वे कुतस्तेषां प्रकृत्यात्मत्वमित्याशङ्क्याह— न च गुणेति। अत्यन्तभेदे गवाश्ववत् २तद्भावासम्भवादित्यर्थः। ३भेदे
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः। निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥५॥
१. प्रकृतेः सर्वकार्योपादानत्वेन तदात्मकानां गुणानामपि सर्वाश्रयत्वमिति भावः। २. तद्भावः तादात्म्यम्। ३. ‘भेदाभेदे च’ इति पा.। ४. कार्यकारणयोरनन्यत्वं, गुणगुणिनोरन्यत्वं च साधयति—तथाहीति। सिद्धान्ते कार्यकारणयोर्गुणगुणिनोश्च तादात्म्येऽपि तस्य वृत्तिनियामकत्वतदभावरूपवैलक्षण्यादन्यत्वानन्यत्वोक्तिः।
[[७४१]]
स्फुटम्। अन्धेनापि त्वगिन्द्रियेण रूपव्यतिरेकेण घटस्य गृह्यमाणत्वात् , पृथिवीं विनाऽपि घ्राणेन गन्धस्य गृह्यमाणत्वाच्च, आमचूत- फले समवेतस्य नीलरूपस्य पाकदशायां फलानाशेऽपि नाशसम्भवात् , पीतरूपान्तरस्य फलानुदयेऽप्युत्पत्तिदर्शनाच्च गुणगुणिनोः अन्यत्वं स्फुटम्। तस्माद् घटस्य रूपमिव सत्त्वादयो न प्रकृतेर्गुणाः, किन्तु प्रकृतेः परिणामा एव, मृदः परिणामो घट इव। अमीषु च प्रकृतिपरिणामेषु सत्त्वादिषु गुणव्यवहारः पारिभाषिकः। नन्वेवं गुणवती प्रकृतिरिति कथं भाष्यते तत्र तत्र भाष्यकारैरेवेति चेत् , उच्यते— घटवती मृत्तिकेतिवद् गुणवती प्रकृतिरिति व्यवहारात्। कारणे हि कार्यं वर्तते। कारणद्रव्यस्याकारान्तरस्यैव कार्यत्वात्। यथा मृद्द्रव्यस्य कम्बुग्रीवाद्याकारः कार्यं घट इत्युच्यते। एवं कार्यकारणयोरनन्यत्वादेव कार्यमिथ्यात्वं कारणसत्यत्वं च श्रुत्युक्तमुपपद्यते। कारणव्यतिरेकेण कार्यस्यासत्त्वं हि कार्यमिथ्यात्वम्। तस्मात् प्रकृतेरनन्याः सत्त्वादयः प्रकृतिकार्यभूता न प्रकृतिगुणा इति सत्त्वादिगुणवत्त्वप्रयुक्तं द्रव्यत्वं न प्रकृतेः। प्रकृतिरूपद्रव्याश्रित- त्वप्रयुक्तं गुणत्वं च न सत्त्वादीनामिति स्थितम्। यदि जाड्यादिगुणवत्त्वात् पृथिव्यादिद्रव्योपादानत्वाच्च प्रकृतिर्द्रव्यमेवेत्याग्रहस्तर्हि ज्ञानादिगुणवत्त्वादन्तःकरणाद्युत्पत्तिं प्रति हेतुत्वाच्च सत्त्वादयोऽपि द्रव्याण्येव स्युरिति कथं सत्त्वादीनां गुणत्वम्? न कथमपीत्यर्थः। नन्वेवं सत्त्वादीनां गुणा इत्येव संज्ञा किमिति कल्पिता? डित्थादिसंज्ञाः किमिति न कल्पिताः? अत आह— गुणा इवेति। यद्वा गुणा इति पारिभाषिकः शब्द इत्येकः पक्ष उक्तः। अथ गुणा इत्यौपचारिकः प्रयोग इति पक्षमन्यमाह— गुणा इवेति। ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु’ इति कोशादप्रधाने गुणशब्दो वर्तते। परतन्त्राणां चाप्रधानत्वं प्रसिद्धम्। प्रधानो हि राजादिः स्वतन्त्रः। गृहे स्वतन्त्रो हि यजमानः प्रधान इत्युच्यते। यथा रूपादिगुणा नित्यमपि द्रव्यमेवाश्रित्य वर्तन्ते। न हि घटादिकं विना रूपादिगुणाः पृथगुपलभ्यन्ते। ततस्ते द्रव्यपरतन्त्रा एव, द्रव्यसत्ताभानाधीनसत्ताभानवत्त्वाद् गुणानाम्। तथा सत्तादयोऽपि क्षेत्रज्ञं प्रति नित्यपरतन्त्रा एव, नित्यं क्षेत्रज्ञपरतन्त्रा इत्यर्थः। एवं परतन्त्रत्वात् सत्त्वादयो गुणा इत्युच्यन्त उपचारादिति भावः। ननु सत्त्वादीनां कुतः क्षेत्रज्ञपरतन्त्रत्वम्? अत आह— अविद्यात्मकत्वादिति। अविद्या प्रकृतिरात्मा स्वरूपं येषां तत्त्वात्। कार्यस्य कारणात्मकत्वादविद्याकार्याणि सत्त्वादीन्यविद्यात्मकान्येव। अविद्या चाचेतनत्वाच्चेतनपरतन्त्रैव, दण्डादिवदित्यविद्यात्मका गुणा अपि चेतनपरतन्त्रा एवेति भावः। यद्वा अविद्यात्मकत्वान्मिथ्याभूतत्वादित्यर्थः। अविद्याया हि मिथ्यात्वं स्वरूपम् , तदात्मकानां सत्त्वादीनां च तदेवेति। एवं मिथ्याभूताः सत्त्वादयः क्षेत्रज्ञे कल्पितत्वेन तत्सत्ताभानाधीनसत्ताभानवत्त्वात् तत्परतन्त्रा एव। यथा रज्जु- कल्पितसर्पाभासो रज्ज्वधीनसत्त्वादिमत्त्वाद् रज्जुपरतन्त्रः, तद्वदिति भावः। एतेन सत्त्वादिपारतन्त्यप्रतिपादनं क्षेत्रज्ञस्याज्ञान- विलसितमेवेति सिद्धम्। न चानुभवसिद्धस्य जीवपारतन्त्यस्य कथमपलाप इति वाच्यम् ; न हि वयमज्ञानुभवसिद्धं जीव- पारतन्त्यमपलपामः, किन्तु विद्वदनुभवसिद्धं जीवपारतन्त्याभावं प्रतिपादयाम इति। ननु यद्येवं स्वतन्त्र ईश्वरः क्षेत्रज्ञस्तत्परतन्त्राश्च गुणाः सत्त्वादयः कथं तर्हि ते तं निबध्नन्तीत्यत आह— तमिति। तं गुणकल्पनाधिष्ठानभूतं क्षेत्रज्ञम् आस्पदीकृत्य आधारीकृत्य आत्मानं स्वरूपं प्रतिलभन्ते प्राप्नुवन्ति। गुणाः इति कर्तृपदम्। निरधिष्ठानभ्रमायोगात्। यथा सर्पाभासो रज्जुमास्पदीकृत्य स्वप्रतिष्ठां लभते, तद्वदिति भावः। अविद्यया क्षेत्रज्ञे कल्पिता गुणास्तेनैव भास्यमानाश्च सन्तः गुणाः सन्तीति भान्तीति च प्रतिष्ठां लभन्ते। कथमन्यथा जडा मिथ्याभूताश्चेमे गुणाः आत्मानं प्रख्यापयेयुः— इमे वयं स्मः इति। तस्माद् गुणानां सत्तास्फुरणे क्षेत्रज्ञाधीने ऽभेदे च तद्भावासम्भवाद् १विशेषात् कुतस्तेषु गुणपरिभाषेत्याशङ्क्याह— तस्मादिति। क्षेत्रज्ञं प्रति नित्यपारतन्त्ये हेतुमाह— अविद्येति। के गुणाः इत्यस्योत्तरमुक्तम् , कथं बध्नन्तीत्यस्योत्तरमाह— क्षेत्रज्ञमिति। तदेवोपपादयति— तमास्पदीकृत्येति। प्राकृतानां गुणानां प्रकृत्यात्मकत्वमाह— ते चेति। सम्भवत्यस्मादिति सम्भवः। प्रकृतिः सम्भवो येषां ते तथेति। साङ्ख्यीयां प्रकृतिं प्रधानाख्यां
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
क्षेत्रज्ञं प्रति, अविद्यात्मकत्वात् , क्षेत्रज्ञं निबध्नन्तीव। तमास्पदीकृत्यात्मानं प्रतिलभन्त इति निबध्नन्तीत्युच्यते। ते च अ. १४. श्लो. ४-५ ] १. कुतो विशेषादित्यन्वयः।
[[७४२]]
प्रकृतिसम्भवाः भगवन्मायासम्भवाः निबध्नन्तीव, हे महाबाहो ! महान्तौ समर्थतरावाजानुप्रलम्बौ बाहू यस्य स महाबाहुः, हे महाबाहो ! देहे शरीरे देहिनं देहवन्तमव्ययम्। अव्ययत्वं चोक्तम् - १अनादित्वादित्यादिश्लोके। ननु देही न लिप्यत इत्युक्तम्। तत् कथमिह निबध्नन्तीत्यन्यथोच्यते? परिहृतमस्माभिरिवशब्देन— निबध्नन्तीवेति॥५॥
एवेत्यभिसन्धिः। ननु क्षेत्रज्ञमास्पदीकृत्यात्मानं प्रतिलभन्त इति हेतोः कथं निबध्नन्तीत्युच्यत इति चेद् , उच्यते— आत्मनि कल्पितत्वेन गुणानामात्मस्वरूपावरणद्वारा तद्बन्धकत्वमिति। कल्पितेन ह्यधिष्ठानस्वरूपं तिरोधाप्यते, सर्पाभासेन रज्जुस्वरूपवत्। तमास्पदीकृत्या- त्मानं प्रतिलभमानत्वेन तस्मिन् कल्पितास्ते गुणाः सत्स्वरूपावरकत्वात् तं निबध्नन्तीत्युच्यत इति भावः। न चात्मभास्या गुणाः कथमात्मस्वरूपावरका इति वाच्यम् ; सूर्यभास्यस्य राहोर्मेघस्य वा सूर्यस्वरूपावरकत्वदर्शनात्। ननु यद्यात्मनि कल्पितैर्गुणैरात्मस्वरूपमाव्रियते, तर्हि लिप्त एव गुणैरात्मेति कृत्वा कथमुक्तं ‘शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’ इत्येवमाक्षिपति— नन्विति। इवशब्देनेति। वस्तुत आत्मानं न निबध्नन्ति, किन्तु निबध्नन्त इव दृश्यन्तेऽज्ञैः। न हि परिपूर्णस्वप्रकाशासङ्गाद्वितीयचिद्रूपात्मनि गुणास्तत्प्रयुक्तावरणादीनि वा भवितुमर्हन्ति। तस्मात् सर्वमिदं मायामयमेव, न तु तात्त्विकमिति भावगर्भेणेवशब्देन परिहृतं तद् यदाक्षिप्तं पूर्ववादिभिरिति भावः। निबध्नन्तीवेतीवशब्देनेत्यन्वयः। न चायं परिहारः आचार्यैः स्वकपोलकल्पितः, किन्तु ‘सेयं भगवतो माया यन्नयेन विरुद्ध्यते, ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम्॥’ इति भागवते बादरायणेनैव भगवता दर्शित इति बोध्यम्। तस्मात् कालत्रयेऽप्यात्मन्यविद्यागुणसङ्गसंसारादिकं नास्त्येवेति परमार्थः। यत्तु रामानुजः— सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभावविशेषाः प्रकाशादिकार्यैकनिरूपणीयाः प्रकृत्यवस्थायामनुद्भूतास्तद्विकारेषु महदादिषूद्भूताः देहिनमेनमव्ययं स्वतो गुणसम्बन्धानर्हं देहे वर्तमानत्वोपाधिना निबध्नन्तीति। तत्तुच्छम् , यदि प्रकृतेः स्वरूपानुबन्धिनस्ते, तर्हि प्रकृतिं कदाचिदपि न त्यजेतुः। प्रकृत्यवस्थायामनुद्भूताः इति त्वयैवोच्यते। अतः कथमयं विरोधः परिह्रियेत? न च [ननु ] गुणसाम्यावस्था हि प्रकृत्यवस्था। तस्यां साम्येन वर्तन्त एव सत्त्वादयः। विषमतया तु महदादिषूद्भूता इति चेत् , मैवम् ; घटकपालकरकादयः सर्वेऽपि मृदि साम्येन वर्तन्त एवेतिवदप्रमाणत्वात् तद्वचनस्य। सत्त्वादीनामन्योन्यवैषम्यं हि स्वरूपम् , तेषां साम्यं तु घटकपालादीनामिव स्वरूपनाशे सत्येव सम्भवति, न तु स्वरूपे सति। ३प्रकाशकत्व-रञ्जकत्व-मोहकत्वरूप- विरुद्धधर्माश्रयाणां तेषां कथं साम्यं स्यात्? दर्शितधर्मरहितायां प्रकृत्यवस्थायां कथं धर्मिसत्त्वमनुमातुं शक्यम्? न च महदादिकार्यगतसत्त्वादिभिस्तत्कारणप्रकृतिगतसत्त्वाद्यनुमानमिति वाच्यम् ; घटादिकार्यगतकम्बुग्रीवाद्याकारैर्मृद्यपि कम्बुग्रीवाद्याकाराणामनुमेयत्वापत्तेः। न चेष्टापत्तिः, प्रत्यक्षविरोधात्। न च कारणगुणानामेव कार्ये सङ्क्रमणान्महदादिगतसत्त्वादि- गुणाः प्रकृतिगुणा एवेति वाच्यम् ; समवायिकारणगुणानां रूपादीनामेव कार्ये सङ्क्रमणमिति सिद्धान्तात्। न हि रूपादिगुणेषु सत्त्वादयः पठिताः। नाप्यतीन्द्रियाणां तेषां रूपाद्यनुप्रवेशनं न्याय्यम् , रूपादीनामिन्द्रियगम्यत्वात्। किञ्च प्रकाशादिकार्यैकनिरूपणीयत्वाद् भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या व्यावर्तयति— भगवदिति। इवकारानुबन्धेन नितरां बध्नन्ति स्वविकारवत्तयोपदर्शयन्तीति क्रियापदं व्याख्याय, महाबाहुशब्दं व्याचष्टे— महान्ताविति। देहवन्तं देहमात्मानं मन्यमानं देहस्वामिनमित्यर्थः। कूटस्थस्य कथं बध्यमानत्वमित्याशङ्क्य ‘कुर्यान्मेरावणुधियम्’२ इति न्यायेन मायामाहात्म्यमिदमित्याह— अव्ययमिति। स्वतो धर्मतो वा व्ययराहित्यम् ? इत्यपेक्षायामाह— अव्ययत्वं चेति। ‘लिप्यते न स पापेने’त्यनेन विरुद्धमिदं निबध्नन्तीति वचनमिति शङ्कते— नन्विति। इवकारानुबन्धेन क्रियापदं व्याचक्षाणैरस्माभिरस्य चोद्यस्य परिहृतत्वान्नैवमित्याह— परिहृतमिति॥५॥
१. द्र. भ.गी. १३-३१। ‘अनादित्वादित्यादिश्लोकेन’ इति पा.। २. द्र. बृ.वा.१-३-३१३ । ३. प्रकाशकत्वादयः क्रमेण सत्त्वादीनां धर्माः। द्र. सां.का. १३।
[[७४३]]
महदादिषु सत्त्वादयः सन्तु नाम, कथं पुनः प्रकृत्यवस्थायां तत्सत्त्वम् , तत्प्रयुक्तप्रकाशादिकार्याभावात्। महदादिद्वारा प्रकृतेस्तद्वत्तासाधनं तु गौरवावहं व्यर्थं च। सत्त्वादिगुणोत्पादनशक्तियुक्तत्वमात्रेण तु प्रकृतेर्गुणसाम्यावस्थात्वप्रतिपादनं, न तु त्रयो गुणास्तत्र साम्येन सन्तीति। तथा सति प्रकाशकत्वादितद्धर्माणामपि साम्येन प्रतीतिप्रसङ्गात्। किञ्च सत्त्वादीनामुद्भूतत्वं वदता त्वया कार्यत्वमवश्यमभ्युपेयम् , ब्रूहि कस्य कार्याणि सत्त्वादीनि? न तावत् प्रकृतिकार्याणि, प्रकृतिस्वरूपानुबन्धित्वात् तेषाम् , गन्धवत्त्वमिव पृथिवीस्वरूपानुबन्धि । स्वरूपनिरूपकधर्मा हि धर्मिणं कदाचिदपि न त्यजन्तीति वेदान्तदेशिकेनैवोक्तत्वादिह। न ह्युत्पत्तेः प्रागसतां सत्त्वादीनां प्रकृतिस्वरूपानुबन्धित्वं सम्भवति, प्रकृतिरनादिर्हि। नापि पुरुषकार्याणि, तस्याकर्तृत्वात्। नापीश्वरकार्याणि, प्रकृतिपुरुषद्वारैवेश्वरस्य कर्तृत्वाभ्युपगमात्। न चैवं सत्त्वादयोऽनादयः इति वाच्यम् ; ‘गुणाः प्रकृतिसंभवाः’ इतीहैवोच्यमानत्वात्। न च प्रकृतौ साम्येन वर्तमाना गुणा वैषम्येण ततो जायन्त इति वाच्यम् ; साम्येन गुणवर्तनस्स्य निराकृतत्वात्। समाः सत्त्वादिगुणा अनादयः, विषमास्तु सादय इति क्वापि शास्त्रेऽदर्शनात्। न च समाः सत्त्वादिगुणा एव प्रकृतिरिति वाच्यम्।तथा सति सत्त्वादिगुणातिरिक्तप्रकृतिकल्पनस्य, प्रकृतिः धर्मिपदार्थः सत्त्वादयस्तु तद्धर्मा इति वादस्य चायुक्तत्वात्। तस्माद् यदि प्रकृतिस्वरूपानुबन्धिस्वभावविशेषाः सत्त्वादयस्तर्हि तेषां प्रकृतेः सकाशात् सम्भवकथनं विरुद्ध्यते। न हि धर्मिणः सकाशाज्जायमानः क्वापि धर्मो दृश्यते। तथा सति धर्मोत्पत्तेः प्राग् धर्मिण एव धर्मित्वस्याभावप्रसङ्गात्। उत्पत्तेः प्रागपि धर्मस्य सत्त्वे तदुत्पत्त्ययोगाच्च। घटात् सकाशाद् रूपस्योत्पत्तिप्रसङ्गाच्च। धर्मिपरतन्त्रस्य धर्मस्य केवलं जन्मायोगाच्च। न हि निराश्रयो रूपादिः क्वाप्युपलभ्यते। अथ यदि प्रकृतेः सकाशाद् गुणानां सम्भवो यथोक्तोऽभ्युपेयते, तर्हि मृदो घट इव प्रकृतेः सत्त्वादयः परिणामा एव, न तु स्वरूपानुबन्धिधर्मविशेषाः। एवं प्रकृतिपरिणामत्वे सति सत्त्वादीनां द्रव्यत्वमेव स्यान्महदादिवत्। युक्तं च द्रव्यत्वं सत्त्वादीनां ज्ञानादिगुणवत्त्वात्। गुणवत्त्वं हि द्रव्यस्य लक्षणम्। ननु प्रकृतेर्द्रव्यात् सकाशाज्जायमानाः सत्त्वादयो न द्रव्याणि, किन्तु गुणा एव, यथाऽन्तःकरणाद् द्रव्याज्जायमानाः सुखदुःखादयो न द्रव्याणि, किन्तु गुणा एव, तद्वत्। ततश्च सुखदुःखादीनामन्तःकरणधर्मत्ववत् सत्त्वादीनां प्रकृतिधर्मत्वं सिध्यतीति चेत् , मैवम् ; न वयं द्रव्याद् गुणा न जायन्त इति ब्रूमः, किं तर्हि? यर्योग़ुणगुणिनोः समवायः सम्मतः, स गुणस्तस्माद् गुणिनो न जायत इति ब्रूमः। ‘सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥’ इति सत्त्वादिभ्योऽपि ज्ञानादयो भवन्तीति वक्ष्यमाणत्वाच्च। सुखादीनामन्तःकरणधर्मत्ववज्ज्ञानादीनां सत्त्वादिधर्मत्वाच्च प्रकृतेः सकाशाज्जायमानाः सत्त्वादयोऽन्तःकरणादिवद् द्रव्याण्येव, न गुणाः, १गुणवत्त्वादिति। ननु यदि सत्त्वादयो द्रव्याणि, तर्हि किमिति नोपलभ्येरन्निति चेत्? नायं नियमः - यद् द्रव्यं तदुपलब्धव्यमिति। प्रकृतेरप्यनुपलभ्यायाः द्रव्यत्वाभ्युपगमात् तव। यथा महदादिकार्यानुमेया प्रकृतिस्तथा प्रकाशादिकार्यानुमेयाः सत्त्वादय इति। यदि व्यक्तान्येव द्रव्याणीत्युच्येत, तर्हि प्रकृतिवत् सत्त्वादिरपि द्रव्यं मा भूदव्यक्तत्वात्। न चैवं सत्त्वादीनां द्रव्यत्वे कुतो महदादिषु तदनुप्रवेश इति वाच्यम् ; यथा प्रकृतिर्द्रव्यमपि महदादिषु स्वकार्येष्वनुगता, तद्वदिति। ननु द्रव्यपरतन्त्रत्वात् सत्त्वादयो गुणा एव, न तु द्रव्याणि, ‘शुद्धसत्त्वगुणा माया’ ‘मलिनसत्त्वगुणा अविद्या’ ‘अहङ्कारस्त्रिविधः - सात्त्विको राजसस्तामसश्चेति’ ‘पञ्चभूतसत्त्वांशसमष्टिकार्यं मन’ इत्यादिव्यवहारादिति चेत् , मैवम् ; परिणामिनः परिणामवत्त्वमुचितम् , मृद इव घटवत्त्वम्। तथा च घटो मृदीव, प्रकृतौ सत्त्वादयाः शुद्धाः अशुद्धा वा वर्तन्त एव। तेन शुद्धसत्त्वा माया, मलिनसत्त्वाऽविद्येति व्यवहार उपपद्यते। सत्त्वस्य शुद्धिर्नाम रजआद्यनभिभूतत्वम् , तदभिभूतत्वं त्वशुद्धत्वमिति विवेकः। एवमुद्भूतगुणा माया महदाद्यात्मना परिणतेत्यहङ्कारस्य त्रिविधत्वं युक्तम्। तथा भूतानां च सत्त्वादिगुणवत्त्वं युक्तमिति। ननु घटात्मना परिणताया मृत्तिकाया अन्यैव मृत्तिका करकात्मना परिणमते। न तु घटाकारवती सैव मृत्तिका घटाकारानुप- मर्देन करकाद्याकारं भजते यथा, तथा सत्त्वाद्याकारपरिणतायाः प्रकृतेरन्यैव महदाद्याकारेण परिणमेत। न तु सैव सत्त्वादिगुणाकारा- १.गुणवत्त्वस्य द्रव्यलक्षणत्वादिति भावः। भाष्यार्कप्रकाशः
[[अ. १४. श्लो. ५]] [[७४४]]
नुपमर्देन महदाद्याकारं भजते। एवं सति महदादिकार्याणां प्रकृतिमयत्वे सत्यपि न सत्त्वादिमयत्वं स्यादिति चेत् , मैवम् ; जलसंयोगात् पिण्डाकारेण परिणतो यश्चूर्णपुञ्जः स एव घटाद्याकारेण परिणमते, न त्व[तु]पिण्डाकारः। एवमीश्वरसङ्कल्पात् सत्त्वादिगुणत्रयाकारेण परिणामं प्राप्ता या प्रकृतिः सैव महदाद्याकारेण परिणमते, न त्वन्या। प्रलयेऽपि प्रपञ्चप्रसङ्गात्। प्रलये ह्यपरिणता सत्त्वादिरूपेण प्रकृतिरस्ति। अत एव गुणसाम्यावस्था प्रकृतिरिति प्रवादः। तदानीं सत्त्वादिगुणाभावात् प्रकृतौ। एवं गुणत्रयाकारपरिणत- प्रकृतिपरिणामत्वान्महदादीनां गुणत्रयवत्त्वमिति। न च पिण्डाकारपरिणतमृत्कार्येष्वपि घटादिषु पिण्डवत्त्वं नोपलभ्यत इति वाच्यम् ; चूर्णपुञ्जमेलनविशेषो हि पिण्डः। किं घटे अमिलितश्चूर्णपुञ्जः क्वापि दृश्यते? किन्तु मिलित एव। तादृशमिलितचूर्णपुञ्जवत्त्वमेव पिण्डवत्त्वं घटस्येति। तस्मात् प्रकृतेः प्रथमो विकारः सत्त्वादिगुणत्रयम्। सत्त्वादिरूपविकृतप्रकृतिविकारास्तु महदादय इति सिद्धं सत्त्वादित्रयस्य प्रकृतिविकारत्वेन प्रकृतिवद् द्रव्यत्वम्। अत एवोक्तम्— ‘गुणाः प्रकृतिसम्भवाः’ इति। कथमन्यथा सत्त्वादिसमवेत- प्रकृतिकार्यत्वं स्यात् सत्त्वादेः, १रूपसमवेतघटकार्यत्वमिव रूपस्य। तस्मात् सिद्धं सत्त्वादीनां रूपादिवदगुणत्वम्। यदि सत्त्वादिषु गुणत्वलोभेन प्रकृतिसमवेतत्वं त्यज्यते, तर्हि सत्त्वादीनां प्रकृतिस्वरूपनिरूपकधर्मत्वं नैव स्यात्। न हि कपिसंयोगो वृक्षस्य स्वरूपनिरूपकधर्मः स्यात् , येन सत्त्वादिगुणसंयोगः प्रकृतेः स्वरूपनिरूपकधर्मः स्यात्। नन्वेवं मूलप्रकृतेर्महदाद्याकारपरिणामवत् सत्त्वाद्याकारपरिणामे सति ‘मूलप्रकृतिरविकृति’रिति साङ्ख्यकारिकायां सत्त्वादयः कुतो नोक्ताः इति चेत्? पृच्छ साङ्ख्यम् , न हि वयं साङ्ख्याः। एवमादिदोषवशादेव हि साङ्ख्यदर्शनमप्रमाणमिति वयं ब्रूमः। न च सत्त्वा- द्याकारपरिणतप्रकृतिरेव महदादिहेतुत्वेन मूलप्रकृतिरिति ग्रहणे साङ्ख्यमतं न दुष्यतीति वाच्यम् ; तादृशप्रकृतेर्विकृतित्वेनाविकृतित्वा- भावात् ‘मूलप्रकृतिरविकृति’रिति विशेषितत्वाच्च। तस्मात् प्रकृत्यज्ञानाव्यक्तशक्त्यविद्यामायादिपर्यायवतः ईश्वरस्वभावस्य परिणाम- विशेषा एव सत्त्वादयो, न तु गुणाः। नन्वन्तःकरणपरिणामसुखादिवृत्तीनां गुणत्वात् प्रकृतिपरिणामसत्त्वादित्रयस्य गुणत्वमस्त्विति चेत् , मैवम् ; दृष्टान्ता- सम्प्रतिपत्तेः। न ह्यन्तःकरणपरिणामा[न् ] वृत्तीर्वयं गुणाः इति ब्रूमः, किं तर्हि? अन्तःकरणात्मकत्वाद् द्रव्याण्येव। न हि द्रव्यस्य क्वापि गुणाकारेण परिणामः उचितः। कार्यकारणयोः सालक्षण्यनियमात्। नन्वेवं शुक्लादिगुणाः किं कस्यापि विकाराः, उत न? आद्ये, यस्य विकारास्ते तत् किं द्रव्यमुतान्यत्? द्रव्यत्वे कथं द्रव्यस्य गुणरूपेण परिणामः? अन्यत्तु नास्त्येव। द्वितीये, रूपादीनां जायमानत्वेन प्रसिद्धानामनादित्वमयुक्तम् , अप्रमाणं चेति चेत् , मैवम् ; शुक्लादिगुणा द्रव्याश्रिताः सन्त एव जायन्ते, न तु पृथक्। तथा सति वाय्वाकारपरिणतप्रकृतेः सकाशात् तेजोद्रव्यं जायते, तच्च सरूपं जायत इति नात्र कार्यकारणवैलक्षण्यप्रसङ्गः। वायुतेजसोर्द्रव्यत्वादुभयोरपि। न च सरूपत्वनीरूपत्वाभ्यां वैलक्षण्यमिति वाच्यम् ; अत्यन्ताभेदे कार्यकारणयोः कार्यकारणभावस्यैवाभावप्रसङ्गात्। कारणे आकाशेऽविद्यमानस्यापि स्पर्शगुणस्य कार्ये वायौ प्रादुर्भाव- दर्शनाच्च। नन्वेवं नीरूपद्रव्यस्य सरूपद्रव्याकारपरिणामेऽपि द्रव्यस्य गुणाकारपरिणामः सिद्ध इति चेत् , मैवम् ; तत्र द्रव्यांश एव परिणतत्वं, गुणांशे तु विवर्तत्वमेवेति। न च कारणे वाय्वादावप्यनुद्भूतरूपमस्तीति वाच्यम् ; अनुद्भूतत्वेनादृश्यमानस्य रूपस्य सत्त्वे मानाभावात्। एवमात्मन्यप्यनुद्भूतरूपसत्त्वकल्पनप्रसङ्गात्। तस्य च ‘अशब्दमस्पर्शमरूपमव्यय’मित्यादिशास्त्रविरोधात्। अनुद्भूत- रूपाभ्युपगमेऽपि तस्यैवोद्भूतरूपत्वेन परिणामो, न तु द्रव्यस्येति सिद्धत्वाच्च। तस्मान्न सत्त्वादयो गुणाः, किन्तु महदादिवत् प्रकृत्यवस्थाविशेषा एव। यच्च सत्त्वादीनामगुणत्वे गुणशब्दप्रसिद्धिर्विरुद्धेति वेदान्तदेशिकः। तदयुक्तम् , गुणशब्दप्रसिद्धेः पारिभाषिकत्वेनैवोपपन्न- त्वात्। २शास्त्रं ह्यनादिकालात् प्रवृत्तम् , तद्बलाच्च सत्त्वादीनां गुणशब्दप्रसिद्धिः। यथा मायायाः प्रकृत्यादिशब्दप्रसिद्धिः। न हि शास्त्रं विना मायायाः प्रकृत्यादिशब्दप्रसिद्धिमपि जानीयुः केऽपि। तस्माच्छास्त्रसिद्ध एवायमिति नाप्रसिद्धः। १.रूपसमवेतो घटोऽप्रसिद्धः। अतो न तत्कार्यत्वं रूपस्य। ‘घटसमवेतरूपे’ति वा स्यात्। २. सत्त्वादिषु गुणशब्दस्य पारिभाषिकत्वं सांख्यसंमतमेवेति बोध्यम्। भाष्यार्कप्रकाशः
[[७४५]]
१तत्र सत्त्वमिति। तत्र सत्त्वादीनां २मध्ये सत्त्वस्यैव तावल्लक्षणमुच्यते। ३तत्र निर्मलत्वात् स्फटिकमणिरिव, प्रकाशकम् अनामयं निरुपद्रवं सत्त्वम्। तद् निबध्नाति। कथम्? सुखसङ्गेन। ‘सुख्यह’मिति ४विषयभूतस्य सुखस्य विषयिण्यात्मनि संश्लेषापादनं मृषैव सुखे सञ्जनमिति। सैषा अविद्या। न हि विषयधर्मो विषयिणो भवति। इच्छादि च यच्च देहे वर्तमानत्वोपाधिना निबध्नन्तीति, तदप्ययुक्तम् , घटे वर्तमानत्वोपाधिना गगनस्य घटकृतबन्धाभावाज्जीवस्यापि देहाश्रयगुणकृतबन्धायोगात्। ‘स्वतो बन्धानर्ह’मिति हि त्वयैवोच्यते। शरीरस्थत्वं च न बन्धहेतुरिति ‘शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते’ इत्यनेनोक्तं भगवतैव। तस्मादलेपकस्य बद्धत्वं दुर्घटमेव॥५॥
तत्रेति। हेऽनघ ! तत्र निर्मलत्वात् प्रकाशकमनामयं सत्त्वं सुखसङ्गेन ज्ञानसङ्गेन च देहिनं बध्नाति। तत्र सत्त्वादीनां मध्य इत्यर्थः। तावद् आदावित्यर्थः। लक्षणमिति। स्वरूपमित्यर्थः। येनोक्तेन धर्मजातेन सत्त्वं लक्ष्यते तदिति वा। प्रकाशकत्वे सत्यात्मनि ज्ञानसुखासञ्जकत्वं सत्त्वस्य लक्षणम्। आत्मन्यतिव्याप्तिवारणाय विशेष्यदलम्। अविद्यायामतिव्याप्तिवारणाय प्रकाशकत्वे सतीति विशेषणम्। यदि सत्त्वमप्यविद्यैवेति मतम् , तर्हि स्वरूपकथनमात्रपरमेव तत् , न व्यावर्तकमिति बोध्यम्। सत्त्वस्य प्रकाशकत्वे हेतुः—निर्मलत्वादिति। सत्त्वं प्रकाशकं निर्मलत्वात् स्फटिकमणिवदिति। एवं प्रकाशकत्वादेवानामयं, निर्गच्छत्युपद्रवो यस्मात् तत् निरुपद्रवम्। सत्त्वं निरुपद्रवम् प्रकाशकत्वाद् आतपवद् , व्यतिरेकेणान्धकारवच्च। सत्त्वे प्रवृद्धे सति शमदमादिद्वारा ज्ञानं सम्पादयितुं शक्यत इति हेतोर्निरुपद्रवत्वमुक्तं सत्त्वस्य। एतेन प्रकाशकत्वं, निरुपद्रवत्वं, ज्ञानसुखासञ्जकत्वं चेति त्रीणि सत्त्वस्य लक्षणभूता धर्मा इति सिद्धम्। बध्नाति देहिनमिति शेषः। बन्धनप्रकारं दर्शयितुमाक्षिपति—कथमिति। सुखसङ्गेनेति। सुखसङ्गजननेनेत्यर्थः। इदमेवाह — सुखस्य संश्लेषापादनेनेति। कीदृशस्य सुखस्य कुत्र संश्लेषापादनम्? अत आह— विषयभूतस्य सुखस्य विषयिण्यात्मनीति। कथं विषयभूतत्वं सुखस्येत्यत आह— सुख्यहमिति। सुख्यहमिति प्रतीतौ हि सुखं विषयभूतम् , आत्मा तु विषयीभूत इति भावः। आत्मवेद्यत्वात् सुखस्यात्मविषयत्वं, सुखवेदितृत्वादात्मनः सुखविषयित्वं चेति बोध्यम्। संश्लेषापादनमेवाभिनीय दर्शयति— ममैवं सुखं सञ्जातमिति। यथा पुरुषस्य ममैव सुखं सञ्जातमिति प्रत्ययः स्यात् , तथा पुरुषे विषयिणि विषयभूतं सुखमासञ्जयतीति भावः। किमिदमासञ्जनं सत्यम्? अत आह— मृषैवेति। सत्त्वकर्तृकमात्माधिष्ठानकं सुखासञ्जनं मिथ्यैवेत्यर्थः। एवं मिथ्यात्वादेव सुखासञ्जनमविद्येत्याह—सैषेति। विधेयप्राधान्यात् स्त्रीत्वम्। तदिदं सुखसञ्जनमविद्येत्यर्थः। यद्वा ममैव सुखं सञ्जातमिति सैषा प्रतीतिरविद्येत्यर्थः। तदेवोपपादयति— न हीति। विषयस्यान्तःकरणस्य धर्मः सुखं विषयिणो न भवति हि। विषयस्य घटस्य धर्मो किंलक्षणो गुणः केन बध्नातीत्यपेक्षायामाह— तत्रेति। निर्धारणार्थतया सप्तमीं व्याचष्टे— तत्र सत्त्वादीनामिति। पुनः तत्रेत्यनुवादमात्रम्। निर्मलत्वं स्वच्छत्वमावरणवारणक्षमत्वम्। तस्मात् प्रकाशकं चैतन्याभिव्यञ्जकम्। निरुपद्रवमिति। निर्मलं सत् सुखस्याति[भि]व्यञ्जकमित्यर्थः। केन द्वारेण तदात्मानं निबध्नातीति पृच्छति— कथमिति। सुखसङ्गेन बध्नातीत्युत्तरम्। तदेव विवृणोति — सुख्यहमित्यादिना। मुख्यसुखस्याभिव्यञ्जकसत्त्वपरिणामोऽत्र विषयसम्भूतं सुखमुच्यते। संश्लेषापादनमेव विशदयति— मृषैवेति। किमिति मृषैवेति विशेषणम् , सङ्गस्य वस्तुत्वसम्भवादित्याशङ्क्याह— सैषेति। ननु इच्छा सङ्गोऽभिनिवेशश्चेत्येकोऽर्थः। तत्रेच्छादे- रात्मधर्मत्वात् किमविद्ययेत्याशङ्क्य , मनोधर्मत्वादिच्छादेर्नात्मधर्मतेत्याह— न हीति। इच्छादेरनात्मधर्मत्वे किं प्रमाणमित्याशङ्क्याह—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम्। सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ! ॥६॥
१. ‘तत्र सत्त्वादीनां सत्त्वस्यैव तावल्लक्षणमुच्यते— तत्र सत्त्वमिति।’ इति पा.। २. ‘मध्ये’ इति क्वचिन्न। ३. ‘तत्र’ इति क्वचिन्न। ४. ‘विषयसंभूतस्य’ इति पाठः आनन्दगिरिदृष्टः इति भाति।
[[अ. १४. श्लो. ५-६]] [[७४६]]
यथा जाड्यादिर्विषयिणो द्रष्टुर्न भवति, तद्वदिति भावः। ननु सुखं न विषयधर्मः, किन्तु विषयिधर्म एव, सुख्यहमिति प्रतीतेः, अत आह— इच्छादीति। अतः सुखसञ्जनस्य मृषात्वादित्यर्थः। सत्त्वमिति कर्तुःशेषः। अविद्ययैव सुखे आत्मानं सञ्जयतीवेत्यन्वयः। सञ्जनहेतुरविद्या। किमियमविद्या मूलाज्ञानम् , उत तूलाज्ञानम्? अत आह— स्वकीयधर्मभूतयेति।४ स्वशब्दः सत्त्वगुणपरः। अविद्यायाः लक्षणमाह— विषयेति। विषयविषयिणोः मनआत्मनोः अविवेको विवेकाभाव एव लक्षणं स्वरूपं यस्यास्तया तथोक्तया। कीदृशं सुखम्? अत आह— अस्वात्मभूत इति। अस्वधर्मभूत इत्यर्थः। अस्वरूपभूत इति वा। नेदं सुखमात्मनः स्वरूपभूत आनन्दः, किन्तु मनोवृत्तिप्रतिफलितानन्द एवेति भावः। सञ्जयतेरर्थमाह— असङ्गं सक्तमिवेति। इवशब्दान्न वस्तुत इति भावः। निर्धर्मकेऽसङ्गे आत्मनि सुखसङ्गायोगादिति भावः। कथमसङ्गं सक्तमिव करोतीत्यत आह— असुखिनं सुखिनमिवेति। असुखिनं सुखरहितमात्मानं सुखिनमिव करोति। सत्त्वं कर्तृ। अयमर्थः— सत्त्वगुणप्रयुक्तादात्मानात्माविवेकादनात्मधर्मं सुखमात्मन्यध्यस्य सुख्यहमिति प्रत्येत्यविद्वानिति। ततश्च बद्ध इव भवतीति। ज्ञानमत्र न चैतन्यम्। तस्यात्मधर्मत्वेन, मनोधर्मसुखसाहचर्यान्मनोधर्मवृत्तिज्ञानस्यैव ग्राह्यत्वेन च चैतन्याग्रहणात्। साहचर्यादिति। सहचरितासहचरितयोः सहचरितस्यैव ग्रहणमिति न्यायादिति भावः। क्षेत्रस्यैव विषयस्य जडस्यान्तःकरणस्य धर्मो वृत्त्यात्मकं ज्ञानमित्यन्वयः। अन्तःकरणस्य विषयात्मना परिणामो वृत्तिः। एवकारार्थमाह— नात्मन इति। आत्मनो धर्मभूतं चैतन्यं नेह ज्ञानशब्देनोच्यत इत्यर्थः। वृत्त्यात्मकं ज्ञानमन्तःकरणस्यैव धर्मो, नात्मन इति वा। कुतो वृत्तिज्ञानस्य नात्मधर्मत्वम्? अत आह— आत्मेति। यदि वृत्तिज्ञानमप्यात्मधर्मः स्यात् , तर्हि तेनात्मनः सङ्गो न स्यात्। सङ्गात् प्रागेव तस्य सिद्धत्वात्। न हि वृक्षस्य कपिसङ्गवशाज्जाड्यसङ्गोऽस्तीति वक्तुं शक्यते। तथाऽन्यधर्मस्यान्यत्राध्यासाद् बन्धः, न तु स्वधर्मस्य क्वापि बन्धकत्वमित्याह— बन्धानुपपत्तेश्चेति। एतेन ज्ञानशब्देन चैतन्यग्रहणे चैतन्येन सहात्मनः सङ्गानुपपत्तिः, चैतन्यस्य बन्धकत्वाभावाद् बन्धानुपपत्तिश्चेति सूचितम्। नन्वनात्मधर्मेण ज्ञानेन कथमात्मनः सङ्गः? अत आह— सुख इवेति। आध्यासिक एव सङ्गो न तात्त्विक इति भावः। आदिपदाद् रागादिग्रहणम्। सत्त्वगुणप्रयुक्तादात्मानात्माविवेकादनात्मधर्मं ज्ञानमात्मन्यध्यस्य ज्ञान्यहमिति प्रत्येत्यविद्वान्। ततश्च भाष्यार्कप्रकाशः धृत्यन्तं क्षेत्रस्यैव विषयस्य धर्म इत्युक्तं भगवता। अतोऽविद्ययैव स्वकीयधर्मभूतया विषयविषय्यविवेकलक्षणया अस्वात्मभूते सुखे सञ्जयतीव, १आसक्तमिव करोति, असङ्गं सक्तमिव करोति, असुखिनं सुखिनमिव। तथा ज्ञानसङ्गेन च। ज्ञानमिति सुखसाहचर्यात् २क्षेत्रस्यैवान्तःकरणस्य धर्मो, नात्मनः। आत्मधर्मत्वे सङ्गानुपपत्तेर्बन्धानुपपत्तेश्च। सुख इव ज्ञानादौ सङ्गो मन्तव्यः, हे अनघ अव्यसन !॥६॥
इच्छादि चेति। तस्यात्मधर्मत्वासम्भवे फलितमाह— अत इति। सञ्जयतीव सत्त्वमिति शेषः। इवकारप्रयोगे हेतुमाह— अविद्ययेति। तस्याः वस्तुतो नात्मसम्बन्धस्तथापि सम्बन्ध्यन्तराभावाद् अस्वातन्त्याच्चात्मधर्मत्वमापाद्य दृष्टत्वमाचष्टे— स्वकीयेति। वृत्तिमदन्तः- करणस्य विषयत्वाद् आत्मनः साधकत्वेन तद्विषयित्वेऽपि तदविवेकरूपाऽविद्येति तत्स्वरूपमाह—विषयेति। यथोक्ताविद्यामाहात्म्यमिदं यदस्वरूपेऽतद्धर्मे च सक्तिसम्पादनमित्याह— अस्वेति। तदेव स्फुटयति— सक्तमिवेति। प्रकारान्तरेण सत्त्वस्य ३निबन्धृत्वमाह— तथेति। ज्ञायतेऽनेनेति सत्त्वपरिणामो ज्ञानम्। तेन ज्ञान्यहमिति विपरीताभिमानेन सत्त्वमात्मानं निबध्नातीत्याह— ज्ञानमित्यादिना। विपक्षे दोषमाह—आत्मेति। स्वाभाविकत्वेन प्राप्तत्वात् , तत्र स्वतः संयोगात् , तद् द्वारा बन्धे च तन्निवृत्त्यनुपपत्तेः नात्मधर्मत्वमित्यर्थः। ज्ञानैश्वर्यादावपि क्षेत्रधर्मे सङ्गस्य पूर्ववदाविद्यकत्वं सूचयति— सुख इवेति। पापादिदोषहीनस्यैवात्र शास्त्रेऽधिकार इति द्योतयति— अनघेति॥६॥
[आनन्दगिरिकृतव्याख्या]
१. ‘आसक्तमिव करोति, असङ्गं’ इति क्वचिन्न। २. ‘क्षेत्रस्यैव विषयस्यान्तःकरणस्य’ इति पा.। ३. ‘निबन्धनत्वमाह’ इति पा.। ४. तथा च न मूलाज्ञानमिहाविद्या, तस्य सत्त्वधर्मत्वासंभवादिति भावः।
[[७४७]]
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्। तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम्॥७॥
तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्। बद्ध इव भवतीतीहाप्यर्थो बोद्धव्यः। यत्तु रामानुजः— सत्त्वं पुरुषस्य ज्ञानसुखयोः सत्यमेव सङ्गं जनयतीति। तदयुक्तम् , निर्धर्मकेऽसङ्गे चात्मनि सत्यसुखज्ञान- सङ्गासम्भवात्। न च मिथ्याभूतोऽपि सङ्गो न युक्त इति वाच्यम् ; गगने नीरूपेऽपि नैल्यस्य मिथ्याभूतस्य दर्शनात्॥६॥
रज इति। रजो रागात्मकं विद्धि। तृष्णासङ्गसमुद्भवं तत् कर्मसङ्गेन देहिनं निबध्नाति। यद्वा रजो रागात्मकं तृष्णासङ्गसमुद्भवं च विद्धि। तृष्णासङ्गसमुद्भवं रजो रागात्मकं विद्धीति वा। रागात्मकं रजः तृष्णासङ्गसमुद्भवं विद्धि इति वा। रागः आत्मा स्वरूपं यस्य तद् रागात्मकम्। रागशब्दव्युत्पत्तिमाह— रञ्जनाद्राग इति। दृष्टान्तमाह— गैरिकादिवदिति। यथा गैरिकादिधातुरसः पटादेः रञ्जकस्तद्वदयं मनसः इति भावः। रञ्जकत्वे सति देहिनः कर्मासञ्जकत्वं रजसो लक्षणम्। कथं रञ्जकत्वम्? अत आह— तृष्णेति। तृष्णासङ्गजननद्वारा रञ्जकत्वं रजसः इत्यर्थः। अप्राप्ते वस्तुन्यभिलाषस्तृष्णा। प्राप्ते वस्तुनि मनसः प्रीतिलक्षणः संश्लेषः आसङ्गः, आसक्तिरिति यावत्। दृष्टाः पशुपुत्रादयः, अदृष्टाः स्वर्गादयश्च दृष्टादृष्टाः अर्थाः फलानि येषां तेषु दृष्टादृष्टादिषु [दृष्टादृष्टार्थेषु] दृष्टार्थेष्व- दृष्टार्थेषु चेत्यर्थः। कर्मसु कृष्यादिषु , इष्ट्यादिषु च यः सङ्गः सञ्जनं सक्तिस्तात्पर्यमिति यावत्। स कर्मसङ्गः, तेन कर्मसङ्गेन कर्मसु सक्तिजननद्वारेत्यर्थः। अन्वयं दर्शयति—निबध्नाति रजो देहिनमिति। रजो देहिनं निबध्नातीवेत्यर्थः। रजोगुणप्रयुक्तादात्मा- नात्माविवेकान्मनोधर्मौ तृष्णासङ्गावात्मन्यध्यस्य देहाद्याश्रयं कर्म चात्मन्यध्यस्य, अस्मै फलायाहमिदं करोमीति प्रत्येत्यविद्वान्। ततश्च तत्फलमनुभवन् बद्ध इव भातीति परमार्थः। रामानुजस्तु— रागो योषित्पुरुषयोरन्योन्यस्पृहा, तद्धेतुत्वाद् रागात्मकः। तृष्णा शब्दादिसर्वविषयस्पृहा, सङ्गः पुत्रमित्रादिषु सम्बन्धिषु संश्लेषस्पृहा, तथा देहिनं कर्मसु स्पृहाजननद्वारेण रजो निबध्नातीति। तन्मन्दम् , एकस्या एव स्पृहायाः विषयभेदेन बहुधा निर्देशस्य फलाभावात् , शब्दादिसर्वविषयस्पृहातिरिक्तयोषित्पुरुषान्योन्यस्पृहाद्यभावाच्च॥७॥
तम इति। अज्ञानजं तमस्तु सर्वदेहिनां मोहनं विद्धि। तमस्त्वज्ञानजं सर्वदेहिनां मोहनं च विद्धीति वा। तत् प्रमादालस्य- भाष्यार्कप्रकाशः रजस्तर्हि किंलक्षणम् , कथं वा पुरुषं निबध्नातीत्याशङ्क्याह— रज इति। रज्यते संसृज्यतेऽनेन पुरुषो दृश्यैरिति रागः। असावात्माऽस्येति रागात्मकं रजो जानीहीत्याह— रञ्जनादिति। समुद्भवत्यस्मादिति समुद्भवः। तृष्णा चासङ्गश्च तृष्णासङ्गौ, तयोः समुद्भवस्तमिति विग्रहं गृहीत्वा कार्यद्वारा रजो विवक्षुस्तृष्णासङ्गयोरर्थभेदमाह— तृष्णेत्यादिना। रजसो लक्षणमुक्त्वा निबन्धृत्वप्रकार- माह— तद्रज इति। कर्मसङ्गं विभजते— दृष्टेति। अकर्तारमेव पुरुषं करोमीत्यभिमानेन प्रवर्तयतीत्यर्थः॥७॥
तमस्तर्हि किंलक्षणम् , कथं वा पुरुषं निबध्नाति? तत्राह— तमस्त्विति। गुणानां प्रकृतिसम्भवत्वाविशेषेऽपि तमसो रज इति। रजो रागात्मकम् रञ्जनाद् रागः, गैरिकादिवद् रागात्मकं विद्धि जानीहि। तृष्णासङ्गसमुद्भवं तृष्णा अप्राप्ताभिलाषः, आसङ्गः प्राप्ते विषये मनसः प्रीतिलक्षणः संश्लेषः, तृष्णासङ्गयोः समुद्भवं तृष्णासङ्गसमुद्भवम्। तन्निबध्नाति तद् रजः निबध्नाति, हे कौन्तेय ! कर्मसङ्गेन दृष्टादृष्टार्थेषु कर्मसु सञ्जनं तत्परता कर्मसङ्गः, तेन निबध्नाति रजो देहिनम्॥७॥
तमस्त्विति। तमः तृतीयो गुणः, अज्ञानजम् अज्ञानाज्जातमज्ञानजं विद्धि। मोहनं मोहकरम् अविवेककरं आनन्दगिरिकृतव्याख्या
[[अ. १४. श्लो. ६-८]] [[७४८]]
निद्राभिः देहिनं निबध्नाति। अज्ञानं ज्ञानाभावः, न तु प्रकृतिः। सत्त्वरजसोरपि प्रकृतिजत्वांशेऽविशेषात्। ‘गुणाः प्रकृतिसम्भवाः’ इति ह्युक्तम्। न चाभावात् कथं भावस्योत्पत्तिरिति वाच्यम् ; ज्ञानाभाववत्प्रकृतिजत्वेन ज्ञानाभावजत्वव्यपदेशात्। यद्वा चिदाभासशून्यम- ज्ञानं केवलमिहाज्ञानशब्देन विवक्षितम् , सत्त्वरजसोः कारणमज्ञानं तु चिदाभासरहितम्। कथमन्यथा सत्त्वरजसोरपि चिदाभास- साहित्यप्रयुक्तं ज्ञानं स्यात्। न च सत्त्वादेव ज्ञानं न तु रजस इति वाच्यम् ; तृष्णादीनामपि ज्ञानविशेषत्वात्। न चैवं ज्ञानसङ्गेन देहिबन्धकत्वं रजसोऽप्यस्तीति वाच्यम् ; ज्ञानसङ्गप्रयुक्तकर्मसङ्गेन बन्धकत्वं रजस इति विशेषात्। तृष्णासङ्गव्यतिरिक्तज्ञानसङ्गेन सत्त्वं बध्नातीति विशेषादिति वा। वस्तुतस्तु आवरणात्मकः आवरणशक्तिप्रधानो वा प्रकृत्यंशोऽत्राज्ञानशब्देन विवक्षित इति वेद्यम्। मोहनमिति। आत्मानात्माविवेको मोहः। ननु सत्त्वरजसोरप्यस्त्येवेदं मोहकत्वमिति चेत्? सत्यमस्ति। किन्तु अयमात्मा, अयमनात्मेति विवेकाभावः सत्त्वादि- प्रयुक्तः। आत्मानात्माख्यपदार्थज्ञानाभावस्तु तमःप्रयुक्त इति भेदः। अविवेककरमिति। ज्ञानाभावजनकमित्यर्थः। मोहनं भ्रान्ति- जनकमिति श्रीधरः। प्रमादोऽनवधानता। आलस्यं मान्द्यम्। निद्रा सुप्तिः। मोहकत्वे सति प्रमादालस्यनिद्राभिरात्मनो बन्धकत्वं तमसो लक्षणम्। तमोगुणप्रयुक्तादविवेकाद् अनात्मधर्मान् प्रमादालस्यनिद्राः आत्मन्यध्यस्य प्रमत्तोऽहम् अलसोऽहं सुप्तोऽहमिति प्रत्येत्य- विद्वान् ; ततश्च बद्ध इव भवतीति परमार्थः। प्रमादालस्यनिद्राश्चान्तःकरणधर्मा इति बोध्यम्। न च निद्रायामन्तःकरणस्यैवाभावात् कथं निद्रायास्तद्धर्मत्वमिति वाच्यम् ; अन्तःकरणस्य प्रकृतौ निलीयावस्थानस्यैव निद्रात्वेन अन्तःकरणनिलयनावस्था निद्रा अन्तःकरणधर्म एवेति। श्लोकत्रयस्यायमभिप्रायः— प्रकृतिकार्येऽन्तःकरणे सत्त्वादिगुणत्रयमनुगतमस्ति। तत्रान्तःकरणे गुणत्रयवति यः सत्त्वांशः तत्कार्ये सुखज्ञाने। ते चाविद्यया आत्मन्यध्यस्ते भूत्वा बन्धके भवत इवात्मनः। यो रजोंऽशः तत्कार्ये तृष्णासङ्गौ। तत्प्रयुक्तं कर्म च तत्कार्यम्। तत्त्रयमप्यविद्ययाऽऽत्मन्यध्यस्तं सद् बन्धकमिवात्मनः। यश्च तमोंऽशः, तत्कार्याणि मोहप्रमादालस्यनिद्राः। ताश्चाविद्य- याऽऽत्मन्यध्यस्ताः सत्यः आत्मनो बन्धिका इवेति। सर्वोऽप्ययमात्मबन्धोऽविद्यामयत्वान्मृषैव, न वास्तव इति इवशब्दाभिप्राय इति॥८॥
ऽज्ञानजत्वविशेषणं २तद्विपरीतस्वभावानापत्तेरिति मत्वाऽऽह— अज्ञानादिति। मुह्यत्यनेनेति मोहनं विवेकप्रतिबन्धकमिति कार्यद्वारा तमो निर्दिशति— मोहनमित्यादिना। लक्षणमुक्त्वा तमसो बन्धनकरत्वं दर्शयति— प्रमादेति। कार्यान्तरासक्ततया चिकीर्षितस्य कर्तव्यस्याकरणं प्रमादः, निरीहतयोत्साहप्रतिबन्धस्त्वालस्यम् , स्वापो निद्रा, ताभिरात्मानमविकारमेव तमोऽपि विकारयतीत्यर्थः॥८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सर्वदेहिनां सर्वेषां देहवताम्। प्रमादालस्यनिद्राभिः प्रमादश्चालस्यं च निद्रा च प्रमादालस्यनिद्राः, १ताभिः तत् तमो निबध्नाति, भारत ! ॥८॥
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत!॥ ८॥
१. ‘ताभिः प्रमादालस्यनिद्राभिः’ इति पा.। २. ‘गुणाः प्रकृतिसम्भवाः’(१४-५) इति त्रयाणामपि अज्ञानात्मकप्रकृतिजत्वस्य साधारण्ये सति तमसः अज्ञानजत्व- विशेषणस्याभिप्रायमाह—तद्विपरीतेति। ‘ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत’इत्युक्तेः आवरणत्वरूपकारणस्वभावविपरीतस्वभावस्य तमस्यभावादित्यर्थः। अत एव तमःकार्येऽपि मोहादौ अज्ञानशब्दप्रयोगः। एवमेव गुणशब्दप्रयोगः कार्ये कारणे चास्मिन् प्रकरणे द्रष्टव्यः। एवं च - अज्ञानजम् इत्यत्र अज्ञानाज्जातम् अज्ञानजमिति व्याख्याने ‘प्रमादमोहौ तमसो भवतोऽज्ञानमेव च’ (१४-१७) इति वाक्यशेषे अज्ञानस्य तमःकार्यत्वप्रतिपादनविरोधं मत्वा, अज्ञानं जायते यस्मादिति यद् विग्रहप्रदर्शनं मध्वाचार्याणाम् , तदापाततः। अज्ञानजमित्यस्य अज्ञानजनकमिति अर्थवर्णनस्यास्वरसत्वात्। ‘कर्मणः सुकृतस्याहुः’ इति कर्मणः प्रक्रान्तत्वेन संक्षेपेण सात्त्विकादिकर्मफलस्य प्रदर्शके तस्मिन् श्लोके अज्ञानपदेन बुद्धेर्जाड्यापरपर्यायाविवेकस्यैवोक्तत्वात् तस्य च तमोजन्यत्वोक्तेरविरोधात्। इह तु गुणस्वरूपप्रदर्शनावसरे कारणानुरूप्यज्ञापनायाज्ञानजत्वोक्तेः। अत एव आनन्दगिर्याचार्यैः— ‘अज्ञानं विवेकाभावः’ इति तत्र व्याख्यातम्।
[[७४९]]
पुनर्गुणानां व्यापारः संक्षेपतः उच्यते— सत्त्वमिति। सत्त्वं सुखे सञ्जयति संश्लेषयति। रजः कर्मणि, हे भारत ! सञ्जयतीति १वर्तते। ज्ञानं सत्त्वकृतं विवेकम् आवृत्य आच्छाद्य तु तमः स्वेनावरणात्मना प्रमादे सञ्जयत्युत। प्रमादो नाम प्राप्तकर्तव्याकरणम् ॥९॥
उक्तं कार्यं कदा कुर्वन्ति गुणाः इत्युच्यते— रज इति। रजस्तमश्च उभावप्यभिभूय सत्त्वं भवति उद्भवति वर्धते यदा तदा लब्धात्मकं सत्त्वं स्वकार्यं ज्ञानसुखाद्यारभते। हे भारत ! तथा रजोगुणः सत्त्वं तमश्चैवोभावप्यभिभूय वर्धते यदा तदा कर्मतृष्णादि२ स्वकार्यमारभते। तमआख्यो गुणः सत्त्वं रजश्चोभावप्यभिभूय तथैव वर्धते यदा तदा ज्ञानावरणादि स्वकार्यमारभते॥१०॥
सत्त्वमिति। देहिनमिति शेषः। सत्त्वं सुखे सञ्जयति। रजः कर्मणि सञ्जयति। तमस्तु ज्ञानमावृत्य प्रमादे सञ्जयत्युत संश्लेषयति; सङ्गमयतीवेत्यर्थः। केनावृत्येत्यत आह— स्वेनेति। किंरूपेण स्वेनेत्यत आह— आवरणात्मनेति। स्वस्वरूपेणैवावृत्ये- त्यर्थः। आवारकत्वात् स्वस्वरूपस्य तमस इति भावः। आवरणात्मकं हि तमः, प्रकाशात्मकं तु सत्त्वं, रागात्मकं तु रज इति बोध्यम्। प्रमादशब्दार्थमाह— प्राप्तेति। प्राप्तं शास्त्रादज्ञस्य प्राप्तं यत् कर्तव्यं कर्म, तस्याकरणं प्रमाद इत्युच्यते। इदमेव ह्यनवधानं नाम, यत् कर्तव्यस्य कर्मणोऽकरणम्। कर्तव्यात् कर्मणोऽन्यत्र प्रवृत्तिहेतुभूतमनवधानं प्रमाद इति रामानुजः। तन्मन्दम्— कर्तव्याकरणस्यैवा- नवधानत्वेन तदन्यत्र प्रवृत्तिहेतुरनवधानमिति कल्पनस्यन्याय्यत्वात्। यो ह्यनवहितचित्तः स प्राप्तमेव न करोति, किं पुनरप्राप्तं न करोतीति॥९॥
रज इति। हे भारत! सत्त्वं कर्तृ , रजस्तमश्चाभिभूय भवति। रजः कर्तृ , सत्त्वं तमश्चाभिभूय भवति। तथा तमः कर्तृ , सत्त्वं रजश्चाभिभूय भवति। यदा, तदा सत्त्वादयः स्वं स्वं कार्यमारभन्त इति वाक्यशेषः। अभिभूय तिरस्कृत्य। उद्भवतीति। ननु प्रागेव सिद्धस्य कथं पुनरुद्भवः? अत आह— वर्धत इति। लब्धात्मकं प्राप्तप्रतिष्ठम्। आरभते जनयति। रामानुजस्तु— सत्त्वादयः प्रकृतिसंसृष्टात्मस्वरूपानुबन्धिन इत्युक्तवान्। तत्तु देहाकारपरिणतप्रकृतिस्वरूपानुबन्धिनः सत्त्वा- दयो गुणा इति। तदीयेनैव वचनेन पराहतम्। न हि प्रकृतिस्वरूपानुबन्धिनो गुणाः प्रकृतिविलक्षणात्मस्वरूपानुबन्धिनो भवितुमर्हन्ति। नाप्यात्मस्वरूपस्य प्रकृतिसंसृष्टत्वमस्ति, असङ्गत्वादात्मनो निरवयवत्वाच्च॥१०॥
उक्तानां मध्ये कस्मिन् कार्ये कस्य गुणस्योत्कर्षः? तत्राह— पुनरिति। सुखे साध्ये विषये समुत्कृष्यते सत्त्वमित्याह— सत्त्वमिति। सञ्जयतीत्यस्यार्थमाह— संश्लेषयतीति। कर्मणि साध्ये रजः समुत्कृष्यत इत्याह— रज इति। प्रमादे प्राधान्यं तमसो दर्शयति— ज्ञानमिति॥९॥
इतरेतराविरोधेन वा सत्त्वादयो गुणाः युगपदुत्कृष्यन्ते, विरोधेन वा, क्रमेण वेति सन्देहात् पृच्छति— उक्तमिति। सत्त्वोत्कर्षा- र्थिनामितराभिभवार्थं क्रमपक्षमाश्रित्योत्तरमाह— उच्यत इति। सत्त्वाभिवृद्धिमेव विवृणोति— तदेति। रजस्तमसोस्तिरोधानदशायामिति यावत्। रजसो वृद्धिप्रकारं , तत्कार्यं च कथयति— तथेति। तमसोऽपि विवृद्धिं , तत्कार्यं च निर्दिशति— तम इति॥१०॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत !। ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥९॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत !। अ. १४. श्लो. ८-१० ] १. ‘अनुवर्तते’ इति पा.। २. ‘कर्म कृष्यादि’ इति पा.।
[[७५०]]
यदा यो गुणः उद्भूतो भवति, तदा तस्य किं लिङ्गमित्युच्यते— सर्वद्वारेष्विति। सर्वद्वारेषु आत्मन उपलब्धि- द्वाराणि श्रोत्रादीनि सर्वाणि करणानि, तेषु सर्वद्वारेषु अन्तःकरणस्य बुद्धेर्वृत्तिः प्रकाशो देहेऽस्मिन्नुपजायते तदेव ज्ञानम्। यदैवं प्रकाशो ज्ञानाख्य उपजायते तदा ज्ञानप्रकाशेन लिङ्गेन विद्याद् विवृद्धमुद्भूतं सत्त्वमिति उत अपि ॥११॥
रजसः उद्भूतस्येदं चिह्नम्— लोभ इति। लोभः परद्रव्यादित्सा, प्रवृत्तिः प्रवर्तनं सामान्यचेष्टा, आरम्भः उद्यमः, कस्य? कर्मणाम् । अशमः अनुपशमः, हर्षरागादिप्रवृत्तिः, स्पृहा सर्वसामान्यवस्तुविषया तृष्णा, रजसि गुणे सर्वेति। उद्भूतः प्रवृद्धः। तस्य प्रवृद्धगुणस्य, गुणवृद्धेरिति वा। लिङ्गं चिह्नं, ज्ञापकमिति यावत्। इति शङ्कायामुच्यते सर्वद्वारेष्विति श्लोकः। यदा अस्मिन् देहे सर्वद्वारेषु प्रकाशो ज्ञानमुपजायते तदा सत्त्वं विवृद्धमिति विद्यादुत। उपलब्धिर्घटादिज्ञानम् , तद्द्वाराणि। चक्षुरादिद्वारेण निर्गतान्तःकरणवृत्त्या हि घटादिकं विषयमुपलभत आत्मा प्रमाता। सर्वेषु द्वारेष्विति। न युगपत् , किन्तु क्रमेणेति भावः। न ह्येकमेवान्तःकरणं युगपत् सर्वद्वारेभ्यो निर्गत्य शब्दस्पर्शादिसर्वविषयाकारेण परिणन्तुमीष्टे। युगपत् सर्वेन्द्रिय- ज्ञानानुत्पत्तिर्हि मनसो लिङ्गमिति१ वृद्धव्यवहारात्। प्रकाशशब्दार्थमाह— बुद्धेर्व्याप्तिरिति। तदेवेति। प्रकाश एवेत्यर्थः। क्लीबत्वं तु सामान्यात्। प्रकाश इति यद्वस्तु तदेवेति वा। प्रकाशनमेवेति वा। ज्ञानमिति। वृत्तिज्ञानमित्यर्थः। ज्ञानप्रकाशेनेति। ज्ञानाख्यप्रकाशेनेत्यर्थः। सूर्यादिप्रकाशव्यावृत्त्यर्थं ज्ञानविशे- षणम्। प्रकाशो बुद्धिव्याप्तिः, स एव ज्ञानमिति, ज्ञानस्य प्रकाशत्वविशेषणं तु चैतन्यव्यावृत्त्यर्थमिति बोध्यम्। तस्मान्नान्यतरवैयर्थ्यम्। अन्यतरवैयर्थ्यमेव हि पुनरुक्तिदोषबीजम्। तस्मान्न पौनरुक्त्यम्। उतेत्यव्ययस्यार्थमाह— अपीति। चेत्यर्थः। यत्तु रामानुजः— वस्तुयाथात्म्यप्रकाशे ज्ञानमुपजायत इति, तन्मन्दम् , वस्तुयाथात्म्यप्रकाशस्यैव ज्ञानत्वेन ज्ञानप्रकाशयो- राधाराधेयभावायोगाद् , विषयविषयिभावायोगाच्च॥११॥
लोभ इति। हे भरतर्षभ ! रजसि विवृद्धे सति लोभः प्रवृत्तिः कर्मणामारम्भोऽशमः स्पृहा इत्येतानि जायन्ते। लिप्सा लब्धु- मिच्छा। आरम्भप्रवृत्त्योः सामान्यविशेषभावाद् भेद इत्याह— सामान्यचेष्टेति। गमनादिसामान्यव्यापारः प्रवृत्तिः, यज्ञादिकर्मविशेष- व्यापार आरम्भ इति विवेकः। कर्मणामिति। यज्ञादीनामित्यर्थः। उपशमो निवृत्तिः, तदभावोऽनुपशमः। फलितार्थमाह— हर्षेति। उत्तरश्लोकत्रयस्याकाङ्क्षां दर्शयति—यदेति। सत्त्वोद्भवलिङ्गदर्शनार्थमनन्तरं श्लोकमुत्थापयति—उच्यत इति। सर्वद्वारेष्वित्यादि- सप्तमी निमित्ते नेतव्या। उतशब्दोऽपिशब्दपर्यायोऽप्यतिशयार्थः॥११॥
अतिशयेनोद्भूतस्य रजसो लिङ्गमाह— रजस इति। उपक्रमपर्यायस्यारम्भस्य विषयं पृच्छति— कस्येति। काम्यानि निषिद्धानि च लौकिकानि कर्माणि विषयत्वेन निर्दिशति— कर्मणामिति। अनुपशमो बाह्यान्तःकरणानामिति शेषः। लोभाद्युपलम्भाद् रजोवृद्धिर्बोद्धव्येति भावः॥१२॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा॥१०॥
सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद् विवृद्धं सत्त्वमित्युत॥११॥
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा। १. द्र. न्यायसूत्रम् १.१.१६
[[७५१]]
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ !॥१२॥
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन !॥१३॥
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्। तदोत्तमविदां लोकानमलान् प्रतिपद्यते॥१४॥
हर्षरागादिविषयेषु प्रवृत्तिरशम इत्यर्थः। सर्वसामान्यवस्तूनि शब्दादयः, येषु सर्वेषां जन्तूनामभिलाषः। लिङ्गानीति। ज्ञापकानि कार्याणीत्यर्थः। कार्येण हि कारणमनुमीयत इति कारणस्य कार्यं लिङ्गम् , वह्नेर्धूमवत्। लोभः स्वकीयद्रव्यस्यात्यागशीलतेति रामानुजः। तत्तु ‘कामस्यान्तं तु क्षुत्तृड्भ्यां क्रोधस्यान्तं फलोदयात्। नरो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः॥’ इति भागवतविरुद्धत्वादुपेक्ष्यम् ॥१२॥
अप्रकाश इति। हे कुरुनन्दन! तमसि विवृद्धे सत्यप्रकाशोऽप्रवृत्तिः प्रमादो मोह एव चेत्यादीनि जायन्ते। अत्यन्तमविवेकः स्वपरज्ञानाभावः। तत्कार्यमिति। तमःकार्यमित्यर्थः। एवं तत्कार्य इत्यत्रापि। मोहशब्दार्थमाह— अविवेक इति। फलितमाह— मूढतेति। अप्रकाशमोहयोः सुतरां ज्ञानाभावाल्पज्ञानसत्त्वाभ्यां भेदः। अप्रकाशो ज्ञानाभावः, मोहस्तु विपरीतज्ञानमिति रामानुजः। तदयुक्तम्— विपरीतज्ञानस्य रजआद्युद्रेकदशायामपि सत्त्वात्॥१३॥
यदेति। तदपि फलं सहेतुकं सकारणं गौणं सत्त्वादिगुणप्रयुक्तमेवेत्यर्थः। यदा देहभृत् सत्त्वे प्रवृद्धे सति तु प्रलयं याति, तदा अमलानुत्तमविदां लोकान् प्रतिपद्यते। आत्मेति। अनात्मन्यात्माभिमानवानज्ञ इत्यर्थः। यद्वा आत्मा प्रलयं यातीव, लोकान् प्रतिपद्यत इवेति बोध्यम्। न हि वस्तुत आत्मनो मरणादिसम्भवः। उत्तमविदां तत्त्वविदां लोकान् समूहान् प्रतिपद्यते, आत्मविदां कुलेषु जायत इत्यर्थः इति रामानुजः। तन्मन्दम् , उद्भूतस्य तमसो लिङ्गमाह— अप्रकाश इति। सर्वथैव ज्ञानकर्मणोरभावो विशेषणाभ्यामुक्तः। तत्कार्यमिति तच्छब्दो दर्शिता- विवेकार्थः। प्रमादो व्याख्यातः। मोहो वेदितव्यस्यान्यथावेदनम्। तस्यैव मौड्यान्तरमाह— अविवेक इति। अविवेकातिशयादिना प्रवृद्धं तमो ज्ञेयमिति भावः॥१३॥
सात्त्विकादीनां भावानां पारलौकिकं फलविभागमुदाहरति— मरणेति। सङ्गः सक्तिः, रागः तृष्णा। तद्बलादनुष्ठानद्वारा लभ्यमानमित्यर्थः। गौणं सत्त्वादिगुणप्रयुक्तमिति यावत्। तत्र सत्त्वगुणवृद्धिकृतफलविशेषमाह— यदेति। मलरहितान् रजस्तमसो- रन्यतरस्योद्भवो मलम् , तेन रहितान् आगमसिद्धान् ब्रह्मलोकादीनित्यर्थः॥१४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
विवृद्ध एतानि लिङ्गानि जायन्ते, हे भरतर्षभ !॥१२॥
अप्रकाश इति। अप्रकाशोऽविवेकोऽत्यन्तम् , अप्रवृत्तिश्च प्रवृत्त्यभावः, तत्कार्यं प्रमादो मोह एव चाविवेको मूढतेत्यर्थः। तमसि गुणे विवृद्ध एतानि लिङ्गानि जायन्ते, हे कुरुनन्दन !॥१३॥
मरणद्वारेणापि यत्फलं प्राप्यते तदपि १सङ्गरागहेतुकं सर्वं गौणमेवेति दर्शयन्नाह— यदेति। यदा सत्त्वे प्रवृद्धे उद्भूते तु प्रलयं मरणं याति प्रतिपद्यते देहभृद् आत्मा तदा उत्तमविदां महदादितत्त्वविदामित्येतत्। लोकान् अमलान् मलरहितान् प्रतिपद्यते प्राप्नोतीत्येतत्॥१४॥
अ. १४. श्लो. १०-१४ ] १. ‘सहेतुकं’ इति पा.।
[[७५२]]
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते। तथा प्रलीनस्तमसि मूढयोनिषु जायते॥१५॥
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्। रजसस्तु फलं दुःखमज्ञानं तमसः फलम्॥१६॥
लोकशब्दस्य प्रसिद्धं भुवनार्थं त्यक्त्वा अप्रसिद्धसमूहार्थकल्पनम् , तत्रापि समूहान् प्रतिपद्यत इत्यस्य कुलेषु जायत इत्यर्थवर्णनं चायुक्तमिति॥१४॥
रजसीति। देही रजसि प्रवृद्धे सति प्रलयं गत्वा कर्मसङ्गिषु जायते। तथा तमसि प्रवृद्धे सति प्रलीनःसन् मूढयोनिषु जायते। मनुष्येष्विति। देवादीनां कर्माधिकाराभावादिति भावः। एतेन सत्त्वे प्रवृद्धे मृतानां देवादिजन्मप्राप्तिरिति सिद्धम्। यत्तु रामानुजः— सत्त्वे प्रवृद्धे मृत इहैव मनुष्येषु तत्त्ववित्सु जातःसन् पुण्यकर्मस्वधिकरोति। रजसि तु स्वर्गादिफल- साधनकर्मस्विति, तत्तुच्छम् । स्वर्गादिकर्मणामपुण्यकर्मत्वस्यान्याय्यत्वात्। न चात्मयाथात्म्यज्ञानसाधनानि कर्माणि पुण्यकर्माणीति वाच्यम् ; यज्ञादीनामपि तथात्वात्। न च फलाभिसन्धिरहितानि पुण्यकर्माणीति वाच्यम् ; तेषां पुण्यपापोभयातिरिक्तत्वात्। पापकर्मवत् पुण्यकर्मापि देवादिजन्मप्रदानद्वारा बन्धकं हि। तस्माद् यानि पुण्यकर्माणि स्वर्गादिसाधनानि तान्येव यज्ञादीनि फलाभिसन्धिरहितानि ज्ञानसाधनानीति नास्ति यज्ञाद् व्यतिरिक्तं ज्ञानसाधकं पुण्यकर्म। किञ्च कर्मसङ्गिषु जायत इति रजसि मृते विषय एव स्मर्यते, न तु सत्त्वे मृते विषय इति कथं सत्त्वे मृतानाम् कर्मसङ्गित्वं कल्पयितुं शक्यमनुच्छृङ्खलप्रवृत्तिना केनापि॥१५॥ कर्मण इति। सुकृतस्य कर्मणः सात्त्विकं निर्मलं फलमाहुः। रजसस्तु दुःखं फलमाहुः। तमसस्त्वज्ञानं फलमाहुः। सात्त्विकस्य सत्त्वगुणप्रयुक्तस्य। सात्त्विकं सत्त्वप्रधानम् , अत एव निर्मलं फलं देवत्वादिलक्षणं सुखहेतुभूतम्। रजस इति। कर्मप्रकरणादत्र न गुणग्रहणं युक्तमित्याह— राजसस्येति। कर्माधिकारादिति। ‘रजः कर्मणि भारत’ इत्युक्तत्वादिति भावः। फलमपीति। यथा कर्मोपकरणादिसम्पादनादिना दुःखम् , तद्वत् तत्फलमपीत्यपेरर्थः। दुःखं दुःखकरमेवेत्यर्थः। तच्च फलं राजसमेव। रजःसमुद्रेके मृतस्य फलविशेषं दर्शयति— रजसीति। जायते शरीरं गृह्णातीत्यर्थः। यथा सत्त्वे रजसि च प्रवृद्धे मृतो ब्रह्म- लोकादिषु मनुष्यलोके च देवादिषु मनुष्येषु च जायते, तथैवेत्याह— तद्वदिति॥१५॥
भावानां फलमुक्त्वा सात्त्विकादीनां कर्मणां फलमाह— अतीतेति। सुकृतस्य शोभनस्य कृतस्य पुण्यस्येत्यर्थः। सात्त्विकस्या- शुद्धिरहितस्येति यावत्। सात्त्विकं सत्त्वेन निर्वृत्तम्। निर्मलं रजस्तमःसमुद्भवान्मलान्निष्क्रान्तम्। रजःशब्दस्य राजसे कर्मणि कुतो वृत्तिः? तत्राह— कर्मेति। दुःखमेव २दुःखबहुलं सुखमेवेत्यर्थः। कथमित्थं व्याख्यायते? तत्राह— कारणेति। पापमिश्रस्य पुण्यस्य रजोनिमित्तस्य कारणत्वात् तदनुरोधात् फलमपि रजोनिमित्तं यथोक्तं युक्तमित्यर्थः। अज्ञानम् अविवेकप्रायं दुःखं तामसाधर्मफलमित्याह
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
रजसीति।रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु कर्मासक्तियुक्तेषु मनुष्येषु जायते। तथा तद्वदेव प्रलीनो मृतस्तमसि विवृद्धे मूढयोनिषु पश्वादियोनिषु जायते॥१५॥
अतीतश्लोकार्थस्यैव सङ्क्षेपः उच्यते— कर्मण इति। कर्मणः सुकृतस्य सात्त्विकस्येत्यर्थः। आहुः शिष्टाः सात्विकमेव निर्मलं फलमिति। रजसस्तु फलं दुःखं, राजसस्य कर्मण इत्यर्थः, १कर्माधिकारात् , फलमपि दुःखमेव कारणानुरूप्याद् राजसमेव। तथा अज्ञानं तमसः तामसस्य कर्मणोऽधर्मस्य फलं पूर्ववत्॥१६॥
१. ‘कर्मणः सुकृतस्याहुः’ इति कर्मणः प्रक्रान्तत्वादित्यर्थः। २. दुःखस्यैव तत्फलत्वे प्रवृत्त्यनुपपत्तिं मत्वा व्याचष्टे—दुःखेति।
[[७५३]]
सत्त्वात् संजायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥१७॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः॥१८॥
कुतः? कारणानुरूप्यात्। कारणस्य कर्मणो राजसत्वात् तत्फलस्यापि राजसत्वमिति भावः। अधर्मस्येति। हिंसादिलक्षणस्येत्यर्थः। एतेन राजसं कर्म धर्मरूपमिति सूचितम्। पूर्ववदिति। तामसमेवेत्यर्थः। सात्त्विकं कर्म कृत्वा देवत्वादिलक्षणं सुखादिलक्षणं ज्ञानलक्षणं वा फलं लभन्ते। राजसं कर्म कृत्वा मनुष्यत्वलक्षणं विहितानुष्ठानरूपं दुःखात्मकं वा फलं लभन्ते। तामसं कर्म कृत्वा पशुत्वादिलक्षणं मोहाद्यात्मकं फलं लभन्ते। तत्र फलाभिसन्धिरहितं कर्म सात्त्विकम् , तद्युक्तं विहितं कर्म राजसम् , हिंसादिरूपं तु तामसमिति विवेकः॥१६॥
सत्त्वादिति। सत्वाज्ज्ञानं सञ्जायते, रजसो लोभ एव सञ्जायते च, तमसः प्रमादमोहौ भवतः, अज्ञानमेव भवति च। प्रवृद्धेभ्य एव सत्त्वादिभ्य उक्तकार्यसम्भव इत्यभिप्रेत्याह—लब्धात्मकादिति। रजस्तमोभिभवपूर्वकं प्राप्तप्रतिष्ठादित्यर्थः। एवं लब्धात्मकाद् रजसो, लब्धात्मकात् तमसश्चेत्यपि बोध्यम्। अज्ञानं निद्रादिरूपं मूलाज्ञानम्। ज्ञानाभाव इति रामानुजः। अभावस्य जनिलक्षणभाव- विकारायोगात् तदुक्तमुपेक्ष्यम्॥१७॥
ऊर्ध्वमिति। ये आमरणं सत्त्वस्थास्ते मरणानन्तरमूर्ध्वं गच्छन्ति। ये त्वेवमामरणं रजःस्थास्ते मरणानन्तरं पुनरपि मध्य एव तिष्ठन्ति। ये त्वामरणं तमःस्थास्ते मरणानन्तरमधो गच्छन्ति। उत्पद्यन्त इति। देवादिजन्म लभन्त इत्यर्थः। सत्त्वगुणस्य या वृत्तयः, तासु स्थिताः। सात्त्विककार्यपरा इत्यर्थः। मध्ये तिष्ठन्ति मनुष्येष्वेवोत्पद्यन्ते। राजसाः रजोगुणवृत्तिस्थाः। राजसकर्मकर्तार इत्यर्थः। ३तामस इति। तमोगुण इत्यर्थः। स्वार्थेऽण्। उत्कृष्टत्वाद् देवादिजन्मन ऊर्ध्वस्थत्वम् , अपकृष्टत्वात् पश्वादिजन्मनोऽधःस्थत्वम् , उत्कर्षापकर्षरहितत्वान्मनुष्यजन्मनो मध्यस्थत्वमिति भावः। पुण्यप्रयुक्तत्वाद् देवजन्मोत्कृष्टम् , पापप्रयुक्तत्वात् पश्वादिजन्मापकृष्टम् , उभयात्मकत्वान्मनुष्यजन्म मध्यस्थमिति बोध्यम्। — तथेति॥१६॥
विहितप्रतिषिद्धज्ञानकर्माणि सत्त्वादीनां २लक्षणानि सङ्क्षिप्य दर्शयति— किञ्चेति। ज्ञानं सर्वकरणद्वारकम्। अज्ञानं विवेकाभावः ॥१७॥
सात्विकादिज्ञानकर्मफलान्युक्त्वाऽनुक्तसंग्रहार्थं सामान्येनोपसंहरति— किञ्चेति। वक्ष्यमाणफलद्वाराऽपि सत्त्वादिज्ञानमित्यर्थः। सत्त्वगुणस्य वृत्तं शोभनं ज्ञानं कर्म वा, तत्र तिष्ठन्तीति तथा। राजसाः रजोगुणनिमित्ते ज्ञाने कर्मणि वा निरताः॥१८॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
किं च गुणेभ्यो भवति— सत्त्वादिति। सत्त्वाल्लब्धात्मकात् सञ्जायते समुत्पद्यते ज्ञानम्। रजसो लोभ एव च। प्रमादमोहौ चोभौ तमसो भवतः, अज्ञानमेव च भवति॥१७॥
किञ्च— ऊर्ध्वमिति। ऊर्ध्वं गच्छन्ति देवलोकादिषूत्पद्यन्ते सत्त्वस्थाः सत्त्वगुणवृत्तस्थाः१। मध्ये तिष्ठन्ति मनुष्येषूत्पद्यन्ते राजसाः। जघन्यगुणवृत्तस्थाः जघन्यश्चासौ गुणश्च जघन्यगुणस्तमः, तस्य वृत्तं निद्रालस्यादि , तस्मिन् स्थिता जघन्यगुणवृत्तस्थाः मूढाः अधो गच्छन्ति पश्वादियोनिषूत्पद्यन्ते तामसाः॥१८॥
अ. १४. श्लो. १५-१८ ] १. ‘वृत्तिस्थाः’ इति पा.। एवमग्रेऽपि। २. लक्षणानि ज्ञापकानि। यथा कार्याकार्यविवेकः सत्त्वस्य ज्ञापकः। ३. भाष्ये ‘जघन्यगुणस्तामसः’ इति रा.पा. भाति।
[[७५४]]
ऊर्ध्वं गच्छन्ति मुच्यन्त इति रामानुजः, तदयुक्तम्— ‘नास्त्यकृतः कृतेने’ति श्रुत्या सात्त्विककर्मकरणादपि मुक्त्यसम्भवात्। मुक्तेर्ब्रह्मभावलक्षणाया ऊर्ध्वस्थत्वासम्भवाच्च। परिपूर्णं हि ब्रह्म॥१८॥
नेति। वर्तिष्यमाणसङ्गतये वृत्तं कीर्तयति— पुरुषस्येत्यादिना। पुरुषस्य गुणेषु यः सङ्गः, तत् संसारस्य कारणमिति समासेन पूर्वाध्याये यदुक्तं तदिह विस्तरेणोक्त्वा इति वृत्तानुकथनम्। कीदृशस्य पुरुषस्य? मिथ्याज्ञानेन युक्तस्य। किं तन्मिथ्याज्ञानम्? प्रकृति- सत्त्वरूपं प्रकृतिरस्तीत्येवंरूपं कालत्रयेऽप्यविद्यमानायां प्रकृतौ यदस्तित्वज्ञानं तन्मिथ्याज्ञानम्। यथा मरुमरीचिकास्वविद्यमाने जलेऽस्तित्वज्ञानम् , एवं प्रकृतावस्तित्वभ्रमो भवतीति भावः। कीदृशेषु गुणेषु? भोग्येषु सुखदुःखमोहात्मकेषु सत्त्वादिगुणत्रयकार्यत्वात् सुखदुःखमोहानां गुणत्वव्यवहार औपचारिकः। यद्वा द्रव्याश्रितत्वरूपं गुणत्वलक्षणमिह बोध्यम् , सुखादीनामन्तःकरणद्रव्याश्रितत्वाद् गुणत्वमिति। यद्वा सुखदुःखमोहात्मना परिणतत्वात् सत्त्वादिगुणा एव सुखदुःखमोहात्मका इतीहोच्यन्ते, घटरूपा मृदितिवत्। कीदृशः सङ्गः? सुख्यहं दुःख्यहं मूढोऽह- मित्येवंरूपः। अनात्मधर्माणां सुखदुःखमोहानामात्मन्यध्यासरूपोऽयं सङ्ग इति भावः। तदिति। स सङ्ग इत्यर्थः। सामान्ये नपुंसकम् , विधेयप्राधान्यादिति वा। कीदृशस्य संसारस्य? सदसद्योनिजन्मप्राप्तिलक्षणस्य। सद्योनयो देवादयः, असद्योनयः पश्वादयः, सदसद्योनयो मनुष्याः; तासु योनिषु जन्मप्राप्तिरेव लक्षणं स्वरूपं यस्य तस्य तथोक्तस्य। समासेन सङ्क्षेपेण। यदुक्तमिति। ‘कारणं गुणसङ्गोऽस्य सदसद्योनि- जन्मसु’ इति श्लोकेनेति भावः। तदिहेत्यत्रत्यतच्छब्दार्थमाह— एतत्सर्वं मिथ्याज्ञानमिति। किं तत्सर्वम्? अत आह— गुणस्वरूप- मित्यादि। गुणानां सत्त्वादीनां स्वरूपं प्रकाशकत्वरञ्जकत्वमोहकत्वात्मकम् , गुणानां वृत्तिं व्यापारं ज्ञानलोभप्रमादाद्यात्मकम् , गुणानां स्ववृत्तेन स्वीयव्यापारेण पुरुषस्य बन्धकत्वम् , गुणवृत्तिरेव निबन्धनं बन्धकं यस्य तस्य, गुणवृत्तिभिर्निबन्धनं बन्धो यस्य तस्येति वा, गुणेषु वृत्तिः प्रवृत्तिरेव स्थितिरेवेति वा, निबन्धनं बन्धो यस्य तस्येति वा। गुणवृत्तनिबद्धस्येति नागरपुस्तकपाठः। तदा तृतीया- तत्पुरुषः। पुरुषस्य या गतिर्मरणानन्तरं यत्प्राप्यमित्यर्थः। तामिति शेषः। पूर्वाध्याये यत् समासेनोक्तम् इहाध्याये तदेतत् सर्वं मिथ्याज्ञानं विस्तरेणोक्त्वेत्यन्वयः। कीदृशं मिथ्याज्ञानम्? अत आह— ५अज्ञानमूलबन्धकारणमिति। अज्ञानं मूलं यस्य सोऽज्ञानमूलः, स चासौ बन्धस्तस्य कारणम् अज्ञानात् प्रपञ्चस्य जातत्वेन, जाते प्रपञ्चे पुरुषस्य १प्रकृतिस्थत्वरूपेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुखदुःखमोहात्मकेषु ‘सुखी दुःखी मूढोऽह- मस्मी’त्येवंरूपो यः सङ्गः, तत् कारणं पुरुषस्य सदसद्योनिजन्मप्राप्तिलक्षणस्य संसारस्येति समासेन पूर्वाध्याये यदुक्तं तदिह ‘सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः’ इत्यत आरभ्य गुणस्वरूपं, २गुणवृत्तं स्ववृत्तेन च गुणानां बन्धकत्वं ३गुणवृत्तनिबद्धस्य च पुरुषस्य या गतिरित्येतत् सर्वं ४मिथ्याज्ञानम् अज्ञानमूलं च बन्धकारणं विस्तरेणोक्त्वा, अधुना सम्यग्दर्शनान्मोक्षो वक्तव्यः इत्याह भगवान्— नान्यमिति। नान्यं कार्यकरणविषयाकारपरिणतेभ्यो गुणेभ्यः कस्मिन् गुणे कथमित्यादिप्रश्नान् प्रत्याख्याय, गुणेभ्यो मोक्षणं कथमिति प्रत्याख्यानार्थं वृत्तानुवादपूर्वकं मिथ्याज्ञाननिवर्तकं सम्यग्ज्ञानं प्रस्तौति— पुरुषस्येत्यादिना। पुरुषस्य या गतिः सा चेति शेषः। मोक्षो गुणेभ्यो विश्लेषपूर्वको ब्रह्मभावः। सम्यग्ज्ञानोक्तिपरं श्लोकं व्याख्यातुं प्रतीकमादत्ते— नान्यमिति। सत्त्वादिकार्यविषयस्य गुणशब्दस्य विवक्षितमर्थमाह— कार्येति। विद्यानन्तर्यम्
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाऽनुपश्यति। गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति॥१९॥
१. ‘प्रकृतिसत्त्वरूपेण’ इति, २. ‘गुणवृत्तिम्’ इति, ३. ‘गुणवृत्तिनिबद्धस्य’ इति च रा.पा.भाति। ४. ‘मिथ्याज्ञानमूलं बन्धकारणं’ इति पा.। ५. अयं रा.पा.भाति।
[[७५५]]
कर्तारमन्यं यदा द्रष्टा विद्वान् सन् १नानुपश्यति। गुणा एव सर्वावस्थाः सर्वकर्मणां कर्तारः इत्येवं पश्यति। गुणेभ्यश्च परं गुणव्यापारसाक्षिभूतं वेत्ति, मद्भावं मम भावं २( वासुदेवत्वं ‘वासुदेवः सर्वम्’ इत्येवं पश्यन् सन् ) स द्रष्टाऽधि- गच्छति॥१९॥३ सुखाद्यात्मके पुरुषस्य ममाहमिति प्रत्ययस्य बन्धहेतुत्वेन च। अज्ञानं मिथ्याज्ञानं चेत्युभयं बन्धकारणमित्यर्थः। अज्ञानमूलं च तद् बन्धकारणं चेति वा समासः। मिथ्याज्ञानस्याज्ञानं कारणं, तच्च मिथ्याज्ञानं बन्धस्य कारणमित्यर्थः। तस्य च बन्धस्य मोक्षोपायो ज्ञानं वक्तव्यम् - बन्धं श्रुत्वा भीतानां श्रोतॄणां मा भैष्ट इत्यभयप्रदानार्थमित्यभिप्रयन्नाह— मोक्षो वक्तव्य इति। अत इति। मोक्षस्य ज्ञानस्य वा तदुभयस्य वा वक्तव्यत्वादित्यर्थः। यदा द्रष्टा गुणेभ्योऽन्यं कर्तारं नानुपश्यति, गुणेभ्यश्च परम् आत्मानं वेत्ति स तदा मद्भावमधिगच्छति। प्रकृतिस्तावद् गुणत्रयाकारेण परिणता। सा च त्रिगुणात्मिका प्रकृतिर्देहेन्द्रियविषयाकारेण परिणतेति कृत्वा ‘कार्यकरणविषयाकारेण परिणतेभ्यो गुणेभ्यः’ इत्युक्तम्। एतेन प्रकृतेर्गुणत्रयद्वारेणैव जगदात्मना परिणामो, न तु स्वत इति सिद्धम्। गुणा एवेति। कार्यकरणाद्यात्मना परिणताः सत्त्वादय एवेत्यर्थः। सर्वावस्थास्विति। जाग्रदादिष्वित्यर्थः। सुखित्वदुःखित्वाद्य- वस्थास्विति वा। सर्वकर्मणामिति। वाचिककायिकमानसिकानां विहितानां प्रतिषिद्धानां सामान्यानां वा सर्वेषां कर्मणाम्। पश्यति जानाति, अनुसन्धत्त इति यावत्। परम् अन्यं विलक्षणं वा। परत्वमेव दर्शयितुमाह— गुणव्यापारसाक्षिभूतमिति। गुणानां तद्व्यापाराणां च साक्षाद् द्रष्टारं, गुणानां ये व्यापारास्तेषां साक्षाद् द्रष्टारमिति वा। तच्च साक्षित्वं निर्धर्मके आत्मनि कल्पितमेवेति सूचयितुमाह— साक्षिभूतमिति। न तु वस्तुतः साक्षिणमित्यर्थः। आत्मानमिति शेषः। वेत्ति जानाति, साक्षात्करोतीति यावत्। परोक्षज्ञानात् संसा- रस्यानिवृत्तेरिति भावः। वासुदेवत्वं ब्रह्मभावम् , कैवल्यमिति यावत्। य एवं वेद तस्यैव वासुदेवः सर्वमिति सर्वात्मज्ञानम् , तदेव मोक्षकारणमित्याह— वासुदेव इति। सत्यात्मस्वरूपसाक्षात्कारे सर्वस्यात्मनि कल्पितत्वात् सर्वमात्मैवेति ज्ञानं जायते; ततश्च सर्वं ब्रह्मस्वरूपेणैव भाति; ब्रह्मातिरिक्तं किञ्चिदपि न भाति; ततः केवलात्मस्वरूपेण जीवद्दशायामेव तिष्ठति विद्वानिति भावः। एतेन विद्वान् मद्भावमधिगच्छतीति वर्तमानक्रियानिर्देशाज्जीवत एव कथं केवलात्मभावप्राप्तिरिति शङ्का परास्ता। सर्वस्य ज्ञानिदृष्ट्या मिथ्यात्वे- नात्मनः केवलत्वादिति। अत्र वासुदेवत्वमधिगच्छतीत्युक्ते कथं जीवत एव वासुदेवत्वप्राप्तिरिति शङ्कायां तदपनोदनायाह— वासुदेवः सर्वमिति पश्यन्निति। इति व्याख्येयम्। एतच्छ्लोकस्य जीवन्मुक्तिपरत्वं चोत्तरश्लोकभाष्ये स्फुटीभविष्यति। वर्तमानधात्वर्थनिर्देश एव भाष्यस्यापि लिङ्गमिति बोध्यम्। अन्यथा हि ‘मद्भावं सोऽधियास्यती’ति ब्रूयात्। अस्योत्तरश्लोकस्य च जीवन्मुक्तिपरत्वादेवार्जुनः ‘त्रीन् गुणानतिवर्तते’ इति जीवत एव गुणातिवर्तनं कथमिति प्रक्ष्यति। अतिवर्तत इति वर्तमानधात्वर्थनिर्देशात् तत्रापि। यत्तु रामानुजः— सत्त्वस्थानामूर्ध्वगमनप्रकार एवानेन श्लोकेनोच्यत इति, तत्तुच्छम् , सत्त्वस्थानां ज्ञान्यहं सुख्यहमिति सत्त्वकार्यज्ञानादेरात्मन्यध्यासात्। कथमन्यथा तेषां सत्त्वस्थत्वं स्यात्? ये तु नाहं सुखीत्यादिप्रकारेणानुसन्दधते, ते गुणातीता एव। अनुशब्दार्थः। अक्षरार्थमुक्त्वा पूर्वार्धस्यार्थिकमर्थमाह— गुणा एवेति। सर्वावस्थाः तत्तकार्यकरणाकारपरिणता इति यावत्। सर्वकर्मणां कायिकवाचिकमानसानां विहितप्रतिषिद्धानामित्यर्थः। परं व्यतिरिक्तम्। व्यतिरेकमेव स्फोरयति— गुणेति। निर्गुणब्रह्मात्मानमित्यर्थः। मद्भावं ब्रह्मात्मताम् असौ प्राप्नोति। ब्रह्मभावोऽस्याभिव्यज्यत इत्यर्थः॥१९॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ. १४. श्लो. १९ ] १. पुनः नकारोऽन्वयार्थः। २. कुण्डलितः पाठः क्वचिन्न। ३. अत्र गुणेभ्योऽन्यस्य कर्तृत्वाभावे ‘कर्तारमीशम्’ इति श्रुतिविरोधात् कर्तृपदं परिणामिकर्तृपरतया, ‘नान्यम्’ इत्यत्र ना (= पुरुषः) अन्यम् इति पदं छित्त्वा - यदा गुणेभ्योऽन्यं कर्तारं पश्यति, तदा द्रष्टा पुरुषः, अन्यथा पशुः— इति च व्याख्यातं माध्वैः। तदयुक्तम्। सोपाधिकत्वनिरुपाधिकत्वाभ्यामेकत्र कर्तृत्वाकर्तृत्वयोरविरोधात् कर्तृपदार्थसंकोचे कारणाभावात्। ना इति छेदे— यदा गुणेभ्योऽन्यं गुणेभ्यश्च परं कर्तारं पश्यति इत्येतावतोपपत्तौ, अनुपश्यति वेत्ति इति पदद्वयवैयर्थ्याच्च।
[[७५६]]
गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान्। जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते॥२०॥
उक्तं हि ‘निस्त्रैगुण्यो भवार्जुन’ इति। तस्माज्ज्ञानिविषयमेवेदम्। न च पूर्वं सात्त्विका एवेदानीं ज्ञानिनो जाता इति ज्ञानिविषयमपीदं सात्त्विकविषयमेवेति वाच्यम्। पूर्वं गृहिण एवेदानीं संन्यासिनो जाता इति संन्यासिविषया दण्डकमण्डलुशिखायज्ञोपवीतत्यागादयः किं गृहिविषया भवन्ति? तस्मात् सात्त्विकेभ्योऽन्य एवैते ज्ञानिन इति स्थितम्॥१९॥
गुणानिति। देही देहसमुद्भवानेतान् त्रीन् गुणानतीत्य जन्ममृत्युजरादुःखैर्विमुक्तः सन्नमृतमश्नुते। जीवन्नेवेति। अश्नुत इति वर्तमानधातुनिर्देशादधिगच्छत्यतिवर्तत इति पूर्वोत्तरग्रन्थसन्दर्भाच्च जीवन्नेवेत्युक्तम्। मायोपाधिभूतानिति। मायापरिणामत्वाद् गुणाः मायाया उपाधिभूताः, यथा मृदो घटाकार उपाधिः। यद्वा मिथ्याभूताः आत्मन उपाधयः इति वा। देहस्य समुद्भवो येभ्यस्तान् देहसमुद्भवान्। सत्त्वादिगुणपरिणामत्वाद् देहस्येति भावः। देहस्योत्पत्तिं प्रति बीजभूतान् कारणभूतान्। यद्यपि जन्मादयो दुःखहेतुत्वाद् दुःखानि, तथापि तदतिरिक्तरोगादिसङ्ग्रहाय दुःखग्रहणम्। यद्वा जन्ममृत्युजरा दुःखहेतवः। दुःखं तु तज्जन्यं रोगादिजन्यं च। एवं दुःखतत्कारणोभयसंग्रहार्थं जन्ममृत्युजरादुःखैरित्युक्तिः। अथवा येऽन्ये दुःखहेतवस्ते सर्वे जन्ममृत्युजराप्रयुक्ता एवेति दुःखतद्धेतुजन्मादित्रयरूपकार्यकारणविमुक्तिकथनाय जन्ममृत्युजरादुःखैरित्युक्तम्। ननु यदि जीवन्नेव मृत्युना विमुच्येत, तर्हि जीवन्मुक्तस्य विदेहकैवल्यं न स्यादेव। तथा जरया विमुच्येत चेज्जीवन्मुक्तः सदाऽपि तरुण एव भवेत् , न तु वृद्धः। द्वयमपीदमनुपपन्नम् , जीवन्मुक्तस्यापि वृद्धत्वमृतत्वयोर्दर्शनादिति चेत् , मैवम् ; ‘नाहं देहादिः, किन्तु ब्रह्मैवाहमस्मी’ति जानतो जीवन्मुक्तस्य देहाद्याश्रयजन्मादिभिः कथं सङ्गः स्यात्? न कथमपि। देहादितादात्म्याध्यासाद्धि जातोऽहं, जीर्णोऽहं, मरिष्येऽहमिति प्रत्येत्यविद्वान्। तस्मादविद्यया आत्मन्यध्यस्तैरनात्मधर्मैर्जन्मादिभिराध्यासिको य आत्मनः सम्बन्धस्तं विद्यया विद्वान् परिहरतीति जन्मादिभिर्विमुक्त इत्युच्यते विद्वान्। न हि विदुष्यात्मनि जन्मादयः सन्ति, येन जीवन्मुक्तस्यात्मनो जरामृत्यू पुनः स्याताम्। विद्वद्देहस्य च जरामृत्यू अवर्जनीये एवेति स्यादेव विदेहकैवल्यं जीवन्मुक्तस्य। अस्य च विदुषो जीवन्मुक्तत्वं विदेहमुक्तत्वं च न स्वदृष्ट्या, विद्वद्दृष्ट्या बन्धमोक्षादिद्वैताभावात्। ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता॥’ इति श्रवणात्। किन्त्वज्ञदृष्ट्यैव। अज्ञो हि विद्वच्छरीरे प्राणान् धरति सति विद्वान् जीवन्मुक्त इति, अप्राणे सति विदेहमुक्त इति च प्रत्येति। तस्मान्न कोऽपि दोषः। अमृतं ब्रह्म, अश्नुते प्राप्नोति। इयमेव ब्रह्मप्राप्तिर्मद्भावमधिगच्छतीति पूर्वश्लोकेनोक्तेत्याह—एवमिति। यत्तु रामानुजः— अमृतमात्मानमनुभवति, एष मद्भाव इत्यर्थ इति। तत्तुच्छम् , आत्मेश्वरयोर्भिन्नत्वेन कथमात्मप्राप्तेर्भगव- द्भावत्वम्? न च यथाऽहमीश्वर आत्मानमनुभवामि, तथा जीवोऽप्यात्मानमनुभवतीत्यर्थ इति वाच्यम् ; मद्भावशब्दादुक्तार्थालाभात्। कथमधिगच्छतीत्युच्यते— गुणानिति। गुणान् एतान् यथोक्तान् अतीत्य जीवन्नेवातिक्रम्य मायोपाधिभूतान् त्रीन् देही देहसमुद्भवान् देहोत्पत्तिबीजभूतान् , जन्ममृत्युजरादुःखैः, जन्म च मृत्युश्च जरा च दुःखानि च जन्ममृत्युजरादुःखानि, तैः जीवन्नेव विमुक्तः सन् विद्वान् अमृतमश्नुते। एवं मद्भावमधिगच्छतीत्यर्थः॥२०॥
अनर्थव्रातरूपमपोह्य विद्वान् ब्रह्मत्वं प्राप्नोतीत्येतत् प्रश्नद्वारा विवृणोति— कथमित्यादिना। यथोक्तानित्येतदेव व्याचष्टे— मायेति। मायैवोपाधिः, तद्भूतान् तदात्मनः सत्त्वादीननर्थरूपानित्यर्थः। एभ्यः समुद्भवन्तीति समुद्भवाः, देहस्य समुद्भवा देहसमुद्भवाः, तानिति व्युत्पत्तिं गृहीत्वा व्याचष्टे— देहोत्पत्तीति। यो विद्वान् अविद्यामयान् गुणाञ्जीवन्नेवातिक्रम्य स्थितस्तमेव विशिनष्टि— जन्मेति। पुरस्ताद् विस्तरेणोक्तस्य प्रसङ्गाद् , अत्र संक्षिप्तस्य सम्यग्ज्ञानस्य फलमुपसंहरति— एवमिति॥२०॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
[[७५७]]
न च ‘मम साधर्म्यमागताः’ इति पूर्वोक्तानुगुण्येनेहापि मद्भाव इत्यस्य मत्साधर्म्यमित्यर्थः इति वाच्यम् , मद्भावपदानुरोधेन मम साधर्म्यमित्यस्यापि मदभेद इत्येवार्थ इति वक्तुं शक्यत्वात्। नापि ‘परमं साम्यमुपैती’ति श्रुतिप्रामाण्याद् मद्भाव इत्यस्य मत्साम्यमित्यर्थ इति वाच्यम् ; ‘ब्रह्मविद् ब्रह्मैव भवती’त्यादिश्रुत्यन्तरानुरोधेन ‘परमं साम्यमुपैती’ति श्रुतेरपि ब्रह्माभेदप्राप्तिपरत्व- निश्चयात्। न च ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेन भवति। एवं मुनेर्विजानत आत्मा भवति गौतम॥’ इति श्रुतिरिह प्रमाणमिति वाच्यम् ; शुद्धस्योदकस्येव शुद्धस्यात्मनो न भेदः। यस्तूपाधिप्रयुक्तो भेदः, स उपाधिनाशान्नष्ट इति जीवस्य ब्रह्माभेद एव तच्छ्रुतितात्पर्यात्। कलशे गृहीतं गङ्गोदकं गङ्गायां पुनः कलशादवतारितं चेद् गङ्गाऽभेदमेवायाति। गङ्गातः कलशोदकस्य यो भेदकः कलशात्मक उपाधिस्तस्य त्यागात्। न तु गङ्गासाम्यं प्रयाति, साम्यस्य तत्रादर्शनात्। साम्यं हि वस्तुद्वयोपलब्ध्यधीनम्। प्रकृते तु जलरूपमेकमेव वस्तूपलभ्यत इति कथं साम्यावकाशः? एवमीश्वरचैतन्याज्जीवचैतन्यस्य यो भेदक उपाधिरन्तःकरणात्मकस्तस्य विद्यया नाशे सति जीवचैतन्यमीश्वरचैतन्याभेदमेव प्रपद्यते, न तु साम्यं भेदकाभावेन भेदाभावात्। न ह्यन्तःकरणनाशानन्तरं चैतन्यद्वयोपलम्भः, येन साम्यस्यावकाशः स्यात्। तस्मादुपाधिसद्भावदशायामेव जीवेश्वरयोः साम्यं ज्ञातृत्वादिरूपं, न तूपाधिराहित्य इति न प्रकृतश्रुतेः जीवेश्वरसाम्यप्रतिपादकत्वं, किन्तु तदभेदप्रतिपादकत्वमेव। न हि घटे नष्टे सति घटाकाशमहाकाशयोः साम्यं भवितुमर्हति, किन्त्वभेद एव। न च तादृगेवेति तादृक्छब्दस्वारस्यात् साम्यपरत्वं श्रुतेरिति वाच्यम् ; तादृक्छब्दस्यापि तदभेद एव तात्पर्यात्। न हि न्यायविरुद्धमर्थं श्रुतिरप्यभिप्रेयात्। नापि ‘परेण परधर्मा च भवत्येव समेत्य वै’ इति वसिष्ठसंहितानुसारात् साम्यस्वीकार इति वाच्यम् ; किमुपाधिं परित्यज्य परेण समेति जीवः, उतापरित्यज्य? यदि परित्यज्य समेति, तर्हि परधर्मा भवतीत्यस्य पराभेदं प्राप्नोतीत्येवार्थः। द्वितीये तु— परसदृशधर्म इत्येवार्थः। अस्मिन् पक्षे तु समेत्येत्यस्यानुपपत्तिः। सति भेदकोपाधौ तत्सङ्गत्ययोगात्। न च घटपटयोरिव सङ्गतिरिह वाच्या, निरवयवासङ्गचैतन्यस्य तादृशसङ्गायोगात्। यदि तु शङ्खचक्रादिमानीश्वरोऽत्र परशब्देन विवक्षितस्तर्हि समेत्येत्यस्य सान्निध्यं प्राप्येत्यर्थः। सगुणमुक्तश्चायं जीवः करणकलेबरादिमानेवेति स्वयमपि शङ्खचक्रादिमत्त्वरूपमीश्वरसाधर्म्यं प्राप्नुयादेव। तस्मान्नेयं स्मृतिर्जीवेश्वराभेदं श्रुतिशतसिद्धं निरोद्धुमीष्ट इति। किञ्च ‘यो वै भूमा तदमृत’मिति श्रुतेरमृतशब्दस्य भूमब्रह्मवाचित्वे सति तमर्थं विहाय जीवब्रह्मभेदं कल्पयित्वा जीवरूपमर्थं वर्णयतस्तव साहसिक्यं प्रति को नाम बुधो न विस्मयेतेति॥२०॥
जीवन्नेव गुणानतीत्यामृतमश्नुत इति प्रश्नबीजं प्रतिलभ्य, अर्जुन उवाच— कैरिति। कैः लिङ्गैः चिह्नैः त्रीन् एतान् व्याख्यातान् गुणान् अतीतः अतिक्रान्तो भवति, प्रभो ! किमाचारः कोऽस्याचार इति किमाचारः। कथं केन च प्रकारेण एतान् त्रीन् गुणान् अतिवर्तते अतीत्य वर्तते॥२१॥
सम्यग्धीफलं गुणातिक्रमपूर्वकममृतत्वमुक्तं श्रुत्वा, मुक्तस्य लक्षणं वक्तव्यमिति प्रकृतं विवक्षित्वा प्रश्नमुत्थापयति— जीवन्नेवेति। ये व्याख्याताः सत्त्वादयो गुणास्तत्परिणामभूतानध्यासानतिक्रान्तः सन् कैर्लिङ्गैर्ज्ञातो भवतीति तानि वक्तव्यानि सिद्ध्यर्थं पूर्वमनुष्ठेयानि पश्चादयत्नलभ्यानि लिङ्गानि, कानि तानीति पृच्छति— कैरिति। यथेष्टचेष्टाव्यावृत्त्यर्थं प्रश्नान्तरम्— किमाचार इति। ज्ञानस्य गुणात्ययोपायस्योक्तत्वाद् उपायप्रकारजिज्ञासया प्रश्नान्तरम्— कथमिति॥२१॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अर्जुन उवाच— कैर्लिङ्गैस्त्रीन् गुणानेतानतीतो भवति प्रभो !। किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते॥२१॥
[[अ. १४. श्लो. १९-२१]] [[७५८]]
श्रीभगवानुवाच— प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव !। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति॥२२॥
कैरिति। प्रश्नबीजमिति। जीवन्मुक्तेः प्रोक्तत्वाज्जीवन्मुक्तस्य लक्षणादिजिज्ञासा जाताऽर्जुनस्येति भावः। एतान् त्रीन् गुणानतीतो विद्वान् कैर्लिङ्गैरुपलक्षितो भवति? किमाचारश्च भवति? विद्वानेतान् त्रीन् गुणान् कथं चातिवर्तते? गुणातीतस्य कानि लक्षणानीति प्रथमः प्रश्नः। क आचार इति द्वितीयः। गुणातिक्रमणे किं साधनमिति तृतीयः। तत्राचारप्रश्नस्यापि लक्षणे पर्यवसानं बोध्यम्। आचारविशेषस्यापि जीवन्मुक्तचिह्नत्वात्। ततश्च प्रश्नद्वयमेवेह पर्यवसन्नम्। अत एव गुणातीतस्य लक्षणं गुणातीतत्वोपायं चार्जुनेन पृष्टः इति वक्ष्यति भाष्यकारो भगवान्॥२१॥
प्रकाशमिति। प्रश्नद्वयार्थमिति। प्रश्नद्वयस्येत्यर्थः। तावदादौ कैर्लिङ्गैर्युक्तो गुणातीतो भवतीति यत्पृष्टं तच्छृणु तस्योत्तरं शृणु इत्यर्थः। सम्प्रवृत्तानि प्रकाशं च प्रवृत्तिं च मोहमेव चेत्येतानि न द्वेष्टि जीवन्मुक्त इति शेषः। गुणातीत इति वा। निवृत्तानि च तानि न काङ्क्षति। प्रकाशो ज्ञानम् , प्रवृत्तिः कर्मसु प्रवर्तनम् , मोहोऽविवेकः। न द्वेष्टि तेष्वप्रीतिं न करोतीत्यर्थः। ‘द्विष अप्रीतौ’ इति धातु- पाठात्। सम्यक्प्रवृत्तानि सम्प्रवृत्तानि। सम्यक्छब्दार्थमाह— विषयभावेनेति। विषयत्वेन, गोचरत्वेनेति यावत्। प्रवृत्तशब्दार्थ-माह— उद्भूतानीति। विषयभूतानीति यावत्। घटनिरूपणाद्धि घटाभावो ज्ञातुं शक्यते। एवं द्वेषाभावप्रदर्शनाय गुणकार्येषु द्वेषप्रकारं तावद् दर्शयति—ममेत्यादिना। मम तामसस्तमोगुणजन्यः प्रत्ययोऽविवेको जातो हिंसादिबुद्धिर्जातेति वा। तेन प्रत्ययेन, प्रत्यय-जन्मनेति वा। अहं मूढ आसम् , भवामीति वा। राजसी दुःखात्मिका कर्मसु प्रवृत्तिर्ममोत्पन्ना, तेन रजसा प्रवर्तितोऽहं स्वरूपात् प्रच्यावितः। हा! कष्टं मम वर्तते। किं तत् कष्टम्? अत आह—योऽयमिति। योऽयं स्वरूपावस्थानाद् भ्रंशः स्वरूपस्थितेः प्रच्युतिः तदिदं महत् कष्टमित्यर्थः। नन्वेवं तमोरजसोर्द्वेष उचित एव, कष्टहेतुत्वात् , कुतः पुनः सत्त्वे द्वेषः? अत आह—तथेति। प्रकाशात्मा सात्त्विको गुणः मां विवेकित्वमापादयन् मम शब्दस्पर्शादिविषयज्ञानं जनयन् सन् मां सुखेन चासञ्जयन् सन् मां बध्नाति। एवं बन्धहेतुत्वात् सत्त्वेऽपि द्वेष उचित एवेति भावः। इत्येवं गुणांस्तत्कार्याणि च न द्वेष्टि। कुतो न द्वेष्टीत्यत आह—सम्यग्दर्शित्वेनेति। अहं ब्रह्मास्मि, सर्वं ब्रह्मेत्येवंरूपेण ज्ञानेन सत्त्वादिभ्रमनाशादिति भावः। तत् तस्मात् सम्यग्दर्शित्वादित्यर्थः। एवमुक्तरीत्या गुणातीतः सम्प्रवृत्तानि प्रश्नस्वरूपमनूद्य तदुत्तरं दर्शयति— गुणातीतस्येति। पृष्टो भगवानिति सम्बन्धः१। किंवृत्तस्य त्रिधा प्रयोगदर्शनात् प्रश्नद्वयार्थम् इत्युपलक्षणम्। प्रश्नत्रयार्थमिति द्रष्टव्यम्। उत्तरमवतार्यानन्तरश्लोकतात्पर्यमाह— यत्तावदिति। तानि सम्यग्दर्शी न द्वेष्टीत्युक्तमेव स्पष्टयितुं निषेध्यमसम्यग्दर्शिनो द्वेषं तेषु प्रकटयति— ममेत्यादिना। सम्यग्दर्शिनः सम्प्रवृत्तेषु प्रकाशादिषु द्वेषाभावमुपसंहरति—
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
गुणातीतस्य लक्षणं गुणातीतत्वोपायं चार्जुनेन पृष्टोऽस्मिञ्श्लोके प्रश्नद्वयार्थं प्रतिवचनं भगवानुवाच। यत्तावत् कैर्लिङ्गैर्युक्तो गुणातीतो भवतीति, तच्छृणु— प्रकाशमिति। प्रकाशं च सत्त्वकार्यं, प्रवृत्तिं च रजःकार्यं, मोहमेव च तमःकार्यम् इत्येतानि न द्वेष्टि सम्प्रवृत्तानि सम्यग्विषयभावेनोद्भूतानि — ‘मम तामसः प्रत्ययो जातः, तेनाहं मूढः’, तथा ‘राजसी प्रवृत्तिर्ममोत्पन्ना दुःखात्मिका, तेनाहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् , कष्टं मम वर्तते योऽयं मत्स्वरूपावस्थानाद् भ्रंशः’, तथा ‘सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वमापादयन् सुखे च सञ्जयन् बध्नाति’ इति १. ‘कैर्लिङ्गैः’ इत्यस्मिञ्श्लोके गुणातीतस्य लक्षणं, तदीयाचारं, गुणातीतत्वोपायं च अर्जुनेन पृष्टो भगवान् प्रश्नत्रयार्थं पञ्चभिः श्लोकैरुवाचेति संबन्धः इत्याशयः।
[[७५९]]
प्रारब्धवशात् प्राप्तानि पूर्वोक्तानि प्रकाशादीनि न द्वेष्टि, निवृत्तानि च तानि न काङ्क्षति। क इव न काङ्क्षतीत्यतो व्यतिरेकदृष्टान्तमाह— यथा चेति। सात्त्विकादिरित्यादिपदाद् राजसतामसग्रहणम्। आत्मानं प्रति सात्त्विकादिपुरुषं प्रतीत्यर्थः। प्रकाश्य स्वस्वरूपं प्रकटयित्वा२ निवृत्तानि सत्त्वादिकार्याणि सात्त्विकादिः पुरुषो यथा च काङ्क्षतीत्यन्वयः। एतदिति। प्रवृत्तेषु सत्त्वादिकार्येष्वद्वेषणम् , निवृत्तानां तेषामकाङ्क्षणं चेत्यर्थः। परस्य जीवन्मुक्तादन्यस्य लोकस्य प्रत्यक्षं लिङ्गं चिह्नम् , जीवन्मुक्तस्येति शेषः; न भवति। परहृदयस्याप्रत्यक्षत्वाज्जीवन्मुक्तगतमिदं लिङ्गं परो न जानीयादिति नेदं जीवन्मुक्तलिङ्गं परप्रत्यक्षमित्यत्यर्थः। स्वात्मनः स्वस्य स्वहृदयस्येति वा प्रत्यक्षं स्वात्मप्रत्यक्षं, तत्त्वात्। स्वैकवेद्यत्वादित्यर्थः। आत्मार्थमेवेति। स्वार्थमेव। अहं जीवन्मुक्तो वा न वेति स्वात्मानं जीवन्मुक्तत्वेन निश्चेतुमिदं लिङ्गमुक्तमित्यर्थः। अहं जीवन्मुक्तः, प्रवृत्ताद्वेषित्वात् , निवृत्तानाकाङ्क्षित्वादिति वेत्तुमित्यर्थ इति यावत्। कुतो नेदं परार्थम्? अत आह— न हीति। स्वात्मविषयं स्वहृदयगोचरं द्वेषं काङ्क्षां वा परो न हि पश्यति। अस्य हृदयेऽमीषु प्राप्तेषु विषयेषु द्वेषोऽस्ति, अमीषु निवृत्तेषु विषयेषु काङ्क्षाऽस्तीति परहृदयं प्रविश्य को जानीयात्? न कोऽपीत्यर्थः। परहृदयस्याप्रत्यक्षत्वादिति भावः। यत्तु रामानुजः— सम्प्रवृत्तान्यनिष्टानि न द्वेष्टि, निवृत्तानीष्टानि न काङ्क्षतीति, तदयुक्तम्— इष्टानिष्टपदाभावान्मूले। यानि प्रकाशादिकार्याणीष्टत्वेनाभिमतान्यज्ञानां तेषु प्राज्ञस्येष्टप्रत्ययाभावात्। बन्धहेतुत्वात् तान्यप्यनिष्टान्येव हि प्राज्ञस्य। न हि कस्यापि मोह इष्टः स्यात्। येन निवृत्तमिष्टं मोहमज्ञोऽपि काङ्क्षेत्। न ह्यप्रसक्तस्य निषेध उचित इति॥२२॥
उदासीनेति। जीवन्मुक्तलक्षणप्रश्नान्तर्गतमेवाचारप्रश्नमुत्तरयतीत्याह— अथेति। उदासीनवदिति। ननु जीवन्मुक्तस्यौदासीन्यं विधेयं चेच्छ्रीकृष्णव्यासशुकशङ्करादीनां जीवन्मुक्तानामुदासीनत्वे सति वेदान्तशास्त्रस्यैव समूलोच्छेदप्रसङ्गः। अत एव हि ‘स्वयं तीर्णः परांस्तारये’दिति शास्त्रं जीवन्मुक्तस्य स्वयंतीर्णस्य परेषां तारणं विधत्ते। न च शिष्योपदेशादिव्यतिरिक्तविषयमौदासीन्यमिति वाच्यम् ; बौद्धादिभिः सह शङ्कराचार्यादीनां विवादायोगात्। न च शिष्योपदेशादीत्यादिपदादद्वैतमतस्थापनं ग्राह्यम् , ततश्च तत्स्थापनार्थं बौद्धादिविवादो युक्त एवेति वाच्यम् ; तथा दुष्टशिक्षणार्थं कृष्णस्य युद्धव्यापारोऽपि युक्त एव। एवं क्रमक्रमेण सर्वे व्यापारा अपि तानि द्वेष्टि असम्यग्दर्शित्वेन। तदेवं गुणातीतो न द्वेष्टि सम्प्रवृत्तानि। यथा च सात्त्विकादिपुरुषः सात्त्विकादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, न तथा गुणातीतो निवृत्तानि काङ्क्षतीत्यर्थः। एतन्न परप्रत्यक्षं लिङ्गम् , किं तर्हि? स्वात्मप्रत्यक्षत्वाद् १आत्मार्थमेवैतल्लक्षणम्। न हि स्वात्मविषयं द्वेषम् आकाङ्क्षां वा परः पश्यति॥२२॥
अथेदानीं ‘गुणातीतः किमाचारः’ इति प्रश्नस्य प्रतिवचनमाह— उदासीनेति। उदासीनवद् यथोदासीनो न कस्यचित् पक्षं भजते तथाऽयं गुणातीतत्वोपायमार्गेऽवस्थितः आसीनः आत्मविद् गुणैः यः संन्यासी न विचाल्यते तदेवमिति। ‘न निवृत्तानी’त्यादि व्याचष्टे— यथा चेति। तेषामनात्मीयत्वं सम्यक्पश्यन् आत्मानुकूलप्रतिकूलतारोपणेन नोद्विजते, तेभ्यश्च न स्पृहयतीत्यर्थः। स्वानुभवसिद्धं गुणातीतस्य लक्षणमुक्तमित्याह— एतन्नेति। परप्रत्यक्षत्वाभावं प्रपञ्चयति— न हीति। आश्रयो विषयः॥२२॥
‘कैर्लिङ्गै’रित्यादि परिहृत्य द्वितीयं प्रश्नं परिहरति—अथेति। दृष्टान्तं व्याचष्टे—यथेति। उपेक्षकस्य पक्षपाते तत्त्वायोगादित्यर्थः। १. ‘आत्मविषयमेवैतल्लक्षणम्’ इति पा.। २. ‘प्रकटय्य’ इति पठितुं युक्तम्। ३. ‘उदासीनवदासीनं नाम’ इति पूर्वमुद्रितः पाठः।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
उदासीनवदासीनो गुणैर्यो न विचाल्यते। गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते॥२३॥
[[अ. १४. श्लो. २२-२३]] [[७६०]]
जीवन्मुक्तस्य प्राप्नुवन्त्येवेति कथमौदासीन्यमिति चेत् , सत्यम् , अत एव उदासीनवदित्युक्तम्। तेन च ३उदासीनवदासनं नाम न कर्मस्वप्रवृत्तिः, किन्तु कुर्वन्नपि न लिप्यत इत्युक्तलक्षणं गुणकर्मसु कर्तृत्वाभिमानादिराहित्यरूपमेव। तथाहि चित्रदीपिकायां विद्यारण्यगुरुभिरुक्तम् — ‘यदा सर्वे प्रभिद्यन्ते हृदयग्रन्थयस्त्विति। कामा ग्रन्थिस्वरूपेण व्याख्याता वाक्यशेषतः॥ अहङ्कारचिदात्मानावेकीकृत्या- विवेकतः। इदं मे स्यादिदं मे स्यादितीच्छाः कामशब्दिताः॥ अप्रवेश्य चिदात्मानं पृथक् पश्यन्नहङ्कृतिम्। इच्छंस्तु कोटिवस्तूनि न चाथो ग्रन्थिभेदतः॥ ग्रन्थिभेदेऽपि सम्भाव्या इच्छाः प्रारब्धदोषतः। बुद्ध्वाऽपि पापबाहुल्यादसन्तोषो यथा तव॥ अहङ्कारगतेच्छाद्यै- र्देहव्याध्यादिभिस्तथा। वृक्षादिजन्मनाशैर्वा चिद्रूपात्मनि किं भवेत्॥ ग्रन्थिभेदात्पुराऽप्येवमिति चेत् तन्न विस्मर। अयमेव ग्रन्थिभेदस्तव तेन कृती भवान्॥ नैवं जानन्ति मूढाश्चेत् सोऽयं ग्रन्थिर्न चापरः। ग्रन्थितद्भेदमात्रेण वैषम्यं मूढबुद्धयोः॥ प्रवृत्तौ वा निवृत्तौ वा देहेन्द्रियमनोधियाम्। न किञ्चिदपि वैषम्यमस्त्यज्ञानिविबुद्धयोः॥ व्रात्यश्रोत्रिययोर्वेदपाठापाठकृता भिदा। नाहारादावस्ति भेदः सोऽयं न्यायोऽत्र योज्यताम्॥ न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति। उदासीनवदासीन इति ग्रन्थिभिदोच्यते।। औदासीन्यं विधेयं चेद् वच्छब्दो व्यर्थतामियात्। न शक्ता अस्य देहाद्या इति चेद् रोग एव सः॥ तत्त्वबोधं क्षयव्याधिं मन्यन्ते ये महाधियः। तेषां प्रज्ञाऽतिविशदा किं तेषां दुःशकं वद॥ भरतादेरप्रवृत्तिः पुराणोक्तेति चेत् तदा। जक्षन् क्रीडन् रतिं विन्दन्नित्यश्रौषीर्न किं श्रुतिम्॥ न ह्याहारादि सन्त्यज्य भरताद्याः स्थिताः क्वचित्। काष्ठपाषाणवत् किन्तु सङ्गभीता उदासते॥’ इति। उदासीन इवोदासीनवत्। ‘तेन तुल्यं क्रिया चेद्’ इति वतिरौपम्ये पर्यवस्यति। उदासीनतत्त्वविदोः साम्यमेव दर्शयति— यथेति। कस्यचिदिति। विवदमानयोर्मध्ये कस्यापीत्यर्थः। तथा गुणातीतत्वोपायमार्गे स्थितोऽयमात्मविदपि न कस्यचित् पक्षं भजत इत्यर्थः। आसीन इत्यस्यैव व्याख्यानम्— स्थित इति। क्व स्थित इति शङ्कायां गुणातीतत्वोपायमार्ग इत्युक्तम्। कोऽसावासीनोऽत आह— आत्मविदिति। यथोदासीनः पक्षद्वयस्थेषु मिथःकलहायमानेषु स्वयमविकृतो वर्तते, तथा कार्यकरणेषु स्वस्वव्यापारान् कुर्वत्सु सत्सु जीवन्मुक्तः स्वयमविकृतो वर्तत इति भावः। न विचाल्यते न भ्रश्यते। कस्मादपादानादत आह— विवेकदर्शनावस्थाया इति। विवेक आत्मानात्मविवेकः। ‘गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते’ इति पूर्वोक्तमनुसृत्याह— अन्योऽन्यस्मिन्निति। अवतिष्ठतीति। विवेकदर्शनावस्थायामेव तिष्ठतीत्यर्थः। न तु कर्मस्वहं वर्त इति मन्यत इत्यर्थः। ननु ‘समवप्रविभ्यः स्थः’ इति शास्त्रादवतिष्ठत इत्यात्मनेपदेन भाव्यमत आह— छन्दोभङ्गभयादिति। योऽवतिष्ठते नेङ्गत इति पाठे छन्दोभङ्गदोषः स्यादिति भावः। नितिष्ठतीति। नितरां तिष्ठति। निष्ठितो भवतीत्यर्थः। आत्मदर्शन एव निष्ठां प्राप्नोतीति यावत्। स्वरूप एवावतिष्ठत इति स्वरूपावस्थः। स्वस्वरूपदर्शन एव स्थित इति यावत्। य उदासीनवदासीनोऽत एव गुणैर्न विचाल्यते, यो आत्मविद् आत्मकौटस्र्ह्यज्ञानेनासीनो निवृत्तकर्तृत्वाभिमानोऽप्रयतमानो भवतीति दार्ष्टान्तिकमाह— तथेति। गुणातीतत्वोपायमार्गो ज्ञानमेव। शब्दादिभिर्विषयैरस्य कूटस्थत्वज्ञानात् प्रच्यवनमाशङ्क्याह— गुणैरिति। उपनतानां विषयाणां रागद्वेषद्वारा प्रवर्तकत्वमित्येतत् प्रपञ्चयति— तदेतदिति। योऽवतिष्ठति स गुणातीत इत्युत्तरत्र सम्बन्धः। अवपूर्वस्य तिष्ठतेरात्मनेपदे प्रयोक्तव्ये कथं परस्मैपदमित्या- शङ्क्याह— छन्दोभङ्गेति। पाठान्तरे तु बाधितानुवृत्तिमात्रमनुष्ठानम्। करणाकारपरिणतानां गुणानां विषयाकारपरिणतेषु तेषु प्रवृत्तिर्न ममेति पश्यन् अचलतया कूटस्थदृष्टिमात्मनो न जहातीत्याह— नेङ्गत इति॥२३॥
१. ‘विवेकदर्शनावस्थायाः’ इति पा.। २. ‘यो नितिष्ठतीति’ इति रा.पा.। ‘नु तिष्ठति’ इत्यपि संभाव्यते। ३. ‘अनुवर्त्यः’ इति , ‘इमं यच्छब्दं’ इति वा पाठः स्यात्।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
विवेकदर्शनावस्थातः१। तदेतत् स्फुटीकरोति— गुणाः कार्यकरणविषयाकारपरिणताः अन्योन्यस्मिन् वर्तन्त इति योऽवतिष्ठति। छन्दोभङ्गभयात् परस्मैपदप्रयोगः। २योऽनुतिष्ठतीति वा पाठान्तरम्। नेङ्गते न चलति। स्वरूपावस्थ एव भवतीत्यर्थः॥२३॥
[[७६१]]
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥२४॥
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः। किञ्च— समदुःखेति। समदुःखसुखः समे दुःखसुखे यस्य स समदुःखसुखः। स्वस्थः स्वे आत्मनि स्थितः प्रसन्नः। समलोष्टाश्मकाञ्चनो लोष्टं चाश्मा च काञ्चनं च समानि यस्य स समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियः प्रियं चाप्रियं च प्रियाप्रिये तुल्ये समे यस्य सोऽयं तुल्यप्रियाप्रियः। धीरो धीमान्। तुल्यनिन्दात्मसंस्तुतिः निन्दा चात्मसंस्तुतिश्च निन्दात्मसंस्तुती, तुल्ये निन्दात्मसंस्तुती यस्य यतेः स तुल्यनिन्दात्मसंस्तुतिः॥२४॥
किञ्च—मानापमानयोरिति। १मानापमानयोः तुल्यः समो निर्विकारः। तुल्यो मित्रारिपक्षयोः। यद्यपि उदासीनाः भवन्ति केचित् स्वाभिप्रायेण, तथापि पराभिप्रायेण मित्रारिपक्षयोरिव भवन्तीति तुल्यो मित्रारिपक्षयो- गुणा वर्तन्त इत्येवावतिष्ठति नेङ्गते। अत्र यच्छब्दस्य गुणातीतः स उच्यत इति तच्छब्देनान्वयः। अयं यच्छब्दः पूर्वश्लोकेऽप्यनुवर्त्य३ यः प्रकाशादीनि सम्प्रवृत्तानि न द्वेष्टि, निवृत्तानि च न काङ्क्षति, स गुणातीत उच्यत इत्युत्तरेणान्वय इति व्याख्यानं साधीय इव भाति॥२३॥
समेति। यः इति शेषः। समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः तुल्यप्रियाप्रियः धीरः तुल्यनिन्दात्मसंस्तुतिः मानाव- मानयोस्तुल्यो मित्रारिपक्षयोस्तुल्यः सर्वारम्भपरित्यागी च भवति स गुणातीतः इत्युच्यत इति श्लोकद्वयान्वयः। दुःखसुखयोः साम्यं नाम यथा सुखमन्तःकरणधर्मस्तथा दुःखमपीत्यनुसन्धानेन स्वस्य निर्विकारत्वम्। स्वस्थः आत्मानुसन्धानतत्परः। अर्थान्तरमाह— प्रसन्न इति। क्षोभरहित इत्यर्थः। समानि लोष्टमश्मा काञ्चनं चेत्येतानि यस्य स तथोक्तः। लोष्टादौ न त्याज्यताबुद्धिः, काञ्चने नोपादेयताबुद्धिश्चास्येति भावः। प्रियमिष्टं स्रक् चन्दनादिकमप्रियमनिष्टं दुर्गन्धादिकं तदुभयमपि पूर्वोक्तरीत्या तुल्यमस्य। प्रियमिति स्रक् चन्दनादिकं न गृह्णाति, अप्रियमिति दुर्गन्धादिकं न परित्यजतीति भावः। धीमान् पण्डितः। निन्दा आत्मदूषणम् , आत्मसंस्तुतिः स्वभूषणम्। तयोस्तुल्यत्वं च निन्दास्तुती देहादिगोचर एव, न त्वात्मगोचर इत्यनुसन्धानान्निन्दायां द्वेषबुद्धेः, स्तुतौ प्रीतेश्चाकरणम् ॥२४॥
मानेति। मानः पूजा, अवमानः तिरस्कारः, तयोस्तुल्यः समः। साम्यमेवाह— निर्विकार इति। मानप्रयुक्तश्चित्तस्य हर्षः, अवमानप्रयुक्तः खेदश्च नास्त्यस्येत्यर्थः। ननूदासीनस्य कथं मित्रारिपक्षसद्भावः? पक्षद्वयप्रवेशराहित्यं ह्यौदासीन्यमत आह— २यद्यपीति। परेष्वन्येषु जनेषु विषये मित्रारिभावः— ममायं मित्रम् , अयमरिरिति प्रत्ययोऽस्य तत्त्वविदो यद्यपि नास्ति, तथापि परेषां प्रतिभासः प्रतीतिः सम्भवतीत्यन्वयः। प्रतिभासमेव दर्शयति—वयमिति। अस्य तत्त्वविदो वयं मित्राणि, अस्य वयमरातयः शत्रव गुणातीतस्य लिङ्गान्तरमाह— किञ्चेति। तयोः समत्वं रागद्वेषानुत्पादकतया स्वकीयत्वाभिमानानास्पदत्वम् , प्रसन्नत्वं स्वास्र्ह्यादप्रच्युतिरविक्रियत्वम्। विद्वद् दृष्ट्या प्रियाप्रिययोरसम्भवेऽपि लोकदृष्टिमाश्रित्याह— प्रियं चेति। प्रियाप्रियग्रहणेन गृहीतानां काञ्चनादीनां ब्रह्मणपरिव्राजकवत् पृथग्ग्रहणम्। निन्दा दोषोक्तिः, आत्मसंस्तुतिः आत्मनो गुणकीर्तनम्॥२४॥
इतश्च गुणातीतः शक्यो ज्ञातुमित्याह— किञ्चेति। मानः सत्कारः, तिरस्कारोऽपमानः। परदृष्ट्या यौ सखिशत्रू तयोः पक्षयोर्निर्विशेषो न कस्यचित् पक्षे तिष्ठतीत्याह— तुल्य इति। विदुषो मित्रादिबुद्ध्यभावात् तुल्यो मित्रारिपक्षयोरित्ययुक्तमित्याशङ्क्याह— १. ‘मानावमानयोः’ इति मूले भाष्ये च रा.पा.। २. अत्र भाष्ये रामकविदृष्टः पाठः इत्थं संभाव्यते— ‘यद्यपि परेषु मित्रारिभावोऽस्य नास्ति, तथापि परेषां वयमस्य मित्राणि, वयमस्यारातयः इति प्रतिभासः सम्भवति, तदभिप्रायेण मित्रारि’ इति।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
[[अ. १४. श्लो. २३-२५]] [[७६२]]
इति। तदभिप्रायेणेति। अन्यजनदृष्ट्येत्यर्थः। आरभ्यन्ते क्रियन्त इत्यारम्भाः दृष्टादृष्टार्थानि कर्माणि। ननु भोजनादिकर्मपरित्यागे शरीरमेव पतेद् , अत आह— देहेति। देहधारणमात्रं निमित्तं प्रयोजनं येषां तेषां कर्मणाम् , तेभ्यः कर्मभ्यः इति वा। व्यतिरेकेण तान्यविहायेत्यर्थः। देहधारणमात्रनिमित्तकर्मेतरसर्वकर्मपरित्यागीति यावत्। ननु यदुक्तमुदासीनत्वादिधर्मजातं तत् किं गुणातीतत्वसाधनम्? यद्वा गुणातीतस्य लक्षणम्? इति शङ्कायामाह— उदासीनवदित्यादि। उदासीनवदिति श्लोकमारभ्येत्यर्थः। गुणातीतः स उच्यते इत्येतदन्तमुक्तं धर्मजातं यावत्पर्यन्तं यत्नसाध्यं भवति तावत्पर्यन्तं संन्यासिनानुष्ठेयं सन्मुमुक्षोर्गुणातीतत्वसाधनं भवति। तदेव धर्मजातं स्थिरीभूतं स्वसंवेद्यं स्वानुभवैकसिद्धं सद् गुणातीतस्य यतेर्लक्षणं भवतीत्यन्वयः। भगवतोक्तमौदासीन्यादिधर्मजातं साध्यावस्थापन्नं सन्मुमुक्षोः संन्यासिनो गुणातीतत्वसाधनं भवति। सिद्धावस्थासम्पन्नं सत्तु गुणातीतस्य लक्षणं भवतीति कृत्वा एकस्मिन्नेव धर्मजातेऽवस्थाभेदेन साधनत्वलक्षणत्वसम्भव इत्यर्थः। दर्शितधर्मजातः३ स्वस्मिन् स्थिरीभूतो वा न वेति वेदनं कथमिति शङ्कायामाह— स्वसंवेद्यमिति। स्वानुभवेनैव तद्वेदनमित्यर्थः। यस्यौदासीन्यादिकं दर्शितं धर्मजातं स्थिरीभूतं स गुणातीत इत्युच्यत इति परमार्थः॥२५॥
मामिति। विशिष्टतरः उत्कृष्टतरः। पूर्वस्मात्पूर्वोक्तादुदासीनत्वादिधर्मजातादित्यर्थः। योऽव्यभिचारेण भक्तियोगेन मां च सेवते स एतान् गुणानतीत्य ब्रह्मभूयाय कल्पत इत्यन्वयः। चकारोऽवधारणार्थः। मां च मामेवेति। कस्त्वम्? अत आह— ईश्वरं नारायणमिति। कुतो नारायणस्त्वम्? अत आह— सर्वभूतहृदयाश्रयमिति। नराणां भूतानां समूहो नारं, तदयनं स्थानं यस्य स नारायण इति व्युत्पत्तेः। यद्वा क्वासीत्यत आह— सर्वभूतेति। सर्वात्मभूतत्वादिति भावः। एतेनेश्वरभजनस्य सौलभ्यं सूचितम्। यतिः, कर्मी वेति। औदासीन्यसमलोष्टाश्मकाञ्चनत्वाद्यात्मकं पूर्वोक्तं गुणातीतत्वसाधनं संन्यासिविषयमेव, सर्वारम्भपरित्यागस्य संन्यास- यद्यपीति। सर्वकर्मत्यागे देहधारणमपि निमित्ताभावान्न स्यादित्याशङ्क्याह— देहेति। उक्तविशेषणो गुणातीतो ज्ञातव्यः इत्याह— गुणेति। यदुक्तमुपेक्षकत्वादि , तद् विद्योदयात्पूर्वं यत्नसाध्यं विद्याधिकारिणा ज्ञानसाधनत्वेनानुष्ठेयम्। उत्पन्नायां तु विद्यायां जीवन्मुक्त- स्योक्तधर्मजातं स्थिरीभूतं स्वानुभवसिद्धलक्षणत्वेन तिष्ठतीत्युक्ते धर्मजाते विभागं दर्शयति— उदासीनवदित्यादिना॥२५॥
प्रश्नद्वयमेवं परिहृत्य तृतीयं प्रश्नं परिहरति— अधुनेति। मच्छब्दस्य संसारिविषयत्वं व्यावर्तयति— ईश्वरमिति। तत्रैव नारायणशब्दान्मूर्तिभेदो२ व्यावर्त्यते। तस्य ताटस्र्ह्यं व्यवच्छिनत्ति— सर्वेति। मुख्यामुख्याधिकारिभेदेन विकल्पः। भक्तियोगस्य १. ‘भक्तियोगेन भजनं’ इति पा.। २. ईश्वरनारायणशब्दयोः सामानाधिकरण्येन प्रयोगस्याभिप्रायमाह—तत्रैवेति। मूर्तिभेदः शङ्खचक्रादिविशिष्टो मूर्तिविशेष इत्यर्थः। ३. ‘दर्शितधर्मजातम्’ इति पठितुं युक्तम्।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
सर्वारम्भपरित्यागी गुणातीतः स उच्यते॥२५॥
मां च योऽव्यभिचारेण भक्तियोगेन सेवते। स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते॥२६॥
रित्याह। सर्वारम्भपरित्यागी दृष्टादृष्टार्थानि कर्माणि आरभ्यन्त इत्यारम्भाः। सर्वानारम्भान् परित्यक्तुं शीलमस्येति सर्वारम्भपरित्यागी, देहधारणमात्रनिमित्तव्यतिरेकेण सर्वकर्मपरित्यागीत्यर्थः। गुणातीतः स उच्यते। ‘उदासीनवद्’ इत्यादि ‘गुणातीतः स उच्यते’ इत्येतदन्तमुक्तं यावद् यत्नसाध्यं तावत् संन्यासिनाऽनुष्ठेयं गुणातीतत्वसाधनं मुमुक्षोः, स्थिरीभूतं तु स्वसंवेद्यं सद् गुणातीतस्य यतेर्लक्षणं भवतीति॥२५॥
अधुना ‘कथं च त्रीन् गुणानतिवर्तते’ इत्यस्य प्रश्नस्य प्रतिवचनमाह— मां चेति। मां चेश्वरं नारायणं सर्वभूतहृदयाश्रितं यो यतिः कर्मी वा अव्यभिचारेण न कदाचिद् यो व्यभिचरति १भक्तियोगः— भजनं भक्तिः, सैव
[[७६३]]
योगः, तेन विवेकज्ञानात्मकेन भक्तियोगेन सेवते, स गुणान् समतीत्य एतान् यथोक्तान् , ब्रह्मभूयाय भवनं भूयो रूपत्वात्। न ह्यसंन्यस्तस्य यज्ञादिविहितकर्मपरित्यागो युक्तः, प्रत्यवायावहत्वात्। न च - सर्वारम्भपरित्यागित्वं नाम सांसारिक- सर्वकर्मपरित्यागित्वमेव, न तु चित्तशुद्धिज्ञानप्राप्तिहेतुकर्मपरित्यागित्वमिति - वाच्यम् ; सांसारिकत्वविशेषणकल्पनस्याप्रमाणत्वात् सर्वपदस्वारस्यभङ्गात्। गृहस्थेन सांसारिककृष्यादिजीवनहेतुकर्मपरित्यागस्यापि दुष्करत्वात्। न हि गृहस्थस्य भिक्षाटनेऽधिकारः, येन कृष्यादि सांसारिकं कर्म विहाय जीवेत् संन्यासिवत्। किञ्च यान्येव विहितानि कर्माणि तान्येव सांसारिकाणि चित्तशुद्ध्यादिसम्पादकानि च भवन्ति फलाभिसन्धितदभावाभ्यामिति कथं तत्कर्मपरित्यागः स्याद् गृहस्थस्य कर्मस्वधिकृतस्याज्ञस्य? अपिच यदपि मैथुनाख्यं सांसारिकं कर्म, तस्य वा कथं परित्यागो गृहस्थस्य? ‘ऋतौ भार्यामुपेयात्’ इति हि श्रूयते। स्वस्थस्य ऋतौ भार्यामुपेक्षितवतः प्रत्यवायश्च स्मर्यते। तस्मात् संसारिणो गृहस्थस्य न सांसारिककर्मपरित्यागित्वमपि सम्भवतीति संन्यासिविषयमेव तत्। संन्यासिनामेव धर्माधर्माख्यद्विविधकर्मपरित्यागात्मकं भिक्षाटनादिजीवनहेतुकर्मसु गुणकृतत्वानुसन्धानेन तत्परित्यागात्मकं च संन्यसनमुपपद्यत इति। तस्माद् ‘उदासीनवदि’त्यादिश्लोकत्रयं संन्यासिविषयमेव। ‘मां चे’ति श्लोकस्यापि संन्यासिविषयत्वशङ्कायां प्राप्तायामाह भाष्यकारः— यतिः कर्मी वेति। एतच्छ्लोकोक्तं भगवद्भजनं संन्यास्यसंन्यास्युभयपरमुभयोरपि तत्राधिकारादिति भावः। ननु नैतद् युक्तम् , कर्मात्मके भक्तियोगे संन्यासिनां, ज्ञानात्मके भक्तियोगे गृहिणां चानधिकारात्। न च कर्मात्मकभक्तियोगो नास्तीति वाच्यम् ; ‘ये वर्णाश्रमधर्मस्थास्ते भक्ताः केशवं प्रती’ति हारीतस्मृतेः। अत्रोक्तो भक्तियोगस्तु ज्ञानात्मक एव। ‘मां यो भजते’ इति मूलात्। ‘विवेकविज्ञानात्मकेन’ इति भाष्याच्च। कथमत्र ज्ञानयोगे भक्त्यात्मके कर्मिणामधिकारः? ‘लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ। ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्॥’ इति ह्युक्तं भगवता। विदुषां संन्यासिनां ज्ञानयोग एवाधिकारः, अविदुषां कर्मिणां तु कर्मयोगाधिकार इति तत्र तत्र भाष्यकारैरेव व्यवस्थापितं हि। तस्मात् कथं तैरेव भाष्यकारैरिह स्वोक्तविरुद्धार्थः प्रोच्यते— यतिः कर्मी वेति इति चेद्? उच्यते— यो विद्वानपि प्रारब्धादिवशात् संन्यासमनुपेत्य कर्मण्येव फलाभिसन्ध्यादिराहित्येन प्रवर्तते जनकादिवत् , स इह कर्मीत्युच्यते, न त्वज्ञः, तस्य विवेकविज्ञानासम्भवात्। न ह्यज्ञत्वविवेकज्ञानयोर्विरुद्धयोरेकत्र स्थितिः स्यात्। अयं च जनकादिः कर्मयोग्यपि वस्तुतः साङ्ख्य एवेति साङ्ख्यस्यास्य कर्मिणो ज्ञानयोगेन निष्ठा स्यादेवेति। न हि कर्तृत्वाद्यभिमानरहितं कर्म कर्म भवति। न चैवं योगिनां ज्ञानयोगे, साङ्ख्यानां कर्मयोगे चाधिकारः प्राप्तो भगवन्नियमविरुद्ध इति वाच्यम् ; अतत्त्वविदां योगिनां ज्ञानयोगे, साङ्ख्यानां कर्मयोगे चाधिकारस्य भगवदनभिमतत्वात्। १(तत्त्वविदां साङ्ख्यानां कर्मयोगाधि- कारस्येति।) अयं भावः— असंन्यासिनो योगिनः, संन्यासिनस्तु साङ्ख्याः। ‘संन्यासिनां साङ्ख्याना’मिति तत्र तत्र भाष्यकारैरेवोक्तत्वात्। तत्र योगिनो यदि योगवशात् तत्त्वविदो भवेयुस्तर्हि ते प्रारब्धवशात् संन्यासं वा स्वीकुर्युः, राज्यं वा पालयेयुः, अवस्थाद्वयेऽपि ‘अहं ब्रह्मास्मी’ति ज्ञानात्मकं भगवद्भजनं न जहति, तत्त्ववित्त्वात् तेषाम्। इदमेव हि तत्त्ववित्त्वं यदहं ब्रह्मास्मीति निश्चयज्ञानम्। साङ्ख्यास्तु श्रवणादिवशात् तत्त्वज्ञानं प्राप्यापि स्वसंन्यासं त्यक्त्वा पुनर्गार्हस्र्ह्यं स्वीकृत्य कर्म कर्तुं नार्हन्ति, वान्ताशनवत् संन्यासिनां गार्हस्र्ह्यस्वीकारस्य दुष्टत्वात्। एवं सति तत्त्वविदामतत्त्वविदां वा साङ्ख्यानां ज्ञानयोग एवाधिकारः, न कर्मयोगे। अतत्त्वविदां योगिनां तु कर्मयोग एवाधिकारः। तत्त्वविदां योगिनां तु यथाप्रारब्धमुभयत्रापि। नन्वेवं तत्त्ववित्साङ्ख्यापेक्षया तत्त्वविदो योगिन एव विशृङ्खलत्वं सिद्धमिति चेत्? सिध्यतु नाम, तत्त्ववित्त्व एवास्माकमभि- यादृच्छिकत्वं व्यवच्छेत्तुमव्यभिचारेणेत्युक्तम्। तद् व्याचष्टे— नेति। भजनं परमप्रेमा, स एव युज्यतेऽनेनेति योगः। सेवते पराक्ि चत्ततां
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ. १४. श्लो. २५-२६ ] १. अत्र ‘तत्त्वविदां साङ्ख्यानां कर्मयोगाधिकारस्य भगवदनभिमतत्वात्’ इति पाठान्तरं निर्दिष्टं स्यादिति भाति।
[[७६४]]
ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥२७॥
इति श्रीमद्भवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः॥१४॥
निवेशो, न तु साङ्ख्यतत्त्ववित्त्वे। ननु यदि योगिनोऽपि तत्त्वविदस्तर्ह्यसंन्यासिनामपि वेदान्तशास्त्राधिकारः प्राप्तः, तच्चायुक्तम् , ‘शान्तो दान्त उपरतः’ इति श्रुत्या उपरतस्य संन्यासिन एव तत्राधिकारस्य विहितत्वात्। ‘अथातो ब्रह्मजिज्ञासा’ इति सूत्रभाष्येऽप्येतदर्थस्यैव प्रपञ्चितत्वादिति चेत्? सत्यम् ; संन्यासिनामेव वेदान्तशास्त्रेऽधिकारः, ये त्वसंन्यासिनोऽपि प्रारब्धवशाद् वामदेवादिवच्छ्रवणादिकं विनैव तत्त्वविदो जातास्तेषां वेदान्तशास्त्रेऽधिकारनिषेधेन तत्प्रतिपादनेन वा किं फलं स्यात्? न किमपि। न हि भुक्तवन्तं प्रति मा भुङ्क्ष्वेति वचनं सार्थकं स्यात्। तस्मादतत्त्वविदामसंन्यासिनामेव वेदान्तशास्त्रेऽधिकारः श्रुत्या प्रतिषिध्यते। न तु तत्त्वविदामसंन्यासिनां, नाप्यतत्त्वविदां संन्यासिनामिति सिद्धम्। क्वचित्तु अतत्त्वविदामप्यसंन्यासिनां द्विजानां वेदाधिकारसत्त्वाद् वेदान्तश्रवणाधिकारो ऽप्यस्तीति दृश्यते। अलमतिप्रसङ्गेन। यो यतिः तत्त्ववित् कर्मी वा अव्यभिचारेण ध्रुवेण, अन्यदेवताविषयत्वमनापन्नेनेति वा। विवेकविज्ञानम् आत्मानात्मविवेक- रूपं ज्ञानं, तदेवात्मा स्वरूपं यस्य तेन। १भगवदनुग्रहाद् यः प्रसादश्चित्तशुद्धिः, तस्माज्जायत इति तथोक्तः। चित्तशुद्धिपूर्वकत्वाज्ज्ञान- स्येति भावः। भवनं स्थितिः, सत्त्वमिति यावत्। ब्रह्मणो भवनं ब्रह्मभवनं तस्मै ब्रह्मभवनाय, ब्रह्मस्वरूपेणावस्थानायेत्यर्थः। फलितमाह— मोक्षायेति। कल्पते ‘कॢपू [कृपू ]सामर्थ्ये’ इति धातुपाठादाह—समर्थो भवतीति। समर्थीभवतीति पाठे, असमर्थः समर्थो भवति समर्थीभवति। ज्ञानात् प्राग् ब्रह्मस्वरूपेणावस्थातुमसमर्थः, इदानीं तु समर्थो भवतीत्यर्थः। वस्तुतो ब्रह्मभूत- स्याप्यस्याज्ञानाद् ब्रह्मस्वरूपेणावस्थातुमसामर्थ्यमासीदिव, ज्ञानेन तु तदज्ञाने नाशिते सति सामर्थ्यं पुनरासीदिवेत्यर्थः। न हि वस्तुतो बन्धमोक्षौ स्तः चिन्मात्रे केवले सदाशिवे आत्मनि॥२६॥
ब्रह्मण इति। ननु ‘गुणातीतः स उच्यते’ इति, ‘ब्रह्मभूयाय कल्पते’ इति च साध्यमेकमेव निर्दिष्टम् , गुणातीतं ब्रह्मेति गुणा- तीतत्वस्य ब्रह्मभावत्वात्। अतस्तत्साधनतारतम्यमयुक्तम् , फलभेदस्यैव साधनतारतम्यप्रयोजकत्वात्। त्वया त्वौदासीन्यगुणकर्तृ- त्वानुसन्धानाद्यपेक्षया भगवद्भजनमेव विशिष्टमित्युच्यते, तदेतत् कुतो हेतोरिति पृच्छति— कुत एतदिति। उत्तरं वच्मीति प्रतिजानाति — उच्यत इति। एतत् कुत इति शङ्कायामिदं पद्यमुच्यत इत्यर्थः। यद्वा यो मां भजते स ब्रह्मभूयाय कल्पत इति यदुक्तं तदेतत् कुत इत्यत्रोच्यत इत्यर्थः। हि अहममृतस्याव्ययस्य च शाश्वतस्य धर्मस्य सुखस्य ऐकान्तिकस्य च ब्रह्मणः प्रतिष्ठा। यस्मादहमीदृशस्य ब्रह्मणः प्रतिष्ठा तस्मान्मद्भक्तो ब्रह्मभूयाय कल्पत इत्येतदुक्तमित्यर्थः। यस्मादहं ब्रह्मणः प्रतिष्ठा, तस्मान्मद्भजनं गुणातीतत्वप्राप्तौ भाष्यार्कप्रकाशः ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवतीत्यर्थः॥२६॥
कुत एतदित्युच्यते—ब्रह्मण इति। ब्रह्मणः परमात्मनो हि यस्मात् प्रतिष्ठाऽहं प्रतितिष्ठत्यस्मिन्निति प्रतिष्ठाऽहं विना सदाऽनुसन्दधातीत्यर्थः। सः भगवदनुग्रहकृतसम्यग्धीसम्पन्नो विद्वान् जीवन्नेवेत्यर्थः॥२६॥
विद्वान् ब्रह्मैवेत्यत्र हेतुं पृच्छति— कुत इति। तत्रोत्तरमाह— उच्यत इति। ब्रह्मशब्दस्यासति बाधके मुख्यार्थग्रहण- मभिप्रेत्याह— परमात्मन इति। तं प्रति प्रत्यगात्मनो यत् प्रतिष्ठात्वं तदुपपादयति— प्रतितिष्ठतीति। यद् ब्रह्म प्रत्यगात्मनि प्रतितिष्ठति आनन्दगिरिकृतव्याख्या १. भाष्ये ‘विवेकज्ञानात्मकेन भक्तियोगेन - स हि भक्तियोगो भगवदनुग्रहप्रसादजो भवति - सेवते’ इति क्वचित् पाठः। तदनुसारिणीयं व्याख्या।
[[७६५]]
प्रत्यगात्मा। कीदृशस्य ब्रह्मणः? अमृतस्य अविनाशिनः, अव्ययस्य अविकारिणः, शाश्वतस्य च नित्यस्य धर्मस्य विशिष्टं साधनमिति वाऽर्थः। प्रतिष्ठा आधारः, स्वरूपमिति यावत्। स्वरूपे हि स्वयं तिष्ठति, यथा स्वरूपभूतमृदि घटः। तस्मात् स्वस्य स्वरूपमेवाधारः। ‘स्वे महिम्नि प्रतिष्ठितः’ इति श्रुतेश्च। महिम्नि स्वरूप इत्यर्थः। अनेन च स्वस्य स्वरूपमेवाधार इति प्रतिपादनेन स्वरूपातिरिक्तः कोऽपि नास्याधार इति, स्वरूपस्य स्वस्मादनतिरिक्तत्वेन स्वस्य स्वयमेवाधार इति च ज्ञायते। ततश्च स्वरूपत्वमाधारस्य सिद्धं भवति। अत एवोक्तम्— आधारः, स्वरूपमिति यावदिति। वक्ष्यति च ‘सम्यग्ज्ञानेन परमात्मतया निश्चीयते प्रत्यगात्मे’ति भाष्यकारः इहैव। ननु कोऽसौ यो ब्रह्मणः प्रतिष्ठेत्युच्यते? अत आह— अहमिति। तदर्थमाह— प्रत्यगात्मेति। अहंशब्दलक्ष्यार्थत्वात् प्रतीच इति भावः। ननु वक्तुरीश्वरत्वेन कृष्णस्य तल्लक्ष्यार्थः परमात्मैव भवेन्न तु प्रत्यगात्मेति चेत् , मैवम् ; देहत्रयान्तरचैतन्यस्य प्रत्यगात्मत्वं, तद्बाह्यचैतन्यस्य परमात्मत्वमिति व्यवहारात्। अयं च व्यवहारोऽविद्याकल्पित इति नातिशङ्कनीयम्। एवं प्रत्यगात्मनः परमात्मा- धारत्वं चाविद्याकृतमेव। न हि विद्यादशायां प्रत्यगात्मेति परमात्मेति च भेदव्यवहारः सम्भवति। भेदव्यवहारहेतुभूतदेहाद्युपाध्य- भावात्। देहादौ सति हि देहादेरिदमान्तरम् , इदं बाह्यमिति वक्तुं शक्यते। तस्माद् यद् देहत्रयान्तरं प्रत्यक् चैतन्यं तदेव परमात्मनः स्वरूपत्वात् प्रतिष्ठाभूतमिति कृत्वा ब्रह्मणोऽहं प्रतिष्ठेत्युच्यते। ननु घटाकाशस्य महाकाश एव प्रतिष्ठा, न तु महाकाशस्य घटाकाशः, विरुद्धत्वात् ; तथा परमात्मैव प्रत्यगात्मनः प्रतिष्ठा, अपरिच्छिन्ने परमात्मन्यन्तःकरणपरिच्छिन्नस्य प्रत्यगात्मनः कल्पितत्वाद् अथवा सत्त्वादिति चेत् , मैवम् ; परमात्मवत् प्रत्यगात्म- नोऽप्यपरिच्छिन्नत्वादन्यथा परिच्छिन्नत्वे सत्यनित्यत्वप्रसङ्गात्। यदि देहादिभिरान्तरस्य प्रतीचः परिच्छेदः स्यात् , तर्हि तैरेव बाह्यस्य परमात्मनोऽपि परिच्छेदः स्यादेव। देहाद् बहिर्वर्तमानत्वोपाधिपरिच्छिन्नत्वात् परमात्मनः। न हि स परमात्मा देहादन्तर्वर्तते येन पूर्णः स्यात्। अन्तर्बहिर्मध्ये च व्याप्तो हि परिपूर्ण इत्युच्यते। ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः’ इति श्रुतेश्च। अत एव हि प्रत्यक्परभेदो निषिध्यते। तस्मादपरिच्छिन्न एव प्रत्यगात्मा। तस्यान्तरत्वकथनं तु हृद्देशोपलब्धिप्रयुक्तम्। हृदि ह्युपलभ्यते प्रत्यगात्मा मनीषिभिरहङ्कारसाक्षित्वेन। साक्षिणा ह्यन्तःकरणादिकं भास्यते। स च साक्षी स्वयमेव स्फुरति, स्वप्रकाशत्वात्। एतत्साक्षि- भास्यत्वादेव सर्वं जगत्साक्ष्याश्रयमित्युच्यते। भासको हि भास्यस्याधारः। भासकाधीनसत्ताभानवत्त्वाद् भास्यस्य। न हि भासकाभावे भास्यं स्फुरेत्। न हि दीपाद्यभावे घटः स्फुरति, न वाऽस्तित्वं प्रतिपद्यते। यथा जगदिदं साक्षिभास्यं तथा जगदाश्रयब्रह्मचैतन्यमपि साक्षिभास्यमेव। न हि अन्तः साक्षी यथाऽहमिति स्फुरति, तथा बहिर्ब्रह्मचैतन्यमहमिति स्फुरति। अहङ्काराश्रयत्वप्रयुक्तं हि साक्षित्वम्। १सुषुप्तावपि हि सूक्ष्मरूपेणाहङ्कारोऽस्ति। मृतिमूर्छादिषु तदहङ्काराभावादेव हि साक्षित्वस्याप्यभावः। साक्ष्यस्य सत्त्वे हि साक्षित्वं स्यादात्मनः। अहङ्काराभावसाक्षित्वं तु चैतन्यरूपमेव। निर्धर्मकं हि चैतन्यम्। तस्माद् अहङ्काराश्रयेणैव साक्षिणा जगदधिष्ठानं ब्रह्म ज्ञायत इति परमात्मनः प्रत्यगात्मैव प्रतिष्ठेत्युक्तम्। न चैतावता ब्रह्मणो ज्ञेयत्वापत्तिः, स्वभास्यत्वप्रयुक्तं ज्ञेयत्वं यथा नास्ति साक्षिणस्तथैव स्वाभिन्नसाक्षिभास्यत्वप्रयुक्तमपि ज्ञेयत्वं न ब्रह्मण इति। यद्यपि परमात्मा स्वरूपचैतन्येन मायावृत्तिभिर्वा सर्वमवभासयति सर्वज्ञत्वादिति सर्वसाक्ष्येव। तथापि परमात्मनिष्ठं तद्भासनं नास्माकं प्रत्यक्षं, प्रत्यगात्मनिष्ठं तु प्रत्यक्षमिति तथोक्तम्। यद्वा सर्वावभासकोऽपि परमात्मा साक्षिभास्य एव, यथा साक्ष्यपि प्रत्यगात्मा प्रमातृभास्यः। तस्मात् परमात्मावभासकत्वात् परमात्मनः प्रतिष्ठा भवति प्रत्यगात्मा। प्रत्यगात्मना हि वेद्यते परमात्मा। तत् किंविशेषणमित्यपेक्षायामुक्तम्— अमृतस्येत्यादि। तत्रामृतशब्देनाव्ययशब्दस्य पुनरुक्तिं परिहरति— अविकारिण इति। नित्यत्वम्
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ. १४. श्लो. २६-२७ ] १. ननु तर्हि सुषुप्तौ साक्षी न स्यात् , अहंकाराभावादित्याशङ्क्य तत्रापि तत्सद्भावमाह—सुषुप्ताविति।
[[७६६]]
१ज्ञानयोगधर्मप्राप्यस्य, सुखस्य आनन्दरूपस्य ऐकान्तिकस्य अव्यभिचारिणः। अमृतादिस्वभावस्य परमात्मनः परमानन्दस्वरूपस्य प्रत्यगात्मा प्रतिष्ठा सम्यग्ज्ञानेन परमात्मतया निश्चीयते। तदेतद् ‘ब्रह्मभूयाय कल्पते’ इत्युक्तम्। यया चेश्वरशक्त्या भक्तानुग्रहादिप्रयोजनाय ब्रह्म २प्रतिष्ठते - प्रवर्तते सा शक्तिर्ब्रह्मैवाहं शक्तिशक्तिमतोरनन्यत्वादि- त्यभिप्रायः। अथवा ब्रह्मशब्दवाच्यत्वात् सविकल्पकं ब्रह्म, तस्य ब्रह्मणः - निर्विकल्पकोऽहमेव, नान्यः - प्रतिष्ठा अविनाशिन इति। विनाशाभावादेव जन्मादिविकाराभाव इत्याह— अविकारिण इति। अत एव नित्यत्वमस्येत्याह— नित्य- स्येति। धर्मस्येति। धर्मप्राप्ये ब्रह्मणि धर्मत्वमुपचारात्। स च धर्मो ब्रह्मप्रापको ज्ञानयोगरूप एवेत्यभिप्रेत्याह— ज्ञानयोगधर्मप्राप्य- स्येति। अव्यभिचारिण इति। सत्यस्येत्यर्थः। अमृतादिस्वभावस्येति। अमृतत्वाव्ययत्वशाश्वतत्वज्ञानप्राप्यत्वसत्यत्वस्वभावस्येत्यर्थः। सुखं तु न स्वभावः, किन्तु स्वरूपमेवेत्याह— परमानन्देति। निरतिशयं सर्वातिशयं निरुपाधिकं च यत्सुखं शाश्वतं तद्धि परमानन्दः। ‘आनन्दो ब्रह्मेति व्यजाना’दिति श्रुतेस्तदेव ब्रह्मस्वरूपं च। प्रत्यगात्मा परमात्मनः प्रतिष्ठेत्युक्तत्वाद् विद्वान् प्रत्यगात्माऽहं परमात्म- स्वरूप एवेति निश्चिनुयात्। ततश्च निश्चयात् स ब्रह्मभूयाय कल्पत इत्यर्थः। यद्वा अहमित्यस्य वक्ता कृष्ण ईश्वर एवार्थः। ततश्चाहमीश्वरो ब्रह्मणः प्रतिष्ठा। प्रतितिष्ठतेऽस्मादिति प्रतिष्ठा। प्रवृत्तिसाधनभूत इत्यर्थः। इदमेवाह— ययेति। ब्रह्म यया ईश्वराख्यया शक्त्या भक्तानुग्रहादिप्रयोजनाय प्रतितिष्ठते, सा शक्तिरहं ब्रह्मैव। कथं शक्तेः ब्रह्मत्वम्? अत आह— शक्तीति। अयमर्थः— निर्विशेषं ब्रह्मैव मायोपाधिकं सदीश्वर इत्युच्यते, मायावच्छिन्नचैतन्यस्येश्वरत्वात्। तत्र चैतन्यांशस्य ब्रह्मत्वेन मायाया एवेश्वरांशत्वं सिद्धम्। अतो नास्ति मायातिरिक्तः कश्चनेश्वरः। एवमन्तःकरणातिरिक्तो जीवोऽपि नास्त्येव। अन्तःकरणावच्छिन्नं चैतन्यं जीव इति लक्षणे चैतन्यांशस्य ब्रह्मत्वात्। अत एव ‘न जीवो नामान्योऽस्त्यनुभव- मयान्तःकरणतो न मायातश्चेशो न हि चिदपरूपा प्रतिफले’दिति हयग्रीवस्तुतिर्मदीयैव सङ्गच्छते। अनुभवमयेति हयग्रीवस्य ब्रह्मणः सम्बोधनम्। सा चेश्वरशब्दवाच्या मायाख्या शक्तिरेवेति ब्रह्मणोऽनन्यैव यथाऽग्निशक्तिरग्नेरनन्या। तस्मादीश्वरोऽहं ब्रह्मैवेतीश्वरं मां ब्रह्मत्वेन जानीयादिति। एवं ज्ञानात् फलं तु प्रत्यगात्मनः परमात्माभेदनिश्चयात् परमात्मशक्तेरीश्वरस्य प्रत्यगात्मशक्तेर्जीवस्य चाभेदसिद्धिः। यद्वा स्वशक्तिभूतादीश्वरात् स्वस्य प्रतीचः भीत्यभावः फलम्। अभयं हि मोक्षः। पक्षान्तरमाह—अथवेति। ब्रह्मणः सविकल्पकस्य निर्विकल्पकोऽहं प्रतिष्ठा। कथं सविकल्पकत्वं ब्रह्मणः? अत आह— ब्रह्मशब्दवाच्यत्वादिति। ब्रह्मशब्दवाच्यत्वरूपधर्मस्य ब्रह्मणि सद्भावादन्यथा ब्रह्मशब्दावाच्यत्वापत्तेरिति भावः। अहंशब्दस्तु लक्षणया निर्विकल्पकं वस्तु बोधयतीति कृत्वा अहंशब्दलक्ष्यार्थभूतो निर्विकल्पकस्त्ववाच्य एव। इदं निर्विकल्पकं वस्तु भवतीति वक्तुमशक्य इत्यर्थः। न चैवं निर्विकल्पकशब्दवाच्यत्वं तत्राप्यस्तीति वाच्यम् ; निर्विकल्पकशब्दवाच्यत्वस्य निर्विकल्पकत्वप्रयोजकत्वेन सविकल्पकत्वानावहत्वात्। न चाहंशब्दलक्ष्यत्वरूपविकल्पोऽस्तीति वाच्यम् ; अहंशब्दलक्ष्यत्वमित्यस्यावाच्यत्वमित्येवार्थात्। न चावाच्यत्वरूपो विकल्पोऽस्तीति वाच्यम् ; अवाच्यत्वविकल्पस्य वक्तुमशक्यत्वेन तस्य विकल्पत्वानभ्युपगमात्। यो हि विकल्पत्वेन वक्तुं शक्यः, स एव हि विकल्प इत्युच्येत। तस्मात् सविशेषस्य ब्रह्मणो निर्विशेषं प्रतिष्ठा। प्रतितिष्ठत्यस्मिन्निति प्रतिष्ठेति अपक्षयराहित्यम् , तेन पूर्वाभ्यामपौनरुक्त्यम्। प्रसिद्धार्थस्य धर्मशब्दस्य ब्रह्मण्यनुपपत्तिमाशङ्क्याह— ज्ञानेति। अर्थेन्द्रियसम्बन्धोत्थं सुखं व्यावर्तयितुमैकान्तिकस्येत्युक्तम्। अक्षरार्थमुक्त्वा वाक्यार्थमाह— अमृतादीति। प्रतिष्ठा यस्मादिति पूर्वेण सम्बन्धः। तस्मात् प्रत्यगात्मा परमात्मतया निश्चीयते सम्यग्ज्ञानेनेति योजना। अस्य श्लोकस्य पूर्वश्लोकेनैकवाक्यतामाह— तदेतदिति। विवक्षितं वाक्यार्थं प्रपञ्चयति— ययेति। ‘सा शक्तिर्ब्रह्मैवे’ति कथं सामानाधिकरण्यम्? तत्राह— शक्तीति। व्याख्यानान्तरमाह— अथवेति। विशेषणानि पूर्ववदपौनरुक्त्यानि नेतव्यानि। १. अत्र ‘धर्मज्ञानस्य’ इति अधिकं क्वचित्। २. ‘प्रतितिष्ठते’ इति पा.।
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
[[७६७]]
आश्रयः, किंविशिष्टस्य? अमृतस्य अमरणधर्मकस्य अव्ययस्य च व्ययरहितस्य१। किञ्च शाश्वतस्य च नित्यस्य धर्मस्य ज्ञाननिष्ठालक्षणस्य, सुखस्य तज्जनितस्य ऐकान्तिकस्य (च) एकान्तनियतस्य च प्रतिष्ठाऽहमिति २वर्तते ॥२७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः॥१४॥
व्युत्पत्तिमभिप्रेत्याह— आश्रय इति। निर्विशेषे वस्तुनि मायया विशेषस्य कल्पितत्वात् सविशेषं ब्रह्मापि कल्पितमेव। विशेष्यांशस्य चैतन्यस्याकल्पितत्वेऽपि विशेषणांशस्य कल्पितत्वेन विशिष्टस्यापि कल्पितत्वव्यवहारात्। यथा घटाकाशस्य महाकाशे कल्पितत्वम्। ननु सविशेषे ब्रह्मणि के विशेषाः सन्ति कल्पिता अविद्ययेति पृच्छति— किंविशिष्टस्येति। कैर्विशेषैर्विशिष्टस्येत्यर्थः। अमृतत्वमव्ययत्वं चेति द्वाभ्यां विशेषाभ्यां विशिष्टस्येत्यर्थः। किं तत् सविशेषं ब्रह्मेत्यत आह— मोक्षाख्यस्येति। हि यस्माद् मदाश्रयं निर्विकल्पकवस्त्वाश्रयम् - बहुव्रीहिः- अनन्तमव्ययममृतं ब्रह्म मुमुक्षुभिः प्राप्यते, तस्मादस्यापि मोक्षाख्यस्य सविशेषस्य ब्रह्मणोऽहं निर्विशेषचैतन्यं प्रतिष्ठा। अयमर्थः— यन्निर्धर्मकं चैतन्यं तन्न केनापि प्राप्तुमर्हति, निर्धर्मके तस्मिन् प्राप्यत्वरूपधर्मायोगात्। यत्तु मुमुक्षुभिः प्राप्यते तन्मोक्षाख्यं ब्रह्म सधर्मकमेव। अमृतत्वाव्ययत्वरूपधर्मवत्त्वात् तस्य। मोक्षो हि शाश्वतो निर्विकारश्च। शुद्धचैतन्ये बन्धवन्मोक्षस्याप्य- भावात्। निर्विकारः शाश्वतो मोक्षः कल्पित एवाविद्यया चैतन्ये। निर्विकारत्वादिधर्माणां चैतन्ये कल्पितत्वात् तद्वतो मोक्षस्यापि कल्पितत्वमिति भावः। ज्ञाननिष्ठालक्षणधर्मस्य नित्यत्वं च नित्यफलवत्त्वरूपं, यावद्विदेहकैवल्यमवस्थितत्वरूपं वा। सुखस्येति। जीवन्मुक्तिसुखस्येत्यर्थः। मोक्षसुखस्य ब्रह्मण इत्यनेनोक्तत्वात्। एकान्तनियतस्य अव्यभिचारिणः, सर्वदाऽपि स्थायिन इत्यर्थः। यावद्विदेहकैवल्यं जीवन्मुक्तिसुखस्य विदुषां स्थायित्वादिति भावः। अहं निर्विकल्पकं चैतन्यं प्रतिष्ठा आश्रयः। इति प्रवर्तत इति। विद्वानिति शेषः। विद्वदात्मन एव निर्विकल्पकचैतन्यत्वादिति भावः। य एवं प्रवर्तते स ब्रह्मभूयाय कल्पते। अनेन च श्लोकेन - निर्विकल्पकं चैतन्यमेवात्मा। तत्रैव बन्धप्रपञ्चवन्मोक्षाख्यं ब्रह्म जीवन्मुक्तिसुखं तत्साधनज्ञानयोगश्च इत्येतत् सर्वं कल्पितम्। तथा प्रत्यगात्मपरमात्मभेदः, प्रत्यगात्मनि जीवः, परमात्मनीश्वरश्च कल्पितः। ततश्च भक्तानुग्रहादि सर्वं द्वैतं तत्रैव कल्पितम्। तथा प्रत्यगात्मपरमात्मनोर्ज्ञातृत्वज्ञेयत्वप्रयुक्तः आधाराधेयभावश्च तत्रैव कल्पितः। तदेतत्सर्वकल्पनक्षमा चाघटित- घटनापटीयस्तमा माया। सा च अहं ब्रह्मास्मीति ज्ञानादेव निवर्तते। य एवं विद्वानात्मानं नारायणं भक्तियोगेन भजते, स तदैव ब्रह्मभूयाय कल्पते। औदासीन्यादिसाधनसम्पन्नस्तु क्रमेण ब्रह्मभूयाय कल्पते। तस्मादात्मभजनमेव जीवन्मुक्तिविदेहमुक्तिद्वय- साधनमिति सिद्धम्। यदुत्तमं ज्ञानं प्रवक्ष्यामीति भगवता प्रोक्तमादौ, तदुक्तं ‘प्रकाशं चे’त्यारभ्य यावदध्यायपरिसमाप्ति ग्रन्थेन। अथवा उत्तम- ज्ञानसाधनमुक्तम्— ‘प्रकाशं चे’त्यादिना। ज्ञानं तु साक्षाद् ‘ब्रह्मणोऽहम्[ब्रह्मणो हि]’ इति श्लोकेनोक्तमिति बोध्यम्। इदमेवात्मज्ञान- मुत्तराध्याये विस्तरेण वक्ष्यति च। तदनेनाध्यायेन क्षेत्रक्षेत्रज्ञसंयोगस्य संसारकारणत्वम् , पञ्चप्रश्ननिरूपणद्वारेण च सम्यग्ज्ञानस्य सकलसंसारनिवर्तकत्वम् इत्येतदुपपादयता मुमुक्षोर्यत्नसाध्यं गुणैरचाल्यत्वादि मुक्तस्यायत्नसिद्धं लक्षणमिति निर्धारितम्॥२७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने चतुर्दशोऽध्यायः॥१४॥
[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]
अ. १४. श्लो. २७ ] १. एतदुत्तरं ‘मोक्षाख्यस्य, मदाश्रयं हि अनन्तमव्ययममृतं ब्रह्म मुमुक्षुभिः प्राप्यते’ इति रा.पा. भाति। २. ‘अनुवर्तते’ इति पा.। ‘प्रवर्तते’ इति रा.पा. ।
[[७६८]]
यत्तु रामानुजः— अहमव्यभिचारिभक्तियोगेन सेवितोऽमृतस्याव्ययस्य च ब्रह्मणः प्रतिष्ठेति, जीवस्य फलदशाभावित्वेन निर्दिष्टं रूपमिह ब्रह्मशब्देनोपचर्यत इति देशिकश्च। तन्मन्दम् ; जीवस्य यदि फलदशायां विद्यमानरूपादन्यद्रूपं भवति तर्हि जीवः सविकार एव स्यात्। पूर्वरूपपरित्याग उत्तररूपस्वीकारश्च विकारो हि। ततश्चानित्यत्वं स्यात्। अणोर्जीवस्य बृहत्त्वप्राप्तावणुत्वनाशेन नाशप्रसङ्गात् , बृहत्त्वजन्मना जन्मप्रसङ्गाच्च। ज्ञानधर्मबृहत्त्वं तु निरस्तं बहुशः पूर्वम्। तच्च फलदशाभाविजीवस्य बृहत्त्वं जीवाश्रयमेवेति न तस्य ब्रह्माश्रयत्वं च सम्भवति। येन बृहत्त्वमधिगतं स हि बृहत्त्वस्याश्रयः। न चेश्वरगतं बृहत्त्वं जीवस्यागतमिति वाच्यम् ; ईश्वरस्याब्रह्मत्वप्रसङ्गात्। नापीश्वरगतबृहत्त्वतुल्यं बृहत्त्वं जीवस्य प्रादुर्भूतमिति वाच्यम् ; तथा सति जातस्य तस्य बृहत्त्वस्य ‘जातस्य हि ध्रुवो मृत्यु’रिति शास्त्रान्नाशस्यावश्यम्भावित्वेन मोक्षस्यानित्यत्वप्रसङ्गात्। तस्माद् बन्धदशायां विद्यमानमेवाज्ञान- तिरोहितत्वेनाविद्यमानतुल्यं बृहत्त्वं मोक्षदशायामज्ञानावरणनाशात् पुनः स्फुरतीति ब्रह्मैव जीवः, तस्य च ब्रह्मभूतजीवस्य ब्रह्मणः प्रतिष्ठात्वं तु पूर्वोक्तविधया कल्पितमेवाविद्ययेति बोध्यम्। न च विद्यामविद्या कथं कल्पयेदिति वाच्यम् ; विद्याया बुद्धिवृत्तिविशेषात्मिकाया अविद्याकल्पितबुद्धिपरिणामात्मकत्वेना- विद्याकल्पितत्वसम्भवात्। न हि परमार्थदशायां विद्या विद्यते, येन कथं विद्याया अविद्याकल्पितत्वमिति शङ्क्येत। किं सुप्तिमूर्छादौ परमार्थदशायां केनापि विद्या अनुभूयते? तस्मात् परमार्थत एकमेवाद्वितीयं ब्रह्म, बन्धमोक्षविद्यादयः सर्वेऽप्यविद्याभूमावेवेति स्थितमद्वैतम् ॥२७॥
इति श्रीबेल्लङ्कोण्डोपनामक रामकविकृतौ श्रीभगवद्गीताशाङ्करभाष्यार्कप्रकाशे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः॥१४॥
[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]
ॐ श्रीपरमात्मने नमः