१३

॥अथ त्रयोदशोऽध्यायः॥

१(अर्जुन उवाच— प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च। एतद् वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव !॥)

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

प्रकृतिपुरुषादिपदार्थानां पूर्वाध्यायेषु तत्र तत्रोक्तत्वात् तद्याथात्म्यबुभुत्सया पृच्छत्यर्जुनः— प्रकृतिमिति। हे केशव! प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च ज्ञानं ज्ञेयं चेत्येतद् वेदितुमिच्छामि। का प्रकृतिः? कः पुरुषः? किं क्षेत्रम्? कः क्षेत्रज्ञः? किं ज्ञानम्? किं ज्ञेयम्? इति पृच्छामीत्यर्थः। इत्यर्जुनेन पदार्थषट्कं पृष्टम् , प्रकृतिक्षेत्र(ज्ञ)योः, पुरुषक्षेत्रज्ञयोश्चैक् यज्ञानाभावप्रयुक्तोऽयं पदार्थषट्कप्रश्नः। २यद्वा कार्यकरणसङ्घातलक्षणं शरीरं क्षेत्रं चराचरात्मकम्। तस्य पाषाणादेरचेतनस्य गगनादीनां च हेतुर्माया प्रकृतिः। ततश्च पटात् तन्तोरिव, क्षेत्रात् प्रकृतेर्भेदात् क्षेत्रप्रकृती द्वौ पदार्थौ, सङ्घाताकारपरिणतक्षेत्रातिरिक्तायाः पाषाणाद्याकारेण परिणतायाः कार्यावस्थ- प्रकृतेः, कारणावस्थप्रकृतेश्चापरिणतायाः सत्त्वात्। एवं क्षेत्रज्ञः संसारी प्रमाता, तस्यैव ज्ञातृत्वात्। पुरुषस्तु साक्षी, उदासीनत्वादिति पुरुषक्षेत्रज्ञावपि द्वौ पदार्थावित्यभिप्रायात् पदार्थषट्कप्रश्नोऽर्जुनस्य युक्त इति। एवम् अर्जुनप्रश्नानुरोधेन भगवताऽपि पदार्थषट्कमेवोक्तं च, ‘इदं शरीरं क्षेत्रम्’ इति, ‘एतद् यो वेत्ति स क्षेत्रज्ञः’ इति, ‘तत्त्वार्थ- ज्ञान[तत्त्वज्ञानार्थ]दर्शनम् , एतज्ज्ञानमिति प्रोक्तम्’ इति, ‘भूतभर्तृ च तज्ज्ञेयम्’ इति, ‘पुरुषं प्रकृतिं चैव विद्ध्यनादी उभावपि’ इति च वक्ष्यमाणत्वात्। यद्वा पदार्थचतुष्टयमेवार्जुनेन पृष्टम् ; प्रकृतिं प्रकृतिशब्दाभिधेयं क्षेत्रं, पुरुषं पुरुषशब्दाभिधेयं क्षेत्रज्ञं, ज्ञानं, ज्ञेयं चाहं वेदितु- मिच्छामीत्यर्थात्। अत एव भगवताऽपि पदार्थचतुष्टयमेव निरूपितं च। ‘इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। ३एतद् विज्ञाय मद्भक्तो मद्भावायोपपद्यते॥’ इत्युपसंहारात्। क्षेत्र(ज्ञ)स्योक्तत्वेन क्षेत्रज्ञश्चोक्त इति तत्र बोद्धव्यम्। न चैवमुपसंहारानन्तरं ‘प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपी’ति प्रकृतिपुरुषावपि निरूपिताविति वाच्यम् , ‘इदं शरीरं क्षेत्रम्’ इतिवद् ‘इयं प्रकृतिः, अयं पुरुषः’ इत्यनि- रूपितत्वात्। पूर्वं निरूपितयोः क्षेत्रक्षेत्रज्ञयोरेव प्रकृतिपुरुषशब्देन परामर्शनादिति। न च - क्षेत्रज्ञानज्ञेयज्ञानफलकीर्तनमिव, प्रकृतिपुरुषज्ञानफलमपि कीर्तयिष्यति भगवान्— ‘य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥’ इति; ततश्च प्रकृतिपुरुषावपि पृथग्ज्ञातव्यावेवेति - वाच्यम् ; फलैकत्वेन ज्ञानैकत्वाद् ज्ञेयैकत्वमपीति। न हि क्षेत्रक्षेत्रज्ञज्ञानातिरिक्तमस्ति प्रकृतिपुरुषज्ञानम् ; परन्तु क्षेत्रक्षेत्रज्ञावेव प्रकृतिपुरुषौ, तज्ज्ञानेन मोक्षः स्यादिति उक्त एवार्थोऽनुवाद्यते दार्ड्याय। न च - क्षेत्राद् भिन्ना प्रकृतिरस्ति, घटभिन्नमृद्वदिति - वाच्यम् ; ‘महाभूतान्यहङ्कारः’ इत्यष्टधा भिन्नायाः प्रकृतेरपि क्षेत्रत्वस्य वक्ष्यमाणत्वात्। न च क्षेत्रज्ञात् संसारिणः पुरुषो भिन्न इति वाच्यम् ; क्षेत्रज्ञस्यैव साक्षित्वात् , साक्ष्येव हि सर्वार्थद्रष्टृत्वेन ज्ञाता उदासीनश्च। संसारित्वं तु तस्याहङ्कारतादात्म्याध्यासजन्यम् ; तस्मात् क्षेत्रज्ञः पुरुष एव। प्रमाता संसारी त्वहङ्कार एव। तस्मात् पदार्थचतुष्टयमेवार्जुनेन पृष्टम्। अथवा - प्रकृतिं क्षेत्रं, पुरुषं क्षेत्रज्ञं ज्ञेयं, ज्ञानं चेत्येतद् वेदितुमिच्छामीति पदार्थत्रिकमेवार्जुनेन पृष्टम् , कृष्णेन पदार्थत्रिकस्यैव निरूपयिष्यमाणत्वात् ‘इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः’ इति। १. कुण्डलितो ग्रन्थः क्वाचित्कः। २. क्षेत्रप्रकृतिपदयोः, क्षेत्रज्ञपुरुषपदयोश्चार्थभेदमाह— यद्वेत्यादिना। ३. ‘मद्भक्त एतद् विज्ञाय’ इति प्रसिद्धः पाठः।

[[५८८]]

अनुभूतिस्वरूपाचार्यविरचितगीताभाष्यटिप्पणम् त्रयोदशाध्यायस्य व्यवहितेन सम्बन्धमाह— सप्तमेऽध्याय इत्यादिना। द्वादशाध्यायेनापि सम्बन्धान्तरमाह— आनन्दगिरिकृतव्याख्या प्रथममध्यमयोः षट्कयोः त्वम् तत्पदार्थावुक्तौ। अन्तिमस्तु षट्को २वाक्यार्थनिष्ठः ३सम्यग्धीप्रधानोऽधुनाऽऽरभ्यते। तत्र क्षेत्रा- ध्यायम् अन्तिमषट्काद्यमवतितारयिषुर्व्यवहितं वृत्तं कीर्तयति— सप्तम इति। प्रकृतिद्वयस्य स्वातन्त्यं वारयति— ईश्वरस्येति। ‘भूमिः’ इत्यादिनोक्ता ४सत्त्वादिरूपा प्रकृतिः अपरेत्यत्र हेतुमाह— संसारेति। ‘इतस्त्वन्याम्’ इत्यादिनोक्तां प्रकृतिमनुक्रामति— परा चेति। परत्वे हेतुं सूचयति— ईश्वरात्मिकेति। किमर्थमीश्वरस्य प्रकृतिद्वयमित्याशङ्क्य , कारणत्वार्थमित्याह— याभ्यामिति। वृत्तमनूद्य वर्तिष्य- माणाध्यायारम्भप्रकारमाह— तत्रेति। व्यवहितेन सम्बन्धमुक्त्वा, अव्यवहितेन तं विवक्षुरव्यवहितमनुवदति— अतीतेति। निष्ठोक्तेति सप्तमेऽध्याये सूचिते द्वे प्रकृती ईश्वरस्य - त्रिगुणात्मिकाऽष्टधा भिन्ना अपरा, संसारहेतुत्वात् ; परा चान्या जीवभूता क्षेत्रज्ञलक्षणा ईश्वरात्मिका, याभ्यां प्रकृतिभ्यामीश्वरो जगदुत्पत्तिस्थितिलयहेतुत्वं प्रतिपद्यते। तत्र क्षेत्र- क्षेत्रज्ञलक्षणप्रकृतिद्वयनिरूपणद्वारेण तद्वतः ईश्वरस्य तत्त्वनिर्धारणार्थं १क्षेत्राध्यायः आरभ्यते। अतीतानन्तराध्याये च भाष्यार्कप्रकाशः यद्वा सप्तमाध्याये ईश्वरस्य प्रकृतिद्वयमस्तीत्युक्तम् , ततः पृच्छत्यर्जुनः— प्रकृतिमिति। क्षेत्रं क्षेत्रलक्षणामष्टधा भिन्नामपरां प्रकृतिं, पुरुषं क्षेत्रज्ञं तल्लक्षणां परां प्रकृतिं, ज्ञेयं तत्प्रकृतिद्वयवन्तमीश्वरम् , ज्ञानं च वेदितुमिच्छामीति पदार्थचतुष्टयप्रश्नः। तथैव भगवदुत्तरं च। क्षेत्रज्ञलक्षणायाः प्रकृतेः ज्ञेयाद् ब्रह्मणोऽनन्यत्वात् ‘इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः’ इत्युक्तमिति। ननु पदार्थद्वयमेव प्रष्टव्यम् - दृग्दृश्ययोर्द्वयोरेव पदार्थत्वात्। तथा च प्रकृतिं क्षेत्रं ज्ञेयं दृश्यं वस्तु, पुरुषं क्षेत्रज्ञं ज्ञानं दृग्वस्तु च वेदितुमिच्छामीत्यन्वयः। प्रकृत्यादिशब्दप्रतिपाद्यं दृश्यं, पुरुषादिशब्दप्रतिपाद्यं दृग्वस्तु च ज्ञातुमिच्छामीत्यर्थ इति चेत् , मैवम् ; भगवता पदार्थत्रिकस्योक्तत्वात्। न च ज्ञानस्य भगवदुक्तस्य क्षेत्रेऽन्तर्भाव इति वाच्यम् ; क्षेत्रं सर्वमुक्त्वा पश्चात् पृथक् ज्ञानस्योक्तत्वात्। ‘एतज्ज्ञानमिति प्रोक्तम्’ इति निरूपितत्वात्। अन्यथा ‘एतत् क्षेत्रं समासेन’ इत्येतत्प्रागेव ज्ञानमपि महाभूतादिषु ब्रूयात् , ‘एतज्ज्ञान- मिति प्रोक्तम्’ इति च न ब्रूयात्। यद्यपि वस्तुतो ज्ञानमपि तत्त्वार्थदर्शनादिलक्षणं बुद्धिधर्मत्वात् क्षेत्रमेव, तथापि तस्यावश्य- सम्पादनीयत्वद्योतनाय पृथक्प्रश्नानुसारेण च पृथगुक्तं क्षेत्रादिति मन्तव्यमिति। वस्तुतस्तु अर्जुनेनाज्ञत्वात् स्वस्य, अज्ञत्वमात्मन्यारोप्य, अज्ञदृष्ट्या वा अज्ञजनबोधनार्थं पदार्थषट्कमेव पृष्टम्। न ह्यज्ञो वेद प्रकृतिक्षेत्रयोः पुरुषक्षेत्रज्ञयोः क्षेत्रज्ञब्रह्मणोर्वा ऐक् यम्। सति तु तद्वेदने प्रश्नस्यैवायोगात्। अज्ञातार्थज्ञानाय हि प्रश्नः। भगवांस्तु— तदाशयमालक्ष्य मैवं पदार्थषट्कभ्रमं कार्षीः, किन्तु प्रकृतिपुरुषावेव क्षेत्रक्षेत्रज्ञावित्युच्येते; अतः पदार्थचतुष्टयमेव तुभ्यं मया निरूपयिष्यत इति सूचयन् प्रत्युत्तरं वक्तुमारब्धवान्— इदं शरीरमित्यादिना। कथमन्यथा प्रश्नक्रमं विहाय क्षेत्रमादौ निरूपयेद् भगवान्? कथं वा ततः क्षेत्रज्ञम्? प्रकृतिर्ह्यादौ निरूपयितव्या, पश्चात्पुरुष इति क्रमात्। न चैवं पदार्थचतुष्टयं निरूप्यापि ‘पदार्थत्रयमेव मया निरूपितं ते’ इति कुत उपसंहारवाक् ये भगवानुक्तवानिति वाच्यम् ; ‘क्षेत्रज्ञं चापि मां विद्धि’ इति क्षेत्रज्ञज्ञेयब्रह्मणोरेक- त्वस्योक्तत्वादिति सङ्क्षेपः। वस्तुतस्तु प्रक्षिप्त एवायं श्लोकः, श्रीशङ्करानन्दगिरि-श्रीधर-मधुसूदन-रामानुजादिभिरव्याकृतत्वात् , नागरग्रन्थेष्वसत्त्वाच्च। अष्टधेति। प्रकृतिमहदहङ्कारपञ्चतन्मात्ररूपेणेत्यर्थः। अपरा निकृष्टा। तत्र हेतुमाह— संसारहेतुत्वादिति। अज्ञानतत्कार्य- प्रयुक्तो हि संसारः। क्षेत्रज्ञविवर्तत्वान्मायापरिणामत्वाच्च जगतः, ईश्वरस्य स्वतो मायाधिष्ठानद्वारेण च जगज्जन्मादिहेतुत्वमित्याह— याभ्यामिति। तद्वत इति। प्रकृतिद्वयवत इत्यर्थः। सच्चिदानन्दलक्षणो मायालक्षणश्चेत्युभौ स्वभावौ स्तः परमेश्वरस्येति भावः। १. ‘क्षेत्रज्ञाध्यायः’ इति पा.। २. त्वंतत्पदार्थयोरैक् यं वाक्यार्थः। तत्तात्पर्यक इत्यर्थः। ३. सम्यग्धीः तत्त्वज्ञानम् प्रधानं प्रयोजनं यस्य सः। ४. त्रिगुणात्मिका।

[[५८९]]

यावदध्यायपरिसमाप्तिर्भवति तावद् - अध्यायपरिसमाप्तिपर्यन्तमित्यर्थः। यथा ते संन्यासिनो वर्तन्ते तथा संन्यासिनां निष्ठोक्तेत्यन्वयः। संन्यासिनस्ते केन वा तत्त्वज्ञानेन युक्ताः सन्तो यथोक्तधर्माचरणेन भगवतः प्रिया भवन्तीत्येतदुक्तमित्येवमर्थ एतत्प्रश्नोत्तरार्थ इत्यर्थः। ईश्वरतत्त्वनिर्धारणार्थेन सहास्य समुच्चयार्थश्चकारः। सप्तमाध्याये सङ्क्षेपेणोक्तानां क्षेत्रक्षेत्रज्ञेश्वराणां याथात्म्यनिर्धारणार्थं, संन्यासिनां ज्ञाननिरूपणार्थं पूर्वाध्यायोक्तधर्मवतां चायमध्यायः आरभ्यते भगवता बादरायणेनेत्यर्थः। क्षेत्रं, क्षेत्रज्ञः, ईश्वरः, संन्यासिनां क्षेत्रादियाथार्थ्यविदां ज्ञानं चेति पदार्थचतुष्टयमस्मिन्नध्याये निरूप्यत इति भावः। प्रकृतिपुरुषकथनं तु क्षेत्रक्षेत्रज्ञनिरूपणादनन्यमेवेति न प्रकृतिपुरुषयोर्निरूपणमपीह क्रियत इत्युक्तम्। इदमिति। इदं प्रत्यक्षादिप्रमाणैरुपलभ्यमानमित्यर्थः। शीर्यत इति शरीरम्। किं तद्? अत आह— प्रकृतिश्चेति। सर्वकार्य- करणविषयाकारेण परिणता त्रिगुणात्मिका प्रकृतिः पुरुषस्य भोगापवर्गार्थकर्तव्यतया हेतुना देहेन्द्रियाद्याकारेण संहन्यत इत्यन्वयः। महाभूतानि पञ्चाहङ्कारो बुद्धिरिति प्रकृतिविकृतयः सप्त कार्यशब्देनोच्यन्ते; इन्द्रियाणि दश, मन एकं च करणशब्देन; इन्द्रियगोचराः शब्दादयः पञ्च विषयशब्देनेति विवेकः। तथा च त्रयोविंशतितत्त्वाकारेण परिणामात् ‘सर्वकार्यकरणविषयाकारेण परिणते’त्युक्तम्। त्रयो गुणाः सत्त्वादयः। प्रकृतिर्मूलप्रकृतिर्माया; पुरुषस्य जीवस्य भोगापवर्गरूपावर्थौ कर्तव्यौ सम्पादयितव्यौ यस्याः, तया [तत्तया]। भोगापवर्गसम्पादनार्थमित्यर्थः। शरीरं विना जीवस्य भोगमोक्षयोरसिद्धेः। अत एव हि ‘आत्मनो भोगायतनं शरीरम्’ इति शरीरस्य लक्षणमुक्तं तार्किकैः। तत्र च मनुष्यशरीर एव जीवेन मोक्षः सम्पादयितव्यः। कीटादिशरीरेषु ज्ञानाभावेन तदयोगादिति बोध्यम्। इदम्पदेन चात्र मनुष्यशरीरमेव निर्दिष्टमिति ज्ञायते। भोगस्तु सर्वशरीरसाधारणः। अत एव भोगायतनत्वमात्रमेव शरीरस्य लक्षणम्। इह तु मनुष्यशरीरस्य भगवता विवक्षितत्वाद् भोगापवर्गार्थकर्तव्यतयेत्युक्तं भाष्यकारैः। देहेन्द्रियाद्याकारेण आदिपदाद् विषयग्रहणम्। पञ्चीकृतपञ्चभूतकार्यं देहः। स च चराचरभेदेन द्विविधः। इन्द्रियादिसमवेत३देहाकारेणेत्यर्थः। यद्वा देहः स्थूलशरीरम् , ‘दिह उपचये’ इति धातोः४, स्थूलस्यैव उपचयापचयदर्शनाच्च। इन्द्रियाणि दश, आदिपदात् प्राण- पञ्चकं मनश्च गृह्यते। तद्धि षोडशकं सूक्ष्मशरीरम्। तथा च स्थूलसूक्ष्मशरीराकारेणेत्यर्थः। संहन्यते संहता भवति। त्रयोविंशतितत्त्व- भाष्यार्कप्रकाशः ‘अद्वेष्टा सर्वभूतानाम्’ (भ.गी.१२.१३) इत्यादिना यावदध्यायपरिसमाप्तिः तावत् तत्त्वज्ञानिनां संन्यासिनां निष्ठा— यथा ते वर्तन्त इत्येतदुक्तम्। केन पुनस्ते तत्त्वज्ञानेन युक्ताः यथोक्तधर्माचरणाद् भगवतः प्रिया भवन्तीत्येवमर्थश्च अयमध्यायः आरभ्यते। १प्रकृतिश्च त्रिगुणात्मिका सर्वकार्यकरणविषयाकारेण परिणता पुरुषस्य भोगापवर्गार्थ- कर्तव्यतया देहेन्द्रियाद्याकारेण संहन्यते। सोऽयं सङ्घातः— इदं शरीरम्। अतीतानन्तरेति। ननु सप्तमेऽध्याये या प्रकृतिरुक्ता ततोऽन्यदेव शरीरमिहोच्यते। अतस्तेनास्य सम्बन्धः कथमित्या- शङ्क्याह— प्रकृतिश्चेति। पुरुषस्य भोगापवर्गलक्षणो योऽर्थः सः शरीरे सति सम्पद्यते। तत्कर्तव्यतया प्रकृतिर्देहाद्याकारेण संहन्यते। अतः शरीरस्य प्रकृत्यात्मकत्वाद् घटते सम्बन्ध इत्यर्थः। सम्बन्धः। निष्ठामेव व्याचष्टे—यथेति। वर्तन्ते धर्मजातमनुतिष्ठन्ति, तथा - पूर्वोक्तेन प्रकारेण सर्वमुक्तमिति योजना। अव्यवहितमेवानूद्य२ तेनोत्तरस्य सम्बन्धं सङ्गिरते— केनेति। तत्त्वज्ञानोक्तेरुक्तार्थेन समुच्चयार्थश्चकारः। जीवानां सुखदुःखादिभेदभाजां प्रतिक्षेत्रं भिन्नानां नाक्षरेणैक्यमित्याशङ्क्य , संसारस्यात्मधर्मत्वं निराकृत्य संघातनिष्ठत्वं वक्तुं संघातोत्पत्तिप्रकारमाह— प्रकृतिश्चेति। भोगश्चापवर्गश्चार्थौ, तयोरेव कर्तव्यतयेति यावत्। नन्वनन्तरश्लोके शरीरनिर्देशात् तस्योत्पत्तिर्वक्तव्या, किमिति संघातस्योच्यते? तत्राह— सोऽयमिति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आनन्दगिरिकृतव्याख्या १. प्रकृतिश्चेत्यादिग्रन्थः रा.पाठे श्लोकोत्तरं ज्ञेयः। २. ‘एवमनूद्य’ इति पा.। ३. सहितेत्यर्थः। ४. देहशब्दनिष्पत्तेरिति शेषः। अ. १३. श्लो.१ ]

[[५९०]]

श्रीभगवानुवाच— इदं शरीरं कौन्तेय ! क्षेत्रमित्यभिधीयते। एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः॥१॥

तदेतद् भगवानुवाच— इदमिति। इदमिति सर्वनाम्नोक्तं विशिनष्टि शरीरमिति। हे कौन्तेय ! क्षतत्राणात् , क्षयात् , क्षरणात् , क्षेत्रवद्वाऽस्मिन् कर्मफलनिर्वृत्तेः१ क्षेत्रमिति। इतिशब्द एवंशब्दपदार्थकः। ‘क्षेत्रम्’ इत्येवम् अभिधीयते कथ्यते। एतत् शरीरं क्षेत्रं यो वेत्ति विजानाति, आपादतलमस्तकं ज्ञानेन विषयीकरोति, स्वाभाविकेन सम्मेलनजन्यत्वाद् देहस्येति भावः। इदं च तत्त्वानां संहतत्वमीश्वरानुग्रहादेवेति भागवते ५प्रसिद्धम्। न हि जडा प्रकृतिः संहन्तुमीष्टे। सोऽयमिति। मायापरिणामदेहेन्द्रियादिसङ्घातः इत्यर्थः। शरीरस्य क्षेत्रशब्दवाच्यत्वे हेतुमाह— क्षतत्राणादिति। क्षतात् त्रायत इति क्षेत्रम्। ज्ञानोत्पादनद्वारा नरकपातादिलक्षणात् क्षतात् त्रायते हि पुमांसं शरीरम्। यद्वा भोगायतनत्वाच्छरीरस्य एतदभावे भोगक्षतिः स्यात् पुंस इति भोगक्षतिरूपात् क्षतात् पुमांसं त्रायते शरीरं भोगप्रदानद्वारेति। अथवा यथा चर्मादिलक्षणः कवचः शरीरं क्षतात् त्रायते, शरीरावरणत्वात् तस्य, तथा शरीरस्यापि जीवावरणत्वात् , स्वान्तःस्थितं शरीरिणं त्रायते क्षतादिदं शरीरम् । अत एव स्वताडनायागतं प्रबलं दृष्ट्वा नेत्रे निमीलयति पुरुषः - ताड्यतां नाम शरीरम् , मम पुनस्ताडनं मा भूदिति भ्रमेण। न च कुतस्तत्प्रत्ययस्य भ्रमत्वमिति वाच्यम् ; ताडनाद्यविषयत्वाद् नीरूपस्यात्मनः। हेत्वन्तरमाह— क्षयादिति। क्षीयत इति क्षेत्रम्। क्षयो वृद्धिप्रतियोगी, नाशो वा। स हि सर्वानुभवसिद्धः। व्युत्पत्त्यन्तरमाह— क्षरणादिति। क्षरतीति क्षेत्रम्। क्षरणं स्वस्वरूपात्प्रच्युतिः। शरीरं हि नैकरूपेणावतिष्ठते, भस्मादिरूपेण शरीरस्य परिणामात्। हेत्वन्तरमाह— क्षेत्रवदिति। क्षेत्रतुल्येऽस्मिन् शरीरे क्षेत्रशब्दप्रयोग औपचारिक इति भावः। क्षेत्रतौल्ये हेतुमाह— कर्मफलेति। यथा प्रसिद्धे व्रीह्यादिक्षेत्रे व्रीह्यादिसस्यफलसिद्धिः, तथा कर्मफलानां रोगारोग्यसुखदुःखादीनाम् अस्मिन् निष्पत्तेरिदं शरीरं क्षेत्रमित्युच्यते। पृषोदरादित्वाद् रूपसिद्धिः। इतिशब्दार्थमाह— एवंशब्दपदार्थक इति। एवंशब्दस्य यो विषयः पदार्थः, स एव इतिशब्दस्येत्यर्थः। तथा च ‘क्षेत्रमित्यभिधीयते’ इत्यस्य क्षेत्रशब्देनोच्यत इत्यर्थः। ‘स्वाभाविकेन ज्ञानेनापादतलमस्तकं विषयी- करोती’ति वेत्तिशब्दार्थः। यस्य ज्ञाने शरीरमिदमापादतलमस्तकं विषयो भवतीत्यर्थः। ज्ञानं विषयि, ज्ञेयास्तु विषया इति प्रसिद्धम्। आपादतलमस्तकमिति। पादतलादारभ्य मस्तकमभिव्याप्येत्यर्थः। पादतलं मस्तकं चेत्युभयमभिव्याप्येति वा। सर्वैरप्यवयवैः सहेत्यर्थः। सर्वमपीति यावत्। पश्वादयोऽपि हि स्वाभाविकेन ज्ञानेन स्वं शरीरं सर्वं विदन्ति, पुच्छादौ ताडितस्यापि पशोः शब्द एव पदार्थोऽस्येति शब्दपदार्थकः। इतिशब्देन एवंशब्दोऽभिधीयते, न हेतुत्वाद्यर्थान्तरमित्यर्थः॥१॥

उक्तेऽर्थे भगवद्वचनमवतारयति— तदेतदिति। तत्र २द्रष्टृत्वेन संघातदृश्यादन्यमात्मानं निर्दिशति— इदमिति। ४उक्तं प्रत्यक्ष- दृश्यत्वविशिष्टं किञ्चिदिति शेषः। शरीरस्यात्मनोऽन्यत्वं क्षेत्रनामनिरुक्त्या ब्रूते—क्षतेति। क्षयो नाशः, क्षरणमपक्षयः। यथा क्षेत्रे बीजमुप्तं फलति, तद्वदित्याह— क्षेत्रवद्वेति। क्षेत्रपदादुपरि स्थितम् इतिपदं क्षेत्रशब्दविषयम् , अन्यथा वैयर्थ्यादित्याह— इतिशब्द इति। क्षेत्रमित्येवम्३ अनेन क्षेत्रशब्देनेत्यर्थः। दृश्यं देहमुक्त्वा ततोऽतिरिक्तं द्रष्टारमाह— एतदिति। स्वाभाविकं मनुष्योऽहमिति ज्ञानम् , १. ‘निष्पत्तेः’ इति पा.। २. ‘दृश्यत्वेन द्रष्टुरात्मनः अन्यं संघातं निर्दिशति’ इति पाठः अपेक्षितः। ३. अत्र एवंशब्देन क्षेत्रशब्दः परामृश्यते। तथा चात्रेतिशब्दस्य क्षेत्रशब्देनेत्यर्थलाभः। एवमग्रे ‘क्षेत्रज्ञ इति’ इत्यत्रापि इतिशब्दस्य क्षेत्रज्ञशब्देनेत्यर्थो बोध्यः। ४. इदमा प्रत्यक्षदृश्यत्वविशिष्टं यदुक्तम् , तद् विशिनष्टि इत्यर्थः। ५. द्र. भागवतम् स्क.३. अ.२६।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[५९१]]

भयचलनादिदर्शनात्। एवं मनुष्योऽपि पादतले कण्टकेन विद्धः सन् , शिरसि केशेनाकृष्टः संश्च युगपच्छोचति। तस्मात् सर्वमपि शरीरं विषयीकरोत्येव स्वाभाविकज्ञानेन शरीरी। सर्वशरीरव्यापित्वादापादतलमस्तकं शरीरं व्याप्य हि शरीरी वर्तते। कथमन्यथा ‘शिरसि मे वेदना, पादे मे कण्टकः’ इति युगपदेव जानीयाच्छरीरी? अतो विभुरेव जीवः। अणुत्वे तु नैतत् सिध्येत् , अणोः सर्वशरीरव्यापि- वेदनोपलम्भासम्भवात्। मध्यमपरिमाणत्वे तु मनुष्यशरीरिणः पापवशात् कीटशरीरप्राप्तौ कीटशरीरे मनुष्यशरीरादुत्क्रान्तो जीवो न मायात् , शरीरसमपरिंमाणस्य शरीरादुत्क्रान्तिरपि न सिध्येत् , नासारन्ध्रादेरुत्क्रान्तिमार्गस्य सूक्ष्मत्वात्। शरीरादुत्क्रममाणश्च मध्य- मपरिमाणश्चेज्जीवः सर्वैः पार्श्वस्थैर्दृश्येत च, न तु तथा दृश्यते। तस्माद् विभुरेवायम्। तथा औपदेशिकेन ज्ञानेन वा शरीरं विभागशो विषयीकरोतीति वेत्तिशब्दस्यान्योऽर्थः। उपदेशाद् गुरोर्लब्धमौपदेशिकम् , तेन ज्ञानेन विभागशः आत्मानात्मविवेकपूर्वकम्। ‘अहमात्मा, इदमनात्मे’ति विवेकेनेत्यर्थः। इदं शरीरम् , इदमिन्द्रियम् , अयं विषय इति विवेकेनेति वा। न तु करचरणविभागात् , तस्य स्वाभाविकज्ञानविषयत्वात्। तं वेदितारमिति। विविच्याविविच्य वा शरीरस्य ज्ञातारमित्यर्थः। अविद्वद्वचनस्याप्रमाणत्वादाह— तद्विद इति। एतेन शरीरं क्षेत्रं, शरीरी क्षेत्रज्ञ इति सिद्धम्। इमावेव प्रकृतिपुरुषावपि। देहेन्द्रियादिसङ्घाताकारपरिणतप्रकृतेरेव क्षेत्रत्वाद्, एतस्मिन् क्षेत्रे पुरि शयनात् क्षेत्रज्ञस्य पुरुषत्वाच्च। एवं क्षेत्रक्षेत्रज्ञयोरेव प्रकृतिपुरुषत्वात् प्रकृतिपुरुषौ न पृथग् निरूपितौ श्रीकृष्णेन। ननु शरीरमेव क्षेत्रमित्युक्तम् , क्षेत्रस्य प्रकृतिकार्यत्वेऽपि कार्यादन्यत्वात् कारणस्य, क्षेत्रादन्यैव प्रकृतिः। अतो न क्षेत्र- निरूपणेन प्रकृतिर्निरूपितेति वक्तुं शक् यत इति चेत्? मैवम् ; इदं शरीरं क्षेत्रमित्युक्तम् , न त्विदं शरीरमेव क्षेत्रमिति। ततश्च शरीरादन्योऽपि क्षेत्रपदार्थः कश्चन भवितुमर्हत्येव। अत एव ‘महाभूतान्यहङ्कारः’ इत्यादिना क्षेत्रपदार्थं वक्ष्यति भगवान्। तथा च शरीरात्मना परिणता, पृथिव्यादिभूताद्यात्मना परिणता, अपरिणता मूलप्रकृतिश्च क्षेत्रमेवेति सर्वाऽपि प्रकृतिः क्षेत्रमेव, या ईश्वरस्यापर- प्रकृतित्वेन सप्तमाध्याये निर्दिष्टा सा। इदं शरीरं क्षेत्रमिति तु शरीरस्य सर्वजनप्रसिद्धत्वाच्छरीरादेव शरीरिणो विविच्य ज्ञातव्यत्वाद् मुमुक्षुणा, शरीरस्य क्षेत्रत्वं तावद् दर्शितं श्रीकृष्णेन। शरीरात्माभिमानो हि संसारस्य प्रथमं कारणम् , दारापत्याद्यभिमानानां शरीराभिमानमूलकत्वात्। शरीरशरीरिविवेचने कृते तु तन्नाशात् सर्वसंसारनाश इति शरीरशरीरिणावेव विविच्य ज्ञातव्यौ मुमुक्षुणा तावत्। तत्र च शरीरमेव तावत् ज्ञातव्यं यत्र स्वस्याभिमानः, तद्विवेकज्ञाने सति तु आत्मविवेकज्ञानं सुलभम्। आरोप्यसर्पमिथ्यात्व- ज्ञानपूर्वकत्वाद् अधिष्ठानरज्जुयाथार्थ्यज्ञानस्य। शरीरं हि क्षेत्रज्ञमायया अध्यस्तम्। अत एव शरीरमादौ निर्दिष्टम्। तच्चेदंशब्देन विशेषितम्। तेन च किं ज्ञायते? स्थूलं सूक्ष्मं कारणं वा सर्वमपि शरीरमिदम्प्रत्ययविषयत्वान्नैवात्मा; आत्मा ह्यहंप्रत्ययविषयः। ‘अहमिदं जानामी’ति सर्वैरहम्प्रत्ययविषयत्वेन वेदितुरात्मनो गृह्यमाणत्वादिति। अत एव ‘युष्मदस्मत्प्रत्ययगोचरयो’रिति युष्मदस्म- त्प्रत्ययविषयत्वमपि देहजीवयोर्विवेकायोपन्यस्तं भाष्यकारैः सूत्रभाष्यारम्भे। ‘एतद् यो वेत्ति’ इत्यनेन च वेदितुर्विषयिणः आत्मनो विषयाद् वेद्याच्छरीराद् वैलक्षण्यं दर्शितम्। अत एव ‘विषयविषयिणो’रिति विषयविषयित्वरूपं वैलक्षण्यं दर्शितमाचार्यैर्देहजीवयोः सूत्रभाष्ये। शरीरमित्यनेन च विनाशित्वमुक्तमिति विनाशिनः शरीराज्जीवस्याविनाशित्वलक्षणं वैलक्षण्यं सूच्यते। किञ्चात्मान्यस्य सर्वस्याप्यनित्यत्वाच्छरीरशब्देन३ क्षेत्रशब्दवाच्यतया वक्ष्यमाणं महाभूताद्यात्मकं सर्वं जगत् , तद्धेतुः प्रकृतिश्च ग्रहीतुं शक् यत एव। औपदेशिकं देहो नात्मा, दृश्यत्वादित्यादि। विभागशः स्वतोऽतिरिक्तत्वेनेत्यर्थः। क्षेत्रमित्यत्रेतिशब्दवदत्रापि इतिशब्दस्य क्षेत्रज्ञशब्द- विषयत्वमाह— इतिशब्द इति। क्षेत्रज्ञ इत्येवं क्षेत्रज्ञशब्देन तं प्राहुरिति सम्बन्धः। प्रवक्तॄन् प्रश्नपूर्वकमाह— क इत्यादिना॥१॥

१. ‘आहुः’ इति क्वचिन्न। आनन्दगिरीयानुसारेणापि नास्तीति ज्ञायते। तत्र ‘तं प्राहुरिति सम्बन्धः’ इति पूर्वेणान्वयोक्तेः। २. ‘विदन्ति विजानन्ति’ इति पा.। ३. शीर्यत इति शरीरमिति व्युत्पत्तेरिति भावः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. १ ] औपदेशिकेन वा वेदनेन विषयीकरोति विभागशः, तं वेदितारं प्राहुः कथयन्ति— क्षेत्रज्ञः इति। इतिशब्द एवंशब्द- पदार्थक एव, पूर्ववत् । ‘क्षेत्रज्ञः’ इत्येवम् आहुः१। के? तद्विदः। तौ क्षेत्रक्षेत्रज्ञौ ये विदन्ति२, ते तद्विदः॥१॥

[[५९२]]

एवं क्षेत्रक्षेत्रज्ञावुक्तौ किमेतावन्मात्रेण ज्ञानेन ज्ञातव्याविति? नेत्युच्यते— क्षेत्रज्ञमिति। क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहि। सर्वक्षेत्रेषु यः क्षेत्रज्ञो ब्रह्मादिस्तम्बपर्यन्तानेकक्षेत्रोपाधिप्रविभक्तः, तं अपि च ईश्वरस्यैव क्षेत्रज्ञत्वादीश्वरस्य च सर्वव्यापित्वात् सर्वमपीश्वरशरीरमेवेति शरीरशब्देन सर्वं सुग्रहमेवेति ज्ञायते। ४केवलयोगेन शरीरशब्दस्य सर्वानात्मवाचित्वेऽपि योगरूड्या देहवाचित्वादुक्तम् - ‘सङ्घातः’ इति भाष्यकृद्भिरिति॥१॥

क्षेत्रज्ञमिति। एतावन्मात्रेणेति। ‘शरीरं क्षेत्रम् , तज्ज्ञः क्षेत्रज्ञः’ इत्याकारेणेत्यर्थः। इति शङ्कायामिति नेत्युच्यते। तावन्मात्र- ज्ञानस्य फलाभावादिति भावः। युक्तं चैतत् - ‘इदम् शरीरं क्षेत्रम् , एतज्ज्ञोऽहं क्षेत्रज्ञः’ इति वेदनमात्रेण ‘अहं ब्रह्मे’ति सम्यग्दर्शना- सम्भवाद् ब्रह्मात्मज्ञानं विना संसारभयानिवृत्तेः। ‘य उदरमन्तरं कुरुते, अथ तस्य भयं भवती’ति श्रुतेः उद् [अरम्] अल्पमप्यन्तरं जीवेश्वरयोर्यः कुरुते तस्य भिन्नात्मज्ञानिनो भयं भवति। एवम् ‘ईश्वरोऽन्यः, अहमन्यः’ इति भेदज्ञानादेव ‘भीषाऽस्माद्वातः पवते’ इत्यादिश्रुतिप्रतिपादितविधया वाय्वादीनामीश्वराद्भीतिः। ईश्वरो हि जीवादन्यत्वेनाभिमतश्चेज्जीवान् नियमयति, यथा भृत्यादन्यत्वेना- भिमतो राजा भृत्यान्। अत एवेश्वरस्य स्वातन्त्यं, जीवानां पारतन्त्यं च। अभेदज्ञानिनस्तु नैतदस्ति, ईश्वरस्यैवात्मत्वात् क्व नियम्यनियामकभावः? क्व वा ईश्वराज्ञातिक्रमादिजन्यभयावकाशः? अस्माच्च सम्यग्दर्शनाज्जीवस्य सर्वसंसारनिवृत्तिरिति कृत्वा ‘क्षेत्रज्ञः ईश्वराभेदेन ज्ञातव्यः’ इत्ययमर्थोऽर्जुनेन[ऽर्जुनाय] श्लोकेनोच्यत इति भावः। न चेश्वराभेदज्ञानिनो यमादिभ्योऽस्ति भयमिति वाच्यम् ; ईश्वरपरतन्त्रत्वाद् यमादीनां, स्वस्य चेश्वरत्वात्। यद्वा ईश्वरस्य सर्वात्मत्वात् स्वस्य चेश्वरत्वाद् यमादीनामप्यात्मत्वेन नास्य भीतिः कुतश्चिदिति। अथवा ईश्वरे सर्वस्य कल्पितत्वाद् यमादीनामपि भूतानां कल्पितत्वेन मिथ्यात्वात् स्वस्य चात्मन ईश्वराभिन्नत्वेन सर्वाधिष्ठानत्वात् सत्यत्वान्नित्यत्वाच्च न मिथ्याभूतेभ्यो यमादिभूतेभ्यो भयमद्वैतिनः। मरीचिकोदकाद् भूमेः पङ्किलत्वभयाभावात्। तस्मात् सर्वसंसारनिबर्हणाय जीवेश्वराभेदो ज्ञातव्यो मुमुक्षुणा। ईश्वरे असंसारित्वनिश्चयात् तस्य। ‘जीवोऽहं संसारी, ईश्वर एक एवासंसारी’ति प्रत्येति सर्वः आस्तिकजनः। ननु संसार्यसंसारिणोर्जीवेश्वरयोरेकत्वज्ञानस्य भ्रमत्वात् कथं तादृशादपि ज्ञानान्मुमुक्षोः संसारनिवृत्तिरिति चेत्? मैवम् ; जीवे संसारस्य देहादितादात्म्याध्यासप्रयुक्तत्वात्। जीव(स्व)स्वरूपस्य च सच्चिदानन्दलक्षणस्य परमेश्वरत्वादिति। तस्मात् क्षेत्रज्ञः ईश्वराभेदेन ज्ञातव्यः इत्येवमर्थमयं क्षेत्रज्ञश्लोकः आरभ्यते— सर्वक्षेत्रेषु वर्तमानं क्षेत्रज्ञं च मामपि मामेव विद्धि। अपिरेवार्थे। ईश्वर एव सर्वक्षेत्रेषु क्षेत्रज्ञरूपेण वर्तत इति विद्धीत्यर्थः। सर्वक्षेत्रेष्विति बहुवचनात् , क्षेत्रज्ञमित्येकवचनाच्च शरीरानेकत्वं जीवैकत्वं च बोध्यत इत्यभिप्रायादाह— ब्रह्मादीति। ईश्वरस्यैव क्षेत्रज्ञत्वादीश्वरस्य चैकत्वात् क्षेत्रज्ञः एक एव। स च महाकाशो घटाद्युपाधिभिरिव ब्रह्मादिस्तम्बपर्यन्तैरनेकैः क्षेत्रलक्षणोपाधिभिः प्रकर्षेण विभक्तः। अत एव नानाजीवभ्रमो लौकिकानां तार्किकादीनां च। न ह्युपाधि- दृश्यानां दुःखादीनां १भेदकानां यावद्देहभाविनामनात्मधर्मत्वसिद्धये द्रष्टारं देहादन्यमुक्त्वा, सांख्यानामिव २तावन्मात्रेण मुक्ति- निवृत्तये तस्य सर्वदेहेष्वैक्योक्तिपूर्वकं स्वेन परमार्थेनाक्षरेणैक् यं३ वृत्तमनूद्य प्रश्नद्वारा दर्शयति— एवमित्यादिना। यथोक्तलक्षणं दृश्याद् देहान्निष्कृष्टं द्रष्टारमित्यर्थः। चापि इति निपातौ जीवस्याक्षरत्वज्ञानस्य देहादन्यत्वज्ञानेन समुच्चयार्थौ भिन्नक्रमौ ‘न क्षेत्रज्ञं सांख्यवद् दृश्यादन्यमेव विद्धि , किन्तु मां चापि विद्धी’ति सम्बध्येते। यः सर्वक्षेत्रेष्वेकः क्षेत्रज्ञस्तं मामेव विद्धीति सम्बन्धं सूचयति—सर्वेति। १. दुःखादीनां प्रतिदेहं व्यवस्थयोपलम्भात् आत्मभेदकत्वेन पराभिमतानामित्यर्थः। २. आत्मनो देहादिव्यतिरेकज्ञानमात्रेणेत्यर्थः। सांख्यमते हि प्रकृतिपुरुष- विवेकख्यातेः अपवर्गसाधनत्वमुपगतम्। ‘तन्मात्रेण’ इति पा.। ३. ऐक् यं दर्शयतीत्यन्वयः। ४. शरीरशब्देन रूड्यर्थग्रहणे हि सकलानात्मासंग्रहः, योगार्थग्रहणे तु रूड्यर्थस्य देहस्यापि तदन्तर्भावात् तत्संग्रह इति भावः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम॥२॥

[[५९३]]

निरस्तसर्वोपाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धीत्यभिप्रायः। हे भारत ! यस्मात् क्षेत्रक्षेत्रज्ञेश्वरयाथात्म्यव्यति- रेकेण न ज्ञानगोचरमन्यदवशिष्टमस्ति, तस्मात् क्षेत्रक्षेत्रज्ञयोः ज्ञेयभूतयोः यद् ज्ञानम् - क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तद् ज्ञानं सम्यग्ज्ञानमिति मतम् अभिप्रायो मम ईश्वरस्य विष्णोः। भेदादुपहितस्य वास्तवो भेदो भवितुमर्हति। अत एव ‘न त्वेवाहं जातु नासम्’ इति श्लोकभाष्ये भाष्यकारैरुक्तम्‘देहभेदानुवृत्त्या बहुवचनं नात्मभेदाभिप्रायेण’ इति। तमिति। यः प्रविभक्तस्तं क्षेत्रज्ञमित्यर्थः। निरस्तसर्वोपाधिभेदं सर्वोपाधिविशेषविनिर्मुक्तमित्यर्थः। अत एव सदसदादिशब्दप्रत्ययागोचरं यदिन्द्रियादिगोचरं तद् वस्तु सदित्युच्यते। आत्मा त्वव्यक्तत्वान्न सच्छब्दज्ञानविषयः, यदविद्यमानं तदसदित्युच्यते। आत्मा तु विद्यमानत्वादसच्छब्दप्रवृत्त्यविषयः। आदिपदाद् द्रष्टृदृश्यादिशब्दग्रहणम्। आत्मा न द्रष्टा, निर्धर्मकत्वाद् , दृश्याभावाच्च। नापि दृश्यम् , अनुपलभ्यमानत्वादिति बोध्यम्। न च कथमुपाधिप्रविभक्तमुपाधिरहितत्वेन जानीयाद् विद्वानिति वाच्यम् ; उपाधीनां मायया कल्पितत्वेनोपाधिप्रविभक्तत्वस्य वस्तुतः क्षेत्रज्ञे अभावात्। तथा च मायया उपाधिप्रविभक्तत्वेन हेतुना नानात्वेन संसारित्वेनानीश्वरत्वेन च प्रतीयमानोऽयं क्षेत्रज्ञः। वस्तुत एक एवेश्वरो निरुपाधिकः परमात्मेति ज्ञातव्यः इति सिद्धम्। श्लोकस्योत्तरार्धकथने हेतुमाह— यस्मादिति। क्षेत्रं च क्षेत्रज्ञेश्वरश्च क्षेत्रक्षेत्रज्ञेश्वरौ, तयोर्याथात्म्यं तत्त्वम्। यद्वा क्षेत्रं क्षेत्रज्ञ ईश्वरश्चेति त्रयाणां द्वन्द्वः। अज्ञदृष्ट्या क्षेत्रज्ञेश्वरयोर्द्वयोर्ग्रहणम्। ज्ञानगोचरं ज्ञानविषयम् , ज्ञेयमिति यावत्। अन्यन्नास्ति। क्षेत्रक्षेत्रज्ञयोः प्रकृतिपुरुषयोर्दृश्यदृशोर्द्वयोरेव पदार्थत्वेन तृतीयपदार्थाभावादिति भावः। अथवा इदं क्षेत्रं शरीरमनात्मा, क्षेत्रज्ञोऽहमीश्वर आत्मेति ज्ञानात् सर्वसंसारनिवृत्तेः संसारनाशायान्यज्ज्ञातव्यं नास्तीति भावः। तस्मादिति। क्षेत्रक्षेत्रज्ञेश्वरयाथात्म्यव्यतिरिक्तज्ञातव्यांशाभावा- दित्यर्थः। ज्ञेयभूतयोरिति। ज्ञानस्वरूपोऽपि क्षेत्रज्ञो ज्ञेय एव, ‘मनसैवानुद्रष्टव्यम्’ इति श्रुतेः, ‘शास्त्रयोनित्वात्’ इत्यधिकरणाच्च। ज्ञेय- त्वस्य मायया कल्पितत्वादिति भावः। येन ज्ञानेन क्षेत्रक्षेत्रज्ञौ विषयीक्रियते तज्ज्ञानं क्षेत्रक्षेत्रज्ञयोर्ज्ञानमित्युच्यत इत्यन्वयः। यस्मिन् ज्ञाने क्षेत्रं क्षेत्रज्ञश्च विषयौ भवतः, तज्ज्ञानमित्यर्थः। क्षेत्रक्षेत्रज्ञविषयकं ज्ञानमिति यावत्। इदं क्षेत्रमिति, अहं क्षेत्रज्ञ ईश्वर इति च क्षेत्र- क्षेत्रज्ञयोर्यदपरोक्षज्ञानं तदिति भावः। ननु यत् क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानमिति सर्वस्यापि मतमेवेति कृत्वा किं मम मतमित्युच्यते? अत आह— सम्यग्ज्ञानमिति। संसारनिवर्तकत्वं ज्ञानस्य सम्यक्त्वम्। क्षेत्रक्षेत्रज्ञज्ञानमेव सम्यग्ज्ञानमिति मम मतं, न तु घटपटादिज्ञानम्। तार्किकादयस्तु घटादिज्ञानमपि सम्यग्ज्ञानमिति मन्यन्ते। यद्वा इदं क्षेत्रमहं क्षेत्रज्ञेश्वर इति यज्ज्ञानं तदेव सम्यग्ज्ञानमिति मम मतं, अन्येषां तु भिन्नात्मज्ञानमेव सम्यग्ज्ञानमिति मतमिति भावः। ननु यथा तार्किकादिमतं तवाग्राह्यं, तथा तवापि मतं तेषामग्राह्यम् , अत आह— ममेश्वरस्य विष्णोरिति। ईश्वरस्य मम यदेव मतं तदेव सर्वैर्ग्राह्यमिति भावः। १.तत् = क्षेत्रक्षेत्रज्ञयोः विवेकज्ञानम्। भेदस्याविद्याकल्पितस्यावास्तवत्वात् तज्ज्ञानं कथं सम्यग्ज्ञानमिति शङ्का। सत्यम् , अखण्डब्रह्मात्मज्ञानमेव सम्यग्ज्ञानम्। तदौपयिकत्वात् तु सम्यग्ज्ञानमिदम्। तथाहि— जीवानां संसारिणां प्रतिक्षेत्रं भिन्नानाम् असंसारिणैकेन परमात्मना कथमभेदः स्यादित्याशङ्कायां, संसारस्य भिन्नत्वस्य चाविद्याकल्पितानात्मधर्मत्वान्न जीवस्य धर्मः संसारित्वं भिन्नत्वं चेति वक्तव्यम् । तदर्थं च देहेन्द्रियान्तःकरणेभ्यः क्षेत्रेभ्यो विवेकेन क्षेत्रज्ञः पुरुषो जीवः प्रतिक्षेत्रमेक एव निर्विकारः इति प्रतिपादनीयम्। तेन जीवस्वरूपस्य स्वतो भेदाद्यभावात् परमात्माभेदः अविरुद्धः। इत्येतदर्थं क्षेत्रक्षेत्रज्ञविवेकज्ञानम् आवश्यकम् इति सम्यग्ज्ञानौपयिकत्वं तस्येति । अत एव प्रतियोगितया क्षेत्रनिरूपणमिह युज्यते। यत्तु क्षेत्रशब्देनाव्यक्तादिकं सर्वं गृह्यते। तेन सर्वज्ञ ईश्वरः क्षेत्रज्ञः। क्षेत्रज्ञत्वविशिष्टभगवज्ज्ञानोपयोगितया क्षेत्रनिरूपणमिति। तदयुक्तम् , एवं हि विशिष्टबुद्धौ विशेषणज्ञानविधया क्षेत्रनिरूपणस्योपयोग उक्तो भवति। न चेह तदपेक्ष्यते। भगवान् सर्वज्ञः इति ज्ञापनार्थं सर्वनिरूपणादर्शनात् तद्वदिहाप्युपपत्तेः। क्षेत्रमात्रनिरूपणेनासंकुचितसर्वज्ञत्वस्यासिद्धेश्च। भाष्यार्कप्रकाशः तत्तत्क्षेत्रोपाधिकभेदभाजः तत्तच्छब्दधीगोचरस्य कथं तद्विपरीतब्रह्मत्वधीरित्याशङ्क्याह—ब्रह्मादीति। उत्तरार्धं विभजते—यस्मादिति। तदेव विशिनष्टि— क्षेत्रेति। न च - भेदविषयत्वान्न सम्यग्ज्ञानं १तदिति - युक्तम् , तस्य विवेकज्ञानस्य वाक्यार्थज्ञानद्वारा मोक्षौपयिकत्वेन सम्यक्त्वसिद्धेरिति भावः। आनन्दगिरिकृतव्याख्या

[[अ. १३. श्लो. २]] [[५९४]]

‘क्षेत्रज्ञं चापि मां विद्धी’त्यनेन क्षेत्रज्ञेश्वरैकत्वमुक्तम् , तदाक्षिपति— ननु सर्वक्षेत्रेष्विति। किमीश्वरस्य क्षेत्रज्ञमात्रत्वं, क्षेत्रज्ञस्य वा ईश्वरमात्रत्वमिति वाच्यम्। प्रथमे संसारित्वमीश्वरस्य स्यात्। द्वितीये संसार्यभावः स्यादित्यर्थः। ननु नास्त्येव चैतन्यैकरसं वस्तु विहायेश्वरः, संसारी वेत्याशङ्क्याह— तच्चोभयमिति।१…प्रत्यक्षेण गृह्यते येन विरोधः स्यादित्याशङ्क्याह— प्रत्यक्षेण तावदिति। आदिशब्दसूचितमनुमानविरोधमाह— जगद्वैचित्र्योपलब्धेरिति। केचिज्जन्मत एव सुखिनः, अन्ये

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

नन्वीश्वरोक्तोऽप्यसङ्गतार्थः कथं स्वीकार्योऽस्माभिरिति। तदुक्तार्थासाङ्गत्यमेव दर्शयति— नन्वित्यादिना। ‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरेकः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति॥’ इति श्रुत्या, स्मृत्यनुभवाभ्यां च, जीवाः संसारिणः कर्मफलभोक्तारः, ईश्वरस्त्वसंसारी साक्षीति स्थितायां वस्तुगतौ, तां विहाय सर्वक्षेत्रेष्वेक एवेश्वरः क्षेत्रज्ञोऽस्ति, न तद्व्यतिरिक्तः कश्चन भोक्ता संसारी जीवोऽस्तीत्युक्तौ, ततः ईश्वरस्य संसारित्वं प्राप्तम् , ईश्वरव्यतिरेकेण संसारिणोऽभावात् संसाराभाव- प्रसङ्गो वा प्राप्तः। न चेष्टापत्तिरित्याह— तच्चोभयमनिष्टमिति। तत्र हेतुमाह— बन्धेति। नित्यमुक्तस्येश्वरस्यैव संसारित्वेन बद्धत्वे तदन्यस्य च जडत्वे मोचकस्य चेतनान्तरस्याभावान्मुक्त्यनुपपत्तिः। ईश्वरस्य च स्वतन्त्रत्वेन भाव्यत्वाद् बन्धानुपपत्तिः। न हि स्वतन्त्रः कश्चित् स्वयं बन्धमनुभवति। अस्वतन्त्रस्य च नेश्वरत्वोपपत्तिः। ईश्वरात् परस्यान्यस्याभावादीश्वरस्य पारतन्त्यानुपपत्तिश्च। न च प्रकृतिपरतन्त्रत्वमीश्वरस्येति वाच्यम् ; प्रकृतेरेवेश्वरपरतन्त्रत्वात्। जडवस्तु हि चेतनपरतन्त्रं लोके दृश्यते। प्रकृतिश्च जडा। ईश्वरश्चेतनः। तस्मादीश्वरपरतन्त्रैव प्रकृतिरिति नेश्वरस्य पारतन्त्योपपत्तिः, ईश्वरत्वस्यैवाभावप्रसङ्गात्। तथा संसाराभाववादे च बन्धमोक्षयोरनुपपत्तिरेव। न च संसाराभाववादे बन्धस्यैवानुपपत्तिरिति वाच्यम् ; बन्धपूर्वकत्वेन मोक्षस्य बन्धाभावे मोक्षाभावात्। पश्वादिर्हि बद्ध एव मुच्यते, न त्वबद्ध इति। एवं बन्धमोक्षयोरसिद्धौ तद्धेतुशास्त्रस्यापि वैयर्थ्यमेव प्रसज्यते। ततश्च मूलच्छेदप्रसङ्गः, वेदान्तशास्त्रस्यैवानवतारात्। एवं व्यर्थशास्त्रकर्तृत्वेनेश्वरस्यासर्वज्ञत्वप्रसङ्गश्च। संसाराभावप्रसङ्गे दोषान्तरमाह— प्रत्यक्षेति। तत्र प्रत्यक्षप्रमाणविरोधं दर्शयति— प्रत्यक्षेणेति। उपलभ्यते अनुभूयत इत्यर्थः। सुखदुःखे तद्धेतूनि३ शीतोष्णादीनि तल्लक्षणः। प्रत्यक्षादीत्यादिपदगृहीतानुमानप्रमाणं दर्शयति— जगदिति। जगद्वैचित्र्यान्यथानुपपत्त्या लिङ्गेन धर्माधर्मनिमित्तसंसारोऽनुमीयते, धनिकत्वदारिद्र्यरुग्णत्वनीरोगत्वसुखित्वदुःखित्वराजत्वभृत्यत्वभार्यात्वभर्तृत्वप्रमुखं जगद्वैचित्र्यम्। तद्धि धर्माधर्मप्रयुक्तं धर्मवशाद् जीवेश्वरयोरेकत्वमुक्तमाक्षिपति— नन्विति। जीवेश्वरयोरेकत्वे - जीवस्येश्वरे वा, तस्य जीवे वाऽन्तर्भावः? नाद्यः; जीवस्य परस्मादन्यत्वाभावे संसारस्य निरालम्बनत्वानुपपत्त्या२ परस्यैव तदाश्रयत्वप्रसङ्गादित्यर्थः। ‘अनश्नन्नन्यो अभिचाकशीति’ इति श्रुतेर्न तस्य संसारितेत्याशङ्क्य द्वितीयं दूषयति—ईश्वरेति। जीवे चेदीश्वरोऽन्तर्भवति, तदाऽपि ततोऽन्यसंसार्यभावात् , तस्य च संसारोऽनिष्ट इति संसारो जगत्यस्तं गच्छेदित्यर्थः। प्रसङ्गद्वयस्येष्टत्वं निराचष्टे— तच्चेति। संसाराभावे ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ इत्यादिबन्ध- शास्त्रस्य, तद्धेतुकर्मविषयकर्मकाण्डस्य चानर्थक्यम् ; ईश्वराश्रिते च संसारे तदभोक्तृत्वश्रुतेर्ज्ञानकाण्डस्य मोक्षतद्धेतुज्ञानार्थस्यानर्थक्यम् ; अतो न प्रसङ्गयोरिष्टतेत्यर्थः। संसाराभावप्रसङ्गस्यानिष्टत्वे हेत्वन्तरमाह— प्रत्यक्षादीति। तत्र प्रत्यक्षविरोधं प्रकटयति— प्रत्यक्षेणेति। १. अत्र ग्रन्थपातोऽनुमीयते। २. निराश्रयत्वानुपपत्त्येत्यर्थः। ३. ‘तद्धेतवः’ इति पाठो युक्तः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[जीवब्रह्माभेदे पूर्वपक्षः] ननु सर्वक्षेत्रेष्वेक एवेश्वरः, नान्यः तद् व्यतिरिक्तो भोक्ता विद्यते चेत् , तत ईश्वरस्य संसारित्वं प्राप्तम्। ईश्वरव्यतिरेकेण वा संसारिणोऽन्यस्याभावात् संसाराभावप्रसङ्गः। तच्चोभयमनिष्टम् ; बन्धमोक्षतद्धेतुशास्त्रानर्थक् यप्रस- ङ्गात् , प्रत्यक्षादिप्रमाणविरोधाच्च। प्रत्यक्षेण तावत् सुखदुःखतद्धेतुलक्षणः संसारः उपलभ्यते। जगद्वैचित्र्योपलब्धेश्च धर्माधर्मनिमित्तः संसारोऽनुमीयते। सर्वमेतदनुपपन्नम् आत्मेश्वरैकत्वे।

[[५९५]]

[जीवब्रह्माभेदे सिद्धान्तः] न ; ज्ञानाज्ञानयोरन्यत्वेनोपपत्तेः। ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’ (क.उ.२.४)। १तथा धनिकत्वादिः, अधर्मवशाद् दारिद्र्यादिश्च भवतीत्याभ्यामेव धर्माधर्माभ्यां सुखदुःखादिलक्षणः संसारः। अत्रायं प्रयोगः - धर्माधर्मनिमित्तः संसारोऽस्ति, धर्माधर्मकृतजगद्वैचित्र्योपलब्धेः - इति। यद्वा - धर्माधर्मौ स्तः, धर्माधर्म- प्रयुक्तजगद्वैचित्र्योपलम्भादिति धर्माधर्मावनुमाय, संसारोऽस्ति तद्धेतुधर्माधर्मसत्त्वादिति संसारोऽनुमेयः। जगद्वैचित्र्यलक्षणकार्याद् धर्माधर्मानुमानं, धर्माधर्मलक्षणकारणात् संसारानुमानमिति भावः। तस्मात् क्षेत्रज्ञेश्वरैकत्वे एतत् पूर्वोक्तं सर्वम् अनुपपन्नम् अनुपपत्ति- करमिति जीवेश्वराभेदवादो न युक्तः। भेदवादे तु न कोऽपि दोषः, असंसारिणः संसारिजनमोचकाच्चेतरेषां संसारिणां बद्धजीवानां सत्त्वेन बन्धमोक्षाद्युपपत्तेरिति द्वैतिनां पूर्वः पक्षः। उक्तं पूर्वपक्षं दूषयति— नेति। आत्मेश्वराभेदवादे न किमप्यनुपपन्नमित्यर्थः। तत्र हेतुमाह— ज्ञानाज्ञानयोरिति। ज्ञाना- ज्ञानयोः अन्यत्वेन भिन्नत्वेन हेतुना उपपत्तेः बन्धमोक्षादेः सर्वस्योपपन्नत्वादित्यर्थः। आत्मेश्वरैकत्वाश्रयो ज्ञानमार्गः, तदनेकत्वाश्रयो ऽज्ञानमार्गः। तौ परस्परं भिन्नौ। अज्ञानमार्गे एव जीवेश्वरयोर्भेदः, जीवस्य बन्धः, ईश्वरस्य नित्यमुक्तत्वं जीवमोचकत्वं च, जीव- नानात्वं, तदाश्रयः सर्वसंसारः। ज्ञानमार्गे तु जीव एवेश्वरः। स च सच्चिदानन्दलक्षणः, तस्य न कोऽपि बन्धः, नापि ततो मोक्षः, नापि संसारः,बन्धादीनां सर्वेषां मिथ्यात्वादात्मन एकस्यैव सत्त्वात्। एवं मार्गद्वये सति नेश्वरस्य संसारित्वम् , नापि संसारस्य सुतरामभावः। ज्ञानिदृष्ट्या संसारस्यैवाभावादीश्वरस्य जीवत्वेऽपि न संसारित्वम्। अज्ञानिदृष्ट्या तु संसारस्य सत्त्वेऽपि जीवादीश्वरस्य भिन्नत्वेन नेश्वरस्य संसारित्वम्। जीवस्य संसारिणः सत्त्वान्न बन्धमोक्षादिशास्त्रानर्थक् यमिति भावः। न च ज्ञानिदृष्ट्या संसाराभावे बन्धमोक्षादिशास्त्रानर्थक् यं तत्र प्राप्तमिति वाच्यम् ; तद् दृष्ट्या शास्त्राणामेवाभावात्। तद् दृष्ट्या ब्रह्मैकमेव ह्यस्ति— ‘न निरोधो न चोत्पत्तिर्न बद्धो स च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता॥’ इति ह्युक्तं श्रुत्या। न च परमार्थदशामधिकृत्य तथोक्तं श्रुत्येति वाच्यम् ; ज्ञानमार्गस्य परमार्थदशात्वात् , अज्ञानमार्गस्य व्यवहारदशात्वाच्च। अथवा वासनावशाज्ज्ञानिदृष्ट्या शास्त्राणि सन्तु नाम, तथापि तानि मिथ्याभूतान्येवेति तदानर्थक् यमिष्टमेव। न चोपजीव्यविरो- धस्यान्याय्यत्वाच्छास्त्रादेव ज्ञानं लब्धवतः पुरुषस्य शास्त्रनिराकरणमयुक्तमिति वाच्यम् ; नीरलाभानन्तरं खनित्रस्यानर्थक् यवद् ज्ञान- लाभानन्तरं शास्त्रं व्यर्थमेवेति का तन्मिथ्यात्वज्ञानेन क्षतिः? यदि ज्ञानी - ‘शास्त्रं संसारनिवर्तकज्ञानप्रदं न’ इति ब्रूयात् , तर्हि स्यादुप- जीव्यविरोधदोषः, परन्तु शास्त्रोक्तविधयैव गुरुशास्त्रादिकं सर्वं मिथ्येति वदति, अतो न दोषः। किञ्च यदि ज्ञानी शास्त्रमधिगत्यापि ‘सर्वं आदिशब्दोपात्तमनुमानविरोधमाह— जगदिति। विमतं विचित्रहेतुकम् , विचित्रकार्यत्वात् , प्रासादादिवदित्यर्थः। प्रत्यक्षानुमानागम- विरोधादयुक्तमैक्यमित्युपसंहरति— सर्वमिति। ऐक्येऽपि संसारित्वमविद्यातः, विद्यातोऽसंसारित्वमिति विभागाद् नानुपपत्तिरित्युत्तरमाह— नेत्यादिना। तयोः स्वरूपतो

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

जन्मत एव दुःखिन इत्यादिजगद्वैचित्र्योपलब्धेस्तत्कारणमनुमीयते - ‘पुण्यो वै पुण्येने’ति शास्त्रानुसारेण धर्माधर्म- निमित्तत्वमनुमीयते। तत् संसारित्वाभावे विरुध्यत इत्यर्थः। परमार्थतः स्वरूपैक्येऽप्यज्ञानोपाधौ संसारित्वम् , सम्यग्ज्ञानविषयस्यासंसारित्वमिति परिहरति— न, ज्ञानाज्ञान- योरिति। ज्ञानाज्ञानयोरन्यत्वेन बन्धमोक्षव्यवस्थोपपत्तेः नैकात्म्ये कश्चिद् विरोध इत्यर्थः। वस्तुसंग्रहवाक् यं व्याख्यातुं ज्ञानाज्ञानयोरन्यत्वमाह— दूरमित्यादिना। अविद्या या च विद्येति। चेति प्रसिद्धौ। ते विद्याविद्ये दूरं विपरीते अत्यन्तविरुद्धे १. ‘तथा च’ इति पा.।

[[अ. १३. श्लो. २]] [[५९६]]

तयोर्विद्याऽविद्याविषययोः फलभेदोऽपि विरुद्धो निर्दिष्टः— ‘श्रेयश्च प्रेयश्च’ (क.उ.२.२) इति। विद्याविषयः श्रेयः, प्रेयस्तु अविद्याकार्यमिति। तथा च व्यासः— ‘द्वाविमावथ पन्थानौ’ (म.भा.१२.२४१.६) इत्यादि , ‘इमौ द्वावेव पन्थानौ’१ इत्यादि च। इह च द्वे निष्ठे उक्ते। अविद्या च २सह कार्येण विद्यया हातव्येति श्रुतिस्मृतिन्यायेभ्योऽवगम्यते। द्वैतं सत्यम्’ इति ब्रूयात् , तदैव शास्त्रविरोधी स्यात् ‘ब्रह्म सत्यं, जगन्मिथ्या’ इति हि शास्त्रम्। एवं यः शास्त्रविरुद्धार्थं ब्रूयात् स एवेश्वरस्यापि विरोधी, ईश्वराज्ञारूपत्वाच्छास्त्रस्य। तस्माद् द्वैतिन एव शास्त्रविरोधिनः, शास्त्रानभिमतत्वाद् भिन्नात्मज्ञानस्य। यत एवं मार्गद्वयमस्ति ततो नेश्वर[स्य] संसारादिदोषप्रसङ्गः। ननु ज्ञानमार्ग एवात्मेश्वरैकत्वम् , नाज्ञानमार्ग इत्येतत् स्वकपोलकल्पितमिति शङ्कायां नेत्याह— दूरमिति। एते विषूची मार्गौ दूरं विपरीते अतीव परस्परं विलक्षणे। के ते विषूची? अत आह— अविद्या या च विद्येति ज्ञातेति। या अविद्येति ज्ञाता, या च विद्येति ज्ञाता ते इत्यन्वयः। अविद्यामार्गो विद्यामार्गश्चेत्यर्थः। अज्ञानमार्गे जीवः संसारी नाना भिन्न ईश्वरात् , ईश्वरस्त्वसंसारी एकः। ज्ञानमार्गे तु जीवोऽसंसारी एक ईश्वरः, संसारस्तु मिथ्यैवेति मार्गद्वयस्यातीव वैलक्षण्यमिति भावः। दक्षिणोत्तरदिगभि- मुखमार्गद्वयवदिति। न केवलं स्वरूपत एव तयोर्भेदः, किन्तु फलतोऽपीत्याह— तथेति। विरुद्ध इति। परस्परं भिन्नः। अविद्याफलस्य स्वर्गादेर्बन्धहेतुत्वात् ज्ञानफलस्य च मोक्षत्वादिति भावः। फले एव दर्शयति— श्रेयश्चेति। ‘श्रेयश्च प्रेयश्च मनुष्यमेतः’ इति कठोपनिषत्। श्रेयः अभिवृद्धिः स्वर्गपशुपुत्रादिलक्षणम् इति भ्रमनिरासायाह— विद्याविषय इति। आत्यन्तिकपुरुषार्थस्यैव श्रेयस्त्वाद् विद्याविषयो मोक्षः श्रेयः। आपाततः प्रियत्वेन भासमानत्वात् स्वर्गपशुपुत्रादिलक्षणं प्रेयः फलमविद्यायाः। प्रेयसः स्वर्गादे- र्जन्यत्वादविद्याकार्यत्वमित्युक्तम्। मोक्षस्य च नित्यत्वेनाजन्यत्वाद् विद्याविषयः श्रेय इत्युक्तम्। विद्याविषयः विद्यागोचरः। विद्यया प्राप्य इति यावत्। न च मोक्षस्य नित्यप्राप्तस्य ब्रह्मभावरूपस्य कथं प्राप्यत्वमिति वाच्यम्। ४हिरण्यनिधिदृष्टान्तेन प्राप्यत्वोपचारात्। एवं मोक्षस्य विद्याफलत्वमप्यौपचारिकमेव, बन्धनिवृत्तेरेव विद्याफलत्वात्। ततश्च बन्धहेतोरविद्याफलाद् बन्धनिवृत्तिर्विद्याफलमतीव विलक्षणमिति भावः। एवं श्रुतिं प्रमाणीकृत्य स्मृतिं प्रमाणयति— द्वाविमाविति। भोगमोक्षप्रापकौ द्वौ मार्गावित्यर्थः। बन्धमोक्षप्रापकाविति वा। भोगस्यैव बन्धत्वात्। गीतामपि प्रमाणयति—इह चेति। ‘ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्’ इति ज्ञानकर्ममार्गद्वयस्योक्तत्वा- दिति भावः। न च कर्ममार्ग एव दर्शितो, न त्वज्ञानमार्ग इति वाच्यम् ; कर्ममार्गस्यैवाज्ञविषयत्वेनाज्ञानमार्गत्वात्। ननु कर्ममार्गवज्ज्ञानमार्गोऽपि व्यवहारदशायामेवास्ति, न तु परमार्थतः, परमार्थदशायामात्मध्यानाद्ययोगात् ; तथा च ज्ञान- मार्गो न परमार्थदशेति कृत्वा ज्ञानिदृष्ट्याऽप्यस्त्येव संसार इति कथं त्वया संसाराभावः प्रतिपादित इति चेत्? उच्यते— यो हि ज्ञान- योगेऽधिकृतः स हि संसारं मिथ्येति पश्यति, यस्तु परमार्थदशायामवस्थितः स संसारं नैव पश्यतीति ज्ञानमार्गः परमार्थदशायाः इत्यर्थः। विषूची नानागती, भिन्नफले इत्यर्थः। फलभेदद्वारको विद्याविद्ययोर्भेदः श्रुत्योक्त इत्याह— तथा तयोरिति। हेयत्वोपादेयत्वकृतोऽपि भेद इत्याह— अविद्या च सह कार्येणेत्यादिना। विलक्षणत्वे श्रुतिमाह—दूरमिति। अविद्या या च विद्येति। प्रसिद्धे एते विद्याविद्ये दूरं विपरीते अत्यन्तविरुद्धे इत्यर्थः। विषूची नानागती, भिन्नफले इत्यर्थः। स्वरूपतो विरोधवत् फलतोऽपि सोऽस्तीत्याह—तथेति। फलभेदोक्तिमेव व्यनक्ति—विद्येति। तयोर्द्विधा३ विलक्षणत्वे वेदव्यासस्यापि सम्मतिमाह—तथा चेति। उक्तेऽर्थे भगवतोऽपि सम्मतिमुदाहरति—इह चेति। द्वयोरपि निष्ठयोस्तुल्यमुपादेयत्वमिति

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः क्रियापथश्चैव पुरस्तात् संन्यासश्चोत्तरेण’ इतीशावास्योपनिषद्भाष्ये बृहदारण्यकोपनिषद्भाष्ये चोद्धृतं वचनम्। २. ‘कार्यैः’ इति रा.पा.। ३. ‘द्विधा’ इति क्वचिन्न। ४. ‘तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुः…’इति दृष्टान्तः। द्र.छा.उ.८.३.२।

[[५९७]]

श्रुतयस्तावत् - ‘इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः’(के.उ.२.५), ‘तमेवं विद्वानमृत इह भवति, नान्यः पन्था विद्यतेऽयनाय’ (श्वे.उ.३.८), ‘आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’ (तै.उ.२.९)। अविदुषस्तु ‘अथ तस्य भयं भवति’ (तै.उ.२.७) ‘अविद्यायामन्तरे वर्तमानाः’ (क.उ.२.५), ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु.उ.३.२.९), ‘अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम्’ (बृ.उ.१.४.१०) आत्मविद् यः ‘स इदं सर्वं सन्निहितः, अत उक्तमुपचारात् ज्ञानमार्गः परमार्थदशेति। अत एव अथवेति पक्षान्तरमारब्धम्। तस्माद् व्यवहारदशायामेव मार्गद्वयमिदमस्ति। न चैवं ज्ञानिदृष्ट्याऽपि संसारोऽस्तीति वाच्यम् ; असंसारिब्रह्मात्मदर्शनस्यैव ज्ञानत्वात्। न च ज्ञानमार्ग- परिपाकदशायामेवात्मसाक्षात्कारात् संसाराभाव इति वाच्यम् ; तत्प्रारम्भेऽपि संसारे तस्य मिथ्यात्वनिश्चयेन संसाराभावात्। अथवा यस्य ज्ञानमार्गः परिपक्वः स एव ज्ञानी, तद् दृष्ट्यैव संसाराभाव इत्युच्यत इति। एवं मार्गद्वयोपन्यासेन च किं ज्ञायते? अविद्ययेश्वरस्य बन्धः, विद्यया तु तन्मुक्तिरिति। अज्ञानवशादेवेश्वरं बद्धं संसारिजीवं मन्यते लोकः। विद्यया अज्ञाननाशे तु नित्यमुक्त एवेश्वरो जीव इति प्रत्येतीति च। अविद्यावस्थायामेव सर्वः संसारो, न तु विद्यावस्थायामिति च। यस्मादेवमविद्ययैव सर्वः संसारः, तस्मात् त्यक्तव्येयमविद्येत्याह— अविद्येति। सह कार्यैः रागद्वेषादिभिः सह। नन्वविद्या हातव्येत्ययमर्थः कुतोऽवगम्यते? अत आह— श्रुतीति। अवगतिप्रकारमेव दर्शयति— श्रुतय इत्यादिना। इह जीवद्दशायां जन्मनीति वा। अवेदीद् ब्रह्म जानीयाच्चेद् अथ सत्यं ब्रह्म, मोक्ष इति यावत् ; अस्ति सिध्यति, ब्रह्मैव भवतीति वा। ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुत्यन्तरात्। इह ब्रह्म नावेदीच्चेद् महती अधिका विनष्टिः नाशः स्थावरादिजन्मनरकादिप्राप्तलक्षण इति भावः। भवेदिति शेषः। तं परमात्मानमेवात्माभेदेन विद्वान् जानन् पुरुषः इहैव अमृतो मुक्तो भवति। अयनाय मोक्षाय अन्यः पन्था न विद्यते। ब्रह्मणः आनन्दमिति राहोः शिर इतिवन्निर्देशः। आनन्दस्वरूपं ब्रह्मेत्यर्थः। विद्वान् आत्माभेदेन जानन् पुरुषः कुतश्चन कस्माच्चिदपि रोगव्याघ्रसर्पादिलक्षणाद् भयहेतोः सकाशान्न बिभेति। स्वस्य ब्रह्मत्वादिति भावः। तस्येति। अनात्मज्ञस्येत्यर्थः। ‘अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः। जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः॥’ इति। जङ्घन्यमानाः भृशं पीड्यमानाः परियन्ति विभ्रमन्तीति मुण्डकपाठः। दन्द्रम्यमाणा इति कठपाठः। दन्द्रम्यमाणा अत्यर्थं कुटिलामनेकरूपां गतिं गच्छन्त इत्यर्थः। अन्योऽसाविति। असौ ईश्वरोऽन्यो भिन्नः। देवानामिति। स कर्मी देवानां पशुः पशुवद्भोग्य इत्यर्थः। यथा मनुष्यस्य गवादिपशुर्भोग्यस्तद्वदिति भावः। १यस्य मूढस्य इदं सर्वं जगद् भवति। प्राज्ञस्य तु ब्रह्मैकमेवास्ति, सर्वस्य जगतो मिथ्यात्वेनाभावात्। भावे वा सर्वस्यापि ब्रह्मत्वात् सर्वं ब्रह्मैव भवति। ‘यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः। तदा शङ्कां शातयति— अविद्या चेति। अविद्या सकार्या हातव्येत्यत्र श्रुतीरुदाहरति— श्रुतयस्तावदिति। इहेति जीवदवस्थोच्यते। चेच्छब्दो विद्योदयदौर्लभ्यद्योती। अवेदीद् अहं ब्रह्मेति विदितवानित्यर्थः। अथ विद्यानन्तरमेव सत्यम् अवितथं पुनरावृत्तिवर्जितं कैवल्यं स्यादित्याह—अथेति। अविद्याविषयेऽपि श्रुतिमाह— न चेदिति। जन्ममरणादिरूपा संसृतिः विनष्टिः। तस्याः महत्त्वं सम्यग्ज्ञानं विना निवर्तयितुमशक्यत्वम्। विद्याविषये श्रुत्यन्तरमाह—तमेवमिति। परमात्मानं प्रत्यक्त्वेन यः साक्षात्कृतवान् स देही जीवन्नेव मुक्तो भवतीत्यर्थः। विद्यां विनाऽपि हेत्वन्तरतो मुक्तिमाशङ्क्याह— नेति। भयहेतुमविद्यां निराकुर्वती तज्जं भयमपि निरस्यति विद्येत्यत्र वाक्यान्तरमाह—विद्वानिति। अविद्याविषये वाक्यान्तरमाह—अविदुष इति। प्रतीच्येकरसे स्वल्पमपि भेदं मन्यमानस्य भेददृष्ट्यनन्तरमेव संसारध्रौव्यमित्यर्थः। तत्रैव श्रुत्यन्तरमाह— अविद्यायामिति। तन्मध्ये तत्परवशतया स्थितास्तत्त्वमजानन्तो देहाद्यभिमानवन्तो मूढाः संसरन्तीत्यर्थः। विद्याविषये श्रुत्यन्तरमाह—ब्रह्मेति। अविद्याविषये श्रुत्यन्तरमाह—अन्योऽसाविति। भेददृष्टिमनूद्य तन्निदानमविद्ये- त्याह— नेति। स च मनुष्याणां पशुवद् देवादीनां प्रेष्यतां प्राप्नोतीत्याह— यथेति। विद्याविषये वाक्यान्तरमाह— आत्मविदिति। इदं सर्वं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. भाष्ये ‘आत्मविद् यः स इदं सर्वं भवति’ इत्यस्य स्थाने ‘यस्येदं सर्वं भवति’ इति पाठं स्वीकृत्येदं व्याख्यानं भाति।

[[अ. १३. श्लो. २]] [[५९८]]

भवति’ (बृ.उ. १.४.१०) ‘यदा चर्मवत्’(श्वे.उ.६.२०) इत्याद्याः सहस्रशः। स्मृतयश्च - ‘अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ.गी.५.१५) ‘इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः’ (भ.गी.५.१९) ‘समं पश्यन् हि सर्वत्र’ (भ.गी. १३.२८) इत्याद्याः। न्यायतश्च - १‘सर्पान् कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्ति। अज्ञानतस्तत्र पतन्ति केचिज्ज्ञाने फलं पश्य यथा विशिष्टम्॥’(म.भा.१२.२०१.१७)। तथा च देहादिष्वात्मबुद्धिः अविद्वान् रागद्वेषादिप्रयुक्तो धर्माधर्मानुष्ठानकृद् जायते म्रियते चेत्यवगम्यते। देहादिव्यतिरिक्तात्मदर्शिनो देवमविज्ञाय दुःखस्यान्तो भविष्यति॥’ इति। यथा चर्म वेष्टयन्ति तथा आकाशं मानवाः यदा वेष्टयिष्यन्ति तदा देवं परमात्मानं प्रत्यगभिन्नमविज्ञाय दुःखस्य संसारस्यान्तो भविष्यतीत्यर्थः। आकाशवेष्टनवत् ब्रह्मवेदनं विना संसारनाशनमशक् यमिति भावः। तेनेति। अज्ञानेन ज्ञानस्यावृतत्वेन हेतुना जन्तवो मुह्यन्ति वयं संसारिण ईश्वराद् भिन्ना इत्यादिमोहं यान्ति। न्यायतश्चेत्यस्यावगम्यत इत्यनेनान्वयः। सर्वानिति। मनुष्याः कुशलाः केचित्। सर्वान् सर्वाणीत्यर्थः। कुशाग्राणि दृष्ट्वेति शेषः। तथा उदपानं ज्ञात्वा परिवर्जयन्ति। अज्ञानतः उदपानमिति ज्ञानाभावात् तु केचिद् अविवेकिनः तत्र तृणाच्छन्नकूपे पतन्ति। तस्माज्ज्ञाने विशिष्टं फलं यथा यथावत् पश्य। एवमज्ञानं संसारकूपपतनहेतुः पुंसां, ज्ञानं तु तत्परिहारहेतुरिति भावः। इदमेवाह— तथा चेति। रागद्वेषादिप्रहाण- मपेक्षत इति २रागद्वेषादिप्रहाणापेक्षः तस्मात्। धर्माधर्मप्रवृत्तिः धर्माधर्मार्थकर्मप्रवृत्तिः। तदुपशमः तन्निवृत्तिः, तस्मात् सर्वकर्मसंन्या- सादित्यर्थः। हेतुरयं मुक्तिं प्रति। देहादिष्वात्मबुद्धौ सत्यां देहादिसुखहेतुषु चन्दनादिषु रागः, तद्दुःखहेतुषु शीतवातातपादिषु द्वेषः। ताभ्यां च रागद्वेषाभ्यां हेतुभ्यां सुखार्थं दुःखनिवृत्त्यर्थं च धर्माननुतिष्ठति, दुःखहेतुशत्रुसर्पचोरादिनिवृत्त्यर्थमधर्मं च हिंसादि- लक्षणमनुतिष्ठति। एवं धर्माधर्मानुष्ठानवशात् सुकृतदुष्कृतफले स्तः। तद्भोगार्थं देवमनुष्यपश्वादिरूपेण जायते, पुनर्धर्माधर्मादिलक्षणं कर्म कुरुते, प्रारब्धावसाने म्रियते, पुनः कर्मफलानुभवार्थं जायते, पुनः कर्म कुरुते, पुनरपि म्रियत इत्येवमवर्जनीयसञ्चारं जन्ममरणलक्षणं संसारचक्रं प्रतिपद्य अज्ञः खिद्यते। यथा ३वेक्षुखण्डः प्रसिद्धं चक्रमिति। एवं च जन्ममरणलक्षणसंसारस्य धर्माधर्मानुष्ठानं हेतुः, तस्य च रागद्वेषादिकं हेतुः, तस्य च देहादिष्वात्मबुद्धिर्हेतुरिति सर्वानर्थमूलकन्दं देहादिष्वात्मभ्रमं त्यजेद् विद्वानित्याह— देहादीति। देहादिष्वात्मबुद्ध्यभावे रागद्वेषाभावः, ततो धर्माधर्मानुष्ठानाभावः, ततः संसाराभाव इति सोऽयमर्थो न अविद्यान्वयव्यतिरेकवत्त्वन्यायाच्च बन्धस्याविद्यात्मकत्वमवगम्यत इत्याह— न्यायतश्चेति। अत्रैव संवादकं स्मृतिवाक्यमाह—[सर्पानिति।] विशिष्टं फलं ज्ञाने यथा स्यात् तथा पश्येत्यर्थः। उक्तमेवाविद्यान्वयव्यतिरेकवत्त्वं विवृणोति— तथा चेत्यादिना। प्रत्यग्भूतं पूर्णं ब्रह्मेत्यर्थः। ज्ञानादेव तु कैवल्यमित्यत्र श्रुत्यन्तरमाह— यदेति। न खल्वाकाशं चर्मवद् मानवो वेष्टयितुमीष्टे। तथा परमात्मानं प्रत्यक्त्वेनाननुभूय न मुच्यत इत्यर्थः। आदिशब्देनानुक्ता विद्याऽविद्याफलभेदार्थाः श्रुतयो गृह्यन्ते। तासां भूयस्त्वेन प्रामाण्यं सूचयति— सहस्रश इति। विद्याऽविद्याविषये स्मृतीरुदाहरति— स्मृतयश्चेति। तत्राविद्याविषयं वाक्यमाह— अज्ञानेनेति। विद्याविषयं वाक्यद्वयं दर्शयति—इहेत्यादिना। विद्याफलमनर्थध्वस्तिः, अविद्याफलमनर्थाप्तिरित्येतद् अन्वयव्यतिरेकाख्यन्यायादपि सिध्यतीत्याह — न्यायतश्चेति। तत्रैव पुराणसम्मतिमाह— सर्पानिति। उदपानं कूपम्। यथाऽऽत्मज्ञाने विशिष्टं फलं स्यात् तथा पश्येति योजना। न्यायतश्चेत्यन्वयव्यतिरेकाख्यं न्यायमुक्तं विवृणोति— तथा चेति। तत्रादावन्वयमाचष्टे— देहादिष्विति। अनाद्यनिर्वाच्याविद्यावृतः चिदात्मा देहादावनात्मन्यात्मबुद्धिमादधाति, तद्युक्तो रागादिना प्रेर्यते, तत्प्रयुक्तश्च कर्मानुतिष्ठति, तत्कर्ता च यथाकर्म नूतनं देहमादत्ते, पुरातनं त्यजतीत्येवमविद्यावत्त्वे संसारित्वं सिद्धमित्यर्थः। व्यतिरेकमिदानीं दर्शयति—देहादीति। श्रुतियुक्तिभ्यां भेदे ज्ञाते रागादिध्वस्त्या

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘सर्वान्’ इति रा.पा.। २. इदम् उपशमविशेषणम्। ३. इक्षुदण्डः रसनिःसारणार्थं यन्त्रे निक्षिप्तः तच्चक्रं प्रतिपद्य भ्रमति, तथेत्यर्थः।

[[५९९]]

१रागद्वेषादिप्रहाणापेक्षधर्माधर्मप्रवृत्त्युपशमाद् मुच्यन्ते इति न केनचित् प्रत्याख्यातुं शक् यं न्यायतः। तत्रैवं सति क्षेत्रज्ञस्येश्वरस्यैव सतोऽविद्याकृतोपाधिभेदतः संसारित्वमिव भवति, यथा देहाद्यात्मत्वमात्मनः। सर्वजन्तूनां हि प्रसिद्धो देहादिष्वनात्मसु आत्मभावो निश्चितोऽविद्याकृतः। यथा स्थाणौ पुरुषनिश्चयः। न चैतावता केनचित् प्रत्याख्यातुं शक्यः। तस्मादज्ञस्यैव संसारो न प्राज्ञस्येति कथमीश्वरस्य संसारित्वम्? कथं वा संसाराभावः? संसारिणामज्ञानां सत्त्वादिती- ममर्थमाह— तत्रेत्यादिना। तत्रेति व्यवहारभूमावित्यर्थः। एवं सतीति। देहाद्यभिमानिन एव संसारो, न तु देहादिव्यतिरिक्तात्मदर्शिन इति स्थिते सतीत्यर्थः। ईश्वरस्यैवेति। असंसारिण एवेत्यर्थः। अविद्याकृतमज्ञानकृतम्। ननु कथमसंसारिणः क्षेत्रज्ञस्याविद्यावशादपि संसारित्वमित्यतो दृष्टान्तमाह— यथेति। आत्मनो यथा देहादिरूपत्वमविद्याकृतं, तद्वदिति भावः। ननु नास्त्यात्मनो देहाद्यात्मत्वम् , अत आह— सर्वेति। सर्वजन्तूनां सर्वप्राणिनाम् अनात्मसु देहादिष्वविद्याकृतो निश्चित आत्मभावः प्रसिद्धो हि। देवोऽहं, मनुष्योऽहं, काणोऽहं, बधिरोऽहमित्यादिव्यवहारादिति भावः। तत्रापि दृष्टान्तमाह— यथा स्थाणाविति। मन्दान्धकारे दृष्टे स्थाणौ यथा अविवेकिनः पुरुष इति निश्चयः, तद्वदित्यर्थः। ईश्वरमेव सन्तं क्षेत्रज्ञमज्ञानादज्ञाः संसारिणं मन्यन्ते तार्किकादयः। यथा वा बौद्धादयः देहमेवात्मानं, यथा वा कुदृष्टयः स्थाणुमेव पुरुषमिति यावत्। ननु सर्वजन्तुप्रसिद्धनिश्चयबलात् संसार्येव क्षेत्रज्ञ इत्यत आह— न चेति। एतावता अज्ञानकृताज्ञजननिश्चयमात्रेणेत्यर्थः। यथा अज्ञजननिश्चयमात्रेण स्थाणुः पुरुषो न भवति, पुरुषो वा स्थाणुर्न भवति, तथा अज्ञजननिश्चयमात्रेण देह आत्मा न भवति, आत्मा वा देहो न भवति। न च - आत्मा देहो मा भून्नाम, संसारी तु भवेदेव, एवं ज्ञानाज्ञानयोः स्वरूपभेदं कार्यभेदं च प्रतिपाद्य, पूर्वोक्तं परिहरति— तत्रैवं सतीति। ननु जीवस्य ब्रह्मात्मकत्वं चेत् स्वाभाविकम् , तर्हि जीवे प्रकाशमाने किमिति न प्रकाशत इत्याशङ्क्याह— यथा देहाद्यात्मत्वमिति। यथा देहादिव्यतिरिक्तत्वमात्मनः स्वाभाविकमपि न प्रकाशते। किन्तु विपरीतं देहाद्यात्म(व)त्वं प्रकाशते, तथा अविद्यावशात् जीवस्य स्वाभाविक्यपि ब्रह्मात्मकता न प्रकाशते, संसारित्वं च प्रकाशत इत्यर्थः। ननु जीवस्यासङ्गत्वव्याघाताद् देहात्मत्वं [न] सम्भवतीत्याशङ्क्य मिथ्याभ्या[ध्या]सेन तात्त्विकासङ्गत्वस्य व्याघातो नास्तीत्यभिप्रेत्य दृष्टान्तमाह— न चैतावता

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या कर्मोपरमाद् अशेषसंसारासिद्धिरित्यविद्याराहित्ये बन्धध्वस्तिरित्यर्थः। उक्तान्वयादेरन्यथासिद्धिं शिथिलयति—इति नेति। उक्तमन्वयादि वादिना केनचिदपि न्यायतो न शक् यं प्रत्याख्यातुम् , तदन्यथासिद्धिसाधकाभावादित्यर्थः। अन्वयादेरनन्यथासिद्धत्वे चोद्यमपि प्राचीनं प्रतिनीतमित्याह— तत्रेति। ज्ञानाज्ञानयोरुक्तन्यायेन स्वरूपभेदे कार्यभेदे च स्वारस्येन परापरयोरैक्येऽपि बुद्ध्याद्युपाधिभेदादाविद्यकमात्मनः संसारित्वमाभासरूपं प्रातिभासिकं सिध्यतीत्यर्थः। आत्मनो ब्रह्मता स्वतश्चेद् अहमित्यात्मभावेन ब्रह्मताऽपि भायादित्याशङ्क्याह—यथेति। २देहाद्यतिरिक्तत्वस्यात्मनो वैदिकपक्षे स्वतस्त्वेऽपि तस्मिन्नहमिति ३भात्येव तदतिरिक्तत्वं न भाति, किन्त्वविद्यातो देहाद्यात्मत्वमेव विपरीतं भासते। तथा आत्मनो ब्रह्मत्वे स्वाभाविकेऽपि तस्मिन् भात्येव ब्रह्मत्वं न भाति, अविद्यातोऽब्रह्मत्वमेव त्वस्य ४भातीत्यर्थः। आत्मनो देहाद्यात्मत्वमाविद्यं भातीत्युक्तमनुभवेन स्पष्टयति— सर्वेति। अतस्मिंस्तद्बुद्धिरविद्याकृतेत्यत्र दृष्टान्तमाह—यथेति। पुरःस्थिते वस्तुनि स्थाणावविद्यया पुमानिति निश्चयो जायते, तथा देहादावनात्मनि आत्मधीरविद्यातो निश्चितेत्यर्थः। देहात्मनोरैक्यज्ञाने देहधर्मस्य जरादेरात्मनि, आत्मधर्मस्य च चैतन्यस्य देहे विनिमयः स्यादित्या- शङ्क्याह— न चेति। स्थाणौ पुरुषत्वं भ्रान्त्या भातीत्येतावता पुरुषधर्मः शिरःपाण्यादिर्न स्थाणोर्भवति, तद्धर्मो वा वक्रत्वादिर्न पुंसो १. ‘रागद्वेषादिप्रहाणापेक्षाद्’ ‘रागद्वेषादिप्रहाणात् तदपेक्ष’ इति पा.। २. ‘देहाद्यतिरेकस्य’ इति पा.। ३. सप्तम्यन्तमिदम्। भाति सत्येवेत्यर्थः। ४. भास्यतीत्यर्थः’ इति पा.।

[[अ. १३. श्लो. २]] [[६००]]

पुरुषधर्मः स्थाणोर्भवति, स्थाणुधर्मो वा पुरुषस्य। तथा न १चैतन्यं धर्मो देहस्य, देहधर्मो वा २चेतनस्य। सुखदुःख- मोहात्मकत्वादिः आत्मनो न युक्तोऽविद्याकृतत्वाविशेषात् , जरामृत्युवत्। [अविषयेऽप्यात्मनि अनात्माध्याससाधनम् ] न ; अतुल्यत्वादिति चेत्? स्थाणुपुरुषौ ज्ञेयावेव सन्तौ ज्ञात्राऽन्योन्यस्मिन्नध्यस्तौ अविद्यया। देहात्मनोस्तु देहातिरिक्तस्याप्यात्मनः संसारोपलम्भादिति तार्किकादिदृष्टिमाश्रित्य - वाच्यम् ; देहधर्मत्वात् संसारस्य। न च सुखदुःखादयो न देहधर्माः, किन्तु मनोधर्मा एवेति वाच्यम् ; मनसोऽपि सूक्ष्मदेहत्वात्। तस्मात् सुखदुःखमोहादिलक्षणः संसारो देहधर्म एवेति नात्मनो युक्तः, आत्मनस्तु चैतन्यमेक एव धर्मः। स च न देहस्य युक्तः, जडत्वात्। तस्माद् देह एव संसारी नात्मा, देहात्मनोरविवेकात्तु देहधर्मः संसारः आत्मन्यध्यस्तः इति संसार्यात्मेति मन्यन्ते मूढाः, देहं च चेतनः इति। तस्मात् तार्किकाद्यभिमतदेहभिन्नत्वा- देवासंसार्यात्मेति सिद्धम्। ननु स्थाणुपुरुषयोरितरेतरधर्माध्यासो युक्त एव भवतु, देहात्मनोस्तु न भवतीत्यत आह— अविद्येति। अज्ञानकृतत्वांशे भेदाभावाद् युक्त एवेत्यर्थः। ननु कुतः संसार आत्मनो न युक्तः? इत्यत्र दृष्टान्तमाह— जरामृत्युवदिति। आस्तिका हि सर्वे देहभिन्नमात्मानं मन्वानाः जरामृत्यू देहधर्मावेव, न त्वात्मधर्माविति प्रतियन्ति। कथमन्यथा देहे मृतेऽपि देहिनः श्राद्धादिकं कुर्युः? कथं वा स्वर्गादिफललोभेन यज्ञादिकं कुर्युः? तथा च यथा जरामृत्यू स्थूलदेहधर्मौ, तथा सुखदुःखादयः सूक्ष्मदेहधर्मा एव। अतस्तेषां नात्मधर्मत्वं युक्तमिति भावः। नातुल्यत्वादिति चेदिति पूर्वपक्षः। तं स्वयमेव व्याख्याति— स्थाण्विति। ज्ञेयावेव सन्तौ स्थाणुपुरुषौ ज्ञात्रा अविद्यया अन्योऽन्यस्मिन्नध्यस्तावित्यन्वयः। अतुल्यत्वात् स्थाणुपुरुषदृष्टान्तो न युक्त इति चेदिति संक्षिप्तप्रश्नार्थः। विस्तृतप्रश्नार्थस्तु स्फुट एव। यस्य स्थाणौ पुरुषनिश्चयः स हि स्थाणुपुरुषाभ्यामन्य एव, प्रकृते तु यस्य देहे आत्मबुद्धिः स आत्मैव, न तु देहात्मनोरन्य इति कृत्वा स्थाणुपुरुषवद् देहात्मनोरितरेतराध्यास इति वक्तुं न युक्तमिति भावः। अन्यस्मिन्नन्य इति भ्रमो भवेदेव। स्वस्मिन् पुनरन्य इति भ्रमः, अन्यस्मिन् स्वयमिति भ्रमश्च भवितुं नार्हति, स्वस्य नित्यापरोक्षत्वादेव। न हि स्वकरस्थं दण्डं कोऽपि पुरुषत्वेन सर्पत्वेन वा अध्य- सेत्। तस्मादात्मनि देह इति, देहे आत्मेति च भ्रमो न युक्त आत्मनः। देहस्य तु सुतरां न युक्तः, जडत्वात्। न हि स्थाणुरहं पुरुष इति, पुरुषधर्म इति। ‘कामः सङ्कल्पो विचिकित्सा’ इत्यादिश्रुतेः सुखदुःखदेहात्मकत्वादेः[मोहात्मकत्वादिः] सूक्ष्मदेहस्य धर्मश्चैतन्यात्मनो न युक्तस्तत्त्वतः इत्यर्थः। सुखदुःखादिस्तत्त्वत आत्मधर्मो न भवति, भ्रमसिद्धत्वात् , जरामृत्युवदित्युक्तम्। तत्रासिद्धो हेतुः। नन्वतस्मिंस्त- द्बुद्धित्वात् स्थाणौ पुरुषबुद्धिवद् भ्रमत्वमुक्तम् , न, विलक्षणत्वाद् दृष्टान्तस्य। तद्वैलक्षण्यं विवृणोति— स्थाणुपुरुषाविति। यो भ्रमः स ज्ञेयस्य ज्ञेयान्तरे दृष्टः। इहोभयोर्ज्ञेयत्वं व्यापकं व्यावर्तमानं स्वव्याप्यं भ्रमत्वमपि व्यावर्तयति। तस्मादुपाधिधर्म- दृश्यते, मिथ्याध्यस्ततादात्म्याद् वस्तुतो धर्माव्यतिकरादिति। दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह— तथेति। जरादेरनात्मधर्मत्वेऽपि सुखादेरात्मधर्मत्वमिति केचित् , तान् प्रत्याह— सुखेति। कामसङ्कल्पादिश्रुतेरनात्मधर्मत्वज्ञानादित्यर्थः। किञ्च विमतो नात्मधर्मो ऽविद्याकृतत्वात् , जरादिवत् । न च हेत्वसिद्धिः, अतस्मिंस्तद्बुद्धिविषयत्वेन स्थाणौ पुरुषत्ववदविद्याकृतत्वस्योक्तत्वादिति मत्वाऽऽह— अविद्येति। स्थाणौ पुरुषत्ववदाविद्यत्वं देहादेरयुक्तम् , दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यादिति शङ्कते— नेति। तदेव प्रपञ्चयति—स्थाण्वित्या- दिना। ज्ञेयस्य ज्ञेयान्तरेऽध्यासाद् अत्र ३चोभयोर्ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्याध्यासस्यापि व्यावृत्तिरित्यर्थः। देहात्मबुद्धेः

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘चैतन्यधर्मः’ इति पा.। २. ‘चैतन्यस्य’ इति पा.। ३. उभयोः = अधिष्ठानारोप्ययोः ज्ञेयत्वस्येत्यर्थः। एकस्य ज्ञेयत्वेऽपि उभयोस्तन्नेति भावः।

[[६०१]]

ज्ञेयज्ञात्रोरेवेतरेतराध्यास इति न समो दृष्टान्तः। अतः देहधर्मो ज्ञेयोऽपि ज्ञातुरात्मनो भवतीति चेत्? न ; अचैतन्यादिप्रसङ्गात्। यदि हि ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुखदुःखमोहेच्छादयो १ज्ञातुर्भवन्ति, तर्हि ज्ञेयस्य क्षेत्रस्य धर्माः २केचनात्मनो भवन्त्यविद्याध्यारोपिताः जरामरणादयस्तु न भवन्तीति विशेषहेतुर्वक्तव्यः। न भवन्तीत्य- स्त्यनुमानम् – अविद्याध्यारोपितत्वाज्जरादिवदिति३, हेयत्वादुपादेयत्वाच्चेत्यादि। तत्रैवं सति कर्तृत्वभोक्तृत्वलक्षणः पुरुषो वा स्थाणुरहमिति क्वापि भ्राम्येदित्याशयः। अत इति। देहात्मनोरितरेतराध्यासायोगादित्यर्थः। सत्य एवायमज्ञनिश्चयो, न भ्रम इत्याह— देहेति। देवोऽहं, मनुष्योऽहं, काणोऽहं, बधिरोऽहं, सुख्यहं, दुःख्यहमित्यादिप्रतीतयो न भ्रमाः, किन्तु प्रमा एव, देहाद्याश्रयमात्रेण देहधर्माणामपि जीवे सङ्क्रमात्। यथा पृथिवीसंयोगाज्जलस्य गन्धगुणसङ्क्रमः। तस्मात् संसार्येवात्मेति पूर्वपक्षः। परिहरति— नेति। हेतुमाह— अचैतन्यादिप्रसङ्गादिति। यदि देहधर्मा आत्मनः स्युस्तर्हि देहधर्मो जाड्यमपि स्यादात्मनः। आदिपदाद् विकारित्वानित्यत्वादिसङ्ग्रहः। न चेष्टापत्तिः ‘अजो नित्यः शाश्वतोऽयं पुराणः’ ‘साक्षी चेता केवलो निर्गुणश्च’ इत्यादि- शास्त्रविरोधात्। जीवस्यापि जडत्वे जगदान्ध्यप्रसङ्गात्। ननु देहधर्माः सर्वे जीवस्य भवन्तीति नास्माभिरुच्यते, किन्तु सुखदुःखमोहा- दय एव भवन्ति, जरामरणजाड्यादयस्तु न भवन्तीति पूर्वपक्षमुद्भाव्य परिहरति— यदि हीत्यादिना। ज्ञेयस्य क्षेत्रस्य केचिद् धर्माः सुखदुःखमोहेच्छाद्वेषादयो ज्ञातुरात्मनो भवन्ति, ज्ञेयस्य क्षेत्रस्य केचिद् धर्मा अविद्यारोपिताः, जरामरणादयस्तु ज्ञातुरात्मनो न भवन्तीति पूर्वपक्ष इति यद्युच्यते, तर्हि विशेषहेतुर्वाच्य इति पृच्छति सिद्धान्ती। देहधर्माणां मध्ये केचिदेवात्मनो भवन्ति, केचिन्न भवन्तीत्येवंरूपविशेषस्य को हेतुरित्यर्थः। ननु सुखादय आत्मधर्मा न भवन्तीति तव पक्षेऽपि विशेषहेतुर्नास्तीत्याशङ्क्य परिहरति— नेति। सुखादय आत्मधर्मा न भवन्तीति तव पक्षेऽपि विशेषहेतुरनुमानमस्तीत्यर्थः। तदेवानुमानं दर्शयति—अविद्येति। सुखादयः आत्मधर्मा न भवन्तीत्यविद्याध्या- रोपितत्वाज्जरादिवदिति प्रयोगः। अनुमानान्तरमाह— हेयत्वादिति। आत्मन्यविद्याध्यारोपिता एव सुखदुःखादयो देहधर्माः, हेयत्वादु- पादेयत्वाच्च, जरामरणादिवदिति प्रयोगः। यदि सुखदुःखादय आत्मधर्मास्तर्हि आत्मना ते हातुं न शक्याः। न हि चैतन्यानन्दादय आत्मना त्यक्तुं शक्यन्ते। यदि त्वात्मन्यनध्यस्ताः केवलमनात्मधर्मास्तर्ह्युपादातुं न शक्यन्ते। न ह्यन्यधर्मोऽन्येनोपादीयते। इमे तु सुखदुःखादयो ज्ञानिना त्यज्यन्ते, अज्ञानिना तूपादीयन्ते। यथा देहधर्मौ जरामरणे ज्ञानिना त्यज्येते। नाहं जीर्णो नापि मृतः, किन्तु देह एव जीर्णो मृतश्चेति हि ज्ञानिनः प्रत्ययाः। अज्ञेन तूपादीयेते ‘जीर्णोऽहं, मृतोऽहं, ५मरिष्येऽहम्’ इति तत्प्रत्ययात्। तस्मादात्मन्युपलभ्यमानाः सर्वेऽपि सुखदुःखजरामरणादिदेहधर्मा आत्मन्यध्यस्ता एवाविद्यया, न त्वनध्यस्ताः, नाप्यात्मानः स्वाभाविका वा भवन्तीति स्थितम्। भ्रमत्वाभावे फलितमाह—अत इति। उपाधिधर्माणां सुखादीनामुपहिते जीवे वस्तुत्वमयुक्तम् , अतिप्रसङ्गादिति परिहरति—नेत्यादिना। अतिप्रसङ्गमेव प्रकटयति— यदीति। ४सुखादीनामात्मधर्मत्वं चेद् उपाधिधर्मत्वादचैतन्यं जरादिकं चात्मनो दुर्वारं स्यादित्यर्थः। सुखादिरात्मधर्मो नेति पक्षेऽपि नास्ति विशेषहेतुरित्याशङ्क्याह— नेति। तदेवानुमानं साधयति— अविद्येति। विमतं नात्मधर्मः, आगमापायित्वात् , संसारवदिति। अनुमानान्तरमाह— हेयत्वादिति। आदिशब्दाद् दृश्यत्वजडत्वादि गृह्यते। सुखादीनां जरादिवदात्म- १. ‘ज्ञातुरात्मनो भवन्ति’ इति पा.। २. ‘केचित्’ इति पा.।३. ‘जरामरणादिवदिति’ इति पा.। ४. उपाधिधर्माणाम् इत्यादिः। ५. मरिष्यामीति युक्तम्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

सुखदुःखादिः परमार्थत एवोपहिते जीवे भातीत्यर्थः। अतिप्रसङ्गेन परिहरति— न, अचैतन्यादीति। उपाधिधर्मत्वाविशेषात् अचेतनत्वं जन्मजरामरणादिकं च प्रसज्येतेत्यर्थः। स्वपक्षे पुनर्विशेषं स्मारयति— न भवन्तीत्यादिना। ततः किं फलितमित्यत आह— तत्रैवं सतीत्यादिना। ज्ञेयस्य ज्ञेयान्तर एवाध्यासो भवतीत्यस्य नियमस्य व्यभिचारो दर्शितः,

[[अ. १३. श्लो. २]] [[६०२]]

संसारो ज्ञेयस्थो ज्ञातर्यविद्ययाऽध्यारोपित इति न तेन ज्ञातुः किञ्चिद् दुष्यति; यथा बालैरध्यारोपितेनाकाशस्य तलमलवत्त्वादिना। एवं च सति सर्वक्षेत्रेष्वपि सतो भगवतः क्षेत्रज्ञस्येश्वरस्य संसारित्वगन्धमात्रमपि नाशङ्क्यम्। न हि क्वचिदपि लोकेऽविद्याध्यस्तेन धर्मेण कस्यचिद् उपकारोऽपकारो वा दृष्टः। यत्तूक्तम् - न समो दृष्टान्तः - इति; तदसत्। कथम्? अविद्याध्यासमात्रं हि दृष्टान्तदार्ष्टान्तिकयोः साधर्म्यं विवक्षितम्। तन्न व्यभिचरति। यत्तु ज्ञातरि व्यभिचरतीति मन्यसे, तस्याप्यनैकान्तिकत्वं१ दर्शितं जरादिभिः। ज्ञेयस्थः देहेन्द्रियादिक्षेत्रस्थः; ज्ञातरि क्षेत्रज्ञे। अनेनाविद्यया आत्मनि देहधर्मसंसारारोपणेनेत्यर्थः। किञ्चिदपि न दुष्यति, नास्त्यात्मनः कियानपि संसारदोष इत्यर्थः। तत्र दृष्टान्तमाह— यथेति। बालैरध्यारोपितेन तलमलिनत्वादिना आकाशस्य न कोऽपि लेपो यथा, तद्वदित्यर्थः। तलमिन्द्रनीलकटाहः, तद्वन्मलिनं तलमलिनं, तद्भावस्तत्त्वम्। आदिपदात् पीतत्वश्वेतत्वादिग्रहणम्। नीरूपमप्याकाशं बाला नीलमिति, सन्ध्याम्बुदावरणे सति पीतमिति, शारदमेघावरणे सति श्वेतमिति च मन्यन्ते। न तावता गगनस्य नैल्यादिसम्बन्धः। एवमसंसारिणमप्यात्मानं संसारिणं मन्यन्तेऽज्ञाः। तावता नात्मनः कोऽपि संसार इति भावः। एवं च सतीति। अविद्याकृतदेहादितादात्म्याध्यासजन्य एवात्मनः संसारो, न तु स्वत इति स्थिते सतीत्यर्थः। भगवत इति। ‘भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः’ इति भागवतादिति भावः। गन्धो लेशः। कुतो न शक्यम्? अत आह— न हीति। अविद्यया रज्ज्वाद्यधिष्ठाने आरोपितेन सर्पादिभ्रमेण रज्ज्वादेर्न कोऽप्युपकारः, नापि कश्चिदपकारो दृष्टः। न हि सर्पाध्यासमात्रेण रज्जोर्विषदंष्ट्रादिमत्त्वं स्यात्। न हि मध्याह्नार्ककिरणव्याप्तमरुभूमौ जलाध्यासमात्रेण भूमेर्द्रवादिलाभः। न हि च शुक्तिकायां रजताध्यासमात्रेण शुक्तिकायाः कटका- द्युपयोगित्वलाभः। तद्वदात्मनि देहधर्माध्यासमात्रेण न स्यादेवात्मनः संसार इति भावः। ननु ज्ञेयौ स्थाणुपुरुषावविद्यया ज्ञात्रा अन्योन्यस्मिन्नध्यस्तौ, देहात्मनोस्तु ज्ञेयज्ञात्रोरेवेतरेतराध्यास इति न समो दृष्टान्त इति पूर्वपक्षस्य किमुत्तरम्? अत आह— यत्तूक्तमिति। असद् अयुक्तमित्यर्थः। ननु कुतस्तद्वचनस्यायुक्तत्वम्? अत आह— अविद्येति। तत् साधर्म्यमित्यर्थः। न व्यभिचरति नैकत्राव्याप्तिं भजत इत्यर्थः। ननु ज्ञातर्यविद्यया ज्ञेयधर्माध्यासो न सम्भवतीत्यत आह— यत्त्विति। तस्यापि जरादिभिर्नैकान्तिकत्वं दर्शितमित्यन्वयः। तस्यापि ज्ञातर्यविद्यया ज्ञेयधर्माध्यासो न सम्भवतीत्यस्यापीत्यर्थः। नैकान्तिकत्वं व्यभिचारः। अयं भावः - ज्ञेयज्ञात्रोरितरेतराध्यासो न भवतीति यदुक्तं त्वया तद्वाक्यमपि सव्यभिचारत्वाद् दुष्टमेव। न च तस्य व्यभिचारा- भावः शङ्क्यः, ज्ञेयदेहधर्माणां जरामरणादीनां ज्ञातर्यध्यासदर्शनात्। न च तथा अध्यासो नास्तीति वाच्यम् ; जातोऽहं, वृद्धोऽहं, जरादेर्ज्ञातर्यपि अध्यासदर्शनादित्याह— तस्याप्यनैकान्तिकत्वमिति। धर्मत्वाभावे तस्य वस्तुतोऽसंसारितेति फलितमाह— तत्रेति। आरोपितेनाधिष्ठानस्य वस्तुतोऽस्पर्शे दृष्टान्तमाह— यथेति। पराभिन्न- स्यात्मनः संसारित्वमध्यस्तमिति स्थिते यत् परस्य संसारित्वापादनम् , तदयुक्तमित्याह— एवञ्चेति। आत्मनि संसारस्यारोपितत्वात् तदभिन्ने परस्मिन्नाशङ्कैव तस्यायुक्तेत्येतदुपपादयति— न हीति। स्थाणौ पुरुषनिश्चयवद् आत्मनो देहाद्यात्मत्वनिश्चयस्याध्यस्ततेत्ययुक्तम् , दृष्टान्तस्य ज्ञेयमात्रविषयत्वाद् , २इतरस्य ज्ञेयज्ञातृ- विषयत्वादित्युक्तमनुवदति— यत्त्विति। वैषम्यं दूषयति— तदसदिति। तर्हि केन साधर्म्यमिति पृच्छति— कथमिति। अभीष्टं साधर्म्यं दर्शयति— अविद्येति। तस्योभयत्रानुगतिमाह— तन्नेति। ज्ञेयान्तरे ज्ञेयस्यारोपनियमाज्ज्ञातरि नारोपः स्यादित्याशङ्क्याह— यत्त्विति। नायं नियमो, ज्ञातरि जराद्यारोपस्योक्तत्वादित्याह— तस्यापीति। ज्ञेयस्यैव ज्ञेयान्तरेऽध्यासनियमस्येति यावत्। अतो ज्ञातरि नारोप- १. ‘नैकान्तिकत्वम्’ इति रा. पा.। २. दार्ष्टान्तिकस्येत्यर्थः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[६०३]]

[अविद्यायाः आत्मधर्मत्वनिरासः] अविद्यावत्त्वात् क्षेत्रज्ञस्य संसारित्वमिति चेत् , न ; अविद्यायास्तामसत्वात्। तामसो हि प्रत्ययः आवरणा- त्मकत्वादविद्या - विपरीतग्राहकः, संशयोपस्थापको वा, अग्रहणात्मको वा - विवेकप्रकाशभावे तदभावात्। तामसे जीर्णोऽहं, मृतोऽहं, मरिष्येऽहमित्यादिप्रतीतिभिरेव तदध्याससिद्धेः। तस्माज्ज्ञेयज्ञात्रोरितरेतराध्याससम्भवाद् देहधर्मस्य संसारस्य जीवेऽध्यासः सम्भवत्येवेति। ज्ञेययोः स्थाणुपुरुषयोरपीतरेतराध्यासो न ज्ञात्रा कृतः, किन्त्वविद्ययैव। तथा ज्ञेयज्ञात्रोरप्यविद्यया क्रियत इति कृत्वा स्वस्मिन्नन्य इति भ्रमः, अन्यस्मिन् स्वयमिति भ्रमो वा अविद्यावशादुपपद्यत एव। ब्राह्मणस्य विष्णुशर्मणः स्वप्ने क्षत्रियः कृष्णवर्माऽहमिति भ्रमदर्शनात्। तस्माज्ज्ञेययोरिव ज्ञेयज्ञात्रोरप्यविद्ययेतरेतराध्यासः सम्भवत्येवेति न कोऽपि दोषः। ज्ञेयज्ञातृव्यतिरिक्ताया एवाविद्याया अध्यासकल्पकत्वादिति भावः। ननु यद्यविद्यया स्थाणौ पुरुषधर्माध्यास इव जीवे देहधर्मसंसाराध्यासः कृतः, तर्हि सा अविद्या क्षेत्रज्ञे वर्तत इति कृत्वा तयै- वाविद्यया क्षेत्रज्ञस्य संसारित्वं प्राप्तम् , अविद्यावत एव संसारित्वदर्शनादिति पृच्छति— अविद्यावत्त्वादिति। परिहरति— नेति। तत्र हेतुमाह— अविद्यायास्तामसत्वादिति। कथमविद्या तमोगुणमयी? इत्यत आह— तामस इति। तामसः प्रत्यय एवावरणात्मकत्वाद् अविद्येत्युच्यते यस्मात् तस्मात् तमोगुणमय्येवाविद्या। तूलाज्ञानस्याविद्यात्वादिति भावः। कः पुनः स तामसः प्रत्ययः? अत आह— विपरीतेति। विपरीतग्राहकः, संशयोपस्थापकः, अग्रहणात्मकश्चेति त्रिविधः प्रत्ययोऽविद्येत्युच्यते। अविद्याकार्यत्वात् संशयविपर्यया- ग्रहणानामविद्यात्वमिति भावः। स्थाणुर्वा पुरुषो वेति ग्रहणं संशयः, नायं स्थाणुः किन्तु पुरुष एवेति स्थाणोः पुरुषत्वेन ग्रहणं विपर्ययः, नास्ति स्थाणुरिति स्थाण्वज्ञानमग्रहणमिति विवेकः। एवं प्रकृते च आत्मा किं देह उत देहादन्य इति संशयः, देह एवात्मेति विपर्ययः, नास्त्यात्मेति कश्चिदित्यग्रहणम्। एतत्त्रिविधतामसप्रत्ययप्रयुक्त एव संसार इति संसारोऽविद्याकार्यमेव। नन्विदं प्रत्ययत्रयं विद्यैवास्तु, अत आह— विवेकेति। विवेकप्रकाशे सति प्रत्ययत्रयाभावाद् , विवेकप्रकाशाभावे एतत्सद्भावान्नास्य विद्यात्वम्। विद्या हि प्रमाज्ञानम्। यथा स्थाणोः स्थाणुत्वेन ग्रहणम्। एवमात्मन आत्मत्वेन ग्रहणमेव विद्या। इदं च प्रमाज्ञानमात्मानात्मादिपदार्थविवेकप्रयुक्तम्। अग्रहणादिस्तु विवेकाभावप्रयुक्त इत्यग्रहणादिरेवाविद्या। कस्मात्पुनर्विद्याविद्ययोरिदं वैलक्षण्यम्? अत आह— आवरणात्मकत्वादिति, विद्याप्रकाशेति च। अविद्या ह्यावरणत्मिका। विद्या तु प्रकाशात्मिका। ततश्चाविद्यया स्थाण्वादिपदार्थ आव्रियते, पटेनेव रूपिका। यद्वा अन्धकारेणेव घटः। विद्यया तु स्थाण्वादिपदार्थः प्रकाश्यते, दीपेनेव घटः। ‘आत्मनः परिणामो वा विज्ञानं वाऽन्यवस्तुनः’ इत्युक्तत्वादविद्याऽप्यात्मधर्म एव। अतस्तयाऽपि पारमार्थिकमेव संसारित्वमित्याह— अविद्यावत्त्वादिति। अविद्यायाः आत्मधर्मत्वमसिद्धम् , अविक्रियस्य स्वतः परिणामसम्बन्धायोगादि- त्यभिप्रेत्याह— न, अविद्यायास्तामसत्वादिति। तमःशब्देनानाद्यनिर्वचनीया अविद्याशक्तिरुच्यते, ‘नासदासीन्नो सदासीत्। तम आसीदि’त्यादिश्रुतेः। तत्कार्यत्वाद् विपरीतज्ञानादेरात्मधर्मत्वं नास्तीत्यर्थः। आवरणात्मकत्वादिति। सम्यग्वस्तु- प्रकाशकत्वाभावादित्यर्थः। न केवलमविद्याकार्यत्वाद् विपरीतज्ञानादेरविद्यात्वम् , विद्याहेयत्वाच्चेत्याह— विवेकेति। किञ्च व्यभिचारशङ्केत्यर्थः। आत्मन्यविद्याध्यासे, तत्राविद्यायाः स्वाभाविकत्वात् १तदधीनं संसारित्वमपि २तथा स्यादिति शङ्कते— अविद्यावत्त्वादिति। काऽविद्या? विपरीतग्रहादिर्वा, अनाद्यनिर्वाच्याज्ञानं वा? नाद्यः, विपरीतग्रहादेः तमःशब्दितानिर्वाच्याज्ञानकार्यत्वात्३ तन्निष्ठस्य आत्म- धर्मत्वायोगादित्याह— नेत्यादिना। तदेव प्रपञ्चयति— तामसो हीति। आवरणात्मकत्वं वस्तुनि सम्यक्प्रकाशप्रतिबन्धकत्वम्। विपरीत-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘तदधीनत्वं’ इति पा.। २. तथा स्वाभाविकम्। अविद्याध्यासस्यानादित्वादिति भावः। ३. कार्यत्वात् परिणामत्वात् , अत एव तन्निष्ठता।

[[अ. १३. श्लो. २]] [[६०४]]

चावरणात्मके तिमिरादिदोषे सति अग्रहणादेरविद्यात्रयस्योपलब्धेः। अत्राह— एवं तर्हि ज्ञातृधर्मोऽविद्या१। न ; करणे चक्षुषि तैमिरिकत्वादिदोषोपलब्धेः। यत्तु मन्यसे - ज्ञातृधर्मो तस्मादन्धकारवदावरणात्मिका अविद्या, दीपवत्प्रकाशात्मिका विद्या। अन्धकार एव स्थाणोरग्रहणविपरीतग्रहणसंशयाः, न तु प्रकाशे। तथा अविद्यायामेवात्मनोऽग्रहणविपरीतग्रहणसंशयाः, न तु विद्यायामित्यविद्याकृत एव संसारः। नन्वविद्यावशादेवाग्रहणादिकमित्यत्र किं निदर्शनम्? अत आह— तामस इति। तामसे तमोगुणमये आवरणात्मके च तिमिरादिदोषे; चक्षुष इति शेषः; सत्येव अग्रहणविपरीतग्रहणसंशयात्मकाविद्यात्रयस्योपलब्धेरिति। यथा तामसत्वादावरणात्मकत्वाच्च तिमिरादिदोषः स्थाण्वादिपदार्थाग्रहणविपरीतग्रहणसंशयात्मकत्रिविधप्रत्ययजनकः पुंसाम् , तथा तामसत्वादावरणात्मकत्वाच्चा- विद्यारूपो दोषस्त्रिविधप्रत्ययजनक इति भावः। संसारहेतूनामग्रहणादितामसप्रत्ययानामविद्याकार्यत्वात् तामसाविद्याकार्यमेव संसार इत्यविद्याया एव संसारो, न तु क्षेत्रज्ञस्येति भावः। अत्राह पूर्वपक्षीति शेषः। किमाह? तद् दर्शयति— एवमिति। एवं संसारोऽविद्यायाश्चेदित्यर्थः। तर्हि सा अविद्या ज्ञातृधर्म एवेति पुनः क्षेत्रज्ञस्य संसारित्वं प्राप्तमित्याशयेनाह— ज्ञातृधर्मोऽविद्येति। लोके चक्षुषस्तिमिरादिदोषवशादपि द्रष्टुरेवाग्रहणादि- कर्तृत्वदर्शनात् - यः स्थाणुं न गृह्णाति, विपर्ययेण वा गृह्णाति, संशयेन वा गृह्णाति, तस्यैव हि धर्मास्तदग्रहणादयः। तद्वदविद्यावशाद् यः पुमान् क्षेत्रज्ञः संशयादिकं प्रतिपद्यते, तस्यैव धर्मास्ते संशयादय इति संशयादिप्रयुक्तः संसारः क्षेत्रज्ञस्यैवेति पूर्वपक्षाशयः। परिहरति— नेति। अविद्या ज्ञातृधर्मो न भवतीत्यर्थः। कुतः? तदाह— करण इति। तिमिरादिदोषोऽग्रहणादिहेतुः करणस्य चक्षुष एव अन्वयव्यतिरेकाभ्यां दोषप्रसूतत्वावगमादपि न विपर्ययादेरात्मधर्मत्वमित्याह— तामसे चेति। तर्हि दोषस्य भिन्नस्थानभूतत्वेन निमित्तकारणत्वाद् भावकार्यस्य च सोपादानत्वनियमादुभयसम्प्रतिपन्नः आत्मैव कारणं विपर्ययादेरस्त्वित्याह— अत्राह एवं तर्हीति। सत्योपादानत्वेऽपि विपर्ययादेरबाध्यत्वापातान्नात्मनः उपादानत्वं सम्भवति। किन्तु दोषस्य चक्षुरादिधर्मत्वदर्शनाद् अग्रहणादेरपि दोषत्वात् करणधर्मत्वमेव वाच्यम्। तच्च करणं ‘माययाऽपहृतज्ञानाः’ इत्यादिस्मृतेरनिर्वाच्याविद्यैवेत्याह— न, करणे चक्षुषीति। वस्तुसंग्राहकं पूर्वपक्षसिद्धान्तभाष्यद्वयं ग्रहणादेरविद्याकार्यत्वं विद्यापोह्यत्वेन साधयति— विवेकेति। २न च - कारणाविद्या अनाद्यनिर्वाच्या आत्मधर्मः स्यादिति - युक्तम् , अनिर्वाच्यत्वादेव तस्यास्तद्धर्मत्वस्य दुर्वचत्वादिति३ भावः। किञ्च विपरीतग्रहादेरन्वयव्यतिरेकाभ्यां दोषजन्यत्वावगमादपि नात्मधर्मते- त्याह— तामसे चेति। ४तमःशब्दिताज्ञानोत्थवस्तुप्रकाशप्रतिबन्धकस्तिमिरकाचादिदोषः। तस्मिन् सति— अज्ञानम् , मिथ्याधीः, संशयश्चेति त्रयस्योपलम्भाद् , असति तस्मिन्नप्रतीतेः, अन्वयव्यतिरेकाभ्यां विपरीतज्ञानादेर्दोषाधीनत्वाधिगमान्न केवलात्मधर्मतेत्यर्थः। दोषस्य निमित्तत्वाद् , भावकार्यस्योपादाननियमाद् , अनिर्वाच्याविद्यायाश्चासम्मतेः, आत्मैव५ विपर्ययादेरुपादानमिति चोदयति — अत्राहेति। विपरीतग्रहादेर्दोषोत्थत्वं सप्तम्यर्थः। अग्रहादित्रितयम् अविद्या। विपर्ययादेः सत्योपादानत्वे सत्यत्वप्रसङ्गाद् नात्मा तदुपादानम् , किन्तु दोषस्य चक्षुरादिधर्मत्वग्रहणाद् , अग्रहणादेरपि दोषत्वात् करणधर्मत्वे[र्मत्वम् ] ; करणम् अविद्योत्थमन्तःकरणम्। न च तद्धेतुरविद्याऽसिद्धेति वाच्यम् ; अज्ञोऽहमित्यनुभवात् , स्वापे चाज्ञानपरामर्शात् तदवगमात् , कार्यलिङ्गकानुमानादागमाच्च तत्प्रसिद्धेरिति परिहरति— नेत्यादिना। संगृहीतचोद्यपरिहारयोश्चोद्यं विवृणोति— यत्त्विति। अविद्यावत्त्वेऽपि ज्ञातुरसंसारित्वादुत्खात-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. इतीति शेषः। २. न द्वितीयः इत्याह— न चेति। ३. अनिर्वाच्यस्य परमार्थधर्मत्वाभावादिति भावः। ४. दोषस्य तामसत्वमुपपादयति— तम इति। ‘तमश्शब्दिताज्ञानोत्थः वस्तुप्रकाशप्रतिबन्धकस्तिमिरकाचादिः दोषः’ इति पाठः स्यात्। अज्ञानं ज्ञानाभावः, मिथ्याधीः भ्रमः। ५. ‘तस्यैव विपर्ययादेरुपा- दानत्व’मिति पा.।

[[६०५]]

ऽविद्या; तदेव चाविद्याधर्मवत्त्वं क्षेत्रज्ञस्य संसारित्वम् ; तत्र यदुक्तम् ‘ईश्वर एव क्षेत्रज्ञो१, न संसारी’ इति, एतदयुक्तम् - इति। तन्न; यथा करणे चक्षुषि विपरीतग्राहकादिदोषस्य दर्शनान्न विपरीतादिग्रहणं तन्निमित्तो वा तैमिरिकत्वादिदोषो ग्रहीतुः, चक्षुषः संस्कारेण तिमिरेऽपनीते ग्रहीतुरदर्शनान्न ग्रहीतुर्धर्मो यथा, तथा सर्वत्रैवाग्रहणविपरीतसंशयप्रत्ययाः २तन्निमित्ताः करणस्यैव कस्यचिद् भवितुमर्हन्ति, न ज्ञातुः क्षेत्रज्ञस्य। संवेद्यत्वाच्च तेषां प्रदीपप्रकाशवन्न ज्ञातृ- धर्मत्वम्। संवेद्यत्वादेव स्वात्मव्यतिरिक्तसंवेद्यत्वम्। सर्वकरणवियोगे च कैवल्ये सर्ववादिभिरविद्यादिदोषवत्त्वा- धर्मः, न तु कर्तुरात्मनः, चक्षुष्येव करणे तद्दोषदर्शनात्। एवमग्रहणादिहेतुरविद्याऽपि करणस्यैव धर्मो, न तु कर्तुरात्मनः। इदमेव सङ्क्षिप्तमर्थं विस्तरेण वक्ति— यत्त्वित्यादिना। अविद्याया ज्ञातृधर्मत्वादविद्यावत्त्वस्यैव संसारित्वात् क्षेत्रज्ञः संसार्येवेति कृत्वा तस्या- संसारीश्वरत्वकथनमयुक्तमिति यत्पूर्वपक्षिणोक्तम् , तन्न। कुतः? करणे चक्षुष्येव विपरीतग्राहकसंशयोत्थापकाग्रहणात्मकतिमिरादि- दोषदर्शनात्। ग्रहीतुर्विपरीतादिग्रहणं न; तन्निमित्तभूतस्तिमिरादिदोषोऽपि न। कुतो न? इत्यत आह— चक्षुष इति। चक्षुषः संस्कारेण हेतुना चक्षुषः सकाशात् तिमिरादिदोषेऽपनीते सति ग्रहीतुस्तद्दोषस्य, तत्प्रयुक्ताग्रहणादेर्वा अदर्शनात्। तस्मात् तिमिरादिदोषो न ग्रहीतुर्धर्मः, किन्तु करणचक्षुर्धर्म एव। एवं दृष्टान्तमुपपाद्य दार्ष्टान्तिकमुपपादयति— तथेति। सर्वत्रेति। सर्वव्यवहारेष्वित्यर्थः। अग्रहणविपरीतसंशयात्मकाः प्रत्ययाः सनिमित्ताः सकारणाः कस्यचित् करणस्यैव धर्मा भवितुमर्हन्ति, ज्ञातुः क्षेत्रज्ञस्य धर्मा भवितुं नार्हन्ति। यथा प्रदीपप्रकाशो न द्रष्टृपुरुषधर्मस्तथा तेषामग्रहणादीनां न ज्ञातृधर्मत्वं, संवेद्यत्वात् ज्ञेयत्वात्। ज्ञात्रा हि ज्ञायन्ते ते। येन यज्ज्ञायते स हि तस्माद् भिन्नः; यथा पुरुषो घटात्। न चास्य लक्षणस्य व्यभिचारः शङ्क्यः सुखादिषु , सुखादीनां मनआदिधर्मत्वात्। नापि सत्यत्वानन्दा[नन्दत्वा]दिषु , तेषामात्मानन्यत्वाभ्युपगमात्। निर्धर्मकत्वाच्चात्मनः। न च तेषां संवेद्यत्वे विप्रतिपत्तव्यमित्याह— संवेद्यत्वादेवेति। स्वात्मव्यतिरिक्तस्य सर्वस्यापि जगत्सं[जगतः सं]वेद्यत्वाद् अविद्यादयोऽप्यात्मव्यतिरिक्तत्वेन संवेद्या एव। किञ्चाविद्यादीनामात्मधर्मत्वाभ्युपगमो द्वैतिनामपि विरुद्ध इत्याह— सर्वकरणेति। कैवल्ये मोक्षे चक्षुरादिकरणवियोगे सति सर्ववादिभिरात्मनोऽविद्यादिदोषवत्त्वस्यानभ्युपगमादिति। नन्वात्मधर्मः सन्नपि अविद्याऽग्रहणादिः मुक्तौ तस्मादपैतीत्यत आह— क्रमेण व्याचष्टे— यत्त्वित्यादिना। विपरीतादिग्रहणमिति। विपरीतादिग्रहणं न ग्रहीतुरिति सम्बन्धः। तत्र हेतुमाह— चक्षुषः संस्कारेणेति। अग्रहणादिः न तत्त्वत आत्मधर्मः, दोषत्वात् , कामिलादिवदित्युक्तम्। हेत्वन्तरमाह— संवेद्यत्वाच्चेति। ननु प्रदीपप्रकाशस्य परवेद्यत्वादनात्मधर्मत्वम्। भ्रमादेस्तु स्वसंवेद्यत्वादात्मधर्मत्वं भविष्यतीत्याशङ्क्याह—स्वात्मव्यतिरिक्त (स्य)संवेद्यत्वमिति । अग्रहणादिः परवेद्यः, वेद्यत्वाद्, दीपवदित्यर्थः। किञ्चाग्रहणादिर्नात्मधर्मः, व्यभिचारित्वात् , कृशत्वा- दंष्ट्रोरगवदविद्या किं करिष्यतीत्याशङ्क्याह— तदेवेति। मिथ्याज्ञानादिमत्त्वमेवात्मनः संसारित्वमिति स्थिते, फलितमाह— तत्रेति। ‘न; करणे चक्षुषि’ इत्यादिनोक्तमेव परिहारं प्रपञ्चयति— तन्नेत्यादिना। तिमिरादिदोषस्तत्कृतो विपरीतग्रहादिश्च न ग्रहीतुरात्मनोऽस्तीत्यत्र हेतुमाह— चक्षुष इति। तद्गतेनाञ्जनादिसंस्कारेण तिमिरादौ पराकृते देवदत्तस्य ग्रहीतुर्दोषाद्यनुपलम्भान्न तस्य तद्धर्मत्वम्। अतो विमतं तत्त्वतो नात्मधर्मो दोषत्वात् , तत्कार्यत्वाद्वा, सम्मतवदित्यर्थः। किञ्च विपरीतग्रहादिस्तत्त्वतो नात्मधर्मः, वेद्यत्वात् , सम्प्रतिपन्नवदि- त्याह— संवेद्यत्वाच्चेति। किञ्च यद् वेद्यं तत् स्वातिरिक्तवेद्यम् , यथा दीपादीति व्याप्तेर्विपरीतग्रहादीनामपि वेद्यत्वादतिरिक्तवेद्यत्वे३, संवेदिता न संवेद्यधर्मवान् , वेदितृत्वाद् , यथा देवदत्तो न स्वसंवेद्यरूपादिमानित्यनुमानान्तरमाह— संवेद्यत्वादेवेति। किञ्च विपरीतग्रहादयः तत्त्वतो नात्मधर्माः, व्यभिचारित्वात् , कृशत्वादिवदित्याह— सर्वेति। उक्तमेव विवृण्वन्नात्मनो विपरीतग्रहादिः

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. क्षेत्रज्ञः ईश्वर एवेत्यन्वयः। २. ‘सनिमित्ताः’ इति रा.पा.। ३. सिद्धे इति शेषः। तेषामात्मधर्मत्वं वारयितुमनुमानान्तरम्—संवेदितेत्यादि। देवदत्तेन संवेद्यं रूपादि देवदत्तधर्मो न भवतीति दृष्टान्तोपपत्तिः।

[[अ. १३. श्लो. २]] [[६०६]]

नभ्युपगमात्१। आत्मनो यदि २क्षेत्रज्ञस्याग्न्युष्णवत् स्वो धर्मस्ततो न कदाचिदपि तेन वियोगः स्यात्। अविक्रियस्य च व्योमवत् सर्वगतस्यामूर्तस्यात्मनः केनचित् संयोगवियोगानुपपत्तेः सिद्धं क्षेत्रज्ञस्य नित्यमेवेश्वरत्वम्। ‘अनादित्वा- न्निर्गुणत्वाद्’ (भ.गी.१३.३२) इत्यादीश्वरवचनाच्च। यदीति। अग्नेरुष्णत्ववद् यदि क्षेत्रज्ञस्य संसारित्वं स्वधर्मः स्यात् , तर्हि तेन धर्मेण तस्य धर्मिणः कदाचिदपि वियोगो न स्यात् , न हि उष्णत्वमग्नेरपैति क्वापि। यदा त्वपैति तदाऽग्निरेव नश्यति। दोषान्तरमप्याह— अविक्रियस्येति। अविक्रियस्य धर्मसंयोगवियोगा- त्मिका विक्रिया नोपपद्यते। व्योमवत् सर्वगतस्य चात्मनः केनचिदपूर्वः संयोगः, केनचिद् वियोगश्च नोपपद्यते। तथा अमूर्तस्याप्यात्मनः। लोके हि मूर्तस्य परिच्छिन्नस्य सविक्रियस्यैव वस्तुनो घटादेः केनचित् संयोगवियोगौ दृश्येते। तस्मात् क्षेत्रज्ञस्य नित्यमेवेश्वरत्वमसंसारित्वं सिद्धम्। नित्यमित्यनेन द्वैतमत इव मुक्तावेवासंसारित्वं क्षेत्रज्ञस्येति नोच्यते, किन्तु सर्वदाऽपि मुक्त एव क्षेत्रज्ञः, नित्यमुक्तत्वादीश्वरस्येत्युच्यत इति गम्यते। न च कथं बन्धदशायामप्यसंसारित्वमिति वाच्यम् ; बन्धस्य संसारस्य अविद्यादिधर्मत्वेन व्यवस्थापितत्वात्। ननु तिमिरादिदोषः करणस्य चक्षुषो धर्मो यथा, तथा अग्रहणादिदोषः कस्यचित् करणस्य धर्म इत्युक्तम् , तच्च करणं न दर्शितमिति चेद् , उच्यते— ज्ञेयस्य देहादेः क्षेत्रस्य धर्माः सुखदुःखमोहेच्छादय इति प्रागेवोक्तं भाष्यकृद्भिरिति। देहेन्द्रियमनांसि हि करणानि। न चेन्द्रियमनसां करणत्वेऽपि देहस्य न करणत्वमिति वाच्यम् ; गमनादिक्रियासु पादादिद्वारा देहस्यापि करणत्वदर्शनात्। तेषु चाविद्याग्रहणादिदोषा अन्तःकरणधर्माः। तस्मादविद्याकृतः सर्वोऽपि संसारोऽन्तःकरणस्यैव। अन्तःकरणादविद्यायां विद्यया अपनीतायां सत्यामात्मनः संसारादर्शनादिति सिद्धं क्षेत्रज्ञस्यासंसारीश्वरत्वम्। उक्तार्थे गीतां प्रमाणयति— अनादित्वादिति। न हि निर्गुणस्य संसारधर्मप्रसक्तिरिति भावः। एतावता ग्रन्थसन्दर्भेणेश्वरस्य संसारित्वं प्राप्तमिति प्रश्नः समाधापितः। एतेन वशीकृतप्रकृतेः स्वतन्त्रस्येश्वरस्य कथं जीवत्वप्रयुक्तः संसार इति शङ्काऽपि प्रत्युक्ता। अज्ञानकृतत्वाज्जीवस्य संसारित्वव्यवहाराय। दिवदित्याह— सर्वकरणवियोगे चेति। ननु मोक्षे मनसो वियोगाद् भ्रमाद्यनुत्पादः। अतो व्यभिचारित्वमप्रयोजकमित्या- शङ्क्याह— अविक्रियस्य चेति। आत्मा न संयोगाद्यर्हः, सर्वगतत्वाद्, अविक्रियत्वाद्, अमूर्तत्वाद्, व्योमवत्। ३व्योम्नश्च संयोगित्वे न द्वितीयः संयोगः स्यात् , संयुक्तस्वरूपातिरिक्तरूपान्तराभावात्। कल्पितसंयोगैः संयोगित्वे चातात्त्विकत्व- प्रसङ्गाद् न साध्यवैकल्यम्। तदेवं विपर्ययादेः तत्त्वतः आत्मधर्मत्वाभावे किं साध्यमित्याशङ्क्याह— सिद्धं क्षेत्रज्ञस्येति। अज्ञत्वादिविरुद्धधर्माक्रान्तत्वेन क्षेत्रज्ञस्येश्वरत्वासम्भावना जायते। ततोऽज्ञत्वाभावे सा शङ्का निरस्ता स्यात्। चिन्मात्र- तन्त्रानाद्यनिर्वचनीयाविद्याप्रतिबिम्बितस्य चिद्धातोरज्ञत्वादेरतात्त्विकत्वात् तात्त्विकेश्वरत्वाविरोधादित्यर्थः। निर्धर्मकत्वे भगवद्वाक्यमपि प्रमाणमित्याह— अनादित्वादिति। स्वाभाविको वाऽऽगन्तुको वेति विकल्प्याऽऽद्यं दूषयति—आत्मन इति। अतोऽनिर्मोक्षः, अविद्यातज्जध्वस्तेरसद्भावादिति भावः। आगन्तुकोऽपि स्वतश्चेद् अमुक्तिः, परतश्चेत् , तत्राह— अविक्रियस्येति। विभुत्वादविक्रियत्वादमूर्तत्वाच्च आत्मा व्योमवन्न केनचित् संयोगविभागावनुभवति; न हि विक्रियाऽभावे व्योम्नि वस्तुतः संयोगविभागौ; असङ्गत्वाच्चात्मनस्तदसंयोगाद् न परतोऽपि तस्मिन् विपरीतग्रहादीत्यर्थः। तस्यात्मधर्मत्वाभावे फलितमाह— सिद्धमिति। आत्मनो निर्धर्मकत्वे भगवदनुमतिमाह— अनादित्वादिति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘नभ्युपगमादात्मनः। यदि’ इति रा.पा.। २. ‘क्षेत्रज्ञस्य संसारित्वमग्न्युष्णत्ववत्’ इति पा.। ३. व्योम्नः सर्वमूर्तद्रव्यसंयोगित्वेन परैरङ्गीकारात् दृष्टान्ते साध्य- वैकल्यं परिहरति— व्योम्नश्चेति।

[[६०७]]

[जीवब्रह्माभेदे शास्त्रानर्थक्यादिदोषपरिहारः] नन्वेवं सति संसारसंसारित्वाभावे शास्त्रानर्थक्यादिदोषः स्यादिति चेत् ? न ; सर्वैरभ्युपगतत्वात्। सर्वैः हि आत्मवादिभिरभ्युपगतो दोषो नैकेन परिहर्तव्यो भवति१। कथमभ्युपगत इति? मुक्तात्मनां हि संसारसंसारित्व- व्यवहाराभावः सर्वै-रेवात्मवादिभिरिष्यते। न च तेषां शास्त्रानर्थक्यादिदोषप्राप्तिरभ्युपगता। तथा नः क्षेत्रज्ञानाम् ईश्वरैकत्वे२ सति शास्त्रानर्थक् यं भवतु , अविद्याविषये चार्थवत्त्वम्। यथा द्वैतिनां सर्वेषां बन्धावस्थायामेव शास्त्रा- द्यर्थवत्त्वम् , न मुक्तावस्थायाम् , एवम्। अथ संसाराभावप्रसङ्गश्चेति दोषं परिहर्तुमारभतेऽनुवादपूर्वकम्—नन्वेवमित्यादिना। ४संसारित्वं संसारः। दोषः स्यादित्यन्त- मनुवादः। नेति परिहार इति विवेकः। तत्र हेतुमाह— सर्वैरिति। तस्यार्थमाह— सर्वैरिति। देहादन्यः आत्माऽस्तीति वदन्तः आस्तिकाः आत्मवादिनः। संसारः, संसारित्वव्यवहारश्च तयोरभावः। संसारे सति संसारित्वव्यवहारः स्यात् , संसाराभावात् तद्व्यवहाराभावः। एवं संसाराभावादेव तेषां मुक्तत्वव्यवहारः। तेषां मुक्तात्मनामित्यर्थः। तेषां शास्त्रानर्थक्यादिकं यद्यपि प्राप्तं, तथापि न तद् दोषतयाऽभ्युपगतम्। न हि शास्त्रादिना मुक्तानां कोऽप्यर्थः, येन मुक्तान् प्रति शास्त्रादेरर्थवत्त्वं स्यात्। आदिपदाद् बन्धमुक्तिव्यवस्थाभावादिर्गृह्यते। ईश्वरैकत्वे सतीति। विद्यावस्थायामित्यर्थः। अर्थवत्त्वमिति। शास्त्रस्येति शेषः। एवमिति। अविद्यावस्थायामेव शास्त्रादेरर्थवत्त्वं, न तु विद्यावस्थायामित्यर्थः। द्वैतमते यथा जीवस्य मुक्तिदशायां शास्त्राद्यानर्थक् यम् , तथा अद्वैतमते जीवस्य विद्यादशायां शास्त्राद्यानर्थक्यम्। द्वैतमते यथा जीवस्य संसारदशायां शास्त्राद्यर्थवत्त्वम् , तथा अद्वैतमते जीवस्याविद्यादशायां शास्त्राद्यर्थवत्त्वमिति तुल्यमिति भावः। विद्यादिशास्त्रस्यार्थवत्त्वान्यथानुपपत्त्या तात्त्विकमेव संसारित्वं वक्तव्यमिति शङ्कते— नन्वेवमिति। किं परमार्थ- स्वरूपपर्यालोचनया शास्त्रस्यार्थवत्त्वं विवक्षितम् , किं वा व्यवहारतः? प्रथमं प्रत्याह— न, सर्वैरिति। परमार्थे आत्म- स्वरूपावस्थाने सर्वैः शास्त्रानर्थक्यस्याभ्युपगमाद् अनुदय एवार्थापत्तेरित्यर्थः। ननु सर्वैरभ्युपगतमित्येतावता तव किमायातमित्याशङ्क्याह— सर्वैर्हीति। सर्वैरभ्युपगतत्वाद् गुण एव स इत्यर्थः। सर्वेषामभ्युपगमं विवृणोति प्रश्नपूर्वम्— कथमित्यादिना। अस्माकं क्षेत्रज्ञानामीश्वरैकत्वेऽवगते सति शास्त्रानर्थक् यं भवतु , न तद् दोषायेत्यर्थः। द्वितीयेऽन्यथा ऽप्युपपत्तिमाह— अविद्याविषये चेति। ईश्वरत्वे सत्यात्मनोऽसंसारित्वे विधिशास्त्रस्याध्यक्षादेश्चानर्थक्यात् तात्त्विकमेव तस्य संसारित्वमिति शङ्कते— नन्विति। विद्यावस्थायामविद्यावस्थायां वा शास्त्रानर्थक्यमिति विकल्प्याऽऽद्यं प्रत्याह—न, सर्वैरिति। विदुषो मुक्तस्य संसारतदाधारत्वयोरभावस्य सर्ववादिसम्मतत्वात् तत्र शास्त्रानर्थक्यादि चोद्यं मयैव न प्रतिविधेयमित्यर्थः। संग्रहवाक् यं विवृणोति—सर्वैरिति। अभिप्रायाज्ञानात् प्रश्ने स्वाभिप्रायमाह— कथमित्यादिना। तर्हि मुक्तान् प्रति विधिशास्त्रस्याध्यक्षादेश्चानर्थक्यमित्याशङ्क्याह— न चेति। न हि व्यवहारातीतेषु तेषु गुणदोषाशङ्केत्यर्थः। द्वैतिनां मते ३मुक्तात्मस्विवास्मत्पक्षेऽपि क्षेत्रज्ञस्येश्वरत्वे तं प्रति च शास्त्राद्यानर्थक् यं विद्यावस्थायामास्थितमिति फलितमाह— तथेति। द्वितीयं दूषयति— अविद्येति। तदेव दृष्टान्तेन विवृणोति— यथेति। एवमद्वैतिनामपि विद्योदयात् प्रागर्थवत्त्वं शास्त्रादेरिति शेषः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. २ ] १. ‘यश्चोभयोः समो दोषः’ इति न्यायादिति भावः। ‘एवमेते दोषाः साधारणत्वान्नान्यतरस्मिन् पक्षे चोदयितव्या भवन्तीत्यदोषतामेवैषां द्रढयति, अवश्याश्रयि- तव्यत्वात्’(ब्र.सू. २-१-१०) इति भाष्यमनुसंधेयम्। २. साक्षात्कृते इति शेषः। ३. मुक्तात्मस्विति विषयसप्तमी। ४. भाष्ये ‘नन्वेवं संसारित्वाभावे’ इति पा. भाति।

[[६०८]]

नन्वात्मनो बन्धमुक्तावस्थे परमार्थत एव वस्तुभूते द्वैतिनां १नः सर्वेषाम् , अतो हेयोपादेयतत्साधनसद्भावे शास्त्रार्थवत्त्वं स्यात्। अद्वैतिनां पुनर्द्वैतस्यापरमार्थत्वादविद्याकृतत्वाद् बन्धावस्थायाश्चात्मनोऽपरमार्थत्वे निर्विषयत्वा- च्छास्त्राद्यानर्थक्यमिति चेत्? न ; आत्मनो२ऽवस्थाभेदानुपपत्तेः। यदि तावदात्मनो बन्धमुक्तावस्थे, युगपत् स्यातां क्रमेण वा? युगपत्तावद् विरोधान्न सम्भवतः। स्थितिगती इवैकस्मिन्। ३क्रमभावित्वे च निर्निमित्तत्वेऽनिर्मोक्षप्रसङ्गः, द्वैती पुनः पूर्वपक्षयति— नन्वित्यादिना चेदित्यन्तेन ग्रन्थेन। सर्वेषां द्वैतवादिनां मते आत्मनो बन्धमुक्तावस्थे परमार्थत एव वस्तुभूते स्तः। परमार्थभूते एव भवत इत्यर्थः। न तु मिथ्याभूते इत्येवकारार्थः। अत एवमात्मनो बन्धमुक्तावस्थयोर्वास्तवत्वात् हेयस्य संसारस्य तद्धेतुकामादिदोषस्य च, उपादेयस्य मोक्षस्य तद्धेतुशमदमज्ञानादेश्च सद्भावे सति शास्त्रादेरर्थवत्त्वं स्यात्। अपरमार्थत्वात् मिथ्यात्वात्। आत्मनो बन्धावस्थायाश्चाविद्याकृतत्वाद्धेतोः अरपरमार्थत्वे सति निर्विषयत्वाद् विषयाभावाद्, बन्धस्यैवाभावादित्यर्थः; शास्त्रानर्थक् यं स्यादिति। अयं भावः - सर्पस्य सत्यत्वे तत्ताडनदण्डादेरर्थवत्त्वं स्यात् , सर्पस्यैव मिथ्यात्वे किं दण्डादिना? स्वप्नोपलब्ध- पश्वादेः सत्यत्वे तत्पोषणार्थं तृणाद्याहरणश्रमोऽर्थवान् स्यात् , तस्यैव मिथ्यात्वे किं श्रमेण? मनोरथोपलब्धकान्तायाः सत्यत्वे तद्भोग- याचनादिश्रमोऽर्थवान् स्यात् , तस्या एव मिथ्यात्वे किं याचनादिना? एवं जीवस्य बन्धः सत्यो यदि तन्मोक्षाय गुरुशास्त्रादेरर्थवत्त्वं स्याद् , बन्धस्यैवासत्यत्वे किं गुरुशास्त्रादिना? तस्माद् द्वैतमते शास्त्राद्यर्थवत्त्वमस्ति, न त्वद्वैतमत इति। परिहरति— नेति। हेतुमाह— आत्मन इति। अवस्थाभेदोऽवस्थाविशेषो बन्धादिरूपः, तद्वत्त्वस्यानुपपत्तेः। अनुपपत्तिमेव दर्शयति— यदीति। यदीति प्रश्नार्थे। तावच्छब्दो निश्चयार्थे। आत्मनो बन्धमुक्तावस्थे तावद् यथार्थतो युगपत् स्यातां यदि भवेतां किम् , यद्वा क्रमेण? इति विकल्पः। तावत् तत्र स्थितिगती इव बन्धमोक्षौ युगपदेकस्मिन्नात्मनि न सम्भवतः - गतिनिवृत्तिगमने यथैकस्मिन् पुरुषे युगपन्न सम्भवतः, तथा बन्धमुक्तावस्थे एकस्मिन्नात्मनि युगपन्न सम्भवत इत्यर्थः। तत्र हेतुमाह— विरोधादिति। स्थितिगत्योरिव बन्धमोक्षयोः परस्परविरोधात्। न हि विरुद्धार्थयोः सामानाधिकरण्यं यौगपद्येन सम्भवति, शीतोष्णयोः सुखदुःखयोश्च युगपत्सामा- नाधिकरण्यादर्शनाच्च। इदानीं सुखमनुभवन्नपि पुरुषः क्षणान्तरे वृश्चिकदंशनादिना दुःखमनुभवतीति युगपदित्युक्तम्। एवमिदानीं तिष्ठन्नपि पुरुषः क्षणान्तरे गच्छेदिति युगपदित्युक्तं भाष्येऽपि। तथा इदानीं बद्धस्यात्मनः कालान्तरे मुक्तिः स्यादिति युगपदित्युक्तम्। अथ द्वितीयं विकल्पं दूषयति— क्रमेति। क्रमेणात्मनो बन्धमोक्षौ स्त इति पक्षेऽपि किं निर्निमित्तौ भवतः? उत सनिमित्तौ? इति विकल्प्य प्रथमं दूषयति—निर्निमित्तत्व इति। यदि निमित्तं विनाऽप्यात्मनः क्रमेण बन्धमोक्षौ स्याताम् , तर्हि मुक्तस्याप्यात्मनो निमित्तं न द्वैतवादिभिरद्वैतवादिनां साम्यं भवति, अवस्थाभेदाभावादित्याह— नन्वात्मनो बन्धमुक्तावस्थे इत्यादिना। द्वैत- वादिनामपि तत्त्वत आत्मनोऽवस्थाभेदो निरूपयितुं न शक्यत इत्याह— नात्मनोऽवस्थाभेदोऽनुपपत्तेरिति । क्रमभावित्वपक्षे ऽपि निर्निमित्तत्त्वं सनिमित्तत्त्वं वा? आद्ये सदा प्रसङ्गाद् अनिर्मोक्षः स्यात्। द्वितीयं प्रत्याह— स[अन्य]निमित्तत्वे चेति। द्वैतिभिरद्वैतिनां न साम्यमिति शङ्कते— नन्विति। अवस्थयोर्वस्तुत्वे तन्मते शास्त्राद्यर्थवत्त्वं फलितमाह— अत इति। सिद्धान्ते तु नावस्थयोर्वस्तुतेति वैषम्यमाह— अद्वैतिनामिति। व्यावहारिकं द्वैतं तन्मतेऽपि स्वीकृतमित्याशङ्क्याह— अविद्येति। कल्पितद्वैतेन व्यवहारान्न तस्य वस्तुतेत्यर्थः। बन्धावस्थाया वस्तुत्वाभावे दोषान्तरमाह— बन्धेति। आत्मनस्तत्त्वतोऽवस्थाभेदो द्वैतिनामपि नास्तीति परिहरति— नेति। अनुपपत्तिं दर्शयितुं विकल्पयति— यदीति। तत्राद्यं दूषयति— युगपदिति। द्वितीयेऽपि, क्रमभाविन्योरवस्थयोः निर्निमित्तत्वं सनिमित्तत्वं वेति विकल्प्य, आद्ये सदा प्रसङ्गाद् बन्धमोक्षयोरव्यवस्था स्यादित्याह— क्रमेति। कल्पान्तरं निरस्यति—

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘नः’ इति क्वचिन्न। २. ‘अवस्थाभेदवत्त्वानुपपत्तेः’ इति पा.। ३. ‘क्रमभावित्वे च निर्निमित्तत्वं सनिमित्तत्वं वा’ इति पा.।

[[६०९]]

अन्यनिमित्तत्वे च स्वतोऽभावादपरमार्थत्वप्रसङ्गः। तथा च सत्यभ्युपगमहानिः। विना पुनर्बन्धः स्यादिति मोक्षाभावः स्यादात्मनः। द्वितीयं दूषयति— अन्यनिमित्तत्व इति। यद्यात्मनो बन्धमोक्षौ प्रत्यविद्यारागादिकं विद्याशमादिकं वा किञ्चिन्निमित्तमस्ति, तर्हि तेनैव निमित्तेनात्मनो बन्धमोक्षौ भवतः, न तु स्वत इत्यपरमार्थत्वमेव बन्धमोक्षयो- रापतितम्। यत् स्वतो नास्ति तद् हि अपरमार्थं वस्त्विति लोकस्थितिः। यथा स्वतोऽविद्यमानरज्जुसर्पशुक्तिरजतादेरपरमार्थत्वम्। न हि रज्जुसर्पादिकं कोऽपि द्वैती सत्यं मन्यते, किन्तु मिथ्याभूतमेव। चक्षुर्गतकाचकामलादिदोषनिमित्तकत्वाद् रज्जुसर्पादेः। सत्यसर्पस्तु न काचादिदोषनिमित्तक इति निर्निमित्त एवेति परमार्थभूत एव। तस्माद् निर्निमित्त एव पदार्थः सत्यः, सनिमित्तस्तु असत्य एव। न च सत्यसर्पोऽप्यज्ञाननिमित्तकत्वात् सनिमित्त एवेत्यसत्य एवेति वाच्यम् ; अद्वैतिमते तथैव, ब्रह्मान्यस्य सर्वस्यापि मिथ्यात्वात्। द्वैतिमते तु सत्यसर्पो नि[र्नि]मित्तत्वेन सत्य इत्यभ्युपगम्यत इति तन्मतानुसारेणेयमुक्तिः। यद्वा अद्वैतिनोऽपि काचादिदोषाप्रयुक्तं सर्पं व्यावहारिकसत्यं मन्यन्ते, रज्जुसर्पं तु दोषप्रयुक्तं व्यवहारतोऽप्यसत्यं मन्यन्त इति तावन्मात्रेणेयमुक्तिः। ननु भवत्वात्मनो बन्धमोक्षयोरपारमार्थ्यम् , किं ततः? अत आह— तथा चेति। बन्धमोक्षयोरपरमार्थत्वे सतीत्यर्थः। अभ्युपगमहानिः - बन्धमोक्षौ सत्याविति द्वैतिभिरभ्युपगताविति बन्धमोक्षसत्यत्वाभ्युपगमस्य हानिः क्षतिः। स्वमतप्रच्युतिरूपदोष इत्यर्थः। ननु सर्वमपि जगत् सनिमित्तत्वादेव सत्यं, निर्निमित्तस्य गन्धर्वनगरस्वप्नरथादेरसत्यत्वात्। सर्पान्निमित्ताज्जातो हि सर्पः सत्यः। सर्पादजातत्वादेव रज्जुसर्पोऽसत्यः। यस्य कार्यस्य यत्कारणं निमित्तत्वेन प्रसिद्धं तस्मान्निमित्ताज्जातं तद् वस्तु सत्यमिति हि लोकव्यवहारः। न हि निर्निमित्तं वस्तु जगति किञ्चिदप्यस्ति। रज्जुसर्पादयस्तु प्रसिद्धसर्पादिनिमित्तादनुद्भूताः इति, अप्रसिद्धरज्ज्वादि- निमित्तादुद्भूताः इति च असत्याः इत्यभ्युपगम्यन्ते। तस्माद् विपरीतनिमित्तादुद्भूतमेव वस्त्वपरमार्थम् , न तु सनिमित्तं वस्त्विति सनिमित्तौ बन्धमोक्षौ परमार्थावेवेति चेत् , मैवम् । ‘वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इति श्रुत्या कारणमेव सत्यं, कार्यं तु मिथ्यैव। न हि कारणमृदादिव्यतिरेकेण कार्यस्य घटादेरुपलम्भः। तस्मादनिमित्तं निमित्तमेव वस्तु सत्यम्। अत एव ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्यद्वैत्यभ्युपगमः। ‘तत्सत्यम् , अतोऽन्यदार्तम्’ इति श्रुतिश्च। मृदादिवस्तु घटादीन् प्रति निमित्तमपि जलादिजन्यत्वादनिमित्तं न भवतीति नैव सत्यम्। ‘मृत्तिकेत्येव सत्यम्’ इति तु घटादिविकारदृष्ट्या प्रोक्तम्। एवं सर्वं जगदपि कार्यत्वान्निमित्तं न भवतीत्यसत्यमेव। ब्रह्म तु सर्वस्य निमित्तम् , ‘यतो वा इमानि भूतानि जायन्ते’ इति श्रुतेः। अकार्यत्वादनिमित्तं च।२ अत एव हि ‘अजो नित्यः शाश्वतोऽयं पुराणः’ इत्यादिसमन्वयः। न हि सनिमित्तं वस्त्वजं स्यात् , न वा नित्यम्। अत एवानादिरात्मेत्याद्यपि सङ्गच्छते। तथा चानिमित्तं निमित्तं वस्तु सत्यमिति लक्षणस्य ब्रह्मण्येव समन्वयादन्यत्राप्रवृत्तेश्चाव्यभिचारित्वं स्थितम्। एवं स्थिते सनिमित्तत्वेन भवदभिमतस्य सर्वस्यापि द्वैतस्यासत्यत्वं दुष्परिहरमेव, किम्पुनर्दुर्निमित्तस्य रज्जुसर्पादेरिति। ननु भवतु नाम वस्तुतोऽसत्यत्वं जगतः, यावद्व्यवहारं तु तत्सत्यमेव। तथा च सनिमित्तौ बन्धमोक्षौ यावद्व्यवहारं सत्यावेवेति चेत् , नेति को वदेत्? अज्ञानाश्रयो हि बन्धमुक्त्यादिसर्वव्यवहारः, ततश्चाज्ञानदशायामात्मनो बन्धमोक्षौ स्त एव, विद्यावस्थायामेव हि तदभावोऽस्माभिरुच्यते। न चैवमात्मनो बन्धमुक्त्यवस्थावत्त्वं सिद्धमिष्टमिति भ्रमितव्यम् , विद्यावस्थायां तदभावादेव वस्तुतस्तदभाव बन्धमोक्षावस्थे न परमार्थे, औपाधिकत्वात् , स्फटिकलौहित्यवदित्यर्थः। अन्येति। बन्धमोक्षावस्थे न परमार्थे, अस्वाभाविकत्वात् , स्फटिकलौहित्यवदिति स्थिते, फलितमाह— तथा चेति। १वस्तुत्वमिच्छता ऽवस्थयोरवस्तुत्वोपगमादित्यर्थः। १. वस्तुत्वम् परमार्थत्वम्। २. एतदनन्तरम् - (निमित्तं यस्य नास्ति तदनिमित्तम्) इति कुण्डलितः पाठो दृश्यते। स टिप्पणरूपः स्यात्।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १३. श्लो. २]] [[६१०]]

किञ्च बन्धमुक्तावस्थयोः पौर्वापर्यनिरूपणायां बन्धावस्था पूर्वं प्रकल्प्या अनादिमती अन्तवती च। तच्च प्रमाणविरुद्धम्। तथा मोक्षावस्था आदिमती अनन्ता च प्रमाणविरुद्धैवाभ्युपगम्यते। न चावस्थावतोऽवस्थान्तरं१ इति सिद्धत्वात्। तस्मान्नास्त्यात्मनः परमार्थतो बन्धमुक्तावस्थे। अत एव ‘न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः। न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता॥’ इति श्रुतिरुपपद्यते। यद्येवमात्मनः परमार्थतो बन्धमुक्तावस्थे न स्त इति नाभ्युपगम्यते, तर्ह्यनित्यत्वमप्यात्मनः स्यादित्याह— किञ्चेति। बन्धं विना मुक्त्ययोगान्मुक्तिर्बन्धपूर्विका, तस्य च बन्धस्यान्ताभावे मुक्त्ययोगाद् बन्धावस्था सान्ता, आद्यदर्शनादनादिश्च। तच्चेति। अनादिः सान्तो बन्ध इति कल्पनं तच्छब्दार्थः। प्रमाणविरुद्धमिति। अनादेरनन्तत्वेन भाव्यत्वादिति भावः। सादिरनन्ता च मोक्षावस्थेत्यप्रमा- णमेवेत्याह— तथेति। सादेः सान्तत्वेनैव भाव्यत्वादिति भावः। तस्मात् सान्तस्य बन्धस्यानादित्वं, सादेर्मोक्षस्यानन्तत्वं चेत्युभयं प्रमाणविरुद्धमेव। अनादित्वानन्तत्वयोर्वैयधिकरण्यादर्शनात्। यस्यादिरस्ति तस्यान्तोऽप्यवश्यमस्ति। यस्यान्तोऽस्ति तस्यादिरप्यव- श्यमस्ति ‘जातस्य हि ध्रुवो मृत्यु’रित्यादिगीतावचनादनुभवाच्च। आत्मैक एवानादिरनन्तश्च। तदन्यत् सर्वं जगत् सादि सान्तं च। ननु आद्यन्तयोर्वैयधिकरण्यमस्ति, प्रागभावस्यानादित्वात् सान्तत्वाच्च, प्रध्वंसाभावस्य सादित्वादनन्तत्वाच्चेति चेत् , मैवम् ; तस्य तार्किकसमयस्याप्रमाणत्वात्। न च अनादिभावत्वे सति ज्ञाननिवर्त्यत्वादज्ञानस्यानादित्वं सान्तत्वं चास्तीति वाच्यम् ; अज्ञानस्यापि सादित्वात् ‘माया चाविद्या च स्वयमेव भवती’ति श्रुतेः। अनादित्ववचनं तु इदमिदानीं जातमिति वक्तुमशक्यत्वा- भिप्रायकम्। यथा अविद्याकार्यस्यापि संसारस्य प्रवाहानादित्वादनादित्वव्यपदेशः। इदं चाज्ञानमात्मन्यध्यस्तत्वादात्मकार्यमेव। यथा जगदविद्यया आत्मन्यध्यस्तं सदात्मकार्यमित्युच्यते। एवं कार्यत्वात् साद्येवाज्ञानमिति तस्य सान्तत्वं युक्तम्। ननु निर्धर्मकस्यात्मनः कर्तृत्वासम्भवादात्मा नाज्ञानं सृजति, जगत्तु सृजत्यज्ञानमात्माश्रयं सत् , अतः कथमविद्यायाः कार्यत्वमिति चेदविद्यां न कोऽपि सृजति, किन्तु सा स्वयमेव भवति ‘माया चाविद्या च स्वयमेव भवती’ति श्रुतेः। तस्मात् सान्तो बन्धः सादिरेव भवितुमर्हति। सादिश्च मोक्षः सान्त एव। न चेष्टापत्तिः, बन्धस्य सादित्वे बन्धात् प्रागसंसारित्वादात्मनः। तदा मोक्षशास्त्राद्यानर्थक्यम्। मोक्षस्य सान्तत्वे पुनर्बन्धप्रसङ्गः; ततश्च (शास्त्रस्य) शास्त्राद्यानर्थक् यम्। नित्यपुरुषार्थं मोक्षं मत्वा हि धनधान्यप्रासादादिकं सर्वमुत्सृज्य मोक्षमार्गे प्रयतते विद्वान् । मोक्षस्यापि स्वर्गादिवदनित्यत्वे व्यर्थोऽयं मोक्षमार्गप्रवृत्तिप्रयास इति न मोक्षशास्त्रे कोऽपि प्रवर्तेतेति। ननु प्रमाणविरुद्धार्थोऽप्यभ्युपगम्यतां, को दोषस्तत्राह— न चेति। अवस्थावतोऽवस्थान्तरं गच्छतः पदार्थस्य नित्यत्वमुप- इतश्च न पारमार्थिकमवस्थावत्त्वमित्याह— किञ्चेति। यदनादि भावरूपं तन्नित्यम् , यथाऽऽत्मेति व्याप्तिविरुद्ध- मित्यर्थः। यत् सादि भावरूपं तदन्तवत् , यथा घटादि [इति] व्याप्त्यन्तरविरोधमाह— तथा मोक्षावस्थेति। किञ्च पूर्वावस्था- परित्यागोत्तरावस्थाव्याप्त्याःसन्तो[स्थावाप्त्योरात्मनो]ऽवश्यमवस्थावतोऽतिशयो वक्तव्यः। तथा च सातिशयत्वादनित्यत्वं इतश्चावस्थयोर्न वस्तुत्वमित्याह— किञ्चेति। अवस्थयोर्वस्तुत्वमिच्छता तयोर्यौगपद्यायोगाद् वाच्ये क्रमे बन्धस्य पूर्वत्वं, मुक्तेश्च पाश्चात्त्यमिति स्थिते बन्धस्या[ना]दित्वकृतं दोषमाह— बन्धेति। तस्याश्चाकृताभ्यागमकृतविनाशनिवृत्तयेऽनादित्वमेष्टव्यम् , अन्तवत्त्वं च मुक्त्यर्थमास्थेयम् । तच्च यदनादिभावरूपं तन्नित्यं यथाऽऽत्मेति व्याप्तिविरुद्धमित्यर्थः। मोक्षस्य पाश्चात्त्यकृतं दोषमाह— तथेति। सा हि ज्ञानादिसाध्यत्वादादिमती पुनरावृत्त्यनङ्गीकारादनन्ता च। तच्च यत् सादिभावरूपं तदन्तवद् यथा पटादीति व्याप्त्यन्तरविरुद्धमित्यर्थः। किञ्च क्रमभाविनीभ्यामवस्थाभ्यामात्मा सम्बध्यते, न वा? प्रथमे पूर्वावस्थया सहैवोत्तरावस्थां गच्छति चेद् , उत्तरावस्थायामपि पूर्वावस्थावस्थानादनिर्मोक्षः, यदि पूर्वावस्थां त्यक्त्वोत्तरावस्थां गच्छति, तदा पूर्वत्यागोत्तराप्त्योरात्मनः सातिशयत्वान्नित्यत्वानुपपत्ति-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘न चावस्थातोऽवस्थान्तरं’ इति पा.।

[[६११]]

गच्छतो नित्यत्वमुपपादयितुं शक्यम्। अथानित्यत्वदोषपरिहाराय बन्धमुक्तावस्थाभेदो न कल्प्यते, अतो द्वैतिनामपि शास्त्रानर्थक्यादिदोषोऽपरिहार्य एवेति समानत्वान्नाद्वैतवादिना परिहर्तव्यो दोषः१। पादयितुं न शक्यम्। घटत्वावस्थावतः कपालत्वावस्थां गच्छतो घटस्य अनित्यत्वदर्शनात्। अवयवित्वावस्थावतो भस्माद्यवस्थां गच्छतः शरीरस्य चानित्यत्वदर्शनात्। एवं बद्धत्वावस्थावतो मुक्तावस्थां गच्छत आत्मनः स्यादेवानित्यत्वम्। ननु २सत्कार्यवादेऽवस्थानामेवानित्यत्वम् , अवस्थावतो द्रव्यस्य तु नित्यत्वमेव। मृद्द्रव्यं हि घटत्वकपालत्वचूर्णत्वाद्यवस्थाः अनुभवदपि मृद्रूपेण नित्यमेवास्ति, घटत्वाद्यवस्थास्तु नश्यन्ति, जायन्ते च। अतोऽवस्था एवानित्याः। एवं बद्धमुक्त्यन्यतरावस्था- वानात्मा नित्य एव, अवस्थाद्वयेऽप्यात्मन एकस्यैवानुगमात्। बन्धमुक्त्यवस्थे त्वनित्ये, बन्धदशायां मुक्त्यभावाद् , मुक्तिदशायां बन्धाभावाच्च। तस्मादवस्थावतोऽप्यात्मनः स्यादेव नित्यत्वमिति चेत् , मैवम् ; असत्कार्यवादस्येव सत्कार्यवादस्यापि दूषितत्वात्। कार्यं पूर्वमसदेव कारकव्यापारेणाविर्भवतीत्यसत्कार्यवादः। यद्यसत एवोत्पत्तिस्तर्हि शशशृङ्गमप्याविर्भवेदिति कृत्वा कार्यं पूर्वं सदेव कारकव्यापारेणाभिव्यज्यत इति सत्कार्यवादः। यदि कार्यं पूर्वमेवास्ति तर्हि कारकव्यापारवैयर्थ्यमेवेति कृत्वा कार्यं न सत् , नाप्यसत् , किन्तु मिथ्यैवेति मिथ्यावादः। एवं स्थिते यदि घटत्वाद्यवस्था घटाद्युत्पत्तेः प्रागेव मृदः सन्ति, तर्हि कुलालव्यापारानर्थक् यं, पिण्डाकारमृद्यपि घटोपलब्धिप्रसङ्गः। यदि प्राक् न सन्ति, तर्हि शशशृङ्गवत् घटस्याप्यनुदयप्रसङ्गः। तस्मान्मृदो घटत्वाद्यवस्था मिथ्याभूता एव। तथा प्रकृतेऽप्यात्मनो बन्धमुक्तावस्थे मिथ्याभूते एव, बन्धात् प्रागेव बन्धसत्त्वे रागादिदोषानर्थक्यप्रसङ्गात् , तदसत्त्वे शशशृङ्गवदनुत्पत्तिप्रसङ्गात् , तथा मुक्तेः प्रागेव मुक्तिसत्त्वे गुरुशास्त्राद्यानर्थक्यप्रसङ्गः, तदसत्त्वे शशशृङ्गवन्मुक्तेरनुत्पत्तिप्रसङ्गः। नन्वेवं मिथ्याकार्यवादेऽप्यवस्था एव मिथ्याभूताः, न तु अवस्थावद् द्रव्यमिति कृत्वा बन्धमुक्त्यवस्थयोरेव मिथ्यात्वम् , आत्मा तु नित्य एव, सत्यत्वात् , मृद्द्रव्यवदिति चेत् , मैवम्। अवस्थानां मिथ्यात्वे तद्वतो द्रव्यस्यापि मिथ्यात्वात्। तथाहि— पिण्डाद्यवस्थानापन्नं मृद्द्रव्यं किं सावस्थमुत निरवस्थम्? आद्ये मृद्द्रव्यगतायास्तस्या अपि गन्धवत्त्वाद्यवस्थाया मिथ्यात्वमेव स्याद् अवस्थात्वात् पिण्डाद्यवस्थावत्। द्वितीये निरवस्थं तन्मृद्द्रव्यं किंरूपम्? अनिर्वाच्यमेव। न च मृद्रूपमिति वाच्यम्। मृदि मृत्त्वावस्थायाः सत्त्वेन मृद्रूपं सावस्थमेवेति मृत्त्वावस्थाया अभावे तस्य मृद्रूपत्वस्यैवासिद्धेः। एवं सावस्थादेव मृद्द्रव्यान्मृत्त्वावस्थायाः मिथ्याया३ अपगमे सति मृद्द्रव्यमेव तावन्न सिध्येदिति मिथ्यैव मृद्द्रव्यम्। न हि घटाद् घटत्वे पृथक्कृते सति घटपदार्थः कश्चिदुपलभ्येत। ननु घटाद् घटत्वेऽपनीते मृदवशिष्यते, मृदो मृत्त्वेऽपनीते तु जलमवशिष्यते, जलजन्यत्वान्मृद इति चेत् , तर्हि तस्मादपि जलात् सावस्थाज्जलत्वावस्थायां मिथ्याभूतायामपनीतायां जलमपि मिथ्यैव भवेत्। किन्तु तेजोरूपेण वर्तेत। एवं तेजआदिष्वपि द्रष्टव्यम्। तथा च सति घटत्वादिवन्मृत्त्वजलत्वादीनामप्यवस्थानां मिथ्यात्वेन मृज्जलादीनामप्यवस्थावतां द्रव्याणां मिथ्यात्वमेव। तेन च यद्यदवस्थावत् तत्तन्मिथ्येति व्याप्तिः सिध्यति। यद्यात्मावस्थावान् स्यात् , तर्हि मिथ्यैव स्यादित्यवस्थावत्त्वेन स्यादनित्यत्वदोष आत्मनः। अत इति। आत्मनो बन्धमुक्त्यवस्थाभावादित्यर्थः। दुर्वारमित्याह— न चावस्थात इति। यद्युक्तदोषभीत्या तत्त्वतोऽवस्थावत्त्वं नाङ्गीक्रियते, तदा मदुक्तमेव सिद्धमित्याह— अथेत्यादिना। रित्याह— न चेति। आत्मनोऽवस्थाद्वयसम्बन्धो नास्तीति द्वितीयमनूद्य दूषयति— अथेत्यादिना।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘यश्चोभयोः समो दोषः परिहारोऽपि समः। नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे॥’ इति न्यायादिति भावः। २. कार्यमुत्पत्तेः प्रागपि कारणात्मना सत् इति वादः सत्कार्यवादः सांख्यादीनाम्। कार्यमुत्पत्तेः प्राग् न केनापि रूपेण सत् इति वादः असत्कार्यवादो नैयायिकादीनाम्। ‘तद्धेदं तर्ह्यव्याकृतमासीत्’(बृ.उ. १.४.७) इत्यादिश्रुत्या कार्यस्योत्पत्तेः प्राक् अव्याकृतरूपेण सत्ताङ्गीकारेऽपि तद् रूपमनिर्वचनीयमिति वेदान्तिनः। ३. ‘मिथ्याभूतायाः’ इति पाठो युक्तः।

[[अ. १३. श्लो. २]] [[६१२]]

न च शास्त्रानर्थक्यम् , यथाप्रसिद्धाविद्वत्पुरुषविषयत्वाच्छास्त्रस्य। अविदुषां हि फलहेत्वोरनात्मनोरात्मदर्श- नम् , न विदुषाम्। विदुषां हि फलहेतुभ्यामात्मनोऽन्यत्वदर्शने सति तयोः ‘अह’मित्यात्मदर्शनानुपपत्तेः। न ह्यत्यन्त- मूढ उन्मत्तादिरपि जलाग्न्योश्छायाप्रकाशयोर्वा ऐकात्म्यं पश्यति, किमुत विवेकी? तस्मान्न विधिप्रतिषेधशास्त्रं तावत् ननु तर्हि द्वैतिनामिवाद्वैतिनां मतमपि दोषग्रस्तमेव, शास्त्रानर्थक्यादिति शङ्कायां स्वमते दोषाभावं साधयति— न चेति। अद्वैतिमत इति शेषः। शास्त्रानर्थक् यं नास्ति। तत्र हेतुमाह— यथेति। यथेत्यस्य तावदित्यर्थः। शास्त्रस्य प्रसिद्धाविद्वत्पुरुषविषयत्वात् शास्त्रस्य विधिप्रतिषेधात्मकस्य देहाद्यभिमानित्वेन प्रसिद्धाविद्वत्पुरुषगोचरत्वात्। अविद्वांसः पुरुषा अज्ञानादात्मानं ब्राह्मणं कर्तारं मन्यमानाः स्वर्गादिफलप्राप्तये, नरकाद्यनिष्टनिरासाय च विधिप्रतिषेधशास्त्रेऽधिक्रियन्ते इति नास्मन्मते शास्त्रानर्थक्यमविदुषां शास्त्राधिकारिणां सत्त्वादिति भावः। ननु शास्त्रस्याविद्वद्विषयत्वं कुतो नियम्यते, विद्वद्विषयत्वमप्यस्तु , अत आह— अविदुषामिति। अविदुषामेवानात्मनोः फलहेत्वोरात्मदर्शनं भवति, न तु विदुषामिति। फलं देवशरीरादिकं, हेतुर्मनुष्यशरीरेन्द्रियादिकं वाङ्मनःकायनिर्वर्त्यत्वाद् वाचिकमानसिककायिककर्मणां, तयोरनात्मनोरात्मदर्शनम् अहमिति बुद्धिः। मनुष्योऽहं , ब्राह्मणोऽहं कर्म करोमि, देवो भूत्वाऽहं स्वर्गमनुभविष्यामीत्यादिप्रतीतेरज्ञानाम्। देहभिन्नात्मदर्शिनां विदुषां तु फलहेत्वोर्नास्त्यात्मबुद्धिः। कुतो नास्ति? अत आह— न हीति। अत्यन्तमूढः, विवेकशून्यत्वं मूढत्वम् , तद्धि आत्मानात्मगोचरम्। स्वपरविवेकादिशून्यत्वं त्वत्यन्तमूढत्वम्। मूढो ह्यात्मानात्मविवेकशून्यत्वात् फलहेत्वोरनात्मनोरात्मनश्चैकत्वं पश्यति। एवमस्यात्मानात्मैकत्वदर्शने आत्मानात्मविवेकशून्यत्वमेव हेतुः। सति तद्विवेके तदेकत्वदर्शनानुपपत्तेः। यथा अत्यन्तमूढ उन्मत्तादिरपि जलाग्न्योः छायाप्रकाशयोर्वा एकात्मतां न पश्यति, कुतः? जलाग्निविवेकस्य छायाप्रकाशविवेकस्य च सत्त्वात् तस्य। इदं जलम् अयमग्निरिति विवेकाभावे तु तदेकत्वं पश्येदेव। न च पश्यत्येवेति वाच्यम् ; तथा सति दर्शने उन्मत्तः पिपासोपशमायाग्निं भक्षयेत्। तापोपशमाय चाग्नौ पतेत्। न त्वेवं दृश्यते। तस्माज्जलाग्न्योश्छायाप्रकाशयोर्वा विवेकवानत्यन्तमूढोऽपि यथा तयोरेकत्वं न पश्यति, तथा आत्मानात्मनोर्विवेकवान् पुरुषः तयोरेकत्वं न पश्यतीति किमु वक्तव्यमित्यर्थः। आत्मानात्मविवेकशून्यो मूढस्तु तयोरेकत्वं पश्येदेव। तस्मादिति। यस्माच्छास्त्रमविवेकिविषयं तस्मादित्यर्थः। यद्वा यस्माच्छास्त्रं फलहेत्वोरात्मदर्शिनो विषयस्तस्मादित्यर्थः। यदुक्तं विद्याविषयेऽर्थवत्त्वमिति, तदिदानीं विवृणोति— न च शास्त्रानर्थक्यमित्यादिना। फलहेत्वोरिति। भोक्तृत्वकर्तृत्वयोः देहादृष्टयोर्वा अनात्मनोः भोक्ता, [कर्ता,] मनुष्योऽहमिति आत्मदर्शनं प्रत्यक्षसिद्धमधिकारकारणम्। तस्माद् अविद्वद्विषयमेव विधिप्रतिषेधशास्त्रमित्यर्थः। ननु विदुषामपि ‘मनुष्योऽह’मिति व्यवहारदर्शनात् किमिति तद्विषयं शास्त्रं न स्यादित्याशङ्क्याह— न, विदुषामित्यादिना। ब्राह्मणत्वादिधर्मविशिष्टाद् विधिप्रतिषेधशास्त्रविषयादात्मनोऽन्यत्वं तर्हि पक्षद्वयेऽपि दोषाविशेषान्नाद्वैतमतानुरागे हेतुरित्याशङ्क्य अविद्याविषये चेत्युक्तं विवृणोति— न चेति। तदेव स्फुटयति— अविदुषां हीति। फलं भोक्तृत्वम् , कर्तृत्वं हेतुः। यद्वा फलं देहविशेषः, हेतुः अदृष्टम्१। तयोरनात्मनोः भोक्ताऽहं कर्ताऽहं मनुष्यो ऽहमित्याद्यात्मदर्शनमधिकारकारणम्। तेनाविद्वद्विषयं विधिनिषेधशास्त्रमित्यर्थः। विदुषामपि मनुष्योऽहमित्यादिव्यवहारात् तद्विषयं शास्त्रं किं न स्यादित्याशङ्क्याह— नेति। भोक्तृत्वकर्तृत्वाभ्यां, ब्राह्मण्यादिमतो देहाद् , धर्माधर्माभ्यां चात्मनोऽन्यत्वं पश्यतो न विधिनिषेधाधिकारित्वम् , उक्तफलादावात्मीयाभिमानासम्भवादित्यर्थः। आत्मनो देहादेरन्यत्वदर्शिनो न देहादावात्मधीरित्येतदुपपाद- यति—न हीति। विदुषो न विधिनिषेधाधिकारितेत्युक्तमुपसंहरति—तस्मादिति। शास्त्रस्याविद्वद्विषयत्वमिव विद्वद्विषयत्वमपि मन्तव्यम् , १. धर्माधर्मावित्यर्थः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[६१३]]

फलहेतुभ्यामात्मनोऽन्यत्वदर्शिनो भवति। न हि ‘देवदत्त ! त्वमिदं कुरु’ इति कस्मिंश्चित् कर्मणि नियुक्ते विष्णुमित्रः ‘अहं नियुक्तः’ इति तत्रस्थो नियोगं शृण्वन्नपि प्रतिपद्यते। नियोगविषयविवेकाग्रहणात् तूपपद्यते प्रतिपत्तिः। तथा फलहेत्वोरपि। ननु प्राकृतसम्बन्धापेक्षया युक्तैव प्रतिपत्तिः शास्त्रार्थविषया, फलहेतुभ्यामन्यात्मत्वदर्शनेऽपि सति— फलहेतुभ्यामिति पञ्चमी। ‘यजेते’त्यादि विधिशास्त्रं, ‘न परदारान् गच्छेदि’त्यादि प्रतिषेधशास्त्रं, तदुभयमप्यनात्मभ्यो विविच्यात्मानं यः पश्यति, तस्य न भवति। कुतो न भवतीत्यतो दृष्टान्तमाह— न हीति। नियुक्त इति। यज्ञदत्तेन नियुक्ते सति देवदत्त इत्यर्थः। तत्रस्थो विष्णुमित्रः नियोगं शृण्वन् ‘अहं नियुक्त’ इति नैव प्रतिपद्यते मन्यते। यद्वा शृण्वन्नपि नियोगं न प्रतिपद्यते न प्राप्नोति। यज्ञदत्तेन देवदत्ताय नियुक्तं जलाहरणादिकं कर्म विष्णुमित्रः सन्निहितोऽपि न करोति। तन्नियोगस्य देवदत्तविषयत्वेन स्वविषयत्वाभावात्। यदि विष्णुमित्रस्य ‘किं देवदत्तोऽस्मिन् कर्मणि नियुक्तः उताहम्’ इति संशयस्तदा नियोगविषयविवेकज्ञानाभावाद् विष्णुमित्रस्य देवदत्तकर्मणि प्रवृत्तिरुपपद्यते। प्रतिपत्तिः नियोगप्राप्तिः, नियुक्तकर्मणि प्रवृत्तिरिति यावत्। अथवा प्रतिपत्तिः अहमत्र नियुक्त इति ज्ञानमुपपद्यते। तथा यथा नियोगविषयविवेकाग्रहणाद् देवदत्तेन कर्तव्ये कर्मणि विष्णुमित्रस्य प्रवृत्तिस्तथेत्यर्थः। फलहेत्वोरनात्मनोः आत्मनश्च यस्य नास्ति विवेकस्तस्यैव विधिप्रतिषेधशास्त्रानुसारेण कर्मसु प्रवृत्तिरुपपद्यत इत्यर्थः। यद्वा देवदत्तनियोगे विष्णुमित्रस्य स्वनियोग इति भ्रमाद् यथा प्रवृत्तिः,(न) तथा फलहेत्वोरनात्मनोरात्मेति भ्रमात् कर्मसु प्रवृत्तिरविदुषामिति। ननु फलहेतुभ्यामात्मनोऽन्यत्वदर्शने सत्यपि विदुषां प्राकृतसम्बन्धापेक्षया शास्त्रार्थविषया प्रतिपत्तिर्युक्तैव, देहान्यात्मदर्शि- नामपि देहे ज्वरग्रस्ते सति तापोपलम्भात्। अस्ति हि देहे देहिनः प्राकृतः सम्बन्धः प्रकृतेर्जातो ममाभिमानरूपः। यथा गृहे गृहिणः, गृहे दग्धे सति गृहाद् भिन्नस्यापि गृहिणो दाहदुःखाद्युपलम्भः, तद्वत् प्रकृतेऽपि। इममेव प्राकृतसम्बन्धमपेक्ष्य विद्वानपीष्टफलहेतौ प्रवर्तितोऽस्मीति, अनिष्टफलहेतोः निवर्तितोऽस्मीति च मन्यमान इष्टे प्रवर्तते, अनिष्टान्निवर्तते। देहसौख्येनात्मसौख्यस्य देहासौख्येनात्मासौख्यस्य चानुभवात्। तथैव स्वर्गे कमपि दिव्यं देहमाश्रित्य सुखमनुभविष्यामीति, यातनादेहाश्रयणप्रयुक्तं दुःखं मम मा भूदिति च प्रतिपद्य विहितं करोति, अविहितं च परित्यजतीति विदुषामपि विहिताविहितपरिज्ञानार्थं शास्त्रमावश्यकमेव। ततश्च पश्यतो न विधिप्रतिषेधाधिकारत्वमित्यत्र दृष्टान्तमाह— न हि देवदत्तेत्यादिना। यदा तु विधिविषयो विवेको न गृह्यते, तदा घटते विधिप्रतिपत्तिरित्याह— नियोगविषयेति। यथा पुत्रविषयप्रायश्चित्तनियोगप्रतिपत्तिः पितुः अन्यत्प्र[न्यत्व]दर्शनेऽपि दृश्यते, तथा(पि) विवेकिनोऽपि भविष्यतीत्याह— ननु प्राकृतेति। प्रकृतेर्जातः प्राकृतः। अनाद्यविद्याकृतदेहादिसम्बन्धेनेत्यर्थः। पित्रादीनां पुत्राभिमानाद् उभयोरपि शास्त्रश्रवणाविशेषादित्याशङ्क्याह—न हीति। तत्रस्थो यस्मिन् देशे देवदत्तः स्थितस्तत्रैव वर्तमानः सन्नित्यर्थः। ननु देवदत्ते नियुक्ते विष्णुमित्रोऽपि कदाचिन्नियुक्तोऽस्मीति प्रतिपद्यते। सत्यम् , नियोगविषयाद् नियोज्यादात्मनो विवेकाग्रहणाद् नियोज्यत्व- भ्रान्तेरित्याह— नियोगेति। अविवेकिनो नियोगधीर्भवतीति दृष्टान्तमुक्त्वा, फले हेतौ चात्मदृष्टिविशिष्टस्याविदुषः सम्भवत्येव विधि- निषेधाधिकारित्वमिति दार्ष्टान्तिकमाह— तथेति। विधिनिषेधशास्त्रमविद्वद्विषयमिति वदता शास्त्रानर्थक् यं समाहितम्। सम्प्रति शास्त्रस्य विद्वद्विषयत्वेनैवार्थवत्त्वं शक्यसमर्थनमिति शङ्कते— नन्विति। प्रकृतिः अविद्या, ततो जातो यो देहादावभिमानात्मा१ सम्बन्धो विद्योदयात् प्रागनुभूतः, तदपेक्षया ‘विधिना प्रवर्तितोऽस्मि’ ‘निषेधेन निवर्तितोऽस्मी’ति विधिनिषेधविषया सत्यामपि विद्यायां धीर्युक्तैवेत्यर्थः। विदुषोऽपि पूर्वमाविद्यं सम्बन्धमपेक्ष्य १. अध्यासात्मक इत्यर्थः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १३. श्लो. २]] [[६१४]]

‘इष्टफलहेतौ प्रवर्तितोऽस्मि’, ‘अनिष्टफलहेतोश्च निवर्तितोऽस्मी’ति। यथा पितृपुत्रादीनामितरेतरात्मान्यत्वदर्शने सत्यपि अन्योन्यनियोगप्रतिषेधार्थप्रतिपत्तिः। न ; व्यतिरिक्तात्मदर्शनप्रतिपत्तेः प्रागेव फलहेत्वोरात्माभिमानस्य सिद्धत्वात्। प्रतिपन्ननियोगप्रतिषेधार्थो हि फलहेतुभ्यामात्मनोऽन्यत्वं प्रतिपद्यते, न पूर्वम्। तस्माद् विधिप्रतिषेध- शास्त्रम् अविद्वद्विषयमिति सिद्धम्। विद्वद्विषयत्वमपि शास्त्रस्य सम्भवेदेव। तत्र दृष्टान्तमाह— यथेति। पितुरन्यः पुत्रोऽहमिति, पुत्रादन्यः पिताऽहमिति ज्ञाने सत्यपि, पितुर्नियोगे पुत्रः प्रवर्तते तस्य सुखादिसम्पादनार्थं, पिता च पुत्रमविहितात् प्रतिषेधति पुत्रस्य नरकदुःखाद्यभावार्थं, तद्वदिति। पितृपुत्रयोः इतरेतरात्मान्यत्वदर्शिनोरपि ममाभिमानलक्षणप्राकृतसम्बन्धापेक्षया परस्परनियोगप्रतिषेधार्था प्रतिपत्तिर्यथोपपद्यते, तथा आत्मा-नात्मनोः इतरेतरभिन्नत्वदर्शने सत्यपि प्राकृतसंबन्धस्यापेक्षया विधिप्रतिषेधार्था प्रवृ[प्रतिप]त्तिरुपपद्यत इति भावः। इतरस्मादितरस्यात्माऽहमन्य इति दर्शनमितरेतरात्मान्यत्वदर्शनम्। आत्मनोऽन्यत्वम् आत्मान्यत्वम् , इतरस्यात्मान्यत्वम् इतरात्मान्यत्वम् , इतरस्मादितरात्मान्यत्वम् इतरेतरात्मान्यत्वमिति समासः। इतरस्मात् पित्रादेः, इतरस्य पुत्रादेरित्यर्थः। अन्योन्यस्य नियोगप्रतिषेधावर्थौ यस्याः सा अन्योन्यनियोगप्रतिषेधार्था। प्रतिपत्तिर्ज्ञानं, प्रवृत्तिरिति यावत्। ननु पितुरन्योऽहं पुत्रः इति ज्ञानवान् पुत्रः पित्रर्थमात्मार्थं नियोगप्रतिषेधौ प्रतिपद्यतां नाम, ममायं जनकः इति प्राकृतसम्बन्धात्। देहादन्योऽहमिति ज्ञानवांस्तु देहार्थमात्मार्थं वा न विधिनिषेधयोः प्रतिपत्तिं भजते, देहस्येहैव नाशाद् आत्मनश्चासङ्गाविक्रियत्वादिति चेत् , मैवम् ; देहादन्योऽहमिति ज्ञानवानपि देहो ममेति प्राकृतसम्बन्धादेतद्देहे वर्तमानः कर्म कुर्यादेव, स्वर्गे मम कश्चिद्दिव्यदेहः स्यादित्यात्मार्थमेव, मम क्षुद्रदेहो मा भूदिति निषिद्धाचरणाच्च निवर्तत इति। विवेकिनां फलहेत्वोरनात्मनो- रात्मबुद्ध्यभावेऽप्यात्मीयबुद्धिसत्त्वाच्छास्त्रार्थविषयप्रवृत्तिरुपपद्यत एवेति पूर्वपक्षाशयः। परिहरति—नेति। हेतुमाह— व्यतिरिक्तेति। व्यतिरिक्तस्य देहादिभिन्नस्यात्मनो दर्शनं ज्ञानं तस्य प्रतिपत्तेः प्राप्तेः प्रागेव देहाद् भिन्नोऽहमात्मेति ज्ञानोदयात् पूर्वमेवेत्यर्थः। फलहेत्वोरात्माभिमानस्य सिद्धत्वात्। प्रतिपन्ननियोगप्रतिषेधार्थं फलहेतुभ्यामन्यत्वमात्मनः प्रतिपद्यते। न तु नियोगप्रतिषेधप्रतिपत्तेः पूर्वमेव फलहेतुभ्यामात्मनोऽन्यत्वं प्रतिपद्यत इति। घटते अन्योन्यनियोगप्रतिपत्तिः, तत्त्वदर्शिनः पुनः देहादिषु मिथ्याभिमानाभावाद् न देहादिविषयनियोगप्रतिपत्तिरित्याह— न, व्यतिरिक्तात्मनेति। किञ्च सम्यग्दर्शनस्यादृष्टासाध्यत्वाद् विधिप्रतिषेधशास्त्रानुष्ठानं सम्यग्दर्शनात् पूर्वमित्याह— प्रतिपन्ननियोगे(ने)ति। विधिनिषेधविषयां धियमुक्तामेव व्यक्तीकरोति— इष्टेति। नन्वविदुषो मिथ्याभिमानवन्न विदुषः सोऽनुवर्तते, तथा च आविद्यसम्बन्धापेक्षया न युक्ता विदुषो यथोक्ता धीरिति, तत्राह— यथेति। पिता पुत्रो भ्रातेत्यादीनां मिथोऽन्यत्वदृष्टावप्यन्योन्यनियोगार्थस्य निषेधार्थस्य च धीर्दृष्टा। पितरमधिकृत्य विधौ निषेधे वा तस्य तदनुष्ठानाशक्तौ पुत्रस्य तद्विषया धीरिष्टा, ‘अथातः सम्प्रत्तिर्यदा प्रैष्यन् मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोकः’ इत्यादिसम्प्रत्तिश्रुत्या शेषानुष्ठानस्य पुत्रकार्यताप्रतिपादनात्। पुत्रं चाधिकृत्य विधिनिषेधप्रवृत्तौ तस्य तदशक्तौ पितुस्तदर्था धीरुपगता, तथा भ्रात्रादिष्वपि द्रष्टव्यम्। एवं विदुषो हेतुफलाभ्यामन्यत्वदर्शनेऽपि प्राक्कालीनाविद्यदेहादिसम्बन्धादविरुद्धा विधिनिषेधार्था धीरित्यर्थः। पुत्रादीनां मिथ्याभिमानान्मिथो नियोगधीर्युक्ता, तत्त्वदर्शिनस्तु तदभावान्न देहादिसम्बन्धाधीना नियोगधीरिति परिहरति— नेत्यादिना। किञ्च ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ इति सर्वापेक्षाधिकरणे सम्यग्ज्ञानस्यादृष्टसाध्यत्वोक्तेर्विधिनिषेधार्थानुष्ठानं सम्यग्ज्ञानात्पूर्वमिति कुतो विदुषस्तदनुष्ठानमित्याह— प्रतिपन्नेति। सत्यदृष्टे सम्यग्धीदृष्टेरसति चाशुद्धबुद्धेस्तदभावादन्वयव्यतिरेकाभ्यां, विविदिषावाक्याच्च विधिनिषेधानुष्ठानात्पूर्वं न सम्यग्धीरित्याह—न पूर्वमिति। विधिनिषेधयोर्विद्वद्विषयत्वायोगे फलितमाह— तस्मादिति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[६१५]]

ननु ‘स्वर्गकामो यजेत’, ‘कलञ्जं न भक्षयेदि’त्यादावात्मव्यतिरेकदर्शिनामप्रवृत्तौ केवलदेहाद्यात्मदृष्टीनां च, अयमर्थः—अनादिकालादारभ्य फलहेत्वोरात्मेत्यभिमानस्तावत् सिद्धः प्राणिनाम्। तेनैवाभिमानेन नियोगप्रतिषेधौ प्रतिपद्यते ‘ब्राह्मणोऽहं स्नानसन्ध्यादेवार्चनादिषु नियुक्तः शास्त्रेणेश्वरेण वा, मद्यपानादिभ्यश्च प्रतिषिद्धः’ इति विहिते कर्मणि प्रवर्तते, निषिद्धात्तु निवर्तते। एवं प्रतिपद्य पश्चाच्चिन्तयति विवेकी ‘यदि देह एवाहं, तर्हि देहस्येहैव नाशाद्व्यर्थेयं प्रवृत्तिर्विहिते, निषिद्धाच्च निवृत्ति’रिति। ततश्च शास्त्रप्रामाण्यादास्तिकोऽयं देहादन्यमात्मानं मन्यते। इदं चास्य देहाद् भिन्नात्मज्ञानं स्वप्रतिपन्ननियोग- प्रतिषेधसिद्ध्यर्थमेव। देहाद् भिन्नस्यात्मनः सत्त्वादिहानुष्ठितकर्मफलं परलोके आत्मना भुज्यत इति निश्चयेन स्वप्रतिपन्ननियोग- प्रतिषेधयोर्निर्वर्तनात्। तस्माद् देहाद् भिन्नः कर्ता भोक्ता चात्माऽस्तीत्येवंरूपम् अज्ञस्य कर्मणि प्रवृत्तस्य यज्ज्ञानं तत् स्वाचर्यमाण- कर्मनिर्वर्तनार्थमेव, न तु मोक्षार्थम्। यद्ययं कर्मणि प्रवृत्तेः प्रागेव देहाद् भिन्नमात्मानं मनुयात् तर्हि कर्मणि नैव प्रवर्तेत, स्वस्मिन् कर्तृत्वभोक्तृत्वनिश्चयानुदयात् तस्य। ततश्च देहादावात्माभिमानात् कर्मणि प्रवृत्तस्य देहविलक्षणात्मज्ञाने पश्चाज्जातेऽपि तज्ज्ञानं स्वानुष्ठीयमानकर्मफलभोक्त्रात्मसम्पादनद्वारा कर्मनिर्वर्तनार्थकमेव, न तु कर्मसंन्यासार्थकमिति स्थितम्। नन्वेतेन प्रकृतप्रश्नस्य किमुत्तरमायातमिति चेद्? उच्यते— यस्याज्ञस्य देहादौ अहमित्यभिमानः, तस्यैव कर्मणि प्रवृत्तस्य देहान्यात्मदर्शने सति देहादौ ममेत्यभिमानः, कर्ताऽहं भोक्ताऽहमित्यभिमानश्च। तथा च देहभिन्नात्मदर्श्यप्ययं कर्तृत्वाद्यभिमान- सद्भावादज्ञ एव। यस्तु कर्मण्यप्रवृत्तो देहान्यात्मदर्शी, यश्च कर्मणि प्रवृत्तोऽपि देहान्याकर्त्रभोक्त्रात्मदर्शी, स विद्वान् देहादिकं तदाश्रयं कर्म तत्फलादिकं वा ममत्वेन न पश्यति, असङ्गत्वादकर्तृत्वादभोक्तृत्वान्निर्विकारत्वाच्चात्मनः। तस्मात् प्राकृतसम्बन्धापेक्षया शास्त्रार्थ- विषयप्रतिपत्तिर्देहभिन्नात्मदर्शिनोऽपि कर्तृभोक्त्रात्मदर्शिनो देहादिसम्बन्धात्मदर्शिनश्चाज्ञस्यैव भवति। न त्वकर्त्रभोक्त्रसङ्गात्मदर्शिनः प्राज्ञस्य, तस्य देहादौ ममाभिमानस्याप्यभावात्। न देहादिभिर्विदुषः प्राकृतोऽपि सम्बन्धगन्धः कश्चिदस्ति। अज्ञानकृतो हि प्राकृतः सम्बन्धः। तस्मादिति। यस्माद् देहादौ अहम्ममाभिमानवतः कर्तृभोक्त्रात्मदर्शिन एव शास्त्रं प्रवर्तकं, निवर्तकं च, न तु देहादावहम्ममाभिमानरहितस्यासङ्गाकर्त्रभोक्त्रात्मदर्शिनस्तस्मादित्यर्थः। अविद्वांसोऽविद्यावन्तः। अनात्मसु देहादिष्वहम्ममाभिमान- हेतुरज्ञानमविद्या। अविद्याकार्यत्वात् तदभिमानोऽप्यविद्यैव। अविद्वांसो विषयः शास्त्रार्थप्रतिपत्त्यर्हत्वेन गोचरो यस्य तदविद्वद्विषयम्। अविद्वदधिकारिकमिति यावत्। न च - विधिप्रतिषेधशास्त्रस्यार्थवत्त्वेऽप्यविद्वद्विषयत्वेन, मोक्षशास्त्रं तु व्यर्थमेव , तत्राविदुषामप्यधि- काराभावादिति - वाच्यम् ; अविद्वांसो ह्यात्मानं संसारिणं बद्धं मन्यमानास्तन्मोचनाय गुरोः सकाशाच्छास्त्रमधिगत्य शमदमादिसम्पादनद्वारा ज्ञानं सम्पाद्य मुच्यन्त इति न मोक्षशास्त्रस्याप्यनर्थकत्वं, तस्याप्यविद्वद्विषयत्वात्। तस्मात् सर्वाण्यपि विधिप्रतिषेधमोक्षशास्त्राणि अविद्वद्विषयाण्येव। तत्र विधिप्रतिषेधशास्त्रं सकामाज्ञविषयं, मोक्षशास्त्रं तु निष्कामाज्ञविषयमिति विवेकः। न च मोक्षकामिविषयमिति वाच्यम् ; मोक्षकामस्य कामाभावरूपत्वात्। निष्कामो हि मुमुक्षुः। यः पुंसां बन्धहेतुः स एव कामो, न त्वन्य इति सिद्धान्तात्। ननु ‘कर्ता शास्त्रार्थवत्त्वादि’ति व्यासेन शास्त्रस्यार्थवत्त्वं साधितं कर्तुः सत्त्वात्। प्रकृते तु कर्तुरभावाच्छास्त्रं व्यर्थमेवे- त्यापतितम्। अतः सूत्रविरोध इत्याक्षिपति— नन्विति। शास्त्रार्थयज्ञाद्यनुष्ठाने अज्ञा न प्रवर्तन्ते, तेषां देहात्मवादित्वाद् , देहस्य चेहैव नाशात् , स्वर्गादिफलभोक्तुरभावाद् , देहस्यैव कर्तृत्वाद् व्यर्थं कर्मानुष्ठानमिति दृष्ट्या। तथा प्राज्ञा अपि न प्रवर्तन्ते, देहव्यतिरिक्ताकर्त्र-

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

अविद्वद्विषयत्वमेवाक्षेपसमाधानपूर्वकं स्पष्टयति— ननु स्वर्गकाम इत्यादिना। किञ्च विवेकिनां यत्राप्रतिप[प्रवृ]त्तिः

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. २ ] शास्त्रस्याविद्वद्विषयत्वेनोक्तमर्थवत्त्वमाक्षेपसमाधिभ्यां प्रपञ्चयितुमाक्षिपति— नन्विति। चकारादूर्ध्वम् अप्रवृत्तिरिति सम्बध्यते।

[[६१६]]

अतः कर्तुरभावाच्छास्त्रानर्थक्यमिति चेत्? न ; यथाप्रसिद्धित एव प्रवृत्तिनिवृत्त्युपपत्तेः। ईश्वरक्षेत्रज्ञैकत्वदर्शी ब्रह्मवित् तावन्न प्रवर्तते। तथा नैरात्म्यवाद्यपि ‘नास्ति परलोकः’ इति न प्रवर्तते। यथाप्रसिद्धितस्तु विधिप्रतिषेधशास्त्रश्रवणा- न्यथानुपपत्त्याऽनुमितात्मास्तित्वः आत्मविशेषानभिज्ञः कर्मफलसञ्जाततृष्णः श्रद्दधानतया च प्रवर्तत इति सर्वेषां नः प्रत्यक्षम्। अतो न शास्त्रानर्थक्यम्। विवेकिनामप्रवृत्तिदर्शनात् तदनुगामिनामप्रवृत्तौ शास्त्रानर्थक्यमिति चेत्? न ; भोक्त्रात्मदर्शित्वात् तेषाम्। तस्मात् ‘स्वर्गकामो यजेते’त्यादिविधिशास्त्रं, ‘न कलञ्जं भक्षयेदि’त्यादिप्रतिषेधशास्त्रं च व्यर्थमेव, शास्त्रार्थानुष्ठातुरभावादित्यर्थः। देहात्मदृष्टीनां चेत्यनन्तरम् अप्रवृत्ताविति शेषः। यद्वा ‘इत्यादौ आत्मव्यतिरेकदर्शिनां, केवलं देहात्मदृष्टीनां चाप्रवृत्ता’वित्यन्वयः। अत इति। अज्ञानां विज्ञानां च शास्त्रार्थानुष्ठानाप्रवृत्तेरित्यर्थः। कर्तुः शास्त्रार्थानुष्ठातुः। कर्तुरभावे - त्वमेवं कुरु, त्वमेवं मा कुरु - इति शासनस्य व्यर्थत्वादिति भावः। परिहरति— नेति। यथाप्रसिद्धे पूर्वोक्तरीत्या देहादन्य आत्मा कर्ता भोक्ता चास्तीति ज्ञानवत्त्वेन प्रसिद्धे पुरुष एव प्रवृत्तिनिवृत्त्योरुपपत्तेः। संग्रहोक्तं वाक्यमेव विवृणोति— ईश्वरेति। ईश्वरक्षेत्रज्ञयोरेकत्वं द्रष्टुं शीलमस्येति ईश्वरक्षेत्रज्ञैकत्वदर्शी ब्रह्मवित् , कर्मणीति शेषः। तावन्न प्रवर्तते नैव प्रवर्तते। नैरात्म्यवादी शून्यवादी, देहात्मवादीति यावत्। बौद्धादिर्नास्तिक इति भावः। परलोको नास्तीति बुद्ध्या कर्मणि न प्रवर्तते। उभयातिरिक्तः कर्मितया प्रसिद्ध आस्तिकस्तु वैदिकः शास्त्रप्रामाण्यनिश्चयाद् विधिप्रतिषेधशास्त्रस्यान्यथानुपपत्त्या देहातिरिक्तस्य कर्तुरात्मनोऽभावे प्रामाण्यानुपपत्त्या हेतुना अनुमिता- त्मास्तित्वः अनुमितमात्मास्तित्वं येन स तथोक्तः। देहातिरिक्तः कश्चिदात्माऽस्ति कर्ता भोक्ता च, शास्त्रप्रामाण्यस्यान्यथा- नुपपत्तेरित्यनुमानेनैवात्मानं ज्ञातवानित्यर्थः। अत एव आत्मविशेषानभिज्ञः अकर्त्रभोक्तृसच्चिदानन्दलक्षणः आत्मेत्येवं विशेषाकारेण आत्मानं नाभिजानातीत्यर्थः। अत एवात्मनो भोक्तृत्वभ्रमात् कर्मफले स्वर्गादौ सञ्जाता तृष्णाऽभिलाषो यस्य स तथोक्तः। एवंविधः पुरुषः श्रद्दधानःसन् कर्मणि प्रवर्तत इत्येतत् सर्वेषां नः प्रत्यक्षमनुभवसिद्धम्। अत इति। देहातिरिक्तकर्तृभोक्त्रात्मवादिनः कर्मिणोऽज्ञस्य सत्त्वात् कर्तुरित्यर्थः। शास्त्रानर्थक् यं न। उक्तलक्षणं कर्तारमुपलभ्यैव ‘कर्ता शास्त्रार्थवत्त्वादि’त्युक्तं व्यासेनेति न सूत्रविरोधः१। नापि शास्त्रानर्थक्यदोषोऽस्माकमिति भावः। नन्वेवंविधस्य कर्तुर्दुर्लभत्वाच्छास्त्रस्यानर्थक्यमेवेत्याक्षिपति— विवेकिनामिति। विवेकिनां ब्रह्मविदां कर्मणि प्रवृत्त्यदर्शनात्। ‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरे जनाः’ इति न्यायेनाविवेकिनामपि विवेक्यनुसारिणां कर्मण्यप्रवृत्तौ सत्यां शास्त्रानर्थक्यम् , यथाप्रसिद्धस्य आत्मनो देहाद् व्यतिरेकं पश्यतां देहाद्यभिमानरूपाधिकारहेत्वभावाद् विधितो यागादावप्रवृत्तिः, निषेधाच्चाभक्ष्यभक्षणादेर्न निवृत्तिः, अतस्तेषां प्रवृत्तिनिवृत्त्योरभावे देहादावात्मत्वमनुभवतामपि न ते युक्ते, तेषां पारलौकिकभोक्तृप्रतिपत्त्यभावादित्यर्थः। विदुषामविदुषां च प्रवृत्तिनिवृत्त्यभावे फलितमाह— अत इति। आत्मनो देहाद्यतिरेकं परोक्षम् , अपरोक्षं च देहाद्यात्मत्वं पश्यतः शास्त्रानुरोधादेव प्रवृत्तिनिवृत्त्युपपत्तेर्न शास्त्रानर्थक्यमित्युत्तरमाह— नेत्यादिना। प्रसिद्धिरत्र शास्त्रीयाऽभिमता। एतदेव विवृण्वन् ब्रह्मविदो वा, नैरात्म्यवादिनो वा, परोक्षज्ञानवतो वा प्रवृत्तिनिवृत्ती विवक्षसीति विकल्प्याऽऽद्यं दूषयति— ईश्वरेति। न निवर्तते चेत्यपि द्रष्टव्यम्। द्वितीयं निरस्यति— तथेति। पूर्ववदत्रापि सम्बन्धः। तृतीयमङ्गीकरोति— यथेति। विधिनिषेधाधीनां प्रसिद्धिमनुरुन्धानः सन्निति यावत्। चकाराद् निवर्तते चेत्यनुकृष्यते। ब्रह्मविदं नैरात्म्यवादिनं च त्यक्त्वा, देहाद्यतिरिक्तमात्मानं परोक्षम् , अपरोक्षं च देहाद्यात्मत्वं पश्यतो विधिनिषेधाधिकारित्वे सिद्धे फलमाह— अत इति। विधान्तरेण शास्त्रार्थानर्थक् यं चोदयति— विवेकिनामिति। दृष्टा हि तेषां विधिनिषेधयोरप्रवृत्तिः। न हि देहादिभ्यो निष्कृष्टमात्मानं दृष्टवतां तयोरधिकारः। तेन तान् प्रति शास्त्रं नार्थवत्। न च देहाद्यात्मत्वदृशः तत्राधिक्रियन्ते, तेषां ‘यद्यदाचरती’ति न्यायेन विवेकिनोऽनुगच्छतां विध्यादावप्रवृत्तेः। अतोऽधिकार्यभावाद् विध्यादिशास्त्रस्य १. अत एव ‘कर्ता शास्त्रार्थवत्त्वात्’ (ब्र.सू. २.३.३२)इत्येतदधिकरणव्युत्पादितस्यात्मनः कर्तृत्वस्यौपाधिकत्वं ‘यथा च तक्षोभयथा’ (ब्र.सू. २.३.४०)इति तदुत्तराधिकरणे व्यवस्थापितम्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[६१७]]

कस्यचिदेव विवेकोपपत्तेः। अनेकेषु हि प्राणिषु कश्चिदेव विवेकी स्याद् , यथेदानीम्। न च विवेकिनमनुवर्तन्ते मूढाः, रागादिदोषतन्त्रत्वात् प्रवृत्तेः। अभिचरणादौ च प्रवृत्तिदर्शनात्। स्वाभाव्याच्च प्रवृत्तेः। ‘स्वभावस्तु प्रवर्तते’ (भ.गी. ५.१४) इति ह्युक्तम्। तस्मादविद्यामात्रं१ संसारो यथादृष्टविषय एव। न क्षेत्रज्ञस्य केवलस्याविद्या, तत्कार्यं च। न च कर्तुर्दुर्लभत्वादिति भावः। परिहरति— नेति। कर्तार एव सुलभाः, विवेक्येव दुर्लभः। कुतः? कस्यचिदेव सुकृतिनः ‘बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते’ इति न्यायेन विवेकस्य ज्ञानस्योपपत्तेः प्राप्तेः। इदमेव भङ्ग्यन्तरेणाह— अनेकेष्विति। ‘मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये। यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥’ इति गीतावचनादिति भावः। ननु भवतु कश्चिदेव विवेकी, तदनुवर्तिनस्तु बहवः स्युरत आह— यथेति। मूढा विवेकिनमिदानीं यथा नानुवर्तन्ते, तथा पूर्वमपि, भविष्यत्कालेऽपीत्यर्थः। यद्वा यथेत्यस्य तावदित्यर्थः। इदानीं विवेकिनं मूढा नैवानुवर्तन्ते, तत्र हेतुमाह—रागादीति। प्रवृत्तेः रागादिदोषतन्त्रत्वात्। रागादिदोषदूषिता मूढाः विवेकिनं नैवानुवर्तन्ते, किन्तु रागादिदोषवशात् कर्मण्येव प्रवर्तन्ते। ननु रागादिदोषवशात् कर्मणि न प्रवर्तन्ते मूढाः, किन्तु श्रेष्ठाचरणदर्शनादेव। श्रेष्ठा हि जनकादयः कर्मणि प्रवृत्ताः। उक्तं च भगवताऽपि ‘वर्त एव च कर्मणि, मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः’ इत्यत आह— अभिचारेति। अभिचारः शत्रुमारणकर्म। आदिपदात् परदारगमनादिकम्। मूढाः इदानीं हिंसादिकर्मणि प्रवर्तमाना दृश्यन्ते, किं ते श्रेष्ठाचरणानुसारात् तत्र प्रवृत्ताः? उत रागादिदोषवशात्? नाद्यः - श्रेष्ठानां हिंसादिनिषिद्धकर्मस्वप्रवृत्तत्वात्। अतः परिशेषाद् रागादिदोषवशादेव। तथा च य एव दोषोऽभिचारादौ पुंसां प्रवर्तकः, स एव रागादिदोषो यज्ञादिकर्मस्वपि प्रवर्तक इत्यवश्यमभ्युपेयम् , प्रवृत्त्यैक्यात्। एकत्र दृष्टस्यैव कारणस्येतरत्राभ्युपगमनीयत्वात्। रागादिदोषोऽज्ञानां कर्मणि प्रवर्तकः, प्रवृत्तिहेतुत्वादभिचारादाविवेत्यनुमानात्। न हि कोऽपि जनकेन कर्म कृतं मया कर्तव्यमिति कुरुते, किन्तु कर्मणा स्वर्गादिफलं स्यादिति स्वर्गादिफलरागेणैव। यथा शत्रौ द्वेषेणाभिचारं करोति, तद्वदिति। न च श्रीकृष्णवाक्यविरोधः, रागादिदोषात् स्वत एव कर्मणि प्रवृत्तानामपि विहितकर्मसु रुच्युत्पादनार्थं तथोक्तत्वात्। न केवलं प्रवृत्तेः रागादिदोषतन्त्रत्वं, किन्तु स्वभावत्वमपीत्याह— स्वाभाव्याच्चेति। स्वभावत एव पुंसां प्रवृत्तिर्भवतीत्यर्थः। तत्र गीतां प्रमाणयति— स्वभावस्त्विति। धर्माधर्मलक्षणसंस्कारवशात् प्रवृत्तिस्वभावा एव सन्तो जायन्ते मूढा जन्मत आरभ्य भोजनादिकर्मसु प्रवर्तनस्वाभाव्यात् , तथैव यज्ञादिकर्मस्वपि स्वभावत एव प्रवर्तन्त इति भावः। तस्मादिति। यस्मादविद्वद्विषयं शास्त्रं तदर्थानुष्ठानं च, तस्मादित्यर्थः। अविद्यामात्रोऽविद्याकृत इत्यर्थः। यथादृष्टो तत्रेतरे न प्रवर्तन्त इत्यशक् यं वक्तुम्। ‘श्येनेनाभिचरन् यजेते’त्यादौ प्रवृत्तिदर्शनादित्याह— अभिचरणादौ चेति। इतश्च [न] विवेकिनामप्रवृत्तिदर्शनादज्ञस्य प्रवृत्त्यभाव इत्याह— स्वाभाव्याच्चेति। अज्ञानां प्रवृत्तेः स्वाभाविकत्वाद् न यावदज्ञान- तदनुसारिशिष्टाचारस्य चानर्थक्यमित्यर्थः। किं सर्वेषां विवेकित्वादधिकार्यभावादानर्थक् यं शास्त्रस्योच्यते? किंवा कस्यचिदेव विवेकित्वेऽपि तदनुवर्तित्वादन्येषामप्रवृत्तेरानर्थक् यं चोद्यते? तत्र प्रथमं प्रत्याह— न, कस्यचिदिति। ‘मनुष्याणां सहस्रेष्वि’ति न्यायेनोक्तमेव स्फुटयति —अनेकेष्विति। तत्रानुभवानुरोधेन दृष्टान्तमाह— यथेति। द्वितीयं दूषयति— न चेति। किञ्च विवेकिनामप्रवृत्तावन्येषामप्यप्रवृत्ति- रित्याशङ्कां निरसितुं श्येनादौ तदप्रवृत्तावपीतरप्रवृत्तेरित्याह— अभिचरणादौ चेति। अविवेकिनां रागादिद्वारा प्रवृत्त्यास्पदं सर्वं संग्रहीतुमादिपदम्। इतश्च विवेकिनां प्रवृत्त्यभावेऽपि नाज्ञस्याप्रवृत्तिरित्याह— स्वाभाव्याच्चेति। प्रवृत्तेः स्वभावाख्याज्ञानकार्यत्वे भगवद्वाक्यमनुकूलयति— स्वभावस्त्विति। प्रवृत्तेरज्ञानजत्वे विधिनिषेधाधीनप्रवृत्तिनिवृत्त्यात्मकबन्धस्याविद्यामात्रत्वादविद्वद्विषयत्वं शास्त्रस्य सिद्धमिति फलितमाह— तस्मादिति। दृष्टमेवानुसरन्नविद्वान् यथादृष्टः, तद्विषयः तदाश्रयः संसारः। तथा च प्रवृत्ति- निवृत्त्यात्मकसंसारस्याविद्वद्विषयत्वात् तद्धेतुविधि[निषेध]शास्त्रस्यापि तद्विषयत्वमित्यर्थः। नन्वविद्या क्षेत्रज्ञमाश्रयन्ती स्वकार्यं १. ‘अविद्यामात्रः’ इति रा.पा. भाति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १३. श्लो. २]] [[६१८]]

मिथ्याज्ञानं परमार्थवस्तु दूषयितुं समर्थम्। न ह्यूषरदेशं स्नेहेन पङ्कीकर्तुं शक्नोति मरीच्युदकम्। तथा अविद्या क्षेत्रज्ञस्य न किञ्चित् कर्तुं शक्नोति। अतश्चेदमुक्तम्— ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ.गी.१३.२) ‘अज्ञानेनावृतं ज्ञानम्’ (भ.गी. ५.१५) इति च। यथाप्रसिद्धः कर्मी अज्ञः, तद्विषय एव संसारः। एवकारार्थमाह— नेति। केवलस्य क्षेत्रज्ञस्याविद्या तत्कार्यं च नास्ति, विदुष आत्मत्वात्। क्षेत्रज्ञस्य विदुषो नास्त्यविद्यादिकमिति न विद्वद्विषयः संसार इत्यर्थः। नन्वविवेकिभिरात्मनि कल्पितोऽप्यविद्यामयः संसार आत्मानं बध्नीयादेवेत्यत आह— न चेति। मिथ्यात्वेन ज्ञायत इति मिथ्याज्ञानं मिथ्याभूतं वस्तु प्रातिभासिकं गन्धर्वनगररज्जुसर्पस्वप्नरथादिकं, परमार्थवस्तु गगनरज्ज्वादिकम् - कर्म, दूषयितुं स्वतादात्म्यमापादयितुमित्यर्थः। स्वस्वधर्मांस्तत्र प्रसञ्जयितुमिति यावत्। नैव समर्थम्। तत्र दृष्टान्तमाह— न हीति। मरीच्युदकं कर्तृ। स्नेहेन द्रवेण। ऊषरदेशं पङ्किलं कर्तुं नैव शक्नोति। यथार्थमुदकं मरुभूमिं प्रविष्टं चेत् स्वधर्मं द्रवं तस्याः सम्पाद्य तां पङ्किलां करोति, मरीचिकोदकं तु न तथेत्यर्थः। दार्ष्टान्तिकमाह— तथेति। अविद्या क्षेत्रज्ञस्य किञ्चिदपि संसारित्वं कर्तुं न शक्नोति, मिथ्यात्वादविद्यायाः। अनाद्युपादानत्वे सति मिथ्यात्वं ह्यविद्याया लक्षणम्। मिथ्यात्वं सदसदनिर्वाच्यत्वम्। तूलाज्ञानमविद्येति पक्षे तूपादानत्वे सति मिथ्यात्वमिति तल्लक्षणम्। उभयथाऽपि मिथ्यैवाविद्या। अविद्याया एव मिथ्यात्वे तत्कार्यसंसारमिथ्यात्वे न विप्रतिपत्तिः। न च सत्यैवाविद्येति वाच्यम् ; ‘नासतो विद्यते भावो नाभावो विद्यते सतः’ इत्युक्तन्यायेन सत्याया अविद्याया ज्ञानेन निवृत्त्ययोगात्। न हि ज्ञाननिवर्त्यं वस्तु क्वापि सत्यं दृष्टम् , रज्जुज्ञाननिवर्त्यसर्पादेर्मिथ्यात्वदर्शनात्। नाप्यत्यन्तमसत्या, शशशृङ्गवदप्रतीत्यभावात्। यस्मात् प्रतीयते, बाध्यते च, तस्मान्मिथ्यैवाविद्या, रज्जुसर्पादिवदिति।न चेति वाक्यस्यान्योऽप्यर्थः प्रतिभाति। तथाहि - मिथ्या च तदज्ञानं च मिथ्याज्ञानं, परमार्थवस्तु परमार्थसत्यं ब्रह्म दूषयितुं संसारीकर्तुं , मिथ्याभूतं कर्तुं वा न समर्थम् , सत्यमिथ्यावस्तुनोरितरेतरतादात्म्याद्यनुपपत्तेरिति भाव इति। ननु मिथ्याज्ञानेनापि सत्यवस्तुनो दोषः स्यादिति शङ्कायां लोकप्रसिद्धं दृष्टान्तमाह— न हीति। पुनरपि सुबोधाय दार्ष्टान्तिकमाह— तथेति। एतेन - अज्ञैरात्मनि कल्पितेन संसारेण न कोऽपि लेपः क्षेत्रज्ञस्य, यथा अज्ञकल्पितमरीचिकोदकेन मरुभूमेर्द्रवाभाव इति सिद्धम्। यद्वा अविद्यया क्षेत्रज्ञे कल्पितेन संसारेण तस्य न कोऽपि लेपः, यथा अविद्यया मरुभूमौ कल्पितेन जलेन तस्या द्रवाभाव इति सिद्धम्। ततश्चाज्ञानादात्मानं क्षेत्रज्ञं संसारिणं २मन्वन्तु नामाज्ञाः, न तावता अज्ञप्रत्ययमात्रेणात्मनः कोऽपि संसारः। न हि गगनं नीलमिति बालप्रत्ययमात्रेण गगनस्य नैल्यसम्भवः। तस्मान्नास्ति क्षेत्रज्ञस्य किञ्चिदपि संसारित्वम्। अत इति। क्षेत्रज्ञस्य वस्तुतोऽसंसारित्वादित्यर्थः। क्षेत्रज्ञो वस्तुत ईश्वर एव, अज्ञानेन तज्ज्ञानस्यावरणात् क्षेत्रज्ञः संसारीति जन्तवो निरोधसम्भव इत्यर्थः। अविद्यासम्बन्धोऽपि न तात्त्विक इत्याह— न क्षेत्रज्ञस्य केवलस्येति। नन्वविद्यासम्बन्धस्या- तात्त्विकत्वेऽपि तत्कृतं संसारित्वं तात्त्विकं भविष्यति। प्रतिबिम्बस्यातात्त्विकत्वेऽपि तद्गम्यस्य बिम्बस्य गम्य[सत्य]ता- दर्शनादित्यत आह— न च मिथ्याज्ञानमिति। यतोऽध्यस्तदोषेण नाधिष्ठानं लिप्यते, अतो भगवता युक्तमुक्तमित्याह— इदमुक्तमिति। संसारमपि तस्मिन्नाधत्ते, तेन तस्यैव शास्त्राधिकारित्वम् , नेत्याह— नेति। अविद्यादेः शुद्धे क्षेत्रज्ञे वस्तुतोऽसम्बन्धेऽपि तत् तस्मिन्नारोपितं तमेव १दुःखीकरोतीत्यत्राह— न चेति। तदेव दृष्टान्तेन स्पष्टयति— न हीति। क्षेत्रज्ञस्य वस्तुतोऽविद्याऽसम्बन्धे भगवद्वचोऽपि द्योतकमित्याह— अत इति। क्षेत्रक्षेत्रज्ञयोरैक्ये किमित्यसावात्मानम् ‘अह’मिति बुध्यमानोऽपि, स्वस्येश्वरत्वम् ‘ईश्वरोऽस्मी’ति न बुध्यते? तत्राह— अज्ञानेनेति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘दुःखाकरोतीत्यत्राह’ इति पा.। २. मन्वतामिति भाव्यम्। परस्मैपदप्रयोगश्चिन्त्यः।

[[६१९]]

[यौक्तिकात्मविवेकस्यापरोक्षभ्रमानिवर्तकता] अथ किमिदं संसारिणामिव ‘अहमेवं, ममैवेदम्’ इति पण्डितानामपि? शृणु , इदं तत् पाण्डित्यम् , यत् क्षेत्र एवात्मदर्शनम्। यदि पुनः क्षेत्रज्ञमविक्रियं पश्येयुः, ततो न भोगं कर्म वाऽऽकाङ्क्षेयुः— मम स्यादिति। विक्रियैव हि भोगकर्मणी। अथैवं सति फलार्थित्वादविद्वान् प्रवर्तते। विदुषः पुनरविक्रियात्मदर्शिनः फलार्थित्वाभावात् प्रवृत्त्यनु- पपत्तौ कार्यकरणसङ्घातव्यापारोपरमे निवृत्तिरुपचर्यते। मुह्यन्तीति इदमुक्तं भगवतेति शेषः। ननु यदि विद्वद् दृष्ट्या असंसार्येव क्षेत्रज्ञः, अविद्वद् दृष्ट्यैव संसारी, तर्ह्यज्ञानामिव विदुषामप्यनात्मनि देहादावहमिदमिति ममेदमिति च कोऽयमभिमानः? संसारहेतुरयमभिमानोऽज्ञानप्रयुक्तो हि; अज्ञानं च न युक्तं विद्यावताम्। तस्माद् विदुषामपि अनात्मसु अहम्ममाभिमानसत्त्वाद् देहात्मनोः संसर्गः सत्य एवेति देहादिमत्त्वात् संसार्येव क्षेत्रज्ञ इत्याशयेन पृच्छति द्वैती— अथेति। आह सिद्धान्ती— शृण्विति। क्षेत्रे शरीर एव यदात्मदर्शनम् आत्मेति बुद्धिस्तदिदं तेषामहमिदं ममेदमित्यभिमानिनां पाण्डित्यं विद्वत्ता। अयं भावः - अत्यन्तं मूढा देहमेवात्मानं मन्यन्ते, आस्तिकास्तु देहादन्यं कर्तारं भोक्तारं चात्मानं मन्यन्त इत्यास्तिकानां देहे ऽहमभिमानाभावेऽप्यन्तःकरणेऽहमभिमानोऽस्ति, अन्तःकरणधर्माणां भोक्तृत्वादीनामात्मन्यध्यासात्। न ह्यन्तःकरणाद् विलक्षण- मात्मानं ते विदुः। ततश्च देहे ममाभिमानस्तेषामिति। उक्तार्थानभ्युपगमे दोषमाह— यदीति। यदि तेषां वैदिकानामन्तःकरणे क्षेत्रे ऽहम्ममाभिमानाभावस्तर्हि कर्तुर्भोक्तुश्चान्तःकरणाद् विलक्षणमविक्रियमेव क्षेत्रज्ञमात्मानं पश्येयुः; यदि तथा पश्येयुस्ततस्तर्हि ममायं भोगः स्यादिति भोगं कर्म वा न काङ्क्षेयुः। हि यस्माद् भोगाः कर्माणि च विक्रियैव। तस्माद् विक्रियारहित आत्मनि भोगाद्ययोगान्ना- स्त्यविक्रियात्मदर्शिनां भोगादिकाङ्क्षा। एवं सति अविक्रियात्मदर्शिनां भोगादिकाङ्क्षाऽभावे सतीत्यर्थः। क्षेत्र एवात्मदर्शने सतीति वा। अविद्वान् क्षेत्रात्मदर्शी कर्ता भोक्ता चात्मेति प्रतिपद्यमान इत्यर्थः। फलार्थित्वाद् हेतोः प्रवर्तते कर्मणि प्रवृत्तो भवति। अविक्रियमात्मानं द्रष्टुं शीलमस्यास्तीत्यविक्रियात्मदर्शी, तस्य विदुषस्त्वात्मनोऽभोक्तृत्वेन फलार्थित्वाभावात् फलाकाङ्क्षाऽभावाद्धेतोः प्रवृत्त्यनुपपत्तिः। ननु प्रवृत्तिवन्निवृत्तिरपि कर्मैवेति ‘कर्मण्यकर्म यः पश्येदि’ति श्लोकभाष्ये प्रोक्तत्वात् कथमकर्तुर्विदुषो निवृत्त्युपपत्तिः? अत आह— प्रवृत्त्यनुपपत्तौ सत्यां निवृत्तिरुपचर्यत इति। कार्यकरणसङ्घातस्य व्यापारः कर्म यज्ञादिलक्षणः, तस्योपरमो निवृत्तिरि- यदि परमार्थतो नास्ति संसारसम्बन्धः, तर्हि पण्डितानुभवविरोधः इत्याह— अथ किमिदमिति। यौक्तिकविवेक- ज्ञानस्यापरोक्षभ्रमानिवर्तकत्वात् पण्डिता अपि भ्रान्ता एवेत्याह— शृण्विदं तदिति। फलितमाह— अथैवं सतीत्यादिना। आत्मनो वस्तुतः संसारासंस्पर्शे विद्वदनुभवविरोधः स्यादिति चोदयति— अथेति। एवमित्याभिजात्यादिवैशिष्ट्यमुक्तम् , इदमा क्षेत्रकलत्रादि। पण्डितानामपि प्रतीतं संसारित्वमिति शेषः। किं पाण्डित्यं देहादावात्मदर्शनम्? किंवा कूटस्थात्मदृष्टिः? आहो संसारित्वादिधीः? इति विकल्प्याऽऽद्यं निराकुर्वन्नाह— शृण्विति। १तच्च वस्तुतोऽसंसारित्वाविरोधि, प्रातिभासिकं तु संसारित्वमिष्टमिति शेषः। द्वितीयं दूषयति— यदीति। न हि कूटस्थात्मविषयं संसारित्वं प्रतीयते येन वस्तुतोऽसंसारित्वं विरुध्येत, कूटस्थात्मधीविरुद्धायाः संसारित्वबुद्धेरनवकाशित्वादित्यर्थः। आत्मानमक्रियं पश्यतोऽपि कुतो भोगकर्मणी न स्यातामित्याशङ्क्याह— विक्रियेति। अविक्रियात्म- बुद्धेः भोगकर्माकाङ्क्षयोरभावे कस्य शास्त्रे प्रवृत्तिरित्याशङ्क्याह— अथेति। फलार्थित्वाभावाद् विदुषो न कर्मणि प्रवृत्तिरित्येवं स्थिते सत्यनन्तरम् अविद्वान् फलार्थित्वात् तदुपाये कर्मणि प्रवर्तते, शास्त्राधिकारीत्यर्थः। विदुषो वैधप्रवृत्त्यभावेऽपि निषेधाधीननिवृत्तेरपि दुर्वचत्वात् तस्य निवृत्तिनिष्ठत्वासिद्धिरित्याशङ्क्याह— विदुष इति। १. तच्च क्षेत्र एवात्मदर्शनम्।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १३. श्लो. २]] [[६२०]]

[क्षेत्रज्ञजीवभेदपरपरव्याख्यानखण्डनम्] इदं चान्यत् पाण्डित्यं १कस्यचिदस्तु— क्षेत्रज्ञ ईश्वर एव; क्षेत्रं चान्यत् क्षेत्रज्ञस्यैव विषयः; अहं तु संसारी सुखी दुःखी च; संसारोपरमश्च मम कर्तव्यः क्षेत्रक्षेत्रज्ञविज्ञानेन, ध्यानेन चेश्वरं क्षेत्रज्ञं साक्षात्कृत्वा तत्स्वरूपावस्थानेनेति; यश्चैवं बुध्यते, यश्च बोधयति, नासौ क्षेत्रज्ञः- इति। एवं मन्वानो यः स २पण्डितापसदः संसारमोक्षयोः शास्त्रस्य चार्थवत्त्वं करोमीति, आत्महा, स्वयं मूढोऽन्यांश्च व्यामोहयति, शास्त्रार्थसम्प्रदायरहितत्वात् त्युपचारादुच्यते। कार्यकरणसङ्घातव्यापारादुपरतो भवति। न त्वहं व्यापारोपरमं करोमीति मन्यते, येन निवृत्तिः कर्म स्यादिति भावः। तस्मात् कर्तृभोक्त्रन्तःकरणतादात्म्याध्यासशालिनां वैदिकानां सम्यग्दर्शनशून्यानामेवाहम्ममाभिमानो, न तु तत्त्वविदाम्। अन्यदिति। पूर्वोक्तादितरत्। केषाञ्चिदिति। द्वैतिनामित्यर्थः। तत् पाण्डित्यमेव दर्शयति— क्षेत्रज्ञ इत्यादिना। ईश्वर एवेति। न तु जीव इत्येवकारार्थः। स्वस्य संसारित्वात् , क्षेत्रज्ञस्य चासंसारित्वादिति भावः। क्षेत्रज्ञस्य साक्षिण ईश्वरस्य विषयो गोचरः, तत्प्रकाश्यमिति यावत्। क्षेत्रं चान्यत् , क्षेत्रज्ञाज्जीवाच्च विलक्षणमेव। अहं क्षेत्रक्षेत्रज्ञयोरन्यः संसारी जीवः। कुतः? यतः सुखी दुःखी च भवामि, क्षेत्रक्षेत्रज्ञविज्ञानेन ध्यानेन चेश्वरं क्षेत्रज्ञं साक्षात्कृत्वा तत्स्वरूपावस्थानेन, भ्रमरकीटन्यायादिति भावः; मम संसारोपरमः कर्तव्य इतीदमन्यत् पाण्डित्यं केषाञ्चिदस्त्वित्यन्वयः। क्षेत्रज्ञमेव संसारिणं मन्यन्ते पूर्वोक्ताः। अमी तु क्षेत्रज्ञमीश्वरं मन्वानाः तस्मादन्यमेव संसारिणमात्मानं मन्यन्त इति भेदः। किमिदं पाण्डित्यं दुष्टम्? अत आह— यश्चेति। यश्च बुध एवमुक्तरीत्या बुध्यते वेत्ति, यश्च गुरुः शिष्यानेवं बोधयति; किं बुध्यते? किं वा बोधयति? इत्यत आह— नासौ क्षेत्रज्ञ इति। असौ जीवः क्षेत्रज्ञो न भवतीति। यः एवं मन्वान एतादृशज्ञानवान् स पण्डितापशदः नीचपण्डितः। संसारमोक्षयोर्मिथ्यात्वे शास्त्रमनर्थकं स्यादिति तत्सत्यत्ववर्णनद्वारा शास्त्रस्यार्थवत्त्वं सम्पादयामीति प्रवृत्त इति शेषः, मन्यमान इति वा। अत एवात्मानं हन्ति नाशयति संसारादनिर्मोचनद्वारेति आत्महा। एवंविधः स पण्डितापशदः परव्याख्यानमनुवदति— इदञ्चान्यदिति। ‘क्षेत्रज्ञं चापि मां विद्धी’त्यनेन सर्वक्षेत्रान्तर्यामी जीवादन्य ईश्वरः प्रतिपाद्यते। न तु जीवस्येश्वरात्मता प्रतिपाद्यत इत्यर्थः। कस्माज्जीवस्येश्वरात्मता न प्रतिपाद्यते? (इत्यत आह—) बन्धमोक्षशास्त्रार्थवत्त्वानुपपत्तेरित्याह—अहं तु संसारीति। मम ज्ञानेनेश्वरभावः कर्तव्य इति यः स्वयं मन्यते, यं वा बोधयति स कथमीश्वरः स्यात्? यदि स्यात् तदा शास्त्राद्युपदेशोऽनर्थकत्वा[र्थकः स्या]दित्यर्थः। एतद् दूषयति— एवं मन्वानो य तृतीयमुत्थापयति— इदं चेति। सिद्धान्तादविशेषमाशङ्क्य क्षेत्रस्य क्षेत्रज्ञाद् वस्तुतो भिन्नत्वेन तद्विषयत्वाङ्गीकारान्मैवमित्याह— क्षेत्रं चेति। अहंधीवेद्यस्यात्मनो वस्तुतः संसारित्वस्वीकाराच्च सिद्धान्ताद् भेदोऽस्तीत्याह— अहं त्विति। संसारित्वमेव स्फोरयति— सुखीति। संसारित्वस्य वस्तुत्वे तदनिवृत्त्या पुमर्थासिद्धिरित्याशङ्क्याह— संसारेति। कथं तदुपरमस्य हेतुं विना कर्तव्यत्वमित्याशङ्क्याह— क्षेत्रेति। क्षेत्रं ज्ञात्वा ततो निष्कृष्टस्य क्षेत्रज्ञस्य ज्ञानं कथं संसारोपरतिमुत्पादयेदित्याशङ्क्याह— ध्यानेनेति। संसारित्वमात्मनो बुध्यमानस्य तद्रहितादीश्वरादन्यत्वमिति वक्तुम् इतिशब्दः। तदेवान्यत्वमुपपादयति— यश्चेति। मम संसारिणोऽसंसारीश्वरत्वं कर्तव्यमि- त्येवं यो बुध्यते, यो वा तथाविधं ज्ञानं तव कर्तव्यमित्युपदिशति, स क्षेत्रज्ञादीश्वरादन्यो ज्ञेयोऽन्यथोपदेशानर्थक्यादित्यर्थः। ‘आत्मा संसारी परस्मादात्मनोऽन्यः, तस्य ध्यानाधीनज्ञानेनेश्वरत्वं कर्तव्य’मित्येतज्ज्ञानं पाण्डित्यमिति मतं दूषयति— एवमिति। ‘अयमात्मा ब्रह्म’ इत्यात्मनो ब्रह्मत्वश्रुतिविरोधादित्यर्थः। ननु संसारस्य वस्तुत्वाङ्गीकारात् तत्प्रतीत्यवस्थायां कर्मकाण्डस्यार्थवत्त्वम् , संसारित्व- निरासेनात्मनो ब्रह्मत्वे ध्यानादिना साधिते मोक्षावस्थायां ज्ञानकाण्डस्यार्थवत्त्वम् , तत् कथं यथोक्तज्ञानवान् पण्डितापसदत्वेनाक्षिप्यते?

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘केषांचिदस्तु’ इति पा.। २. ‘पण्डितापशदः’ इति पा.।

[[६२१]]

श्रुतहानिमश्रुतकल्पनां च कुर्वन्। तस्मादसम्प्रदायवित् सर्वशास्त्रविदपि १मूर्खवदेवोपेक्षणीयः। स्वयं मूढःसन् अन्यांश्च व्यामोहयति। कुतः? शास्त्रार्थसम्प्रदायरहितत्वात्। शास्त्रस्य यः सम्प्रदायसिद्धोऽर्थस्तज्ज्ञानशून्यः। स्वस्य सम्प्रदायविद्गुरूपदेशाभावादिति भावः। व्यासशुकादिगुरुशिष्यपरम्परा सम्प्रदाय इत्युच्यते। तं विन्दति भजत इति सम्प्रदायवित्। तत्परम्पराप्रविष्ट इति यावत्। स चासौ गुरुर्गोविन्दयोगीन्द्रः, तदुपदेशः शङ्कराचार्यस्यास्तीति शङ्करोक्त एवार्थो ग्राह्यः। व्यासो हि मूलकर्ता स्वाभिप्रायं स्वशिष्याय स्वपुत्राय च यथावद् बोधयामास। स च शुको गौडपादाय शिष्याय, स च गौडपादो गोविन्दयोगीन्द्राय, स च शङ्करायेत्येवं गीतार्थसंप्रदायः। अयं च शंकरः स्वाभिप्रायं सर्वजनसुलभं चकार भाष्यरचनाद्वारेति कृत्वा यः एतद्भाष्यपाठकः स च सम्प्रदायविद् गुरुरेव। अन्ये तु रामानुजादयो दर्शितसम्प्रदायशून्या एवेति कृत्वा तद्भाष्यपाठकोऽपि सम्प्रदायरहित एव। शास्त्रार्थस्य यः सम्प्रदायो बोधकबोद्ध्यरूपगुरुशिष्यादिपरम्परा तद्रहितत्वात् तदन्तःप्रवेशाभावादित्यक्षरार्थः। अस्माद्धेतोः श्रुतहानिं यथाश्रुतार्थपरित्यागम् , अश्रुतकल्पनाम् अयथाश्रुतार्थकल्पनां च कुर्वन् , शास्त्रस्य स्वातन्त्येण कञ्चिदपार्थं परिकल्पयन्नित्यर्थः। कुर्वन् सन् अन्यान् व्यामोहयतीति सम्बन्धः। तस्मादिति। यस्मादेवं पण्डितापशदः स्वयं मूढोऽन्यान् व्यामोहयति तस्मादित्यर्थः। यस्माच्छ्रुतहानिमश्रुतकल्पनां च करोति, तस्मादिति वा। सर्वशास्त्रविदपि असम्प्रदायवित् स पण्डितापशदो मूर्ख इव अज्ञ इवोपेक्षणीयः, न तु संसेव्यः शिष्यैः, तदुपदिष्टार्थस्य प्रमाणविरुद्धत्वेनानर्थहेतुत्वाच्छिष्यस्य। कथमिति चेद्? उच्यते ‘इदम् शरीरं कौन्तेय क्षेत्रमित्यभिधीयते’ इति शरीरस्य क्षेत्रत्वमुक्त्वा ‘एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः’ इति शरीरज्ञातुः क्षेत्रज्ञत्वमुक्तं भगवता। शरीरज्ञातृत्वं च शरीरिणो जीवस्य सर्वानुभवसिद्धम् - मनुष्योऽहं, स्थूलोऽहं, ममाङ्गं, मम हस्त इत्यादिप्रतीतेः। तस्य च क्षेत्रज्ञस्य ‘क्षेत्रज्ञं चापि मां विद्धी’तीश्वराभेद उक्तः। मामित्यस्मच्छब्दार्थस्य श्रीकृष्णस्येश्वरत्वस्य सर्वसम्मतत्वात्। एवं यथाश्रुतमर्थं विहाय, जीवो न क्षेत्रज्ञः, किन्त्वीश्वर एव क्षेत्रज्ञ इत्यर्थवर्णनमश्रुतकल्पनमेव। इत्यादिना। ‘अयमात्मा ब्रह्मे’ति श्रुतेः सिद्धमात्मनो ब्रह्मतत्त्वं[ब्रह्मत्वं] यत् २तत्तिरस्कारेणात्मानं हतवानित्याह— आत्महा चेति। तथा च श्रुतिस्मृती - ‘एका[ये के चा]त्महनो जनाः’ ‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा॥’ इति। अन्यथाऽप्युपपन्नशास्त्रार्थवत्त्वलाभे स्वरूपभूतमपि ब्रह्म जिहासति, ततो मूढ इत्यर्थः। प्रसिद्धक्षेत्रज्ञानुवादेन अप्रसिद्धेश्वरात्मत्वमुपदिश्यमानं ‘तत्त्वमसी’ति यच्छ्रुतं तस्य हानिम् , अश्रुतस्य च जीवेश्वरयो- स्तात्त्विकभेदस्य कल्पनां च कुर्वन्नन्यान् व्यामोहयतीत्यर्थः। तत्राह— संसारेति। करोमीति मन्यमानो यः स पण्डितापसद इति पूर्वेण सम्बन्धः। कर्मकाण्डं हि कल्पितं संसारित्वमधिकृत्य साध्यसाधनसम्बन्धं बोधयदर्थवदिष्टम् ; ज्ञानकाण्डमपि तथाविधं संसारित्वं पराकृत्याखण्डैकरसे प्रत्यग्ब्रह्मणि पर्यवस्यदर्थवद् भवेदित्यर्थः। किञ्चात्मनः शास्त्रसिद्धं ब्रह्मत्वं त्यक्त्वाऽब्रह्मत्वं कल्पयन्नात्महा भूत्वा लोकद्वयबहिर्भूतः स्यादित्याह— आत्महेति। ननु ‘क्षेत्रज्ञं चापि मां विद्धी’त्यनेन सर्वक्षेत्रान्तर्यामी परो जीवादन्यो निरुच्यते, न जीवस्येश्वरत्वमत्र प्रतिपाद्यते, तत् कथमित्थमाक्षिप्यते? तत्राह— स्वयमिति। किञ्च ‘तत्त्वमसी’तिवत् प्रसिद्धक्षेत्रज्ञानुवादेनाप्रसिद्धं तस्येश्वरत्वमिहोपदेशतः श्रुतं, तस्य हानिम् , अश्रुतस्य च जीवेश्वरयोस्तात्त्विकभेदस्य कल्पनां कुर्वन् कथं व्यामूढो न स्यादित्याह— श्रुतेति। ननु केचन व्याख्यातारो यथोक्तं पाण्डित्यं पुरस्कृत्य ‘क्षेत्रज्ञं चापी’त्यादिश्लोकं व्याख्यातवन्तः। तत् कथमुक्तं पाण्डित्यमास्थातुर्व्यामूढत्वम्? तत्राह— तस्मादिति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. २ ] १. ‘मूर्ख इवोपेक्षणीयः।’ इति रा.पा.। २. तिरस्करणमेवेह हननमभिप्रेतमिति भावः। ‘कथं त आत्मानं नित्यं हिंसन्ति? अविद्यादोषेण विद्यमानस्यात्मनः तिरस्करणात्। विद्यमानस्य आत्मनो यत्कार्यं फलम् अजरामरत्वादिसंवेदनलक्षणं तद्धतस्येव तिरोभूतं भवतीति प्राकृता अविद्वांसो जनाः आत्महन उच्यन्ते। तेन ह्यात्महननदोषेण संसरन्ति ते’ इति ईशावास्योपनिषद्भाष्यमिहानुसंधेयम्।

[[६२२]]

क्षेत्रज्ञेश्वरादन्यस्य जीवस्य तद्ध्यानेन तत्स्वरूपावस्थितिरित्यप्ययुक्ता, अन्यस्यान्यस्वरूपापत्त्ययोगात् , विद्यमानरूपपरि- त्यागे जीवस्य नाशप्रसङ्गात् , रूपान्तरपरिग्रहे च जन्मप्रसङ्गात् , तथा च सति जीवस्यानित्यत्वप्रसङ्गात्। घटो हि कम्बुग्रीवादि- स्वाकारपरित्यागे नष्ट इति, कपालात्मना जात इति च, ततोऽनित्य इति च प्रसिद्धम्। न च पूर्वरूपमपरित्यज्यैव जीव ऐश्वरं रूपं भजत इति वाच्यम् ; रूपद्वयसामानाधिकरण्यायोगात् , दृष्टान्ताभावाच्च। न च भ्रमरकीटन्यायोऽत्र दृष्टान्त इति वाच्यम् ; कीटस्यापि कीटरूपत्यागादेव भ्रमररूपप्राप्तेः। न हि कीटभ्रमररूपद्वयस्यैकत्रोपलम्भः, येन कीटः कीटरूपमपरित्यज्यैव भ्रमररूपं प्राप्त इत्युच्येत। कथं वा कीटस्य कीटरूपत्यागं विना भ्रमररूपप्राप्तिः सम्भवेत्? कीटभ्रमररूपयोरन्योन्यविलक्षणत्वात्। अविलक्षणत्वे च कीटोऽयं भ्रमरोऽयमिति विवेकव्यवहारानुपपत्तेः। न च घटरूपं परित्यज्य कपालरूपं प्राप्तस्य मृद्द्रव्यस्य नित्यत्वदर्शनात् पूर्वरूपपरित्यागपूर्वकोत्तररूपस्वीकारेऽपि न जीवस्यानित्यत्वदोष इति वाच्यम् ; घटकपालद्वयानुगतस्य मृद्द्रव्यस्यैकत्वादस्तु नित्यत्वं, प्रकृते तु कीटभ्रमरयोरिव जीवेश्वरयोरेकात्मत्वाभावान्न भवेज्जीवस्य नित्यत्वम्। किञ्च मृद्द्रव्यस्य नित्यत्वेऽपि तद्विकारयोः घटकपालयोरनित्यत्वमेव यथा, तथा जीवेश्वरयोरनित्यत्वमेव स्यात् , तदनुगतस्य यस्य कस्यापि वस्तुनः सत्यत्वं नित्यत्वं च स्यात्। तच्चानुगतं वस्तु नास्त्येव तव मते। तत्सत्त्वे वा जीववदीश्वरोऽप्यनित्य एव स्यादिति हन्त! महदनिष्टं यज्जीवनित्यत्वं साधयतस्तवेश्वरानित्यत्वमपि प्राप्तम्। यदि जीवेश्वरद्वयानुगतचैतन्यमेव नित्यं सत्यं च, घटकपालद्वयानुगतमृद्द्रव्यवदित्यभ्युपैषि, तर्हि मृदात्मत्वेन घटकपालयोरिव चैतन्यात्मत्वेन जीवेश्वरयोरप्येकत्वं स्यादेवेति स्वमतभङ्गः, परमतस्वीकारश्च तव। किञ्च जीवेश्वरयोः किं घटपटयोरिव रूपतो भेदः? यद्वा लवणकर्पूरयोरिव धर्मतः? यद्वा घटयोरिव व्यक्तितः? अथवा घट- रूपयोरिव पदार्थतः? यद्वा वाय्वाकाशयोरिव गुणतः? अथवा घटकलशयोरिव नामतः? न तावदाद्यः, नीरूपत्वाद् द्वयोः। न द्वितीयः, निर्धर्मकत्वात्। न तृतीयः, व्यक्तिद्वयानुपलम्भात् , अव्यक्तत्वेन व्यक्तेरेवाभावाच्च। न चतुर्थः, आत्मत्वेनोभयोरेकपदार्थत्वात्। न पञ्चमः, निर्गुणत्वात्। अतः षष्ठः पक्षः परिशिष्टः। घटः इति, कलशः इति च यथैकस्यैव वस्तुनो नामद्वयं, तथा जीवः इतीश्वरः इति च एकस्यैव चैतन्यस्य नामद्वयमिति। तस्माज्जीवेश्वरयोर्भेदवादो नोपपद्यते। न चाभेदवादोऽप्ययुक्त एव, भेदप्रसक्तिं विना भेदनिषेधा- योगात् , भेदस्याभावे प्रसक्त्ययोगाच्चेति वाच्यम् ; अज्ञदृष्ट्या जीवेश्वरभेदस्य प्रसक्तत्वादिति। न च - अन्तःकरणावच्छिन्नत्व-मायावच्छिन्नत्वरूपविशेषणभेदाज्जीवेश्वरभेदः इति - वाच्यम् ; निर्विशेषचिन्मात्रे विशेषणायोगात्। अत एव हि निर्धर्मक आत्मेत्युच्यते। न च परिपूर्णं चैतन्यमन्तःकरणादिना परिच्छिद्यते। भवतु वा घटाकाश- मठाकाशयोरिवौपाधिकभेदः। न स जीवेश्वरवास्तवभेदजननक्षमः, १उपाधिभेदस्याप्रयोजकत्वात्। न हि घटमठभेदादाकाशस्य भेदः। न ह्युपाधितो भिद्यमानं किञ्चन वस्तु दृश्यते। अत एव किं जीवेश्वरयोरुपाधितो भेदो वेति न विकल्पितं प्राक्, दृष्टान्ताभावात्। न च घटाकाशमठाकाशौ दृष्टान्ताविति वाच्यम् ; तद्भेदस्यासम्प्रतिपन्नत्वात्। सम्प्रतिपन्नो हि दृष्टान्ततया स्वीकार्यः। तस्मादयुक्तोऽप्रमाणश्च जीवेश्वरभेदवादः। न च सप्रमाण एवेति वाच्यम् ; ‘स आत्मा तत्त्वमसी’त्यादिप्रमाणविरोधात्। न च ‘द्वा सुपर्णा’ इति श्रुतिः प्रमाणमिति वाच्यम् ; तस्य सत्त्वजीवपरत्वेन २व्याख्यातत्वात्। यद्वा प्रमातृसाक्षिपरत्वात्। साक्षिण्येव कूटस्थे प्रमातृत्वस्य कल्पितत्वात् साक्ष्येव जीव इति न प्रमातृसाक्षिणोर्वास्तवः कश्चिद् भेदः। अमुमेव प्रमातारमध्यस्ताहङ्काररूपं जीवं मन्यन्तेऽविद्वांसः। न चाहङ्कारः स एव जीव इति वाच्यम् ; अहङ्कारस्य सुषुप्तौ लयदर्शनाज्जीवस्यानित्यत्वापत्तेः, अहङ्कारलयसाक्षित्वेन सुषुप्तौ जीवस्य सत्त्वाच्च। तस्मादप्रमाण एव जीवेश्वरभेदवादः। एवमप्रमाणत्वादयुक्तत्वादेव च ‘अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशु’रिति च भिन्नात्मज्ञानी निन्दितः श्रुत्या पशुरिति। इदमेवाभिप्रेत्य पशुत्वं मूर्ख इवेत्युक्तमाचार्यैः। एवं भेदवादिनः पशोर्मूर्खस्य दुर्वारं संसार- भयम्। ‘य उदरमन्तरं कुरुते, अथ तस्य भयं भवती’ति श्रुतेः। ईश्वरस्यासंसारित्वेन तस्माद् भिन्नस्य जीवस्य संसारित्वेनैव १. उपधेयस्य वास्तवभेदे इति आदौ शेषः। २. पैङ्गिरहस्यब्राह्मणेनेति शेषः। द्र. ब्र.सू.भा. १-२-१२। भाष्यार्कप्रकाशः

[[६२३]]

[संक्षेपेण पूर्वोक्तदोषनिरसनम्] यत्तूक्तमीश्वरस्य क्षेत्रज्ञैकत्वे संसारित्वं प्राप्नोति, क्षेत्रज्ञानां चेश्वरैकत्वे संसारिणोऽभावात् संसाराभावप्रसङ्ग इति। एतौ दोषौ प्रत्युक्तौ विद्याऽविद्ययोर्वैलक्षण्याभ्युपगमादिति। कथम्? अविद्यापरिकल्पितदोषेण तद्विषयं वस्तु पारमार्थिकं न दुष्यतीति। तथा च दृष्टान्तो दर्शितो मरीच्यम्भसोषरदेशो न १पङ्कीक्रियत इति। संसारिणोऽभावात् संसाराभावप्रसङ्गदोषोऽपि संसारसंसारिणोरविद्याकल्पितत्वोपपत्त्या प्रत्युक्तः। भाव्यत्वाच्च। तथा च संसारनिवर्तकसम्यग्दर्शनप्राप्तियोग्यं मनुष्यजन्म प्राप्यापि यः सम्यग्दर्शनमसम्पाद्यात्मानं संसारान्न मोचयति, स मनुष्यापशद आत्महा भवत्येव। आत्मानं हन्ति संसारपातनेन नाशयतीत्यात्महा इति व्युत्पत्तेः। अस्य च नरकप्राप्तिः श्रुत्यैवोक्ता ‘अन्धं तमः प्रपद्यन्ते [प्रविशन्ति] ये के चात्महनो जनाः’ इति। तस्मात् स्वयं नरकं गमिष्यन् अन्यानपि गमयतीत्ययमुपेक्षणीय एव, ‘दुष्टं दूरतो वर्जयेदि’ति न्यायात्। अन्यथा एतदनुसरिणामन्येषामप्यन्धतमःप्राप्तेरवर्जनीयत्वात्। यद्यप्यात्मा न केनचिद् हन्यते, ‘नायं हन्ति न हन्यते’ इति गीतावचनात् , तथापि अज्ञानकल्पितः प्रमातृलक्षण आत्मा हन्यत एवामीभिः, असंसार्यात्माऽहं ब्रह्मेति ज्ञानेन प्रमातुः सकाशात् संसारनिवृत्तेः, एतज्ज्ञानाभावे तदनिवृत्तेश्च। अन्यथा शास्त्रमनर्थकमेव स्यात्। तस्मादयमात्महैव। अनेनात्मत्वेनाभिमतस्य प्रमातुः संसारपतनरूपहानिसद्भावादिति। तस्मादसंसारीश्वर एव क्षेत्रज्ञ इति स्थितम्। एतावता ग्रन्थसन्दर्भेण किं लब्धम्? तदाह— यत्त्वित्यादिना। कुतः प्रत्युक्तौ? अत आह— विद्येति। विद्याऽविद्ययोः परस्परं विलक्षणत्वाद् विद्यया असंसारीश्वरत्वमात्मनः क्षेत्रज्ञस्य, अविद्यया तु संसारित्वमिति भेदाभ्युपगमात्। ननु विद्यया संसाराभावे ऽप्यात्मनोऽविद्यया संसारोऽस्त्येवेति संसारित्वं पक्षे प्राप्तमीश्वरस्येत्यत आह— अविद्येति। अविद्याकृतसंसारेण नात्मनः कोऽपि लेपो, मरीच्युदकेन मरुदेशवदिति पूर्वोक्तार्थमाह— अविद्येति। नन्वेवं संसारिणोऽभावे संसाराभावप्रसङ्गः प्राप्तः, अत आह— सोऽपि दोषः प्रत्युक्त इति। तत्र हेतुमाह— संसारेति। संसारसंसारिणोरुभयोरप्यविद्याकल्पितत्वेन मिथ्यात्वाद् विदुषां तदभाव इष्ट एव, विद्यादशायां तदुभयादर्शनात्। न ह्यन्तःकरणादात्मनि विवेचिते सति कोऽपि संसार्युपलभ्यते। अन्तःकरणतादात्म्याध्यासमापन्नो हि प्रमाता, संसारसुखदुःखवत्त्वात्। न चान्तःकरणस्य संसारः इति वाच्यम् ; आत्मतादात्म्याध्यासाभावे केवलान्तःकरणस्य जडत्वेन संसारानुपपत्तेः। न हि घटादीनां जडानां संसारो दृश्यते। तस्मादात्मान्तःकरणाविवेकमूलकः संसारः, संसारी प्रमाता चेति, नास्ति विवेकिदृष्ट्या कोऽपि संसारः संसारी वेति स्थितम्। यदुक्तमित्यारभ्य अत्राहेत्यतः प्राक्तनेन ग्रन्थेन स्वपक्षे विस्तरेण परिहृतमपि चोद्यं सङ्क्षिप्य परिहरति। क्षेत्रज्ञेश्वरैकत्वसम्भावनायैव इदम्। ‘क्षेत्रज्ञं चापी’त्यत्र क्षेत्रज्ञेश्वरयोरैक् यं स्वाभीष्टं २स्पष्टयितुं प्रत्युक्तमेव चोद्यमनुद्रवति— यत्तूक्तमिति। तात्त्विकमेकत्वम् , अतात्त्विकं संसारित्वमित्यङ्गीकृत्योक्तमेव समाधिं स्मारयति— एताविति। ईश्वरस्य संसारित्वं, संसार्यभावेन संसाराभावश्चेत्युक्तौ दोषौ विद्याऽविद्ययोर्वैलक्षण्येऽपि कथं प्रत्युक्ताविति पृच्छति— कथमिति। कल्पितसंसारेण कल्पनाधिष्ठानमद्वयं वस्तु वस्तुतो न सम्बद्धमिति परिहरति— अविद्येति। तद्विषयं कल्पनास्पदम् , अधिष्ठानमिति यावत्। कल्पितेनाधिष्ठानस्य वस्तुतोऽसंस्पर्शे दृष्टान्तं स्मारयति— तथा चेति। ईश्वरस्य संसारित्वाप्रसङ्गं प्रकटीकृत्य प्रसङ्गान्तरनिरासमनुस्मारयति— संसारिण इति। १. ‘आर्द्रीक्रियते’ इति पा.। २. पूर्वोक्तस्यैवार्थस्य संक्षिप्य पुनः कथनं स्पष्टप्रतिपत्त्यर्थमिति भावः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १३. श्लो. २]] [[६२४]]

नन्वविद्यावत्त्वमेव क्षेत्रज्ञस्य संसारित्वदोषः, तत्कृतं च सुखित्वदुःखित्वादि प्रत्यक्षमुपलभ्यते इति चेत् , न ; ज्ञेयस्य क्षेत्रधर्मत्वाज्ज्ञातुः क्षेत्रज्ञस्य तत्कृतदोषानुपपत्तेः। यावत्किञ्चित् क्षेत्रज्ञस्य दोषजातमविद्यमानमासञ्जयसि, तस्य ज्ञेयत्वोपपत्तेः क्षेत्रधर्मत्वमेव, न क्षेत्रज्ञधर्मत्वम्। न च तेन क्षेत्रज्ञो दुष्यति, ज्ञेयेन ज्ञातुः संसर्गानुपपत्तेः। यदि हि संसर्गः स्याज्ज्ञेयत्वमेव नोपपद्येत। यद्यात्मनो धर्मोऽविद्यावत्त्वं दुःखित्वादि च, कथं भोः प्रत्यक्षमुपलभ्यते? कथं वा क्षेत्रज्ञधर्मः? ‘ज्ञेयं च सर्वं क्षेत्रं, ज्ञातैव क्षेत्रज्ञः’ इत्यवधारितेऽविद्यादुःखित्वादेः क्षेत्रज्ञविशेषणत्वं क्षेत्रज्ञधर्मत्वं, तस्य च अविद्यावत्त्वात् संसारित्वं क्षेत्रज्ञस्येति पूर्वोक्तं परिहृतं च दोषं पुनरुत्थाप्य परिहरति स्थूणानिखननन्यायेन दोषपरिहार- दृढीकारार्थम्— नन्विति। तत्कृतमिति। अविद्यावत्त्वप्रयुक्तम् , अविद्याकृतमिति यावत्। प्रत्यक्षमुपलभ्यते सर्वैरनुभूयत इत्यर्थः। परिहरति— नेति। हेतुमाह— ज्ञेयस्येति। ज्ञेयस्याविद्यावत्त्वस्य क्षेत्रधर्मत्वात्। अविद्या कस्यचित् करणस्यैव धर्म इति पूर्वमुक्तम्। करणस्य क्षेत्रत्वान्न तेनास्य व्याघातः। ननु ज्ञेयधर्मेणाप्यविद्यया ज्ञातुर्दोषः स्याद् , अत आह— ज्ञातुरिति। तत्कृतेति। ज्ञेयधर्माविद्या- कृतेत्यर्थः। ज्ञेयघटधर्मो जाड्यादिर्न हि ज्ञातुः कमपि दोषामापादयन् दृष्ट इति भावः। दोष इत्युपलक्षणं गुणस्यापि। भाष्ये दोषशब्दस्तु संसाररूपदोषपर एव। ननु मास्तु संसारित्वदोषः क्षेत्रज्ञस्य, किञ्चिज्ज्ञत्वादिदोषस्त्वपरिहार्योऽत आह— यावदिति। यावत्किञ्चिदिति। यत्किञ्चिदित्यर्थः। दोषजातं दोषगणम् , आसञ्जयसि आ समन्तात् सङ्गतं करिष्यसि; सम्भावयसीति यावत् ; तस्य सर्वस्यापि दोषजातस्य ज्ञेयत्वोपपत्तेः ज्ञेयत्वादित्यर्थः; क्षेत्रधर्मत्वमेव। अत्र दोषशब्दो गुणस्याप्युपलक्षणम् , गुणदोषशून्यत्वादात्मनः। ‘अपदोषतैव विगुणस्य गुणः’ इति माघोऽप्याह। यद्वा गुणा अपीह दोषत्वेनैव व्यपदिश्यन्ते, गुणानामपि संसारहेतुत्वेन दोषत्वात्। एवकारार्थमाह— न क्षेत्रज्ञधर्मत्वमिति। यो यो धर्मः साक्षिणा क्षेत्रज्ञेन ज्ञायते, स सर्वोऽपि क्षेत्रधर्म एव। अत एव निर्धर्मकः साक्षीति सिद्धान्त इति भावः। ननु भवति क्षेत्रधर्म एवाविद्या, तथापि तेन क्षेत्रधर्मेण क्षेत्रस्य भवतु संसारित्वदोषः, यथाऽग्निधर्मेणौष्ण्येन लोहस्य तापकत्वदोषः, अत आह— न चेति। तेन क्षेत्रधर्मेणाविद्ययेति यावत्। क्षेत्रज्ञो न दुष्यति दोषं न प्रतिपद्यते। हेतुमाह— ज्ञेयेनेति। अग्निलोहयोस्तु ज्ञेयत्वादुभयोः संसर्गोऽस्तु, क्षेत्रक्षेत्रज्ञयोस्तु ज्ञेयज्ञात्रोः संसर्गो नोपपद्यत इत्यर्थः। उपपद्यत एवेति वदन्तं प्रत्याह— यदि हीति। ज्ञातृज्ञेययोः संसर्गः स्याच्चेत् तर्हि ज्ञातुर्ज्ञातृत्वमेव नोपपद्यते। अग्निसंसर्गाल्लोहस्याग्न्यात्मत्वमिव ज्ञेयसंसर्गाद् ज्ञातुर्ज्ञेयात्मत्वप्राप्तौ कथं ज्ञातृत्वं तस्य स्यात्? न कथमपीति भावः। एवं यो यो धर्मो ज्ञात्रा ज्ञायते स सर्वोऽपि ज्ञेयस्य धर्म एवेति स्थिते आह— यदीति। अविद्यावत्त्वं दुःखित्वादि च यद्यात्मनो धर्मस्तर्हि कथं भोः! कथं वा भोः! इति पूर्वपक्षिसम्बोधनं (वा); प्रत्यक्षमुपलभ्यते ज्ञायते अविद्यावत्त्वं दुःखित्वं च ५कर्म?। ज्ञेयं च तत् सर्वमविद्यावत्त्वादिकं कथं वा क्षेत्रज्ञधर्मः स्यात्? न कथमपीत्यर्थः। ज्ञेयस्य क्षेत्रज्ञधर्मत्वं, क्षेत्रज्ञधर्मस्य च ज्ञेयत्वमित्युभयं विरुद्धमेवेति भावः। इदमेवाह— क्षेत्रेति। क्षेत्रज्ञातैव क्षेत्रज्ञः, न न तावदविद्या संसारं संसारिणं च कल्पयति स्वतन्त्रा, १तत्त्वव्याघातात्। पारतन्त्ये चाश्रयान्तराभावात् क्षेत्रज्ञस्य तद्वत्त्वे२ संसारित्वमिति शङ्कते— नन्विति। न चाविद्यावत्त्वमविद्याकृतम् , ३अनवस्थानादिति भावः। ४यत्तूत्खातदंष्ट्रोरगवदविद्या किं करिष्यतीति, तत्राह—तत्कृतं चेति। अविद्यातज्जयोर्ज्ञेयत्वान्नात्मधर्मतेत्युत्तरमाह— नेत्यादिना। तदेव प्रपञ्चयति— यावदिति। ज्ञेयस्य क्षेत्रधर्मत्वेऽपि क्षेत्रद्वारा क्षेत्रज्ञस्य तत्कृतदोषवत्तेत्याशङ्क्याह— न चेति। क्षेत्रस्यापि ज्ञेयत्वाद् न तेन चितो वस्तुतः स्पर्शोऽस्तीत्युपपादयति— यदीति। धर्मधर्मित्वेन संसर्गेऽपि ज्ञेयत्वे का क्षतिरित्याशङ्क्याह— यदीति। आत्मधर्मस्यात्मना ज्ञेयत्वे स्वस्यापि ज्ञेयत्वापत्त्या कर्तृकर्मविरोधः स्यादित्यर्थः। किञ्च विमतं न क्षेत्रज्ञाश्रितम् , तद्वेद्यत्वाद् , रूपादिवदित्याह— कथं वेति। किञ्च ‘महाभूतानी’त्यादिना ज्ञेयमात्रस्य क्षेत्रान्तर्भावाद् नाविद्यादेर्ज्ञातृधर्मतेत्याह— ज्ञेयं चेति। किञ्च ‘एतद्यो वेत्ती’त्युक्तत्वात् क्षेत्रज्ञस्य ज्ञातृत्वनिर्णयाद् न तत्र ज्ञेयं किञ्चित् १. तत्त्वं स्वातन्त्यम्। आश्रयं विना स्थितिरिति यावत्। २. परिशेषाद् वक्तव्ये सतीति शेषः। ३. अविद्यावत्त्वस्याविद्याकृतत्वे तत्कारणस्याप्यविद्यान्तरस्य वाच्यतयाऽनवस्थापत्तिरित्यर्थः। ४. द्र.पृ. ६०५-६०६। ५. ज्ञानस्य कर्मेत्यर्थः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[६२५]]

प्रत्यक्षोपलभ्यत्वमिति विरुद्धमुच्यतेऽविद्यामात्रावष्टम्भात् केवलम्। अत्राह— सा अविद्या कस्येति? यस्य दृश्यते तस्यैव। तु क्षेत्रमित्येवकारार्थः। एवमवधारिते सति अविद्यादुःखित्वादेः क्षेत्रज्ञविशेषणत्वं, तस्य च क्षेत्रज्ञविशेषणस्य प्रत्यक्षोपलभ्यत्वमिति च विरुद्धमिदम् अविद्यामात्रावष्टम्भात् केवलमुच्यते। क्षेत्रज्ञस्य दुःखित्वादि प्रत्यक्षमुपलभ्यत इति ह्युक्तं पूर्वपक्षिणेति भावः। क्षेत्रज्ञविशेषणत्वमिति पदं स्वयमेव व्याख्याति— क्षेत्रज्ञधर्मत्वमिति। एवं विरुद्धार्थकथने हेतुरविद्यावष्टम्भमात्रमेव। अविद्या चेयं मायैव। न तु पूर्वोक्ततामसप्रत्ययः। माया च मूलाज्ञानम्। अवष्टम्भो नामावलम्बनम्। न च क्षेत्रधर्मवत् क्षेत्रज्ञधर्मोऽपि क्षेत्रज्ञेन ज्ञायत एव, अन्यथा ज्ञानानन्दादिक्षेत्रज्ञधर्माणामभावापत्तेरिति वाच्यम् ; ‘सच्चिदानन्दं ब्रह्म’ इति श्रुत्या ज्ञानानन्दसद्रूपे क्षेत्रज्ञे ज्ञानानन्दादिधर्मायोगाद् ज्ञानानन्दादिरात्मनः स्वरूपमेव। अत एव निर्धर्मक आत्मेति सिद्धान्तः। न च ज्ञात्राऽनुभूयमानस्यानन्दस्य न ज्ञातृस्वरूपत्वमिति वाच्यम् , अहमानन्दमनुभवामीति त्रिपुट्या अदर्शनात्। न हि सुप्तिमूर्छादौ त्रिपुटी दृश्यते, किन्तु केवलमनुभव एव, तस्यैवानन्दरूपत्वात् सत्यत्वाच्च। अहं सुखं अनुभवामीति तु अन्तःकरणधर्मस्य सुखस्यैवानुभवः, न त्वात्मानन्दस्य। तस्मादनुभव एवानन्दः सन् च। स एव क्षेत्रज्ञः। न हि केवलेऽनुभवे यः कोऽपि धर्मोऽस्ति, येन क्षेत्रज्ञः सधर्मकः स्यात्। तस्माज्ज्ञातुरात्मनः स्वस्वरूपमेव ज्ञानमानन्दश्च न तु गुण इति सिद्धान्तः। एवं सति ज्ञानानन्दादेः साक्षिरूपत्वेन स्वत एव भानमुपपद्यते। न च ज्ञानादीनामात्मधर्मत्वव्यवहारविरोध इति वाच्यम् ; ‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति तद्धर्माः अपृथक्त्वेऽपि चैतन्यात्पृथगिवावभासन्ते’ इति वचनात् पृथगवभासप्रयुक्तत्वात् तद्व्यवहारस्य। ननु सच्चिदानन्दानामात्मस्वरूपत्वमस्तु नाम, सर्वान्तरत्वसर्वनियामकत्वसर्वविशेषितसर्वाधारत्वापहतपाप्मत्वादयो धर्माः आत्मनः सन्ति वा न वा? आद्ये - ते धर्माः किमात्मना वेद्यन्त उतान्येन? नात्मना, ज्ञातृधर्माणां ज्ञातृवेद्यत्वानुपपत्तेस्त्वयैवोक्तत्वात्। नान्येन, आत्मान्यस्य सर्वस्यापि जडत्वात्। द्वितीये - ‘एको देवः’ इत्यादिश्रुतिविरोधः, तत्र सर्वान्तरत्वादिधर्माणामुक्तत्वात् , अनु- भवविरोधश्चेति चेत् , मैवम् ; यदि सर्वं सत्यं स्यात् , तर्हि सर्वान्तरत्वादिधर्माः आत्मनः सत्याः स्युः, न तु सर्वस्य सत्यत्वम् , ‘तत् सत्यम् , अतोऽन्यदार्तम्’ इति श्रुत्या ब्रह्मण एकस्यैव सत्यत्वात् , तदन्यस्य सर्वस्यापि मिथ्यात्वात्। तस्मादविद्ययाऽऽत्मनि कल्पिता एव सर्वान्तरत्वादिधर्माः, सर्वप्रपञ्चवत्। तथा तद्धर्माणां साक्षिभास्यत्वं च कल्पितमेवेति [न] ज्ञातृधर्माणां ज्ञातृवेद्यत्वं, न वा ज्ञातृवेद्यानां ज्ञातृधर्मत्वम्। न चैवं ज्ञेयस्य तद्धर्माणां तस्य२ तेषां ज्ञातृवेद्यत्वस्यापि मायया कल्पितत्वमेवेति वाच्यम् ; इष्टापत्तेः। ननु सेयमविद्या किमात्मसम्बन्धिनी, उतानात्मसम्बन्धिनी? नाद्यः, असङ्गस्वप्रकाशस्यात्मनोऽविद्यासम्बन्धायोगात्। नान्त्यः, अनात्मनो जडस्याज्ञानाश्रयत्वायोगात्। न च स्वतन्त्रैवेति वाच्यम् ; जडत्वेन पारतन्त्यादित्यभिप्रेत्याविद्यायाः आश्रयजिज्ञासया पृच्छति— अत्रेति। न च करणधर्मोऽविद्येति पूर्वमुक्तमिति वाच्यम् ; तामसप्रत्ययरूपाविद्यायाः करणधर्मत्वस्य अविद्यासम्बन्धस्याप्रामाणिकत्वद्योतनाय प्रश्नमुद्भावयति— अत्राहेति। अविद्याया आश्रयसापेक्षत्वात् सा चेद् दृष्टा प्रविशतीत्याह— ज्ञातैवेति। क्षेत्रक्षेत्रज्ञयोरेवंस्वाभाव्ये सिद्धे सिद्धं क्षेत्रधर्मत्वमविद्यादेरिति फलितमाह— इत्यवधारित इति। विरोधाच्च न क्षेत्रज्ञधर्मत्वमविद्यादेरित्याह— क्षेत्रज्ञेति। विरुद्धवादित्वे मूलं दर्शयति— अविद्येति। मात्रपदस्य व्यावर्त्यं मानयुक्त्याख्यमवष्टम्भान्तर- मिति वक्तुं केवलपदम्। ययाऽविद्यया विरुद्धमपि निर्वोढुं शक्यते, तस्याः स्वातन्त्याभावात् , चितोऽन्यस्याविद्यमानत्वेनातदाश्रयत्वात् , १तस्याः विद्या- स्वभावतया तदाश्रयत्वव्याघातादाश्रयजिज्ञासया पृच्छति— अत्राहेति। आश्रयमात्रं पृच्छ्यते, तद्विशेषो वा? प्रथमे प्रश्नस्यानवकाशत्वं १. तस्याः= चितः। २. ‘तत्साक्षिभास्यत्वस्य च कल्पितत्वे’ इति योज्यम्। पूर्वत्र ज्ञातृधर्माणामुक्तो न्यायोऽत्रापि समान इति भावः।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १३. श्लो. २]] [[६२६]]

कस्य दृश्यत इति? अत्रोच्यते— अविद्या कस्य दृश्यत इति प्रश्नो निरर्थकः। कथम् ? दृश्यते चेदविद्या, तद्वन्तमपि पश्यसि। न च तद्वति उपलभ्यमाने ‘सा कस्य’ इति प्रश्नो युक्तः। न हि गोमत्युपलभ्यमाने ‘गावः कस्य’ इति प्रश्नोऽर्थवान् भवेत्। ननु विषमो दृष्टान्तः; गवां तद्वतश्च प्रत्यक्षत्वात् तत्सम्बन्धोऽपि प्रत्यक्ष इति प्रश्नो निरर्थकः; न तथा अविद्या, तत्रोक्तत्वान्मायारूपाविद्याया आश्रयस्य पृष्टत्वादिहेति। अत्र अस्मिन्नंशे आह , पूर्ववादीति शेषः। किमाह? इत्यत आह— सेति। सा यदवष्टम्भात् केवलं विरुद्धमुच्यते, सा अविद्या अनाद्यनिर्वाच्यं मायानामकं मूलाज्ञानम् , कस्येति सम्बन्धसामान्ये शेषषष्ठी; कस्य सम्बन्धिनीत्यर्थः। किमाश्रयेति यावत्। अथ सिद्धान्ती - किं त्वया अविद्यायाः आश्रयमात्रं पृच्छ्यते? उत तद्विशेष इति विकल्प्य, प्रथमे प्रश्नस्यानवकाशं मत्वाऽऽह— यस्येति। यस्याविद्या दृश्यते तस्यैव। यस्येति तस्येति च शेषषष्ठ्यौ। अविद्या यदाश्रयत्वेन दृश्यते स एवाविद्यायाः आश्रय इत्यर्थः। अयं भावः - किमविद्या दृश्या, उतादृश्या? दृश्यत्वेऽविद्यायाः पारतन्त्यात् किञ्चिन्निष्ठत्वेनैव तद्दर्शनादाश्रयमात्रं प्रष्टव्यम्। अदृश्यत्वे त्वविद्यायाः अप्रकाशत्वादसिद्धिरेव स्यादिति। ननु मया अविद्यायाः आश्रयविशेषः पृच्छ्यते इत्याह पूर्ववादी— कस्येति। किमाश्रयाऽविद्या दृश्यत इत्यर्थः। अविद्याया आश्रयविशेषः कः इति यावत्। अविद्याया दृश्यमानत्वादाश्रयविशेषस्यात्मनोऽपि स्वानुभवसिद्धत्वात् प्रश्नस्यानवकाशत्वमित्युत्तरमाह सिद्धान्ती— अत्रेति। अत्रास्मिन् प्रश्ने उच्यते उत्तरं मयेति शेषः। किमुच्यते? अत आह— अविद्येति। कस्याविद्येति सम्बन्धः। किमाश्रया अविद्येत्यर्थः। कस्मात् प्रश्नो निरर्थक इति पृच्छति पूर्ववादी— कथमिति। प्रश्नानर्थक् यं स्फुटयति सिद्धान्ती— दृश्यत इति। त्वयेति शेषः। अविद्या दृश्यते चेत् तर्हीति शेषः। तद्वन्तमविद्यावन्तमपि पश्यसि जानासि। साश्रयस्य हि वस्तुनो दर्शनमाश्रयदर्शनं विना न सम्भवतीति कृत्वा१ कथं तवाविद्याश्रयवस्तुदर्शनं विना अविद्यादर्शनं जातमित्यर्थः। तथापि कथं प्रश्नवैयर्थ्यम्? अत आह— न चेति। तद्वतीति। अविद्यावतीत्यर्थः। सेति। अविद्येत्यर्थः। अविद्यायाः अविद्यावतश्च दर्शने सत्यविद्या कस्येति प्रश्नो न युज्यत इति यावत्। तत्र दृष्टान्तमाह— न हीति। गावोऽस्य सन्तीति गोमान् , तस्मिन् गोमति पुरुषे गवां तद्वतश्च दर्शने सत्येव गोमान् देवदत्तो मया दृष्ट इति प्रत्येति विष्णुमित्रः, न तु तत्प्रत्ययानन्तरं कस्य गाव इति पृच्छति। विदितार्थे प्रश्नानवकाशादिति भावः। ननु गाव इव गोमानिव चाविद्या तद्वांश्च न मया प्रत्यक्षेण दृश्येते, येन प्रश्नो निरर्थकः स्यात् , किन्तु अप्रत्यक्षेणैवेति कृत्वा न मम प्रश्नस्यानर्थक्यमित्याह पूर्ववादी— नन्विति। अविद्यायाः प्रत्यक्षत्वाभ्युपगमेऽविद्यावतोऽपि प्रत्यक्षत्वमभ्युपगन्तव्यं स्यादिति कृत्वा मत्वाऽऽह— यस्येति। अविद्या दृश्याऽदृश्या वा? दृश्यत्वे पारतन्त्यात् किञ्चिन्निष्ठत्वेनैव तद् दृष्टेर्नाश्रयमात्रं प्रष्टव्यम्। अदृश्यत्वे वा अप्रकाशत्वादसिद्धिरेव स्यादित्यर्थः। द्वितीयमालम्बते— कस्येति। अविद्यायाः दृश्यमानत्वादाश्रयविशेषस्यात्मनोऽपि स्वानुभवसिद्धत्वात् प्रश्नस्य निरवकाशते- त्युत्तरमाह— अत्रेति। प्रश्नानर्थक् यं प्रश्नद्वारा स्फोरयति— कथमित्यादिना। तथापि कथं प्रश्नासिद्धिः? तत्राह— न चेति। तदेव दृष्टान्तेन स्पष्टयति— न हीति। दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं चोदयति— नन्विति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आश्रयोऽपि दृष्ट एवेति प्रश्नो नोपपद्यत इत्याह— यस्य दृश्यत इति। आश्रयविशेष(ण)ज्ञानाय प्रत्य[प्रश्न] इत्याह— कस्य दृश्यत इति। ज्ञाते प्रश्नानुपपत्तेः प्रष्टव्यार्थाज्ञानाश्रयः आत्मा पृष्टः[प्रष्टुः] स्वानुभवसिद्धः इति प्रश्नो न सम्भवतीत्याह— अत्रोच्यत इत्यादिना। १. अज्ञानस्य च साश्रयस्यैव दर्शनम् , ‘अहं न जानामि’ इत्येव प्रतीतेरिति भावः।

[[६२७]]

तद्वांश्च प्रत्यक्षौ, यतः प्रश्नो निरर्थकः स्यात्। अप्रत्यक्षेणाविद्यावता अविद्यासम्बन्धे ज्ञाते किं तव स्यात्? अविद्याया अनर्थहेतुत्वात् परिहर्तव्या स्यात्। यस्याविद्या, स तां परिहरिष्यति। ननु ममैवाविद्या। जानासि तर्ह्यविद्यां, तद्वन्तं चात्मानम्। जानामि, न तु प्रत्यक्षेण। अनुमानेन चेज्जानासि कथं सम्बन्धग्रहणम्? न हि तव ज्ञातुर्ज्ञेयभूतया अविद्यया तत्काले सम्बन्धो ग्रहीतुं शक्यते१, उभावपि न प्रत्यक्षावित्युक्तम्। अविद्यावतः परोक्षत्वेऽपि प्रश्नो व्यर्थ एवेत्याह सिद्धान्ती— अप्रत्यक्षेणेति। अप्रत्यक्षेणाविद्यावता सहाविद्यासम्बन्धे ज्ञाते सिद्धे सति तव किं समाधानं स्यान्न किमपि। अविद्यावतोऽप्रत्यक्षत्वेऽपि तेनाविद्यासम्बन्धे सिद्धे प्रष्टुस्तव प्रश्नानर्थक्यसमाधानं न किमप्यस्तीत्यर्थः। अविद्यया सम्बन्धः कश्चिदस्तीति परोक्षज्ञाने सत्यपि कस्याविद्येति प्रश्नो निष्फल एवेति भावः। ननु दुष्टाविद्यापरिहारार्थत्वेन प्रश्नः सफल एवेत्याह पूर्ववादी— अविद्याया इति। अनर्थः शोकमोहादिलक्षणः संसारः। परिहर्तव्येति। अविद्येति[अविद्यावतेति] कर्तृपदशेषः। ननु य एवाविद्यावान् स एव स्वानर्थहेतुमविद्यां परिहरिष्यतीति कृत्वा किं तवाविद्याश्रयविशेषजिज्ञासाप्रयुक्तप्रश्नेन फलमित्याह सिद्धान्ती— यस्येति। त्वया परोक्षेण ज्ञातेयमविद्या यस्य सम्बन्धिनी स एवैनां परिहरिष्यतीति किं तवान्यदीयाविद्यापरिहारेणेति भावः। ननु नाहमन्यदीयाविद्यापरिहारार्थं पृच्छामि, किन्तु मदीयाविद्यापरिहारार्थ- मेवेत्याह— नन्विति। ननु यदि त्वदीयैवाविद्या त्वया परिजिहीर्षिता, तर्हि त्वमविद्यां तद्वन्तं चात्मानं जानास्येवेति कस्याविद्येति प्रश्नो व्यर्थ एवेत्याह सिद्धान्ती— जानासीति। ननु यद्यहं गोमन्तं देवदत्तमिवाविद्यावन्तमात्मानं प्रत्यक्षेण जानामि, तर्हि व्यर्थ एव स्यात् प्रश्नः, न तु तथा जानामि; किन्तु अहमविद्यावान् , अविद्याकार्यशोकमोहादिमत्त्वात् , व्यतिरेकेण मुक्तात्मवत् इत्यनुमानेन जानामि। तस्मान्न प्रश्नानर्थक्यमित्याह पूर्ववादी— जानामीति। जानामि परोक्षेणेति शेषः। प्रत्यक्षेण तु न जानामीत्यन्वयः। अविद्यायास्तद्वतो मम चाप्रत्यक्षत्वात् पारोक्ष्येण तदुभयं विदित्वा कस्याविद्येति पृच्छामीति भावः। नन्वनुमानेन चेत् त्वमविद्यां तद्वन्तं च जानासि, तर्हि तव कथं स्वस्याविद्यायाश्च वर्तमानस्य सम्बन्धस्य ग्रहणमित्याक्षिपति— अनुमानेनेति। नन्वनुमानेनैव सम्बन्धोऽपि गृह्यताम् ; का तत्रानुपपत्तिः? अत आह सिद्धान्ती— न हीति। तत्काल इति। यस्मिन् कालेऽविद्यां जानासि तस्मिन् काल इत्यर्थः। आत्मा प्रष्टुः स्वाज्ञाननिरासाय हि प्रश्नः। यद्यज्ञानाश्रयः परोक्ष एव तथा[तदा] प्रश्नो निरर्थक इत्याह— अप्रत्यक्षेणा- विद्यावतेति। अगृहीताभिप्रायस्य चोद्यमुद्भाव्य प्रश्नानुपपत्तिं विवृणोति—[अविद्याया इति।] अविद्याया अनर्थहेतुत्वादित्याह पूर्ववादी। जानाम्यात्मानम् , किन्तु प्रत्यक्षेण न जानामि। अतः पृच्छामीत्यर्थः। एवं वदताऽनुमेयत्वमुक्तं स्यात्। तन्न सम्भवतीत्याह— अनुमानेन चेदिति। अहमविद्यावान् तत्कार्यवत्त्वात् , न य एवं स एवम् , यथा मुक्त इत्यनुमानेन चेद् जानासि, कथं तर्हि अविद्यया तव सम्बन्धग्रहणम्? काऽनुपपत्तिरित्यत आह— [न हीति।] ननु यद्येकस्य कर्तृत्वकर्मत्वा- अज्ञानाश्रयस्य परोक्षत्वेऽपि प्रश्ननैरर्थक्यमित्याह— अप्रत्यक्षेणेति। अविद्यावतोऽप्रत्यक्षत्वेऽपि तेनाविद्यासम्बन्धे सिद्धे प्रष्टुस्तव प्रश्नानर्थक्यसमाधिर्न कश्चिदित्यर्थः। अबुद्धपराभिसन्धिः शङ्कते— अविद्याया इति। अविद्यावतस्तत्परिहाराद् नान्येन प्रयतितव्यमित्याह —यस्येति। ममैवाविद्यावत्त्वात् तत्परिहारे मया प्रयतितव्यमिति शङ्कते— नन्विति। तर्हि प्रश्नानर्थक्यमिति सिद्धान्ती स्वाभिसन्धिमाह— जानासीति। आत्मानमविद्यावन्तं जानन्नपि तद्विषयाध्यक्षाभावात् पृच्छामीति शङ्कते— जानामीति। अविद्यावतोऽप्रत्यक्षत्वं वदता तस्य - अहमविद्यावान् अविद्याकार्यवत्त्वाद् व्यतिरेकेण मुक्तात्मवदिति अनुमेयत्वमिष्टमित्यभ्युपेत्य दूषयति— अनुमानेनेति। आत्मनो ऽविद्यासम्बन्धग्रहे काऽनुपपत्तिरित्याशङ्क्य , ज्ञातैवात्मा स्वस्याविद्यासम्बन्धं बुध्यतेऽन्यो वा ज्ञातेति विकल्प्याऽऽद्यं दूषयति— न हीति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. २ ] १. आत्माविद्यासंबन्धग्रहणस्य संबन्धिभूतात्मग्रहणसापेक्षत्वात् ततः प्रागात्मनोऽपि ग्रहणमावश्यकमिति भावः।

[[६२८]]

१अविद्याया विषयत्वेनैव ज्ञातुरुपयुक्तत्वात्। न च ज्ञातुरविद्यायाश्च संबन्धस्य यो ग्रहीता, ज्ञानं चान्यत् तद्विषयं संभवति, अनवस्थाप्राप्तेः। यदि ज्ञात्राऽपि ज्ञेयसम्बन्धो ज्ञायेत, अन्यो ज्ञाता कल्प्यः स्यात् , तस्याप्यन्यः, तस्याप्यन्य इत्यनवस्था अपरिहार्या। यदि पुनरविद्या ज्ञेया, अन्यद्वा ज्ञेयं ज्ञेयमेव। तथा ज्ञाताऽपि ज्ञातैव, न ज्ञेयं अविद्याग्रहणसमयेऽविद्यासम्बन्धं ग्रहीतुं न शक्नोतीत्यत्र को हेतुरित्यत्राह— अविद्याया इति। अविद्यां विषयत्वेनैव गृहीत्वा तज्ज्ञातृत्वेनैवोपयुक्तस्यात्मनो न सम्बन्धज्ञातृत्वसम्भवः इत्यर्थः। ननु योऽविद्यां गृह्णाति तस्य ज्ञातुरात्मनोऽन्य एव ज्ञाता आत्माविद्यासम्बन्धं गृह्णातु , को दोषः? तत्राह— न चेति। ज्ञातुरात्मनोऽविद्यायाश्च यः सम्बन्धस्तस्य यो ग्रहीता, स न सम्भवति; तद्विषयमविद्यात्मसम्बन्धविषयमन्यच्च ज्ञानं न सम्भवति। असम्भवे हेतुमाह— अनवस्थाप्राप्तेरिति। अनवस्थामेव दर्शयति— यदीति। ज्ञेयेन सम्बन्धो यस्य स ज्ञेयसम्बन्धो ज्ञाताऽपि। यद्वा ज्ञाता ज्ञेयसम्बन्धश्चेत्यर्थः। ज्ञायेत यदि तर्ह्यस्य ज्ञानायान्यो ज्ञाता कल्प्यः स्यात् , अन्यं ज्ञातारं विना प्रकृतज्ञातुः ज्ञेयत्वायोगात्। स चान्यो ज्ञाता केनचिदपरेण ज्ञायेतैव प्रकृतज्ञातृवदिति कृत्वा अन्यज्ञातृ- ज्ञानायापरो ज्ञाता कल्प्यः; स चान्यो ज्ञाता केनचिदितरेण ज्ञात्रा ज्ञायेतैव, ज्ञातृत्वांशेऽविशेषात् प्रकृतान्ययोरस्य चेत्येतस्यापरस्य ज्ञातुः ज्ञानार्थमितरो ज्ञाता कल्प्य इत्यनवस्था अपरिहार्या स्यात्। नन्वेवं ज्ञातुरात्मनो ज्ञेयत्ववचने भवत्यनवस्थादोष इति ज्ञातुः ज्ञेयत्वं मा भून्नाम, अविद्यात्मसम्बन्धस्य ज्ञेयत्वे का अनुपपत्तिरिति चेत्? मैवम् ; ज्ञातुरात्मनो ज्ञेयत्वं विना तन्निष्ठाविद्यासम्बन्धस्य ज्ञेयत्वायोगात्। आत्माविद्योभयपदार्थज्ञानाधीनं ह्यात्माविद्यासम्बन्धज्ञानमिति। अत एव ज्ञातुरात्मनः कर्मकर्तृत्वविरोधादपि नाविद्यात्मसम्बन्धस्य ज्ञेयत्वमित्यभियुक्ताः। ननु अविद्यावतः आत्मनोऽनुमानवेद्यत्वं यथा दुष्टम् , तथा प्रत्यक्षवेद्यत्वमपि दुष्टमेवेति कृत्वाऽनुमानेन चेज्जानासि कथं सम्बन्धग्रहणमित्याचार्यैः कुतो भाषितमिति चेद्? उच्यते— स्वप्रकाशस्यात्मनः नित्यापरोक्षचैतन्यरूपत्वान्नास्त्यात्मनः प्रत्यक्षत्वे काऽपि विप्रतिपत्तिः, ‘यत्साक्षादपरोक्षाद् ब्रह्म’ इति श्रुतेः, आत्मप्रत्यक्षस्य सार्वजनीनत्वाच्च। न हि कोऽपि ममाहमप्रत्यक्ष इति मन्यते। न चैतावन्मात्रेण ज्ञातुर्ज्ञेयत्वसम्भवः, प्रमाणव्यापारप्रयुक्तत्वाज्ज्ञेयत्वस्य। तथाहि— चक्षुरादीन्द्रियव्यापारानन्तरं घटसुखादि- प्रत्यक्षसम्भवाद् घटादेः ज्ञेयत्वम् , आत्मा तु प्रमाणव्यापारात् प्रागेवास्तीति भातीति च कथं तस्य ज्ञेयत्वम्? न कथमपीति। एवमात्मनः प्रत्यक्षत्वेनाज्ञेयत्वे सिद्धे , अविद्यायाश्च न जानामीत्यनुभवबलेन प्रत्यक्षत्वे सिद्धे , तत्सम्बन्धोऽपि प्रत्यक्ष एवेति कृत्वा नास्त्यविद्यावत आत्मनः प्रत्यक्षत्वे कोऽपि दोष इति। ननु यद्येवं ज्ञातुर्ज्ञेयत्ववचनेऽनवस्थादोषस्तर्हि ज्ञातुर्ज्ञेयत्वं माऽस्त्वित्याह— यदीति। आत्मातिरिक्तं सर्वमप्यविद्यादिकं वस्तु जडत्वाज्ज्ञेयमेव, न ज्ञातृ। आत्मैक एव चेतनत्वात् ज्ञातैव न ज्ञेय इत्यर्थः। ननु आत्मा ज्ञातैव भवतु, अविद्या ज्ञेयैव भवतु, किमेतावता स्वप्रकाशासङ्गचिद्रूपस्य परमात्मनः कथमविद्यासङ्ग इत्यत्र योगादविद्यां प्रति ज्ञातुरात्मनोऽविद्यावत्तया ज्ञेयत्वं न सम्भवति, तर्हि अन्येन ज्ञेयत्वं भवत्वित्याशङ्क्याह— न च ज्ञातुरित्यादिना। एवं तावदात्मनः (स्व)स्वज्ञेयत्वपरज्ञेयत्वासम्भवात् तस्याविद्यासम्बन्धो न प्रामाणिकः, किन्तु २नित्यानुभवगम्यः इत्युपपाद्य, स्वपक्षलाभमाह— यदि पुनरित्यादिना। तत्काले स्वस्याविद्यां प्रति ज्ञातृत्वावस्थायामिति यावत्। अविद्यां विषयत्वेन गृहीत्वा तज्ज्ञातृत्वेनैवोपयुक्तस्यात्मनः तस्याः३ स्वात्मनि कुतः सम्बन्धज्ञातृत्वम् , एकस्य कर्मकर्तृत्वविरोधादित्याह—अविद्याया इति। द्वितीयं निरस्यति— न चेति। यो ग्रहीता स न सम्भवतीति सम्बन्धः। तद्विषयमिति। ज्ञातुरविद्यायाश्च सम्बन्धस्तच्छब्दार्थः। अनवस्थामेव प्रपञ्चयति— यदीति। आत्मनः स्वपरज्ञेयत्वायोगात् ,

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘अविद्याविषयित्वेनैव’ इति पा.। २. नित्यानुभवः साक्षी। साक्षिगम्य इत्यर्थः। ३. तस्याः अविद्यायाः।

[[६२९]]

भवति। यदा चैवम् , अविद्यादुःखित्वाद्यैर्न ज्ञातुः क्षेत्रज्ञस्य किञ्चिद् दुष्यति। नन्वयमेव दोषो यद् दोषवत्क्षेत्रविज्ञातृत्वम्। न ; विज्ञानस्वरूपस्यैवाविक्रियस्य विज्ञातृत्वोपचारात्। यथोष्ण- समाधानमायातम्? इत्यत आह— यदेति। यदा चैवमात्मा ज्ञातैव, न ज्ञेयः, अविद्यादिकं ज्ञेयमेव, न ज्ञातृ इति नियमः सिद्धस्तदेति शेषः। किञ्चिदपि न दुष्यतीति। न कोऽपि दोष इत्यर्थः। आत्मन्यविद्यासम्बन्धस्याप्रामाणिकत्वादिति भावः। अत्रेदमाकूतम् - स्फीतालोकवति सूर्ये १पेचकानुभवसिद्धान्धकारवद् असङ्गस्वप्रकाशेऽप्यात्मन्यज्ञजनानुभवसिद्धमस्ति किञ्चिदज्ञानमप्रामाणिकं मिथ्याभूतमनिर्वाच्यम्। सूर्ये पेचकानुभवसिद्धं तम इवात्मन्यज्ञानुभवसिद्धमज्ञानमपि कालत्रयेऽपि नास्तीति कृत्वा कथमात्मन्यविद्यासम्बन्धः इति प्रश्नो व्यर्थ एव। न हि वयमात्मन्यविद्यासम्बन्धं सत्यं ब्रूमः; अज्ञदृष्ट्या त्वात्मन्यविद्या- सम्बन्धोऽस्त्येव कश्चिन्मिथ्याभूतोऽप्रामाणिकः, अहमज्ञः इति तदनुभवस्य दुरपलापत्वात्। इदं चाज्ञानुभवसिद्धमात्माश्रयमज्ञानं नातीव विचारणीयम् , अविचारसिद्धत्वादस्येन्द्रजालादिवत्। एवमज्ञानस्यैवाविचारसिद्धत्वे कथं पुनस्तस्यात्मनि सम्बन्धस्य विचार- क्षमत्वं स्यात्? न कथमपि। तस्मादात्मन्यविद्यासम्बन्धो दुर्निरूपः। एवमात्मन्यविद्यासम्बन्धस्यैव दुर्निरूपत्वे कथं पुनरविद्याकार्य- दुःखादिसम्बन्धस्य सुनिरूपत्वं स्यात्? न कथमपि। तस्मादसङ्गस्वप्रकाशचिद्रूप एवात्मा, न त्वविद्यादुःखादिसम्बद्धः। न चाज्ञोऽहं दुःख्यहमित्यादिप्रत्यक्षसिद्धस्य कथमज्ञानदुःखादिसम्बन्धस्यात्मन्यपलाप इति वाच्यम् ; प्रत्यक्षसिद्धस्यापि प्रमाणविरुद्धस्यार्थस्य रज्जुसर्पादेरिवापलापस्य सुशकत्वात् कर्तुम्। आत्मन्यज्ञानादिसम्बन्धस्याप्रामाणिकत्वं तु दर्शितमेवाचार्यैः। तदेव पुनरपि सुखबोधाय दर्शयामि— आत्मनाऽनुभूयमानाः इमेऽज्ञानदुःखादयः किमात्मधर्माः? उतानात्मधर्माः? नाद्यः - आत्म- धर्माणामात्मनाऽनुभूयमानत्वायोगात् , आत्मधर्मानुभवितुरात्मान्तरस्य चाभावात् , सत्त्वे चानवस्थादोषात् , ‘नान्योऽतोऽस्ति द्रष्टा’ इति श्रुतिविरोधाच्च। अतः परिशेषादनात्मनोऽन्तःकरणादेरेव धर्माः। तेषां चानात्मधर्माणां कथमात्मनि सम्बन्धः? न हि घटधर्माणां कम्बुग्रीवादीनां द्रष्टर्यात्मनि सम्बन्धः। न चान्तःकरणस्याज्ञानाश्रयत्वं कथमचेतनस्येति वाच्यम् ; आत्मप्रतिबिम्बग्रहणेन तस्य सचेतनत्वात्। अमी चानात्मधर्मा अनादिमायया स्वात्मन्यध्यस्ता रज्जौ सर्पवदिति हेतोः प्रत्येति लोकः- अहमज्ञो दुःखी चेति। अमीभिश्चाध्यस्तैरविद्यादुःखित्वाद्यैरात्मनो न कोऽपि दोषः। यथा बालेनाध्यस्तैस्तलमलिनत्वाद्यैर्गगनस्य न कोऽपि लेपः, तद्वदिति। आत्मनाऽनुभूयमाना चेयमनादिमाया नात्मधर्मः, स्वानुभूतस्य स्वधर्मत्वायोगात्। नाप्यनात्मधर्मः, मायाकार्यत्वादनात्मनः। तस्माद् अनिर्वाच्यैव धर्मत्वेन धर्मित्वेन वा मायेति। ननु क्षेत्रज्ञस्यानात्मनोऽविद्यादुःखित्वादिभिरनात्मधर्मैर्माऽस्तु नाम कोऽपि दोषः, तैः सह सङ्गाभावात्। तथाप्यस्त्येव कश्चिद् दोष इत्याह पूर्ववादी— नन्विति। क्षेत्रं जानातीति क्षेत्रज्ञ इति व्युत्पत्तेः। आत्मनः क्षेत्रज्ञत्वात् क्षेत्रस्य चान्तःकरणशरीरादिलक्षणस्य दुःखजरादिदोषयुक्तत्वाद् दोषयुक्तक्षेत्रदर्शनमात्मनो दोष एव, दुष्टभार्यापुत्रादिदर्शनवत्। क्षेत्रज्ञस्य क्षेत्रे स्वीयाभिमानसत्त्वादिति भावः। परिहरति सिद्धान्ती— नेति। आत्मनः क्षेत्रज्ञत्वलक्षणं ज्ञातृत्वमपि न तात्त्विकम् , अविक्रियस्यात्मनो ज्ञातृत्वायोगात् , ज्ञातृत्वं हि ज्ञातृत्वे विकारवत्त्वादनित्यत्वप्रसङ्ग इत्याह— नन्वयमेवेति। ज्ञानस्य क्रियात्वानभ्युपगमान्न दोष इत्याह— न, विज्ञानस्वरूपस्यैवेति। अयं चार्थोऽस्माभिर्भगवद्वचनानुसारेणैवोक्तः, न स्वमनीषिक एवेत्य[स्वमनीषिकयैवेत्याह—] तस्मिन्नविद्यासम्बन्धस्याप्रामाणिकत्वाद् , नित्यानुभवगम्यत्वे स्थिते फलितमाह— यदि पुनरिति। यदा चैवं तदेत्यध्याहार्यम्। ज्ञातुरात्मनो न किञ्चिद् दुष्यतीत्येतदमृष्यमाणः शङ्कते— नन्विति। किं ज्ञातृत्वं ज्ञानक्रियाकर्तृत्वं, ज्ञानस्वरूपत्वं वा? नाद्यः, तदनभ्युपगमात् तत्प्रयुक्तदोषाभावात् , द्वितीये ज्ञातृत्वस्यौपचारिकत्वान्न तत्कृतो दोषोऽस्तीत्याह— नेत्यादिना। असत्यामपि क्रियायां

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. २ ] १. पेचकः = उलूकः।

[[६३०]]

तामात्रेणाग्नेस्तप्तिक्रियोपचारः, तद्वत् । यथाऽत्र भगवता क्रियाकारकफलात्मत्वाभावः आत्मनि स्वत एव दर्शितः, विकारः। किन्तु ज्ञानस्वरूप एवात्मा, ‘सत्यं ज्ञानम्’ इति श्रुतेः। ननु ज्ञानस्यापि कथमविक्रियत्वम्? घटज्ञानं पटज्ञानमित्यादिभेदरूपविकारदर्शनादि चेत् , मैवम् ; घटादिविषयाणामेव तत्र भेदः, न तु ज्ञानस्य। सर्वदाऽप्येकरूपैव हि संवित् , या स्वयम्प्रभत्वादात्मानमन्यांश्चावभासयति सूर्यादिप्रकाशवत्। न हि घटप्रकाश- कुड्यप्रकाशकुसूलप्रकाशादिषु घटादिभेदेऽपि प्रकाशभेदः, सर्वत्र प्रकाशस्यैकरूपत्वात्। न च घटज्ञानादयो वृत्तय इति वाच्यम् ; वृत्तीनां जडत्वेन ज्ञानत्वाभावात्। वृत्तिप्रतिफलितचैतन्यस्य ज्ञानत्वेन वृत्तीनां ज्ञानत्वोपचारात्। तस्मादयं घटः इत्यादिजन्य- ज्ञानहेतुभूतबुद्धिवृत्तिष्वनुगतं, घटादीनां भेदेऽपि स्वयमभिन्नम् , अत एवाविकारि यज्ज्ञानं, तदेवात्मेति न ज्ञानस्वरूपस्यात्मनः कोऽपि विकारः। न हि कामिनीकुचादिकं पश्यतः पुरुषस्य चित्तक्षोभादिविकारे सत्यपि कामिनीकुचादिज्ञानस्य कोऽपि विकारः। तस्माज्ज्ञानस्वरूपस्याविक्रियस्यात्मन औपचारिकमेव ज्ञातृत्वं, न वास्तवमिति न तस्य ज्ञातृत्वप्रयुक्तदोषः। ननु कथं ज्ञानस्य ज्ञातृत्वोपचारः? अत आह दृष्टान्तम्— यथेति। अग्नेरुष्णतामात्रेण यथा तापक्रियोपचारः। अग्निः केवलमुष्ण एव, न तु तापक्रियाकर्ता, कर्तृत्वस्य चेतनधर्मत्वात्। न ह्यचेतनं वस्तु क्वापि किमपि कर्म कुर्वद् दृश्यते। अग्नेरचेतनत्वं च प्रत्यक्षम्। अतो नाग्निस्तापकः। एवमतापकत्वेऽपि अग्निर्दहतीति तापक्रियाकर्तृत्वमग्नावुपचर्यते, उष्णत्वात्। तस्मादुष्णत्वमात्रेण यथा अचेतनस्य तापकत्वरूपचेतनधर्मोपचारः- अग्निर्दहतीति, तद्वत् प्रकाशत्वमात्रेण ज्ञानस्वरूपस्य क्षेत्रज्ञस्य ज्ञातृत्वोपचारः— क्षेत्रज्ञः क्षेत्रं जानातीति। एतेन क्षेत्रज्ञेश्वरस्य सर्वावभासकत्वलक्षणं सर्वज्ञत्वमिति सूचितम्। न च - कथमेतत्क्षेत्रवर्तिनः क्षेत्रज्ञस्य सर्वावभासकत्वम् , सर्वस्यासन्निहितत्वादिति - वाच्यम् ; य एवैतत्क्षेत्रे वर्तते स एव सर्वक्षेत्रेष्वपि, ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ इत्युक्तत्वात्। तथा च सर्वक्षेत्रवर्तिनः सर्वव्यापिनोऽस्य सर्वमपि सन्निहितमेवेति। सर्वावभासकत्वात् सर्वज्ञ एव क्षेत्रज्ञ ईश्वरः, न तु किञ्चिज्ज्ञो जीवः। न च क्षेत्रज्ञः सर्वमवभासयन् सन् प्रत्यक्षो न भवतीति वाच्यम् ; अवभासयन् सन्नपि क्षेत्रज्ञः किं तव प्रत्यक्षः? नाहं क्षेत्रज्ञं जानामीति तव प्रतीतेः। अत एव ह्यज्ञानवान् भवान्। यदि तव क्षेत्रज्ञप्रत्यक्षं, तर्हि विद्वानेव भवेत्। न च जानाम्यहं क्षेत्रज्ञमिति वाच्यम् ; किं गुरुशास्त्रोक्त्या परोक्षेण जानासि? यद्वा अपरोक्षेण? आद्ये - तयैव सर्वज्ञमपि विद्धि। द्वितीये - क्षेत्रज्ञसाक्षात्कारवतस्तव सर्वमहं न जानामीति कथमज्ञानसद्भावः? क्षेत्रज्ञसाक्षात्कारेण सकार्यस्य सर्वस्याप्यज्ञानस्य नष्ट(व्य)त्वात् , सूर्यसाक्षात्कारेण तिमिरस्येव। तस्मात् क्षेत्रज्ञप्रत्यक्षं विना क्षेत्रज्ञधर्माणां सर्वज्ञत्वसर्वान्तर्यामित्वादीनां प्रत्यक्षं नैव भवेत् , तत्संशयो वा नैव निवर्तेतेति, कुरु श्रवणमननादिकं क्षेत्रज्ञप्रत्यक्षार्थित्वं चेत् तव। श्रवणादावशक्तश्चेन्निर्विकल्पसमाधिं कुरु। तत्राप्यशक्तश्चेत् सविकल्पसमाधिं कुरु। तत्राप्यशक्तश्चेत् कर्मयोगमनुतिष्ठ। न तु क्षेत्रज्ञोऽसंसारीश्वरः सर्वज्ञ इति भगवदुक्तार्थे २संशयमकार्षीः, ‘संशयात्मा विनश्यती’ति संशयात्मनः संसारनरकादिलक्षणविनाशसम्भवात्। तस्मादास्तिकैः सर्वैरपीश्वरवचनस्य ग्राह्यत्वादसंसारिसर्वज्ञेश्वर एव क्षेत्रज्ञः। तथैव विदुषामनुभवश्चेति सङ्क्षेपः। ननु भगवता नायमर्थो दर्शित इत्यत्राह— यथाऽत्रेत्यादिना। अत्र अस्मिन् श्लोके, अस्मिन्नध्याये वा अविद्याध्यारोपितमेव यथाऽत्र भगवतेत्यादिना। स्वतः आत्मनि क्रियाकारकफलात्मकत्वाभावो यथा भगवता दर्शितः इत्युत्तरेणान्वयः। तथा क्रियोपचारं दृष्टान्तेन स्फुटयति—यथेति। आत्मनि वस्तुतो विक्रियाऽभावे भगवदनुमतिं दर्शयति—यथाऽत्रेति। गीताशास्त्रं सप्तम्यर्थः। स्वत एवात्मनि १क्रियाद्यात्मत्वाभावो भगवता शास्त्रे यथोक्तस्तथैव व्याख्यातमस्माभिरिति सम्बन्धः। कथं तर्हि क्रियादिरात्मनि भाति?

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. क्रियाद्यभाव इत्यर्थः। सिद्धान्ते धर्मधर्मिणोः तादात्म्यात् क्रियाद्यात्मत्वाभावः इत्युक्तम्। २. संशयं मा कार्षीः इत्यर्थो विवक्षितः।

[[६३१]]

१अविद्याध्यारोपित एव क्रियाकारकादिरात्मन्युपचर्यते, तथा तत्र तत्र ‘य एनं वेत्ति हन्तारम्’ (भ.गी.२.१९) ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः’ (भ.गी.३.२७) ‘नादत्ते कस्यचित् पापम्’ (भ.गी.५.१५) इत्यादिप्रकरणेषु २दर्शितम् , तथैव च व्याख्यातमस्माभिः। उत्तरेषु च प्रकरणेषु दर्शयिष्यामः। क्रियाकारकादि आत्मन्युपचर्यते, स्वतस्तु आत्मनि क्रियाकारकफलात्मत्वाभाव एवेति भगवता यथाऽत्र दर्शितं, तथा तत्र तत्र भगवता दर्शितमित्यन्वयः। आत्मनि क्रियाकारकफलात्मत्वमौपचारिकमेव, अविद्याध्यारोपितत्वं[त्वात् ], न तु वास्तवं, स्वतोऽभावात्। यद्धि स्वाभाविकं तद् वास्तवमिति, यदागन्तुकं तद् दोषादिजन्यत्वादवास्तवमिति हि प्रसिद्धम्। रज्जौ स्वाभाविकरज्जुत्वस्य वास्तवत्व- दर्शनाद्, आगन्तुकसर्पत्वस्य मिथ्यात्वदर्शनाच्च। तस्मादात्मनि क्रियाकारकफलात्मत्वं मिथ्यैवेत्ययमर्थः कारुणिकेन भगवता बहुषु प्रदेशेषु प्रकृतस्थलवद् दर्शित एवेत्यर्थः। एतेन एतच्छ्लोकस्यापार्थकल्पने तत्तत्प्रकरणविरोध इति, बहुप्रकरणसंवादित्वादस्य श्लोकस्यायमेवार्थः समीचीन इति च ज्ञायते। क्रियाकारकफलात्मत्वाभाव इति। क्रियायाः देहाश्रयत्वात् क्रियाशब्देन देहो लक्ष्यते, कारकाणि करणानि ३मनइन्द्रियाणि, फलं विषयः शब्दादिः, तस्यैव भोग्यत्वेन फलत्वात् , स्वर्गादावपि तेषामेव शब्दादीनामनुभवात्। न हि विषयपञ्चकातिरिक्तं किञ्चिद् भोग्यमस्ति जगति। तानि क्रियाकारकफलानि आत्मा स्वरूपं यस्य तस्य भावः क्रियाकारकफलात्मत्वं, तस्याभावस्तथोक्तः। आत्मा न कार्यकरणसङ्घातरूपः, किन्तु सच्चिदानन्दरूप एव, सच्चिदानन्दानामेवात्मनः स्वाभाविकत्वात्। क्रियाकारकफलानि त्वविद्यया आत्मन्यध्यस्तानि, रज्जौ सर्पवत्। अधिष्ठानस्याध्यस्तात्मत्वं तु क्वापि सत्यत्वेन न दृष्टं, रज्जोः सर्पात्मत्वस्य सत्यत्वेनादर्शनात्। तस्मादधिष्ठानस्यात्मनोऽध्यस्तक्रियाकारकफलात्मत्वं कल्पितत्वेन मिथ्यात्वादौपचारिकमेवेति भावः। उपचर्यत इति। अध्यस्यत इत्यर्थः। उपचारो ह्यध्यासः, अन्यत्रान्यधर्मारोपस्यैवोपचारत्वादिति। यथा माणवके सिंहत्वोपचारः। सिंहो माणवकः इति ह्यौपचारिकः प्रयोगः। न च ४अविद्याध्यारोपितम् उपचर्यते इति पौनरुक्त्यं शङ्क्यम् , अविद्यया तावदात्मनि क्रियाकारकादीनामध्यासः, पश्चात् क्रियाकारकादिधर्मस्यात्मन्यध्यास इति। ५अयमेवान्योन्याध्यास इत्युच्यते, अन्योन्यधर्माध्यासस्यैवान्योन्याध्यासत्वात्। तथा च ‘अविद्याध्यारोपित’मित्यनेन धर्म्यध्यासस्य, ‘उपचर्यते’ इत्यनेन धर्माध्यासस्य चोक्तत्वान्न पुनरुक्तिः। तत्र धर्म्यध्यासात् क्रियाकारकादिप्रतीतिः, धर्माध्यासात्तु ‘मनुष्योऽहं, काणोऽहं, सुख्यह’मित्यादिप्रतीतिरिति विवेकः। अज्ञानकार्योऽयमेवाध्यासः सर्वसंसारहेतुरिति सङ्क्षेपः।‘तत्र तत्रे’त्यस्यार्थमाह— य एनमित्यादिप्रकरणेष्विति। तथैवेति। यथा भगवता दर्शितं तथैवेत्यर्थः। एतेनान्येषां व्याख्यातॄणां भगवदनभिप्रेतार्थवर्णनं मूलस्येति सूच्यते। दर्शयिष्याम इति। इममेवार्थमिति शेषः। तत्राविद्याध्यारोपितमेव क्रियाकारकाद्यात्मन्युपचर्यत इति भगवता यथैव दर्शितम् , तथैव व्याख्यातमस्माभिरित्यन्वयः ॥२॥

तत्राह— अविद्येति। यथा वस्तुतो नास्त्यात्मनि क्रियादिः, उपचारात्तु भाति, तथा तत्र तत्रातीतप्रकरणेषु भगवता कृतो यत्नः इत्याह— तथेति। न केवलमतीतेष्वेव प्रकरणेषु वास्तवक्रियाद्यभावादात्मन्याध्यासिकी तद्धीरुक्ता, किन्तु वक्ष्यमाणप्रकरणेष्वपि तथैव भगवदभिप्रायदर्शनं भविष्यतीत्याह— उत्तरेषु चेति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. २ ] १. ‘अविद्याध्यारोपितमेव क्रियाकारकाद्यात्मन्युपचर्यते’ इति पा.। २. ‘दर्शितः’ इति पा.। ३. मनश्च इन्द्रियाणि चेति द्वन्द्वः। ४. उपचारस्याध्यासरूपत्वे इयं पौनरुक्त्यशङ्का। क्रियाकारकादिस्वरूपाध्यासः, तस्यात्मसंबन्धिताध्यासः इति अर्थभेदादपौनरुक्त्यमिति समाधानम्। ५. अध्यासभाष्ये तु— ‘अन्योन्यस्मिन् अन्योन्यात्मकताम् , अन्योन्यधर्मांश्चाध्यस्य’ इति धर्मिणोः परस्परमध्यासं प्रदर्श्य, धर्माणां पृथगन्योन्याध्यासः प्रदर्शितः। ‘इदमर्थवस्त्वपि भवेद् रजते परिकल्पितं रजतवस्त्विदमि’ (सं.शा.१-३४) इत्यादिसंक्षेपशारीरकवचनाच्च तथैव ज्ञायते। लघुचन्द्रिकादिग्रन्थेषु च (पृ.३९) भ्रमस्थले पञ्चपदार्थोत्पत्ति- प्रदर्शनपूर्वकमिदमेव निरूपितमिति ज्ञेयम्।

[[६३२]]

हन्त तर्ह्यात्मनि क्रियाकारकफलात्मतायाः स्वतोऽभावेऽविद्यया चाध्यारोपितत्वे कर्माण्यविद्वत्कर्तव्यान्येव, न विदुषामिति प्राप्तम्। सत्यमेवं प्राप्तम्। एतदेव च ‘न हि देहभृता शक्यम्’(भ.गी.१८.११) इत्यत्र दर्शयिष्यामः। सर्व- शास्त्रार्थोपसंहारप्रकरणे च ‘समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा’(भ.गी.१८.५०) इत्यत्र विशेषतो दर्शयिष्यामः। अलमिह बहुप्रपञ्चनेनेत्युपसंह्रियते॥२॥

नन्वेवमात्मनि स्वतः क्रियाकारकफलात्मत्वाभावे विदुषां सर्वकर्माभावः प्राप्तः इति पृच्छति— हन्त ! तर्हीति। अविदुषामविद्यायाः सत्त्वादविद्यावस्थायामात्मनि क्रियाकारकफलात्मतायाः प्रतिभानादविद्वांसो ‘ब्राह्मणोऽहं, स्वर्गादिकं मे भूयादि’ति कर्मणि प्रवर्तन्ते, फलहेत्वोरात्माभिमानात्। विदुषां त्वविद्यायाः अभावाद् विद्यावस्थायामात्मनि क्रियाकारकफलात्मतायाः अप्रतीतेः विद्वांसः सच्चिदानन्दलक्षणोऽहमित्यात्मयाथाम्यज्ञानेन फलहेत्वोरनात्मनोरात्माभिमानाभावाद् ‘ब्राह्मणोऽहं, स्वर्गादिकं मे भूयादि’ति कर्मणि नैव प्रवर्तन्ते। एवं विदुषां शास्त्रार्थे कर्मण्यप्रवृत्तौ शास्त्रस्यार्धजरतीयन्यायेन नैरर्थक्यमर्धांशतः प्राप्नोति। अथवा मूढविषयत्वेन कृष्यादिवद् बुद्धागमादिवद्वा विद्वद्ब्राह्मणाग्राह्यत्वेन सर्वात्मना व्यर्थत्वमेव भवेत्। विद्वद्ग्राह्यमेव हि सार्थकम्। एवं शास्त्रानर्थक्यदोषः पुनः प्राप्त इति पूर्वपक्ष्याशयः। प्रश्नमङ्गीकरोति— सत्यमिति। एतदेवेति। विदुषां कर्माभावमेवेत्यर्थः। ये कर्मण्यधिकृता अज्ञास्ते शास्त्रार्थकर्मणि न प्रवर्तेरन् यदि, तर्हि शास्त्रमनर्थकं स्याद् विधिप्रतिषेधात्मकम् , अज्ञार्थमेव तच्छास्त्रस्य प्रवृत्तत्वात्। न तु विदुषां प्रवृत्त्यभावेन शास्त्रस्यानर्थक्यम् , विद्वदर्थं शास्त्रस्याप्रवृत्तत्वात्। न हि नटार्थं निर्मितं भरतशास्त्रं ब्राह्मणादीनां तत्राप्रवृत्तिमात्रेण निरर्थकमिति वक्तुं शक्यते एकदेशेन सर्वात्मना वा। यद् यदर्थं निर्मितं तत्र ते यदि न प्रवर्तेरन् तर्हि तदनर्थकं स्यात्। न त्वन्येषामप्रवृत्त्या। यथा देवदत्तार्थं राज्ञा कारिते गृहे यदि देवदत्तो न निवसेत् तर्हि तदनर्थकं स्यात् , तद्वत्। न च विधिप्रतिषेधशास्त्रं विद्वदविद्वत्साधारण्येन प्रवृत्तमिति वाच्यम् ; ‘वेदाविनाशिनं नित्यं य एनमजमव्ययम्। कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥’ इति विदुषां सर्वकर्माभावं वदन्नीश्वरः कथं विद्वदर्थं विधिप्रतिषेधशास्त्रं निर्मायात्? तस्माद् विद्वदर्थमीश्वरेण शास्त्रस्यानिर्मितत्वाद् विदुषां (न) तत्राप्रवृत्त्या न शास्त्रस्य सर्वात्मनाऽर्धांशेन वा नैरर्थक्यम्। न हि ब्राह्मणार्थं निर्मितेषु वैश्वदेवादिषु शूद्रादीनामप्रवृत्तौ शास्त्र- स्यानर्थक्यम्। प्रत्युत प्रवृत्तावेवानर्थक्यम् , अन्यधर्मेऽन्यप्रवृत्तेर्नरकहेतुत्वात्। धर्माधर्मनिरूपणद्वारा लोकान् नरकादुत्तारयितुं हि शास्त्रमीश्वरेण निर्मितम्। तस्माद् विदुषां सर्वकर्मसंन्यासिनां कर्मणि प्रवृत्तिर्नरकहेतुरेव। अविदुषां कर्मिणां कर्मण्यप्रवृत्तिरपि नरकहेतुरेव। य एतदजानन्तो मूढाः विद्वदनुसारेण स्वयमपि कर्मसु न प्रवर्तन्ते, तेषामज्ञानामप्रवृत्त्याऽपि न शास्त्रस्य वैयर्थ्यमेकदेशेन प्राप्नोति, पुरुषापराधमात्रेण शास्त्रं न दुष्यतीति हेतोः। न हि रोगिनिन्दया सरसं कदलीफलं विरसं भवेत्। परन्तु येऽधिकृता अपि कर्मणि न प्रवर्तन्ते, त एव दुष्यन्ति। ये यत्राधिकृतास्ते तत्राप्रवृत्त्या दुष्यन्ति, तच्छास्त्रं तु न दुष्यति। यथा जलाहरणकर्मण्यधिकृतः तत्राप्रवृत्त्या दुष्टोऽयमिति स्वामिना हन्यते, न तु स्वाम्याज्ञा दुष्यति, तद्वत्। तस्मात् कर्मण्यधिकृतैरेवाज्ञैः त्रैवर्णिकैः कर्म विहितं कार्यं, निषिद्धं तु परित्याज्यं, न तु संन्यासिनो विधिनिषेधौ स्तः। यथा वा स्त्रीशूद्रादीनामिति विदुषां सर्वकर्मसंन्यास एव प्राप्तः। अयमर्थः पूर्वमपि बहुशः प्रपञ्चितः शङ्कराचार्यैः। लोकानुग्रहार्थमुत्तरत्रापि वक्ष्यामः इत्याह— न हीति। प्रकरणान्तरं दर्शयति— सर्वेति। ‘सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज’ इति श्लोकव्याख्यानसमये इत्यर्थः। तस्यैव श्लोकस्य सर्वशास्त्रार्थोपसंहारप्रकरणत्वात्। ननु आत्मनि वास्तवक्रियाद्यभावेऽध्यासाच्च तत्सिद्धौ कर्मकाण्डस्याविद्वदधिकारित्वप्राप्तौ ‘विद्वान् यजेत’ ‘ज्ञात्वा कर्मारभेत’ इत्यादिशास्त्रविरोधः स्यादिति शङ्कते— हन्तेति। शास्त्रस्य व्यतिरेकविज्ञानाभिप्रायत्वाद् अशनायाद्यतीतात्मधीविधुरस्यैव कर्मकाण्डा- धिकारितेत्यङ्गीकरोति— सत्यमिति। कथमज्ञस्यैव कर्माधिकारित्वमुपपन्नमित्याशङ्क्याह— एतदेव चेति। ज्ञानिनो ज्ञाननिष्ठायामेवा- धिकारः, निष्ठान्तरे त्वज्ञस्यैवेत्युपसंहारप्रकरणे विशेषतो भविष्यतीत्याह— सर्वेति। तदेवानुक्रामति— समासेनेति। जीवब्रह्मणोरैक्या- भ्युपगमे न किञ्चिदवद्यमित्युपसंहरति— अलमिति॥२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[६३३]]

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

यदुत्तरत्र दर्शयिष्यते तदिहैव वक्तव्यम् , अत आह— अलमिति। वाचामधिकविस्तारस्य जिज्ञासुजनमनःक्लेशावहत्वादिति भावः। उपसंह्रियते सङ्क्षिप्यते, समाप्यत इति यावदिति। अत्राह रामानुजः— ‘क्षेत्रज्ञं चापि मां विद्धी’ति सामानाधिकरण्यदर्शनादीश्वरस्यैव सतोऽज्ञानात् क्षेत्रज्ञत्वमिव भवति, तन्निवृत्त्यर्थश्चायमेकत्वोपदेशः, अनेन चाप्ततमभगवदुपदेशेन ‘रज्जुरेषा न सर्पः’ इत्याप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत् क्षेत्रज्ञत्वभ्रमो निवर्तत इति केचिदाहुरिति। आह वेदान्तदेशिकश्चार्थमस्य— ‘सर्वज्ञस्येश्वरस्यैव सतोऽज्ञानात् क्षेत्रज्ञत्वभ्रमो भवति, स एव चेश्वरः क्षेत्रज्ञायोपदिशतीति च व्याकुलभाषिणस्ते’ - इति। १अत्र विचार्यते— नाद्वैतिभिरस्माभिरीश्वरस्यैवाज्ञानात् क्षेत्रज्ञत्वमित्युक्तम्। किं तर्हि? ईश्वरस्यैव सतः क्षेत्रज्ञस्याज्ञानात् संसारित्वमित्युक्तम्। तस्मान्नेश्वरस्य क्षेत्रज्ञत्वभ्रमः, किन्त्वीश्वरस्य क्षेत्रज्ञत्वं २प्रमैव, ईश्वरस्यैव क्षेत्रज्ञत्वात् , तस्य चासंसारित्वात्। अतस्मिंस्तद्बुद्धिर्हि भ्रमः। ईशनक्षेत्रज्ञानरूपप्रवृत्तिनिमित्तभेदादीश्वरक्षेत्रज्ञशब्दद्वयवाच्यत्वमेकस्यैव सच्चिदानन्दस्य। तस्मादीश्वरस्ये- श्वरत्वमिव क्षेत्रज्ञत्वमपि न भ्रमः। ईश्वरस्य साक्षित्वं च श्रुतिसिद्धम् , ‘साक्षी चेता’ इति मन्त्रात्। क्षेत्रज्ञत्वमेव हि साक्षित्वं, साक्षात् पश्यति सर्वं साक्षीति व्युत्पत्तेः, ज्ञेयस्य सर्वस्यापि क्षेत्रत्वाच्च। उदासीनत्वे सति द्रष्टृत्वं हि लोकेऽपि साक्षित्वम्। तथा द्रष्टुरीश्वरस्योदासीनत्वादेवाविक्रियत्वम्। न हि विवदमानाविव साक्षी सुखदुःखादिविकारं प्राप्नोति। अत एव हि तस्योदासीनत्वम्। एवमविक्रियत्वादेवासंसारित्वमीश्वरस्य। सुखदुःखादिविकारस्यैव संसारत्वात्। तस्मादसंसारीश्वर एव क्षेत्रज्ञ इत्यस्माभिरुच्यते। सत्य एवायमर्थो, न तु रज्जुसर्पवद् भ्रमः, रज्जौ सर्पस्येव ईश्वरे क्षेत्रज्ञः कल्पितः इत्यस्माभिरनुक्तत्वात्। एवं स्थिते, ये - ईश्वरस्य क्षेत्रज्ञत्वभ्रमः इत्यस्माभिरुक्तमिति - मन्यन्ते, त एव भ्रान्ताः; न त्वीश्वरः, नापि वयम्। तेषां तु युष्माकं भ्रमः उपपन्न एव, भ्रमहेतोरज्ञानस्य सत्त्वात्। अत एवाज्ञानाद्धि युष्माकं क्षेत्रज्ञादन्य ईश्वर इति, क्षेत्रज्ञः संसारी जीव इति च भ्रमः। तथा क्षेत्रज्ञं चापीति श्लोकस्यापार्थकल्पनं च। कथम्? उच्यते— क्षेत्रज्ञं च मां मदात्मकं विद्धि , अपिशब्दात् क्षेत्रमपि मदात्मकं विद्धि इत्यस्मिंस्तव व्याख्याने क्षेत्रज्ञास्मच्छब्दयोः प्रतीयमानस्य मुख्यसामानाधिकरण्यस्य भङ्ग एको दोषः। मामित्यसमस्तपदस्य मदात्मकमिति समासकल्पनमन्यः। आत्मशब्दस्य स्वरूपार्थकत्वे स्वमतप्रच्युतिरपरः। यथा देहस्य जीवः शरीरित्वादात्मा तथा जीवस्य शरीरस्य शरीरित्वादीश्वर आत्मेत्यात्मशब्दस्य शरीर्यर्थवर्णने नित्ये जीवे शीर्यत इति व्युत्पत्तिसिद्धशरीरशब्द- प्रवृत्तिनिमित्ताभावोऽन्यः। एतद्दोषपरिहाराय अनित्यत्वस्वीकारे ‘अजो नित्यः’ इति गीताविरोधोऽपरः। आत्मा शेषीत्यर्थवर्णने अनन्यशेषतया सर्वशेषितया च प्रसिद्धस्यात्मनो जीवस्य ईश्वरशेषत्वकल्पनमन्यः। देहो जीवस्येव जीव ईश्वरस्यापृथक्सिद्ध- विशेषणत्वादीश्वरात्मक इति वर्णने तु दृष्टान्तदार्ष्टान्तिकयोरुभयोरप्यनुपपत्तिरेव, ज्ञेयज्ञात्रोर्देहजीवयोर्ममेदमित्यहमिति च पृथक्प्रतीय- मानयोरपृथक्सिद्ध्ययोगात्। देहात्पृथग् जीवस्यासिद्धौ बौद्धमताभ्युपगमप्रसङ्गः, देहात्मवादित्वात् तेषां बौद्धानाम्। जीवात्पृथग् जीव [देह]स्यासिद्धौ देहस्य मरणाभावप्रसङ्गः, जीवापेतशरीरस्यैव मृतत्वव्यवहारात्। सर्वदाऽपि जीवादपृथक्सिद्धत्वाच्च देहस्य। एवं जीवात्पृथगीश्वरस्यासिद्धौ ईश्वरस्य संसारित्वप्रसङ्गः, जीवेश्वराभेदस्वीकारेण स्वमतप्रच्युतिः, परमतप्रवेशश्च। सर्वदाऽपीश्वरस्य जीववैशिष्ट्ये सत्यग्निसङ्गाल्लोहस्यौष्ण्यमिव जीवसङ्गादीश्वरस्यापि संसारित्वप्रसङ्गश्च। जीवेश्वरयोर्नियाम्यनियामकभावाद्यसिद्धिश्च। ईश्वरात्पृथग्जीवस्यासिद्धौ जीवस्य संसारिणोऽभावप्रसङ्गः, संसाराभावप्रसङ्गश्च। ईश्वरनियाम्यत्वमेव जीवस्य स्वभावः इत्यप्ययुक्तम् , सुषुप्तौ जीवेश्वरयोर्नियाम्यनियामकभावस्य चादर्शनात्। न हि सुषुप्तौ जीवः केनचिन्नियम्यमानो दृष्टः। न हि स्वभावः क्वचिदप्यपैति। किञ्च अध्यासं विना अन्येन केनापि हेतुना यदि जीवो देहात्मकः, देहो वा जीवात्मकः स्यात् तर्हि तद् दृष्टान्तेन जीवस्येश्वरात्मत्वमीश्वरस्य वा जीवात्मत्वमुच्येत। न तु तथाऽस्ति। न हि विद्वान् कोऽपि स्वं देहात्मकं जानाति, देहं वा स्वात्मकम्। किन्तु स्वस्मादन्यमेव देहं देहादन्यमेव स्वं च वेत्ति। य आत्मानं मनुष्यं वेद स ह्यविद्वान्। भगवान् सर्वज्ञः कथमात्मानं जीवं, जीवं वा आत्मानं विद्यात्? येन जीवो मदात्मक इति ब्रूयात्। तस्माद् देहात्मनोर्जीवेश्वरयोर्वा सामानाधिकरण्यं प्रति नापृथक्सिद्धविशेषणत्वं अ. १३. श्लो. २ ] १. परेणास्मन्मतमनूद्य यद् दूषितम् , तत्रानुवादभागमुपन्यस्य खण्डयति— अत्रेत्यादिना। २. प्रमितमेवेत्यर्थः। ‘क्षेत्रज्ञत्वप्रमैव’ इति वा पाठः स्यात्।

[[६३४]]

हेतुः, किन्त्वज्ञानमेव। दृश्यते तु ‘क्षेत्रज्ञं चापि मां विद्धी’ति जीवेश्वरयोः सामानाधिकरण्यम् ; तद्धेतुरज्ञानं तु ईश्वरे न सम्भवतीति दुष्टमेव तवेदं व्याख्यानम्। न हि त्वदुक्तविधया स्वापृथक्सिद्धविशेषणं जानन्नपि देहं विवेकी कोऽपि मनुष्यं मां विद्धीति ब्रूते, येनेश्वरः सर्वज्ञो जीवं मां विद्धीति ब्रूयात्। यस्तु देवं मां विद्धीति ब्रूते तस्य देहात्माभिमानो नैव नष्टः, देवत्वमनुष्यत्वादेर्देहधर्मत्वेन जीवधर्मत्वाभावात्। एवमीश्वरस्यापि जीवे आत्माभिमानो न नष्टः इति यदि ब्रूषे, तर्हि तस्यासर्वज्ञत्वप्रसङ्गः। यदि नष्टः इति ब्रूषे, तर्हि जीवं मां विद्धीत्युपदेशानुपपत्तिरिति। क्षेत्रस्य तु ईश्वरात्मत्वमस्त्येव, ईश्वरे तस्य कल्पितत्वेन ईश्वरस्वरूपत्वात्। अधिष्ठानस्वरूपं ह्यध्यस्तं वस्तु। ईश्वरस्य क्षेत्रान्तरात्मत्वाच्चास्तु क्षेत्रस्येश्वरात्मत्वम्। तथापि अपिशब्दान्न सोऽर्थ इह व्यङ्ग्यतया विवक्षितः। सर्वक्षेत्रेष्विति कण्ठत एव ईश्वरस्य सर्वक्षेत्रान्तरात्मत्वस्योक्तत्वात्। क्षेत्रेषु वर्तमानो हि क्षेत्रान्तरात्मा। ईश्वरे कल्पितत्वात् क्षेत्रमीश्व- रात्मकमिति तु न तव मतम्। अतस्तस्येह विवक्षितत्वं त्वया न वक्तव्यम् , स्वमतभ्रंशपरमतस्वीकारदोषापत्तेस्तव। तथा सर्वक्षेत्रेषु क्षेत्रज्ञमिति जात्येकवचनमिति तव वचनं चायुक्तम् , सर्वक्षेत्रेष्विति बहुत्वनिर्देशस्वारस्यभङ्गात्। जात्येकत्वस्वीकारे प्रमाणाभावात्। सत्यां तादृशविवक्षायां ‘क्षेत्रज्ञानपि मां विद्धी’त्येव ब्रूयाद् बादरायणः। नापि सच्चिदानन्दलक्षणे क्षेत्रज्ञे जातिः काचिदस्ति। किञ्च यदि व्यक्तिभेदः स्यात् , तर्हि जातिभेदो नास्तीति वक्तुमुचितम् ; न तु व्यक्तिभेदोऽस्ति। अव्यक्तत्वादक्षरस्य क्षेत्रज्ञस्य। न हि निराकारस्य वायोराकाशस्य वा व्यक्तिभेदोऽस्ति, येन निराकारस्य जीवस्य स स्यात्। तस्मात् क्षेत्रज्ञानेकत्वमप्रमाणमेव। न च सुख- दुःखादिसाङ्कर्यप्रसङ्गः, तस्यान्तःकरणधर्मत्वादन्तःकरणानां चानेकत्वात्। नापि विभोः क्षेत्रज्ञस्यानेकत्वं भवितुमर्हति, परिच्छिन्ना- नामिवान्तःकरणानाम्। न च क्षेत्रज्ञोऽपि परिच्छिन्न एवेति वाच्यम् ; तथा सत्यनित्यत्वप्रसङ्गात्। एवं नित्याद् विभोः ज्ञातुश्च जीवादीश्वरस्य किम्प्रयुक्तो भेदस्त्वया विवक्षितः? अनित्यत्वपरिच्छिन्नत्वज्ञेयत्वप्रयुक्त इव देहस्य भेदः, न किम्प्रयुक्तोऽपि, सत्यत्वादीनामीश्वरेऽपि सत्त्वात्। न च सर्वज्ञत्वादिप्रयुक्त इति वाच्यम् ; तस्य मायाधर्मत्वेनेश्वरधर्मत्वाभावात्। सर्वावभासकत्व- लक्षणसर्वज्ञत्वस्य जीवेऽपि सत्त्वात्। तस्मान्न जीवेश्वरभेदः। नापि जीवानेकत्वम्। तादृशज्ञानस्य च संसारहेतुत्वेन न सम्यग्ज्ञानत्वमपीत्यलम्। १अथ यदप्याह रामानुजः - अयमुपदेष्टा भगवान् वासुदेवः किमात्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः, उत न? आद्ये - निर्विशेषचिन्मात्रैकस्वरूपे आत्मन्यतद्रूपाध्यासासम्भावनया कौन्तेयादिभेददर्शनं, तान् प्रत्युपदेशादिव्यापाराश्च न सम्भवन्ति। अथात्मसाक्षात्काराभावादनिवृत्ताज्ञानश्चेत् तर्ह्यज्ञत्वादेवात्मज्ञानोपदेशासम्भव इति, तत्तुच्छम् - य आत्मानं निवृत्ताज्ञानमनिवृत्ताज्ञानं वा मन्यते स मूर्ख एव। आत्मनि कालत्रयेऽप्यज्ञानाभावात्। अज्ञानप्रसक्तिं विना तन्निवृत्त्ययोगाच्च। वासुदेवस्त्वात्मैवेति कृत्वा कथं तस्याज्ञानप्रसङ्गः, तन्निवृत्तिर्वा? यश्चैनं वासुदेवं कौन्तेयाय कमप्यर्थमुपदिशन्तं मन्यते स आत्मतत्त्वयाथात्म्यगन्धशून्य एव। न हि निर्विशेषचिन्मात्र आत्मा कस्मैचित् किमप्युपदिशेत् , वागाद्यभावात्। यस्तूपदिशन् दृश्यते स कार्यकरणसङ्घात एव, नात्मा। न हि ज्ञाता परमात्मा केनचिद् दृश्येत। कार्यकरणसङ्घातस्य च भेददर्शनोपदेशादिव्यापारा उपपद्यन्त एव। आत्मैकत्वेऽपि सङ्घाताना- मनेकत्वात् परस्परं भेदात् करणादिमत्त्वाच्च। न च जडत्वान्नोपपद्यन्त इति वाच्यम् ; आत्मप्रतिफलनेन चैतन्यलाभात् सङ्घातस्य। तस्माद् देहे गच्छति सति अहं गच्छामीति यथा अज्ञानां भ्रमस्तथा सङ्घाते वदति सति आत्मा वदतीति, सङ्घाते शृण्वति सति आत्मा शृणोतीति चाज्ञानां भ्रमः। एवमुपदेशके वसुदेवपुत्रे सङ्घातविशेषे, श्रोतरि च कौन्तेये सङ्घातविशेषे यस्यात्मेति भ्रमस्तस्य तव देहात्माभिमानिनः पाण्डित्यमहो ! ननु माऽस्त्वात्मन्युपदेशादिव्यवहारः, यः सङ्घातविशेषमहमित्यभिमन्यते स वासुदेवः प्रमाता किमात्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः? उत न? आद्ये - भेददर्शनाद्यनुपपत्तिः। द्वितीये - उपदेशानुपपत्तिरिति चेत् , मैवमपि। आत्मैकत्वं प्रमातृभेदं च विदुषः कृष्णस्य भेददर्शनोपदेशाद्युपपद्यत एवेति। यदि प्रमातृभेदो न स्यात् तर्हि कौन्तेयादिभेददर्शनानुपपत्तिः स्यात्। यद्यात्मैकत्वदर्शनं न स्यात् तर्ह्यात्मोपदेशो न स्यात्। न त्वेतदस्ति। प्रमातृभेदस्य सत्त्वात् प्रमातृविशेषस्य च कृष्णस्यात्मैकत्वदर्शनसत्त्वादिति भावः। भाष्यार्कप्रकाशः १. परोक्तदूषणमनूद्य निराकरोति—अथेत्यादिना।

[[६३५]]

ननु यः प्रमाता आत्मानं सच्चिदानन्दमद्वितीयं ब्रह्म पश्यति स विद्वान् कृष्णः पुनरात्मानं प्रमातारं कथं जानीयात्? कथं वा कौन्तेयायोपदिशेदिति चेत्? मैवमपि - व्यवहारपरमार्थदशयोर्भेदेन तदुपपत्तेः। यथा तव समाधिव्यवहारदशयोर्भेदः, यथा वा शूद्रादी- नामतिमूर्खाणामपि निद्राव्यवहारदशयोर्भेदः। अथवा निद्राजागरणदशयोः। प्रमाता यदा आत्मानं साक्षात्करोति, सा हि परमार्थदशा। न तथा [तदा] कोऽपि वक्ता, कोऽपि श्रोता, कश्चिदुपदेशो वा विद्यते। यदा तूपदेशादिव्यवहारं करोति सा हि व्यवहारदशा; तदा वक्तृश्रोतृशास्त्राणि सन्त्येवेति न काऽप्यनुपपत्तिः। ननु व्यवहारदशायामपि विदुषः प्रमातुरहं ब्रह्मेति ज्ञानमस्ति वा? न वा? आद्ये - अद्वितीयत्वाद् ब्रह्मण उपदेशानुपपत्तिः। द्वितीये - अज्ञत्वादेवोपदेशानुपपत्तिरिति चेत् , मैवमपि। व्यवहारदशायां ब्रह्मात्मज्ञानस्य परोक्षकल्पत्वेन भेददर्शनोपदेशयोरुपपत्तेः। अपरोक्षत्व एव भेददर्शनाभावः। परोक्षज्ञानस्याप्यभाव एवाज्ञत्वादुपदेशाभाव इति हेतोः१। न चापरोक्षतया दृष्टस्यात्मनः कथं पुनः परोक्षत्वमिति वाच्यम् ; यावद्विदेहकैवल्यमविद्याया दग्धपटवत् सत्त्वात्। अविद्यावरणाद्धि आत्मनः पारोक्ष्यम्। न च प्रकाश- रूपस्यात्मनः कथमज्ञानावरणमिति वाच्यम् ; अहमज्ञ इत्यनुभवबलाद् ‘अज्ञानेनावृतं ज्ञानम्’ इत्यादिशास्त्रप्रामाण्याच्च। आत्मनो ऽज्ञानावरणाभ्युपगमात्। तस्माद् व्यवहारदशायां गुरुशिष्यशास्त्रादिसर्वद्वैतसत्त्वाद् भेददर्शनादिकमुपपद्यत एव वसुदेवसूनोः प्रमातुः कृष्णस्येति स्थितम्। वस्तुतस्तु तव मत एवायमुपदेशानुपपत्तिदोषः, तथाहि - जीवान्तर्यामी जीवशरीरकः परमात्मा शरीरं जीवं स्वात्मकं जानन् कथं तस्मा उपदिशेत्? जीवोऽन्योऽहमन्यस्तस्मान्न जीवो मदात्मक इति ज्ञाने सति ह्युपदेश उपपद्यते। न हि मनुष्योऽहमिति मन्य- मानः कोऽपि मूढः शरीराय स्वात्मकाय किमप्युपदिशति। देवदत्तोऽहमन्यः, विष्णुमित्रोऽयमपरः, अतो नायं मदात्मक इति ज्ञानाद्धि देवदत्तो गुरुर्विष्णुमित्राय किमप्युपदिशति। न च जीवस्यान्तरात्माऽहं जीवादन्य इति ज्ञानादुपदिशतीति वाच्यम् ; देहादन्योऽहं देहस्यान्तरात्मेति ज्ञानादपि जीवस्य देहं प्रत्युपदेशादर्शनात्। न च देहस्याचेतनत्वादुपदेशानुपपत्तिरिति वाच्यम् ; जीवे सति देहस्य चेतनत्वात्। कथमन्यथा चेतनाचेतनव्यवहारः? न हि गच्छन्तं वदन्तं वा देहं कोऽप्यचेतनं मन्यते। किन्तु मृत्पाषाणादिकमेव। नापि जीवः स्वान्तरवस्थितं स्वस्मै कमप्युपदिशन्तं स्वस्मादन्यं स्वस्य शरीरिभूतं कञ्चन पश्यति, येन तदनुभवबलाद्वा स्वशरीराय जीवाय शरीरीश्वर उपदिशतीत्यभ्युपगम्येत। न च कृष्णार्जुनोपदेशदृष्टान्तबलादभ्युपगन्तव्यमिति वाच्यम् ; अर्जुनाद् बहिरुपलभ्यमानस्य कृष्णस्यार्जुनान्तःस्थितिप्रयुक्ता- न्तरात्मत्वायोगात्। न च य एव कृष्णशरीरान्तरात्मा स एवार्जुनशरीरान्तरात्मेति वाच्यम् ; एकात्मवादप्रसङ्गात्। अनेकात्मवादी हि भवान्। न चार्जुनशरीरे अन्तरात्मतया स्थितो यः स एव कृष्णशरीरे प्रमातृतया स्थितःसन्नर्जुनशरीरस्थप्रमात्रे उपदिशतीति वाच्यम् ; कृष्णशरीरप्रमातर्यप्यर्जुनशरीरप्रमातरीवान्तरात्मनोऽवश्यं स्थातव्यतयाऽर्जुनप्रमात्रन्तर्यामिणः कृष्णप्रमातृरूपत्वासम्भवात्। किन्तु कृष्णप्रमात्रन्तर्यामिरूपत्वमेव तस्य। अन्यथा अन्तर्यामिणः प्रमातृरूपत्वेऽन्तर्यामित्वभङ्गप्रसङ्गात्। प्रमातुरन्तःस्थित्वा प्रमातारं यमयतीति ह्यन्तरात्मेत्युच्यते। कृष्णप्रमातुरेवार्जुनान्तर्यामित्वे कृष्णप्रमात्रन्तर्यामिणोऽर्जुनान्तर्यामिणोऽप्यन्तर्यामीति प्राप्तत्वाच्च। न चेष्टापत्तिः, अन्तर्यामिणोऽप्यन्तर्यामिणोऽन्यस्य कल्पने तस्याप्यन्यस्य कल्पनीयतया अनवस्थादोषात्। अन्तर्यामिब्राह्मणविरोधाच्च। तस्मादन्तर्यामिण ईश्वरस्य स्वशरीरभूतान् जीवानुद्दिश्योपदेशो नोपपद्यते। जीवानां स्वशरीरत्वेन स्वाभिन्नत्वात् स्वस्य च करणाभावादिति। यदपि तेनोक्तम् - एवमादिवादाः अनाकलितश्रुतिस्मृतीतिहासपुराणन्यायस्ववाग्विरोधैरज्ञानिभिर्जगन्मोहनाय प्रवर्तिताः इति, तदप्ययुक्तम् । अत्राह वेदान्तदेशिको— युक्तमेवेति। कथम्? उच्यते। शङ्करमते भेदश्रुतयः, सगुणश्रुतयः, अन्तर्यामिश्रुतयः, प्रकृति- पुरुषनित्यत्वश्रुतयः, तथाविधाश्च स्मृत्यादयो विरुद्धा एव। अभेदश्रुत्यादयश्च मुख्यार्थपरित्यागेन निर्विशेषलक्षकतया तैरेवाभ्युपग- मान्मुख्यार्थप्रतिपादकाकारेण विरुद्धाः। विषयव्यवस्थादिभिर्विरोधपरिहारे सम्भवति सति बाध्यबाधकभावाभ्युपगमान्न्यायविरोधः। १. परोक्षज्ञानस्याप्यभाव एवाज्ञत्वाद् उपदेशाभाव इति हेतोः भवदुक्तोपदेशानुपपत्तिर्नेति योजना। भाष्यार्कप्रकाशः

[[अ. १३. श्लो. २]] [[६३६]]

ब्रह्म निर्विशेषमेवंत्वादित्यत्र हेतुसाध्यधर्मान्वयावश्यम्भावात् , अनुभूतिरवेद्येत्यत्रानुभूतिशब्दबोध्यत्वादेरवश्याभ्युपगन्तव्यत्वाच्च स्व- वचनविरोधः। एवं ब्रह्म न शब्दप्रतिपाद्यमित्यादिष्वपि भाव्यमिति। १अथ कथमयुक्तमिति चेद्? उच्यते— व्यवहारः, परमार्थ इति, अविद्या च विद्या चेति चास्त्यवस्थाद्वयम्। तद्धि न स्व- कपोलकल्पितम् , किन्तु श्रुतिसिद्धमेव। दर्शिताश्च श्रुतयः प्रकृतश्लोकभाष्य एव शङ्कराचार्यैः। स्मृतिसिद्धं च। स्मृतीनामपि तत्रैव तैरेव दर्शितत्वात्। एवं पुराणादिष्वपि प्रसिद्धमेव। अनुभवसिद्धं च। एवं सति यावद्व्यवहारं यावदविद्यं वा जीवेश्वरभेदादय उपपद्यन्त एव। ‘जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा। अविद्यातच्चित्तोर्योगः षडस्माकमनादयः॥’ इति वचनाद् व्यवहारदशायामविद्या- वस्थायां जीवेश्वरभेदसत्त्वात् ‘द्वा सुपर्णा’ इत्यादिभेदश्रुत्युपपत्तिः। ईश्वरस्य सत्यकामत्वसर्वेश्वरा[रत्वा]दिगुणसत्त्वात् ‘सत्यकामः सत्यसङ्कल्पः’ इत्यादिसगुणश्रुत्युपपत्तिः। जीवेश्वरयोर्नियाम्यनियामकभावसत्त्वाद् ‘य आत्मनि तिष्ठन्नि’त्याद्यन्तर्यामिश्रुत्युपपत्तिः। विद्यासूर्योदयपर्यन्तं प्रकृतिरूपान्धकारस्य सत्त्वात् प्रकृतेर्नित्यत्वव्यवहारः। यथा प्रलये नङ्क्ष्यमाणानामपि मृत्तिकादीनां यावत्प्रपञ्चं सत्त्वान्नित्यत्वव्यवहारः, घटादीनां तथाऽसत्त्वादनित्यत्वव्यवहारश्च, तद्वत् प्रकृतेरपि सापेक्षनित्यत्वसत्त्वान्नित्यत्वश्रुत्यविरोधः। पुरुषस्यात्मनस्तु पारमार्थिकत्वेन निरपेक्षनित्यत्वमस्त्येवेति न पुरुषनित्यत्वप्रतिपादकश्रुतिविरोधोऽस्माकम्। एवं स्मृत्यादयोऽप्यविरुद्धा एव। तत्त्वमसीत्याद्यभेदश्रुतयस्तु परमार्थदशायां विद्यावस्थायां निर्विशेषं ब्रह्मैकमेवास्तीति लक्षणया प्रतिपादयन्तीति न तच्छ्रुतिविरोधः। न च मुख्यार्थपरित्यागाद् विरोध इति वाच्यम् ; सति तु मुख्यार्थबाधे लक्ष्यार्थस्यैव स्वीकार्यत्वात्। न च मुख्यार्थस्य बाधो नास्तीति वाच्यम् ; तत्पदमुख्यार्थस्य सर्वज्ञपरोक्षेश्वरस्य त्वम्पदमुख्यार्थस्य किञ्चिज्ज्ञ- प्रत्यक्षजीवस्य च असिपदोक्तैक्यानुपपत्तेः। न च ईश्वरात्मको जीव इत्यर्थवर्णने मुख्यार्थस्याबाध इति वाच्यम् ; त्वं जारिणी मा भूरिति वधूमनुशास्य श्वश्रूः स्वयं जारिण्यभूदिति लोकन्यायात्। तव लक्ष्यार्थस्वीकारदोष इत्यस्मानाक्षिप्य त्वं लक्ष्यार्थमेव स्वीकरोषीत्यहो तव विद्यावैभवम् ! तत्पदस्येश्वरात्मक इत्यर्थो हि न मुख्यः। किमिति त्वया यथाश्रुतं जीवेश्वरयोर्मुख्यं सामानाधिकरण्यं नाभ्युपेयते? यदि विरोधादिति ब्रूषे, तर्हि तथैवास्माकमपीति विद्धि। न च - तत्पदे एकस्मिन्नेवास्माभिर्लक्षणा स्वीकृता, त्वया तु पदत्रयेऽपीति - वाच्यम् ; यथैकस्मिन् पदे लक्षणा तव न दुष्यति, तथा पदत्रयेऽप्यस्माकं नैव दुष्यतीति। किञ्च लाक्षणिकोऽप्यस्मदुक्तार्थो निरवद्यः, त्वदुक्तस्तु सावद्य एव। तच्च दर्शितमिहैव ‘मां मदात्मकम्’ इति त्वदुक्तार्थविमर्शनप्रकरण इतीहोपरम्यते। ‘साक्षी चेता केवलो निर्गुणश्च’ इत्यादिनिर्गुणश्रुतयस्तु विद्यादशायां निर्गुण एवात्मेति बोधयन्तीति नास्माकं तद्विरोधः। निर्गुणशब्दस्य हेयगुणरहित इति त्वदुक्तार्थ एव दुष्टः। गुणशब्देन दोषप्रतिभटानामेव ग्रहीतुमचितत्वात् , ‘गुणदोषौ बुधो गृह्णन्’ इत्यादिप्रसिद्धेः। न चैवं तवापि मते निर्दोषत्वं न स्यादात्मन इति वाच्यम् ; ‘निर्गुणश्चे’ति चकारेण ‘अपहतपाप्मे’ति श्रुत्यन्तरेण वा निर्दोषत्वलाभात्। तथा अभेदश्रुतिभेदश्रुतीनां निर्गुणश्रुतिसगुणश्रुतीनां च विद्याऽविद्यारूपदशाभेदाद् विषयव्यवस्था कृतैवास्माभिः। बाध्यबाधकभावस्तु विद्ययाऽविद्याया बाध्यमानत्वाद् विद्याविषयाभिरभेदश्रुतिभिरविद्याविषयाः भेदश्रुतयो बाध्यन्त इत्यभिप्रायेणोक्तः। भेदश्रुतीनां बाधो नाम तदर्थस्य विद्यावस्थायामप्रामाण्यमेव। यथा रज्जुज्ञानेन सर्पज्ञानस्याप्रामाण्यम् , तद्वत्। न चैवमप्रमाणमर्थं कथं ब्रूयाच्छ्रुतिरिति वाच्यम् ; अविद्यावस्थायां प्रमाणत्वात् तदर्थस्य जीवेश्वरभेदादिरूपस्य। तस्मादविद्यावस्थाविषयजीवेश्वरभेदादि- प्रतिपादकश्रुतीनां ‘द्वा सुपर्णा’ इत्यादीनां, विद्यावस्थाविषयजीवेश्वराभेदादिप्रतिपादकश्रुतीनां तत्त्वमस्यादीनां च विभिन्नविषयत्वान्न कोऽपि बाध्यबाधकभावः कल्पयितुं शक्यते। तस्मान्नास्ति न्यायविरोधः। ननु निर्विशेषं ब्रह्मेति स्ववचनं विरुद्धम् , ब्रह्म निर्विशेषं चिन्मात्रत्वाद्, व्यतिरेकेण घटवदिति ब्रह्मणि पक्षे निर्विशेषत्व- चिन्मात्रत्वरूपसाध्यहेतुभूतयोर्धर्मयोरवश्यम्भावित्वात् , निर्विशेषत्वचिन्मात्रत्वरूपधर्मद्वयात्मकविशेषवतो ब्रह्मणो निर्विशेषत्वासम्भ- वाच्चेति चेत् , मैवम् ; सविशेषं ब्रह्मेति वदतस्तव मतेऽपि किं ब्रह्मणि वर्तमाना विशेषाः सविशेषरूपा उत निर्विशेषाः? आद्ये - तेष्वपि विशेषेषु वर्तमानाः विशेषाः सविशेषाः इत्येवमनवस्था दोषः। द्वितीये निर्विशेषेषु ब्रह्मणि वर्तमानेषु विशेषेषु निर्विशेषत्वमस्ति वा न भाष्यार्कप्रकाशः १. सिद्धान्तं परोक्तदूषणोद्धारेण समर्थयते—अथेत्यादिना।

[[६३७]]

वा? आद्ये - अस्मासु पतितो दोषस्त्वय्यपि पतति। द्वितीये - निर्विशेषत्वाभावे कथं निर्विशेषत्वं तेषाम्? न हि घटत्वाभाववान् घटः स्यात् , येन निर्विशेषत्वाभाववद् वस्तु निर्विशेषं स्यात्। तस्मात् स्ववचनव्याघातदोषोऽपरिहार्य एवेति नात्र दोषेऽस्माभिः समाधानं वक्तव्यम्। यो हि दोषस्तव मते न स्यात् , अस्मन्मते स्यात् स एवास्माभिः परिहर्तव्यः१। नन्वस्मन्मते प्रसक्तोऽयं दोषः कथं परिहार्य इति यद्यस्मदीयः पृच्छेत् तर्हि ब्रूमः - निर्विशेषत्वं न विशेषरूपं, नापि सविशेष- रूपं, विरोधात्। किं तर्हि? निर्विशेषरूपमेव। यथा निर्धर्मत्वं न धर्मरूपं, किन्तु निर्धर्मरूपमेव। न च दृष्टान्ते विवदितव्यम् , निर्धर्मत्वस्य धर्मरूपत्वे निर्धर्मे धर्मायोगान्निर्धर्मत्वरूपधर्मवत् तद्वस्तु निर्धर्मकं नैव स्यात्। न च सधर्मकमस्त्विति वाच्यम् ; निर्धर्मकस्य सधर्मकस्य च परस्परं विलक्षणत्वात्। निर्धर्मकं न स्वप्नेऽपि सधर्मकं भवितुमर्हति। ननु निर्धर्मकं निर्विशेषं निर्गुणं वा वस्त्वेव नास्ति, सर्वमपि वस्तु सधर्मकं सविशेषं सगुणमेव। अत एव निर्धर्मत्वनिर्विशेषत्व- निर्गुणत्वानां दुर्वचत्वादभाव इति चेत् , मैवम् ; यावद्विशेषाभावो निर्विशेषत्वं, यावद्धर्माभावो निर्धर्मत्वं, यावद्गुणाभावो निर्गुणत्वमिति तेषां सुवचत्वात्। न च यावद्विशेषाभावोऽपि विशेषरूप एवेति वाच्यम् ; विशेषस्य भावरूपत्वाद् विशेषाभावस्य चाभावरूपत्वाद् विशेषाभावाभावस्यैव पुनर्भावरूपत्वाच्च न विशेषाभावो विशेषरूपः, किं तर्हि? निर्विशेषरूप एव। एवं धर्माभावो निर्धर्मरूप एव, गुणाभावोऽपि निर्गुणरूप एव। तस्माद् विशेषाभाववति ब्रह्मणि न कोऽपि विशेषः आसञ्जनीयः। विशेषविरोधिनस्तदभावस्य तत्र सत्त्वात्। न चैवं विशेषाभावरूपधर्मसत्त्वान्निर्धर्मकं ब्रह्म न भवेदिति वाच्यम् ; विशेषाभावस्याभावरूपत्वेन, धर्मस्य च भावरूपत्वेन विशेषाभावस्य धर्मरूपत्वाभावात्। तस्माद् न्यायमते २निर्विकल्पज्ञानवदस्मन्मते निर्विशेषब्रह्मणः सिद्धिरिति। वस्तुतस्तु निर्विकल्प- ज्ञानमेव ब्रह्म। तार्किकास्तु नैतज्जानन्तीति बोध्यम्। तस्माद् ब्रह्म निर्विशेषं, चिन्मात्रत्वाद्, व्यतिरेकेण घटादिवदिति प्रयोगो निर्दुष्ट एव। न च - विशेषाभावरूपत्वेन निर्विशेषत्वस्य विशेषरूपत्वाभावेऽपि, चिन्मात्रत्वस्य भावरूपत्वेन विशेषरूपत्वाच्चिन्मात्रत्व- रूपविशेषवतो ब्रह्मणः कथं निर्विशेषत्वमिति - वाच्यम् ; चिन्मात्रत्वं चिदेवेत्यभ्युपगमात्। अन्यथा चिति चित्त्वमस्ति, चित्त्वे पुनश्चित्त्वत्वमस्ति, तस्मिंस्तु चित्त्वत्वत्वमस्तीत्येवं कल्पयितव्यत्वेनानवस्थापत्तेः। तस्माच्चिन्मात्रत्वं चिद्रूपमेव। न तु धर्मः, निर्धर्मिकायां चिति धर्मायोगात्। न चैवं चिति चित्त्वाभावे कथं चित्पदप्रयोगस्तस्मिन्निति वाच्यम् ; जाड्याभावरूपस्य चित्त्वस्य सत्त्वात्। अत एव सत्यज्ञानादिशब्दानां ब्रह्मणि लक्षणा स्वीकृता। अनृतत्वाभावजाड्याभावादिरूपप्रवृत्तिनिमित्तभेदेन ब्रह्मणि प्रयुक्ताः सत्यज्ञानादिशब्दाः केवलं चैतन्यं लक्षणया बोधयन्तीति। तस्माच्चिद्रूपं जाड्याभावरूपं वा चिन्मात्रत्वं न धर्म इति न चिन्मात्रत्वेन ब्रह्मणः सविशेषत्वप्रसङ्ग इति सिद्धं निर्विशेषं ब्रह्मेति। तथा अनुभूतिशब्दबोध्याया अनुभूतेः कथमवेद्यत्वम्? इत्यपि न युक्तः प्रश्नः, अनुभूतेर्वेद्यत्वे सति तदनुभूतिकर्मकस्य तद्वेदितृकर्तृकस्यानुभवस्य पुनर्वेद्यत्वं स्यादित्येवमनुभवपरम्परा प्रसज्यते, ज्ञानस्य च ज्ञेयत्वं विरुद्धम्। ज्ञानं हि विषयि, ज्ञेयं तु विषय इति भेदात्। न च ज्ञातुरात्मनो ज्ञानत्वमयुक्तमिति वाच्यम् ; अनुभवस्य वेद्यत्वाभावे सति स एव सर्ववेत्तेत्यनुभवस्यैव ज्ञातृत्वोपचारात्। सर्वमप्यनुभवे विषयीभवतीति युक्तमनुभवस्य विषयिण आत्मत्वम्। न चैवमनुभवशब्दवेद्येऽनुभवे कथमवेद्यत्वमिति वाच्यम् ; अनुभवशब्दो हि जडो नात्मानमनुभवं वेदितुमर्हति। न चावेद्यं वस्तु इदम् अनुभव इति वेदितुं कथं शक्यत इति वाच्यम् ; वेदनमात्रे वेद्यत्वस्योपचारात्। न चावेद्यवस्तुनः कथं सत्तानिश्चय इति वाच्यम् ; स्वप्रकाशत्वात्। न हि स्वप्रकाशे स्वात्मवस्तुनि सत्तासंशय उपपद्यते। न चावेद्यं वस्त्वनुभवशब्देन कथं बोधयितुं शक्यमिति वाच्यम् ; सर्वं वेत्त्यनुभवः, न केनापि वेद्यत इति वक्तुं कः पुनस्तव वाग्बन्धः? तथा ब्रह्म न शब्दप्रतिपाद्यमित्यपि न विरुद्धम्। न च ब्रह्मशब्देन स्वयं प्रतिपादयन्नपि ब्रह्म कथं शब्दप्रतिपाद्यं नेति ब्रूषे इति वाच्यम् ; ब्रह्म ब्रह्मशब्दलक्ष्यं वस्तु शब्दैः सत्यब्रह्मादिशब्दैरभिधया न प्रतिपाद्यत इति तदर्थात्। ततश्च ब्रह्मादिशब्दानां लक्षणया तत्र प्रवृत्तिरिति। भाष्यार्कप्रकाशः अ. १३. श्लो. २ ] १.अन्यस्य ‘यश्चोभयोः समो दोषः’ इति न्यायविषयत्वादिति भावः। २.निर्विकल्पकज्ञानस्य प्रकारतादिविषयताविशेषशून्यत्वम्। ब्रह्मणस्तु सर्वविशेषशून्यत्वम्।

[[६३८]]

ननु किं तत् , यत्र ब्रह्मादिशब्दानां लक्षणया प्रवृत्तिरिति चेद्? उच्यते—चैतन्यमिति। न च चैतन्यशब्दवाच्यत्वं कथं वा तस्येति वाच्यम् ; ब्रह्मणः सुतरामपि शब्दाविषयत्वेऽव्यवहार्यत्वप्रसङ्गात् ‘शास्त्रयोनित्वादि’ति सूत्रविरोधात्। शास्त्रैकवेद्यत्वं हि ब्रह्मणस्तेनोच्यते। शास्त्रं हि शब्दात्मकम्। ‘वेदैश्च सर्वैरहमेव वेद्यः’ इति वक्ष्यमाणगीताविरोधश्च। शब्दविषयत्वे च ‘यद्वाचा ऽनभ्युदितं येन वागभ्युद्यते’ ‘यन्मनसा न मनुते येनाहुर्मनो मतम्’ ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ ‘ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः। कथं चरन्ति श्रुतयः साक्षात् सदसतः परे॥’ इति, ‘अव्यक्तोऽक्षरः’ इत्यादि श्रुतिस्मृतिपुराणविरोधः। तस्मात् परमार्थत एव शब्दाविषयं ब्रह्म। १तथा शब्दादीनामेवाभावात् कथं पुनस्तद्वेद्यत्वं ब्रह्मणः प्रसज्येत? व्यवहारतस्तु शब्दविषयमेव, शास्त्रयोनित्वाद् ब्रह्मणः। अविद्यया कल्पितं हि ब्रह्मणि शास्त्रं यथा तथा शास्त्रवेद्यत्वमपि कल्पितम्। अत एव ब्रह्मणो ज्ञेयत्वमुपचारादित्युक्तम्। तस्माद् व्यवहारदशायां शब्दप्रतिपाद्यमेव ब्रह्म। अथवा शब्दैर्ब्रह्म इदमीदृशमिति प्रतिपादयितुं न शक्यते, निर्विशेषत्वादित्यभिप्रायेण ब्रह्म न शब्दप्रतिपाद्यमित्युक्तं, न तु ब्रह्मादिशब्दाविषयत्वादिति सङ्क्षेपः। २वस्तुतस्तु श्रुतिस्मृत्यादिविरोधाः अशनय इव पतन्ति परेषामेव शिरस्सु। तथाहि ‘ऐतदात्म्यमिदं सर्वं, स आत्मा, तत्त्व- मसि’ ‘नान्योऽतोऽस्ति द्रष्टा’ ‘अयमात्मा ब्रह्म’ ‘प्रज्ञानं ब्रह्म’ ‘सच्चिदानन्दं ब्रह्म’ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ ‘निष्कलं निष्क्रियं शान्तं’ ‘साक्षी चेता केवलो निर्गुणश्च’ ‘एकमेवाद्वितीयं ब्रह्म’ ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ ‘य उदरमन्तरं कुरुते अथ तस्य भयं भवति’ ‘द्वितीयाद्वै भयं भवति’ ‘अशब्दमस्पर्शमरूपमव्ययम्’ ‘अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः’ ‘असङ्गो ह्ययं पुरुषः’ ‘यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद् विजानाति स भूमा, यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्’ ‘नेह नानास्ति किञ्चन’ ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वात्मैवाभूत्तत्केन कं पश्येत्’ ‘सदेव सोम्येदमग्र आसीत्’ ‘ब्रह्मैवेदममृतं पुरस्तात्’ ‘यत्तदद्रेश्यमग्राह्यम्’ ‘यद्वाचाऽनभ्युदितं येन वागभ्युद्यते। तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥’ ‘अविज्ञातं विजानतां विज्ञातमविजानताम्’ इत्यादिश्रुतयः, ‘अहमात्मा गुडाकेश सर्वभूताशयस्थितः’ ‘सर्वभूत- स्थमात्मानं सर्वभूतानि चात्मनि’ ‘क्षेत्रज्ञं चापि मां विद्धि’ ‘ज्ञानी त्वात्मैव मे मतम्’ ‘वासुदेवः सर्वमिति’ ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्’ ‘अव्यक्तोऽयमचिन्योऽयमविकार्योऽयमुच्यते’ ‘भूतभृन्न च भूतस्थो भूता[ममा]त्मा भूतभावनः’ ‘सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः’ ‘अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते॥’ ‘भगवानेक एवैष सर्वक्षेत्रेष्ववस्थितः’ ‘अहमेवासमेकोऽग्रे नान्यद् यत्सदसत्परम्’ ‘ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः। लीलया वापि युज्येरन् निर्गुणस्य गुणाः क्रियाः॥’ ‘सेयं भगवतो माया यन्नयेन विरुध्यते। ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम्॥’ ‘यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः। दृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः॥’ ‘देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः। अविलुप्ताव- बोधात्मा स युज्येताजया कथम्॥’ इति स्मृत्यादयश्च परमेश्वरं प्रकृत्यादिसङ्गरहितं ब्रुवन्तीति चिदचिद्विशिष्टेश्वरवादविरोधः। गुण- क्रियादिरहितं ब्रुवन्तीति सगुणक्रियेश्वरवादविरोधः। जीवेश्वराभेदं ब्रुवन्तीति तद्भेदवादविरोधः। एकमात्मानं ब्रुवन्तीति नानात्मवाद- विरोधः। अद्वितीयं ब्रह्म ब्रुवन्तीति प्रकृतिपुरुषेश्वरत्रयनित्यत्ववादविरोधः। ब्रह्म सत्यं जगन्मिथ्येति ब्रुवन्तीति जगत्सत्यत्ववाद- विरोधः। चिद्रूपमेवेश्वरं ब्रुवन्तीति चिद्विशिष्टेश्वरवादविरोधः। ज्ञानानन्दस्वरूपमेवात्मानं ब्रुवन्तीति ज्ञानानन्दगुणकेश्वरवादविरोधः। कालत्रयेऽपीशितव्याभावं ब्रुवन्तीतीश्वरेशितृत्ववादविरोधः। ब्रह्मणोऽज्ञेयत्वं ब्रुवन्तीति ज्ञेयत्ववादविरोधः। ईश्वरस्यैवाज्ञानेन संसारित्वं ब्रुवन्तीति बद्धमुक्तजीवद्वयाभ्युपगमविरोधः। एवमादयः शतशः सहस्रशो वा सन्तीत्यलम्। न्यायविरोधस्तु अद्वितीयादिशब्दानां स्वसमानद्वितीयवस्तुरहितत्वाद्यपार्थकल्पनादिभिः स्फुट एव। स्ववचनविरोधस्तु— एकमेवाद्वितीयमसङ्गं च ब्रह्म प्रकृतिपुरुषविशिष्टम् , ज्ञानगुणक ईश्वरो ज्ञानस्वरूपः, आनन्दगुणक ईश्वर आनन्दस्वरूपः, अविक्रिय ईश्वरो जगद्रूपेण परिणतः, जीवरूप ईश्वरो जीवान्तरः, द्रष्टेश्वरो भक्तदृग्गोचरः, अनित्यं जगत् सत्यं, नित्यो जीवः संसारी, १. तथा परमार्थत इत्यर्थः। २. तदुक्तान् सर्वान् विरोधान् तन्मते पातयति—वस्तुतस्त्विति। भाष्यार्कप्रकाशः

[[६३९]]

सच्चिदानन्दाद् भिन्न ईश्वरः सच्चिदानन्दः, चिद्रूपो जीवश्चिद्रूपेश्वरस्य शरीरम् , अज्ञो जीवो ज्ञानरूपः, अणुर्जीवः सर्वगतः, परिच्छिन्नो जीवो नित्यः— एवमादिः। एवं विरुद्धत्वादुपेक्ष्यं परेषां मतम्। ननु श्रुत्याद्यविरुद्धमेवास्माकं दर्शनम् , तथाहि ‘अस्मान्मायी सृजते विश्वमेतदस्मिंश्चान्यो मायया सन्निरुद्धः’ ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ ‘क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः’ ‘प्रधानक्षेत्रज्ञपतिर्गुणेशः’ ‘पतिं विश्व- स्यात्मेश्वरं शाश्वतं शिवमच्युतम्’ ‘ज्ञाज्ञौ द्वावजावीशनीशौ’ ‘नित्यो नित्यानां चेतनश्चेतनानाम्’ ‘भोक्ता भोग्यं प्रेरितारं च मत्वा’ ‘पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति’ ‘तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ ‘अजामेकां लोहित- शुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम्’ ‘अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ ‘गौरनाद्यन्तवती सा जनित्री भूतभाविनी’ ‘समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः’ ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरम्’ ‘योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद’ ‘एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः’ ‘अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा’ ‘तदैक्षत बहु स्यां प्रजायेय’ ‘तत्तेजोऽसृजत’ ‘सोऽकामयत’ ‘स तपोऽतप्यत’ ‘तत्सृष्ट्वा तदेवानुप्राविशत् , तदनुप्रविश्य सच्च त्यच्चाभवत्’ इत्याद्याः श्रुतयः, ‘प्रकृतिं विद्धि मे परां जीवभूताम्’ ’सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्’ ‘मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम्’ ‘प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’ ‘मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम्’ इति स्मृतयः जीवेश्वरभेदादौ प्रमाणमिति चेत् , मैवम् ; श्रुतीनां स्मृतीनां च त्वया कल्पितत्वाद् विरुद्धार्थस्य। तथाहि ‘अस्मान्मायी सृजते’ इति श्रुतेः मायी ईश्वरो जगत् सृजति, अन्यो जीवस्तु मायया जगति निरुद्ध इति हि त्वयोच्यते, ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणी’ति श्रुत्यन्तरात् , ‘ममैवांशो जीवलोके जीवभूतः सनातनः’ इति स्मृतेश्च ईश्वरांशो जीव इति तावदविरुद्धम्। ईश्वरस्य जगत्स्रष्टृत्वे तदंशस्य तत्र सन्निरोध इति तु विरुद्धम्। न ह्यंशिन ईश्वरादन्यो भवितुमर्हत्यंशो जीवः। एवं सर्वांशसमष्टेरेवांशीश्वरत्वेन सर्वजीवसंसारोऽपीश्वरस्य प्राप्तः। न चांशादन्य एव अंशीति वाच्यम् ; क्वापि अंशिनोऽन्यस्यांशस्यादर्शनात्। न चैवमीश्वरादनन्य एव जीवः, किन्तु जीवादेवेश्वरोऽन्य इति वाच्यम् ; तथा सति ईश्वरादनन्यत्वेन जीवस्याप्यसंसारित्वसर्वज्ञत्वादिप्रसङ्गात्। किञ्च चिदचिद्विशिष्टेश्वरस्यांशो ऽपि चिदचिद्विशिष्ट एव भवितुमर्हति। न चेष्टापत्तिः, चिदेव जीव इति तवाभ्युपगमात्। न च चिदचिद्विशिष्टेश्वरस्य यश्चिदंशः स जीव इति वाच्यम् ; तथा सति अचितोऽपीश्वरांशा[शत्वा]पत्तेः। ईश्वरात् सकाशाच्चितोऽचितश्च पृथक्करणे ईश्वरस्यैवासिद्धेः। न च चिदचिदीश्वरनामकं पदार्थत्रयमस्तीति वाच्यम् ; तर्हीश्वरांशो जीवो नैव भवेत् , चिदचिद्विलक्षणत्वादीश्वरस्य। अपिच किमीश्वरः चिद्रूपः? यद्वा अचिद्रूपः? अथवा चिदचिद्रूपः? अथवा चिदचिदनिर्वाच्यः? नाद्यः, जीवत्वापत्तेः। न द्वितीयः, जडत्वापत्तेः। न तृतीयः, एकस्योभयरूपत्वायोगात्१। न चतुर्थः, मिथ्यात्वापत्तेः। चित्त्वेनाचित्त्वेन वा अनिर्वाच्यं वस्तु हि मिथ्याभूतमेव। अथवा शशशृङ्गादिवदसदेव। तादृशवस्तुनोऽसम्भवात्। ‘सच्चिदानन्दं ब्रह्मे’त्यादिश्रुतिविरोधाच्चेश्वरस्य चिदचिद्विलक्ष- णत्वासिद्धिः। न चेश्वरस्य ज्ञातृत्वाच्चितो ज्ञानत्वाच्च न चिद्रूप ईश्वरः, किन्तु चिद्युक्त इति वाच्यम् ; तर्हि जीवस्यापि चिद्युक्तत्वमेव स्याज्ज्ञातृत्वात्। न चेष्टापत्तिः, जीवेश्वरवैलक्षण्यासिद्धेः। तस्मादीश्वरांशस्य जीवस्येश्वरादन्यत्वमसिद्धम्। न हि महाकाशांशस्य घटा- काशस्य महाकाशादन्यत्वम्। तथा च ईश्वरादन्यो जीवः कथं मायया सन्निरुध्येत? ईश्वरवत् तदंशोऽपि जीवो ह्यसंसारी भवितुमर्हति। महाकाशवत् तदंशो घटाकाशो निर्लेपो न दृश्यते किम्? न चैवं कथं श्रुतेरर्थवत्त्वमिति वाच्यम् ; मायया जीव ईश्वरादन्य इव सन्निरुद्ध इव च प्रतीयते, न तु वस्तुत इति तदर्थात्। एतेन ब्रह्मण एव जीवत्वमज्ञानादिति प्रलापो निर्मूलित इति वेदान्तदेशिकप्रलापो निर्मूलितः। अज्ञानाद् गगनस्य नैल्यमिव, रज्जोः सर्पत्वमिव, स्वपतो देशान्तरगन्तृत्वमिव, ब्रह्मणो जीवत्वमुपपद्यत इति ‘मायायां सर्वसम्भवादि’ति न्यायात्। न चेश्वरे कथमज्ञानमिति वाच्यम् ; एवंविधजीवत्वादिभ्रमजननशक्तेरेवाज्ञानत्वात्। एवं शक्तिमत्त्वादेव मायीत्युच्यत ईश्वरः। भाष्यार्कप्रकाशः अ. १३. श्लो. २ ] १. एकत्र चित्त्वाचित्त्वयोः विरुद्धत्वादिति भावः।

[[६४०]]

ननु कस्य भ्रमः इति चेद्? यस्यास्ति तस्यैव। ममैवास्तीति चेत् , तर्हि तवैवास्तु। कथमीश्वरांशस्य मम जीवस्य भ्रमः इति चेत्? स्वस्येश्वरांशत्वापरिज्ञानादेव। ननु जीवत्वभ्रमादीश्वरांशत्वापरिज्ञानम् , तदपरिज्ञानाज्जीवत्वभ्रम इत्यन्योन्याश्रयः इति चेत् , मैवम् ; अनादित्वात्। ननु माया नाम प्रकृतिरेव, नार्थान्तरमिति चेत् , सैव प्रकृतिरज्ञानम् , अज्ञानस्यैव जगदुपादानत्वात्। ननु क्षरं प्रधानम् , अक्षरः पुरुषः, तयोः पतिरीश्वर इति ‘क्षरं प्रधानम्’ इति श्रुत्योच्यत इति परस्परविलक्षणं त्रयमिति चेत् , मैवम् ; भोक्तुर्विकारिणो जीवस्याक्षरत्वायोगात्। भोक्ता हि भोगसिद्ध्यसिद्धिनाशादिना विक्रियते। ‘कूटस्थोऽक्षर उच्यते’ इत्यविक्रियो ह्यक्षरः। सविक्रियो नश्यति, घटादेः सविकारस्य नाशदर्शनाद्, अक्षरस्त्वविनाशीति कथं भोक्तुरक्षरत्वम्? प्रकृतिपुरुषयोर्नित्यत्वेन प्रधानस्य कथं वा क्षरत्वम्? क्षरति नश्यतीति हि क्षरम्। तस्मात् प्रधानपरिणामभूतं देहादिकं क्षरम् , ‘क्षरः सर्वाणि भूतानी’ति स्मरणात् ; सर्वेषां भूतानां प्रधाने लयदर्शनात् प्रधानमक्षरम् ; क्षेत्रज्ञ ईश्वरस्तु ‘एको देवः’ इति बोध्यम्। यद्वा ज्ञाननाश्यत्वात् प्रकृतिः क्षरं, हरः परमात्मा अक्षरं, क्षरात्मानावित्यत्रात्मशब्दस्तु प्रकृतिवाची, क्षरशब्दो भूतवाची। न च प्रकृतावात्मशब्दप्रयोगे विवदितव्यम् , स्वभावे आत्मशब्दप्रयोगात्। स्वभावस्यैव प्रकृतित्वाच्च। ईश्वरस्यैव स्वभावो हि प्रकृतिः। न च ‘प्रधानक्षेत्रज्ञपति’रिति श्रुत्यन्तरात् क्षरात्मानौ प्रधानक्षेत्रज्ञावेव, ईश्वरस्यैव तत्पतित्वमिति वाच्यम् ; प्रधानक्षेत्रज्ञ- पतिरिति श्रुतौ प्रधानशब्दः प्रकृतिवाची, क्षेत्रज्ञशब्दस्तु भूत(शब्द)वाचीत्यभ्युपगमात्। सचेतनानि हि भूतानि क्षेत्रं जानन्ति आत्मचैतन्यप्रतिफलनवशात्। न च ‘एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ’ इति गीताविरोधः, यस्य ज्ञातृत्वमेकमेवास्ति, न ज्ञेयत्वं स एव क्षेत्रज्ञ इति वादात्। ब्रह्मादिभूतानि तु घटादिकं जानन्त्यपि ज्ञायन्त एवात्मना साक्षिणेति न मुख्यं ज्ञातृत्वं तेषाम्। यद्वा यः स्वयमेव जानाति स क्षेत्रज्ञः। भूतानि तु न स्वतो ज्ञातुं क्षमन्ते , जडत्वात्। किन्तु आत्मप्रतिफलनवशादेवेति न क्षेत्रज्ञत्वं भूतानाम्। तस्माच्छ्रुतौ क्षेत्रज्ञशब्दो भूतपर एव। कूटस्थ आत्मा क्षेत्रज्ञस्तु गुणेशत्वान्निर्गुणश्च। न हि गुणानामीशो गुणवान् भवेत्। एवं निर्गुणत्वादेवाविक्रियः क्षेत्रज्ञ आत्मा। ननु गुणेशः ईश्वर एव, न त्वात्मा, ‘आत्मेश्वरम्’ इति श्रुत्यन्तरादिति चेत् , मैवम् ; आत्मनः प्रकृतेरीश्वर आत्मेश्वर इति तदर्थात्। आत्मा चेश्वरश्चात्मेश्वर इति वा। कथमन्यथा ‘अहमात्मा गुडाकेश’ इति स्मरणादात्मन एव सत ईश्वरस्य भवेदात्मेश्वरत्व- मुपपन्नम्। ननु जीव आत्मा, ईश्वरस्तु परमात्मा। अज्ञो जीवः, प्राज्ञ ईश्वरः। परतन्त्रो जीवः, स्वतन्त्र ईश्वरः। तथा च श्रुतिः ‘ज्ञाज्ञौ द्वावजावीशानीशाविति’ इति चेत् , मैवम् ; यः प्रकृतिविविक्तमात्मानं वेत्ति स विद्वानात्मज्ञः, यस्तं न जानाति सोऽज्ञः। आत्मविद एवात्मत्वात् स ईशः, अनात्मविदस्तु संसारित्वात् सोऽनीशः। उभावप्यजावेव, अनात्मविदः प्रमातुरपि वस्तुत आत्मत्वात्। अनात्मतादात्म्याध्यासतदभावप्रयुक्तभेदेन तु द्वावित्युक्तं न त्वात्मभेदात्। नन्वात्मभेदोऽस्त्येव, ‘नित्यो नित्यानाम्’ इति श्रुतेः। तथा जीवेश्वरभेदोऽप्यस्ति, ‘एको बहूनां यो विदधाति कामा’निति तत्रैव दर्शनादिति चेत् , मैवम् ; कार्यकरणसङ्घाताभिमानिनां ब्रह्मादिस्तम्बपर्यन्तानां प्रमातॄणां वस्तुत आत्मत्वेन नित्यत्वान्नित्यानामित्युक्तं, व्यवहारतो बहुत्वाद् बहूनामित्युक्तम्। तेषां हि कामप्रदः क्षेत्रज्ञ ईश्वर आत्मैक एव। यद्वा कामप्रद ईश्वरोऽप्यत्र प्रमातैव, तस्य चात्मत्वेन नित्यत्वम् , व्यवहारतो हि जीववदीश्वरः प्रमाता, परमार्थतस्त्वीश्वरवज्जीव आत्मेति सिद्धान्तात्। ननु जीवो भोक्ता, प्रधानं भोग्यम् , ईश्वरः प्रेरिता, पृथगीश्वरज्ञानादेव मुक्तिरिति ‘भोक्ता भोग्यं प्रेरितारं चे’त्यादिश्रुतिसिद्धमिति चेत् , मैवम् ; अन्तःकरणतादात्म्याध्यासापन्नस्य प्रमातुर्भोक्तृत्वाद्, आत्मन एवायस्कान्तशिलालोहन्यायेनाविक्रियस्यैव प्रेरकत्वात्। भिन्नात्मज्ञानस्य भयादिहेतुत्वस्य१ श्रुतिसिद्धत्वेन भिन्नात्मज्ञानं मोक्षहेतुरित्यर्थवर्णनस्यायुक्तत्वात्। स्वस्माद् भिन्नमीश्वरं सर्वेऽपि मूर्खाः परोक्षत्वेन जानन्तीति तेषामपि तेन मोक्षप्रसङ्गात्। अपरोक्षत्वेन ज्ञानं तु न सम्भवति, द्रष्टुरीश्वरस्य जीवदृश्यत्वासम्भवात्। अपरोक्षेण परमात्मदर्शने सत्यपि राजदर्शनेन प्राकृतस्येव न दुःखनिवृत्तिः, किन्तु तापातिशय एव, स्वस्मादुत्कृष्टदर्शनस्य तापहेतुत्वात्। न भाष्यार्कप्रकाशः १. ‘उदरमन्तरं कुरुते। अथ तस्य भयं भवति’ इत्यादिश्रुतिः ज्ञेया।

[[६४१]]

ह्यसंसारीश्वरदर्शनेन जीवस्य स्यात् संसारनिवृत्तिः। न चार्थिना दृष्टो याचितश्च राजा यथा तस्य धनादिकं ददाति, तथा जीवेन दृष्टः सेवितो याचितश्चेश्वरस्तस्य मोक्षं दिशतीति वाच्यम् ; मोक्षस्य देयत्वेन साध्यत्वेऽनित्यत्वप्रसङ्गात्। अविक्रियस्य चेश्वरस्य दातृत्वा- योगात्। दातृत्वं हि विकारः। ननु साक्षिण ईश्वराद् भिन्न एव भोक्ता जीवः, ‘तयोरन्यः’ इति श्रुतेरिति चेत् , मैवम् ; त्वया जीवत्वेनाभिमतस्य प्रमातुरेव भोक्तृत्वं, न त्वात्मनः। आत्मा हि साक्षी। स एवेह अन्यस्त्वनश्नन्नभिचाकशीतीत्युच्यते। असावेवात्मा प्रमातुः स्वरूपमिति वस्तुत आत्मभूत एव प्रमाता। कथमन्यथा साक्षिणा अनुभूतानां स्वापाज्ञानानन्दानां प्रमात्रा स्मर्यमाणत्वम्— ‘सुखमहमस्वाप्सं न किञ्चिदवेदिष’मिति। ननु न क्षेत्रज्ञ आत्मा साक्षी, सुषुप्तिमूर्छाप्रलयेषु तस्यात्यन्तमज्ञत्वेन साक्षित्वासम्भवादिति चेत् , मैवम् ; अनुभवपूर्वकत्वेन स्मरणस्य दर्शितस्मरणेनानुभवस्य कल्प्यमानत्वात्। न च भ्रान्तिसिद्धमेव तज्ज्ञानं ‘सुखमहमस्वाप्स’मितीति वाच्यम् ; सुषुप्तौ तवाज्ञत्वं किं त्वया वेद्यते? उतान्येन? न त्वया, तव ज्ञानाभावात्। नान्येन, अन्यस्याभावात्। ‘यत्र सर्वमात्मैवाभूत् तत् केन कं पश्येदि’ति श्रुत्या सुषुप्त्यादिषु सर्वद्वैताभावो हि प्रोच्यते। न चेश्वरेण वेद्यत इति वाच्यम् ; कथं तत् त्वया ज्ञातुं शक्यते? तस्माद् असाक्षिकमिदमज्ञत्वमसिद्धमेव, शशशृङ्गादिवत्। तथा सुषुप्तिरप्यसिद्धैव स्यात् , तस्या अपि साक्षिणोऽभावात्। तवासाक्षित्वाच्च। किञ्च सुषुप्तादुत्थितो भवान् केनचिदसुप्तेन - ‘किं त्वयैतावन्तं कालमनुभूत’मिति पृष्टः किमुत्तरं ब्रूते? ‘न किञ्चिदपि’ इति ब्रूषे त्वम्। तच्चोत्तरमयुक्तं स्यात् , यत्किञ्चिज्ज्ञानं मम नास्तीत्याकारकज्ञानस्याप्यज्ञस्य तवायोगात्। तस्मात् स्वापादिषु तवाज्ञानाद्यनुभवो ऽस्त्येवेति साक्ष्येवात्मा। साक्षिरूपेणानुभूतस्याज्ञानादेस्तव साक्षिणोऽन्यस्य प्रमातुः स्मरणायोगात् प्रमाता साक्षिणो नात्यन्तं भिन्नः, नाप्यभिन्नः, प्रमातृसाक्षिणोः संसारतदभावप्रयुक्तभेददर्शनात्। एवं साक्षिणः सकाशाद् भिन्नत्वेनाभिन्नत्वेन वा प्रमातुर्दुर्वचत्वाद् मिथ्यात्वमेव। अज्ञानेन तु साक्षिण्यात्मनि कल्पितं प्रमातृत्वम्। अत एव अज्ञानी संसरति, ज्ञानी तु नेतीममर्थमाह श्रुतिः— ‘अजामेकाम्’ इति। न च जीवः प्रकृतिं जुषमाणः संसरति, ईश्वरस्तु भुक्तभोगां तां जहातीति श्रुत्यर्थ इति वाच्यम् ; ईश्वरस्य नित्यमुक्तत्वेन पूर्वं प्रकृतिभोगात् संसार इति वक्तुमयुक्तत्वात्। प्रकृतिभोगाभावे भुक्तभोगामिति वचनविरोधात्। प्रकृतिं भुञ्जानस्य बद्धस्येश्वरस्य मोचकान्तराभावेन मुक्त्यभावप्रसङ्गात्। न च जीवैर्भुक्तभोगामिति वाच्यम् ; भुक्तेति भूतार्थक्तप्रत्ययश्रवणात्। जीवा इदानीमपि प्रकृतिं भुञ्जते हि। तस्माद् विद्वदविद्वत्परैवेयं श्रुतिः। विद्वान् हि विद्योदयात् प्राक् प्रकृतिं भुक्त्वा विद्योदयानन्तरं जहातीति। न चैकस्यैवात्मनः कथं विद्वदविद्वद्भेद इति वाच्यम् ; प्रमातृभेदप्रयुक्तत्वात् तद्व्यवहारस्य। अथवा उपाधिभेदादिति। ननु विदुषाऽपि कथं प्रकृतिस्त्यक्तुं शक्यते? अन्ताभावात्। तथा च श्रुतिः ‘गौरनाद्यन्तवती’ इति चेत् , मैवम् ; यावद्व्यवहारं यावद्विद्योदयं वा तस्या अन्ताभावस्य विवक्षितत्वात्। ‘ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः’ इत्यज्ञानस्य ज्ञाननाश्यत्वस्मरणात्। ज्ञानाज्ञानविरोधस्य सम्मतत्वाच्च। न च ज्ञानाभाव एवाज्ञानमिति वाच्यम् ; अहं ज्ञानाभाववानिति प्रतीत्यभावात्। ज्ञानाभावस्याभाव- रूपत्वेन ज्ञानावरणताऽयोगात्। न च तेजोऽभावरूपस्य तमस इवावरणत्वं सम्भवतीति वाच्यम् ; तमसोऽपि भावरूपत्वाभ्युपगमात्। तमो द्रव्यम् , आवरकत्वात् , कुड्यादिवदित्यनुमानात्। अन्धकारस्य चक्षुर्ग्राह्यत्वाच्च घटवत्। न च घटाभावोऽपि चक्षुर्ग्राह्य एवेति वाच्यम् ; घटाभावाधिकरणस्य भूतलस्यैव चक्षुर्ग्राह्यत्वात्। तस्मात् तमोवदज्ञानं भावरूपमेव। अत एव ‘अज्ञानेनावृतं ज्ञानम्’ इत्यादि सङ्गच्छते। ननु ‘अजो ह्येकः’ इति श्रुतेर्विद्वदविद्वद्विषयत्वस्य वक्तुं शक्यत्वेऽपि, ‘समाने वृक्षे’ इति श्रुतेः तत्त्वं वक्तुमशक्यम् , समान इति दर्शनात्। समानो हि वृक्ष एकं शरीरम्। तत्र निमग्नः पुरुषो जीवो मुह्यमानोऽसामर्थ्याच्छोचति। ईश्वरं तन्महिमानं च यदा पश्यति तदा जीवो वीतशोको भवतीति श्रुत्यर्थात्। अतो जीवेश्वरौ भिन्नावेवेति चेत् , मैवम् ; प्रमातृसाक्षिपरत्वादेतच्छ्रुतेः। प्रमाता हि शरीरतादात्म्याध्यासं प्रपद्य शरीरे निमग्नः, साक्षी तु तदभावादनिमग्नः। सुषुप्तौ साक्षिणो न हि शरीरतादात्म्याध्यासो दृश्यते, भाष्यार्कप्रकाशः

[[अ. १३. श्लो. २]] [[६४२]]

तद्वज्जागरस्वप्नयोरपीति मन्तव्यम्। अविकारित्वेन ज्ञातृत्वस्यैव साक्षिलक्षणत्वात्। जागरादावपि वृत्त्यभावदशायां साक्षिस्वरूपं बोद्धुं शक्यमेवासंसारित्वरूपम्। अयं च साक्षी प्रमातुरात्मैव। ततश्च यदा प्रमाता अहं ब्रह्मास्मीति विद्याबलादात्मानं साक्षिणं स्वयम्प्रकाशत्वादिरूपं तन्महिमानं च पश्यति, तदा नाहं संसारी मम साक्षित्वादिति निश्चित्य वीतशोको भवति। न तु स्वान्येश्वर- ज्ञानात् स्वस्य संसारनिवृत्तिः, रङ्गनायकाद्यर्चादर्शनेन संसारनिवृत्त्यदर्शनात्। तव मते अर्चाः अपीश्वरस्वरूपभूता हि। तस्मान्नेयं श्रुतिर्जीवेश्वरभेदं साधयितुं क्षमते। नन्वेवं ‘य आत्मनि तिष्ठन्नि’त्यन्तर्यामिब्राह्मणं भेदं साधयतीति चेत्? मैवमपि; आत्मशब्दस्य तत्र बुद्ध्याद्यन्यार्थत्वात्१। न च साक्षिपर एवेति वाच्यम् ; साक्षिण एव सर्वान्तरत्वेन सर्वात्मभूतत्वात् साक्षिण आन्तरस्यान्यस्य साक्षिणोऽदर्शनात्। तत्कल्पने तस्या- प्यन्यः साक्षी, तस्याप्यन्यः साक्षी कल्प्येतेत्यनवस्थादोषात्। ‘नान्योऽतोऽस्ति द्रष्टा’ इति श्रुत्या साक्ष्यन्तरनिषेधात्। ‘साक्षी चेता’ इति श्रुत्या ईश्वरस्यैव साक्षित्ववचनान्न साक्षिणः पर ईश्वरः, किन्तु साक्षी क्षेत्रज्ञ एवेश्वरः। न चेश्वर एव साक्षी, न तु क्षेत्रज्ञ इति वाच्यम् ; असाक्षिणः क्षेत्रज्ञत्वायोगात्। न हि स्वविकारं स्वयं पश्येत्। अतः प्रमातुर्विकारिणः स्वविकारदर्शनासम्भवात् प्रमातृविकाराभिज्ञः प्रमातुरन्य एव क्षेत्रज्ञः साक्षीति। ननु जीवसाक्षिणः परिच्छिन्नस्याक्षरादिसर्वान्तरात्मत्वं न सम्भवति। तस्मात् सर्वभूतान्तरात्मा नारायण एव, न तु साक्षी क्षेत्रज्ञ इति चेत् , मैवमपि; ‘चेतनाचेतनभिदा कूटस्थात्मकृता न हि। किन्तु बुद्धिकृताभासकृतैवेत्यवगम्यताम्॥’ इति वचनाद् अचेतनेष्वपि साक्ष्यस्त्येव, प्रमाता तु नास्ति। तथा च प्रमातैव परिच्छिन्नः, साक्षी तु पूर्ण एव। अत एवायमेकः, साक्षिभेदे मानाभावात्। ज्ञातृत्वादेव देवः स्वयम्प्रकाशः सर्वप्रमात्रन्तर्यामित्वान्नारायणश्च। देहेषु मृतेष्वपि प्रमातारो न रीयन्ते न क्षीयन्त इति नराः सर्वभूतानि, तेषां समूहो नारम् , तदयनं स्थानं यस्य स नारायण इति व्युत्पत्तेः। एवं सर्वत्रावस्थितस्यापि साक्षिणः सर्वेण सह सङ्गाभावादाकाशवदपहतपाप्मत्वम्। पाप्मशब्दः सर्वविकारोपलक्षकः, विकाराणां दोषत्वात् पाप्मत्वमिति। नन्वेवं साक्षिणः सर्वशासनं न घटते, ईश्वरधर्मत्वाच्छासनस्य; साक्षिणश्चाविक्रियत्वादिति चेत् , समानोऽयं दोषस्तवापि। ‘साक्षी चेता’ इति श्रुतिप्रामाण्यादीश्वरस्य साक्षित्वं त्वयाऽभ्युपगतमेवेति कथमीश्वरस्यापि साक्षिणः शासनासम्भव इति। तर्हि कथं श्रुत्युपपत्तिरिति यदि ब्रूयादस्मदीयः, तर्हि ब्रूमः— अयस्कान्तशिलालोहन्यायेनाविक्रियस्यैव साक्षिणः शास्तृत्वोपपत्तिरिति। गमनादिविक्रियारहितैव ह्ययस्कान्तशिला लोहमाकर्षति। तस्मात् ‘अन्तःप्रविष्टः शास्ता जनानाम्’ इति श्रुतिरपि साक्षिपरैव। तस्यैव सर्वात्मत्वात्। सर्वेषां प्रमातॄणां जनानामात्मा हि सः। एवं शास्तृत्वादेव साक्षिण ईश्वरशब्दवाच्यत्वमपि सङ्गच्छते। नन्वस्य साक्षिणः स्रष्टृत्वं नोपपद्यते, स्रष्टृत्वस्य सङ्कल्पपूर्वकत्वात् , सङ्कल्पस्य मनोधर्मत्वात् , साक्षिणो मनोऽभावादिति चेत् , समानोऽयं दोषस्तवापि। न हीश्वरस्य मनोऽस्ति, महाभूतसत्त्वांशप्रकृतिकस्य मनसः कथं महाभूतसृष्टेः प्राक्सत्त्वं स्यात्? न चेश्वरस्य मायया सङ्कल्पोपपत्तिरिति वाच्यम् ; तयैव साक्षिणोऽपि तदुपपत्तेः। न च कथं ज्ञानस्वरूपस्य साक्षिणोऽज्ञानसम्बन्ध इति वाच्यम् ; यथा तवेश्वरस्य सर्वज्ञस्याज्ञानसम्बन्धः, तथैवेति। साक्षिस्वरूपभूतज्ञानस्याज्ञानाविरोधित्वात् प्रत्युताज्ञानस्यापि भासकत्वात् साक्षिणोऽप्यज्ञानसम्बन्ध इत्यस्मदीयान् प्रत्युत्तरम्। स च साक्ष्यज्ञानयोः सम्बन्धः जगद्रूपकार्यान्यथानुपपत्त्या कल्पित एवेति न वस्तुतोऽस्ति, जगत एव वस्तुतोऽभावात्। अत एवासङ्गाद्वितीयत्वमात्मनः। न च पारमार्थिकमेवेदं जगदिति वाच्यम् ; सुषुप्तिप्रलयादावसत्त्वात्। न च सूक्ष्मरूपेण प्रलयादावप्यस्तीति वाच्यम् ; मुक्तौ सूक्ष्मरूपेणाप्यसत्त्वात्। न च किं तत्र मानमिति वाच्यम् ; ‘यत्र तु सर्वमात्मैवाभूत् तत्र केन कं पश्येदि’त्यादिश्रुतेरेव प्रमाणत्वात्। न च सुषुप्तौ अज्ञानादिकमस्त्येवेति तथैव मुक्तावपीति कल्प्यत इति वाच्यम् ; मुक्तावज्ञानसत्त्वे सुप्तवन्मुक्तस्यापि पुनरावृत्तिप्रसङ्गात्। ननु सुप्तदृष्ट्या जगत इव, मुक्तदृष्ट्या अज्ञानस्याप्यभावेऽपि तदितरदृष्ट्या तदस्त्येवेति कथमज्ञानाभाव इति चेत् , मैवम् ; मुक्त- दृष्ट्या अज्ञानाभावस्यैव अस्माभिरुच्यमानत्वात्। वस्तुतस्तु यदेव मुक्तदृष्ट्याऽस्ति, तदेव सर्वदाऽप्यस्ति, मुक्तस्य विद्वत्त्वात्। न ह्यविदुषो भाष्यार्कप्रकाशः १. समानप्रकरणे शाखान्तरे ‘यो विज्ञाने तिष्ठन्’ इति पाठोऽपि अस्योपोद्बलकः।

[[६४३]]

मुक्तिः, विदुषश्चात्मत्वान्मुक्त आत्मैव। तद् दृष्ट्या तु किमपि नास्त्येव, आत्मन एकस्यैव सत्त्वात्। तस्मात् कालत्रयेऽपि परमार्थतो जगदज्ञानं वा नास्त्येव, तत्प्रतीतिस्तु मिथ्यैव। अत एव ब्रह्मण एकत्वाद्युपपत्तिः। ननु निर्गुणस्य साक्षिणः कामायोगात् ‘सोऽकामयत’ इति श्रुतिः सगुणमीश्वरं ब्रूत इति कृत्वा सगुण एवेश्वरः, न तु निर्गुणसाक्षी भवेदीश्वर इति चेत् , मैवम् ; निर्गुणस्यापि साक्षिणो मायया कामोपपत्तेः। यथा जीवस्य मनोधर्माः कामसङ्कल्पादयः, तथा ईश्वरस्य मायाधर्माः कामादयः। मायी खल्वीश्वरः साक्षी। ननु ‘तत्सृष्ट्वा, तदेवानुप्राविशदि’ति श्रुत्युक्तोऽनुप्रवेशः पूर्णस्य साक्षिणो न घटत इति चेत् , समानोऽयं दोषस्तवापि; पूर्णत्वे- नाभिमतत्वादीश्वरस्य त्वया। न च जीवरूपेणेश्वरस्यानुप्रवेशः सम्भवतीति वाच्यम् ; जीवाद् विलक्षणस्येश्वरस्य जीवरूपा- नुप्रवेशासम्भवात्। न च अन्तर्यामिरूपेणानुप्रवेश इति वाच्यम् ; प्रवेशात् प्रागेव तत्र सत्त्वाद् , अन्यथा अपूर्णत्वापत्तेः। अस्मदीयान् प्रति तु पूर्णस्यापि साक्षिणोऽन्तःकरणोपहितत्वेन रूपेणान्तःप्रवेशोपपत्तिरित्युत्तरम्। न च अन्तःकरणोपहित एव साक्षीति वाच्यम् ; अन्तःकरणोपहितोऽपि साक्षीति वक्तव्यम्। अविद्योपहितस्य अथवा मायोपहितस्यापि साक्षित्वात्। अविद्येति मायेति च पर्यायशब्दौ। न च अविद्योपहितस्य कथमन्तःकरणोपहितत्वमिति वाच्यम् ; मठोपहितस्याप्याकाशस्य मठान्तःस्थघटोपहितत्वदर्शनात्। न च अविद्याऽन्तःकरणभेदात् तदुपहितयोरपि भेद इति वाच्यम् ; औपाधिकभेदस्याप्रयोजकत्वात्। न हि घटमठभेदेऽप्याकाशो भिद्यते। नन्वन्तःकरणावच्छिन्नो जीवः, तदुपहितो जीवसाक्षी, मायावच्छिन्नः ईश्वरस्तदुपहितः ईश्वरसाक्षीति वेदान्तपरिभाषायां दृश्यत इति चेत् , तस्य मतान्तराभिप्रायत्वान्न तद्विरोधोऽस्य। ‘साक्षी चेता’ इति श्रुत्या ईश्वरस्यैवेह साक्षित्वेन प्रतिपादनान्नेश्वरादन्यः कश्चन साक्षी कल्प्यः, तस्यैव साक्षिणोऽन्तःकरणोपहितत्वसम्भवान्न साक्ष्यन्तरकल्पना युक्ता। नन्वेवं साक्ष्येकत्वे श्रुत्युपपत्तावपि नानुभवोपपत्तिः, देवदत्तयज्ञदत्तयोः साक्ष्येकत्वे सति देवदत्तसाक्ष्यनुभूतस्वापादीनां देव- दत्तप्रमात्रेव यज्ञदत्तप्रमात्राऽपि स्मर्यमाणत्वापत्तेरिति चेत् , नायं दोषः, साक्षी यदन्तःकरणोपहितःसन् यदनुभूतवान् , तदन्तः- करणावच्छिन्नेनैव तत् स्मर्यत इति कल्पनेनादोषात्। ननु ‘तदनुप्रविश्य, सच्च त्यच्चाभवदि’ति कथं भूतपञ्चकात्मत्वं साक्षिणो ज्ञानस्वरूपस्य? १(वाय्वाकाशावमूर्तौ सच्छब्दवाच्यौ, तेजोजलपृथिव्यस्तु त्यच्छब्दवाच्या इति विवेकः।) न च तव मतेऽप्यस्त्ययं दोष इति वाच्यम् ; मम मते ईश्वरस्य चिदचिद्विशिष्टत्वेना- चिदंशप्रयुक्तभूतात्मत्वसम्भवादिति चेत् , मैवम् ; साक्षिणोऽपि मायया जगदात्मत्वोपपत्तेः। स्थाणोः पुरुषात्मत्वस्य, रज्जोः सर्पात्मत्वस्य, गगनस्य नीलात्मत्वस्य च दर्शनात्। न च अचिद्रूपमायायाः कथं चिति साक्षिणि सम्भव इति वाच्यम् ; चिच्छक्तेरेव मायात्वात्। हन्त! तर्हि अचिद्विशिष्ट एव साक्षी कथं चिन्मात्र इति चेत् , मैवम् ‘निस्तत्त्वा कार्यगम्याऽस्य शक्तिर्मायाऽग्निशक्तिवत्’ इति कार्यगम्याया मायाशक्तेरग्निशक्तिवन्मिथ्यात्वात्। न ह्यग्नेः पृथग् अपृथग्वा अग्निशक्तिर्दृश्यते, नाप्यग्निशक्त्या सद्वितीयत्वमग्नेः। अग्निरेकः तच्छक्तिरन्येति पदार्थद्वयत्वेनाग्रहणात्। तद्वत्साक्षिणः पृथङ्मायाशक्तिरपीति। तस्मान्न मिथ्याभूतया मायया साक्षिणः स्याद् वैशिष्ट्यं, गन्धर्वनगरेणेव गगनस्य। अतश्चिन्मात्र एव साक्षी। अत्रेदं रहस्यम् - रज्जुस्वरूपेऽज्ञाते सति सर्पभ्रमोदयवत् साक्षिस्वरूपसाक्षात्काराभावे जगद्भ्रमोदय इति हेतोः साक्षी मायया जगत् सृजतीत्युच्यते, न तु वस्तुतः साक्षी जगज्जनयति। अविक्रिये तस्मिन् स्रष्टृत्वायोगात्। अत एव न तत्र काऽपि माया विद्यते। सर्जनशक्तेरेव मायात्वात्। अत एव ‘एकमेवाद्वितीयं ब्रह्मे’ति सजातीयविजातीयस्वगतभेदशून्यः साक्षीत्युच्यते श्रुत्या। चेतनान्तरा- भावात् सजातीयभेदाभावः। अचेतनाभावाद् विजातीयभेदाभावः। वृद्ध्यादिविकाराभावात् स्वगतभेदाभाव इत्यद्वैतं ब्रह्म। तस्मिन् न कोऽपि जीवेश्वरादिभेदः प्रसञ्जयितुं शक्यते, श्रुत्यादिविरोधादिति। ‘प्रकृतिं विद्धी’त्यादिस्मृतयस्तु शङ्कराचार्यै-रेवाद्वैतपरतया व्याख्याता इति नेह तासां पुनर्व्याख्यानं क्रियते। तस्माच्छ्रुतयः स्मृतयो वा जीवेश्वरभेदादौ न प्रमाणम् , किन्त्वज्ञानमेकमेव। भाष्यार्कप्रकाशः अ. १३. श्लो. २ ] १. कुण्डलितः एवायं पाठः मुद्रितपुस्तके वर्तते। उदाहृतश्रुतिगत-सत्-त्यच्छब्दार्थस्फुटीकरणाय केनचिल्लिखिता टिप्पणी स्यादिति भाति।

[[६४४]]

वस्तुतस्तु द्वैतिनां जीवेश्वरभेदवादिन्यः श्रुतयः प्रमाणम् ,१अभेदवादिश्रुतयस्तु कण्ठपाशाः। अद्वैतिनां तु व्यवहारदशायां भेद- श्रुतयः, परमार्थतस्त्वभेदश्रुतयश्च प्रमाणमिति न श्रुतिविरोधलेशोऽपि। विशिष्टाद्वैतिनां तु श्रुतिसामञ्जस्यं मनागपि नास्ति। विशिष्टा- द्वैतस्य क्वापि श्रुतावदर्शनात्। एवं स्थिते भेदाभेदश्रुतीनां परस्परविरोधपरिहाराय प्रवृत्तमस्मदीयं मतमिति ब्रुवाणा वैष्णवा अवैदिकैरेव सम्मान्याः। न च श्रुतिविरुद्धमपि न्यायाविरुद्धमस्मद्दर्शनमिति वाच्यम् ; विशिष्टत्वाद्वैतत्वयोः एकत्वासंभवेन विशिष्टाद्वैतशब्द- प्रयोगस्यैवान्याय्यत्वात्। न च विशिष्टं च तदद्वैतं च विशिष्टाद्वैतमिति नास्माभिरुच्यते, किं तर्हि? विशिष्टयोरद्वैतमित्युच्यत इति वाच्यम् ; विशिष्टयोरभेदासम्भवात्। न हि दण्डविशिष्टपुरुषः पटविशिष्टपुरुषादनन्यो भवेत्। न च सूक्ष्मचिदचिद्विशिष्टस्येश्वरस्य स्थूलचिदचिद्विशिष्टेश्वरस्य चाद्वैतमुच्यतेऽस्माभिरिति वाच्यम् ; स्थूलसूक्ष्मयोः परस्परविरुद्धयोरद्वैतायोगात्। न च विशेषणांश- परित्यागेन विशेष्यस्यैक्यमुच्यत इति वाच्यम् ; अस्मन्मतप्रवेशप्रसङ्गात्। ‘तत्त्वमसी’त्यत्रैवमेव ह्यस्माभिरुच्यते। न च न वयं जीवेश्वराभेदं ब्रूमः, येन युष्मन्मतप्रवेशः स्यात् , किन्तु ईश्वरस्यैवेति वाच्यम् ; ईश्वरस्यैकस्य भेदप्रसक्तेरेवाभावेन तन्निषेधायोगात्। किञ्च श्रीरामपरशुरामयोरिव सूक्ष्मचिदचिद्विशिष्टस्थूलचिदचिद्विशिष्टयोर्द्वयोरुपलम्भे सति ईश्वरत्वेनाभेदः शक्यते वक्तुं तयोः, न तथाऽस्ति।प्रलयकाले सूक्ष्मोपाधेः, प्रपञ्चे स्थूलोपाधेश्चोपलम्भात्। न च य एव प्रलये सूक्ष्मोपाधिविशिष्टः, स एवाधुना स्थूलोपाधिविशिष्ट इत्युच्यते। यथा य एव पूर्वं दशरथादवतीर्णः, स एवेदानीं वसुदेवादितिवदिति वाच्यम् ; स्थूलसूक्ष्मरूपेणोपाधौ विक्रियमाणायामप्युपहितो नैव विक्रियत इत्यविकारीश्वरप्रतिपादनेनैवाभीष्टे सिद्धे विशिष्टाद्वैताख्याश्रौतमतान्तरकल्पनस्यायुक्तत्वात्। एवं य एव कीटशरीरगः, स एवेदानीं मनुष्यशरीरगः इत्येवं जीवानामपि विशिष्टाद्वैतकल्पनप्रसङ्गादिति। यच्च रामानुजेनोक्तम्— नास्मन्मते यः कश्चिदपि विरोधः, तथाहि ‘अनेन जीवेनात्मनाऽनुप्रविश्ये’ति जीवस्य यच्छ्रुतं ब्रह्मात्मकत्वं तदात्मशरीरभावनिबन्धनमेव। ‘तदनुप्रविश्य, सच्च त्यच्चाभवदि’त्यनेनैकार्थ्यात्। कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्म- चिदचिद्वस्तुशरीरः परमात्मैवेति कारणात् कार्यस्यानन्यतया एकविज्ञानेन सर्वविज्ञानं चोपपद्यते, सर्वे वाचकशब्दाः चिदचिद्विशिष्टपरमात्मवाचका इति सर्ववेदवेद्यत्वं मुख्यं ब्रह्मणः सिध्यति। स्थूलसूक्ष्मभेदाद् ब्रह्मैव चिदचिद्विशिष्टं कार्यं, कारणं चेति सङ्घातस्योपादानत्वेऽपि चिदचिद्ब्रह्मणां न स्वभावसङ्करः। परस्य ब्रह्मणः कार्यानुप्रवेशेऽपि स्वरूपान्यथाभावाभावादविकृतत्वमुपपन्न- तरम्। स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुनः आत्मतयाऽवस्थानात् कार्यत्वमप्युपपन्नं ब्रह्मणः। अवस्थान्तरापत्तिरेव हि कार्यता। निर्गुणवादश्च परस्य ब्रह्मणो हेयगुणसम्बन्धाभावादुपपद्यते। ज्ञानस्वरूपं ब्रह्मेति वादश्च सर्वज्ञेश्वरस्य स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं चेत्यभ्युपगमादुपपन्नतरः। ‘नेह नानास्ती’त्यादिना तु अब्रह्मात्मकवस्तुनानात्वं प्रतिषिध्यते, ब्रह्मण एव नानाप्रकारेणावस्थितत्वात्। एवं चिदचिदीश्वराणां स्वरूपतः स्वभावतश्च भेदान्नाभेदवादोपपत्तिरिति। तत् सर्वं तुच्छम्। तथाहि—‘अनेन जीवेनात्मनाऽनुप्रविश्ये’ति श्रुतेर्जीवशरीरेणानुप्रविश्येति हि तवाभिमतोऽर्थः, आत्मशब्दस्य शरीरवाचित्वदर्शनादिति। तन्न सङ्गच्छते, चिदचिद्विशिष्टेश्वरस्य चिच्छरीरेण प्रवेशायोगात्। ननु ईश्वरस्य शरीरं चिदचिन्मिश्रमिति नास्माभिरुच्यते। किं तर्हि? चिदेकं शरीरम् , अचिदन्यच्छरीरमीश्वरस्येत्युच्यते इति चेत् , नैतदपि युक्तम् , अचिदमिश्रितस्य चिन्मात्रस्येश्वरशरीरस्यादर्शनात्। जीवो ह्यन्तःकरणाद्यचिन्मिश्रितः। चिन्मिश्रितस्याचितो देहस्येश्वरशरीरत्वानुपपत्तेश्च। ननु ईश्वरस्य पाषाणादिकमचेतनं शरीरं, चेतनो जीवश्च शरीरं, जीवशरीरत्वाद् देहश्च जीवद्वारा शरीरमिति चेत् , नैतदपि युक्तम् , देहे स्वत ईश्वराभावप्रसङ्गात्। ‘समाने वृक्षे’ इति श्रुत्या जीववदीश्वरस्यापि देहे सत्त्वश्रवणाच्च। जीवे देहादुत्क्रान्ते सति ईश्वरस्यापि जीवद्वारा उत्क्रान्तत्वेन मृते तस्मिन्नचेतने शरीरे ईश्वरासत्त्वेन सर्वमचिद्वस्त्वीश्वरशरीरमित्यभ्युपगमभङ्गप्रसङ्गाच्च। अथ जीवे देहे मृदादौ चास्तीश्वर इति वर्णने देहे ईश्वरद्वयसत्त्वप्रसङ्गात्। देहे कश्चिदीश्वरः, देहान्तस्थजीवे कश्चनेश्वर इति। ननु देहे पररूपेण, जीवेऽन्तर्यामिरूपेण चास्तीश्वर इति चेत् , नैतदपि युक्तम् , जीववदीश्वरस्यापि देहित्वप्रसङ्गात्। देहे भाष्यार्कप्रकाशः १. ‘अभेदश्रुतयः’ इति तैः व्यवह्रियमाणा अपि ताः अभेदं हित्वैव शरीरशरीरिभावेन सामानाधिकरण्यस्य योजनात् तन्मतेऽनुपपन्नाः।

[[६४५]]

वर्तमाने परे जीवो वर्तत इति जीवस्य परान्तर्यामित्वप्रसङ्गाच्च। किञ्च यदि चिदचिच्छरीरो भवेदीश्वरस्तर्हि चिदचित्पदार्था ईश्वरो न भवन्ति। तथा च दृश्यमानं चिदचिदात्मकं सर्वमपि जगदीश्वरो न भवति। न चेष्टापत्तिः, ‘सर्वं ब्रह्मे’ति श्रुतिविरोधात्। ‘वासुदेवः सर्वम्’ इति गीताविरोधात्। सर्वशरीरकं ब्रह्मेत्यर्थवर्णने तु सर्वशब्दे लक्षणास्वीकारदोषात्। ‘अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित’ इति श्रुत्या जगतो बहिर्वर्तमानस्य ब्रह्मणः जगच्छरीरत्वाद् ब्रह्मशरीरकं जगदिति वक्तुं शक्यत्वात्। ‘पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यत’ इति परमात्मानः श्रुत्युक्तपरिपूर्णत्वभङ्गप्रसङ्गाच्च। न हि ब्रह्मातिरिक्तस्य कृत्स्नस्य जगतः सत्त्वे ब्रह्मणः स्यात् पूर्णत्वम्। एवं चिदचिदात्मकस्य सर्वस्य जगतोऽब्रह्मत्वे कथं ब्रह्मणः सर्वशब्दवाच्यत्वमपि भवेत्? सर्वशरीरत्वात् सर्वशब्दवाच्यत्वमिति तु न युक्तम् , जीवे मनुष्यादिशब्दवाच्यत्वव्यवहारवदीश्वरे सर्वशब्दवाच्यत्वव्यवहारस्याप्यविवेकमूलत्वापत्तेः। न हि शरीराज्जीवं विविच्य जानन् कोऽपि विद्वान् जीवं मनुष्यं पशुं वा ब्रूयात्। न चैवमविवेकादेव सर्वशब्दवाच्यत्वमस्तीश्वरस्येति वाच्यम् ; ‘वेदैश्च सर्वैरहमेव वेद्यः’ इति कथं सर्वज्ञेश्वरस्य स्वस्मिन् सर्वशब्दवेद्यत्वभ्रमः? (वेदाः खलु शब्दात्मकाः।)१ किञ्च यदि घटपटादयः सर्वे शब्दाः ईश्वरमेव ब्रूयुस्तर्हि घटपटादिपदार्थवाचकशब्दानामेवाभावात् सर्वव्यवहारलोपप्रसङ्गः। घटशब्दस्य घटान्तर्यामिशब्दस्य चैकेश्वरवाचकत्वं विरुद्धम्। सर्वे वाचकाः शब्दाश्चिदचिद्विशिष्टपरमात्मवाचका इति स्ववचोविरोधश्च। चिदचिद्विशिष्टसमासगतचिदचिच्छब्दयोः परमात्मवाचित्वे परमात्मविशिष्टपरमात्मेत्यपार्थप्रसङ्गात्। परमात्मावाचित्वे सर्वे शब्दाः परमात्मवाचका इत्यस्यासिद्धेः। किञ्च परमात्मवाचक इत्ययं शब्दः परमात्मानं वक्ति वा, न वा? आद्ये - तस्य शब्दविशेषणत्वासिद्धिः। द्वितीये - सर्वशब्द- वाच्यत्वभङ्गप्रसङ्गः। अपि च अपरमात्मेति शब्दः परमात्मानं वक्ति वा, न वा? आद्ये - नञ्समासविरोधः। द्वितीये - सर्वशब्दवाच्यत्व- भङ्गप्रसङ्गः। किञ्च नास्तीत्ययं शब्द ईश्वरं ब्रूते वा, न वा? आद्ये - ईश्वरस्य सद्रूपत्वासिद्धिः। द्वितीये - सर्वशब्दवाच्यत्वभङ्गप्रसङ्गः। तथा शब्दावाच्य इति शब्द ईश्वरं ब्रूते वा, न वा? आद्ये - शब्दवाच्यत्वविरोधः। द्वितीयेऽपि - स एव। तथा चिच्छब्देनेश्वर उच्यते वा, लक्ष्यते वा? नाद्यः - चितो जीवस्यानीश्वरत्वात्। अन्त्ये तु सर्वे शब्दाः परमात्मवाचका इत्यभ्युपगमविरोधः। तस्माच्चिदचिदादिशब्दानां तद्विशिष्टेश्वरे त्वया लक्षणैवावश्यं स्वीकर्तव्या। तस्मान्न मुख्यं सर्वशब्दवाच्यत्वमस्ति ब्रह्मणः। नापि शरीरशरीरिभावनिबन्धनं जीवस्य ब्रह्मात्मकत्वम्। न च ‘सच्च त्यच्चाभवदि’त्यनेनैकार्थ्यभङ्गप्रसङ्गः, मायया ईश्वरस्य जगद्रूपत्वसिद्धेः। ननु जीवब्रह्मणोः शरीरशरीरिभावनिबन्धनभेदासत्त्वे कथं मुख्याभेदः? कथं वा ‘आत्मने’ति श्रुत्युपपत्तिरिति चेद्? उच्यते— जीवब्रह्मणोः सच्चिदानन्दरूपत्वान्मुख्य एवाभेदः। सति मुख्यस्याभेदस्य सम्भवे लाक्षणिकशरीरशरीरिभावादिप्रयुक्ताभेदकल्पनं चान्याय्यम्। ‘आत्मने’त्यस्य तु शरीरेणेति नार्थः, किन्तु स्वरूपेणेति। जीवेन स्वरूपेण प्रविश्येत्यर्थः। अन्तःकरणोपहितत्वेन रूपेण प्रविश्येति यावत्। अन्तःकरणोपहितचैतन्यस्यैव जीवत्वात्। परिपूर्णस्येश्वरस्य यदन्तःकरणोपहितत्वं तदेव जीवरूपानुप्रवेश इती- होच्यते। न हि मुख्यः प्रवेशः सम्भवति, प्रवेशात् प्रागेव तत्र सत्त्वात् पूर्णस्य चैतन्यस्य ब्रह्मण इति। अथ यदुक्तं कार्यावस्थः कारणावस्थश्च परमात्मैवेति, तदयुक्तम् , परमात्मनोऽविक्रियस्यावस्थायोगात्। सविक्रियस्य हि देहस्य बाल्याद्यवस्था दृष्टा, नाविक्रियस्यात्मनः। न च स्वशरीरयोश्चिदचितोर्ये कार्यकारणावस्थे ते परमात्मन उच्येते इति वाच्यम् ; किं विवेकेनोच्येते, यद्वा अविवेकेन? नाद्यः - शरीरशरीरिविवेके सति शरीरावस्थानां शरीरिण्ययोगात्। द्वितीये तु - अविवेकमूलकं त्वद्वचनमप्रमाणमेव। न हि देहदेह्यविवेकप्रयुक्तः देही जीर्णो जातो मृत इति व्यवहारः प्रमाणं स्यात्। न चैवमेकविज्ञानेन सर्वविज्ञानोपपत्तिः, सूक्ष्मचिदचिद्विशिष्टेश्वरज्ञानस्य स्थूलचिदचिद्विशिष्टेश्वरज्ञानवत् सर्वविज्ञानरूपत्वेनैकविज्ञानरूपत्वाभावात्। यद्वा स्थूलचिदचिद्विशिष्टेश्वरज्ञानस्य सूक्ष्मचिदचिद्विशिष्टेश्वरज्ञानवत् सर्वविज्ञानरूपत्वाभावादिति। कारणज्ञानेन हि कार्यज्ञानं प्रतिज्ञायते। ईश्वरस्तु कारणमेवेति कथं तस्य कार्यत्वम्? भाष्यार्कप्रकाशः अ. १३. श्लो. २ ] १. कुण्डलितः एवायं पाठः मुद्रितपुस्तके वर्तते।

[[६४६]]

ननु सूक्ष्मयोश्चिदचितोः कारणत्वं, स्थूलयोस्तु कार्यत्वमिति चेत् , मैवमपि, ईश्वरस्येश्वरं प्रतीव चिदचितोः चिदचितौ प्रति कारणत्वाद्ययोगात्। न हि पटः पटं प्रति, तन्तुस्तन्तुं प्रति वा कारणं कार्यं वा स्यात्। न च स्थूलं वृक्षं प्रति सूक्ष्मस्य बीजस्य कारणत्ववत् स्थूलौ चिदचितौ प्रति सूक्ष्मचिदचितोः कारणत्वमिति वाच्यम् ; बीजाङ्कुरयोरिव कार्यकारणयोर्नामभेदेन भवितव्यत्वात् प्रकृते चिदचितोरेव कार्यत्वेन कारणत्वेन च नामभेदादर्शनात्। न हि सूक्ष्मावस्था मृत् स्थूलावस्थां मृदं प्रति कारणमिति कोऽपि वदेत्। किन्तु घटं प्रति मृत् कारणमिति। रूपभेदनामभेदौ हि कार्यकारणयोरावश्यकौ। नीरूपत्वाच्चिति रूपभेदः सुतरां नास्त्येव। तस्मात् कारणस्य परमात्मनो ज्ञानेन कार्यस्य जगतो ज्ञानमित्येवावश्यं वाच्यम् ; एवं परमात्मनः कारणत्वे सति अजस्य जीवस्य कार्यत्वायोगाज्जीवपरमात्मनोरभेदसिद्धिः। कारणात् कार्यस्यानन्यत्वेन कारणपरमात्मज्ञानात् कार्यजगज्ज्ञानसिद्धिरिति। न च कार्यस्य मुख्यमेव ब्रह्मत्वमस्तीति वाच्यम् ; सर्वकारणस्य निष्कारणस्य ब्रह्मणः कार्यत्वायोगात्। कार्यत्वे सत्यनित्यत्वप्रसङ्गात्। तस्मात् कारणमेव ब्रह्म, न कार्यम्। जगत् कार्यमेव, न कारणम्। ननु कारणभूतमृद एव घटरूपेण कार्यत्वदर्शनाद् ब्रह्मैव कार्यमिति चेत् , मैवम् ; मृदो घटात्मनेव ब्रह्मणो जगद्रूपेण परिणामाभावात्। न हि मृद्घटयोरिव जगद्ब्रह्मणोरेकद्रव्यत्वम् , येन कार्यकारणयोरैक् यं मुख्यं स्याज्जगद्ब्रह्मणोः। ब्रूषे हि त्वमपि चेतनाचेतनात्मकाज्जगतो विलक्षणं ब्रह्मेति। न ह्येकद्रव्यत्वे सति वैलक्षण्यं वक्तुमुचितम्। वयमपि ब्रूमोऽचितो जगतः सकाशादत्यन्तविलक्षणं चिद्रूपं ब्रह्मेति। न चाज्ञानविशिष्टं ब्रह्म जगद्रूपेण परिणतमिति, भवति ब्रह्मणः कारणत्वं कार्यत्वं चेति वाच्यम् ; अज्ञानस्यैव तत्रापि जगद्रूपेण परिणामो न तु ब्रह्मण इति जगदज्ञानयोरेव कार्यकारणभावात्। न ह्यविक्रियस्य ब्रह्मणः कार्यरूपेण परिणाम उपपद्यते। न च सूक्ष्मे अज्ञाने स्थूलजगदाकारेण परिणते सति तदान्तरं ब्रह्मापि सौक्ष्म्यं विहाय स्थौल्यं भजत इति वाच्यम् ; ब्रह्मण्यविक्रिये नित्ये स्थूलत्वसूक्ष्मत्वयोरयोगात्। एकामवस्थां विहायान्यामवस्थां गच्छद्धि वस्तु लोकेऽनित्यं दृश्यते। यथा बाल्यावस्थां विहाय यौवनावस्थां गच्छतो देहस्यानित्यत्वम्। तस्मान्नास्ति ब्रह्मणोऽवस्थान्तरप्राप्तिः। तस्मादज्ञानगते एव सौक्ष्मस्थौल्ये अविवेकाद् ब्रह्मण्यध्यस्येते। न तु वस्तुतः सूक्ष्मं स्थूलं वा ब्रह्म, परिपूर्णत्वादविक्रियत्वात् सदैकरूपत्वान्नित्यत्वाच्च ब्रह्मणः। न च चितोऽपि सौक्ष्म्यस्थौल्यावस्थे स्त इति वाच्यम् ; तत्सत्त्वे जीवस्याप्यनित्यत्वप्रसङ्गात्। नित्यो जीवोऽविक्रियश्चेति हीहापि प्रतिपादितं गीतायाम्। न च स्थूलावस्थस्याचिद्वस्तुन आत्मतयाऽवस्थानात् कार्यत्वं ब्रह्मण इति वाच्यम् ; मनुष्यादिशरीरेष्वात्मतया अवस्थानाज्जीवस्यापि कार्यत्वप्रसङ्गात्। एवंविधकार्यत्वस्य च आत्मानात्मविवेकप्रयुक्तत्वेनाग्राह्यत्वात्। न हि देहस्य जन्मवत्त्वेन कार्यत्वे, जीवस्यापि कार्यत्वं मुख्यं भवितुमर्हति। आदिमतो हि वस्तुनः कार्यत्वं मुख्यम्। अनादित्वान्निर्गुणत्वाच्च न ब्रह्म जीवो वा कार्यं भवितुमर्हति। न च न निर्गुणं ब्रह्म, किन्तु सगुणं निर्दोषमेवेति वाच्यम् ; ब्रह्मणि वर्तमानानां गुणानां ब्रह्मभास्यत्वायोगात् साक्ष्यन्तराभ्युपगमेऽनवस्थादोषात्। गुणस्य गुण्यन्तरत्वेन ब्रह्मणोऽपि सगुणत्वे ब्रह्मान्तरत्वाद् गुणस्य सर्वान्तरत्वं ब्रह्मणो न स्यात्। ज्ञानस्वरूपत्वाच्च ब्रह्मणो न सगुणत्वोपपत्तिः। न च ज्ञानस्वरूपं ब्रह्मेति वादः ब्रह्मणो ज्ञानैकनिरूपणीयत्वाभिप्रायक इति वाच्यम् ; सर्वस्यापि वस्तुनो ज्ञानैक- निरूपणीयत्वेन ज्ञानस्वरूपत्वप्रसङ्गात्। अयं घट इति ज्ञानेन हि घटोऽपि निरूप्यते। न च ज्ञानगुणकत्वाज्ज्ञानैकनिरूपणीयत्वमिति वाच्यम् ; मनसोऽपि ज्ञानगुणकत्वात् कामसङ्कल्पादिज्ञानानि हि मनसो गुणाः। ततश्च मनोऽपि ज्ञानस्वरूपं स्यात्। स्वप्रकाशतया ज्ञानस्वरूपत्वमिति तु युक्तमेव, ज्ञानस्यैव स्वप्रकाशत्वात्। १ज्ञानं हि न परप्रकाश्यं, प्रकाशवत्। सर्वस्यापि ज्ञानप्रकाश्यत्वात् सर्वावभासकं च ज्ञानं, प्रकाशवत्। यदि ज्ञानप्रकाशकमन्यत् स्यात् , तर्हि किं तज्ज्ञानमुताज्ञानम्? न हि ज्ञानाज्ञानातिरिक्तं किञ्चिद् वस्त्वस्ति। आद्ये - तस्याप्यन्यदित्यनवस्था। द्वितीये - अज्ञानस्य ज्ञानावभास्यस्य ज्ञानावभासकत्वविरोधः। तस्मिंश्च सदैकरूपे ज्ञाने ब्रह्मणि कालत्रयेऽपि जगदभावादद्वितीयं ब्रह्म। न च ‘नेह नानास्ती’ति श्रुत्या अब्रह्मात्मकवस्तुनानात्वं प्रतिषिध्यत इति नाद्वैतत्वं १. ज्ञानस्य स्वप्रकाशत्वेऽनुमानं प्रमाणयति— ज्ञानमिति। परप्रकाश्यत्वाभाववत्स्वरूपत्वं स्वप्रकाशत्वम्। अवभासकत्वं हेतुरिति बोध्यम्। भाष्यार्कप्रकाशः

[[६४७]]

ब्रह्मण इति वाच्यम् ; ब्रह्मणश्चिदचिद्विलक्षणत्वेन चिदचितोर्ब्रह्मरूपत्वाभावात् कथं तयोर्ब्रह्मात्मकत्वम्? न च ब्रह्म आत्मा यस्य तद् ब्रह्मात्मकमिति व्युत्पत्त्या सर्वं जगद् ब्रह्मात्मकमेव, ब्रह्मणः सर्वान्तरात्मत्वादिति वाच्यम् ; एवंविधवस्तुनानात्वप्रतिषेधे कतिपय- वस्तुसत्त्वस्य सिद्धत्वात्। श्रुतौ नानेति, किञ्चनेति च पदयोरेव दर्शनेन अब्रह्मात्मकेति स्वकपोलकल्पितपदस्याप्रमाणत्वात्। अथवा तवेदं युक्तमेव, अद्वितीयमित्यस्य स्वसमानद्वितीयरहितमिति, ज्ञानमानन्दमित्यस्य ज्ञानगुणकमानन्दगुणकमिति, तत्त्वमित्यस्य त्वच्छरीरकं तदिति च कल्पयितुः। न हि यथाश्रुतार्थस्वीकारस्तवोचितो विशिष्टाद्वैताख्यमश्रौतं मतं कल्पयितुः। यच्चोक्तं - ब्रह्मैव नानाप्रकारमवस्थितमिति, तदप्ययुक्तम् , निष्प्रकारे ब्रह्मणि नानाप्रकारायोगात्। न च प्रकृतेर्नानाप्रकारत्वाद् ब्रह्मापि नानाप्रकारमिति वाच्यम् ; घटकरकादिनानाप्रकारावस्थितायां मृदि वर्तमाने आकाशे नानाप्रकारादर्शनात्। सर्वत्राप्येकरूपमेव हि ब्रह्म, गगनवत्। अनेकरूपत्वे तु सविक्रियत्वेनानित्यमेव स्यात्। न हि त्वदभिमतजीवोऽपि पक्षिपशुकीटमनुष्यादिनानाविधशरीरा- नुगतोऽपि भजते नानाप्रकारताम् , किं पुनर्ब्रह्म? न चाविवेकाज्जीवो नानाप्रकारतां भजत इति वाच्यम् ; अविवेकादप्यन्यस्य वस्तुनोऽन्यवस्तुत्वासम्भवात्। न ह्यविवेकादप्यग्निर्जलं भवति। यद्वा शीतो भवति। न च मनुष्योऽहमित्यभिमानाद् भवति जीवो मनुष्य इति वाच्यम् ; तथा सति मनुष्यदेहस्येहैव नाशाज्जीवस्यापि नाशः स्यात्। न हि रज्जौ सर्पोऽयमिति भ्रमाद् रज्जुः सर्पो भवति। तस्मादन्यत्रान्यबुद्धिर्भ्रम एव। तादृशभ्रममात्रेणान्यस्यान्यत्वं न भवतीति [न] जीवे मनुष्यत्वादिदेहप्रकाराः। एवं मनुष्यत्वादिप्रकारशून्यं जीवं दर्शयितुं हीदं गीताशास्त्रं प्रवृत्तं, ‘न हन्यते हन्यमाने शरीरे’ इत्यादिदर्शनात्। देहात्मभ्रमेण शोचतोऽर्जुनस्य शोकापनोदो हि देहविलक्षणात्मस्वरूपकथनसाध्यः। न त्वविवेककृतमनुष्यत्वादिप्रकारवज्जीवकथनसाध्यः। तस्माद् देहादत्यन्तविलक्षणे जीवे देहप्रकारः कोऽपि न सम्भवति यथा तथा जगतोऽत्यन्तविलक्षणे ब्रह्मणि जगत्प्रकारः कोऽपि न सम्भवत्येव। जीवस्य देह इव, ब्रह्मणः सर्वमपि शरीरमिति हि त्वयैवोच्यते। न ह्यविवेकं विना शरीरधर्माः शरीरिणि सम्भवन्ति। एवं जगद्धर्माणामनृतत्वनश्वरत्वजडत्वादीनां ब्रह्मण्यसम्भवे, देहधर्माणां जरामरणादीनां सूक्ष्मदेहधर्माणां सुखदुःखादीनां कारणदेहधर्माणां मोहादीनां च जीवेऽसम्भवे ब्रह्मणो जीवस्य च स्वरूपं चैतन्यमात्रमेवावशिष्टम्। तस्य च कालत्रयाबाध्यत्वात् सत्यत्वं, परमप्रियत्वादानन्दरूपत्वमिति सच्चिदानन्दं ब्रह्मैव जीवः। निष्प्रकारकत्वेन परिपूर्णत्वेन च चैतन्यस्य भेदकप्रकाराभावान्न भेदः कश्चिदपीति स्थितमद्वैतम्। अत एवोक्तम् ‘क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ इति। एतदद्वैतज्ञानस्यैव जीवे कल्पितसर्वसंसारतमोनिरसन- भास्करत्वात् सम्यग्ज्ञानत्वम्। यद्धि सर्वानर्थनिबर्हणक्षमं तद्धि सम्यग्ज्ञानम्। अस्य च सम्यग्ज्ञानत्वं न मन्दप्रज्ञपुरुषकल्पितं, किन्तु सर्वज्ञेश्वरोक्तमेवेति सत्यमेव। एतदभिप्रायेणैवोक्तम् ‘क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम’ इति॥२॥

तदिति श्लोकमवतारयति— इदमिति। व्याचिख्यासितस्य ह्यर्थस्य संग्रहोपन्यासो न्याय्यः इति हेतोः ‘इदं शरीरं कौन्तेय क्षेत्र- मित्यभिधीयते’ इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य ‘तत् क्षेत्रं यच्चे’त्यादिरयं संग्रहश्लोकः उपन्यस्यत इत्यन्वयः। व्याख्यातुमिष्टस्य १. संग्रहोक्तेः प्रयोजनप्रश्नोऽयम्। भाष्यार्कप्रकाशः ‘इदं शरीरम्’ इत्यादिश्लोकोपदिष्टस्य क्षेत्राध्यायार्थस्य संग्रहश्लोकोऽयमुपन्यस्यते— तत् क्षेत्रं यच्चेत्यादि। व्याचिख्यासितस्य ह्यर्थस्य संग्रहोपन्यासो न्याय्य इति। यन्निर्दिष्टम् ‘इदं शरीर’मिति, तत् तच्छब्देन परामृशति। एवं श्लोकद्वयं व्याख्याय श्लोकान्तरमवतारयति— इदमिति। १कुत्र संग्रहोक्तिरुपयुज्यते? तत्राह— व्याचिख्यासितस्येति। प्रति- तत् क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत्। स च यो यत्प्रभावश्च तत् समासेन मे शृणु॥३॥

[आनन्दगिरिकृतव्याख्या]

[[अ. १३. श्लो. २-३]] [[६४८]]

व्याचिख्यासितस्य वक्ष्यमाणस्येत्यर्थः। संग्रहेण सङ्क्षेपेणोपन्यासः कथनं संग्रहोपन्यासः। न्यायादनपेतो न्याय्यः। इत्यादीत्यादिपदात् ‘एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः’ इत्यस्य ग्रहणम्। क्षेत्राध्यायार्थस्य प्रकृतक्षेत्रक्षेत्रज्ञविभागयोगाख्यत्रयोदशाध्यायार्थस्ये- त्यर्थः। इत्यादीत्यादिपदात् ‘यादृक् च यद्विकारि यतश्च यत् , स च यो यत्प्रभावश्च तत् समासेन मे शृणु’ इत्यस्य ग्रहणम्। संग्रहश्लोक इति। सङ्गृह्यते सङ्क्षेपेणोच्यतेऽध्यायार्थोऽस्मिन्निति संग्रहः, स चासौ श्लोकः, संग्रहेणाध्यायार्थप्रतिपादकः श्लोक इत्यर्थः। अयमिति। प्रकृत इत्यर्थः। उपन्यस्यते उच्यते। पूर्वश्लोके इदं शरीरमिति यन्निर्दिष्टं तदिह तच्छब्देन परामृश्यत इत्याह— यदिति। यच्चेत्यस्यान्वयमाह— इदंनिर्दिष्टमिति। इदंशब्देन निर्दिष्टमित्यर्थः। इदमित्यनुकरणशब्दः। इदमा निर्दिष्टमिदन्निर्दिष्टमिति समासः। अध्याहारोऽयम्। यच्चेदंनिर्दिष्टं तत् क्षेत्रं यादृक् च यद्विकारि यतश्च यदुत्पद्यते। यः क्षेत्रज्ञ इति निर्दिष्टः स च यत्प्रभावश्च तत् समासेन मे, वाक्यत इति शेषः, शृणु। यादृशमिति। यद्धर्मकमित्यर्थः। उक्तानुक्तसंग्राहकश्चकार इत्याह— चशब्द इति। यादृक्त्वस्य यद्विकारित्वादिना सह समुच्चयार्थ इति वा। २यश्चासौ विकारो यद्विकारः, सोऽस्यास्तीति यद्विकारि। मत्वर्थीय इनिः। यद्विकारकमित्यर्थः। यस्माच्च उपादानादित्यर्थः। यच्छब्दार्थमाह— कार्यमिति। उत्पद्यत इति वाक्यशेष इति। प्रकृतवाक्ये उत्पद्यत इति क्रियापदस्य शेष इत्यर्थः। यत् कार्यं यदुपादानकमिति वाक्यार्थः। उपाधिकृताः शक्तयः चक्षुराद्युपाधिकृता दर्शनादिशक्तयः। यथाविशेषितमिति। यथोक्तविशेषणमित्यर्थः। वाक्यतः शृण्वित्यस्यानन्वयादाह— श्रुत्वेति। अवधारय निश्चिनु। निश्चयेन विद्धीत्यर्थः। क्षेत्रस्य के धर्माः? के विकाराः? क्षेत्रशब्दवाच्यानां पदार्थानां मध्ये कस्य कार्यस्य किमुपादानम्? क्षेत्रज्ञस्य के प्रभावाः? इति प्रश्नचतुष्टयस्येहोत्तरमुच्यते सङ्क्षेपेणेत्यर्थः। क्षेत्रस्य धर्मा विकारा उपादानं क्षेत्रज्ञप्रभावश्चेहोच्यन्ते सङ्क्षेपेणेति यावत्। न च ज्ञानज्ञेययोः प्रकृतिपुरुषयोश्च वक्ष्यमाणत्वात् कथमिह सङ्क्षेपश्लोके तदग्रहणमिति वाच्यम् ; ज्ञानप्रकृत्योः क्षेत्रत्वात् , ज्ञेयपुरुषयोः क्षेत्रज्ञत्वाच्च। न चात्रापि विवदितव्यम् , ‘बुद्धिरव्यक्तमेव च’ इत्यव्यक्तस्य प्रकृतेः साक्षादेव क्षेत्रत्वस्य वक्ष्यमाणत्वाज्ज्ञानस्य बुद्धिधर्मत्वाच्च। ‘परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः’ इति पुरुषस्य ज्ञेयपरमात्मत्वकथनात् क्षेत्रज्ञस्य पुरि सत्त्वेन पुरुषत्वस्य सम्मतत्वाच्च। यत्तु रामानुजः— तत् क्षेत्रं यच्च यद् द्रव्यम् , यादृक् च येषामाश्रयभूतम् , यद्विकारि ये चास्य विकाराः, यतश्च यतो हेतोरिदमुत्पन्नं - यस्मै प्रयोजनायोत्पन्नमित्यर्थः; यत् यत्स्वरूपं चेदम् , स च यः स च क्षेत्रज्ञो यः यत्स्वरूपो, यत्प्रभावश्च ये चास्य १. अत्र ‘इदन्निर्दिष्टम्’ इति समस्तं पदं रा.पाठे। २. अनेन कर्मधारयोत्तरमिनिप्रत्यय इति सूचितम्। तेन बहुव्रीहित्वभ्रान्त्येनिप्रत्ययवैयर्थ्यापादनं परेषामपास्तम्। भाष्यार्कप्रकाशः १यच्चेदं निर्दिष्टं क्षेत्रम् , तद् यादृग् यादृशं स्वकीयैर्धर्मैः। चशब्दः समुच्चयार्थः। यद्विकारि यो विकारोऽस्य तद् यद्विकारि , यतो यस्माच्च यत् कार्यम् उत्पद्यत इति वाक्यशेषः। स च यः क्षेत्रज्ञो निर्दिष्टः सः यत्प्रभावो ये प्रभावा उपाधिकृताः शक्तयो यस्य स यत्प्रभावश्च, तत् क्षेत्रक्षेत्रज्ञयोर्याथात्म्यं यथाविशेषितं समासेन संक्षेपेण मे मम वाक्यतः शृणु श्रुत्वाऽवधारयेत्यर्थः॥३॥

पत्तिसौकर्यार्थं संग्रहोक्तिरर्थवतीत्यर्थः। वक्ष्यमाणेऽर्थे श्रोतुर्मनःसमाधानार्थं सूत्रितवाक्यार्थोपायविवरणप्रतिज्ञामभिप्रेत्याह— यन्निर्दिष्ट- मिति। इदं शरीरमिति यन्निर्दिष्टं तच्छरीरं तच्छब्देन परामृशति, प्रकृतार्थत्वात् तस्येति योजना। तत् क्षेत्रं ज्ञातव्यमित्यध्याहारः। यच्चेति येन रूपेण रूपवदिति तदेव क्षेत्रं विशेष्यते। तस्य क्षेत्रस्य स्वकीया धर्मा जन्मादयस्तैर्विशिष्टस्य ज्ञेयत्वे हेयत्वं फलति। चशब्दपञ्चकस्ये- तरेतरसमुच्चयार्थत्वमाह— चशब्द इति। विकारित्वेनापि हेयत्वं सूचयति— यद्विकारीति। यत् कार्यं तत् सर्वं यस्मादुत्पद्यते तत् कारणत्वाज्ज्ञातव्यमित्याह— यत इति। क्षेत्रमिव क्षेत्रज्ञं ज्ञातव्यं दर्शयति— स चेति। स ज्ञातव्य इति सम्बन्धः। चक्षुराद्युपाधिकृत- दृष्ट्यादिशक्तिवशात् तस्य ज्ञातव्यत्वं सूचयति— यत्प्रभाव इति। तेनोक्तेन प्रभावेण तस्य ज्ञातव्यतेति शेषः। कथं यथाविशेषितं क्षेत्रं क्षेत्रज्ञो वा शक्यो ज्ञातुमित्याशङ्क्य , भगवद्वाक्यादित्याह— तदिति॥३॥

[आनन्दगिरिकृतव्याख्या]

[[६४९]]

श्लोकान्तरस्य तात्पर्यमाह— तदित्यादिना। विवक्षितं जिज्ञासितव्यमित्यर्थः। स्तुतिफलमाह— श्रोत्रिति। न केवलमाप्तोक्तेरेव क्षेत्रादियाथात्म्यं सम्भावितं, किन्तु वेदवाक्यादपीत्याह— छन्दोभिश्चेति। ऋगादीनां चतुर्णामपि वेदानां नानाप्रकारत्वं शाखाभेदादिष्टम्। न केवलं श्रुतिस्मृतिसिद्धमुक्तं याथात्म्यम् , किन्तु यौक्तिकं चेत्याह— किञ्चेति। कानि तानि सूत्राणीत्याशङ्क्याह— आत्मेत्येवेति। प्रभावाः, तत् सर्वं समासेन सङ्क्षेपेण मे मत्तः शृण्विति। तन्मन्दम् - शब्दादिगुणानामपि क्षेत्रत्वेन क्षेत्रं द्रव्यमेवेति नियमाभावात्। १न च जडाजडद्रव्यमध्ये किं द्रव्यमित्यर्थः इति वाच्यम् ; उभयविधद्रव्यस्यापि क्षेत्रत्वाक्रान्तत्वात्। चेतनानि मनुष्यादिभूतानि, अचेतनानि मृत्पाषाणादीन्यपि ज्ञेयत्वात् क्षेत्रशब्दवाच्यान्येव हि। न चात्मा अजडद्रव्यं, तदन्यत् सर्वं जडद्रव्यं परमात्मा तूभयविलक्षण इति वाच्यम् ; आत्मनो द्रव्यत्वे मानाभावात्। न च तर्कशास्त्रं मानमिति वाच्यम् ; तद्रीत्या परमात्मनोऽप्यजडद्रव्यत्वात्। न च वेदान्ताः प्रमाणमिति वाच्यम् ; तत्र चिद्रूपः परमात्मेति दर्शनात्। जीवस्यापि चिद्रूपत्वदर्शनाच्च। न च ज्ञानगुणकत्वाज्जीवो द्रव्यमिति वाच्यम् ; परमात्मनोऽपि तव मते ज्ञानगुणकत्वेन चिद्द्रव्यत्वापत्तेः। तस्मादचिद्वस्त्वेव द्रव्यं, गुणवत्त्वात् , न तु चिद्वस्तु द्रव्यं निर्गुणत्वादिति स्थिते, कथं क्षेत्रस्य द्रव्यविशेषनिर्धारणार्थः प्रथमयच्छब्द इति कल्पयितुं शक्येत? न च पृथिव्यप्तेजआदिषु किं द्रव्यं क्षेत्रमित्युच्यत इति वाच्यम् ; न्यायशास्त्रपठितात्मव्यतिरिक्ताष्टद्रव्याणामपि क्षेत्रत्वेन तद्विशेषनिर्धारणालाभात्। किञ्च ‘इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते’ इति शरीरस्य क्षेत्रत्वस्योक्तत्वाच्छरीरस्य चाचित्त्वात् किं चिद्द्रव्यं क्षेत्रम् , उताचिद्द्रव्यमिति शङ्काया एवानुदयात् कथमत्र क्षेत्रस्य यद्द्रव्यत्ववादः? एवं यत्स्वरूपं चेदमित्यप्यनर्थकमेव। इदं शरीरमित्यनेन स्वरूपस्याप्युक्तत्वात्। तथा स च क्षेत्रज्ञो य इत्यप्यपार्थम् ‘एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः’ इत्युक्तत्वाज्जीवः क्षेत्रज्ञ इति। न च क्षेत्रज्ञस्य स्वरूपमनुक्तमिति वाच्यम् ; एतद्यो वेत्तीत्यनेन ज्ञानस्वरूपत्वस्योक्तत्वात्। म इत्यस्य मत्त इत्यर्थवर्णनमप्ययुक्तं, पञ्चम्यां म इत्यादेशाभावादस्मच्छब्दस्येति॥३॥

ऋषिभिरिति। पूर्वश्लोकोक्तं तत्पदमिहानुवर्तते। तत् क्षेत्रक्षेत्रज्ञयाथात्म्यं बहुधा ऋषिभिर्गीतम्। विविधैश्छन्दोभिः पृथग्गीतम् , विनिश्चितैर्हेतुमद्भिर्ब्रह्मसूत्रपदैश्चैव गीतमित्यन्वयः। यद्वा तद् ऋषिभिः विविधैश्छन्दोभिः विनिश्चितैर्हेतुमद्भिर्ब्रह्मसूत्रपदैश्चैव बहुधा पृथग्गीतमित्यन्वयः। वसिष्ठादिभिरित्यादिपदाद् विश्वामित्रयाज्ञवल्क्यादिग्रहणम्। बहुप्रकारमिति। एक एवार्थो बहुभिः प्रकारैरुक्त इत्यर्थः। ऋगादीनीत्यादिपदाद् यजुरादिग्रहणम्। विवेकत इत्यात्मानात्मविवेकादित्यर्थः। ब्रह्मसूत्राणि शारीरकसूत्राणि, तानि च तानि पदानि च ब्रह्मसूत्रपदानि ब्रह्मप्रतिपादकानि सूत्रभूतानि वाक्यानीत्यर्थः। पद्यते ब्रह्म एभिरिति पदानि। ननु कानि तानि ऋगादीनि क्षेत्र- क्षेत्रज्ञयाथात्म्यप्रतिपादकानीत्यत आह— ‘आत्मेत्येवोपासीत’ इत्येवमादिभिरिति। आदिपदात् ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादि- श्रुतिग्रहणम्। वसिष्ठसंहितादिषु तु वसिष्ठाद्युक्तश्लोका ज्ञेयाः। ‘ज्ञोऽत एवे’त्यादिब्रह्मसूत्राणि तद्ग्रन्थे द्रष्टव्यानि। ननु पद्यते एभिर्ब्रह्मेति पदत्वमुक्तं ब्रह्मसूत्राणाम् , तत् कुतः? अत आह— ब्रह्मसूत्रेति। आत्मा ज्ञायत इति। अनात्मविवेकादिति भावः। हेतवो युक्तयः सन्त्यत्रेति हेतुमन्ति तैर्हेतुमद्भिः। अत एव विनिश्चितैरिति। युक्तियुक्तत्वेन निश्चयप्रत्ययोत्पादकत्वाद् ब्रह्मसूत्रैरात्मा ज्ञायत इति १. प्रथमयच्छब्दो जडाजडद्रव्यविशेषनिर्धारणार्थः इति वेदान्तदेशिकोक्तं निरस्यति— न चेति। भाष्यार्कप्रकाशः तत् क्षेत्रक्षेत्रज्ञयोर्याथात्म्यं विवक्षितं स्तौति श्रोतृबुद्धिप्ररोचनार्थम्— ऋषिभिरिति। ऋषिभिः वसिष्ठादिभिः बहुधा बहुप्रकारं गीतं कथितम्। छन्दोभिः छन्दांसि ऋगादीनि, तैः छन्दोभिः विविधैः नानाप्रकारैः पृथग् विवेकतो गीतम्। किञ्च ब्रह्मसूत्रपदैश्चैव ब्रह्मणः सूचकानि वाक्यानि ब्रह्मसूत्राणि, तैः पद्यते गम्यते ज्ञायते ब्रह्मेति तानि ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥

[आनन्दगिरिकृतव्याख्या]

[[अ. १३. श्लो. ३-४]] [[६५०]]

पदान्युच्यन्ते, तैरेव च क्षेत्रक्षेत्रज्ञयोर्याथात्म्यं गीतमित्यनुवर्तते। ‘आत्मेत्येवोपासीत ’(बृ.उ.१.४.७) इत्यादिभिर्हि ब्रह्मसूत्रपदैरात्मा ज्ञायते। हेतुमद्भिः युक्तियुक्तैः विनिश्चितैः निःसंशयरूपैः, निश्चितप्रत्ययोत्पादकैरित्यर्थः॥४॥

स्तुत्याऽभिमुखीभूतायार्जुनायाह भगवान्— महाभूतानीति। महाभूतानि १महान्ति च तानि, सर्वविकार- व्यापकत्वाद् , भूतानि च सूक्ष्माणि। स्थूलानि तु इन्द्रियगोचरशब्देनाभिधायिष्यन्ते। अहङ्कारो महाभूतकारणम् अहम्प्रत्ययलक्षणः। अहङ्कारकारणं बुद्धिः अध्यवसायलक्षणा। तत्कारणम् अव्यक्तमेव च। न व्यक्तम् अव्यक्तम् अव्याकृतमीश्वरशक्तिः, ‘मम माया दुरत्यया’(भ.गी.७.१४) इत्युक्तम्। एवशब्दः प्रकृत्यवधारणार्थः। एतावत्येवाष्टधा भिन्ना प्रकृतिः। चशब्दो भेदसमुच्चयार्थः। इन्द्रियाणि दश - श्रोत्रादीनि पञ्च बुद्ध्युत्पादकत्वाद् बुद्धीन्द्रियाणि, वाक्पाण्यादीनि पञ्च कर्मनिर्वर्तकत्वात् कर्मेन्द्रियाणि, तानि दश। एकं च; किं तत्? मनः एकादशं सङ्कल्पाद्यात्मकम्। आदिपदेन ‘ब्रह्मविदाप्नोति परम्’ ‘अथ योऽन्यां देवताम्’ इत्यादीनि विद्याऽविद्यासूत्राण्युक्तानि। आत्मेति क्षेत्रज्ञोपादानम्। तच्च क्षेत्रोपलक्षणम्। ‘अथातो ब्रह्मजिज्ञासा’ इत्यादीन्यपि सूत्राण्यत्र गृहीतानि, अन्यथा छन्दोभिरित्यादिना पौनरुक्त्यादिति मत्वा विशिनष्टि— हेतुमद्भिरिति॥४॥

क्षेत्रादियाथात्म्यस्तुत्या प्रलोभिताय, ‘किं तद्?’ इति जिज्ञासवे यथोद्देशं क्षेत्रं निर्दिशति—स्तुत्येति। महत्त्वे हेतुमाह—सर्वेति। भूतशब्देन स्थूलानामपि विशेषाभावाद् ग्रहे का हानिरित्याशङ्क्याह— स्थूलानीति। अहङ्कारोऽहम्प्रत्ययलक्षण इति सम्बन्धः। भूतानां प्रातीतिकत्वेनाभिमानमात्रात्मत्वं मत्वाऽहङ्कारं विशिनष्टि— महाभूतेति। ‘महतः पर’मित्यादौ प्रसिद्धं महच्छब्दार्थमहङ्कारहेतुमाह— अहङ्कारेति। ईश्वरशक्तिरित्युक्ते चैतन्यमपि शङ्क्येत, तदर्थमाह—ममेति। अवधारणरूपमर्थमेव स्फुटयति—एतावत्येवेति। पञ्च तन्मात्राणि, अहङ्कारः, महद् , अव्याकृतमित्यष्टधा भिन्नत्वम्। मूलप्रकृत्या सह तन्मात्रादिभेदानां समुच्चयश्चकारार्थः। दशेन्द्रियाण्येव विभज्य व्युत्पादयति— श्रोत्रेत्यादिना। २तदेव प्रश्नद्वारा स्फुटयति— किं तदिति। शब्दादिविषयशब्देन स्थूलानि भूतानि गृह्यन्ते।३ उक्तेषु ब्रह्मसूत्राणां पदत्वं युक्तमिति भावः। निश्चयप्रत्यय इति। आत्मा देहादिभ्यो विलक्षणः सच्चिदानन्दब्रह्मरूप इति निश्चयज्ञानमित्यर्थः। तस्मान्मद्वक्ष्यमाणार्थस्य श्रुतिस्मृतिन्यायसिद्धत्वाच्च ग्राह्यत्वमिति भावः॥४॥

महाभूतानीति। सर्वविकाराः सर्वकार्याणि। सूक्ष्माणीति। अपञ्चीकृतानीत्यर्थः। प्रकृत्यवधारणार्थ इत्यस्यार्थं स्वयमेवाह— एतावत्येवेति। भेदसमुच्चयः प्रकृत्यवान्तरभेदसमुच्चय इत्यर्थः। बुद्ध्युत्पादकत्वात् ज्ञानजनकत्वात्। शब्दादय इति। शब्दादिगुणकपञ्च- स्थूलभूतानीत्यर्थः। स्थूलानि त्विन्द्रियगोचरशब्देनाभिधास्यन्त इत्युक्तत्वात्। स्थूलसूक्ष्मभेदाद् भूतानि दश, ज्ञानकर्मभेदादिन्द्रियाणि दश, मनोबुद्ध्यहङ्कारभेदाद् अन्तःकरणत्रयं, प्रकृतिरेका मिलित्वा चतुर्विंशतिः। कपिलावतारोक्तसाङ्ख्याद् भिन्नमस्ति किञ्चित् साङ्ख्यं नाम मतम्। यत्रायं तत्त्वसंग्रहश्लोकः ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः’ इति। सप्त महदहङ्कारपञ्चतन्मात्राणि। षोडश इन्द्रियदशकं स्थूलभूतपञ्चकं मनश्च। अत्र महत्तत्वं बुद्धिरिति विवेकः। पुरुषस्तु पञ्चविंशः। आचक्षत इति कथयन्ति। साङ्ख्याः आचक्षते इत्यनेन न वेदान्तमते तत्त्वत्वमेतेषामिति सूचितम् , ब्रह्मभिन्नस्य भाष्यार्कप्रकाशः महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च। इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः॥५॥

१.‘महान्ति च तानि महाभूतानि, तेषां महत्त्वं सर्वविकारव्यापकत्वाद् द्रष्टव्यम् , तानि भूतानि च सूक्ष्माणि, न स्थूलानि। स्थूलानि तु’ इति पा.। २. एकं चेति यदुक्तमिति शेषः। ३. एतदुत्तरमयं पाठः स्यात् ‘शब्दादीनामेव ग्रहणे कर्मेन्द्रियाणां विषयानुक्तेर्वैरूप्यप्रसङ्गात् , क्षेत्रनिरूपणस्य च प्रकृतत्वात्’ इति। द्र.पृ. ६५२। आनन्दगिरिकृतव्याख्या

[[६५१]]

पञ्च चेन्द्रियगोचराः शब्दादयो विषयाः। तान्येतानि सांख्याश्चतुर्विंशतितत्त्वान्याचक्षते॥५॥

अथेदानीम् आत्मगुणा इति यानाचक्षते वैशेषिकाः, तेऽपि क्षेत्रधर्मा एव, न तु क्षेत्रज्ञस्येत्याह भगवान्— इच्छा द्वेष इति। इच्छा यज्जातीयं १सुखहेतुमर्थमुपलब्धवान् पूर्वम् , पुनस्तज्जातीयमुपलभमानः तमादातुमिच्छति सुखहेतुरिति। सेयमिच्छा २अन्तःकरणधर्मो ज्ञेयत्वात् क्षेत्रम्। तथा द्वेषो यज्जातीयमर्थं दुःखहेतुत्वेनानुभूतवान् तन्मात्रादिषु तन्त्रान्तरीयसम्मतिमाह— तानीति। ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकश्च विकारः’ इति पठन्ति ॥५॥

अव्यक्ताहङ्कारादीनां त्रैगुण्याभिमानादिधर्मकत्वं प्रसिद्धमिति ३(शब्दादीनामेव ग्रहणे कर्मेन्द्रियाणां विषयानुक्तेर्वैरूप्यप्रसङ्गात् , क्षेत्रनिरूपणस्य च प्रकृतत्वात् ) स्वरूपनिर्देशेनैव ‘तत् क्षेत्रं यच्च यादृक् चे’ति व्याख्यातम्। इदानीम् इच्छादीनामात्मविकारत्वनिवृत्तये क्षेत्रविकारत्वनिरूपणेन ‘यद्विकारी’त्येतद् निरूपयन् मतान्तरनिवृत्तिपरत्वेन श्लोकमवतारयति—अथेति। सर्वज्ञोक्तिविरोधाद् हेयं वैशेषिकं मतमिति मत्वोक्तम्— भगवानिति। उपलब्धजातीयस्योपलभ्यमानस्यादानेच्छायां हेतुमाह— सुखेति। इतिशब्दो हेत्वर्थः। सुखहेतुत्वात् तस्मिन्निच्छेत्यर्थः। इच्छां सुखतद्धेतुविषयत्वेन व्याख्यायात्मधर्मत्वं तस्याः व्युदस्यति— सेयमिति। तथापि कथं क्षेत्रान्त- र्भूतत्वम्? तत्राह— ज्ञेयत्वादिति। इच्छावद् द्वेषोऽपि धर्मो बुद्धेरित्याह— तथेति। कोऽसौ द्वेषो यस्य बुद्धिधर्मत्वम्? तत्राह— सर्वस्याप्यतत्त्वत्वात्। ‘तत्त्वं नारायणः परः’ इति श्रुतेः। ननु इदं शरीरं क्षेत्रमिति पूर्वमुक्तम् , इदानीं तु महाभूतानीत्याद्यन्यदुच्यत इति कथं स्ववचोव्याघाताभाव इति चेत्? नैष दोषः, दर्शितचतुर्विंशतितत्त्वात्मकत्वात् त्रिविधस्य शरीरस्य। तथाहि— अव्यक्तं मूलप्रकृतिरज्ञानं कारणशरीरम्। मनोबुद्ध्यहङ्काराः पञ्चतन्मात्राणि दशेन्द्रियाणि च लिङ्गशरीरम्। स्थूलभूतानि पञ्च तु स्थूलशरीरं स्थूलभूतकार्यत्वादस्येति। एतच्छरीरत्रयातिरिक्त- पदार्थाभावादिदं शरीरं क्षेत्रमित्युक्तम्। चतुर्विंशतितत्त्वानि हि शरीरत्रयम्। चतुर्विंशतितत्त्वसमष्टिसङ्घातरूपमिदं शरीरं चतुर्विंशति- तत्त्वानि च क्षेत्रमिति फलितार्थः। ननु इन्द्रियगोचरशब्देन यदि शब्दादिविषयाः गृह्यन्ते, तर्हि स्थूलभूतपञ्चकस्याक्षेत्रत्वम् ; यदि स्थूलभूतानि गृह्यन्ते, तर्हि शब्दादिविषयाणामक्षेत्रत्वमिति चेत्? नैष दोषः, शब्दादिविषयपञ्चकातिरिक्तस्थूलभूतपदवाच्यवस्तुन एवाभावात्। न हि गन्धरसा- द्यतिरिक्तपृथिवीजलादिसद्भावः। बुद्ध्या पृथिवीजलादिभ्यः सकाशाद् गन्धरसादिषु विवेचितेषु सत्सु पृथ्व्यादीनां निस्तत्त्वत्वसिद्धेः। अत एव साङ्ख्यैरपि पृथिव्यादयः पञ्च शब्दादयः पञ्च च पृथङ् न गृहीताः। तस्माच्छब्दादय एव शब्दादिगुणकपञ्चभूतानीति स्थितम्। ततश्च शब्दादिगुणानां गगनादिद्रव्याणां च क्षेत्रत्वमिति सिद्धम्। न च प्राणस्य पृथगनुक्तिरिति वाच्यम् ; तस्यान्तरवायुत्वेन वायावन्तर्भावादिति ॥५॥

इच्छेति। यज्जातीयमिति। यस्यां जातौ भवमित्यर्थः। सुखात्मकं सुखहेतुभूतमित्यर्थः। अर्थं पदार्थं चूतफलादिकमिति भावः। उपलब्धवान् अनुभूतवान्। समुपलभमानः पश्यन्। सुखहेतुरिति हेतोः पुनस्तमर्थं समादातुमिच्छतीत्यन्वयः। सेयमिति। पूर्वा- नुभूतसजातीयसुखहेतुपदार्थादानकामना इच्छेत्युच्यते। इच्छा अन्तःकरणस्य धर्मः, ज्ञेयत्वात् सुखादिवदिति, इच्छा क्षेत्रं, ज्ञेयत्वाद् देहादिवदिति च प्रयोगौ सूचयति— अन्तःकरणस्येत्यादिना। तथेति पूर्ववाक्यार्थसमाप्तिद्योतकमव्ययम्। अनुकूलमिति। यस्मिन् १. ‘सुखात्मकं’ इति रा.पा.। २. ‘अन्तःकरणस्य धर्मः’ इति रा.पा.। ३. कुण्डलितो ग्रन्थः सर्वत्र इह मुद्रितोऽपि पूर्वपृष्ठे संगतः स्यात् । द्र. टि.पृ.६५१। भाष्यार्कप्रकाशः इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः। एतत् क्षेत्रं समासेन सविकारमुदाहृतम्॥ ६ ॥

[आनन्दगिरिकृतव्याख्या]

[[अ. १३. श्लो. ४-६]] [[६५२]]

पुनस्तज्जातीयमर्थमुपलभमानः तं द्वेष्टि १दुःखहेतुरिति। सोऽयं द्वेषो ज्ञेयत्वात् क्षेत्रमेव। तथा सुखम् अनुकूलं २प्रसन्न- सत्त्वात्मकं ज्ञेयत्वात् क्षेत्रमेव। दुःखं प्रतिकूलात्मकं ज्ञेयत्वात् तदपि क्षेत्रम्। संघातो देहेन्द्रियाणां संहतिः। तस्यामभिव्यक्ताऽन्तःकरणवृत्तिः, तप्त इव लोहपिण्डेऽग्निः, आत्मचैतन्याभासरसविद्धा चेतना, सा च क्षेत्रं ज्ञेयत्वात्। धृतिः यया अवसादप्राप्तानि देहेन्द्रियाणि ध्रियन्ते, सा च ज्ञेयत्वात् क्षेत्रम्। सर्वान्तःकरणधर्मोपलक्षणार्थमिच्छादि- ग्रहणम्। यत उक्तं तदुपसंहरति— एतदिति। एतत् क्षेत्रं समासेन सविकारं सह विकारेण महदादिना उदाहृतम् उक्तम्॥६॥

यज्जातीयमिति। तस्यापीच्छावत् क्षेत्रान्तर्भावमाह— सोऽयमिति। इच्छाद्वेषवद् बुद्धिधर्मः सुखमपीत्याह— तथेति। तस्यापि स्वरूपोक्त्या क्षेत्रान्तःपातित्वमाह— अनुकूलमिति। दुःखस्यापि स्वरूपोक्त्या क्षेत्रमध्यवर्तित्वमाह— दुःखमिति। देहेन्द्रियात्मवादौ व्युदसितुं क्षेत्रान्तर्भूतमेव संघातं विभजते— देहेति। विज्ञानवादं प्रत्याह— तस्यामिति। तप्ते लोहपिण्डे वह्नेरभिव्यक्तिवदुक्तसंहतौ बुद्धिवृत्तिरभिव्यज्यते। तत्र चाग्निरभिव्यक्तो लोहपिण्डमेवाग्निबुद्ध्या ग्राहयति। तथाऽऽत्मचैतन्यं बुद्धिवृत्तावभिव्यक्तं तामेवात्मतया बोधयति। अतस्तदाभासानुविद्धा सैव चेतनेत्युच्यते। सा च मुख्यं चेतनं प्रति ज्ञेयत्वादतद्रूपत्वात् क्षेत्रमेवेत्यर्थः। धृतिस्वरूपोक्त्या क्षेत्रत्वं तस्या दर्शयति— धृतिरित्यादिना। नन्वन्येऽपि सङ्कल्पादयो मनोधर्माः सन्ति, ते किमित्यत्र क्षेत्रत्वेन नोच्यन्ते? तत्राह— सर्वेति। तस्योपलक्षणार्थत्वे हेतुमाह— यत इति। इच्छादिवद् अस्मिन्नवसरे सङ्कल्पादीनामपि दर्शितत्वं सिद्धवत्कृत्य प्रकरणविभागार्थं यतो भगवानुक्तं क्षेत्रमुपसंहरति, अतो युक्तमिच्छादिग्रहस्य सर्वानुक्तबुद्धिधर्मोपलक्षणार्थत्वमित्यर्थः॥६॥

ममेदमनुकूलमिति बुद्धिः पुंसां तत् सुखम्। किंस्वरूपं तदित्यत आह— सत्त्वात्मकमिति। अन्तःकरणसत्त्वगुणपरिणामविशेष एव सुखमित्यर्थः। एतद्विपरीतं दुःखमित्याह— प्रतिकूलात्मकमिति। ३सङ्घाते या चेतना सा च क्षेत्रमेव। सङ्घातशब्दार्थमाह— देहेति। संहतिः संश्लेषः। तस्मिन् तप्ते लोहपिण्डेऽग्निरिव अभिव्यक्ता आत्मचैतन्याभासरसविद्धा अन्तःकरणवृत्तिः चेतना। अभिव्यक्ता प्रकटीभूता, तत्तादात्म्यं प्राप्तेति यावत्। आत्मनो यश्चैतन्याभासः चित्प्रतिफलनं स एव रसः तेन विद्धा व्याप्ता। अन्तःकरणस्य वृत्तिः परिणामविशेषः। स्थूलोऽहं, काणोऽहं, सुख्यहमित्याद्याकारिका सा चेतनेत्युच्यते। धृतिर्धैर्यम्। अवसादं शैथिल्यात्मकं नाशं। विष्टभ्य संस्तभ्य। ननु इच्छाद्वेषादीनामेव क्षेत्रत्वे कामसङ्कल्पश्रद्धाह्रीभीत्यादीनां किं न क्षेत्रत्वम्? अत आह— सर्वेति। इच्छादयः केचिदन्तः- करणधर्मा इहोपात्ताः। अमी चोपलक्षणतया सर्वानप्यन्तःकरणधर्मान् क्षेत्रमिति ज्ञापयन्तीत्यर्थः। ननु इच्छादयः क्षेत्रधर्मा एव, न तु क्षेत्रज्ञधर्मा इत्यवतारिकायामुक्तम् , इदानीं त्विच्छादयः क्षेत्रमित्येवोच्यते; अतो विरोध इति चेत्? मैवम् ; अन्तःकरणादिवदन्तःकरणादिधर्माणामपि क्षेत्रत्वेनाविरोधात्। न हि क्षेत्रक्षेत्रज्ञातिरिक्तं क्षेत्रधर्मात्मकं किञ्चिद् वस्त्वस्ति। दृग्दृश्ययोर्द्वयोरेवास्मिन् मते पदार्थत्वात्। दृगेव क्षेत्रज्ञः, दृश्यं तु क्षेत्रमिति विवेकः। महदादिनेति। आदिपदात् साङ्ख्योक्ताहङ्कारतन्मात्रादिग्रहणम्। तेषां सर्वेषामपि मूलप्रकृतिकार्यत्वेन विकारत्वात्। क्षेत्रमिति। प्रकृतिलक्षणमिति भावः। तस्या एव महदादिविकारसहितत्वात्। मूलप्रकृतिः महदादिविकाराः इच्छादितद्धर्माः एतत्सर्वमपि दृश्यं क्षेत्रमेवेति निर्गलितार्थः। ननु इदं शरीरं क्षेत्रमिति पूर्वमुक्तम् , इदानीं तु महाभूतानीत्यादिना ततोऽन्यदेव क्षेत्रमित्युच्यते; अत आह— ४यस्येति। क्षेत्रभेदजातस्येति। क्षेत्रशब्दवाच्यप्रकृतिमहदादिभेदसमूहस्य। इह व्यष्ट्या निर्दिष्टानां महाभूतादीनां क्षेत्रभेदानां समष्टिरेव शरीरं पूर्वं क्षेत्रमित्युक्तमिति न विरोध इति भावः। महाभूतादिभेदभिन्नं धृत्यन्तं तत् क्षेत्रं व्याख्यातमिति सम्बन्धः। १. ‘दुःखहेतुरिति’ इति रापुस्तके पाठः, नान्यत्र। २. ‘प्रसन्नं सत्त्वात्मकं’ इति पा.। ३. मूले भाष्ये च ‘संघाते चेतना धृतिः’ इति रा.पा. भाति। द्र. पृ. ६६०। ४. अयं प्रतीकः भाष्ये उत्तरश्लोकावतारिकायां द्रष्टव्यः। भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या

[[६५३]]

यत्तु रामानुजः - इच्छा द्वेषः सुखं दुःखमिति क्षेत्रकार्याणि क्षेत्रविकाराः उच्यन्ते। यद्यप्येतानीच्छादीन्यात्मधर्मभूतानि, तथा- प्यात्मनः क्षेत्रसम्बन्धप्रयुक्तानीति क्षेत्रकार्यतया क्षेत्रविकारा उच्यन्त इति। तत्तुच्छम् - ‘कामः सङ्कल्पः’ इत्यारभ्य ‘तत्सर्वं मन एवे’ति मनोधर्मत्वश्रवणादिच्छादीनाम्। आत्मधर्मत्वे सुषुप्तौ मनसि लीने सति तद्दर्शनप्रसङ्गात्। इच्छादिविकाराणामात्मनि सत्त्वे सविक्रियत्वप्रसङ्गादात्मनः, तेन चानित्यत्वदोषप्रसङ्गात्। स्वधर्मस्य स्ववेद्यत्वानुपपत्त्या आत्मना वेद्यमानानामिच्छादीनामात्मधर्मत्वा- योगाच्च। न च ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ते’ इति मुक्ताश्रितत्वेन कामसङ्कल्पयोः श्रवणादात्मधर्मावेवैताविति वाच्यम् ; सगुणमुक्तिं प्राप्तपुरुषविषयत्वात् तच्छ्रुतेः। सगुणमुक्तौ हि हिरण्यगर्भलोके मनआदयः सन्ति। न हि कैवल्ये कामादिसद्भावः। न च तत्रापि विवदितव्यम् , सुप्तिमृतिमूर्छासु कामाद्यदर्शनादात्मनस्तेन न्यायेन मुक्तावपीत्यनुमानात्। ‘स्वाप्ययसम्पत्त्यो’रिति सूत्रेण ‘तत्र केन कं पश्येदि’त्यादिश्रुतेः सुषुप्तिमुक्तिविषयत्वस्य स्थापितत्वात्। तच्छ्रुतौ च श्रवण- दर्शनादिसर्वज्ञाननिषेधाच्च। न च सुखादयः आत्मधर्मभूतज्ञानावस्थाविशेषाः इति वाच्यम् ; आत्मनो ज्ञानस्वरूपस्य धर्मभूत- ज्ञानस्यैवाभावात्। न हि स्वरूपभूते ज्ञाने धर्मभूतं किञ्चिज्ज्ञानान्तरं भवितुमर्हति। तस्यापि धर्मभूतज्ञानस्य ज्ञानस्वरूपत्वे तस्मिन्नपि धर्मभूतज्ञाने ज्ञानान्तरमित्येवमनवस्थादोषात्। ज्ञानस्वरूपत्वाभावे ज्ञानत्वस्यैवासिद्धेः। न च धर्मधर्मिणोरुभयोरेकमेव ज्ञानं स्वरूपमिति वाच्यम् ; धर्मधर्मिभेदासिद्धेः। न च ‘सोऽकामयते’तीश्वरस्य करणरहितस्य कामः श्रूयत इति कामादय आत्मधर्मा इति वाच्यम् ; मायया ईश्वरस्य कामसङ्कल्पसम्भवाद् मायाधर्मावेव कामसङ्कल्पौ जगत्सृष्टिविषयाविति। न च मुक्तिकालिकब्रह्मानन्दा- नुभवरूपसुखस्य मुक्तात्मधर्मत्वात् तत्साजात्येन सुखं सर्वमप्यात्मधर्म एवेति वाच्यम् ; तत्सुखस्यात्मस्वरूपत्वेनात्मधर्मत्वायोगात्। सच्चिदानन्दं हि ब्रह्म। ब्रह्मानन्दानुभवोऽप्यात्मानन्दान्नातिरिच्यते। लौकिकसुखानुभवस्तु सुखादतिरिच्यते। सुखस्य विषयत्वात् ज्ञानस्य विषयित्वाच्च। न ह्यानन्दानुभवादन्यः कोऽपि मुक्तावस्ति। अनुभवितुरन्यस्य सत्त्वे त्रिपुट्या ‘एकमेवाद्वितीयं ब्रह्म’ इति श्रुतिविरोधात् , आत्मनो ज्ञानस्वरूपत्वप्रतिपादकश्रुतिविरोधाच्च। ननु ज्ञानत्वेन प्रसिद्धाः कामसङ्कल्पादयो यदि मनोधर्मत्वेन मनोवृत्तिरूपाः स्युः, तर्हि वृत्तीनां जडत्वाज्ज्ञानत्वप्रसिद्धिविरोधः, विषयप्रकाशनासामर्थ्यं च। न च वृत्तीनां चैतन्यसम्बन्धेन विषयप्रकाशनसामर्थ्यमिति वाच्यम् ; निर्विशेषचैतन्यस्य सर्वविषय- विमुखस्य विषयप्रकाशायोग्यत्वेन तत्साहाय्यस्य ‘शतमप्यन्धानां न पश्यती’ति न्यायेन विषयप्रकाशसामर्थ्यानापादकत्वात्। निर्विशेषचैतन्यस्य तद्योग्यत्वे तेनैव प्रकाशाद्युपपत्तौ वृत्त्यवच्छेदकल्पनायाः अनर्थकत्वात्। न च संसारदशायां १सङ्कुचितस्य तस्य विषयव्यवस्थौपयिकतया साफल्यमिति वाच्यम् ; तस्य सङ्कोचाङ्गीकारे निर्विकारत्वादिप्रतिपादकश्रुत्यादिविरोधात् , चक्षुरादिवृत्तिभिरेव विषयव्यवस्थोपपत्तेश्च। धर्मभूतज्ञानस्य च विकारोऽङ्गीकृत एवेति न किञ्चिदनुपपन्नमस्माकमिति चेत् , मैवम् ; यद्यात्मा ज्ञानस्वरूपो न स्यात् , तर्हि विषयप्रकाशो न स्यात् , ज्ञानस्वरूपत्वं तु श्रुत्यादिसिद्धम्। न च निर्विशेषत्वेन निर्धर्मके आत्मनि प्रकाशकत्वधर्मायोग इति वाच्यम् ; अप्रकाशकत्वस्याप्ययुक्तत्वात्। प्रकाशकत्वस्य प्रकाशादनतिरिक्तत्वाज्ज्ञानस्य च प्रकाशात्मकत्वात्। व्यापकत्वाच्च साक्षिचैतन्यस्य न विषयवैमुख्यम्। अविद्यान्तःकरणादीनां साक्षिभास्यत्वेऽपि घटादीनां वृत्तिभास्यत्वान्न वृत्तिवैयर्थ्यम्। अन्तः- करणोपहितस्य साक्षिचैतन्यस्य चक्षुरादिद्वारा वृत्तिनिर्गमनं विना घटादिबाह्यविषयसंसर्गाभावान्न साक्षिभास्यत्वं घटादीनाम्। वस्तुतस्तु साक्षिणाऽप्यविद्यादयोऽविद्याकारवृत्त्यैवावभास्यन्त इति बोध्यम्। तप्तलोहस्याग्नितादात्म्यादौष्ण्यमिव वृत्तेश्चित्प्र- तिफलनाद् भासकत्वं सम्भवति। अन्तःकरणोपहितत्वेन हेतुना साक्षिचैतन्यस्य स्वतः सर्वविषयानवभासकत्वेऽपि न सङ्कोचः। यथा घटोपहितत्वेन हेतुना घटाकाशस्य सर्वव्यापित्वाभावेऽपि न सङ्कोचः, दृश्यमानसङ्कोचस्यातात्त्विकत्वादौपाधिकत्वेन। यद्धि स्वाभाविकं तद्धि तात्त्विकम्। यथा गगनस्य नीरूपत्वम्। तस्मान्नात्मनः कोऽपि विकारः। वस्तुतस्तु चैतन्यस्यान्तःकरणेन निरवयवस्य परिच्छेदायोगात् पूर्णमेव साक्षिचैतन्यमिति बोध्यम्। धर्मभूतज्ञानं तु नास्त्यात्मन इति प्रागेव निराकृतम्। वृत्तिज्ञानं तु मनोधर्म एव नात्मधर्मः, निर्धर्मकत्वादात्मनः इति १. धर्मभूतज्ञानस्य कर्मवशात् संकोचविकासौ तन्मतसिद्धौ। भाष्यार्कप्रकाशः

[[अ. १३. श्लो. ६]] [[६५४]]

यस्य क्षेत्रभेदजातस्य संहतिरिदं शरीरं क्षेत्रमित्युक्तम् , तत् क्षेत्रं व्याख्यातं महाभूतादिभेदभिन्नं धृत्यन्तम्। क्षेत्रज्ञो वक्ष्यमाणविशेषणो यस्य सप्रभावस्य क्षेत्रज्ञस्य परिज्ञानादमृतत्वं भवति, तं ‘ज्ञेयं यत्तत्प्रवक्ष्यामि’ (भ.गी. १३.१३) इत्यादिना सविशेषणं स्वयमेव वक्ष्यति भगवान्। अधुना तु तज्ज्ञानसाधनगणम् अमानित्वादिलक्षणं, यस्मिन् सति तज्ज्ञेयविज्ञाने योग्योऽधिकृतो भवति, यत्परः संन्यासी ज्ञाननिष्ठः उच्यते, तम् अमानित्वादिगणं ज्ञान- साधनत्वाज्ज्ञानशब्दवाच्यं विदधाति भगवान्— अमानित्वमिति। अमानित्वम् - मानिनो भावो मानित्वम् आत्मनः श्लाघनं, तदभावोऽमानित्वम्। अदम्भित्वम् - स्वधर्मप्रकटीकरणं दम्भित्वं, तदभावोऽदम्भित्वम्। अहिंसा अहिंसनं प्राणिनामपीडनम्। क्षान्तिः परापराधप्राप्तावविक्रिया। आर्जवम् ऋजुभावोऽवक्रत्वम्। आचार्योपासनं मोक्षसाधनो- विरक्तस्य ज्ञानेऽधिकाराय वैराग्यार्थं क्षेत्रं व्याख्यातमित्यनुवदति—यस्येति। क्षेत्रभेदजातस्य व्यष्टिदेहविभागस्य सर्वस्येत्यर्थः। संहतिः समष्टिशरीरम्। ननूक्ते क्षेत्रे क्षेत्रज्ञो वक्तव्यः, तं हित्वा किमित्यन्यदुच्यते? तत्राह— क्षेत्रज्ञ इति। ‘अनादिमदि’त्यादिना वक्ष्यमाणविशेषणं क्षेत्रज्ञं स्वयमेव भगवान् विवक्षितविशेषणसहितं ‘ज्ञेयं यत्तद्’ इत्यादिना वक्ष्यतीति सम्बन्धः। किमिति क्षेत्रज्ञो वक्ष्यते? तत्राह— यस्येति। ‘ज्ञेयं यत्तद्’ इत्यतः प्राक्तनग्रन्थस्य तात्पर्यमाह— अधुनेति। अमानित्वादिलक्षणं विदधातीत्युत्तरत्र सम्बन्धः। ज्ञानसाधनसमुदायबोधनं कुत्रोपयुज्यते? तत्राह—यस्मिन्निति। योग्यमधिकृतमेव विवृणोति—यत्पर इति। ‘एतज्ज्ञानम्’ इति वचनात् कथमिदं ज्ञानसाधनम्? इत्याशङ्क्याह१— तमिति। तद्विधानस्य वक्तृद्वारा दार्ड्यं सूचयति— भगवानिति। अमानित्वादिनिष्ठस्यान्तर्धियो ज्ञानमिति नियमार्थमाह— अमानित्वमिति। मानः तिरोहितोऽवलेपः। स चात्मन्युत्कर्षारोपहेतुः। सोऽस्येति मानी। न मानी अमानी, तस्य भावोऽमानित्वमिति व्याकरोति— अमानित्वमित्यादिना। प्रतियोगिमुखेनादम्भित्वं विवृणोति— अदम्भित्वमिति। वाङ्मनोदेहै- रपीडनं प्राणिनाम् अहिंसनम्। तदेवाहिंसेत्याह—अहिंसेति। परापराधस्य चित्तविकारकारणस्य प्राप्तावेवाविकृतचित्तत्वेनापकार- सहिष्णुत्वं क्षान्तिरित्याह— क्षान्तिरिति। अवक्रत्वम् अकौटिल्यं यथाहृदयव्यवहारः, सदैकरूपप्रवृत्तिनिमित्तत्वं चेत्यर्थः। ‘उपनीय तु सङ्क्षेपः॥६॥

अमानित्वमिति। वक्ष्यमाणेति। ‘अनादिमत्परं ब्रह्मे’त्यादिनेति भावः। अमृतत्वं मोक्षः। तं क्षेत्रज्ञम्। न च ज्ञेयं ब्रह्म वक्ष्यतीति वाच्यम् ; क्षेत्रस्यैव ज्ञेयत्वात्। उक्तं हि ‘क्षेत्रज्ञं चापि मां विद्धी’ति। अमानित्वादिलक्षणं तज्ज्ञानसाधनगणं क्षेत्रज्ञज्ञानसाधनचयं भगवान् विदधातीत्यन्वयः। मुमुक्षुणा क्षेत्रज्ञसाक्षात्काराय अमानित्वादयो गुणाः आत्मनः सम्पाद्याः इति भगवता विधीयत इत्यर्थः। विदधातीत्यनेन यथा अज्ञस्य चित्तशुद्धये कर्मयोगो विहितः, तथा मुमुक्षोरमानित्वादिगुणयोगो विहित इति ज्ञायते। ननु ज्ञानमेवार्जुनेन पृष्टमिति तदेव वाच्यमित्यत आह— ज्ञानसाधनत्वाज्ज्ञानशब्दवाच्यमिति। आत्मसाक्षात्काररूपे ज्ञाने ज्ञातव्यविशेषाभावेन प्रश्नायोगाज्ज्ञानसाधनविशेषजिज्ञासयैव ज्ञानप्रश्नोऽर्जुनस्यापीति बोध्यम्। परापराधेति। परकर्तृकापराधेत्यर्थः। अविक्रियेति। स्वापराधकर्तृषु कोपादिविकाराभावः। अवक्रत्वमकौटिल्यम्। यः शास्त्रार्थं स्वयमाचरन्नन्यानप्याचरयति, २स विद्वानाचार्यः इत्युच्यते। स च शास्त्रार्थः प्रकृते मोक्षसाधनान्येवेत्यभिप्रेत्याह— मोक्षेति। १. ज्ञायतेऽनेनेति ज्ञानमिति करणे ल्युडिति भावः। २. आचार्यशब्देन ‘आचिनोति हि शास्त्रार्थम् आचारे स्थापयत्यपि। स्वयमाचरते यस्मात् तस्मादाचार्य उच्यते॥’ इत्युक्तलक्षणः आचार्यः ग्राह्यः इति भावः। भाष्यार्कप्रकाशः अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम्। आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥७॥

[आनन्दगिरिकृतव्याख्या]

[[६५५]]

पदेष्टुराचार्यस्य शुश्रूषादिप्रयोगेण सेवनम्। शौचं कायमलानां मृज्जलाभ्यां प्रक्षालनम् , अन्तश्च मनसः प्रतिपक्ष- भावनया रागादिमलानामपनयनं शौचम्। स्थैर्यं स्थिरभावो, मोक्षमार्ग एव १कृताध्यवसायत्वम्। आत्मविनिग्रहः, २आत्मनोऽपकारकस्यात्मशब्दवाच्यस्य कार्यकरणसङ्घातस्य विनिग्रहः स्वभावेन सर्वतः प्रवृत्तस्य सन्मार्ग एव निरोध आत्मविनिग्रहः॥७॥

किञ्च - इन्द्रियेति। इन्द्रियार्थेषु शब्दादिषु ३दृष्टादृष्टेषु भोगेषु विरागभावो वैराग्यम्। अनहङ्कारः अहङ्काराभाव एव च। जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं जन्म च मृत्युश्च जरा च व्याधयश्च दुःखानि च तेषु जन्मादिदुःखान्तेषु यः शिष्यम्’ इत्यादिनोक्तमाचार्यं व्यवच्छिनत्ति— मोक्षेति। शुश्रूषादीत्यादिपदं नमस्कारादिविषयम्। बाह्यमाभ्यन्तरं च द्विप्रकारं शौचं क्रमेण विभजते— शौचमित्यादिना। मनसो रागादिमलानामिति सम्बन्धः। तदपनयोपायमुपदिशति— प्रतिपक्षेति। रागादिप्रतिकूलस्य भावना विषयेषु दोषदृष्ट्यावृत्तिः, तयेति यावत्। स्थिरभावमेव विशदयति— मोक्षेति। आत्मनो नित्यसिद्धस्यानाधेयातिशयस्य कुतो विनिग्रहः? तत्राह— आत्मन इति॥७॥

न केवलममानित्वादीन्येव ज्ञानस्यान्तरङ्गसाधनानि, किन्तु वैराग्यादीन्यपि तथाविधानि सन्तीत्याह— किञ्चेति। दृष्टादृष्टेष्वने- कार्थेषु रागे, तत्प्रतिबद्धं ज्ञानं नोत्पद्येतेति मत्वा व्याकरोति— इन्द्रियेति। आविर्भूतो गर्वोऽहङ्कारः। तदभावोऽपि ज्ञानहेतुरित्याह— अनहङ्कार इति। इन्द्रियार्थेषु वैराग्यमुक्तमुपपादयति— जन्मेति। प्रत्येकं दोषानुदर्शनमित्युक्तम्। तत्र जन्मनि दोषानुदर्शनं विशदयति— श्रोतुमिच्छा शुश्रूषा, तत्प्रयुक्तगुरुकार्यकरणमपि शुश्रूषेत्युच्यते। आदिशब्देन नमस्कारादिग्रहणम्। प्रयोगः करणम्। तेन रूपेण सेवनमुपासनमित्युच्यते। शौचं शुचित्वम्। तद् द्विविधम् - कायिकं मानसिकं चेत्याह— कायेति। प्रतिपक्षाणां वैराग्यशान्त्यादीनां भावनया आत्मनि सम्पादनेनेत्यर्थः। कृतव्यवसायत्वं कृतनिश्चयत्वम्। आत्मनः क्षेत्रज्ञस्य निग्रहाद्यविषयत्वादाह— कार्यकरण- संघातस्येति। ननु कथं तस्यात्मशब्दवाच्यत्वम्? अत आह— आत्मन उपकार[क]तयेति। यद्यपि क्षेत्रज्ञस्य न कोऽप्युपकारोऽपकारो वा, तथापि साधनानुष्ठातॄणां प्रमातर्येवात्माभिमानादुक्तम् आत्मन उपकार[क]तयेति। प्रमातुर्हि पश्वादिशरीराणि ज्ञानसाधनानुष्ठाना- योग्यानीति तद्योग्यत्वाद् मनुष्यशरीरमुपकारकम् , मनुष्यशरीर एव मनसोऽपि विवेकादिज्ञानलाभान्मनुष्यशरीरस्थस्यैव लिङ्गशरीर- स्यापि प्रमात्रुपकारकत्वम्। तस्मात् स्थूलसूक्ष्मशरीरद्वयस्य कार्यकरणसङ्घातनामकस्य विनिग्रहः कर्तव्यो मुमुक्षुणा। सर्वत इति। सर्वविषयेष्वित्यर्थः। सन्मार्ग एवेति। मोक्षमार्ग एव निरोधः प्रवर्तनं स्थापनमिति यावत्। देहादिभिर्मोक्षसाधनान्येव यथाऽनुष्ठीयेरन् , ऐहिकामुष्मिकफलहेतूनि नरकहेतूनि वा विहितानि निषिद्धानि च कर्माणि यथा नानुष्ठीयेरन् तथा प्रयतनमात्मविनिग्रह इति भावः॥७॥

इन्द्रियेति। इन्द्रियाणां करणानामर्था विषया इन्द्रियार्थाः शब्दादयः। आदिपदात् स्पर्शरूपरसगन्धग्रहणम्। ते चेष्टानिष्टभेदेन द्विविधाः, पुनश्च दृष्टादृष्टभेदेन द्विविधाः। दृष्टाः ऐहिकाः, अदृष्टाः आमुष्मिकाः। तत्र दृष्टानिष्टविषयेष्वदृष्टानिष्टविषयेषु च पुंसां स्पृहैव नास्तीति तद्वैराग्यप्रतिपादनं व्यर्थमित्यभिप्रेत्याह— दृष्टादृष्टेष्टविषयभोगेष्विति। भुज्यन्त इति भोगाः। दृष्टाश्चादृष्टाश्च दृष्टादृष्टाः। ते च त इष्टा विषया भोगाश्च तेषु। यद्वा भोगा अनुभवा दृष्टादृष्टेष्टविषयाणां भोगा इति समासः, तेषु। लाक्षणिकोऽयमर्थः - इन्द्रियार्थशब्दस्य इन्द्रियार्थभोगरूपार्थवर्णनात्। स्त्रीपुत्रपशुगृहादिषु रम्भादिषु चेति भावः। विगतो रागः स्पृहा यस्मात् स विरागः, तस्य भावो वैराग्यं १. ‘कृतव्यवसायत्वम्’ इति रा.पा. भाति। २. ‘आत्मन उपकारकतयाऽऽत्म’ इति पा.।३. ‘दृष्टादृष्टेष्टविषयभोगेषु’ ‘दृष्टादृष्टेषु विषयभोगेषु’ इति पा.। भाष्यार्कप्रकाशः इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्॥८॥

[आनन्दगिरिकृतव्याख्या]

अ. १३. श्लो. ७ -८ ]

[[६५६]]

प्रत्येकं दोषानुदर्शनम्। जन्मनि गर्भवासयोनिद्वारनिःसरणं दोषः, तस्यानुदर्शनमालोचनम्। तथा मृत्यौ दोषानु- दर्शनम्। तथा जरायां प्रज्ञाशक्तितेजोनिरोधदोषानुदर्शनम् , परिभूतता चेति। तथा व्याधिषु शिरोरोगादिषु दोषानु- दर्शनम्। तथा दुःखेष्वध्यात्माधिभूताधिदैवनिमित्तेषु। १अथवा दुःखान्येव दोषो दुःखदोषः, तस्य जन्मादिषु पूर्ववद- नुदर्शनम्। दुःखं जन्म, दुःखं मृत्युः, दुःखं जरा, दुःखं व्याधयः। दुःखनिमित्तत्वाज्जन्मादयो दुःखं, न पुनः स्वरूपेणैव दुःखमिति। एवं जन्मादिषु दुःखदोषानुदर्शनाद् देहेन्द्रियविषयभोगेषु वैराग्यमुपजायते। ततः प्रत्यगात्मनि प्रवृत्तिः जन्मनीति। यथा जन्मनि दोषानुसन्धानं, तथा मृत्यौ दोषस्य सर्वमर्मनिकृन्तनादेरालोचनं कार्यमित्याह— तथेति। जन्मनि मृत्यौ च दोषानुसन्धानवज्जरादिष्वपि दोषानुसन्धानं कर्तव्यमित्याह— तथेति। व्याधिषु दोषस्यासह्यतारूपस्यानुसन्धानम्। दुःखेषु त्रिविधेष्वपि दोषानुसन्धानं प्रसिद्धम्। व्याख्यानान्तरमाह— अथवेति। यथा जन्मादिषु दुःखान्तेषु दोषदर्शनमुक्तम् , तथा तेष्वेव दुःखाख्यदोषस्य दर्शनं स्फुटयति— दुःखमित्यादिना। कथं जन्मादीनां बाह्येन्द्रियग्राह्याणां दुःखत्वम्? तत्राह— दुःखेति। जन्मादिषु दोषानुदर्शनकृतं फलमाह— एवमिति। वैराग्ये सत्यात्मदृष्ट्यर्थं करणानां तदाभिमुख्येन प्रवृत्तिरिति वैराग्यफलमाह— तत इति। जन्मादिदुःख- रागाभाव इति यावत्। न अहङ्कारोऽनहङ्कार इति नञ्समासः। नञोऽभावार्थकत्वादाह— अहङ्काराभाव इति। देहादिष्वहमित्यभिमाना- भावः। अहङ्कारस्य बलवदनिष्टहेतुत्वादावश्यकोऽस्य परित्याग इत्याह— एव चेति। वसत्यस्मिन्निति वासो गर्भः कुक्षिः, स चासौ वासो गर्भवासः, तस्माद् योनिद्वारेण निःसरणं बहिर्निर्गमनम्। यद्वा गर्भे वासो निवासो गर्भवासः, स च योनिद्वारनिःसरणं च तयोः समाहारो गर्भवासयोनिद्वारनिःसरणं, मलमूत्रादिदुर्गन्धप्रचुरे करचरणचालनाद्यवकाशशून्ये मातृकुक्षौ विष्ठायां क्रिमिरिव निवास एको दोषः, सूक्ष्मान्मूत्रक्लिन्नाच्च योनिद्वारान्निःसरणमन्यो दोष इति जन्मनि द्विविधदोषानुदर्शनमित्यर्थः। उपलक्षणमिदम् , अन्येषामपि दोषाणां सत्त्वात्। मातृभुक्तकट्वन्नरसपानजन्यसन्तापः, उच्छ्वासनिश्वासनिरोधः, करणानामस्वातन्त्यमित्यादयः। यद्वा गर्भवासशब्देनैव तत्प्रयुक्तसर्वदोषग्रहणमिति। आलोचनमिति। अनेन मम पुनर्जन्म भूयाद् विषयसुखलाभार्थमिति पुरुषस्य कामना निवर्तत इति भावः। मृत्यौ प्राणोत्क्रमणकफरज्जुकण्ठबन्धनश्वासनिरोधादयो दोषाः, तेषामालोचनेन यदि मम पुनर्जन्म स्यात् तर्हि पुनरपि मृत्युः स्यात् स च मृत्युर्बहुदोषग्रस्तत्वान्मम मा भूदिति जन्ममृत्युहरमोक्षाय यतत इति भावः। प्रज्ञानिरोधो बुद्धिमान्द्यम् , शक्तिनिरोधः चक्षुरादीनां पादादीनां च रूपादिग्रहणेषु गमनादिषु चासामर्थ्यम् , तेजोनिरोधो निर्वीर्यत्वम् , दारापत्यादितिरस्कृतत्वमप्यन्यो दोषो जरायामित्याह— परिभूतता चेति। पुत्रादयो हि धनधान्यार्जनाद्यसमर्थं वृद्धमधिक्षिपन्ति। तदधिक्षेपो दुःसह इति भावः। व्याधिषु शिरोरोगादिषु तापाशक्तिमनःक्षोभादिदोषानुदर्शनम्। तेन च रोगनिलये शरीरे स्पृहाभावः सिध्यतीति भावः। आत्मनि सङ्घाते भवा आध्यात्मिकाः ज्वरादयः, आधिभौतिकाः वाताग्न्यादिभूतप्रयुक्ताः, आधिदैविकाः दैवादापतिताः, ते त्रयो निमित्तानि येषां तेषु तथोक्तेषु दुःखेषु मनःक्षोभादिदोषानुदर्शनम्। अर्थान्तरमाह— अथवेति। दुःखस्यैव दोषत्वाद् दुःखे पुनर्दोषदर्शनमित्यस्वरसादर्थान्तरं वर्णित- माचार्यैरिति बोध्यम्। जन्मादिषु दुःखरूपदोषस्यानुदर्शनमित्यर्थः। जन्मादिषु दुःखहेतुत्वरूपदोषदर्शनमिति यावत्। दुःखस्य स्वरूपतः एकत्वेऽपि विषयभेदाद् बहुत्वमित्यभिप्रेत्याह— दुःखान्येव दोष इति। अनुचिन्तनप्रकारमेव दर्शयति— दुःखं जन्मेत्या- दिना। ननु दुःखहेतूनां जन्मादीनां कथं दुःखस्वरूपत्वम्? अत आह— दुःखनिमित्तत्वादिति। ननु जन्मनि दुःखं, मृत्यौ दुःखमित्येवं दोषानुदर्शनमिति कुतो नोक्तमिति चेद्? उच्यते— जन्मनि दुःखमस्तीत्येवमुक्तौ दुःखादन्यस्यापि कस्यचित् सत्ता प्रतीयते। जन्म दुःखमित्युक्तौ तु दुःखमेव तत्रास्ति, न त्वन्यत् किमपीति प्रतीयत इति। अत एव स्मृत्यन्तरेऽपि ‘जन्म दुःखं, जरा दुःखं, जाया दुःखं पुनःपुन’रिति दृश्यते। जन्मादिषु दुःखदोषानुदर्शनस्य संसारे वैराग्योत्पत्तिः फलमित्याह— जन्मादिष्विति। वैराग्यस्य फलमाह— तत इति। वैराग्यादित्यर्थः। आत्मदर्शनाय करणानां प्रत्यगात्मनि प्रवृत्ति- भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या १. जन्ममृत्युजराव्याधिषु दुःखदोषयोरनुदर्शनम् इत्यादिविग्रहोऽपि व्याख्यान्तरे दर्शितः।

[[६५७]]

करणानामात्मदर्शनाय। एवं ज्ञानहेतुत्वाज्ज्ञानमुच्यते जन्मादिदुःखदोषानुदर्शनम्॥८॥

किञ्च— असक्तिरिति। असक्तिः - सक्तिः सङ्गनिमित्तेषु विषयेषु प्रीतिमात्रम् , तदभावोऽसक्तिः। अनभिष्वङ्गो ऽभिष्वङ्गाभावः; अभिष्वङ्गो नाम सक्तिविशेष एवानन्यात्मभावनालक्षणः। यथाऽन्यस्मिन् सुखिनि दुःखिनि वा अहमेव सुखी दुःखी च, जीवति मृते वा अहमेव जीवामि मरिष्यामि चेति। क्व इत्याह— पुत्रदारगृहादिषु। पुत्रेषु , दारेषु , गृहेषु , आदिग्रहणादन्येष्वपि अत्यन्तेष्टेषु दासवर्गादिषु। तच्चोभयं ज्ञानार्थत्वाज्ज्ञानमुच्यते। नित्यं च समचित्तत्वं तुल्यचित्तता। क्व? इष्टानिष्टोपपत्तिषु इष्टानामनिष्टानां चोपपत्तयः सम्प्राप्तयः, तास्विष्टानिष्टोपपत्तिषु नित्यमेव तुल्यचित्तता। इष्टोपपत्तिषु न हृष्यति, न कुप्यति चानिष्टोपपत्तिषु। तच्चैतद् नित्यं समचित्तत्वं ज्ञानम्॥ ९॥

किञ्च— मयि चेति। मयि चेश्वरे अनन्ययोगेन अपृथक्समाधिना ‘नान्यो भगवतो वासुदेवात् परोऽस्ति, अतः दोषानुदर्शनं ज्ञानहेतुषु किमित्युपसङ्ख्यातमित्याशङ्क्य वैराग्यद्वारा धीहेतुत्वादित्याह— एवमिति॥८॥

ज्ञानस्यान्तरङ्गमेव हेत्वन्तरमाह—किञ्चेति। नन्वसक्तिरेवाभिष्वङ्गाभावः। तथा च पुनरुक्तिरित्याशङ्क्याभिष्वङ्गोक्तिद्वारा निरस्यति— अभिष्वङ्गो नामेति। अन्यस्मिन्नेव पुत्रादावनन्यत्वधिया तद्गते सुखादावात्मनि तद्भावनाख्यं सक्तिविशेषमेवोदाहरति— यथेति। उक्तविशेषणयोराकाङ्क्षाद्वारा विषयमाह— क्वेत्यादिना। उक्तविशेषणयोर्ज्ञानशब्दस्योपपत्तिमाह— तच्चेति। सदा हर्षविषादशून्य- मनस्त्वमपि ज्ञानहेतुरित्याह— नित्यं चेति। तदेव विभजते— इष्टेति। तस्य ज्ञानहेतुत्वं निगमयति— तच्चैतदिति॥९॥

साधनान्तरमाह— किञ्चेति। अनन्ययोगमेव संक्षिप्तं व्यनक्ति— नेत्यादिना। उक्तधीद्वारा जातायाः भक्तेर्भगवति स्थैर्यं र्भवतीत्यन्वयः। यद्यपि संस्कृतस्य मनस एकस्यैव करणस्यात्मनि प्रवृत्तिः, तथापि मनोऽधीनत्वात् सर्वकरणानां करणानामित्युक्तम्। अन्तःकरणस्यात्मनि प्रवृत्तिः, चक्षुरादीनां तु विषयेष्वप्रवृत्त्या आत्मनि प्रवृत्तिरुपचर्यत इति भावः। एवमिति। वैराग्योत्पादनद्वारा आत्मनि अन्तःकरणस्य प्रवृत्तिहेतुत्वेनेत्यर्थः। ज्ञानहेतुत्वादिति। आत्मसाक्षात्कारसाधनत्वात्। ज्ञानमुच्यते ज्ञानमित्युच्यते। उपचारेणेति भावः॥८॥

असक्तिरिति। सक्तिः सङ्गः, न सक्तिरसक्तिः। प्रीतिमात्रमिति। प्रीतिविशेषस्यानन्यात्मभावनालक्षणस्य अभिष्वङ्गशब्देन वक्ष्यमाणत्वादिति भावः। सङ्गनिमित्तात् पुत्रादिविषयादात्मनोऽनन्यत्वेन भावना अनन्यात्मभावना। अनन्योऽनतिरिक्तः, स चासौ आत्मा, तस्य भावनेति समासः। भावना चिन्तनम्। अनन्यात्मभावनामेव दर्शयति— यथेति। अन्यस्मिन् स्वस्मादितरस्मिन् दारापत्यमित्रादौ सुखिनि सति ‘अहमेव सुखी’ति, तस्मिन् दुःखिनि सति ‘अहमेव दुःखी’ति, तस्मिन् जीवति सति ‘अहमेव जीवामी’ति, तस्मिन् मृते सति ‘अहमेव मरिष्यामी’ति च। एवंरूपः प्रत्ययोऽनन्यात्मभावनेत्युच्यते। १‘अहमेव मृतः’ इति प्रतीत्ययोगाद् मरिष्यामीत्युक्तमिति बोध्यम्। उभयमिति। असक्तिरनभिष्वङ्गश्चेत्यर्थः। तुल्यमविकृतत्वादेकरूपं चित्तं यस्य, तस्य भावस्तुल्यचित्तता। ज्ञानमिति। ज्ञानहेतुत्वाज्ज्ञानमित्यर्थः। एवमन्यत्रापि बोध्यम्॥९॥

मयीति। अनन्योऽपृथग्भूतः, स चासौ योगः अनन्ययोगः, तेन। व्यभिचरितुं शीलमस्याः अस्तीति व्यभिचारिणी, सा न भाष्यार्कप्रकाशः असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु। नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु॥९॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी। आनन्दगिरिकृतव्याख्या अ. १३. श्लो. ८ -१० ] १. मरिष्यामीति भविष्यत्कालप्रयोगस्य तात्पर्यमाह—अहमेवेति। जीवतः इति शेषः।

[[६५८]]

स एव नो गति’रित्येवं निश्चिता अव्यभिचारिणी बुद्धिरनन्ययोगः, तेन भजनं भक्तिः, न व्यभिचरणशीला अव्यभिचारिणी। सा च ज्ञानम्। विविक्तदेशसेवित्वं विविक्तः स्वभावतः संस्कारेण वा अशुच्यादिभिः सर्पव्याघ्रादिभिश्च रहितोऽरण्यनदीपुलिनदेवगृहादिः१ विविक्तो देशः, तं सेवितुं शीलमस्येति विविक्तदेशसेवी, तद्भावो विविक्तदेशसेवित्वम्। विविक्तेषु हि देशेषु चित्तं प्रसीदति २यतः, ततः आत्मादिभावना विविक्त उपजायते, अतो विविक्तदेशसेवित्वं ज्ञानमुच्यते। अरतिः अरमणम् , ३क्व? जनसंसदि जनानां प्राकृतानां संस्कारशून्यानामविनीतानां (४कलहोन्मुखितचित्तानां) संसत् समवायो जनसंसत् , न संस्कारवतां विनीतानां संसत् , तस्या ज्ञानोपकारकत्वात्। अतः प्राकृतजनसंसद्यरतिः ज्ञानार्थत्वाज्ज्ञानम्॥१०॥

किञ्च— अध्यात्मेति। अध्यात्मज्ञाननित्यत्वम् आत्मादिविषयं ज्ञानमध्यात्मज्ञानम् , तस्मिन् नित्यभावो दर्शयति— नेति। तत्रापि ज्ञानशब्दस्तद्धेतुत्वादित्याह— सा चेति। देशस्य विविक्तत्वं द्विविधमुदाहरति— विविक्त इति। तदेव स्पष्टयति— अरण्येति। उक्तदेशसेवित्वं कथं ज्ञाने हेतुः? तत्राह— विविक्तेष्विति। आत्मादीत्यादिशब्देन परमात्मा, वाक्यार्थश्चोच्यते। नन्वरतिविषयत्वेनाविशेषतो जनसंसन्मात्रं किमिति न गृह्यते? तत्राह—तस्या इति।‘सन्तः सङ्गस्य भेषजम्’ इत्युपलम्भादित्यर्थः॥१०॥

साधनान्तरमाह—किञ्चेति। आत्मादीत्यादिशब्दोऽनात्मार्थः। तद्विषयं ज्ञानं विवेकः, तन्नित्यत्वं तत्रैव निष्ठावत्त्वम्। विवेकनिष्ठो भवतीत्यव्यभिचारिणी। व्यभिचारो नाम एकत्र स्थितायाः अन्यत्र गमनम्। वासुदेवभजनस्य देवतान्तरविषयत्वं व्यभिचार इति भावः। न चानन्ययोगेनेत्यनेन पुनरुक्तिः, अव्यभिचारित्वस्य बुद्धिगतत्वेन भक्तिगतत्वेन च भेदात्। बुद्धिर्ज्ञानमात्मतत्त्वस्य। तच्च दर्शितं ‘नान्यो भगवतः’ इत्यादिना। भक्तिरात्मचिन्तनमिति विवेकः। ध्यानमिति यावत्। मानसी क्रियेयम्। मलमूत्रादयोऽशुचिपदार्थः। आदिशब्दात् कण्टकादिग्रहणम्। भयशब्दः सर्पचोरव्याघ्रत्रयान्वयी - सर्पभयं चोरभयं व्याघ्रभयमिति। आदिपदात् पिशाचभयादि- ग्रहणम्। ग्राम्यजनसञ्चारादिग्रहणं च। अरण्यं नदी पुलिनं देवतागृहमादिपदात् पर्वतदर्यादिग्रहणम्। विविक्त इति। विजनः परिशुद्धश्चेत्यर्थः। प्रसीदति प्रसादमधिगच्छति। अन्यत्र तु क्षोभं प्राप्नोतीति भावः। तत इति। चित्तप्रसादादित्यर्थः। आत्मादीत्यादि- पदादनात्मग्रहणम्। अनात्मानोऽपि भावयितव्या एव त्याज्यत्वार्थमिति भावः। अथवा परमात्मा आदिपदार्थः। प्रत्यगात्मपरमात्मनोः एकत्वेन चिन्तनम् आत्मपरमात्मभावना। प्राकृताः विषयप्रवणा ग्राम्या मूर्खाः, तेषां सभायां हि स्त्रीद्यूतपानादिप्रसङ्ग एव, न तु भगवत्कथेति हेतोः तत्रारतिरावश्यकी। संस्कारः शास्त्रार्थपरिज्ञानं शमदमादिश्च, तद्वतां सतां सभायां हि भगवत्कथा प्रस्तूयत इति न तत्रारतिः कार्या। अत एव ‘सत्सङ्गत्वे निःसङ्गत्वं निःसङ्गत्वे निर्मोहत्वम्। निर्मोहत्वे निश्चलतत्त्वं निश्चलतत्त्वे जीवन्मुक्ति’रिति सत्सङ्गः स्तूयते॥१०॥

अध्यात्मेति। आत्मनि अध्यात्मम् , आत्मविषयमित्यर्थः। आत्मशब्दस्योपलक्षणत्वमभिप्रेत्याह—आत्मादिविषयमिति। यद्वा आत्मानं देहमधिकृत्य वर्तमानं सर्वमध्यात्ममित्युच्यते, तस्याध्यात्मस्यात्मादेर्ज्ञानम्५। आदिपदादनात्मनां परमात्मनो वा ग्रहणं भाष्यार्कप्रकाशः विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥१०॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्। एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोऽन्यथा॥११॥

१. ‘गृहादिभिः’ इति मुद्रितःपाठः। २.‘यतः’ इति क्वचिन्न। ३. ‘क्व’ इति क्वचिन्न। ४. कुण्डलितः पाठः न सार्वत्रिकः। ५. पूर्वं विभक्त्यर्थेऽव्ययीभावः। अध्यात्मं ज्ञानम् अध्यात्मज्ञानमिति विग्रहः। अस्मिन् पक्षे तु ‘अत्यादयः क्रान्ताद्यर्थे द्वितीयया’ इति तत्पुरुषसमासः। तदापि अध्यात्मस्येति प्रयोगोपपत्तिः चिन्त्या। आनन्दगिरिकृतव्याख्या

[[६५९]]

नित्यत्वम्। अमानित्वादीनां ज्ञानसाधनानां भावनापरिपाकनिमित्तं तत्त्वज्ञानम् , तस्य अर्थो मोक्षः संसारोपरमः, तस्यालोचनं तत्त्वज्ञानार्थदर्शनम्। तत्त्वज्ञानफलालोचने हि तत्साधनानुष्ठाने प्रवृत्तिः स्यादिति। एतद् अमानित्वादि तत्त्वज्ञानार्थदर्शनान्तमुक्तं ज्ञानमिति प्रोक्तम् , ज्ञानार्थत्वात्। अज्ञानं यद् अतः अस्माद् यथोक्ताद् अन्यथा विपर्ययेण - मानित्वं, दम्भित्वं, हिंसा, अक्षान्तिः, अनार्जवमित्यादि अज्ञानं विज्ञेयं १परिहरणाय संसारप्रवृत्तिकारणत्वादिति ॥११॥

हि वाक्यार्थज्ञानसमर्थो भवति। तेषां भावनापरिपाको नाम यत्नेन साधितानां प्रकर्षपर्यन्तत्वम् , तन्निमित्तं तत्त्वज्ञानम् ऐक्यसाक्षात्कारः। तत्फलालोचनं किमर्थमित्याशङ्क्याह— तत्त्वेति। प्रवृत्तिः स्यादिति। अतस्तत्त्वज्ञानार्थदर्शनमर्थवदिति शेषः। ज्ञानस्यान्तरङ्गहेतुमुक्त- मुपसंहरति— एतदिति। किमिति २तस्य विज्ञेयत्वमित्याशङ्क्याह— परिहरणायेति। तत्र हेतुः— संसारेति। तस्य प्रवृत्तिः उत्पत्तिः, तद्धेतुत्वान्मानित्वादि त्याज्यम् । ज्ञाते च त्याज्यत्वम् ; तेन तस्य ज्ञेयतेत्यर्थः। इतिशब्दः साधनाधिकारसमाप्त्यर्थः ॥११॥

पूर्ववत्। अध्यात्मज्ञानम् , तस्मिन् नित्यत्वं नित्यमपि स्थितिरित्यर्थः। सर्वदाऽप्यात्मादिभावनेत्यर्थः। न त्वध्यात्मज्ञाने नित्यत्वबुद्धिः। आत्मान्यस्यानित्यत्वेन तद्बुद्धेरप्रमात्वादनुपयुक्तत्वाच्चेति भावः। भावनायाः परिपाकस्य निमित्तं कारणमित्यध्यात्मज्ञाननित्यत्वस्य विशेषणम्। अध्यात्मज्ञाननित्यत्वादमानित्वादिभावनापरिपाको भवतीत्यर्थः। तस्मात् तत्परिपाकार्थमध्यात्मज्ञाननित्यत्वमावश्यकं मुमुक्षोरिति भावः। तत्त्वज्ञानमात्मसाक्षात्कारः। तस्यार्थः फलं मोक्षः। मोक्षशब्दार्थमाह— संसारोपरम इति। बन्धाभावस्य मोक्षत्वा- दिति भावः। आलोचनमिति। तत्त्वज्ञानादेव मोक्षो भवति नान्यस्मादित्येवंरूपमिति भावः। तत्साधनेति। तत्त्वज्ञानसाधनेत्यर्थः। यथा कर्मफलस्वर्गाद्यालोचनं विना कर्मण्यप्रवृत्तिस्तथेति भावः। एतत् पूर्वोक्तं तदेवाह— अमानित्वादीति। अमानित्वमादिर्यस्य तदमानित्वादि। तत्त्वज्ञानार्थदर्शनमन्तो यस्य तत् तत्त्वज्ञानार्थदर्शनान्तं गुणबृन्दमिति विशेष्यशेषः। ननु गुणबृन्दस्य कथं ज्ञानत्वप्रवचनम्? अत आह— ज्ञानार्थत्वादिति। ज्ञानमर्थः फलं यस्य तत्त्वात्। ज्ञानायेदं ज्ञानार्थं, तत्त्वादिति वा। यथोक्तादिति। पूर्वोक्तादित्यर्थः। विपर्ययेणेत्यनन्तरं भातीति शेषः। यदतोऽन्यथा भाति तदज्ञानमित्यन्वयः। किं तद् यदतो विपर्ययेण भातीत्यत आह— मानित्वेति। मानित्वादयोऽज्ञानकार्यत्वादज्ञानत्वेन विज्ञेया इत्यर्थः। न तु ज्ञानाभावरूपत्वेन, ज्ञानाभावस्याभावत्वेनैव मानित्वादिभावकारणत्वायोगात्। मानित्वादीनां च लोके ज्ञानत्वेनैव व्यवहारो, न तु ज्ञानाभावरूपत्वेनेति न मानित्वादिकं ज्ञानाभावः। ननु अमानित्वादेर्विज्ञेयत्वमस्तु नाम अनुष्ठानार्थम् , मानित्वादेः कुतो विज्ञेयत्वम्? अत आह— संसारस्य परिहरणायेति। यथाऽनुष्ठानाय धर्मः, परिहरणायाधर्मश्च शास्त्रेण विज्ञेयस्तथा अमानित्वादिकमनुष्ठानाय, मानित्वादिकं परिहरणाय च विज्ञेयमिति भावः। मानित्वादौ परिहृते सति संसारः परिहृतो भवतीति संसारपरिहरणाय मानित्वादिपरिहारः कर्तव्य इति तत्त्वम्। ननु संसारपरिहाराय मानित्वादिपरिहारः किमिति कार्योऽत आह— प्रवृत्तिकारणत्वादिति। मानित्वादेरिति शेषः। आत्म- श्लाघादम्भादिहेतोर्हि यज्ञादिषु प्रवर्तते मूढजनः। यत्तु रामानुजः - तत्त्वज्ञानार्थचिन्तनमिति पाठं परिकल्प्य, तत्त्वज्ञानप्रयोजनं यच्चिन्तनं तन्निरतत्वमित्यवोचत् , तत्तुच्छम् , तत्त्वज्ञानार्थचिन्तननिरतत्वमिति पदाभावात्। लाक्षणिकार्थकल्पनस्यान्याय्यत्वात्। किं तत् तत्त्वज्ञानार्थं चिन्तनमिति प्रश्नस्योद्भूतत्वेन तदुत्तरस्यादर्शनान्मुमुक्षूणां क्व वा प्रवृत्तिः स्यात्? न ह्यविदितेऽर्थे कस्यापि प्रवृत्तिर्भवेत्। एवम् - ३‘सङ्घाते चेतना धृति’रित्यत्रापि ‘सङ्घातश्चेतना धृति’रिति पाठं प्रकल्प्य चेतनस्य जीवस्याधृतिराधारः सङ्घातः शरीरमिति यद् व्याचख्यावयम् , तच्च तुच्छम् , इदं शरीरं भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या अ. १३. श्लो. १०-११ ] १. ‘संसारस्य परिहरणाय, प्रवृत्तिकारणत्वादिति’ इति रा.पा. भाति। २. तस्य पूर्वोक्तज्ञानविपरीतस्याज्ञानस्य मानित्वादेः। ३. ‘सङ्घातश्चेतना धृतिः’ इत्ययमेव गीतापाठः अद्यत्वे सर्वत्रोपलभ्यते।

[[६६०]]

ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते। अनादिमत् परं ब्रह्म न सत् तन्नासदुच्यते॥१२॥

यथोक्तेन ज्ञानेन ज्ञातव्यं किमित्याकाङ्क्षायामाह— ज्ञेयं यत्तदित्यादि। ननु यमाः नियमाश्चामानित्वादयः। न तैर्ज्ञेयं ज्ञायते। न ह्यमानित्वादि कस्यचिद् वस्तुनः परिच्छेदकं दृष्टम्। सर्वत्रैव च यद्विषयं ज्ञानं, तदेव तस्य ज्ञेयस्य परिच्छेदकं दृश्यते। न ह्यन्यविषयेण ज्ञानेनान्यदुपलभ्यते। यथा घटविषयेण ज्ञानेनाग्निः। नैष दोषः, ज्ञाननिमित्तत्वा- ज्ज्ञानमुच्यत इति ह्यवोचाम। ज्ञानसहकारिकारणत्वाच्च। ज्ञेयमिति। ज्ञेयं ज्ञातव्यं यत् तत् प्रवक्ष्यामि प्रकर्षेण यथावद् वक्ष्यामि। किम्फलं तदिति प्ररोचनेन श्रोतुरभिमुखीकरणायाह—(यज्ज्ञात्वेति।) यद् ज्ञेयं ज्ञात्वा अमृतम् १अमृतत्वम् उत्तरग्रन्थमवतारयति—यथोक्तेनेति। अमानित्वादीनां ज्ञानत्वमाक्षिपति—नन्विति। वस्तुपरिच्छेदकत्वाज्ज्ञानत्वमाशङ्क्याह— न हीति। परिच्छेदकत्वाज्ज्ञानत्वं, ज्ञानत्वात् परिच्छेदकत्वमित्यन्योन्याश्रयादित्यभिप्रेत्याह— सर्वत्रेति। स्वार्थस्यैव ज्ञानं परिच्छेदकमि- त्येतद् व्यतिरेकद्वारा विशदयति— न हीति। व्यतिरेकदृष्टान्तमाह— यथेति। अमानित्वादीनां ज्ञानत्वमाक्षिप्तं प्रतिक्षिपति— नैष दोष इति। तत्र हेतुत्वेनोक्तं स्मारयति—ज्ञानेति। तेषु ज्ञानशब्दे हेत्वन्तरमाह—ज्ञानेति। अमानित्वादीनां ज्ञानत्वमुक्त्वा ज्ञातव्यमवतारयति —ज्ञेयमिति। प्रश्नद्वारा ज्ञेयप्रवचनस्य फलमुक्त्वा, प्ररोचनं कृत्वा तेन श्रोतुराभिमुख्यमापादयितुं २प्रवचनफलोक्तिपरमनन्तरवाक्य- क्षेत्रमिति पूर्वं सौलभ्येनोक्तस्यार्थस्य ‘सङ्घातश्चेतना धृति’रिति क्लेशेन कथनं हि दुष्टं पुनरुक्तं च॥११॥

ज्ञेयमिति। यज्ज्ञेयं ज्ञातुं योग्यं मुमुक्षुभिर्विद्वद्भिरिति वा। यज्ज्ञात्वा विद्वानमृतं मोक्षमश्नुते प्राप्नोति, तद्वस्तु प्रवक्ष्यामि। अनादिमत्परं ब्रह्म ज्ञेयं, तत्परं ब्रह्म सदिति नोच्यते, असदिति च नोच्यते। पूर्वोक्तस्य चास्य च सङ्गतिं दर्शयति— यथोक्तेनेति। ज्ञानेनेति। ज्ञानसाधनैरित्यर्थः। तेषामेव पूर्वोक्तत्वात्। ज्ञानसाधनानां ज्ञेयज्ञापकत्वं नास्तीत्याक्षिपति— नन्विति। अमानित्वादयो यमा नियमाश्च पूर्वोक्ताः इति शेषः। यमनियमादिभिरात्मविनिग्रहो भवतीत्यात्मविनिग्रहशब्देन यमनियमादयो लक्ष्यन्त इति बोध्यम्। आदिपदादासनप्राणायामादिग्रहणम्। परिच्छेदकं भेदकम्। नन्वमानित्वादेः कुतो वस्तुपरिच्छेदकत्वाभावः? अत आह— सर्वत्रेति। तदेव तद्विषयं ज्ञानमेव। ननु कोऽयं नियमः? अत आह— न हीति। तत्र दृष्टान्तमाह— यथेति। एतेन ज्ञेयस्य ज्ञानेनोपलभ्यमानत्वात् ज्ञानपरिच्छेद्यत्वमिति सूचितम्। घट इहास्तीति ज्ञानं हि पटादिभ्यः देशान्तर- कालान्तरवर्तिघटेभ्यश्च परिच्छिद्य घटं प्रकृतमुपलम्भयति। ननु घटे वर्तमानः शुक्लगुणो नीलघटात् प्रकृतघटं परिच्छिद्य बोधयत्येव। कथमन्यथा विशेषणस्योपाधेर्वा व्यावर्तकत्वं लक्षणं स्यात्? तस्माज्ज्ञानमेव वस्तुनः परिच्छेदकमिति नियमस्यासिद्धिरिति चेत् , मैवम् ; तत्रापि घटः शुक्ल इति शुक्लगुणज्ञानस्यैव परिच्छेदकत्वात्। न ह्यज्ञातः शुक्लगुणो घटं परिच्छेत्तुं क्षमते। तस्माद् विशेषणज्ञानस्योपाधिज्ञानस्य च वस्तुपरिच्छेदकत्वमिति कृत्वा ज्ञायमानस्यैव विशेषणस्योपाधेर्वा व्यावर्तकत्वं लक्षणम्। उपाधिविशेषणयोर्ज्ञानेनैव परिच्छेददर्शनाच्च। कथमन्यथा -३विशेषणमिदम् , उपाधिरयमिति व्यवहारः स्यात्? तस्माज्ज्ञानमेव ज्ञेयपरिच्छेदकं नामानित्वादिकमिति कृत्वा कथमुक्तम् अमानित्वादिना ज्ञातव्यमिति पूर्वपक्षः। परिहरति तं सिद्धान्ती— नैष दोष इति। यथोक्तेन ज्ञानेनेत्यस्य अमानित्वादिसाधनजन्येनेति, अमानित्वादिसाधनसह- कृतेनेति वा ज्ञानेनेत्यर्थात् पूर्वोक्तदोषाभाव इति भावः। प्रेत्युपसर्गस्यार्थमाह— प्रकर्षेणेति। यावदर्थमाह— यथावदिति। तत् प्रवचनं किम्फलम् किं फलं यस्य तदिति बहुव्रीहिः। इति शङ्कायाम् , प्ररोचेनेन उपच्छन्दनेन। मृतं मृतिः, तदभावोऽमृतमित्यभिप्रेत्याह— भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या १. ‘अमृतत्वम्’ इति क्वचिन्न। २. ‘प्ररोचन’ इति पा.। ३. विधेयान्वितं सद् व्यावर्तकं विशेषणम्। तदनन्वितं वर्तमानं सद् व्यावर्तकम् उपाधिः। विधेयनियन्त्रितं च विशेषणत्वमुपाधित्वं च। ‘नीलो घटो दृष्टः’ इत्यत्र नीलत्वं विशेषणम् , ‘नीलो घटः स्पृष्टः’ इत्यत्र तु उपाधिः। अधिकं लघुचन्द्रिकादौ द्र. पृ. २६४ ।

[[६६१]]

आदिर्न विद्यतेऽस्येति बहुव्रीहिणोक्तेऽर्थे आदिमत्त्वप्रतिषेधलक्षणे मतुपः आनर्थक् यं स्यादित्यर्थः। अमृतमिति। प्रकृतदेहपरित्यागरूपमरणस्यावर्जनीयत्वादाह— पुनर्न म्रियत इति। मुच्यत इति यावत्। पुनर्जन्मप्रयुक्तत्वात् पुन- र्मरणस्य, मुक्तौ पुनरावृत्त्यभावेन पुनर्जन्माभावाच्चेति भावः। आदिः कारणं, ‘तदस्यास्त्यस्मिन्’ इति मतुपि आदिमत्। ततो नञ्समासे अनादिमत् , कारणरहितमित्यर्थः। अजमिति यावत्। ज्ञेयमिति। क्षेत्रज्ञलक्षणं ब्रह्मैवात्र ज्ञेयमित्युच्यत इत्यर्थः। ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति श्रुतेरिति भावः। ननु क्षेत्रज्ञो ज्ञातैवेति पूर्वमुक्तम् , कथमधुना तस्य ज्ञेयत्वमिति चेत्? नैष दोषः, ज्ञानस्वरूपे क्षेत्रज्ञे ज्ञातृत्वस्याप्ययुक्तत्वात् , तद्वत् ज्ञेयत्वस्याप्यौपचारिकत्वात्। ननु ‘नान्योऽतोऽस्ति द्रष्टे’ति द्रष्ट्रन्तरनिषेधादेकस्यैवात्मनः कथं ज्ञातृत्वं ज्ञेयत्वं च, कर्तृ- कर्मविरोधादिति चेत्? मैवम् ; ज्ञाता प्रमाता, स हि स्वस्वरूपमात्मानं क्षेत्रज्ञं ज्ञानस्वरूपं संस्कृतमनसा जानातीति एकस्यैवात्मनो ऽन्तःकरणावच्छिन्नत्वरूपेण ज्ञातृत्वम् , अन्तःकरणवृत्त्यवच्छिन्नत्वरूपेण ज्ञानकरणत्वम् , अन्तःकरणोपहितत्वरूपेणाविद्योपहितत्व- रूपेण वा ज्ञेयत्वं, स्वतस्तु ज्ञानत्वमित्यभ्युपगमात्। तस्मात् प्रमात्रा संस्कृतमनसा ज्ञातव्यमेव क्षेत्रज्ञलक्षणं ब्रह्म। ज्ञेयमिति प्रकृतमिति। अस्मिन् प्रकरणे ज्ञेयत्वेन निर्दिष्टमित्यर्थः। ननु न आदिर्यस्य तदनादीति बहुव्रीहिणैव मतुबर्थस्योक्तत्वात् ‘न कर्मधारयान्मत्वर्थीयः’ इति शास्त्राद् व्यर्थोऽत्र मतुप्प्रत्ययः। ‘तत्पुरुषः समानाधिकरणः कर्मधारयः’ इति यत्र समानाधिकरणं पदद्वयमस्ति तत्र कर्मधारयसमासमकृत्वा बहुव्रीहिसमासे कृते सत्येव मत्वर्थलाभात् कर्मधारयान्मत्वर्थीयप्रत्ययो न कर्तव्यः, यथा पीताम्बरः इति बहुव्रीहिणैव पीताम्बरवत्त्वरूपेऽर्थे सिद्धे सति, पीतं च तदम्बरं च पीताम्बरमिति कर्मधारयं कृत्वा, पीताम्बरमस्यास्तीति पीताम्बरवानिति मतुब्विधानं व्यर्थम् , तद्वत् न आदिरनादिरनादि- रस्यास्तीत्यनादिमदिति मतुब्विधानं व्यर्थमिति भावः। इमं दोषमपाकर्तुं च अनादीत्येव पदविभागः कर्तव्य इत्याक्षिपति— अत्र केचिदिति। ननु मत्परमित्यस्य कोऽर्थस्त्वन्मते? अत आह— अर्थविशेषमिति। तमेव दर्शयति—अहमिति। अहं परा यस्य तन्मत्परम्। वासुदेव ईश्वरः। स हि ब्रह्मण ईशनरूपा परा शक्तिः। ब्रह्मण एव सशक्तिकस्येश्वरत्वादीश्वरस्य ब्रह्मशक्तित्वेन निर्देशः। परिहरति सिद्धान्ती— सत्यमिति। मत्परमित्यस्य त्वदुक्तार्थः सम्भवति चेत् तव मते पुनरुक्तिदोषो न स्यात्। अर्थस्तु नैव सम्भवति। भाष्यार्कप्रकाशः अश्नुते, न पुनर्म्रियत इत्यर्थः। अनादिमद् आदिरस्यास्तीत्यादिमत् , न आदिमद् अनादिमत्। किं तत्? परं निरतिशयं ब्रह्म, ज्ञेयमिति प्रकृतम्। [परकीयव्याख्यानिरसनम्] अत्र केचिद् अनादि मत्परमिति पदं छिन्दन्ति, बहुव्रीहिणोक्तेऽर्थे मतुप आनर्थक्यमनिष्टं स्यादिति। अर्थविशेषं च दर्शयन्ति— अहं वासुदेवाख्या परा शक्तिर्यस्य तद् मत्परमिति। सत्यमेवम् अपुनरुक्तं स्याद् , अर्थश्चेत् सम्भवति। आनन्दगिरिकृतव्याख्या मित्याह— किमित्यादिना। तदेव विशिनष्टि— अनादिमदिति। आदिमत्त्वराहित्यमव्याकृतस्याप्यस्ति, अतो विशेषं दर्शयति— किं तदिति। भोक्तुरपि भोग्यात् परत्वमित्यतो विशिनष्टि— ब्रह्मेति। अनादीत्येकं पदम् , मत्परमिति चापरमिति पदच्छेदान्न पुनरुक्तिरिति मतान्तरमुत्थापयति— अत्रेति। एकपदत्वसम्भवे किमिति पदद्वयमित्याशङ्क्याह— बहुव्रीहिणेति। आदिरस्य नास्तीति यो बहुव्रीहिणोक्तोऽर्थः, तस्मिन् आदिमत्त्वनिषेधे नास्ति मतुपो ऽर्थवत्त्वमिति मतुबानर्थक्यमनिष्टं स्यादिति मत्त्वा पदं छिन्दन्तीति पूर्वेण सम्बन्धः। आदिरस्य नास्तीत्यनादीत्युक्त्वा मत्परमित्युच्यमाने कोऽर्थः स्यादित्याशङ्क्याह— अर्थेति। उक्तव्याख्यानस्यायुक्तत्वान्नायं पुनरुक्तिसमाधिरित्याह— सत्यमिति। अर्थासम्भवं समर्थयते—

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. १३. श्लो. ११-१२]] [[६६२]]

तत्र हेतुमाह— ब्रह्मण इति। निर्विशेषस्यैव ब्रह्मण इह ज्ञापयितुमिष्टत्वादिति। कथमिदं ज्ञायते? अत आह— न सदिति। सत्त्वासत्त्व- विशेषशून्यस्यैव ब्रह्मणः इहोच्यमानत्वादित्यर्थः। ननु निर्विशेषमेव ब्रह्म मत्परं भवतु , को दोषस्तत्राह— विशिष्टेति। ईश्वराख्य- शक्तिमत्त्वरूपविशेषप्रदर्शनं, विशेषप्रतिषेधश्चेति विप्रतिषिद्धं विरुद्धम्। तस्मादिति। त्वदुक्तार्थस्य विरुद्धत्वेनासम्भवादित्यर्थः। अनादि परं ब्रह्मेत्युक्तौ श्लोको न पूर्येताष्टाक्षरपादत्वादनुष्टुभः इति हेतोः अनादिमत् परं ब्रह्मेत्युक्तम्। न च - ‘अनादि परमं ब्रह्मे’त्युक्तौ श्लोकः पूर्येतेति - वाच्यम् ; आर्षेयग्रन्थेषु ‘स्थितस्य गतिश्चिन्तनीये’ति न्यायेन पाठान्तर- कल्पनाशङ्कायाः अकर्तव्यत्वात्। ‘परं ब्रह्मे’त्यनेनैवाभीष्टसिद्धौ ‘परमं ब्रह्मे’ति पाठस्यापि गौरवावहत्वेन दुष्टत्वाच्च। अमृतत्वं मोक्षः फलं यस्मात् तद् अमृतत्वफलम्। यज्ज्ञानादमृतत्वं भवति तदित्यर्थः। अभिमुखीकृत्येति। श्रोतारमिति शेषः। आह भगवानिति शेषः। ‘ज्ञेयं प्रवक्ष्यामी’त्युद्घुष्येत्यन्वयः। उद्घोषं कृत्वा उद्घुष्य। ‘न सत्तन्नासदुच्यते’ इत्यननुरूपमुक्तमिति पूर्वपक्षः। नेति परिहारः। कथमिति। कथमनुरूपमुक्तमिति प्रश्नः। उत्तरमाह—सर्वास्विति। हि यस्मात् सर्वासूपनिषत्सु निर्विशेषमेव ब्रह्म निर्दिश्यते। श्रुतिमेव दर्शयति— नेतीति। विशेषाः स्थूलत्वाणुत्वह्रस्वत्वादयः। तेषां प्रतिषेधेन, निषेधमुखेनेत्यर्थः। ‘इदं तदि’ति तु न निर्दिश्यते, कुतः? अगोचरत्वाद् अविषयत्वाद् वाचः, ‘यतो वाचो निवर्तन्ते’ इति श्रुतेरिति भावः। भाष्यार्कप्रकाशः न त्वर्थः सम्भवति, ब्रह्मणः सर्वविशेषप्रतिषेधेनैव विजिज्ञापयिषितत्वात् - न सत् तन्नासदुच्यत इति। विशिष्टशक्ति- मत्त्वप्रदर्शनं विशेषप्रतिषेधश्चेति विप्रतिषिद्धम्। तस्मान्मतुपो बहुव्रीहिणा समानार्थत्वेऽपि प्रयोगः श्लोकपूरणार्थः। अमृतत्वफलं ज्ञेयं मयोच्यत इति प्ररोचनेनाभिमुखीकृत्याह— न सत् तज्ज्ञेयमुच्यत इति, नापि असत् तदुच्यते। ननु महता परिकरबन्धेन कण्ठरवेणोद्घुष्य ‘ज्ञेयं प्रवक्ष्यामी’ति, अननुरूपमुक्तम्— न सत् तन्नासदुच्यत इति? न ; अनुरूपमेवोक्तम्। कथम्? सर्वासु ह्युपनिषत्सु ज्ञेयं ब्रह्म ‘नेति नेति’ (बृ.उ.२.३.६) ‘अस्थूलमनणु’ (बृ.उ. ३.८.८) इत्यादिविशेषप्रतिषेधेनैव निर्दिश्यते, न ‘इदं तद्’ इति, वाचोऽगोचरत्वात्। ब्रह्मण इति। तथापि विशिष्टशक्तिमत्त्वं किं न स्यादित्याशङ्क्याह— विशिष्टेति। तथापि मतुपो बहुव्रीहिणा तुल्यार्थस्य कथं नानर्थक् यम्? तत्राह— तस्मादिति। ‘अनादिमत्परं ब्रह्मे’त्यत्र पक्षान्तरं प्रतिक्षिप्य स्वपक्षः समर्थितः। सम्प्रति ब्रह्मणो ब्रह्मत्वादेव कार्यकारणात्मकत्वप्राप्तौ उक्तानुवादद्वारा ‘न सदि’त्याद्यवतारयति— अमृतत्वेति। सत् कार्यमभिव्यक्तनामरूपत्वात् , असत् कारणं तद्विपर्ययादिति विभागः। १ज्ञेयप्रवचनमनिर्वाच्यविषयत्वात् प्रक्रमप्रतिकूलमित्याक्षिपति— नन्विति। निर्विशेषस्य वस्तुनो ज्ञेयत्वात् तद्विषयं प्रवचनं प्रक्रमानुकूलमित्युत्तरमाह—नेत्यादिना। २अनिर्वाच्यत्वे ‘न सत् तन्नासद्’ इत्युच्यमाने कथमिदमनुरूपमिति पृच्छति—कथमिति। ब्रह्मात्मप्रकाशस्य सिद्धत्वात् तदर्थं विधिमुखेनोपदेशायोगाद् , अध्यस्ततद्धर्मनिवृत्तये निषेधद्वारोपदेशस्य वेदान्तेषु प्रसिद्धेरारोपित- विशेषनिषेधरूपमिदं प्रवचनमुचितमिति परिहरति— सर्वास्विति। ज्ञेयस्य ब्रह्मणो विधिमुखोपदेशायोगे हेतुमाह— वाच इति। आनन्दगिरिकृतव्याख्या

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

आत्मप्रकाशत्व[शस्य] सिद्धत्वान्नात्मप्रकाशनाय विधिमुखेन उपदेशो युक्तः। किन्तु अध्यस्ता[तद्]धर्मनिवृत्तये निषेधमुखेनैवोपदेशो युक्त इत्युक्तम्। (तत्र निर्दिष्टं सञ्जय इति।) (तत्र निर्दिष्टं सञ्जयति।)[तत्र निर्दिष्टं प्रपञ्चयति—] १. ‘सत् असत् इति वा नोच्यते’ इति तत्प्रवचनमित्यर्थः। २. वक्तुमशक्यत्वे इत्यर्थः। ‘न सत् नासत् उच्यते’ इत्युक्ते वागगोचरत्वपर्यवसानादिति भावः।

[[६६३]]

अननुरूपत्वमेव स्फुटयति पूर्ववादी— नन्विति। यद् वस्तु अस्तीति शब्देनोच्यते, तद् वस्तु अस्ति, विद्यत एव। तद् विद्यमानं वस्तु नास्तीति, ज्ञेयमिति च विप्रतिषिद्धम्। तथा ज्ञेयं तदस्ति, अस्तिशब्देन नोच्यत इति च विप्रतिषिद्धम्। अयमर्थः - यत्परं ब्रह्म ज्ञेयमिति वदसि, तद् वस्त्वस्ति वा न वा? अस्तित्वे सच्छब्दवाच्यस्य ज्ञेयस्य तस्य ब्रह्मणः कथं सच्छब्दाविषयत्वम्? वदसि हि त्वं न सत् तदिति? द्वितीये - असतस्तस्य ब्रह्मणः कथं ज्ञेयत्वम्? न हि शशशृङ्गादिकं ज्ञातुं शक्यते, युज्यते वा। तस्माद् यदि ज्ञेयं ब्रह्मास्ति, तर्हि सच्छब्देनोच्यत एव, यदि ब्रह्म नास्ति, तर्हि तज्ज्ञेयं न भवत्येवेति कथं ज्ञेयस्य ब्रह्मणोऽस्तिशब्दाविषयत्वं, कथं वा असतो ब्रह्मणो ज्ञेयत्वमिति। परिहरति—नेति। ब्रह्मण इति शेषः। अस्तिनास्तिबुद्ध्योः अविषयत्वाद् अगोचरत्वात्। ब्रह्म हि घटवदस्तीति वा, शशशृङ्गमिव नास्तीति वा वक्तुं न शक्यते, सदसद्बुद्ध्यविषयत्वात्। एवं सत्त्वासत्त्वरहितत्वादेव निर्विशेषत्वं ब्रह्मणः। अन्यथा घटवत् सविशेषमेव स्यात् सच्छब्दवाच्यत्वे सति ब्रह्म। ननु यद्यस्तिबुद्धेर्नास्तिबुद्धेश्चाविषयं ब्रह्म, तर्हि ब्रह्मबुद्धेरप्यविषयमेव। अस्तिनास्तिबुद्ध्यननुगतबुद्धेरेवाभावादिति शङ्कते— नन्विति। सर्वत्र सद्बुद्धिरसद्बुद्धिश्चेति बुद्धिद्वयमेवोपलभ्यते। घटबुद्धिपटबुद्धिकुड्यबुद्धिकुसूलबुद्धिशशशृङ्गबुद्धिनरशृङ्गबुद्ध्यादयस्तु सद्बुद्धि- विशेषा असद्बुद्धिविशेषा वा भवन्तीति सद्बुद्ध्या असद्बुद्ध्या वानुगतत्वं घटबुद्ध्यादीनाम्। एवं सति ब्रह्मबुद्धिरपि सद्बुद्ध्यनुगता वा स्याद्, असद्बुद्ध्यनुगता वा स्यान्न त्वतिरिक्ता। सदसद्बुद्ध्यननुगतबुद्धेरेवाभावात्। तथा च ज्ञेयं ब्रह्मापि सद्बुद्ध्यनुगतब्रह्मबुद्धिविषयं वा स्याद् असद्बुद्ध्यनुगतब्रह्मबुद्धिविषयं वा स्यादिति कृत्वा सद्बुद्धेरसद्बुद्धेर्वा विषयमेव स्याद् ब्रह्म न त्वविषयम्। अन्यथा ब्रह्मबुद्धेरप्यविषयत्वेन ज्ञेयं ब्रह्मेति वक्तुमशक्यत्वादिति भावः। अमुं पूर्वपक्षं परिहरति—नेति। अतीन्द्रियत्वेनेन्द्रियागोचरत्वेन हेतुना। उभयबुद्धी सदसद्बुद्धी, तदनुगतः प्रत्ययो ब्रह्मबुद्धिः, तस्याः अविषयत्वात्। तदेवोपपादयति— यदिति। हिः प्रसिद्धौ। यदिन्द्रियगम्यं घटादिकं वस्तु तदस्तिबुद्ध्यनुगतस्य सद्बुद्ध्यनुगतस्य प्रत्ययस्य घटादिबुद्धेर्विषयं वा स्यात्। नास्तिबुद्धिरसद्बुद्धिः, तदनुगतस्य प्रत्ययस्य घटादिबुद्धेर्विषयं वा स्यात्। घटस्य भावाभावाभ्यामुभयबुद्ध्यनुगतप्रत्ययविषयत्वमिति भावः। इदं तु ज्ञेयमतीन्द्रियत्वेन हेतुना भाष्यार्कप्रकाशः [ज्ञेयस्य वागगोचरत्वोपपादनम्] ननु न तदस्ति यद्वस्तु अस्तिशब्देन नोच्यते। अथास्तिशब्देन नोच्यते, नास्ति तज्ज्ञेयम्। विप्रतिषिद्धं च— ‘ज्ञेयं तद् , अस्तिशब्देन नोच्यते’ इति च। न तावन्नास्ति, नास्तिबुद्ध्यविषयत्वात्। ननु सर्वा बुद्धयः अस्तिनास्तिबुद्ध्य- नुगता एव। तत्रैवं सति ज्ञेयमपि अस्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात् , नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्? न ; अतीन्द्रियत्वेनोभयबुद्ध्यनुगतप्रत्ययाविषयत्वात्। यद्धीन्द्रियगम्यं वस्तु घटादिकं तदस्तिबुद्ध्यनुगतप्रत्ययविषयं वा ब्रह्मणोऽस्तिशब्दावाच्यत्वे नरविषाणवन्नास्तित्वमित्यनिष्टमाशङ्कते—नन्विति। एवमुत्सर्गेऽपि ब्रह्मणि किमायातमित्याशङ्क्याह —अथेति। ज्ञेयस्यास्तिशब्दावाच्यत्वे व्याघातश्चेत्याह— विप्रतिषिद्धं चेति। अस्तिशब्दावाच्यत्वादवस्तु ब्रह्मेत्यत्राप्रयोजकत्वमाह— न तावदिति। नास्तिबुद्धिविषयत्वमेवावस्तुत्वे निमित्तम्। अतस्तदभावाद् ब्रह्मणो नावस्तुतेति। एतदेव व्यक्तीकर्तुं चोदयति— नन्विति। सर्वासां धियामस्तिधीत्वेन नास्तिधीत्वेन वाऽनुगतत्वेऽन्यतरधीगोचरत्वाभावे ब्रह्मणोऽनिर्वाच्यत्वं दुर्वारमिति फलितमाह—तत्रेति। ब्रह्मणो घटादिवैलक्षण्यादुभयबुद्ध्यविषयत्वेऽपि नानिर्वाच्यतेत्याह—नेत्यादिना। घटादेरिन्द्रियग्राह्यस्योभयबुद्धिविषयत्वेऽपि ब्रह्मणस्तद- ग्राह्यस्य नोभयधीविषयत्वम् , तथापि नानिर्वाच्यत्वं, सच्चिदेकतानस्य शब्दप्रमाणाद् अविषयत्वेन दृष्टत्वादित्युक्तमेव प्रपञ्चयति—यद्धीति। ननु न तदस्तीति। यद् वस्तु अस्तिशब्देन नोच्यते तद् नास्ति, यथा नृशृङ्गम् , तथेति। एवं च सति अस्तिशब्देन नोच्यते चेद् ब्रह्म तदपि नास्त्येवेत्यर्थः। ब्रह्म अवस्तु स्याद् , अस्तिशब्दावाच्यत्वात् , नृशृङ्गवत्यत्रादिप्रयोजकत्वमाह— न तावन्नास्तीति। नास्तिबुद्ध्यविषयत्वमेव चोद्यपूर्वकं विवृणोति— ननु सर्वा बुद्धय इत्यादिना।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

अ. १३. श्लो. १२ ] आनन्दगिरिकृतव्याख्या

[[६६४]]

घटवदुभयबुद्ध्यनुगतप्रत्ययविषयं न भवति। अस्यातीन्द्रियत्वे हेतुमाह— शब्दैकप्रमाणगम्यत्वादिति। ‘शास्त्रयोनित्वादि’त्यधिकरणे स्थापितं ब्रह्मणः शब्दप्रमाणैकवेद्यत्वम्। अत इति। सदसद्बुद्ध्यनुगतप्रत्ययाविषयत्वाद् ब्रह्मण इत्यर्थः। तद् ब्रह्म सदिति नोच्यते, असदिति च नोच्यते, सद्बुद्धिविषयं हि वस्तु सदित्युच्यते, असद्बुद्धिविषयं त्वसदित्युच्यते, उभयबुद्ध्यविषयत्वाद् ब्रह्म नोभयथोच्यत इति भावः। ननु ज्ञेयं ब्रह्म किं ब्रह्मबुद्धिविषयम् उत तदविषयम्? आद्ये - सद्बुद्धिविषयत्वमसद्बुद्धिविषयत्वं वा प्राप्तं ब्रह्मणः। द्वितीये - ब्रह्म- बुद्ध्यविषयं तद् वस्तु ब्रह्म कथं स्यात्? न हि घटबुद्ध्यविषयं वस्तु पटः घटः स्यादिति चेत्? उच्यते— यदि ब्रह्म इन्द्रियगम्यं स्यात् तर्हि ब्रह्मबुद्धिरुभयबुद्ध्यनुगतप्रत्ययः स्यात्। न तु तथाऽस्ति। तस्मान्न सद्बुद्धिविशेषो नाप्यसद्बुद्धिविशेषो भवति ब्रह्मबुद्धिरिति ब्रह्मबुद्धिविषयं तद् वस्तु ब्रह्म भवत्येवेति। ननु यद् वस्तु सद्बुद्धेरसद्बुद्धेश्चाविषयं, तद् वस्तु मिथ्याबुद्धिविषयमेव, सदसदनिर्वचनीयत्वस्यैव मिथ्यात्वादिति किं ब्रह्म मिथ्याबुद्धिविषयं मायादिवदिति चेत्? मैवम् ; मिथ्याबुद्धेरपि वस्तुतोऽसद्बुद्धिविशेषत्वात्। यद्वा मिथ्याबुद्धेरप्यविषयमेव ब्रह्म, ब्रह्मबुद्धेः मिथ्याबुद्धित्वाभावात् तद्विशेषत्वाभावाच्च। ननु ‘नासतः’ इति श्लोकभाष्ये ‘सर्वत्र सद्बुद्धिरसद्बुद्धिश्चेति बुद्धिद्वयोपलब्धे’रित्युक्तमाचार्यैः, इह तु सद्बुद्धिरसद्बुद्धिर्ब्रह्मबुद्धि- र्मिथ्याबुद्धिरिति बुद्धिचतुष्टयमुच्यते त्वया परस्पराननुगतं, तत एको विरोधः। सर्वं जगदसद्बुद्धिविषयं, ब्रह्मैकमेव सद्बुद्धिविषयमिति ‘अविनाशी’ति श्लोकभाष्ये आचार्यैरुक्तम् , तैरेवेह न सद्बुद्धिविषयं ब्रह्मेत्युच्यत इति द्वितीयः। घटादेः सद्बुद्धिविषयत्वमुच्यत इति तृतीयः। ‘मनसैवानुद्रष्टव्यम्’ इति मनइन्द्रियगम्यस्य ब्रह्मणो धर्मादिवदतीन्द्रियत्वमुच्यत इति चतुर्थः। यद्यतीन्द्रियत्वेन ब्रह्म सदसद्बुद्ध्यविषयं स्यात् , तर्हि धर्माद्यपि शास्त्रैकप्रमाणत्वेनातीन्द्रियत्वात् सदसद्बुद्ध्यविषयमेव स्यादिति ब्रह्मणोऽसदृशस्य धर्मादिसादृश्यं स्यादिति पञ्चमः। सद्रूपस्य ब्रह्मणः सच्छब्दावाच्यत्वमुच्यत इति षष्ठः। ‘अस्ति ब्रह्मेति चेद्वेद। सन्तमेनं ततो विदु’रित्यादिश्रुतिविरोधः सप्तमः इति चेत्? उच्यते— यत् कालत्रयाबाध्यं नित्यं वस्तु , तत् सत् , अन्यदसदिति बुद्ध्या ‘नासतः’ इत्यादौ ब्रह्मैव सत् , जगदसदित्युक्तम्। तथैव सद्बुद्धिरसद्बुद्धिश्चेति बुद्धिद्वयमेवोपलभ्यत इत्युक्तम्। दृग्दृश्यभूतब्रह्मजगदतिरिक्तपदार्थासत्त्वात् तद्विषयस्य बुद्धिद्वयस्यैवोप- लम्भात्। मिथ्याबुद्धेश्चासद्विषयत्वादसद्बुद्धित्वमेव। ब्रह्मबुद्धेश्च सद्विषयत्वात् सद्बुद्धित्वमेव। ततो न बुद्धिचतुष्टयप्रसङ्गः, विषयचतुष्टया- भावात्। इदमेवाभिप्रेत्य श्रुत्याऽपि ब्रह्मणोऽस्तित्वमुच्यते, सद्रूपत्वं च। इह तु यदिन्द्रियगम्यं तदेव वस्तु सद्वाऽसद्वा भवतीत्युच्यते। तथा च त्रिकालाबाध्यत्वरूपपूर्वोक्तसत्तातः इन्द्रियगम्यत्वरूपा इहोक्ता सत्ता भिद्यत एव। इन्द्रियगम्यत्वरूपायाः एतत्सत्तायाः ब्रह्मण्यभावाद् घटादिषु सत्त्वाच्च, ब्रह्मणः सद्बुद्ध्यविषयत्वं, घटादेस्तद्विषयत्वं चोच्यत इति न पूर्वोत्तरविरोधः। मनसोऽनिन्द्रियत्वाद् , इन्द्रियत्वे वा १असंस्कृतमनसो ब्रह्मदर्शनेऽकरणत्वाच्चातीन्द्रियत्वमुच्यते ब्रह्मणः। धर्मादेरतीन्द्रियत्वांशे ब्रह्मसादृश्ये सत्यपि त्रिकालाबाध्यत्वांशे तन्नास्तीति न ब्रह्मणोऽसदृशत्वभङ्गप्रसङ्गः। न हि शास्त्रैकवेद्यत्वे सति ब्रह्मसदृशः स्यादिति स्वर्गादिलोको ऽस्माकमिन्द्रियगोचरो भवितुमर्हति। इन्द्रियगम्यवस्तुवाचिना सच्छब्देनातीन्द्रियं ब्रह्म नोच्यत इति न ब्रह्मणः सद्रूपत्वासम्भवः, त्रिकालाबाध्यचैतन्यवाचिना सच्छब्देनोच्यमानत्वाद् ब्रह्मण इति। ननु ‘तन्नास्ति ज्ञेयं भवति, ज्ञेयं तदस्ति अस्तिशब्देन नोच्यते’२ इति विप्रतिषिद्धमिति यदुक्तं तस्य का गतिरित्यत आह— भाष्यार्कप्रकाशः स्यात् , नास्तिबुद्ध्यनुगतप्रत्ययविषयं वा स्यात्। इदं तु ज्ञेयम् अतीन्द्रियत्वेन शब्दैकप्रमाणगम्यत्वान्न घटादिवद् उभयबुद्ध्यनुगतप्रत्ययविषयमित्यतो न सत् तन्नासदित्युच्यते। १. असंस्कृतमनोभिन्नेन्द्रियागम्यत्वमिहातीन्द्रियत्वमिति परिष्कार्यमिति भावः। ब्रह्म स्वयंप्रकाशत्वान्न करणविषय इति वा। द्र.पृ. ९०। २. ‘न सत्’ इत्यस्य नास्तीति विवरणम्। नास्तीति, ज्ञेयमिति च एको विप्रतिषेधः। ज्ञेयं तदस्ति, अस्तिशब्देन नोच्यत इति चापरो विप्रतिषेधः इति योजना।

[[६६५]]

यत्त्विति। ज्ञेयं तन्न सत् , तत् नासदुच्यत इति विरुद्धमुच्यत इति यत्तूक्तं तन्न विरुद्धमित्यन्वयः। अविरुद्धत्वे श्रुतिं प्रमाणयति— अन्यदिति। तद् ब्रह्म विदितादन्यद्, अविदिताच्चान्यदित्यर्थः। विदिताविदिताभ्यां तत् पृथक्, बोधस्वरूपकमिति भावः। अतीन्द्रियत्वेन अस्तिनास्तिशब्दाभ्यां यन्नोच्यत इति वयं ब्रूमः, तद् ब्रह्म यदि ज्ञेयं स्यात् तर्हि विरुद्धवादः स्यात् ; न तु तज्ज्ञेयम् , किन्तु ज्ञानमेव। ज्ञेयत्वे सति ब्रह्मणः केनचिद् विदितत्वमेव स्याद् अथवा केनचिदविदितत्वं स्यात्। यथा ज्ञेयो घटः केनचिद् विदितः, केनचिदतिबालेनाविदितश्च भवति। ब्रह्म तु न केनापि विदितम् , नाप्यविदितम्। तस्मान्न ज्ञेयं ब्रह्म। अत्रास्य ज्ञेयत्ववचनं त्वौपचारिकमित्यभिसन्धिः। एवं ब्रह्मणो ज्ञेयत्वेऽसिद्धे अविद्यमानस्य कथं ज्ञेयत्वम्? ज्ञेयस्य वा कथमविद्यमानत्वम्? इति विरोधद्वयमपास्तम्। अनया च ‘अन्यदेवे’ति श्रुत्या अतीन्द्रियत्वेन सदसच्छब्दवाच्यमपि तद् ब्रह्म ज्ञानस्वरूपत्वाद् विद्यमानमेव। ज्ञानं हि त्रिकालाबाध्यमिति ज्ञायते। न च - यदि ज्ञानं सर्वदाऽस्ति तर्हि घटादयः सर्वदा भासेरन्निति - वाच्यम् ; ज्ञानं हि स्वविषयं सर्वमवभासयत् सत् स्वयमवभासते। घटादयो विषयास्तु न सर्वदा ज्ञानस्य विषया भवन्ति, येन सर्वदा घटादिस्फुरणं स्यात्। किन्तु कदाचित् किञ्चिदेव ज्ञानस्य विषयो भवति। यथेदानीं घटः क्षणान्तरे पटः क्षणान्तरे पुस्तकं निद्रायामज्ञानमित्येवम्। तस्माद् विषयाणां क्षणिकत्वेऽपि विषयिणो ज्ञानस्य त्रिकालाबाध्यत्वलक्षणं सत्यत्वमस्त्येव। अत एव ‘सत्यं ज्ञानमनन्तं ब्रह्मे’ति श्रुतिरुपपद्यते। तदेव ज्ञानं ब्रह्म। न तु ज्ञेयमिति। ननु विरुद्धार्थत्वाच्छ्रुतिरप्यप्रमाणमेवेति शङ्कते— श्रुतिरपीति। यज्ञाय शालामारभ्य प्रवृत्ता ‘अन्तर्हितो हि देवलोको मनुष्य- लोकान्नास्माल्लोकात् प्रे[स्वे]तव्यमिवेत्याहुः को हि तद्वेद यद्यमुष्मिन् लोकेऽस्ति वा न वेति’ इति श्रुतिः संशयात्मकत्वाद् विरुद्धार्था यथा, तद्वद् ‘अन्यदेवे’ति श्रुतिरपि विरुद्धार्थेति चेत् , मैवम् वक्तव्यमिति शेषः। ब्रह्म प्रतिपादयितुं प्रवृत्तत्वात् प्रकृतश्रुतेरित्याह— विदितेति। अवश्यविज्ञेयार्थो ब्रह्म। ननु ‘यद्यमुष्मिन्’ इति श्रुतिरपि ज्ञेयार्थप्रतिपादनपरैवेत्यत आह— यदीति। विधेर्यज्ञविधेः शेषभूतो भाष्यार्कप्रकाशः यत्तूक्तम् - विरुद्धमुच्यते ‘ज्ञेयं तत्’ ‘न सत् तन्नासदुच्यते’ इति। न विरुद्धम् ; ‘अन्यदेव तद् विदितादथो अविदितादधि’ (के.उ.१.३) इति श्रुतेः। श्रुतिरपि विरुद्धार्थेति चेद्, यथा यज्ञाय शालामारभ्य ‘को हि तद् वेद यद्यमुष्मिन् लोकेऽस्ति वा न वेति’ (तै.सं.६.१.१) इत्येवमिति चेत्? न ; विदिताविदिताभ्यामन्यत्वश्रुतेः अवश्य- विज्ञेयार्थप्रतिपादनपरत्वात्। ‘यद्यमुष्मिन्’ इत्यादि तु विधिशेषोऽर्थवादः१। आनन्दगिरिकृतव्याख्या परोक्तं विरोधमनुवदति— यत्त्विति। श्रुत्यवष्टम्भेन निराचष्टे— न विरुद्धमिति। साऽपि विरुद्धार्थत्वान्न मानम् , बोधकस्या- विरोधापेक्षत्वादिति शङ्कते— श्रुतिरिति। तस्या विरुद्धार्थत्वेनाप्रामाण्ये दृष्टान्तमाह— यथेति। ‘प्राचीनवंशं करोती’ति पारलौकिकफल- यज्ञानुष्ठानार्थं शालानिर्माणं प्रस्तुत्य ‘को हि तद् वेद’ इत्याद्या परलोकसत्त्वे सन्दिहाना यथा विरुद्धार्था श्रुतिरप्रमाणम् , एवं विदिता- विदितान्यत्वश्रुतिरपीत्यर्थः। नेयं श्रुतिर्विरुद्धार्थत्वेनामानतया हातव्या, ब्रह्मण्यद्वितीये २प्रत्यक्ताप्रतिपादनेन मानत्वादित्युत्तरमाह— न, विदितेति। यत्तु विरुद्धार्थत्वे ‘को हि’ इत्युदाहृतम् , तदसद् , अर्थवादस्य विधिशेषस्य स्वार्थेऽतात्पर्यादित्याह— यदीति। विदिताविदितान्यत्वाभिधानेन श्रुत्वा[श्रुत्या] प्रतिपाद्यस्य ज्ञेयत्वमुक्तम्। ततः प्रमाणसिद्धत्वान्न विरोध इत्याह— न विरुद्धमिति। विरुद्धार्था श्रुतिरपि न प्रमाणमित्यत्रोदाहरणमाह— यथा यज्ञायेति। भेदे सति ज्ञेयत्वमज्ञेयत्वं वा स्यात्। अतो ज्ञेयत्वाज्ञेयत्वप्रतिषेधेनात्मभूतब्रह्मप्रतिपादने(न) श्रुतेस्तात्पर्यान्न विरुद्धार्थत्वमित्याह—न, विदिताविदितेति। दृष्टान्तेऽपि स्वार्थे तात्पर्याभावान्न विरुद्धार्थत्वमित्याह— यद्यमुष्मिन्निति।

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. ‘दिक्ष्वतीकाशान् करोति’(तै.सं.६.१.१) इति विधेः शेषोऽयम्। २. प्रत्यगात्मतेत्यर्थः। ममेदं विदितम् , इदमविदितमिति स्वात्मानमपेक्ष्यैव विदिताविदितत्वे भवतः इति ताभ्यामन्यत्वोक्तौ स्वात्मत्वमेव पर्यवस्यतीति भावः।

[[अ. १३. श्लो. १२]] [[६६६]]

उपपत्तेश्च, सदसदादिशब्दैर्ब्रह्म नोच्यत इति। सर्वो हि शब्दोऽर्थप्रकाशनाय प्रयुक्तः श्रूयमाणश्च श्रोतृभिः जातिक्रियागुणसम्बन्धद्वारेण सङ्केतग्रहणसव्यपेक्षोऽर्थं प्रत्याययति, नान्यथा, अदृष्टत्वात्। तद्यथा— गौः अश्व इति वा जातितः, पचति पठतीति वा क्रियातः, शुक्लः कृष्ण इति वा गुणतः, धनी गोमानिति वा सम्बन्धतः। न तु ब्रह्म जातिमत् , अतो न सदादिशब्दवाच्यम्। नापि गुणवद् येन गुणशब्देनोच्येत, निर्गुणत्वात्। नापि क्रियाशब्दवाच्यं निष्क्रियत्वात् , ‘निष्कलं निष्क्रियं शान्तम्’श्वे.उ.६.१९) इति श्रुतेः। न च सम्बन्धि, एकत्वाद् अद्वयत्वाद् अविषयत्वाद् ऽर्थवादः। प्रधानो विधिः यजेतेत्यादिः। अर्थवादस्त्वप्रधानत्वात् तच्छेषभूतः। विधिशेषत्वेनैवार्थवादानामुपयोगो न तु स्वातन्त्येणेति भवत्वर्थवादवाक्यस्य स्वार्थे तात्पर्याभावादप्रामाण्यम्। प्रकृतश्रुतिस्तु ब्रह्मप्रतिपादनपरत्वात् प्रधानवाक्यमेवेति न दृष्टान्तसम्प्रति- पत्तिरिति भावः। न केवलं श्रुतिरेव प्रमाणं, किन्तूपपत्तिरपीत्याह— उपपत्तेश्चेति। उपपत्तिर्युक्तिः। ज्ञेयमपि ब्रह्म सदादिशब्दैर्नोच्यत इत्यत्रोप- पत्तेश्च सत्त्वान्न विरुद्धवादप्रसङ्ग इत्यर्थः। चकारो दर्शितश्रुतिसमुच्चयार्थः। उपपत्तिमेव दर्शयति— सर्व इत्यादिना युक्तमित्यन्तेन। अर्थप्रकाशनार्थाय वक्तृभिरिति शेषः। प्रयुक्तः श्रोतृभिः श्रूयमाणः सर्वः शब्दः जातिक्रियागुणसम्बन्धद्वारेण सङ्गतिग्रहणसव्यपेक्षः सन्नर्थं प्रत्याययति, न त्वन्यथा, लोके अन्यथा अदृष्टत्वादिति। अर्थो घटादिः, तत्प्रकाशनमेवार्थः प्रयोजनं तस्मै; तदर्थमित्यर्थः। सर्वः शब्दः सर्वविधः शब्दः, सर्वे शब्दा इति यावत् ; जात्येकत्वम् ; सव्यपेक्षः सापेक्षः प्रत्याययति बोधयति। अन्यथा जात्यादिद्वारेण सङ्गतिग्रहणनिरपेक्षः सन्नित्यर्थः; न अर्थं न प्रत्याययतीत्यर्थः; अदृष्टत्वाद् अनुपलभ्यमानत्वादित्यर्थः। गोत्वाश्वत्वादिकं जातिः। अनेकव्यक्तिष्वनुगतो धर्मो जातिः। कर्मेन्द्रियनिर्वर्त्या क्रिया पचनपठनादिः। शुक्लकृष्णादयो गुणाः। स्वस्वामिभावादयः सम्बन्धाः। निर्धर्मकत्वाद् ब्रह्मणि न जातिः, निष्क्रियत्वान्न क्रिया, निर्गुणत्वान्न गुणः, एकत्वान्न सम्बन्ध इति ब्रह्म जात्यादिमद् न भवति। अत इति। जात्यादिशून्यत्वाद् ब्रह्मण इत्यर्थः; ब्रह्म सदसदादिशब्दवाच्यं न भवति। सच्छब्दो हि सत्तारूपजातिमद्वस्तुवाची। आदिपदादसच्छब्दग्रहणम्। स च असत्त्वरूपधर्मवद्वस्तुवाची। ब्रह्मणि तु न सत्ता विद्यते, नाप्यसत्त्वमिति कृत्वा सदिति असदिति वा वक्तुं ब्रह्म न शक्यते। नापि गुणवदिति। ब्रह्मेति शेषः। येनेति। गुणवत्त्वेनेत्यर्थः। गुणशब्देनेति। शुक्लकृष्णादिना कुतो न गुणवद् ब्रह्म? अत आह— निर्गुणत्वादिति। शुक्लं ब्रह्म, कृष्णं ब्रह्मेत्येवं वक्तुं न शक्यत इत्यर्थः। क्रियाशब्दः क्रियावाचिशब्दः। सम्बन्धोऽस्यास्तीति सम्बन्धि। कस्मान्न सम्बन्धि ब्रह्म? इत्यत आह— एकत्वादिति। ननु एकमेव ब्रह्मास्तु, अनेकब्रह्माणि न सन्तु, घटपटादिवस्तुभिः भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या यत्र जात्यादिमत्त्वं तत्र१ वाच्यत्वम् , यथा गवादौ, न ब्रह्मणि जात्यादिमत्त्वम् , अतस्तस्यावाच्यत्वाद् निषेधेनैव बोध्यत्व- मित्याह— उपपत्तेश्चेति। नोच्यत इति निषेधेनैव तस्योपदेश इति शेषः। जात्यादिमतोऽर्थस्यैव वाच्यत्वम् , तत्रैव सङ्गतिग्रहादिति प्रपञ्चयति— सर्वो हीति। अश्रुतस्य जात्यादिद्वारेणाज्ञातसङ्गतेर्वा शब्दस्य न बोधकत्वम् , अदृष्टेरित्याह— नान्यथेति। जात्यादेः सच्छब्दविषयत्वमुदाहरति— तद्यथेत्यादिना। ब्रह्मणस्तु २‘अगोत्रमवर्ण’मित्यादिश्रुतेर्जात्यादिमत्त्वाभावान्न शब्दवाच्यतेत्याह— न त्विति। ‘केवलो निर्गुणश्चे’ति श्रुतेर्गुणद्वारा ब्रह्मणो न वाच्यतेत्याह— नापीति। निष्क्रियत्वे मानमाह— निष्कलमिति। ब्रह्मणो ३ऽद्वयत्वस्याशेषोपनिषत्सु सिद्धत्वाद् , विशिष्टस्य [द्विनिष्ठस्य] सम्बन्धस्य तस्मिन्नसिद्धेर्न तद्द्वाराऽपि तस्य वाच्यतेत्याह— न चेति। यत् शब्दवाच्यं तद् जात्यादिमद् दृष्टम् । तद्व्यापकं व्यावर्तमानं ब्रह्मणः शब्दवाच्यत्वमपि व्यावर्तयतीत्याह— उपपत्तेश्चेत्यादिना। न तु ब्रह्म जातिमद् ‘अगोत्रमवर्णम्’ इति श्रुतेरित्यर्थः॥१२॥

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

१. तत्रैव इति एवकारः शेषः। तेन जात्यादिमत्त्वस्य व्यापकत्वलाभः। ततश्च व्यापकस्य जात्यादिमत्त्वस्याभावाद् व्याप्यवाच्यत्वाभावः सिध्यति। २. ‘अगोत्रत्व- मवर्णत्वम्’ इति पा.। ३. ‘अद्वतीयत्वस्य’ इति पा.।

[[६६७]]

अन्यसम्बन्धित्वं स्यादेवेत्यत आह— अद्वयत्वादिति। द्वितीयं वस्तु नास्ति ब्रह्मणः, ‘एकमेवाद्वितीयं ब्रह्मे’ति श्रुतेरिति भावः। एतेन शब्दप्रवृत्तिनिमित्तानां जातिगुणक्रियासम्बन्धानां ब्रह्मण्यभावाद् ब्रह्म न शब्दप्रतिपाद्यमिति सिद्धम्। अस्यैव ब्रह्मणः शब्दाप्रतिपाद्यत्वस्य हेत्वन्तरमाह— अविषयत्वादिति। वाचामगोचरत्वादित्यर्थः। न च ब्रह्मापि विषय एवेति वाच्यम् ; विषयित्वात् तस्य। कुतोऽस्य विषयित्वम्? अत आह— आत्मत्वादिति। आत्मनो विषयित्वमनात्मनां सर्वेषां विषयत्वं च ‘विषयविषयिणो’रिति सूत्रभाष्ये स्पष्टम्। ज्ञानस्वरूपत्वादात्मा विषयी, ज्ञेयत्वादन्यत् सर्वं विषय इति। यद्वा शब्दप्रवृत्तिनिवृत्तानां जात्यादीनामभावेन सदादिशब्दावाच्यत्वेऽपि ब्रह्मणः संज्ञामात्रप्रयोजकयदृच्छाशब्दवाच्यत्वं स्यादित्यत आह—अविषयत्वादिति। संज्ञासंज्ञिसम्बन्धवत्येव वस्तुनि डित्थडबित्थादिसंज्ञाशब्दाः प्रवर्तन्ते। ब्रह्म न च सम्बन्धीत्युक्तम्। तस्माद् यदृच्छाशब्दानामप्यविषयमेव ब्रह्म। ‘न नामरूपे गुणदोष एव वा’ इति ब्रह्मणि नाम्नोऽप्यभावादिति। एवं ब्रह्मणः सर्वशब्दाविषयत्वे हेत्वन्तरमाह— आत्मत्वाच्चेति। येनात्मना सर्वे शब्दाः प्रकाश्यन्ते तमात्मानं पुनः कः शब्दः प्रकाशयेत्? शब्देन ह्यर्थः प्रकाश्यते। अर्थप्रकाशकत्वमेव हि शब्दस्य शक्तिः। तद्रहितस्तु भेर्यादिशब्दवच्छ्रोत्रप्रवेशमात्रफलकत्वाद् व्यर्थ एव। इयं च शब्दशक्तिर्ब्रह्मणि विधुरैव, ‘तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती’ति च श्रुतेः सर्वावभासके ब्रह्मणि शब्दावभास्यत्वासम्भवात्। य आत्मा घटोऽयं पटोऽयमितिवच्छब्दोऽयमिति जानाति स आत्मा घटेनेव शब्देन कथं बोध्येत? न कथमपीत्यर्थः। ननु जडेन शब्देन यदि घटो बोध्येत तर्ह्यात्मा न बोध्यत इति वक्तुं युक्तम् , तदेव न सम्भवतीति चेत् , मैवम् ; घट इति शब्दो जडत्वात् स्वयं घटं न वेत्तु नाम, अन्यस्मै पुरुषाय तु घटं बोधयत्येव। आत्मा तु नैवं घटवच्छब्देन बोध्यत इत्यदोषात्। ननु आत्मशब्दोऽप्यात्मानं बोधयत्येव घटमिवेति चेत् , सत्यं बोधयति, कस्मै बोधयतीति वक्तव्यम्। न तावदात्मने, बोधनात् प्रागप्य- परोक्षत्वादात्मनः। आत्मा हि स्वयम्। न हि स्वस्य स्वयं परोक्षः कदाचिदपि। नाप्यन्यस्मै, आत्मान्यस्य सर्वस्यापि जडत्वात्। न च प्रमात्रे इति वक्तव्यं, तस्यापि वस्तुत आत्मत्वादिति। तदेवमात्मत्वान्न शब्दप्रतिपाद्यत्वं ब्रह्मण इति स्थितम्। ननु यदि ब्रह्म शब्दाप्रतिपाद्यमिन्द्रियागम्यं च, तर्हि तुच्छमेवेति चेत् , मैवम् ; आत्मत्वेन नित्यापरोक्षत्वात्। तुच्छं हि न प्रतिभाति कदाचिदपि शशशृङ्गवत्। ननु यद्येवमतीन्द्रियं शब्दाविषयमपि ब्रह्म नित्यापरोक्षमात्मत्वादिति न तत्र चक्षुरादेरिव शब्दस्यापि कोऽप्युपकारस्तर्हि व्यर्थं शास्त्रमिति चेत् , न व्यर्थम् - अतीन्द्रियः शब्दाविषयो नित्यापरोक्षश्चैतन्यरूप आत्मैव ब्रह्मेत्येतदर्थज्ञानाय शास्त्रस्यावश्यकत्वात्। न हि शास्त्रं गुरूपदेशं वा विना औत्पत्तिकेन ज्ञानेन यः कोऽपि यथोक्तमर्थं जानीयात्। गुरुशास्त्रसत्त्वेऽपि यः कश्चिन् महामतिरेव यथोक्तमर्थं वेत्ति ‘श्रुत्वाऽप्येनं वेद न चैव कश्चिदि’त्युक्तत्वात्। न पुनः सर्वे श्रोतारः शास्त्रस्य। किम्पुनर्गुरु- शास्त्राभावे। सर्वो ह्यौत्पत्तिकेन ज्ञानेनात्मानं मनुष्यं जातं वृद्धं सुखिनं दुःखिनं वा मन्यते। न त्वविक्रियं सच्चिदानन्दं ब्रह्म। न च कोऽयमात्मन्येवान्यभ्रम इति वाच्यम् ; न हि दृष्टेऽनुपपत्तिरिति न्यायात्। अयुक्तोऽप्यात्मन्यन्यभ्रमो नापलपितव्योऽनुभवबलात्। नापि तद्धेतुविचारः कर्तव्यः। किन्तु केवलं परिहर्तव्यः। रोगिणा हि स्वानुभवसिद्धस्य रोगस्य नाशायैव यतितव्यं, न तु रोगहेत्वादि- विचारः कर्तव्यः, निष्फलत्वादिति। यथा रोगस्य भेषजं प्रसिद्धं, तथा प्रकृतसंसारभ्रमस्य तत्त्वज्ञानं नाशकत्वेन प्रसिद्धम्। तच्च शास्त्रतो गुरूपदेशाद्वा सम्पाद्यमिति महाफलमेव वेदान्तशास्त्रम् , साक्षादात्मबोधनाशक्तत्वेऽप्यात्मनि कल्पितसर्वभ्रमनिवृत्तिकरतत्त्वज्ञान- जनकत्वादिति। ननु शास्त्रे श्रूयमाणात्मब्रह्मसच्चिदादिशब्दाः किमात्मानं बोधयन्तः सन्तः संसारभ्रमं निवर्तयन्ति? उताबोधयन्तः? आद्ये - ब्रह्म न शब्दप्रतिपाद्यमित्यस्य विरोधः। द्वितीये - आत्माबोधने कथं संसारभ्रमनिवृत्तिः? न हि कल्पितसर्पभ्रमनिवृत्तिरधिष्ठानरज्जु-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ब्रह्मण्यभिधावृत्त्या शब्दाप्रवृत्तौ हेत्वन्तराण्याह— अद्वयत्वादिति। ब्रह्मणोऽवाच्यत्वे श्रुतिमपि संवादयति— यत इति॥१२॥

आत्मत्वाच्च न केनचिच्छब्देनोच्यत इति युक्तम् , ‘यतो वाचो निवर्तन्ते’ (तै.उ.२.९) इत्यादिश्रुतिभ्यश्च॥१२॥

[[अ. १३. श्लो. १२]] [[६६८]]

तत्त्वज्ञानं विना सम्भवतीति चेत् , मैवम् ; आत्मब्रह्मादिशब्दा आत्मानम् इदं तदिति न प्रतिपादयन्ति, किन्त्वनात्माब्रह्मासदादिभ्यो विलक्षणत्वेन केवलं प्रतिपादयन्ति१। ततश्च श्रोतुः आत्मनि अनात्माब्रह्मासदादिभ्रमो निवर्तते। अहमात्मा ब्रह्म सच्चिदानन्दमिति ज्ञानं जायते। ततः संसारो निवर्तत इति। न चेदं तदिति कुतो न प्रतिपादयन्तीति वाच्यम् ; अविषयत्वादात्मनः। इदंशब्दो हि विषयमभिधत्ते। चाक्षुषश्रावणादिप्रत्यक्षविषये वस्तुन्येव इदंशब्दप्रयोगात्। आत्मा तु विषय्येवेति न विषयः। न हि चाक्षुषादिप्रत्यक्ष- विषयः आत्मा, अतीन्द्रियत्वात्। अनुभवरूपो ह्यात्मा, अनुभवश्च स्वैकवेद्य इति सम्प्रतिपन्नमिति। ननु आत्मशब्दः आत्मानं न प्रतिपादयतीति विरुद्धम् , यथा घटशब्दो घटं न प्रतिपादयतीति चेत् , न विरुद्धम् ; घटं न प्रतिपादयतीत्यत्र घटशब्देन किं त्वया विवक्षितम्? कम्बुग्रीवाद्याकारवन्मृत्पिण्डविशेषो विवक्षितः। स चेन्द्रियगोचर एवेति युक्तं तस्य घटशब्देन प्रतिपादनम्। आत्मानं न प्रतिपादयतीत्यत्र आत्मशब्देन किं त्वया विवक्षितम्? यद् विवक्षितं तद् यदि त्वं शब्देन प्रतिपादयेः, तर्ह्यात्मशब्दोऽन्यो वा प्रतिपादयेदेवात्मानम्। न तु त्वमात्मशब्देन मया विवक्षितमिदमिति वक्तुं क्षमसे, निर्विशेषत्वात् तस्येति। तस्मात् केनचिच्छब्देनाप्यात्मा नोच्यत इति युक्तम्। ननु पुरुषबुद्धितन्त्रत्वादुपपत्तिर्न प्रमाणम् , अत आह— यत इति। श्रुतिमूलत्वादुपपत्तिः प्रमाणमेवेति भावः। इत्यादीत्यादि- पदात् ‘यद्वाचाऽनभ्युदितम्’ इत्यादिग्रहणम्। चकारात् ‘ब्रह्मन् ब्रह्मण्यनिर्देश्ये निर्गुणे गुणवृत्तयः। कथं चरन्ति श्रुतयः साक्षात् सदसतः परे॥’ इत्यादिस्मृतिग्रहणम् , २अनुभवस्य च ग्रहणम्। एवं श्रुतियुक्त्यनुभवसिद्धत्वाच्छङ्कराचार्योक्त एवार्थो ग्राह्यः। अतीन्द्रि- यत्वाद् ब्रह्म घटवन्न सत् , शब्दैकवेद्यत्वादशून्यत्वादात्मत्वाच्च शशशृङ्गवत् न चासत् , निर्विशेषत्वाद् ब्रह्म सदसच्छब्दवाच्यं न भवति, घटादिवत्। ज्ञानस्वरूपत्वाद् ब्रह्म ज्ञेयं न भवति, घटवत्। ब्रह्म परमनादिमत्वाद् घटवत्। क्षेत्रज्ञ एव परं ब्रह्म, अद्वितीय- ज्ञानस्वरूपत्वाद् घटवत्। क्षेत्रज्ञाभिन्नं ब्रह्मैव मुमुक्षुभिर्ज्ञेयम् , ब्रह्मात्मज्ञानस्यैव मोक्षहेतुत्वाद् घटवत्। इति व्यतिरेकदृष्टान्तोपनिबद्धाः प्रयोगाः इह सूच्यन्ते। न चान्वयदृष्टान्ताः किमिति न दर्शिता इति वाच्यम् ; ब्रह्मण एकस्यैव निर्विशेषसत्यज्ञानानन्दरूपत्वेन तदन्यस्य सर्वस्यापि सविशेषानृतजडदुःखरूपत्वेन चान्वयदृष्टान्ताभावादिति सङ्क्षेपः। यत्तु रामानुजः - ब्रह्मभिन्नस्य क्षेत्रज्ञस्य स्वरूपमिह विशोध्यते, अमानित्वादिसाधनैः ज्ञेयं प्राप्यं यत् प्रत्यगात्मस्वरूपं तत् प्रवक्ष्यामि, यज्ज्ञात्वा अमृतं जन्ममरणादिरहितमात्मानं प्राप्नोति। अनादि, तत एवानन्तं च। मत्परम् अहमेव परः शेषी यस्य तत्। ब्रह्म बृहत्त्वगुणयोगि शरीरादर्थान्तरभूतं स्वतः शरीरादिभिः परिच्छेदरहितं क्षेत्रज्ञतत्त्वमित्यर्थः। ‘ब्रह्मणो हि प्रतिष्ठाऽहममृतस्या- व्ययस्य च’ इत्यादिषु ब्रह्मशब्द आत्मन्यपि प्रयुज्यते। न सत् तन्नासदुच्यते। कार्यकारणरूपावस्थाद्वयरहिततया सदसच्छब्दाभ्याम् आत्मस्वरूपं नोच्यत इति, तत्तुच्छम् - किं प्रत्यगात्मस्वरूपं प्रत्यगात्मनो भिन्नमुताभिन्नम्? नाद्यः, स्वस्मात् स्वस्वरूपस्य भिन्नत्वायोगात्। न द्वितीयः, अभिन्नत्वे प्राप्तुः प्रत्यगात्मनः स्वस्वरूपस्य प्राप्यत्वायोगात्। तथा ज्ञाधातोः ज्ञानार्थकत्वस्य प्रसिद्धत्वेन तद् विहाय प्राप्त्यर्थकल्पनं चायुक्तम् - ज्ञेयं प्राप्यमिति। अनादीत्यनेनैव कार्यावस्थारहितत्वस्योक्तत्वेन न सदुच्यत इत्यस्य पुनरुक्तिः। अणोर्जीवस्य बृहत्त्वगुणस्तावदयुक्तः, येन ब्रह्मशब्दवाच्यः स्याज्जीवः। न च मुक्तौ स्वरूपाविर्भावदशायां बृहत्त्वं स्यादिति वाच्यम् ; मुक्तौ पूर्वमवस्थितात् स्वरूपात् किमन्यदाविर्भवति? उत तदेव? आद्ये - पूर्वस्थितस्वरूपत्यागाज्जीवस्य मरणं, स्वरूपान्तराविर्भावात्तु जन्मेति जन्ममरणवाननित्य एव स्याज्जीवः। तच्चाविर्भूतं स्वरूपमनित्यमेव स्यात्। यद्यत् सादि तत्तत् सान्तमिति व्याप्तेः। द्वितीये - पूर्वमेवावस्थितस्य पुनराविर्भावोऽयुक्तः, आविर्भावात् प्रागेव स्थितत्वात्। तथा बृहत्त्वमपि किमपूर्वमाविर्भवति? उत पूर्वमेवावस्थितम्? नाद्यः, बृहत्त्वस्याविर्भावे सत्यनित्यत्वप्रसङ्गात्। आविर्भावात् प्रागेव स्थितत्वे पुनराविर्भावायोगाच्च। किञ्चाविर्भवदिदं बृहत्त्वं जीवस्याणुत्वमपहृत्याविर्भवति वा? उतानपहृत्य? आद्ये भाष्यार्कप्रकाशः १. सत्यत्वादिविशिष्टशक्तैः पदैः शुद्धस्य शक्त्याऽप्रतिपाद्यत्वेऽपि ‘यतो वाचो निवर्तन्ते’ इति श्रुत्या शक्तिवृत्तेरेव निषेधात् , औपनिषदत्वश्रुत्यनुरोधेन विशेषणांश- त्यागरूपलक्षणया तत्प्रतिपादनाभ्यनुज्ञानाद् न विरोधः इत्यपि बोध्यम्। अधिकमन्यत्रानुसंधेयम्। २. अनुभवशब्देन विद्वदनुभवस्य ग्रहणम्।

[[६६९]]

जीवस्य नाशप्रसङ्गः, अणुस्वरूपत्वाज्जीवस्य। द्वितीये बृहत्त्वस्यासिद्धिः, बृहत्त्वविरोध्यणुत्वस्य वर्तमानत्वात्। किञ्च यदि स्वभावादणुरपि मुक्तौ बृहत्त्वमापद्येत जीवस्तर्हि जीवः सावयव एव स्यात्। न ह्यणुपरिमाणं वस्तु बह्वणुसंयोगं विना मध्यमपरिमाणमपि भवेत् , किं पुनर्महत्वपरिमाणम्। सावयवत्वे चानित्य एव स्यात्। निरवयवो जीव इति तवाप्यभिमतत्वेन तद्विरोधश्च। न च संसारदशायां शरीरादिपरिच्छेदाज्जीवस्याणुत्वं, मुक्तौ तु तद्राहित्याद् बृहत्त्वमिति वाच्यम् ; अपरिच्छेद्यस्य जीवस्य परिच्छेदायोगात्। परिच्छेद्यत्वे च घटादिवदनित्यत्वप्रसङ्गात्। किञ्च शरीरादिना कस्य परिच्छेदः? न जीवस्य, परिच्छिन्नस्यैव जीवत्वेन परिच्छेदात् प्राग् जीवस्यैवाभावात्। भावे त्वपरिच्छिन्न एव सः। न चेष्टापत्तिः, अपरिच्छिन्नस्याणुत्वासम्भवात्। नापि परमात्मनः, तस्य परिच्छेदे सति जीवत्वप्रसङ्गात्। परमात्मनः सकाशाद् भिन्नो हि तव मते जीवः। ननु मास्तु बृहत्त्वगुणयोगः, रूड्यैव ब्रह्मशब्द आत्मवाची - ‘ब्रह्मणो हि प्रतिष्ठा’ इति प्रयोगादिति चेत् , मैवम् ; तत्रापि ब्रह्म- शब्दस्य परमात्मवाचित्वस्यैव वक्ष्यमाणत्वात्। परमात्मन्येव रूढत्वात् तस्य। प्रत्यगात्मनि तु परमात्माभेदाद् ब्रह्मशब्दप्रयोगः। न च ‘ब्रह्मणो हि प्रतिष्ठे’त्यत्र ब्रह्मशब्दस्य परमात्मवाचित्वे कथं स्वस्य स्वयमेव प्रतिष्ठा स्यादिति वाच्यम् ; परमात्मनः प्रत्यगात्मा प्रतिष्ठा इति वक्ष्यमाणत्वात्। तथा मत्परमित्यप्ययुक्तम् - बन्धदशायां जीवस्येश्वरशेषत्वेऽपि मुक्तौ न तच्छेषत्वं कल्पयितुं शक्यम्। ईश्वरवज्जीवस्यापि मुक्तस्य बृहत्त्वात् सच्चिदानन्दरूपत्वाच्च तव मतानुसारेणापि। मुक्तौ हि जीवस्येश्वरसाधर्म्यं भवतीति वदति भवान् । ‘मम साधर्म्य- मागताः’ इति गीतां च तत्र प्रमाणयति। न हि समानधर्मवतोर्वस्तुनोः परस्परं शेषशेषिभावः कल्पयितुं शक्यते। धनिकत्वदारिद्र्याद्य- समानधर्मकयोर्हि राजभृत्ययोः शेषशेषिभावो दृश्यते लोके। राज्ञोरपि सार्वभौममण्डलाधिपयोरसमानधर्मकयोरेव शेषशेषिभावः। दम्पत्योरपि भार्यात्वभर्तृत्वरूपासमानधर्मकयोरेव। एवं पुत्रपित्रादीनामपि पाल्यपालकत्वादिरूपासमानधर्मकाणामेवेति न समानधर्म- कयोः क्वचिदपि शेषशेषिभावः। न च जीवादीश्वरः उत्कृष्टधर्मक इति वाच्यम् ; ‘मम साधर्म्यमागताः’ इति गीताविरोधात्। ननु जीवेश्वरयोरुभयोरपि सच्चिदानन्दरूपत्वेऽपि जीवस्य मुक्तस्य न जगद्व्यापारः, ईश्वरस्य तु सोऽस्तीति जीवादुत्कृष्ट एवेश्वर इति चेत् , मैवम् ; सगुणमुक्तिक्षेत्रं हिरण्यगर्भलोकं प्रविष्टानामेव जीवानां जगद्व्यापाराभाव इति १सूत्रकाराभिमतत्वेन तेषां शरीरादि- परिच्छेदसत्त्वात्परिच्छिन्नानां तेषां मुक्तानामपरिच्छिन्नेश्वरसाधर्म्यासम्भवात्। न च मुक्तजीववदीश्वरोऽपि सशरीर एवेति वाच्यम् ; सशरीरस्य तस्य हिरण्यगर्भस्य, विष्णोः, शिवस्यान्यस्य वा जीवत्वेनेश्वरत्वाभावात्। अशरीरो हीश्वरः, ईश्वरस्य बृहत्त्वेन शरीरादिपरिच्छेदासम्भवात् , ‘अशब्दमस्पर्शमरूपमव्ययम्’ इत्यादिना परमात्मनोऽशरीरत्वप्रतिपादनाच्च। न च मुक्तजीवः ईश्वरवद् अशरीर एवेति वाच्यम् ; शरीराभावे जीवेश्वरभेदकोपाध्यभावेन जीवेश्वरभेदस्य दुर्वचत्वात्। न ह्यपरिच्छिन्नं बृहत्त्वगुणयोगि परिपूर्णं वस्तुद्वयं भवितुमर्हति। जीववस्तुना ईश्वरस्य, ईश्वरवस्तुना जीवस्य च परिच्छेदसम्भवेनापरिच्छिन्नत्वायोगात्। अत एव बृहत्त्वपूर्णत्वयोरप्ययोगात्। देशतः कालतो वस्तुतश्च परिच्छेदशून्यं हि वस्त्वपरिच्छिन्नं ब्रह्मेत्युच्यते। न च - ब्रह्मणः स्वशरीरभूतेन जीवेन नास्ति परिच्छेद इति - वाच्यम् ; जीवस्यापि शरीरेण परिच्छेददर्शनात्। शरीरशरीरिणौ किं पदार्थद्वयम् , उतैकः पदार्थः? आद्ये, परस्परपरिच्छेदः सिद्ध एव। द्वितीये, शरीरशरीरिभावस्यैवासिद्धिः२। तस्माद् यदि जीवेश्वरौ द्वौ स्तः, तर्हि जीवेन परिच्छेदादीश्वरस्यैव पूर्णत्वलक्षणं बृहत्त्वमसिद्धमितीश्वर एव न ब्रह्म, किम्पुनर्जीवः। अहो ! तव पाण्डित्यप्रकर्षः! येन जीवस्य ब्रह्मत्वं साधयिष्यता त्वया ब्रह्मण एव ब्रह्मत्वं लोपितम्। एतेन मुक्तिदशायां प्रकृतिसत्त्वमप्यपास्तम् , सत्यां प्रकृतौ ब्रह्मणः प्रकृतितः परिच्छेदसम्भवात्। तस्मात् परमार्थतो न जीवेश्वरभेदोऽस्ति, नापि प्रकृतिस्तत्कार्यं जगद्वाऽस्ति। अत एव ‘एकमेवाद्वितीयं ब्रह्मे’ति श्रुतिरुपपद्यत इति स्थितमद्वैतम्॥१२॥

१. द्र. ‘जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च’ (ब्र.सू. ४-४-१७)। २. जीवेश्वरयोः शरीरशरीरिभावः विशिष्टाद्वैतसिद्धान्तेऽभिमतः। स च शरीरशरीरिणोः भेदापेक्ष इति एकपदार्थत्वेनाभेदे न संभवति। न च जीवेश्वरयोः शरीरशरीरिभावः प्रामाणिकोऽपीति अन्यत्र विस्तरः। भाष्यार्कप्रकाशः

[[अ. १३. श्लो. १२]] [[६७०]]

सर्वत इति। पूर्वोत्तरश्लोकयोः शङ्काद्वारेण सङ्गतिं दर्शयति— सच्छब्देति। ज्ञेयस्य ब्रह्मणः सच्छब्दप्रत्ययाविषयत्वादसत्त्वा- शङ्कायां प्राप्तायां सत्यां तदस्तित्वं ज्ञेयस्य सत्त्वम्। यद्यपि न सत्तदुच्यत इत्यनेन प्राप्ता तदसत्त्वशङ्का नासत्तदुच्यत इत्यनेन निराकृतैव, तथापि सच्छब्दप्रत्ययाविषयस्य तस्य कथमसच्छब्दवाच्यत्वाभाव इति प्राप्तैव पुनस्तदसत्त्वाशङ्केति बोध्यम्। सर्वतःपाणिपादमित्याद- यस्त्रयोऽलुक्समासाः। १‘हलदन्तात्सप्तम्याः संज्ञायाम्’ इत्यसंज्ञात्वेऽप्यत्र प्रयोगस्त्वार्षः। तत् सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतःश्रुतिमच्च भवति। तद् लोके सर्वमावृत्य तिष्ठति। यद्वा सर्वतः पाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतः श्रुतिमत् सत् लोके सर्वमावृत्य तिष्ठति। सर्वतः सर्वत्र। ननु कथं ब्रह्मणो निराकारस्य सर्वतःपाणिपादत्वम्? अत आह— सर्वप्राणिकरणोपाधिभिरिति। सर्वेषां प्राणिनां यानि करणानीन्द्रियाणि पाण्यादीनि तान्येवोपाधयः, तैः। सर्वप्राण्यन्तरात्मनः क्षेत्रज्ञस्य सर्वक्षेत्रोपाधिकत्वात् सर्वक्षेत्रगताः सर्वेऽपि पाणयः पादा उपाधय एवेत्यौपाधिकमस्य सर्वतःपाणिपादत्वं, न तु स्वाभाविकमिति भावः। अमीभिरेवोपाधिभि- रुपहितस्य क्षेत्रस्यास्तित्वं निश्चीयत इत्याह— सर्वप्राणीति। उपाधीनामिन्द्रियगम्यत्वेन सत्त्वात्। सद्भिरमीभिरात्मा अनुमीयते, उपहितपरतन्त्रत्वादुपाधीनाम्। आत्मा तावदस्ति, पाण्याद्युपाधिमत्त्वाद् घटोपाधिकाकाशवदिति। पाण्याद्युपाधयः कस्यचित् परतन्त्रा उपाधित्वात् कुण्डलवदिति च प्रयोगादिति भावः। ननु सर्वप्राणिकरणानां कुतः क्षेत्रज्ञोपाधित्वम्? अत आह— क्षेत्रज्ञस्येति। क्षेत्रज्ञस्य क्षेत्राणि सर्वाण्युपाधयः। तद्द्वारा पाण्यादयोऽप्युपाधय एव। पाण्यादीनां क्षेत्रपदवाच्यशरीरावयवत्वादिति भावः। यद्वा सङ्घातः शरीरं यथा क्षेत्रं तथा पाण्यादयोऽपि क्षेत्रमेव, ज्ञेयत्वादिति कृत्वा क्षेत्रोपाधिकत्वात् क्षेत्रज्ञस्य पाण्यादय उपाधय एवेति भावः। इदमेवाह— क्षेत्रं चेति। आदिपदाच्छिरोऽक्ष्यादिग्रहणम्। अनेकधेति। अष्टधा भिन्ना प्रकृतिस्तावत् क्षेत्रमित्युक्तम् , तत्प्रकृतिविकारभूतं सर्वमपि दृश्यं तथैव क्षेत्रं ज्ञेयत्वादिति। ननु किमिदमौपाधिकं सर्वतःपाणिपादत्वादिकं क्षेत्रज्ञस्य सत्यम्? अत आह— तदिति। क्षेत्रज्ञस्य क्षेत्रोपाधिकृतं च तत्

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सच्छब्दप्रत्ययाविषयत्वादसत्त्वाशङ्कायां ज्ञेयस्य, सर्वप्राणिकरणोपाधिद्वारेण तदस्तित्वं प्रतिपादयन् तदाशङ्का- निवृत्त्यर्थमाह— सर्वत इति। सर्वतःपाणिपादं सर्वतः पाणयः पादाश्चास्येति सर्वतःपाणिपादं तज्ज्ञेयम्। सर्वप्राणि- करणोपाधिभिः क्षेत्रज्ञस्यास्तित्वं विभाव्यते। क्षेत्रज्ञश्च क्षेत्रोपाधितः उच्यते। क्षेत्रं च पाणिपादादिभिरनेकधा भिन्नम्। क्षेत्रोपाधिभेदकृतं विशेषजातं मिथ्यैव क्षेत्रज्ञस्येति तदपनयनेन ज्ञेयत्वमुक्तम्— ‘न सत्तन्नासदुच्यते’ इति। उपाधिकृतं सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥१३॥

सर्वविशेषरहितस्यावाङ्मनसगोचरस्यादृष्टेः, दृष्टेश्च विपरीतस्य, प्राप्ते ब्रह्मणः शून्यत्वे, प्रत्यक्त्वेनेन्द्रियप्रवृत्त्यादिहेतुत्वेन कल्पित- द्वैतसत्तास्फूर्तिप्रदत्वेनेश्वरत्वेन च सत्त्वं दर्शयन्नादौ देहादीनां प्रवृत्तिमतां रथादिवदचेतनानां प्रेक्षापूर्वकप्रवृत्तिमत्त्वाच्चेतनाधिष्ठितत्वमनुमि- मानस्तत्प्रत्यक् चेतनं ब्रह्मेत्याह— सच्छब्देति। तदस्तित्वमिति तच्छब्दो ज्ञेयब्रह्मार्थः। तदाशङ्केति तच्छब्देनासत्त्वमुच्यते। ननु सर्वदेहेषु पाणिपादमस्येति कथं पाणीनां च पादानां च देहस्थत्वेनात्मधर्मत्वम्? तत्राह— सर्वेति। करणप्रवृत्ती रथादिप्रवृत्तिवत् प्रेक्षापूर्वकप्रवृत्ति- त्वाच्चेतनाधिष्ठातृपूर्विकेत्यर्थः। उक्तप्रवृत्त्या चेतनास्तित्वसिद्धावपि कथं क्षेत्रज्ञास्तित्वमित्याशङ्क्य , चेतनस्यैव क्षेत्रोपाधिना क्षेत्रज्ञत्वाच्चेत- नास्तित्वं तदस्तित्वमेवेत्याह— क्षेत्रज्ञश्चेति। तस्य क्षेत्रोपाधित्वेऽपि कथं पाणिपादाक्षिशिरोमुखादिमत्त्वमित्याशङ्क्याह— क्षेत्रं चेति। अतश्चोपाधितस्तस्मिन् विशेषोक्तिरिति शेषः। कथं तर्हि न सत्तन्नासदिति निर्विशेषत्वोक्तिरित्याशङ्क्याह— क्षेत्रेति। पाणिपादादिमत्त्व- मौपाधिकं मिथ्या चेज्ज्ञेयप्रवचनाधिकारे कथं तदुक्तिरित्याशङ्क्याह— उपाधीति। मिथ्यारूपमपि ज्ञेयवस्तुज्ञानोपयोगीत्यत्र वृद्ध- १. वस्तुतस्तु सर्वतः इत्यत्र सुपोऽभावात् लुको नात्र प्राप्तिः। अत एतत्सूत्रोपन्यासश्चिन्त्यः।

[[६७१]]

सर्वं विशेषजातं सर्वतःपाणिपादत्वादिधर्मजातं मिथ्यैव। उपाधिधर्माणामुपहिते वस्तुतोऽसम्भवादिति भावः। इति एवं मिथ्यात्वाद् हेतोः। तदपनयनेन मिथ्याभूतोपाधिकृतविशेषसमूहापनयनेन। सर्वविशेषप्रतिषेधेनेत्यर्थः। ज्ञेयत्वमुक्तं क्षेत्रज्ञस्येति शेषः। निर्विशेषं ब्रह्म ज्ञेयमित्यर्थः। केनोक्तमित्यतस्तद्वाक्यमेव दर्शयति— न सदिति। ननु ‘न सदि’त्यादिना निर्विशेषब्रह्मणो ज्ञेयत्वमुक्त्वा कथमिह सर्वतः पाणिपादमित्यौपाधिकं सविशेषत्वमुच्यते तस्य ब्रह्मण इत्यत आह— उपाधीति। अस्तित्वाधिगमाय ज्ञेयस्य सद्भावज्ञानायेत्यर्थः। ज्ञेयधर्मवदिति। न तु वस्तुतो ज्ञेयधर्म इति भावः। सर्वतःपाणिपादमित्याद्युच्यत इत्यन्वयः। औपाधिकं सर्वतःपाणिपादत्वादिलक्षणं मिथ्यारूपं ज्ञेयधर्मत्वेन परिकल्प्य ज्ञेयस्यास्तित्वाधिगमायोच्यत इत्यर्थः। निर्विशेषचिन्मात्रस्य स्वस्वरूपेण बोधयितुमशक्यत्वात् तत्र कल्पितमौपाधिकं मिथ्यारूपमाश्रित्य तत्सद्भावं प्रतिपादयति भगवान् सर्वतःपाणिपाद- मित्यादिनेति भावः। उक्तार्थे वृद्धसम्मतिं दर्शयति— तथा हीति। निष्प्रपञ्चं निर्विशेषं ब्रह्म अध्यारोपापवादाभ्यां प्रपञ्च्यते प्रतिपाद्यत इत्यर्थः। अध्यारोपो निर्विशेषे ब्रह्मणि केषांचिद् विशेषाणां कल्पनम्। अपवादः कल्पिततद्विशेषाणां निरसनमिति विवेकः। अत एव विद्यारण्यगुरुभिरप्युक्तम् ‘अवाङ्मानसगम्यं तं श्रुतिर्बोधयितुं गिरा। जीवमीशं जगद्वाऽपि समाश्रित्य प्रबोधयेत्॥’ इति। अवाङ्मानसगम्यस्य वस्तुन इदं तदिति वक्तुमशक्यत्वात् तत्र जीवेशत्वादिविशेषान् परिकल्प्य तन्निरसनद्वारा तद्वस्तु प्रतिपादयितुं शक्यत इति तदाशयः। १यथा गगनस्वरूपानभिज्ञेन पृष्टः कश्चिद् विद्वान्— ‘किं गगन’मिति, तं प्रत्युत्तरयति— ‘यदुपरि नीलं दृश्यते तद् गगन’- मिति। तस्य श्रोतुर्नीलं गगनमिति प्रत्ययजननानन्तरं तु ‘गगनं न नीलं, किन्तु नीरूपमेव, नैल्यं कल्पितं तत्रे’ति बोधयति। एवं बोधने तु मिथ्याभूतं नैल्यं त्यक्त्वा वस्तुभूतं गगनं प्रत्येति स श्रोता, तथा किं ब्रह्मेत्यविदुषा पृष्टो विद्वान् तं प्रत्युत्तरयेत् ‘अन्नं ब्रह्म, कं ब्रह्म, खं ब्रह्म, मनो ब्रह्म, जीवो ब्रह्म, ईशो ब्रह्म, सर्वं ब्रह्मे’ति। तस्य श्रोतुर्दृश्यं सर्वं ब्रह्मेति प्रत्ययजननानन्तरं तु न ब्रह्म अन्नत्वादिविशेषवत् , किन्तु निर्विशेषमेव। अन्नादयः कल्पितास्तत्रेति बोधयेत्। एवं बोधने तु मिथ्याभूतं विशेषजातं त्यक्त्वा वस्तुभूतं ब्रह्म निर्विशेषं प्रतिपद्यते स श्रोता। अयं चाध्यारोपापवादन्यायः ‘अन्नं ब्रह्मे’त्यादिभिः ‘नेति नेती’त्यादिभिश्च श्रुतिभिः सूचितः। ता हि श्रुतयो ब्रह्मण्यन्नादिकं परिकल्प्य ‘नेति नेती’त्यनेन सर्वं विशेषजातं निरस्यन्ति। एवं प्रकृतेऽपि ‘सर्वतःपाणिपाद’मित्यादिना ज्ञेयब्रह्मणि पाणिपादादीनध्यारोप्य (परिकल्प्य) पश्चात् ‘न सत्तन्नासदुच्यते’ इति कल्पितविशेषजातनिरसनमुखेन निर्विशेषं ब्रह्म प्रतिपादयति भगवानिति। ननु नात्राध्यारोपापवादन्यायः प्रवर्तते, अध्यारोपात् प्रागेवापवादस्योक्तत्वादिति चेत् , नैष दोषः, ‘सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्’ इति पश्चादप्यपवादस्य वक्ष्यमाणत्वात्। ‘न सत्तन्नासदुच्यते’ इत्यनेन निर्विशेषं ब्रह्म केवलमुपक्षिप्तम्। तस्य च ज्ञेयत्वाद्यर्थं सर्वतःपाणिपादत्वादयो विशेषाः परिकल्पितास्तस्मिन् ‘सर्वतःपाणिपाद’मिति श्लोकेन। एवं कल्पितविशेषजातनिरसन- मुखेन निर्विशेषं ब्रह्म प्रतिपाद्यते ‘सर्वेन्द्रिये’त्युत्तरश्लोकेनेत्यत्र क्रमो ज्ञेयः इति। उपाधिकृतं मिथ्यारूपमप्यस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्योच्यते ‘सर्वतःपाणिपाद’मित्यादीति यदुक्तं तदेव विशदयति— सर्वत्रेति। सर्वत्र जगतीत्यर्थः। सर्वेषां देहानां मनुष्यादिशरीराणामवयवत्वेन रूपेण गम्यमानाः प्रतीयमानाः

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

मिथ्यारूपमपि अस्तित्वाधिगमाय ज्ञेयधर्मवत् परिकल्प्योच्यते—‘सर्वतःपाणिपाद’मित्यादि। तथाहि सम्प्रयदायविदां वचनम्—‘अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते’ इति। सर्वत्र सर्वदेहावयवत्वेन गम्यमानाः पाणिपादादयो सम्मतिमाह— तथाहीति। पाणिपादादीनामन्यगतानामात्मधर्मत्वेनारोप्य व्यपदेशे को हेतुरिति चेत्? तत्राह— सर्वत्रेति। ज्ञेयस्य ब्रह्मणः शक्तिः सन्निधिमात्रेण प्रवर्तनसामर्थ्यम् , तत्सत्त्वं निमित्तीकृत्य स्वकार्यवन्तो भवन्ति पाण्यादय इति कृत्वेति योजना। अ. १३. श्लो. १३ ] १.अध्यारोपापवादाभ्यां वस्तुप्रतिपत्तिमुदाहरति—यथेति। ‘किं गगन’मिति पृष्टः कश्चिद् विद्वान् तं प्रत्युत्तरयति ‘यदुपरि नीलं दृश्यते तद् गगन’मिति इत्यन्वयः।

[[६७२]]

पाणिपादादयः, आदिपदाच्छिरोऽक्ष्यादिग्रहणम्। ज्ञेयस्य ब्रह्मणः शक्तयो ज्ञानबलक्रियात्मिकाः, तासां सद्भावोऽस्तित्वं निमित्तं येषां तानि स्वकार्याणि ग्रहणादीनि येषां ते ज्ञेयशक्तिसद्भावनिमित्तस्वकार्याः इति हेतोः, ज्ञेयस्य ब्रह्मणः सद्भावे लिङ्गानि ज्ञापकानि, साधनानीति यावत्। वह्नेः सद्भावे धूमवदिति भावः। एवं ज्ञेयसद्भावं प्रति लिङ्गभूताः पाणिपादादयो ज्ञेयस्यावयवाः इति शेषः। सम्बन्धिनः इति वा। उपचारत उच्यन्त इति। अयमर्थः - चक्षुःश्रोत्रपाणिपादादिषु दृश्यमानाः ज्ञानक्रियादिशक्तयः स्वकारणशक्तिपूर्वकाः, कार्यशक्तेः कारणशक्तिपूर्वक- त्वात् मृच्छक्तिपूर्वकघटशक्तिवदित्यनुमानेन चक्षुरादिशक्तिभिर्ब्रह्मशक्तयोऽनुमीयन्ते। शक्तयः शक्तिमद्वस्त्वाश्रयाः, गुणत्वाच्छुक्लादिव- दिति प्रयोगाच्छक्तिभिः शक्तिमद्वस्तु ज्ञाप्यते। एवं सति पाणिपादादयः स्वशक्त्यनुमितकारणशक्तिद्वारा शक्तिमज्ज्ञेयं ब्रह्म गमयन्तीति पाणिपादादयो ज्ञेयसद्भावे लिङ्गानि। अमीभिश्च लिङ्गैः पाण्यादिभिः ज्ञेयब्रह्मसत्त्वं ज्ञाप्यते, यथा धूमलिङ्गेन पर्वते वह्निसत्त्वं, तद्वदिति। तथेति। यथा सर्वतःपाणिपादमित्येतद् व्याख्यातम् , तथा अन्यत् सर्वतोऽक्षिशिरोमुखमित्याद्यपि व्याख्येयमित्यर्थः। अत्र पाणिपादादिशब्दैरिन्द्रियाणामेव ग्रहणम्। तानि चेन्द्रियाणि मनोरूपान्तरिन्द्रियगम्यान्येवेतीन्द्रियाणां२ नातीन्द्रियत्वप्रसङ्गः। निकायः समूहः। स्थितिं गतिनिवृत्तिम् , ‘ष्ठा गतिनिवृत्ता’विति धात्वर्थपाठात्। न चलतीति, परिपूर्णत्वादिति भावः। अनेन च तिष्ठतीत्यनेन ज्ञेयस्य ब्रह्मणः सद्भावः सूच्यते। न हि शशशृङ्गं तिष्ठतीत्युच्यते। न चलतीत्यनेन च त्रैकालिकी ब्रह्मणः सूच्यते सत्ता। न हि चलतो घटस्य त्रैकालिकी सत्ता दृश्यते। तस्मान्निर्विशेषं परिपूर्णं ब्रह्मैकमेव सदिति पर्यवसन्नार्थः। यत्तु रामानुजः - तत् परिशुद्धात्मस्वरूपं सर्वतःपाणिपादादिकार्यशक्तम् ‘अपाणिपादो जवनो ग्रहीता’ इति श्रुत्या परमात्मनस्तथात्वान्मुक्तजीवस्यापि तत्साम्यापत्त्या तथात्वमिति, लोके यद् वस्तुजातं तत् सर्वं व्याप्य तिष्ठति देशादिपरिच्छेद- रहिततया सर्वगतमित्यर्थः इति, तत्तुच्छम् - अकर्तुरात्मनः पाणिपादादिकार्यकर्तृत्वायोगात्। ‘निष्कलं निष्क्रियं शान्तम्’ इति श्रुतेरात्मनि ग्रहणादिक्रियाऽयोगात्। श्रुतिस्तु - सर्वेन्द्रियोपाधिगुणानुगुणजवनादिशक्तिमत् ज्ञेयमित्येवं प्रदर्शनार्था। ईश्वरशक्त्यैव हि सर्वाणि करणानि सशक्तिकानि। जीवस्याणोर्बृहता परमात्मना साम्यकथनं तु विदुषां हासायैव। एवम् अणोः परिच्छिन्नस्य देशादिपरिच्छेदराहित्यं, तत्प्रयुक्तं सर्वगतत्वं च सुतरामयुक्तम्। यत्तु मुक्तिदशायामपि जीवोऽणुस्वरूप एव, अन्यथा अणुत्वपरित्यागपूर्वकबृहत्त्वाविर्भावे स्वरूपविकारप्रसङ्गेन निर्विकारश्रुति- विरोधादिति वेदान्तदेशिको वदन् धर्मभूतज्ञानद्वारा जीवस्य सर्वव्यापित्वमुक्तवान् , तच्चायुक्तम् - मूलेऽसतो धर्मभूतज्ञानाख्यद्वारस्य कल्पनं न न्याय्यमिति। निर्धर्मकज्ञानस्वरूपजीवे धर्मभूतज्ञानासम्भवस्तु प्रागेव प्रतिपादितः। नापि मुक्तस्य परमपदनिलयस्य धर्मभूत- ज्ञानेनापि सर्वव्याप्तिः। सर्वस्य वस्तुजातस्य ब्रह्माण्डान्तर्गतत्वात् परमपदस्य च ब्रह्माण्डाद् बहिस्थत्वात्। न च - गृहाद् बहिस्थः पुरुषश्चक्षुषा गृहान्तरस्थं घटमिव ब्रह्माण्डान्तस्थमपि सर्वं धर्मभूतज्ञानेन व्याप्नोतीति - वाच्यम् ; तथा सति संसारदुःखाकुलानेक- १. एतदुत्तरम्— ‘न चलतीत्यर्थः’ इति पाठः क्वचित्। २. इन्द्रियाणां प्रत्यक्षत्वं नेष्टम्। पाणिपादादिशब्दैः तत्तदिन्द्रियाधिष्ठानविवक्षायां तु प्रत्यक्षत्वमिष्टम्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ज्ञेयशक्तिसद्भावनिमित्तस्वकार्याः इति ज्ञेयसद्भावे लिङ्गानि ज्ञेयस्येत्युपचारत उच्यन्ते। तथा व्याख्येयमन्यत्। सर्वतःपाणिपादं तज्ज्ञेयम्। सर्वतोऽक्षिशिरोमुखं सर्वतोऽक्षीणि शिरांसि मुखानि च यस्य तत् सर्वतोऽक्षिशिरोमुखम्। सर्वतःश्रुतिमत् श्रुतिः श्रवणेन्द्रियम् , तद् यस्य तच्छ्रुतिमत् , लोके प्राणिनिकाये सर्वम् आवृत्य संव्याप्य तिष्ठति स्थितिं लभते१॥१३॥

सर्वतोऽक्षीत्यादावुक्तमतिदिशति— तथेति। तज्ज्ञेयं यथा सर्वतःपाणिपादमिति व्याख्यातं तथेत्युक्तमेव स्फुटयति— सर्वत इति। सर्वतोऽक्षीत्यादेरक्षरार्थमाह— सर्वतोऽक्षीति। अक्षिश्रवणवत्त्वम् अवशिष्टज्ञानेन्द्रियवत्त्वस्य, पाणिपादमुखवत्त्वं चावशिष्टकर्मेन्द्रिय- वत्त्वस्य मनोबुद्ध्यादिमत्त्वस्य चोपलक्षणम्। एकस्य सर्वत्र पाण्यादिमत्त्वं साधयति— सर्वमिति॥१३॥

[[६७३]]

प्राणिदर्शनप्रयुक्तदुःखस्य मुक्तेष्वपि सम्भवप्रसङ्गात्। स्वरूपज्ञानस्य निर्विकारत्वेऽपि धर्म[भूत]ज्ञानस्य सुखदुःखाद्यनेकविषयकत्वेन सविकारत्वाज्जीवस्य धर्मतः सविकारत्वप्रसङ्गात्। अस्मन्मते तु त्वदुक्तधर्मज्ञानस्यान्तःकरणधर्मत्वेन न धर्मतः सविकारत्वं जीवस्य। एवमीश्वरीयसर्वविषयकज्ञानस्यापि मायाधर्मत्वेन न धर्मतः सविकारत्वमीश्वरस्य। किञ्च धर्मभूतमिदं वृत्तिज्ञानं क्षणिकमिति कथं तस्य सर्वव्यापित्वम्? न ह्येतस्मिन् क्षणे वर्तमानः सुखादिपदार्थः क्षणान्तरे वर्तते। ततः क्षणान्तरीयज्ञानस्य कथमेतत्क्षणवर्तिसुखादि- व्यापित्वम्? तस्माज्जीवस्याणोर्येनकेनापि प्रकारेण सर्वगतत्वं न सिध्येदिति सर्वगतत्वाद् देशाद्यपरिच्छिन्नं परिपूर्णं ब्रह्मैव जीव इति स्थितमद्वैतम्॥१३॥

सर्वेति। पूर्वोत्तरश्लोकयोः शङ्काद्वारा सङ्गतिं दर्शयति— उपाधीति। तद्वत्ताशङ्का पाणिपादादियुक्तत्वशङ्का। अन्तःकरणस्यै- कत्वेऽपि मनोबुद्धिभेदेन द्विविधत्वादाह— अन्तःकरणे चेति। अन्तःकरणभूते इत्यर्थः। यथेन्द्रियाणि दश प्रसिद्धानि ज्ञेयस्य क्षेत्रज्ञस्यो- पाधयस्तथा बुद्धिमनसी अपि ज्ञेयस्योपाधित्वात् सर्वेन्द्रियशब्देन प्रतिपाद्येते इत्यर्थः। मन इन्द्रियं न भवतीति मतमाश्रित्येदमुक्तम् , मनोऽपीन्द्रियमेवेति मते तु न काऽप्यनुपपत्तिः। ननु दशेन्द्रियाण्येव ज्ञेयस्योपाधिः, मनोबुद्धी तु नैवोपाधिरित्युच्यताम् , अत आह— अपि चेति। इन्द्रियप्रवृत्तेर्मनःप्रवृत्तिपूर्वकत्वेनान्तःकरणोपाधिद्वारेणैव श्रोत्रादीनि ज्ञेयस्योपाधयः, न तु स्वत इत्यर्थः। आत्मनोऽन्तः- करणमुपाधिः, अन्तःकरणस्य तु श्रोत्रादीनीत्यन्तःकरणोपहितस्यैवात्मनः श्रोत्रादीन्युपाधिः, न केवलात्मनः। आत्मेन्द्रिययो- रन्तःकरणेन व्यवधानादिति भावः। १आत्मनि तावदन्तःकरणमध्यस्यते, पश्चात्त्विन्द्रियाणीति कृत्वाऽन्तःकरणस्यात्मनः सन्निहितो- पाधित्वम् , इन्द्रियाणां तु व्यवहितोपाधित्वमिति तत्त्वम्। अत इति। सर्वेन्द्रियग्रहणेन दशेन्द्रियाणां मनोबुद्ध्योरपि ग्रहणादित्यर्थः। सर्वेन्द्रियशब्दवाच्यानाम् अन्तःकरणबहिष्करणानां मनोबुद्धिज्ञानकर्मेन्द्रियाणामुपाधिभूता गुणाः सर्वेन्द्रियगुणाः। यथा आत्मनोऽन्तःकरणमुपाधिः, अन्तःकरणस्य च श्रोत्रादीनि, तेषां गुणा अपि तथैवोपाधयः इत्यर्थः। उपाधिलक्षणस्य व्यावर्तकत्वस्य गुणेष्वपि सत्त्वात्। अध्यवसायरूपो हि गुणो बुद्धिं सङ्कल्पगुणवतो मनसो व्यावर्तयति। तथा च परम्परयेन्द्रियवत् तद्गुणाः मनोबुद्धिगुणाश्चात्मनः उपाधिभूता एव। यद्वा अध्यवसायाद्यतिरेकेण बुद्ध्याद्यभावादन्तःकरणात्मकोपाधिभूताः बहिष्करणात्मकोपाधिभूताश्च गुणा एव। गुणानेव दर्शयति— अध्यवसायेति। अध्यवसायो बुद्धेर्गुणः, सङ्कल्पो मनसः, श्रवणं श्रोत्रस्य, वचनं वाचः। आदिपदाद् दर्शनग्रहणादिग्रहणम्। कथमवभासते? अत आह— सर्वेति। तज्ज्ञेयं सर्वेन्द्रियव्यापारैरध्यवसायश्रवणादिभिर्व्यापृतमिव, सव्यापारमिवावभासत इति शेषः। उपाधिभूतेष्वन्तरिन्द्रियबहिरिन्द्रिय- १. अयं चाध्यासक्रमः विवरणादौ निरूपितो द्रष्टव्यः। (पञ्चपादिकाविवरणम् पृ. २६३) भाष्यार्कप्रकाशः सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्। असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च॥१४॥

आरोपादृते साक्षादेव ज्ञेयस्य पाण्यादिमत्त्वमाशङ्क्याह— उपाधीति। इन्द्रियविशेषणीभूतसर्वशब्दाज्ज्ञेयोपाधित्वन्यायाविशेषा- च्चात्र बुद्ध्यादेरपि ग्रहणमित्याह— अन्तःकरणे चेति। श्रोत्रादीनां ज्ञेयोपाधित्वस्य मनोबुद्धिद्वारत्वादपि तयोरिह ग्रहणमित्याह— अपि चेति। तयोरपीहोपादाने फलितमाह— इत्यत इति। अक्षरार्थमुक्त्वा वाक्यार्थमाह— सर्वेति। उपाधिद्वारा कल्पितव्यापारवत्त्वे आनन्दगिरिकृतव्याख्या उपाधिभूतपाणिपादादीन्द्रियाध्यारोपणाज्ज्ञेयस्य तद्वत्ताशङ्का मा भूदित्येवमर्थः श्लोकारम्भः— सर्वेन्द्रियेति। सर्वेन्द्रियगुणाभासं सर्वाणि च तानीन्द्रियाणि श्रोत्रादीनि बुद्धीन्द्रियकर्मेन्द्रियाख्यानि, अन्तःकरणे च बुद्धिमनसी ज्ञेयोपाधित्वस्य तुल्यत्वात् सर्वेन्द्रियग्रहणेन गृह्यन्ते। अपि चान्तःकरणोपाधिद्वारेणैव श्रोत्रादीनामप्युपाधित्वमित्यतः अन्तःकरणबहिष्करणोपाधिभूतैः सर्वेन्द्रियगुणैरध्यवसायसङ्कल्पश्रवणवचनादिभिरवभासत इति सर्वेन्द्रियगुणाभासं

[[अ. १३. श्लो. १३-१४]] [[६७४]]

तद्गुणेष्वात्मन्यध्यस्तेषु सत्स्वात्मा सव्यापार इव भातीत्यर्थः। तत्र श्रुतिं प्रमाणयति— ध्यायतीवेति। बुद्धौ ध्यायन्त्यां ध्यायतीव, तस्यां चलन्त्यां लेलायति चलतीव। आत्मेति शेषः। इवशब्दान्न वस्तुतो ध्यायति, लेलायति वेत्यर्थः। व्यापृतमिवेत्यत्र इवशब्दाच्च न वस्तुतो व्यापृतमित्यर्थः। कुतो ब्रह्म वस्तुतो न व्यापृतमित्याक्षिपति— कस्मादिति। सर्वेन्द्रियविवर्जितमित्यत्रापीन्द्रियशब्दोऽन्त- रिन्द्रियबहिरिन्द्रियोभयपर इत्याह—सर्वकरणरहित इति। अन्तःकरणबहिष्करणरहित इत्यर्थः। अतः सर्वकरणराहित्यादित्यर्थः। यदि करणान्यात्मनः सन्ति, तर्हि करणव्यापारैरात्मनो व्यापारवत्त्वं स्यात्। न तु तथा, करणरहितत्वादात्मन इति भावः। न च करणानि कर्तृपरतन्त्रत्वात् कर्तुरेव, कर्ता चात्मैवेति कथं करणाभाव आत्मन इति वाच्यम् ; अकर्तृत्वादात्मनः। यः करणैर्व्याप्रियते स कर्ता प्रमातैव। ननु करणाभावेऽप्यात्मनः सव्यापारत्वं ब्रूते श्रुतिरिति कथमव्यापृतत्वमात्मन इत्याक्षेपं हृदि निधाय समाधत्ते— यस्त्विति। मन्त्रः श्रुतिः। पादरहितोऽप्यात्मा जवनो वेगशीलः; पाणिरहितोऽपि ग्रहीता सर्वं गृह्णाति; अचक्षुरपि पश्यति; स आत्मा अकर्णोऽपि शृणोतीत्यादिः यो मन्त्रः सोऽयं मन्त्रस्तु ज्ञेयं ब्रह्म सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमदित्येवं प्रदर्शनार्थो बोधनफलको भवतीति शेषः। सर्वेन्द्रियोपाधिगुणानां गमनग्रहणादीनामानुगुण्यस्य भजनमेव शक्तिर्यस्य, तद्भजने शक्तिर्यस्य तदिति वा तथोक्तम्। तस्मात् सर्वेन्द्रियानुग्राहकसर्वशक्तिमत्त्वस्य माययाऽऽत्मनि सम्भवादुच्यते आत्मा ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ इति। न तु निष्क्रियत्वादात्मनः साक्षादेव तस्मिन् ग्रहणादिक्रियाः सम्भवन्तीत्येवमसम्भवार्थवर्णनं श्रुतेरपि घटत इत्याह— न त्विति। यदि साक्षादात्मनि गमनादिक्रियाः स्युः, तर्हि ‘निष्कलं निष्क्रियं शान्तम्’ इति श्रुतिविरोधः। तस्माच्छ्रुत्यन्तराविरोधाय प्रकृत- मन्त्रस्यार्थवत्तार्थं च प्रकृतमन्त्रार्थ एवं वर्णनीयः— सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमानात्मेति। ननु मुख्यार्थपरित्यागेन तदन्यार्थकल्पनं श्रुतौ क्वापि न दृष्टम् , अत आह— अन्ध इति। ‘अन्धो मणिमविन्दत् , तमनङ्गुलि- रावयत् , अग्रीवः प्रत्यमुञ्चत् , तमजिह्वा असश्चत’ इत्यरुणम्। अस्य हि मन्त्रस्य यथाश्रुतार्थः प्रत्यक्षादिप्रमाणविरुद्धः। ‘पङ्गुः पर्वत- शृङ्गमेति, बधिरो गाथां शृणोत्यादरादि’ति लौकिकवाक्यवत्। न हि चक्षुरङ्गुलिग्रीवाजिह्वारहितानां मणिदर्शन-तद्ग्रहण-तद्धारण- तद्वर्णनानि सम्भवन्ति, पङ्गुबधिरयोः पर्वतशृङ्गारोहणगाथाश्रवणवत्। तस्मादन्ध इति मन्त्रस्य प्रत्यक्षाद्यविरुद्धः कोऽप्यर्थोऽवश्यं वाच्यः। अन्यथा निरर्थकत्वे विरुद्धार्थकत्वे वा वेदस्याप्रामाण्यापत्तेः। कथमिति चेद्? उच्यते— १अन्धादयः स्वप्ने मणिदर्शनादिकं कृतवन्त इति, मनसा कृतवन्त इति वा। कथमन्यथा अन्धादीनां मणिदर्शनादिकं सम्भवेत्? कथं वा सर्वतः परिपूर्णस्यात्मनश्चलनं,

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सर्वेन्द्रियव्यापारैर्व्यापृतमिव तज्ज्ञेयमित्यर्थः। ‘ध्यायतीव लेलायतीव’ (बृ.उ.४.३.७) इति श्रुतेः। कस्मात् पुनः कारणान्न व्यापृतमेवेति गृह्यत इत्यत आह— सर्वेन्द्रियविवर्जितं सर्वकरणरहितमित्यर्थः। अतो न करणव्यापारै- र्व्यापृतं तज्ज्ञेयम्। यस्त्वयं मन्त्रः ‘अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः’ (श्वे.उ.३.१९) इत्यादिः, सः ‘सर्वेन्द्रियोपाधिगुणानुगुण्यभजनशक्तिमत् तज्ज्ञेय’मित्येवम्प्रदर्शनार्थो, न तु साक्षादेव जवनादिक्रिया- वत्त्वप्रदर्शनार्थः। ‘अन्धो मणिमविन्दत्’ (तै.आ.१.११) इत्यादिमन्त्रार्थवत् तस्य मन्त्रस्यार्थः। यस्मात् सर्वकरणवर्जितं मानमाह— ध्यायतीति। कल्पितमेवास्य व्यापारवत्त्वम् , न वास्तवमित्यत्र भगवतोऽपि सम्मतिमाकाङ्क्षाद्वारा दर्शयति— कस्मादि- त्यादिना। सर्वकरणराहित्ये फलमाह— अत इति। साक्षादेव ज्ञेयस्य वेगवद्विहरणादिक्रियावत्ताया मान्त्रवर्णिकत्वात् कुतोऽस्य करण- व्यापारैरव्यापृतत्वमित्याशङ्क्यानुवादपूर्वकं मन्त्रस्य प्रकृतानुगुणत्वमाह— यस्त्विति। करणगुणानुगुण्यभजनमन्तरेण साक्षादेव जवनादि- क्रियावत्त्वप्रदर्शनपरत्वे मन्त्रस्य मुख्यार्थत्वं स्यादित्याशङ्क्य , तदसम्भवान्नैवमित्याह— अन्ध इति। अर्थवादस्य श्रुतेऽर्थे तात्पर्याभावान्न प्रकृतप्रतिकूलतेत्यर्थः। सर्वकरणराहित्यं तद्व्यापारराहित्यस्योपलक्षणमित्यङ्गीकृत्योक्तमेव हेतुं कृत्वा वस्तुतः सर्वसङ्गवर्जितत्वमाह— १. ‘अन्धो योगाभ्यासेन निरुद्धेन्द्रियः मणिं मणिमिव स्वप्रकाशमात्मानम् अविन्दत् समाधिना पश्यति’ इति सायणभाष्योक्तार्थोऽप्यनुसंधेयः। द्र. तै. आ. १-११।

[[६७५]]

सर्वेण सर्वदा सम्बद्धस्य च ग्रहणादिकं वोपपद्येत? इति बोध्यम्। अत्र ‘अन्धो मणिमविन्दत्’ इति मन्त्रो यथाऽर्थशून्यस्तथा अपाणिपाद इति मन्त्रोऽप्यर्थशून्य एव, ‘पङ्गुः पर्वतशृङ्गमेती’ति लौकिकवाक्यवदिति केचिद् वदन्ति, तत्तु भाष्याननुगुणं, वेदस्य निरर्थकत्वेनाप्रामाण्यापादनं चेत्युपेक्ष्यम्। संश्लेषः सम्बन्धः, सङ्ग इति यावत्। ‘असङ्गो ह्ययं पुरुषः’ इति श्रुतेरिति भावः। यदि करणयुक्तं स्यात् तर्हि परिच्छिन्नमेव स्यात् , करणवतो देहस्य परिच्छेददर्शना- दित्यभिसन्धिः। एवमिति। असङ्गमित्यर्थः। तथापीति। असक्तत्वेऽपीत्यर्थः। कथमस्य सर्वभृत्त्वम्? अत आह— सदिति। हि यस्मात् सर्वं सदास्पदं सदाश्रयं, सति कल्पितमिति यावत्। सदास्पदत्वे हेतुमाह— सर्वत्रेति। यथेदमर्थे कल्पिते सर्परजतादाविदम्बुद्धिरनुगता इदं रजतम् , अयं सर्प इति, तथा सन् घटः, सन् पट इति प्रतीतिदर्शनादिति भावः। ननु जलादीनां सदास्पदत्वेऽपि मृगतृष्णिकादीनां निरास्पदत्वमेव, मिथ्यात्वात् तेषामित्यत आह— न हीति। मरुभूम्यव- च्छिन्नसद्वस्त्वास्पदैव मृगतृष्णिका। आदिपदाद् रज्जुसर्पशुक्तिरजतादिग्रहणम्। तेऽपि रज्जुशुक्त्याद्यवच्छिन्नसदास्पदा एव। अत एव मृगतृष्णिकाऽस्तीत्येवं सत्सामानाधिकरण्यप्रतीतिः। अत इति। एवं सर्वस्य सति कल्पितत्वेन सदास्पदत्वादेवेत्यर्थः। सर्वं बिभर्तीति सर्वभृत्। सर्वस्य स्वस्मिन् कल्पितत्वेन मिथ्यात्वादेव न तेन सर्वेण क्षेत्रज्ञस्य सद्वितीयत्वादिकमिति बोध्यम्। अन्यथा असक्तसर्वभृत्त्वयोर्विरुद्धधर्मयोरेकत्र सामानाधिकरण्यायोगात्। वस्तुतोऽसक्तमपि मायया सर्वभृदिति भावः। एवं क्षेत्रज्ञस्य सर्वभृत्त्वात् सर्वोपाधिभिरस्यास्तित्वं विभाव्यते। अथास्यास्तित्वाधिगमे द्वारान्तरं दर्शयतीत्याह— स्यादिति। इदं चान्यज्ज्ञेयस्य सत्त्वाधिगमद्वारं स्यात्। तदेव द्वारान्तरं दर्शयति— निर्गुणमित्यादिना। निर्गुणस्याप्यस्य क्षेत्रज्ञस्य यद् गुणभोक्तृत्वमस्ति, तेन लिङ्गेन ज्ञेयस्य सत्त्वमधिगम्यत इत्यर्थः। न च सत्त्वादिगुणाभावेऽपि कल्याणगुणाः सन्तीति कथं निर्गुणत्वं ब्रह्मण इति वाच्यम् ; सत्त्वात्मकत्वात् कल्याणगुणानाम्। एतेन सत्त्वादिगुणाभावेऽपि कल्याणगुणाः सन्तीति निर्गुणश्रुतिः सत्त्वादिगुणराहित्यप्रदर्शनपरैवेति परोक्त- मपास्तम्। कथं गुणानां भोग्यत्वम्? अत आह— शब्दादीति। शब्दादयो विषयाः स्वसंसर्गेण पुरुषस्य सुखं दुःखं मोहं च जनयन्तीति शब्दादिद्वारा सुखाद्यात्मना सत्त्वादीनां परिणाम इति सत्त्वादिगुणपरिणामाः सुखदुःखमोहा भोग्या एवेति गुणानां भोग्यत्वमुक्तम्। उपलब्धृ ज्ञातृ। एतेन भोक्तृत्वलक्षणोऽपि विकारो नास्ति क्षेत्रज्ञस्येति सूचितम्। ज्ञातृत्वरूपभोक्तृत्वस्यैवेहोक्तत्वात्। ज्ञातृत्वं च साक्षि-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ज्ञेयं तस्माद् असक्तं सर्वसंश्लेषवर्जितम्। यद्यप्येवं तथापि सर्वभृच्चैव। सदास्पदं हि सर्वम् , सर्वत्र सद्बुद्ध्यनुगमात्। न हि मृगतृष्णिकादयोऽपि निरास्पदा भवन्ति। अतः सर्वभृत् सर्वं बिभर्तीति। स्यादिदं चान्यज्ज्ञेयस्य सत्त्वाधिगमद्वारम् - निर्गुणं सत्त्वरजस्तमांसि गुणाः, तैर्वर्जितं तज्ज्ञेयम्। तथापि गुणभोक्तृ च गुणानां सत्त्वरजस्तमसां शब्दादिद्वारेण सुखदुःखमोहाकारपरिणतानां भोक्तृ च उपलब्धृ तज्ज्ञेयमित्यर्थः॥१४॥

यस्मादिति। वस्तुतः सर्वसङ्गाभावेऽपि सर्वाधिष्ठानत्वमाह— यद्यपीति। स्वसत्तामात्रेणाधिष्ठानतया सर्वं पुष्णातीत्येतदुपपादयति— सदिति। १विमतं सति कल्पितम् , प्रत्येकं सदनुविद्धधीबोध्यत्वात् , प्रत्येकं २चन्द्रानुविद्धधीबोध्यचन्द्रभेदवदित्यर्थः। सर्वं सदास्पदमि- त्ययुक्तम् , मृगतृष्णिकादीनां तदभावादित्याशङ्क्याह— न हीति। तेषामपि कल्पितत्वे निरधिष्ठानत्वायोगाद् निरूप्यमाणे तदधिष्ठानं सदेवेति सर्वस्य सति कल्पितत्वमविरुद्धमित्यर्थः। सर्वाधिष्ठानत्वेन ज्ञेयस्य ब्रह्मणोऽस्तित्वमुक्तमुपसंहरति— अत इति। इतश्च ज्ञेयं ब्रह्मास्तीत्याह— स्यादिदं चेति। न हि तस्योपलब्धृत्वमसत्त्वे सिध्यतीत्यर्थः॥१४॥

१. अयमर्थः- विमतं कल्पितत्वाकल्पितत्वविप्रतिपत्तिविषयः प्रपञ्चः पक्षः। सति कल्पितत्वं सद्रूपज्ञाननिवर्त्यत्वं साध्यम्। सदनुविद्धधीबोध्यत्वं सत्तादात्म्येन प्रतीयमानत्वं हेतुः। चन्द्रतादात्म्येन प्रतीयमानजलतरङ्गप्रतिबिम्बो दृष्टान्तः। स च प्रत्येकं चन्द्र इति प्रतीतिविषयश्चन्द्रे कल्पितः, एवं ‘सन् घटः’ इत्यादिप्रतीति- विषयो घटादिः सत्पदार्थे कल्पित इति साध्यते। अनुवृत्ते व्यावृत्तं कल्पितमिति सारः।अधिकमन्यत्र द्र.अद्वैतसिद्धिःपृ.३१६-३१८। २.‘चन्द्राभेदानुविद्ध’ इति पा.।

[[अ. १३. श्लो. १४]] [[६७६]]

त्वम्। तच्चोदासीनत्वे सति साक्षाद्द्रष्टृत्वरूपम्। उदासीनस्य ह्यविक्रियत्वं लोकतश्च सिद्धम्। न हि सुखादिकं साक्षात् पश्यन्नात्मा सुखादिना विक्रियते। अन्तःकरणं हि सुखादिना विक्रियमाणं दृश्यते साक्षिणा। कथं साक्षिणा दृश्यमानाः सुखादयः साक्षिधर्माः साक्षिभोग्या वा भवेयुः? तस्मात् सुखादिसाक्ष्येवात्मेह गुणभोक्तृत्वेनोच्यते। नन्वेवं सुखदुःखादिज्ञातृत्वं कथं ज्ञेयस्य सद्भावं प्रतिपादयेदिति चेत्? उच्यते— सुखादयः सज्ञातृकाः, ज्ञेयत्वाद् , घटवदिति प्रयोगात् ज्ञेयैः सुखादिभिः ज्ञाता क्षेत्रज्ञोऽनुमीयत इति। एवंविधं सद्रूपं क्षेत्रज्ञलक्षणं ब्रह्म ज्ञेयमित्याह— तदिति। अर्थ इति। प्रकृतश्लोकस्येति भावः। यत्तु रामानुजः - सर्वेन्द्रियगुणाभासं सर्वेन्द्रियवृत्तिभिरपि विषयान् ज्ञातुं समर्थं, स्वभावतः सर्वेन्द्रियविवर्जितं विनैवेन्द्रिय- वृत्तिभिः सर्वं जानाति। असक्तं स्वभावतो देवादिदेहसङ्गरहितं सर्वभृत् सर्वदेहभरणसमर्थं निर्गुणं स्वभावतः सत्त्वादिगुणरहितं गुणानां सत्त्वादीनां भोक्तृभोगसमर्थं चेति, तत्तुच्छम् - आत्मनः स्वभावतः सर्वेन्द्रियविवर्जितत्वमसक्तत्वं निर्गुणत्वं चेत्युक्तौ सर्वेन्द्रियगुणा- भासत्वं सर्वभृत्त्वं गुणभोक्तृत्वं चेत्येतत् त्रयं स्वभावतो नास्तीति सिद्धम्। ननु तर्हि किं तत् त्रयं स्वरूपतोऽस्ति, यद्वा उपाधितः। नाद्यः, स्वरूपे तदयोगात्। नान्त्यः, परिशुद्धात्मस्वरूपस्येहोच्य- मानत्वेनौपाधिकधर्मकथनायोगात्। निरुपाधिकं हि परिशुद्धात्मस्वरूपम्। उपाधिरहितत्वस्यैव परिशुद्धत्वरूपत्वात्। इन्द्रियवृत्तीना- मेवोपाधित्वेनोपाधित इन्द्रियवृत्तिभिर्विषयान् ज्ञातुं समर्थमित्यप्ययुक्तम्। आत्मनः इन्द्रियवृत्तिभिर्विषयज्ञानसामर्थ्यमस्तीत्या- बालगोपालं प्रसिद्धत्वेन तत्कथनमपि व्यर्थत्वेन शास्त्रस्याप्रामाण्यापादकमित्ययुक्तमेव। अज्ञातार्थज्ञापनं हि शास्त्रस्य प्रामाण्यावहम्। सर्वेन्द्रियगुणैराभासो ज्ञानं यस्येति समासेनेन्द्रियवृत्तिभिर्विषयान् जानातीत्येव सिद्धत्वेन विषयज्ञानसमर्थमिति समर्थपदस्य मूलाद् बहिः कल्पनं चायुक्तम्। निरिन्द्रियपरिशुद्धमुक्तात्मस्वरूपस्येन्द्रियवृत्तिभिर्विषयज्ञानसामर्थ्यमस्ति वा न वेति संदेहोऽतिमूढानामपि न जायत इति व्यर्थमेवैतत्कथनम्। सर्वेन्द्रियविवर्जितमित्यस्य यथाश्रुतमिन्द्रियरहितत्वरूपमर्थं विहाय, विनैवेन्द्रियवृत्तिभिः सर्वं जानाति इत्यर्थवर्णनमपि अयुक्तम् , लाक्षणिकत्वात्। सर्वावभासकस्य स्वप्रकाशस्यात्मनो विनैवेन्द्रियवृत्तिभिः सर्वज्ञानकथनमप्यकिञ्चित्करम्। आत्मनः सर्वदेहभरणसामर्थ्यस्य जीवापाये शरीरपतनदर्शनेन सर्वैर्विदित[त्व]मेवास्तिकैरिति तत्कथनं चानर्थकम्। एकैकदेहभरणसमर्थ एवात्मा, न तु युगपत् सर्वदेहभरणसमर्थ इति तत्कथनमयुक्तं च। मृत्पाषाणाद्यशेषदृश्यवस्तुवाचिनः सर्वशब्दस्य देहपरत्वेन सङ्कोचोऽप्ययुक्तः। देवादिदेहसङ्गरहितस्य देवादिदेहभरणसामर्थ्यमस्ति वा न वा? इति सन्देहस्यैवानुदयेन तत्सामर्थ्यप्रतिपादनं चायुक्तम्। देहानामेवोपाधित्वेनोपाधितो देहभरणसमर्थमित्यप्ययुक्तम्। सर्वभृच्छब्दस्य सर्वं बिभर्तीत्येव यथाश्रुतार्थत्वेन तं विहाय सर्वभरणसमर्थमित्यर्थकथनं चायुक्तम्। एवं गुणभोक्तृशब्दस्यापि गुणभोगसमर्थमित्यर्थकथनमयुक्तम्। मुक्तात्मस्वरूपस्य परिशुद्धस्य निर्गुणत्वेन गुणभोगसामर्थ्यमस्यास्ति वा न वेति शङ्काया एवानुदयेन तत्कथनं चानर्थकम्। बद्धदशायामिव मुक्तदशायामप्यात्मनो देहादिसत्त्वे सर्वदाऽपि देहादिसङ्गोऽस्त्येवात्मन इति कथमसक्तत्वं स्वभावतोऽपि स्यादात्मनः? गुणभोगसत्त्वे वा कथमविक्रियत्वम्? १जक्षणादिश्रुतिस्तु हिरण्यगर्भलोकप्राप्तजीवपरैव, न मुक्तात्मपरा॥१४॥

बहिरिति। नात्र बहिःशब्देन गृहादिभ्यो बहिर्भावो विवक्षितः, किन्तु देहादेवेत्याह— त्वगिति। अविद्यया आत्मत्वेन गृहीतम्। भाष्यार्कप्रकाशः किञ्च— बहिरन्तरिति। बहिः त्वक्पर्यन्तं देहमात्मत्वेनाविद्याकल्पितमपेक्ष्य, तमेवावधिं कृत्वा बहिरुच्यते। बहिरन्तश्च भूतानाम् अचरं चरमेव च। इतोऽपि ज्ञेयं ब्रह्मास्तीत्याह— किञ्चेति। बहिरिति व्याख्येयमादाय व्याचष्टे— त्वगिति। भूतेभ्यो बहिर्बाह्यविषयाद्यात्मक- आनन्दगिरिकृतव्याख्या १. ‘जक्षत् क्रीडन् रममाणः’ इति श्रुतिः।

[[६७७]]

यद्वा अविद्ययाऽऽत्मनि कल्पितं, तयैवात्मत्वेन गृहीतमिति शेषः। कल्पनेऽविद्या कर्त्री, ग्रहणे तु हेतुरिति विवेकः। त्वच एव देहपदार्थमांसाद्यपेक्षया बाह्यत्वादाह— त्वक्पर्यन्तमिति। तमेव देहमेव। अन्तःशब्देन देहादन्तर्भावो विवक्षित इत्याह— तथेति। प्रत्यगात्मन एव सर्वान्तरत्वेन तमपेक्ष्येत्युक्तम्। भूतानां कार्यकरणसङ्घातात्मकानां ब्रह्मादिस्तम्बपर्यन्तानां प्राणिनां देहाद् बहिः, देहेन्द्रियप्राणमनोऽज्ञानानां स्थूलसूक्ष्मकारणशरीरभूतानामन्तश्च तज्ज्ञेयं वर्तत इति शेषः। प्रत्यग्रूपेणान्तः, पररूपेण बहिश्चेति विवेकः। अन्तःकरणोपहितत्वं चैतन्यस्य प्रत्यक्त्वम् , मायोपहितं तु परत्वम् , चैतन्यमेव क्षेत्रज्ञ इति बोध्यम्। प्रत्यगात्मपरमात्मभेदवादिनां तु नैतत् सिध्येत् - यदात्मनो बहिरन्तर्व्याप्तिः, अन्तःस्थितस्य प्रतीचो बहिःस्थित्ययोगाद् , बहिःस्थितस्य परस्यान्तःस्थित्ययोगात्। एवं क्षेत्रज्ञस्यान्तर्बहिर्व्यापकत्वादेव सर्वव्यापकत्वमेकत्वं च श्रुतिसिद्धं सङ्गच्छते। तथाहि श्रुतयः ‘अन्तर्बहिश्च तत् सर्वं व्याप्य नारायणःस्थितः’ ‘एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मे’त्याद्याः। ननु देहादन्तर्बहिरेवास्ते क्षेत्रज्ञः, न तु देहः क्षेत्रज्ञ इति कथं सर्वव्यापित्वं क्षेत्रज्ञस्य? कथं वा ‘सर्वं ब्रह्मे’ति श्रुत्युपपत्तिरिति शङ्कते— बहिरिति। मध्य इति। अन्तर्बहिःप्रदेशयोर्मध्यप्रदेश इत्यर्थः। यत्र देहोऽस्ति तत्रेति भावः। अभावे क्षेत्रज्ञस्यासत्त्वे प्राप्ते सति। ‘अचरं चरमेव चे’तीदमुत्तरमुच्यते। यच्चरं जङ्गममचरं स्थावरं तरुगुल्मलतादिकं तदपि ज्ञेयमेव। कथं चराचरस्य ब्रह्मत्वम्? अत आह— देहाभासमिति। देहरूपेणापाततोऽविचारतो भासत इति देहाभासम्। अज्ञानादेव चराचरस्य देहत्वेन प्रतीतिः, विचारात्तु चराचरं सर्वमपि ब्रह्मैवेति मध्येऽपि ब्रह्मैवास्तीत्यर्थः। ब्रह्मणि कल्पितस्य देहाभासस्य (देहभ्रमस्य) अधिष्ठानरूपत्वादिति भावः। तत्र दृष्टान्तमाह— यथेति। रज्जौ कल्पितः सर्पाभासो यथा रज्जुरूप इति शेषः। न च ज्ञेये ब्रह्मणि चराचरस्याविद्याकल्पितत्वे विवदितव्यम् , ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतिभ्यः, स्वप्नदशायामात्मनि रथादिकल्पनस्य दर्शनाच्च। कारणव्यतिरेकेण कार्यं नास्ति, मृद्व्यतिरेकेण घटादर्शनाद् , रज्जुव्यतिरेकेण सर्पादर्शनाच्चेत्यादियुक्तिभ्यश्च। ननु यदि व्यवहारविषयं चराचरं सर्वमपि ब्रह्मैव, तर्हि कुतोऽस्य इदन्त्वेनाविज्ञेयत्वमित्याक्षिपति— यदीति। व्यवहारविषयं चरमचरं च सर्वं ज्ञेयमेव स्याद् यदीत्यन्वयः। किमर्थमिदं ब्रह्मेति सर्वैर्न विज्ञेयमिति प्रश्नः। विज्ञेयत्वे हेतुप्रदर्शनायाह— व्यवहार- विषयमिति। मनुष्योऽयं ब्राह्मणोऽयमित्यादिप्रतीतिगोचरमित्यर्थः। चराचरस्य इदं तदिति व्यवहारविषयत्वाच्चराचरात्मकं ब्रह्मापि इदं तदिति व्यवहारविषयं स्यादेव, यथा रज्जुसर्पाभासवद्रज्जुरपि व्यवहारविषयः, तद्वदिति भावः। उच्यते उत्तरमिति शेषः। सत्यं युक्त एव

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘भासतः’ इति पा.। तत्र भातः (= भासमानस्य) इति पाठो युक्तः। तथा प्रत्यगात्मानमपेक्ष्य देहमेवावधिं कृत्वा अन्तरुच्यते। बहिरन्तश्चेत्युक्ते मध्येऽभावे प्राप्त इदमुच्यते— अचरं चरमेव च यच्चराचरं देहाभासमपि तदेव ज्ञेयम् , यथा रज्जुसर्पाभासः। यद्यचरं चरमेव च स्याद् व्यवहारविषयं सर्वं ज्ञेयम् , किमर्थम् इदमिति सर्वैर्न विज्ञेयमिति? उच्यते— सत्यं मित्यर्थः। कथमनात्मन एवात्मत्वम्? कल्पनयेत्याह—आत्मत्वेनेति। अन्तःशब्दार्थमाह— तथेति। भूतानां चराचराणाम् अन्तः मध्ये, प्रत्यग्भूतमित्यर्थः। द्वितीयं पादमवतार्य व्याचष्टे— बहिरित्यादिना। यन्मध्ये भूतात्मकं नानाविधदेहात्मना भासमानं तदपि ज्ञेयान्तर्भूतं तत्त्वं सदित्यर्थः। कथं चराचरात्मनो भूतजातस्य ज्ञेयत्वम्? तत्राह— यथेति। अधिष्ठाने रज्ज्वां कल्पितसर्पादेरन्तर्भाववद् देहाभासस्यापि ज्ञेयान्तर्भावान्नासत्त्वं मध्ये ज्ञेयस्य शङ्कितव्यमित्यर्थः। सर्वात्मकं चेज्ज्ञेयं सर्वैरिदमिति किमिति न गृह्येतेति शङ्कते— यदीति। इदमिति ग्राह्यत्वयोग्यत्वाभावान्नेत्याह— उच्यत इति। सर्ववस्त्वात्मना भासते१, तदयोग्यत्वं कथमित्याशङ्क्याह— सत्यमिति। सूक्ष्मत्वेऽपि किं स्यादित्याशङ्क्याह— अत इति। सूक्ष्मत्वम् सूक्ष्मत्वात् तदविज्ञेयं दूरस्थं चान्तिके च तत्॥१५॥

अ. १३. श्लो. १४ -१५ ]

[[६७८]]

प्रश्न इत्यर्थः। यद्यपि ब्रह्मेति पदद्वयस्य शेषः, सर्वाभासं सर्वजगद्रूपेणापाततो भासत इति सर्वाभासं, तथापि सर्वाभासत्वेऽपीत्यर्थः। सूक्ष्मत्वे दृष्टान्तमाह— व्योमवदिति। सर्वव्यापकं वाय्वादिसर्वजगदधिष्ठानं च व्योम यथा सूक्ष्ममतीन्द्रियत्वात् तद्वद् ब्रह्मापीत्यर्थः। न च सर्वैश्चक्षुषा गृह्यमाणस्य व्योम्नः कथमतीन्द्रियत्वमिति वाच्यम् ; यच्चक्षुषा गृह्यते न तद् व्योम, किन्तु तदावारकं तेजस्तमो वा। न हि नीरूपं व्योम चक्षुषा ग्रहीतुं शक्यते। रूपग्राहकमेव हि चक्षुः। शब्दादिरूपत्वाभावान्नापि श्रोत्रादिभिर्गृह्यते व्योम। एवमतीन्द्रियत्वादेव व्योम्नः साक्षिभास्यत्वमभ्युपेयते। न च वायुरपि तादृश एवेति वाच्यम् ; नीरूपोऽपि वायुस्त्वगिन्द्रियेण गृह्यत एव, स्पर्शात्मकत्वात्। न चैवं शब्दात्मकत्वाद् व्योमापि श्रोत्रेण गृह्यत इति वाच्यम् ; श्रोत्रेण भेर्यादिशब्दं प्रतिपद्यमानो यः कोऽप्यनुन्मत्तः पुरुषो न मया व्योम प्रतिपन्नमिति वेत्ति। प्रतिध्वनिरेव हि व्योम्नो गुणः। न च सर्वे जना अवकाशं व्योमेति प्रतिपद्यन्त एवेति कथं तस्य सूक्ष्मत्वमिति वाच्यम् ; औपाधिकमेव व्योम्नो रूपं सर्वे व्योमत्वेन प्रतिपद्यन्ते, न तु निरुपाधिकम्। व्योम्नः उपाधिस्तु तेजस्तमसोरन्यतरदित्युक्तमेव। किञ्च नावकाशमात्रस्य व्योमत्वम् , अवकाशस्य धर्मत्वादाकाशस्य चावकाशधर्मकत्वेन द्रव्यत्वात्। स चावकाशो न चक्षुर्ग्राह्यो नीरूपत्वात्। किं तर्हि? अवकाशस्यावधिभूता ये भित्त्यादयः पदार्थास्त एव चक्षुषा गृह्यन्ते। तस्माद् अवकाशस्याकाशस्य वा नेन्द्रियगम्यत्वमित्यतीन्द्रियत्वात् सूक्ष्ममेव व्योम। न चैवं व्योमैव क्षेत्रज्ञः इत्युच्यतामिति वाच्यम् ; जडत्वात् , साक्षिभास्यत्वात् , ‘आत्मन आकाशः सम्भूतः’ इति श्रुत्या कार्यत्वात् , सावकाशत्वाद् व्योम्नः। ज्ञानस्वरूपत्वात् , स्वप्रकाशत्वात् , सर्वावभासकत्वादनादित्वाद् , निरवकाशत्वाच्च क्षेत्रज्ञस्य। अतः इत्यस्यार्थं स्वयमेवाह— सूक्ष्मत्वादिति। तज्ज्ञेयं स्वेन रूपेणाविदुषामविज्ञेयमपि विदुषां नित्यविज्ञातमेवेत्यन्वयः। सूक्ष्मार्थदर्शिनो हि विद्वांसः। ननु कथं विदुषामप्यतीन्द्रियार्थदर्शित्वम्? अत आह—आत्मैवेदं सर्वमित्यादिप्रमाणत इति। अतीन्द्रियार्थदर्शने शास्त्रमेव करणम् , तच्च शास्त्रं विदुषामस्तीति विदुषां नित्यापरोक्षमेव ब्रह्म, स्वात्मत्वादिति भावः। ननु अविदुषामपि प्रत्यक्षमेव ब्रह्म, जगद्रूपत्वाद् ब्रह्मण इत्यत्राह— स्वेन रूपेणेति। सच्चिदानन्दादिरूपेणेत्यर्थः। न तु कल्पितजगद्रूपेणेति भावः। सर्पाभासाधिष्ठानं रज्जुरिन्द्रियगम्यत्वात् सर्वैर्विज्ञेयैव। जगदाभासाधिष्ठानं ब्रह्म तु सूक्ष्मत्वात् सर्वैरविज्ञेयमेव। न चैवं शून्यत्वप्रसङ्गः, विद्वद्भिः ज्ञेयत्वाद् ब्रह्मणः। अविद्वद्भिरपि जगद्रूपेण विज्ञेयत्वादिति तत्त्वम्। एवं सूक्ष्मत्वेनाविदुषामविज्ञाततया दूरस्थं तदित्याह— अविज्ञाततयेति। ‘दूरात्सुदूरे तदिहान्तिके च’ इति मुण्डकश्रुतिरिहानुसन्धेया। नन्वविज्ञातत्वमात्रेण कथं सर्वव्यापिनः आत्मनो दूरस्थत्वम्? अत आह— वर्षेति। यो हि ग्रामादिः गन्त्रा बहुभिर्वत्सरैः प्राप्यते स तस्य गन्तुर्दूरस्थः इति प्रसिद्धम् , यस्तु बहुभिरपि वत्सरैर्नैव प्राप्यते तस्य दूरस्थत्वं किम्पुनर्वक्तव्यम्? ब्रह्म तु कोटिसङ्ख्याकवर्षसहस्रैरपि अविद्वद्भिर्नैव प्राप्यत इति कृत्वा अतीव दूरस्थमविदुषामित्यर्थः। यद्यपि शतसंवत्सराः एव नृणां परमायुः, तथाप्यनेकजन्मगतायुःपरिगणनया कोटिसंख्याकवर्षसहस्र- सिद्धिरिति बोध्यम्। यद्वा देवानामनेकसंवत्सरपरिमितायुष्कत्वात् तद् दृष्ट्योक्तमिति बोध्यम्। वस्तुतस्तु अपरिमितसंवत्सराभिप्रायेणैव वर्षसहस्रकोट्येत्युक्तः, न तु सङ्ख्याविशेषे वक्तुस्तात्पर्यम्। ततश्चाविदुषामतीव दुर्लभं ब्रह्मेति फलितार्थः। अविदुषां दूरस्थमपि तद् ब्रह्म १. ‘तद् दूरे तद्वन्तिके’ इति श्रुतिरपीहानुसन्धेया।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सर्वाभासं तत् , तथापि व्योमवत् सूक्ष्मम्। अतः सूक्ष्मत्वात् स्वेन रूपेण तज्ज्ञेयमपि अविज्ञेयमविदुषाम्। विदुषां तु ‘आत्मैवेदं सर्वम्’(छा.उ.७.२५.२) ‘ब्रह्मैवेदं सर्वम्’(बृ.उ.२.५.१) इत्यादिप्रमाणतो नित्यं विज्ञातम्। अविज्ञाततया दूरस्थं वर्षसहस्रकोट्याऽप्यविदुषामप्राप्यत्वात् , अन्तिके च तद् आत्मत्वाद् विदुषाम्॥१५॥

अतीन्द्रियत्वम्। तस्याविज्ञेयत्वे कुतस्तज्ज्ञानान्मुक्तिः? तत्राह— अविदुषामिति। विशेषणफलमाह— विदुषां त्विति। तेषामात्मत्वेन ज्ञातं चेत् कथं दूरस्थत्वमित्याशङ्क्याह— अविज्ञाततयेति। कथं तर्हि तस्य प्रत्यक्त्वम्? तत्राह— अन्तिके चेति। विद्वदविद्वद्भेदापेक्षया ‘दूरात्सुदूरे तदिहान्तिके च’ इति श्रुतिः१। तदर्थोऽत्र प्रसङ्गादनूदितः इत्यर्थः॥१५॥

[[६७९]]

विदुषामन्तिके समीप एव वर्तत इति शेषः। तत्र हेतुमाह— आत्मत्वादिति। आत्मा हि स्वयम्। न चाविदुषां कुतस्तन्नात्मेति वाच्यम् ; यद्यप्यविदुषामप्यात्मैव तत् , तथापि अविद्वांसस्तदात्मत्वेन न जानन्ति, देहात्मभ्रमजीवेश्वरभेदभ्रमादिदूषितहृदयत्वात्। अत एवाविदुषां तत् परोक्षमिव भाति। यथा निधिज्ञस्य सन्निहितोऽपरोक्षोऽपि निधिस्तदविज्ञस्य दूरस्थः परोक्षश्च, तद्वदात्मज्ञस्य सन्निहितो नित्यापरोक्षोऽप्यात्मा अनात्मज्ञस्य दूरस्थः परोक्षश्चेति भावः। एतेनैकस्यैव ब्रह्मणः कथं दूरस्थत्वान्तिकस्थत्वरूपविरुद्ध- धर्मसामानाधिकरण्यमिति प्रत्युक्तम् , विद्वदविद्वद्विषयभेदेन तदुपपत्तेर्दर्शितत्वादिति। यत्तु रामानुजः - पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहिर्वर्तते, तेषामन्तश्च वर्तते, स्वभावतोऽचरं देहित्वे चरं च, एवं सर्वशक्तियुक्तं सर्वज्ञं तदात्मतत्त्वमस्मिन् क्षेत्रे वर्तमानमप्यतिसूक्ष्मत्वात् संसारिभिरविज्ञेयमिति, तत्तुच्छम् , किं मुक्तिदशावस्थितं परिशुद्धात्मस्वरूपं सशरीरमुताशरीरम्? यद्वोभयात्मकम्? आद्ये, शरीराद् बहिर्वृत्तिरसिद्धा। द्वितीये, तदन्तर्वृत्तिरयुक्ता। तृतीये, सशरीरत्वाशरीरत्वयोर्विरुद्धयोः सामानाधिकरण्यायोगः स्फुट एवेति नोभयात्मकत्वसिद्धिः। न च कदाचित् सशरीरम् , अशरीरं च कदाचिदिति वाच्यम् , परिशुद्धात्मस्वरूपस्य कादाचित्कसशरीरत्वाद्ययोगात्। उपाधिकृतं हि सशरीरत्वमात्मनः, स्वाभाविकं त्वशरीरत्वमेव। न हि सशरीरत्वमशरीरत्वं चेत्युभयं स्वाभाविकं भवितुमर्हति। यद्धि स्वाभाविकं तद्धि परिशुद्धं रूपमात्मनः। औपाधिकस्योपाधिप्रयुक्तत्वेनापरिशुद्धत्वात्। एवमशरीरस्य परिशुद्धात्मस्वरूपस्य कथं भूतानामन्तर्वृत्तिः? सत्यां ह्यन्तर्वृत्तौ सशरीरत्वं स्यात् तस्य। परिशुद्धात्मस्वरूपकथनप्रकरणे ‘देहित्वे चरं च’ इति कथमुच्यते? न हि परिशुद्धमात्मस्वरूपं देहवद् भवति, देहवत्त्वस्यापरिशुद्धिहेतुत्वात्। किञ्च आत्मनः स्वाभाविकमचरत्वं प्रति किं पूर्णत्वं हेतुः? उत करणराहित्यम्? नाद्यः - अणोस्तस्य पूर्णत्वायोगात्। पूर्णस्य च तस्य देहेन परिच्छेदायोगाच्च। नान्त्यः -‘अपाणिपादो जवनो ग्रहीता’ इति श्रुत्या करणाभावेऽपि गमनादिक्रियावत्त्वप्रतिपादनात्। एवं निर्हेतुकाचरत्वासिद्धौ चरत्वमेव स्वाभाविकमिति सिद्धमात्मनः। ततश्च श्रुतिस्मृत्यादिविरोधः। किञ्चिज्ज्ञोऽल्पशक्तिर्जीवः, सर्वज्ञः सर्वशक्तिरीश्वर इति जीवेश्वराभेदासिद्ध्यर्थं ब्रुवताममीषां सर्वज्ञं सर्वशक्तियुक्तं परिशुद्धात्मस्वरूपमिति प्रवचनं विरुद्धम्। यद्येवं जीवः सर्वज्ञः सर्वशक्तिश्च स्यात् तर्हि किमर्थं जीवादन्येश्वरकल्पनम्? जगत्सृष्ट्याद्यर्थं हीश्वराभ्युपगमः। तच्च जगत्सृष्ट्यादिकं सर्वज्ञसर्वशक्ति- मत्पुरुषसाध्यमिति जीवादेव सृष्ट्यादिसम्भवः। इदं चेश्वरादन्यस्य जीवस्य सर्वज्ञत्वादिप्रवचनं श्रुतिविरुद्धम्। ‘स सर्वज्ञः सर्ववित्’ ‘पराऽस्य शक्तिर्विविधैव श्रूयत’ इतीश्वरस्यैव तद्धर्मवत्त्वश्रवणात्। जीवस्य किञ्चिज्ज्ञत्वादेरनुभवसिद्धस्य दुरपलापत्वाच्च। किं चान्त- र्बहिश्च भूतानामिति मूलस्य कदाचिदन्तः कदाचिद् बहिरित्यर्थकल्पनं चायुक्तम् , कदाचित्पदाध्याहारे प्रमाणाभावात्। भूतानां बहिरित्यस्य पृथिव्यादिभूतानि परित्यज्येत्यप्ययुक्तम् , आकाशपरित्यागस्य दुष्करत्वात्। आकाशो हि सर्वव्यापकः। ब्रह्माण्डाद् बहिरप्यवकाशसत्त्वेनाकाशसत्त्वात्। न हि त्वदभिमते वैकुण्ठलोकेऽप्यवकाशाभावो येनाकाशाभावः स्यात् । अवकाशवान् ह्याकाशः इति॥१५॥

अविभक्तमिति। अविभक्तं विभागरहितम्। किम्प्रयुक्तोऽस्य विभागः? अत आह— प्रतिदेहमिति। देहे देहे प्रतिदेहम्। ज्ञेयस्यास्तित्वे हेत्वन्तरमाह— किञ्चेति। तद्धि प्रतिदेहं नभोवदेकम् , तद्भेदे मानाभावाद् , भिन्नत्वे च घटवदनात्मत्वापातात्। अतोऽद्वितीयं सर्वत्र प्रत्यग्भूतं ज्ञेयं नास्तीत्यतिसाहसमित्याह— अविभक्तं चेति। कथं तर्हि १देहादेर्भेदधीरित्याशङ्क्य , कल्पनयेत्याह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

किञ्च— अविभक्तमिति। अविभक्तं च प्रतिदेहं व्योमवत् तदेकं भूतेषु सर्वप्राणिषु विभक्तमिव च स्थितम् , अविभक्तं च भूतेषु विभक्तमिव च स्थितम्। अ. १३. श्लो. १५ -१६ ] १. ‘देहभेदे भेदधीः’ इति पाठः संभाव्यते। द्र. भाष्योत्कर्षदीपिका।

[[६८०]]

भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥१६॥

देहभेदेऽपि नात्मभेद इत्यर्थः। तत्र दृष्टान्तमाह— व्योमवदिति। यथा व्योम प्रतिघटं न भिद्यते, तथाऽयमात्मा प्रतिदेहं न भिद्यत इत्यर्थः। अत एव तद् ब्रह्मैकम्। एवं स्वतोऽविभक्तत्वेऽप्यज्ञानाद् विभक्तमिव भातीत्याह— भूतेष्विति। ननु सर्वव्यापिनः कथं भूतेष्वेव स्थितिरुच्यते? अत आह— देहेष्विति। विभाव्यमानत्वाद् उपलभ्यमानत्वात्। अन्तर्मुखानां विदुषां देह एवात्मसाक्षात्कारसम्भवाद् देहेषु स्थितमित्युच्यत इति भावः। विभक्तमिवेति इवशब्दान्न वस्तुतोऽस्य परिपूर्णस्य विभागसम्भव इति सूच्यते। बिभर्ति धरति। प्रकर्षेण बहुधा भवनं प्रभवनं ‘तदैक्षत बहु स्यां प्रजायेय’ इति श्रुतिसिद्धबहुभवनमित्यर्थः। भूतानां सर्वेषां सृष्टिस्थितिलयकारणमिति पदत्रयार्थः, ‘यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ती’ति श्रुतेरिति भावः। आत्मन्येवाविद्या- कल्पितं भूतजातं तत्रैव वर्तते, तत्रैव लीयते चेति परमार्थः। तत्र दृष्टान्तमाह— यथेति। मिथ्याकल्पितस्य सर्पादेः रज्ज्वादिर्यथा स्थित्यादिहेतुस्तद्वदित्यर्थः। रज्जावज्ञानात् सर्पो जायते, तत्रैव वर्तते, पुनस्तत्रैव लीयते; एवं शुक्तिकायां रजतं जायते, वर्तते, लीयते च यथा, तद्वदिति भावः। एतेन जगतः सृष्टिस्थितिलयहेतुः क्षेत्रज्ञादन्यः कश्चनेश्वर इत्यपास्तम्। यत्तु रामानुजः - अविभक्तं ज्ञानैकाकारतया जातित एकम् , अविदुषां देवोऽयं मनुष्योऽयमिति विभक्तमिव स्थितं, भूतभर्तृ शरीरं बिभर्ति, ग्रसिष्ण्वन्नादिकमत्ति, प्रभविष्णु ग्रस्तानामन्नादीनां रेतोरक्तादिरूपेण परिणामहेतुरिति। तत्तुच्छम् - अव्यक्तस्यात्मनो व्यक्तितो नानात्वायोगात् कथं जात्येकत्वम्? निर्धर्मके आत्मनि धर्मायोगात् कथं वा जात्येकत्वम्? सति व्यक्तितो नानात्वे विदुषामपि विभक्तत्वेन प्रतिभायादेवेति कथमविदुषां विभक्तमिवेत्युच्यते? विदुषां देवत्वादिभ्रमाभावेऽप्यहमिति, स इति, त्वमिति, देवदत्त इति च प्रमा भवत्येव हि। यथा देवत्वादिः स्थूलदेहधर्म इति त्वं जानासि, तथा सुखित्वादिकं सूक्ष्मदेहधर्म इति, मोहः कारणदेहधर्म इति च जानीहि। एवं शरीरत्रयमात्मनः सकाशाद् विवेचिते तु किमात्मनो भेदकं स्याद् येनात्मनो नानात्वं स्याद् व्यक्तितः। तस्मात् त्वमहमित्यादिभेदोऽपि भ्रम एव, न प्रमा। न च ‘न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः’ इतीश्वरेणैवोक्तत्वात् प्रमैवेति वाच्यम् ; लोकदृष्ट्या तथोक्तत्वात्। यदुक्तमात्मा शरीरं बिभर्तीति तदयुक्तम् , प्राणादीनामेव शरीरभर्तृत्वात्। एवं ग्रसनादिकमपि प्राणादिधर्म एव नात्मधर्मः। अन्यथा सविकारत्वप्रसङ्गादात्मनः। न ह्यात्मा किञ्चिद् ग्रसितुं क्षमतेऽन्नादिकं, करणरहितत्वात्। किन्तु प्राणाधिष्ठितं शरीरमेव मुखेन गिलति। शरीरमेव च तदन्नादेः रक्ताद्यात्मना परिणामहेतुश्च। न च मृतशरीरं किमपि न ग्रसेदिति वाच्यम् ; प्राणाधिष्ठितं शरीरमित्युक्तत्वात्। न च जीवापेतस्य शरीरस्य ग्रसनाद्यदर्शनाज्जीवधर्मा एव ग्रसनादय इति वाच्यम् ; जीवस्य क्षेत्रज्ञलक्षणस्य परिपूर्णत्वेनापगमासम्भवात्। यस्तु शरीरादपैति स लिङ्गशरीरावच्छिन्नः प्रमातैव। तस्य च न स्वतो ग्रसनकर्तृत्वम् , शरीरस्यैव स्थूलस्य भोगायतनत्वेन तं विना ग्रसनासम्भवात्। नापि केवलशरीरस्य तदस्ति, सुषुप्तिमूर्छादौ तददर्शनात्। किं तर्हि लिङ्गशरीरस्थूलशरीरोभयावच्छिन्नस्यैव प्रमातुः शरीरावयवद्वारा अन्नादिग्रसनं, मनोद्वारा सुखाद्युपभोगश्चेति कृत्वा प्रमात्रधिष्ठितशरीरस्यैवान्नग्रसनादिकं, न तु क्षेत्रज्ञस्यात्मनः। तस्य शरीरात् प्रमातुश्च विलक्षणत्वादिति॥१६॥

भूतेष्विति। तत्र हेतुः— देहेष्विति। कार्याणां स्थितिहेतुत्वाच्च ज्ञेयमस्तीत्याह— भूतेति। १निमित्तोपादानतया तेषां प्रलये प्रभवे च कारणत्वाच्च तदस्तीत्याह— प्रलयेति। तर्हि कार्यकारणत्वस्य वस्तुत्वान्नाद्वैतमित्याशङ्क्याह— यथेति२॥१६॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

देहेष्वेव विभाव्यमानत्वात्। भूतभर्तृ च भूतानि बिभर्तीति तज्ज्ञेयं भूतभर्तृ च स्थितिकाले ; प्रलयकाले ग्रसिष्णु ग्रसनशीलम् ; उत्पत्तिकाले प्रभविष्णु च प्रभवनशीलम् ; यथा रज्ज्वादिः सर्पादेर्मिथ्याकल्पितस्य॥१६॥

१. ‘निमित्ततया, उपादानतया च’ इत्यर्थो वोध्यः। अत एव प्रकृत्यधिकरणव्युत्पादिताभिन्ननिमित्तकारणत्वोपपत्तिः(ब्र.सू. १-४-२३)। २. विवर्तोपादानत्वं पर्यवसितम्। तथा च कार्यकारणत्वस्य मिथ्यात्वान्नाद्वैतक्षतिरिति भावः।

[[६८१]]

किञ्च सर्वत्र विद्यमानं सन्नोपलभ्यते चेत् , ज्ञेयं तमस्तर्हि? न ; किं तर्हि?— ज्योतिषामपीति। ज्योतिषाम् आदित्यादीनामपि तद् ज्ञेयं ज्योतिः। आत्मचैतन्यज्योतिषेद्धानि ह्यादित्यादीनि ज्योतींषि दीप्यन्ते, ‘येन सूर्यस्तपति तेजसेद्धः’ (तै.ब्रा.३.१२.९) ‘तस्य भासा सर्वमिदं विभाति’ (मु.उ.२.२.१०) इत्यादिश्रुतिभ्यः। स्मृतेश्चेहैव— ज्योतिषामिति। ‘सूक्ष्मत्वात् तदविज्ञेय’मित्यनेन सर्वत्र विद्यमानं सदपि ज्ञेयं सर्वैर्नोपलभ्यत इत्युक्तत्वेन तत्राक्षिपति— सर्वत्रेति। सर्वत्र विद्यमानं सदपि ज्ञेयं नोपलभ्यते चेत् , तर्हि ज्ञेयं तमोऽज्ञानमेवेति प्रश्नः। नेति परिहारः। तर्हि किमिति पुनः प्रश्नः? ‘ज्योतिषामपि तज्ज्योति’रित्युत्तरम्। अज्ञानं ह्यतीन्द्रियत्वात् सर्वैर्नोपलभ्यते, किन्त्वहमज्ञ इत्यनुभवबलादेवाध्यवसीयते। ततः किमज्ञानस्वरूपं ब्रह्मेति प्रष्टुराशयः। अज्ञानस्यावरणस्वभावत्वाद् ब्रह्मणश्च सर्वावभासनस्वभावत्वान्नाज्ञानस्वरूपं ब्रह्म, किन्तु ज्योती- रूपमेवेत्युत्तरयितुराशयः। ननु यदि ब्रह्म तेजोरूपं, तर्हि किमादित्यादितेजो ब्रह्मेत्यत आह— ज्योतिषामपि तज्ज्योतिरिति। आदित्यादयो हि घटादि- पदार्थानवभासयन्तीति ज्योतिःशब्देनोच्यन्ते। भासकत्वस्य ज्योतिर्लक्षणत्वात्। तेऽप्यादित्यादयः आत्मचैतन्येन भास्यन्त इति ज्योतिषामपि ज्योतिर्ब्रह्मेत्युच्यते। अज्ञानेन तु घटादिपदार्था आव्रियन्त एवेति सर्वावभासकस्य ब्रह्मणो नाज्ञानरूपत्वं, नापि कतिपयपदार्थावभासकतेजोरूपत्वं, किन्तु चैतन्यरूपत्वमेवेति भावः। ननु भासकानामादित्यादिज्योतिषां कुतः पुनर्भास्यत्वमित्यतः श्रुत्यादीन् प्रमाणयति— १ज्योतिषेत्यादीन्। ज्योतिषा चैतन्ये- नेद्धानि भासितानि सन्ति दीप्यन्ते भासन्ते, आदित्यादिज्योतींषीति शेषः।२येन चैतन्यलक्षणेन तेजसा इद्धो दीप्तः सन् सूर्यस्तपति। तस्यात्मनो भासा स्वरूपचैतन्येन सर्वमिदं जगद् विभाति। स्मृतेश्चेति चकारादनुभवग्रहणम्। आत्मना हि सूर्यचन्द्रनक्षत्राग्नि- विद्युद्दीपादिज्योतींषि दृश्यन्ते। अतः आत्मभास्यत्वं तेषाम्। ननु सूर्यादिभिर्घटादयः प्रकाशिता एव, न तु विदिताः; आत्मना तु घटादिर्विदित एव, न तु प्रकाशितः इति कथं वेदितुरात्मनो भासकत्वमिति चेत्? मैवम् ; सूर्यादिज्योतींषि जडत्वाद् घटादींश्चेतनेभ्यः प्रकाशयन्ति, आत्मा तु चेतनत्वात् सर्वमात्मने प्रकाशयतीति सर्वत्र ज्ञानजनकत्वमेव प्रकाशकत्वम्। ततश्चात्मविदिता घटादय आत्मप्रकाशिता एव। सूर्यादिभिः पुरुषेभ्यो बोधिता घटादयश्च सूर्यादिप्रकाशिता एव। अयं घट इति बोधजनकत्वाद्धि दीपेन घटः प्रकाशित इत्युच्यते। तदजनकत्वाच्च तमसा घटः आवृतः इत्युच्यते। तस्मात् प्रकाशनवेदनयोरेकार्थत्वमेव। लौकिकास्तु परस्मै बोधनं प्रकाशनम् - यथा दीपो घटं पुरुषाय बोधयति, स्वयं बोधनं तु वेदनम् - यथा आत्मा घटं बुध्यत इति भेदं परिकल्प्य व्यवहरन्ति। तस्माद् घटादिवत् सूर्यादिज्योतींष्यपि ज्ञेयत्वादात्मभास्यान्येवेति ज्योतिषामपि ज्योतिरेव तत्। न च ज्ञेयस्यापि सूर्यादिवदन्यावभास्यत्वं शङ्क्यम् , स्वप्रकाशज्ञानस्वरूपत्वात् तस्य। अन्यथा अनवस्थादोषापत्तेः। ननु ‘ज्योतिषामपि तज्ज्योतिस्तमसोऽपि तमः किमु?’ इति शङ्कायाम् , ‘तमसश्चापि तज्ज्योतिरित्याह भगवान् हरिः’— तमसः इतोऽपि ज्ञेयस्यास्तित्वमित्याह— किञ्चेति। हेत्वन्तरमेव स्फोरयितुं शङ्कते — सर्वत्रेति। न तत् तमो मन्तव्यमित्याह— नेति। तर्हि किं तस्य रूपमिति पृच्छति— किं तर्हीति। तत्रोत्तरम्— ज्योतिषामिति। सूर्यादीनां बुद्ध्यादीनां च प्रकाशकत्वादस्ति ज्ञेयं ब्रह्मे- त्याह—ज्योतिषामिति। तदेवोपपादयति—आत्मेति। तत्र श्रुतिद्वयं प्रमाणयति—येनेति। उक्तेऽर्थे वाक्यशेषमपि दर्शयति— स्मृतेश्चेति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते। ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥१७॥

अ. १३. श्लो. १६-१७ ] १. भाष्ये ‘ज्योतिषेद्धानि दीप्यन्ते’ इति श्रुत्युदाहरणं रा.पाठे भाति। २. ‘येन सूर्य’ इति भाष्योद्धृतश्रुत्यर्थमाह—येनेति।

[[६८२]]

‘यदादित्यगतं तेजः’ (भ.गी.१५.१२) इत्यादेः। तमसः १अज्ञानात् परम् असंस्पृष्टम् उच्यते। ज्ञानादेर्दुःसम्पादनबुद्ध्या परमुच्यते इति। अज्ञानवाची तमःशब्दस्तत्कार्यमोहादेरप्युपलक्षक इत्याह— अज्ञानादेरिति। परं विप्रकृष्टम्। फलितमाह— असंस्पृष्टमिति। तमसेति शेषः। तमःसंस्पर्शरहितमित्यर्थः। यद्वा संस्पृष्टमिति भावे क्तः। संस्पर्श इत्यर्थः। न विद्यते संस्पृष्टं यस्य तदसंस्पृष्टं, तमसः परमसंस्पृष्टं संस्पर्शरहितमिति स एवार्थः। उच्यते शास्त्रेणेति शेषः। ज्योतिषामिव तमसोऽप्यवभासकं ज्योतिर्भिरिव तमसाऽप्यसंस्पृष्टं तदित्यर्थः। न च भासकस्य भास्येन संसर्गाभावे भासनं न स्यादिति वाच्यम् ; भासकस्य दीपज्वालादेर्घटादिना सति संसर्गे घटादिभानासम्भवात्। घटाद्यसंस्पृष्टस्यैव हि दीपस्य घटादिभासकत्वम्। चक्षुरपि न स्वसंस्पृष्टं करतलादिकं भासयति, किन्तु व्यवहितमेव। एवमात्माऽपि सूर्यादिभिरसंस्पृष्ट एव तान् भासयति, न तु संस्पृष्ट इति। यद्वा ननु सूर्यादिज्योतींष्यज्ञानेनावृतानि, चक्षुर्वृत्त्या सूर्याद्यावारकाज्ञाननाशे सत्येव सूर्यादिभानात् , घटाज्ञाननाशे घटभानवत्। न हि चक्षुषि निमीलिते सूर्यादयो ज्ञायन्ते केनचित्। एवं ज्योतिषां ज्योतिस्तदपि किमज्ञानेनावृतमिति शङ्कायामाह भगवान्— तमसः परमुच्यत इति। सूर्यादीनामिवात्मनो नास्त्यज्ञानसंसर्गः, येनात्मनः सूर्यादीनामिव तम आवरणं स्यात्। नन्वेवमा[मना]वृतत्वे सत्यात्मनः सदाऽपि भानं स्यादिति चेत् , सत्यम् , सर्वदाऽपि भात्येव तत्। न हि कोऽपि घटो न भातीतिवद् अहं न भामीति मन्यते। नित्यापरोक्षो ह्यात्मा सर्वस्य। अत एव नात्मभानार्थं चक्षुरादीनां करणत्वम्। न हि कोऽपि सूर्यमिवात्मानं चक्षुषा पश्यति। किञ्च येनेदं सर्वं ज्ञायते तमात्मानं केन विजानीयात् ‘विज्ञातारमरे केन विजानीयादि’त्यादिश्रुतेश्च नात्मनो भास्यत्वं, येन तस्याज्ञानावरणत्वं स्यात्। सूर्यादयो घटादिभासका अपि चक्षुरादिभास्या इति भास्यत्वाद् भवति तेषामज्ञानावरणं, न त्वात्मनः सर्वावभासकस्य स्वप्रकाशस्य अनन्यावभास्यस्य। यद्येवंविध आत्माऽप्यावृतः स्यात् , तर्हि तं कः पुनर्भासयेत्? सर्वेऽप्यात्मचैतन्याभासलब्धज्ञानशक्तयो हि मनआदिपदार्थाः, स्वतस्तु जडा एव। तस्माज्जगदान्ध्यप्रसङ्ग एवेति। किञ्च यद्यात्मा आवृतः स्यात् , तर्हि तदात्मन आवरणं केन भास्येत? न तावदात्मना, तस्यावृतत्वात्। नाप्यन्येन, तस्य जडत्वात्। एवमसाक्षिकमात्मावरणं कथमभ्युपगन्तुं युज्यते? तस्मादनावृतः स्वप्रकाश एवात्मेति सिद्धान्तः। न चैवमात्म- साक्षात्कारार्थिकायाः अहं ब्रह्मास्मीति बुद्धिवृत्तेरनावश्यकत्वाच्छास्त्रं व्यर्थमिति वाच्यम् ; यद्यपि सर्वे आत्मानं विदन्ति, तथापि न सच्चिदानन्दरूपत्वेन विदन्ति, किन्तु देवोऽहं मनुष्योऽहमित्याद्याकारेण विदन्ति, यथा बालाः सूर्यं विदन्त्येव, न तु प्रकाशात्मकत्वेन विदन्ति, किन्तु फलत्वेन विदन्ति, तद्वत्। तस्य च भ्रमस्य निवृत्त्यर्थं शास्त्रमावश्यकम्। यथा बालस्य पित्राद्युपदेशः— ‘यस्त्वया फलत्वेन ज्ञायते, सोऽसौ न फलं, किन्तु प्रकाशात्मकः सूर्य एवे’ति, तद्वत् ‘भोः शिष्य! यस्त्वया मनुष्याद्यात्मत्वेन ज्ञायते, नासौ त्वं, किन्तु सच्चिदानन्दं ब्रह्मैव त्वमसी’ति गुरुकर्तृकः शास्त्रोपदेश आवश्यक इति भावः। न च नित्यापरोक्षे आत्मनि कथं देहादिभ्रमसम्भव इति वाच्यम् ; किमस्माकं भ्रमकारणविचारेण? भ्रमस्य सार्वजनीनस्य दुरपलापत्वात् तन्निरासायैव यतितव्यं येन केनापि हेतुना। शिरोरोगे सति तन्निरासायाजामोदगन्धस्तत्र२ लिप्यते, न तु कुत इदं जातमिति विचारेण किमपि फलमिति। अथापि वक्तव्यमिति यद्याग्रहस्तर्हि ब्रवीमि - बुद्धिगताज्ञानदोष इति। यथा चक्षुर्गततिमिरादि- दोषो द्विचन्द्रभ्रमस्य। यथा वा निद्रादोष आत्मनि शिरश्छेददर्शनभ्रमस्य। कस्य भ्रम इति चेद्? यो भ्रान्तस्तस्यैव। प्रपञ्चितं चैतत् प्रागित्युपरम्यत इह। यद्यात्मनि कथञ्चिदपि भ्रमाज्ञानाद्ययोग इति तवाग्रहस्तदयोगोऽस्माकमलङ्कारायैव। न हि वयं भ्रमादिकमात्मनि युक्तमिति ब्रूमः, किन्त्वयुक्तमित्येव। अयुक्तस्यापि प्रतीतिर्गगननैल्यादिप्रतीतिवदुपपद्यत एव मायावशान्न तु वस्तुत इति सङ्क्षेपः। तस्मादनावृतमेव तद् ब्रह्म। ज्ञेयस्यातमस्त्वेऽपि तमःस्पृष्टत्वमाशङ्क्योक्तम्— तमस इति। उत्तरार्धस्य तात्पर्यमाह— ज्ञानादेरिति। उत्तम्भनम् उद्दीपनम् ,

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘अज्ञानादे’रिति रा. पा.। २. अजामोदगन्धः औषधविशेषः। ‘अजमोदा तूग्रगन्धा’ इत्यमरः।(अमर. २-४-१४५)

[[६८३]]

प्राप्तावसादस्य उत्तम्भनार्थमाह— ज्ञानम् अमानित्वादि , ज्ञेयम् ‘ज्ञेयं यत्तत्प्रवक्ष्यामी’त्यादिनोक्तम् , ज्ञानगम्यम् ज्ञेयमेव ज्ञातं सज्ज्ञानफलमिति ज्ञानगम्यमुच्यते, ज्ञायमानं तु ज्ञेयम्। तदेतत् त्रयमपि हृदि बुद्धौ सर्वस्य प्राणिजातस्य विष्ठितं विशेषेण स्थितम्। तत्रैव हि त्रयं विभाव्यते१॥१७॥

ननु यथोक्तममानित्वादिकं दुःखेनापि सम्पादयितुमशक्यमिति कोऽपि विद्वानमानित्वादिसम्पादने न प्रयतते। अविदुषां तु नात्र शास्त्रार्थेऽधिकारः, तेषां कर्मण्येवाधिकारात्। तस्माद् व्यर्थोऽयं शास्त्रार्थ इति शङ्कते— ज्ञानादेरिति। विदुषां तु ज्ञानादेर्दुःखसम्पादन- बुद्ध्या तत्रेति शेषः। अवसादस्य प्राप्तौ सत्यामित्यन्वयः। तुशब्दोऽविद्वद्वैलक्षण्यार्थः। अविदुषामत्रानधिकारादिति भावः। ज्ञानादेरि- त्यादिपदाज्ज्ञेयग्रहणम्। सूक्ष्मत्वात्तदविज्ञेयमिति ज्ञेयस्यापि दुर्विज्ञेयत्वेन तत्सम्पादनमपि दुष्करमिति भावः। दुःखेन सम्पादनं यस्य तद् दुःखसम्पादनं, दुःसम्पादमित्यर्थः। तदिति बुद्धिर्दुःखसम्पादनबुद्धिस्तया तत्र ज्ञानादिसम्पादने प्राप्तावसादस्य प्राप्तशैथिल्यस्य निरुद्योगस्येत्यर्थः। उत्तम्भनार्थमुत्साहजननार्थमित्यर्थः। आह भगवान् ज्ञानं ज्ञेयमित्यादिश्लोकोत्तरार्धमिति शेषः। उक्तमिति। ब्रह्मेति शेषः। ज्ञेयस्य ज्ञानगम्यस्य च ब्रह्मत्वात् पुनरुक्तप्राप्तौ तन्निरासायाह— ज्ञेयमेवेत्यादि। ज्ञायमानं ब्रह्म ज्ञेयम्। ज्ञातं ब्रह्म तु ज्ञानगम्यमिति न पौनरुक्त्यम् , ज्ञायमानत्वज्ञातत्वोपाधिभेदेनैकस्यापि ब्रह्मणो भेदेन निर्देशात्। कथं ज्ञातस्य ब्रह्मणो ज्ञानगम्यत्वम्? अत आह— ज्ञानफलमिति। फलं हि साधनेन गम्यते (प्राप्यते), ब्रह्म च ब्रह्मज्ञानेन गम्यत इति ब्रह्मज्ञानस्य फलं ब्रह्मैवेत्यर्थः। ब्रह्मणो नित्याप्तत्वात् कथं तस्य फलत्वम्? अत आह— ज्ञातं सदिति। नित्याप्तमपि ब्रह्म ज्ञातं सदेव फलं भवति। अज्ञातस्य ज्ञातत्वेऽप्यनाप्तस्य फलत्वायोगात्। स्वगृहस्थो हि निधिर्नित्याप्तोऽप्यज्ञातत्वान्न फलम्। परगृहस्थो निधिर्ज्ञातोऽप्यनाप्तत्वान्न फलमिति भावः। एतेन नित्याप्तस्य ब्रह्मणो ज्ञानं निष्फलमिति शङ्का परास्ता। ज्ञानं ज्ञेयं ज्ञानगम्यं चेत्येतत् त्रयं सर्वस्य हृदि विष्ठितमित्यन्वयः। हृच्छब्दो न हृत्पुण्डरीकपरः, तत्र यथोक्तत्रयस्यासत्त्वात् , किन्तु बुद्धिपर इत्याह— हृदि बुद्धाविति। प्राणिजातस्य प्रमातृवर्गस्येत्यर्थः। कथं बुद्धावपि तत्त्रयस्य स्थितिः? अत आह— तत्रैवेति। बुद्धावेवेत्यर्थः। विभाव्यते ज्ञायत इत्यर्थः। विचार्यत इति वा। स्वबुद्धिस्थत्वेन ज्ञानादिसम्पादनस्य सुलभत्वाद् विदुषां न तत्रावसादः कर्तव्य इति भावः। न च अमानित्वादेर्बुद्धिगम्यत्वेऽपि, ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इति श्रुतेर्मनसोऽप्यगोचरस्य ब्रह्मणः कथं बुद्धिगम्यत्वमिति वाच्यम् ; ‘दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभि’रिति श्रुतेर्ब्रह्मणो बुद्धिगम्यत्वात्। असंस्कृतमनसोऽगोच- रत्वेन पूर्वश्रुत्यविरोधाच्च। वस्तुतस्तु अमानित्वादिज्ञानसम्पादनमेव दुष्करम् , ज्ञेयं तु नित्याप्तत्वात् सुलभमेवेति न तत्सम्पादने कोऽपि विदुषामवसाद इति बोध्यम्। रामानुजस्तु - तदात्मस्वरूपं ज्ञानं ज्ञानैकाकारमिति ज्ञेयम् , तच्च ज्ञानगम्यमिति व्याचख्यौ, तन्मन्दम् , ‘ज्योतिषामपि तज्ज्योति’रित्यनेन ज्ञानैकाकारत्वस्योक्तत्वाज्ज्ञानमित्यस्य पुनरुक्तेः। इतिशब्दाध्याहारगौरवाच्च। ‘तज्ज्ञानं ज्ञानगम्यं चे’त्येतावतैव विवक्षितार्थसिद्धौ ज्ञेयमित्यस्यानर्थकत्वाच्च, ‘ज्ञानमिति ज्ञेयम्’ इतिवद् ‘ज्ञानगम्यमिति ज्ञेयम्’ इत्यपि वक्तव्यत्वापत्तेश्च॥१७॥

प्रकटीकरणमिति यावत्। ज्ञानममानित्वादि करणव्युत्पत्त्येति शेषः। ज्ञानगम्यं ज्ञेयमिति पुनरुक्तिं शङ्कित्वोक्तम्— ज्ञेयमिति। उक्तत्रयस्य बुद्धिस्थतया प्राकट्यं प्रकटयति— तदेतदिति। तत्रानुभवमनुकूलयति— तत्रैवेति॥१७॥

१. अत्र ‘ज्ञेयं यत् तत् प्रवक्ष्यामि’ इत्यारभ्य ‘तमसःपरमुच्यते’ इत्येतच्छ्लोकपूर्वार्धपर्यन्तं ज्ञेयनिरूपणम्। तत उत्तरार्धे ज्ञानसाधनं, ज्ञेयं, ज्ञानफलं चेति त्रयस्य सुसंपादत्वबोधनार्थं सर्वप्राणिबुद्धिस्थत्वमुच्यते। इति भाष्यानुसारेण योजना। माध्वमते तु— प्रकृतस्य ज्ञेयस्य ज्ञानपदेन स्वज्ञानत्वरूपं स्वप्रकाशत्वं, पूर्वं परज्ञेयत्वस्योक्तत्वेऽपि ज्ञेयपदेन स्वज्ञेयत्वं चात्रोच्यते। जीवानामपि स्वप्रकाशत्वेऽपि तस्येशाधीनत्वात् , ईशस्यातथात्वात् , स्वज्ञेयत्वस्य च एकस्मिन् कर्मकर्तृ- भावविरोधाद् दुर्घटत्वेऽपि भगवत्प्रभावप्रदर्शनार्थं तदुक्तिरिति योजना। तत्र ज्योतिषां ज्योतिरित्यनेनैवानन्याधीनस्वप्रकाशत्वलाभात् पौनरुक्त्यम् , तथा कर्मकर्तृ- भावस्यैकस्मिन् प्रमाणसिद्धत्वे न दौर्घट्यम् , अप्रामाणिकत्वे च भ्रमसिद्धत्वेन मायिकत्वमेव पर्यवसितमिति बोध्यम्।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १३. श्लो. १७]] [[६८४]]

यथोक्तार्थोपसंहारार्थोऽयं श्लोक आरभ्यते— इति क्षेत्रमिति। इति एवं क्षेत्रं महाभूतादि धृत्यन्तम् , तथा ज्ञानम् अमानित्वादि तत्त्वज्ञानार्थदर्शनपर्यन्तम् , ज्ञेयं च ‘ज्ञेयं यत्तद्’ इत्यादि ‘तमसः परमुच्यत’ इत्येवमन्तम् उक्तं समासतः संक्षेपतः। एतावान् हि सर्वो वेदार्थो गीतार्थश्चोपसंहृत्योक्तः। अस्मिन् सम्यग्दर्शने कोऽधिक्रियते इति? उच्यते— मद्भक्तः मयीश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावो यत् पश्यति शृणोति स्पृशति वा ‘सर्वमेव भगवान् वासुदेवः’ इत्येवंग्रहाविष्टबुद्धिः मद्भक्तः, स एतद् यथोक्तं सम्यग्दर्शनं विज्ञाय, मद्भावाय मम भावो मद्भावः परमात्मभावः तस्मै, मद्भावायोपपद्यते मोक्षं गच्छति॥१८॥

इतीति। यथोक्तार्थस्य पूर्वोक्तार्थस्य उपसंहार एवार्थः फलं यस्य स यथोक्तार्थोपसंहारार्थः। उपसंहृत्य सङ्क्षिप्य क्रोडीकृत्येति वा। गुरूणामपि गुरुः परमगुरुः। वासुदेवे प्रत्यगभिन्ने परमात्मनि। सर्वमात्मेति भावो बुद्धिः सर्वात्मभावः। सर्वात्मभावस्य वासुदेवे समर्पणप्रकारमेव दर्शयति— यत्पश्यतीत्यादिना। वाशब्दाद् यज्जिघ्रति यदास्वादयति यत् सङ्कल्पयति यन्निश्चिनोति यदनुभवतीत्यादि- ग्रहणम्। तत् सर्वं शब्दस्पर्शरूपरसगन्धसुखदुःखादिकं विषयजातम्। उपलक्षणमिदं येन पश्यति येन जिघ्रतीत्यादेश्चक्षुरादि- करणजातस्य, अहङ्कारस्य च कर्तुः। अनात्मजातं सर्वमपीति भावः। भगवान् वासुदेव एव, ‘सर्वं ब्रह्मे’ति श्रुतेः, ‘वासुदेवः सर्वम्’ इति गीतायाश्च। सर्वस्य वासुदेवे कल्पितत्वात् कल्पितस्य चाधिष्ठानात्मकत्वादिति भावः। ग्रहो ज्ञानम् , बुद्धिरन्तःकरणम्। यः सर्वं वासुदेव इति प्रत्येति स ज्ञानी मद्भक्त इत्यर्थः। मद्भावायेति। मम परमात्मनः सच्चिदानन्दलक्षणो यो भावः, स मद्भावः, तस्मै। ब्रह्मभूयायेत्यर्थः। उपपद्यते युज्यते। कल्पत इति यावत्। मद्भावं प्रतिपद्यत इत्यर्थः। फलितमाह— मोक्षं गच्छतीति। ननु मुक्तौ सर्वेन्द्रियनिषेधेन तदधीनज्ञानाभावात् पाषाणकल्पत्वमात्मन इति कोऽस्मै[स्यै] स्थावरत्वरूपमुक्तये स्पृहयेद् विना त्वादृशं मूढम्? न च कोऽपि न स्पृहयेत् को दोष इति वाच्यम् ; मुमुक्षोरेवाभावेन शास्त्राधिकार्यलाभाच्छास्त्रमनर्थकमेवेति चेत् , मैवम् ; सुषुप्तौ सर्वेन्द्रियनिषेधेन तदधीनज्ञानाभावेऽपि स्वस्य पाषाणकल्पत्वं जानन्नपि त्वं सुषुप्तिं न स्पृहयसि किम्? यदि न स्पृहयसि, तर्हि कतिपयदिनैरेव संसिद्धिं गमिष्यसि। यदि स्पृहयसि, तर्हि तथैव मुक्तिं वयं स्पृहयामहे। न च - सुषुप्तावानन्दोऽस्ति, स चाविद्यावृत्तिभि- रनुभूयते जीवेनेति - वाच्यम् ; अज्ञानवत्यामेव सुषुप्तावानन्दसद्भावे तद्रहितायां मुक्तावानन्दो नास्ति किम्? न च विद्यमानोऽप्यानन्दः करणाभावान्नानुभूयते मुक्ताविति वाच्यम् ; अननुभूतानन्दस्य कथं सद्भावाभ्युपगमः? यो हि जडाभिरपि वृत्तिभिरानन्दमनुभवति स किं स्वत आनन्दमनुभवितुं न शक्नुयात्? भवतु वा वृत्तिभिरानन्दस्यानुभवः। तासां वृत्तीनां केनानुभवः? यदि वृत्तयः केनापि नानुभूयन्ते, तर्हि तद्वृत्तिसत्त्वे किं प्रमाणम्? न ह्यसाक्षिकं किमपि वस्त्वभ्युपगम्यते। घटमनुभवन्ती हि चक्षुर्वृत्तिः किं त्वया नानुभूयते? अनुभूयते चेत् , तथैवाविद्यावृत्तिरप्यनुभूयत एवात्मनेति विद्धि। यथा सुखरूपान्तःकरणवृत्तिरात्मनाऽनुभूयते, तद्वत्। यः सुखरूपवृत्ति- प्रतिफलितमात्मानन्दं सुखरूपवृत्तीश्चानुभवति स आत्मा किं स्वरूपानन्दं नानुभवेत्? वस्तुतस्तु मुक्तावानन्दस्याननुभाव्यत्वमस्तु त्वमर्थशुद्ध्यर्थं सविकारं क्षेत्रं, पदवाक्यार्थविवेकसाधनं चामानित्वादि , तत्पदार्थं च शुद्धं १तद्भावोक्त्यर्थमुक्त्वा तेषां फलमुपसंहरति —यथोक्तेति। पूर्वार्धं विभजते— इत्येवमिति। वक्तव्यान्तरे सति किमिति त्रितयमेव सङ्क्षिप्योपसंहृतम्? तत्राह— एतावानिति। उत्तरार्धमाकाङ्क्षाद्वाराऽवतारयति— अस्मिन्निति। ईश्वरे समर्पितसर्वात्मभावमेवाभिनयति— यत्पश्यतीति। विज्ञाय लब्ध्वेत्यर्थः॥१८॥

१. तद्भावः त्वम्पदार्थस्य शुद्धब्रह्मभावः। ऐक्यसिद्ध्यर्थं पदार्थशोधनमिति भावः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः। मद्भक्त एतद् विज्ञाय मद्भावायोपपद्यते॥१८॥

[[६८५]]

तत्र सप्तमे ईश्वरस्य द्वे प्रकृती उपन्यस्ते परापरे क्षेत्रक्षेत्रज्ञलक्षणे। ‘एतद्योनीनि भूतानि’(भ.गी.७.६) इति चोक्तम्। क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वं कथं भूतानामिति? अयमर्थोऽधुनोच्यते— प्रकृतिमिति। प्रकृतिं पुरुषं चैव नाम, अनुभवरूपत्वं केन वार्यते? अनुभवरूपो ह्यानन्दः आत्मा। एवमननुभाव्यत्वादेव ह्यात्मानन्दस्यानुभवरूपत्वम्। न हि स्वप्रकाशोऽनुभवः केनाप्यनुभूयते; अनुभवस्यानुभाव्यत्वायोगात् , तद्योगे वा अनवस्थादिदोषापत्तेः। अयं चानुभवरूपो बिम्बभूत आत्मानन्दः सर्वैरप्याकाङ्क्ष्यत एव विद्वद्भिः, ये सुषुप्तौ स्वप्रतिबिम्बानन्दमनुभूय स्वापानन्तरं ‘सुखमहमस्वाप्सम्’ इति स्मरन्ति, कथं तैरज्ञानसम्बन्धरहितोऽपरिच्छिन्नो बिम्बानन्दो न काङ्क्ष्येत? सुषुप्तावज्ञानसत्त्वाद्धि तदानीन्तनानन्दाप्रकाशः। एवमप्रकाशमानेऽपि सौषुप्तानन्दे येषां स्पृहा, तेषां कथं प्रकाशमानमोक्षानन्दे न स्यात् स्पृहा? येषां प्रकाशमाने परिच्छिन्ने क्षणिके विषयानन्दे स्पृहा, तेषां कथं प्रकाशमानेऽपरिच्छिन्ने शाश्वते ब्रह्मानन्दे न स्पृहा? तस्मान्न मुक्तात्मनः पाषाणकल्पता, किन्तु स्वस्वरूपानन्दानुभवरूपतैव। पाषाणस्य जडत्वादात्मनश्च ज्ञानानन्दरूपत्वादिति। ननु सुषुप्तावानन्दस्याप्रकाशमानत्वमज्ञानादित्युक्तं यत् तन्न सङ्गच्छते - आत्मन्यज्ञानावरणाभावस्य दर्शितत्वादिति चेत् , नैष दोषः; ज्ञानानन्दोभयरूप आत्मा, तत्र ज्ञानस्वरूपत्वस्यानावृतत्वेऽपि सुखरूपत्वस्यावृतत्वमेवेति। सर्वो हि जन आत्मानं ज्ञातारं वेत्ति, न तु सुखरूपम्। ततश्चानुभवबलादुक्तार्थः कल्प्यत इति नातिशङ्कनीयम्। अनुभवावसानत्वात् सर्वस्य। यद्वा सुषुप्तावविद्यावृत्ति- प्रतिफलित एवानन्दोऽनुभूयत इति स आवृत एव। बिम्बभूतात्मानन्द एवानावृतः। न चानावृतस्य बिम्बभूतानन्दस्य संसारदशायामपि स्फुरणप्रसङ्ग इति वाच्यम् ; स्फुरतोऽपि तस्यानन्दस्य विषयव्यापृतायां बुद्धावभानम्। अत एव समाधौ तस्य स्फुरणमिति। न हि भासमानमपि सूर्यं मलदूषितादर्शो गृह्णीयात् , तिमिरदूषितं चक्षुर्वा। न चात्मनैव गृह्यतां किं बुद्ध्येति वाच्यम् ; आत्मा सदा स्वानन्दमनुभवन्नेव वर्तते। देहात्माभिमानिनस्तु नैतज्जानन्ति। किन्तु बुद्ध्यनुभूतं सुखाभासमेव ‘वयं सुखमनुभवामः’ इति मन्यन्ते, बुद्धावात्माभिमानात् तेषाम्। तस्मात् पिण्डं समुत्सृज्य करं लेढीति न्यायेन मूढाः आत्मानन्दानुभवं विहाय विषयसुखानुभवमि- च्छन्ति। प्राज्ञास्तु विषयसुखं विहायात्मानन्दमनुभवन्ति समाधौ यथा, तथा प्राज्ञा अद्वैतिनो ब्रह्मानन्दमिच्छन्ति, मूढास्तु वैकुण्ठादि- लोकगतं विषयसुखमेवेति युक्तं ब्रह्मविदां ब्रह्मानन्दानुभवलक्षणो मोक्षो निरतिशयफलमिति। विज्ञाय मद्भावायेत्यनेन च मोक्षस्य ज्ञानमेव साधनं, न त्वन्यदिति स्थापितम्। ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुतेः। एतेन कर्मज्ञानसमुच्चयो मोक्षसाधनमित्यपास्तम्। यत्तु रामानुजः - मद्भावायोपपद्यतेऽहमिवासंसारी भवतीति, तन्मन्दम् - सति जीवेश्वरभेदे तत्प्रयुक्तसंसारानिवृत्तेः। औपाधिको हि संसारः। जीवेश्वरभेदश्चोपाधिकृत एवेति। जीवस्यान्तःकरणमुपाधिः, ईश्वरस्याज्ञानमिति सत्यज्ञानादौ कथं तत्प्रयुक्तसंसाराभावः? निरुपाधिकत्वे च शुद्धचैतन्यस्य भेदकाभावाद् भेदाभाव एवेति॥१८॥

प्रकृतिमिति। ‘प्रकृतिं पुरुषं चैव, क्षेत्रं क्षेत्रज्ञमेव च, एतद्वेदितुमिच्छामि, ज्ञानं ज्ञेयं च केशव॥’ इत्यर्जुनेन पृष्टानां मध्ये क्षेत्रं ‘प्रकृति’मित्यादि वक्ष्यमाणम् अनन्तरपूर्वग्रन्थसम्बन्धीत्याशङ्क्य , व्यवहितेन सम्बन्धार्थं व्यवहितमनुवदति— तत्रेति। तयोश्च प्रकृत्योरुक्तं भूतकारणत्वमित्याह— एतदिति। भूतानामिव प्रकृत्योरपि प्रकृत्यन्तरापेक्षयाऽनवस्थानान्न भूतयोनितेति शङ्कते— क्षेत्रेति। तत्राकृताभ्यागमादिवारणाय बन्धस्य निदानज्ञानार्थमात्मनो विक्रियावत्त्वादिदोषनिरासार्थं च प्रकृतिपुरुषयोरनादित्वं क्षेत्रत्वेनोक्तानां प्रकृतिं प्रति विकारभावं च दर्शयति— अयमर्थ इति। ‘स च यो यत्प्रभावश्च’ इत्युद्दिष्टं व्याचष्टे— प्रकृतिमिति। ईश्वरस्यापरा प्रकृतिरत्र

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि। विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान्॥१९॥

[[अ. १३. श्लो. १८-१९]] [[६८६]]

१. ‘नित्येश्वरत्वादीश्वरस्य’ इति मूले, टीकायां प्रतीकधारणे च पा.। २. वस्तुतस्तु ‘ते द्वे अनादी सत्यौ संसारस्य कारणम्’ इति भाष्यवाक्ये ‘सत्यौ’ इति नेदं सत्यशब्दस्य रूपम् , किन्तु शतृप्रत्ययान्तस्य सतीशब्दस्य, अन्यथा स्त्रीलिङ्गे विशेष्ये ‘सत्यौ’ इति पुंलिङ्गविशेषणासंगतेः इति बोध्यम्। ईश्वरस्य प्रकृती, तौ प्रकृतिपुरुषौ उभावपि अनादी विद्धि। न विद्यत आदिर्ययोस्तौ अनादी। नित्यत्वादीश्वरस्य तत्प्रकृत्योरपि युक्तं नित्यत्वेन भवितुम्। प्रकृतिद्वयवत्त्वमेव हीश्वरस्येश्वरत्वम्। याभ्यां प्रकृतिभ्यामीश्वरो जगदुत्पत्तिस्थितिप्रलयहेतुः, ते द्वे अनादी सत्यौ संसारस्य कारणम्। क्षेत्रज्ञो ज्ञानं ज्ञेयं चेति चतुष्टयं निरूपितं कृष्णेन। अथ प्रकृतिपुरुषौ निरूपयितुमारभते— प्रकृतिमित्यादिना। न च ‘तत् क्षेत्रं यच्चे’ति, ‘स च यो यत्प्रभावश्चे’ति क्षेत्रक्षेत्रज्ञयोरेवेह वक्ष्यमाणत्वेन प्रतिज्ञातत्वाज्ज्ञानज्ञेययोः प्रकृतिपुरुषयोश्च निरूपणमसङ्गतमिति वाच्यम् ; ज्ञानप्रकृत्योः क्षेत्रत्वात् , पुरुषज्ञेययोः क्षेत्रज्ञत्वाच्च स्वप्रतिज्ञातक्षेत्रक्षेत्रज्ञनिरूपणान्तर्गतमेव ज्ञानादिचतुष्टयनिरूपणमिति। हे अर्जुन! ये त्वया षट् पदार्थाः पृष्टास्ते वस्तुतः पदार्थद्वयमेव - क्षेत्रं क्षेत्रज्ञश्चेति। तत्र क्षेत्रस्यैवावान्तरभेदो ज्ञानममानित्वादि- लक्षणम्। तच्चोक्तम्। क्षेत्रं च महाभूतादिकं निरूपितम्। क्षेत्रज्ञ एव ज्ञेयं ब्रह्म। तच्चोक्तम्। यस्त्वव्यक्तलक्षणः क्षेत्रविशेषः स एव प्रकृतिरुच्यते। यः पुनः क्षेत्रज्ञः स एव पुरुषः। तावेव क्षेत्रक्षेत्रज्ञलक्षणौ प्रकृतिपुरुषौ पुनर्निरूपयामि यत्किञ्चिद्धर्मविशेषप्रदर्शनार्थं, शृण्वित्यभिप्रायेणाह भगवान्— प्रकृतिमित्यादि। ननु क्षेत्रक्षेत्रज्ञयोर्निरूपितत्वात्पुनः प्रकृतिपुरुषनिरूपणं व्यर्थमिति शङ्कायां, न व्यर्थम् , भूतयोनित्वादिप्रदर्शनार्थत्वादित्याह भाष्यकारः— तत्रेति। तत्र पूर्वोक्त इत्यर्थः। कथं भूतानां क्षेत्रक्षेत्रज्ञप्रकृतिद्वययोनित्वमिति प्रश्नस्यायमुत्तरभूतोऽर्थोऽधुनोच्यते। ननु प्रकृतिपुरुषयोरनादित्वे नित्यत्वे तद्विशिष्टत्वे चेश्वरस्य, प्रकृतिपुरुषेश्वरास्त्रयोऽपि नित्या एवेतीश्वरः प्रकृतिपुरुषविशिष्ट एवेति च यत् परमतं तत्र प्रविष्टः किल भवन्मताचार्यः शङ्करभगवत्पाद इति चेत् , मैवम् ; ईश्वरस्य स्वरूपभूता जीवलक्षणा प्रकृतिः, स्वभावभूता तु क्षेत्रलक्षणेति सप्तमाध्याय एवोक्तत्वाज्जीवलक्षणस्वरूपातिरिक्तेश्वरस्यैवाभावात् जीवलक्षणेश्वरप्रकृतेर्नित्यत्वं तावद- विवादम् , अनादित्वादनन्तत्वाच्च तस्याः। क्षेत्रलक्षणप्रकृतेस्तु यावद्विद्योदयं नित्यत्वात् सापेक्षमेव नित्यत्वं, न तु निरपेक्षं सान्तत्वात् क्षेत्रप्रकृतेः। अस्या अनादित्वं च पराधीनजन्माभावरूपत्वमेव। न हि ‘आत्मनः आकाशः, आकाशाद् वायुः’ इतिवत् ‘आत्मनो ऽन्यस्माद् वा प्रकृतिर्जायते’ इति क्वापि श्रूयते। न च सुतरां जन्माभाव इति वाच्यम् ; ‘माया चाविद्या च स्वयमेव भवती’ति जन्मश्रवणात्। न च ‘जीवेशावाभासेन करोती’ति तयोर्मायावशं जन्म श्रूयत इति वाच्यम् ; ब्रह्मणि निर्गुणे जीवत्वेश्वरत्वयोरौपाधि- कत्वेन मायाकृतत्ववर्णनात्। एवं प्रकृतेः सादित्वादेव सान्तत्वमनित्यत्वं च। न च - सत्यावित्येवोक्तमाचार्यैरिति - वाच्यम् ; व्यावहारिकसत्यत्वं प्रकृतेः, पारमार्थिकसत्यत्वं पुरुषस्येत्यदोषात्२। इदं च पुरुषशब्दवाच्यं जीवलक्षणं चैतन्यमीश्वरस्य स्वरूपमिति ईश्वरस्य तद्वत्त्वमुच्यते। राहोः शिरः इति शिरोवत्त्वमिव राहोः। यद्वा महाकाशस्य घटाकाश इव जीव ईश्वरस्यांश इति तद्वत्त्व- मीश्वरस्योक्तम्। तस्मान्नाचार्यस्य परमतप्रवेशप्रसङ्गः। ते हि पुरुषेश्वरयोः स्वरूपतः स्वभावतश्च भेदं वर्णयन्ति, पुरुषस्य चेश्वरशेषत्वं, प्रकृतेश्च मुक्तावपि सत्त्वमिति। ननु प्रकृतिद्वयवत्त्वस्यैवेश्वरत्वान्मुक्तौ तदभावे ईश्वरस्यानीश्वरत्वप्रसङ्गः स्याद्, अथवा ईश्वराभावप्रसङ्ग इति चेत् , मैवम् ; मुक्तावीशितव्याभावेनेश्वरत्वाभावस्यास्माकमिष्टत्वात्। निर्विशेषचिन्मात्रस्यैवेश्वरत्वाद् ईश्वराभावप्रसङ्गस्तु न। हन्त तर्हि, ‘ईश्वरस्य नित्यत्वात् तत्प्रकृत्योरपि नित्यत्वेन भवितुं युक्तं, प्रकृतिद्वयवत्त्वमेव हीश्वरत्व’मिति भाष्यविरोधस्तवेति प्रकृतिशब्देनोक्ता, परा तु प्रकृतिर्जीवाख्या पुरुषशब्देन विवक्षितेति व्याकरोति— ईश्वरस्येति। तयोरनादित्वं व्युत्पादयति— नेत्यादिना। तत्र युक्तिमाह— १नित्यत्वादीश्वरस्येति। ईश्वरस्योक्तप्रकृतिद्वयवत्त्वं कथमित्याशङ्क्याह— प्रकृतीति। तस्य जगज्जन्मादौ स्वातन्त्यमेव ईश्वरत्वम् , न प्रकृतिद्वयवत्त्वमित्याशङ्क्याह— याभ्यामिति। प्रकृत्योरनादित्वं कुत्रोपयुक्तमित्याशङ्क्याह— ते इति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[६८७]]

चेत् , मैवम् ; व्यवहारदशामाश्रित्योक्तत्वादस्यार्थस्य। यावद्व्यवहारं हि प्रकृतिपुरुषेश्वरास्त्रयोऽपि नित्याः। पुरुषेश्वरयोर्भेदश्च नित्यः। परमार्थतस्त्वीश्वर एक एव नित्यः। तस्य पुरुषाद्भेदश्च मिथ्या। प्रकृतिश्च मिथ्यैवेति। अत एव हि ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’ इति श्रुतिर्विद्याविद्यामार्गद्वयस्यात्यन्तवैलक्षण्यं ब्रूते। न च विद्यादशायां द्वैतमस्ति, ‘ऐतदात्म्यमिदं सर्वम् , नेह नाना- स्ति किञ्चने’त्यादिश्रुतिभ्यः। अविद्यया हि ब्रह्मणि जीवत्वेश्वरत्वजगन्ति कल्पितानि। कथं तानि विद्यायामुपलभ्येरन्? अत एव ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा, यो वै भूमा तदमृतम्’ इति, ‘तत्र केन कं पश्येदि’त्याद्याः श्रुतयश्चोपपद्यन्ते। एवं जीवेशत्वादिरहितं चिन्मात्रमेव हि लक्षणया तत्त्वमस्यादिमहावाक्यान्यपि बोधयन्ति। तस्माद् ब्रह्मणः प्रकृतिद्वयवत्त्वरूप- मीश्वरत्वमविद्यावस्थायामेव; प्रकृतेश्च नित्यत्वं सत्यत्वं च व्यावहारिकमेव; एक एवेश्वरः परमार्थतो नित्यः सत्यश्च। प्रपञ्चितश्चायमर्थो ‘अविनाशि तु तद्विद्धी’त्यादौ। भाष्यकृतश्चायमेवाभिप्रेतोऽर्थः। अन्यथा स्ववचोविरोधात्। प्रकृते च ‘याभ्यां प्रकृतिभ्यामीश्वरो जगदुत्पत्तिप्रलयहेतु’ रिति वचनात्। न हि परमार्थतो जगदस्ति, येन तदुत्पत्त्यादिकं पारमार्थिकं स्यात् ; तद्धेतुत्वं चेश्वरस्य सत्यं स्यात्। तस्माद् व्यावहारिकमेव जगज्जन्मादिहेतुत्वं, तत्प्रयुक्तमीश्वरत्वं च ब्रह्मण इति स्थितम्। प्रकृतेर्जगद्रूपेण परिणामाज्जगद्धेतुत्वं, पुरुषस्य तु विवर्तनादिति विवेकः। पुरुषस्य ज्ञातृत्वात्प्रकृतेश्च सुखाद्यात्मना परिणामात् संसारकारणत्वं वक्ष्यत इति तदभिप्रायादाह— संसारकारणे इति। पुरुषस्य पारमार्थिकसत्यत्वात् प्रकृतेश्च व्यावहारिकसत्यत्वादुक्तम् - सत्याविति। न तु प्रकृतिरपि परमार्थतः सत्येति भ्रमितव्यं, विद्यादशायां तदभावात्। देहादिप्रपञ्चस्तु सादित्वाद् यावद्व्यवहारमपि अस्थिरत्वान्न सत्य इति भावः। ननु यद्यनादी प्रकृतिपुरुषौ स्यातां, तर्हि तावेव जगत्कारणभूतौ भवत इति कथमीश्वरस्य जगत्कारणत्वम्? न च प्रकृतिद्वारा जगत्कारणत्वमीश्वरस्येति वाच्यम् ; अनाद्योस्तयोर्मुख्यकारणत्वमेवोच्यतां किमिति द्वारकारणत्वम्? तदतिरिक्तेश्वरकल्पनं वा किमर्थम्? न च जडायाः प्रकृतेरीक्षणायोगात् , पुरुषस्य चोदासीनत्वादीश्वरस्य जगत्कारणत्वमुक्तमिति वाच्यम् ; पुरुषसंसर्गवशेन जडाया अपि प्रकृतेरीक्षणसम्भवाद् यथा जीवचैतन्याभासेन मनःसङ्कल्पसम्भवः। तौ च प्रकृतिपुरुषौ प्रतीश्वरस्य कारणत्वाभावेन ईश्वरस्य सर्वकारणत्वासम्भवाच्च। तस्मान्न प्रकृतिपुरुषावनादी, किन्तु सादी एव भवतः। न च प्रकृति[त]गीतागतानादिवचनविरोधः, न आदी अनादीति तत्पुरुषसमासेन तयोः सादित्वालाभात्। यद्धि कारणं न भवति, तद्धि कार्यमेव भवेत् , कारणभिन्नस्य कार्यत्वात्। आदिपदस्य कारणवाचित्वान्नञश्च तदन्यवाचित्वादिति पूर्वपक्षमुद्भावयति—न आदी इति। तेनेति। तत्पुरुषसमासवर्णनेनेत्यर्थः। किलेत्यनेन तद्वर्णनस्यायुक्तत्वं सूच्यते। नेश्वरस्येति। नित्याभ्यामेव प्रकृतिपुरुषाभ्यां जगत्सृष्ट्यादिसम्भवादिति भावः। न च सादित्वे तयोः कथं जगत्कर्तृत्वाभाव इति वाच्यम् ; यस्तयोरादिस्तस्यैव जगत्कर्तृत्वाभ्युपगमः। यथा सादेराकाशस्य वायुकारणत्वेऽपि यदाकाशस्य कारणं तदेव वायोरपीत्यभ्युपगम्यते, तद्वत्। परमकारणस्यैवेश्वरस्य कारणत्वं नावान्तरकारणयोः प्रकृतिपुरुषयो- राकाशादेरिवेति न प्रकृतिपुरुषयोर्जगत्कारणत्वं सादित्वे स्यादिति भावः। परिहरति—तदसदिति। प्रकृतिपुरुषयोरुत्पत्तेः प्रागीशितव्यवस्त्वभावादीश्वरस्यानीश्वरत्वप्रसङ्गः। तदुत्पत्तेः पश्चात्तु तयोरेवेशितव्ययोः सत्त्वात् स्यादीश्वरत्वमीश्वरस्येति कृत्वा प्रागित्युक्तम्। भाष्यार्कप्रकाशः [परकीयव्याख्यानिरसनम्] न आदी अनादी इति तत्पुरुषसमासं केचिद् वर्णयन्ति। तेन हि किल ईश्वरस्य कारणत्वं सिध्यति। यदि पुनः प्रकृतिपुरुषावेव नित्यौ स्यातां तत्कृतमेव जगत् , नेश्वरस्य जगतः कर्तृत्वमिति। तदसत् ; प्राक् प्रकृतिपुरुषयोरुत्पत्तेः अ. १३. श्लो. १९ ] आनन्दगिरिकृतव्याख्या मतान्तरमाह— नेत्यादिना। तयोर्मूलकारणत्वाभावे कस्य तदेष्टव्यमित्याशङ्क्याह— तेन हीति। प्रकृत्योरेव मूलकारणत्वे श्रुतिस्मृतिसिद्धमीश्वरस्य तथात्वं न स्यादित्याह— यदीति। प्रकृतिद्वयस्य कार्यत्वपक्षं प्रत्याह— तदसदिति। किञ्च प्रकृतिद्वयमनपेक्ष्य

[[६८८]]

ईशितव्याभावाद् ईश्वरस्यानीश्वरत्वप्रसङ्गात्। संसारस्य निर्निमित्तत्वेऽनिर्मोक्ष(त्व)प्रसङ्गात् शास्त्रानर्थक्यप्रसङ्गात् , बन्धमोक्षाभावप्रसङ्गाच्च। नित्यत्वे पुनरीश्वरस्य प्रकृत्योः सर्वमेतदुपपन्नं भवेत्। कथम्? विकारांश्च गुणांश्चैव ननु तव मतेऽपि प्रकृतेः सम्भूतिश्रवणेन सादित्वात् पुरुषस्यानादित्वेऽपीश्वरादभिन्नत्वात् प्रकृत्युत्पत्तेः प्रागीशितव्याभावेने- श्वरस्यानीश्वरत्वप्रसङ्गोऽस्त्येवेति चेत् , मैवम् ; प्रकृतेः सम्भूतिश्रवणेऽपि इयमिदानीं सम्भूतेति वक्तुमशक्यत्वेनानादित्वात्। पुरुषस्येश्वरादभेदेऽपि तद्भेदस्याविद्यया कल्पितस्य पूर्वोक्तन्यायेनैवानादित्वात्। ‘जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा। अविद्या तच्चितोर्योगः षडस्माकमनादयः॥’ इति वचनात् प्रकृतिपुरुषयोः प्रागिति वक्तुं न शक्यते। तस्माद् यावदविद्यम् अनादिकालादारभ्य सर्वदाऽपीशितव्यसत्त्वान्नास्मन्मते ईश्वरस्यानीश्वरत्वप्रसङ्गः। किमीश्वरः प्रकृतिपुरुषौ प्रपञ्चं वा स्वेच्छया सृजति? उत यत्किञ्चिन्निमित्तमाश्रित्य? आद्ये - ईश्वरीयेच्छाया नित्यत्वेन सर्वदाऽपि प्रकृतिपुरुषप्रपञ्चसद्भाव एवेति न संसारनिवृत्तिः। द्वितीये - यन्निमित्तं तद्वक्तव्यम् , न तावज्जीवादृष्टाख्यं कर्म, तस्य प्रकृत्यन्तःपातित्वाज्जीवस्य सादित्वेन सान्तत्वात् तत्कर्मणो निराश्रयस्य सत्त्वायोगात्। जीवस्योत्पत्तेः प्राक् कर्मण एवासम्भवाच्च। कर्ता हि जीवः स्वयमुत्पन्नः कर्म कुर्यात् , न त्वनुत्पन्नः। नाप्यज्ञानम् , तस्य प्रकृतित्वात्। एवम् अनिमित्तस्यापि कार्यस्याभ्युपगमे निर्निमित्तः संसारो नैव निवर्तेत। विद्यमानसंसारस्य ज्ञानान्निवृत्तावपि निर्निमित्तः संसारः पुनरन्य आपतेदेव। न च कथं भवेदिति वाच्यम् ; निर्निमित्तसंसारं प्रति कथमिति निमित्तप्रश्नायोगात्। ननु माऽस्तु संसारस्यानिवृत्तिः, को दोषः? तत्राह— शास्त्रेति। संसारनिवृत्त्यर्थं हि वेदान्तशास्त्रं भगवता निर्मितं, तन्निवृत्त्यभावे किमर्थं तच्छास्त्रम्? व्यर्थमेवेत्यर्थः। निर्निमित्तस्य कार्यस्य दुरभ्युपगमत्वात् संसारो निर्निमित्तः कदाऽपि न स्यादेवेति बन्धाभावप्रसङ्गः। बन्धपूर्वकत्वान्मोक्षस्य मोक्षाभावप्रसङ्गश्चेत्याह— बन्धमोक्षेति। बन्धमोक्षयोरभावप्रसङ्गादिति समासः। न च ईश्वरस्य निमित्तस्य सत्त्वान्न निर्निमित्तत्वमिति वाच्यम् ; ईश्वरस्य मुख्यकारणत्वेन निमित्तकारणत्वायोगात्। प्रकृतिपुरुषावेव हि संसारस्य निमित्तकारणे। तयोश्च तव मते सादित्वान्न कारणत्वमिति। न च प्रकृतिपुरुषयोरनादित्वेऽपि भवेयुरमी दोषा इति वाच्यमित्याह— नित्यत्वे त्विति। एतत् पूर्वोक्तम्। सर्वमिति। शास्त्रसार्थक् यं बन्धमोक्षौ चेत्यर्थः। प्रकृतिपुरुषयोः संसारनिमित्तयोः सत्त्वान्न निर्निमित्तत्वं संसारस्य। प्रकृतेर्ज्ञानेन नाशान्न पुनःसंसारप्रसङ्गः, निमित्ताभावात् , पुरुषस्यैकस्य संसारं प्रत्यनिमित्तत्वात्। ज्ञानजनकत्वेन च शास्त्रं सार्थकम्। प्रकृतेरनादित्वेन सर्वदाऽपि सत्त्वात् तत्कृतो बन्धोऽस्ति। बन्धस्य सद्भावादेव तन्निवृत्तिरूपो मोक्षोऽप्यस्तीति न काचिदनुपपत्तिरिति भावः। न च प्रकृतिपुरुषयोरनादित्वे ईश्वरस्य जगत्कारणत्वासिद्धिः, प्रकृतिपुरुषाभ्यां निमित्ताभ्यामेवेश्वरस्य जगत्कारणत्वात्। वस्तुतो निर्विशेषचिन्मात्रेश्वरस्य जगत्कारणत्वासम्भवात्। न च प्रकृतिपुरुषयोरेव मुख्यकारणत्वमस्त्विति वाच्यम् ; प्रकृतेर्जडत्वात् , पुरुषस्य चोदासीनत्वात्। न च पुरुषसंसर्गात् प्रकृतेः, प्रकृतिसम्बन्धात् पुरुषस्य वा ईक्षणसम्भवात् तयोरेव मुख्यकारणत्वमिति वाच्यम् ; असङ्गस्य पुरुषस्य प्रकृतिसंसर्गायोगात् , प्रकृतिसंसृष्टस्य वा प्रकृतिपरवशत्वेन पुरुषस्य परिच्छन्नज्ञानस्य सृष्टिसंकल्पा- योगात् , तादृशपुरुषसम्बन्धेन प्रकृतेर्वा सृष्टिसङ्कल्पायोगात्। ईश्वरस्य तु वशीकृतमायत्वादपरिच्छिन्नज्ञानस्य सृष्टिसङ्कल्पोपपत्तिः। प्रकृतेरीश्वरचैतन्याभासेन १वृत्तिसम्भवेऽपि न सङ्कल्पयितृत्वं तस्याः, चेतनधर्मत्वादीक्षणस्य२। सति मुख्येक्षणे ईश्वरीये प्राकृतगौणे- ईश्वरस्य संसारहेतुत्वे स्वातन्त्यान्मुक्तानामपि ततः संसाराप्तेरनिषेधान्मोक्षशास्त्राप्रामाण्यान्न तस्यैव संसारहेतुतेत्याह— संसारस्येति। निर्निमित्तत्वं प्रकृतिद्वयापेक्षामृते परस्यैव निमित्तत्वमिति यावत्। किञ्च कार्यत्वे प्रकृत्योस्तदुदयात्पूर्वं बन्धाभावे तद्विश्लेषात्मनो मोक्षस्याभावात् कदाचिदुभयाभावे पुनस्तदप्रसङ्गान्न प्रकृतिद्वयस्य कार्यतेत्याह— बन्धेति। प्रकृत्योर्मूलकारणत्वे नानुपपत्तिरित्याह— नित्यत्व इति। स्वपक्षे दोषाभावं प्रश्नपूर्वकं प्रपञ्चयति— कथमित्यादिना। सम्भवः सत्ताप्रापको हेतुः। प्रकृतेरनादित्वे विकाराणां गुणानां १. वृत्तिरूपपरिणामसंभवेऽपीत्यर्थः। २. द्र.ब्र.सू. १-१-५.

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[६८९]]

वक्ष्यमाणान् विकारान् बुद्ध्यादिदेहेन्द्रियान्तान् गुणांश्च सुखदुःखमोहप्रत्ययाकारपरिणतान् विद्धि जानीहि प्रकृति- सम्भवान् प्रकृतिः ईश्वरस्य विकारकारणशक्तिस्त्रिगुणात्मिका माया, सा सम्भवो येषां विकाराणां गुणानां च तान् विकारान् गुणांश्च विद्धि प्रकृतिसम्भवान् १प्रकृतिपरिणामान्॥१९॥

क्षणस्वीकारस्यान्याय्यत्वाच्च। यदुक्तम् - प्रकृतिपुरुषौ प्रत्यकारणत्वादीश्वरस्य सर्वकारणत्वासिद्धिरिति, तन्न, सर्वं कार्यजातं प्रत्येव [कारणत्वात्] सर्वकारणत्वादीश्वरस्येति। नन्वसङ्गेश्वरस्य कथं मायित्वम्? ईश्वरस्यैव पुरुषत्वेन कथमीश्वरस्यापरिच्छिन्नज्ञानत्वम् , जीवस्य परिच्छिन्नज्ञानत्वं च? इति चेत् , नैष दोषः ; विद्यावस्थायामेवेश्वरः पुरुषो वाऽसङ्गः। अविद्यावस्थायां तु माय्येवेश्वरः, मायापरतन्त्र एव जीवश्च। विद्यावस्थायामेव पुरुष ईश्वरः, अविद्यावस्थायां तु पुरुष ईश्वराद् भिन्न एव। न चाविद्ययाऽपि कथमीश्वरस्य जीवत्वमिति वाच्यम् ; ‘मायायां सर्वसम्भवादि’ति न्यायात्। यदि वस्तुतो वयमीश्वरस्य जीवत्वं ब्रूमस्तर्हि कथमीश्वरस्य जीवत्वमिति चोद्येत, न तु तथा ब्रूमः, न हि रज्जोरविद्यया सर्पत्वं दृश्यमानं विप्रतिषिद्धम् , येनेश्वरस्याविद्यया दृश्यमानं जीवत्वं विप्रतिषिद्धं स्यात्। तस्मादनादिरपि प्रकृतिर्न जगत्कारणं जडत्वात् , ‘ईक्षतेर्नाशब्दम्’ इति सूत्राच्च। तथाऽनादिरपि जीवो न जगत्कारणम् , प्रकृतिपरतन्त्रत्वेनानीश्वरत्वात्। किन्त्वीश्वर एव वशीकृतप्रकृतिः सर्वज्ञः सर्वशक्तिः जगत्कारणम् , ‘यतो वे’त्यादिश्रुतेः, ‘जन्माद्यस्य यतः’ इति २स्मृतेश्च। एवं जगत्सृष्ट्यादिसमर्थत्वादेवास्येश्वरत्वव्यवहारः। ईश्वरो हि समर्थः। ईष्ट इतीश्वर इति व्युत्पत्तेः। अत एव निरीश्वरसाङ्ख्यवादस्या- श्रौतत्वादप्रामाण्यमयुक्तत्वाच्च। न चैवं भिन्नेश्वरयोगवादः प्रमाणमिति वाच्यम् ; जीवेश्वरभेदस्याविद्यया कल्पितत्वेनातात्त्विकत्वाद् अद्वैतस्यैव श्रौतत्वाद् युक्तत्वाच्च। तस्मादद्वैतवाद एव श्रुतियुक्त्यनुभवसिद्धत्वात् प्रमाणमिति सङ्क्षेपः। नन्वीश्वरप्रकृत्योर्नित्यत्वे कथं सर्वमेतदुपपद्यते? इत्याक्षिपति— कथमिति। तयोरेव संसारकारणत्वात् सर्वमुपपद्यत इत्यभिप्रेत्य तत्संसारकारणत्वमेव दर्शयति— विकारांश्चेत्यादिना। विकारांश्च गुणांश्चैव प्रकृतिसम्भवान् विद्धि। प्रकृतिर्मूलप्रकृतिः; विकारा महदादिप्रकृतिकार्याणि; बुद्धिशब्देन महत्तत्त्वस्य ग्रहणम्। आदिपदादहङ्कारपञ्चतन्मात्रदशेन्द्रियप्राणपञ्चकमनसां ग्रहणम्। देहः स्थूलस्तेन पञ्चभूतग्रहणम्। पञ्चभूतात्मकत्वात् तस्य। प्रतीयन्त इति प्रत्ययाः विषयाः। प्रत्यया ज्ञानानि, वृत्तय इति यावदिति वा। वक्ष्यमाणानिति। ‘कार्ये’त्युत्तरश्लोकेनेति भावः। सम्भवत्यस्मादिति सम्भवः, उत्पत्तिहेतुरित्यर्थः। प्रकृतेः सकाशात् सम्भवः उत्पत्तिर्येषां तानित्यपि वक्तुं शक्यम्। कथं प्रकृतिसम्भवत्वं तेषाम्? अत आह— प्रकृतिपरिणतानिति। मूलप्रकृतिरेकैव मृद्द्रव्यमेकं घटकपालकरकाद्याकारेणेव बुद्ध्यादिविकाराकारेण सुखदुःखादिगुणाकारेण च परिणतेत्यर्थः। गुणानां स्वरूपेण दुर्ज्ञेयत्वादाह— सुखाद्याकारपरिणतानिति। एतेन ‘तत् क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यदि’ति श्लोकप्रतिज्ञातार्थ उक्तप्रायः। सर्वविकारयुक्तं सर्वगुणयुक्तं च प्रकृतिलक्षणं क्षेत्रमेव। सर्वं कार्यं प्रकृतित एव जायत इति चेहोक्तत्वात्। ‘महाभूतानी’ति श्लोकेन तु सार्धेन क्षेत्रं पूर्वमेव दर्शितमिति बोध्यम्। न चैवं सर्वस्य जगतः प्रकृतिसम्भवत्वे कथमीश्वरस्य जगत्कर्तृत्वमिति वाच्यम् ; ईश्वरसङ्कल्पवशादेव तदीया प्रकृतिरियं जगदाकारेण परिणतेति जगत्कर्तृत्वमीश्वरस्य। यथा कुलालसङ्कल्पकृतिभ्यां घटाद्याकारपरिणामवत्यामपि मृदि घटादिकर्तृत्वं कुलालस्य, तद्वत्। न चैवं प्रकृतेरेव जगदुपादानत्वे ईश्वरस्याभिन्ननिमित्तोपादानत्वं न सङ्गच्छत इति वाच्यम् ; जगद्विवर्ताधिष्ठानत्वेन तादृशप्रकृत्यधिष्ठानत्वेन वा ईश्वरस्य कर्तृत्वोपादानत्वयोः सिद्धेः। अत एव ‘याभ्यां प्रकृतिभ्यामीश्वरो जगत्सृष्ट्यादिहेतु’रिति भाषितमाचार्यैः। च तत्कार्यत्वादात्मनो निर्विकारत्वं निर्गुणत्वं च सिध्यतीति भावः॥१९॥

१. ‘प्रकृतिपरिणतान्’ इति रा.पा.भाति। २. ‘जन्माद्यस्य यतः’ इति भागवतश्लोको ग्राह्यः स्मृतित्वोक्तेः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[अ. १३. श्लो. १९]] [[६९०]]

के पुनस्ते विकारा गुणाश्च प्रकृतिसम्भवाः?१— कार्येति। कार्यकरणकर्तृत्वे - कार्यं शरीरम् , करणानि च तत्स्थानि त्रयोदश। देहस्यारम्भकाणि भूतानि २पञ्च, विषयाश्च प्रकृतिसम्भवा विकाराः पूर्वोक्ता इह कार्यग्रहणेन गृह्यन्ते। गुणाश्च प्रकृतिसम्भवाः सुखदुःखमोहात्मकाः करणाश्रयत्वात् करणग्रहणेन गृह्यन्ते। तेषां कार्यकरणानां ननु ईश्वरस्य जगत्सृष्ट्यादिहेतुत्वे प्रकृतिरेवोपयुज्यते, प्रकृतिपरिणामत्वाज्जगतः, न तु पुरुष इति कथं ‘याभ्यां प्रकृतिभ्या’- मित्युक्तमिति चेत् , मैवम् ; भोक्तुरभावे भोग्यस्य जगतोऽप्यभावप्रसङ्गात् पुरुषस्य भोक्तृत्वं भोग्यजगत्सद्भावं प्रति निमित्तमिति पुरुष- स्यापि द्वारकारणत्वमुक्तमिति। ईश्वरः प्रकृतिद्वारा जगत् सृजति, तच्च सृष्टं जगत् पुरुषद्वारा भुङ्क्त इति प्रकृतिपुरुषाभ्यां जगद्धेतुत्वमीश्व- रस्येति भावः। यद्वा यत् पुरुषस्य स्वरूपभूतं कूटस्थचैतन्यं तत्रैव देहादिप्रपञ्चस्याविद्यया कल्पितत्वात् पुरुषस्यापि जगद्धेतुत्वमिति। न चैवमीश्वरस्य जगद्धेतुत्वाभ्युपगमभङ्गप्रसङ्गः, ईश्वरस्यैव कूटस्थत्वात्। अथवा देहादिरूपव्यष्टिप्रपञ्चाधिष्ठानं कूटस्थचैतन्यमन्तःकरणो- पहितत्वात् तस्य। समष्टिप्रपञ्चाधिष्ठानं तु ईश्वरचैतन्यं मायोपहितत्वात् तस्य। तथा च ईश्वरस्य स्वतःसर्वजगदधिष्ठानत्वम् , कूटस्थपुरुषद्वारा तु तत्तद्व्यष्टिदेहाद्यधिष्ठानत्वमिति नेश्वरस्य जगद्धेतुत्वाभ्युपगमविरोधः। नापि पुरुषस्य द्वारकारणत्वाभ्युपगमविरोध इति। यत्तु रामानुजः— विकारानिच्छाद्वेषादीन् , गुणानमानित्वादींश्चेति, तदयुक्तम् - इच्छादीनामपि गुणत्वादमानित्वादीनामपि विकारत्वाच्चान्यतरशब्देनैव तदुभयग्रहणसम्भवेनान्यतरशब्दनैरर्थक्यात्॥१९॥

कार्येति। शरीरं स्थूलम्। करणानि अन्तःकरणबहिष्करणानि। त्रयोदशेति। मनोबुद्ध्यहङ्कारैः सह ज्ञानकर्मेन्द्रियाणि दशेत्यर्थः। एकस्यैवान्तःकरणस्य मनआदिभेदेन त्रिविधत्वात् त्रयाणां तेषामन्तःकरणत्वेन ग्रहणम्। साधकतमं करणम्। श्रवणादिगमनादिमननादिक्रियासु प्रकृष्टोपकारत्वाच्छ्रोत्रादिपादादिमनआदीनां करणत्वम्। एतेषां त्रयोदशानामपि प्रकृतिकार्यत्वेन करणत्वेऽपि कार्यशब्देन ग्रहणमुपपन्नम्। भूतानि पृथिव्यादीनि। विषयाः शब्दादयः। एते प्रकृतिसम्भवा विकाराः ‘विकारांश्चे’ति पूर्वश्लोकोक्ताः। त एव विकारा इह कार्यशब्देन गृह्यन्ते। गृह्यतेऽनेनेति ग्रहणं शब्दः। प्रकृतिसम्भवा गुणाः पूर्वश्लोकोक्ताः सुखादय इह करणशब्देन गृह्यन्ते लक्षणयेत्याह— गुणाश्चेति। पूर्वोत्तरश्लोकयोः समानार्थत्वेन भाव्यत्वादिति भावः। अन्यथा कार्यशब्देन देहग्रहणे करणशब्देनेन्द्रियग्रहणे च सति विषयादिविकारग्रहणं सुखादिग्रहणं च न स्यात्। न चेष्टापत्तिः, पूर्वश्लोके तेषां सर्वेषामपि प्रकृतिसम्भवत्वेनोक्तत्वादिहापि तत्कर्तृत्वे प्रकृतिर्हेतुरिति वक्तव्यत्वात्। तदनुक्तौ सुखादीनां प्रकृत्यन्यकर्तृकत्वप्रसङ्गात्। कथं करणग्रहणेन गुणग्रहणम्? अत आह— करणाश्रयत्वादिति। सुखादयो ह्यन्तःकरणाश्रयाः। सुखादिवृत्तीनामन्तःकरणपरिणाम- विशेषरूपत्वात्। उत्पादकत्वं जननमिति यावत्। केन हेतुना कारणत्वम्? अत आह— आरम्भकत्वेनेति। तन्तुः पटस्येव, मृद् घटस्येवेति भावः। कर्तृत्वे हेतुत्वमित्यस्य कर्तृत्वमित्येव पर्यवसन्नार्थत्वादाह— कार्यकरणकर्तृत्व इति। अत एव ‘कार्यकरणकर्तृत्वे कारणं प्रकृतिं विदु’रिति भागवतं च। प्रकृतिपुरुषावनादी संसारकारणे इति पूर्वमुक्तम्। कथं तयोः संसारकारणत्वमिति प्रश्ने विकाराणां गुणानां प्रकृतेश्च स्वरूपमाकाङ्क्षाद्वारा निर्णेतुमुत्तरश्लोकपूर्वार्धं पातयति— के पुनरिति। पुरुषस्यानादित्वकृतं बन्ध- हेतुत्वमाह— पुरुष इति। पूर्वार्धं व्याचष्टे— कार्यमित्यादिना। ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं मनो बुद्धिरहङ्कारश्चेति त्रयोदश करणानि। तथापि भूतानां विषयाणां चाग्रहणात् कथं तेषां प्रकृतिकार्यतेत्याशङ्क्याह—देहस्येति। तथापि गुणानामिहाग्रहणान्न प्रकृतिकार्यत्वम्?

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥२०॥

१. ‘इत्याह—कार्येति।’ इति पा.। २. ‘पञ्च’ इति क्वचिन्न।

[[६९१]]

‘विकारांश्चे’त्यादिकमुक्तम्। तेन च प्रकृतेस्तावत् संसारकारणत्वं सिद्धमित्याह— संसारकारणमिति। देहादिप्रपञ्चस्यैव संसारत्वात् तत्प्रपञ्चारम्भकप्रकृतिः संसारकारणमित्यर्थः। यद् यस्य परिणामः, तत् तस्य कार्यम्। तत्र प्रथमान्तपदार्थः कार्यं विकारः, षष्ठ्यन्तपदार्थः कारणं विकारि। यथा मृदः परिणामो घटो मृदः कार्यमिति कार्यं घटो विकारः, कारणं मृत् तु विकारि । ताभ्यां च विकारविकारिवाचिभ्यां कार्यकारणशब्दाभ्यां पूर्वोक्तान्येव कार्यकरणानि विकारा गुणाश्चोच्यन्ते। ततश्च ‘कार्यकारणकर्तृत्व’ इति पाठेऽपि स एवार्थः। महदादीनामहङ्कारादीन् प्रति कारणत्वात् प्रकृत्यादीन् प्रति कार्यत्वाच्च कार्यकारणशब्दाभ्यां तद्ग्रहणसम्भवादिति भावः। अस्मिन्नेव पाठेऽर्थान्तरमाह— अथवेति। ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः॥’ इति साङ्ख्योक्तविधया षोडशविकाराणां दशेन्द्रियभूतपञ्चकमनसां कार्यशब्देन ग्रहणम्। मूलप्रकृतिं प्रति विकृतित्वेने- न्द्रियादीन् प्रति प्रकृतित्वेन च प्रकृतिविकृतिभूतानां महदहङ्कारपञ्चतन्मात्राणां सप्तानां कारणशब्देन ग्रहणम्। तेषां कर्तृत्वे सृष्टौ तु मूलप्रकृतिर्हेतुरित्यर्थः। केन रूपेणेत्यत आह— आरम्भकत्वेनैवेति। ननु प्रकृतिवत् पुरुषोऽपि किमारम्भकत्वेन संसारस्य कारणम्? यद्वा विवर्ताधिष्ठानत्वेनेति शङ्कायां विवर्ताधिष्ठानत्वेन सर्पस्य रज्जुवत् , संसारस्य पुरुषः कारणं भवत्येव। इह तु भोक्तृत्वेनापि कारणमेवेत्युच्यत इत्याह— पुरुषश्चेति। उपलब्धृत्वे ज्ञातृत्व इति यावत्। भोक्तृत्वे हेतुः भोक्तेत्यर्थः। ज्ञातेति यावत्। सुखदुःखयोः विषयभेदाद् बहुत्वमित्यभिप्रेत्य सुखदुःखानामित्युक्तम्। भोक्तुरभावे भोग्याभावाद् भोक्ता पुरुषः संसारकारणमिति भावः। ननु कार्यकरणकर्तृत्वमात्रेण प्रकृतेः, भोक्तृत्वमात्रेण पुरुषस्य च कथं संसारकारणत्वमित्याक्षिपति— कथमिति। समाधानं शङ्कायाः प्रवदामीति प्रतिजानाति— अत्रोच्यत इति। हेतवः कार्यकरणानि। फलानि सुखदुःखानि। सुखदुःखहेतुभूतकार्यकरणात्मना भाष्यार्कप्रकाशः षोडश विकाराः कार्यमिति। पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एकमन्तःकरणम् , पञ्च विषया इत्यर्थः। महदहङ्कारपञ्चभूततन्मात्राणीति सप्त। तेषां कर्तृत्व इति। तान् प्रति कर्तृत्वस्य हेतुराश्रयः इत्यर्थः॥२०॥

तत्राह—गुणाश्चेति। उक्तरीत्या निष्पन्नमर्थमाह—एवमिति। पाठान्तरमनूद्य व्याख्यापूर्वकमर्थाभेदमाह—कार्येत्यादिना। व्याख्यान्तर- माह— अथवेति। एकादशेन्द्रियाणि, पञ्च विषयाः इति षोडशसङ्ख्याको विकारोऽत्र कार्यशब्दार्थः, महानहङ्कारो भूततन्मात्राणीति प्रकृतिविकृतयः सप्त कारणम् , तेषामारम्भकत्वेन कर्तृत्वेन हेतुराश्रयो मूलप्रकृतिरित्यर्थः। उत्तरार्धस्य तात्पर्यमाह— पुरुषश्चेति। तस्य परमात्मत्वं व्यवच्छिनत्ति— जीव इति। तस्य प्राणधारणनिमित्तस्य तदर्थं चेतनत्वमाह— क्षेत्रज्ञ इति। तस्यानौपाधिकत्वं वारयति— भोक्तेति। तयोः संसारकारणत्वमुपपादयितुं शङ्कते— कथमिति। अन्वयव्यतिरेकाभ्यां तयोस्तथात्वमित्याह— अत्रेति। तत्र व्यतिरेकं कर्तृत्वमुत्पादकत्वं यत् तत् कार्यकरणकर्तृत्वं, तस्मिन् कार्यकरणकर्तृत्वे हेतुः कारणमारम्भकत्वेन प्रकृतिरुच्यते। एवं कार्यकरणकर्तृत्वेन संसारस्य कारणं प्रकृतिः। ‘कार्यकारणकर्तृत्वे’ इत्यस्मिन्नपि पाठे कार्यम् यद् यस्य (वि)परिणामः तत् तस्य कार्यं विकारः, विकारि कारणम्। तर्योर्विकारविकारिणोः कार्यकारणयोः कर्तृत्व इति। अथवा - षोडश विकाराः कार्यम् , सप्त प्रकृतिविकृतयः कारणम् , तान्येव कार्यकारणान्युच्यते। तेषां कर्तृत्वे हेतुः प्रकृतिरुच्यते आरम्भकत्वेनैव। पुरुषश्च संसारस्य कारणं यथा स्यात् , तदुच्यते— पुरुषो जीवः क्षेत्रज्ञो भोक्तेति पर्यायः। सुखदुःखानां भोग्यानां भोक्तृत्व उपलब्धृत्वे हेतुरुच्यते। कथं पुनरनेन कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च प्रकृतिपुरुषयोः संसारकारणत्वमुच्यत इति? अत्रोच्यते— कार्यकरणसुखदुःखरूपेण हेतुफलात्मना प्रकृतेः परिणामाभावे, पुरुषस्य च चेतनस्यासति तदुपलब्धृत्वे आनन्दगिरिकृतव्याख्या

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

[[अ. १३. श्लो. १९-२०]] [[६९२]]

कुतः संसारः स्यात्? यदा पुनः कार्यकरणसुखदुःखस्वरूपेण हेतुफलात्मना परिणतया प्रकृत्या भोग्यया पुरुषस्य तद्विपरीतस्य भोक्तृत्वेनाविद्यारूपः संयोगः स्यात् , तदा संसारः स्यादिति। अतो यत् प्रकृतिपुरुषयोः कार्यकरण- कर्तृत्वेन सुखदुःखभोक्तृत्वेन च संसारकारणत्वमुक्तम् , तद् युक्तमुक्तम्। कः पुनरयं संसारो नाम? सुखदुःखसम्भोगः संसारः। पुरुषस्य च सुखदुःखानां सम्भोक्तृत्वं संसारित्वमिति॥२०॥

कार्यकरणफलभूतसुखदुःखात्मना चेत्यर्थः। भोक्तृभोग्ययोरुभयोरभावे संसाररूपभोगस्य कुतः सद्भावः? न कुतोऽपीत्यर्थः। यद्यपि देहादिप्रपञ्च एव संसारस्तथापीह तद्भोगः संसार इत्युच्यते। ततश्च देहादिप्रपञ्चरूपसंसारं प्रति प्रकृतेरारम्भकत्वेन पुरुषस्य विवर्ताधिष्ठानत्वेन च कारणत्वमस्तु नाम। देहादिप्रपञ्चकृतसुखदुःखभोगरूपसंसारं प्रति कथं प्रकृतिपुरुषयोः कारणत्वम्? अत आह— यदेति। तद्विपरीतस्येति। प्रकृतेः परस्येत्यर्थः। भोक्तृत्वेन रूपेण संयोगः। सोऽयमसङ्गस्य पुरुषस्य कथमित्यत आह— अविद्यारूप इति। मिथ्याभूत इत्यर्थः। मायामयत्वादिति भावः। भोग्यभोक्तृभूतयोः प्रकृतिपुरुषयोः संयोगस्य भोगरूपसंसारं प्रति निमित्तत्वात् प्रकृतिवत्पुरुषोऽपि संसारस्य कारणमेवेत्यर्थः। प्रकृतिपुरुषयोः कार्यकरणकर्तृत्वेन सुखदुःखभोक्तृत्वेन च यत् संसारकारणत्वमुक्तं तद् युक्तमेवोक्तमित्यन्वयः। कः पुनरयं संसारः यत्कारणत्वं प्रकृतिपुरुषयोरिति पृच्छति— क इति। उत्तरमाह— संसारो नाम सुखदुःख- सम्भोग इति। उक्तलक्षणसंसारवत्त्वादेव पुरुषस्य संसारित्वव्यवहार इत्याह— पुरुषस्येति। सुखदुःखभोगरूपसंसारवत्त्वात् पुरुषः संसारीत्युच्यत इत्यर्थः। न चाविक्रियस्य पुरुषस्य कथं भोक्तृत्वमिति वाच्यम् ; मिथ्याभूतभोक्तृत्वे विवादायोगात्। ‘क्षेत्रज्ञं चापि मां विद्धी’त्यसंसारित्वं ह्यात्मनस्तत्त्वमित्युक्तम्। यत्तु रामानुजः - कार्यकरणानां क्रियाकारित्वे पुरुषाधिष्ठिता प्रकृतिरेव हेतुरिति। तत्तुच्छम् - प्रकृतिपरिणामभूतानां कार्यकर- णानामेव पुरुषाधिष्ठितानां क्रियाकारित्वे सम्भवति सति कोऽर्थः पुरुषाधिष्ठितप्रकृतेस्तद्धेतुत्ववर्णनेन? न च पुरुषाधिष्ठिता बुद्धिस्तद्धेतु- रिति वाच्यम् ; तस्या अप्यन्तःकरणत्वेन करणान्तर्गतत्वात्। न च पुरुषाधिष्ठिताज्ञानं तद्धेतुरिति वाच्यम् ; सुषुप्तावपि पुरुषाधिष्ठिता- ज्ञानसत्त्वेन कार्यकरणानां क्रियाकारित्वप्रसङ्गात्। किञ्च प्रकृतेः क्रियाकारित्वे यदेव हेतुस्तदेव पुरुषाधिष्ठितत्वं कार्यकरणानां क्रियाकारित्वेऽपि हेतुरिति कृत्वा अधिष्ठाता पुरुष एव कार्यकरणानां क्रियाकारित्वे हेतुः स्यात्। न चेष्टापत्तिः, कर्तृत्वे हेतुः प्रकृतिः, भोक्तृत्वे हेतुः पुरुष इति मूलोक्तार्थविरोधात्। न च सत्यपि मूलविरोधे ‘कर्ता शास्त्रार्थवत्त्वादि’ति सूत्रानुसारादयमर्थः कल्प्यत इति वाच्यम् ; ‘प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तदात्मानमकर्तारं स पश्यति॥’ इति, ‘प्रकृत्या क्रियमाणानि गुणकर्माणि सर्वशः। अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते॥’ इत्यादिशास्त्रादकर्तुरात्मनः कर्तृत्वं प्रतिपादयितुं न तत् सूत्रं शक्नुयात् , किन्त्वहङ्कार एव कर्तेति सूत्रकारस्याप्याशयः१। सूत्रकारगीताकारयोरेकत्वेन विरुद्धार्थकथनासम्भवात्। तस्मात् प्रकृतिरेव कर्त्री, पुरुष एव भोक्तेति स्थितम्। न च जडायाः प्रकृतेः कथं कर्तृत्वमिति वाच्यम् ; ईश्वरेक्षणवशात् तस्याः कर्तृत्वलाभात्। न चाविकारस्य पुरुषस्य कथं भोक्तृत्वमिति वाच्यम् ; साक्षित्वरूपभोक्तृत्वस्याविकारत्वात्। ननु सुखदुःखसाक्षात्काररूपभोगस्याविकारत्वेऽपि सुखदुःखानुभवरूप- भोगस्य सुख्यहं दुःख्यहमिति प्रतीतिसिद्धस्य कथं विकारत्वाभाव इति चेत् , सत्यं विकार एव सः। अविकारेऽपि पुरुषे स विकारोऽविद्यावशात् सम्भवत्येव, गगने नैल्यमिव। यथा अकर्तर्यपि पुरुषे ‘गन्ताऽहं ग्रहीताऽह’मित्यादिप्रतीतिसिद्धं कर्तृत्वमज्ञानात् भाष्यार्कप्रकाशः आनन्दगिरिकृतव्याख्या दर्शयति— कार्येति। न हि नित्यमुक्तस्यात्मनः स्वतः संसारोऽस्तीत्यर्थः। इदानीमन्वयमाह— यदेति। अन्वयादिफलमुपसंहरति— अत इति। आत्मनोऽविक्रियस्य संसरणं नोचितमित्याक्षिपति— कः पुनरिति। सुखदुःखान्यतरसाक्षात्कारो भोगः। स चाविक्रियस्यैव द्रष्टुः संसारः। तथाविधभोक्तृत्वमस्य संसारित्वमित्युत्तरमाह— सुखेति। श्लोकव्याख्यासमाप्तौ इतिशब्दः॥२०॥

१. आरोपितमेवात्मनः कर्तृत्वमभिप्रेतम् , ‘यथा च तक्षोभयथा’(ब्र.सू. २-३-४०) इत्यधिकरणे स्पष्टमेतत्।

[[६९३]]

सम्भवति, तद्वत्। अयमेवार्थ उत्तरश्लोके स्फुटीभविष्यति॥२०॥

पुरुष इति। यद् यस्मादित्यर्थः। तस्मादिति शेषः। तस्य पुरुषस्य तत् संसारित्वं प्रति किं वा निमित्तम्। यद्वा तत् संसारित्वं किन्निमित्तं किंहेतुकमिति बहुव्रीहिः। इति शङ्कायां प्राप्तायां सत्यामिति शेषः। उच्यते उत्तरमिति शेषः। हि यस्मात् पुरुषः प्रकृतिस्थो भवति, तस्मात् प्रकृतिजान् गुणान् भुङ्क्ते अनुभवति। कथं पुरुषस्य प्रकृतिस्थत्वम्? अत आह— प्रकृतिमिति। गतः प्राप्तः। अहमेव प्रकृतिरिति प्रकृतितादात्म्यमापन्न इत्यर्थः। यद्यपि पुरुषस्य प्रकृतौ तत्कार्ये वा न साक्षादात्मभावस्तथापि अहमज्ञ इति, अहं कर्तेति, अहं मनोमीति३, अहं निश्चिनोमीति, अहं पश्यामीति, अहं स्पृशामीति, अहं वदामीति, अहं जिघ्रामीति, अहं गच्छामीत्येवमादिरूपेण तद्धर्मानात्मन्यध्यस्यतीति बोध्यम्। क्वचित् कार्यविशेषे देहादौ तु साक्षादेवात्मभावोऽध्यस्यते। देवोऽहं, मनुष्योऽहमित्यादिप्रतीतेः। एवमनात्मभिः प्रकृतितत्कार्यादिभिस्तद्धर्मैश्च आत्मन्यध्यस्तैर्भवत्यात्मनः संसारो मिथ्याभूत इति सिद्धमध्यासस्य संसारनिमित्तत्वम्। शरीरादेरन्नादिभोगवन्नात्मनः सुखादिभोगः, किं तर्हि? चक्षुरादेर्घटाद्युपलब्धिवदात्मनः सुखाद्युपलब्धिरेवेत्याह— उपलभत इत्यर्थ इति। जानातीति यावत्। वस्तुतः सुखादिसाक्षिभूतस्यात्मनः सुखादिभोगासम्भवादिति भावः। सुखाकारेण सत्त्वगुणस्य, दुःखाकारेण रजोगुणस्य, मोहाकारेण तमोगुणस्य च परिणामात् सुखादीनां प्रकृतिजगुणत्वेन व्यवहारः। पण्डित इति। सत्त्वगुणपरिणामः पाण्डित्यमिति बोध्यम्। यद्यपि सुखदुःखादिसाक्षात्कर्ता हि पुरुषः सुखमहं जानामि, दुःख- महं जानामीत्येवं प्रतीयात् , न तु सुख्यं दुःख्यहमित्येवम् , सुखदुःखादेरन्तःकरणधर्मत्वेन पुरुषस्य तद्वत्ताभावात्। तथाप्यनात्मतादा- त्म्याध्यासवशात् सुख्यहं दुःख्यहमित्येवं प्रत्येति। न तु सुखमहं जानामीत्येवमिति भावः। यद्वा भुङ्क्ते उपलभते, अनुभवतीति यावत्। अनुभवप्रकारमेव दर्शयति— सुखीत्यादिना। सुखी, दुःखी, मूढः, पण्डितोऽहमित्येवं प्रकृतिजान् गुणान् भुङ्क्त इत्यन्वयः। पुरुषस्य संसारं प्रति नाविद्यामात्रं कारणं, नापि तत्कार्यभूताः सुखदुःखादयः कारणं, नापि तत्साक्षात्कारः कारणं, सुषुप्तौ यथोक्तसर्वसत्त्वेऽपि पुरुषस्य संसारादर्शनात्। किन्तु अध्यास एव कारणमित्याह— सत्यामित्यादिना। अविद्यायां सत्यामपि न सा प्रधानकारणं, किन्त्वन्यदेवेत्येतदर्थमपिशब्दग्रहणम्। भुज्यमानेषु ज्ञायमानेषु गुणेषु यः पुरुषस्य आत्मभावरूपः सङ्गः, स पुरुषस्य जन्मनः संसारस्य प्रधानं कारणम्। अविद्यादयस्त्वप्रधानं कारणमिति भावः। अविद्याद्यभावेऽध्यासायोगात्। आत्मभावः आत्मबुद्धिः। ममेमे गुणाः इति भाष्यार्कप्रकाशः पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥२१॥

श्लोकान्तरं प्रश्नोत्तरत्वेनावतारयति— यदिति। निमित्तं वक्तुमादौ संसारित्वमस्याविद्यैक्याध्यासादित्याह— पुरुष इति। यस्मात् प्रकृतिमात्मत्वेन गतः, तस्माद् भुङ्क्त इति योजना। गुणविषयं भोगमभिनयति— सुखीति। अविद्याया भोगहेतुत्वात् किं कारणान्वेषणये- त्याशङ्क्याह— सत्यामपीति। सङ्गस्य जन्मादौ संसारे प्रधानहेतुत्वे मानमाह— स यथेति। उक्तेऽर्थे द्वितीयार्धमवतार्य व्याचष्टे— यत् पुरुषस्य सुखदुःखानां भोक्तृत्वं संसारित्वमित्युक्तम् , तस्य तत् किन्निमित्तमिति? उच्यते— पुरुष इति। पुरुषो भोक्ता प्रकृतिस्थः प्रकृतौ अविद्यालक्षणायां कार्यकरणरूपेण परिणतायां स्थितः प्रकृतिस्थः, प्रकृतिमात्मत्वेन गत इत्येतत् ; हि यस्मात् तस्माद् भुङ्क्ते उपलभत इत्यर्थः; प्रकृतिजान् प्रकृतितो जातान् सुखदुःखमोहाकाराभि- व्यक्तान् गुणान् ‘सुखी, दुःखी, मूढः, पण्डितोऽह’मित्येवम्। सत्यामप्यविद्यायां सुखदुःखमोहेषु गुणेषु भुज्यमानेषु यः सङ्गः आत्मभावः, १संसारस्य स प्रधानं कारणं जन्मनः, ‘स यथाकामो भवति तत्क्रतुर्भवति’२ (बृ.उ. ४.४.५) आनन्दगिरिकृतव्याख्या अ. १३. श्लो. २०-२१ ] १. ‘संसारस्य’ इति क्वचिन्न। ‘स प्रधानं कारणमस्य पुरुषस्य जन्मनः’ इति पा.। २. ‘यत्क्रतुर्भवति तत् कर्म कुरुते यत् कर्म कुरुते तदभिसंपद्यते’ इति श्रुतिशेषः। ३. ‘मन्वे’ इति युक्तम्।

[[६९४]]

गुणानामात्मन्यध्यास इति यावत्। आत्मशब्दोऽत्रात्मीयवाची। इयं च गुणेष्वात्मीयबुद्धिरुपलक्षणं गुणवत्यन्तःकरणे आत्मबुद्धेः। धर्माध्यासवद् धर्म्यध्यासस्यापि संसारकारणत्वाद् धर्म्यध्यासपूर्वकत्वाच्च धर्माध्यासस्य। किन्तु स च धर्म्यध्यास इह न साक्षादुप- लभ्यते, ‘अहं मनः’ इति प्रतीत्यभावात्। ततश्च धर्माध्यासेनानुमीयते। अत एव धर्माध्यास एव साक्षादुपलभ्यमानः संसारहेतुत्वेन भाष्ये निर्दिष्ट इति बोध्यम्। सङ्गस्य संसारहेतुत्वे श्रुतिं प्रमाणयति— स इति। स पुरुषो यथाकामो यादृशकामो भवति तत्क्रतुस्तादृशकामप्रदक्रतुकर्ता भवति। स्वर्गकामो ज्योतिष्टोमं करोति, ४पशुकामः कारीरेष्टिमित्येवं काम्येषु स्वर्गादिषु यः पुरुषस्य ममायं भूयादिति सङ्गः, स एव यज्ञाद्यनुष्ठापनद्वारा देवादिजन्मप्राप्तिलक्षणसंसारहेतुरिति श्रुत्यभिप्रायः। अस्य सदसद्योनिजन्मसु गुणसङ्गः कारणम्। सद् उत्कृष्टं देवादिशरीरम् , असद् निकृष्टं पश्वादिशरीरम् , तयोर्योनयः उपस्थेन्द्रियाधिष्ठानानि गुदानि, तद्युक्ता गर्भकोशा वा, तासु जन्मानि उत्पत्तयः। तेष्विति विषयसप्तमी। अस्येति। पुरुषानुभवसिद्धस्येत्यर्थः। गुणसङ्गः सत्त्वादिगुणयुक्तः सङ्गः कामः। सत्त्वगुणवशात् पुरुषो मम देवयोनिजन्म भूयादिति कामयते, रजोगुणवशात्तु मम मनुष्यजन्म भूयादिति, तमोगुणवशात्तु मम पशुजन्म भूयादिति। गुणपरतन्त्रो ह्यज्ञो जीवः स्वानिष्टमपि काङ्क्षत्येव तत्रेष्टबुद्ध्या - यथा कर्मपरतन्त्रः पुरुषः स्वानिष्टमपि परद्रव्यापहारादिकं काङ्क्षति, यथा वा रुग्णः स्वानिष्टमपि चूतफलादिकम् , तद्वत्। एवं कामयमानश्च स स्वकामानुगुण्येन तत्तज्जन्म प्रतिपद्यत इति गुणप्रयुक्तो देवादियोनिजन्मसङ्ग एव पुरुषस्य संसारकारणमित्यर्थः। पुण्यमयत्वाद् देवादियोनयः सद्योनयः। पापमयत्वात् पश्वादियोनयो ऽसद्योनयः। पुण्यपापोभयात्मिकास्तु मनुष्ययोनयः। सदसद्योनिष्विव मनुष्ययोनिष्वपि सङ्गसम्भवात् तासामपीह ग्रहणमित्याह— सामर्थ्यादिति। सदसद्योनिग्रहणबलादित्यर्थः। यद्वा समस्तपदसामर्थ्यादिति। सच्च तदसच्च सदसत् , तस्य योनिः सदसद्योनिरिति समासे कृते उभयात्मकमनुष्ययोन्यर्थलाभादिति भावः। अविरुद्धा इति। पुण्यपापोभयात्मकत्वादिति भावः। पुण्ययोनयः पापयोनयश्च परस्परं विरुद्धाः पुण्यपापयोर्विरुद्धत्वात्। मनुष्ययोनयस्त्वविरुद्धा इत्यभिसन्धिः। यद्वा अविरुद्धाः नोत्कृष्टा नाप्यपकृष्टाः, किन्तु समाना इत्यर्थः। फलितं वदामीत्याह— एतदिति। प्रकृतिस्थत्वम् आत्मानात्मनोस्तादात्म्याध्यासः, अविद्या, गुणेषु सङ्गः आत्मन्यनात्म- धर्माध्यासः, कामः स्वर्गादिकामना इत्येतच्चतुष्टयं संसारस्य कारणमित्येतदुक्तं भवतीत्यन्वयः। गुणसङ्गशब्दस्य द्वेधाऽर्थवर्णनाद् धर्माध्यासकामयोः सिद्धिः। प्रकृतिस्थ इति पदेन प्रकृतेरपि कारणत्वस्य सूचितत्वाद् धर्म्यध्यासाविद्ययोः सिद्धिरिति विवेकः। ननु किमर्थमुक्तं संसारकारणम्? अत आह— तच्चेति। संसारकारणं तच्छब्दार्थः। अस्य च संसारस्येत्यर्थः। सवैराग्यसंन्यासं वैराग्य- तदेतदित्यादिना। साध्याहारं योजनान्तरमाह— अथवेति। सदसद्योनीर्विविच्य व्याचष्टे— सद्योनय इति। योनिद्वयनिर्देशान्मध्यवर्तिन्यो मनुष्ययोनयोऽपि ध्वनिताः इत्याह— सामर्थ्यादिति। सङ्गस्य संसारकारणत्वे नाविद्यायास्तत्कारणत्वम् , एकस्मादेव हेतोस्तदुपपत्तेरि- त्याशङ्क्याह— एतदिति। अविद्या उपादानम् , सङ्गो निमित्तमित्युभयोरपि कारणत्वं सिध्यतीत्यर्थः। द्विविधहेतूक्तेर्विवक्षितं फलमाह— तच्चेति। सासङ्गस्याज्ञानस्य स्वतोऽनिवृत्तेस्तन्निवर्तकं वाच्यमित्याशङ्क्याह— अस्येति। वैराग्ये सति संन्यासः, तत्पूर्वकं च ज्ञानं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. अवरुद्धाः संगृहीता इत्यर्थः। ‘अविरुद्धाः’ इति पा.।२. ‘प्रकृतितत्त्वाख्या’ इति पा.। ३. ज्ञाते हि तत् परिवर्जयितुं शक्यमिति भावः। ४. ‘पशुकामः चित्रेष्टिं, वृष्टिकामः कारीरीष्टिम्’ इति पाठः संभाव्यते। इत्यादिश्रुतेः। तदेतदाह— कारणं हेतुः गुणसङ्गो गुणेषु सङ्गोऽस्य पुरुषस्य भोक्तुः, सदसद्योनिजन्मसु सत्यश्चासत्यश्च योनयः सदसद्योनयः, तासु सदसद्योनिषु जन्मानि सदसद्योनिजन्मानि, तेषु सदसद्योनिजन्मसु विषयभूतेषु कारणं गुणसङ्गः। अथवा सदसद्योनिजन्मसु अस्य संसारस्य कारणं गुणसङ्गः इति संसारपदमध्याहार्यम्। सद्योनयो देवादियोनयः, असद्योनयः पश्वादियोनयः। सामर्थ्यात् सदसद्योनयो मनुष्ययोनयोऽप्यवरुद्धाः१ द्रष्टव्याः। एतदुक्तं भवति—२प्रकृतिस्थत्वाख्याऽविद्या, गुणेषु च सङ्गः कामः संसारस्य कारणमिति। तच्च परिवर्जनायोच्यते३। अस्य च

[[६९५]]

निवृत्तिकारणं १ज्ञानं सवैराग्यसंन्यासं गीताशास्त्रे प्रसिद्धम्। तच्च ज्ञानं २पुरस्तादुपन्यस्तं क्षेत्रक्षेत्रज्ञविषयम्। ‘यज्ज्ञात्वाऽमृतमश्नुते’ इत्युक्तं चान्यापोहेन, अतद्धर्माध्यारोपेण च॥२१॥ संन्याससहितं ज्ञानं निवृत्तिकारणम्। किं तज्ज्ञानम्? अत आह— गीताशास्त्रे प्रसिद्धमिति। गीताशास्त्रे कुत्र प्रकरणे प्रसिद्धम्? अत आह— पुरस्तादिति। किंविषयं तज्ज्ञानम्? अत आह— क्षेत्रेति। ननु पुरस्तादुपन्यस्तस्य क्षेत्रक्षेत्रज्ञविषयस्य ज्ञानस्य संसार- निवृत्तिकारणत्वं कुत्रोक्तम्? अत आह— यज्ज्ञात्वेति। अमृतं मोक्षो हि संसारनिवृत्तिः। दृश्यं क्षेत्रं नाहं, क्षेत्रज्ञ ईश्वर एवाहमिति ज्ञानात् सर्वसंसारनिवृत्तिरविद्याकल्पितत्वात् संसारस्य पुरुषे, रज्जौ सर्पवदिति भावः। यज्ज्ञात्वेति ज्ञेयं कथमुक्तम्? अत आह— अन्यापोहेनेति। अन्यापोहोऽतन्निरसनम् , तेन ‘न सत्तन्नासदुच्यते’ इति निषेधमुखेनेत्यर्थः। प्रकारान्तरमाह—[अ]तद्धर्मेति। सर्वतः पाणिपादं तदित्यादिरूपेणेति भावः। यत्तु रामानुजः - प्रकृतिसंसर्गवशात् पुरुषस्य सत्य एव बन्धः, प्रकृतिसंसर्गस्य गुणसङ्गो हेतुः। स च बीजाङ्कुरन्यायात् प्रवाहानादिः। अमानित्वादिभिस्तु गुणसङ्गो निवर्तत इति। तत्तुच्छम् , ‘असङ्गो ह्ययं पुरुष’ इति श्रुतेरसङ्गस्य पुरुषस्य प्रकृतिसङ्गः सत्यः कथं भवितुमर्हति? किं व्योम्नः सत्यः स्यान्नैल्यगुणसङ्गः? यदि प्रकृतिः सत्या स्यात् , तर्हि पुरुषस्य तत्सङ्गः सत्यः स्यात्। न हि प्रकृतिः सत्या, ‘एकमेवाद्वितीयं ब्रह्मे’ति श्रुत्या, ‘नेह नाना’ इत्यादिश्रुत्या च ब्रह्मणि द्वितीयवस्त्वभावात्। कथं प्रकृतेरेवासत्यत्वे सत्सङ्गः सत्यः स्यात्? एवं प्रकृतिसङ्गस्यैवासत्यत्वे तत्प्रयुक्तगुणसङ्गस्य बन्धस्य वा कथं सत्यत्वम्? किञ्च प्रकृतिसङ्गप्रयुक्तस्य गुणसङ्गस्य प्रकृतिसङ्गं प्रति हेतुत्वं तु सुतरामयुक्तम्। न च बीजाङ्कुरादिप्रसङ्गः। प्रकृतिसङ्गस्यानादित्वाद् , गुणसङ्गस्य सादित्वाच्च। न च प्रकृतिरेवानादिः, तत्सङ्गस्तु सादिरेवेति वाच्यम् ; अनाद्योः प्रकृतिपुरुषयोरन्योन्यसङ्गरहितयोः सत्त्वे प्रमाणाभावात्। सत्त्वे वा पश्चात् तत्सङ्गहेत्वभावेनासिद्धेः सङ्गस्य। न चाज्ञानं सङ्गहेतुरस्तीति वाच्यम् ; अज्ञानस्यैव प्रकृतित्वात्। प्रकृतेरन्यत्वे चाज्ञानस्य तदज्ञानपुरुषयोः सङ्गोऽस्ति वा न वा? आद्ये - कस्तत्सङ्गहेतुः? द्वितीये - सङ्गहेत्वभावे सङ्गरूपकार्यस्य सिद्धिः कथम्? यद्यज्ञानपुरुषयोरन्यः सङ्गहेतुः स्यात् , तेन सह पुरुषस्य सङ्गे को हेतुः? एवमनवस्थादोषप्राप्तिः। न च तत्परिहारायाज्ञानपुरुषयोः सङ्गं प्रत्यज्ञानमेव हेतुरिति वाच्यम् ; स्वसङ्गं प्रति स्वस्यैव हेतुत्वे आत्माश्रयादिदोषप्रसङ्गात्। तस्मादनादिरेव प्रकृतिपुरुषसङ्गः। उक्तं हि ‘अविद्यातच्चितोर्योगः षडस्माकमनादयः’ इति। एवमनादिरयं प्रकृतिसङ्गो गुणसङ्गस्य हेतुरेव। प्रकृतिपुरुषसङ्गजन्यत्वाद् गुणानां तद्द्वारा तत्सङ्गस्य च तज्जन्यत्वात्। एवं सति गुणसङ्गः प्रकृतिपुरुषसङ्गहेतुरिति कथनं तु मृदुत्पत्तिं प्रति घटो हेतुरिति वाक्यवत् परिहासास्पदमेव। यच्चानेनोक्तम् - अमानित्वादिभिः सत्योऽपि बन्धो निवर्तत इति, तदयुक्तम् - सत्यस्य क्वापि निवृत्त्यदर्शनात् , निवर्तमानस्य सत्यत्वादर्शनाच्च। न च दण्डप्रतिहत्या सत्योऽपि सर्पो निवर्तत एव, तया तस्य मरणदर्शनादिति वाच्यम् ; तत्सर्पसत्यत्वस्य विप्रतिपन्नत्वात्। सम्प्रतिपन्नं हि दृष्टान्ततया वाच्यम्। न च तव मते ब्रह्मान्यस्य सर्वस्याप्यसत्यत्वाद् दृष्टान्तासिद्धिरिति वाच्यम् ; तथा दृष्टान्ताभावादेव सर्वं मिथ्येत्यस्माभिरुच्यमानत्वात्। श्रुतियुक्त्यनुभवविरुद्धस्य चार्थस्याग्राह्यत्वात्। श्रुतिस्तावत् ‘यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्’ इति, ‘तत्सत्यं स आत्मा तत्त्वमसि’ ‘अतोऽन्यदार्तम्’ इति च ब्रह्मणः सत्यत्वम् , अन्यस्य च मिथ्यात्वं ब्रूते। युक्तिश्च ब्रह्म सत्यं, त्रिकालाबाध्यत्वाद् , व्यतिरेकेण घटवत् , जगन्मिथ्या, प्रतीतिसमयनियतसत्ताकत्वात् , स्वप्नरथादिवदि- न्द्रजालवच्चेति व्यतिरेकदृष्टान्तप्रयोगात्मिका बोध्या। सति त्वन्वयदृष्टान्ते सम्प्रतिपन्ने ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्यस्मदभ्युपगमो सासङ्गाज्ञाननिवर्तकमित्यर्थः। उक्ते ज्ञाने मानमाह—गीतेति। अध्यायादौ चोक्तं ज्ञानमुदाहृतमित्याह—तच्चेति। तदेव ज्ञानं ‘यज्ज्ञात्वे’- त्यादिना ‘न सत्तन्नासदि’त्यन्तेनान्यनिषेधेन, ‘सर्वतःपाणिपाद’मित्यादिना चातद्धर्माध्यासेनोक्तमित्याह— यज्ज्ञात्वेति॥२१॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘ज्ञानवैराग्ये ससंन्यासे’ इति पा.। २. ‘पुरस्तादुपन्यस्तं क्षेत्रक्षेत्रज्ञविषयम्— ‘यज्ज्ञात्वाऽमृतमश्नुते’ इति। उक्तं चान्यापोहेन’ इति योजनान्तरम्।

[[अ. १३. श्लो. २१]] [[६९६]]

१. तदेवं प्रकृतिमिथ्यातादात्म्यात्पुरुषस्य संसारो न स्वरूपेणेत्युक्तम्। कीदृशं पुनस्तस्य स्वरूपमित्याकाङ्क्षायां तस्य स्वरूपं साक्षान्निर्दिशतीत्यर्थः। एतेन पूर्वश्लोको जीवपरः, अयं तु परमात्मपर इति अपास्तम्। २. अत्र हेत्वसिद्धिः बाधश्च, ज्ञाननिवर्त्यत्वबोधकश्रुत्यादिना जगतो ब्रह्मज्ञानबाध्यत्वादिति बोध्यम्। प्रलयकालसत्त्वं बाधात्पूर्वकालिकमिति बाध्यत्वेऽप्यविरुद्धम्। १तस्यैव पुनः साक्षान्निर्देशः क्रियते— उपद्रष्टेति। उपद्रष्टा समीपस्थःसन् द्रष्टा स्वयमव्यापृतः, यथा ऋत्वि- व्याहन्येत। न च जगत् सत्यं प्रतीयमानत्वाद् ब्रह्मवदिति वाच्यम् ; ब्रह्मणि हेत्वसिद्धेः। न हि ब्रह्मणो ज्ञेयत्वमस्ति, ज्ञानस्वरूपत्वात् तस्य। धर्मादिवच्छास्त्रैकगम्येऽतीन्द्रिये ब्रह्मवस्तुनि प्रतीयमानत्वायोगात्। यदिन्द्रियगम्यं तद्धि प्रतीयमानं सुखादिकं घटादिकं च। ब्रह्म तु न चक्षुरादिभिर्दृश्यते, नापि मनसा चिन्त्यते, ‘अप्राप्य मनसा सह’ इति श्रुतेः, ‘यत्तदद्रेश्यमग्राह्यम्’ इति श्रुतेश्च। तस्मात् प्रतीतिरूपे ब्रह्मणि हेत्वसिद्धिः। ननु जगत् सत्यं, त्रिकालाबाध्यत्वाद् , ब्रह्मवदिति प्रयोगः। न च हेत्वसिद्धिः पक्षे, प्रलयेऽपि सूक्ष्मरूपेण जगतः सत्त्वादिति चेत् , मैवमपि२, किं स्थूलं जगत् त्रिकालाबाध्यमुत सूक्ष्मम्? नाद्यः, तस्य प्रलयेऽसत्त्वात्। नान्त्यः, तस्य प्रपञ्चकालेऽसत्त्वात्। न च स्थूलसूक्ष्मोभयात्मकं जगत् सत्यमिति वाच्यम् ; उभयात्मकजगत एवासिद्धेः। न हि स्थूलं जगत् सूक्ष्मात्मकं सूक्ष्मं जगत् स्थूलात्मकं वा भवेत्। स्थूलसूक्ष्मत्वयोर्विरुद्धधर्मयोर्युगपत्सामानाधिकरण्यायोगात्। न च— प्रकृतिः सत्या, त्रिकालाबाध्यत्वाद् , ब्रह्मवदिति— वाच्यम् ; तत्रापि किं स्थूला प्रकृतिः सत्या? उत सूक्ष्मा? आद्ये - प्रलये तदभावान्न सत्यत्वम्। द्वितीये - प्रपञ्चे तदभावादिति। न चैवं स्थूलं ब्रह्म सत्यं, किं[किंवा] सूक्ष्ममिति विकल्प्यत इति वाच्यम् ; ब्रह्मणि स्थूलत्वाद्यभावात्। ‘अस्थूलमनण्वह्रस्वम्’ इति श्रुतेः। वस्तुतस्तु मुक्तौ प्रकृतेस्तत्कार्यस्य वा असत्त्वान्न कालत्रयाबाध्यत्वलक्षणं सत्यत्वं तस्यास्तस्य वेति बोध्यम्। एवं प्रकृति- तत्कार्ययोरसत्यत्वे सिद्धे तत्प्रयुक्तगुणसङ्गस्य बन्धस्य वा सिद्धमेवासत्यत्वमेवं बन्धस्यासत्यत्वादेव ज्ञानात् तन्निवृत्तिः। ‘यज्ज्ञात्वा ऽमृतमश्नुते’ इति ह्युक्तम्। न हि ज्ञानेन निवर्तमानस्य क्वापि सत्यत्वं दृष्टम्। त्वदभिप्रायानुसारेणापि सत्यसर्पस्य ज्ञानादनिवृत्तेः रज्जुसर्पस्यैव रज्जुज्ञानान्निवृत्तेः। न चामानित्वादिसाधनैर्निवर्तत इति वाच्यम् ; अमानित्वादयो हि ज्ञानसाधनानि, न तु मोक्षसाधनानि। ततश्चामानित्वादिसाधनजन्यज्ञानादेव बन्धनिवृत्तिः। ‘एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते’ इति ह्युक्तम्। यदप्यनेनोक्तम् - सदसद्योनिजन्मस्वित्यस्य साध्वसाधुषु योनिष्विति, तदप्ययुक्तम् - योनिगतसाधुत्वासाधुत्वयोर्योन्याश्रय- शरीरगतसाधुत्वासाधुत्वप्रयुक्तत्वेन तद् विहायैतत्कल्पनस्यायुक्तत्वात्। न हि योनीनां स्वतः साधुत्वासाधुत्वे स्तः। मनुष्यपश्वादियोनीनां सर्वासामपि मलादिदूषितत्वांशे एकत्वादिति॥२१॥

उपद्रष्टेति। तस्यैव पुरुषस्य पुनः साक्षात् स्वेन रूपेणेत्यर्थः। एतेन पुरुषस्य पूर्वश्लोकोक्तं संसारित्वमाध्यासिकरूपमेव, न तु स्वाभाविकमिति सूचितम्। निर्देशः प्रतिपादनं क्रियते उपद्रष्टेति श्लोकेनेति भावः। अस्मिन् देहे वर्तमानः परः पुरुषः उपद्रष्टेति, अनुमन्तेति, भर्तेति, भोक्तेति, महेश्वर इति, परमात्मेति चापि, श्रुताविति शेषः; उक्तो भवति। उप समीपे पश्यतीत्युपद्रष्टा। न तु किमपि करोतीत्याह— स्वयमिति। अव्यापृतः व्यापाररहितः। उदासीनत्वे सति द्रष्टृत्वमुपद्रष्टृत्वम् , साक्षित्वमिति यावदिति भावः। न च सन्निहितत्वमपि लक्षणे निवेशनीयमिति वाच्यम् ; असन्निहितस्य दर्शनायोगात्। आत्मनश्च नित्यसन्निहितत्वात्। एवंविधस्योप- प्रकृतस्यैव मोक्षहेतोर्ज्ञानस्य साक्षान्निर्देशायोत्तरश्लोकमुत्थापयति— तस्येति। कार्यकरणानां व्यापारवतां समीपे स्थितः सन्निधिमात्रेण तेषां साक्षीत्येवमर्थत्वेन उपद्रष्टेति पदं व्याचष्टे— समीपस्थ इति। लौकिकस्येव द्रष्टुरस्यापि स्वव्यापारविशिष्टतया निष्क्रिय- त्वविरोधमाशङ्क्याह— स्वयमिति। स्वव्यापारादृते सन्निधिरेव द्रष्टृत्वम्। दृष्टान्तेन स्पष्टयति— यथेति। उपद्रष्टेत्यस्यार्थान्तरमाह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वरः। परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः॥२२॥

[[६९७]]

ग्यजमानेषु यज्ञकर्मव्यापृतेषु तटस्थोऽन्योऽव्यापृतो यज्ञविद्याकुशल ऋत्विग्यजमानव्यापारगुणदोषाणामीक्षिता, तद्वत् कार्यकरणव्यापारेष्वव्यापृतोऽन्यः तद्विलक्षणः तेषां कार्यकरणानां सव्यापाराणां सामीप्येन द्रष्टा उपद्रष्टा। अथवा देहचक्षुर्मनोबुद्ध्यात्मानो द्रष्टारः; तेषां बाह्यो द्रष्टा देहः, तत आरभ्यान्तरतमश्च प्रत्यक्समीप आत्मा द्रष्टा। यतः परोऽन्तरतमो नास्ति द्रष्टा, सोऽतिशयसामीप्येन द्रष्टृत्वादुपद्रष्टा स्यात्। यज्ञोपद्रष्टृवद्वा सर्वविषयीकरणाद् उपद्रष्टा। द्रष्टृत्वे दृष्टान्तमाह—यथेति। तटस्थः समीपस्थः। यज्ञकर्मस्वव्यापृत इति यावत्। क्रियानन्वयित्वं हि तटस्थत्वम्। तटस्थशब्दार्थं स्वयमेवाह—अव्यापृत इति। यद्वा समीपस्थत्वमात्रमेव तटस्थत्वमिह विवक्षितम् , ततो नाव्यापृतपदस्य पुनरुक्तिः। यज्ञदर्शनार्थ- मागतस्य लोकजनस्याज्ञस्य व्यावृत्तये आह— यज्ञेति। ऋत्विजो यजमानस्य च ये व्यापारास्तेषु वर्तमानानां गुणानां दोषाणां च ईक्षिता ज्ञाता। एवंविधो यथा यज्ञकर्मण्युपद्रष्टा, तद्वत्। प्रकृतमाह— कार्येति। अन्यः कार्यकरणेभ्यः ऋत्विग्यजमानस्थानीयेभ्यः परः। तेभ्यः कार्यकरणेभ्यो विलक्षणः। सामीप्येन समीपस्थित्येत्यर्थः। द्रष्टा साक्षात्कर्ता। कार्यकरणेषु कर्मसु व्यापृतेषु सत्सु स्वयं समीपस्थःसन् तत् सर्वं साक्षात्करोतीत्यर्थः। सूर्यः सव्यापारं जगदिवेति भावः। अर्थान्तरमाह— अथवेति। तेषामिति। मध्य इति शेषः। तत आन्तरं द्रष्टृ चक्षुः, तत आन्तरतरं मनः, तत आन्तरतमा द्रष्ट्री बुद्धिः, ततोऽप्यतिशयेनान्तरतमः प्रत्यगात्मा। न तस्यान्तरोऽस्त्यन्तः[ऽस्त्यन्यः], तस्यैव सर्वान्तरत्वात्। न चान्तर्यामीश्वरोऽस्तीति वाच्यम् ; ‘एष त आत्माऽन्तर्याम्यमृतः’ इति प्रत्यगात्मन एवान्तर्यामित्वात्। न च ‘ते’ इति प्रतीचो निर्देश इति वाच्यम् ; प्रमातृवाचित्वात् तस्य। प्रमातुर्हि स्वस्वरूपं प्रत्यगिति तस्यात्मत्वेन व्यपदेशः। तस्मादन्तर्यामिब्राह्मणं सर्वमपि प्रत्यगात्मपरमेव। परमात्माभिन्नत्वाच्च प्रत्यगात्मनः। एवं सर्वान्तरत्वादेव प्रत्यगात्मनः समीपद्रष्टृत्वादुपद्रष्टृत्वम्। न च कस्य समीप इति वाच्यम् ; स्वस्यैवेति। आत्मा ह्यात्मनो निरतिशयसमीपस्थः। स्वेन स्वस्य नित्याप्तत्वेन दूरस्थत्वासम्भवात्। न च स्वस्यैव कथं स्वसमीपस्थत्वमिति वाच्यम् ; आरोपात्। स्वस्मिन्नेव स्वसमीपस्थत्वं ह्यारोप्यते। ममात्मा सन्निहित इति व्यवहारात्। प्रत्यगपेक्षया तु बुद्धिः किञ्चिद्दूरस्था, अनात्मत्वात् तस्याः। तदपेक्षया मनः पुनः किञ्चिद्दूरस्थम् , बुद्ध्या व्यवधानात्। तदपेक्षया चक्षुर्दूरस्थम् , मनोबुद्धिद्वयव्यवधानात्। तदपेक्षया देहोऽतिदूरस्थः, मनोबुद्धिचक्षुस्त्रय- व्यवधानात्। तदपेक्षया घटादयो यद्यपि दूरस्थास्तथापि न ते द्रष्टारः, किन्तु दृश्या एव। यद्यपि बुद्ध्यादयोऽपि दृश्या एव, तथापि तेषां द्रष्ट्रात्मतादात्म्याध्यासाद् द्रष्टृत्वसम्भवः। ब्राह्मणोऽहं जानामि, घटमहं पश्यामि, अहमिदं २मनोमि, अहमिदं निश्चिनोमीत्येवं प्रतीतेः। चक्षुःशब्दश्च ज्ञानेन्द्रियपञ्चकोपलक्षणार्थः। अहं शृणोमीत्येवं श्रोत्रादेरपि द्रष्टृत्वप्रतीतिदर्शनात्। ननु मनोबुद्ध्योरेकान्तःकरणात्मकयोः कथमन्तर्बहिर्भाव इति चेद्? उच्यते— मनोमयकोशाद् विज्ञानमयकोशस्यान्तरत्वेन श्रुतिप्रतिपादनात्। न च प्राणमयानन्दमयकोशयोः कस्मान्नेह ग्रहणमिति वाच्यम् ; तयोर्द्रष्टृत्वप्रतीत्यदर्शनात्। न च श्रुतावपि मनोमयाद् विज्ञानमयकोशस्य बुद्धेरान्तरत्वप्रतिपादनं कुत इति वाच्यम् ; सङ्कल्पपूर्वकत्वान्निश्चयस्य। पूर्वं सङ्कल्प्य हि पश्चाद् निश्चिनोति। एवं निश्चयस्य सङ्कल्पादान्तरत्वाद् बुद्धेरान्तरत्वम्। निश्चयात्मिका हि बुद्धिः, सङ्कल्पात्मकं हि मनः। एवं देहादिबुद्ध्यन्त- सर्वद्रष्ट्रान्तरत्वादात्मन उपद्रष्टृत्वम्। अर्थान्तरमाह— यज्ञेति। उपद्रष्टृशब्दोऽत्र तत्सदृशे लाक्षणिकः। सिंहो माणवक इत्यत्र सिंहशब्दवत्। तथा च उपद्रष्टा यज्ञे प्रसिद्धः, तत्तुल्यत्वादात्माऽप्युपद्रष्टेत्युच्यते। उपद्रष्टृतुल्य इत्युपद्रष्टृशब्दस्य पर्यवसन्नार्थः। आत्मनः उपद्रष्टृतौल्यं च प्रागेव अथवेति। बहूनां द्रष्टृत्वेऽपि कस्योपद्रष्टृत्वम्? तत्राह—तेषामिति।उपोपसर्गस्य सामीप्यार्थत्वेन प्रत्यगर्थत्वात् , तत्रैव१ सामीप्यावसानात् प्रत्यगात्मा च द्रष्टा चेत्युपद्रष्टा, सर्वसाक्षी प्रत्यगात्मेत्यर्थः। उक्तमेव व्यनक्ति— यत इति। यथा यजमानस्य ऋत्विजां च यज्ञकर्मणि गुणं दोषं वा सर्वयज्ञाभिज्ञः सन्नुपद्रष्टा विषयीकरोति, तथाऽयमात्मा चिन्मात्रस्वभावः सर्वं गोचरयतीत्युपद्रष्टेति पक्षान्तरमाह— यज्ञेति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. २१-२२ ] १. ‘उपोपसर्गः सामीप्ये तत् प्रतीचि समाप्यते।’(बृ.वा. १-१-४) इति वार्तिकमिहानुसंधेयम्। २. ‘मन्वे’ इति युक्तम्।

[[६९८]]

प्रतिपादितम्। तदेव सङ्क्षेपेण पुनराह— सर्वेति। सर्वेषां कार्यकरणतद्व्यापाराणाम्। अन्यत्र ऋत्विग्यजमानव्यापाराणाम्। विषयीकरणं साक्षात्कारः, तस्मात् सर्वविषयीकरणात्। अयं हेतुः अथवेति पक्षान्तरेऽप्यन्वेति। सर्वेषां देहादिबुद्ध्यन्तानां द्रष्ट्राभासानां दृश्यानां विषयीकरणाद् दर्शनादिति। सर्वथाऽपि साक्षित्वमुपद्रष्टृत्वमिति सिद्धम्। एवमुपद्रष्टृशब्दं व्याख्यायाथानुमन्तृशब्दं व्याख्याति— अनुमन्ता चेति। कुर्वत्स्विति। अन्येषु क्रियाः कुर्वत्सु सत्स्वित्यर्थः। तत्क्रियासु विषय इति विषयसप्तमी। परितोषः सन्तोषः। तत्कर्ता अनुमननकर्ता। कार्यकरणादिषु कर्मव्यापृतेषु सत्सु स्वयमकुर्वन्नपि कृतकृत्य इव तृप्यतीत्यर्थः। नित्यतृप्तत्वादात्मन आनन्द- रूपत्वाच्चेति भावः। न चैवं तेष्वकुर्वत्सु सत्स्वपरितोष आत्मन इति वाच्यम् ; आनन्दरूपे आत्मनि दुःखहेतोरपरितोषस्यायोगात्। कार्यकरणानां देहेन्द्रियमनसां प्रवृत्तयो व्यापाराः गमनदर्शनमननादयस्तासु कार्यकरणप्रवृत्तिषु तदनुकूलस्तत्प्रवृत्त्यनुकूलः विभाव्यते ज्ञायते। तेन तथाविभावनेन हेतुना। स्वव्यापारेष्विति। कार्यकरणानां ये नियतव्यापारास्तेष्वित्यर्थः। प्रवृत्तान् कार्यकरणात्मकान् कर्तॄनिति भावः। न निवारयतीति। न च प्रेरयतीति शङ्क्यम्। प्रवृत्तेस्तेषां स्वाभाविकत्वेन परप्रेरणायोगात्। आत्मनश्चोदासीनस्य प्रेरकत्वासम्भवाच्च। भर्ता भरणकर्ता। किं तद् भरणम् , यत्कर्तृत्वेनात्मा भर्ता स्यात् , अत आह— भरणं नामेति। देहेन्द्रियमनोबुद्धीनां स्वरूपधारणं भरणम्। देहादीनि स्वस्वरूपं स्वयं धर्तुं न क्षमन्ते, किन्त्वात्मानुग्रहादेव। आत्मानुग्रहश्चात्मचैतन्यस्य देहादिषु प्रतिफलनम्। देहादीनां स्वरूपं च चैतन्याभासः। चेतनवदाभासन्ते हि देहादयः। तदेतदाह— देहेति। संहतानामन्योन्यं मिलितानां देहेन्द्रियमनोबुद्धीनां यत् स्वरूपधारणं तच्चैतन्यात्मकृतमेवेत्यन्वयः। कीदृशानां देहादीनाम्? अत आह— चैतन्याभासानामिति। चैतन्यस्याभासः प्रतिफलनं यासु तासां तथोक्तानाम्। किं तत्र निमित्तम्? अत आह— चैतन्येति। पारमार्थ्येन परमार्थसता निमित्तभूतेन चैतन्यात्मना चैतन्यस्वरूपेणेति। मुखं मुकुरस्थप्रतिमुखस्येव पारमार्थिकात्मचैतन्यं देहादिगतात्मचैतन्याभासस्य निमित्तमित्यर्थः। देहादिस्वरूपभूतचैतन्याभासस्य बिम्बभूतात्मचैतन्यनिमित्तकत्वाद् देहादिस्वरूपधारणरूपभरणकर्ता आत्मेति फलितार्थः। आत्मचैतन्यप्रतिफलनवशादेव देहादयश्चेतनवदाभासन्त इति कृत्वा देहादीनां चेतनीकरणरूपं भरणमात्मायत्तमेवेति भर्तृत्वमात्मन इति भावः। ननु उपाधेर्दर्पणस्य यदि मुखाभासः स्वरूपं स्यात् तदा देहाद्युपाधीनां चैतन्याभासः स्वरूपं स्यात्। न तु तथाऽस्ति। ततः कथमुक्तं देहादीनां चैतन्याभासः स्वरूपमिति चेद्? उच्यते— केवलदर्पणस्य मृदात्मकस्य मुखाभासस्वरूपाभावेऽपि साभासदर्पणस्य मुखाभासः स्वरूपमेव। मृदंशस्येवाभासस्यापि दर्पणे दर्शनात्। आभासस्थले मृदंशादर्शनाच्च। तत्रापि मृदंशदर्शने आभासाभाव- प्रसङ्गात्। एवं साभासानां देहादीनामाभासः स्वरूपमेव। चेतनोऽहं मनुष्य इत्यादिव्यवहारेण मनुष्यदेहादेश्चैतन्यवत्त्वोपलम्भात् , तस्य अनुमन्ता चेत्येतद् व्याकरोति— अनुमन्तेति। ये स्वयं कुर्वन्तो २व्यापारवन्तो भवन्ति तेषु कुर्वत्सु सत्सु यास्तेषां क्रियास्तासु पार्श्वस्थस्य परितोषोऽनुमननम्। तच्चानुमोदनम्। तस्य सन्निधिमात्रेण कर्ता यः सोऽनुमन्तेत्यर्थः। व्याख्यान्तरमाह— अथवेति। तदेव स्फुटयति— कार्येति। अर्थान्तरमाह— अथवेत्यादिना। भर्तेति पदमादाय किं भरणं नामेति पृच्छति— भर्तेति। तद्रूपं निरूपयन्नात्मनो भर्तृत्वं साधयति— देहेति। भोक्तेत्युक्ते क्रियावत्त्वे प्राप्ते ‘भोगश्चिदवसानते’ति न्यायेन विभजते— अग्नीति। विशेषणान्तरमादाय व्याचष्टे—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अनुमन्ता च अनुमोदनमनुमननम् , कुर्वत्सु तत्क्रियासु परितोषः, तत्कर्ताऽनुमन्ता च। अथवाऽनुमन्ता कार्यकरण- प्रवृत्तिषु स्वयमप्रवृत्तोऽपि प्रवृत्त इव तदनुकूलो विभाव्यते, तेनानुमन्ता। अथवा प्रवृत्तान् स्वव्यापारेषु तत्साक्षिभूतः कदाचिदपि न निवारयतीत्यनुमन्ता। भर्ता १भरणं नाम देहेन्द्रियमनोबुद्धीनां संहतानां चैतन्यात्मपारार्थ्येन निमित्तभूतेन चैतन्याभासानां यत् स्वरूपधारणं, तत् चैतन्यात्मकृतमेवेति भर्ता आत्मेत्युच्यते। भोक्ता अग्न्युष्णवद् १. स्वाभाविकौदासीन्याविरोधेन भर्तृत्वादि निर्वक्ति— भरणमित्यादिना। २. ‘व्यापारयन्तो’ इति पा.।

[[६९९]]

नित्यचैतन्यस्वरूपेण बुद्धेः सुखदुःखमोहात्मकाः प्रत्ययाः सर्वविषयविषयाश्चैतन्यात्मग्रस्ता इव जायमानाः विभक्ताः विभाव्यन्त इति भोक्ता आत्मोच्यते। महेश्वरः सर्वात्मत्वात् स्वतन्त्रत्वाच्च महानीश्वरश्चेति महेश्वरः। परमात्मा देहादीनां बुद्ध्यन्तानां प्रत्यगात्मत्वेन कल्पितानामविद्यया, परमः उपद्रष्टृत्वादिलक्षणः आत्मेति परमात्मा। १सोऽतः च चैतन्यस्य चैतन्याभासरूपत्वाच्चेति। न हि स्वप्रतिफलितचैतन्यस्य स्वस्वरूपत्वेनाग्रहणे चेतनोऽहं मनुष्य इत्यादिव्यवहार उपपद्यते। न च चेतनोऽहं मनुष्य इति व्यवहरतोऽज्ञस्य कथमीदृशं ज्ञानमिति वाच्यम् ; आत्मचैतन्याभासवानहं मनुष्य इति ज्ञानाभावेऽपि चेतनोऽहं मनुष्य इति ज्ञानसत्त्वात् तदभिमतमनुष्यचैतन्यस्य च चैतन्याभासरूपत्वादिति। बालाः खलु दर्पणप्रतिफलितमपि मुखाभासं मुखत्वेनैव गृह्णन्ति। किं तावता प्रतिबिम्बस्य बिम्बत्वं स्यात्? तस्मादज्ञा देहादिगतं चैतन्यं स्वरूपचैतन्यमेव मन्यन्ते। वस्तुतस्तु तत् प्रतिफलितचैतन्यमेवेति देहादिगतचैतन्याभासस्यात्मचैतन्यनिमित्तकत्वाद् देहादिस्वरूप- भूतचैतन्याभासधारणमात्मनः सम्भवत्येवेति युक्तमुक्तम्—आत्मा भर्तेति। यद्वा साभासानां देहादीनां यत् स्वरूपं तस्य धारणमात्मकृतमेव। आत्मसत्तास्फुरणानुगमादेव देहादिस्वरूपस्य सत्तास्फूर्ति- लाभात्। तस्मात् स्वसत्तया स्फुरणेन च देहादीन् संहतान् साभासान् बिभर्तीति भर्ताऽयमात्मा। चैतन्यात्मपारार्थ्येनेति पाठे तु देहादीनां चैतन्याभासत्वं चैतन्यात्मपारार्थ्येन निमित्तेन जातमिति। अयमाशयः - लोके चैतन्यत्वेनाभिमता देहादयः न चेतनाः - चैतन्यात्मपरार्थत्वात्। न हि देवदत्तपरार्थस्य घटस्य चेतनत्वं दृष्टं लोके। न हि घटो जलादिकं स्वार्थं बिभर्ति, किन्तु पुरुषार्थमेवेति सर्वमपि परार्थं वस्तु जडमेव। न [स] च परश्चैतन्यात्मैक एवेति देहादयश्चैतन्यात्मपरार्था एव। आत्मनः सुखदुःखादि- भोगावच्छेदकत्वाद् देहादीनाम्। एवं सति देहादीनां चैतन्यमाभासमात्रमेवेति तत्स्वरूपधारणमात्मकृतमेव। भोक्तेति। बुद्धेर्जायमानाः सर्वविषयविषया विभक्ताः सुखदुःखमोहात्मकाः चैतन्यात्मग्रस्ता इव स्थिताः प्रत्यया अग्न्युष्णवन्नित्यचैतन्यस्वरूपेण विभाव्यन्त इति हेतोरात्मा भोक्तेत्युच्यत इत्यन्वयः। बुद्धेः सकाशाज्जायमाना उत्पद्यमानाः, सर्वे विषयाः स्रक्-चन्दनरोगादयो विषया येषां ते तथोक्ताः। इष्टानिष्टविषयप्राप्त्यादिजन्या इत्यर्थः। विभक्ताः परस्परमसङ्कीर्णाः सुखादिस्वरूपाः प्रत्ययाः वृत्तिज्ञानानि। चैतन्यात्मना चैतन्यस्वरूपेण, स्वरूपचैतन्येनेति यावत्। ग्रस्ता इव गिलिता इव स्थिताः। चैतन्याभासरसविद्धत्वाद् वृत्तीनां गिलितत्वोत्प्रेक्षेयम्। अत एव वृत्तीनां जडानामपि ज्ञानत्वेन व्यवहार इति भावः। अग्नेरुष्णवदात्मनः स्वरूपभूतं नित्यचैतन्यं तेन। विभाव्यन्ते ज्ञायन्ते। साक्षिचैतन्येनैव वृत्तीनामवभास्यमानत्वात्। घटादीनामिव सुखादिवृत्तीनामपि वृत्त्यन्तरभास्यत्वाभ्युपगमेऽनवस्थादोषप्रसङ्गात्। अविद्यान्तःकरणादिवद् वृत्तयः साक्षिभास्या एव। अग्न्युष्णवदिति दृष्टान्तेन चैतन्यमात्मन एव स्वरूपम् , बुद्ध्यादेस्तु अग्नितादात्म्याल्लोहादेरिव आत्मतादात्म्याध्यासप्रयुक्तमिति गम्यते। साभाससुखादिबुद्धि- वृत्तिसाक्षाकारादात्मनो भोक्तृत्वमिति फलितार्थः। एतेन सुखादिभोगस्तत्प्रयुक्तो विकारो वा बुद्धेरेव, न त्वात्मन इति सिद्धम्। एतद्बुद्धि- तादात्म्याध्यासात् तत्पूर्वकबुद्धिधर्माध्यासाच्चात्मनः संसारित्वं, न तु स्वत इति भावः। ‘साभासबुद्धेः कर्तृत्वमवच्छिन्नेऽविकारिणि। साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथाऽबुधैः॥’ इति स्मृत्यन्तराच्च। जीवत्वं संसारित्वमित्यर्थः। बुद्धिधर्मस्तदिति भावः। न च उपद्रष्टृभोक्तृपदयोः पुनरुक्तिः साक्षित्व एव पर्यवसानात् पदद्वयस्येति वाच्यम् ; कार्यकरणतद्व्यापारद्रष्टृत्वेन, बुद्धिवृत्तिद्रष्टृत्वेन च भेदात्। सर्वान्तरतमद्रष्टृत्वेन, बुद्धिवृत्तिद्रष्टृत्वेन वा भेदात्। एकस्यैव साक्षित्वस्य विषयभेदाद् द्वेधा निर्देशेऽपि न पुनरुक्तिरिति भावः। महेश्वर इति। स्वतन्त्रस्य राजादेरीश्वरत्वं तावत् प्रसिद्धमिति स्वातन्त्यमेवेश्वरत्वम्। तेऽपि राजादय ईश्वरा दैवादिपरतन्त्रा एवेति न महेश्वराः। यस्मादधिको नास्त्यन्य ईश्वरः, यस्य वा नास्तीश्वरो नियामको स हि महेश्वरः। ब्रह्मादयोऽपि कालादिपरतन्त्रा महेश्वर इति। परमात्मत्वमुपपादयति— देहादीनामिति। अविद्यया कल्पितानामिति सम्बन्धः। परमत्वं प्रकृष्टत्वम्। स पूर्वोक्त-

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘सोऽन्तः’ इति भाष्ये टीकाप्रतीकधारणे च पा.। ‘अन्यः परमात्मे’ति रामकविटीकायां प्रतीकधारणं दृश्यते। तेन श्रुतिवाक्यं किञ्चिद् इह गृहीतमिति भाति।

[[अ. १३. श्लो. २२]] [[७००]]

एवेति न महेश्वराः, किन्तु पुरुष एक एव महेश्वरः। न चास्य नियामकः कश्चिदस्ति, सर्वात्मत्वादस्य। एक एव हि पुरुषः क्षेत्रज्ञो ब्रह्मादिस्तम्बपर्यन्तेषु सर्वक्षेत्रेषु वर्तत आत्मत्वेन, सर्वेषां भूतानामात्मनि कल्पितत्वेन कल्पितानामधिष्ठानरूपत्वेन च। सर्वभूतानामधिष्ठानभूतो हि सर्वात्मा पुरुषः। न च कथमन्तःकरणोपहितत्वेन परिच्छिन्नस्य पुरुषस्य सर्वाधिष्ठानत्वमिति वाच्यम् ; अन्तःकरणस्यापि पुरुषे कल्पितत्वेन तस्य कल्पितान्तःकरणस्य पुरुषपरिच्छेदकत्वासम्भवात्। परिच्छिन्नं हि पुरुषमन्तःकरणं परिच्छेत्तुं न क्षमते, १पुनरुक्त्यादिदोषात्। किन्त्वपरिच्छिन्नमेव। अपरिच्छिन्नस्य च तस्य वस्तुतोऽन्तःकरणपरिच्छेदासम्भवात् कथं परिच्छिन्नत्वं पुरुषस्य? तस्मादपरिच्छिन्न एव पुरुषेऽन्तःकरणादिकं सर्वं जगत् कल्पितमिति सर्वाधिष्ठानत्वं पुरुषस्य सिद्धम्। अत एवास्य प्रत्यगात्मनोऽपि परमात्मत्वमिहैवोच्यते ‘परमात्मेति चाप्युक्तः’ इति। ननु कूटस्थे व्यष्टिदेहादिरध्यस्तः, परमात्मनि तु सर्वं जगदिति पूर्वमुक्तं त्वयेति चेत् , नैष दोषः - कूटस्थपरमात्मनोरन्तः- करणोपहितत्वमायोपहितत्वरूपकल्पितभेदमाश्रित्य तथोक्तत्वात्। कथमन्यथा तत्त्वमस्यादिना कूटस्थपरमात्माभेदः प्रतिपाद्येत? ननु किं भिन्नयोः कूटस्थपरमात्मनोरभेदः प्रतिपाद्यते, उताभिन्नयोः? नाद्यः - भिन्नयोरभेदासम्भवात्। नान्त्यः - अभेदे कूट- स्थपरमात्मनोरिति भेदेन निर्देशायोगादिति चेत् , मैवम् ; एकस्मिन्नेवात्मनि लौकिकैस्तार्किकादिभिश्च प्रसञ्जितस्य कूटस्थपरमात्म- त्वरूपभेदस्य तत्त्वमसीत्यनेन निरस्यमानत्वादिति। एवं सर्वात्मत्वादेव स्वतन्त्रत्वं च पुरुषस्य। सति हि परवस्तुनि तत्तन्त्रत्वं स्यात् पुरुषस्य। तदेव नास्ति , पुरुषात्मकत्वात् सर्वस्य। सच्चिदानन्दरूपपुरुषस्य सर्वस्मात् पृथक्करणे पटात् तन्तोरिव सर्वस्यैवाभावप्रसङ्गात् पटाभावप्रसङ्गवत्। अत एव तन्तुपरतन्त्रपटवत् सर्वमपि पुरुषपरतन्त्रमेव। तस्मात् पुरुष एव महेश्वर इत्याह— सर्वात्मत्वादित्यादिना। परमात्मेति। परम उत्कृष्टश्चासावात्मेति परमात्मा। ननु किमयमात्मनां मध्ये उत्कृष्ट आत्मा? उतानात्मनां मध्ये? नाद्यः - अनेकात्माभावात्। नान्त्यः - अनात्मनां मध्येऽना- त्मन एव कस्यचिन्निर्धारणीयत्वेनात्मनिर्धारणायोगात्। न हि मनुष्याणामुत्तमः सुर इति वक्तुमुचितम्। अत आह— देहादीनामिति। अविद्यया प्रत्यगात्मत्वेन कल्पितानां देहादीनामव्यक्तान्तानां मध्ये परम इति। अज्ञानाद् बौद्धादयः केचिद् देहमेवात्मानं मन्यन्ते, केचिदिन्द्रियाणि, केचित् प्राणं, केचिन्मनः, केचिद् बुद्धिं, प्राज्ञास्तु देहादिविलक्षणमेव प्रत्यञ्चमित्येवं स्थिते अज्ञप्राज्ञाभ्यामात्मत्वेन गृह्यमाणानां देहेन्द्रियमनोबुद्धिपुरुषाणां मध्ये पुरुषस्य परमत्वं निर्धार्यते परमात्मेति शब्देनेति। अव्यक्तशब्दोऽत्र बुद्धिपरः। प्रकृतेः साक्षादात्मत्वेनाग्रहणात्। यदि काणोऽहमितिवद् अज्ञोऽहमित्यात्मनीन्द्रियधर्मवत् प्रकृतिधर्मस्याध्यासः धर्म्यध्यासं सूचयतीत्यात्मनि प्रकृत्यध्यासोऽप्यस्तीत्युच्यते, तर्ह्यव्यक्तशब्दः प्रकृतिपर एव। वस्तुतस्तु अव्यक्तशब्दोऽत्र प्रत्यगात्मपर एव, करणागोचरत्वलक्षणाव्यक्तत्वस्यात्मनि दर्शितत्वात् ‘अव्यक्तोऽक्षर उच्यत’ इत्युक्तत्वात्। एवमव्यक्तशब्देन पुरुषग्रहणे सत्येव निर्धारणमुपपद्यते पुरुषस्य। कथमन्यथा देहादीनामनात्मभूतानां मध्ये निर्धारणं स्यादात्मनः? देहादिमध्ये तस्यासत्त्वात्। यद्येवं तर्हि प्रत्यगात्मत्वेन कल्पितानामित्यस्य कथमव्यक्ते समन्वयः पुरुष इति चेत् , नैष दोषः, छत्रिणो गच्छन्तीतिवल्लक्षणया अकल्पितेऽपि पुरुषे तदन्वयात्। यद्वा प्रत्यगात्मसहितानामिति शेषः। ततश्च देहादयो बुद्धिपर्यन्ता ये कल्पितात्मानः, यश्च कल्पितः प्रत्यगात्मा, तेषां सर्वेषां मध्ये प्रत्यगात्मा परम इति। सत्यसर्पमिथ्यासर्पयोर्यथा सत्यसर्पः उत्कृष्टस्तथा अकल्पितात्मकल्पितात्मनोर्मध्ये अकल्पितात्मोत्कृष्टः इति भावः। किंलक्षणोऽयमकल्पितात्मेत्यत आह— उपद्रष्टृत्वादिलक्षण इति। यद्वा कुतः प्रत्यगात्मनः परमत्वम्? अत आह— उपद्रष्टृत्वेति। हेतुगर्भमिदं विशेषणम्। तथा चोपद्रष्टृत्वादिलक्षणवत्त्वात् परमः पुरुष इत्यर्थः। देहादयस्तु दृश्यत्वविकारित्व- प्रमुखासल्लक्षणत्वादनुत्कृष्टा इति भावः। सः पुरुष इत्यर्थः। कुत्रोक्तः? अत आह— श्रुताविति। श्रुतिमेव दर्शयति— अन्यः परमात्मेति। श्लोकस्थेतिशब्दार्थमाह— अनेन शब्देनेति। श्रुतिसिद्धत्वादयमर्थः सर्वैरास्तिकैर्ग्राह्य इति भावः। किंच उक्तः इत्यनेन कर्तुरीश्वरस्याक्षेपः। येनेश्वरेण वेदे प्रोक्तः सोऽयमर्थस्तेनैव गीतायामप्युच्यत इति भावः। देहपदान्वयायाकाङ्क्षामुद्भावयति— भाष्यार्कप्रकाशः १. परिच्छिन्नत्वादेव तस्य पुनरन्तःकरणेन परिच्छेदो व्यर्थः, अतः पुनरुक्तितुल्यो दोषः इति भावः।

[[७०१]]

परमात्मा इति अनेन शब्देन चाप्युक्तः कथितः श्रुतौ। क्वासौ? अस्मिन् देहे पुरुषः परोऽव्यक्तात्१। ‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः’ (भ.गी.१५.१७) इति यो वक्ष्यमाणः, ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ.गी.१३.३) इत्युपन्यस्तः, व्याख्यायोपसंहृतश्च॥२२॥

क्वासाविति। असौ पुरुषः क्वास्तीत्यर्थः। देहेऽस्मिन्निति। अस्मिन् दृश्यमाने मनुष्यपश्वादिलक्षणे देहे। जात्येकवचनं सर्वक्षेत्रेष्वि- त्युपक्रमे प्रोक्तत्वात्। वर्तमान इति शेषः। यद्वा क्वासौ, उपलभ्यत इति शेषः। अस्मिन् देहे बुद्ध्यादिसाक्षित्वेनोपलभ्यमान इत्यर्थः। ‘मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः। वह्निं यथा दारुषु पाञ्चदश्यं मनीषया निष्कर्षन्तीह गूढम्॥’ इति भागवतात्। इह देह इत्यर्थः। एतेन सर्वव्यापिनः पुरुषस्य कथं देहे ऽस्मिन्नित्युक्तिरिति शङ्का परास्ता। पर इति। अन्य इत्यर्थः। विलक्षण इति यावत्। कस्मादित्यत आह— अव्यक्तादिति। प्रकृतेः परत्वे प्रोक्ते सति तत्कार्येभ्योऽपि परत्वं सिध्यतीति भावः। यद्वा कार्यात्मना परिणताच्चाव्यक्तात् पर इति। कोऽसौ पुरुषोऽत आह— उत्तम इति। ‘क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते’ इति पूर्वार्धम्। कूटस्थोऽव्यक्तम्। अन्यः क्षराक्षराभ्यां भूततत्प्रकृतिभ्यामितरः। एतेनाव्यक्तादिति स्वेनाध्याहृतं गीतासिद्धमेवेति सूचितम्। अतो न स्वकपोलकल्पनप्रसङ्गः। वक्ष्यमाण इति। पञ्चदशाध्याय इति भावः। न केवलं वक्ष्यमाणः, किन्तूक्त एवापीत्याह— क्षेत्रज्ञं चेति। उपन्यस्त उदाहृतः। एतेन पूर्वोत्तरग्रन्थसन्दर्भानुगुणेन मध्येऽपि स एवार्थो ग्राह्य इति सूचितम्। ततश्च पुरुषस्याभ्यासः सूचितः। असकृद्वचनं ह्यभ्यासः। एवं पुरुषस्य परमात्मत्वमसकृदुक्तमिति जीवेश्वराभेद एव प्रमाणम् , न तु तद्भेद इति भेदवादस्या- प्रमाणत्वं सिद्धम्। यो वक्ष्यमाणो यश्चोपन्यस्तः, स एव पुरुषः इह व्याख्यायोपसंहृत इति। व्याख्याय प्रतिपाद्य उपसंहृत इत्यर्थः। यत्तु रामानुजः - अस्मिन् देहेऽवस्थितो यः पुरुषो देहप्रवृत्त्यनुगुणसङ्कल्पादिरूपेण देहस्योपद्रष्टा अनुमन्ता च भवति, तथा देहस्य भर्ता देहप्रवृत्तिजनितसुखदुःखयोर्भोक्ता च भवति, एवं देहनियमनेन देहभरणे, देहशेषित्वेन च देहेन्द्रियमनांसि प्रति महेश्वरो भवति, देहेन्द्रियमनांसि प्रति परमात्मेति चाप्युक्तः, पुरुषः परोऽपरिच्छिन्नज्ञानशक्तिः, अनादिप्रकृतिसम्बन्धकृतगुणसङ्गादेतद्देहमात्र- महेश्वरो भवति, देहमात्रपरमात्मा च भवतीति। तदेतत् सर्वमतितुच्छम् - स्थूलदेहप्रवृत्त्यनुगुणसङ्कल्पस्य सूक्ष्मदेहभूतमनोधर्मत्वेन पुरुषस्य सङ्कल्पायोगात्। न ह्यन्यधर्मोऽन्यस्य सम्भवति, विनाऽध्यासात्। स चाध्यासस्त्वया नाङ्गीकृत एव, परमेश्वरस्यापि स्वाभाविकमेवेक्षणमिति वदसि हि त्वम् ! किं पुनर्जीवस्य। यदि जीवस्य सङ्कल्पः स्वाभाविक एव स्यादग्न्युष्णवत् तर्हि सुषुप्तावपि स दृश्येत। मूर्छादिष्वपि दृश्येत। न तु तथा दृश्यते। तस्मान्न पुरुषधर्मः सङ्कल्पः। तथा सुखदुःखभोगस्य बुद्धिधर्मत्वेन न पुरुषस्य सुखदुःखभोक्तृत्वं संसारलक्षणं सम्भवति। ‘अविकार्योऽयमुच्यते’ इति ह्युक्तमत्रैव। तत्कथमस्य विकारः स्यात् सुखादिभोगरूपः? न च गुणसङ्गाद् भवतीति वाच्यम् ; ‘असङ्गो ह्ययं पुरुषः’ इति श्रुत्युक्तासङ्गपुरुषस्य गुणसङ्गासम्भवात्। तथा प्रकृतिसङ्गोऽपि नार्ह आत्मनः। अस्मन्मते तु सङ्गस्य मिथ्याभूतत्वादात्मनि सङ्गोपपत्तिः। त्वं हि सङ्गं सत्यं ब्रवीषि, त्वादृशो हि विद्वांसः पुरुषगतेश्वरत्वस्य सङ्कोचं सम्भावयेयुरिति मत्वैव भगवता बादरायणेन महेश्वरशब्दः प्रयुक्तः। तथापि यदि सङ्कोचं त्वं ब्रवीषि देहादीन् प्रति महेश्वरः इति कस्तर्हि तव शासिता? एवं महच्छब्दस्यानर्थक्यसम्पादनेन स्फुटं तव मूलच्छेदपाण्डित्यम्। ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ इति श्रुतिसंवादी हि महेश्वरशब्दस्यात्र प्रयोगः। देहेन्द्रियमनांसि प्रतीति कथं मूलाद् बहिः कल्पनं तव? ईश्वरे योगरूढयोर्महेश्वरपरमात्मशब्दयोः सति जीवेश्वरभेदे कथं प्रयोगः स्याज्जीवविषयः? देहमात्रमहेश्वर इति देहमात्रपरमात्मेति च विशेषणवानिति यावत्। परमात्मशब्दस्य प्रकृतात्मविषयत्वे श्रुतिमनुकूलयति— अत इति। तस्य ताटस्र्ह्यं प्रश्नद्वारा प्रत्याचष्टे— क्वेति। कस्मात् परत्वम्? तदाह— अव्यक्तादिति। तत्रैव वाक्यशेषानुकूल्यमाह— उत्तम इति। सोऽस्मिन् देहे परः पुरुष इति सम्बन्धः। शोधितार्थयोरैक्यज्ञानं प्रागुक्तं फलोक्त्या स्तौति— क्षेत्रज्ञं चेति॥२२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. २२ ] १. ‘अव्यक्तात् पुरुषः परः’ इति श्रुतेरिति भावः।

[[७०२]]

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥२३॥

किं गीताशास्त्रे क्वापि प्रयोगोऽस्ति? येन तदनुरोधेन महेश्वरपरमात्मशब्दयोस्तादृशार्थकथनं युज्येत। किञ्च कर्माधीनकरणप्रवृत्तेरस्य जीवस्य संसारिणः कथं देहमात्रं प्रत्यपीश्वरत्वम्? व्याधिग्रस्तो हि पदमपि चालयितुं न क्षमते। यदि देहः स्वतन्त्रः स्यात् , तर्हि कथं सर्वेऽपि जीवा देहं परित्यज्य परमप्रेमास्पदं , गच्छेयुः कालवशाद् यमलोकादिकम्? तस्मात् कालकर्मादिपरतन्त्रे देहे न स्वातन्त्यं जीवस्य। एवं देहमात्रं प्रत्यपीश्वरत्वस्यैवासिद्धौ कुतः पुनर्महेश्वरत्वसिद्धिः पुरुषस्य? ‘देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव वा’ इति हि भागवते स्मर्यते। अन्नदातृपितृमातृभार्याराजशुनकाग्न्यादयो हि बहवः सन्ति देहस्येश्वराः। यस्य पुनरज्ञस्यैतद्देहेऽहमभिमानः सोऽप्यन्नदात्रादिपरतन्त्र एव। भृत्यादीनां राजादिपारतन्त्यस्य दर्शनात्। देहस्य राजचोदित- क्रियाकारित्वेन हि भृत्यस्य राजपारतन्त्यम्। तस्माद् यो देहः स्वाभिमानेन जीवमपि परतन्त्रयति तद्देहे कथं जीवस्य स्वातन्त्यम्? जीवस्य गमनादिसङ्कल्पेऽपि न स्वातन्त्यं कर्माधीनत्वात् सङ्कल्पस्य। न हि कोऽपि स्वानिष्टं संसारं स्वेच्छया सङ्कल्पयेत्। ‘मत्तः स्मृतिर्ज्ञानमपोहनञ्च’ इति स्मरणादीनां भगवदायत्तत्वं च वक्ष्यति भगवानेवेहैव। एवं संसारिणो जीवस्य यत्र कुत्रापि स्वातन्त्याभावादेव ह्यनीश्वरत्वमुच्यते ‘ज्ञाज्ञौ द्वावजावीशनीशौ’ इति श्रुत्या यस्त्वसंसारी जीवः प्राज्ञः स सर्वं प्रत्यपीश्वर एवेति कथं तस्य देहमात्रेश्वरत्वं वक्तुं शक्यते? न च कथमीश्वरं प्रत्यपि जीवस्येश्वरत्वमिति वाच्यम् ; ईश्वरस्यैव जीवत्वात्। उक्तं हि ‘क्षेत्रज्ञं चापि मां विद्धी’ति। अर्चारूपस्त्वदभिमतेश्वरस्तु जीवस्याज्ञस्यापि परतन्त्र एव। करणकलेबरादिमतां श्रीरामादीनां च दशरथादिजीवाज्ञापरिपालकत्वेन तत्पारतन्त्यं प्रसिद्धमेव। यः पुनरीश्वरः सर्वान्तरोऽशरीरः स एव स्वतन्त्रः सर्वशेषी। स च प्रत्यगात्मैव, तस्यैव सर्वान्तरत्वादिति युक्तं महेश्वरत्वं प्रत्यगात्मनः। न च प्रत्यगात्मा परमात्मपरतन्त्र एवेति वाच्यम् ; यः परमात्मपरतन्त्रः सोऽज्ञः प्रमातैव, न कूटस्थः। यः कूटस्थः स परमात्मैव, न परतन्त्र इति। न चानुभवसिद्धस्य राजादिपारतन्त्यस्य जीवगतस्य कथमपलाप इति वाच्यम् ; य आत्मानं राजादिपरतन्त्रं मन्यते स देहाद्यात्माभिमानवानेव, न तु तद्विलक्षणमात्मानं वेत्ति। न हि देहादिविलक्षणस्य राजादिपारतन्त्यं वक्तुं शक्यते। किं सुप्तिमृतिमूर्छासु स्वस्य राजादिपारतन्त्यानुभवः? किञ्च राजभृत्ययोः प्रमातृभेद एव, न त्वात्मभेदः। आत्मनः सर्वैकत्वादिति कथमात्मनः पारतन्त्यप्रसक्तिरेकस्याद्वितीयस्य ब्रह्मण आत्मनः? न चैवमात्मनोऽपरतन्त्रत्वेऽपि न सर्वं प्रति स्वातन्त्यमिति वाच्यम् , आत्मनश्चेतनत्वात् अन्यस्य च जडत्वाज्जडस्य च चेतनपारतन्त्यस्य सर्वविदितत्वादिति। एवमात्मनोऽन्यस्य तत्समस्य तदधिकस्य वा अभावात् सर्वं प्रत्यात्मा परमात्मैव, न तु देहमात्रं प्रति। ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति श्रुतेः। न च श्रुतिरीश्वरपरेति वाच्यम् ; ईश्वरस्यैवात्मत्वादिति सङ्क्षेपः॥२२॥

य इति। य एवं पुरुषं गुणैः सह, निवर्तितामिति शेषः; प्रकृतिं च वेत्ति स सर्वथा वर्तमानोऽपि भूयो नाभिजायते। कथं पुरुषस्य वेदनम्? अत आह— साक्षादात्मभावेनेति। तदेवाभिनीय दर्शयति— अयमहमस्मीति। अयं प्रत्यगभिन्नः परमात्मा पुरुषो ऽहमस्मीत्यर्थः। ‘अहं ब्रह्मास्मीति, अयमात्मा ब्रह्मे’ति च श्रुतेरिति भावः। कृतात्मसाक्षात्कार इत्यर्थः। अयं घट इति यथा घटमपरोक्षीकृतवांस्तथा स्वात्मानमपि अयमहमस्मीति साक्षात्कृतवानिति यावत्। कया निवर्तिताम्? अत आह— विद्ययेति। विद्यया भाष्यार्कप्रकाशः तमेतं यथोक्तलक्षणमात्मानम्— य इति। यः एवम् यथोक्तप्रकारेण वेत्ति पुरुषं साक्षाद् आत्मभावेन ‘अयमहम्’ इति, प्रकृतिं च यथोक्ताम् अविद्यालक्षणां गुणैः स्वविकारैः सह १निवर्तिताम् अभावमापादितां विद्यया, आनन्दगिरिकृतव्याख्या यथोक्तप्रकारेण जीवेश्वरादिसर्वकल्पनाधिष्ठानत्वेनेत्यर्थः। साक्षाद् अपरोक्षत्वेनेति यावत्। यथोक्ताम् अनाद्यनिर्वाच्याम् , सर्वा- १. मोक्षसाधनज्ञानविषयत्वस्य आत्ममात्रे स्वीकारात् , प्रकृतौ तदभावात् , श्रुत्यादिपर्यालोचनया निवर्तितामित्याद्यध्याहृत्य व्याख्यातम्।

[[७०३]]

ब्रह्मात्मसाक्षात्कारेण। सत्यात्मसाक्षात्काररूपसूर्योदये सकार्यमविद्यालक्षणं तमो निवर्तत इत्यर्थः। न च नाशमापादितायाः प्रकृतेः कथं ज्ञानमिति वाच्यम् ; निवृत्तप्रकृतेः ज्ञानाविषयत्वेऽपि प्रकृतिनिवृत्तेर्ज्ञानविषयत्वेन तथोक्तत्वात्। ननु ‘गुणैः सह प्रकृतिं वेदे’त्येव मूले स्थितत्वान्निवर्तितामिति पदाध्याहारो निर्मूलत्वादप्रमाण इति चेत् , मैवम् ; सत्यात्म- साक्षात्कारे वेद्यानां प्रकृतितद्गुणानामभावेन तद्दर्शनासम्भवात्। आत्मसाक्षात्कार एव हि प्रकृतितत्कार्यानुभवात्मकसंसारस्यावधिः। यथा सूर्यसाक्षात्कारो निशायास्तत्कार्यपिशाचादीनां च दर्शनस्यावधिः। आत्मसाक्षात्काररूपविद्यावस्थायां हि ‘यत्र त्वस्य सर्वमा- त्मैवाभूत्तत्केन कं पश्येदि’ति श्रुत्या सर्वद्वैतदर्शनाभावः प्रतिपादितः। तस्मान्निवर्तितामिति पदमवश्यमध्याहर्तव्यमन्यथाऽर्थानुपपत्तेः। स इति। य आत्मसाक्षात्कारनिवृत्ताज्ञानतत्कार्यः स इत्यर्थः। न च कृतात्मसाक्षात्कार इत्यनेनैव निवृत्ताज्ञानत्वस्य लाभात् प्रकृतिं च गुणैः सहेत्युक्तिर्व्यर्थेति वाच्यम् ; आत्मसाक्षात्कारानन्तरमपि प्रकृतितत्कार्यसद्भावशङ्का कस्यचित् स्यादिति तन्निरासाय तद्वचनात्। अथवा, आत्मसाक्षात्कारो द्विविधः - परोक्षोऽपरोक्षश्चेति। तत्र परोक्षात्मज्ञानान्न प्रकृत्यादिनिवृत्तिः, किन्त्वपरोक्षात्मसाक्षात्कारादेवेति कृत्वा य एवं वेत्ति पुरुषमित्यनेनापरोक्षात्मसाक्षात्कार एव विवक्षित इति सूचनाय प्रकृतिं च गुणैः सहेत्युक्तम्। सर्वप्रकारेणेति। स्नान- सन्ध्यादिकं विहाय बालोन्मत्तपिशाचादिवदवधूतमार्गेणेत्यर्थः। ‘निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः’ इति शुकवचनादिति भावः। विद्यमानो वर्तमान इत्यर्थः। मुक्तिं यास्यतीति किमु वक्तव्यमित्यन्वयः। एतेनाविहितमार्गसञ्चारे विदुषा नाभिनिवेशः कर्तव्य इति सूचितम्। सर्वथेत्यनेन च विहितमार्गेऽपि नाभिनिवेशः कार्य इति, ततश्च यथाप्रारब्धं विदुषां कार्यकरणानि देवार्चनस्नानशौच- भिक्षादौ विहिते प्रवर्तन्तामथवा अवधूतमार्गे। उभयथाऽपि न विदुषः काऽपि क्षतिः, कार्यकरणेषु तस्याहम्ममाभिमानाभावादिति सिद्धम्। भूयो नाभिजायते पुनर्जन्म न प्रतिपद्यत इत्यर्थः। तदेवाह— पतित इति। अस्मिन् प्रारब्धे विदुषः शरीरे प्रारब्धावसानात् पतिते मृते सति, अन्यो देहो देहान्तरं, तस्मै। देहान्तरं परिगृह्येत्यर्थः। फलितमाह— देहान्तरमिति। जीवस्याजस्य ज्ञानात् प्रागपि न जन्मसम्भवः। किम्पुनर्ज्ञानात्पश्चादिति भावः। नन्वेवं भूयो नाभिजायत इत्ययुक्तम् , भूय इत्यनेनेतः प्राग् जन्मसद्भावसूचनाद् , अजस्य कदाऽपि जन्मायोगाच्चेति चेत् , सत्यम् , अत एव देहान्तरं न गृह्णातीति तदर्थ उक्तः। विद्यमाने देहे नष्टे सति जीवो मृत इति, देहान्तरपरिग्रहे जीवो जात इति चाज्ञाः पश्यन्ति देहजन्मनाशावात्मनि। देहे जाते मृते वा जीवो जातो मृत इति लोकव्यवहारदर्शनात्। इमौ चाज्ञानमूलौ जन्मनाशौ जीवस्य न स्त इत्यज एव जीवः। अपि तु अज्ञानवशाद् देही प्रकृतदेहं परित्यज्य देहान्तरं परिगृह्णात्यनादिकालादारभ्य। तस्मिंश्चाज्ञाने नष्टे देहान्तरं न परिगृह्णाति, ज्ञानोदयात् प्राक् परिगृहीतं देहं तु त्यजतीति। अयं च प्रकृतदेहत्यागः सर्वव्यापिन आत्मनो न सम्भवत्येव, तथापि विद्वद्देहाश्रयप्राणादीनां वाय्वादिषु लयान्निष्प्राणं विद्वद्देहं ‘विदुषा आत्मना त्यक्तः’ इति लोकाः मन्यन्ते। यथा वा निष्प्राणं पाषाणादिकमविद्वांस आत्मरहितं मन्यन्ते। न च विदुषोऽपि प्राणोत्क्रमणमस्त्येवेति कथं तल्लय इति वाच्यम् ; ‘तत्त्वविदः प्राणा नोत्क्रामन्ति, अत्रैव समवलीयन्ते’ इति श्रुतेः। प्राणादिष्वात्माभिमानिनि प्रमातरि विद्यया ब्रह्मभावं गते सति चैतन्याभासशून्याः प्राणादयः स्वस्वकार्येषु लीयन्त एव, न तूत्क्रमणादिषु क्षमन्ते। चैतन्याभासप्रयुक्तत्वात् प्राणादीनामुत्क्रमणादिसामर्थ्यस्येति भावः। न च - विद्यमानचैतन्याभासे नष्टेऽपि पुन- नर्थोपाधिभूतामित्यर्थः। विद्यया प्रागुक्तैकत्वगोचरया प्रकृतिमविद्यारूपां सकार्यामभावमापादितां यो वेत्तीति सम्बन्धः। सर्वप्रकारेण विहितेन निषिद्धेन चेत्यर्थः। १पुनर्नकारोऽन्वयार्थः। निपातसूचितं न्यायमाह— अपीति। १. ‘न स भूयः पुनः पतितेऽस्मिन् विद्वच्छरीरे देहान्तराय नाभिजायते’ इति पाठः आनन्दगिरिदृष्टः स्यादिति भाति। अत एव पुनर्नकारस्येत्थं सार्थक्यं वर्णितम्। (द्र.भ.गी. २-१६, २-७२)

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सर्वथा सर्वप्रकारेण वर्तमानोऽपि स भूयः पुनः पतितेऽस्मिन् विद्वच्छरीरे देहान्तराय नाभिजायते नोत्पद्यते। देहान्तरं न गृह्णातीत्यर्थः। अपिशब्दात् किमु वक्तव्यं स्ववृत्तस्थो न जायत इत्यभिप्रायः।

[[अ. १३. श्लो. २२-२३]] [[७०४]]

[ज्ञानोत्तरं जन्माभावोपपादनम्] ननु यद्यपि ज्ञानोत्पत्त्यनन्तरं पुनर्जन्माभाव उक्तः, तथापि प्राग् ज्ञानोत्पत्तेः कृतानां कर्मणाम् , उत्तर- कालभाविनां च, यानि चातिक्रान्तानेकजन्मकृतानि तेषां च, फलमदत्त्वा नाशो न युक्त इति स्युस्त्रीणि जन्मानि। कृतविप्रणाशो हि न युक्त इति। यथा फले प्रवृत्तानामारब्धजन्मनां कर्मणाम्। न च कर्मणां विशेषोऽवगम्यते। तस्मात् श्चैतन्याभासान्तरं गृह्णीयुरेव प्राणाद्युपाधयः, बिम्बचैतन्यस्य सर्वव्यापिनः सन्निहितत्वादिति - वाच्यम् ; चैतन्याभासनाशसमकालमेव प्राणाद्युपाधिनाशात्। यद्वा प्राणाद्युपाधीनां चैतन्याभासान्तरग्रहणशक्तिनाशात्। अथवा प्राणाद्युपाधिनाशानन्तरमेव चैतन्याभासस्य चैतन्येनैक्यप्राप्तिः, नाशसमकालमेवेति वा। दर्पणनाशे मुखप्रतिबिम्बस्य मुखैक्यप्राप्तिवत्। प्राणादीनामुपाधीनां लयं प्रति तु प्रारब्ध- नाशसहकृत आत्मसाक्षात्कारो हेतुरिति। एवं विद्वच्छरीरात् प्राणोत्क्रमणासम्भवादेव शरीरे पतित इत्युक्तम् , न तूत्क्रान्तप्राण इति। शरीरस्य पतनं नाम प्राणनादिक्रियाशून्यत्वम्। मृत्पाषाणादिवदचेतनत्वेन भूमौ पतनमिति वा। तस्मादात्मसाक्षात्कारनिवृत्ताज्ञान- तत्कार्यः प्रमाता ब्रह्मभावं गच्छति, ‘ब्रह्मविद् ब्रह्मैव भवति’, ‘तरति शोकमात्मविदि’त्यादिश्रुतेरिति स्थितम्। ननु विद्यया प्रकृतितद्गुणेषु नाशमापादितेषु सत्सु कथं विदुषः सर्वथा वर्तनं सम्भवेत् सत्सु देहेन्द्रियादिषु? कथं वा प्रकृति- तद्गुणानां नाशः सम्भवेद् विदुष इति चेत् , नैष दोषः - प्रकृतितद्गुणानां नाशापादनं नाम आत्मैवेदं सर्वम् , नात्मव्यतिरेकेण किञ्चिदस्तीत्यनुसन्धानम्। तेन हि प्रकृतितद्गुणानामप्रतीतिः, किन्तु ब्रह्मण एकस्यैव प्रतीतिः। न च प्रतीत्यभावमात्रेण कथं स्वरूपतः प्रकृतितद्गुणानां नाश इति वाच्यम् ; सुषुप्तौ जगतोऽपि प्रतीत्यभावमात्रेण नाशसम्भवात्। न हि विद्यमानमपि देहादिजगत् सुप्तपुरुषदृष्ट्या अस्ति। एवं विद्वद् दृष्ट्या नास्त्येव जगत्। सर्वथा वर्तनं च विदुषो न स्वदृष्ट्या सम्भवति, किन्तु लोकदृष्ट्या। लोको हि कार्यकरणेषु व्यापृतेषु व्यापृत आत्मेति मन्यतेऽविद्यावशात्। एवं विदुषः प्राणोत्क्रमणाद्यभावश्च लोकदृष्ट्यैवोक्तम्। न तु विद्वदृष्ट्या ‘अप्राणो ह्यमनाः शुभ्रः’ इति न सन्ति हि विदुषः प्राणादयः। आत्मा हि विद्वान्। आत्मनि हि बन्धमोक्षादयो न सन्तीति प्रागेव बहुशः प्रतिपादितम्। तस्मादविदुषो बन्धव्यवहारवद् विदुषो मोक्षव्यवहारश्च लोकस्याविद्याकृत एव। तस्माद् विदुष आत्मनः प्रकृतितद्गुण- देहेन्द्रियादयो नैव सन्तीति कुतः सर्वथा वर्तनसम्भवः? न कुतोऽपि। लोकदृष्टिमाश्रित्य तु ‘सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते’ इत्युक्तमिति सर्वमनवद्यम्। नन्विति। ‘न स भूयोऽभिजायते’ इत्युक्तमिदं वचनमयुक्तम्। तेन वाक्येन हि ज्ञानोत्पत्त्यनन्तरं पुनर्जन्माभाव उक्तः। विचार्य- माणे तु विदुषोऽपि पुनर्जन्माभावो न सम्भवति। न हि विद्योदयसमकालमेव विद्वान् शरीरं परित्यजति, किं तर्हि प्रारब्धावसान एव, ‘प्रारब्धं भोगतो नश्येदि’ति शास्त्रात् , ’देहोऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रति समीक्षत एव सासु’रिति भागवताच्च। स्वारम्भकं कर्म प्रारब्धकर्मेत्यर्थः। येन प्रकृतदेह आरब्धस्तत्कर्म प्रारब्धमित्युच्यत इति भावः। यथा सत्यामपि विद्यायां प्रारब्धं स्वं फलमदत्त्वा न नश्यति, तथा सञ्चितकर्माण्यागामिकर्माणि च स्वं स्वं फलमदत्त्वा नैव नश्यन्ति। इह जन्मनि पूर्वजन्मसु वा ज्ञानोत्पत्तेः प्राक्कृतानि कर्माण्यनारब्धकार्याणि सञ्चितानीत्युच्यन्ते। तेषां सञ्चितानां द्विविधत्वम् - इहजन्मकृतत्वेन, पूर्वजन्मकृतत्वेन च। ज्ञानोत्पत्त्युत्तरकालमिह जन्मनि कृतान्यनारब्धकार्याणि कर्माणि आगामीनीत्युच्यन्ते। अमीषां त्रिविधकर्मणामफलप्रदत्वेन नाशो न युक्त इति त्रीणि जन्मानि स्युरेव विदुषः। न हि कृतविप्रणाशो युक्तः। कृतस्य कर्मणः फलमदत्त्वा नाशः कृतविप्रणाशः इत्युच्यते। फले ‘न स भूयोऽभिजायते’ इत्युक्तमाक्षिपति— नन्विति। ज्ञानोत्पत्त्यनन्तरं जन्माभावस्योक्तत्वात् पुनर्देहारम्भमुपेत्य नाक्षेपः स्यादित्याशङ्क्याह— यद्यपीति। तथापि स्युस्त्रीणि जन्मानीति सम्बन्धः। वर्तमानदेहे ज्ञानात्पूर्वोत्तरकालानां कर्मणां फलमदत्त्वा नाशायोगाज्जन्मद्वयमावश्यकम्। अतीतानेकदेहेष्वपि कृतकर्मणां ‘नाभुक्तं क्षीयते कर्म’ इति स्मृतेरदत्त्वा फलमनाशादस्ति तृतीयमपि जन्मेत्याह— प्रागिति। फलदानं विनाऽपि कर्मनाशे दोषमाह— कृतेति। न युक्त इति कृत्वा फलमदत्त्वा कर्मनाशो नेति शेषः। विमतानि

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

[[७०५]]

त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मान्यारभेरन्। संहतानि वा सर्वाण्येकं जन्मारभेरन्। अन्यथा १कृतविप्रणाशे सति सर्वत्रानाश्वासप्रसङ्गः, शास्त्रानर्थक् यं च स्यादित्यत इदमयुक्तमुक्तम्— ‘न स भूयोऽभिजायते’ इति। न; ‘क्षीयन्ते चास्य कर्माणि’ (मु.उ.२.२.८), ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु.उ.३.२.९), ‘तस्य तावदेव चिरम्’ (छा.उ.६.१४.२) २इषीकातूलवत् सर्वाणि कर्माणि प्रदूयन्ते (द्र.छा.५.२४.३) इत्यादिश्रुतिशतेभ्यः उक्तो विदुषः सर्वकर्मदाहः। इहापि चोक्तः— ‘यथैधांसि’ (भ.गी.४.३७) इत्यादिना सर्वकर्मदाहः। वक्ष्यति च। उपपत्तेश्च। फलदाने। आरब्धं जन्म यैस्तेषामारब्धजन्मनां कर्मणां, प्रारब्धानामित्यर्थः। विशेषो भेदः। आगामीनि सञ्चितानि च कर्माणि फलमदत्त्वा न नश्यन्ति, प्रारब्धकर्मवत् कर्मत्वादिति, कृतविप्रणाशस्यायुक्तत्वादिति वा प्रयोगः। त्रिप्रकाराणीति। त्रिविधानि, अतिक्रान्तानेकजन्मकृतानि, इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतान्यनन्तरं कृतानि चेति। ननु त्रिप्रकाराणामपि कर्मणामेकस्मिन्नेव जन्मनि फलदानेन विप्रणाशोऽस्तु , किमिति जन्मत्रयाभ्युपगम इति शङ्कायां सत्यमित्याह— संहतानि वेति। सर्वाणि कर्माणि मिलितानि भूत्वा एकं जन्मारभेरन्। ननु कृतविप्रणाशमात्रेण विदुषः पुनर्जन्मसम्भवप्रतिपादन- मयुक्तमित्यत आह— अन्यथेति। तस्यैवार्थमाह— कृतविप्रणाश इति। सतीति शेषः। सर्वत्रापि यज्ञादिवैदिककर्मस्वनाश्वासप्रसङ्गो यथा नास्तिकानाम्। सत्यनाश्वासे न कोऽपि तत्र प्रवर्तेतास्तिकोऽपि। मया क्रियमाणेनानेन कर्मणा मम स्वर्गादिकं स्यादिति निश्चयपूर्विका हि कर्मणि प्रवृत्तिरज्ञानां वैदिकानाम्। भवत्वप्रवृत्तिः, किं तत इत्यत आह— शास्त्रेति। यज्ञादिकर्तृपुरुषाभावे यज्ञादिप्रतिपादकं शास्त्रं व्यर्थमेव स्यात्। न च शास्त्रस्य वैयर्थ्यमिष्टमीश्वराज्ञारूपत्वात्। तन्न्यायेन प्रकृतगीताशास्त्रस्यापि व्यर्थत्वप्रसङ्गात्। इतिशब्दः पूर्वपक्षोपपादनसमाप्तौ। अत इति। कृतविप्रणाशस्यायुक्तत्वेन विदुषः पुनर्जन्मसम्भवादित्यर्थः। पूर्वपक्षं परिहरति— नेति। विदुषा प्रारब्धफलमेव भोक्तव्यं, न त्वागामिसञ्चितकर्मफलमित्ययं विशेषः शास्त्रादेवावगम्यते। तथाहि - श्रुतयस्तावत् - अस्मिन् परावरे परे ब्रह्मादयोऽवरे यस्मात् तस्मिन् परावरे प्रत्यगभिन्ने परमात्मनि दृष्टे साक्षात्कृते सति, अस्य साक्षात्कर्तुः कर्माणि क्षीयन्ते फलमप्रदायैव नश्यन्ति। यो ब्रह्माहमस्मीति वेद स ब्रह्मैव भवति, न तु पुनर्जन्म प्रतिपद्यत इत्येवकारार्थः। तस्य विदुषस्तावदेव प्रारब्धावसानमेव चिरं विलम्बो, मोक्षं प्रतीति शेषः। यावन्न विमोक्ष्ये प्रकृति[त]शरीरं न त्यजति। अथ शरीरपतनानन्तरं सम्पत्स्यते मुक्तिं यास्यतीत्यर्थः। इषीका मुञ्जान्तर्गतसूक्ष्मावयवस्तन्तुरूपः, तद्वत् , ३तूलवच्च सर्वाणि कर्माणि विदुष इति शेषः। प्रदूयन्ते प्रकर्षेण विनाश्यन्ते। ज्ञानाग्निनेति शेषः। ‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन। ज्ञानाग्निः कर्माणि फलमदत्त्वा न क्षीयन्ते, वैदिककर्मत्वादारब्धकर्मवदिति मत्वाऽऽह— यथेति। नाशो न ज्ञानादिति शेषः। नन्वनारब्धकर्मणां ज्ञानान्नाशो युक्तोऽप्रवृत्तफलत्वाद्,आरब्धकर्मणां तु प्रवृत्तफलत्वेन बलवत्त्वान्न ज्ञानात् तन्निवृत्तिरिति, नेत्याह— न चेति। अज्ञानोत्थत्वेन ज्ञानविरोधित्वाविशेषात् प्रवृत्ताप्रवृत्तफलत्वमनुपयुक्तमिति भावः। कर्मणां फलमदत्त्वा नाशाभावे फलितमाह— तस्मादिति। ननु कर्मणां बहुत्वात् तत्फलेषु जन्मसु कुतस्त्रित्वम्? आरम्भककर्मणां त्रिप्रकारत्वादिति चेन्न, अनारब्धत्वेनैकप्रकारकत्वसम्भवात् , तत्राह— संहतानीति। नास्ति ज्ञानस्यैकान्तिकफलत्वमिति शेषः। उक्तकर्मणां जन्मानारम्भकत्वे प्रागुक्तं दोषमनुभाष्य तस्यातिप्रसञ्जकत्वमाह— अन्यथेति। सर्वत्रेति आरब्धकर्मस्वपीति यावत्। फलजनकत्वानिश्चयोऽनाश्वासः। कर्मणां जन्मानारम्भकत्वे कर्मकाण्डानर्थक् यं दोषा- न्तरमाह— शास्त्रेति। अनारब्धकर्मणां सत्यपि ज्ञाने जन्मान्तरारम्भकत्वध्रौव्ये फलितमाह— इत्यत इति। श्रुत्यवष्टम्भेन परिहरति— नेत्यादिना। ज्ञानादनारब्धकर्मदाहे भगवतोऽपि सम्मतिमाह— इहापीति। ज्ञानाधीनसर्वकर्मदाहे ‘सर्वधर्मान्परित्यज्ये’ति वाक्यशेषोऽपि प्रमाणीभवतीत्याह— वक्ष्यति चेति। ज्ञानादनारब्धाशेषकर्मक्षये युक्तिरपि वक्तुं शक्येत्याह—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. २३ ] १. ‘कृतविनाशे’ इति पा.। २. ‘इष्टकेषीकातूलानां चिततूलभारिषु’(पा.सू. ६-३-६५) इति ह्रस्वविधानात् ‘इषीकतूलवत्’ इति पठितव्ये ‘इषीकातूलवत्’ इति पाठः श्रौतनिर्देशानुकरणत्वेन समर्थनीयः। ३. ‘इषीकातूलवत्’ इति द्वन्द्वसमासोत्तरं वतिप्रत्ययः इति प्रत्येकं तद्योगमभिप्रेत्येत्थं व्याख्यानम्।

[[७०६]]

सर्वकर्माणि भस्मसात्कुरुते तथा॥’ आदिपदात् ‘ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः’ इत्यादिग्रहणम्। सर्वकर्मदाह उक्त इत्यन्वयः। वक्ष्यति च ज्ञानात् कर्मक्षयमिति भावः। उपपत्तिमेव दर्शयति— अविद्येति। अविद्याकामक्लेशा एव बीजानि चूतादिफलान्तर्गतसारांशाः। तान्येव निमित्तं येषां तानि तथोक्तानि। कर्माणि चूतादिफलस्थानीयानीति भावः। जन्मान्तररूप- मङ्कुरमारभन्ते, जनयन्तीति यावत्। इहजन्मन्यपि साहङ्काराभिसन्धीनि अहं करोमीत्यहङ्कारः कर्तृत्वाभिमानरूपः, अभिसन्धिः फलाकाङ्क्षा, तद्युक्तानि कर्माणि कृष्यादीनि फलारम्भकाणि सस्यादिफलं जनयन्ति। इतराण्यहङ्काराभिसन्धिरहितानि कर्माणि ग्रामं गच्छतस्तृणस्पर्शनादीनि फलारम्भकाणि न भवन्ति। तथाऽहङ्कारफलाभिसन्धिरहितानि विदुषः कर्माण्यपि जन्मान्तररूपफला- रम्भकाणि न भवन्ति। तत्सहितान्यविदुषः कर्माण्येव जन्मान्तरमारभन्ते। यथा निर्बीजानि फलानि नाङ्कुरमारभन्ते, तथा अविद्याकामादिरहितानि विदुषः कर्माणि पुनर्जन्म नारभन्ते। यथा सबीजानि फलान्यङ्कुरमारभन्ते, तथा अविद्याकामादिसहितानि अविदुषः कर्माणि जन्मान्तरमारभन्त इति फलितार्थः। इतीत्यस्योपपत्तेश्चेत्यनेनान्वयः। भगवताऽप्युपपत्तिवचनं दर्शितमित्याह— तत्रतत्रेति। यथा अग्न्युपदग्धानि बीजानि व्रीह्यादीनि पुनर्न प्ररोहन्त्यङ्कुररूपेण न प्रादुर्भवन्ति, नाङ्कुरमारभन्त इति यावत्। तथा ज्ञानदग्धैः क्लेशैः क्लेशहेतुभिः कर्मभिर्निमित्तैरात्मा जीवः पुनर्न सम्पद्यते जन्म न प्राप्नोति। अग्निना बीजगतरोहणशक्तिरिव ज्ञानेन कर्मगतपुनर्जन्मप्रदानशक्तिर्दह्यत इति भावः। ननु ज्ञानात् प्राक् कृतानां कर्मणां साहङ्कारफलाभिसन्धिकत्वादविद्यादिमत्त्वाच्च पुनर्जन्मप्रदानशक्तिरस्त्येव, ज्ञानादनन्तरमेव हि विद्वानभिमानाभिसन्धिराहित्येन कर्माणि कुरुते, ततश्चागामिकर्मणामेव ज्ञानेन पुनर्जन्मप्रदानशक्तिनाश इत्याक्षिपति— अस्त्वि- त्यादिना। ज्ञानेन सह भवन्तीति ज्ञानसहभावीनि, तेषां भावस्तत्त्वम् , तस्माज्ज्ञानसहभावित्वात्। ज्ञानसहितत्वादित्यर्थः। ज्ञानपूर्वक- त्वादिति यावत्। ज्ञानेनैव कर्मणां दाहोऽस्तु इत्यन्वयः। न त्विति। दाहो न युक्त इत्यन्वयः। ज्ञानसहभावित्वाभावादिति भावः। परिहरति— नेति। हेतुमाह— सर्वेति। ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा’ इति श्लोके कर्मशब्दस्य सर्वशब्देन विशेषणा- दित्यर्थः। ‘सर्वाणि कर्माणीति विशेषणा’दिति पाठे इषीकातूलवदिति २श्रुताविति बोध्यम्। ननु ज्ञानोत्तरकालभाविकर्मणां निरवशेषत्व- भाष्यार्कप्रकाशः अविद्याकामक्लेशबीजनिमित्तानि हि कर्माणि जन्मान्तराङ्कुरमारभन्ते। इहापि च साहङ्काराभिसन्धीनि कर्माणि फलारम्भकाणि, नेतराणीति तत्र तत्र भगवतोक्तम्। ‘बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः। ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः’ (म.भा. ३.२००.१०) इति च। अस्तु तावज्ज्ञानोत्पत्त्युत्तरकालकृतानां कर्मणां ज्ञानेन दाहः, ज्ञानसहभावित्वात्। न त्विह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानाम्१ , अतीतानेकजन्मान्तरकृतानां च दाहो युक्तः। न ; सर्वकर्माणीति विशेषणात्। आनन्दगिरिकृतव्याख्या उपपत्तेश्चेति। तामेव विवृणोति— अविद्येति। अज्ञस्याविद्यास्मितारागद्वेषाभिनिवेशाख्यक्लेशात्मकानि सर्वानर्थबीजानि, तानि निमित्ती- कृत्य यानि धर्माधर्मकर्माणि तानि जन्मान्तरारम्भकाणि, यानि तु विदुषो विद्यादग्धक्लेशबीजस्य प्रतिभासमात्रशरीराणि कर्माणि, न तानि शरीरारम्भकाणि दग्धपटवदर्थक्रियासामर्थ्याभावादित्यर्थः। प्रतीतिमात्रदेहानां कर्माभासानां न फलारम्भकतेत्यस्मिन्नर्थे भगवतोऽपि सम्मतिमाह— इहापीति। तत्त्वज्ञानादूर्ध्वं प्रातीतिकक्लेशानां कर्मद्वारा देहानारम्भकत्वे वाक्यान्तरमपि प्रमाणयति— बीजानीति। ज्ञानानन्तरभाविकर्मणां ज्ञानेन दाहमङ्गीकरोति—अस्त्विति। विरोधिग्रस्तानामेवोत्पत्तेरिति हेतुमाह— ज्ञानेति। अस्मिञ्जन्मनि जन्मान्तरे वा ज्ञानात्पूर्वभाविकर्मणां न ततो दाहः, विरोधिनं विना प्रवृत्तेरित्याह— न त्विति। श्रुतिस्मृतिविरोधान्नैवमिति परिहरति— १. ‘कृतानां कर्मणाम्’ इति पा.। २. ‘तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते’(द्र.छा.५.२४.३) इति श्रुतौ सर्वे इति पाप्मविशेषणादित्यर्थः। पाप्मपदस्य तत्र कर्मपरत्वादिति भावः। ‘सर्वाणि कर्माणि’ इति व्यस्तनिर्देशं प्रदर्शयितुमिदमुक्तम्। स्मृतौ ‘सर्वकर्माणि’ इति समासनिर्देशात्। वस्तुतस्तु तथा निर्देशेऽतात्पर्यात् श्रुतिस्मृती उभे अपि ग्राह्ये।

[[७०७]]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

सिद्धये सर्वपदविशेषणमस्त्वित्याक्षिपति—ज्ञानेति। परिहरति—नेति। सर्वशब्दस्य ज्ञानोत्तरकालभाविकर्मपरत्वेन सङ्कोचे कारणं नास्तीत्यर्थः। ननु यदि सर्वशब्दसङ्कोचो न न्याय्यः, तर्हि प्रारब्धकर्माण्यपि गृह्यन्तां, यदि प्रारब्धकर्मग्रहणं तव नेष्टं, तर्हि तद्वत् सञ्चितकर्मग्रहणं मम नेष्टमित्याक्षिपति— यत्त्विति। उक्तमिति। यथा फले प्रवृत्तानामारब्धजन्मनां कर्मणामित्यनेनेति भावः। सत्यपि ज्ञाने फलदानाय प्रवृत्तानि वर्तमानजन्मारम्भकाणि कर्माणि यथा न क्षीयन्ते तथा अनारब्धफलानामपि कर्मणां क्षयो न युक्त इति यत्तूक्तमित्यन्वयः। प्रारब्धकर्मणामिव सञ्चितागामिकर्मणामपि भोगं विना क्षयो न युक्त इत्यर्थः। परिहरति—तदसदिति। कथमसदित्याक्षिपति—कथमिति। हेतुमाह—तेषामिति। तेषां प्रारब्धकर्मणां मुक्तेषुवत् प्रयुक्तबाणानामिव प्रवृत्तफलत्वात्। प्रवृत्तमारब्धं फलं यैस्तानि प्रवृत्तफलानि, तत्त्वात्। दृष्टान्तं विवृणोति—यथेति। पूर्वम् आदौ लक्ष्यवेधाय लक्ष्यस्य मृगादेर्वेधाय हिंसनाय धनुषः सकाशान्मुक्तः। ‘धनुषा मुक्तः’ इति वा पाठः। धानुष्केण प्रयुक्त इति यावत्। इषुः लक्ष्यवेधोत्तरकालमपि आरब्धवेगक्षयाद्धेतोः पतनेन भुवि पतनेनैव निवर्तते। मृगशरीरं भित्त्वा स्ववेगानुगुणं किञ्चिद्दूरं गत्वा वेगे नष्टे सति भुवि पततीत्यर्थः। न तु सति वेगे मृगशरीरभेदनसमकालमेव पततीति भावः। दार्ष्टान्तिकमाह—एवमिति। आसंस्कारवेगक्षयात् संस्कारवेग- नाशपर्यन्तमित्यर्थः। पूर्वेति। शरीरस्थितिप्रयोजननिवृत्तेः पूर्वं यज्ज्ञानम् ‘अहमिदम्’ ‘ममेद’मित्याकारकं, तेन संस्कृतेनान्तःकरणेन हेतुना। विदुषां ज्ञानोत्पत्त्यनन्तरं शरीरस्थित्या न किञ्चित् प्रयोजनमस्ति, कर्मकरणाद्यभावात्। तथापि शरीरं न पतति, प्रारब्धकर्मावसानाभावात्। मुक्तेषुस्थानीयं प्रारब्धकर्म। लक्ष्यवेधस्थानीया शरीरस्थितिप्रयोजननिवृत्तिः। आरब्धवेगक्षयस्थानीयः संस्कारक्षयः। लक्ष्यवेधोत्तरकालशरगमनस्थानीया शरीरस्थितिप्रयोजननिवृत्त्युत्तरकाल(ज्ञानोत्पत्त्युत्तरकाल)देहादिप्रवर्तकत्वरूप- नेत्यादिना। सर्वशब्दश्रुतेः सङ्कोचं शङ्कते— ज्ञानेति। प्रकरणादिसङ्कोचकाभावान्नैवमित्याह— नेति। आक्षेपदशायामुक्तमनुमानमनुवदति३— यत्त्विति। आभासत्वादिदमसाधकमिति दूषयति— तदसदिति। व्याप्त्यादिसत्त्वे कथ- माभासत्वमिति पृच्छति— कथमिति। ४प्रवृत्तफलत्वोपाधिना हेतोर्व्याप्तिभङ्गादाभासत्वधीरित्याह— तेषामिति। तदेव प्रपञ्चयति— यथेत्यादिना। धनुषः सकाशादिषुर्मुक्तो बलवत्प्रतिबन्धकाभावे मध्ये न पतति, तथा प्रबलप्रतिबन्धकं विना प्रवृत्तफलानां कर्मणां भोगादृते न क्षयः। न च तत्त्वज्ञानं तादृक्प्रतिबन्धकम् , उत्पत्तावेव पूर्वप्रवृत्तेन कर्मणा प्रतिबद्धशक्तित्वादित्यर्थः। यत्र ज्ञानेनादाह्यत्वं तत्र प्रवृत्तफलत्वमित्यन्वयेऽपि, यत्राप्रवृत्तफलत्वं तत्र ज्ञानदाह्यत्वमिति न व्यतिरेकसिद्धिरित्याशङ्क्याह— स एवेति। प्रवृत्तौ निमित्तभूतो

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यथा धनुषः सकाशान्मुक्त इषुः बलवच्छेदनादिप्रतिबन्धमन्तरेण न मध्ये पतति, तथा प्रवृत्तफलानां कर्मणां न क्षयः सम्भवति। तत्त्वज्ञानं च न बलवत् , पूर्वप्रवृत्तेन कर्मणोत्पत्तिसमय एव प्रतिबन्ध[बद्ध]शक्तित्वादित्यर्थः। अनारब्धफलानां तु क्षयः सम्भवतीत्यत्रापीषुरेव दृष्टान्त इत्याह— स एवेषुरिति। प्रवृत्तिनिमित्तो वेगो नारब्धोऽनेनेति ज्ञानोत्तरकालभाविनामेव सर्वकर्मणामिति चेत्? न ; सङ्कोचे कारणानुपपत्तेः। यत्तूक्तम् - यथा वर्तमानजन्मारम्भकाणि कर्माणि न क्षीयन्ते फलदानाय प्रवृत्तान्येव, सत्यपि ज्ञाने, तथा अनारब्धफलानामपि कर्मणां क्षयो न युक्तः - इति, तदसत्। कथम्? तेषां मुक्तेषुवत् प्रवृत्तफलत्वात्। यथा पूर्वं लक्ष्यवेधाय मुक्त इषुर्धनुषो लक्ष्यवेधोत्तरकालमपि आरब्धवेगक्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीरस्थितिप्रयोजने निवृत्तेऽप्यासंस्कारवेगक्षयात् १पूर्ववत् प्रवर्तत एव। २स एवेषुः प्रवृत्तिनिमित्तानारब्धवेगस्तु अ. १३. श्लो. २३ ] १. ‘पूर्वज्ञानसंस्कृतेनान्तःकरणेन’ इति रा.पा. भाति। २.‘यथा स एवेषुः’ इति रा.पा.। ३. विमतानि कर्माणि, फलमदत्त्वा न क्षीयन्ते, वैदिककर्मत्वाद् , आरब्ध- कर्मवदिति आक्षेप्तुरनुमानम्। ४. दृष्टान्ते प्रवृत्तफलत्वं साध्यव्यापकम् , पक्षे तदभावात् साधनाव्यापकं चेति भवत्युपाधिः। अतः सोपाधिकत्वात् व्याप्त्यसिद्धिः।

[[७०८]]

[अनुभूतिस्वरूपाचार्यटिप्पणम्]

अमुक्तो धनुषि प्रयुक्तोऽप्युपसंह्रियते, तथाऽनारब्धफलानि कर्माणि स्वाश्रयस्थान्येव ज्ञानेन निर्बीजीक्रियन्त इति पतितेऽस्मिन् विद्वच्छरीरे ‘न स भूयोऽभिजायते’ इति युक्तमेवोक्तमिति सिद्धम्॥२३॥

कर्मप्रवृत्तिरिति विवेकः। पूर्वज्ञानसंस्कृतेनेत्यनेन संस्काररूपं तज्ज्ञानं दग्धपटवदबन्धकमिति गम्यते। अथागामिसञ्चितकर्मणोः प्रारब्धकर्मवैलक्षण्यं सदृष्टान्तमाह— स एवेति। प्रवृत्तिनिमित्तं लक्ष्यं, तत्प्रति अनारब्धवेगः। कुतो वेगस्यानारम्भक इत्यत आह— अमुक्त इति। मुक्तस्य ह्यारब्धवेगत्वम्। कुत्र स्थितः? अत आह— धनुषि प्रयुक्त इति। अनुसंहित इत्यर्थः। उपसंह्रियते, धानुष्केणेति शेषः। धनुषो मुक्तस्तु नोपसंहर्तुं शक्यत इति भावः। दार्ष्टान्तिकमाह— तथेति। स्वाश्रयमन्तःकरणम् , तत्स्थान्येव निर्बीजीक्रियन्ते पुनर्जन्मजननासमर्थानि क्रियन्त इत्यर्थः। धानुष्कस्थानीयो विद्वान् , धनुःस्थानीयमन्तःकरणम् , तत्स्थेषुस्थानीयानि तत्स्थकर्माणि, उपसंहारस्थानीयं तु निर्बीजीकरणमिति विवेकः। ज्ञानात् प्राक् फलाभिसन्ध्यादिमन्त्यपि कर्माणि सञ्चितानि ज्ञानादनन्तरं फलाभिसन्ध्यादिपरित्यागे सति स्वं फलं प्रदातुं न क्षमन्त इति भावः। ननु एतेन कृतविप्रणाशदोषः कथं परिहृत इति चेद्? उच्यते— अविद्वद्विषय एव कृतविप्रणाशो दोषः, शास्त्रानर्थक्या- पादकत्वात्। अविद्वांसो हि शास्त्रार्थाधिकारिणः। विद्वद्विषयस्तु कृतविप्रणाशो गुण एव, मोक्षप्रदत्वेन मोक्षशास्त्रसार्थक्यावहत्वात्। ननु यद्यविद्वद्विषयाण्येव कर्माणि, तर्हि विदुषामागामिकर्मोपन्यासः कथमिति चेत् , नैष दोषः - ‘सर्वथा वर्तमानः’ इत्यनेन सूचितानामवधूतचेष्टानां कर्मत्वेनोपन्यासात्। यद्वा जनकादीनां विदुषामागामिकर्मसत्त्वादिति। प्रपञ्चितं चैतदादावेव जनकादीनां कर्म न कर्म, फलाभिसन्ध्याद्यभावाद् वासुदेवकर्मवदिति। तस्मादस्मिन् विद्वच्छरीरे पतिते सति स विद्वान् भूयो नाभिजायते। प्राणाद्युपाधीनां स्वस्वकारणेषु लीनत्वादिति भावः। लिङ्गशरीरसत्त्वप्रयुक्तं हि पुनर्जन्म। तच्च नष्टमिति न विदुषः पुनर्जन्मप्रसङ्गः। यत्तु रामानुजः - सर्वथा वर्तमानोऽपि देवमनुष्यादिदेहेष्वतिमात्रक्लिष्टप्रकारेण वर्तमानोऽपि स प्रकृतिपुरुषविवेकसम्पन्नो भूयो नाभिजायते, प्रकृत्या सम्बन्धं नार्हति, आत्मानं प्राप्नोतीति, तन्मन्दम् - विदुषो देवादिदेहस्थितिप्रयुक्तक्लेशायोगात्। अविदुषः प्रकृति- पुरुषविवेकायोगाच्च। न ह्यसङ्गं सच्चिदानन्दमद्वितीयं परं ब्रह्मात्मानं विदुषः कोऽपि क्लेशो भवितुमर्हति। न ह्यानन्दे आत्मनि क्लेशो युज्यते। क्लेशो हि दुःखम्। अपरिच्छिन्नस्य पूर्णस्यात्मनः कथं शुकस्येव पञ्जरे देहे वर्तनं क्लेशकारणं स्यात्? किमाकाशो घटे क्लिष्टः सन् वर्तते? सरूपस्य हि वस्तुनः करचरणादिचालनाक्षमस्वल्पावकाशवद्वस्तुनि स्थितिः क्लिष्टा स्यात् , न तु नीरूपस्य, तत्रापि निर- वयवस्य। आत्मा हि नीरूपो निरवयवश्च। न हि सर्वव्यापी विभुरात्मा देह एव वर्तेत। निर्विकारे चात्मनि कथं क्लेशरूपविकारसद्भावः? ‘अविकार्योऽयमुच्यते’ इति ह्युक्तम्। एवं स्थिते य आत्मानं देहपरिच्छिन्नं देहेऽतिमात्रक्लेशेन वर्तमानं मन्यते, स मूर्ख एवेति कथं तस्य प्रकृतिपुरुषविवेकसद्भावः? असङ्गस्य पुरुषस्य प्रकृतितो विवेचितस्य विवेचनात् प्राक् पश्चाद्वा कथं प्रकृतिसङ्गः? कथं वा गुणसङ्गः? एवं प्रकृत्यादिसङ्गरहितस्य कथं वा क्लेशः? कथं वा देहस्थितिः? देहे स्थितस्य क्लेशमनुभवतो ‘मम देहो’ ‘देहेऽहम्’ इत्यभिमन्यमानस्य कथं वा पुनर्देहाप्राप्तिः? पुनर्जन्महेत्वोरज्ञानाभिमानयोः सत्त्वात्। एवंविधस्य कथमात्मप्राप्तिः? न कथमपीति ॥२३॥ ऽनारब्धो वेगोऽनेनेति विग्रहः। स्वाश्रयस्थानि साभासान्तःकरणनिष्ठानीति यावत्। १विमतानि तत्त्वधीनिमित्तनिवृत्तीनि, तत्कृतकारण- निवृत्तित्वाद् , रज्जुसर्पादिवदिति व्यतिरेकसिद्धिरिति भावः। विदुषो वर्तमानदेहपाते देहहेत्वभावात् तत्त्वधीरैकान्तिकफलेत्युपसंहरति— पतित इति॥२३॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

विग्रहः॥२३॥

इति श्रीगीताभाष्यटिप्पणे त्रयोदशोऽध्यायः॥

१. पूर्वपक्षोक्तानुमानस्य प्रत्यनुमानमाह—विमतानीति।

[[७०९]]

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥२४॥

ध्यानेनेति। आत्मदर्शनमात्मसाक्षात्कारः। तस्मिन् विषये। विषयेभ्यः प्रत्याहृत्येति शेषः। उपसंहृत्येति। निर्व्यापारीकृत्ये- त्यर्थः। मनोव्यापारपूर्वकत्वाच्छ्रोत्रादिव्यापारस्य श्रोत्रादीनां मनस्युपसंहार उक्तः। चेतयति स्वाभासेन बुद्ध्यादिकं देहान्तं चेतनीकरो- तीति चेतयिता आत्मा, प्रत्यक् चेतयिता प्रत्यगात्मा, तस्मिन् मनश्चोपसंहृत्य मनोऽपि निर्व्यापारीकृत्वेत्यर्थः। यच्चिन्तनं तद् ध्यानमि- त्युच्यते। चिन्तने करणं तु संस्कृतमन्तःकरणमेव, तद्धर्मत्वाद् ध्यानस्य। एवमेकाग्रात्मचिन्तनस्य ध्यानत्वे प्रमाणमाह— ध्यायतीवेति। निर्व्यापारेषु बकादिषु ध्यायतीवेति ध्यातृसादृश्यप्रतिपादनान्न हि बकादीनां वस्तुतो ध्यानप्रसक्तिः, बकस्य मत्स्यग्रहणप्रवणस्य प्रत्यक्ि चन्तनासम्भवात् , पृथिवीपर्वतयोरचेतनत्वाच्च; किन्तु यथा निर्विकल्पसमाधिस्था योगिनः प्रत्यगात्मानं ध्यायन्ति तथेमे बकादयोऽपि ध्यायन्त इव निर्व्यापारतया वर्तन्त इति। तस्मात् कार्यकरणानां निर्व्यापारत्वे सति यदेकाग्रं चिन्तनं तद् ध्यानम्। एवं निर्विकल्पसमाधेर्ध्यानत्वं प्रदर्श्य सविकल्पसमाधेस्तत् प्रदर्शयति— तैलधारावदिति। सन्ततोऽविच्छिन्नश्च यः प्रत्ययोऽहम्ब्रह्मेति बुद्धिवृत्तिस्तद् ध्यानम्। तेन निर्विकल्पेन सविकल्पेनापि द्विविधेन ध्यानेनेत्यर्थः। आत्मनि बुद्धावधिष्ठाने। आत्मस्वरूपाभिव्यक्तिस्थानत्वं बुद्धेरिति भावः। केन पश्यन्तीत्यत आह— ध्यानेनेति। ध्यानेन संस्कृतेन निश्चलीकृतेनान्तःकरणेन ‘मनसैवानुद्रष्टव्यम्’ इति श्रुतेरिति भावः। के ते केचिद्? अत आह— योगिन इति। साङ्ख्यं नाम चिन्तनमित्यन्वयः। चिन्तनप्रकारमेव दर्शयति— इम इति। य इमे गुणाः सत्त्वरजस्तमांसीति, ये च तद्व्यापाराः सुखदुःखमोहात्मकवृत्तयस्तेषां साक्षिभूतः। अत एव तेभ्यो गुणेभ्यो विलक्षणः। अत एव नित्यः। एवंविध आत्मेति यच्चिन्तनं तत् साङ्ख्यमित्युच्यते। एष आत्मज्ञानात्मको योगः साङ्ख्ययोगः। तेनात्मनाऽऽत्मानं पश्यन्ति। एते योगिभ्योऽन्ये साङ्ख्या इत्यर्थः। ‘ज्ञेयं यत्तदि’त्यादिना तत्पदार्थस्त्वम्पदार्थश्चानन्तरमेव शोधितौ। तयोरैक् यं च ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्युक्तम्। इदानीं तद् दृष्टिहेतून् यथाधिकारं कथयति— अत्रेति। ध्यानाख्यं साधनं किंरूपमिति पृच्छति— ध्यानं नामेति। तद्रूपं वदन्नुत्तरमाह— शब्दादिभ्य इति। एकाग्रतयोपसंहृत्येति सम्बन्धः। यच्चिन्तनं प्रत्यक् चेतयितरीति पूर्वेणान्वयः। किं तच्चिन्तनमित्युक्ते दृष्टान्तद्वारा श्रुत्यवष्टम्भेन ध्यानं प्रपञ्चयति— तथेति। विवक्षितध्यानानुरोधेनेति यावत्। आत्मानं पश्यन्ति परमात्मतयेति शेषः। केचिदिति उत्तमाधिकारिणो गृह्यन्ते। मध्यमाधिकारिणो निर्दिशति— अन्य इति। साङ्ख्यशब्दितं साधनं किं नामेत्युक्ते विचारजन्यं ज्ञानम् , तदेव ज्ञानं हेतुतया योगतुल्यत्वाद् योगशब्दितमित्याह— साङ्ख्यमिति। अधमानधिकारिणः सङ्गिरते— कर्मेति। चित्तैकाग्र्यं योगस्तादर्थ्यं

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘आत्मना स्वेनैव प्रत्यक् चेतनेन’ इति पा.। अत्रात्मदर्शने उपायविकल्पाः इमे ध्यानादयः उच्यन्ते— ध्यानेनेति। ध्यानेन - ध्यानं नाम? शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनस्युपसंहृत्य, मनश्च प्रत्यक् चेतयितरि एकाग्रतया यच्चिन्तनं तद् ध्यानम्। तथा ध्यायतीव बकः, ‘ध्यायतीव पृथिवी…ध्यायन्तीव पर्वताः’ (छा.उ. ७.६.१) इत्युपमोपादानात् तैलधारावत् सन्ततो ऽविच्छिन्नप्रत्ययो ध्यानम्। तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक् चेतनम् आत्मना१ ध्यानसंस्कृतेनान्तःकरणेन केचिद् योगिनः। अन्ये साङ्ख्येन योगेन, साङ्ख्यं नाम - इमे सत्त्वरजस्तमांसि गुणा मया दृश्याः, अहं तेभ्योऽन्यस्तद् व्यापारसाक्षिभूतो नित्यो गुणविलक्षण आत्मेति चिन्तनम्। एष साङ्ख्यो योगः, तेन पश्यन्ति आत्मानमात्मनेति वर्तते। कर्मयोगेन कर्मैव योग ईश्वरार्पणबुद्ध्याऽनुष्ठीयमानं घटनरूपं योगार्थत्वाद् योग

[[अ. १३. श्लो. २३-२४]] [[७१०]]

उच्यते गुणतः, तेन सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण चापरे॥२४॥

अन्ये त्विति। अन्ये त्वेषु विकल्पेष्वन्यतमेनापि एवं यथोक्तमात्मानम् अजानन्तः अन्येभ्यः आचार्येभ्यः श्रुत्वा इदमेव चिन्तयतेत्युक्ता उपासते श्रद्दधानाः सन्तश्चिन्तयन्ति, तेऽपि च अतितरन्त्येव अतिक्रामन्त्येव मृत्युं मृत्युयुक्तं संसारमित्येतत्। श्रुतिपरायणाः श्रुतिः श्रवणं परम् अयनं गमनं, मोक्षमार्गप्रवृत्तौ परं साधनं येषां ते श्रुतिपरायणाः, १केवलपरोपदेशप्रमाणाः स्वयं विवेकरहिता इत्यभिप्रायः। किमु वक्तव्यम्— प्रमाणं प्रति स्वतन्त्रा विवेकिनो मृत्युम् अतितरन्तीत्यभिप्रायः॥२५॥

कर्मयोगेनेति। चित्तसमाधानात्मकयोगत्वं कथं कर्मणः? अत आह— योगार्थत्वादिति। चित्तसमाधानार्थत्वादित्यर्थः। योगार्थं कर्म योग इति कथमुच्यते? अत आह— गुणत इति। उपचारादित्यर्थः। लक्षणयेति यावत्। ननु कर्मानुष्ठानेन कथमात्मदर्शनम्? अत आह— सत्त्वेति। सत्त्वमन्तःकरणं तस्य शुद्धिर्नैर्मल्यं, विक्षेपाभाव इति यावत्। ततो ज्ञानोत्पत्तिः तद्द्वारेण। अपरे कर्मिण इत्यर्थः। अनेन श्लोकेन ध्यानयोगः, कर्मयोगो, ज्ञानयोगश्चेति त्रयः उपायाः आत्मदर्शने प्रोक्ताः। तत्राप्रतिबन्धसंन्यासिरूपो- त्तमाधिकारिविषयः साङ्ख्ययोगः, सप्रतिबन्धसंन्यासिरूपमध्यमाधिकारिविषयो ध्यानयोगः, असंन्यासिविषयस्तु कर्मयोग इति विवेकः। ध्यानयोग एवोत्तमाधिकारिविषयः, ज्ञानयोगस्तु मध्यमविषय इति केचित्। रामानुजस्तु - निष्पन्नयोगानां ध्यानयोगे, अनिष्पन्नयोगानां ज्ञानयोगे, उत्तमानां कर्मयोगे चाधिकार इत्युवाच। तदसत् - विदुषामुत्तमानां संन्यास एवाधिकार इति स्थापितत्वात् पूर्वमेव। न ह्यात्मानं सच्चिदानन्दलक्षणमविक्रियमकर्तारं पश्यन्तो विद्वांसः कर्म कुर्युः, देहाद्यभिमानपूर्वकत्वात् कर्मयोगस्य। असमाहितचित्तानां यदि ज्ञानयोगेऽधिकारः स्यात् , तर्हि विन्ध्यः प्लवेत् सागरे२। चित्तसमाधानपूर्वको ह्यात्मानात्मविवेकः। आत्मा हि निरतिशयसूक्ष्मः। कथं तज्ज्ञानं विक्षिप्तचित्तस्य सम्भवेत्? असमाहितचित्तो हि बाह्यं घटादिवस्त्वपि न सम्यग्ग्रहीतुं शक्नुयात् , किं पुनरन्तरात्मानमणोरणीयांसम्। ये तु समाहितचेतसः प्राज्ञास्तेषां चित्त- विक्षेपादिरूपप्रतिबन्धाभावेन सुलभ एवात्मसाक्षात्कार इति किमर्थस्तेषां ध्यानयोगो यमनियमादिसाधनापेक्षत्वेन क्लेशावहः ॥२४॥

अन्ये त्विति। एवमजानन्तः अन्ये तु अन्येभ्यः श्रुत्वा उपासते। श्रुतिपरायणास्ते चापि मृत्युमतितरन्त्येव। एतेषु पूर्वोक्तेषु विकल्पेषु ध्यानयोगज्ञानयोगकर्मयोगाख्येषूपायविकल्पेषु अन्यतमेन। बहूनां निर्धारणे डतमच्। येन केनापि योगेनात्मानमजानन्तो ज्ञातुमसमर्था इत्यर्थः। अहं ब्रह्मास्मीत्युपदेशं श्रुत्वा। फलितार्थमाह— इदमेव चिन्तयतेत्युक्ता इति। आचार्यैरिति शेषः। आत्मानं ब्रह्मत्वेन न जानन्ति। किन्तु अहं ब्रह्मास्मीतीदं त्वं सर्वदा चिन्तय ३(सततमविच्छिन्नं यथा तथा आवर्तय) इति गुरुभिरुपदिष्टाः सन्तः श्रद्धया ये यथोपदिष्टमुपासते तेऽपि मोक्षं यास्यन्तीत्यर्थः। श्रुतिपरायणा इत्यस्य फलितार्थमाह— केवलमिति। परोपदेश एव प्रमाणं कर्मणः शुद्धिहेतोरस्ति। तेन गौण्या वृत्त्या योगशब्दितं कर्मेत्याह— गुणत इति। अपरे पश्यन्त्यात्मानमात्मनेति पूर्ववदनुषङ्गमङ्गी- कृत्याह— तेनेति॥२४॥

अधमतमानधिकारिणो मोक्षमार्गे प्रवृत्तिं प्रतिलम्भयति— अन्ये त्विति। आचार्याधीनां श्रुतिमेवाभिनयति— इदमिति। उपासनमेव विवृणोति— श्रद्दधाना इति। परोपदेशात् प्रवृत्तानामपि प्रवृत्तेः साफल्यमाह— तेऽपीति। तेषां मुख्याधिकारित्वं व्यावर्तयति — श्रुतीति। तेऽपीत्यपिना सूचितमर्थमाह— किमिति॥२५॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥२५॥

१. ‘केवलं परोपदेशप्रमाणकाः’ इति रा.पा.। २. तद्वदसंभवीति भावः। ३. अयं पाठः कुण्डलित एव दृष्टः मुद्रितपुस्तके।

[[७११]]

येषां ते परोपदेशप्रमाणकाः। विवेकः आत्मानात्मविवेकः। तेऽपीत्यपिशब्दसूचितामर्थापत्तिमाह— किम्विति। प्रमाणं शास्त्रं प्रति स्वतन्त्राः शास्त्रार्थपरिज्ञानक्षमाः इत्यर्थः। अतिक्रामन्तीति किमु वक्तव्यमित्यन्वयः। यत्तु रामानुजः - येऽन्येभ्यः श्रुत्वा कर्मयोगादिकमुपासते ते, ये च श्रुतिपरायणास्ते च मृत्युमतितरन्तीत्यवदत् , तत्तुच्छम् - यत्तच्छब्दद्वयाध्याहारपूर्वकवाक्यभेदकल्पनस्यायुक्तत्वात्। न च श्रुत्वेत्यस्य श्रुतिपरायणा इत्यस्य च पौनरुक्त्यदोषनिरासाय वाक्यभेद आवश्यक इति वाच्यम् ; श्रुतिपरायणत्वादेव श्रुत्वोपासत इति हेतुहेतुमद्भावेनापौनरुक्त्यात्॥२५॥

यावदिति। अत्रेति। अस्मिन्नध्याय इत्यर्थः। ‘क्षेत्रज्ञं चापि मां विद्धी’ति, क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं ‘यज्ज्ञात्वाऽमृतमश्नुते’ इति मोक्षसाधनमित्युक्तम्। कस्माद्धेतोस्तज्ज्ञानं मोक्षसाधनमिति शङ्कायां तद्धेतुप्रदर्शनार्थमयं यावदिति श्लोक आरभ्यते। स्थावरजङ्गमं यावत्किञ्चित् सत्त्वं सञ्जायते तत् क्षेत्रक्षेत्रज्ञसंयोगाज्जायत इति विद्धि। यावच्छब्दस्य यदित्यर्थः। किंविशेषेणेति। कीदृशं तद् वस्त्वित्यर्थः। कश्चासौ विशेषः किंविशेषः, तेन युक्तं सत्त्वमित्यक्षरार्थः। स्थावरं तरुगुल्मादिकं, जङ्गमं पशुपक्ष्यादिकं च चेतनजातमित्यर्थः। अचेतनजातं तु मृत्पाषाणादिकं क्षेत्रमेवेति भावः। नन्वसङ्गस्य क्षेत्रज्ञस्य कथं क्षेत्रेण सह संयोग इत्यभिप्रेत्याक्षिपति— कः पुनरिति। रज्जुघटयोर्हि परस्परावयवसंश्लेषद्वारा संयोगाख्यः कश्चित् सम्बन्धविशेषोऽस्ति, न तादृशः क्षेत्रक्षेत्रज्ञयोर्भवितुमर्हति, क्षेत्रस्य सावयवत्वेऽपि क्षेत्रज्ञस्य निरवयवत्वात्। न हि घटरज्ज्वोरिव घटाकाशयोः संयोगः स्यात्। न च मृद्घटयोरिव क्षेत्रक्षेत्रज्ञयोः समवायः सम्बन्धः, क्षेत्रज्ञादुपादानात् क्षेत्रं जातमिति, क्षेत्रात् क्षेत्रज्ञो जात इति वा क्षेत्रक्षेत्रज्ञयोरितरेतरकार्यकारणभावानभ्युपगमात्। इतरस्य क्षेत्रक्षेत्रज्ञयोरन्यतरस्य इतरमन्यतरं प्रति कार्यकारणभावस्यानभ्युपगमात्। न च ‘यतो वा इमानी’ति श्रुत्या क्षेत्रज्ञस्येश्वरस्य क्षेत्रं प्रति कारणत्वमस्तीति वाच्यम् ; परिणाम्युपादानत्वलक्षणकारणत्वाभावात्। परिणाम्युपादानकारणस्यैव कार्येण सह समवायसम्बन्धाभ्युपगमात्। क्षेत्रज्ञस्तु विवर्तोपा- दानम् , सर्पाभासस्य रज्जुवत्। न हि रज्जुसर्पाभासयोर्लोके समवायसम्बन्धो दृश्यते। तस्मात् संयोगलक्षणः समवायलक्षणो वा संबन्धो नास्ति क्षेत्रक्षेत्रज्ञयोः इति कथमुक्तं क्षेत्रक्षेत्रज्ञसंयोगादिति। एवं संयोगासम्भवादेव हि ‘असङ्गो ह्ययं पुरुषः’ इति श्रुत्युपपत्तिः। भाष्यार्कप्रकाशः ऐक्यधीर्मुक्तिहेतुरिति प्रागुक्तमनूद्य प्रश्नपूर्वकं जिज्ञासितहेतुपरत्वेन श्लोकमवतारयति— क्षेत्रेति। सर्वस्य प्राणिजातस्य क्षेत्र- क्षेत्रज्ञसम्बन्धाधीना यस्मादुत्पत्तिस्तस्मात् क्षेत्रज्ञात्मकपरमात्मातिरेकेण प्राणिनिकायस्याभावादैक्यज्ञानादेव मुक्तिरित्याह— कस्मादिति। क्षेत्रक्षेत्रज्ञसम्बन्धमुक्तमाक्षिपति— कः पुनरिति। क्षेत्रज्ञस्य क्षेत्रेण सम्बन्धः संयोगो वा समवायो वेति विकल्प्याऽऽद्यं दूषयति— न तावदिति। द्वितीयं निरस्यति— नापीति। यावत् संजायते किञ्चित् सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात् तद् विद्धि भरतर्षभ ! ॥२६॥

क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनं ‘यज्ज्ञात्वाऽमृतमश्नुते’ इत्युक्तम् , तत् कस्माद्धेतोरिति तद्धेतुप्रदर्शनार्थं श्लोक आरभ्यते— यावदिति। यावद् यत् किञ्चित् सञ्जायते समुत्पद्यते सत्त्वं वस्तु , १किमविशेषेण? नेत्याह— स्थावरजङ्गमम् स्थावरं जङ्गमं च, क्षेत्रक्षेत्रज्ञसंयोगात् तद् जायत इत्येवं विद्धि जानीहि , हे भरतर्षभ ! । [क्षेत्रक्षेत्रज्ञयोः संयोगस्याध्यासरूपत्वनिरूपणम्] कः पुनरयं क्षेत्रक्षेत्रज्ञयोः संयोगोऽभिप्रेतः? न तावद् रज्ज्वेव घटस्य अवयवसंश्लेषद्वारकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति, आकाशवन्निरवयवत्वात्। नापि समवायलक्षणः तन्तुपटयोरिव, क्षेत्रक्षेत्रज्ञयो- आनन्दगिरिकृतव्याख्या अ. १३. श्लो. २४-२६ ] १. ‘किंविशेषेणेत्याह’ इति रा.पा. भाति।

[[७१२]]

तस्माच्छ्रुतिविरुद्धो निरुपपत्तिश्च प्रकृतगीतोक्तार्थोऽप्रमाण एवेति पूर्वपक्षः। समाधानमुच्यतेऽस्य मयेति प्रतिजानाति—उच्यत इति। क्षेत्रक्षेत्रज्ञयोरध्यासरूपः संयोगोऽस्तीति न काचिदनुपपत्तिः। अध्यासरूपसंयोगस्य मिथ्यात्वेन नासङ्गश्रुतिविरोध इत्याह— क्षेत्रेत्यादिना। विषयो ज्ञेयं, विषयि ज्ञानम् , ज्ञानस्वरूपत्वादात्मनः। भिन्नस्वभावयोः सच्चिदानन्दस्वभाव आत्मा, अनृतजडदुःखात्मकं क्षेत्रमिति भावः। इतरस्मिन् क्षेत्रे इतरस्य क्षेत्रज्ञस्य, तद्धर्माणां चैतन्यादीनां चाध्यासः। तथा इतरस्मिन् क्षेत्रज्ञे इतरस्य क्षेत्रस्य, तद्धर्माणां सुखादीनां चाध्यासः। यथा देवोऽहं मनुष्योऽहमिति धर्म्यध्यासः, सुख्यहं दुःख्यहं पश्याम्यहमित्यादिर्धर्माध्यासः। स लक्षणं यस्य स तथोक्त इति संयोगविशेषणम्। एतस्याध्यासस्य किं निमित्तम्? अत आह— क्षेत्रक्षेत्रज्ञेति। इदं क्षेत्रम् अयं क्षेत्रज्ञ इति क्षेत्रक्षेत्रज्ञयोर्यः स्वरूपविवेकस्तदभाव एव निबन्धनं निमित्तं यस्य स तथोक्तः। क्षेत्रक्षेत्रज्ञसंयोग इहाभिप्रेत इति शेषः। तत्र दृष्टान्तमाह— रज्ज्विति। तच्छब्दस्य रज्जुशुक्तिकादिस्वरूपाण्यर्थः। तेषां विवेकरूपस्य विज्ञानस्याभावाद् हेतोरध्यारोपितैः सर्परजतादिभी रज्जुशुक्तिकादीनां यथा संयोग इतरेतराध्यासलक्षणस्तद्वदिति। रज्जुसर्पयोरिव शुक्तिकारजतयोरिव च स्वरूपविवेकाभावेन क्षेत्रक्षेत्रज्ञयोः इतरेतरतादात्म्याध्यासलक्षणः संयोग उपपद्यत इत्यर्थः। रज्जौ सर्पस्येव, शुक्तिकायां रजतस्येव च, क्षेत्रज्ञे क्षेत्रस्याविद्यया कल्पितत्वेनारोप्याधिष्ठानयोः संयोगादिरूपसम्बन्धाभावे ऽप्यध्यासरूपसम्बन्धसत्त्वात् क्षेत्रक्षेत्रज्ञसंयोगोऽध्यासरूप एवेति भावः। अस्य चाध्यासरूपसम्बन्धस्य किं लक्षणम्? अत आह— सोऽयमिति। मिथ्याज्ञानं भ्रमस्तदेव लक्षणं यस्य स तथोक्तः। अतस्मिंस्तद्बुद्धेरध्यासरूपत्वाद् भ्रम एवाध्यास इति भावः। एतेन क्षेत्रक्षेत्रज्ञसंयोगो भ्रान्तिसिद्ध एव, न तात्त्विक इति सिद्धम्। यद्वा मिथ्या च तदज्ञानं च मिथ्याज्ञानं, तदेव लक्षणं स्वरूपं यस्य स मिथ्याज्ञानलक्षणः। कार्यस्य कारणस्वरूपत्वाद् अज्ञानकारणस्याध्यासस्याज्ञानमेव स्वरूपं घटस्य मृदिवेति भावः। एतेनाविद्याकृतः क्षेत्रक्षेत्रज्ञसंयोगो रज्जुसर्पसंयोगवदिति अविद्याया मिथ्यात्वात् तत्कृतसंयोगोऽपि मिथ्यैवेति सूचितम्। एतदर्थमेव हि मिथ्यापदेन विशेषितमज्ञानमाचार्यैः। एतस्य चाध्यासरूपस्य मिथ्याज्ञानस्य निवृत्त्युपायं दर्शयति— यथाशास्त्रमित्यारभ्य मिथ्याज्ञानमित्यन्तेन ग्रन्थेन। यथाशास्त्रं वेदान्तशास्त्रमनतिक्रम्य, तदुक्तविधयेत्यर्थः। क्षेत्रक्षेत्रज्ञयोर्यो लक्षणभेदः सत्यत्वमिथ्यात्वादिस्वरूपभेदः, तत्परिज्ञानं पूर्वं यस्य तत् तथेति प्रविभज्यमानमित्यस्य विशेषणम्। प्राग्दर्शितमहङ्कारादिकं रूपं यस्य तस्मात् प्राग्दर्शितरूपात् क्षेत्रात् सकाशाद् , मुञ्जात्

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

रितरेतरकार्यकारणभावानभ्युपगमादिति। उच्यते— क्षेत्रक्षेत्रज्ञयोः विषयविषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञ- स्वरूपविवेकाभावनिबन्धनः, रज्जुशुक्तिकादीनां तद्विवेकज्ञानाभावाद् अध्यारोपितसर्परजतादिसंयोगवत्। सोऽयम् अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगो मिथ्याज्ञानलक्षणः। यथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं प्राग्दर्शितरूपात् क्षेत्राद् , मुञ्जादिवेषीकाम् , यथोक्तलक्षणं क्षेत्रज्ञं १प्रविभज्य ‘न सत् तन्नासदुच्यते’ (भ.गी.१३.१३) इत्यनेन निरस्त- वास्तवसम्बन्धाभावेऽपि तयोरध्यासरूपः सोऽस्तीति परिहरति— उच्यत इति। भिन्नस्वभावत्वे हेतुमाह— विषयेति। इतरेतरवत् क्षेत्रे क्षेत्रज्ञे वा तद्धर्मस्य क्षेत्रानधिकरणस्य क्षेत्रज्ञगतस्य चैतन्यस्य, क्षेत्रज्ञानाधारस्य च क्षेत्रनिष्ठस्य जाड्यादेरारोपरूपो योगस्तयोरित्याह— इतरेति। तत्र निमित्तमाह— क्षेत्रेति। अविवेकादारोपितसंयोगे दृष्टान्तमाह— रज्ज्विति। उक्तं सम्बन्धं निगमयति — सोऽयमिति। तस्य निवृत्तियोग्यत्वं सूचयति— मिथ्येति। कथं तर्हि मिथ्याज्ञानस्य निवृत्तिरित्याशङ्क्याह— यथेति। ‘योऽयं विज्ञानमयः प्राणेषु’ इत्यादि त्वम्पदार्थविषयं शास्त्रमनुसृत्य विवेकज्ञानमापाद्य, महाभूतादिधृत्यन्तात् क्षेत्रादुपद्रष्टृत्वादिलक्षणं प्रागुक्तं क्षेत्रज्ञं मुञ्जेषीकान्यायेन विविच्य, सर्वोपाधिविनिर्मुक्तं ब्रह्म स्वरूपेण ज्ञेयं योऽनुभवति तस्य मिथ्याज्ञानमपगच्छतीति सम्बन्धः। कथमस्य १. ‘प्रविभज्यमानम्’ इति रा.पा.भाति।

[[७१३]]

निर्विशेषत्वं क्षेत्रज्ञस्य सविशेषत्वहेतोः सत्त्वादित्याशङ्क्याह— क्षेत्रं चेति। बहुदृष्टान्तोक्तेर्बहुविधत्वं क्षेत्रस्य द्योत्यते। उक्तज्ञानाद् मिथ्याज्ञानापगमे हेतुमाह— यथोक्तेति। तथापि कथं पुरुषार्थसिद्धिः, कालान्तरे तुल्यजातीयमिथ्याज्ञानोदयसम्भवादित्याशङ्क्याह— तस्येति। सम्यग्ज्ञानादज्ञानतत्कार्यनिवृत्त्या मुक्तिरिति स्थिते फलितमाह— य एवमिति॥२६॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

सकाशादिषीकामिव, प्रविभज्यमानं विविच्य गृह्यमाणमित्यर्थः। यथोक्तानि लक्षणान्यनादित्वसाक्षित्वादीनि यस्य तं यथोक्तलक्षणं क्षेत्रज्ञं ब्रह्मस्वरूपेण यः पश्यतीत्यन्वयः। कीदृशं क्षेत्रज्ञम्? अत आह— निरस्तसर्वोपाधिविशेषमिति। केनोक्तम्? तत्राह— न सत्तन्नासदुच्यत इत्यनेन वाक्येनोक्तम्। ज्ञेयत्वेनोक्तश्चायमेवेत्याह— ज्ञेयमिति। क्षेत्रं चासदेव सदिववाभासत इति यः पश्यतीत्यन्वयः। कथमसतः सद्रूपेण भानमित्यतो दृष्टान्तानाह— मायेति। मायया इन्द्रजालेन निर्मिताः हस्तिहर्म्यादयस्तद्वत्। स्वप्ने दृष्टानि वस्तूनि रथादयस्तद्वत्। तानि हि निद्रया मायाशक्त्या कल्पितानि। गगने कल्पितगन्धर्वनगरादिवच्चेति। ननु भुवि मूर्तिमत्यां मायया हस्त्यादिनिर्माणं भवतु नाम, कथं पुनरमूर्ते ब्रह्मणीत्यत आह—गगने गन्धर्वनगरादिवदिति। नन्वनात्मनि गगने गन्धर्वनगरादिनिर्माणं मायया क्रियेत नाम, कथं पुनरात्मन्येवेत्यत आह— स्वप्नदृष्टवस्तुवदिति। स्वप्नपदार्था हि निद्रया आत्मन्येव कल्पिताः। एतेन क्षेत्रज्ञे क्षेत्रमिदं मायया कल्पितमिति सूचितम्। यथा मायामयहस्तिहर्म्यादिपदार्थाः असन्तोऽपि सन्त इव प्रतिभान्ति, तद्वत् क्षेत्रमसदपि सदिवावभासत इत्यर्थः। एतेन क्षेत्रस्य शशशृङ्गादिसाम्यं निरस्तम् , प्रतीयमानत्वात्। न हि शशशृङ्गादिकं प्रतीयते केनापि। ब्रह्मवत् सत्यत्वं च निरस्तम् , बाध्यमानत्वात्। यथा प्रबोधादिना स्वप्नपदार्थादयो बाध्यन्ते, तथा क्षेत्रमपि विद्यया बाध्यत इति। एवं प्रतीयमानत्वाद् बाध्यमानत्वाच्च क्षेत्रमिदमसदिति सदिति वा वक्तुं न युज्यते, किन्तु मिथ्येत्येव वक्तुं युज्यते। प्रतीयमानत्वे सति बाध्यमानत्वं हि मिथ्यात्वम् , रज्जुसर्पादावुक्तलक्षणदर्शनात्। रज्जुसर्पादयो हि मिथ्यात्वेन सम्प्रतिपन्नाः। न च विद्यादशायामपि क्षेत्रमस्तीति वाच्यम् ; ‘नेह नानास्ती’ति श्रुतिविरोधात्। तस्माद् ब्रह्मैकमेव प्रत्यगभिन्नं सत्यम् , क्षेत्रं मिथ्यैव। एवं यो निश्चितविज्ञानः निश्चितं विज्ञानं ब्रह्माहमस्मीति ज्ञानं यस्य स तथोक्तः। तस्य मिथ्याज्ञानमपगच्छतीत्यन्वयः। तत्र हेतुमाह— यथोक्तेति। सम्यग्दर्शनेन हि ब्रह्मात्माभेदलक्षणेन मिथ्याज्ञानं बाध्यते, सूर्येण तम इव। ननु मूलाज्ञाननाशं विना कथं मिथ्याज्ञाननाशः? अत आह— तस्येति। मिथ्याज्ञानस्य जन्महेतोर्मूलाज्ञानस्यापगमादिति। अहं ब्रह्मास्मीति सम्यग्दर्शनेन मूलाज्ञानं सकार्यं निवर्तत इत्यर्थः। अज्ञानकार्यं ह्यध्यासरूपं मिथ्याज्ञानम्। मिथ्या च तज्ज्ञानं च मिथ्याज्ञानमितीह समासः। भ्रमरूपं ज्ञानमिति यावत्। अविद्याकृतः क्षेत्रक्षेत्रज्ञसंयोगो विद्यया निवर्त्यते। अविद्याकृतो रज्जुसर्पाभाससंयोगो यथा रज्जुयाथात्म्यज्ञानेन निवर्त्यते। आत्मयाथात्म्यज्ञानमेव हि विद्या, न तर्कव्याकरणादिपाण्डित्यम्। आत्मनि चाविद्यया कृते क्षेत्रे विद्यया नाशिते सति क्षेत्रक्षेत्रज्ञसंयोगोऽपि नष्ट एव, क्षेत्रस्यैवाभावात्। इयं च विद्या बुद्धिवृत्तिरूपा क्षेत्रं नाशयित्वा स्वयमपि नश्यति, कतकरजो यथा जलगतं मालिन्यं नाशयित्वा स्वयमपि नश्यति, तद्वत्। तस्मादात्मनो विद्यया च न द्वैतप्रसङ्ग इति स्थितमद्वैतम्। सम्यग्ज्ञानाद् अज्ञानतत्कार्यनिवृत्त्या मुक्तिरिति स्थिते फलितमाह— य एवमिति। उपपन्नं युक्तम्। यत्तु रामानुजः - यावत्सत्त्वं जायते तावत् संयोगादेव जायते संयुक्तमेव जायत इति। तदयुक्तम् - यावच्छब्दस्य साकल्यार्थ- मुक्त्वा तावच्छब्दाध्याहारस्य गौरवावहत्वात् , तावच्छब्दार्थस्यापि साकल्यत्वेन पुनरुक्तत्वाच्च। किञ्चित्त्वसकलत्वयोरेकत्र स्थातुमयुक्त- सर्वोपाधिविशेषं ज्ञेयं ब्रह्म स्वरूपेण यः पश्यति, ‘क्षेत्रं च १मायानिर्मितहस्तिस्वप्नदृष्टवस्तुगन्धर्वनगरादिवद् असदेव सदिवावभासते’ इत्येवं निश्चितविज्ञानो यः, तस्य यथोक्तसम्यग्दर्शनविरोधाद् अपगच्छति मिथ्याज्ञानम्। तस्य जन्महेतोरपगमाद् ‘य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह’ (भ.गी.१३.१४) इत्यनेन - विद्वान् भूयो नाभिजायत इति यदुक्तम् , तदुपपन्नमुक्तम्॥२६॥

[आनन्दगिरिकृतव्याख्या]

अ. १३. श्लो. २६] १. ‘मायानिर्मितहस्तिहर्म्यादिवत् स्वप्नदृष्टवस्तुवत् गगने गन्धर्वनगरादिवद्’ इति रा.पा.।

[[७१४]]

त्वाच्च। उत्तरवाक्यगततच्छब्दान्वयाय यच्छब्दस्याध्याहर्तव्यत्वापत्तेश्च। सकलं सत्त्वं सञ्जायते, सकलं संयोगाज्जायत इति वाक्य- द्वयकल्पनं चायुक्तम् , सकलं सत्त्वं संयोगाज्जायत इत्येकवाक्यस्यैव न्यायत्वात्। तच्छब्दो जन्मपरामर्शीति वेदान्तदेशिकोक्तिश्चायुक्ता। मूलस्थस्य सञ्जायत इति पदस्यैवात्रापि वाक्ये समन्वयेनेष्टसिद्धौ, तद् विहाय, तत् सत्त्वजन्म भवतीति क्रियान्तराध्याहारस्यायुक्तत्वात्। न च १यावच्छब्दो यच्छब्दार्थावाचक इति वाच्यम् ; तच्छब्द- प्रतिद्वन्द्वितया यावच्छब्दनिर्देशस्यैव यावच्छब्दस्य यच्छब्दार्थकत्वगमकत्वात्। न च - न निघण्टुप्रमाणमस्तीति - वाच्यम् ; महर्षि- प्रयोगस्यैव निघण्टुत्वात्। तस्माद् यत्किञ्चित् सत्त्वं जायते, तत् सर्वं संयोगादेव जायत इति व्याख्येयम्। यत्किञ्चिच्छब्दद्वयसामर्थ्यात् सर्वसिद्धिरिति न यच्छब्दस्य मन्दप्रयोजनत्वशङ्काऽपि। यच्च संयोगात् सञ्जायत इत्यस्य संयुक्तमेव जायत इत्यर्थ इति, तच्चायुक्तम् - तस्माद् वाक्यात् तादृशार्थालाभात्। संयोगो हि सत्त्वं प्रति कारणतया निर्दिष्टम्। अन्यथा सर्वं सत्त्वं क्षेत्रक्षेत्रज्ञसंयुक्तमित्येव ब्रूयात् , न तु संयोगाज्जायत इति। किञ्च यत् क्षेत्रक्षेत्रज्ञ- संयुक्तमेव जायत इति त्वं वदसि, किं तद् वस्तु? न च सत्त्वमिति वाच्यम् ; न हि तत्संयुक्तत्वप्रयोजकक्षेत्रक्षेत्रज्ञाभ्यामन्यत्। यो हि यत्संयुक्तः, स हि तस्मादन्यः। यथा रज्जुसंयुक्तो घटो रज्जोरन्यः। न च क्षेत्रक्षेत्रज्ञसंयुक्त ईश्वर इति वाच्यम् ; तस्य जन्मायोगात्। तस्मात् क्षेत्रक्षेत्रज्ञसंयुक्तस्य ताभ्यामन्यस्य जायमानस्य वस्तुनोऽभावात् क्षेत्रक्षेत्रज्ञसंयुक्तं सत्त्वं जायत इत्ययुक्तम्। न च क्षेत्रक्षेत्रज्ञ- द्वयमितरेतरसंयुक्तं सज्जायत इत्यर्थ इति वाच्यम् ; जन्मनः प्रागेव सिद्धयोरन्योन्यसंयुक्तयोः कथं पुनर्जन्म देहदेहिनोः? न च जन्मनः प्राक् सूक्ष्मरूपेण स्थितयोः संयुक्तयोः क्षेत्रक्षेत्रज्ञयोः स्थूलरूपापत्तिरूपं जन्म भवतीति वाच्यम् ; क्षेत्रज्ञस्याविकारस्य स्थूलसूक्ष्मत्व- विकारायोगात्। नापि सूक्ष्मरूपावस्थितक्षेत्रसंयुक्तः क्षेत्रज्ञः स्थूलरूपावस्थितक्षेत्रसंयुक्तत्वरूपेण जायत इति वाच्यम् ; प्रकृतश्लोका- दुक्तार्थालाभात्। ननु तव पक्षेऽपि क्षेत्रक्षेत्रज्ञसंयोगाज्जायमानं तत् सत्त्वं किं तदुभयात्मकमुत न? आद्ये - जन्मनः प्रागेव सिद्धस्योभयात्मकस्य तस्य कथं पुनर्जन्म? अन्त्ये अनुभयात्मकं हि सत्त्वं नास्तीति चेत् , मैवम् ; अष्टधा परिणता प्रकृतिः क्षेत्रं, क्षेत्रज्ञः ईश्वरः, तयोर्य आध्यासिकसम्बन्धः स सर्वभूतोत्पत्तिं प्रति निमित्तम् , पुरुषाधिष्ठितमहाभूतादिलक्षणक्षेत्रकार्यत्वाद् ब्रह्मादिस्तम्बपर्यन्तभौतिकप्राणि- जातस्य। न हि केवलप्रकृतेः केवलेश्वराद्वा जगज्जायते, किन्तु प्रकृतिसंयुक्तात् पुरुषात् पुरुषाधिष्ठितायाः प्रकृतेर्वा सकाशाद् भवति जगत्। तस्मात् प्रकृतिपुरुषसंयोगः सर्वप्राण्युत्पत्तिनिमित्तमिति। यद्वा क्षेत्रं मूलप्रकृतिः, क्षेत्रज्ञ ईश्वरः, तदुभयसंयोगान्महदहङ्काराद्युत्पत्तिद्वारा सर्वभूतोत्पत्तिरिति। कार्यकरणसङ्घातात्मकं चरमचरं च प्राणिजातं क्षेत्रपरिणामभूतं क्षेत्रज्ञादन्यदेवेति युक्तं तस्य जन्म। तदेवेह सत्त्वशब्देन गृह्यते, न तु क्षेत्रज्ञः, तस्य जन्मायोगात्। ‘अजो नित्यः’ इति दर्शितत्वात्। अस्मिंश्च सत्त्वे चैतन्याभासदर्शनाच्चैतन्याभासस्य च चैतन्यांशत्वात् कारणक्षेत्र- क्षेत्रज्ञयोरिव कार्यक्षेत्र-क्षेत्रज्ञयोरपि अध्यासलक्षणसम्बन्धोऽस्तीति कृत्वा सोऽयं कार्यक्षेत्रक्षेत्रज्ञसंयोगः कारणक्षेत्रक्षेत्रज्ञसंयोगपूर्वक एवेति कारणक्षेत्रक्षेत्रज्ञसंयोगाच्चिदाभाससंयुक्तस्य कार्यक्षेत्रस्य जन्म भवतीति भावः। एतेन प्रकृतिः पुरुषस्तत्संयोगश्चेति त्रयं भूतोत्पत्तिं प्रति निमित्तमिति सिद्धम्। न च प्रकृतिपुरुषसंयोग एक एवेह निमित्तमित्युक्तमिति वाच्यम् ; भूतोत्पत्तिं प्रति तत्संयोगस्य कारणत्वेऽपि संयोगं प्रति तयोः कारणत्वादिति। यद्वा संयोगद्वारा प्रकृतिपुरुषद्वयं निमित्तम्। अथवा प्रकृतितत्संयोगद्वारा पुरुष एक एव निमित्तम्। ‘यतो वा’ इत्यादिश्रुत्यनुसारेण पुरुष एवेश्वरो जगत्कारणमिति वक्तव्ये, तद् विहाय, प्रकृतिपुरुषसंयोगः कारणमिति कथनं तु अज्ञानमूलकप्रकृतिपुरुषसंयोगस्य जगत्कारणत्वेन, ज्ञानात् तत्संयोगनिवृत्तौ सर्वसंसारनिवृत्तिः स्यादिति सूचनार्थमिति बोध्यम् भाष्यार्कप्रकाशः १. ‘यावद् यत् किञ्चित् सञ्जायते समुत्पद्यते सत्त्वं वस्तु’ (पृ. ७१३) इति भाष्ये यावच्छब्दस्य यच्छब्देन व्याख्यानम्। तदुपरि परोक्तं यावच्छब्दस्य यच्छब्दार्था- वाचकत्वं, तथा व्याख्यानस्य यावच्छब्देन साकल्यलाभात् मन्दप्रयोजनत्वं चेति दूषणमुद्धरति— न चेति। यच्छब्दनिष्पन्नस्य यावच्छब्दस्य प्रत्ययार्थाविवक्षया प्रयोगो न दुष्करः, तथा च किंचित्पदसमभिव्याहारं विना सर्वार्थालाभात् तत्सार्थक्यमिति भावः। परमते किंचित्पदवैयर्थ्यापत्तिरपि बोध्या।

[[७१५]]

‘न स भूयोऽभिजायते’ इति सम्यग्दर्शनफलम् अविद्यादिसंसारबीजनिवृत्तिद्वारेण जन्माभावः उक्तः। जन्मकारणं चाविद्यानिमित्तकः क्षेत्रक्षेत्रज्ञसंयोगः उक्तः। अतस्तस्याः अविद्यायाः निवर्तकं सम्यग्दर्शनमुक्तमपि पुनः शब्दान्तरेणोच्यते— समं सर्वेष्वित्यादि। समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तम् , क्व ?सर्वेषु समस्तेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिषु , कम्? परमेश्वरम् देहेन्द्रियमनोबुद्ध्यव्यक्तात्मनोऽपेक्ष्य परमश्चासौ ईश्वरश्च ईशनशील- श्चेति परमेश्वरः, तं सर्वेषु भूतेषु समं तिष्ठन्तम्। तानि विशिनष्टि— विनश्यत्स्विति; तं च परमेश्वरम्— ॥२६॥

सममिति। वृत्तवर्तिष्यमाणयोः सङ्गतिसूचनाय वृत्तमनुवदति—न स भूय इत्यादिना उक्त इत्यन्तेन ग्रन्थेन। सम्यग्दर्शनफलं ज्ञानफलभूतो जन्माभाव उक्तः। अत इति। अविद्यानिमित्तकक्षेत्रक्षेत्रज्ञसंयोगस्य जन्मकारणत्वादित्यर्थः। तस्या इति। जन्मकारण- भूतसंयोगकारणभूताया इत्यर्थः। जन्मनः परमकारणभूताया इति यावत्। अविद्याया निवृत्तौ क्षेत्रक्षेत्रज्ञसंयोगो निवर्तते, ततश्च जन्म निवर्तत इति तावदविद्यैव विद्यया निवर्तनीयेति भावः। उक्तमपि सुबोधाय पुनरुच्यत इत्याह— उक्तमपीति। एतेन ज्ञानस्य दुर्बोधत्वं सूचितम्। न ह्यात्मन्यनादिकालान्निरूढोऽनात्माभिमानः संसारित्वभ्रमश्च सुखेन निवर्तते। नापि तदनिवृत्तिं विना ब्रह्माहमस्मीति निरूढं ज्ञानं भवति। तस्मात् पुनःपुनरुच्यते आत्मतत्त्वं कृपालुना भगवता भक्तानुग्रहार्थमिति भावः। शब्दान्तरेणेति। भङ्ग्यन्तरेणे- त्यर्थः। यः विनश्यत्सु सर्वेषु भूतेषु समं तिष्ठन्तमविनश्यन्तं परमेश्वरं पश्यति, स एव पश्यति। निर्विशेषं यथा तथेति स्थितिक्रिया- विशेषणम्। एकरूपेणेत्यर्थः। सच्चिदानन्दस्वरूपेणेति यावत्। निर्विशेषमिति परमेश्वरविशेषणं वा। सर्वेषु तिष्ठन्तमित्यनेनात्मभेद- स्याप्रामाण्यं सूचितम्। आधारबहुत्वस्याधेयैकत्वस्य च बहुवचनैकवचनाभ्यामुक्तत्वात्। ततश्चौपाधिकभेदोऽप्यात्मन्यप्रमाणः इति सिद्धम्। स्थितिं गतिनिवृत्तिं कुर्वन्तं, न हि परिपूर्णमचलं वस्तु क्वापि गच्छेदिति भावः। एतेन सर्वव्यापित्वलक्षणं विभुत्वं सिद्धम्। ब्रह्मा हिरण्यगर्भः। प्राणिनः कार्यकरणसङ्घातात्मकाः। परमः उत्कृष्टः। किमपेक्षयाऽस्योत्कर्षः? अत आह— देहेति। आत्मत्वेनाविद्यया परिकल्पितेभ्यो देहात्मेन्द्रियात्ममनआत्मबुद्ध्यात्माव्यक्तात्मभ्यः१ उत्कृष्टः। अहमज्ञः इति प्रतीत्या अज्ञानस्याप्यात्मत्वमवगम्यत इत्यभिप्रेत्योक्तम् अव्यक्तात्मेति। न त्वज्ञानमहमिति साक्षादज्ञाने आत्मत्वप्रतीतिः कस्यापि। काणोऽहं बधिरोऽहमित्यादिप्रतीत्या त्विन्द्रियस्यात्मत्वमिति बोध्यम्। न हि कोऽपि चक्षुरहं श्रोत्रमहमिति प्रत्येति। देहो हि घटपटादीनामीशनशीलः, देहपरतन्त्रत्वात् तेषाम्। स च इन्द्रियपरतन्त्रः, इन्द्रियव्यापारपूर्वकत्वाद् देहव्यापारस्येति देहस्य ईशनशीलानीन्द्रियाणि। तेषां मनः ईश्वरम्। तस्य बुद्धिरीशनशीला। तस्या अज्ञानम्२। अमीषां सर्वेषामपि ईशनशीलः आत्मेति परमेश्वरत्वमात्मन इति भावः। न चाज्ञानस्येशनशीलः परमात्मैव, न त्वात्मेति वाच्यम् ; आत्मन एव परमात्मत्वात् , ‘परमात्मेति चाप्युक्तः’ इति ह्युक्तम्। तं चेति। विशिनष्टीति शेषः। ननु उत्तरग्रन्थमवतारयितुं व्यवहितं वृत्तं कीर्तयति— नेत्यादिना। अविद्या अनाद्यनिर्वाच्यमज्ञानम् , मिथ्याज्ञानं तत्संस्कारश्चादि- शब्दार्थः। व्यवहितमनूद्याव्यवहितमनुवदति—जन्मेति। व्यवधानाव्यवधानाभ्यां सर्वानर्थमूलत्वादज्ञानस्य तन्निवर्तकं सम्यग्ज्ञानं वक्तव्य- मित्याह— अत इति। तस्यासकृदुक्तत्वात् तदुक्तार्थप्रवृत्तिर्वृथेत्याशङ्क्यातिसूक्ष्मार्थस्य शब्दभेदेन पुनःपुनर्वचनमधिकारिभेदानुग्रहायेति मत्वाऽऽह— उक्तमिति। सर्वत्र परस्यैकत्वान्नोत्कर्षापकर्षवत्त्वमित्याह— सममिति। परमत्वमीश्वरत्वं चोपपादयति— देहेति। आत्मा जीवः। तमित्यादिनाऽन्वयोक्तिः। आश्रयनाशादाश्रितस्यापि नाशमाशङ्क्याह— तं चेति। अविनश्यन्तमिति विशिनष्टीति सम्बन्धः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति॥२७॥

अ. १३. श्लो. २६-२७ ] १. ‘देहेन्द्रियमनोबुद्ध्यव्यक्तात्मनः’ इति भाष्ये आत्मशब्दस्य प्रत्येकं योजनेति भावः। २. ईशनशीलमिति शेषः।

[[७१६]]

अविनश्यन्तमिति, भूतानां परमेश्वरस्य चात्यन्तवैलक्षण्यप्रदर्शनार्थम्। कथम्? सर्वेषां हि भावविकाराणां जनिलक्षणो भावविकारो मूलम्। जन्मोत्तरभाविनोऽन्ये सर्वे भावविकारा विनाशान्ताः। विनाशात् परो न कश्चिदस्ति भावविकारः, भावाभावात्। सति हि धर्मिणि धर्माः भवन्ति। अतोऽन्त्यभावविकाराभावानुवादेन पूर्वभाविनः सर्वे भावविकाराः प्रतिषिद्धा भवन्ति सह १तत्कार्यैः। तस्मात् सर्वभूतैर्वैलक्षण्यमत्यन्तमेव परमेश्वरस्य सिद्धम् , निर्विशेषत्वम् , एकत्वं भूतानां विनश्यत्स्विति विशेषणदानं, परमेश्वरस्याविनश्यन्तमिति विशेषणदानं च व्यर्थमित्यत आह— भूतानामिति। वैलक्षण्यं भेदः। एतेन भूतानि प्राणिनो जीवा आत्मशब्दवाच्या एवेत्यपास्तम्। भूतविलक्षणपरमेश्वरस्यैवात्मत्वात्। भूतानामनात्मत्वात् तत्र दृश्यमान- चैतन्यस्य चाभासभूतत्वादिति। कथं वैलक्षण्यप्रदर्शनमित्याक्षिपति— कथमिति। तदेवोपपादयति— सर्वेषामिति। भवन्तीति भावाः पृथिव्यादिपदार्थाः। तेषां विकाराः - जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, नश्यतीति षट्। तेषां मध्ये जनिलक्षणो भावविकारो मूलमादिः प्रथम इत्यर्थः। अन्ये सत्तादिविनाशान्ताः सर्वे पञ्चेत्यर्थः। भावविकाराः जन्मोत्तरकाले भवन्तीति जन्मोत्तरकालभाविनः। जातस्यैव देहादिभावस्य सत्तावृद्धिपरिणामापक्षयनाशदर्शनाज्जनिरूपविकार एव तेषामादिरित्यर्थः। ननु नाशानन्तरं कोऽप्यस्तु विकार इति विकाराणां विनाशान्तत्वकथनमयुक्तमित्यत आह— विनाशादिति। विनाशोऽदर्शनं, तं प्राप्तस्या- सतो वस्तुनः शशशृङ्गादितुल्यस्य कथं पुनर्भावविकारप्राप्तिः? भावो हि सन् पदार्थः। तद्विकाराश्च सत एव वस्तुनो भवितुमर्हन्ति, न त्वसत इति भावः। इदमेवाह— भावाभावादिति। भावस्य सत्पदार्थस्याभावात्। नन्वसतोऽपि विकाराः भवन्तु , अत आह— सतीति। धर्मिणि देहादिभावपदार्थे सति धर्मा भवन्ति। धर्मिण एवाभावे कथं धर्मभवनं, न कथमपीत्यर्थः। ननु ‘जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च’ इति गीतावचनादेव नष्टस्य पुनर्जन्मरूपविकारः उपलभ्यते, दृश्यते च नष्ट- स्यापि देहस्य भस्मात्मना जन्म, घटस्य च कपालाद्यात्मनेति। तस्मान्नान्त्यविकारो नाश इति चेत् , मैवम् ; यदि निर्वाणस्य प्रदीपस्य पुनरागमनं भवेत् तर्हि नष्टं पुनर्जायेत। गीतावचनं तु देहजन्मनाशप्रयुक्तजन्मनाशवन्तं जीवमभिप्रेत्य प्रवृत्तम् - मृतस्य देहादुत्क्रान्तस्य प्राणोपाधिकस्य जीवस्य देहान्तरप्राप्तिरूपं जन्म ध्रुवमिति, प्रकृतदेहत्यागरूपं मरणं च तस्य ध्रुवमिति। देहे भस्मतामापन्ने सति देहो जातः इति व्यवहाराभावान्न देहस्य भस्मात्मना जन्म, किन्तु भस्मतापत्त्या देहस्य नाश एव। करचरणादिमत्पिण्डविशेषो हि देहः। यदि स देहस्याकारो भस्मनि दृश्येत, तर्हि देहः पुनर्जात इति वक्तुमुचितम्। यो यस्य नियत आकारस्तन्नियताकारादर्शनमेव हि तस्य नाशः। तस्माद् भस्मीभूतस्य देहस्य पुनर्जन्म भवेद् यदि, निर्वाणस्य प्रदीपस्य पुनरागमनं भवेदेव। सत्कार्यवादिनाऽपि देहारम्भकपृथिव्यादिद्रव्यस्य देहरूपत्वं विहाय भस्मरूपप्राप्तिरिति वदताऽपि देहरूपस्य नष्टत्वमवश्यमभ्युपेयमेवेति देहो नष्ट एव। न हि करचरणाद्यवयवसन्निवेशात्मकमाकारं विहाय कश्चिद् देहपदार्थोऽस्ति। स च देहे भस्मीभूते सति नैव दृश्यत इति देहस्यादर्शनरूपो नाशो युक्त एव। तस्य चादर्शनं गतस्य देहस्य नष्टदीपवन्नास्ति पुनरुदयः। न हि भस्मीभवनात् पूर्वं दृष्टः पित्रादिदेहाकारः पुत्रादिना पुनर्दृश्यते, येन नाशानन्तरं द्रव्यस्य पुनर्जन्मविकारापत्तिः। न च दीपो नष्टः उभयत्र विशेषणद्वयस्य तात्पर्यमाह— भूतानामिति। नाशानाशाभ्यां वैलक्षण्येऽपि कथमत्यन्तवैलक्षण्यं सविशेषत्वभिन्नत्वयोस्तुल्यत्वा- दिति शङ्कते— कथमिति। भूतानां सविशेषत्वादिभावेऽपि परस्य तदभावादत्यन्तवैलक्षण्यमिति वक्तुं जन्मनो भावविकारेष्वादित्वमाह— सर्वेषामिति। तत्र हेतुमाह— जन्मेति। न हि जन्म अन्तरेणोत्तरे विकारा युज्यन्ते, जन्मवतस्तदुपलम्भादित्यर्थः। विनाशानन्तरभाविनो ऽपि विकारस्य कस्यचिदुपपत्तेर्न तस्यान्त्यविकारत्वमित्याशङ्क्याह— विनाशादिति। तस्यान्त्यविकारत्वे सिद्धे फलितमाह— अत इति। तेषां जन्मादीनां कार्याणि कादाचित्कसत्त्वानि २तदधिकरणानि, तैः सहेति यावत्। परमेश्वरस्य भूतेभ्योऽत्यन्तवैलक्षण्यमुक्तमुपसंहरति —तस्मादिति। निर्विशेषत्वं सर्वभावविकारविरहितत्वं कूटस्थत्वम्। एकत्वम् अद्वितीयत्वम्। यः पश्यतीत्यादि व्याचष्टे— य एवमिति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘कार्यैः’ इति पा.। २. जन्मादिभावविकाराधिकरणानीत्यर्थः।

[[७१७]]

पुनरुदेत्येवाग्निसंयोगाद् वर्तेरिति वाच्यम् ; नष्टादन्यस्या एव दीपज्वालायाः पुनरुदयात्। ‘सोऽयं दीपः’ इति प्रत्यभिज्ञा तु भ्रम एव, न प्रमा। नष्टस्य पुनरुदितस्य च दीपस्य भेदात्। तस्मान्नष्टस्य करचरणाद्याकारवतो देहस्य कम्बुग्रीवाद्याकारवतो घटस्य वा न पुनर्जन्म। ये तु दृश्यन्ते भस्मकपालादयस्ते न देहघटादिपदार्थाः। भस्मनि कपालादौ वा देह इति घट इति च लोकानां प्रत्ययादर्शनात्। अनुभवविरुद्धार्थो हि न ग्राह्यः। नापि नष्टस्य पुनर्जन्म शास्त्रसिद्धम् , जीवस्यैव नित्यस्य देहान्तरप्राप्तिरूपं पुनर्जन्म शास्त्रसिद्धम् , न त्वनित्यस्य देहस्य। अत एव ह्यनित्यत्वं देहस्य। यत्पुनरदर्शनम् , तस्मान्नाशादनन्तरं भावस्यैवाभावाद् भावस्य सत्त्वे नाशस्यैवायोगान्नास्ति कोऽपि भावविकार इति भावविकाराणां नाश एव परमावधिः। अत इति। नाशात् परस्य भावविकारस्याभावादित्यर्थः। आत्मन इति शेषः। अन्त्यभावविकारस्य नाशस्याभावानुवादेनाभावस्य पूर्वं बहुवारं प्रतिपादितत्वादिह तत्प्रतिपादनमनुवादभूतमेवेति भावः। तत्पूर्वभाविनः नाशात् प्राक्तनाः सर्वे जन्मादयो विकारास्तत्कार्यैः सह प्रतिषिद्धा भवन्ति। ननु अविनश्यन्तमित्यनेन नाशाभाव एव प्रतिपादित इति कथं जन्मादिविकाराभावसिद्धिरिति चेद्? उच्यते— यस्य नाशो नास्ति, तस्य जन्मापि नास्ति, जन्मपूर्वकत्वान्नाशस्य। जातस्य हि घटस्य नाशो दृश्यते, न त्वजातस्य। न ह्यजातस्य शशशृङ्गस्य नाशप्रतीतिः। यद्धि जन्मना दृष्टिपथं गतं, तदेव हि प्राप्तुमर्हत्यदर्शनरूपं नाशम्। आत्मा न जायते, नाशरहितत्वात् , १यन्नाशवत् तदेव जायते , यथा घटः इति प्रयोगः। न च जन्मवानपि भूम्याकाशादिर्नित्यः, तस्य नाशादर्शनादिति वाच्यम् ; येनाकाशादेर्नाशो न दृष्टः तेन त्वया किमाकाशादेर्जन्म दृष्टम्? तव स्वादृष्टे भूम्यादिनाशे यथा अप्रत्ययः, तथा स्वेनादृष्टे भूम्यादिजन्मन्यप्रत्ययो युक्त एव। ओमिति चेत् , तर्हि भूम्यादेर्जन्माभावादेव नाशाभावः इत्यभ्युपगच्छ। यदि शास्त्रान्निश्चेतुमिच्छसि, तर्हि ‘आत्मन आकाशः सम्भूतः’ इत्यादिशास्त्रादाकाशादीनां जन्म, तत्प्रयुक्तं नाशं च प्रत्ये[प्रती]हि। न चाकाशादिनाशे शास्त्रं प्रमाणं नास्तीति वाच्यम् ; ‘यत्प्रयन्त्यभिसंविशन्ती’त्यादि शास्त्रस्य सत्त्वात्। तस्माच्छास्त्रादुपपत्तेश्च जन्मनाशयोर्न क्वापि सामानाधिकरण्यव्यभिचारः। एवं नाशाभावेन जन्माभावे सिद्धे सत्तावृद्ध्यादीनां जन्मपूर्वकाणां भावविकाराणामभावोऽपि सिध्यति। न हि जन्मरहितस्य सत्तावृद्ध्यादयो दृश्यन्ते। जातस्यैव देहादेस्ते दृश्यन्ते। ननु वृद्धिपरिणामादीनां विकाराणां जन्मपूर्वकत्वेऽपि सत्तारूपविकारस्य न जन्मपूर्वकत्वं, जन्मरहितेऽपि ब्रह्मणि सत्ताया दर्शनात्। सच्चिदानन्दं ब्रह्मेति हि श्रूयते , ‘अविनाशि तु तद्विद्धी’ति च स्मर्यते सत्त्वं ब्रह्मण इति चेत् , मैवम् ; किं देहादयो जन्मनः प्राक् सन्ति? उत पश्चात्? नाद्यः - जन्मनः प्राग्देहोऽस्तीति व्यवहारादर्शनात् , किन्तु पश्चादेव। तस्माद् देहादिगतं सत्त्वं जन्मरूपविकारपूर्वकमेव। ब्रह्मगतं तु सत्त्वं न जन्मपूर्वकम् - जन्माभावाद् ब्रह्मणः। अत एव हि कालत्रयाबाध्यं ब्रह्म। न हि जन्मनः प्रागसद्वस्तु कालत्रयाबाध्यं भवितुमर्हति। असत्त्वादेव जन्मनः प्राक्काले। तथा च त्रिकालाबाध्यत्वलक्षणं ब्रह्मगतं सत्त्वं न विकारः - अकार्यत्वात् तस्य। कार्यं हि विकारः। देहादिगतं सत्त्वं तु इन्द्रियगोचरत्वलक्षणम्। तद्धि विकारः, जन्मा[न]न्तरभावित्वेन कार्यत्वात्। इन्द्रियगोचरत्वाद्धि जातं देहमस्तीति प्रत्येति लोकः। देहस्तावज्जायते समनन्तरमेवेन्द्रियगोचरो भवतीति जन्मपूर्वकत्वं सत्तायाः। न हि जन्मनः प्रागिन्द्रियगोचरत्वं देहस्य। तस्मादिन्द्रियगोचरत्वरूपसत्ताविकारो वृद्ध्यादिविकारवज्जन्मपूर्वक एव। अमी एवेन्द्रियगोचरी- भवनयोग्याः पदार्थाः भावशब्देनोच्यन्ते देहादयः। तेषां चामी विकारा जन्मादयः सम्भवन्ति। आत्मा त्वतीन्द्रियः। न तस्य कोऽपि भावविकारः। एवमविकारस्य परमेश्वरस्य सर्वभूतवैलक्षण्यमत्यन्तं सिद्धमेव। सविकारत्वाद् भूतानाम्। भूतानि हीन्द्रियगोचराणि ब्रह्मादि- स्तम्बपर्यन्तानि द्विपरार्धशतसंवत्सरादिपरिमितायुष्कालानि क्षेत्रक्षेत्रज्ञसंयोगाज्जातानि वर्धमानानि विपरिणममानान्यपक्षीयमाणानि चेति षड्भावविकारवन्त्येव, ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतेः। तस्मात् सविकारेभ्यो भूतेभ्यो निर्विकारः सर्वभूतान्तरात्मा परमेश्वरोऽत्यन्तं विलक्षण एव। एवं निर्विकारत्वादेव निर्विशेषः। विशेषो हि विकारः। एवं सजातीयविजातीय- स्वगतभेदरूपविशेषाभावादेव एकश्चेत्याह— निर्विशेषत्वमेकत्वं चेति। सिद्धमिति शेषः। पश्यति जानाति, दृशेः ज्ञानार्थकत्वस्यापि भाष्यार्कप्रकाशः अ. १३. श्लो. २७ ] १. यज्जायते तत् नाशवत् इति व्यतिरेकव्याप्तिः योज्या।

[[७१८]]

च। य एवं यथोक्तं परमेश्वरं पश्यति, स पश्यति। ननु सर्वोऽपि लोकः पश्यति, किं विशेषणेनेति? सत्यं पश्यति, किन्तु विपरीतं पश्यति। अतो विशिनष्टि— स एव पश्यतीति। यथा तिमिरदृष्टिरनेकं चन्द्रं पश्यति, तमपेक्ष्यैकचन्द्रदर्शी विशिष्यते - स एव पश्यतीति, तथैवेहापि एकमविभक्तं यथोक्तमात्मानं यः पश्यति, स विभक्तानेकात्मविपरीतदर्शिभ्यो विशिष्यते - स एव पश्यतीति। इतरे पश्यन्तोऽपि न पश्यन्ति, विपरीतदर्शित्वाद् , अनेकचन्द्रदर्शिवदित्यर्थः॥२७॥

सत्त्वात्। स पश्यतीति। स विद्वानित्यर्थः। ननु सर्वोऽपि लोकः परमेश्वरं पश्यत्येव, आत्मत्वात् तस्य। आत्मा ह्यात्मनः नित्यापरोक्षः। आत्मा हि स्वयम्। न हि स्वस्य स्वयं कदाचिदपि परोक्षः स्यात् तस्माद् यः पश्यति स एव पश्यतीत्युक्तमयुक्तमित्याक्षिपति— नन्विति। विशेषणं पृथक्कथनम्। तेन पूर्वपक्षमङ्गीकरोति - सत्यमिति। पश्यतीति। सर्वलोक आत्मानं परमेश्वरं पश्यत्येव, किन्तु विपरीतं यथा तथा पश्यति, आत्मानं विपरीतलक्षणं पश्यतीति वा। अत इति। सर्वलोकस्य विपरीतात्मदर्शित्वादित्यर्थः। विशिनष्टीति। यथोक्तात्मदर्शिनं विशिष्य कथयति। कथं विशिनष्टीत्यत आह— स एव पश्यतीति। य आत्मानं परमेश्वरं पश्यति, स एव विद्वान् , अन्ये तु विपरीतदर्शिनो मूढा एवेत्यर्थः। यद्वा य आत्मानं परमेश्वरं पश्यति, स एव परमेश्वरं पश्यति। अन्ये तु परमेश्वरं नैव पश्यन्ति। आत्मभिन्नत्वात् परमेश्वरस्य तद् दृष्ट्या । अथवा य एवं यथोक्तं परमेश्वरं पश्यति, स एव सम्यक् पश्यति। अन्ये तु मिथ्यैव पश्यन्तीत्यर्थः। तत्र दृष्टान्तमाह— यथेति। तिमिरोपहतदृष्टिश्चन्द्रं पश्यति, निर्दोषदृष्टिश्च चन्द्रं पश्यति। तत्र तिमिरदृष्टिश्चन्द्रमनेकत्वेन पश्यति। अन्यस्तु यथावदेकत्वेन पश्यति। एवं सति यश्चन्द्रमेकं पश्यति, स एव पश्यति, न त्वन्ये, तेषामनेकचन्द्रदर्शित्वादिति विशिष्यते उत्कृष्टत्वेन कथ्यत इत्यर्थः। अविभक्तमिति। उपाधिकृतविभागरहितमित्यर्थः। विभक्ता उपाधित इत्यर्थः। अनेके चात्मान इति ये विपरीतं पश्यन्ति, ते विभक्तानेकात्मविपरीतदर्शिनः। एतेनात्मनो ये किलौपाधिकं नानात्वं वदन्ति, त एव विपरीतदर्शिन इत्युक्तौ किम्पुनः स्वत एव नाना- त्ववादिन इत्यर्थापत्तिः सूच्यते। यद्वा विभक्ताः स्वत एव परस्परं भिन्नाः, अत एवानेके आत्मान इति विपरीतं पश्यन्ति ये, ते तथोक्ताः। स एव पश्यतीति विशिष्यत इत्यन्वयः। इतरे भिन्नानेकात्मदर्शिनः पश्यन्तोऽप्यात्मानं न पश्यन्ति। कुतः? विपरीतदर्शित्वात्। तत्र दृष्टान्तमाह— अनेकचन्द्रदर्शिवदिति। यथा चन्द्रं पश्यन्तोऽप्यनेकचन्द्रदर्शिनो नैव पश्यन्ति, तद्वदित्यर्थः। प्रत्यक्षेऽपि चन्द्रे एकस्मिन् तिमिरोपहतदृष्टीनां यथा नानाचन्द्रबुद्धिः, नित्यापरोक्षेऽप्येकस्मिन्नात्मनि निर्विशेषेऽविद्यादूषितबुद्धीनां नानात्मबुद्धिः, संसार्यात्मबुद्धिः, ईश्वराद् भिन्नात्मबुद्धिः, अनात्मन्यात्मबुद्धिश्चेति भावः। यत्तु रामानुजः - एवमितरेतरयुक्तेषु सर्वेषु भूतेषु देवादिविषमाकाराद् विविक्तं तत्रतत्र तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेन स्थितमात्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु विनाशानर्हस्वभावेनाविनश्यन्तं यः पश्यति, स आत्मानं यथावस्थितं पश्यति - इति, तत्तुच्छम् , सर्वेषु भूतेषु तिष्ठन्तमिति पदत्रयस्यैकवाक्यत्वेन प्रतीयमानस्य सर्वेषु भूतेषु देवादिविषमाकाराद् विविक्तमिति, सर्वेषु भूतेषु स्थितमिति च वाक्यद्वयत्वेन व्याख्यानस्याप्रमाणत्वात्। देवादिविषमाकाराद् विविक्तमिति वाक्याध्याहारस्या- न्याय्यत्वात्। सर्वेषु भूतेष्विति पदस्य त्रेधा आवृत्तौ प्रमाणाभावात् - सर्वेषु भूतेषु विविक्तं, सर्वेषु भूतेषु स्थितं, सर्वेषु भूतेषु विनश्यत्स्वविनश्यन्तमिति कथनमयुक्तमेव। तथा परमेश्वरमित्यस्य तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेनेत्यप्ययुक्तम् ; मूलाद् भाष्यार्कप्रकाशः उक्तविशेषणमीश्वरं पश्यन्नेव पश्यतीत्युक्तमाक्षिपति—नन्विति। ईश्वरपराङ्मुखस्यानात्मनिष्ठस्य तद्दर्शित्वेऽपि विपरीतदर्शित्वाद् ईश्वरप्रवणस्यैव सम्यग्दर्शित्वमिति विवक्षित्वा विशेषणमिति परिहरति— सत्यमिति। उक्तमेव दृष्टान्तेन विवृणोति— यथेत्यादिना। यः पश्यतीत्यादेरर्थमुपसंहरति— इतर इति। परवस्तुनिष्ठेभ्यो व्यतिरिक्ताः इत्यर्थः॥२७॥

[आनन्दगिरिकृतव्याख्या]

[[७१९]]

बहिर्बहुपदकल्पनस्यायुक्तत्वात् , परमेश्वरमित्यस्यैव विशेष्यत्वेन तद्विशेषणीकरणस्यात्मानमिति पदाध्याहारस्य चाप्रमाणत्वात्। सममित्यस्य ज्ञातृत्वेन समानाकारमित्यप्ययुक्तम् - मूलाद् बहिर्बहुपदकल्पनस्यात्रापि सत्त्वात्। न च श्लोकस्य सूत्रवत्स्थितत्वात् तद्गतपदान्वयाय मूलाद् बहिः बहुपदकल्पनं न्याय्यमिति वाच्यम् ; तद्विनाऽप्यन्वयसम्भवस्य दर्शितत्वात् तत्कल्पनस्यान्याय्यत्वमेवेति। न च शब्दतोऽन्याय्यत्वेऽपि न्याय्यमेवार्थतः इति वाच्यम् ; अर्थतोऽप्यन्याय्यत्वात्। तथाहि— यद्यात्मा देवादिविषमाकारैः संयुक्तः स्यात् तदोच्येत विविक्त इति। न ह्यास्तिकः कोऽपि देहादिविलक्षणं कर्तारं भोक्तारं चात्मानं विदन् करचरणादिमन्तमात्मानं जानीयाद् बौद्धवत्। किन्तु ‘मम देहः’ इत्येव प्रत्येति। स च प्रत्ययो देवादिविषमाकाराद् वियुक्तः आत्मेत्युपदेशान्नैवापगच्छति। गृहाकाराद् विविक्तस्यापि बौद्धाभिमतदेहात्मनो गृहे ममत्वप्रत्ययस्य सत्त्वात्। देहादीन् प्रति परमेश्वरत्वं तु महेश्वर इत्यत्र निरस्तम्। ज्ञातृत्वेन समानाकारमात्मानमित्यप्ययुक्तम् , केनास्यात्मनः समानाकारता? न तावद् अनात्मना, तस्य जडत्वात्। नाप्यात्मना, स्वस्यैवात्मत्वात्। न च परमात्मनेति वाच्यम् ; सर्वज्ञेश्वरगतसर्वज्ञत्वरूपज्ञातृत्वस्य किञ्चिज्ज्ञजीवगतकिञ्चिज्ज्ञत्वरूपज्ञातृत्वस्य च भेदात्। नाप्यन्येनात्मनेति वाच्यम् ; आत्मानमित्येकत्वेनैवानेकात्मवादस्य निर्मूलि- तत्वात्। न चात्मानमिति जात्येकत्वमिति वाच्यम् ; आत्मनि जातेरेवाभावात्। किञ्च भवतु वा अज्ञानकृतः (आत्मकृत) आत्मभेदः, तथापि नात्मनां परस्परं साम्यम् - तर्कशास्त्रवित्त्वरूपज्ञातृत्वस्य व्याकरणशास्त्रवित्त्वरूपज्ञातृत्वस्य च पुरुषद्वयनिष्ठस्य भेदेन ज्ञातृत्व- साम्याभावात्। यदि तु ज्ञानमात्रमेव ज्ञातृत्वमिति गृह्यते, तर्हि तस्य निरुपाधिकस्य ज्ञानस्य भेदकाभावात् सिद्धमेवैकत्वं ज्ञानस्वरूपस्यात्मनः। यच्च वेदान्तदेशिकेनोक्तम् - क्षेत्राकारपरिणतप्रकृतिबहुत्वात् तत्तच्छरीरसंयुक्ताः पुरुषा अप्यनेक एव। सर्वत्र पार्थक्येन सुख- दुःखाद्युपलब्धेः। न च निरवयवस्यात्मनः कथं संयोग इति वाच्यम् ; ‘युतसिद्धयोः सम्बन्धः संयोगः’ इति लक्षितसंयोगस्य निरवयवेऽपि सम्भवात्। निरवयवयोर्निरवयवसावयवयोः सावयवयोश्च संयोगः सम्भवत्येव। आत्मन्यध्यासलक्षणः सम्बन्धो नोपपद्यत एवेति, तत्तुच्छम् - युतसिद्धयोः सावयवयोरेव सम्बन्धः संयोग इति लक्षणात्। अन्यथा निरवयवयोर्निरवयवसावयवयोर्वा सम्बन्धस्यैवाभावेन तल्लक्षणस्य दुष्टत्वप्रसङ्गात्। न हि कपिना वृक्षः संयुक्त इतिवदाकाशेन वृक्षः संयुक्त इति लोके कोऽपि प्रत्येति, घटाकाशो वा मठाकाशेन संयुक्त इति च प्रत्येति। संयुक्तव्यवहारहेतुर्हि संयोगः। न च - विभुराकाशः, विभुत्वं च सर्वमूर्त- द्रव्यसंयोगित्वमित्यस्त्येव निरवयवस्याप्याकाशस्य घटादिसंयोगः। तथा आत्मा मनसा संयुज्यते, मन इन्द्रियेणेत्यात्मादीनां निरवयवानामेव संयोग इति - वाच्यम् ; उक्ततर्कशास्त्रस्याप्रमाणत्वात्। अत एव हि तर्कशास्त्रमधीयानो गर्दभात्मना पुनर्जायते१ इति स्मर्यते। ‘असङ्गो ह्ययं पुरुषः’ इत्यादिश्रुतिविरुद्धं ह्यात्ममनःसंयोगप्रतिपादनादिकम्। घटाकाशयोः संयुक्तत्वव्यवहाराभावेनाकाशस्य मूर्तद्वयसंयोगित्वरूपविभुत्वं चायुक्तम्। न च गुणगुणिनोरिव समवायसम्बन्धोऽस्तु क्षेत्रक्षेत्रज्ञयोरिति वाच्यम् ; गुणिनि गुण इव निर्विशेषे क्षेत्रज्ञे कालत्रयेऽपि क्षेत्ररूपविशेषसत्त्वायोगात्। सत्त्वे पुनर्गुणाद् गुणिन इव क्षेत्रात् क्षेत्रज्ञस्य विभाग एव न सिध्येत्। न चेष्टापत्तिः, प्रकृतिवियुक्तमात्मानं प्रपद्यत इति त्वयैवोच्यमानत्वात्। एवमसङ्गस्य पूर्णस्य चैतन्यस्य क्षेत्रज्ञस्य भेदकोपाधि- सम्बन्धासम्भवाद् एक एवात्मा। तस्मिन्ननेकत्वबुद्धिस्त्वध्यासकृतैव। न चात्मनि कथमध्यास इति वाच्यम् ; रज्जौ सर्पस्येवात्मनि संसारस्याध्यासः सम्भवत्यविद्ययेत्युक्तत्वात्। न च द्रष्टुः दृश्ये रज्ज्वादौ सर्पादिभ्रमः स्यान्नाम, कथं पुनः द्रष्टर्येव स्वस्मिन् देवादिभ्रमः इति वाच्यम्। न हि वयं द्रष्टुरात्मनः क्षेत्रज्ञस्य स्वस्मिन्ननात्मभ्रमो भवतीति वदामः, किन्तु प्रमातुरात्मन्यनात्मभ्रम इति ब्रूमः। न च प्रमातैव क्षेत्रज्ञ आत्मेति वाच्यम् ; सत्यं प्रमातैव क्षेत्रज्ञो ज्ञातृत्वात् , तथापि यावत्पर्यन्तं प्रमाता संसारिणमात्मानं मन्यते तावत्पर्यन्तं क्षेत्रज्ञोऽपि सन् प्रमाता क्षेत्रज्ञाद् भिन्न इव। विद्यावस्थायामेव प्रमातुः क्षेत्रज्ञात्मत्वम् , अविद्यावस्थायां तु संसारित्वमेवेति युक्तः संसारिणः प्रमातुरात्मन्यप्यनात्मभ्रमः, अविद्यावत्त्वात् , निद्रावतो ब्राह्मणस्यात्मनि क्षत्रियभ्रमवदिति। यच्चानेनोक्तम् - अविनश्यन्तमिति विशेषणं जीवपरत्व एव घटते, न त्वीश्वरपरत्वे, देहाभिमानिनो हि जीवं विनश्यन्तं भाष्यार्कप्रकाशः अ. १३. श्लो. २७] १. ‘अधीत्य गौतमीं विद्यां गार्दभीं योनिमाप्नुयात्’ इति स्मृतिरिति वदन्ति।

[[७२०]]

यथोक्तस्य सम्यग्दर्शनस्य फलवचनेन स्तुतिः कर्तव्येति श्लोक आरभ्यते— समं पश्यन्निति। समं पश्यन् उपलभमानो हि यस्मात् , सर्वत्र सर्वभूतेषु समवस्थितं तुल्यतयाऽवस्थितम् ईश्वरम् अतीतानन्तरश्लोकोक्तलक्षण- मित्यर्थः। समं पश्यन् , किम् ? न हिनस्ति हिंसां न करोति, आत्मना स्वेनैव स्वम् आत्मानम्। ततः तदहिंसनाद् याति परां प्रकृष्टां गतिं मोक्षाख्याम्। मन्यन्ते, न त्वीश्वरमिति विनाशप्रसक्तेरेवाभावादीश्वरस्य तन्निषेधो व्यर्थ इति। तत्तुच्छम् - आस्तिका एवात्राधिकारिणो न तु नास्तिक इति तावदविवादम्। अधीतवेदवेदाङ्गानामेव वेदान्तशास्त्रेऽधिकारात्। ते चास्तिकाः देहादिविलक्षणं नित्यमेवात्मानं मन्यन्ते। अन्यथा स्वर्गादिफलभोगाय यज्ञादिकर्मसु तेषामप्रवृत्त्यापत्तेः। मृतं पित्रादिकं प्रति पिण्डप्रदानाद्ययोगाच्च। तस्मात् कथं जीवेऽपि नाशप्रसक्तिः? यदि देहनाशाज्जीवनाशमेते मन्यन्ते, तर्हि श्रीरामस्य श्रीकृष्णस्य वा परमेश्वरत्वेनाभिमतस्य देहनाशदर्शनादीश्वरस्यापि नाशं ते किमिति न मन्येरन्? ये तु नास्तिकास्ते जीवमिवेश्वरमपि नाभ्युपगच्छन्त्येवेति कथं तद् दृष्ट्या ईश्वरनित्यत्वम्? तस्माद् ईश्वरवज्जीवेऽपि नाशप्रसक्त्यभावाद् व्यर्थ एव तन्निषेधः। अत एव अविनश्यन्तमित्यस्य निर्विकारत्वप्रतिपादनं फलमित्युक्तमाचार्यैः। न च षड्भावविकाराभाव एव प्रतिपादित इति वाच्यम् ; यस्य षड्भावविकारास्तस्यैव तदतिरिक्तविकारा अपि। सुखदुःखादिविकाराः खलु जन्मादिविकारप्रयुक्ताः। अत एव सह तत्कार्यैः प्रतिषिद्धा भवन्तीत्युक्तम्। न चात्मनि नाशवद् विकारित्वस्याप्यप्रसक्तिरिति वाच्यम् ; आस्तिकैरपि कर्ता भोक्ताऽऽत्मेति गृह्यमाणत्वात्। कर्तृत्वादिकं हि विकारः। तस्मादीश्वरस्यापि क्षेत्रज्ञस्याविनश्यन्तमिति विशेषणदानं युक्तमेव। मूढैरास्तिकैर्विपरीतत्वेन (विकारिजीवत्वेन) गृह्यमाणो यः क्षेत्रज्ञः स वस्तुतो निर्विकारः परमेश्वर एवेति जीवेश्वराभेदरूपमहावाक्यार्थबोधसम्भवात्। न च निर्विकारत्ववचनमात्रेण कथं परमेश्वरत्वं जीवस्येति वाच्यम् ; निर्विकारत्व- प्रतिपादनेनासंसारित्वलाभाद् असंसारित्वस्य चेश्वरधर्मत्वात्। यो हि सुखदुःखादिभिर्विक्रियते, स हि संसारी जीव इति हि सर्वेषामास्तिकानां प्रत्ययः। तस्मान्निर्विकारोऽसंसारी क्षेत्रज्ञ ईश्वर एव, न तु तद्भिन्नः, ‘क्षेत्रज्ञं चापि मां विद्धि’ इत्युपक्रमादिति॥२७॥

सममिति। हि सर्वत्र समं यथा तथा अवस्थितमीश्वरं पश्यन् हि पुरुषः, आत्मना आत्मानं न हिनस्ति। ततः परां गतिं याति। स्तुतिरिति। त्वमिन्द्रः इत्यादिवन्मिथ्यार्थप्रवचनरूपा स्तुतिर्नेह ग्राह्या, किन्तु यथार्थकथनरूपैव। पश्यन्नित्यनेन चक्षुर्व्यापारो न विवक्षितः, अतीन्द्रियत्वादात्मनः, किन्तु बुद्धिव्यापार एवेत्याह— उपलभमान इति। विदन्नित्यर्थः। ‘दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभि’रिति श्रुतेरिति भावः। हिशब्दार्थमाह— यस्मादिति। अस्य ततस्तस्मादित्युत्तरेणान्वयः। तुल्यतयेति। एकरूपेणेत्यर्थः। अवस्थानक्रियायाः विशेषणमिदम्। पक्षान्तरमाह— समं पश्यन्निति। दर्शनक्रियायाः विशेषणमिति भावः। तस्माद्धेतोरित्यर्थः। हेतुमेव दर्शयति— अहिंसनादिति। यद्यपि यो हेतुरहिंसने स एवेह तच्छब्देन ग्राह्यः, तथापि तत्कार्यभूतमहिंसनमिह गृहीतं कार्ये कारणभावोपचारादिति। अहिंसने हेतुस्तु ईश्वरसमदर्शनम्। यस्मादीश्वरं समं पश्यति, तस्मादात्मानं न हिनस्ति। तस्माच्चाहिंसनात् परां गतिं यातीति परमार्थः। प्रकृतसम्यग्ज्ञानेन किमित्यपेक्षायां तत्फलोक्त्या तस्यैव स्तुत्या तद्धेतौ पुरुषं प्रवर्तयितुं श्लोकान्तरमित्याह— यथोक्तस्येति। यस्मादित्यस्य ततःशब्देन सम्बन्धः। सर्वभूतेषु तुल्यतयाऽवस्थितं पूर्वोक्तलक्षणमीश्वरं निर्विशेषं पश्यन्नात्मानमात्मना यस्मान्न हिनस्ति ततः तस्मान्मोक्षाख्यां परां गतिं यातीति योजना। तत्र पादत्रयेण ज्ञानादज्ञानध्वस्त्या ध्वस्तिरनर्थस्योक्ता। अज्ञानमिथ्याज्ञानयोरावरण- योर्नाशे सर्वोत्कृष्टां गतिं परमपुरुषार्थं परमानन्दमनुभवति विद्वानिति चतुर्थपादार्थः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम्। न हिनस्त्यात्मनाऽऽत्मानं ततो याति परां गतिम्॥२८॥

[[७२१]]

ननु नैव कश्चित् प्राणी स्वयं स्वमात्मानं हिनस्ति, कथमुच्यतेऽप्राप्तं ‘न हिनस्ती’ति यथा ‘न पृथिव्या- मग्निश्चेतव्यो नान्तरिक्षे’ (तै.सं.५.२.७.१) इत्यादि। नैष दोषः, अज्ञानाम् आत्मतिरस्करणोपपत्तेः। सर्वो ह्यज्ञो ऽत्यन्तप्रसिद्धं साक्षादपरोक्षादात्मानं तिरस्कृत्य, अनात्मानमात्मत्वेन परिगृह्य तमपि धर्माधर्मौ कृत्वोपात्तमात्मानं हत्वाऽन्यमात्मानमुपादत्ते नवम् , तं चैवं हत्वाऽन्यम् , एवं तमपि हत्वाऽन्यम् इत्येवम् उपात्तमुपात्तमात्मानं एतेन विषमेश्वर(भिन्नेश्वर)दर्शनस्य आत्महिंसाहेतुत्वं सूचितम्। ते च द्वैतिनः आत्महिंसकत्वादन्धं तम एव प्रपद्यन्ते, ‘अन्धं तमः प्रपद्यन्ते (प्रविशन्ति) ये के चात्महनो जनाः’ इति श्रुतेः। भिन्नेश्वरज्ञानिनामेवात्महत्वे किं पुनर्निरीश्वरवादिनां साङ्ख्यानां, देहात्मवादिनां बौद्धादीनां वेत्यर्थापत्तिः सूच्यते। ईश्वरसमदर्शिभ्योऽन्येषामात्महत्वमेव दर्शयितुं पूर्वपक्षमुद्भावयति—नन्विति। यः कोऽप्यतिमूर्खोऽपि प्राणी स्वयं स्वमात्मानं नैव हिनस्ति। न ह्यात्मनि कस्यापि द्वेषः, येनात्महिंसनं स्यात्। आत्मसुखविघातुकेऽन्यस्मिन्नेव सर्वस्य द्वेषः, तद्धिंसनं च, शत्रुहिंसाया दर्शनात्। आत्मोपभोगार्थमप्यन्यमेव पश्वादिकं हिंसन्ति, न त्वात्मानम् आत्मार्थमन्यार्थं वा। एवं सत्यप्रसक्तस्य निषेधायोगात् कथमप्राप्तमात्महिंसनमुच्यते न हिनस्तीति निषेधकथनद्वारा? न हिनस्तीति निषेधो ह्यात्मनि हिंसनं प्रसञ्जयित्वा१ निषेधति। तस्मादप्रसक्तस्य हिंसनस्यात्मनि प्रसञ्जनमयुक्तम्। इदं च ‘आत्मानं न हिनस्ती’ति वचनं ‘पृथिव्यामग्निर्न चेतव्यः’ इति प्राप्तिद्वारा निषेधवत्। ‘नान्तरिक्षे न दिवी’ति प्राप्त्यभावाच्चायं निषेधो मुख्यो नेष्यते यथा, तद्वदिहापि प्राप्तिं विना हिंसायाः आत्मनि निषेधो न युक्त इत्याह— यथेति। न चायुक्तोऽयं पूर्वपक्षः, राजादिभीत्या स्वशिरश्छेदकानां जलेऽग्नौ वा स्वयमेव निपत्य मृतानां दृश्यमानत्वादिति वाच्यम् ; तत्रापि देहादन्येनैव देहिना देहस्य हिंसितत्वादिति। पूर्वपक्षं परिहरति— नैष दोष इति। एषः अप्राप्तात्महिंसननिषेधो दोषो न भवति। कुतः? अज्ञानामात्मतिरस्करणोपपत्तेः। संग्रहोक्तं विवृणोति— सर्व इति। हिः प्रसिद्धौ, यस्मादिति वा। हन्तीत्यनन्तरं तस्मादिति शेषः कर्तव्यः। यस्माद् हन्ति सर्वोऽज्ञः आत्मानं, तस्मात् सर्वोऽज्ञः आत्महेत्यन्वयः। तिरस्कृत्येति। तमात्मत्वेनापरिगृह्येत्यर्थः। अनात्मानं देहं स्थूलमात्मत्वेन परिगृह्य देहमेवात्मानं मत्वेत्यर्थः। धर्माधर्मौ कृत्वा जन्मान्तर इति भावः। उपात्तं स्वीकृतं तमपि देहं मानुषं हत्वा भोगेन प्रारब्धकर्मणो ऽवसादनापादनद्वारा नाशयित्वा सञ्चितकर्मप्रयुक्तं नवं नूतनमन्यं देवमनुष्यतिर्यगादिलक्षणं देहमात्मत्वेनोपादत्ते। तमपि पूर्वोक्तविधया हत्वा तस्मादन्यं देहं नवमात्मत्वेनोपादत्ते। एवमात्मत्वेनोपात्तमात्मानं देहात्मानं हन्तीत्यात्महा। अयमर्थः - यद्यपि जीवो ‘न जायते म्रियते वे’ति, ‘नायं हन्ति न हन्यते’ इति च शास्त्रान्नित्य एव, तथापि मूढो जनः देहादन्यमात्मानं न वेद, किन्तु देहमेवात्मानं वेद। स्थूलोऽहं, कृशोऽहं, रुग्णोऽहं, वृद्धोऽहं, मनुष्योऽहमित्यादिव्यवहारात्। एवं देहात्माभिमानादेव राजादिभीत्या देहात्मानमवसादयितुं मूर्खाः शिरश्छेदजलाग्निपातादिकं कुर्वन्ति। राजा च देहात्मानमव- सादयितुमेव सापराधस्य शिरश्छेदादिदण्डं विधत्ते। एवं देहात्मघातुकाः आत्महनस्तावत् सर्वत्र विदिता एव। न च जीवेन देहो नाश्यत इति वाच्यम् ; हस्तेन खड्गेन वा देहस्य नाश्यमानत्वेन देहस्य जीवनाश्यत्वादर्शनात्। न हि स्वहस्तमन्यहस्तं वा छिन्दन् मूर्खो जीवो हस्तं छिनत्तीति मन्यते, किन्त्वहमेव ममैव शत्रोरेव वा हस्तं छिनत्तीति मन्यते। अतो न मूर्खस्य जीवे आत्मबुद्धिः, किन्तु देह एवात्मबुद्धिरिति। ‘न हिनस्त्यात्मनाऽऽत्मान’मिति यथाश्रुतमादाय चोदयति— नन्विति। ‘न पृथिव्या’मिति प्राप्तिद्वारा निषेधवद् ‘नान्तरिक्षे न दिवी’ति प्राप्त्यभावाच्चायं निषेधो मुख्यो नेष्यते। तथेहापि प्राप्तिं विना निषेधो न युक्तिमानित्याह— यथेति। अज्ञानामात्मनैवात्महिंसा- सम्भवाद् विदुषां तदभावोक्तिर्युक्तेति समाधत्ते— नैष दोष इति। संग्रहवाक् यं विवृणोति— सर्वो हीति। अनात्मशब्दो देहादिविषयः।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. २७-२८ ] १. ‘प्रसञ्ज्य’ इति पाठो युक्तः।

[[७२२]]

हन्तीत्यात्महा सर्वोऽज्ञः। यस्तु परमार्थात्मा, १असावपि सर्वदा अविद्यया हत इव, विद्यमानफलाभावादिति सर्वे आत्महन एवाविद्वांसः। यस्त्वितरो यथोक्तात्मदर्शी, सः उभयथाऽप्यात्मनाऽऽत्मानं न हिनस्ति २न हन्ति, ततो याति परां गतिम्। यथोक्तं फलं तस्य भवतीत्यर्थः॥२८॥

एवं लोकतः प्रसिद्धमेव तावदात्महिंसनम्। अथ शास्त्रादपि तत्प्रसिद्धमेव। शास्त्रेण हि पूर्वोत्तरजन्मनी प्रसाधिते कृतविप्रणा- शाकृताभ्यागमरूपदोषद्वयनिरासाय दृश्यमानधनिकत्वदरिद्रत्वरुग्णत्वनीरोगत्वादिभोगवैचित्र्यनिर्वाहाय च। तच्च जन्म कर्माधीनं विचित्रकर्मकृतत्वात् पश्वादिविचित्रदेहानाम्। तच्च कर्म कर्त्रधीनं कृष्यादिकर्मणः कर्त्रधीनत्वदर्शनात्। स च कर्ता देहात्मैव। देहस्यैव स्नानादिकर्मसु व्यापृतिदर्शनात्। इन्द्रियात्ममनआत्मबुद्ध्यात्मानस्तु देहात्मन एवानुग्राहकाः। तांश्चेन्द्रियाद्यात्मनो मूढो न जानातीति देहात्मैव सर्वविदितः कर्ता। अयं हि देहात्मा प्रारब्धं कर्म सुखदुःखादिभोगेन नाशयित्वा देहात्मान्तरोत्पादकं च कर्म कृत्वा प्रकृतदेहा- त्मानमुत्तरजन्मनि फलोपभोगार्थं नाशयति। एवमनादिकालादारभ्य कोटिशो देहात्मनो नाशितवान् अयमज्ञः, उत्तरत्र च कोटिशो देहात्मनो नाशयिष्यति च। अतोऽयमात्महेत्युच्यते, आत्मत्वेन गृहीतानां देहानां नाशकत्वात्। न च देहानां नाशेऽपि कथमात्मनाश इति वाच्यम् ; आत्मत्वेन गृहीतत्वाद् देहस्य तन्नाशे आत्मनाशस्तज्जन्मन्यात्मजन्म च सम्भवत्यज्ञदृष्ट्या। अज्ञो हि देहात्माभिमानाद् ‘जातोऽहं, मरिष्येऽह’मिति मन्यते। ननु आत्मत्वेन गृहीतस्यापि देहस्यानात्मत्वान्न देहात्महिंसको भवत्यात्महेत्यत आह— यस्त्विति। देहात्मादयो मिथ्यात्मानः, वस्तुतोऽनात्मत्वात्। प्रत्यगात्मा तु परमार्थात्मा, वस्तुत आत्मत्वात् , सत्यत्वाच्च। य इत्युपक्रमात् स इति शेषः। सोऽसावपीति। सोऽपीति वा पाठः। अविद्यया सर्वदा हत एव। अविद्यया परमार्थात्मानमपि हिंसन्त्येवाज्ञा इत्यर्थः। कथमविद्याहतत्वं परमार्थात्मनः ‘नायं हन्ति न हन्यते’ इत्युक्तलक्षणस्येत्यत आह— विद्यमानेति। विद्यमानफलं सत्त्वस्य फलमित्यर्थः। तदभावात्। यो हि निध्यादिः पदार्थः स्वगतधनादिना लोकं तर्पयति स निध्यादिर्विद्यत इत्युच्यते। यस्त्वन्यः पिशाचाद्याक्रान्तः स न लोकोपकारक इति विद्यमानोऽपि न विद्यत इत्येवोच्यते। तथा विद्यमानोऽपि स्वर्गादिरनुपलभ्यमानत्वादविद्यमान इव भात्येव। एवं विद्यमानो ऽप्यात्मा सच्चिदानन्दमयः अविद्ययाऽऽवृतत्वादज्ञैर्नोपलभ्यते, नापि तेषां स्वानन्दानुभवं प्रदत्त इत्यविद्यमान इव निरर्थक एव। तथा चाज्ञाः विद्यमानस्य सच्चिदानन्दरूपस्याप्यात्मनोऽविद्यया हेतुना अविद्यमानत्वनिरर्थकत्वकल्पका इति कृत्वा सर्वेऽविद्वांसः आत्महन एव। आत्मत्वेन परिगृहीतस्य देहात्मनः परमार्थात्मनश्च दर्शितविधया नाशकत्वादिति भावः। उभयथाऽपीति। आत्मत्वेन परिगृहीतस्य देहात्मनः क्षयापादनरूपेण, परमार्थात्मनो नैरर्थक्यापादनरूपेण च मार्गद्वयेनेति भावः। आत्मानमिति। देहात्मानं प्रत्यगात्मानं चेति भावः। अपि चानात्मानं देहान्तःकरणादिकमात्मत्वेन परिगृह्य आत्मनः संसारित्वकल्पनम् , परमेश्वरे आत्मनीश्वरभिन्नजीवत्वकल्पनम् , ज्ञानसम्पादनयोग्यं मानुषादिजन्म प्राप्याप्यनादिकालादारभ्याज्ञानादात्मनि प्रसक्तस्य संसारस्य ज्ञानेनानिर्मूलनं चेत्येवमादीन्यात्महिंसनान्यज्ञानां विपरीतज्ञानां च सम्भवन्तीति बोध्यम्। यथोक्तं फलं मोक्षः। यत्तु रामानुजः - न हिनस्ति रक्षति संसारान्मोचयति। ततः परां गतिमात्मानं यातीति, तन्मन्दम् - संसारान्मोचयतीत्यनेनै- वात्मप्राप्तेः सिद्धत्वेन पौनरुक्त्यात्। न ह्यात्मा नाम कश्चिदप्राप्तः प्राप्यते, किन्तु प्राप्त एवात्मनि प्रकृतिसङ्गप्रयुक्तः संसारो नश्यतीति अविदुषामारोपितात्महन्तृत्वं निगमयति— इत्यात्महेति। तथापि पारमार्थिकस्यात्मनो हननाभावान्न तेषां सर्वेषामात्महन्तृत्व- मित्याशङ्क्याह— यस्त्विति। उक्तरीत्या सर्वेषामविदुषामात्महन्तृत्वं सिद्धमित्युपसंहरति— सर्व इति। आत्मनैवात्महननमविदुषां दृष्टम्। तदिह विद्वद्विषये शक् यं निषेद्धुमित्याह— यस्त्वितर इति। उभयथाऽपीति। आरोपानारोपाभ्यामित्यर्थः। ज्ञानादनर्थभ्रमभ्रंशे पूर्वोक्तपरमानन्दप्राप्त्या परितृप्तत्वं युक्तमित्याह— तत इति॥२८॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘सोऽसावपि’ इति रा.पा.। २. ‘न हन्ति’ इति क्वचिन्न।

[[७२३]]

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति॥२९॥

॥२८॥

प्रकृत्येति। स्वेषामात्मनां गुणाः सत्त्वादयस्तत्प्रयुक्ता अन्ये च ज्ञानादयः। कर्माण्यदृष्टाख्यानि। तेषां वैलक्षण्यं वैषम्यं तत्प्र- युक्तो यो भेदस्तेन भिन्नेषु। भिन्ना एवात्मानः, परस्परभिन्नगुणकर्माश्रयत्वाद् घटादिवदिति प्रयोगः। एवं भिन्नेष्वात्मसु विषये एकेश्वरात्मदर्शनं पूर्वोक्तमयुक्तमेव। मिथ्याज्ञानरूपत्वादिति भावः। सर्वशः कर्माणि प्रकृत्यैव च क्रियमाणानि यः पश्यति स तदात्मानमकर्तारं पश्यति। तदेति पदच्छेदे यदेति शेषः। भगवतः प्रत्यगभिन्नपरमात्मनः सम्बन्धिनी। प्रकृत्यैवेत्येवकारार्थमाह— नान्येनेति। नात्मनेत्यर्थः। प्रकृत्यात्मभ्यामन्यस्याभावात्। ननु देहादिभिः कर्मणां क्रियमाणत्वात् कथं प्रकृत्येत्युक्तम्? अत आह— महदिति। महत्वबुद्धिः३। आदिपदान्मनइन्द्रियदेहग्रहणम्। महदादीनि च कार्यकरणानि च महदादिकार्यकरणानि तेषामाकारः स्वरूपं तेन परिणतया परिणामं प्राप्तया। कार्यकरणसङ्घातात्मिकयेति यावत्। स्थूलसूक्ष्मशरीरद्वयरूपप्रकृत्येति भावः। कर्माणि त्रिविधानि वाचिकमानसिककायिकभेदादित्यभिप्रेत्याह— वागिति। वाचा मनसा कायेन चारब्धुं शक्यानि योग्यानि वा वाङ्मनःकायारभ्याणि भाषणमननगमनादीनि। सर्वप्रकारैरिति। सर्वथेत्यर्थः। सर्वविधानीति यावत्। बहुभिर्ज्ञानसाधनमार्गैरिति वा। उपलभते जानाति। स पूर्वोक्तश्चासावात्मा तदात्मा४, तं तदात्मानम्। कुतो ह्यकर्तृत्वम्? अत आह— सर्वोपाधिविवर्जितमिति। मनोवागाद्युपाधिप्रयुक्त- त्वान्मननादिकर्तृत्वस्येति भावः। परमार्थं सत्यमात्मानं द्रष्टुं शीलमस्येति परमार्थदर्शी। आत्मविदिति यावत्। यथार्थदर्शीति वा। ये त्वात्मानं कर्तारं पश्यन्ति, ते तु विपरीतदर्शिन एवेति भावः। निर्गुणस्य सत्त्वादिगुणरहितस्य। अत एवास्य गुणप्रयुक्तो भेदो न सम्भवतीति भावः। अकर्तुरिति। अत एवास्य कर्मप्रयुक्तो भेदो न सम्भवतीति भावः। नापि स्वरूपप्रयुक्तो भेदोऽस्येत्याह— श्लोकान्तरं शङ्कोत्तरत्वेनावतारयितुमनुवदति— सर्वेति। प्रतिदेहं धर्माधर्मादिमत्त्वेनात्मनो भेदभानान्न सम्यग्दर्शनमिति शङ्कते — तदिति। स्वगुणैः सुखदुःखादिभिः, स्वकर्मभिश्च धर्माधर्माख्यैर्वैलक्षण्यात् प्रतिदेहं भेदे , तद्विशिष्टेष्वात्मसु कथं साम्येन दर्शन- मित्येतदाशङ्क्य परिहरतीत्याह— एतदिति। प्रकृतिशब्दस्य स्वभाववाचित्वं व्यावर्तयति—प्रकृतिरिति। मायाशब्दस्य संवित्पर्यायत्वं प्रत्याह— त्रिगुणेति। उक्ता परस्य शक्तिर्मायेत्यत्र श्रुतिसम्मतिमाह— मायां त्विति। अन्येन केनचित् क्रियमाणानि न भवन्ति कर्माणीत्येवकारार्थमाह— नान्येनेति। किं तदन्यन्निषेध्यमित्युक्ते साङ्ख्याभिप्रेता प्रधानाख्या प्रकृतिरित्याह— महदादीति। सर्वप्रकारत्वं काम्यत्वनिषिद्धत्वादिना प्रकारबाहुल्यम्। आत्मानमुक्तविशेषणं यः पश्यतीति पूर्वेण सम्बन्धः। स पश्यतीत्ययुक्तम् , पुनरुक्तेरित्या- शङ्क्याह — स परमार्थेति। आत्मनां प्रतिदेहं भिन्नत्वे तेषु समदर्शनमयुक्तमित्युक्तस्य कः समाधिरित्याशङ्क्याह— निर्गुणस्येति ॥२९॥

१. ‘यः पश्यति’ इत्यनुषङ्गः। एतदर्थमेव ‘तथाऽऽत्मान’मित्यत्र तथाशब्दः। एतेन तथाशब्दवैयर्थ्यं परिहृतम्। २. ‘प्रमाणानुपपत्तेः’इति पा.। ३. ‘महत्तत्त्वं बुद्धिः’ इति पाठोऽपेक्षितः। ४. ‘यः पश्यति तदात्मानम्’ इति रा.पा.।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

सर्वभूतस्थमीश्वरं समं पश्यन् न हिनस्त्यात्मनाऽऽत्मानमित्युक्तम् , तदनुपपन्नं स्वगुणकर्मवैलक्षण्यभेदभिन्नेषु आत्मस्वित्येतदाशङ्क्याह—प्रकृत्यैवेति। प्रकृत्या, प्रकृतिर्भगवतो माया त्रिगुणात्मिका ‘मायां तु प्रकृतिं विद्याद्’ (श्वे. उ. ४.१०) इति मन्त्रवर्णात्। तया प्रकृत्यैव च, नान्येन, महदादिकार्यकारणाकारपरिणतया कर्माणि वाङ्मनः- कायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्वप्रकारैः यः पश्यति उपलभते, तथाऽऽत्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधिविवर्जितम्१ , स पश्यति स परमार्थदर्शीत्यभिप्रायः। निर्गुणस्याकर्तुः निर्विशेषस्याकाशस्येव भेदे २प्रमाणा- नुपपत्तिरित्यर्थः॥२९॥

अ. १३. श्लो. २८ -२९ ]

[[७२४]]

पुनरपि तदेव सम्यग्दर्शनं शब्दान्तरेण प्रपञ्चयति— यदेति। यदा यस्मिन् काले भूतपृथग्भावं भूतानां पृथग्भावं पृथक्त्वम् , एकस्मिन्नात्मनि स्थितम् एकस्थम् अनुपश्यति १शास्त्राचार्योपदेशमनु आत्मानं प्रत्यक्षत्वेन पश्यति— आत्मैवेदं सर्वमिति, तत एव च तस्मादेव च विस्तारम् उत्पत्तिं विकासम् ‘आत्मतः प्राणः आत्मत आशा निर्विशेषस्येति। एवंविधस्यात्मनः आकाशस्येव भेदे प्रमाणानुपपत्तेः प्रमाणाभावादित्यर्थः। भेदे यत् प्रमाणं परैरुपन्यस्तमसच्छास्त्रादि- रूपम् , तस्य अनुपपत्तेः अयुक्तत्वादिति वाऽर्थः। तस्मान्नास्ति स्वगुणकर्मवैलक्षण्यभेदभिन्नत्वमात्मनः, प्राकृतगुणादीनामात्म- सम्बन्धित्वाभावात्। २अत्र वैलक्षण्यशब्दस्य विशेषार्थकत्वमङ्गीकृत्य गुणानां कर्मणां वैलक्षण्यानां च भेदः इत्यपि व्याख्यानं सम्भवति, निर्विशेषस्येत्युपसंहारभाष्यानुसारात्। एवं निरुपाधिकस्यात्मनो गुणकर्मादिप्रयुक्तभेदाभावात् सिद्धमेकेश्वरत्वम्। न च पार्थक्येनोप- लभ्यमानानां गुणादीनां का गतिरिति वाच्यम् ; प्रकृतिरेव गतिरिति दर्शितत्वाद् भगवता। न च कर्मणामेव प्रकृत्याश्रयत्वं दर्शितमिति वाच्यम् ; गुणप्रयुक्तत्वात् कर्मणां गुणानां च प्रकृत्याश्रयत्वस्य भाष्ये दर्शितत्वात् - त्रिगुणात्मिका मायेति। विशेषाणां च गुणकर्म- प्रयुक्तत्वात् प्रकृत्याश्रयत्वमेव। स्वरूपप्रयुक्तविशेषाणां च प्रकृतिस्वरूपप्रयुक्तत्वात् प्रकृत्याश्रयत्वमेव। तथा च स्वगुणकर्मवैलक्षण्य- भेदभिन्नत्वं कार्यकरणसङ्घाताकारपरिणतप्रकृतेरेव, न तु मूलप्रकृतेस्तस्या अभिन्नत्वात्। नाप्यात्मनस्तस्य गुणादिरहितत्वात्। एवं च सति, अज्ञानान्मूढाः प्रकृतिं तद्धर्मांश्चात्मन्यध्यस्य सगुणः कर्ता सविशेषो बहुविध आत्मेति प्रतियन्ति द्वैतिनस्तार्किकादयः। यथा वा तेभ्योऽप्यतिमूढा देवो मनुष्यः पशुरात्मेति। तस्मात् स्थितमद्वैतम्॥२९॥

यदेति। यदा, विद्वानिति शेषः। भूतपृथग्भावमेकस्थमनुपश्यति, तत एव च विस्तारं पश्यति, तदा ब्रह्म सम्पद्यते। एकस्थं यथा तथेति क्रियाविशेषणम्। एकस्थं भूतपृथग्भावमिति वा। भूतान्येव पृथग्भूतानि, न त्वात्मा। तच्च भूतपृथक्त्वमात्मन्यध्यस्तमविद्य- येत्येकस्थमित्युच्यते। सर्वेषां भूतानामात्मनि कल्पितत्वात् तद्गतं पृथक्त्वमात्मन्यध्यस्तमिति भावः। अनुपश्यतीत्यत्रोपसर्गार्थमाह— शास्त्रेति। अनुसृत्य पश्यत्यनुपश्यति। आत्मस्थभूतपृथग्भावदर्शनेनात्मदर्शनं सिद्धमित्यभिप्रेत्याह— आत्मानं प्रत्यक्षत्वेन पश्यतीति। घटस्थं जलमिति दर्शनस्य यथा जलाधिकरणघटदर्शनायत्तत्वं, तथा भूतपृथग्भाव आत्मस्थ इति दर्शनस्य पृथग्भूतभूताधिकरणात्म- साक्षात्कारायत्तत्वमिति भावः। कथमात्मनः प्रत्यक्षत्वेन दर्शनम्? अत आह— आत्मैवेदं सर्वमिति। ‘आत्मैवेदं सर्वम्’ इति श्रुत्युक्तविधया आत्मानं प्रत्यक्षत्वेन पश्यतीत्यर्थः। इदं रजतं शुक्तिरितिवदिदं सर्वमात्मेति बाधसामानाधिकरण्यमुपपद्यत इति भावः। तस्मादेवेति आत्मनः सकाशादेवेत्यर्थः। उत्पत्तिविकासमिति। भूतानामिति भावः। विकाशोऽतिशयः। आत्मन एव सर्वभूतोत्पत्तिं प्रति हेतुत्वे श्रुतिमाह— आत्मतः प्राणः, भवतीति शेषः। आत्मतो मनो भवति। आत्मत आकाशो भवति। आत्मतः इति पञ्चम्यास्तसिः। प्रकृतेर्विकाराणां च साङ्ख्यवत् पुरुषादन्यत्वप्रसक्तौ प्रत्याह— पुनरपीति। उपदेशजनितं प्रत्यक्षदर्शनमनुवदति— आत्मैवेति। भूतानां विकाराणां नानात्वं प्रकृत्या सहात्ममात्रतया प्रलीनं पश्यति। न हि भूतपृथक्त्वं सत्यां प्रकृतौ केवले परस्मिन् विलापयितुं शक्यत इत्यर्थः। परिपूर्णादात्मन एव प्रकृत्यादेर्विशेषान्तस्य स्वरूपलाभमुपलभ्य तन्मात्रतां पश्यतीत्याह— तत एवेति। उक्तमेव विस्तारं श्रुत्यवष्टम्भेन स्पष्टयति—आत्मत इति। ब्रह्मसम्पत्तिर्नाम पूर्णत्वेनाभिव्यक्तिः, अपूर्णत्वहेतोः सर्वस्यात्मसात्कृतत्वादित्याह— ब्रह्मैवेति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यदा भूतपृथग्भावमेकस्थमनुपश्यति। तत एव च विस्तारं ब्रह्म सम्पद्यते तदा॥३०॥

१. ‘शास्त्राचार्योपदेशतो मत्वा आत्मप्रत्यक्षत्वेन पश्यति’ इति पा.। यथास्थितपाठे— आत्मानम् आत्मानतिरिक्तम् , कल्पितस्याधिष्ठानानतिरिक्तत्वादिति योज्यम्। २. अत्र ‘स्वगुणकर्मवैलक्षण्यभेदभिन्नेषु आत्मसु’ इति भाष्ये इत्यर्थः।

[[७२५]]

आत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नम्’ (छा.उ. ७.२६.१) इत्येवमादिप्रकारैः विस्तारं यदा पश्यति, ब्रह्म सम्पद्यते ब्रह्मैव भवति तदा तस्मिन् काल इत्यर्थः॥३०॥

एकस्यात्मनः सर्वदेहात्मत्वे तद्दोषसम्बन्धे प्राप्त इदमुच्यते— अनादीति। अनादित्वाद् अनादेर्भावोऽनादित्वम् आदिः कारणं, तद् यस्य नास्ति तदनादि। यद्ध्यादिमत् तत् स्वेनात्मना व्येति, अयं तु अनादित्वात् १निरवयव इति आत्मन इत्यर्थः। स्मरः कामो भवति। आत्मतस्तेजो भवति। आत्मत आपो भवन्ति। आत्मत आविर्भावतिरोभावौ जन्मनाशौ भूतानामिति शेषः, भवतः। आत्मतोऽन्नं भवति। सर्वाणि भूतान्यात्मनः सकाशादेव भवन्ति। आत्मन्येव वर्तन्ते। आत्मन्येव लीयन्ते। यथा सर्पाभासो रज्जोरेव भवति, रज्जावेव वर्तते, रज्जावेव लीयते। तस्माद् यथा सर्पाभासो रज्जुरेव, तथा जगत् सर्वमात्मैव। इति यस्यात्मतत्त्वसाक्षात्कारः स ब्रह्म सम्पद्यते ब्रह्म प्राप्नोति। फलितमाह— ब्रह्मैव भवतीति। यद्वा ब्रह्मेति प्रथमान्तं सम्पद्यतिर्भवत्यर्थः। आत्मन एव ब्रह्मत्वादित्यभिप्रायः। ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुतेः। यत्तु रामानुजः - भूतानां देवत्वमनुष्यत्वह्रस्वत्वदीर्घत्वादिलक्षणं पृथग्भावमेकस्थं प्रकृतिस्थं यदा पश्यति, नात्मस्थं, तत एव प्रकृतित एवोत्तरोत्तरपुत्रपौत्रादिभेदविस्तारं च यः पश्यति, स ब्रह्म सम्पद्यते अनवच्छिन्नं ज्ञानैकाकारमात्मानं प्राप्नोतीत्यर्थः इति, तन्मन्दम् - भूतानामेव प्रकृतित्वाद् देवत्वादिकं भूतगतमेव नात्मगतमित्यनुसन्धानेनेष्टसिद्धौ देवत्वादिकस्य प्रकृतिगतत्वानुसन्धानेन फलाभावात्। तथा आधुनिकप्रपञ्चस्य प्रकृतिपरिणामत्वानुसन्धानेनैवेष्टसिद्धौ उत्तरोत्तरपुत्रपौत्रादिप्रपञ्चप्रकृतिपरिणामत्वानुसन्धानेन फलाभावाच्च। स्वमते अणोरात्मनः परिच्छिन्नत्वेनापरिच्छिन्नत्वासम्भवाच्च। संसारदशायामणुत्वेऽपि मुक्तौ विभुत्वमिति वादेऽणुत्व- परित्यागविभुत्वस्वीकाररूपविकारप्रसङ्गादात्मनोऽनित्यत्वप्रसङ्गाच्च। यदि तु संसारदशायामात्मपरिच्छेदकस्य बुद्धिरूपोपाधेर्मुक्तौ नष्टत्वाद् विभुरेवात्मेत्यभ्युपगम्यते, तर्हि औपाधिकमेवाणुत्वं जीवस्य, न स्वाभाविकमिति कृत्वा विभुरेव जीवः इत्यभ्युपगच्छ। एवं विभुत्वे सिद्धे ईश्वरत्वं च सिद्धमेव। सर्वव्यापित्वस्येश्वरलक्षणत्वात्। न च - जीवो नेश्वरः, किन्तु ईश्वरवद् विभुरिति - वाच्यम् ; एकस्यैव व्यापित्वं सम्भवति, नानेकेषामिति। अनेकसत्त्वे नैकस्यापि सर्वव्यापित्वं सम्भवति, परस्परव्याप्त्यभावात् परस्परस्येति॥३०॥

अनादित्वादिति। सर्वदेहात्मत्वे सर्वेषां देहानां भूतानामात्मत्वे अन्तरात्मत्वे सति, तदन्तःस्थितौ सत्यामित्यर्थः। तेषां भूतानां ये दोषाः सुखदुःखादिविकारास्तेषां सम्बन्धे आत्मनः प्राप्ते सति अनादित्वादितीदं पद्यमुच्यते। आदिमत् कार्यमित्यर्थः। तद् घटादिरूपं कार्यं स्वेनात्मना स्वस्वरूपेण व्येति विकारमाप्नोति, घटादेः कपालत्वादिप्राप्तिरूपविकारदर्शनादिति भावः। यदादिमत् तद् व्येति सावयवत्वाद् यथा घटः। अनादिमानात्मा तु न व्येति, निरवयवत्वात्। आदिमत्त्वसावयवत्वविकारित्वानां न क्वापि वैयधिकरण्यलक्षणो व्यभिचारः। यत् सावयवं वस्तु तस्यावयवसङ्कोचविकासाद्यात्मकः स्वरूपविकारः स्यात् , स कथं निरवयवस्य? यच्च सावयवं वस्तु ज्ञानसमानकालैव मुक्तिरिति सूचयति— तदेति॥३०॥

परिपूर्णत्वेन सर्वात्मत्वे प्राप्तमात्मनो देहादिगतेन कर्तृत्वादिना तद्वत्त्वम्। दृष्टं हि पवित्रस्यापि पञ्चगव्यादेरपवित्रसंसर्गात् तद्दोषेण २दुष्टत्वमित्याशङ्कामनूद्योत्तरत्वेन श्लोकमवतारयति— एकस्येति। अनादित्वमेव साधयति— आदिरिति। तथापि किं स्यादित्याशङ्क्य कार्यत्वकृतव्ययाभावः सिध्यतीत्याह— यद्धीति। तथापि गुणापकर्षद्वारको व्ययो भविष्यति, नेत्याह— तथेति। निरवयवत्वादेव

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः। शरीरस्थोऽपि कौन्तेय ! न करोति न लिप्यते॥३१॥

अ. १३. श्लो. २९-३१ ] १. अनादित्वेन निरवयवत्वमर्थादाक्षिप्यते, सावयवस्य सादित्वनियमेनानादित्वानुपपत्तेरिति भावः। तेन स्वावयवहान्या स्वीयगुणादिहान्या वा व्ययः प्रसिद्धो ऽत्रानादित्वान्निर्गुणत्वादिति हेतूक्त्याऽऽत्मनो निषिध्यते।(द्र.भ.गी. २-१७ पृ.६३)। २. ‘न हि पूतं स्याद् गोक्षीरं श्वदृतौ धृतम्’ इति न्यायादिति भावः।

[[७२६]]

तस्य द्व्यणुकत्र्यणुकादिक्रमेणोत्पत्तिः स्यात् , सा चोत्पत्तिः कथं निरवयवस्य? तस्मान्निरवयवस्यात्मनो न कार्यत्वं, नापि विकारित्वम् , सावयवस्यैव देहादेस्तदुभयमपीति कृत्वा अनादित्वादित्यनेन निरवयवत्वं तत्पूर्वकं निर्विकारत्वं चात्मनः सिद्धमित्यभिप्रायः। एतेनाकाशादिलक्षणं यत्किञ्चिज्जायमानं वस्तु तत् सर्वं सावयवमेव, सादित्वादिति सिद्धम्। सूक्ष्मावस्थावस्थितद्रव्यस्य स्थूलावस्था- प्राप्तिरेवोत्पत्तिर्बीजाङ्कुरवन्मृत्पिण्डघटवच्च। सा चावयवविकासं विना न घटत इति कृत्वा यत् कार्यं तत् सावयवमिति व्याप्तेर्न क्वापि व्यभिचारः। ननु कार्येऽप्याकाशे निरवयवत्वदर्शनादस्ति व्यभिचारः। उक्तं हि भाष्यकृद्भिरेव—आकाशवन्निरवयवत्वादिति चेत् , मैवम् ; निर्धान्ये घटे यावानाकाशोऽस्ति तावानाकाशस्तस्मिन्नेव सधान्ये घटे न दृश्यते, तस्मिन्नेव पुनर्धान्यपरिपूर्णे घटे नैवोपलभ्यते कियानप्याकाशः। अयं चोपलभ्यमानो घटाकाशस्य सङ्कोचनाशादिराकाशावयवनाशं विना न घटते। तस्मात् सावयव एवाकाशः। एवं मठाकाशोऽपि सावयव एव। निर्जने मठे यावनाकाशस्तावान् न हि सजने तस्मिन्नेव मठे उपलभ्यते। तथा महाकाशोऽपि सावयव एव। गृहादिरहिते बहिर्यावानाकाश उपलभ्यते तत्रैव बहिर्गृहादिनिर्माणे सति तावत आकाशस्यानुपलम्भात्। न चावकाशस्यैव वृद्धिक्षयौ नाकाशस्येति वाच्यम् ; अवकाशातिरिक्तस्याकाशस्यैवादर्शनात्। एवं सावयवत्वादेव ‘आत्मन आकाशः सम्भूतः’ इति सम्भवश्रवणमाकाशस्योपपद्यते। न च भाष्यविरोधः, मतान्तराभिप्रायेण तद्वचनस्योपपत्तेः। कथमन्यथा घटादिभिराकाशस्य परिच्छेदः स्यात्? घटादयो हि स्वावयवैराकाशमाक्रम्य तत्राकाशबुद्धिं निरस्य घटादिबुद्धिं जनयन्ति। अत एव हि घटादीनामाकाश- परिच्छेदकत्वम्। न चैवमात्मनोऽप्यहङ्कारादिपरिच्छेदसत्त्वात् सावयवत्वमेवेति वाच्यम् ; यदि सर्पेण रज्जोः परिच्छेदः स्यात् , तर्हि अहङ्कारादिभिः स्यादात्मनोऽपि परिच्छेदः। न हि सर्प इव कालत्रयेऽप्यस्त्यात्मन्यहङ्कारादिकं जगत् , येन जगता परिच्छेदः स्यादात्मनः। अत एव हि जगतो मिथ्यात्वं ब्रवीति श्रुतिः ‘अतोऽन्यदार्तम्’ इति। न हि मिथ्यावस्तुना सत्यवस्तुनः कोऽपि परिच्छेदादिः सम्भवति, मृगतृष्णोदकेन भूमेः पङ्किलत्वादर्शनात्। अत एव ‘एकमेवाद्वितीयं ब्रह्मे’ति श्रुतिरुपपद्यते। तस्मादपरिच्छिन्नो निरवयवोऽनादिरविकार्येवात्मा। गगनादिकं तु परिच्छिन्नं सावयवं सादि सविकारं च। न च महाकाशोऽपरिच्छिन्न एवेति वाच्यम् ; घटमठादिभिः परिच्छेदाभावेऽपि महाकाशस्य ब्रह्माण्डकर्परपरिच्छेदो ऽस्त्येव। भूतलमारभ्य ब्रह्माण्डोर्ध्वकर्परपर्यन्तं व्याप्य वर्तमानो ह्याकाशो महाकाशः इत्युच्यते। तस्माद् भूतलब्रह्माण्डोर्ध्वकर्पराभ्यां परिच्छिन्न एव महाकाशः। एवं परिच्छिन्नत्वादेव सावयवः। एवं सावयवत्वादेव सादिः। एवं सादित्वादेव सविकारश्च। अत एव दृश्यत्वमनात्मत्वं चाकाशस्य। अन्यथा आकाश एव स्यादात्मा आधुनिकाचलमतरीत्येति सङ्क्षेपः। नन्वेवं सावयवत्वे सत्याकाशस्य घटादिभिः संयोगः स्यादेव तस्येति कथमुक्तमाकाशस्य न घटादिसंयोगः इति? कथं वा घटसंयुक्त आकाश इति, आकाशसंयुक्तो वा घट इति व्यवहाराभावः, भूतलं घटसंयुक्तमितिवदिति चेद्? उच्यते— आकाशस्य सूक्ष्मत्वात् तदवयवा अप्यतिसूक्ष्माः इति तेषामाकाशावयवानां घटावयवसंयोगो दुर्विज्ञेयः। एवमाकाशावयवानां तत्संयोगस्य च दुर्विज्ञेयत्वादेव सावयव आकाशः इति, घटसंयुक्त आकाशः इति वा न लोकव्यवहारः। अमुमेव लोकव्यवहारमाश्रित्य आकाशवन्निरवयवत्वादित्युक्तमाचार्यैः। लोकप्रसिद्धं हि दृष्टान्ततया वक्तव्यम्। शास्त्रदृष्ट्या तु सावयव एवाकाशः। घटादिभिस्तस्य परिच्छेददर्शनादिति। नन्वेवं निरवयवस्यात्मनः क्षेत्रसंयोगो नास्तीत्यत्र १किं दृष्टान्तम्? न हि दृष्टान्तशून्योऽर्थो ग्राह्यः। न ह्यात्मनोऽन्यन्निरवयवं किञ्चिदस्ति, यस्य दृष्टान्तत्वेन स्वीकार्यत्वं स्यादिति चेत् , मैवम् ; अन्वयदृष्टान्ताभावेऽपि व्यतिरेकदृष्टान्तसत्त्वेन तदर्थस्य ग्राह्यत्वात्। आत्मनः क्षेत्रसंयोगो नास्ति, निरवयवत्वाद् , व्यतिरेकेण घटादिवदिति प्रयोगसिद्धेः। एवमन्वयदृष्टान्ताभावादेव ‘न तत्समो ऽस्त्यभ्यधिकः कुतोऽन्यः’ इति श्रुत्युपपत्तिः[स्मृत्युपपत्तिः]। ननु स्वरूपतो विकाराभावेऽप्यात्मनो गुणतो विकारः स्यादत आह— निर्गुणत्वादिति। नीलगुणवतश्चूतफलादेः परिणामावस्थायां नीलगुणनाशपूर्वकपीतगुणाविर्भावरूपगुणविकारो दृश्यते। तथा भाष्यार्कप्रकाशः १. ‘को दृष्टान्तः’ इति पाठो युक्तः।

[[७२७]]

काठिन्यगुणतस्तण्डुलसञ्चयस्य पाकवशात् काठिन्यगुणनाशपूर्वकमृदुत्वगुणाविर्भावरूपगुणविकारो दृश्यते। तथा निद्रादशायां तमोगुणवतोऽन्तःकरणस्य प्रबोधे तमोगुणनाशपूर्वकरजोगुणाविर्भावरूपगुणविकारो दृश्यते। एवं यस्य कस्यापि गुणस्य क्षेत्रज्ञे ऽभावान्न विकारित्वप्रसङ्गस्तस्येति भावः। व्यय इति। विकारः इत्यर्थः। अयं परमात्माऽव्ययः, अनादित्वान्निर्गुणत्वाच्च। यद्धि सादि सगुणं च तद् विक्रियते, यथा घटः इति। यद्वा अयं परमात्मा स्वरूपतोऽविक्रियः, अनादित्वाद् , व्यतिरेकेण घटवत्। अयं परमात्मा गुणतश्चाव्ययः, निर्गुणत्वाद् , घटवदिति। यत एवमव्ययः परमात्मा तत इति शेषः। शरीरस्थ इति। ननु सर्वत्रावस्थितस्यात्मनः कथं शरीर एव स्थितिरत आह— शरीरेष्विति। उपलब्धिः साक्षात्कारः। बुद्धौ खलु विदुषामात्मसाक्षात्कारः। सा च बुद्धिः सूक्ष्मशरीरभूता स्थूलशरीरस्था चेति बुद्धिस्थस्यात्मनः शरीरस्थत्वव्यपदेश इति भावः। केन न लिप्यते? अत आह— तत्फलेनेति। न लिप्यते न सम्बध्यत इत्यर्थः। कर्तुरेव कर्मफलसङ्गरूपो लेपः, न त्वकर्तुः। न ह्येकस्मिन् भोजनादिकर्म कुर्वति सति तस्मादन्योऽकर्ता तत्फलेन क्षुधापनयनादिना लिप्यते। तस्मादकर्तुरात्मनो न कर्मफललेपः। एवं कर्मफललेपाभावादेव निर्विकारत्वमात्मनः। न हि कर्मफलमननुभवतो भवेद् विकारित्वं क्वापि, सुखदुःख- कामक्रोधजन्मवृद्ध्यादीनां कर्मफलानामनुभवस्यैव विकारत्वात्। तस्मादविकारित्वादात्मनो न कर्मकर्तृत्वं तत्फलभोक्तृत्वं वा सम्भवति, विरोधात्। ततश्चाकर्तुरविकारस्यात्मनः शरीरादिदोषसम्बन्धप्रसक्तिर्नास्ति। सति दोषसम्बन्धे आत्मनः सविकारत्वप्रसङ्गात्। सति चाकर्तृत्वे आत्मनः शरीरादिकर्मकृतदोषसम्बन्धायोगाच्च। तस्मादकर्ताऽभोक्ता निर्विकारो निर्गुणोऽनादिरेकः आत्मेति सिद्धान्तः। ननु यदि देहस्थः आत्मा न करोति, लिप्यते न च, तर्हि कोऽन्यो देहेऽस्मिन्नहं कर्ता सुखादिभोक्ता चेत्यभिमन्यमानः? इत्याक्षिपति— कः पुनरिति। किं देहेऽकर्तुरभोक्तुश्चात्मनः कश्चिदन्यो देही विद्यते, उत न? आद्ये - ‘क्षेत्रज्ञं चापि मां विद्धी’- त्यादिशास्त्रविरोधः। द्वितीये तु - अनुभवविरोध इति भावः। तस्मात् पर ईश्वरादन्यः संसारी जीवो नास्तीति न वाच्यम् ; ईश्वरस्य संसारित्वायोगात्। उपलभ्यमानसंसारस्य दुरपलापत्वेनेश्वराद् भिन्नस्य संसारिणो जीवस्यावश्यमभ्युपगन्तव्यत्वाच्चेति भावः। एवं अवयवद्वारकस्य, निर्गुणत्वाद् गुणद्वारकस्य च व्ययस्याभावेऽपि स्वभावतो व्ययः स्यादित्याशङ्क्याह— परमात्मेति। परमात्मनः स्वतः परतो वा व्ययाभावे फलितमाह— यत इति। २स्वमहिमप्रतिष्ठस्य कथं शरीरस्थत्वम्? तत्राह— शरीरेष्विति। सर्वगतत्वेन सर्वात्मत्वेन च देहादौ स्थितोऽपि स्वतो देहाद्यात्मना वा न करोति कूटस्थत्वाद् , देहादेश्च कल्पितत्वादित्यर्थः। कर्तृत्वाभावेऽपि भोक्तृत्वं स्यादित्या- शङ्क्याह— तदकरणादिति। तदेवोपपादयति— यो हीति। परस्य कर्तृत्वादेरभावे कस्य तदिष्टमिति पृच्छति— कः पुनरिति। परस्मादन्यस्य कस्यचिज्जीवस्य कर्तृत्वादीत्याशङ्कामनु- वदति— यदीति। तस्मिन् पक्षे प्रक्रमभङ्गः स्यादिति दूषयति— तत इति। ईश्वरातिरिक्तजीवानङ्गीकारान्नोपक्रमविरोधोऽस्तीति शङ्कते—

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

कृत्वा न व्येति; तथा निर्गुणत्वात् , सगुणो हि गुणव्ययाद् व्येति, अयं तु निर्गुणत्वान्न व्येति; इति परमात्माऽयम् अव्ययः नास्य व्ययो विद्यत इत्यव्ययः। यत एवमतः शरीरस्थोऽपि, शरीरेष्वात्मनः उपलब्धिर्भवतीति शरीरस्थः उच्यते; तथापि न करोति। तदकरणादेव तत्फलेन न लिप्यते। यो हि कर्ता स कर्मफलेन लिप्यते। अयं त्वकर्ता, अतो न फलेन लिप्यत इत्यर्थः।१ [आत्मनः आविद्यककर्तृत्वभोक्तृत्वयोर्निरूपणम्] कः पुनर्देहेषु करोति, लिप्यते च? यदि तावदन्यः परमात्मनो देही करोति लिप्यते च, तत इदमनुपपन्नमुक्तं अ. १३. श्लो. ३१ ] १. अयं परमात्मा शरीरस्थोऽपि अव्ययः, अनादित्वात् , निर्गुणत्वात्। (लौकिकक्रियां) न करोति, (चिन्तासंतापादिना) न लिप्यते च। अथवा श्रुतितात्पर्या- परिज्ञानप्राप्तमद्वैतं निराकर्तुमयं श्लोकः। अयं परमात्मा शरीरस्थो(=जीवो)ऽपि न, अनादित्वात् , निर्गुणत्वात्। (अयं परमात्मा सर्वं) करोति, (अतः) न लिप्यते। इति माध्वप्रदर्शिता श्लोकयोजना। अत्रापदार्थव्याख्यानम् , नञोऽयथाश्रुतान्वयश्च स्पष्टः। २.‘स भगवः कस्मिन् प्रतिष्ठित इति, स्वे महिम्नि’ इति श्रुतेरिति भावः।

[[७२८]]

क्षेत्रज्ञेश्वरैकत्वम् - क्षेत्रज्ञं चापि मां विद्धीत्यादि। अथ नास्तीश्वरादन्यो देही, कः करोति लिप्यते चेति वाच्यम् , परो वा नास्तीति। सर्वथा दुर्विज्ञेयं दुर्वाच्यं चेति भगवत्प्रोक्तमौपनिषदं दर्शनं परित्यक्तं वैशेषिकैः, १साङ्ख्यार्हतबौद्धैश्च। तत्रायं परिहारो भगवता स्वेनैवोक्तः ‘स्वभावस्तु प्रवर्तते’ (भ.गी.५.१४) इति। अविद्यामात्रस्वभावो हि करोति लिप्यते पूर्वपक्षयद्भिर्वैशेषिकैः साङ्ख्यैर्हतबौद्धैश्च भगवत्प्रोक्तमौपनिषदं दर्शनं परित्यक्तमित्यन्वयः। वैशेषिकाः सगुणमीश्वराद्भिन्नं चात्मानं वदन्ति। साङ्ख्यास्तु नास्त्येश्वरः इति वदन्ति। दैवादज्ञानाद्वा हताः नाशिताः पुरुषार्थाद् भ्रंशिता बौद्धास्तु देहमेवात्मानं वदन्ति। तस्मादमीभिः श्रीकृष्णेन सर्वज्ञेश्वरेण भ्रमप्रमादादिदोषगन्धशून्येन प्रोक्तम् उपनिषत्सम्मतं च दर्शनं ज्ञानं मतमिति वा, जीवेश्वराभेद- रूपमिति भावः; परित्यक्तमेव। दर्शितपूर्वपक्षस्य स्वयं समाधानमनुपलभमानत्वादिति भावः। किमिति परित्यक्तम्? अत आह— सर्वथेति। दर्शनमिति २कर्तुरत्रान्वयः। दर्शनं सर्वथा दुर्विज्ञेयं विज्ञातुमशक्यम्। ननु स्वदुर्विज्ञेयत्वमात्रेण किं दर्शनं दुष्यतीत्यत आह— दुर्वाच्यं चेति। वक्तुमशक्यमित्यर्थः। अस्मिन् दर्शने दर्शितपूर्वपक्षस्य समाधानमस्माकं स्वयं दुर्विज्ञेयं, समाधाता चान्यो नास्ति, समाधानस्य दुर्वचत्वात्। अत एव दर्शनमपि दुर्विज्ञेयं दुर्वाच्यं चेति भावः। यद्वा परो नास्तीति न वाच्यम्। ननु कुतो न वाच्यम् ; सुवचमेव परो नास्तीत्यत आह— सर्वथेति। अस्य समाधानमिति शेषः। दर्शितपूर्वपक्षस्य समाधानमस्माकं दुर्विज्ञेयम् अन्यस्य च दुर्वाच्यं च। इति मत्वेति शेषः। वैशेषिकादिभिर्दर्शनं परित्यक्तमित्यन्वयः। ननु किं वैशेषिकाद्यभिमतरीत्या नास्त्यत्र परिहारः अत आह— तत्रेति। उक्तपूर्वपक्ष इत्यर्थः। परिहारमेव भगवदुक्तं दर्शयति— स्वभाव इति। तमेव विवृणोति— अविद्येति। अविद्या अज्ञानम् , तदेवाविद्यामात्रम् , तदेव स्वभावोऽविद्यामात्रस्वभावः। अविद्यामात्रमित्यर्थः। स्वभावशब्दस्येहाविद्येत्यर्थ इति भावः। परमात्मनः स्वभावभूतत्वादविद्यायाः। करोति कर्म, लिप्यते च तत्फलेनेति हेतोरहं कर्ताऽहं भोक्तेति व्यवहारो भवति। कर्ताऽहं भोक्ताऽहमित्यनुभवसिद्धः कर्तृत्वभोक्तृत्वलक्षणः संसारः परमात्मनो ऽविद्याकृत एवेत्यर्थः। स्वभावस्त्विति तुशब्दार्थमाह— न त्विति। तदिति कर्तृत्वं भोक्तृत्वं चेत्यर्थः। न त्वस्तीत्यन्वयः। अयं भावः - किमविद्यावस्थायां देहे कः करोति लिप्यते चेति त्वं पृच्छसि? उत विद्यावस्थायाम्? आद्ये - अविद्यया आत्मनि कल्पितस्य साभासाहङ्कारस्य कर्तुर्भोक्तुश्च सत्त्वाद् यावदविद्यं जीवेश्वरभेदस्यास्माभिः स्वीकृतत्वादस्त्येवेश्वराद् भिन्नो जीवः संसारी आत्माहङ्कारान्योन्याध्यासलक्षणः कर्ताऽहं भोक्ताऽहमित्यभिमन्यमानः। तदाश्रयश्च सर्वोऽपि व्यवहार इति नाज्ञानुभवविरोधः। न हि प्राज्ञस्य कर्ताऽहं भोक्तेत्यनुभवः। किन्त्वज्ञानामेव। अज्ञविषया ह्यविद्यावस्था। अस्यां चावस्थायां भगवता न जीवेश्वरैक्यमुच्यत इति न गीताशास्त्रस्याविद्वदनुभवस्य च परस्परं विरोधः, विभिन्नविषयत्वात्। क्षेत्रज्ञं चापीत्यादिकं हि विद्यादशावस्थितं जीवेश्वराद्वैतं ब्रूते। तस्मादविद्यावस्थायां देहे देही करोति, लिप्यते च। द्वितीये - न कोऽपि करोति लिप्यते च, विद्यया अविद्यायां नाशितायां तत्कृताध्या- सस्यापि नाशादसंसारीश्वर एव जीव इति। कर्तारं भोक्तारं च अहङ्कारमात्मन्यध्यस्य हि कर्ताऽहं भोक्ताऽहमित्यभिमन्यतेऽज्ञः। अध्यासाभावे कथं कर्तृत्वादिकम्? सुषुप्तौ जीवस्याध्यासाभावेन संसारादर्शनात्। अयं चाध्यासोऽज्ञानमूल इति नष्टेऽज्ञाने ज्ञानेन, कथमध्यासः स्यात्? तस्मान्नास्ति विद्यावस्थायां कर्ता भोक्ता चेश्वरादन्यो जीवः। किन्त्वकर्त्रभोक्त्रीश्वर एव जीवः। न चानुभवविरोधः, कर्ताऽहं भोक्तेति विद्वदनुभवाभावात्। न चाविद्वदनुभवविरोधः, अविद्यादशाविषयत्वादविद्वदनुभवस्य। न हि विभिन्नविषययोर्बाधः, अथेति। तर्हि प्रतीतकर्तृत्वादेरधिकरणं वक्तव्यमिति पूर्ववाद्याह— क इति। परस्यैव कर्तृत्वाद्याधारत्वान्नास्ति वक्तव्यमित्याशङ्क्याह— परो वेति। नास्तीति वाच्यमिति पूर्वेण सम्बन्धः। न हि कर्तृत्वादिभाक्त्वे परस्यास्मदादिवदीश्वरत्वमिति भावः। परस्यान्यस्य वा कर्तृत्वादावविशिष्टे ‘शरीरस्थोऽपी’त्यादिश्रुतिमूलमपि ज्ञातुं वक्तुं चाशक्यत्वात् त्याज्यमेवेति परीक्षकसम्मत्योपसंहरति—सर्वथेति। परस्य वस्तुतोऽकर्तुरभोक्तुश्चाविद्यया तदारोपाद् आदेयमेव भगवन्मतमिति परिहरति— तत्रेति। तमेव परिहारं प्रपञ्चयति— अविद्येति।

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

१. ‘साङ्ख्यैर्हतबौद्धैश्च’ इति रा.पा.। २. कर्तुरिति पाठो न युक्तः। विशेष्यमित्यर्थोऽपेक्षितः।

[[७२९]]

इति व्यवहारो भवति, न तु परमार्थत एकस्मिन् परमात्मनि तदस्ति। १अत एतस्मिन् परमार्थसाङ्ख्यदर्शने स्थितानां ज्ञाननिष्ठानां परमहंसपरिव्राजकानां तिरस्कृताविद्याव्यवहाराणां कर्माधिकारो नास्तीति तत्रतत्र दर्शितं भगवता॥३१॥

विद्वदनुभव एव विद्यादशाविषयः, विद्याविद्यादशयोर्भेदात्। विदुषां चाविद्यादशाऽयोगादविदुषां च विद्यादशाऽयोगात्। इमामेव दशामधिकृत्य ‘क्षेत्रज्ञं चापि मां विद्धी’ति गीताशास्त्रं प्रवर्तितं भगवता। तस्मात् परमार्थतोऽसंसारीश्वर एव जीवः। अज्ञानात्तु जीवः संसारी भिन्न ईश्वरादिति मूढानां व्यवहारः। यथा परमार्थतो नीरूपमेव गगनम् ; बालानां त्वज्ञानान्नीलं गगनमिति व्यवहार इति। अत एवेति। परमार्थत आत्मनि कर्तृत्वाद्यभावादेवेत्यर्थः। एतस्मिन्निति। प्रकृतगीताशास्त्रोक्त इत्यर्थः। परमार्थसाङ्ख्यदर्शन इति। साङ्ख्यं द्विविधं परमार्थसाङ्ख्यमपरमार्थसाङ्ख्यं चेति। कपिलेन देवहूतये प्रोक्तं तत्त्वमसीत्याद्युपनिषत्सिद्धं च जीवेश्वराभेद- विषयमात्मज्ञानं परमार्थसाङ्ख्यम्। तदेवेहाप्युच्यते। तत्त्वसङ्ख्यानात्मकं निरीश्वरं साङ्ख्यं त्वपरमार्थम्। तत्र यत् परमार्थसाङ्ख्यरूपं दर्शनं मतमद्वैतमिति यावत्। ज्ञानमिति वा। तत्र स्थितानामत एव ज्ञाननिष्ठानां ज्ञाने ब्रह्मात्मदर्शन एव निष्ठा नितरां सर्वदा स्थितिर्येषां तेषाम् , अत एव तिरस्कृतः सर्वोऽपि कर्तृत्वादिलक्षणोऽविद्याव्यवहारो यैस्तेषां विद्यया नाशितत्वादविद्यायास्तत्प्रयुक्तस्य सर्व- व्यवहारस्यापि तिरस्कारो लोप इति यावत्। परमहंसपरिव्राजकानां कुटीचकबहूदकहंसपरमहंसाख्यचतुर्विधपरिव्राजकमध्ये तुरीयाणां संन्यासिनामित्यर्थः। २एतेन कुटीचकादीनां दण्डकमण्डलुतर्पणादिलक्षणं किञ्चित् कर्मास्तीति सूचितम्। कर्माधिकारो नास्तीति। अनेनासंन्यस्तानां श्रौतस्मार्तविहितकर्मपरित्यागो नरकावह इति सूचितम् , तेषां तत्राधिकारसत्त्वात्। येषां यत्राधिकारः, तैस्तत्रावश्यं प्रवर्तितव्यम् , अन्यथा नरकादिदुःखं स्यात्। यथा येषां मन्त्रिभृत्यादीनां यत्र मन्त्रसेवादौ राजविहिते कर्मण्यधिकारः, तैस्तत्र प्रवर्तितव्यम् , अन्यथा राजदण्डदुःखं स्यात् , तद्वदिति भावः। भगवतेति। य एव प्रवृत्तिलक्षणं निवृत्तिलक्षणं च मार्गद्वयं निर्माय, तच्च वेदेन प्रकाश्य, तदनुविधायिभ्यो भक्तेभ्योऽभ्युदयं निःश्रेयसं च फलं वितरन् , तदननुविधायिनो नरकपातनादिना शिक्षयन् सर्वेश्वरः सर्वनियन्ता सर्वज्ञः सर्वविच्च भवति, यस्माद् भीत्यैव ‘भीषाऽस्माद्वातः पवते’ इत्यादिश्रुत्युक्तविधया वातसूर्यचन्द्राग्नीन्द्रब्रह्मादयः स्वं स्वमधिकारं निर्वर्तयन्ति, यस्माद् भीत्या मृत्युरपि धावति, तेन भगवता दर्शितमिदं शास्त्रं केनापि नातिवर्तनीयमित्यभिप्रायाद् भगवता दर्शितमित्युक्तम्। तत्रतत्रेति। ‘वेदाविनाशिनम्’ इत्यादिप्रकरणेष्वित्यर्थः। यत्तु रामानुजः - अयं परमात्मा देहान्निष्कृष्टस्वभावेन निरूपितः शरीरस्थोऽप्यनादित्वादनारभ्यत्वादव्ययो व्ययरहितः। निर्गुणत्वात् सत्त्वादिगुणरहितत्वान्न करोति, न लिप्यते देहस्वभावैर्न लिप्यते इति, तत्तुच्छम् - देहाद्यपेक्षयैवास्य परमात्मत्वम् , न त्वीश्वरापेक्षया। प्रत्युत ईश्वर एव जीवात्मापेक्षया परमात्मेति धिगस्य दर्शनम्। किं भगवतो व्यासस्य जीवात्मानं निरूपयिष्यतः प्रत्यगात्मेति जीवात्मेति वा पदं नास्फुरद् येन परमात्मेत्यसकृद् ब्रूयादपरमात्मानम्? किं वा प्रत्यगात्मेति जीवात्मेति वा कथने जीवस्य देहाद्यपेक्षया न सिध्यत्युत्कर्षः? देहापेक्षया जीवस्योत्कृष्टत्वं बौद्धातिरिक्तसर्वजनविदितमेवेति किं तत्प्रतिपादनेन फलं वा? न करोतीति पदसन्निधानसामर्थ्याद् न लिप्यत इत्यस्य कर्मफललेपेऽर्थे सिद्धे तं विहाय देहस्वभावैरिति कथं स्वकपोलकल्पितम्? देहान्निष्कृष्टस्वभावस्य देहस्वभावालेपः सिद्ध एवेति किमर्थं तद्वचनम्? न हि गृहस्थस्य गृहस्वभावलेपः प्राप्नोति, येन शरीरस्थस्य शरीरस्वभावलेपः प्राप्नोतीति तत्प्रतिषेधाय देहस्वभावैर्न लिप्यत इति वक्तव्यं स्यात्। न ह्यप्राप्तप्रतिषेधो न्याय्यः। यच्च वेदान्तदेशिकः - ज्ञानसङ्कोचरूपव्ययस्य ज्ञानादिगुणानां देहादिप्रेरणरूपकर्तृत्वस्य चात्मनि सत्त्वादिति, तदप्ययुक्तम् - ज्ञानसङ्कोचादिसत्त्वेऽविकारत्वहानेः। न हि स्वरूपत एव विकाराभाव आत्मनः, न तु धर्मत इति सङ्कोचः कल्पयितुमुचितः। तथा सति व्यावहारिके कर्तृत्वादाविष्टे पारमार्थिकमेव किं नेष्यते? तत्राह— न त्विति। वास्तवकर्तृत्वाद्यभावे लिङ्गमुपन्यस्यति— अत इति॥३१॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

अ. १३. श्लो. ३१ ] १. ‘अत एव’ इति रा पा.। २. चतुर्विधपरिव्राजकमध्ये परमहंसपरिव्राजकानां विशिष्य कर्माधिकाराभावप्रतिपादनेनेत्यर्थः। सूचितमिति। विशेषनिषेधस्य शेषाभ्यनुज्ञानार्थतान्यायेनेति भावः।

[[७३०]]

किमिव न करोति, न लिप्यत इत्यत्र दृष्टान्तमाह— यथा सर्वगतमिति। यथा सर्वगतं व्याप्यपि सत् १सौक्ष्म्यात् सूक्ष्मभावाद् आकाशं खं नोपलिप्यते न सम्बध्यते, सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते॥३२॥

पक्षेणाविकारत्वमिव पक्षेण सविकारत्वप्रसङ्गात्। न हि श्रुतिः क्वाप्यात्मानं सविकारं ब्रूते, सविकारत्वे सति अनित्यत्वापत्तेः। ज्ञानेच्छादयोऽन्तःकरणगुणा एव, न त्वात्मनः इति प्रागेव स्थापितम्। सत्त्वादिगुणप्रयुक्ताश्च ज्ञानादिगुणाः। ‘तत्र सत्त्वं निर्मलत्वात् प्रकाशकम्’ इत्यादेर्वक्ष्यमाणत्वात्। मूलभूतसत्त्वादिगुणनिषेधे कथं तत्कार्यभूतज्ञानादिगुणवत्त्वमात्मनः स्यात्? न कथमपि। यद्यात्मनः प्रेरणकर्तृत्वं स्यात् , तर्हि न करोतीत्ययुक्तं स्याद् वचनम्। न हि प्रेरणं कुर्वन्नात्मा न करोतीत्युच्येत। न हि न करोतीत्यस्य प्रेरणादेरन्यन्न करोतीति सङ्कोचः कल्पयितुमुचितः। तथा सति देहोऽपि न करोतीति वक्तुं शक्यत्वात्। न हि देहेनापि सर्वं कर्म क्रियते पर्वतोत्क्षेपणवायुस्तम्भनादेरशक्यत्वाद् देहस्य। न चैवमात्मनः प्रेरकत्वाभावेऽन्तर्यामिश्रुतिविरोध इति वाच्यम् ; अयस्कान्तशिला- लोहन्यायेनाकर्तुरप्यात्मनः सकाशाच्छरीरादिप्रेरणसम्भवात्। न ह्यस्मद्धृदि यः कोऽपि ‘त्वमेवं कुरु’ इति प्रेरणं कुर्वन्नुपलभ्यते। नापि करणरहितस्येश्वरस्य प्रेरणमपि सम्भवति, करणव्यापारत्वात् प्रेरणस्य वाचिकादिरूपस्य। अथवा आत्माश्रया मायैव प्रेरयति देहादिकम्। तच्च मायाकर्तृकं प्रेरणमात्मन्युपचर्यतेऽज्ञानात्। यथा देहे गच्छति सति देही गच्छतीति। एवं भूतानि मायायां प्रेरयन्त्यां सत्यां मायी प्रेरयतीश्वरः इति व्यवहारः। इदमेव वक्ष्यति भगवानिहैव गीताशास्त्रे— ‘भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायये’ति। न च माया करणमेव भ्रामणं प्रति, न कर्त्री, किन्त्वीश्वर एव कर्तेति वाच्यम् ; ‘न तस्य कार्यं करणं च विद्यते’ इति शास्त्रादीश्वरस्य करणरहितत्वात्। माया हीश्वरस्य शक्तिः, न तु करणम्। न ह्यग्निशक्तिरग्नेः करणम्। तस्मादीश्वरशक्तिभूतमायानिष्ठं प्रेरणरूपं कर्म ईश्वरेऽध्यस्तमिति नेश्वरः प्रेरणकर्ता। किन्त्वकर्तैवेश्वरः आत्मा। ‘प्रकृत्यैव च कर्माणी’ति ह्युक्तम्। यद्यत् कर्मतया प्रसिद्धं लोके, यो यश्च गुणतया प्रसिद्धस्तत्सर्वमपि प्रकृतिगतमेव। अत एव ‘केवलो निर्गुणश्च, निष्कलं निष्क्रियं शान्तम्’ इत्यादिश्रुत्युपपत्तिः। न च देहाद्याकारपरिणतप्रकृतिकार्यमेव कर्म, न मूलप्रकृतिकार्यमिति वाच्यम् ; गमनादिकर्मणां परिणतप्रकृतिकार्यत्वेऽपि प्रेरणरूपं कर्म मूलप्रकृतिकार्यमेवेति। तत्र च देहप्रेरणमिन्द्रियाकारप्रकृतिकार्यम् , इन्द्रियप्रेरणं मनःप्रकृतिकार्यम् , मनःप्रेरणं च बुद्धिप्रकृतिकार्यम् , बुद्धिप्रेरणं च मायाकार्यमिति मायायाः परमप्रेरकत्वं सिध्यति। न च - जडायाः मायायाः कथं प्रेरकत्वम्? तद्धि चेतनधर्म इति - वाच्यम् ; ईश्वरचैतन्याभाससत्त्वेन मायायास्तदुपपत्तेः। तस्माद् मायाद्वारेणैव प्रेरकत्वमीश्वरस्य, स्रष्टृत्वादिवत् , न तु स्वतः इत्यकर्तैवेश्वर आत्मेति सङ्क्षेपः। हे कौन्तेय ! अनादित्वान्निर्गुणत्वाच्चाव्ययोऽयं परमात्मा शरीरस्थोऽपि न करोति, न लिप्यते - इत्यन्वयः॥३१॥

यथेति। सर्वगतमप्याकाशं सौक्ष्म्याद्धेतोर्यथा नोपलिप्यते, तथा सर्वत्र देहेऽवस्थितोऽप्यात्मा नोपलिप्यते । न सम्बध्यत इति। घटादिदोषैरिति भावः। सर्वत्र देहे सर्वेषु देहेष्वित्यर्थः। नोपलिप्यते देहादिगतकर्तृत्वभोक्तृत्वादिदोषैर्न सम्बध्यते। देहाद्याश्रयकर्मणा बुद्धिभोग्यकर्मफलेन च नात्मनः कोऽपि सम्बन्धगन्धः इति भावः। देहादिभिर्नित्यसंयुक्तत्वमात्मनो यदिहोक्तं रामानुजेन , तत् प्रागेव निरस्तम् , असङ्गे निरवयवे आत्मनि देहादिसङ्गा- संभवादिति ॥३२॥

सूक्ष्मभावात् अप्रतिहतस्वभावत्वादित्यर्थः। न सम्बध्यते पङ्कादिभिरिति शेषः॥३२॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते। सर्वत्रावस्थितो देहे तथाऽऽत्मा नोपलिप्यते॥३२॥

१. सौक्ष्म्यात् असङ्गस्वभावत्वात् इत्यपि बोध्यम्।

[[७३१]]

यथेति। एको रविर्यथाकृत्स्नमिमं लोकं प्रकाशयति, हे भारत! क्षेत्री तथा कृत्स्नं क्षेत्रं प्रकाशयति। यथा सूर्यः प्रतिपुरुषं दृश्यमानोऽप्येकः सन्नेव समस्तं जगदवभासयति तथा क्षेत्रज्ञ ईश्वरः प्रतिदेहं दृश्यमानोऽप्येकः सन्नेव समस्तं क्षेत्रं प्रकाशयति। तस्माद् द्रष्टृपुरुषभेदेऽपि सूर्यैकत्ववद् देहभेदेऽप्यात्मैकत्वमेव। तत्रानेकत्वबुद्धिस्तु भ्रम एव, ‘एको देवः सर्वभूतेषु गूढः’ इति मन्त्रवर्णाच्च। तथा सर्वावभासकस्यापि सूर्यस्य यथा न सर्वदोषलेपस्तथा सर्वावभासकस्य सर्वज्ञस्य क्षेत्रज्ञस्य न क्षेत्रदोषलेपश्चेति भावः। उभयथाऽपीत्युक्तमेवार्थं प्रपञ्चयति— रविवदिति। सर्वक्षेत्रेष्वात्मन एकत्वे अलेपत्वे च रविर्दृष्टान्तभूत इत्यर्थः। अलेपक इति। लेपकरहित इत्यर्थः। अमुं लेपयितुं कोऽपि न शक्नोतीत्यर्थः। लेपकाभावादेव लेपरहित इति भावः। अलेप इति बहुव्रीहेः कप्रत्यय इति वा। लेपरहित इत्यर्थः। प्रकाशयतीत्यनेन च भासकस्य भास्यगुणदोषसम्बन्धो नास्तीति सूच्यते। दीपचक्षुःसूर्यादीनां घटादिगत- नैल्यादिगुणदोषसम्बन्धादर्शनादिति भावः। अत एवासङ्गस्वप्रकाशः आत्मा। सत्त्वादिगुणादिसङ्गस्तस्मिन्नविद्ययाऽध्यस्त एव, न तात्त्विक इति सिद्धमसंसारीश्वरत्वं क्षेत्रज्ञस्य। यत् किलोपन्यस्तमादौ ‘क्षेत्रज्ञं चापि मां विद्धी’ति, तदिह समापितम्। रामानुजस्तु - एकैकं क्षेत्रमेकैकः क्षेत्रज्ञो भासयतीत्युवाच, तदसत् - कृत्स्नं क्षेत्रमिति कृत्स्नत्वविशेषणसङ्कोचायोगात्। आपादतलमस्तकं सर्वं शरीरं भासयतीत्यर्थो हि क्षेत्रं भासयतीत्यनेनैव सिध्येत्। न च प्रतिदेहं भिन्ना एवात्मानः, अन्यथा सुखादि- व्यवस्थाऽसिद्धेरिति वाच्यम् ; सुखादीनामन्तःकरणधर्मत्वेनान्तःकरणानां भेदेन च तद्व्यवस्थोपपत्तेः। न च साक्ष्येकत्वे चैत्रसाक्ष्यनु- भूतस्य मैत्रान्तःकरणेनानुसन्धानप्रसङ्ग इति वाच्यम् ; साक्षिणा यदन्तःकरणावच्छेदेन यदनुभूतं तेनैवान्तःकरणेन तत् स्मर्यत इत्यतिप्रसङ्गाभावात्॥३३॥

क्षेत्रेति। एवं ज्ञानचक्षुषा क्षेत्रक्षेत्रज्ञयोरन्तरं भूतप्रकृतिमोक्षं च ये विदुस्ते परं यान्ति। समस्तेति। समस्तस्याध्यायार्थस्य क्षेत्र- ज्ञाध्यायार्थस्य उपसंहारः अर्थः प्रयोजनं यस्य सोऽयं तथोक्तः श्लोकः। क्षेत्रज्ञस्यातीन्द्रियत्वेन घटपटयोरिव क्षेत्रक्षेत्रज्ञयोरन्तरं द्रष्टुं मांसमयं लोकप्रसिद्धं चक्षुरिन्द्रियं न प्रभवतीत्यभिप्रेत्याह भगवान्—ज्ञानचक्षुषेति। आत्मप्रत्यायिकमिति। आत्मप्रत्ययजनकमित्यर्थः। भाष्यार्कप्रकाशः यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः। क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत !॥३३॥

क्षेत्रक्षेत्रज्ञयोरेवम् अन्तरं ज्ञानचक्षुषा। १. रविदृष्टान्तो हि श्रुतौ एकस्य सतः प्रकाशकत्वे, अलेपकत्वे च निबद्धः— ‘यथा ह्ययं ज्योतिरात्मा विवस्वान्’ ‘सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषै- र्बाह्यदोषैः’इत्यादौ। अतो दार्ष्टान्तिकेऽपि तथा विवक्षेति भावः। २.‘शास्त्राचार्योपदेशप्रसादजनितम्’ इति पा.। ३.‘आत्मप्रत्यायकम्’‘आत्मप्रत्यायिकम्’ इति पा.। किञ्च— यथा प्रकाशयतीति। यथा प्रकाशयति अवभासयति एकः कृत्स्नं लोकमिमं रविः सविता आदित्यः, तथा तद्वद् महाभूतादिधृत्यन्तं क्षेत्रम् एकः सन् प्रकाशयति। कः? क्षेत्री परमात्मेत्यर्थः। रविदृष्टान्तोऽत्रात्मनः उभयार्थोऽपि भवति— १रविवत् सर्वक्षेत्रेष्वेक एव आत्मा, अलेपकश्चेति॥३३॥

समस्ताध्यायार्थोपसंहारार्थोऽयं श्लोकः— क्षेत्रक्षेत्रज्ञयोरिति। क्षेत्रक्षेत्रज्ञयोः यथाव्याख्यातयोः एवं यथा- प्रदर्शितप्रकारेण अन्तरम् इतरेतरवैलक्षण्यविशेषं ज्ञानचक्षुषा २शास्त्राचार्योपदेशजनितमात्मप्रत्ययिकं३ ज्ञानं चक्षुस्तेन आनन्दगिरिकृतव्याख्या ‘न करोति न लिप्यते चे’त्यत्र द्रष्टृत्वेन दृश्यधर्मशून्यत्वं हेतुमाह— किञ्चेति। दृष्टान्तेन विवक्षितमर्थं दर्शयति— रवीति। उभय- विधमर्थमेव स्फुटयति— रविवदिति॥३३॥

अध्यायार्थं सफलमुपसंहरति— समस्तेति। विशेषं कौटस्र्ह्यपरिणामादिलक्षणम्।

[[अ. १३. श्लो. ३१-३३]] [[७३२]]

ज्ञानचक्षुषा, भूतप्रकृतिमोक्षं च भूतानां प्रकृतिः अविद्यालक्षणा अव्यक्ताख्या, तस्या भूतप्रकृतेर्मोक्षणम् अभावगमनं च ये विदुः विजानन्ति, यान्ति गच्छन्ति ते परं २परमार्थतत्त्वं ब्रह्म। न पुनर्देहमाददत इत्यर्थः॥३४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये प्रकृतिपुरुषविवेकयोगो नाम त्रयोदशोऽध्यायः॥१३॥

येन ज्ञानेनायमात्मा ब्रह्मेति निश्चयो भवति तदित्यर्थः। चक्षुवदर्थावभासकत्वाज्ज्ञाने चक्षुष्ट्वारोपः। भूतानां कार्याणां प्रकृतिः कारणं मायेत्यभिप्रायादाह— अविद्येति। अविद्या अज्ञानं लक्षणं स्वरूपं यस्याः सा। अव्यक्तमित्याख्या नाम यस्याः सा अव्यक्ताख्या। तस्या इति षष्ठी। अभावगमनं नाशापादनं तावत् ज्ञानचक्षुषा क्षेत्रात् क्षेत्रज्ञं विविच्य ज्ञात्वा पश्चात् क्षेत्रज्ञात् सकाशात् क्षेत्रं विवेचयेत्। एवं विविच्यमाने तु क्षेत्रे क्षेत्रं शनैरभावमेव प्राप्नोति, निस्तत्त्वत्वात्। क्षेत्रस्याभावापादनं च ये विदुः। यद्वा गमनं प्राप्तिमित्येवार्थः। क्षेत्राद्विवेचितं क्षेत्रं स्वयमेवाभावं गच्छतीत्यर्थः। इतीममर्थं ये विदुः कालत्रयेऽपि क्षेत्रज्ञ एक एवाहं ब्रह्मास्मि, क्षेत्रं तु कदाचिदपि नास्तीति ये विदुरिति यावत्। ते परं ब्रह्म यान्ति प्राप्नुवन्ति। नित्याप्तस्य ब्रह्मणः कथं पुनः प्राप्तिरत आह— न पुनर्देहमाददत इति। पुनर्जन्म न भजन्त इत्यर्थः। देहस्वीकारस्यैव जन्मत्वादिति भावः। संसारान्मुच्यन्त इति यावत्। विदेहकैवल्यं प्राप्य परब्रह्मस्वरूपेण वर्तन्ते, न पुनः संसारायागच्छन्तीति फलितार्थः। क्षेत्रक्षेत्रज्ञयोरन्तरदर्शनं विवेचनप्रकारश्चोक्तोऽपि पुनरुच्यतेऽलसानुग्रहार्थम्। तथाहि - दृश्यं सगुणं सक्रियं सविकारमनित्यं क्षेत्रं तद् यदिदन्तयोपलभ्यते, द्रष्टा निर्गुणो निष्क्रियो निर्विकारो नित्यः क्षेत्रज्ञः, योऽस्मिन् देहे अहमिति स्फुरत्यहङ्कारसाक्षित्वेन। स च क्षेत्रज्ञः सच्चिदानन्दरूपः। तच्च क्षेत्रमनृतजडदुःखात्मकम्। क्षेत्रमस्ति भाति प्रियं चेति व्यवहारसिद्धानां सत्ताभानानन्दानां क्षेत्रज्ञकारणधर्माणां क्षेत्रकार्ये सङ्क्रान्तानां पृथक्करणे तु क्षेत्रशब्दवाच्यं किमपि नावशिष्यते। न चैवं क्षेत्रज्ञादपि सत्तादिपृथक्करणे किमपि नावशिष्यत इति वाच्यम् ; यः पृथक्करोति तस्यैव क्षेत्रज्ञस्यावशिष्टत्वात् , तस्य च सच्चिदानन्दरूपत्वेन तस्मात् तेषां पृथक्करणायोगाच्च। तथा चैक एव क्षेत्रज्ञः अहं ब्रह्मास्मि, मयि कालत्रयेऽपि क्षेत्रं नास्ति, मिथ्यात्वात् क्षेत्रस्येति य आत्मवित् स शोकं तरति, ‘तरति शोकमात्मविदि’ति श्रुतेः। स ब्रह्म भवति ‘ब्रह्मविद् ब्रह्मैव भवती’ति श्रुतेरिति भावः। यत्तु रामानुजः - भूतप्रकृतिमोक्षं भूतमय्याः प्रकृतेर्भूतानां जीवानां प्रकृतेर्वा मोक्षसाधनममानित्वादिकमवगम्य य आचरन्ति, ते परं निर्मुक्तबन्धनमात्मानं यान्तीति, तत्तुच्छम् - ये विदुरिति मूलस्य ये विदित्वाऽऽचरन्तीत्यर्थकल्पनस्यायुक्तत्वात्। अज्ञानातिरिक्त- प्रकृतिनामकतत्त्वान्तराभ्युपगमस्य, असङ्गपुरुषस्य तत्प्रकृतिकृतसत्यसङ्गाभ्युपगमस्य, संसारदशायामिव मुक्तिदशायामपि प्रकृतिरस्ति, तत्सङ्गस्तु नास्ति पुरुषस्येति कल्पनस्य, मुक्तिदशायामपि न जीवस्य ब्रह्मभावप्राप्तिः, किन्तु स्वरूपप्राप्तिरेवेति वर्णनस्य च तदेवम् अमानित्वादिनिष्ठतया क्षेत्रक्षेत्रज्ञयाथात्म्यविज्ञानवतः सर्वानर्थनिवृत्त्या परिपूर्णपरमानन्दाविर्भावलक्षणपुरुषार्थसिद्धिरिति सिद्धम्॥३४॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने त्रयोदशोऽध्यायः॥१३॥

[आनन्दगिरिकृतव्याख्या भाष्यार्कप्रकाशः]

भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्॥३४॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे १क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः॥१३॥

१. ‘प्रकृतिपुरुषविवेकयोगः’ इति पा.। २. ’परमात्मतत्त्वं’ इति पा.।

[[७३३]]

श्रुतिस्मृतिन्यायादिविरुद्धत्वात्। न हि श्रुतौ प्रधानमिति किञ्चित् तत्त्वान्तरं श्रूयते। ‘ईक्षतेर्नाशब्दम्’ इत्यशब्दं हि तत्। श्रुत्यसिद्धत्वाद्धि तस्याशब्दत्वं व्यासेनैव प्रतिपादितम्। नापि तत्सत्त्वे श्रुत्यतिरिक्तं किञ्चित् प्रमाणं पश्यामः। अपरमार्थसाङ्ख्यबुद्धिपरिकल्पितं हि तत्। तत एवानुमानिकत्वं तस्य। तच्चानुमानिकाधिकरणे१ निराकृतं भगवता व्यासेनैव। तया च प्रकृत्या असङ्गपुरुषः संसृष्टः इति कथनं महद् विचित्रम् । न ह्यसङ्गो निरवयवः पुरुषः केनचित् संसृज्यते। संसृष्टत्वे पुनरसङ्गत्वस्वरूपस्यैव नाशप्रसङ्गात्। यदि संसार इव मुक्तावपि प्रकृतिः स्यात् तर्हि तया संसृज्येतैव पुरुषः। विभुत्वात् पुरुषस्य व्यापित्वात् प्रकृतेश्च। निरर्थकतत्सद्भावकल्पनस्य चाप्रमाणत्वात्। पुरुषस्य संसारयितृत्वं प्रकृतिसद्भावस्य फलम्। न च सत्त्वादिगुणरहिता परिशुद्धप्रकृतिर्मुक्तविषयेति वाच्यम् ; निर्गुणप्रकृतेरेवाभावात् निर्गन्धपृथिवीवत्। एवं प्रकृतिमुक्तस्य ब्रह्मभावाप्राप्तिश्च विरुद्धा, प्रकृतिविमोक्षेण तत्कार्यमहदादिसर्वोपाधिनाशात् , निरुपाधिकस्य चापरिच्छिन्नस्यात्मनः परिपूर्णचैतन्यरूपत्वेन ब्रह्मभूतत्वाच्च। यद्यात्मा सावयवः स्यात् तर्हि राहुणा चन्द्रस्येव प्रकृत्या तस्य ग्रासरूपो बन्धः स्यात्। तत्प्रयुक्तो मोक्षश्च स्यात्। सावयवत्वे चात्मनोऽनित्यत्वं स्यात्। अनित्यस्यात्मनो नित्यमोक्षो नैव युज्यते। किञ्च तव मते ईश्वरस्यैव प्रकृतिमोक्षो नास्तीति किं पुनर्जीवस्य। प्रकृतिपुरुषसंसृष्टो हीश्वरः। य ईश्वरः स्वस्यैव प्राप्तं प्रकृतिसङ्गं निवारयितुं नेष्टे, स कथमन्यस्य जीवस्य तं निराकुर्यात्? प्रकृतिमुक्तस्य वा जीवस्य प्रकृतिसंयुक्तेश्वरसङ्गो दुर्वार इतीश्वरद्वारा पुनः प्राप्तश्च मुक्तावपि जीवस्य प्रकृतिसङ्गः। पटसंयुक्तघटसंयोगाद् भूतलस्येव पटसङ्गः। न चेश्वरस्य यत्रांशे प्रकृतिसङ्गस्तत्रांशे न पुरुषसङ्गः, किन्त्वन्यांश एवेति वाच्यम् ; निरवयवेश्वरस्य निरंशस्यांशकल्पनायोगात्। सांशत्वे चानित्यत्वप्रसङ्गाद् घटादिवदीश्वरस्य। निष्कलश्रुत्या चेश्वरस्य सांशत्वं प्रतिषिद्धम् , असङ्गश्रुत्या च प्रकृत्यादिसङ्गम् ,‘एकमेवाद्वितीयम्’ इति श्रुत्या च प्रकृत्यादिद्वैतम् , तत्त्वमस्यादिश्रुत्या च जीवेश्वरद्वैतम् , अशब्दमिति सूत्रेण च प्रकृतेरज्ञानातिरिक्ततत्त्वान्तरत्वम्। ‘यो वै भूमा तदमृतम्’ इति श्रुत्या ब्रह्मण एकस्यैव नित्यत्वं सत्यत्वं च। ‘अतोऽन्यदार्तम्’ इत्यनया सर्वद्वैतस्यासत्यत्वमनित्यत्वं च। उक्तार्थप्रतिपादिकाः स्मृतयस्तु— ‘मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय’ इत्याद्याः इहैव ग्रन्थे द्रष्टव्याः। तस्माद् विरुद्धं परेषां दर्शनमग्राह्यमेव। श्रुतिस्मृत्याद्यनुगृहीतमद्वैतदर्शनमेकमेव ग्राह्यं मुमुक्षुभिरिति सर्वं शिवम्॥३४॥

  इति श्रीबेल्लङ्कोण्डोपनामकरामकविकृते

श्रीमच्छङ्करभगवद्गीताभाष्यार्कप्रकाशे प्रकृतिपुरुषविवेकयोगो नाम त्रयोदशोऽध्यायः॥१३॥

[श्रीबेल्लंकोण्डरामरायकविविरचितः भाष्यार्कप्रकाशः]

अ. १३. श्लो. ३४ ] १. द्र. ब्र.सू. १-४-१। DO NOT PRINT THIS PAGE ॐ श्रीपरमात्मने नमः